अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

भवतु वा राजादीनां लीलारूपासु प्रवृत्तिष्वपि किञ्चि­दु­द्देश्यं प्रयोजनं, तथापि न निःश्वासादिषु तथाविधं फल­मु­प­ल­भ्य­मि­त्य­नै­का­न्ति­क­त्व­ता­द­व­स्थ्य­मि­त्याह -
यथा चेति ।
दृष्टान्ते स्वभावो देहस्य प्राणा­दि­मत्त्वं, दार्ष्टान्तिके तु स्वभा­वोऽ­वि­द्येति द्रष्टव्यम् ।

अथेश्वरस्य जग­द्बि­म्ब­वि­र­चनां किमि­त्य­वि­द्या­कृ­त­ली­ला­मा­त्र­त्वे­ना­फला कल्प्यते ? फलमेव किञ्चि­त्क­ल्प्य­ता­मि­त्या­श­ङ्क्या­प्त­का­म­त्व­न्या­य­वि­रो­धा­त्प­र­मा­न­न्द­त्व­श्रु­ति­वि­रो­धाच्च नैवमित्याह -
न हीति ।

ननु लीला­दा­व­स्म­दा­दी­ना­म­क­स्मा­देव निवृत्तेरपि दर्श­ना­दी­श्व­र­स्यापि मायामय्यां लीलायां तथाभावे विनापि सम्यग्ज्ञानं संसा­र­स­मु­च्छि­त्ति­रिति, तत्राह -
न चेति ।
अनिर्वाच्या खल्वविद्या परस्येश्वरस्य स्वभावो लीलेति चोच्यते । तत्र न प्राती­ति­क­स्व­भा­वा­या­म­नु­प­प­त्ति­र­व­त­र­ती­त्यर्थः ।

यत्तु जगद्रचनाया गुरु­त­र­सं­र­म्भ­त्वा­द्भ­वि­तव्यं फलेनेति, तत्रा­स्म­द्दृष्ट्या वा तस्या गुरु­त­र­सं­र­म्भ­त्व­मी­श्व­र­दृष्ट्या वेति विकल्प्याद्ये हेतुसद्भावेऽपि प्रागु­क्त­श्रु­ति­न्या­य­वि­रो­धा­न्ना­नु­मा­न­प्र­वृ­त्ति­रि­त्य­भि­प्रेत्य द्वितीयं निरस्यति -
यद्यपीत्यादिना ।

लीलास्वपि तात्कालिकं फल­मु­द्दे­श्य­फ­ला­भा­वेऽपि भाती­त्यु­क्त­मि­त्या­श­ङ्क्याह -
यदीति ।
ईश्व­र­प्र­वृ­त्ति­र­त्रे­त्युक्ता ।

किञ्चिदिति ।
स्वकीयं परकीयं वेत्यर्थः ।

प्रयोजनाभावे वेत्यादिनोक्तं प्रत्याह -
नापीति ।

किञ्च सृष्टे­र­वि­द्या­नि­ब­न्ध­न­त्वे­ना­व­स्तु­त्वा­द्ग­न्ध­र्व­न­ग­रा­दि­भ्र­मे­ष्विव न फलापेक्षेत्याह -
न चेति ।

किञ्च ब्रह्मा­त्म­त्व­धी­प­र­त्वान्न सृष्टौ सृष्टिश्रुतीनां तात्पर्यमतः सृष्टे­र­वि­व­क्षि­त­त्वा­त्त­दा­श्रयो दोषो निर्विषयत्वान्न प्रसरतीत्याह -
ब्रह्मेति ।

प्रकृ­तो­प­यो­गि­त्वान्न तत्पु­न­रु­क्ति­रिति सूचयति -
इत्येतदपीति ॥ ३३ ॥

पूर्वसूत्रे मायामय्या लीलया ब्रह्मणः स्रष्टृ­त्व­मा­दि­ष्टम् । सम्प्रति सैव सापेक्षस्य न सम्भ­व­त्य­नी­श्व­र­त्व­प्र­स­ङ्गात् , निरपेक्षत्वे रागा­दि­म­त्त्वा­प­त्ते­रि­त्या­क्षिप्य समाधत्ते -
वैषम्येति ।

निर­व­द्या­द्ब्र­ह्मणो जगत्सर्वं वदन्समन्वयो विषयः । स किं यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन विरुध्यते न वेति यथापूर्वं सन्देहे पूर्वपक्षमाह -
पुनश्चेति ।

पुनराक्षेपस्य फलमाह -
स्थूणेति ।
जगतो ब्रह्मैव कारणमिति प्रति­ज्ञा­तोऽ­र्थ­स्त­द्दृ­ढी­क­र­ण­मा­क्षे­प­द्वा­रे­णा­धि­क­र­ण­कृ­त्य­मि­त्यर्थः । पादादिसङ्गतिफले पूर्ववदुन्नेये ।

आक्षेपं विवृण्वन् ‘वैष­म्य­नै­र्घृण्ये न’ इति सूत्रावयवं पूर्वपक्षे योजयन्नञर्थमाह -
नेश्वर इति ।

प्रश्नपूर्वकं हेतुं गृहीत्वा प्रथमं वैषम्यप्रसङ्गं प्रकृटयति -
कुत इत्यादिना ।

देवादीनामेवं वैषम्येऽपि कथमीश्वरस्य वैष­म्य­मि­त्या­श­ङ्क्याह -
इत्येवमिति ।

वैषम्येऽपि किं स्यादि­त्या­श­ङ्क्यो­क्तम् -
श्रुतीति ।
‘निष्कलं निष्क्रियम्’ इत्याद्या श्रुतिः । ‘न मे द्वेष्योऽस्ति न प्रियः', ‘बलं बलवतां चाहं काम­रा­ग­वि­व­र्जि­तम्’ इत्याद्या च स्मृतिः । स्वच्छ­त्वा­दी­त्या­दि­श­ब्देन निष्क्रि­य­त्व­नि­ष्क­ल­त्वादि गृह्यते ।

वैषम्यप्रसङ्गं प्रदर्श्य नैर्घृ­ण्य­प्र­सङ्गं दर्शयति -
तथेति ।

ब्रह्म परे­षा­म­र्था­न­र्थ­हे­तु­का­र्यस्य न कारणं, चेतनत्वे सत्यनवद्यत्वात् , विशि­ष्ट­पु­रु­ष­व­दि­त्य­भि­प्रे­त्यो­प­सं­ह­रति -
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रतिजानीते -
एवं प्राप्त इति ।

प्रश्नपूर्वकं हेतुमादत्ते -
कस्मादिति ।

व्यतिरेकद्वारा विभजते -
यदि हीति ।

नैरपेक्ष्यमेव व्याचष्टे -
केवल इति ।

उक्त­मे­वा­र्थ­म­न्व­य­मु­खे­ना­न्वा­चष्टे -
सापेक्षो हीति ।

सापेक्षत्वे सत्य­नी­श्व­र­त्वा­प­त्ति­रिति विव­क्ष­न्ना­क्षि­पति -
किमिति ।

सेवा­दि­भे­दा­पे­क्षया राजादीनां फलदानेऽपि नानीश्वरता दृष्टेति मन्वानः समाधत्ते -
धर्मेति ।

सापेक्षत्वे फलं वदन्नुक्तमेव व्यनक्ति -
अत इति ।

विषमा सृष्टि­र्ध­र्मा­दि­नि­मित्ता चेत्कृ­त­मी­श्व­रे­णे­त्या­श­ङ्क्याह -
ईश्वरस्त्विति ।

दृष्टान्तं विवृणोति -
यथा हीति ।

व्रीहि­य­वा­दि­वै­षम्यं तर्हि किं कृत­मि­त्या­श­ङ्क्याह -
व्रीहीति ।

चेतनत्वे सत्य­न­व­द्य­त्वा­दिति हेतुं व्यभि­चा­र­य­न्दा­र्ष्टा­न्ति­क­माह -
एवमिति ।
सेवा­दि­भे­दा­पे­क्षया परेषामर्थानर्थौ कुर्वति राजा­दा­व­नै­का­न्तिको हेतुरिति भावः ।

सापे­क्ष­त्व­फ­ल­मु­प­सं­ह­रति -
एवमिति ।
तथा चाग­मा­व­धा­रि­त­स्व­च्छ­त्वा­दी­श्व­र­स्व­भा­वस्य नैव भङ्गोऽस्तीति भावः ।

सापे­क्ष­स्ये­श्व­रस्य विष­म­सृ­ष्टि­हे­तुत्वे मानं पृच्छति -
कथमिति ।

सूत्रा­व­य­वे­नो­त्त­र­माह -
तथा हीति ।

स्मृतिरपि श्रौत­म­र्थ­म­नु­गृ­ह्णा­ती­त्याह -
स्मृतिरपीति ।
न च साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा प्राणिनो नयन्नीश्वरो वैषम्यादिना कथं न दुष्यतीति वाच्यम् , तज्जा­ती­य­पू­र्व­क­र्मा­भ्या­सा­त्तत्र प्रवृ­त्ता­ना­मे­वे­श्व­रस्य प्रवर्तकत्वात् , मायाविवच्च तस्य माया­म­य­सृ­ष्टि­हे­तो­र्वै­ष­म्या­दि­प्र­स­ङ्गा­भा­वा­दिति भावः ॥ ३४ ॥

दूषयति –
सदेवेति ।

द्वितीयं निरस्यति –
सृष्टीति ।
पराचीनं हि कर्म प्रथ­म­सृ­ष्टे­श्च­र­म­सृ­ष्टेर्वा हेतुरिति विकल्प्याद्ये

सापे­क्ष­त्व­मा­क्षिप्य समाधत्ते -
न कर्मेति ।

चोद्यं व्याकु­र्व­न्प्रा­चीनं पराचीनं वा कर्मा­पे­क्ष­मा­ण­मिति विकल्प्याद्यं पर­स्प­रा­श्र­य­त्व­मुक्त्वा द्वितीयं प्रत्याह -
अत इति ।
देवा­दि­वै­चि­त्र्या­दूर्ध्वं कर्मवैचित्र्ये सति तद­पे­क्ष­ये­श्व­रस्य प्राणिषु सुखा­दि­वै­चि­त्र्य­नि­र्मा­तृ­त्वेऽपि प्राथ­मि­क­वि­चि­त्र­सृ­ष्टि­हे­त्व­भा­वा­त्त­दै­क­रूप्यं स्यादित्यर्थः ।

सूत्रावयवं व्याकु­र्वं­न्नु­त्त­र­माह -
नैष दोष इति ।

तदेव स्फोरयति -
भवेदित्यादिना ।
सृष्टेरैकरूप्यं संसारस्य सादित्वेन नाना­हे­त्व­भा­वा­द्भ­वति । तस्य त्वनादित्वे पूर्व­पू­र्व­क­र्म­वै­चि­त्र्य­व­शा­दु­त्त­रो­त्त­र­वि­चि­त्र­सृ­ष्टि­सि­द्धि­रि­त्यर्थः ॥ ३५ ॥

सिद्धवदुक्तस्य संसा­रा­ना­दि­त्वस्य सम­र्थ­ना­र्थ­मु­त्त­र­सू­त्र­मु­त्था­प­यति -
कथमिति ।

सूत्रं व्याकरोति -
उपपद्यते चेति ।

उपपत्तिमेव मोक्ष­का­ण्ड­प्र­मा­ण्या­नु­प­प­त्ति­ल­क्षणां विवृणोति -
आदिमत्त्व इति ।

अन्यथा कर्म­का­ण्ड­प्रा­मा­ण्या­नु­प­प­त्तेश्च संसा­र­स्था­ना­दि­त्व­मा­दे­य­मि­त्याह -
अकृतेति ।
अननुष्ठिते कर्मणि फलप्राप्तौ विधि­नि­षे­ध­शा­स्त्रा­न­र्थ­क्य­मिति भावः ।

सुखादिवैषम्यस्य कर्म­नि­मि­त्त­त्वा­भा­वेऽपि निमित्तान्तरं भविष्यतीति चेत्त­त्कि­मी­श्वरः किंवाऽविद्या अथवा शरीरमिति विकल्प्याद्यं दूषयति -
नचेति ।

उक्तम् ।
‘ईश्वरस्तु पर्जन्यवत्’ इत्यादाविति शेषः ।

द्वितीयेऽपि केवलाविद्या वैषम्यहेतुरुत रागाद्यपेक्षेति विकल्प्याद्यं प्रत्याह -
नचाविद्येति ।
स्वापा­दा­व­द­र्श­ना­दिति भावः ।

कल्पान्तरे संसा­र­स्था­ना­दित्वं दुर्वारमिति मत्वाह -
रागादीति ।
रागद्वेषमोहा रागादयः । ते च पुरुषं दुःखादिभिः क्लिश्यन्तीति क्लेशास्तेषां वासनाः कर्म­प्र­वृ­त्त्य­नु­गु­णा­स्ता­भि­रा­क्षिप्तं धर्मादिलक्षणं कर्म तदपेक्षाऽविद्या स्वाश्रये सुखादिवैषम्यं करोति । अविद्या खल्व­ना­दि­र­नि­र्वाच्या चिन्मात्रे प्रतीचि वर्तमाना तत्र भ्रान्ति­मु­प­न­यति, सा च शोभ­ना­शो­भ­ना­ध्या­स­रूपा रागद्वेषद्वारा पुण्यापुण्ये निर्वर्तयति, ते च विचित्रे सुखदुःखे सञ्चिनुत इत्य­ना­द्य­वि­द्यायाः परम्परया वैषम्यहेतुत्वे संसा­र­स्या­ना­दि­त्व­मा­व­श्य­कम् , उक्त­वि­भ्र­मा­दे­रेव संसारत्वात्तस्य च प्रवा­ह­रू­पे­णा­ना­दि­त्वा­दिति भावः ।

तृतीयं निरस्यति -
नचति ।

अस्तु तर्हि कर्मनिबन्धनं शरीरं वैषम्यकारणं, तत्राह -
नच शरीरमिति ।

कथं तर्हि परस्पराश्रयत्वं परिहर्तुं पार्यते, तत्राह -
अनादित्वे त्विति ।
उपपत्तेः हेतुफलभावस्येति शेषः ।

संसा­र­स्या­ना­दि­त्व­सा­ध­न­मु­प­प­त्ति­र­नु­ग्रा­ह्य­मा­ना­भावे न तदु­प­पा­द­यि­तु­म­ल­मि­त्या­शङ्क्य सूत्रावयवं व्याकरोति -
उपलभ्यते चेति ।

संसा­रोऽ­ना­दि­रि­त्ये­वं­वा­दिन्यौ श्रुतिस्मृती नैव दृश्येते, तत्क­थ­मि­द­मी­दृ­श­मि­त्या­शङ्क्य श्रौतं लिङ्गं संसा­र­स्या­ना­दि­त्व­सा­ध­क­मा­द­र्श­यति -
श्रुतौ तावदिति ।

शारीरस्यात्मनः सर्गप्रमुखे प्राण­धा­र­ण­नि­मि­त्तेन जीवशब्देन परदेवतायाः परा­मृ­श्य­मा­न­त्वेऽपि कुतः संसा­र­स्या­ना­दि­त्व­मि­त्या­श­ङ्क्याह -
आदिमत्त्वे त्विति ।
प्राग­न­व­धा­रि­त­प्रणः । सन्नात्मा शारीर इति शेषः ।

ननु भाविनीं वृत्ति­मा­श्रि­त्या­त्मनि जीवशब्दो ‘गृहस्थः सदृशीं भार्याम्’ इतिवद्भविष्यति, नेत्याह -
नचेति ।

संसा­र­स्या­ना­दित्वे श्रौतं लिङ्गान्तरमाह -
सूर्येति ।

श्रुतौ स्मृतौ चोपलभ्यते संसा­र­स्या­ना­दि­त्व­मिति प्रतिज्ञाय श्रौत­मु­प­ल­म्भ­मु­प­दर्श्य स्मार्त­मु­प­ल­म्भ­मु­प­द­र्श­यति -
स्मृताविति ।
अस्य संसारवृक्षस्य परिकल्पितस्य रूपं पार­मा­र्थि­क­म­धि­ष्ठानं परं ब्रह्म तत्तथा घटा­दि­व­त्प्रा­कृ­तै­र्व्य­व­हा­र­भूमौ नोपलभ्यते । न चान्तोऽ­व­सा­न­म­न्त­रेण ब्रह्म­वि­द्या­मस्य दृश्यते । आदि­श्चा­स­त्त्वा­दे­वास्य नावसीयते । सम्प्रतिष्ठा मध्यं चास्य न प्रतिभाति । अनि­र्वा­च्य­त्वा­दि­त्यर्थः ।

श्रुति­स्मृ­ति­सि­द्धेऽर्थे पौराणिकीं संमतिमाह -
पुराणे चेति ॥ ३६ ॥

पूर्वाधिकरणे कर्म­व­शा­दी­श्व­रस्य विष­म­सृ­ष्टि­हे­तु­त्व­मुक्तं तथापि तस्य सगु­ण­त्व­मु­पा­दा­न­त्वा­न्मृ­दा­दि­व­दि­त्या­श­ङ्क्याह -
सर्वधर्मेति ।

निर्गुणस्य ब्रह्मणो जग­दु­पा­दा­न­त्व­वा­दि­स­म­न्वयो विषयः । स किं यन्निर्गुणं न तदुपादानं यथा गन्ध इति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे वृत्तमनूद्य सङ्गतिमाह -
चेतनमित्यादिना ।

निर्गुणस्य गन्ध­व­द­नु­पा­दा­न­त्वा­द्ब्र­ह्मणः सगुणत्वे मृदा­दि­व­दु­पा­दा­न­त्वेन प्राप्ते, विव­र्ता­धि­ष्ठा­न­त्व­स्या­त्रो­पा­दा­न­त्वा­त्तस्य न निर्गुणेऽपि जात्या­दा­व­नि­त्य­त्वा­द्या­रो­प­व­द­वि­रो­धा­द्युक्तं निर्गुणस्यापि ब्रह्मणो जग­दु­पा­दा­न­त्व­मिति राद्धा­न्त­म­भि­स­न्धाय सूत्राक्षराणि व्याचष्टे -
यस्मादिति ।
पादा­दि­स­ङ्ग­ति­च­तुष्ट्यं फलं च पूर्वो­त्त­र­प­क्ष­यो­र्य­था­पू­र्व­म­व­धे­यम् ।

यद्यपि लोके सर्वज्ञत्वं कस्यचित्कारणस्य धर्मो न दृश्यते, तथापि कुलालादौ मृदा­दि­प्रे­र­क­त्व­द­र्श­ना­द्ब्र­ह्म­ण्यपि नियन्तरि तेन भवितव्यं, तस्य सर्व­प्रे­र­क­त्वस्य श्रौत­त्वा­द­र्था­देव सर्व­ज्ञ­त्व­सि­द्धि­रि­त्याह -
सर्वज्ञमिति ।

एवं ब्रह्मणि सर्व­श­क्ति­म­त्त्व­मपि शक्य­मु­प­पा­द­यि­तु­मिति मत्वाह -
सर्वशक्तीति ।
तेनो­पा­दा­न­त्व­मु­प­पा­दित्तं सर्वज्ञत्वेन निमित्तत्वमिति भेदः ।

निर्गु­ण­त्वा­दि­प्र­यु­क्त­स­र्वा­नु­प­प­त्ति­श­ङ्को­प­शा­न्तये विशिनष्टि -
महामायं चेति ।
एतेन ब्रह्म­ण्य­न­व­च्छिन्नं मायाऽ­वि­द्या­दि­श­ब्दि­त­म­नि­र्वा­च्य­म­ज्ञानं कार­ण­त्वा­दि­स­र्व­व्य­व­हा­र­नि­र्वा­ह­क­म­स्ती­त्यु­क्तम् ।

यस्मा­दि­त्य­स्या­पे­क्षितं पूर­य­न्पा­दा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
स्मृति­न्या­य­वि­रोधः समन्वयस्य नास्तीति सिद्धमिति वक्तुमितिशब्दः ॥ ३७ ॥

ब्रह्मणि कार­ण­त्वा­नु­गु­णेषु सर्व­ज्ञ­त्वा­दि­षू­क्तेषु प्रधानेऽपि तदु­प­प­त्ति­मा­श­ङ्क्यो­क्तम् -
रच­ना­नु­प­प­त्ते­श्चेति ।
पूर्वपादेन समन्वये वादि­भि­रु­त्प्रे­क्षिता विलक्षणत्वादयो दोषा निरस्ताः । सम्प्रति परपक्षाणां भ्रान्तिमूलत्वं वक्तुं पादा­न्त­र­मा­र­भ्यते ।

ननु तर्क­शा­स्त्र­व­दस्य शास्त्रस्य तर्क­प्र­धा­न­त्वा­भा­वा­द्वे­दा­न्त­वा­क्य­प्र­धा­न­त्वा­त्तेषां ब्रह्मणि तात्पर्यमेवात्र निरूपणीयम् , तद­पे­क्षि­त­न्या­य­जा­तस्य समन्वयाध्याये सिद्धत्वात् , पर­प­क्ष­बा­ध­क­त­र्को­क्तिस्तु नेहोपयुज्यते, तत्किमनेन पादेन, तत्राह -
यद्यपीति ।

पर­प­क्ष­प्र­ति­क्षे­प­म­न्त­रेण स्वप­क्षा­व­धा­र­णा­यो­गा­त्त­न्नि­रा­क­र­ण­मपि प्रकृतोपयोगीति पादारम्भं समर्थयते -
तथापीति ।

स्वपक्षं निर्धारयितुं परपक्षो निरा­चि­की­र्षि­त­श्चे­त्त­देव तर्हि प्रथमं किमिति न कृत­मि­त्या­श­ङ्क्याह -
वेदान्तेति ।

पर­प­क्ष­प्र­ति­षे­ध­स्यापि तद­र्थ­त्व­म­व­शि­ष्ट­मि­त्या­शङ्क्य कर­ण­स्ये­ति­क­र्त­व्य­ता­रू­पा­द­न्त­र­ङ्ग­त्वा­द्वा­क्य­नि­रू­प­ण­स्यैव प्राथम्यमित्याह -
तद्धीति ।
सम्य­ग्धी­दा­र्ढ्याय स्वप­क्ष­स्था­प­ना­न­न्तरं पर­प­क्ष­नि­र­स­न­मु­चि­त­मिति निग­म­यि­तु­मि­ति­शब्दः ।

वीतरागाणां मोक्ष­मा­णा­ना­म­पे­क्षि­त­मो­क्ष­हे­तु­तया तत्त्व­ज्ञा­न­मा­त्र­मु­प­युक्तं, पर­प­क्षा­धि­क्षे­पस्तु वीत­रा­ग­ता­वि­रो­धि­त्वा­द­युक्त इति शङ्कते -
नन्विति ।

मुमुक्षूणां मोक्षौपयिकत्वेन सम्य­ग्धी­रे­वो­प­यु­क्ते­त्यु­क्त­म­ङ्गी­क­रोति -
बाढमिति ।

किमिति तर्हि परपक्षनिराकरणं पर­वि­द्वे­ष­क­र­ण­म­भ्यु­प­ग­तम् , तत्राह -
तथापीति ।
साङ्ख्या­दि­द­र्श­नानां महा­ज­न­प­रि­गृ­ही­त­त्वा­त्प्र­धा­ना­दि­का­र­ण­प­र­तया मह­त्त्वा­त्त­त्त्व­ज्ञा­ना­प­दे­शेन प्रवृ­त्त­त्वा­त्त­दी­या­नु­मा­नानां सर्व­ज्ञ­प्र­णी­त­तया तुल्यबलत्वेन वेदा­न्तै­र­बा­धा­द्व­स्तुनि विक­ल्पा­नु­प­प­त्ते­स्त­द­नि­रासे तेष्वपि सम्य­ग्धी­हे­तु­त्व­भ्रमः स्यात् । अतः सम्य­ग्धी­दा­र्ढ्याय तन्निराकरणं कर्तव्यमिति तर्कपादारम्भः सम्भवतीत्यर्थः ।

पुनरुक्तिं शङ्कते -
नन्विति ।

प्रधा­न­प­क्ष­नि­रा­क­रणं सूत्रकारस्य विव­क्षि­त­मि­त्य­त्रा­भ्या­स­लि­ङ्ग­माह -
कामाच्चेति ।

तथापि पर­मा­ण्वा­दि­वा­द­व्यु­दा­सार्थं पादारम्भो भवि­ष्य­ती­त्या­श­ङ्क्याह -
एतेनेति ।

पूर्वं प्रधानादीनां श्रुतिमत्त्वं निरस्तमिदानीं युक्तिमत्त्वं निरस्यते तेषामिति विशेषं वदन्नुत्तरमाह -
तदुच्यत इति ।
स्वपक्षे परै­रु­द्भा­वि­त­दो­ष­नि­रा­सा­न­न्तरं स्वतन्त्राणां परकीययुक्तीनां स्वतन्त्राभिरेव युक्तिभिः स्वपक्षं स्थापयितुं निरसनं कार्यमिति पादा­न्त­र­म­र्थ­व­दिति पादसङ्गतिरुक्ता । साङ्ख्य­यु­क्ति­नि­रा­सस्य समन्वये तद्वि­रो­ध­नि­र­स­न­द्वारा तद्दा­र्ढ्या­र्थ­त्वा­द­स्या­धि­क­र­णस्य पादादिसङ्गतयः ।

अत्र पूर्वपक्षे साङ्ख्य­यु­क्ति­वि­रो­धा­द­सिद्धिः समन्वयस्य फलति, सिद्धान्ते तु तद­वि­रो­धा­त्त­त्सिद्धिः । तत्र प्रधानमचेतनं जगदुपादानमिति साङ्ख्य­रा­द्धान्तो विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -
तत्रेति ।

साङ्ख्यी­य­म­नु­मानं वक्तुं व्याप्तिमाह -
यथेति ।
ये यत्स्व­भा­वा­न्वि­तास्ते तत्स्व­भा­व­व­स्तु­प्र­कृ­तिकाः, यथा घटादयो मृत्स्व­भा­वा­न्वि­ता­स्त­त्प्र­कृ­तिका इत्यर्थः ।

पक्षधर्मतां हेतो­र्द­र्श­य­न्न­नु­मा­न­माह -
तथेति ।
सर्वं कार्यं सुख­दुः­ख­मो­हा­त्म­क­व­स्तु­प्र­कृ­तिकं, तत्स्व­भा­वा­न्वि­त­त्वात् , घटादिवदित्यर्थः ।

ननु सर्वस्य कार्यस्योपादानं सुख­दुः­ख­मो­हा­त्मकं किञ्चि­द्भ­वि­ष्यति तथापि कथं प्रधानसिद्धिः, तत्राह -
यत्तदिति ।

सुख­दुः­ख­मो­हा­त्म­तैव सत्त्व­र­ज­स्त­मो­रू­प­तेति मन्वानो विशिनष्टि -
तत्त्रिगुणमिति ।

कार्यमचेतनं दृष्ट्वा तत्कारणमपि तादृ­गे­वा­नु­मे­य­मि­त्याह -
मृद्वदिति ।

किमर्थं तत्परिणमते, तत्राह -
चेतनस्येति ।
अर्थशब्दो भोगापवर्गार्थः ।

अचेतनस्य प्रयो­ज­न­प­रि­ज्ञा­ना­भा­वा­द­प्र­वृत्तिः ‘प्रयो­ज­न­म­नु­द्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्याया­दि­त्या­श­ङ्क्याह -
स्वभावेनेति ।
विचित्रो विविधो मह­द­ह­ङ्का­रा­दि­वि­का­र­स्त­द्रू­पे­णेति यावत् ।‘भेदानां परि­मा­णा­त्स­म­न्व­या­च्छ­क्तितः प्रवृत्तेश्च । कार­ण­का­र्य­वि­भा­गा­द­वि­भा­गा­द्वै­श्व­रू­प्यस्य’ इत्य­व्य­क्त­सि­द्धि­हे­तुषु परोक्तेषु समन्वयाख्यं हेतु­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

हेत्व­न्त­रा­ण्य­व­ता­र­यति -
तथेति ।
भिद्यन्त इति भेदा विकारास्तेषां परिमाणमियत्ता, ततो लिङ्गत्तदेव प्रधानमनुमिमते । विम­त­म­वि­भ­क्तै­क­व­स्तु­प्र­कृ­तिकं, परिमितत्वात् , घटादिवत् । प्रवृ­त्ति­श­क्ति­म­त्त्वा­दपि तदेव प्रधा­न­म­नु­मि­न्वन्ति । विमतं जडप्रकृतिकं सादित्वे सति प्रवृ­त्ति­श­क्ति­म­त्त्वात् , रथादिवत् । सादि­त्वा­त्प्र­कृ­ति­मा­त्र­सिद्धौ तद्वि­शे­ष­सि­द्ध्यर्थं विशेषणम् । कार­ण­का­र्य­वि­भा­गा­दपि लिङ्गात्तदेव निश्चिन्वन्ति । यत उत्पद्यते तत्कारणं यच्चोत्पद्यते तत्का­र्य­मि­त्ये­त­यो­र्लो­क­प्र­सि­द्ध्यो­र्वि­भागः । स च समयोरेव दृष्टः । तथाच जगत्प्रकृती तुल्यस्वभावे, प्रकृ­ति­वि­का­र­स­म्ब­न्ध­स­म्ब­न्धि­त्वात् , मृद्धटवत् । वैश्वरूप्यं विचि­त्र­ना­ना­रू­पत्वं तस्या­वि­भा­गा­द­वि­भ­क्त­ज­ड­व­स्तु­प्र­कृ­ति­ग­म­क­त्वा­दपि तदे­वा­ध्य­व­स्यन्ति । विम­त­मे­क­ज­ड­व­स्तु­प्र­कृ­तिकं, विचि­त्र­र­च­ना­त्म­क­त्वात् , एक­बी­ज­प्र­सू­ता­ङ्कु­र­पु­ष्प­फ­ला­दि­व­दि­त्यर्थः ।

समन्वयस्य साङ्ख्य­यु­क्ति­वि­रो­धा­द­स­म्भवे प्राप्ते सिद्धान्तयति -
तत्रेति ।

यत्त्व­नु­मा­नै­र­चे­त­न­प्र­कृ­तिकं जगदिति तत्रा­चे­त­न­प्र­कृ­ति­क­त्व­मात्रं जगतः साध्यं स्वत­न्त्रा­चे­त­न­प्र­कृ­ति­कत्वं वा । प्रथमे सिद्धसाधनम् , ईश्व­रा­धि­ष्ठि­त­त्रि­गु­णा­त्म­क­मा­याया जग­त्प्र­कृ­ति­क­त्वा­व­ग­मात् । द्वितीये विरुद्धता सत्प्र­ति­प­क्ष­सा­ध­नता चेति मत्वाह -
यदीति ।
स्वतन्त्रमचेतनं जग­दु­पा­दा­न­मे­त­दि­त्यु­क्तम् ।

दृष्टान्तस्य साध्य­वि­क­ल­ता­म­भि­स­न्धा­यो­क्तम् -
नाचेतनमिति ।

स्वातन्त्र्यमेव व्याचष्टे -
चेतनेति ।

यादृ­च्छि­क­वा­यु­ज­ला­दि­भू­ता­न्त­र­स­म्प­र्का­धी­न­तया कार्य­मा­त्रो­त्प­त्ता­वपि जला­ह­र­णा­दि­स­म­र्थ­घ­टा­दि­का­र्य­ज­न­कत्वं चेत­ना­न­धि­ष्ठि­तस्य मृदा­दे­र्ना­स्तीति मन्वानो विशिनष्टि -
विशिष्टेति ।

अधुना विरुद्धतां सप्रतिसाधनतां च दर्श­य­न्व्या­प्ति­माह -
गेहेति ।
यद्धि विचित्रं कार्यं तन्न स्वत­न्त्रा­चे­त­न­प्र­कृ­तिकं यथा गृह­प्रा­सा­दा­दी­त्यर्थः ।

विचि­त्र­का­र्य­त्वस्य पक्ष­ध­र्म­ता­मा­द­र्श­यति -
तथेति ।

जगद्विविधं बाह्य­मा­ध्या­त्मिकं च । बाह्यं पृथिव्यादि । तद्विशिनष्टि -
नानेति ।
नानाविधं कर्म शुभाशुभं व्यामिश्ररूपं, अस्य फलं सुखं दुःखं च, तदुपभोगयोग्यम् , साधनमित्यर्थः ।

आध्यात्मिकं देहा­दि­ज­ग­द्वि­शि­नष्टि -
नानेत्यादिना ।
देव­ति­र्य­ङ्म­नु­ष्य­त्वाद्या नानाविधा जात­य­स्ता­भि­र­न्वि­तम् , तासा­म­धि­ष्ठा­न­मि­त्यर्थः ।

तस्य चेत­न­कृ­त­त्व­स­म्भा­व­ना­र्थ­माह -
प्रतिनियतेति ।

प्रतिनियता अवयवविन्यासा यत्र देहादौ तत्तथोक्तम् । देहा­द्या­श्र­य­स्यै­वा­त्मनः सुखा­द्य­नु­भ­वा­त्त­द­धि­ष्ठा­नत्वं देहा­दे­रौ­प­चा­रि­क­मिति मत्वोक्तम् -
अनेककर्मेति ।

विशि­ष्ट­र­च­ना­त्म­कतां जगतो दर्शयति -
प्रज्ञा­व­द्भि­रिति ।
तेन क्षेत्र­ज्ञा­न­धि­ष्ठि­त­प्र­धा­न­का­र्यत्वं जग­तोऽ­र्था­द­पा­स्तम् ।

विमतं न स्वत­न्त्रा­चे­त­न­कार्यं, विचि­त्र­का­र्य­त्वात् , विशि­ष्ट­र­च­ना­त्म­क­त्वाद्वा, विशि­ष्ट­शि­ल्पि­नि­र्मि­त­प्रा­सा­दा­दि­व­दि­त्य­नु­मा­न­माह -
कथमिति ।

किञ्च न प्रधानं जगत्कारणं, केवलाचेतनत्वात् , लोष्टवदित्याह -
लोष्टेति ।

किञ्च विमतं विशि­ष्ट­चे­त­ना­धि­ष्ठि­त­मेव स्वकार्यकरम् , अचेतनत्वात् , मृदादिवदित्याह -
मृदादिष्वपीति ।

ननु दृष्टा­न्त­ध­र्मि­ण्य­चे­तनं तावदुपादानं दृष्टं तत्र चेत­न­प्र­यु­क्तत्वे दृष्टेऽपि तत्प्रयुक्तत्वं बहि­र­ङ्ग­त्वा­द­प्र­यो­ज­क­म­चे­त­न­त्व­मा­त्र­मु­पा­दा­न­ग­त­म­न्त­र­ङ्ग­त्वा­त्प्र­यो­ज­कम् । तथा च यथा निषि­द्ध­त्व­प्र­युक्ता व्याप्ति­र­ध­र्म­त्वस्य हिंसा­त्वेऽ­ध्य­स्यते तथा विशि­ष्ट­र­च­ना­त्म­क­त्वा­दा­वे­कत्र साधने प्रकृ­ति­ग­ता­चे­त­न­त्व­चे­त­ना­धि­ष्ठि­त­त्व­सा­ध्य­द्व­य­व­त्य­न्त­र­ङ्गा­चे­त­न­त्व­प्र­युक्ता हेतु­सा­ध्य­यो­र्व्या­प्ति­र्ब­हि­र­ङ्ग­चे­त­ना­धि­ष्ठि­त­त्वेऽ­ध्य­स्तेति कुतो जग­त­श्चे­त­ना­धि­ष्ठि­ता­चे­त­न­प्र­कृ­ति­क­त्व­मत आह -
न चेति ।
नान्त­र­ङ्ग­ब­हि­र­ङ्ग­त्व­कृते व्याप­क­त्वा­व्या­प­कत्वे किं त्वव्य­भि­चा­र­व्य­भि­चा­र­कृते । महा­न­सा­दि­स्व­रू­प­स्या­न्त­र­ङ्ग­स्यापि व्यभि­चा­रा­द्धू­म­वत्त्वं प्रत्य­व्या­प­क­त्वात् , बहिरङ्गस्यापि वह्नि­सं­यो­ग­स्या­व्य­भि­चा­रा­द्व्या­प­क­त्वा­दिति भावः ।

किञ्च मृदा­दि­ग­त­चे­त­न­प्र­यु­क्त­त्वस्य जग­त्प्र­कृ­ता­व­नु­प­गमो माना­न्त­र­वि­रो­धाद्वा तद­नु­ग्र­हा­भा­वा­द्वेति विकल्प्याद्यं दूषयति -
न चैवमिति ।
मृदा­दि­लौ­कि­क­प्र­कृ­तिषु दृष्ट­चे­त­न­प्र­यु­क्त­त्वस्य जग­त्प्र­कृ­ता­व­भ्यु­प­गमे सतीति यावत् ।

द्वितीयं प्रत्याह -
प्रत्युतेति ।

सम्प्रति साध­न­त्वा­दि­फ­ल­मु­प­सं­ह­रति -
अत इति ।

पादस्याद्ये सूत्रे हेत्व­न्त­रा­नु­क्ति­परे चश­ब्दा­नु­प­प­त्ति­रि­त्या­श­ङ्क्याह -
अन्वयादीति ।
नाचेतनं जग­त्का­र­ण­म­नु­मा­त­व्य­मिति पूर्वेण हेत्वन्तरं सम्बध्यते ।

ननु सर्वस्यापि कार्यस्य यथायथं सुखा­दि­व्य­ञ्ज­क­त्वेन तद­न्वि­त­त्वा­नु­भ­वा­त्क­थ­म­न्व­या­नु­प­पत्तिः, तत्राह -
न हीति ।

प्रत्य­क्ष­वि­रु­द्ध­तया काला­त्य­या­प­दि­ष्ट­त्वा­च्चा­युक्तः सम­न्व­य­हे­तु­रि­त्याह -
सुखादीनामिति ।

किञ्च शब्दादयो न सुखाद्यात्मानः, तन्नि­मि­त्त­त्वात् , यद्यन्निमित्तं न तत्तदात्मकं, यथा कुलालादि कुम्भा­दि­नि­मित्तं न तदात्मकमिति प्रत्यनुमानमाह -
तन्नि­मि­त्त­त्वेति ।

किञ्च शब्दा­द्यु­प­ल­भ­मा­नानां प्रत्ये­क­म­प­र्या­येण सुख­दुः­ख­मो­ह­प्र­ती­त्य­भा­वा­द्यो­ग्या­नु­प­ल­ब्धि­वि­रु­द्ध­म­नु­मा­न­मि­त्याह -
शब्दादीति ।
भावना तत्त­ज्जा­ति­योग्या वासना तद्वि­शे­षा­दु­ष्ट्रा­दीनां कण्टकादौ सुखा­दि­द­र्श­ना­त्स्वतः सुखा­दि­रू­प­ता­भा­वा­द्रू­पा­दीनां सामान्यादीनां च द्रव्ये­ष्व­नु­ग­त­ना­म­त­दु­पा­दा­न­त्वा­द­नै­का­न्ति­कश्च समन्वयः । तस्मादनुपपत्तिः सिद्धेत्यर्थः ।

आदिशब्दोपात्तां परि­मि­त­त्वा­नु­प­पत्तिं कथयति -
तथेति ।

तस्याः स्फुटीकरणार्थं परो­क्त­म­नु­मा­न­म­नु­व­दति -
परिमितानामिति ।

अवि­भ­क्त­मे­क­म­नु­गतं वस्तु संसर्गशब्देन लक्ष्यते । देशतो वा कालतो वा वस्तुतो वा परिमितत्वम् । आद्ये भागा­सि­द्धि­रा­का­शा­दि­ष्व­भा­वात् । द्वितीये स्वरूपासिद्धिः, पञ्च­विं­श­ति­त­त्त्वा­ति­रि­क्त­का­ला­न­भ्यु­प­ग­मात् । न च कारणमेव केनचिदुपाधिना कालशब्दवाच्यं, तथा सति परिमितत्वस्य तद्व्या­प्य­त्वस्य पुरु­षे­ष्व­नै­का­न्ति­क­त्वा­दि­त्य­भि­प्रेत्य तृतीयं प्रत्याह -
सत्त्वेति ।

संस­र्ग­पू­र्व­क­त्व­प्र­सङ्ग इति ।
गुणानां संसृ­ष्टा­ने­क­व­स्तु­प्र­कृ­ति­क­त्व­प्र­स­क्ति­रि­त्यर्थः ।

प्रकृ­ति­वि­का­र­तु­ल्य­स्व­भा­वा­नु­मा­नस्य प्रत्य­नु­मा­न­वि­रो­ध­माह -
कार्येति ।
विमतं न केव­ला­चे­त­न­पू­र्वकं, कार्यत्वात् , सम्प्र­ति­प­न्न­व­दि­त्यर्थः ॥ १ ॥

यत्तु ‘शक्तितः प्रवृत्तेश्च’ इति, तत्राह -
प्रवृत्तेश्चेति ।
प्रवृ­त्ते­श्चा­नु­प­प­त्ते­र्ना­नु­मा­निकं कारणमिति योजना ।

यद्यपि स्वतन्त्रस्य कारणस्य प्रवृत्तिरत्र निरस्यते तथापि तुल्यन्यायतया कार्यस्यापि सा निरस्तैव भवतीति ‘शक्तितः प्रवृत्तेश्च’ इत्यस्य हेतो­र्वि­रु­द्ध­तो­प­द­र्श­न­मि­द­मि­त्या­श­य­वा­नाह -
आस्तामिति ।

का सा रचनार्था प्रवृ­त्ति­र्यस्याः संप्र­त्य­नु­प­प­त्ति­रु­प­न्य­स्यते, तामाह -
साम्येति ।

नन्वेषैव रचना न पुना रच­ना­र्थे­त्या­श­ङ्क्याह -
सत्त्वेति ।

तस्य रचनार्थत्वं स्पष्टयति -
विशिष्टेति ।
न हि साम्यावस्थायां प्रधानस्य विचि­त्र­वि­का­र­र­च­ना­भि­मु­ख्येन प्रवृ­त्ति­र­व­क­ल्पते, तथा च गुण­वै­ष­म्या­प­त्ते­र्भ­वति रच­ना­र्थे­त्या­स्थे­य­मि­त्यर्थः ।

विमतं न प्रवृ­त्ति­श­क्ति­मत् , केवलाचेतनत्वात् , संमतवदित्याह -
सापीति ।

दृष्टान्तस्य साध्य­वै­क­ल्य­मु­द्ध­रति -
न हीति ।

तेषु स्वतन्त्रेषु प्रवृ­त्त्य­भा­वेऽपि प्रधाने तथाविधे सा स्यादिति व्यव­स्था­मा­श­ङ्क्याह -
दृष्टाच्चेति ।
अचेतनं मृदादि चेतनानधिष्ठितं प्रवृ­त्ति­श­क्ति­शून्यं दृष्टं, ततश्चादृष्टे प्रधानेऽपि स्वतन्त्रे प्रवृ­त्ति­श­क्ति­रा­हि­त्या­मिति कल्पनाया दृष्टा­नु­सा­रि­त्वा­दि­त्यर्थः ।

अनुमानफलं निगमयति -
अत इति ।
सम­न्व­या­द्य­नु­प­पत्तिं दृष्टा­न्त­यि­तु­म­पि­शब्दः ।

अचेतनस्य प्रवृत्तिं प्रतिषेधता केवलचेतनस्य वा तस्यै­वा­चे­त­न­सं­यु­क्तस्य वा प्रवृ­त्ति­र्वि­व­क्षि­तेति विकल्प्याद्यं दूषयन्नाशङ्कते -
नन्विति ।

केवलस्य चेतनस्य प्रवृ­त्ति­र­दृ­ष्टे­त्ये­त­द­ङ्गी­क­रोति -
सत्यमिति ।

केव­ल­स्या­चे­त­न­स्यैव प्रवृत्तिः स्यादि­त्या­श­ङ्क्याह -
तथापीति ।
चेत­न­मा­त्र­स्या­दृ­ष्टापि प्रवृ­त्ति­रु­भ­य­स­म्ब­न्धा­दु­त्प­द्य­माना किमि­त्य­चे­त­ना­धीना, चेतनाधीनैव किं न स्यादित्यर्थः ।

उभ­य­स­म्ब­न्धा­त्प्र­वृ­त्त्यु­त्प­त्ता­वपि चेतनस्य तदा­श्र­य­त्वा­द­र्श­ना­द­चे­त­न­स्यैव तद्द­र्श­ना­त्त­स्यैव प्रवृत्तिरिति मन्वानो द्वितीयं निरा­कु­र्व­न्ना­श­ङ्कते -
न त्विति ।
तुशब्दश्चेतनस्य जगत्सर्गे प्रवृत्तिरिति मत­व्या­वृ­त्त्यर्थः । सर्वा प्रवृ­त्ति­र­चे­त­ना­श्र­यैव दृष्टा न तु चेतनाश्रया तन्न सिद्धा­न्त­सि­द्धि­रि­त्यर्थः ।

तन्न प्रश्नपूर्वकं सिद्धान्ती गूढा­भि­स­न्धि­र्वि­मृ­शति -
किं पुनरिति ।
केवलस्य चेतनस्याचेतनस्य वा प्रवृ­त्त्य­द­र्श­न­द­शा­या­मिति सप्तम्यर्थः ।

यस्मि­न्नि­त्य­चे­त­नस्य रथादेरुक्तिः । तस्येति संयो­गि­न­श्चे­त­न­स्या­भि­धा­नम् । तत्र साङ्ख्यो ब्रूते -
नन्विति ।

युक्तत्वे हेतुमाह -
उभयोरिति ।
प्रवृ­त्ति­त­दा­श्र­य­यो­रिति यावत् ।

आत्मनोऽपि प्रत्य­क्ष­त्वा­त्प्र­वृ­त्ति­त­दा­श्र­य­यो­स्तुल्यं प्रत्यक्षत्वं पक्षा­न्त­रेऽ­पी­त्या­श­ङ्क्याह -
न त्विति ।

प्रत्य­क्ष­त्वा­भावे कथ­मा­त्म­सि­द्धि­रि­त्या­श­ङ्क्या­नु­मा­ना­दि­त्याह -
प्रवृत्तीति ।
अनुमानसिद्धस्य चेतनस्य न प्रवृ­त्त्या­श्र­य­तेति दर्शयितुमेवकारः ।

कथ­म­नु­मा­न­मि­त्य­पे­क्षायां तत्प्रकारं सूचयति -
केवलेति ।
वैलक्षण्यं प्राणा­दि­म­त्त्वम् । इतिशब्दो यस्मादर्थे । जीवद्देहः सात्मकः, प्राणा­दि­म­त्त्वात् , न यः सात्मको न स प्राणादिमान् यथा रथ इत्य­नु­मा­ना­त्त­त्स­द्भा­व­मात्रं सिध्यतीत्यर्थः ।

केवलचेतनो न प्रवृ­त्त्या­श्र­य­तया प्रत्यक्षो भवतीत्यत्र लिङ्गमाह -
अत एवेति ।
केवलश्चेतनो यतो न प्रत्य­क्षी­भ­व­त्यत एव लोकायतानां विवादः । अन्यथा व्यति­रि­क्ता­त्मनि विवादो न स्यादित्यर्थः । दर्श­ना­त्प्र­वृ­त्ते­श्चै­त­न्यस्य चेत्यध्याहारः ।

चेत­ना­श्र­य­प्र­वृ­त्ति­र­प्र­त्यक्षा प्रत्यक्षा त्वचेतनाश्रयेति स्थिते फलितमाह -
तस्मादिति ।

अचेतनस्य प्रवृ­त्ति­म­त्त्व­मु­पेत्य चेतनस्य तत्र प्रयो­ज­क­त्व­मे­ष्ट­व्य­मिति परिहरति -
तदभिधीयत इति ।

किमचेतनस्य प्रवृ­त्त्या­श्र­य­त्व­मेव साध्यते किं वा प्रवृ­त्ते­श्चे­त­ना­न­पे­क्ष­त्व­म­पीति विक­ल्प्या­द्य­म­ङ्गी­क­रोति -
नेत्यादिना ।

द्वितीयं प्रत्याह -
सा त्विति ।

प्रवृ­त्ते­श्चे­त­न­कृ­त­त्वेऽ­न्व­य­व्य­ति­रेकौ प्रमाणयति -
तद्भाव इति ।
न च रथादौ प्राणा­द्य­भा­वेऽपि प्रवृ­त्त्य­भा­वा­स­म्भ­वा­द्व्य­ति­रे­का­सिद्धिः । प्राणादेरपि रथा­दि­व­द­चे­त­न­त्वा­च्चे­त­ना­धी­न­प्र­वृ­त्ति­क­त्वा­नु­मा­ना­त्प्रा­णा­दीनां च प्राणा­द्य­न्त­रा­भा­वेऽपि प्रवृ­त्ति­द­र्श­ना­दिति भावः ।

अन्यगतापि प्रवृ­त्ति­र­न्या­धी­ने­त्यत्र दृष्टान्तमाह -
यथेति ।

तत्रा­प्य­न्व­य­व्य­ति­रेकौ दर्शयति -
तत्संयोग इति ।

तथो­क्ता­भ्या­म­न्व­य­व्य­ति­रे­का­भ्या­म­चे­तने दृष्टापि प्रवृ­त्ति­श्चे­तने सम्भवतीति चेतनकृतैवेत्याह -
तद्वदिति ।

लोकायतमते चेत­न­स्यै­वा­नु­प­ग­मा­त्क­थ­म­न्व­या­दिना तस्य प्रवृत्तौ प्रयो­ज­क­त्व­मि­त्या­श­ङ्क्याह -
लौकायतिकानामिति ।

अचेतनस्य प्रवृ­त्ति­र­त्त्वेऽपि प्रवृ­त्ते­श्चे­त­ना­धी­न­त्व­मा­व­श्य­क­मिति सिद्धान्तिना स्वाभि­स­न्धि­रुक्तः । सम्प्रति प्रवृत्तिमतामेव राजप्रभृतीनां प्रव­र्त­क­त्वो­प­ल­म्भा­दा­त्म­न­स्त­द­भा­वान्न प्रवर्तकतेति शङ्कते -
नन्विति ।

लोकसिद्धेन साङ्ख्यसम्मतेन च दृष्टान्तेन निराचष्टे -
नेत्यादिना ।

लोक­सि­द्ध­दृ­ष्टान्तं विवृणोति -
यथेति ।

द्वितीयमुदाहरणं प्रपञ्चयति -
यथा वेति ।

दृष्टा­न्त­यो­र्दा­र्ष्टा­न्ति­क­माह -
एवमिति ।

तस्य प्रव­र्त­क­त्वार्थं प्रव­र्त्य­स­म्ब­न्ध­माह -
सर्वगत इति ।

सर्वमूर्तसंयोगं व्यावर्तयति -
सर्वात्मेति ।

बुद्धि­पू­र्व­का­रिणो हि प्रवर्तकत्वं दृष्ट­मि­त्यु­पे­त्या­त्रापि तदापादयति -
सर्वज्ञ इति ।

ईश्वरस्य सर्व­प्र­व­र्त­कत्वे युक्त्यन्तरमाह -
सर्वेति ।

सर्वा­त्मे­त्यु­क्त­म­द्वि­ती­यत्वं श्रुत्या चोदयति -
एकत्वादिति ।

कल्पितस्य द्वैतस्य प्रव­र्त्य­त्व­स­म्भ­वा­न्मा­यो­पा­धि­क­स्ये­श्व­रस्य प्रव­र्त­क­त्व­म­वि­रु­द्ध­मिति परिहरति -
न । आविद्येति ।
अना­दि­र­नि­र्वा­च्या­विद्या तया प्रत्यु­प­स्था­पिते कल्पिते नामरूपे एव माया­का­र्य­त्वा­न्माया तत्रा­वे­शोऽ­ध्य­स्त­चि­दा­त्म­स­म्ब­न्ध­स्त­द्व­शेन तस्ये­श्व­रा­दि­भा­व­स्या­स­कृ­दु­क्त­त्वे­नास्य चोद्यस्य प्रत्यु­क्त­त्वा­न्मै­व­मि­त्यर्थः ।

स्वपक्षे रच­ना­र्थ­प्र­वृ­त्त्यु­प­प­त्ति­मु­प­सं­ह­रति -
तस्मादिति ।

परमते तदनुपपत्तिं निगमयति -
न त्विति ॥ २ ॥

केवलाचेतनस्य मृदादेरदृष्टापि प्रवृ­त्ति­स्त­था­भू­त­स्या­न्यस्य दृष्टे­त्य­चे­त­न­का­र­ण­त्व­प­क्षेऽपि प्रवृत्तिः सम्भवतीति शङ्कित्वा परिहरति -
पयोम्बुवदिति ।

सूत्रे शङ्काभागं विभजते -
स्यादेतदिति ।

क्षीरस्यापि चेत­ना­धि­ष्ठि­त­स्यैव प्रवृ­त्ति­रि­त्या­शङ्क्य विशिनष्टि -
स्वभावेनेति ।

तत्प्र­वृ­त्ते­र­र्थ­व­त्त्व­माह -
वत्सेति ।

केव­ल­चे­त­न­स्या­प्र­वृ­त्ति­रि­त्यत्र क्षीरे व्यभि­चा­र­मुक्त्वा जलेऽपि व्यभिचारमाह -
यथा चेति ।

दार्ष्टा­न्ति­क­माह -
एवमिति ।
पुरुषार्थो भोगश्चापवर्गश्च ।

तत्रापीति परिहारमवतार्य व्याचष्टे -
नैतदिति ।

कथ­म­नु­मा­न­मि­त्युक्ते तत्प्रकारं सूचयति -
उभयवादीति ।
विमता प्रवृ­त्ति­श्चे­त­ना­धि­ष्ठा­न­पू­र्विका, अचे­त­न­प्र­वृ­त्ति­त्वात् , सम्प्र­ति­प­न्न­प्र­वृ­त्ति­व­दि­त्य­नु­मा­ना­त्प­यो­म्बु­नो­रपि पक्षा­न्त­र्भा­वान्न व्यभि­चा­रा­श­ङ्के­त्यर्थः ।

किञ्च शास्त्रेण तत्रापि चेत­ना­धि­ष्ठि­त­त्वस्य सिद्धत्वेन सपक्षत्वान्न व्यभिचार इत्याह -
शास्त्रं चेति ।

तस्यार्थं सङ्क्षिपति -
समस्तस्येति ।

शास्त्रा­नु­मा­नाभ्यां सिद्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
साध्य­प­क्ष­नि­क्षि­प्तत्वं साध्यवति पक्षे प्रविष्टत्वमेव । तच्च सप­क्ष­नि­क्षि­प्त­त्व­स्या­प्यु­प­ल­क्ष­णम् । अनुपन्यासो न व्यभि­चा­र­भू­मि­रि­त्यर्थः ।

इतश्च क्षीर­दृ­ष्टा­न्तेऽपि व्यभिचारो नास्तीत्याह -
चेतनायाश्चेति ।

केवलाचेतनस्य पयसो न प्रवृ­त्ति­रि­त्यत्र हेत्वन्तरमाह -
वत्सचोषणेनेति ।

अम्बु­दृ­ष्टा­न्तेऽपि सर्व­था­न­पे­क्षत्वं चेतनानपेक्षत्वं वा प्रवृत्ताविति विकल्प्याद्यं दूषयति -
न चेति ।

द्वितीयं निरस्यति -
चेतनेति ।
उपदर्शितम् । शास्त्रेणेति शेषः ।

सूत्रकारस्य पूर्वा­प­र­वि­रो­ध­मा­शङ्क्य परिहरति -
उपसंहारेति ।
लोकदृष्ट्या शास्त्रदृष्टया चेति सूत्र­द्व­य­म­वि­रु­द्ध­मि­त्यर्थः ॥ ३ ॥

प्रधानस्य स्वातन्त्र्येण प्रवृ­त्त्य­स­म्भ­वेऽपि धर्माद्यपेक्षया प्रवृत्तिः स्यादि­त्या­श­ङ्क्याह -
व्यतिरेकेति ।

व्यति­रे­का­न­व­स्थितिं दर्शयितुं परपक्षमनुवदति -
साङ्ख्यानामिति ।

सम्प्रति व्यति­रे­का­न­व­स्थितिं दर्शयति -
नेत्यादिना ।
धर्मादेः सत्त्वेऽपि प्रति­ब­न्ध­नि­वृ­त्ति­मा­त्रो­प­यो­गा­द­का­दा­चि­त्क­त्वाच्च न कादा­चि­त्क­प्र­वृ­त्त्या­दि­प्र­यो­ज­क­तेति भावः ।

किञ्च प्रधा­ना­न्त­र्भू­त­त्वा­द्ध­र्मा­देर्न तत्प्र­वृ­त्ति­प्र­यो­ज­क­त्वम् । न हि किञ्चिदपि प्रधानातिरिक्तं तन्मते संमतमस्ति । न च तदेव तत्प्र­वृ­त्त्यादौ प्रयो­ज­की­भ­व­ती­त्य­भि­प्रे­त्याह -
बाह्यमिति ।

मा भूद्धर्मादि प्रधानस्य प्रवर्तकं निवर्तकं वा, पुरुषस्तु तथेत्याशङ्क्याह -
पुरुषस्त्विति ।

अपे­क्ष­णी­या­भा­वा­द­न­पे­क्षत्वे प्रधा­न­स्या­ग­न्तु­क­प्र­वृ­त्ति­नि­वृ­त्त्यो­र­नु­प­प­त्ति­रिति फलितमाह -
इत्यत इति ।

पर­प­क्षेऽ­नु­प­प­त्ति­मुक्त्वा स्वप­क्ष­मु­प­पा­द­यति -
ईश्वरस्येति ॥ ४ ॥

चेतनमचेतनं वा निमि­त्त­म­न­पेक्ष्य प्रधानस्य परिणामो न युक्त इत्युक्तम् । इदानीं तदभावेऽपि प्रवृ­त्ते­र्दृ­ष्ट­त्वा­त्क­थ­म­नु­प­प­त्ति­रि­त्या­श­ङ्क्याह -
अन्यत्रेति ।

सूत्र­व्या­व­र्त्या­मा­श­ङ्का­माह -
स्यादेतदिति ।

दृष्टान्ते निर­पे­क्ष­त्व­नि­श्च­य­हेतुं पृच्छति -
कथमिति ।

योग्या­नु­प­ल­ब्धे­स्त­थे­त्याह -
निमित्तान्तरेति ।

तदनुपलब्धिमेव व्यतिरेकद्वारा स्फोरयति -
यदि हीति ।

योग्या­नु­प­लब्ध्या निमि­त्ता­न्त­रा­भावे सिद्धे फलितं दृष्टा­न्त­मु­प­सं­हृत्य दार्ष्टा­न्ति­क­मु­प­सं­ह­रति -
तस्मादिति ।

धेन्वाश्चेतनस्य क्षीरपरिणामे नास्ति कारणता किन्तु तृणा­द्यु­प­यो­गे­नो­प­का­रि­तेति चोद्यमनूद्य सूत्रमवतारयति -
अत्रेति ।

‘न तृणादिवत्’ इति भागं विभजते -
भवेदिति ।

आका­ङ्क्षा­पू­र्वकं सूत्रा­व­य­व­मा­दत्ते -
कथमिति ।

तृणादेः सर्वत्र वा क्षीरीभावे निरपेक्षत्वं चेतने वेति विकल्प्याद्ये दोषमाह -
धेन्वैवेति ।

एव­का­र­व्या­वर्त्यं कीर्तयति -
न प्रहीणमिति ।

अनु­डु­हा­द्यु­प­यु­क्त­मिति तु भाष्य उपयुक्तत्वं नाशङ्कास्पदम् । एतदेव व्यतिरेकद्वारा विवृणोति -
यदि हीति ।

क्षीरीभवनं तृणा­दे­रे­त­दि­त्यु­च्यते यत्तु निमि­त्ता­न्त­रो­प­लम्भे तेनैव निमित्तेन तृणान्युपादाय यथाकामं क्षीरं सम्पाद्यतामिति, तत्राह -
न चेति ।

चेत­ना­न­पे­क्ष­त्व­पक्षं प्रत्याह -
भवति हीति ।

मनुष्याणां तृणादिना क्षीरसम्पादनं दुष्क­र­मि­त्यु­पे­त्यो­क्तम् । इदानीं तदेव नास्तीत्याह -
मनुष्या इति ।

तेषा­मु­चि­तो­पा­यो­पा­दा­नेन तृणान्यादाय क्षीर­स­म्पा­द­न­सा­म­र्थ्य­मे­वो­दा­ह­रति -
प्रभूतमिति ।

तृणादेः स्वाभा­वि­क­प­रि­णा­मा­स­म्भवे स्थिते फलितमाह -
तस्मादिति ॥ ५ ॥

प्रधानस्य स्वाभाविकीं प्रवृ­त्ति­मु­पे­त्यापि दूषयति -
अभ्युपगमेऽपीति ।

वृत्त­म­नू­द्या­भ्यु­प­ग­मेऽ­पीति भागमपेक्षितं पूरयन्व्याकरोति -
स्वाभाविकीति ।

प्रश्नपूर्वकं हेतुमादत्ते -
कुत इति ।

परा­भि­प्रा­य­म­नूद्य प्रयो­ज­ना­पे­क्षा­भा­व­प्र­स­ङ्गा­दि­त्ये­वं­प­र­तया हेतुं व्याचष्टे -
यदीति ।

प्रसङ्गफलं प्रतिज्ञाहानिं प्रदर्शयति -
इत्यत इति ।

हेतोरर्थान्तरं वक्तुं शङ्कते -
स यदीति ।

व्यव­स्था­प­का­भा­वा­न्नैषा व्यव­स्थे­त्य­भि­प्रे­त्या­र्था­स­म्भ­वा­दिति हेत्वर्थं वदन्विकल्पयति -
तथापीति ।

आद्य­म­नू­द्या­क्षि­पति -
भोगश्चेदिति ।
अनाधेयातिशयस्य सुख­दुः­ख­प्रा­प्ति­प­रि­हा­र­रू­पा­ति­श­य­शू­न्य­स्ये­त्यर्थः ।

भोगार्थैव प्रधा­न­प्र­वृ­त्ति­रि­त्यत्र दोषान्तरमाह -
अनिर्मोक्षेति ।
न हि निरतिशयस्य पुरुषस्य स्वारसिकौ भोगा­प­व­र्गा­व­ङ्गी­क्रि­यते । तेन प्रधा­न­प्र­वृ­त्ते­र्भो­गै­क­प्र­यो­ज­नत्वे हेत्वभावान्नैव पुंसो मोक्षः सेद्धु­म­र्हे­दि­त्यर्थः ।

द्वितीयमनूद्य दूषयति -
अपवर्गश्चेदिति ।
स्वरू­पा­व­स्था­नस्य सदा­त­न­त्वा­दि­त्यर्थः ।

ननु बन्ध­प्र­ध्वं­स­रू­पा­प­व­र्ग­सि­द्ध्यर्थंः प्रधा­न­प्र­वृ­त्ति­र­र्थ­व­तीति चेत् । न । प्रधानाविवेकं विना पुरुषे बन्धासिद्धेः । न च तद­वि­वे­क­नि­वृ­त्त्यर्था तत्प्र­वृ­त्ति­रिति युक्तं, तथा सति हेत्व­भा­वा­द्भो­गा­भा­व­प्र­स­ङ्गा­दि­त्याह -
शब्दादीति ।
तदु­प­ल­ब्धे­र्भो­ग­त्वा­दि­त्यर्थः ।

तृतीयेऽपि कति­प­य­श­ब्दा­द्यु­प­ल­ब्धिर्वा सम­स्त­त­दु­प­ल­ब्धिर्वा भोग इति विकल्प्याद्ये सर्वेषामेकदैव मुक्तिः स्यादिति मन्वानो द्वितीयं प्रत्याह -
उभयार्थतेति ।

औत्सु­क्य­नि­वृ­त्त्यर्था प्रधा­न­चे­ष्टे­ती­ष्ट­त्वा­द्या­व­दौ­त्सुक्यं तत्प्र­वृ­त्ते­र्नोक्ते दोषोऽ­स्ती­त्या­श­ङ्क्याह -
न चेति ।

ब्रह्मसूत्रा भाष्या तद्धि प्रधानस्य वा पुरुषस्य वा । नाद्य इत्याह -
न हीति ।
औत्सु­क्या­प­र­प­र्या­य­कु­तू­ह­लि­ता­या­श्चे­त­न­गा­मि­त्वा­व­ग­मा­दि­त्यर्थः ।

न द्वितीय इत्याह -
न चेति ।
स्वरसतो हि पुरुषो निर्म­लोऽ­भि­ल­प्यते न तस्यौ­त्सु­क्य­रू­प­म­ल­स­म्बन्धः सिध्यति । तेन पुरुषस्यापि न सम्भ­व­त्यौ­त्सु­क्य­मि­त्यर्थः ।

अस्ति पुरुषस्य दृक्शक्तिर्न च सा दृश्य­म­न्त­रे­णा­र्थ­वती, प्रधानस्य च सर्गशक्तिः सा सृष्टिं विनानर्थिका, तत्र चोभ­य­वि­ध­श­क्ति­वै­य­र्थ्य­प­रि­हा­रार्थं प्रधा­न­प्र­वृ­त्ति­रिति शङ्कते -
दृक्शक्तीति ।

तर्हि शक्त्यो­र्नि­त्य­त्वा­त्त­द­र्थ­व­त्त्वाय सदा प्रधा­न­प्र­वृ­त्ते­र्मो­क्षा­सि­द्धि­रिति दूषयति -
सर्गेति ।

अर्था­स­म्भ­वा­न्नि­र­पे­क्ष­स्यैव प्रधानस्य प्रवृ­त्ति­रि­त्ये­त­द­यु­क्त­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ६ ॥

पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निरस्यति -
पुरुषाश्मवदिति ।

चोद्यं विभजते -
स्यादेतदिति ।

पङ्गोरपि वागादिद्वारा प्रव­र्त­क­त्व­स­म्भ­वा­त्त­द्वि­र­हिणि पुरुषे न प्रव­र्त­क­ते­त्य­प­रि­तु­ष्यन्तं प्रत्याह -
यथा वेति ।

दार्ष्टा­न्ति­क­माह -
एवमिति ।

पुरुषस्तूदासीनो न प्रवर्तको नापि निवर्तक इत्यत्रैव तत्प्रवर्तकत्वे प्रत्युक्ते कथं पुन­रा­श­ङ्को­न्मि­षे­दि­त्या­श­ङ्क्याह -
इति दृष्टान्तेति ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­ता­र्या­पे­क्षितं पूरयन्व्याकरोति -
अत्रेति ।

कथं दोषा­नि­वृ­त्ति­रि­त्या­श­ङ्क्या­प­सि­द्धा­न्ता­पत्तिं तावदाह -
अभ्युपेतेति ।

पुरुषस्य प्रधा­न­प्र­व­र्त­क­त्व­म­ङ्गी­कु­र्व­त­स्तत्प्र वर्त­क­त्वा­न­भ्यु­प­ग­म­स्या­सि­द्धि­रि­त्या­श­ङ्क्याह -
कथं चेति ।
न हि प्रव­र्त­क­त्व­मु­दा­सी­नस्य युक्त­मु­दा­सी­न­त्व­व्या­घा­ता­दि­त्यर्थः ।

पङ्गुदृष्टान्तं विघटयति -
पङ्गुरपीति ।
पुरुषस्य प्रस्प­न्द­प्र­य­त्न­व्या­पा­र­रा­हित्यं वक्तुं हेतुद्वयम् ।

अय­स्का­न्त­दृ­ष्टा­न्तेन स्वग­त­व्या­पा­र­म­न्त­रे­णापि पुरुषस्य प्रव­र्त­क­त्व­मु­प­दि­ष्ट­मि­त्या­श­ङ्क्याह -
नापीति ।

अय­स्का­न्त­सं­नि­धा­व­यो­व­त्क­दा­चि­देव संनिधौ सत्यपि प्रवृत्तिः स्यादि­त्या­श­ङ्क्याह -
अयस्कान्तस्येति ।
परि­मा­र्ज­ना­दी­त्या­दि­श­ब्देन मुखा­भि­मु­ख्य­स­म्पा­दनं सङ्गृहीतम् ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र्वै­ष­म्य­मुक्त्वा फलितमाह -
इत्यनुपन्यास इति ।

किञ्च प्रव­र्त्य­प्र­व­र्त­क­भा­वस्य सम्ब­न्ध­सा­पे­क्ष­त्वा­त्प्र­धा­न­नि­मित्तो वा पुरुषनिमित्तो वा तदु­भ­य­व्य­ति­रि­क्त­नि­मित्तो वा सम्ब­न्ध­स्त­यो­रिति विकल्पयति -
तथेति ।
सति विकल्पत्रये सम्ब­न्धा­नु­प­प­त्ति­रिति सम्बन्धः ।

नाद्य इत्याह -
प्रधानस्येति ।

न द्वितीय इत्याह -
पुरुषस्येति ।

न तृतीय इत्याह -
तृतीयस्येति ।

प्रधा­न­स्या­चे­त­न­त्वा­दृ­श्यत्वे पुरुषस्य चेत­न­त्वा­द्द्र­ष्टृत्वे योग्यतास्तीति तन्निमित्तो द्रष्टृदृश्यभाव एव सम्ब­न्ध­स्त­यो­रि­त्या­श­ङ्क्याह -
योग्यतेति ।

किञ्च यथा स्वाभा­वि­क­प्र­वृ­त्ति­पक्षे विक­ल्प्या­र्था­भावो दर्शितस्तथा पुरु­ष­स­म्ब­न्धा­त्प्र­धा­न­प्र­वृ­त्ति­प­क्षेऽपि भोगो वा फलमपवर्गो वा द्वयं वेत्येवं विक­ल्प्या­र्था­भावो वक्तव्य इत्याह -
पूर्ववच्चेति ।

नन्व­य­स्का­न्त­दृ­ष्टा­न्ता­व­ष्ट­म्भेन भवतापि परमात्मा कूटस्थनित्य एव प्रव­र्त­कोऽ­भ्यु­प­ग­त­स्तथा चोक्तनीत्या त्वत्पक्षोऽपि न सिध्यति, तत्राह -
पर­मा­त्म­न­स्त्विति ।
अतिशयः साङ्ख्या­भि­म­ता­त्पु­रु­षा­दिति शेषः ॥ ७ ॥

प्रधानस्य स्वाभाविकी पुरुषसंनिधेर्वा न प्रवृ­त्ति­रि­त्यु­क्तम् । इदानीं कस्यचिद्गुणस्य प्राधान्यं कस्य­चि­दु­प­स­र्ज­न­त्व­मि­त्यपि वैषम्यमभ्युपगतं स्वतः परतो वा न सम्भवतीत्याह -
अङ्गित्वेति ।

चकारसूचितां प्रतिज्ञां प्रकटीकरोति -
इतश्चेति ।

पञ्चम्यर्थमेव दर्श­य­न्प्र­धा­ना­व­स्था­म­नु­व­दति -
यद्धीति ।

सा च कूटस्था वा विकारिणी वेति विकल्प्याद्ये दोषमाह -
तस्यामिति ।
अन­पे­क्ष­स्व­रू­पाणां पर­स्प­रा­न­पे­क्षाणां गुण­प्र­धा­न­त्व­ही­ना­ना­म­ङ्गा­ङ्गि­त्वा­यो­गा­त्का­र्या­नु­त्प­त्ति­रि­त्यर्थः ।

द्वितीयं दूषयति -
बाह्यस्येति ॥ ८ ॥

गुणा­ना­म­न­पे­क्ष­स्व­भा­व­त्वान्न स्वतो वैष­म्य­मि­त्य­त्रा­सि­द्धि­मा­शङ्क्य परिहरति -
अन्यथेति ।

तत्रा­न्य­था­नु­मितौ चेति भागं पूर्वपक्षत्वेन व्याकरोति -
अथापीति ।
निरपेक्षेषु गुणेषु गुण­प्र­धा­न­भा­वा­नु­प­प­त्ता­व­पीति यावत् ।

गुणा­ना­म­ङ्गा­ङ्गि­त्वा­नु­प­पत्त्या मह­दा­दि­का­र्या­नु­त्प­त्ति­रूपो दोषो यथा न भवति तथा मिथोऽ­न­पे­क्ष­त्व­ल­क्ष­ण­स्व­भा­वा­द­न्यथा प्रकारान्तरेण गुणा­न­न्यो­न्य­सा­पे­क्षा­नेव कल्पयामोऽतो न प्रागु­क्त­दो­ष­प्र­स­क्ति­रि­त्यु­क्तम् । प्रकारान्तरेण कल्पनामेव प्रकटयति -
न हीति ।

तेषां मिथः सापेक्षत्वे विकारित्वे च तुल्यं प्रमा­णा­स­त्त्व­मि­त्या­श­ङ्क्याह -
कार्येति ।

तथापि कथं मिथः सापेक्षत्वं विकारित्वं वा गुणानामिति, तत्राह -
यथा यथेति ।

अपसिद्धान्तं शङ्कित्वोक्तम् -
चलमिति ।

उक्तोपगमफलमाह -
तस्मादिति ।

पूर्वपक्षमनूद्य ‘ज्ञश­क्ति­वि­यो­गात्’ इत्यादि व्याकु­र्व­न्प­रि­ह­रति -
एवमिति ।

येन येन विना कार्यं नोपपद्यते तत्तदपि तद्व­शा­दे­वा­नु­मे­य­मि­त्या­श­ङ्क्याह -
ज्ञेति ।

अन­न्त­रो­क्त­दो­ष­नि­रासं स्वीकृत्य व्यव­हि­त­दो­षा­प­त्ति­मुक्त्वा संप्र­त्य­ङ्गी­कारं त्यजति -
वैषम्येति ।

विपक्षे दण्डमाह -
भजमाना वेति ।
अनन्तरो दोषो मह­दा­दि­का­र्यो­त्पा­दा­योगः ॥ ९ ॥

इतश्चासङ्गतं साङ्ख्य­म­त­मि­त्याह -
विप्र­ति­षे­धा­च्चेति ।

सूत्रं विभजते -
परस्परेति ।

विरोधमुदाहरति -
क्वचिदिति ।
त्वङ्भात्रमेव धीन्द्रि­य­म­ने­क­रू­पा­दि­धी­स­मर्थं कर्मेन्द्रियाणि पञ्च मनश्चेति सप्ते­न्द्रि­या­णी­त्यर्थः ।

पञ्च ज्ञाने­न्द्रि­याणि पञ्च कर्मे­न्द्रि­या­ण्ये­का­दशं मन इत्ये­का­द­शे­न्द्रि­या­णी­त्याह -
क्वचिदिति ।

प्रकारान्तरेण विप्रतिषेधमाह -
तथेति ।
तन्मात्रा भूतसूक्ष्माणि । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेवोच्यते । मिथो­वि­रो­ध­स­मा­प्ता­वि­ति­शब्दः ।

विप्र­ति­षे­ध­श­ब्द­स्या­र्था­न्त­र­माह -
प्रसिद्ध इति ।

साङ्ख्य­वा­द­स्यो­क्त­नीत्या भ्रान्ति­मू­ल­त्वा­त्त­दी­य­न्या­य­वि­रोधो न सम­न्व­य­स्ये­त्यु­प­सं­ह­रति -
तस्मादिति ।

साङ्ख्य­स­म­न्व­य­स्या­सा­म­ञ्ज­स्या­दु­पे­क्ष­णी­यत्वे प्रतिबन्द्या साङ्ख्यश्चोदयति -
अत्रेति ।

चोद्यं विवृणोति -
नन्विति ।

सिद्धा­न्त­स्या­सा­म­ञ्जस्ये हेतुमाह -
तप्येति ।

हेतुं साधयति -
एकं हीति ।

प्रपञ्चस्य ब्रह्मा­ति­रे­का­त्कु­त­स्त­दैक्यं, तत्राह -
सर्वेति ।

तदपि कथं, तत्राह -
सर्वस्येति ।
न च तावेकस्य युक्तौ । पर­स­म­वे­त­क्रि­या­फ­ल­शालि हि कर्म । तत­स्ता­प­का­त्त­प्यस्य भेदः, अन्यथा तद्भा­वा­यो­गा­त्त­द­योगे च व्यवहारे विरोधादयुक्तं त्वन्म­त­मि­त्यर्थः ।

एक­स्यै­वा­त्म­न­श्चे­त­ना­चे­त­ना­त्म­त्वा­त्त­प्य­ता­प­क­व्य­व­हा­र­सिद्धौ नासा­म­ञ्ज­स्य­मि­त्या­श­ङ्क्याह -
यदीति ।

किं तयोरात्मरूपत्वं तद्धर्मत्वं वेति विकल्प्याद्यं प्रत्याह -
स इति ।

द्वितीयेऽपि तयोः स्वरू­पा­न्त­र्भावो बहिर्भावो वा ? प्रथमे प्रागु­क्त­दो­षा­नु­षक्तिं दृष्टान्तेन स्पष्टयति -
न हीति ।

औष्ण्यप्रकाशयोः स्वरू­प­त्वा­त्ताभ्यां दीप­स्या­नि­र्मो­क्षेऽपि तप्य­ता­प­क­यो­र्वी­ची­त­र­ङ्गा­दि­व­द्ध­र्म्य­न­न्त­र्भा­वा­द्ध­र्मि­ण­स्ताभ्यां पृथ­क्त्वा­न्ना­नि­र्मु­क्ति­रिति पक्षा­न्त­र­मा­श­ङ्क्याह -
योऽपीति ।
वीचीतरङ्गादीनां जलधर्मत्वेऽपि तेभ्यो जलं पृथगिष्टं तथा तप्य­ता­प­क­यो­रा­त्म­ध­र्म­त्वेऽपि ताभ्यामात्मा पृथगिति योऽपि मोक्ष­स­म्भा­व­ना­र्थ­मु­प­न्यासः, तत्रापि जलात्मनो वीच्या­दि­भि­र­नि­र्मो­क्ष­स्तेषां तत्स­म्ब­न्धि­त्वे­ना­वि­र्भा­वा­दिना सदा सत्त्वात् , तथाऽऽत्मन्यपि तप्य­ता­प­क­यो­रु­द्भ­वा­दिना नित्य­त्वा­दा­त्म­न­स्ता­भ्या­म­नि­र्मो­क्षा­न्मो­क्ष­शा­स्त्रा­न­र्थ­क्य­मि­त्यर्थः ।

कर्म­क­र्तृ­त्वा­त्त­प्य­ता­प­क­यो­र्भि­न्न­त्व­व­त्प्र­सि­द्ध­त्वा­दपि तयो­र्भि­न्न­त्व­मि­त्याह -
प्रसिद्धश्चेति ।

लौकिकीं प्रसिद्धिं प्रकटयति -
तथा हीति ।

अर्थी तप्य­स्ता­प­क­श्चा­र्थ­स्त­यो­र्भेदे तावदनुभवमाह -
अर्थीति ।

तत्रैव युक्तिमाह -
यदीति ।

तयो­र्भे­दा­नु­प­ग­मेऽ­र्थ­स्या­र्थि­मा­त्र­त्व­म­र्थिनो वार्थमात्रत्वम् । नाद्य इत्याह -
यस्येति ।

नित्य­प्रा­प्तेऽर्थे नार्थितेत्यत्र दृष्टान्तमाह -
यथेति ।

दार्ष्टान्तिकं विवक्षन्नाह -
अप्राप्ते हीति ।
स्वरूपत्वेन प्राप्तेऽर्थे नार्थि­नोऽ­र्थि­त्व­मिति शेषः । एव­म­र्थ­स्या­र्थि­मा­त्रत्वं नेत्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

अर्थि­नोऽ­र्थ­मा­त्रत्वं प्रत्याह -
तथेति ।
अर्थि­नोऽ­र्था­न­ति­रेके सतीति यावत् । अर्थिवदिति दृष्टा­न्ता­र्थोऽ­पि­शब्दः ।

इष्टा­प­त्ति­मा­श­ङ्क्याह -
न चेति ।
अर्थस्य स्वार्थत्वे शेषत्वधीविरोधः स्यादित्यर्थः ।

इत­श्चा­र्था­र्थि­नो­र्भि­न्न­ते­त्याह -
सम्बन्धीति ।

तथापि कथं भिन्नत्वं, तत्राह -
द्वयोश्चेति ।

अर्था­र्थि­भे­द­म­नु­भ­व­यु­क्ति­सिद्धं निगमयति -
तस्मादिति ।

अर्था­र्थि­नो­रु­क्त­न्या­य­म­न­र्था­न­र्थि­नो­रपि सञ्चारयति -
तथेति ।
अर्था­र्थि­व­त्ता­वपि भिन्नावेवेति सम्बन्धः ।

अर्था­न­र्थ­यो­र्भे­द­मु­दा­ह­रति -
अर्थिन इति ।

तर्हि कथमेकस्यैव विरु­द्ध­ध­र्म­द्वयं, तत्राह -
ताभ्यामिति ।

तप्य­ता­प­क­यो­र्भि­न्न­त्व­प्र­सि­द्धि­मु­प­क्र­म्या­न्य­दे­वो­क्तम् । न चान­र्था­न­र्थि­नो­स्त­प्य­ता­प­क­त्वेऽपि तद­र्था­र्थि­नो­र­स्ती­त्या­श­ङ्क्याह -
तत्रेति ।

तप्य­ता­प­क­यो­र्भि­न्न­त्व­मु­प­पाद्य विपक्षे मोक्षासिद्धिं पूर्वो­क्ता­मु­प­सं­ह­रति -
इति तयोरिति ।

त्वन्मतेऽपि भिन्नयोरेव तप्य­ता­प­क­यो­र्वी­ची­त­र­ङ्गा­दि­व­दु­द्भ­वा­भि­भ­वाभ्यां नित्यत्वात्कुतो मुक्ति­रि­त्या­शङ्क्य - पूर्वपक्षी स्वपक्षे मोक्षसिद्धिमाह -
जात्यन्तरेति ।

नन्व­वि­वे­क­स्त­प्य­ता­प­कयोः संयोगे हेतुस्तस्य विवे­का­न्नि­वृ­त्ति­रिति मते नित्या­दा­ग­न्तु­काद्वा तत­स्त­न्नि­वृत्तिः । आद्ये सदामुक्ते संसाराभावः । द्वितीये त्वागन्तुकस्य विवे­क­स्या­ना­धे­या­ति­शये पुंस्यसम्भवः । नच सत्त्वस्यैवासौ, तस्यैव सम्यग्धिया मोक्षो बन्धश्च तदभावादिति पुंसो द्वयाभावापातात् । मैवम् । बुद्धि­स­त्त्व­स्था­वपि बन्धमोक्षौ योद्धृगताविव जयपराजयौ स्वामिनि पुंस्युपचरितौ । तस्य बुद्धि­स­त्त्वा­वि­भा­गा­पत्त्या तत्फ­ल­भो­क्तृ­त्वा­दिति मत्वाह -
स्यादपीति ।

अनि­र्मो­क्ष­प्र­स­क्ते­र­यु­क्त­मौ­प­नि­षदं मतमिति प्राप्तमनूद्य समाधिसत्त्वं सूचयति -
अत्रेति ।

वस्तुत्वं तप्य­ता­प­क­यो­रु­पे­त्या­नि­र्मोक्षो विवक्ष्यते भ्रान्तित्वं वेति विकल्प्याद्य निराह -
नेत्यादिना ।

तदेव प्रपञ्चयति -
भवेदिति ।
विषयविषयिभावं तात्त्विकमिति शेषः ।

ऐक्ये तात्त्विको विषयविषयिभावो नेत्यत्र दृष्टान्तमाह -
नहीति ।
कैमु­ति­क­न्या­यार्थं सत्यपीत्युक्तम् । किमु कूटस्थे ब्रह्म­णी­त्य­त्रा­क्षे­पार्थे किंशब्दः ।

द्विती­य­म­व­ल­म्ब­यितुं शङ्कयति -
क्वेति ।

बाह्य­स्या­न्त­रस्य वाश्र­य­स्त­प्य­ता­प­क­त्वस्य पृच्छ्यते । प्रथमं प्रत्याह -
उच्यत इति ।

द्वितीयमादाय शङ्कते -
नन्विति ।

सापि लिङ्गदेहस्यैव स्यादि­त्या­श­ङ­क्याह -
यदीति ।

कल्पि­ता­त्म­त्व­लि­ङ्ग­गा­मि­त्वे­ना­न्त­रस्य तस्य भ्रान्ति­मा­त्र­त्व­म­भ्यु­पे­त­मि­त्याह -
उच्यत इति ।

यत्तु लिङ्गस्य नाशि­त्वा­त्त­द्ग­त­त­प्य­ता­प­क­त्वस्य स्वयमेव नाशा­द्धे­त्व­नु­ष्ठा­ना­न­र्थ­क्य­मिति । तन्न । लिङ्गस्य याव­दा­त्म­भा­वि­त्वे­ना­मु­क्ते­र­व­स्था­ना­दि­त्या­श­ये­नाह -
देहेति ।

किञ्च साङ्ख्यस्यापि तप्य­ता­प­क­त्व­मा­विद्यं पारि­शे­ष्य­सि­द्धम् । तप्तिर्हि तन्मते केवलस्य वा चेतनस्य संहतस्य वा तप्तेर्वा सत्त्वस्य वा । नाद्य इत्याह -
न चेति ।

न द्वितीय इत्याह -
नापीति ।

न तृतीय इत्याह -
न चेति ।

नच केवलस्य देहस्यैव तप्तिः ‘नाचेतनस्य देहस्य’ इत्यु­क्त­त्वा­दि­त्या­क्षि­पति -
कथमिति ।

चतुर्थं शङ्कते -
सत्त्वमिति ।

तयो­स्त­प्य­ता­प­कत्वे तन्निवृत्तये हेत्वनुष्ठानं पुंसो न स्यादित्याह -
नेति ।

सत्त्व­र­जो­भ्या­म­वि­वे­का­त्त­स्यापि तप्तिः स्यादि­त्या­श­ङ्क्याह -
ताभ्यामिति ।

आत्मनस्तप्ते सत्त्वे प्रति­बि­म्बि­त­त्वा­द्युक्ता तप्तिरिति शङ्कते -
सत्त्वेति ।

किमि­व­श­ब्द­स्या­भा­सोऽर्थः सादृश्यं वा । प्रथमं प्रत्याह -
परमार्थत इति ।

क्वचिदिवशब्दस्य सादृश्येऽपि प्रयोगादिहापि तथेति द्वितीयं शङ्कित्वाह -
न चेदिति ।
चेतनस्य तप्यत्वं कल्पितमकल्पितं वोपेत्येवशब्दः सादृश्ये प्रयुक्तः । नाद्य, वस्तु­तोऽ­त­प्यत्वे सादृ­श्य­स्या­कि­ञ्चि­त्क­र­त्वा­दि­त्यर्थः ।

कथ­मि­व­श­ब्द­स्यो­क्त­सा­दृ­श्य­स्या­कि­ञ्चि­त्क­रत्वं, तप्यमानसादृश्ये तप्य­मा­न­त्व­यो­गात् , तत्राह -
नहीति ।

पारिशेष्यं निगमयति -
अतश्चेति ।

परमते तप्य­ता­प­क­त्व­स्या­वि­द्यत्वे किं ते जातं, तदाह -
नैवमिति ।

अनि­र्वा­च्य­त्वे­ना­वि­द्यत्वं तप्यत्वस्य मया नेष्टमिति कल्पान्तरमाह -
अथेति

तप्ति­क्रि­या­या­स्त­त्स­म्ब­न्धस्य च वस्तु­त्वा­ज्ज्ञा­ना­द­नि­वृ­त्तेर्न मुक्तिरित्याह -
तवैवेति ।

सुत­रा­मि­त्यु­क्त­म­ति­श­य­माह -
नित्यत्वेति ।
प्रधानं तापकम् ।

साङ्ख्यः स्वपक्षे मोक्षसिद्धिं शङ्कते -
तप्येति ।
निमि­त्ते­ना­द­र्श­नेन सह वर्तत इति सनिमित्तः प्रकृ­ति­पु­रु­ष­यो­ग­स्त­द­पे­क्ष­त्वा­दा­त्मनि तप्तेः, निमि­त्त­नि­वृत्त्या नैमि­त्ति­क­नि­वृत्तौ शक्ति­नि­त्य­त्वेऽपि सर्वात्मना तापक्षयलक्षणो मोक्षः सिध्यतीत्यर्थः ।

अद­र्श­न­स्या­भा­वस्य नित्य­त्वा­द­नि­वृ­त्ते­स्त­त्त्वा­न्त­रेषु चान­न्त­र्भा­वा­त्त­म­स्य­न्त­र्भा­व­म­भ्यु­पेत्य प्रत्याह -
नेति ।

उद्भूतेन तमसा तप्यतापकयोः सम्ब­न्धो­प­प­त्ते­स्त­त्त्व­धिया तमसोऽभिभवे सम्ब­न्धा­भा­वा­द्ब­न्ध­ध्व­स्ति­रि­त्या­श­ङ्क्याह -
गुणानां चेति ।

परपक्षे मोक्षासिद्धिं प्रसाध्य स्वपक्षे तदुपपत्तिमाह -
औपनिषदस्येति ।
अनि­र्मो­क्षा­शङ्का नेति सम्बन्धः ।

सा किं हेत्वभावाद्वा तप्यतापकयोः स्वाभा­वि­क­त्वाद्वा । नाद्य इत्याह -
आत्मेति ।

न द्वितीय इत्याह -
एकस्येति ।

तप्य­ता­प­क­यो­र­स्वा­भा­वि­क­त्वेऽपि विका­रो­पा­धि­क­यो­रु­द्भ­वा­दिना नित्य­त्वा­द­नि­र्मो­क्षा­श­ङ्के­त्या­श­ङ्क्याह -
विकारेति ।

आत्मैक्योपगमे कथं दृश्यमानं तप्यतापकत्वं, न खल्वे­क­स्मि­न्ने­वा­र्था­र्थि­त्वादि युक्त­मि­त्या­शङ्क्य काल्पनिके व्यावहारिके तस्मि­न्ना­नु­प­प­त्ति­रि­त्याह -
व्यवहारे त्विति ॥१०॥

वृत्तं कीर्तयति –
प्रधानेति ।
तस्य भ्रान्ति­मू­ल­त्वात् तदी­य­यु­क्ति­वि­रोधः समन्वयस्य नास्ती­त्यु­क्त­मि­त्यर्थः ।

वैशे­षि­का­धि­क­र­णस्य तात्पर्यमाह -
परमाण्विति ।
तस्य भ्रान्ति­मू­ल­त्वोक्त्या तदी­य­यु­क्ति­वि­रोधो निरस्यः सम­न्व­य­स्ये­त्यर्थः ।

तन्नि­रा­क­र­ण­स्या­स्मि­न्न­धि­क­र­णेऽ­भा­वा­त्कि­म­ने­ने­त्या­श­ङ्क्याह -
तत्रेति ।
स्वप­क्ष­दो­ष­नि­रा­सस्य स्मृति­पा­द­स­म्ब­न्धेऽपि प्रधा­न­गु­णा­न­न्व­यान्न चेज्ज­ग­त्त­त्प्र­कृ­तिकं तर्हि ब्रह्म­वि­शे­ष­गु­णा­न­न्व­यान्न तत्प्रकृतिकमपि स्यादि­त्य­वा­न्त­र­स­ङ्ग­ति­ला­भा­दि­हे­द­म­धि­क­र­ण­मिति भावः ।

स्वप­क्ष­दो­ष­स­मा­धि­द्वारा सम­न्व­य­दृ­ढी­क­र­णा­द­ध्या­या­दि­स­ङ्ग­तयः । तत्र चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । तस्य वैशे­षि­क­गु­णा­र­म्भा­नु­मा­नेन विरोधोऽस्त्युत नेति तद­ना­भा­स­त्वा­भा­स­त्वाभ्यां सन्देहे पूर्वपक्षमाह -
तत्रेति ।
पूर्वपक्षे वैशे­षि­का­नु­मा­न­वि­रो­धा­द्ब्र­ह्मणि समन्वयासिद्धिः, सिद्धान्ते तद­वि­रो­धा­त्त­त्सि­द्धि­रिति फलभेदः ।

तदीयानुमानं ब्रह्म­का­र­ण­नि­रा­क­र­ण­परं दर्शयितुं तद­भ्यु­प­ग­म­म­भि­न­यति -
कारणेति ।
समवायिकारणार्थं कारणपदमिति वक्तुं द्रव्यपदम् । गुण­श­ब्दोऽ­सा­धा­र­ण­गु­णार्थः ।

साधा­र­ण­गु­णा­ना­मा­र­म्भ­क­त्वेऽपि सम­वा­यि­का­र­ण­स्थ­त्वा­नि­य­मात् । कार्यस्य द्रव्यविशेषणं कार्यान्तरे तदनारम्भात् । गुणाश्च गुणा­न्त­र­मि­त्य­त्रा­न्व­य­व्य­ति­रेकौ दर्शयति -
शुक्लेभ्य इति ।

ब्रह्मचैतन्यं न द्रव्य­स­म­वा­यि­का­र­ण­वि­शे­ष­गुणः, समा­न­जा­ती­य­वि­शे­ष­गु­णा­ना­र­म्भ­क­त्वात् , संयो­ग­व­दि­त्य­भि­प्रे­त्याह -
तस्मादिति ।
नच चैतन्यस्य स्वरूपत्वेन गुणत्वासिद्धेः सिद्धसाध्यता, ज्ञानीतिवदहं ज्ञान­मि­त्य­दृ­ष्टे­स्त­द्गु­ण­त्व­स्पा­ष्ट्या­दिति भावः ।

घटः स्फुरतीति सामा­ना­धि­क­र­ण्या­द्ध­टा­दे­स्त­ग­द्गु­ण­त्व­सि­द्धे­र­सि­द्धि­रि­त्या­शङ्क्य जन­यि­तृ­व्या­पा­र­वि­ष­य­तया घटो जायत इति­व­त्प्र­का­श­यि­तृ­व्या­पा­र­क­र्म­तया सामानाधिकरण्यं न तद्गु­ण­त्वा­दि­त्य­सिद्धि समुद्धरति -
तदिति ।
ब्रह्म न द्रव्योपादानं, तुल्य­जा­ती­या­र­म्भ­क­वि­शे­ष­गु­णा­ना­धा­र­त्वात् , दिगादिवदिति भावः ।

स्मृतिपादे निरस्तमनुमानं किमिति पुनः शङ्कि­त­मि­त्या­शङ्क्य लौकिकपदार्थेषु तत्रोक्तेऽपि व्यभिचारे पर­प्र­क्रि­या­सि­द्धे­ष्वेव पारि­मा­ण्ड­ल्या­दिषु तमिदानीं दर्शयतीति विशेषमाह -
इममिति ।

तदर्थं सूत्रमुदाहरति -
महदिति ।
यथा महद्दीर्घं च त्र्यणुकं ह्रस्वे­भ्योऽ­णु­भ्यश्च द्व्यणुकेभ्यो जायते । वाशब्दश्चार्थः ।

यथा च परिमण्डलाभ्यां परमाणुभ्यां द्व्यणु­क­म­प­रि­म­ण्ड­ल­मु­त्प­द्यते, तथा चेतनाद्ब्रह्मणो जगदचेतनं स्यादिति सूत्रार्थः । इममर्थं स्फुटीकर्तुं पर­की­य­प्र­क्रि­या­म­नु­व­दति -
एषेति ।

तत्र प्रल­या­व­स्था­मु­प­न्य­स्यति -
परमाणव इति ।

चतुर्विधेषु तेषु प्रामाणिकसंमतिं सूचयति -
किलेति ।

लय­हे­तु­क­र्मो­द्रे­का­वस्था कञ्चि­त्का­ल­मि­त्युक्ता । तत्र सर्वकार्यलयेऽपि पाक­ज­प­र­मा­णु­गु­णा­ना­म­व­स्थान मास्थायोक्तम् -
रूपादिमन्त इति ।

पार्थि­व­प­र­मा­णूनां चतु­र्गु­ण­त्व­मा­प्य­प­र­मा­णूनां त्रिगुणत्वं तैजसपरमाणूनां द्विगुणत्वं वाय­वी­य­प­र­मा­णू­ना­मे­क­गु­ण­तेति विभागमाह -
यथेति ।

पर­मा­णु­मा­त्र­वृ­त्ति­प­रि­माणं दर्शयति -
पारिमाण्डल्येति ।

तेषा­मा­र­म्भ­क­क्र­म­माह -
ते च पश्चादिति ।

सर्ग­हे­तु­क­र्मो­द्भ­वा­वस्था पश्चादित्युक्ता । समवायिकारणं परमाणूनुक्त्वा निमित्तकारणमाह -
अदृष्टादीति ।
आदि­श­ब्दे­ने­श्व­र­प्र­य­त्ना­द्यु­च्यते ।

असमवायिकारणमाह -
संयोगेति ।
अदृ­ष्ट­व­त्क्षे­त्र­ज्ञ­सं­यो­गा­त्प­र­माणौ कर्म ततोऽ­ण्व­न्त­र­सं­यो­गा­द्द्व्य­णु­क­मा­र­भ्यते । नच परमाणवो बहवः संयुक्ताः सहसा कार्यारम्भकाः परमाणुत्वे सति बहु­त्वा­द्ध­टो­प­गृ­ही­त­प­र­मा­णु­वत् । नच तेषामपि घटारम्भकतया साध्यवैकल्यं, घटभङ्गे कपा­ला­दी­ना­म­ना­र­ब्ध­त्वा­द­णूनां चाती­न्द्रि­य­त्वा­त्स­र्वा­नु­प­ल­ब्धि­प्र­स­ङ्गात् । नच द्वावपि परमाणू कार्यानारम्भकौ परमाणुत्वे सति द्वित्वा­द्ध­टो­प­गृ­ही­त­प­र­मा­णु­द्व­य­व­दिति युक्तं साध्यवैकल्यात् । द्व्यणुकानि च त्रीणि सम्भूय त्र्यणु­क­मु­त्पा­द­यन्ति तद­न­न्त­र­मा­र­म्भ­क­स­ङ्ख्या­नि­यमो नेति भावः ।

द्रव्याणि द्रव्या­न्त­र­मा­र­भन्त इति सूत्रा­र्थ­मुक्त्वा गुणाश्च गुणान्तरमिति सूत्रार्थमाह -
कारणेति ।

कति­प­य­का­र­ण­गु­णा­ना­मा­र­म्भ­कत्वं सर्वेषां वेति वीक्षायामाद्यं व्युत्पादयति -
यदेति ।

कल्पान्तरं दूषयति -
परमाण्विति ।

अभ्युपगममेव साधयति -
अणुत्वेति ।

इतश्च कति­प­य­गु­णा­ना­मे­वा­र­म्भ­क­त्व­मि­त्याह -
यदापीति ।
द्व्यणु­केऽ­धि­क­रणे द्विशब्दस्य भाव­प्र­धा­न­त्वाद्वे द्वित्वे ते स्वाश्रयाणां चतुर्णां द्व्यणुकानां चतु­र­णु­का­र­म्भ­क­त्वा­त्त­दा­र­म्भके विवेक्ष्येते । न हि द्वित्वद्वयं हित्वा तदाथाराणां द्व्यणु­का­ना­मा­र­म्भ­क­त्वम् । अथवाऽऽणुकमिति द्व्यणुकमुक्तं ते द्वित्वा­व­च्छिन्ने यदा द्वित्व­स­ङ्ख्य­या­व­च्छि­द्येते तदा द्वौ घटावितिवद्द्वे द्व्यणुके इ्त्युक्ते द्व्यणु­क­च­तु­ष्टयं सम्पद्यते । एवं चतुर्णां द्व्यणुकानां चतु­र­णु­का­र­म्भ­कत्वे स्थिते तद्गतानां गुणानां तुल्य­जा­ती­या­र­म्भ­क­ते­त्यर्थः ।

सर्व­गु­णा­ना­म­ना­र­म्भ­कत्वे हेत्वन्तरमाह -
अणुत्वेति ।

व्यवस्थितां वैशे­षि­क­प्र­क्रियां प्रद­र्श्या­व्य­व­स्थितां दर्शयति -
यदापीति ।

कारणगुणानां केषा­ञ्चि­दा­र­म्भ­कत्वं न सर्वेषामिति सर्वेषां तुल्यमित्याह -
तदापीति ।

व्यव­स्थि­ता­म­व्य­व­स्थितां च पर­प्र­क्रि­या­मुक्त्वा सूत्रं व्याकु­र्व­न्व्य­भि­चा­र­माह -
तदेवमिति ।
तत्तत्र तस्यां प्रक्रि­या­या­मे­व­मु­क्त­प्र­का­रे­णेति यावत् ।

अव्य­व­स्थि­त­प्र­क्रि­या­मा­श्रि­त्यो­क्तम् -
महदित्यादि ।

वाश­ब्दोऽ­नु­क्ता­णु­ह्र­स्व­का­र्य­स­मु­च्च­यार्थ इति व्याचष्टे -
यथा वेति ।
नाणु जायते नापि ह्रस्वं जायते त्र्यणुकादिति योजना ।

पारि­मा­ण्ड­ल्या­दीनां तुल्य­जा­ती­या­ना­र­म्भ­कत्वे सिद्धे दार्ष्टा­न्ति­क­माह -
एवमिति ।

दृष्टा­न्त­वै­षम्यं चोदयति -
अथेति ।

जगत्यपि तुल्यं विरो­धि­गु­णा­क्रा­न्त­त्व­मि­त्या­श­ङ्क्याह -
नत्विति ।

अचे­त­ना­या­श्चे­त­ना­वि­रो­धिन्या जगति भावाच्चेतनायाः सज­ती­या­ना­न­र­म्भ­क­ते­त्या­श­ङ्क्याह -
न हीति ।

विशे­ष­गु­ण­त्वा­च्चे­त­नायाः साधा­र­ण्या­त्पा­रि­मा­ण्ड­ल्या­दे­र्वै­षम्यं मत्वा तत्फलमाह -
तस्मादिति ।

ज्ञानवानस्मीति प्रत्ययस्य बुद्धि­वृ­त्त्यु­प­धा­ना­धी­न­त्वा­च्चे­त­नस्य स्वरूपत्वेन गुणत्वासिद्दौ विशेषगुणत्वस्य दूरापेतत्वं मत्वा विवक्षितांशे दृष्ट­न्त­सि­द्धि­रि­त्याह -
मैवमिति ।

न स्वभावादेव पारि­मा­ण्ड­ल्या­दी­ना­म­ना­र­म्भ­कत्वं किन्तु विरो­धि­गु­ण­सं­नि­पा­तात् । चैतन्यस्य तु तद­भा­वा­दा­र­म्भ­क­ते­त्या­श­ङ्क्याह -
न चेति ।

तत्र हेतुः -
परि­मा­णा­न्त­र­स्येति ।

कथमन्यहेतुत्वं, तत्रा­प्तो­क्ति­मु­दा­ह­रति -
कारणेति ।
बहु­भि­र्द्व्य­ण­य­कै­रा­रब्धे त्र्यणुकादौ यन्महत्त्वं तस्य द्व्यणुकगतं बहु­त्व­म­स­म­वा­यि­का­रणं कार्यद्रव्यं समवायिकारणम् । यत्पु­न­र­यः­पि­ण्डेन पञ्चा­श­त्प­ले­ना­रब्धं कार्यं ताव­त्प­ल­मु­प­ल­भ्यते तन्महत्त्वे पिण्डस्य प्रचयः संयोगविशेषो हेतुः । मह­द्भि­र­व­य­वै­रा­रब्धे पटे यन्महत्त्वं तस्य कारणमहत्त्वं हेतुरिति त्रिभ्यः कारणेभ्यो मह­त्त्व­मि­त्यर्थः ।

यत्का­र­ण­ब­हु­त्वा­दिभ्यो महत्त्वं त्र्यणुकादौ जातं ततो विपरीतं द्व्यणु­क­ग­त­म­णु­त्व­मी­श्व­रा­पे­क्षा­बु­द्धि­ज­न्य­प­र­मा­णु­नि­ष्ठ­द्वि­त्वा­स­म­वा­यि­का­र­णा­दु­त्प­द्यते, तदाह -
तदिति ।

द्वित्व­म­ह­त्त्व­ब­हु­त्व­प्र­च­येभ्यो यथासम्भवं ह्रस्व­त्व­दी­र्घ­त्व­यो­रु­त्प­त्ति­रि­त्याह -
एतेनेति ।
समस्तेन प्रकारेणेति यावत् ।

ननु पारि­मा­ण्ड­ल्या­दीनि संयो­गा­दि­भि­र्व्य­व­हि­तानि कार्यद्रव्ये समा­न­जा­ती­या­ना­र­म्भ­काणि । प्रचयादयस्तु कार­ण­स्था­स्त­न्नि­ष्ठ­का­र्य­द्र­व्यस्य संनि­हि­त­त्वा­त्तत्र मह­त्त्वा­द्या­र­म्भ­का­स्ततो न स्वभा­वा­द­ना­र­म्भ­कत्वं पारि­मा­ण्ड­ल्या­दी­ना­मिति, तत्राह -
नचेति ।
गुणो गुणिनि समवेतो व्याप्योऽ­व्याप्यो वा सर्वथा कारणस्थात्वं गुणानां कार्यरम्भे निमित्तम् । नच निर­व­य­वा­णु­गु­णानां संनि­धि­र­सं­नि­धि­र्वाऽऽ­र­म्भो­प­योगी सम्भवतीति भावः ।

परि­शे­ष­सि­द्ध­म­र्थ­माह -
तस्मादिति ।

दृष्टा­न्त­मु­प­सं­हृत्य दार्ष्टा­न्ति­क­मु­प­सं­ह­रति -
तथेति ।

किञ्च कारणगुणाः सजा­ती­या­ना­मे­वा­र­म्भकाः किंवा विजतीयानामपीति विकल्प्याद्यं प्रत्याह -
संयोगाच्चेति ।

चेतनं ब्रह्म द्रव्यं जगतोऽचेतनस्य न समवायिकारणमिति प्रकृते चेत­न­म­प्य­चे­त­नो­पा­दानं दृष्टमिति दृष्टान्ते वक्तव्ये संयो­ग­गु­णो­दा­ह­र­ण­म­यु­क्त­मिति शङ्कते -
द्रव्य इति ।

अद्रव्यादपि संयोगाद्यथा द्रव्यं जायते तथा चेतनादचेतनं स्यादि­त्ये­ता­व­न्मा­त्र­मि­ष्ट­मि­त्याह -
नेति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः सर्वथा साम्ये नास्ति मानमित्याह -
नचेति ।

न केव­ल­म­य­म­स्मा­क­म­नि­यमो भवतामपीत्याह -
सूत्रेति ।

सूत्रं व्याचष्टे -
यथेति ।

कथमिदं सूत्रं निय­म­भ­ङ्गो­प­यो­गी­त्या­श­ङ्क्याह -
एतदिति ।

कार­ण­स्थ­वि­शे­ष­गु­णानां कार्ये तुल्यारम्भकत्वं न गुण­मा­त्र­स्ये­त्या­श­ङ्क्याह -
दृश्यते त्विति ।
तन्तु­ग­त­नी­ल­पी­ता­दि­रू­पाणां विशेषगुणानामपि तत्कार्ये पटे विजा­ती­य­चि­त्र­रू­पा­र­म्भ­क­त्वा­भ्यु­प­ग­मा­न्ना­य­मपि नियम इति भावः ।

तर्हि गता­र्थ­त्वा­दि­द­म­धि­क­र­ण­म­ना­र­भ्य­मिति शङ्कते -
नन्विति ।

निरा­का­र्य­भे­दान्न पौन­रु­क्त्य­मि­त्याह -
नेतीति ।

तथापि शिष्टा­प­रि­ग्र­हा­धि­क­र­णेन पुनरुक्तिरिति शङ्कते -
नन्विति ।

तत्र कारणं कार्या­दू­न­प­रि­मा­ण­मिति नियमो निरस्तः, अत्र तु कारणविशेषगुणस्य कार्ये तुल्यारम्भनियमो निरस्यत इति सत्यपि पुन­रु­क्ति­प­रि­हारे रीतिसाम्यकृतं जामि­त्व­मु­पे­त्याह -
सत्यमिति ।

तस्यैवेति ।
अतिदेशस्येति यावत् । वैशे­षि­क­प­री­क्षा­र­म्भ­स्त­दी­य­रा­द्वा­न्तस्य भ्रान्ति­मू­ल­त्व­सा­ध­न­प्र­कमः । तत्प्रक्रिया वैशे­षि­क­प्र­क्रिया पूर्वोक्ता तस्यामनुगतं निदर्शनं पर­की­य­हे­तु­व्य­भि­चा­रो­दा­ह­रणं तेनेत्यर्थः ॥ ११ ॥

वैशे­षि­क­गु­णा­र­म्भा­नु­मा­नेन समन्वयस्य प्रास­ङ्गि­क­वि­रोधं परिहृत्य तन्मतविरोधं परिहर्तुमारभते -
उभयथेति ।

नास्य प्रास­ङ्गि­का­न­न्त­रा­धि­क­र­णेन सङ्गतिरिति मन्वानः प्रधानं चेतनानधिष्ठितं न चेत्कारणं तर्हि पर­मा­ण­व­स्त­द­धि­ष्ठिता भवन्तु तथेति व्यवहितेन सङ्गतिं गृहीत्वा तात्पर्यमाह -
इदानीमिति ।
वैशे­षि­क­रा­द्धा­न्तस्य भ्रान्ति­मू­ल­त्वोक्त्या तदी­य­यु­क्ति­वि­रोधं निराकृत्य सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे प्रामा­णि­क­प­र­की­य­रा­द्धा­न्त­वि­रोधे सम­न्व­य­स्या­सिद्धिः, सिद्धान्ते तत्प्रा­मा­णि­क­त्वा­सिद्ध्या भ्रान्तेन तेन विरोधाभावे तत्सिद्धिरिति फलम् ।

पर­मा­णु­भि­र्द्व्य­णु­का­दि­क्र­मेण चेत­ना­धि­ष्ठि­तै­रा­रब्धं जगदिति वैशे­षि­क­रा­द्धान्तो मानमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः संशये पूर्वपक्षमाह -
स चेति ।

सामान्यतो दृष्टं वक्तुं व्याप्तिमाह -
पटादीनीति ।
स्वानुगतैः स्वस­म­वा­य­प्र­ति­यो­गि­भि­रि­त्यर्थः ।

मिथोऽ­सं­यु­क्त­त­न्त्वा­दीनां न पटा­द्या­र­म्भ­क­त्व­म­स­म­वा­य्यभा वादिति वक्तुं संयो­ग­स­चि­वै­रि­त्यु­क्तम् । यत्कार्यद्रव्यं तद्वि­शि­ष्ट­द्र­व्या­रब्धं यथा पटादीति व्याप्ति­मु­क्त्वा­नु­मा­न­माह -
तदिति ।
तैः पटादिभिः सामान्यं कार्यद्रव्यत्वं तेनेति यावत् । किञ्चि­त्सा­व­य­व­द्र­व्य­मिति क्षित्या­दि­च­तु­ष्ट­य­मु­क्तम् । स्वानु­ग­तै­रि­त्यादि पूर्ववत् । तैस्तै­र्द्र­व्यै­रिति वस्तु­त­श्च­तु­र्वि­ध­प­र­मा­णूक्तिः । विमतं स्वप­रि­मा­णा­द­णु­त­र­प­रि­मा­ण­सं­यो­ग­स­चि­व­स­मा­न­जा­ती­या­ने­क­द्र­व्या­रब्धं, कार्य­द्र­व्य­त्वात् , घठादिवदित्यर्थः ।

कथमेतावता परमाणुसिद्धिः, तत्राह -
स चेति ।
यत्कि­ञ्चि­त्सा­व­यवं द्व्यणु­क­प­र्यन्तं तत्स­र्व­मे­व­मा­र­ब्ध­मि­त्य­नु­मा­न­प्र­वृ­त्ते­र­णु­प­रि­माणा निरवयवाः कार्यद्रव्येण पार्थिवत्वादिना तुल्या नित्या बहवश्चाणवः साव­य­वा­ना­मा­र­म्भकाः सिध्य­न्ती­त्यर्थः ।

अना­द्य­न­न्त­त्वा­ज्ज­गतो हेत्वा­का­ङ्क्षा­भा­वान्न पर­मा­ण­व­स्त­त्का­र­ण­मिति हेत्व­सि­द्धि­मा­श­ङ्क्याह -
सर्वं चेति ।
विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः ।

कार्यत्वेऽपि स्वभा­वा­दे­वो­त्प­त्तेर्न कार­णा­का­ङ्क्षे­त्या­शङ्क्य विमतं सकारणकं, कार्यत्वात् , संमतवदित्याह -
न चेति ।

तच्च किमि­त्या­का­ङ्क्षायां सावयवस्य स्वतोऽ­ल्प­प­रि­मा­णा­र­भ्य­त्व­दू­ष्टे­र­णवो मूलकारणमिति काणा­दोऽ­भि­प्रे­त­वा­नि­त्याह -
इत्यत इति ।

ते कतिविधा इति, तत्राह -
तानीति ।
चत्वा­री­त्य­व­य­वि­भू­ता­भि­प्रायं, पञ्च­म­भू­त­स्या­व­य­वा­भा­वात् ।

तेऽपि मूर्त­त्वा­द­नित्याः पट­व­दि­त्या­श­ङ्क्याह -
तेषां चेति ।
कार­ण­वि­भा­गा­त्का­र­ण­वि­ना­शाद्वा कार्यद्रव्यस्य नाशः, तद­भा­वा­द­णु­नि­त्यत्वं, तद­भा­व­श्चा­णु­प­रि­मा­ण­ता­र­तम्यं क्वचि­द्वि­श्रान्तं, परि­मा­ण­ता­र­त­म्य­त्वात् , मह­त्प­रि­मा­ण­ता­र­त­म्य­व­दि­त्य­नु­मा­ना­न्म­ह­त्त्वा­प­क­र्ष­वि­श्र­न्ति­भू­मि­त्वे­ना­णूनां परतो विभा­गा­यो­गा­दि­त्यर्थः ।

एकद्रव्यावशेषे प्रलयः स कथ­म­ने­क­द्र­व्य­शेषे स्यादि­त्या­शङ्क्य कार्य­द्र­व्य­मा­त्रस्य युगपन्नाशो लय इत्याह -
स इति ।

सृष्टि­क्र­म­मा­चष्टे -
तत इति ।
अदृ­ष्टा­पे­क्ष­म­दृ­ष्ट­व­त्क्षे­त्र­ज्ञ­सं­यो­गा­पे­क्ष­मिति यावत् ।

कर्मा­स­म­वा­यि­का­रणं कार्यमाह -
तदिति ।

संयोगादसमवायिनो द्व्यणु­को­त्पत्तौ द्व्यणु­के­भ्य­स्त्र्य­णु­का­दि­ज­न्मे­त्याह -
तत इति ।

वायावुक्तं शिष्टे भूत­त्र­येऽ­ति­दि­शति -
एवमिति ।

भूतो­त्प­त्ति­व­द्भौ­ति­को­त्प­त्ति­माह -
एवमेवेति ।

द्रव्योत्पत्तिं निगमयति -
एवमिति ।

गुणो­त्प­त्ति­क्रमं सूचयति -
अण्विति ।

उक्त­स­र्ग­क्र­म­स्या­लौ­कि­कत्वं वारयति -
तन्त्विति ।
तन्तुभ्यः संयुक्तेभ्यो महान्पटो जायते, तन्तुगताच्च रूपादेस्तत्र रूपादि दृष्टं तेन दृष्टा­न्ते­नो­क्त­स­र्ग­क्र­म­धी­रि­त्यर्थः ।

पूर्व­प­क्ष­मु­प­सं­ह­रति -
इति काणादा इति ।

पर­मा­णु­मू­ल­का­र­ण­त्वस्य प्रामा­णि­क­त्वा­द­र्था­दस्ति विरोधः सम­न्व­य­स्ये­त्येवं प्राप्तमनूद्य सिद्धान्तमाह -
तत्रेति ।

यत्तावदणुभ्यः संयुक्तेभ्यो द्व्यणु­का­दि­क्र­मेण जगज्जन्मेति, तत्राह -
विभागेति ।

अस्तु तर्हि तेषु कर्मकृतः संयोगः, तत्राह -
कर्मणश्चेति ।
तच्चा­भ्यु­प­ग­म्यते न वा ।

द्वितीयं प्रत्याह -
अनभ्युपगम इति ।
यद्यणूनां संयुक्तानां जगदारम्भकत्वं प्रामाणिकं तदा सन्व­य­स्या­र्था­द्वि­रोधः । न तदस्ति । आद्ये सर्गे परमाणवो न संयुक्ताः, कर्मशून्यत्वात् , आत्माकाशवत् । ते च कर्मशून्याः, तद्धे­तु­ही­न­त्वात् , तद्वदित्यर्थः ।

आद्य­क­र्म­हे­तो­रि­ष्ट­त्वा­द्धे­तु­त्व­सि­द्धि­रिति कल्पा­न्त­र­मा­शङ्क्य निमित्तं दृष्टमदृष्टं वेति विक­ल्प्या­द्य­म­नु­व­दति -
अभ्युपगमेऽपीति ।
यथेदानीं देहचेष्टायां दृष्टं यत्नाख्यं निमित्तं, तरुचलने पवनाभिघातः, शरादेर्नोदनादि, तथाऽ­णु­ष्वा­द्य­क­र्मो­त्पत्तौ यदि किञ्चिद्दृष्टं निमि­त्त­मि­त्यर्थः ।

अभि­घा­ता­दी­त्या­दि­श­ब्देन नोद­न­गु­रु­त्व­वे­ग­स्थि­ति­स्था­पका गृह्यन्ते । क्रिया­वि­शि­ष्ट­द्र­व्यस्य द्रव्यान्तरेण संयो­ग­वि­शे­षोऽ­भि­घातः, यथो­द्य­मि­त­नि­प­ति­त­मु­स­ल­स्यो­लू­ख­लेन संयोगः । नोदनं तु संयुक्तस्य यत्न­वि­शे­षा­पेक्षः स एव संयोगः, यथा क्षेपा­नु­कू­ल­य­त्ना­पेक्षः संन­द्ध­क­र­श­र­सं­योगः । नोदनेन तुल्ययोगक्षेमः संस्कार इति विवेकः । तत्रास्य सर्वस्य सृष्ट्यु­त्त­र­का­ल­त्वा­न्ना­द्य­क­र्म­हे­तु­ते­त्याह -
तस्येति ।

आदिसर्गे यत्नायोगं साधयति -
न हीति ।

आत्ममनः संयोगस्य तदा भावा­त्त­न्नि­मि­त्त­प्र­य­त्नस्य कथ­म­त्रा­यो­गोक्तिः, तत्राह -
शरीरेति ।

प्रय­त्नो­क्त­न्या­ये­ना­भि­घा­ता­द्यपि निरस्यति -
एतेनेति ।

एतच्छब्दोक्तं स्फोरयति -
सर्गेति ।

कल्पान्तरं शङ्कते -
अथेति ।

दूषयितुं विकल्पयति -
तत्पुनरिति ।

जड­स्या­त्म­नोऽ­दृ­ष्टा­श्र­य­त्व­मि­च्छ­ता­म­ण­व­स्तथा किं न स्युरि­त्य­णु­स­म­वायि वेत्युक्तम् । कल्प­द्व­य­म­वि­शे­षेण प्रत्याह -
उभयथेति ।

अचेतनत्वेऽपि कुतो न कर्म­नि­मि­त्त­ते­त्या­शङ्क्य स्वतन्त्रं चेतनाधिष्ठितं वा तत्तथेति विकल्प्याद्यं निराह -
न हीति ।

द्वितीये तज्जी­वा­धि­ष्ठि­त­मी­श्व­रा­धि­ष्ठितं वा । नाद्य इत्याह -
आत्मनश्चेति ।
नेतरः, तस्य नित्यसंनिहिततया कादा­चि­त्क­प्र­वृ­त्ति­हे­तु­त्वा­यो­गात् । तत्रापि निमि­त्ता­न्त­र­क­ल्प­नेऽ­न­व­स्था­ना­दिति चकारार्थः ।

अणु­स­म­वा­यि­त्व­पक्षं विशेषतो निरस्यति -
आत्मेति ।

अदृ­ष्ट­स्या­णु­भि­र­स­म्ब­न्धा­द­स­म्ब­द्धस्य हेतु­त्वेऽ­ति­प्र­स­ङ्गा­दि­त्याह -
असम्बन्धादिति ।

अणु­सं­यु­क्ता­त्म­स­म­वे­त­त्वा­द­दृ­ष्ट­स्या­णुभिः संयु­क्त­स­म­वा­या­द­स­म्ब­न्धा­सि­द्धि­रिति शङ्कते –
अदृष्टवतेति ।

आत्मनस्तर्हि सर्वगतत्वेन सदा­णु­स­म्ब­न्धा­द­णु­प्र­वृ­त्ते­र­वि­च्छि­त्ति­रिति दूषयति -
सम्बन्धेति ।
अण्वात्मनोः संयो­ग­स्या­णु­क­र्म­ज­त्वेऽपि तत्प्र­वा­ह­सा­त­त्या­त्प्र­वृ­त्ति­सा­त­त्य­मिति भावः ।

यद्यागन्तुकः सम्बन्धस्तस्य तर्हि निमि­त्त­म­दृ­ष्ट­म­न्यद्वा । तत्र संयो­ग­हे­तु­क­र्म­नि­मि­त्ता­दृ­ष्टा­पे­क्षा­या­म­न्यो­न्या­श्र­य­तेति मत्वा निमित्तान्तरं प्रत्याह -
नियामकान्तरेति ।

कर्म­नि­मि­त्ता­भावं सफलं निगमयति -
तदेवमिति ।

कर्मशून्यत्वं सफलमुपसंहरति -
कर्मेति ।

संयोगाभावफलमाह -
संयोगेति ।

हेत्वभावादणुषु संयो­गा­नु­प­प­त्ति­रुक्ता । सम्प्रति तेषु संयो­ग­स्व­रू­प­मे­वा­यु­क्त­मि­त्याह -
संयोगश्चेति ।

सर्वात्मना संयोगे पर­मा­णा­वे­क­स्मि­न्न­ण्व­न्त­रा­न्त­र्भा­वा­त्त­त्सं­यो­गि­न­स्त­द­व्या­प्त­दे­शा­भा­वात् , एव­म­ण्व­न्त­रा­ण्यपि तस्मिन्नेव संमान्तीति कार्ये प्रथिमायोगात् , तस्या­णु­मा­त्र­ता­प­त्ति­रि­त्याह -
सर्वात्मनेति ।

तत्रैव दोषान्तरमाह -
दृष्टेति ।

प्रसङ्गमेव प्रकटयति -
प्रदेशेति ।

द्वितीयमनुभाष्य दूषयति -
एकेति ।

कल्पि­त­दे­शो­प­ग­मा­दि­ष्टा­पत्तिं शङ्कते -
परमाणूनामिति ।

अवयवानां कल्पितत्वे संयो­ग­त­त्का­र्य­यो­रपि तथा­त्वा­द­प­सि­द्धान्तः स्यादित्याह -
कल्पितानामिति ।