न्यायनिर्णयव्याख्या
२ परिच्छेदः
भवतु वा राजादीनां लीलारूपासु प्रवृत्तिष्वपि किञ्चिदुद्देश्यं प्रयोजनं, तथापि न निःश्वासादिषु तथाविधं फलमुपलभ्यमित्यनैकान्तिकत्वतादवस्थ्यमित्याह -
यथा चेति ।
दृष्टान्ते स्वभावो देहस्य प्राणादिमत्त्वं, दार्ष्टान्तिके तु स्वभावोऽविद्येति द्रष्टव्यम् ।
अथेश्वरस्य जगद्बिम्बविरचनां किमित्यविद्याकृतलीलामात्रत्वेनाफला कल्प्यते ? फलमेव किञ्चित्कल्प्यतामित्याशङ्क्याप्तकामत्वन्यायविरोधात्परमानन्दत्वश्रुतिविरोधाच्च नैवमित्याह -
न हीति ।
ननु लीलादावस्मदादीनामकस्मादेव निवृत्तेरपि दर्शनादीश्वरस्यापि मायामय्यां लीलायां तथाभावे विनापि सम्यग्ज्ञानं संसारसमुच्छित्तिरिति, तत्राह -
न चेति ।
अनिर्वाच्या खल्वविद्या परस्येश्वरस्य स्वभावो लीलेति चोच्यते । तत्र न प्रातीतिकस्वभावायामनुपपत्तिरवतरतीत्यर्थः ।
यत्तु जगद्रचनाया गुरुतरसंरम्भत्वाद्भवितव्यं फलेनेति, तत्रास्मद्दृष्ट्या वा तस्या गुरुतरसंरम्भत्वमीश्वरदृष्ट्या वेति विकल्प्याद्ये हेतुसद्भावेऽपि प्रागुक्तश्रुतिन्यायविरोधान्नानुमानप्रवृत्तिरित्यभिप्रेत्य द्वितीयं निरस्यति -
यद्यपीत्यादिना ।
लीलास्वपि तात्कालिकं फलमुद्देश्यफलाभावेऽपि भातीत्युक्तमित्याशङ्क्याह -
यदीति ।
ईश्वरप्रवृत्तिरत्रेत्युक्ता ।
किञ्चिदिति ।
स्वकीयं परकीयं वेत्यर्थः ।
प्रयोजनाभावे वेत्यादिनोक्तं प्रत्याह -
नापीति ।
किञ्च सृष्टेरविद्यानिबन्धनत्वेनावस्तुत्वाद्गन्धर्वनगरादिभ्रमेष्विव न फलापेक्षेत्याह -
न चेति ।
किञ्च ब्रह्मात्मत्वधीपरत्वान्न सृष्टौ सृष्टिश्रुतीनां तात्पर्यमतः सृष्टेरविवक्षितत्वात्तदाश्रयो दोषो निर्विषयत्वान्न प्रसरतीत्याह -
ब्रह्मेति ।
प्रकृतोपयोगित्वान्न तत्पुनरुक्तिरिति सूचयति -
इत्येतदपीति ॥ ३३ ॥
पूर्वसूत्रे मायामय्या लीलया ब्रह्मणः स्रष्टृत्वमादिष्टम् । सम्प्रति सैव सापेक्षस्य न सम्भवत्यनीश्वरत्वप्रसङ्गात् , निरपेक्षत्वे रागादिमत्त्वापत्तेरित्याक्षिप्य समाधत्ते -
वैषम्येति ।
निरवद्याद्ब्रह्मणो जगत्सर्वं वदन्समन्वयो विषयः । स किं यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन विरुध्यते न वेति यथापूर्वं सन्देहे पूर्वपक्षमाह -
पुनश्चेति ।
पुनराक्षेपस्य फलमाह -
स्थूणेति ।
जगतो ब्रह्मैव कारणमिति प्रतिज्ञातोऽर्थस्तद्दृढीकरणमाक्षेपद्वारेणाधिकरणकृत्यमित्यर्थः । पादादिसङ्गतिफले पूर्ववदुन्नेये ।
आक्षेपं विवृण्वन् ‘वैषम्यनैर्घृण्ये न’ इति सूत्रावयवं पूर्वपक्षे योजयन्नञर्थमाह -
नेश्वर इति ।
प्रश्नपूर्वकं हेतुं गृहीत्वा प्रथमं वैषम्यप्रसङ्गं प्रकृटयति -
कुत इत्यादिना ।
देवादीनामेवं वैषम्येऽपि कथमीश्वरस्य वैषम्यमित्याशङ्क्याह -
इत्येवमिति ।
वैषम्येऽपि किं स्यादित्याशङ्क्योक्तम् -
श्रुतीति ।
‘निष्कलं निष्क्रियम्’ इत्याद्या श्रुतिः । ‘न मे द्वेष्योऽस्ति न प्रियः', ‘बलं बलवतां चाहं कामरागविवर्जितम्’ इत्याद्या च स्मृतिः । स्वच्छत्वादीत्यादिशब्देन निष्क्रियत्वनिष्कलत्वादि गृह्यते ।
वैषम्यप्रसङ्गं प्रदर्श्य नैर्घृण्यप्रसङ्गं दर्शयति -
तथेति ।
ब्रह्म परेषामर्थानर्थहेतुकार्यस्य न कारणं, चेतनत्वे सत्यनवद्यत्वात् , विशिष्टपुरुषवदित्यभिप्रेत्योपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिजानीते -
एवं प्राप्त इति ।
प्रश्नपूर्वकं हेतुमादत्ते -
कस्मादिति ।
व्यतिरेकद्वारा विभजते -
यदि हीति ।
नैरपेक्ष्यमेव व्याचष्टे -
केवल इति ।
उक्तमेवार्थमन्वयमुखेनान्वाचष्टे -
सापेक्षो हीति ।
सापेक्षत्वे सत्यनीश्वरत्वापत्तिरिति विवक्षन्नाक्षिपति -
किमिति ।
सेवादिभेदापेक्षया राजादीनां फलदानेऽपि नानीश्वरता दृष्टेति मन्वानः समाधत्ते -
धर्मेति ।
सापेक्षत्वे फलं वदन्नुक्तमेव व्यनक्ति -
अत इति ।
विषमा सृष्टिर्धर्मादिनिमित्ता चेत्कृतमीश्वरेणेत्याशङ्क्याह -
ईश्वरस्त्विति ।
दृष्टान्तं विवृणोति -
यथा हीति ।
व्रीहियवादिवैषम्यं तर्हि किं कृतमित्याशङ्क्याह -
व्रीहीति ।
चेतनत्वे सत्यनवद्यत्वादिति हेतुं व्यभिचारयन्दार्ष्टान्तिकमाह -
एवमिति ।
सेवादिभेदापेक्षया परेषामर्थानर्थौ कुर्वति राजादावनैकान्तिको हेतुरिति भावः ।
सापेक्षत्वफलमुपसंहरति -
एवमिति ।
तथा चागमावधारितस्वच्छत्वादीश्वरस्वभावस्य नैव भङ्गोऽस्तीति भावः ।
सापेक्षस्येश्वरस्य विषमसृष्टिहेतुत्वे मानं पृच्छति -
कथमिति ।
सूत्रावयवेनोत्तरमाह -
तथा हीति ।
स्मृतिरपि श्रौतमर्थमनुगृह्णातीत्याह -
स्मृतिरपीति ।
न च साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा प्राणिनो नयन्नीश्वरो वैषम्यादिना कथं न दुष्यतीति वाच्यम् , तज्जातीयपूर्वकर्माभ्यासात्तत्र प्रवृत्तानामेवेश्वरस्य प्रवर्तकत्वात् , मायाविवच्च तस्य मायामयसृष्टिहेतोर्वैषम्यादिप्रसङ्गाभावादिति भावः ॥ ३४ ॥
दूषयति –
सदेवेति ।
द्वितीयं निरस्यति –
सृष्टीति ।
पराचीनं हि कर्म प्रथमसृष्टेश्चरमसृष्टेर्वा हेतुरिति विकल्प्याद्ये
सापेक्षत्वमाक्षिप्य समाधत्ते -
न कर्मेति ।
चोद्यं व्याकुर्वन्प्राचीनं पराचीनं वा कर्मापेक्षमाणमिति विकल्प्याद्यं परस्पराश्रयत्वमुक्त्वा द्वितीयं प्रत्याह -
अत इति ।
देवादिवैचित्र्यादूर्ध्वं कर्मवैचित्र्ये सति तदपेक्षयेश्वरस्य प्राणिषु सुखादिवैचित्र्यनिर्मातृत्वेऽपि प्राथमिकविचित्रसृष्टिहेत्वभावात्तदैकरूप्यं स्यादित्यर्थः ।
सूत्रावयवं व्याकुर्वंन्नुत्तरमाह -
नैष दोष इति ।
तदेव स्फोरयति -
भवेदित्यादिना ।
सृष्टेरैकरूप्यं संसारस्य सादित्वेन नानाहेत्वभावाद्भवति । तस्य त्वनादित्वे पूर्वपूर्वकर्मवैचित्र्यवशादुत्तरोत्तरविचित्रसृष्टिसिद्धिरित्यर्थः ॥ ३५ ॥
सिद्धवदुक्तस्य संसारानादित्वस्य समर्थनार्थमुत्तरसूत्रमुत्थापयति -
कथमिति ।
सूत्रं व्याकरोति -
उपपद्यते चेति ।
उपपत्तिमेव मोक्षकाण्डप्रमाण्यानुपपत्तिलक्षणां विवृणोति -
आदिमत्त्व इति ।
अन्यथा कर्मकाण्डप्रामाण्यानुपपत्तेश्च संसारस्थानादित्वमादेयमित्याह -
अकृतेति ।
अननुष्ठिते कर्मणि फलप्राप्तौ विधिनिषेधशास्त्रानर्थक्यमिति भावः ।
सुखादिवैषम्यस्य कर्मनिमित्तत्वाभावेऽपि निमित्तान्तरं भविष्यतीति चेत्तत्किमीश्वरः किंवाऽविद्या अथवा शरीरमिति विकल्प्याद्यं दूषयति -
नचेति ।
उक्तम् ।
‘ईश्वरस्तु पर्जन्यवत्’ इत्यादाविति शेषः ।
द्वितीयेऽपि केवलाविद्या वैषम्यहेतुरुत रागाद्यपेक्षेति विकल्प्याद्यं प्रत्याह -
नचाविद्येति ।
स्वापादावदर्शनादिति भावः ।
कल्पान्तरे संसारस्थानादित्वं दुर्वारमिति मत्वाह -
रागादीति ।
रागद्वेषमोहा रागादयः । ते च पुरुषं दुःखादिभिः क्लिश्यन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तं धर्मादिलक्षणं कर्म तदपेक्षाऽविद्या स्वाश्रये सुखादिवैषम्यं करोति । अविद्या खल्वनादिरनिर्वाच्या चिन्मात्रे प्रतीचि वर्तमाना तत्र भ्रान्तिमुपनयति, सा च शोभनाशोभनाध्यासरूपा रागद्वेषद्वारा पुण्यापुण्ये निर्वर्तयति, ते च विचित्रे सुखदुःखे सञ्चिनुत इत्यनाद्यविद्यायाः परम्परया वैषम्यहेतुत्वे संसारस्यानादित्वमावश्यकम् , उक्तविभ्रमादेरेव संसारत्वात्तस्य च प्रवाहरूपेणानादित्वादिति भावः ।
तृतीयं निरस्यति -
नचति ।
अस्तु तर्हि कर्मनिबन्धनं शरीरं वैषम्यकारणं, तत्राह -
नच शरीरमिति ।
कथं तर्हि परस्पराश्रयत्वं परिहर्तुं पार्यते, तत्राह -
अनादित्वे त्विति ।
उपपत्तेः हेतुफलभावस्येति शेषः ।
संसारस्यानादित्वसाधनमुपपत्तिरनुग्राह्यमानाभावे न तदुपपादयितुमलमित्याशङ्क्य सूत्रावयवं व्याकरोति -
उपलभ्यते चेति ।
संसारोऽनादिरित्येवंवादिन्यौ श्रुतिस्मृती नैव दृश्येते, तत्कथमिदमीदृशमित्याशङ्क्य श्रौतं लिङ्गं संसारस्यानादित्वसाधकमादर्शयति -
श्रुतौ तावदिति ।
शारीरस्यात्मनः सर्गप्रमुखे प्राणधारणनिमित्तेन जीवशब्देन परदेवतायाः परामृश्यमानत्वेऽपि कुतः संसारस्यानादित्वमित्याशङ्क्याह -
आदिमत्त्वे त्विति ।
प्रागनवधारितप्रणः । सन्नात्मा शारीर इति शेषः ।
ननु भाविनीं वृत्तिमाश्रित्यात्मनि जीवशब्दो ‘गृहस्थः सदृशीं भार्याम्’ इतिवद्भविष्यति, नेत्याह -
नचेति ।
संसारस्यानादित्वे श्रौतं लिङ्गान्तरमाह -
सूर्येति ।
श्रुतौ स्मृतौ चोपलभ्यते संसारस्यानादित्वमिति प्रतिज्ञाय श्रौतमुपलम्भमुपदर्श्य स्मार्तमुपलम्भमुपदर्शयति -
स्मृताविति ।
अस्य संसारवृक्षस्य परिकल्पितस्य रूपं पारमार्थिकमधिष्ठानं परं ब्रह्म तत्तथा घटादिवत्प्राकृतैर्व्यवहारभूमौ नोपलभ्यते । न चान्तोऽवसानमन्तरेण ब्रह्मविद्यामस्य दृश्यते । आदिश्चासत्त्वादेवास्य नावसीयते । सम्प्रतिष्ठा मध्यं चास्य न प्रतिभाति । अनिर्वाच्यत्वादित्यर्थः ।
श्रुतिस्मृतिसिद्धेऽर्थे पौराणिकीं संमतिमाह -
पुराणे चेति ॥ ३६ ॥
पूर्वाधिकरणे कर्मवशादीश्वरस्य विषमसृष्टिहेतुत्वमुक्तं तथापि तस्य सगुणत्वमुपादानत्वान्मृदादिवदित्याशङ्क्याह -
सर्वधर्मेति ।
निर्गुणस्य ब्रह्मणो जगदुपादानत्ववादिसमन्वयो विषयः । स किं यन्निर्गुणं न तदुपादानं यथा गन्ध इति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे वृत्तमनूद्य सङ्गतिमाह -
चेतनमित्यादिना ।
निर्गुणस्य गन्धवदनुपादानत्वाद्ब्रह्मणः सगुणत्वे मृदादिवदुपादानत्वेन प्राप्ते, विवर्ताधिष्ठानत्वस्यात्रोपादानत्वात्तस्य न निर्गुणेऽपि जात्यादावनित्यत्वाद्यारोपवदविरोधाद्युक्तं निर्गुणस्यापि ब्रह्मणो जगदुपादानत्वमिति राद्धान्तमभिसन्धाय सूत्राक्षराणि व्याचष्टे -
यस्मादिति ।
पादादिसङ्गतिचतुष्ट्यं फलं च पूर्वोत्तरपक्षयोर्यथापूर्वमवधेयम् ।
यद्यपि लोके सर्वज्ञत्वं कस्यचित्कारणस्य धर्मो न दृश्यते, तथापि कुलालादौ मृदादिप्रेरकत्वदर्शनाद्ब्रह्मण्यपि नियन्तरि तेन भवितव्यं, तस्य सर्वप्रेरकत्वस्य श्रौतत्वादर्थादेव सर्वज्ञत्वसिद्धिरित्याह -
सर्वज्ञमिति ।
एवं ब्रह्मणि सर्वशक्तिमत्त्वमपि शक्यमुपपादयितुमिति मत्वाह -
सर्वशक्तीति ।
तेनोपादानत्वमुपपादित्तं सर्वज्ञत्वेन निमित्तत्वमिति भेदः ।
निर्गुणत्वादिप्रयुक्तसर्वानुपपत्तिशङ्कोपशान्तये विशिनष्टि -
महामायं चेति ।
एतेन ब्रह्मण्यनवच्छिन्नं मायाऽविद्यादिशब्दितमनिर्वाच्यमज्ञानं कारणत्वादिसर्वव्यवहारनिर्वाहकमस्तीत्युक्तम् ।
यस्मादित्यस्यापेक्षितं पूरयन्पादार्थमुपसंहरति -
तस्मादिति ।
स्मृतिन्यायविरोधः समन्वयस्य नास्तीति सिद्धमिति वक्तुमितिशब्दः ॥ ३७ ॥
ब्रह्मणि कारणत्वानुगुणेषु सर्वज्ञत्वादिषूक्तेषु प्रधानेऽपि तदुपपत्तिमाशङ्क्योक्तम् -
रचनानुपपत्तेश्चेति ।
पूर्वपादेन समन्वये वादिभिरुत्प्रेक्षिता विलक्षणत्वादयो दोषा निरस्ताः । सम्प्रति परपक्षाणां भ्रान्तिमूलत्वं वक्तुं पादान्तरमारभ्यते ।
ननु तर्कशास्त्रवदस्य शास्त्रस्य तर्कप्रधानत्वाभावाद्वेदान्तवाक्यप्रधानत्वात्तेषां ब्रह्मणि तात्पर्यमेवात्र निरूपणीयम् , तदपेक्षितन्यायजातस्य समन्वयाध्याये सिद्धत्वात् , परपक्षबाधकतर्कोक्तिस्तु नेहोपयुज्यते, तत्किमनेन पादेन, तत्राह -
यद्यपीति ।
परपक्षप्रतिक्षेपमन्तरेण स्वपक्षावधारणायोगात्तन्निराकरणमपि प्रकृतोपयोगीति पादारम्भं समर्थयते -
तथापीति ।
स्वपक्षं निर्धारयितुं परपक्षो निराचिकीर्षितश्चेत्तदेव तर्हि प्रथमं किमिति न कृतमित्याशङ्क्याह -
वेदान्तेति ।
परपक्षप्रतिषेधस्यापि तदर्थत्वमवशिष्टमित्याशङ्क्य करणस्येतिकर्तव्यतारूपादन्तरङ्गत्वाद्वाक्यनिरूपणस्यैव प्राथम्यमित्याह -
तद्धीति ।
सम्यग्धीदार्ढ्याय स्वपक्षस्थापनानन्तरं परपक्षनिरसनमुचितमिति निगमयितुमितिशब्दः ।
वीतरागाणां मोक्षमाणानामपेक्षितमोक्षहेतुतया तत्त्वज्ञानमात्रमुपयुक्तं, परपक्षाधिक्षेपस्तु वीतरागताविरोधित्वादयुक्त इति शङ्कते -
नन्विति ।
मुमुक्षूणां मोक्षौपयिकत्वेन सम्यग्धीरेवोपयुक्तेत्युक्तमङ्गीकरोति -
बाढमिति ।
किमिति तर्हि परपक्षनिराकरणं परविद्वेषकरणमभ्युपगतम् , तत्राह -
तथापीति ।
साङ्ख्यादिदर्शनानां महाजनपरिगृहीतत्वात्प्रधानादिकारणपरतया महत्त्वात्तत्त्वज्ञानापदेशेन प्रवृत्तत्वात्तदीयानुमानानां सर्वज्ञप्रणीततया तुल्यबलत्वेन वेदान्तैरबाधाद्वस्तुनि विकल्पानुपपत्तेस्तदनिरासे तेष्वपि सम्यग्धीहेतुत्वभ्रमः स्यात् । अतः सम्यग्धीदार्ढ्याय तन्निराकरणं कर्तव्यमिति तर्कपादारम्भः सम्भवतीत्यर्थः ।
पुनरुक्तिं शङ्कते -
नन्विति ।
प्रधानपक्षनिराकरणं सूत्रकारस्य विवक्षितमित्यत्राभ्यासलिङ्गमाह -
कामाच्चेति ।
तथापि परमाण्वादिवादव्युदासार्थं पादारम्भो भविष्यतीत्याशङ्क्याह -
एतेनेति ।
पूर्वं प्रधानादीनां श्रुतिमत्त्वं निरस्तमिदानीं युक्तिमत्त्वं निरस्यते तेषामिति विशेषं वदन्नुत्तरमाह -
तदुच्यत इति ।
स्वपक्षे परैरुद्भावितदोषनिरासानन्तरं स्वतन्त्राणां परकीययुक्तीनां स्वतन्त्राभिरेव युक्तिभिः स्वपक्षं स्थापयितुं निरसनं कार्यमिति पादान्तरमर्थवदिति पादसङ्गतिरुक्ता । साङ्ख्ययुक्तिनिरासस्य समन्वये तद्विरोधनिरसनद्वारा तद्दार्ढ्यार्थत्वादस्याधिकरणस्य पादादिसङ्गतयः ।
अत्र पूर्वपक्षे साङ्ख्ययुक्तिविरोधादसिद्धिः समन्वयस्य फलति, सिद्धान्ते तु तदविरोधात्तत्सिद्धिः । तत्र प्रधानमचेतनं जगदुपादानमिति साङ्ख्यराद्धान्तो विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -
तत्रेति ।
साङ्ख्यीयमनुमानं वक्तुं व्याप्तिमाह -
यथेति ।
ये यत्स्वभावान्वितास्ते तत्स्वभाववस्तुप्रकृतिकाः, यथा घटादयो मृत्स्वभावान्वितास्तत्प्रकृतिका इत्यर्थः ।
पक्षधर्मतां हेतोर्दर्शयन्ननुमानमाह -
तथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तत्स्वभावान्वितत्वात् , घटादिवदित्यर्थः ।
ननु सर्वस्य कार्यस्योपादानं सुखदुःखमोहात्मकं किञ्चिद्भविष्यति तथापि कथं प्रधानसिद्धिः, तत्राह -
यत्तदिति ।
सुखदुःखमोहात्मतैव सत्त्वरजस्तमोरूपतेति मन्वानो विशिनष्टि -
तत्त्रिगुणमिति ।
कार्यमचेतनं दृष्ट्वा तत्कारणमपि तादृगेवानुमेयमित्याह -
मृद्वदिति ।
किमर्थं तत्परिणमते, तत्राह -
चेतनस्येति ।
अर्थशब्दो भोगापवर्गार्थः ।
अचेतनस्य प्रयोजनपरिज्ञानाभावादप्रवृत्तिः ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायादित्याशङ्क्याह -
स्वभावेनेति ।
विचित्रो विविधो महदहङ्कारादिविकारस्तद्रूपेणेति यावत् ।‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य’ इत्यव्यक्तसिद्धिहेतुषु परोक्तेषु समन्वयाख्यं हेतुमुपसंहर्तुमितिशब्दः ।
हेत्वन्तराण्यवतारयति -
तथेति ।
भिद्यन्त इति भेदा विकारास्तेषां परिमाणमियत्ता, ततो लिङ्गत्तदेव प्रधानमनुमिमते । विमतमविभक्तैकवस्तुप्रकृतिकं, परिमितत्वात् , घटादिवत् । प्रवृत्तिशक्तिमत्त्वादपि तदेव प्रधानमनुमिन्वन्ति । विमतं जडप्रकृतिकं सादित्वे सति प्रवृत्तिशक्तिमत्त्वात् , रथादिवत् । सादित्वात्प्रकृतिमात्रसिद्धौ तद्विशेषसिद्ध्यर्थं विशेषणम् । कारणकार्यविभागादपि लिङ्गात्तदेव निश्चिन्वन्ति । यत उत्पद्यते तत्कारणं यच्चोत्पद्यते तत्कार्यमित्येतयोर्लोकप्रसिद्ध्योर्विभागः । स च समयोरेव दृष्टः । तथाच जगत्प्रकृती तुल्यस्वभावे, प्रकृतिविकारसम्बन्धसम्बन्धित्वात् , मृद्धटवत् । वैश्वरूप्यं विचित्रनानारूपत्वं तस्याविभागादविभक्तजडवस्तुप्रकृतिगमकत्वादपि तदेवाध्यवस्यन्ति । विमतमेकजडवस्तुप्रकृतिकं, विचित्ररचनात्मकत्वात् , एकबीजप्रसूताङ्कुरपुष्पफलादिवदित्यर्थः ।
समन्वयस्य साङ्ख्ययुक्तिविरोधादसम्भवे प्राप्ते सिद्धान्तयति -
तत्रेति ।
यत्त्वनुमानैरचेतनप्रकृतिकं जगदिति तत्राचेतनप्रकृतिकत्वमात्रं जगतः साध्यं स्वतन्त्राचेतनप्रकृतिकत्वं वा । प्रथमे सिद्धसाधनम् , ईश्वराधिष्ठितत्रिगुणात्मकमायाया जगत्प्रकृतिकत्वावगमात् । द्वितीये विरुद्धता सत्प्रतिपक्षसाधनता चेति मत्वाह -
यदीति ।
स्वतन्त्रमचेतनं जगदुपादानमेतदित्युक्तम् ।
दृष्टान्तस्य साध्यविकलतामभिसन्धायोक्तम् -
नाचेतनमिति ।
स्वातन्त्र्यमेव व्याचष्टे -
चेतनेति ।
यादृच्छिकवायुजलादिभूतान्तरसम्पर्काधीनतया कार्यमात्रोत्पत्तावपि जलाहरणादिसमर्थघटादिकार्यजनकत्वं चेतनानधिष्ठितस्य मृदादेर्नास्तीति मन्वानो विशिनष्टि -
विशिष्टेति ।
अधुना विरुद्धतां सप्रतिसाधनतां च दर्शयन्व्याप्तिमाह -
गेहेति ।
यद्धि विचित्रं कार्यं तन्न स्वतन्त्राचेतनप्रकृतिकं यथा गृहप्रासादादीत्यर्थः ।
विचित्रकार्यत्वस्य पक्षधर्मतामादर्शयति -
तथेति ।
जगद्विविधं बाह्यमाध्यात्मिकं च । बाह्यं पृथिव्यादि । तद्विशिनष्टि -
नानेति ।
नानाविधं कर्म शुभाशुभं व्यामिश्ररूपं, अस्य फलं सुखं दुःखं च, तदुपभोगयोग्यम् , साधनमित्यर्थः ।
आध्यात्मिकं देहादिजगद्विशिनष्टि -
नानेत्यादिना ।
देवतिर्यङ्मनुष्यत्वाद्या नानाविधा जातयस्ताभिरन्वितम् , तासामधिष्ठानमित्यर्थः ।
तस्य चेतनकृतत्वसम्भावनार्थमाह -
प्रतिनियतेति ।
प्रतिनियता अवयवविन्यासा यत्र देहादौ तत्तथोक्तम् । देहाद्याश्रयस्यैवात्मनः सुखाद्यनुभवात्तदधिष्ठानत्वं देहादेरौपचारिकमिति मत्वोक्तम् -
अनेककर्मेति ।
विशिष्टरचनात्मकतां जगतो दर्शयति -
प्रज्ञावद्भिरिति ।
तेन क्षेत्रज्ञानधिष्ठितप्रधानकार्यत्वं जगतोऽर्थादपास्तम् ।
विमतं न स्वतन्त्राचेतनकार्यं, विचित्रकार्यत्वात् , विशिष्टरचनात्मकत्वाद्वा, विशिष्टशिल्पिनिर्मितप्रासादादिवदित्यनुमानमाह -
कथमिति ।
किञ्च न प्रधानं जगत्कारणं, केवलाचेतनत्वात् , लोष्टवदित्याह -
लोष्टेति ।
किञ्च विमतं विशिष्टचेतनाधिष्ठितमेव स्वकार्यकरम् , अचेतनत्वात् , मृदादिवदित्याह -
मृदादिष्वपीति ।
ननु दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं तत्र चेतनप्रयुक्तत्वे दृष्टेऽपि तत्प्रयुक्तत्वं बहिरङ्गत्वादप्रयोजकमचेतनत्वमात्रमुपादानगतमन्तरङ्गत्वात्प्रयोजकम् । तथा च यथा निषिद्धत्वप्रयुक्ता व्याप्तिरधर्मत्वस्य हिंसात्वेऽध्यस्यते तथा विशिष्टरचनात्मकत्वादावेकत्र साधने प्रकृतिगताचेतनत्वचेतनाधिष्ठितत्वसाध्यद्वयवत्यन्तरङ्गाचेतनत्वप्रयुक्ता हेतुसाध्ययोर्व्याप्तिर्बहिरङ्गचेतनाधिष्ठितत्वेऽध्यस्तेति कुतो जगतश्चेतनाधिष्ठिताचेतनप्रकृतिकत्वमत आह -
न चेति ।
नान्तरङ्गबहिरङ्गत्वकृते व्यापकत्वाव्यापकत्वे किं त्वव्यभिचारव्यभिचारकृते । महानसादिस्वरूपस्यान्तरङ्गस्यापि व्यभिचाराद्धूमवत्त्वं प्रत्यव्यापकत्वात् , बहिरङ्गस्यापि वह्निसंयोगस्याव्यभिचाराद्व्यापकत्वादिति भावः ।
किञ्च मृदादिगतचेतनप्रयुक्तत्वस्य जगत्प्रकृतावनुपगमो मानान्तरविरोधाद्वा तदनुग्रहाभावाद्वेति विकल्प्याद्यं दूषयति -
न चैवमिति ।
मृदादिलौकिकप्रकृतिषु दृष्टचेतनप्रयुक्तत्वस्य जगत्प्रकृतावभ्युपगमे सतीति यावत् ।
द्वितीयं प्रत्याह -
प्रत्युतेति ।
सम्प्रति साधनत्वादिफलमुपसंहरति -
अत इति ।
पादस्याद्ये सूत्रे हेत्वन्तरानुक्तिपरे चशब्दानुपपत्तिरित्याशङ्क्याह -
अन्वयादीति ।
नाचेतनं जगत्कारणमनुमातव्यमिति पूर्वेण हेत्वन्तरं सम्बध्यते ।
ननु सर्वस्यापि कार्यस्य यथायथं सुखादिव्यञ्जकत्वेन तदन्वितत्वानुभवात्कथमन्वयानुपपत्तिः, तत्राह -
न हीति ।
प्रत्यक्षविरुद्धतया कालात्ययापदिष्टत्वाच्चायुक्तः समन्वयहेतुरित्याह -
सुखादीनामिति ।
किञ्च शब्दादयो न सुखाद्यात्मानः, तन्निमित्तत्वात् , यद्यन्निमित्तं न तत्तदात्मकं, यथा कुलालादि कुम्भादिनिमित्तं न तदात्मकमिति प्रत्यनुमानमाह -
तन्निमित्तत्वेति ।
किञ्च शब्दाद्युपलभमानानां प्रत्येकमपर्यायेण सुखदुःखमोहप्रतीत्यभावाद्योग्यानुपलब्धिविरुद्धमनुमानमित्याह -
शब्दादीति ।
भावना तत्तज्जातियोग्या वासना तद्विशेषादुष्ट्रादीनां कण्टकादौ सुखादिदर्शनात्स्वतः सुखादिरूपताभावाद्रूपादीनां सामान्यादीनां च द्रव्येष्वनुगतनामतदुपादानत्वादनैकान्तिकश्च समन्वयः । तस्मादनुपपत्तिः सिद्धेत्यर्थः ।
आदिशब्दोपात्तां परिमितत्वानुपपत्तिं कथयति -
तथेति ।
तस्याः स्फुटीकरणार्थं परोक्तमनुमानमनुवदति -
परिमितानामिति ।
अविभक्तमेकमनुगतं वस्तु संसर्गशब्देन लक्ष्यते । देशतो वा कालतो वा वस्तुतो वा परिमितत्वम् । आद्ये भागासिद्धिराकाशादिष्वभावात् । द्वितीये स्वरूपासिद्धिः, पञ्चविंशतितत्त्वातिरिक्तकालानभ्युपगमात् । न च कारणमेव केनचिदुपाधिना कालशब्दवाच्यं, तथा सति परिमितत्वस्य तद्व्याप्यत्वस्य पुरुषेष्वनैकान्तिकत्वादित्यभिप्रेत्य तृतीयं प्रत्याह -
सत्त्वेति ।
संसर्गपूर्वकत्वप्रसङ्ग इति ।
गुणानां संसृष्टानेकवस्तुप्रकृतिकत्वप्रसक्तिरित्यर्थः ।
प्रकृतिविकारतुल्यस्वभावानुमानस्य प्रत्यनुमानविरोधमाह -
कार्येति ।
विमतं न केवलाचेतनपूर्वकं, कार्यत्वात् , सम्प्रतिपन्नवदित्यर्थः ॥ १ ॥
यत्तु ‘शक्तितः प्रवृत्तेश्च’ इति, तत्राह -
प्रवृत्तेश्चेति ।
प्रवृत्तेश्चानुपपत्तेर्नानुमानिकं कारणमिति योजना ।
यद्यपि स्वतन्त्रस्य कारणस्य प्रवृत्तिरत्र निरस्यते तथापि तुल्यन्यायतया कार्यस्यापि सा निरस्तैव भवतीति ‘शक्तितः प्रवृत्तेश्च’ इत्यस्य हेतोर्विरुद्धतोपदर्शनमिदमित्याशयवानाह -
आस्तामिति ।
का सा रचनार्था प्रवृत्तिर्यस्याः संप्रत्यनुपपत्तिरुपन्यस्यते, तामाह -
साम्येति ।
नन्वेषैव रचना न पुना रचनार्थेत्याशङ्क्याह -
सत्त्वेति ।
तस्य रचनार्थत्वं स्पष्टयति -
विशिष्टेति ।
न हि साम्यावस्थायां प्रधानस्य विचित्रविकाररचनाभिमुख्येन प्रवृत्तिरवकल्पते, तथा च गुणवैषम्यापत्तेर्भवति रचनार्थेत्यास्थेयमित्यर्थः ।
विमतं न प्रवृत्तिशक्तिमत् , केवलाचेतनत्वात् , संमतवदित्याह -
सापीति ।
दृष्टान्तस्य साध्यवैकल्यमुद्धरति -
न हीति ।
तेषु स्वतन्त्रेषु प्रवृत्त्यभावेऽपि प्रधाने तथाविधे सा स्यादिति व्यवस्थामाशङ्क्याह -
दृष्टाच्चेति ।
अचेतनं मृदादि चेतनानधिष्ठितं प्रवृत्तिशक्तिशून्यं दृष्टं, ततश्चादृष्टे प्रधानेऽपि स्वतन्त्रे प्रवृत्तिशक्तिराहित्यामिति कल्पनाया दृष्टानुसारित्वादित्यर्थः ।
अनुमानफलं निगमयति -
अत इति ।
समन्वयाद्यनुपपत्तिं दृष्टान्तयितुमपिशब्दः ।
अचेतनस्य प्रवृत्तिं प्रतिषेधता केवलचेतनस्य वा तस्यैवाचेतनसंयुक्तस्य वा प्रवृत्तिर्विवक्षितेति विकल्प्याद्यं दूषयन्नाशङ्कते -
नन्विति ।
केवलस्य चेतनस्य प्रवृत्तिरदृष्टेत्येतदङ्गीकरोति -
सत्यमिति ।
केवलस्याचेतनस्यैव प्रवृत्तिः स्यादित्याशङ्क्याह -
तथापीति ।
चेतनमात्रस्यादृष्टापि प्रवृत्तिरुभयसम्बन्धादुत्पद्यमाना किमित्यचेतनाधीना, चेतनाधीनैव किं न स्यादित्यर्थः ।
उभयसम्बन्धात्प्रवृत्त्युत्पत्तावपि चेतनस्य तदाश्रयत्वादर्शनादचेतनस्यैव तद्दर्शनात्तस्यैव प्रवृत्तिरिति मन्वानो द्वितीयं निराकुर्वन्नाशङ्कते -
न त्विति ।
तुशब्दश्चेतनस्य जगत्सर्गे प्रवृत्तिरिति मतव्यावृत्त्यर्थः । सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा न तु चेतनाश्रया तन्न सिद्धान्तसिद्धिरित्यर्थः ।
तन्न प्रश्नपूर्वकं सिद्धान्ती गूढाभिसन्धिर्विमृशति -
किं पुनरिति ।
केवलस्य चेतनस्याचेतनस्य वा प्रवृत्त्यदर्शनदशायामिति सप्तम्यर्थः ।
यस्मिन्नित्यचेतनस्य रथादेरुक्तिः । तस्येति संयोगिनश्चेतनस्याभिधानम् । तत्र साङ्ख्यो ब्रूते -
नन्विति ।
युक्तत्वे हेतुमाह -
उभयोरिति ।
प्रवृत्तितदाश्रययोरिति यावत् ।
आत्मनोऽपि प्रत्यक्षत्वात्प्रवृत्तितदाश्रययोस्तुल्यं प्रत्यक्षत्वं पक्षान्तरेऽपीत्याशङ्क्याह -
न त्विति ।
प्रत्यक्षत्वाभावे कथमात्मसिद्धिरित्याशङ्क्यानुमानादित्याह -
प्रवृत्तीति ।
अनुमानसिद्धस्य चेतनस्य न प्रवृत्त्याश्रयतेति दर्शयितुमेवकारः ।
कथमनुमानमित्यपेक्षायां तत्प्रकारं सूचयति -
केवलेति ।
वैलक्षण्यं प्राणादिमत्त्वम् । इतिशब्दो यस्मादर्थे । जीवद्देहः सात्मकः, प्राणादिमत्त्वात् , न यः सात्मको न स प्राणादिमान् यथा रथ इत्यनुमानात्तत्सद्भावमात्रं सिध्यतीत्यर्थः ।
केवलचेतनो न प्रवृत्त्याश्रयतया प्रत्यक्षो भवतीत्यत्र लिङ्गमाह -
अत एवेति ।
केवलश्चेतनो यतो न प्रत्यक्षीभवत्यत एव लोकायतानां विवादः । अन्यथा व्यतिरिक्तात्मनि विवादो न स्यादित्यर्थः । दर्शनात्प्रवृत्तेश्चैतन्यस्य चेत्यध्याहारः ।
चेतनाश्रयप्रवृत्तिरप्रत्यक्षा प्रत्यक्षा त्वचेतनाश्रयेति स्थिते फलितमाह -
तस्मादिति ।
अचेतनस्य प्रवृत्तिमत्त्वमुपेत्य चेतनस्य तत्र प्रयोजकत्वमेष्टव्यमिति परिहरति -
तदभिधीयत इति ।
किमचेतनस्य प्रवृत्त्याश्रयत्वमेव साध्यते किं वा प्रवृत्तेश्चेतनानपेक्षत्वमपीति विकल्प्याद्यमङ्गीकरोति -
नेत्यादिना ।
द्वितीयं प्रत्याह -
सा त्विति ।
प्रवृत्तेश्चेतनकृतत्वेऽन्वयव्यतिरेकौ प्रमाणयति -
तद्भाव इति ।
न च रथादौ प्राणाद्यभावेऽपि प्रवृत्त्यभावासम्भवाद्व्यतिरेकासिद्धिः । प्राणादेरपि रथादिवदचेतनत्वाच्चेतनाधीनप्रवृत्तिकत्वानुमानात्प्राणादीनां च प्राणाद्यन्तराभावेऽपि प्रवृत्तिदर्शनादिति भावः ।
अन्यगतापि प्रवृत्तिरन्याधीनेत्यत्र दृष्टान्तमाह -
यथेति ।
तत्राप्यन्वयव्यतिरेकौ दर्शयति -
तत्संयोग इति ।
तथोक्ताभ्यामन्वयव्यतिरेकाभ्यामचेतने दृष्टापि प्रवृत्तिश्चेतने सम्भवतीति चेतनकृतैवेत्याह -
तद्वदिति ।
लोकायतमते चेतनस्यैवानुपगमात्कथमन्वयादिना तस्य प्रवृत्तौ प्रयोजकत्वमित्याशङ्क्याह -
लौकायतिकानामिति ।
अचेतनस्य प्रवृत्तिरत्त्वेऽपि प्रवृत्तेश्चेतनाधीनत्वमावश्यकमिति सिद्धान्तिना स्वाभिसन्धिरुक्तः । सम्प्रति प्रवृत्तिमतामेव राजप्रभृतीनां प्रवर्तकत्वोपलम्भादात्मनस्तदभावान्न प्रवर्तकतेति शङ्कते -
नन्विति ।
लोकसिद्धेन साङ्ख्यसम्मतेन च दृष्टान्तेन निराचष्टे -
नेत्यादिना ।
लोकसिद्धदृष्टान्तं विवृणोति -
यथेति ।
द्वितीयमुदाहरणं प्रपञ्चयति -
यथा वेति ।
दृष्टान्तयोर्दार्ष्टान्तिकमाह -
एवमिति ।
तस्य प्रवर्तकत्वार्थं प्रवर्त्यसम्बन्धमाह -
सर्वगत इति ।
सर्वमूर्तसंयोगं व्यावर्तयति -
सर्वात्मेति ।
बुद्धिपूर्वकारिणो हि प्रवर्तकत्वं दृष्टमित्युपेत्यात्रापि तदापादयति -
सर्वज्ञ इति ।
ईश्वरस्य सर्वप्रवर्तकत्वे युक्त्यन्तरमाह -
सर्वेति ।
सर्वात्मेत्युक्तमद्वितीयत्वं श्रुत्या चोदयति -
एकत्वादिति ।
कल्पितस्य द्वैतस्य प्रवर्त्यत्वसम्भवान्मायोपाधिकस्येश्वरस्य प्रवर्तकत्वमविरुद्धमिति परिहरति -
न । आविद्येति ।
अनादिरनिर्वाच्याविद्या तया प्रत्युपस्थापिते कल्पिते नामरूपे एव मायाकार्यत्वान्माया तत्रावेशोऽध्यस्तचिदात्मसम्बन्धस्तद्वशेन तस्येश्वरादिभावस्यासकृदुक्तत्वेनास्य चोद्यस्य प्रत्युक्तत्वान्मैवमित्यर्थः ।
स्वपक्षे रचनार्थप्रवृत्त्युपपत्तिमुपसंहरति -
तस्मादिति ।
परमते तदनुपपत्तिं निगमयति -
न त्विति ॥ २ ॥
केवलाचेतनस्य मृदादेरदृष्टापि प्रवृत्तिस्तथाभूतस्यान्यस्य दृष्टेत्यचेतनकारणत्वपक्षेऽपि प्रवृत्तिः सम्भवतीति शङ्कित्वा परिहरति -
पयोम्बुवदिति ।
सूत्रे शङ्काभागं विभजते -
स्यादेतदिति ।
क्षीरस्यापि चेतनाधिष्ठितस्यैव प्रवृत्तिरित्याशङ्क्य विशिनष्टि -
स्वभावेनेति ।
तत्प्रवृत्तेरर्थवत्त्वमाह -
वत्सेति ।
केवलचेतनस्याप्रवृत्तिरित्यत्र क्षीरे व्यभिचारमुक्त्वा जलेऽपि व्यभिचारमाह -
यथा चेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
पुरुषार्थो भोगश्चापवर्गश्च ।
तत्रापीति परिहारमवतार्य व्याचष्टे -
नैतदिति ।
कथमनुमानमित्युक्ते तत्प्रकारं सूचयति -
उभयवादीति ।
विमता प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, अचेतनप्रवृत्तित्वात् , सम्प्रतिपन्नप्रवृत्तिवदित्यनुमानात्पयोम्बुनोरपि पक्षान्तर्भावान्न व्यभिचाराशङ्केत्यर्थः ।
किञ्च शास्त्रेण तत्रापि चेतनाधिष्ठितत्वस्य सिद्धत्वेन सपक्षत्वान्न व्यभिचार इत्याह -
शास्त्रं चेति ।
तस्यार्थं सङ्क्षिपति -
समस्तस्येति ।
शास्त्रानुमानाभ्यां सिद्धमर्थमुपसंहरति -
तस्मादिति ।
साध्यपक्षनिक्षिप्तत्वं साध्यवति पक्षे प्रविष्टत्वमेव । तच्च सपक्षनिक्षिप्तत्वस्याप्युपलक्षणम् । अनुपन्यासो न व्यभिचारभूमिरित्यर्थः ।
इतश्च क्षीरदृष्टान्तेऽपि व्यभिचारो नास्तीत्याह -
चेतनायाश्चेति ।
केवलाचेतनस्य पयसो न प्रवृत्तिरित्यत्र हेत्वन्तरमाह -
वत्सचोषणेनेति ।
अम्बुदृष्टान्तेऽपि सर्वथानपेक्षत्वं चेतनानपेक्षत्वं वा प्रवृत्ताविति विकल्प्याद्यं दूषयति -
न चेति ।
द्वितीयं निरस्यति -
चेतनेति ।
उपदर्शितम् । शास्त्रेणेति शेषः ।
सूत्रकारस्य पूर्वापरविरोधमाशङ्क्य परिहरति -
उपसंहारेति ।
लोकदृष्ट्या शास्त्रदृष्टया चेति सूत्रद्वयमविरुद्धमित्यर्थः ॥ ३ ॥
प्रधानस्य स्वातन्त्र्येण प्रवृत्त्यसम्भवेऽपि धर्माद्यपेक्षया प्रवृत्तिः स्यादित्याशङ्क्याह -
व्यतिरेकेति ।
व्यतिरेकानवस्थितिं दर्शयितुं परपक्षमनुवदति -
साङ्ख्यानामिति ।
सम्प्रति व्यतिरेकानवस्थितिं दर्शयति -
नेत्यादिना ।
धर्मादेः सत्त्वेऽपि प्रतिबन्धनिवृत्तिमात्रोपयोगादकादाचित्कत्वाच्च न कादाचित्कप्रवृत्त्यादिप्रयोजकतेति भावः ।
किञ्च प्रधानान्तर्भूतत्वाद्धर्मादेर्न तत्प्रवृत्तिप्रयोजकत्वम् । न हि किञ्चिदपि प्रधानातिरिक्तं तन्मते संमतमस्ति । न च तदेव तत्प्रवृत्त्यादौ प्रयोजकीभवतीत्यभिप्रेत्याह -
बाह्यमिति ।
मा भूद्धर्मादि प्रधानस्य प्रवर्तकं निवर्तकं वा, पुरुषस्तु तथेत्याशङ्क्याह -
पुरुषस्त्विति ।
अपेक्षणीयाभावादनपेक्षत्वे प्रधानस्यागन्तुकप्रवृत्तिनिवृत्त्योरनुपपत्तिरिति फलितमाह -
इत्यत इति ।
परपक्षेऽनुपपत्तिमुक्त्वा स्वपक्षमुपपादयति -
ईश्वरस्येति ॥ ४ ॥
चेतनमचेतनं वा निमित्तमनपेक्ष्य प्रधानस्य परिणामो न युक्त इत्युक्तम् । इदानीं तदभावेऽपि प्रवृत्तेर्दृष्टत्वात्कथमनुपपत्तिरित्याशङ्क्याह -
अन्यत्रेति ।
सूत्रव्यावर्त्यामाशङ्कामाह -
स्यादेतदिति ।
दृष्टान्ते निरपेक्षत्वनिश्चयहेतुं पृच्छति -
कथमिति ।
योग्यानुपलब्धेस्तथेत्याह -
निमित्तान्तरेति ।
तदनुपलब्धिमेव व्यतिरेकद्वारा स्फोरयति -
यदि हीति ।
योग्यानुपलब्ध्या निमित्तान्तराभावे सिद्धे फलितं दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -
तस्मादिति ।
धेन्वाश्चेतनस्य क्षीरपरिणामे नास्ति कारणता किन्तु तृणाद्युपयोगेनोपकारितेति चोद्यमनूद्य सूत्रमवतारयति -
अत्रेति ।
‘न तृणादिवत्’ इति भागं विभजते -
भवेदिति ।
आकाङ्क्षापूर्वकं सूत्रावयवमादत्ते -
कथमिति ।
तृणादेः सर्वत्र वा क्षीरीभावे निरपेक्षत्वं चेतने वेति विकल्प्याद्ये दोषमाह -
धेन्वैवेति ।
एवकारव्यावर्त्यं कीर्तयति -
न प्रहीणमिति ।
अनुडुहाद्युपयुक्तमिति तु भाष्य उपयुक्तत्वं नाशङ्कास्पदम् । एतदेव व्यतिरेकद्वारा विवृणोति -
यदि हीति ।
क्षीरीभवनं तृणादेरेतदित्युच्यते यत्तु निमित्तान्तरोपलम्भे तेनैव निमित्तेन तृणान्युपादाय यथाकामं क्षीरं सम्पाद्यतामिति, तत्राह -
न चेति ।
चेतनानपेक्षत्वपक्षं प्रत्याह -
भवति हीति ।
मनुष्याणां तृणादिना क्षीरसम्पादनं दुष्करमित्युपेत्योक्तम् । इदानीं तदेव नास्तीत्याह -
मनुष्या इति ।
तेषामुचितोपायोपादानेन तृणान्यादाय क्षीरसम्पादनसामर्थ्यमेवोदाहरति -
प्रभूतमिति ।
तृणादेः स्वाभाविकपरिणामासम्भवे स्थिते फलितमाह -
तस्मादिति ॥ ५ ॥
प्रधानस्य स्वाभाविकीं प्रवृत्तिमुपेत्यापि दूषयति -
अभ्युपगमेऽपीति ।
वृत्तमनूद्याभ्युपगमेऽपीति भागमपेक्षितं पूरयन्व्याकरोति -
स्वाभाविकीति ।
प्रश्नपूर्वकं हेतुमादत्ते -
कुत इति ।
पराभिप्रायमनूद्य प्रयोजनापेक्षाभावप्रसङ्गादित्येवंपरतया हेतुं व्याचष्टे -
यदीति ।
प्रसङ्गफलं प्रतिज्ञाहानिं प्रदर्शयति -
इत्यत इति ।
हेतोरर्थान्तरं वक्तुं शङ्कते -
स यदीति ।
व्यवस्थापकाभावान्नैषा व्यवस्थेत्यभिप्रेत्यार्थासम्भवादिति हेत्वर्थं वदन्विकल्पयति -
तथापीति ।
आद्यमनूद्याक्षिपति -
भोगश्चेदिति ।
अनाधेयातिशयस्य सुखदुःखप्राप्तिपरिहाररूपातिशयशून्यस्येत्यर्थः ।
भोगार्थैव प्रधानप्रवृत्तिरित्यत्र दोषान्तरमाह -
अनिर्मोक्षेति ।
न हि निरतिशयस्य पुरुषस्य स्वारसिकौ भोगापवर्गावङ्गीक्रियते । तेन प्रधानप्रवृत्तेर्भोगैकप्रयोजनत्वे हेत्वभावान्नैव पुंसो मोक्षः सेद्धुमर्हेदित्यर्थः ।
द्वितीयमनूद्य दूषयति -
अपवर्गश्चेदिति ।
स्वरूपावस्थानस्य सदातनत्वादित्यर्थः ।
ननु बन्धप्रध्वंसरूपापवर्गसिद्ध्यर्थंः प्रधानप्रवृत्तिरर्थवतीति चेत् । न । प्रधानाविवेकं विना पुरुषे बन्धासिद्धेः । न च तदविवेकनिवृत्त्यर्था तत्प्रवृत्तिरिति युक्तं, तथा सति हेत्वभावाद्भोगाभावप्रसङ्गादित्याह -
शब्दादीति ।
तदुपलब्धेर्भोगत्वादित्यर्थः ।
तृतीयेऽपि कतिपयशब्दाद्युपलब्धिर्वा समस्ततदुपलब्धिर्वा भोग इति विकल्प्याद्ये सर्वेषामेकदैव मुक्तिः स्यादिति मन्वानो द्वितीयं प्रत्याह -
उभयार्थतेति ।
औत्सुक्यनिवृत्त्यर्था प्रधानचेष्टेतीष्टत्वाद्यावदौत्सुक्यं तत्प्रवृत्तेर्नोक्ते दोषोऽस्तीत्याशङ्क्याह -
न चेति ।
ब्रह्मसूत्रा भाष्या तद्धि प्रधानस्य वा पुरुषस्य वा । नाद्य इत्याह -
न हीति ।
औत्सुक्यापरपर्यायकुतूहलितायाश्चेतनगामित्वावगमादित्यर्थः ।
न द्वितीय इत्याह -
न चेति ।
स्वरसतो हि पुरुषो निर्मलोऽभिलप्यते न तस्यौत्सुक्यरूपमलसम्बन्धः सिध्यति । तेन पुरुषस्यापि न सम्भवत्यौत्सुक्यमित्यर्थः ।
अस्ति पुरुषस्य दृक्शक्तिर्न च सा दृश्यमन्तरेणार्थवती, प्रधानस्य च सर्गशक्तिः सा सृष्टिं विनानर्थिका, तत्र चोभयविधशक्तिवैयर्थ्यपरिहारार्थं प्रधानप्रवृत्तिरिति शङ्कते -
दृक्शक्तीति ।
तर्हि शक्त्योर्नित्यत्वात्तदर्थवत्त्वाय सदा प्रधानप्रवृत्तेर्मोक्षासिद्धिरिति दूषयति -
सर्गेति ।
अर्थासम्भवान्निरपेक्षस्यैव प्रधानस्य प्रवृत्तिरित्येतदयुक्तमित्युपसंहरति -
तस्मादिति ॥ ६ ॥
पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निरस्यति -
पुरुषाश्मवदिति ।
चोद्यं विभजते -
स्यादेतदिति ।
पङ्गोरपि वागादिद्वारा प्रवर्तकत्वसम्भवात्तद्विरहिणि पुरुषे न प्रवर्तकतेत्यपरितुष्यन्तं प्रत्याह -
यथा वेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
पुरुषस्तूदासीनो न प्रवर्तको नापि निवर्तक इत्यत्रैव तत्प्रवर्तकत्वे प्रत्युक्ते कथं पुनराशङ्कोन्मिषेदित्याशङ्क्याह -
इति दृष्टान्तेति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्यापेक्षितं पूरयन्व्याकरोति -
अत्रेति ।
कथं दोषानिवृत्तिरित्याशङ्क्यापसिद्धान्तापत्तिं तावदाह -
अभ्युपेतेति ।
पुरुषस्य प्रधानप्रवर्तकत्वमङ्गीकुर्वतस्तत्प्र वर्तकत्वानभ्युपगमस्यासिद्धिरित्याशङ्क्याह -
कथं चेति ।
न हि प्रवर्तकत्वमुदासीनस्य युक्तमुदासीनत्वव्याघातादित्यर्थः ।
पङ्गुदृष्टान्तं विघटयति -
पङ्गुरपीति ।
पुरुषस्य प्रस्पन्दप्रयत्नव्यापारराहित्यं वक्तुं हेतुद्वयम् ।
अयस्कान्तदृष्टान्तेन स्वगतव्यापारमन्तरेणापि पुरुषस्य प्रवर्तकत्वमुपदिष्टमित्याशङ्क्याह -
नापीति ।
अयस्कान्तसंनिधावयोवत्कदाचिदेव संनिधौ सत्यपि प्रवृत्तिः स्यादित्याशङ्क्याह -
अयस्कान्तस्येति ।
परिमार्जनादीत्यादिशब्देन मुखाभिमुख्यसम्पादनं सङ्गृहीतम् ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमुक्त्वा फलितमाह -
इत्यनुपन्यास इति ।
किञ्च प्रवर्त्यप्रवर्तकभावस्य सम्बन्धसापेक्षत्वात्प्रधाननिमित्तो वा पुरुषनिमित्तो वा तदुभयव्यतिरिक्तनिमित्तो वा सम्बन्धस्तयोरिति विकल्पयति -
तथेति ।
सति विकल्पत्रये सम्बन्धानुपपत्तिरिति सम्बन्धः ।
नाद्य इत्याह -
प्रधानस्येति ।
न द्वितीय इत्याह -
पुरुषस्येति ।
न तृतीय इत्याह -
तृतीयस्येति ।
प्रधानस्याचेतनत्वादृश्यत्वे पुरुषस्य चेतनत्वाद्द्रष्टृत्वे योग्यतास्तीति तन्निमित्तो द्रष्टृदृश्यभाव एव सम्बन्धस्तयोरित्याशङ्क्याह -
योग्यतेति ।
किञ्च यथा स्वाभाविकप्रवृत्तिपक्षे विकल्प्यार्थाभावो दर्शितस्तथा पुरुषसम्बन्धात्प्रधानप्रवृत्तिपक्षेऽपि भोगो वा फलमपवर्गो वा द्वयं वेत्येवं विकल्प्यार्थाभावो वक्तव्य इत्याह -
पूर्ववच्चेति ।
नन्वयस्कान्तदृष्टान्तावष्टम्भेन भवतापि परमात्मा कूटस्थनित्य एव प्रवर्तकोऽभ्युपगतस्तथा चोक्तनीत्या त्वत्पक्षोऽपि न सिध्यति, तत्राह -
परमात्मनस्त्विति ।
अतिशयः साङ्ख्याभिमतात्पुरुषादिति शेषः ॥ ७ ॥
प्रधानस्य स्वाभाविकी पुरुषसंनिधेर्वा न प्रवृत्तिरित्युक्तम् । इदानीं कस्यचिद्गुणस्य प्राधान्यं कस्यचिदुपसर्जनत्वमित्यपि वैषम्यमभ्युपगतं स्वतः परतो वा न सम्भवतीत्याह -
अङ्गित्वेति ।
चकारसूचितां प्रतिज्ञां प्रकटीकरोति -
इतश्चेति ।
पञ्चम्यर्थमेव दर्शयन्प्रधानावस्थामनुवदति -
यद्धीति ।
सा च कूटस्था वा विकारिणी वेति विकल्प्याद्ये दोषमाह -
तस्यामिति ।
अनपेक्षस्वरूपाणां परस्परानपेक्षाणां गुणप्रधानत्वहीनानामङ्गाङ्गित्वायोगात्कार्यानुत्पत्तिरित्यर्थः ।
द्वितीयं दूषयति -
बाह्यस्येति ॥ ८ ॥
गुणानामनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्यत्रासिद्धिमाशङ्क्य परिहरति -
अन्यथेति ।
तत्रान्यथानुमितौ चेति भागं पूर्वपक्षत्वेन व्याकरोति -
अथापीति ।
निरपेक्षेषु गुणेषु गुणप्रधानभावानुपपत्तावपीति यावत् ।
गुणानामङ्गाङ्गित्वानुपपत्त्या महदादिकार्यानुत्पत्तिरूपो दोषो यथा न भवति तथा मिथोऽनपेक्षत्वलक्षणस्वभावादन्यथा प्रकारान्तरेण गुणानन्योन्यसापेक्षानेव कल्पयामोऽतो न प्रागुक्तदोषप्रसक्तिरित्युक्तम् । प्रकारान्तरेण कल्पनामेव प्रकटयति -
न हीति ।
तेषां मिथः सापेक्षत्वे विकारित्वे च तुल्यं प्रमाणासत्त्वमित्याशङ्क्याह -
कार्येति ।
तथापि कथं मिथः सापेक्षत्वं विकारित्वं वा गुणानामिति, तत्राह -
यथा यथेति ।
अपसिद्धान्तं शङ्कित्वोक्तम् -
चलमिति ।
उक्तोपगमफलमाह -
तस्मादिति ।
पूर्वपक्षमनूद्य ‘ज्ञशक्तिवियोगात्’ इत्यादि व्याकुर्वन्परिहरति -
एवमिति ।
येन येन विना कार्यं नोपपद्यते तत्तदपि तद्वशादेवानुमेयमित्याशङ्क्याह -
ज्ञेति ।
अनन्तरोक्तदोषनिरासं स्वीकृत्य व्यवहितदोषापत्तिमुक्त्वा संप्रत्यङ्गीकारं त्यजति -
वैषम्येति ।
विपक्षे दण्डमाह -
भजमाना वेति ।
अनन्तरो दोषो महदादिकार्योत्पादायोगः ॥ ९ ॥
इतश्चासङ्गतं साङ्ख्यमतमित्याह -
विप्रतिषेधाच्चेति ।
सूत्रं विभजते -
परस्परेति ।
विरोधमुदाहरति -
क्वचिदिति ।
त्वङ्भात्रमेव धीन्द्रियमनेकरूपादिधीसमर्थं कर्मेन्द्रियाणि पञ्च मनश्चेति सप्तेन्द्रियाणीत्यर्थः ।
पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाण्येकादशं मन इत्येकादशेन्द्रियाणीत्याह -
क्वचिदिति ।
प्रकारान्तरेण विप्रतिषेधमाह -
तथेति ।
तन्मात्रा भूतसूक्ष्माणि । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेवोच्यते । मिथोविरोधसमाप्तावितिशब्दः ।
विप्रतिषेधशब्दस्यार्थान्तरमाह -
प्रसिद्ध इति ।
साङ्ख्यवादस्योक्तनीत्या भ्रान्तिमूलत्वात्तदीयन्यायविरोधो न समन्वयस्येत्युपसंहरति -
तस्मादिति ।
साङ्ख्यसमन्वयस्यासामञ्जस्यादुपेक्षणीयत्वे प्रतिबन्द्या साङ्ख्यश्चोदयति -
अत्रेति ।
चोद्यं विवृणोति -
नन्विति ।
सिद्धान्तस्यासामञ्जस्ये हेतुमाह -
तप्येति ।
हेतुं साधयति -
एकं हीति ।
प्रपञ्चस्य ब्रह्मातिरेकात्कुतस्तदैक्यं, तत्राह -
सर्वेति ।
तदपि कथं, तत्राह -
सर्वस्येति ।
न च तावेकस्य युक्तौ । परसमवेतक्रियाफलशालि हि कर्म । ततस्तापकात्तप्यस्य भेदः, अन्यथा तद्भावायोगात्तदयोगे च व्यवहारे विरोधादयुक्तं त्वन्मतमित्यर्थः ।
एकस्यैवात्मनश्चेतनाचेतनात्मत्वात्तप्यतापकव्यवहारसिद्धौ नासामञ्जस्यमित्याशङ्क्याह -
यदीति ।
किं तयोरात्मरूपत्वं तद्धर्मत्वं वेति विकल्प्याद्यं प्रत्याह -
स इति ।
द्वितीयेऽपि तयोः स्वरूपान्तर्भावो बहिर्भावो वा ? प्रथमे प्रागुक्तदोषानुषक्तिं दृष्टान्तेन स्पष्टयति -
न हीति ।
औष्ण्यप्रकाशयोः स्वरूपत्वात्ताभ्यां दीपस्यानिर्मोक्षेऽपि तप्यतापकयोर्वीचीतरङ्गादिवद्धर्म्यनन्तर्भावाद्धर्मिणस्ताभ्यां पृथक्त्वान्नानिर्मुक्तिरिति पक्षान्तरमाशङ्क्याह -
योऽपीति ।
वीचीतरङ्गादीनां जलधर्मत्वेऽपि तेभ्यो जलं पृथगिष्टं तथा तप्यतापकयोरात्मधर्मत्वेऽपि ताभ्यामात्मा पृथगिति योऽपि मोक्षसम्भावनार्थमुपन्यासः, तत्रापि जलात्मनो वीच्यादिभिरनिर्मोक्षस्तेषां तत्सम्बन्धित्वेनाविर्भावादिना सदा सत्त्वात् , तथाऽऽत्मन्यपि तप्यतापकयोरुद्भवादिना नित्यत्वादात्मनस्ताभ्यामनिर्मोक्षान्मोक्षशास्त्रानर्थक्यमित्यर्थः ।
कर्मकर्तृत्वात्तप्यतापकयोर्भिन्नत्ववत्प्रसिद्धत्वादपि तयोर्भिन्नत्वमित्याह -
प्रसिद्धश्चेति ।
लौकिकीं प्रसिद्धिं प्रकटयति -
तथा हीति ।
अर्थी तप्यस्तापकश्चार्थस्तयोर्भेदे तावदनुभवमाह -
अर्थीति ।
तत्रैव युक्तिमाह -
यदीति ।
तयोर्भेदानुपगमेऽर्थस्यार्थिमात्रत्वमर्थिनो वार्थमात्रत्वम् । नाद्य इत्याह -
यस्येति ।
नित्यप्राप्तेऽर्थे नार्थितेत्यत्र दृष्टान्तमाह -
यथेति ।
दार्ष्टान्तिकं विवक्षन्नाह -
अप्राप्ते हीति ।
स्वरूपत्वेन प्राप्तेऽर्थे नार्थिनोऽर्थित्वमिति शेषः । एवमर्थस्यार्थिमात्रत्वं नेत्युपसंहर्तुमितिशब्दः ।
अर्थिनोऽर्थमात्रत्वं प्रत्याह -
तथेति ।
अर्थिनोऽर्थानतिरेके सतीति यावत् । अर्थिवदिति दृष्टान्तार्थोऽपिशब्दः ।
इष्टापत्तिमाशङ्क्याह -
न चेति ।
अर्थस्य स्वार्थत्वे शेषत्वधीविरोधः स्यादित्यर्थः ।
इतश्चार्थार्थिनोर्भिन्नतेत्याह -
सम्बन्धीति ।
तथापि कथं भिन्नत्वं, तत्राह -
द्वयोश्चेति ।
अर्थार्थिभेदमनुभवयुक्तिसिद्धं निगमयति -
तस्मादिति ।
अर्थार्थिनोरुक्तन्यायमनर्थानर्थिनोरपि सञ्चारयति -
तथेति ।
अर्थार्थिवत्तावपि भिन्नावेवेति सम्बन्धः ।
अर्थानर्थयोर्भेदमुदाहरति -
अर्थिन इति ।
तर्हि कथमेकस्यैव विरुद्धधर्मद्वयं, तत्राह -
ताभ्यामिति ।
तप्यतापकयोर्भिन्नत्वप्रसिद्धिमुपक्रम्यान्यदेवोक्तम् । न चानर्थानर्थिनोस्तप्यतापकत्वेऽपि तदर्थार्थिनोरस्तीत्याशङ्क्याह -
तत्रेति ।
तप्यतापकयोर्भिन्नत्वमुपपाद्य विपक्षे मोक्षासिद्धिं पूर्वोक्तामुपसंहरति -
इति तयोरिति ।
त्वन्मतेऽपि भिन्नयोरेव तप्यतापकयोर्वीचीतरङ्गादिवदुद्भवाभिभवाभ्यां नित्यत्वात्कुतो मुक्तिरित्याशङ्क्य - पूर्वपक्षी स्वपक्षे मोक्षसिद्धिमाह -
जात्यन्तरेति ।
नन्वविवेकस्तप्यतापकयोः संयोगे हेतुस्तस्य विवेकान्निवृत्तिरिति मते नित्यादागन्तुकाद्वा ततस्तन्निवृत्तिः । आद्ये सदामुक्ते संसाराभावः । द्वितीये त्वागन्तुकस्य विवेकस्यानाधेयातिशये पुंस्यसम्भवः । नच सत्त्वस्यैवासौ, तस्यैव सम्यग्धिया मोक्षो बन्धश्च तदभावादिति पुंसो द्वयाभावापातात् । मैवम् । बुद्धिसत्त्वस्थावपि बन्धमोक्षौ योद्धृगताविव जयपराजयौ स्वामिनि पुंस्युपचरितौ । तस्य बुद्धिसत्त्वाविभागापत्त्या तत्फलभोक्तृत्वादिति मत्वाह -
स्यादपीति ।
अनिर्मोक्षप्रसक्तेरयुक्तमौपनिषदं मतमिति प्राप्तमनूद्य समाधिसत्त्वं सूचयति -
अत्रेति ।
वस्तुत्वं तप्यतापकयोरुपेत्यानिर्मोक्षो विवक्ष्यते भ्रान्तित्वं वेति विकल्प्याद्य निराह -
नेत्यादिना ।
तदेव प्रपञ्चयति -
भवेदिति ।
विषयविषयिभावं तात्त्विकमिति शेषः ।
ऐक्ये तात्त्विको विषयविषयिभावो नेत्यत्र दृष्टान्तमाह -
नहीति ।
कैमुतिकन्यायार्थं सत्यपीत्युक्तम् । किमु कूटस्थे ब्रह्मणीत्यत्राक्षेपार्थे किंशब्दः ।
द्वितीयमवलम्बयितुं शङ्कयति -
क्वेति ।
बाह्यस्यान्तरस्य वाश्रयस्तप्यतापकत्वस्य पृच्छ्यते । प्रथमं प्रत्याह -
उच्यत इति ।
द्वितीयमादाय शङ्कते -
नन्विति ।
सापि लिङ्गदेहस्यैव स्यादित्याशङक्याह -
यदीति ।
कल्पितात्मत्वलिङ्गगामित्वेनान्तरस्य तस्य भ्रान्तिमात्रत्वमभ्युपेतमित्याह -
उच्यत इति ।
यत्तु लिङ्गस्य नाशित्वात्तद्गततप्यतापकत्वस्य स्वयमेव नाशाद्धेत्वनुष्ठानानर्थक्यमिति । तन्न । लिङ्गस्य यावदात्मभावित्वेनामुक्तेरवस्थानादित्याशयेनाह -
देहेति ।
किञ्च साङ्ख्यस्यापि तप्यतापकत्वमाविद्यं पारिशेष्यसिद्धम् । तप्तिर्हि तन्मते केवलस्य वा चेतनस्य संहतस्य वा तप्तेर्वा सत्त्वस्य वा । नाद्य इत्याह -
न चेति ।
न द्वितीय इत्याह -
नापीति ।
न तृतीय इत्याह -
न चेति ।
नच केवलस्य देहस्यैव तप्तिः ‘नाचेतनस्य देहस्य’ इत्युक्तत्वादित्याक्षिपति -
कथमिति ।
चतुर्थं शङ्कते -
सत्त्वमिति ।
तयोस्तप्यतापकत्वे तन्निवृत्तये हेत्वनुष्ठानं पुंसो न स्यादित्याह -
नेति ।
सत्त्वरजोभ्यामविवेकात्तस्यापि तप्तिः स्यादित्याशङ्क्याह -
ताभ्यामिति ।
आत्मनस्तप्ते सत्त्वे प्रतिबिम्बितत्वाद्युक्ता तप्तिरिति शङ्कते -
सत्त्वेति ।
किमिवशब्दस्याभासोऽर्थः सादृश्यं वा । प्रथमं प्रत्याह -
परमार्थत इति ।
क्वचिदिवशब्दस्य सादृश्येऽपि प्रयोगादिहापि तथेति द्वितीयं शङ्कित्वाह -
न चेदिति ।
चेतनस्य तप्यत्वं कल्पितमकल्पितं वोपेत्येवशब्दः सादृश्ये प्रयुक्तः । नाद्य, वस्तुतोऽतप्यत्वे सादृश्यस्याकिञ्चित्करत्वादित्यर्थः ।
कथमिवशब्दस्योक्तसादृश्यस्याकिञ्चित्करत्वं, तप्यमानसादृश्ये तप्यमानत्वयोगात् , तत्राह -
नहीति ।
पारिशेष्यं निगमयति -
अतश्चेति ।
परमते तप्यतापकत्वस्याविद्यत्वे किं ते जातं, तदाह -
नैवमिति ।
अनिर्वाच्यत्वेनाविद्यत्वं तप्यत्वस्य मया नेष्टमिति कल्पान्तरमाह -
अथेति
तप्तिक्रियायास्तत्सम्बन्धस्य च वस्तुत्वाज्ज्ञानादनिवृत्तेर्न मुक्तिरित्याह -
तवैवेति ।
सुतरामित्युक्तमतिशयमाह -
नित्यत्वेति ।
प्रधानं तापकम् ।
साङ्ख्यः स्वपक्षे मोक्षसिद्धिं शङ्कते -
तप्येति ।
निमित्तेनादर्शनेन सह वर्तत इति सनिमित्तः प्रकृतिपुरुषयोगस्तदपेक्षत्वादात्मनि तप्तेः, निमित्तनिवृत्त्या नैमित्तिकनिवृत्तौ शक्तिनित्यत्वेऽपि सर्वात्मना तापक्षयलक्षणो मोक्षः सिध्यतीत्यर्थः ।
अदर्शनस्याभावस्य नित्यत्वादनिवृत्तेस्तत्त्वान्तरेषु चानन्तर्भावात्तमस्यन्तर्भावमभ्युपेत्य प्रत्याह -
नेति ।
उद्भूतेन तमसा तप्यतापकयोः सम्बन्धोपपत्तेस्तत्त्वधिया तमसोऽभिभवे सम्बन्धाभावाद्बन्धध्वस्तिरित्याशङ्क्याह -
गुणानां चेति ।
परपक्षे मोक्षासिद्धिं प्रसाध्य स्वपक्षे तदुपपत्तिमाह -
औपनिषदस्येति ।
अनिर्मोक्षाशङ्का नेति सम्बन्धः ।
सा किं हेत्वभावाद्वा तप्यतापकयोः स्वाभाविकत्वाद्वा । नाद्य इत्याह -
आत्मेति ।
न द्वितीय इत्याह -
एकस्येति ।
तप्यतापकयोरस्वाभाविकत्वेऽपि विकारोपाधिकयोरुद्भवादिना नित्यत्वादनिर्मोक्षाशङ्केत्याशङ्क्याह -
विकारेति ।
आत्मैक्योपगमे कथं दृश्यमानं तप्यतापकत्वं, न खल्वेकस्मिन्नेवार्थार्थित्वादि युक्तमित्याशङ्क्य काल्पनिके व्यावहारिके तस्मिन्नानुपपत्तिरित्याह -
व्यवहारे त्विति ॥१०॥
वृत्तं कीर्तयति –
प्रधानेति ।
तस्य भ्रान्तिमूलत्वात् तदीययुक्तिविरोधः समन्वयस्य नास्तीत्युक्तमित्यर्थः ।
वैशेषिकाधिकरणस्य तात्पर्यमाह -
परमाण्विति ।
तस्य भ्रान्तिमूलत्वोक्त्या तदीययुक्तिविरोधो निरस्यः समन्वयस्येत्यर्थः ।
तन्निराकरणस्यास्मिन्नधिकरणेऽभावात्किमनेनेत्याशङ्क्याह -
तत्रेति ।
स्वपक्षदोषनिरासस्य स्मृतिपादसम्बन्धेऽपि प्रधानगुणानन्वयान्न चेज्जगत्तत्प्रकृतिकं तर्हि ब्रह्मविशेषगुणानन्वयान्न तत्प्रकृतिकमपि स्यादित्यवान्तरसङ्गतिलाभादिहेदमधिकरणमिति भावः ।
स्वपक्षदोषसमाधिद्वारा समन्वयदृढीकरणादध्यायादिसङ्गतयः । तत्र चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । तस्य वैशेषिकगुणारम्भानुमानेन विरोधोऽस्त्युत नेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षमाह -
तत्रेति ।
पूर्वपक्षे वैशेषिकानुमानविरोधाद्ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तदविरोधात्तत्सिद्धिरिति फलभेदः ।
तदीयानुमानं ब्रह्मकारणनिराकरणपरं दर्शयितुं तदभ्युपगममभिनयति -
कारणेति ।
समवायिकारणार्थं कारणपदमिति वक्तुं द्रव्यपदम् । गुणशब्दोऽसाधारणगुणार्थः ।
साधारणगुणानामारम्भकत्वेऽपि समवायिकारणस्थत्वानियमात् । कार्यस्य द्रव्यविशेषणं कार्यान्तरे तदनारम्भात् । गुणाश्च गुणान्तरमित्यत्रान्वयव्यतिरेकौ दर्शयति -
शुक्लेभ्य इति ।
ब्रह्मचैतन्यं न द्रव्यसमवायिकारणविशेषगुणः, समानजातीयविशेषगुणानारम्भकत्वात् , संयोगवदित्यभिप्रेत्याह -
तस्मादिति ।
नच चैतन्यस्य स्वरूपत्वेन गुणत्वासिद्धेः सिद्धसाध्यता, ज्ञानीतिवदहं ज्ञानमित्यदृष्टेस्तद्गुणत्वस्पाष्ट्यादिति भावः ।
घटः स्फुरतीति सामानाधिकरण्याद्धटादेस्तगद्गुणत्वसिद्धेरसिद्धिरित्याशङ्क्य जनयितृव्यापारविषयतया घटो जायत इतिवत्प्रकाशयितृव्यापारकर्मतया सामानाधिकरण्यं न तद्गुणत्वादित्यसिद्धि समुद्धरति -
तदिति ।
ब्रह्म न द्रव्योपादानं, तुल्यजातीयारम्भकविशेषगुणानाधारत्वात् , दिगादिवदिति भावः ।
स्मृतिपादे निरस्तमनुमानं किमिति पुनः शङ्कितमित्याशङ्क्य लौकिकपदार्थेषु तत्रोक्तेऽपि व्यभिचारे परप्रक्रियासिद्धेष्वेव पारिमाण्डल्यादिषु तमिदानीं दर्शयतीति विशेषमाह -
इममिति ।
तदर्थं सूत्रमुदाहरति -
महदिति ।
यथा महद्दीर्घं च त्र्यणुकं ह्रस्वेभ्योऽणुभ्यश्च द्व्यणुकेभ्यो जायते । वाशब्दश्चार्थः ।
यथा च परिमण्डलाभ्यां परमाणुभ्यां द्व्यणुकमपरिमण्डलमुत्पद्यते, तथा चेतनाद्ब्रह्मणो जगदचेतनं स्यादिति सूत्रार्थः । इममर्थं स्फुटीकर्तुं परकीयप्रक्रियामनुवदति -
एषेति ।
तत्र प्रलयावस्थामुपन्यस्यति -
परमाणव इति ।
चतुर्विधेषु तेषु प्रामाणिकसंमतिं सूचयति -
किलेति ।
लयहेतुकर्मोद्रेकावस्था कञ्चित्कालमित्युक्ता । तत्र सर्वकार्यलयेऽपि पाकजपरमाणुगुणानामवस्थान मास्थायोक्तम् -
रूपादिमन्त इति ।
पार्थिवपरमाणूनां चतुर्गुणत्वमाप्यपरमाणूनां त्रिगुणत्वं तैजसपरमाणूनां द्विगुणत्वं वायवीयपरमाणूनामेकगुणतेति विभागमाह -
यथेति ।
परमाणुमात्रवृत्तिपरिमाणं दर्शयति -
पारिमाण्डल्येति ।
तेषामारम्भकक्रममाह -
ते च पश्चादिति ।
सर्गहेतुकर्मोद्भवावस्था पश्चादित्युक्ता । समवायिकारणं परमाणूनुक्त्वा निमित्तकारणमाह -
अदृष्टादीति ।
आदिशब्देनेश्वरप्रयत्नाद्युच्यते ।
असमवायिकारणमाह -
संयोगेति ।
अदृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म ततोऽण्वन्तरसंयोगाद्द्व्यणुकमारभ्यते । नच परमाणवो बहवः संयुक्ताः सहसा कार्यारम्भकाः परमाणुत्वे सति बहुत्वाद्धटोपगृहीतपरमाणुवत् । नच तेषामपि घटारम्भकतया साध्यवैकल्यं, घटभङ्गे कपालादीनामनारब्धत्वादणूनां चातीन्द्रियत्वात्सर्वानुपलब्धिप्रसङ्गात् । नच द्वावपि परमाणू कार्यानारम्भकौ परमाणुत्वे सति द्वित्वाद्धटोपगृहीतपरमाणुद्वयवदिति युक्तं साध्यवैकल्यात् । द्व्यणुकानि च त्रीणि सम्भूय त्र्यणुकमुत्पादयन्ति तदनन्तरमारम्भकसङ्ख्यानियमो नेति भावः ।
द्रव्याणि द्रव्यान्तरमारभन्त इति सूत्रार्थमुक्त्वा गुणाश्च गुणान्तरमिति सूत्रार्थमाह -
कारणेति ।
कतिपयकारणगुणानामारम्भकत्वं सर्वेषां वेति वीक्षायामाद्यं व्युत्पादयति -
यदेति ।
कल्पान्तरं दूषयति -
परमाण्विति ।
अभ्युपगममेव साधयति -
अणुत्वेति ।
इतश्च कतिपयगुणानामेवारम्भकत्वमित्याह -
यदापीति ।
द्व्यणुकेऽधिकरणे द्विशब्दस्य भावप्रधानत्वाद्वे द्वित्वे ते स्वाश्रयाणां चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वात्तदारम्भके विवेक्ष्येते । न हि द्वित्वद्वयं हित्वा तदाथाराणां द्व्यणुकानामारम्भकत्वम् । अथवाऽऽणुकमिति द्व्यणुकमुक्तं ते द्वित्वावच्छिन्ने यदा द्वित्वसङ्ख्ययावच्छिद्येते तदा द्वौ घटावितिवद्द्वे द्व्यणुके इ्त्युक्ते द्व्यणुकचतुष्टयं सम्पद्यते । एवं चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वे स्थिते तद्गतानां गुणानां तुल्यजातीयारम्भकतेत्यर्थः ।
सर्वगुणानामनारम्भकत्वे हेत्वन्तरमाह -
अणुत्वेति ।
व्यवस्थितां वैशेषिकप्रक्रियां प्रदर्श्याव्यवस्थितां दर्शयति -
यदापीति ।
कारणगुणानां केषाञ्चिदारम्भकत्वं न सर्वेषामिति सर्वेषां तुल्यमित्याह -
तदापीति ।
व्यवस्थितामव्यवस्थितां च परप्रक्रियामुक्त्वा सूत्रं व्याकुर्वन्व्यभिचारमाह -
तदेवमिति ।
तत्तत्र तस्यां प्रक्रियायामेवमुक्तप्रकारेणेति यावत् ।
अव्यवस्थितप्रक्रियामाश्रित्योक्तम् -
महदित्यादि ।
वाशब्दोऽनुक्ताणुह्रस्वकार्यसमुच्चयार्थ इति व्याचष्टे -
यथा वेति ।
नाणु जायते नापि ह्रस्वं जायते त्र्यणुकादिति योजना ।
पारिमाण्डल्यादीनां तुल्यजातीयानारम्भकत्वे सिद्धे दार्ष्टान्तिकमाह -
एवमिति ।
दृष्टान्तवैषम्यं चोदयति -
अथेति ।
जगत्यपि तुल्यं विरोधिगुणाक्रान्तत्वमित्याशङ्क्याह -
नत्विति ।
अचेतनायाश्चेतनाविरोधिन्या जगति भावाच्चेतनायाः सजतीयानानरम्भकतेत्याशङ्क्याह -
न हीति ।
विशेषगुणत्वाच्चेतनायाः साधारण्यात्पारिमाण्डल्यादेर्वैषम्यं मत्वा तत्फलमाह -
तस्मादिति ।
ज्ञानवानस्मीति प्रत्ययस्य बुद्धिवृत्त्युपधानाधीनत्वाच्चेतनस्य स्वरूपत्वेन गुणत्वासिद्दौ विशेषगुणत्वस्य दूरापेतत्वं मत्वा विवक्षितांशे दृष्टन्तसिद्धिरित्याह -
मैवमिति ।
न स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं किन्तु विरोधिगुणसंनिपातात् । चैतन्यस्य तु तदभावादारम्भकतेत्याशङ्क्याह -
न चेति ।
तत्र हेतुः -
परिमाणान्तरस्येति ।
कथमन्यहेतुत्वं, तत्राप्तोक्तिमुदाहरति -
कारणेति ।
बहुभिर्द्व्यणयकैरारब्धे त्र्यणुकादौ यन्महत्त्वं तस्य द्व्यणुकगतं बहुत्वमसमवायिकारणं कार्यद्रव्यं समवायिकारणम् । यत्पुनरयःपिण्डेन पञ्चाशत्पलेनारब्धं कार्यं तावत्पलमुपलभ्यते तन्महत्त्वे पिण्डस्य प्रचयः संयोगविशेषो हेतुः । महद्भिरवयवैरारब्धे पटे यन्महत्त्वं तस्य कारणमहत्त्वं हेतुरिति त्रिभ्यः कारणेभ्यो महत्त्वमित्यर्थः ।
यत्कारणबहुत्वादिभ्यो महत्त्वं त्र्यणुकादौ जातं ततो विपरीतं द्व्यणुकगतमणुत्वमीश्वरापेक्षाबुद्धिजन्यपरमाणुनिष्ठद्वित्वासमवायिकारणादुत्पद्यते, तदाह -
तदिति ।
द्वित्वमहत्त्वबहुत्वप्रचयेभ्यो यथासम्भवं ह्रस्वत्वदीर्घत्वयोरुत्पत्तिरित्याह -
एतेनेति ।
समस्तेन प्रकारेणेति यावत् ।
ननु पारिमाण्डल्यादीनि संयोगादिभिर्व्यवहितानि कार्यद्रव्ये समानजातीयानारम्भकाणि । प्रचयादयस्तु कारणस्थास्तन्निष्ठकार्यद्रव्यस्य संनिहितत्वात्तत्र महत्त्वाद्यारम्भकास्ततो न स्वभावादनारम्भकत्वं पारिमाण्डल्यादीनामिति, तत्राह -
नचेति ।
गुणो गुणिनि समवेतो व्याप्योऽव्याप्यो वा सर्वथा कारणस्थात्वं गुणानां कार्यरम्भे निमित्तम् । नच निरवयवाणुगुणानां संनिधिरसंनिधिर्वाऽऽरम्भोपयोगी सम्भवतीति भावः ।
परिशेषसिद्धमर्थमाह -
तस्मादिति ।
दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -
तथेति ।
किञ्च कारणगुणाः सजातीयानामेवारम्भकाः किंवा विजतीयानामपीति विकल्प्याद्यं प्रत्याह -
संयोगाच्चेति ।
चेतनं ब्रह्म द्रव्यं जगतोऽचेतनस्य न समवायिकारणमिति प्रकृते चेतनमप्यचेतनोपादानं दृष्टमिति दृष्टान्ते वक्तव्ये संयोगगुणोदाहरणमयुक्तमिति शङ्कते -
द्रव्य इति ।
अद्रव्यादपि संयोगाद्यथा द्रव्यं जायते तथा चेतनादचेतनं स्यादित्येतावन्मात्रमिष्टमित्याह -
नेति ।
दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साम्ये नास्ति मानमित्याह -
नचेति ।
न केवलमयमस्माकमनियमो भवतामपीत्याह -
सूत्रेति ।
सूत्रं व्याचष्टे -
यथेति ।
कथमिदं सूत्रं नियमभङ्गोपयोगीत्याशङ्क्याह -
एतदिति ।
कारणस्थविशेषगुणानां कार्ये तुल्यारम्भकत्वं न गुणमात्रस्येत्याशङ्क्याह -
दृश्यते त्विति ।
तन्तुगतनीलपीतादिरूपाणां विशेषगुणानामपि तत्कार्ये पटे विजातीयचित्ररूपारम्भकत्वाभ्युपगमान्नायमपि नियम इति भावः ।
तर्हि गतार्थत्वादिदमधिकरणमनारभ्यमिति शङ्कते -
नन्विति ।
निराकार्यभेदान्न पौनरुक्त्यमित्याह -
नेतीति ।
तथापि शिष्टापरिग्रहाधिकरणेन पुनरुक्तिरिति शङ्कते -
नन्विति ।
तत्र कारणं कार्यादूनपरिमाणमिति नियमो निरस्तः, अत्र तु कारणविशेषगुणस्य कार्ये तुल्यारम्भनियमो निरस्यत इति सत्यपि पुनरुक्तिपरिहारे रीतिसाम्यकृतं जामित्वमुपेत्याह -
सत्यमिति ।
तस्यैवेति ।
अतिदेशस्येति यावत् । वैशेषिकपरीक्षारम्भस्तदीयराद्वान्तस्य भ्रान्तिमूलत्वसाधनप्रकमः । तत्प्रक्रिया वैशेषिकप्रक्रिया पूर्वोक्ता तस्यामनुगतं निदर्शनं परकीयहेतुव्यभिचारोदाहरणं तेनेत्यर्थः ॥ ११ ॥
वैशेषिकगुणारम्भानुमानेन समन्वयस्य प्रासङ्गिकविरोधं परिहृत्य तन्मतविरोधं परिहर्तुमारभते -
उभयथेति ।
नास्य प्रासङ्गिकानन्तराधिकरणेन सङ्गतिरिति मन्वानः प्रधानं चेतनानधिष्ठितं न चेत्कारणं तर्हि परमाणवस्तदधिष्ठिता भवन्तु तथेति व्यवहितेन सङ्गतिं गृहीत्वा तात्पर्यमाह -
इदानीमिति ।
वैशेषिकराद्धान्तस्य भ्रान्तिमूलत्वोक्त्या तदीययुक्तिविरोधं निराकृत्य समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रामाणिकपरकीयराद्धान्तविरोधे समन्वयस्यासिद्धिः, सिद्धान्ते तत्प्रामाणिकत्वासिद्ध्या भ्रान्तेन तेन विरोधाभावे तत्सिद्धिरिति फलम् ।
परमाणुभिर्द्व्यणुकादिक्रमेण चेतनाधिष्ठितैरारब्धं जगदिति वैशेषिकराद्धान्तो मानमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः संशये पूर्वपक्षमाह -
स चेति ।
सामान्यतो दृष्टं वक्तुं व्याप्तिमाह -
पटादीनीति ।
स्वानुगतैः स्वसमवायप्रतियोगिभिरित्यर्थः ।
मिथोऽसंयुक्ततन्त्वादीनां न पटाद्यारम्भकत्वमसमवाय्यभा वादिति वक्तुं संयोगसचिवैरित्युक्तम् । यत्कार्यद्रव्यं तद्विशिष्टद्रव्यारब्धं यथा पटादीति व्याप्तिमुक्त्वानुमानमाह -
तदिति ।
तैः पटादिभिः सामान्यं कार्यद्रव्यत्वं तेनेति यावत् । किञ्चित्सावयवद्रव्यमिति क्षित्यादिचतुष्टयमुक्तम् । स्वानुगतैरित्यादि पूर्ववत् । तैस्तैर्द्रव्यैरिति वस्तुतश्चतुर्विधपरमाणूक्तिः । विमतं स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घठादिवदित्यर्थः ।
कथमेतावता परमाणुसिद्धिः, तत्राह -
स चेति ।
यत्किञ्चित्सावयवं द्व्यणुकपर्यन्तं तत्सर्वमेवमारब्धमित्यनुमानप्रवृत्तेरणुपरिमाणा निरवयवाः कार्यद्रव्येण पार्थिवत्वादिना तुल्या नित्या बहवश्चाणवः सावयवानामारम्भकाः सिध्यन्तीत्यर्थः ।
अनाद्यनन्तत्वाज्जगतो हेत्वाकाङ्क्षाभावान्न परमाणवस्तत्कारणमिति हेत्वसिद्धिमाशङ्क्याह -
सर्वं चेति ।
विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः ।
कार्यत्वेऽपि स्वभावादेवोत्पत्तेर्न कारणाकाङ्क्षेत्याशङ्क्य विमतं सकारणकं, कार्यत्वात् , संमतवदित्याह -
न चेति ।
तच्च किमित्याकाङ्क्षायां सावयवस्य स्वतोऽल्पपरिमाणारभ्यत्वदूष्टेरणवो मूलकारणमिति काणादोऽभिप्रेतवानित्याह -
इत्यत इति ।
ते कतिविधा इति, तत्राह -
तानीति ।
चत्वारीत्यवयविभूताभिप्रायं, पञ्चमभूतस्यावयवाभावात् ।
तेऽपि मूर्तत्वादनित्याः पटवदित्याशङ्क्याह -
तेषां चेति ।
कारणविभागात्कारणविनाशाद्वा कार्यद्रव्यस्य नाशः, तदभावादणुनित्यत्वं, तदभावश्चाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणतारतम्यत्वात् , महत्परिमाणतारतम्यवदित्यनुमानान्महत्त्वापकर्षविश्रन्तिभूमित्वेनाणूनां परतो विभागायोगादित्यर्थः ।
एकद्रव्यावशेषे प्रलयः स कथमनेकद्रव्यशेषे स्यादित्याशङ्क्य कार्यद्रव्यमात्रस्य युगपन्नाशो लय इत्याह -
स इति ।
सृष्टिक्रममाचष्टे -
तत इति ।
अदृष्टापेक्षमदृष्टवत्क्षेत्रज्ञसंयोगापेक्षमिति यावत् ।
कर्मासमवायिकारणं कार्यमाह -
तदिति ।
संयोगादसमवायिनो द्व्यणुकोत्पत्तौ द्व्यणुकेभ्यस्त्र्यणुकादिजन्मेत्याह -
तत इति ।
वायावुक्तं शिष्टे भूतत्रयेऽतिदिशति -
एवमिति ।
भूतोत्पत्तिवद्भौतिकोत्पत्तिमाह -
एवमेवेति ।
द्रव्योत्पत्तिं निगमयति -
एवमिति ।
गुणोत्पत्तिक्रमं सूचयति -
अण्विति ।
उक्तसर्गक्रमस्यालौकिकत्वं वारयति -
तन्त्विति ।
तन्तुभ्यः संयुक्तेभ्यो महान्पटो जायते, तन्तुगताच्च रूपादेस्तत्र रूपादि दृष्टं तेन दृष्टान्तेनोक्तसर्गक्रमधीरित्यर्थः ।
पूर्वपक्षमुपसंहरति -
इति काणादा इति ।
परमाणुमूलकारणत्वस्य प्रामाणिकत्वादर्थादस्ति विरोधः समन्वयस्येत्येवं प्राप्तमनूद्य सिद्धान्तमाह -
तत्रेति ।
यत्तावदणुभ्यः संयुक्तेभ्यो द्व्यणुकादिक्रमेण जगज्जन्मेति, तत्राह -
विभागेति ।
अस्तु तर्हि तेषु कर्मकृतः संयोगः, तत्राह -
कर्मणश्चेति ।
तच्चाभ्युपगम्यते न वा ।
द्वितीयं प्रत्याह -
अनभ्युपगम इति ।
यद्यणूनां संयुक्तानां जगदारम्भकत्वं प्रामाणिकं तदा सन्वयस्यार्थाद्विरोधः । न तदस्ति । आद्ये सर्गे परमाणवो न संयुक्ताः, कर्मशून्यत्वात् , आत्माकाशवत् । ते च कर्मशून्याः, तद्धेतुहीनत्वात् , तद्वदित्यर्थः ।
आद्यकर्महेतोरिष्टत्वाद्धेतुत्वसिद्धिरिति कल्पान्तरमाशङ्क्य निमित्तं दृष्टमदृष्टं वेति विकल्प्याद्यमनुवदति -
अभ्युपगमेऽपीति ।
यथेदानीं देहचेष्टायां दृष्टं यत्नाख्यं निमित्तं, तरुचलने पवनाभिघातः, शरादेर्नोदनादि, तथाऽणुष्वाद्यकर्मोत्पत्तौ यदि किञ्चिद्दृष्टं निमित्तमित्यर्थः ।
अभिघातादीत्यादिशब्देन नोदनगुरुत्ववेगस्थितिस्थापका गृह्यन्ते । क्रियाविशिष्टद्रव्यस्य द्रव्यान्तरेण संयोगविशेषोऽभिघातः, यथोद्यमितनिपतितमुसलस्योलूखलेन संयोगः । नोदनं तु संयुक्तस्य यत्नविशेषापेक्षः स एव संयोगः, यथा क्षेपानुकूलयत्नापेक्षः संनद्धकरशरसंयोगः । नोदनेन तुल्ययोगक्षेमः संस्कार इति विवेकः । तत्रास्य सर्वस्य सृष्ट्युत्तरकालत्वान्नाद्यकर्महेतुतेत्याह -
तस्येति ।
आदिसर्गे यत्नायोगं साधयति -
न हीति ।
आत्ममनः संयोगस्य तदा भावात्तन्निमित्तप्रयत्नस्य कथमत्रायोगोक्तिः, तत्राह -
शरीरेति ।
प्रयत्नोक्तन्यायेनाभिघाताद्यपि निरस्यति -
एतेनेति ।
एतच्छब्दोक्तं स्फोरयति -
सर्गेति ।
कल्पान्तरं शङ्कते -
अथेति ।
दूषयितुं विकल्पयति -
तत्पुनरिति ।
जडस्यात्मनोऽदृष्टाश्रयत्वमिच्छतामणवस्तथा किं न स्युरित्यणुसमवायि वेत्युक्तम् । कल्पद्वयमविशेषेण प्रत्याह -
उभयथेति ।
अचेतनत्वेऽपि कुतो न कर्मनिमित्ततेत्याशङ्क्य स्वतन्त्रं चेतनाधिष्ठितं वा तत्तथेति विकल्प्याद्यं निराह -
न हीति ।
द्वितीये तज्जीवाधिष्ठितमीश्वराधिष्ठितं वा । नाद्य इत्याह -
आत्मनश्चेति ।
नेतरः, तस्य नित्यसंनिहिततया कादाचित्कप्रवृत्तिहेतुत्वायोगात् । तत्रापि निमित्तान्तरकल्पनेऽनवस्थानादिति चकारार्थः ।
अणुसमवायित्वपक्षं विशेषतो निरस्यति -
आत्मेति ।
अदृष्टस्याणुभिरसम्बन्धादसम्बद्धस्य हेतुत्वेऽतिप्रसङ्गादित्याह -
असम्बन्धादिति ।
अणुसंयुक्तात्मसमवेतत्वाददृष्टस्याणुभिः संयुक्तसमवायादसम्बन्धासिद्धिरिति शङ्कते –
अदृष्टवतेति ।
आत्मनस्तर्हि सर्वगतत्वेन सदाणुसम्बन्धादणुप्रवृत्तेरविच्छित्तिरिति दूषयति -
सम्बन्धेति ।
अण्वात्मनोः संयोगस्याणुकर्मजत्वेऽपि तत्प्रवाहसातत्यात्प्रवृत्तिसातत्यमिति भावः ।
यद्यागन्तुकः सम्बन्धस्तस्य तर्हि निमित्तमदृष्टमन्यद्वा । तत्र संयोगहेतुकर्मनिमित्तादृष्टापेक्षायामन्योन्याश्रयतेति मत्वा निमित्तान्तरं प्रत्याह -
नियामकान्तरेति ।
कर्मनिमित्ताभावं सफलं निगमयति -
तदेवमिति ।
कर्मशून्यत्वं सफलमुपसंहरति -
कर्मेति ।
संयोगाभावफलमाह -
संयोगेति ।
हेत्वभावादणुषु संयोगानुपपत्तिरुक्ता । सम्प्रति तेषु संयोगस्वरूपमेवायुक्तमित्याह -
संयोगश्चेति ।
सर्वात्मना संयोगे परमाणावेकस्मिन्नण्वन्तरान्तर्भावात्तत्संयोगिनस्तदव्याप्तदेशाभावात् , एवमण्वन्तराण्यपि तस्मिन्नेव संमान्तीति कार्ये प्रथिमायोगात् , तस्याणुमात्रतापत्तिरित्याह -
सर्वात्मनेति ।
तत्रैव दोषान्तरमाह -
दृष्टेति ।
प्रसङ्गमेव प्रकटयति -
प्रदेशेति ।
द्वितीयमनुभाष्य दूषयति -
एकेति ।
कल्पितदेशोपगमादिष्टापत्तिं शङ्कते -
परमाणूनामिति ।
अवयवानां कल्पितत्वे संयोगतत्कार्ययोरपि तथात्वादपसिद्धान्तः स्यादित्याह -
कल्पितानामिति ।