न्यायनिर्णयव्याख्या
२ परिच्छेदः
मा भूदसमवायिकारणं, कार्यसिद्धिरेवाभीष्टेत्याशङ्क्याह -
असतीति ।
भावरूपकार्यं नासमवायिनं विनेति वक्तुं द्रव्यपदम् । काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयप्रकारप्रत्युक्तावपि सूत्रं योजयति -
यथेति ।
कथमसम्भवः प्रलयात्प्रागवस्थायां विभागोत्पादककर्मनिमित्तस्य सर्वस्यापि सम्भवात् । तत्तर्हि दृष्टमदृष्टं वा । नाद्य इत्याह -
न हीति ।
तत्रेति प्रलयप्रयोजकविभागहेतुकर्मोक्तिः । अपिः सर्गहेतुसंयोगनिमित्तकर्मदृष्टान्तार्थः ।
किञ्चित्प्रलये कदाचिदभिघातादियोगेऽपि नापर्यायेण सर्वलये तदस्ति, नियामकाभावादित्याह -
नियतमिति ।
द्वितीयं दूषयति -
अदृष्टमिति ।
देहादिलयारम्भे दुःखभेदभोगेऽपि पृथिव्यादिलये तदभावान्न तस्य कर्मनिमित्तत्वमिति भावः ।
अणूनामाद्यस्यान्तस्य च कर्मणो निमित्तमस्ति वा न वा । अस्ति चेद्दृष्टमदृष्टं वा । दृष्टमपि यत्नोऽभिघातादि वा । अदृष्टमपि परमाणुष्वात्मनि वा । सर्वथापि संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्म । कर्माभावात्तयोः सर्गप्रलययोरभावः स्यादिति सूत्रयोजनामुपसंहरति -
अत इति ।
परमाणुवादे सर्गाद्ययोगात्तस्य सिद्धा भ्रान्तिमूलतेति निगमयति -
तस्मादिति ॥ १२ ॥
समवायस्वीकारादपि परमाणुवादस्यायुक्तत्वमाह -
समवायेति ।
सूत्रं व्याचष्टे -
समवायेति ।
तदभावोऽत्र सर्गाभावो लयाभावो वा । नोभयत्रापि समवायाभ्युपगमो हेतुरित्याशङ्क्याह -
अणुवादेति ।
तस्य निराकरणमसम्भवस्तेन समवायाभ्युपगमस्य सङ्गतिरित्यर्थः ।
तदभ्युपगमं विभजते -
द्वाभ्यामिति ।
हेत्वर्थमुक्त्वा तदभाव इति प्रतिज्ञार्थं स्फुटयति -
न चेति ।
यथा पूर्वोक्तन्यायादणुकारणता समर्थयितुं न शक्यते तथा द्व्यणुकस्याण्वोः समवायस्वीकारादित्यत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
समवायः स्वतन्त्रोऽस्वतन्त्रो वा । नाद्यः, स्वतन्त्रस्य घटकत्वेऽतिप्रसङ्गात् । द्वितीये समवायस्य सम्बन्धान्तरेण समवायिसम्बन्धेऽनवस्थानान्नाणुकारणतेति हेतुं विभजते -
यथेत्यादिना ।
किमप्रामाणिकत्वेन समवायस्यायुक्तत्वमुतानवस्थयेति विकल्प्याद्यं दूषयन्नाशङ्कते -
नन्विति ।
द्वितीयं प्रत्याह -
नित्येति ।
एवकारार्थमाह -
नेति ।
तथापि सम्बन्धान्तरापेक्षायामनवस्थेत्यशङ्क्याह -
सम्बन्धान्तरेति ।
वाशब्दो नञनुकर्षणार्थः ।
अनवस्थाऽभावं स्फोरयति -
नेत्यादिना ।
समवायः समवायिभ्यां सम्बन्धान्तरं नापेक्षते सम्बन्धिसम्बन्धनस्वभावत्वात् । अतः स्वभावदेव समवायितन्त्रः समवायो न सम्बन्धान्तरेणेति नानवस्थेत्यर्थः ।
समवायस्य सम्बन्धिपारतन्त्र्यस्वभावं दूषयति -
नेतीति ।
तस्य स्वाभाविके सम्बन्धिपारतन्त्र्ये संयोगस्यापि स्वतः संयोगितन्त्रत्वयोगात्तस्य संयोगिभ्यां समवायकल्पना न स्यादिति विपक्षे दोषमाह -
संयोगोऽपीति ।
किञ्च संयोगस्य सम्बन्धान्तरापेक्षायामर्थान्तरत्वं गुणत्वं वा हेतुः, तत्राद्यमाह -
अथेति ।
समवायेऽपि तुल्यमेतदित्याह -
समवायोऽपीति ।
द्वितीयमाशङ्क्याह -
न चेति ।
अपेक्षाकारणस्यात्यन्तभिन्नत्वस्येत्यर्थः ।
नात्यन्तभिन्नत्वं तया किन्तु गुणत्वमेव, न च तदस्ति समवायस्येत्याशङ्क्याह -
गुणेति ।
न हि गुणत्वं सम्बन्धान्तरापेक्षाहेतुः, कर्मादीनामपि तदपेक्षत्वादित्यर्थः ।
संयोगसमवाययोस्तुल्यत्वे फलितमाह -
तस्मादिति ।
अनवस्थायां मूलक्षयकारित्वमाह -
प्रसज्यमानायां चेति ।
सूत्रार्थमुपसंहरति -
तस्मादिति ॥ १३ ॥
परमाणुवादायोगे हेत्वन्तरमाह -
नित्यमिति ।
इतश्च तद्वादासिद्धिरिति चकारार्थमाह -
अपि चेति ।
अनुपपत्तिं दर्शयितुं विकल्पयति -
अणव इति ।
न्यूनत्वं वारयति -
गत्यन्तरेति ।
विकल्पचतुष्टयस्यापि दृष्टत्वं प्रतिजानीते -
चतुर्धेति ।
तत्राद्यस्य दृष्टत्वं स्पष्टयति -
प्रवृत्तीति ।
द्वितीयेऽनुपपत्तिं स्फोरयति -
निवृत्तीति ।
तृतीयस्य नोत्थानमेवेत्याह -
उभयेति ।
चतुर्थं प्रत्याह -
अनुभयेति ।
अदृष्टादि संनिहितमपि न प्रवर्तकमित्याशङ्क्याह -
अतन्त्रत्वेऽपीति ।
पक्षचतुष्टयनिषेधफलमुपसंहरति -
तस्मादिति ॥ १४ ॥
परमाणूनां परमकारणत्वं निराकृत्य निरवयवत्वादि निराकर्तुमारभते -
रूपादीति ।
विपर्ययं दर्शयितुं परमतमनुवदति -
सावयवानामिति ।
यतो येभ्योऽवयवेभ्यः सकाशात्परः परस्ताद्भावीति यावत् । रूपादिमन्तः । रूपरसगन्धस्पर्शेत्याद्यनुक्रमेण रूपमादौ विद्यते यस्य स्पर्शस्य स स्पर्शो रूपादिस्तदाश्रया इत्यर्थः ।
तेषां चातुर्विध्ये हेतुः -
चतुर्विधस्येति ।
कार्यस्य चातुर्विध्यं कारणेऽपि तत्कल्पयतीत्यर्थः ।
तेषां स्पर्शवत्त्वे हेतुमाह -
रूपादिमत इति ।
कार्ये दृष्टं स्पर्शित्वं कारणेऽपि तत्कल्पकमित्यर्थः ।
आरम्भकान्तरापेक्षायामनवस्थानान्नारम्भकाः स्युरिति मत्वाऽह -
नित्याश्चेति ।
परोपगतिमनूद्य प्रत्याह -
स इति ।
निरालम्बनत्वे हेतुः -
यत इति ।
रूपादिमत्त्वं पक्षव्याप्त्यर्थं पूर्ववद्व्याख्येयम् । विमताः सावयवा नाशिनश्च, स्पर्शित्वात् , पटवदित्यनुमानात्परोपगतेर्निराश्रयतेत्यर्थः ।
अणूनां सावयवत्वाद्युक्तिर्व्याहतेत्याशङ्क्याह -
परमेति ।
कारणवत्त्वस्य नाशित्वहेतुत्वे तस्यैव द्रव्यत्वविशेषितस्य सावयवत्वे हेतुत्वात्कुतोऽनुमेति शङ्कते -
कुत इति ।
साधनव्याप्तिं मत्वा सूत्रावयवमवतारयति -
एवमिति ।
दर्शनमेव विशदयन्व्याप्तिमाह -
यद्धीति ।
स्पर्शवतः सावयवत्वमनित्यत्वं च दृष्टमित्यत्र दृष्टान्तमाह -
तदिति ।
दृष्टान्तबाहुल्यं सूचयति -
तन्तवश्चेति ।
उपनयद्वारा पक्षधर्मतामाह -
तथाचेति ।
अनुमानद्वयं निगमयति -
तस्मादिति ।
पूर्वोक्तोपाधेः साधनव्याप्तिमभिप्रेतां प्रकटयितुं विशिनष्टि -
कारणवन्त इति ।
पृथिवीत्वमनित्यमात्रवृत्ति, स्पर्शवन्मात्रवृत्तित्वात् , घटत्ववदित्याद्यनुमानं चकारार्थः ।
परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति प्रत्यनुमानमुत्थापयति -
यच्चेति ।
विशेष्यासिद्धिमाह -
तदपीति ।
एवं सति । परमाणूनां कारणवत्त्वे सतीत्यर्थः ।
तदेव कथं, तत्राह -
उक्तेनेति ।
स्पर्शित्वेन परिच्छिन्नत्वेन चेत्यर्थः ।
नित्यत्वनिषेधस्तत्प्रतियोगिवस्तुपूर्वकः, निषेधत्वात् , घटनिषेधवदित्यनुमानादणुनित्यत्वसिद्धौ तदनित्यत्वानुमानासिद्धिरित्यनुवदति -
यदपीति ।
कार्यमनित्यमिति कार्ये विशेषतो नित्यत्वनिषेधो न स्याद्यदि कारणेऽप्यनित्यत्वम् , अतोऽणूनां कारणानां नित्येतेति सूत्रार्थः ।
उभयसिद्धात्मनित्यत्वेनैव विशेषनिषेधसिद्धेरुक्तानुमानस्य सिद्धसाध्यत्वान्नाणुनित्यतासाधकतेत्याह -
तदपीति ।
अनित्यमित्ययं कार्ये विशेषेण नित्यत्वनिषेध इत्यङ्गीकृत्योक्तं, तदपि नास्तीत्याह -
न चेति ।
मूलप्रमाणं विना शब्दादेव पौरुषेयाद्योऽर्थे व्यवहारस्तन्मात्रेणेति यावत् ।
अन्यथा वटे यक्षप्रसिद्धेरपि प्रामाण्यं स्यादिति मत्वा हेतुमाह -
प्रमाणान्तरेति ।
अनित्यशब्दान्नित्यत्वनिषेधमात्रं सिद्धं न कार्ये तन्निषेधो येन कार्यप्रतियोगिनि कारणे नित्यत्वस्थितिः, विशेषस्तु मानान्तरादेव लभ्यते, ततस्तस्मादेवाणुनित्यत्वसिद्धौ व्यर्थं पूर्वानुमानमित्यर्थः ।
परमाणवो नित्याः, अनुपलभ्यमानकारणत्वात् , आत्मवदित्यनुमानान्तरमनुभाषते -
यदपीति ।
प्रत्यक्षेणानुमानेन वा तदनुपलब्धिरिति विकल्प्याद्यमनुवदति -
तदिति ।
सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्येति यदि सूत्रं व्याख्यायेतेति योजना ।
तर्हि द्व्यणुके व्यभिचारः स्यादित्याह -
तत इति ।
आरम्भकद्रव्यशून्यत्वे सति प्रत्यक्षेणानुप्रलब्धकारणत्वस्य हेतुत्वान्मैवमिति शङ्कते -
अथेति ।
अद्रव्यत्वमविद्यमानकारणद्रव्यत्वं, तावतैव नित्यत्वसिद्धौ विशेष्यवैयर्थ्यमित्याह -
तथापीति ।
अस्तु तावदेव तर्हि नित्यतानिमित्तं, तत्राह -
तस्येति ।
न चानुमानेन कारणानुपलब्धिः, परिच्छिन्नत्वानुमानस्योक्तत्वादिति चकारार्थः ।
अवयवनाशोऽवयवव्यतिषङ्गनाशश्च द्रव्यनाशकारणं तदुभयासत्त्वमविद्यापदेनोच्यते, तथा च परमाणवो नित्याः, उभयनाशकारणशून्यत्वात् , आत्मवदिति सूत्रार्थ इत्याह -
अथापीति ।
हेत्वसिद्धिमाह -
नेति ।
आरम्भवादानुपगमं नियमाभावे हेतुमाह -
संयोगेति ।
परिणामवादे नाशहेत्वन्तरसम्भवादसिद्धिरुद्धृतेत्याह -
यदेति ।
नच घृतकाठिन्यनाशेऽपि कारणमवयवविभागादीति युक्तम् , अणुकाठिन्यस्य नाशकद्वयाभावेऽपि विनाशाङ्गीकारात् । नच तत्काठिन्यं न नश्यति, तत्कार्येऽपि तदनाशापातात् । कारणगुणनाशद्वारा कार्ये तन्नाशाश्रयणात् । तस्मादण्ववस्थां हित्वा ब्रह्मणः । स्वरूपेणावस्थानमणुनाश इत्याशयेन घृतकाठिन्यमुदाहृतम् ।
प्रत्ननुमानायोगे फलितमाह -
तस्मादिति ।
स्पर्शवत्त्वानुमानफलं निगमयति -
तस्मादपीति ॥ १५ ॥
परमाणुवादानुपपत्तौ हेत्वन्तरमाह -
उभयथा चेति ।
अणूनामतुल्यगुणत्वे तुल्यगुणत्वे च दोषध्रौव्यात्तद्वादासिद्धिरिति वक्तुमनुभवागमसिद्धमर्थमाह -
गन्धेति ।
शब्दस्य पृथिव्यादिगुणत्वेन परैरनिष्टत्वाच्चत्वारि भूतानि चतुस्त्रिद्वेकगुणान्युदाहृत्य विकल्पयति -
तद्वदिति ।
स्थूलपृथिव्यादिवदित्यर्थः ।
पक्षद्वयस्यापि दोषवत्त्वमाह -
उभयथेति ।
आद्यमनूद्य दोषानुषक्तिं विशदयति -
कल्प्यमान इति ।
मूर्त्युपचयः स्थौल्यम् । द्रव्यातिरिक्तानां गुणानामुपचयेऽपि किमिति द्रव्यस्य स्थौल्यं, तत्राह -
न चेति ।
तत्र कार्यलिङ्गमनुमानं हेतुमाह -
कार्येष्विति ।
कल्पान्तरमनुवदति -
अकल्प्येति ।
सर्वेषामणुत्वाक्रान्तानां साम्यार्थमेकैकगुणत्वं वा चतुर्गुणत्वं वा । तत्राद्यमनूद्य प्रत्याह -
परमाणुत्वेति ।
तेषामेकैकगुणत्वेऽपि किमिति कार्येषु नानागुणत्वं न स्यादित्याशङ्क्याह -
कारणेति ।
द्वितीयमनूद्य निराह -
अथेत्यादिना ।
इष्टापत्तिमाशङ्क्याह -
न चेति ।
चतुर्गुणत्वे सर्वेषां स्थौल्याद्वायोश्चाक्षुषत्वं प्रसज्येत, एकैकगुणत्वेऽपि तारतम्यासिद्धिरिति मत्वोपसंहरति -
तस्मादिति ॥ १६ ॥
न केवलमणुवादस्यायुक्तत्वं किन्तु शिष्टापरिग्रहाद्ग्रन्थतोऽर्थतश्चोपेक्ष्यत्वमित्याह -
अपरिग्रहाच्चेति ।
अत्यन्तमितिविशेषणसूचितमर्थमाह -
प्रधानेति ।
सत्कार्यत्वादित्यादिशब्देनात्मनोऽसङ्गत्वचिद्रूपत्वादि गृह्यते ।
चकारसूचितमर्थमाह -
अपि चेति ।
परमतस्य न्यायशून्यत्वं वक्तुं तदभ्युपगममाह -
वैशेषिका इति ।
तेषां मिथस्तादात्म्यं वारयति -
अत्यन्तेति ।
तत्र हेतुः -
भिन्नेति ।
तत्र गुणवद्द्रव्यम् । सामान्यवत्त्वे सति प्रत्येकं द्रव्यत्वकर्मत्वयोरनाधारो गुणः । संयोगवियोगयोरसमवायिकारणजातीयं कर्म । नित्यमनेकसमवेतं सामान्यम् । नित्यद्रव्येषु स्वरूपसन्तो विशेषाः । नित्यः सम्बन्धः समवाय इति भिन्नलक्षणत्वम् । पृथिव्यप्तेजोवायवाकाशकालदिगात्ममनांसि नवैव द्रव्याणि । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वपरत्वापरत्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहशब्दाश्चतुर्विशतिगुणाः । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । परमपरं च द्विविधं सामान्यम् । अन्त्या विशेषास्त्वनन्ताः । समवायः पुनरेक एवेति मत्वाऽत्यन्तभेदे दृष्टान्तमाह -
यथेति ।
अभ्युपगमान्तरमाह -
तथात्वमिति ।
अत्यन्तभिन्नत्वमिति यावत् ।
मनुष्यादत्यन्तभिन्नानामश्वादीनां मनुष्यपारतन्त्र्यविरोधवद्द्रव्यादत्यन्तभिन्नानां गुणादीनामपि द्रव्यपारतन्त्र्यमत्यन्तभिन्नत्वेन विरुद्धमित्याह -
तदिति ।
परमाणवः समवायश्चेत्युभयमत्यन्तमप्रसिद्धमितरत्प्रसिद्धमित्युपेत्यात्यन्तभिन्नत्वं प्रत्याह -
तन्नेति ।
पारतन्त्र्यनिर्वाहकमत्यन्तभिन्नत्वं न तद्विरोधीत्याह -
कथमिति ।
अत्यन्तभिन्नत्वं नित्यपारतन्त्र्यविरोधि दृष्टमिति व्याप्तिमाह -
यथेति ।
विमतं न द्रव्याधीनं, ततोऽत्यन्तभिन्नत्वात् , यद्यतोऽत्यन्तभिन्नं न तत्तदधीनं, यथा कुशादयः शशादिभ्योऽत्यन्तभिन्नास्तदधीना नेत्यनुमानमाह -
एवमिति ।
व्यतिरेकमुक्त्वान्वयमाह -
अथेति ।
विमतं द्रव्यादभिन्नं, तद्भावाभावानुविधायिभावाभावत्वात् , तद्वत् । न चाग्निभावाभावानुविधायिभावाभावे धूमे व्यभिचारः, तस्याग्निभानं विनापि भानात् । गुणादेश्च द्रव्यभानं विना भाने तत्पारतन्त्र्यव्याहतिरिति भावः ।
विमतं द्रव्याद्भिद्यते, भिन्नशब्दप्रत्ययभाक्त्वात् , घटवदित्याशङ्क्य संस्थानादिभेदोपगमेन सिद्धसाध्यत्वमभिप्रेत्याह -
द्रव्यमिति ।
आकारविशेषः संस्थानभेदोऽवस्थाभेदस्त्वादिशब्दार्थः ।
उक्तमर्यं दृष्टान्तेन साधयन्व्यभिचारमाह -
यथेति ।
एकस्यानेकावस्थात्वं साङ्ख्यसिद्धान्तस्तव त्वनेकस्य कल्पितत्वमेवातो न स्वमतसिद्धिरित्याशङ्क्य तथापि तवापसिद्धान्तः स्यादित्याह -
तथेति ।
निरस्तमेव विधान्तरेणापि निरसितुं शङ्कयति -
नन्विति ।
न तदधीनत्वं तदभेदसाधकं, तत्सामानाधिकरण्येन भानं तु तथा, न तद्धूमेऽस्तीति परिहरति -
सत्यमिति ।
तत्रेति व्यवहारभूमिरुक्ता ।
तुल्या गुणादेरपि द्रव्याद्भेदधीरित्याशङ्क्याह -
इह त्विति ।
विवादस्थलं सप्तम्यर्थः ।
विमतं द्रव्यान्न भिद्यते, तत्समानाधिकृतबुद्धिबोध्यत्वात् , संमतवदित्याह -
तस्मादिति ।
गुणे दर्शितं न्यायं कर्मादावतिदिशति -
एतेनेति ।
विमतं द्रव्याभिन्नं, तत्सत्तास्फूर्तिव्यतिरिक्तसत्तास्फूर्तिशून्यत्वात् , तत्स्वरूपवत् । न च साध्याविशिष्टता, तन्मात्रत्वे साध्ये तन्मात्रसमानाधिकृतधीकृततत्सत्ताव्यतिरिक्तसत्तादिराहित्यस्य हेतुत्वादिति भावः ।
गुणादीनां द्रव्यसामानाधिकरण्येन भानं तदभिन्नत्वाभावेऽपि स्यादित्यन्यथासिद्धिं शङ्कते -
गुणानामिति ।
उभयत्र गुणग्रहणं कर्मादेरुपलक्षणम् । तद्दूषयितुं विकल्पयति -
तदिति ।
पक्षत्रये दोषं प्रतिजानीते -
सर्वथेति ।
अपृथग्देशत्वं द्वयोरेकतरस्य वा । तत्राद्ये दोषमाह -
अपृथगिति ।
कथं स्वाभ्युपगमः, तद्विरोधो वा कथमित्याह -
कथमिति ।
प्रथमं स्वाभ्युपगमं दर्शयति -
तन्त्विति ।
तत्र काणादं सूत्रं प्रमाणयति -
तथा चेति ।
उक्तोऽर्थोत्र न भातीत्याशङ्क्य व्याचष्टे -
तन्तवो हीति ।
स्वाभ्युपगमं दर्शयित्वा तद्विरोधं दर्शयति -
स इति ।
न च सम्बन्धिनोरन्यतरस्यापृथग्देशत्वमयुतसिद्धत्वं, घटाकाशसंयोगे व्यभिचारात् । नापि पृथगाश्रयानामाश्रितत्वं तथा, परमाण्वाकाशसम्बन्धे व्यभिचारात् । एतेन सम्बन्धिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वराहित्यं तथेति व्याख्यातम् । अजसंयोगपक्षे दिक्कालसंयोगे व्यभिचारात् । कालो दिशा संयुज्यते, संयोगित्वात् , घटवदिति तत्सिद्धिः । नच मूर्तत्वादिरुपाधिः, संयोगित्वस्यैव तद्व्यतिरेकप्रयोजकत्वादिति भावः ।
द्वितीयमुत्थाप्य निरस्यति -
अथेत्यादिना ।
तृतीयमनूद्य प्रत्याह -
अपृथगिति ।
तयोरात्मभेदायोगे हेतुमाह -
तस्येति ।
नहि सामानाधिकरण्यधीः समवायार्था, पटे शुक्ल इति धीप्रसङ्गादित्यर्थः ।
गुणादीनां द्रव्यस्य चायुतसिद्धत्वं निरस्याभ्युपगमान्तरं निरस्यति -
युतेति ।
अयुतसिद्धतोपगमः सम्बन्धिद्वयापेक्षोऽन्यतरापेक्षो वा । नाद्य इत्याह -
प्रागिति ।
द्वितीयमुत्थापयति -
अथेति ।
अयुतसिद्धत्वमुपेत्य समवायं दुदूषयिषुः सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं निरस्यति -
एवमिति ।
द्वितीयं शङ्कयति -
सिद्धमिति ।
तर्हि सतोरप्राप्तयोः प्राप्तिः संयोगः, समवायस्तु नैवमित्युपगमात्कार्यकारणयोरपि संयोगापत्तिरित्याह -
प्रागिति ।
क्रियापूर्वकः सम्बन्धः संयोगः, नच कार्यकारणयोः सोऽस्तीति समवायसिद्धिरित्याशङ्क्याह -
यथेति ।
किञ्च सम्बन्ध्यतिरिक्ते सम्बन्धे सिद्धे संयोगः समवाय इति विवेकः ।
न सम्बन्धोऽतिरिक्तोऽस्ति, तस्य सम्बन्धिसम्बन्धेऽनवस्थानात् । असम्बन्धे नियामकत्वायोगात् । तथाच कार्यं न कारणे समवेतं किन्तु कल्पितमेवेत्याह -
नापीति ।
सम्बन्धः सम्बन्धिभ्यां वस्त्वन्तरं, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते -
सम्बन्धीति ।
तत्तदनिर्वाच्यानेकविशेषापेक्षयैकस्मिन्नपि नानाशब्दधियाविति सिद्धसाध्यत्वमाह -
नेति ।
सव्यभिचारश्च हेतुरिति मन्वानो दर्शनं विशदयति -
यथेति ।
स्वगतविशेषापेक्षया नानाशब्दधीभाक्त्वमुदाहरति -
मनुष्येति ।
स्वगतावस्थापेक्षया तद्दर्शयति -
बाल इति ।
स्वगतक्रियापेक्षया तदुपन्यस्यति -
पितेति ।
व्यभिचारप्राचुर्यार्थमुदाहरणान्तरमाह -
यथा चेति ।
दृष्टान्तस्थधर्मं दार्ष्टान्तिके योजयति -
तथेति ।
परोक्तानुमाननिरासफलमुपसंहरति -
इत्युपलब्धीति ।
उपलब्धिरेव गमकतया लक्षणं यस्य तेन योग्थत्वेन प्राप्तस्यानुपलब्धिस्तस्मिन्प्रमाणपञ्चकानुपपत्तिस्ततो वस्त्वन्तरस्य सम्बन्ध्यतिरिक्तसम्बन्धस्याभावो निश्चितः, योग्यानुपलब्धेरभावबोधित्वात् । तस्मात्कार्त्स्न्यैकदेशाभ्यामन्तरालदेशशून्यावस्थार्थौ समवायसंयोगशब्दधीगम्यावित्यर्थः ।
सम्बन्धशब्दधियोः सम्बन्ध्यर्थत्वे तस्य सदाभावात्ते सदा स्यातामित्याशङ्क्याह -
नापीति ।
स्वरूपेणाङ्गुल्यो रूपरूपिणोश्च तत्तच्छब्दधीविषयत्वं, नैरन्तर्यात्तु सम्बन्धशब्दधीगम्यतेत्येकत्वेऽपीत्यत्रोक्तत्वान्न यावत्सम्बन्धिसत्त्वं शब्दधीप्रसक्तिरित्यर्थः ।
किञ्च सांशयोः संयोगेऽपि निरंशयोर्नासावित्याह -
तथेति ।
द्व्यणुकादिकार्यहेतुरेव परमाण्वोः संयोगो निरस्तः । सम्प्रति ज्ञानाद्यसमवायिकारणमात्ममनःसंयोगमदृष्टवदात्मसंयोगं चाणूनां निरस्यति -
अण्वात्मेति ।
आत्मनोऽप्रदेशत्वादणुमनसोस्तत्संयोगः सकलात्मवृत्तिरिति तयोरपि परममहत्त्वं स्यादिति भावः ।
असम्भवे हेत्वन्तरमाह -
प्रदेशेति ।
निरस्तमपि कल्पितप्रदेशं दोषान्तराभिधित्सयोद्भावयति -
कल्पिता इति ।
कल्पनया तद्वत्त्वस्य सत्त्वमसत्त्वं वा । द्वितीये कल्पना वृथेति मत्वाद्यं प्रत्याह -
नेत्यादिना ।
अविद्यमानस्य प्रदेशवत्त्वलक्षणस्यार्थस्य कल्पनया सत्त्वसिद्धाविति यावत् ।
तत्र हेतुः -
इयानिति ।
कल्पकाधीनत्वात्काल्पनाया न तया सर्वार्थसिद्धिरित्याशङ्क्याह -
कल्पनायाश्चेति ।
तथापि परिमितत्वात्तस्या न सर्वार्थसाधकत्वं, तत्राह -
प्रभूतत्वेति ।
षण्णामेव पदार्थानां सम्भवान्न सर्वार्थसिद्धिरित्याशङ्क्याह -
न चेति ।
निवारकाभावे फलं सर्वार्थसिद्धिमुपसंहरति -
तस्मादिति ।
किञ्च कल्पनया वस्तुसिद्धौ संसारमोक्षयोरनियतिरिति ब्रुवाणः संसारस्यानियतिरिति -
कश्चिदिति ।
मुक्तेरनियतिमाह -
अन्यो वेति ।
अवस्थाद्वये हेतुमाह -
कस्तयोरिति ।
कार्यकारणयोरत्यन्तभेदे तथैवोपलब्धिप्राप्तौ समवायादेकत्वसिद्धिरित्याशङ्क्य विशेषतः समवायं दूषयति -
किञ्चेति ।
दृष्टान्तं स्पष्टयति -
न हीति ।
कार्यकारणयोरर्थापत्त्या समवायः सिध्यतीति शङ्कते -
कार्येति ।
द्व्यणुकपरमाणू न समवायार्हौ, सावयवनिरवयवद्रव्यत्वात् , भूम्याकाशवदित्यत्राकार्यकारणद्रव्यत्वात्तयोः समवायानर्हतेत्यप्रयोजकत्वमाशङ्क्याह -
नेत्यादिना ।
अन्यतरव्यतिरेकेणान्यतरस्य सिद्धिसम्भवे कथमेवमित्याशङ्क्याह -
न हीति ।
कार्यस्य कारणानाश्रितत्वे स्वातन्त्र्यं स्यादित्याशङ्क्याह -
कारणस्येति ।
परमाणूनां निरवयवत्वमुपेत्योक्तम् । तदेव नास्तीत्याह -
किञ्चेति ।
परमाणवः सावयवाः, परिच्छिन्नत्वात् , घटवत् । परिच्छिन्नत्वं सावयवमात्रवृत्ति, परिच्छिन्नमात्रवृत्तित्वात् , घटत्ववदित्यर्थः ।
तेषां सावयवत्वे दिग्भेदव्यवस्थापकत्वं हेतुरित्याह -
यावत्य इति ।
सावयवत्वफलमाह -
सावयवत्वादिति ।
उक्तानुमानफलमाह -
इति नित्यत्वेति ।
ये दिग्भेदव्यवस्थापकास्त्वया परमाण्ववयवाः स्वीकृतास्त एव मम परमाणवस्तेऽपि सावयवाश्चेत्तदवयवा एवेत्येवं यतः परं न विभागः स परमाणुर्निरवयवः, स च नित्यः परिमाणतारतम्यविश्रान्त्याधारत्वादात्मवदिति शङ्कते –
यानिति ।
किं सर्वथैव विभागायोग्यं वस्तु परमाणुरुतास्मदादिभिरविभज्यमानावयवम् । आद्ये न परमाणोर्दिग्भेदावधित्वं, मूलकारणस्य सन्मात्रस्यैव सर्वथा विभागायोग्यत्वात्तस्य च निरवयवत्वं सिद्धमेव । द्वितीये सन्मात्रान्मूलकारणादतिरिक्तं किञ्चन सूक्ष्मं वस्तु परमाणुरस्तु, स च विनष्टुमर्हति, पृथिव्यादिजातीयत्वात् , पराभीष्टद्व्यणुकवदित्याह -
नेति ।
दृष्टान्तं समर्थयते -
यथेति ।
वस्तुभूताऽपीति परमतेनोक्तम् ।
दार्ष्टान्तिकं निगमयति -
तथेति ।
नित्याः परमाणवः, निरवयवद्रव्यत्वात् , आत्मवदिति शङ्कते -
विनश्यन्त इति ।
हेत्वसिद्ध्या समाधत्ते -
नायमिति ।
उक्तमेव स्फुटयति -
यथेत्यादिना ।
अवयवतत्संयोगविनाशौ विनापि सुवर्णपिण्डो नश्यति । विनापि संयोगान्तरं सुवर्णद्रवो जायते । परमाणुकाठिन्यं च विभागं विना विनश्यति । तद्गतद्रवश्च संयोगादृते भवति । नच काठिन्यद्रवौ तावद्द्रव्यातिरिक्तौ शक्यौ वक्तुम् । एवं विनैवावयवविभागविनाशौ परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इत्यर्थः ।
मूर्तिशब्देन काठिन्यम् , आदिशब्देनावस्थाभेदादि गृह्यते । द्रव्यनाशस्यावस्थानाशो नोदाहरणमित्याशङ्क्यात्रापि परमाण्ववस्थानाश एव सर्वकार्याणां तदवस्थात्वादित्यभिप्रेत्य कार्यद्रव्यत्वहेतुं व्यभिचारयति -
तथेत्यादिना ।
कार्यनाशस्यावयवनाशतद्विभागाधीनत्वनियमाभाववदित्यर्थः ।
तस्य केवलत्वं प्राधान्यम् । सति तस्मिन्कार्योत्पादस्य क्षेपाभावात् । नियमाभावे हेतुमाह -
क्षीरेति ।
आदिशब्देन लवणादि गृह्यते । क्षीराद्यनुगुणादवयवसंयोगादतिरिक्तो दध्याद्यनुगुणः संयोगोऽवयवसंयोगान्तरम् । दधिहिमादीत्यादिपदं जलाद्यर्थम् । दध्यादिषु सत्यपि कार्यद्रव्यत्वे विशिष्टानेकद्रव्यारब्धत्वसिद्धेरनैकान्त्यादित्यर्थः । एतेन कार्यद्रव्यं स्वपरिमाणादणुतरपरिमाणारब्धं, कार्यद्रव्यत्वादित्यपास्तम् ।
यच्चाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणतारतम्यत्वादिति, तत्राश्रयासिद्धिरित्यभिप्रेत्याधिकरणार्थमुपसंहरति -
तदेवमिति ।
वाक्यशब्देनापरिग्रहसूत्रं गृह्यते ॥ १७ ॥
वैशेषिकं निरस्य वैनाशिकं निरस्यति -
समुदाय इति ।
आर्हतादिमतं हित्वा किमित्यनन्तरं वैनाशिकमतं निरस्यते, तत्राह -
वैशेषिकेति ।
परिमाणभेदेन देहादेराशुतरविनाशित्वाङ्गीकारादर्धवैनाशिकत्वं वैशेषिकस्येति । तन्निरासानन्तरं वैनाशिकत्वाविशेषाद्बुद्धिस्थं सर्ववैनाशिकनिरसनमित्यर्थः ।
वैशेषिका देहादेस्त्रिक्षणस्थायित्वमास्थिताः, तथापि तन्मते निरस्ते तन्मात्रमपि यैर्नेष्टं तन्मतमतिशयेन नापेक्षितव्यमित्याह -
नतरामिति ।
तथाप्येकेनैवाधिकरणेन तन्निराससम्भवे किमधिकरणद्वयेनेति, तत्राह -
स चेति ।
राद्धान्तस्यैक्याद्बहुप्रकारत्वायोगमाशङ्क्याह -
प्रतिपत्तीति ।
उपदेष्टुः सर्वज्ञस्यैक्यात्कथं शिष्याणां तद्भेदः, तत्राह, -
विनेयेति ।
मन्दमध्यमोत्तमधियां शिष्याणां भेदात्तद्भेदसिद्धिरित्यर्थः । प्रतिपत्तिभेदावधारणार्थो वाशब्दो न विकल्पार्थः ।
तानेव दर्शयति -
तत्रेति ।
सौत्रान्तिकवैभाषिकयोरवनान्तरभेदेऽपि सर्वास्तित्वसम्प्रतिपत्तेरेकीकृत्य त्रित्वमुपपादयति -
केचिदिति ।
इदानीमाद्याधिकरणस्य प्रवृत्तिप्रकारमाह -
तत्रेति ।
बाह्यं विशिनष्टि -
भूतमिति ।
आभ्यन्तरं कथयति -
चित्तमिति ।
बाह्यार्थवादिबौद्धराद्धान्तो विषयः । स किं प्रामाणिको भ्रान्तो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षं विवृणोति -
तत्रेत्यादिना ।
तस्य भ्रान्तत्वोपपादनेन समन्वयस्य तद्विरोधनिरासात्पादादिसङ्गतयः । तस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, भ्रान्तत्वाद्विरोधस्याभावात्तत्सिद्धिरित्युभयत्र फलसिद्धिः । धातुशब्दः स्वभाववचनः । आदिशब्देनाप्तेजोवाय्वाकाशर्तवो गृह्यन्ते ।
विषयाणामिन्द्रियाणां च भौतिकशब्दवाच्यत्वमाह -
भौतिकमिति ।
पृथिव्यादयश्च परमाणुपुञ्जा एव नावयव्यारम्भोऽस्तीति वक्तुं परमाणुस्वरूपमाह -
चतुष्टये चेति ।
कठिनस्वभावाः पृथिवीपरमाणवः । स्नेहस्वभावा आप्यपरमाणवः । उष्णतास्वभावास्तेजःपरमाणवः । ईरणं चलनं तत्स्वभावा वायुपरमाणवः । तेषां चतुर्विधानां सर्गकाले संयोगापत्तिमाह -
त इति ।
भूतभौतिकानुक्त्वा चित्तचैत्तानाह -
तथेति ।
कर्मकरणव्युत्पत्तिभ्यां सविषयाणीन्द्रियाणि रूपस्कन्धः । रूप्यमाणपृथिव्यादीनां बाह्यत्वेऽपि देहस्थत्वादिन्द्रियसम्बन्धाच्चाध्यात्मिकत्वम् । अहमिति प्रत्ययो विज्ञानस्कन्धः । सुखादिप्रत्ययो वेदनास्कन्धः । गौरश्व इत्यादिशब्दसञ्जल्पितप्रत्ययः संज्ञास्कन्धः । संस्कारस्कन्धस्तु रागादिधर्माधर्मौ च । तत्र विज्ञानस्कन्धश्चित्तम् । इतरे चैत्ताः । उक्तानां स्कन्धानां समाहारं सङ्घातं दर्शयति -
तेऽपीति ।
उक्तस्य बाह्याध्यात्मिकभावजातस्याध्यक्षानुमानाभ्यां क्षणिकत्वे सिद्धे स्थायिनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीति प्राप्तमनूद्य सिद्धान्तयति -
तत्रेति ।
सूत्रं व्याचष्टे -
योऽयमिति ।
बाह्यत्वमाध्यात्मिकत्वं चोभयप्रकारत्वमुभयहेतुकमेवाह -
अण्विति ।
बाह्ये भूतभौतिकसमुदाये पृथिव्यादिपरमाणुहेतुके, रूपविज्ञानादिहेतुके चाध्यात्मिके समुदायेऽभिप्रेते तस्याप्राप्तिरयुक्तता स्यादित्याह -
तस्मिन्निति ।
संहन्यमानानामव्यवधाने सङ्घातानुपपत्तौ च न हेतुरित्याक्षिपति -
कुत इति ।
सङ्घातः स्वतो वा परतो वा । नाद्य इत्याह -
समुदायिनामिति ।
अण्वादीनामचैतन्यात्स्वातन्त्र्येण प्रवृत्त्यसिद्धेर्न स्वतःसङ्घातो घटते । तथाच क्षणिकपक्षे सर्गादौ सङ्घातायोगान्न तद्विरोधः समन्वयस्येत्यर्थः ।
परमपि सङ्घातकारणं चित्ताभिज्वलनमन्यद्वा । तत्राद्यं दूषयति -
चित्तेति ।
सिद्धे सङ्घाते चित्ताभिज्वलनं ततः सङ्घात इत्यन्योन्याश्रयान्न चित्ताभिज्वलनं तद्धेतुरित्यर्थः ।
अन्योऽपि संहन्ता चेतनोऽचेतनो वा । चेतनोऽपि भोक्ता प्रशासिता वा । द्विधापि स्थिरो वा क्षणिको वा । नाद्यः । अनभ्युपगमात् । न द्वितीयः । क्षणिकस्यान्वयव्यतिरेककालानवस्थानात् । भोक्तुश्च कारणविन्यासविशेषज्ञानायोगात् , सर्वज्ञस्य स्वतस्तज्ज्ञानेऽपि क्षणिकत्वात्कर्तृत्वासिद्धेरित्याह -
अन्यस्येति ।
अचेतनोऽपि संहन्ता धर्मादिर्वा स्यादालयविज्ञानसन्तानो वा । नाद्यः । तस्य पूर्ववच्चेतनाधीनप्रवृत्त्यनुपपत्तेः । स्वतश्चेत्प्रवृत्तिस्तदा धर्मादिप्रवृत्त्यनुपरमान्मोक्षासिद्धिरित्याह -
निरपेक्षेति ।
आलयविज्ञानसन्तानः संहन्तेति पक्षं प्रत्याह -
आशयस्येति ।
आशेरतेऽस्मिन्कर्मानुभववासना इत्याशयः सन्तानः । तस्यापि सन्तानिभ्योऽन्यत्वमनन्यत्वं वा । द्विधापि दुर्निरूपत्वान्न तस्य संहन्तृतेत्यर्थः ।
स खल्वन्यः स्थिरो वा क्षणिको वा । प्रथमेऽस्मदुक्तो भोक्तैव नामान्तरेणोक्तः स्यादिति मत्वा द्वितीये क्षणिकस्य व्यापारात्पूर्वं तत्काले वाऽभावात्कारणत्वाश्रयत्वयोरसिद्धिरित्याह -
क्षणिकत्वेति ।
एतेनानन्यत्वमपि प्रत्युक्तम् ।
सन्तानिनामपि क्षणिकत्वेनोक्तरीत्या व्यापारकारणत्वाद्ययोगात्तदभिन्नस्य सन्तानस्यापि तदसिद्धेरित्याह -
निर्व्यापारत्वादिति ।
संहन्तुरभावे फलितमाह -
तस्मादिति ।
यथाकथञ्चिल्लोकयात्रा सिध्यति चेत्किं समुदायेनेत्याशङ्क्याह -
समुदायेति ॥ १८ ॥
सङ्घातस्य निमित्तमाशङ्क्य निरस्यति -
इतरेतरेति ।
पूर्वपक्षभागं विभजते -
यद्यपीति ।
तर्हि सङ्घाताभावात्तदालम्बना लोकयात्रा न निर्वहेत् , तत्राह -
तथापीति ।
कार्यं प्रत्ययते जनकत्वेन गच्छतीति प्रत्ययशब्दस्य हेतुवाचित्वमुपेत्येतरेतरकारणत्वादित्युक्तम् । तथापि सङ्घातस्य निमित्तं वाच्यं, तत्राह -
अविद्यादीनामेव तन्निमित्तत्वान्नापेक्षणीयान्तरमस्तीत्यर्थः ।
के पुनरविद्यादयः, तत्राह -
ते चेति ।
वक्ष्यमाणबुद्धिस्थपरमर्शी तच्छब्दः । क्षणिककार्यदुःखस्वभावेष्वर्थेषु स्थायिनित्यसुखबुद्धिरविद्या । तस्यां सत्यां संस्कारा रागद्वेषमोहा विषयेषु भवन्ति । तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते । तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयमुपादानकारणं नामाश्रयत्वान्नाम निष्पद्यते । तच्च कारणत्वेन स्वीकृत्य सितासितादिरूपवच्छरीरमभिनिर्वर्तते । गर्भीभूतस्य शरीरस्य कललबुद्बुदाद्यवस्था नामरूपशब्दाभ्यामत्राभीष्टा, जातेरुत्तरत्राभिधानात् । नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, पृथिव्यादिधातवः षडायतनानि यस्य करणजातस्य तत्तथा । नामरूपेन्द्रियाणां मिथः संनिपातः स्पर्शः । ततः सुखादिका वेदना । तस्यां सत्यां कर्तव्यं सुखं मयेत्यध्यवसानं तृष्णा । ततो वाक्कायचेष्टोपादानम् । ततो भवत्यस्माज्जन्मेति भवो धर्मादिः । तद्धेतुका देहादयो जातिः । जातस्य देहस्य परिपाको जरा । देहनाशो मरणम् । म्रियमाणस्य साभिषङ्गस्य पुत्रादावन्तर्दाहः शोकः । तदुत्थं हा पुत्र, इत्यादिप्रलपनं परिदेवना । शब्दादिज्ञानपञ्चकसंयुक्तमसाध्वनुभवनं दुःखम् । दुर्मनस्ता मानसं दुःखम् । इतिशब्दो यथोक्तपरामर्शार्थः । एवञ्जाती यकशब्दो मदमानाद्युपक्लेशसङ्ग्रहार्थः ।
अविद्यादिहेतुका जन्मादयस्तद्धेतुकाश्चाविद्यादय इति घटीयन्त्रवदनवरतमावर्तनमेषामिति मत्वा विशिनष्टि -
इतरेति ।
अविद्यादीनां सत्त्वमेव कथमित्याशङ्क्य सङ्क्षेपविस्तराभ्यामुक्तत्वात्तद्रूपं सौगतानां प्रसिद्धमित्याह -
सौगत इति ।
न केवलं तेषामेव प्रसिद्धं किन्तु सर्ववादिनामपीत्याह -
सर्वेषामिति ।
आनुभविकार्थप्रत्याख्याने सर्वव्यवहारासिद्धिरितिभावः ।
अविद्यादीनां मिथो निमित्तनैमित्तिकत्वेऽपि कुतः सङ्घातसिद्धिरित्याशङ्कयोपसंहरति -
तदेवमिति ।
अविद्यादिरेव सङ्घाताभावे न सिध्यतीत्यनुपपत्त्या तदाक्षेपे तदाश्रयः सर्वव्यवहारो निर्वहतीत्यर्थः ।
सिद्धान्तभागमवतारयति -
तन्नेति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
हेतुं व्याचष्टे -
भवेदिति ।
अविद्यादीनां मिथो निमित्तनैमित्तिकभावभाजां सङ्घातनिमित्तत्वमाशङ्क्याह -
यत इति ।
उत्तरसूत्रस्थमर्थमभिप्रेत्येहापिशब्दः ।
अविद्यादीनां मिथो हेतुहेतुमत्त्वेऽपि चेतनाधिष्ठानादृते सङ्घातासिद्धिरित्युक्ते पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।
किमविद्यादयः सङ्घातस्य गमकाः किं वोत्पादका इति विकल्पयति -
अत्रेति ।
तत्राद्यमनूद्य दूषयति -
यदीति ।
गमकत्वपक्षे स्वरूपसिद्धिरन्यतो वाच्या तच्चान्यन्नास्तीत्यर्थः ।
अणूनां स्कन्धानां चोभयविधसङ्घातनिमित्तत्वमाशङ्क्याह -
तच्चेति ।
आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः । अणुषु स्थिरेषु भोगहेत्वदृष्टविशिष्टेषु भोक्तृषु चोक्तविशेषणेषु स्वीकृतेषु सत्सु चेतनस्याधिष्ठातुरनुरूपस्याभावान्न सम्भवति सङ्घातापत्तेर्निमित्तं किञ्चिदित्युक्तमित्यर्थः ।
कैमुतिकन्यायमपिना सूचितमाह -
किमिति ।
अदृष्टाश्रयकर्तृराहित्यमाह -
आश्रयेति ।
आश्रयाश्रयिशून्येष्विति पाठे तूपकार्योपकारकत्ववर्जितेष्वित्यर्थः ।
विशिष्टेष्वणुषु स्वीक्राणेषु किं पुनः सङ्घातापत्तेर्निमित्तं, न किञ्चिदित्याक्षेपः । द्वितीयं शङ्कयति -
अथेति ।
परस्पराश्रयत्वेन प्रत्याह -
कथमिति ।
पूर्वपूर्वसङ्घातानामुत्तरोत्तरसङ्घातहेतुत्वात्तदाश्रयत्वाच्चाविद्यादीनां नान्योन्याश्रयत्वम् ।
नच संहन्तृचेतनापेक्षा, स्वभावतो भावानां संहतानामेवोदयव्ययोपगमादित्याह -
अथेति ।
तद्दूषयितुं विकल्पयति -
तदापीति ।
सङ्घातवर्तिनोऽदृष्टस्याधिष्ठातृचेतनाभावात्तद्वशात्प्रतिनियतकार्योत्पादायोगे स्वभावादेवोत्पत्तिरास्थेया । तथाच पूर्यते गलति चेति पुद्गलं शरीरं, तच्च मनुष्यशब्दितं, तदुपेतः सङ्घातो नियमपक्षे न जात्यन्तरभाग्भवेदित्याह -
नियमेति ।
द्वितीयेऽपि व्यवस्थापकाभावेनाव्यवस्थामाह -
अनियमेति ।
उभयत्रेष्टापत्तिं शङ्कित्वा निरस्यति -
उभयमिति ।
भोगापवर्गव्यवहारानुपपत्तेश्चेत्याह -
अपि चेति ।
क्षणवादेऽपि बुभुक्षुणा भोगो मुमुक्षुणा मोक्षश्चार्थनीयौ, तत्कुतो भोगापवर्गव्यवहारासिद्धिः, तत्राह -
यदिति ।
अभ्युपगमफलमाह -
ततश्चेति ।
भोगे दर्शितं न्यायं मोक्षेऽतिदिशति -
तथेति ।
विपक्षे दण्डमाह -
अन्येनेति ।
बुभुक्षोर्मुमुक्षोर्वा कालद्वयस्थायित्वमाशङ्क्याह -
अवस्थायित्व इति ।
परिहारभागतात्पर्यमुपसंहरति -
तस्मादिति ॥ १९ ॥
उपेत्यवादमिदानीं त्यजति -
उत्तरेति ।
पूर्वसूत्रोक्तमनूद्यास्य सूत्रस्य तात्पर्यमाह -
उक्तमिति ।
अविद्यादीनां मिथो हेतुत्वमुपेत्य सङ्घातासिद्धिरुक्ता, संप्रत्यन्योन्यहेतुत्वमपि नेति वक्तुमिदं सूत्रमित्यर्थः ।
अविद्यादीनामन्योन्यनिमित्तत्वायोगं वक्तुं परपक्षमनुवदति -
क्षणेति ।
तत्रानुपपत्तिं प्रतिजानीते -
न चेति ।
काऽत्रानुपपत्तिरित्याशङ्क्य पूर्वक्षणस्योत्पादनव्यापारः समनन्तरक्षणे वा स्वसत्ताक्षणे वेति विकल्प्याद्यं प्रत्याह -
निरुध्यमानस्येति ।
अचिरनिरुद्धत्वं निरुध्यमानत्वम् । निरोधहेतुसांनिध्यानुगमान्निरुद्धत्वं चिरनिरुद्धत्वम् ।
कल्पान्तरमुत्थापयति -
अथेति ।
स्थायित्वं व्यवच्छिनत्ति -
परिनिष्पन्नेति ।
कारणस्य कार्यात्पूर्वकाले सत्ताऽर्थवती न कार्यकाले । तदा कार्यस्य सिद्धत्वेन तदर्थसत्तानुपयोगत्वादिति भावः ।
तत्रापि कार्यकारणत्वासिद्धिरित्याह -
तथापीति ।
कथं कारणस्योत्पादनं धर्मः स्वरूपं वा । नाद्य इत्याह -
भावेति ।
कल्पान्तरमाह -
अथेति ।
तत्रापि हेतुफलत्वस्य न सम्भावनेत्याह -
तथापीति ।
कथं हेतुस्वरूपं कार्यानन्वयि तदन्वयि वा । तत्र प्रथमं प्रत्याह -
हेत्विति ।
तदनुपरागेऽपि तद्भावे हिमवद्विन्ध्ययोरपि तद्भावः स्यादिति भावः ।
कल्पान्तरं दूषयति -
स्वभावेति ।
प्रथमपक्षोक्तदोषं प्रपञ्चयति -
विनैवेति ।
न च कार्यस्य कारणसादृश्यं तन्निवारकं, किञ्चिद्रूपानुगमभावे तस्यैवासम्भवादिति भावः ।
इतश्च क्षणवादसिद्धिरित्याह -
अपि चेति ।
तदेव वक्तुमुत्पादनिरोधौ त्रेधा विकल्पयति -
उत्पादेति ।
पक्षत्रयेऽपि वस्तुनो नित्यत्वप्रसङ्गान्न क्षणिकतेत्याह -
सर्वथेति ।
तत्राद्यमनूद्य वस्तुनो नित्यत्वं प्रसञ्जयन्क्षणिकत्वासिद्धिमाह -
यदीति ।
द्वितीयेऽपि क्षणिकत्वासिद्धितादवस्थ्यमाह -
अथेत्यादिना ।
तमेव विशेषं दर्शयति -
उत्पादेति ।
तृतीयमनूद्य क्षणिकत्वासिद्धिं स्फुटयति -
अथेति ।
प्रकारान्तरमाशङ्क्य प्रत्याह -
यदीति ।
उत्पादनिरोधयोर्दुर्निरूपत्वे फलमाह -
तस्मादिति ।
सङ्घातस्य हेतुफलत्वस्य चासिद्धिरपिशब्दार्थः ॥ २० ॥
किञ्चासति फलहेतौ फलमुत्पद्यते सत्येव वेति विकल्प्याद्यं दूषयति -
असतीति ।
सूत्रं व्याकर्तुं वृत्तं कीर्तयति -
क्षणेति ।
मा तर्हि पूर्वक्षणस्योत्तरक्षणकारणत्वं भूत्तर्हि पूर्वक्षणाभावाद्वोत्तरक्षणस्योत्पत्तिस्तदभावे सति वा । नाद्यः, ‘नासतोऽदृष्टत्वात्’ इति वक्ष्यमाणत्वात् । द्वितीयमनुवदति -
अथेति ।
निर्हेतुफलोत्पत्तिं प्रत्याह -
तत इति ।
प्रतिज्ञोपरोधं स्फोरयति -
चतुर्विधानिति ।
आलम्बनप्रत्ययः समनन्तरप्रत्ययोऽधिपतिप्रत्यय आलोकश्चेति चतुर्विधा हेतवस्तान्प्रतीत्य प्राप्य चित्तं चैत्ताश्च तदभिन्नाः सुखादयो जायन्ते । तत्र नीलाभासस्य चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता । समनन्तरप्रत्ययात्पूर्वज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः । आलोकाद्धेतोः स्पष्टता । सुखादीनामपि चैत्तानां चित्ताभिन्नानामेतान्येव चत्वारि कारणानि । सेयं प्रतिज्ञा निर्हेतुफलोत्पत्तौ बाध्येतेत्यर्थः ।
तत्रैवातिप्रसङ्गं दोषान्तरमाह -
निर्हेतुकायां चेति ।
अन्यथेति सूत्रावयवं शङ्कात्वेन व्याकरोति -
अथेति ।
तथाच न प्रतिज्ञोपरोधातिप्रङ्गाविति शेषः ।
उत्पत्तेरुत्पद्यमानाभेदमभ्युपयन्तं प्रति सूत्रावयवेनोत्तरमाह -
तत इति ।
यौगपद्योपगमे का हानिः, तत्राह -
तथापीति ।
पूर्ववदत्र प्रतिज्ञोपरोधो नास्तीत्याशङ्क्याह -
क्षणिका इति ।
आद्यन्तवन्तो भावाः संस्काराः, संस्क्रियन्ते समुत्पद्यन्त इति व्युत्पत्तेः ॥ २१ ॥
समुदायस्य कार्यकारणभावस्य क्षणिकत्वस्य चासिद्धिरुक्ता । संप्रत्यभ्युपगमान्तरं प्रत्याह -
प्रतिसङ्ख्येति ।
सौगतमतासङ्गत्ये सूत्रस्य हेत्वन्तरपरत्वमाह -
अपि चेति ।
तदेव वक्तुं तन्मतमनुभाषते -
वैनाशिका इति ।
संस्कृतमुत्पाद्यं त्रयादन्यदित्युक्तम् । किं तत्त्रयं तदाह -
तदपीति ।
तस्यापि क्षणिकत्वादुत्पाद्यत्वाच्च नान्यत्वप्रतियोगित्वमित्यशङ्क्याह -
त्रयमपीति ।
वस्तुप्रतियोगिकान्यत्वं वस्त्वन्तरस्यापीत्याशङ्क्योक्तम् -
अभावेति ।
अभावस्यापि प्रतियोगिद्वारा सोपाख्यत्वमित्याशङ्क्याह -
निरुपाख्यमिति ।
प्रतीपा सङ्ख्या प्रतिसङ्ख्या सन्तमिममसन्तं करोमीति धीस्तया निरोधस्तथेति व्युत्पादयति -
बुद्धीति ।
स्तम्भादीनां प्रतिक्षणं स्वारसिको विनाश इत्यप्रतिसङ्ख्यानिरोधं व्याचष्टे -
तद्विपरीत इति ।
आवरणाभावव्यङ्गयं शब्दवद्द्रव्यं व्यवच्छेत्तुं मात्रपदम् ।
पराभ्युपगममुक्त्वा सूत्रविषयं परिशिनष्टि -
तेषामिति ।
तात्पर्यमुक्त्वा प्रतिज्ञां विभजते -
प्रतिसङ्ख्येति ।
तन्न प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
हेतुं व्याख्यातुं विकल्पयति -
एतौ हीति ।
भावशब्दः सन्तानिवाची । तत्राद्यं दूषयति -
न तावदिति ।
योऽसावन्त्यः सन्तानी स किञ्चिदारभते न वा । नाद्यः, अन्त्यत्वासिद्धेः, सन्तानानुच्छेदाच्च । द्वितीयेऽर्थक्रियाभावात्तदसत्त्वे तज्जनकमपि सर्वमसदित्यनेन क्रमेणासन्तः सर्वे सन्तानिनः स्युः । न च विजातीयक्षणोत्पादकत्वेनार्थक्रियाकारित्वं सजातीयानुत्पादकत्वेन च सन्तानोच्छित्तिः, एकस्मिन्नेव सन्तानेऽनेकसन्तानप्रसङ्गात् । अतः सन्तानानुच्छेदान्न तद्गोचरौ निरोधावित्यर्थः ।
न द्वितीय इत्याह -
नापीति ।
निरन्वयं व्याचष्टे -
निरुपाख्य इति ।
घटकपालादिषु सर्वत्र सैवेयं मृदिति प्रत्यभिज्ञानादन्वयिनो नाशाभावावगतेरिति हेतुमाह -
सर्वास्विति ।
बीजाङ्कुरादानामुत्तरोत्तरकार्ये प्रत्यभिज्ञानाभावादन्वयिविच्छित्तिरित्याशङ्क्याह -
अस्पष्टेति ।
तास्वपि नान्वयी विच्छिद्यते, घटकपालादौ दृष्टेनान्वय्यविच्छेदेन विवादस्थलेऽपि तदनुमानात् । विमतं न निरन्वयविनाशि, कार्यत्वात् , घटादिवदित्यर्थः ।
अन्वय्यविच्छेदेऽपि विच्छेदोऽवस्थानामात्यन्तिकःस्यादित्याशङ्क्य नावस्था निरन्वयनाशिन्यस्तासामनिर्वाच्यतयान्वयिमात्रत्वात्तस्य च सत्त्वेनाधिष्ठानत्वादनाशादित्युपसंहरति -
तस्मादिति ॥ २२ ॥
प्रतिसङ्ख्यानिरोधान्तर्भूतमविद्यादिनिरोधं निरस्यति -
उभयथेति ।
सूत्रं व्याकर्तुं विषयमुक्त्वा विकल्पयति -
योऽयमिति ।
यमनियमादिसामग्नी परिकरस्तत्सहितसम्यग्धीसाध्यश्चेदविद्यादिनिरोधस्तदा स्वमतहतिरित्याह -
पूर्वस्मिन्निति ।
स्वयमेव चेदविद्यादिनिरोधस्तदा सर्वं क्षणिकमित्यादिभावनोपदेशवैयर्थ्यमित्याह -
उत्तरस्मिंस्त्विति ।
सूत्रव्याख्यामुपसंहरति -
एवमिति ॥ २३ ॥
निरोधद्वयं निरस्याकाशं निरस्यति -
आकाशे चेति ।
सूत्रस्य सङ्गतिमाह -
यच्चेति ।
वृत्तमनूद्य पूर्वोत्तरसूत्रयोरपुनरुक्तं विषयमुक्त्वा प्रतिज्ञामाकाङ्क्षां पूरयन्व्याकरोति -
आकाशे चेति ।
तत्र हेतुः -
प्रतिसङ्ख्येति ।
कथमावरणाभावमात्रे तस्मिन्वस्तुत्वधीः, तत्राह -
आगमेति ।
तत्प्रामाण्येऽपि कथमाकाशे वस्तुत्वधीरित्याशङ्क्य तदुत्पत्तिवादिनीनां श्रुतीनां भूयस्त्वादित्याह -
आत्मन इति ।
न हि निरुपाख्यं नरविषाणवदुत्पत्तुमर्हतीति भावः ।
आगमाप्रामाण्ये बौद्धा विवदन्ते, तत्कथं तान्प्रत्यागमेन नभसो वस्तुत्वमुच्यते, तत्राह -
विप्रतिपन्नानिति ।
अनुमानमेव सूचयति -
गन्धादीनामिति ।
शब्दो हि क्वचिदाश्रितः, धर्मत्वात् , गन्धवदिति सामान्यतो धर्मिसिद्धिः । शब्दश्च विशेषगुणः, अस्पर्शवत्त्वे सति बाह्यैकेन्द्रियग्राह्यजातिमत्त्वात् , गन्धवत् । स च प्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वेन स्पर्सवदसम्बन्धात् , विशेषगुणतया दिक्लालमनोभिरसंसर्गात् , बाह्येन्द्रियग्राह्यतया चानात्मगुणत्वात् , पारिशेष्यादष्टद्रव्यातिरिक्तद्रव्याश्रयः । तच्चाकाशमित्यर्थः ।
आगमादनुमानादनुभवाद्वा सोपाख्यमाकाशमित्युक्त्वावरणाभावपक्षे दोषमाह -
अपि चेति ।
यथैकघटसत्त्वेऽपि घटान्तरासत्त्वप्रत्युक्त्या निर्घटं भूतलमित्यशक्यं वक्तुं तथैकस्मिन्नावरणे सत्यावरणान्तराभावप्रयुक्त्यापि न तद्धीनतेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः ।
देशावच्छेदेनावरणाभावविभागं गृहीत्वा शङ्कते -
यत्रेति ।
अभावस्य धर्मिप्रतियोग्यपेक्षत्वाद्धर्मिणो वस्तुत्वं स्यादित्याह -
येनेति ।
इतश्चाकाशस्य वस्तुत्वमित्याह -
अपि चेति ।
प्रसङ्गं प्रकटीकर्तुं स्वाभ्युपगममुपन्यस्यति -
सौगते हीति ।
किं सम्यङ्निश्चितं श्रेयोऽधिकरणमस्या इति किंसंनिश्रया । कथमाकाशस्य वस्तुत्वाभावे तद्विरोधप्रसङ्गः, तत्राह -
तदिति ।
आश्रयत्वं नावस्तुनो दृष्टमित्यर्थः ।
स्वाभ्युपगमविरोधप्रसङ्गफलमाह -
तस्मादिति ।
निरोधद्वयस्याकाशस्य चावस्तुत्वे साधारणं दूषणमाह -
अपि चेति ।
विप्रतिषेधं स्फोरयति -
न हीति ।
नाशाभावोपलक्षितसत्तायोगित्वं नित्यत्वम् । तद्विपरीतमनित्यत्वम् । तदुभयं न तुच्छस्य युक्तमित्यर्थः ।
वस्तुत्वाभावे धर्मधर्मिव्यवहाराविषयत्वमित्युक्तम् । इदानीं तद्विषयत्वे वस्तुत्वं स्यादित्याह -
धर्मेति ॥ २४ ॥
संप्रत्यात्मनः स्थायित्वं, विशेषतः साधयति -
अनुस्मृतेश्चेति ।
सूत्रस्य वैनाशिकदर्शनानुपपत्तौ हेत्वन्तरपरत्वमाह -
अपि चेति ।
तदेव वक्तुं परस्यावश्याश्रयणीयमर्थमाह -
वैनाशिक इति ।
इष्टापत्तिमाशङ्क्याह -
न चेति ।
उपलब्धुर्न क्षणिकता युक्तेत्यत्र हेतुमुक्त्वा व्याकरोति -
अन्विति ।
अनुशब्दस्य व्यवच्छेद्याभावेऽपि स्मृत्युपलब्ध्योरेककर्तृकत्वार्थं विशेषणमित्याह -
सा चेति ।
न केवलमुपलब्धिस्मृत्योरेवैककर्तृकत्वम् , उपलब्ध्योरपीत्याह -
कथमिति ।
यस्तु सत्यपि भेदे सन्तानैक्यं स्मृतिप्रयोजकमिच्छति, तं प्रत्याह -
अपि चेति ।
पूर्वोत्तरप्रत्ययकर्तृभेदेऽपि सन्तानैक्यादेवंविधा धीरित्याशङ्क्याह -
यदि हीति ।
कर्तृभेदे स्मराम्यहमन्योऽद्राक्षीदिति लोकस्य धीः स्यादित्यर्थः ।
ईदृश्येव धीरित्याशङ्क्याह -
न त्विति ।
क्वचित्तादृश्या धियोऽनुभवसिद्धत्वमाशङ्क्याह -
यत्रेति ।
कर्तृभेदावगतिमुदाहरति -
स्मरामीति ।
क्वचित्तयोर्विभिन्नकर्तृकत्वे दृष्टिस्मृतित्वाविशेषादहमदोऽद्राक्षमित्यत्रापि तयोर्भिन्नकर्तृकत्वमनुमेयमित्याशङ्क्यानुभवविरोधमाह -
इहेति ।
अवगतिमनवगतिव्युदासेन स्फोरयति -
न नेति ।
यदात्मनो दर्शनं पूर्वं निर्वृत्तं तदहं नाद्राक्षमिति न निह्नुते किं त्वनुमन्यते परोऽपीत्यर्थः ।
प्रत्यक्षविरोधादनुमानानुदये दृष्टान्तमाह -
यथेति ।
एतद्धटस्मर्तैतद्धटानुभवितैतद्धटज्ञातृत्वात्सम्प्रतिपन्नव्यक्तिवदिति मत्वा फलितमाह -
तत्रेति ।
दर्शने स्मरणे चोक्तरीत्या कर्त्रैक्ये सतीति यावत् ।
दृष्टिस्मृतिक्षणद्वयवर्तित्वमेकस्यास्माभिरिष्यते, क्षणिकत्वं त्वाशुतरविनाशित्वादित्याशङ्क्याह -
तथेति ।
स्वरसभङ्गुंरत्ववदाशुतरविनाशित्वमपि भावानां प्रत्यभिज्ञाविरुद्धमित्यर्थः ।
विरोधमेव स्फोरयति -
अनन्तरामिति ।
वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन् जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतीपत्तीः स्वकीयाः स्वमात्रकर्तृकाः प्रतिसन्दधानः सन्निति योजना ।
आत्मनि प्रत्यभिज्ञानं ज्वालादाविव सादृश्यकृता भ्रान्तिरिति शङ्कते -
स इति ।
एकस्य पूर्वोत्तरक्षणद्वयतत्सादृश्यदृशोऽसत्त्वं सत्त्वं वेति विकल्पयति -
तमिति ।
असत्त्वं प्रत्याह -
तेनेति ।
सत्त्वमनूद्य निराह -
स्याच्चेदिति ।
तेनेदं सदृशमित्ययं विकल्पप्रत्ययः, स च स्वाकारं बाह्यतयाऽध्यस्यति, तत्त्वतस्तु पूर्वापरौ क्षणौ तयोः सादृश्यं वा न गृह्णाति, तत्कथमेकस्य द्रष्टुः स्थायितेति शङ्कते -
तेनेति ।
वस्तुद्वयप्रत्ययादन्यत्वधिया सादृश्यप्रत्ययस्यान्तरशब्दः । तथापि तत्र वस्तुद्वयप्रत्ययस्य निमित्तत्वादेकेन क्षणत्रयस्थायिना भाव्यमित्याह -
नेति ।
तेनेदं सदृशमिति ज्ञाने तत्तेदन्तावच्छिन्नावर्थौ तयोः सादृश्यं च किं न भासते । भासमाना वा विज्ञानस्याकारास्तस्माज्ज्ञानाद्भिन्ना न वा । ज्ञानाकारत्वे ज्ञानमेकमनेकं वा । तत्राद्ये स्वसंवेदनविरोधः स्यादित्याह -
तेनेति ।
भासमानानां त्रयाणां ज्ञानाकारत्वे तस्य चैक्ये व्याघातः, एकस्यानेकाकारत्वायोगात् , आकारभेदे च तद्भेदात् । नच ज्ञानानेकत्वम् , एकज्ञानेन हि नानापदार्थोल्लेखे नानेत्युल्लेखो न ज्ञानभेदः । परिशेषाज्ज्ञानाद्भिन्नोऽर्थस्तस्य च नानाकारस्य तत्तेदन्तास्पदस्य तत्सादृश्यस्य च परामर्शः स्थायिन्यात्मनि सति स्यादिति मत्वोक्तमेव व्यनक्ति -
प्रत्ययान्तरमिति ।
ननु नार्थस्य ज्ञाने भानमवजानीमहे, येन प्रतीतिं विरुध्येमहि, किन्तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति । न च प्रतीतितावन्मात्रे, अर्थस्य ज्ञानेऽध्यस्तत्वात् , ततश्च न ज्ञानस्यैकस्य नानार्थाकारत्वकृतो व्याघातः, न च बाह्यर्थावगमः, तत्राह -
यदेति ।
कल्पितोऽपि विज्ञानेऽर्थाकारस्तस्माद्भिन्नोऽभिन्नो वेति वक्तव्यम् , अनिर्वाच्यत्वानङ्गीकारात् । भिन्नत्वे ज्ञानान्तरवदकल्पितत्वम् । तथाच तेनेदमिति सदृशमिति च भातानामर्थानामेकज्ञानाभेदोपगमे मिथोऽप्यभेदः स्यात् , ततश्चान्योन्यभेदेन पदार्था लोकसिद्धा निह्नूयेरन् । ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽपि निह्नूयेत, तदपह्नवे च स्वपक्षसाधनपरपक्षाक्षेपासिद्धिः । विकल्पप्रतिभासिनां नित्यत्वादीनामेकार्थनिष्ठत्वाभावादेकाधिकरणविप्रतिषिद्धधर्मद्वयोपगमरूपविप्रतिपत्तेरसम्भवादिति भावः ।
तत्तेदन्तादिरर्थो ज्ञानस्यान्तर आकार इति मतं बाह्यार्थवाददूषणमध्येऽपि प्रसङ्गादाशङ्क्य निरस्तम् । इदानीमस्ति बाह्योऽर्थः, स तु क्षणिको निर्विकल्पके चकास्ति । सविकल्पकप्रत्ययास्तु विकल्पास्तद्गतसादृश्याद्याकारेण निर्भासन्ते, तेन विप्रतिपत्त्यादिव्यवहारसिद्धिरिति बाह्यार्थवादमाशङ्क्य निरस्यति -
एवमिति ।
न हि बाह्यस्यार्थस्य क्षणिकत्वं, प्रमाणाभावात् । न तावत्प्रत्यक्षं वर्तमानमर्थमवगाहमानं तस्यावर्तमानव्यावृत्तिं गमयति । तद्धि वर्तमानताविशिष्टस्य तदैवान्यव्यावृत्तिं गमयेदन्यदा वा । प्रथमे नास्मत्पक्षक्षतिः, एकस्यापर्यायेणानेककालकलितत्वानभ्युपगमात् । न द्वितीयः, विरोधमन्तरेण कालान्तरीयसत्त्वव्यवच्छेदकत्वानुपपत्तेः । नापि यत्सत्तत्क्षणिकं, यथा दीपः सन्तश्च भावा इत्यनुमानं क्षणिकत्वसाधकं, दृष्टान्तस्य साध्यविकलत्वात् । तस्य नाशित्वेऽपि विवक्षितक्षणिकत्वाभावात् । तस्मादनिश्चितार्थवादिनो विप्रलम्भकत्वान्न प्रतिवादितेत्यर्थः ।
आत्मनि प्रत्यभिज्ञा सादृश्यादित्यत्र हेत्वन्तरमाह -
न चेति ।
प्रत्यभिज्ञाया विपर्यासाख्यमप्रामाण्यं निरस्य संशयाख्यमपि तन्निरस्यति -
भवेदिति ।
संशयसामग्रीसत्त्वावस्था कदाचिदित्युक्ता । सम्भवो नानाकारत्वोपपत्तिः । सन्देहोऽपीत्यपिना विपर्यासो दृष्टान्तितः । तत्र सन्देहायोगे हेतुमाह -
य इति ।
प्रत्यभिज्ञयात्मनः स्थायित्वे फलितमाह -
तस्मादिति ॥ २५ ॥
कारणाभावात्कार्योत्पत्तिरिति पक्षमवशिष्टं निराचष्टे -
नासत इति ।
परमतायोगे हेत्वन्तरपरत्वं सूत्रस्य दर्शयति -
इतश्चेति ।
तदेव स्फोरयति -
यत इति ।
अस्थिरात्कारणात्कार्योत्पत्तिमिच्छतामभावाद्भावोत्पत्तिर्बलादापततीत्येव न किन्तु स्वयमपि वैनाशिकास्तथोपयन्तीत्याह -
दर्शयन्तीति ।
तद्व्याचष्टे -
विनष्टादिति ।
हिशब्दस्तदिच्छायाम् । स्वानिच्छायां किलकारः ।
विनष्टाद्बीजादेरङ्कुरादिजन्मेत्यत्र युक्तिमाह -
कूटस्थादिति ।
कारणं समर्थमसमर्थं वा । यद्यसमर्थं न कदाचिदपि कार्यं कुर्यात् । आद्ये समर्थस्य क्षेपायोगादपर्यायेणाशेषं कार्यं जनयेत् , ततश्चोत्तरक्षणेऽर्थक्रियाभावादसत्त्वम् । नच समर्थमपि सहकारिसंनिधिमपेक्ष्य जनकं, सहकारिणा वस्तुनोऽतिशयजनने तस्य समर्थत्वे सदा तज्जननात् , असमर्थत्वे कदाचिदपि तज्जन्मायोगात् , सहकारिणोऽपि सहकार्यन्तरापेक्षायामनवस्थानात् , वस्तुनश्चातिशयस्य भेदे तस्यैव प्राप्ताप्राप्तविवेकेन जनकतया वस्तनस्तदसिद्धिः । अभेदे तस्यैव जन्यतया क्षणिकस्य जनकत्वापत्तिः । अतिशयानाधाने सहकार्यपेक्षैव न स्यादित्यर्थः ।
कूटस्थस्य कारणत्वदौस्थ्ये फलितमाह -
तस्मादिति ।
परमतनिरासित्वेन सूत्रमवतार्य व्याचष्टे -
तत्रेति ।
तदेव व्यतिरेकद्वारा साधयति -
यदीति ।
बीजाद्यभावेभ्योऽङ्कुराद्युत्पत्तेस्तदभावसिद्धये कारणविशेषोपादानमित्याशङ्क्याह -
न हीति ।
किञ्चाभावकारणवादिना तस्य निर्विशेषत्वं सविशेषत्वं वेष्टम् । आद्यं दूषयति -
निर्विशेषस्येति ।
एतेन ‘नासतोऽदृष्टत्वात्’ इति व्याख्यातम् ।
द्वितीयमनूद्य निरस्यति -
यदीति ।
अभावस्य कारणत्वमुपेत्योक्तं, तदेवायुक्तमित्याह -
नापीति ।
कार्यस्वभावालोचनयापि नाभावस्य कारणतेत्याह -
अभावादिति ।
यद्येनानन्वितं न तत्तस्य कार्यं, यथा हेम्नाऽनन्वितो घटो न हेम्नो विकारः । अनन्विताश्चाभावेन भावास्तस्मान्नाभावविकारा इत्यर्थः ।
किञ्च यद्येनान्वितं तत्तस्य कार्यं, यथा हेम्नान्वितं रुचकादि तत्कार्यम् । अन्विताश्च भावेन भावस्तस्मात्तद्विकारा इत्याह -
सर्वस्येति ।
भावान्वितत्वेऽपि कारणमन्वय्येवेत्यनियमादभावोऽपि कारणं किं न स्यादित्याशङ्क्याह -
न चेति ।
आद्येऽनुमाने व्याप्तिमुक्त्वा द्वितीयेऽपि तामाह -
मृदिति ।
अभावकारणवादिनोक्तमनुभाषते -
यत्त्विति ।
स्थिरस्य कारणत्वं न दृश्यते न युज्यते वा । नाद्यः, अनुभवविरोधात् । न द्वितीयः, स्थिरस्यापि क्रमवत्सहकारिवशात्क्रमकारित्वाविरोधात् । न च सहकारिजन्यातिशयस्यैव कारणत्वं न स्थायिनस्तथात्वं, भेदाभेदादिभिरनिर्वचनीयातिशयवतो वस्तुनो लोकसिद्धकारणत्वानिराकरणात् । न च समर्थत्वादपर्यायमशेषजनकत्वं, तत्तत्कालीनकार्यजन्मसामर्थ्योपगमात् । न च सामर्थ्यासामर्थ्याभ्यां भावाभावभेदः । कार्यभेदप्रतियोगिकशक्त्यशक्तियुक्तक्षणिकभावस्येवाभेदसिद्धेरिति मत्वाह -
तदिति ।
यत्तु विनष्टाद्धीति, तत्राह -
येष्विति ।
अङ्कुरादिषु पार्थिवादिस्वभावानामेव कारणत्वेऽपि बीजाद्यवयवानामिति परमतेनोक्तमुक्तेऽर्थे सूत्रं योजयन्नुपसंहरति -
तस्मादिति ।
स्वाभ्युपगमविरोधादपि नाभावाद्भावोत्पत्तिरित्याह -
अपि चेति ॥ २६ ॥
अभावकारणत्वे कारणविशेषोपादाने प्रवृत्तिरयुक्तेत्युक्तम् । इदानीं प्रवृत्तिमात्रमपि न युक्तमित्याह -
उदासीनानामिति ।
सूत्रं विभजते -
यदीति ।
अभाववादे सर्वलौकिकव्यवहारासिद्धिमुदाहरणैर्दर्शयति -
कृषीति ।
पारलौकिकव्यवहारोऽपि परमते न स्यादित्याह -
स्वर्गेति ।
उभयविधव्यवहारासत्त्वप्रसङ्गस्येष्टत्वं प्रत्याचष्टे -
न चेति ।
सूत्रद्वयार्थमुपसंहरति -
तस्मादिति ॥ २७ ॥
विज्ञानस्य क्षणिकेनार्थेन सालम्बनत्वं निराकृत्य निरालम्बनत्वं निराकर्तुंमारभते -
नाभाव इति ।
रूपादिहीनं ब्रह्म जगदुपादानमिति वदतः समन्वयस्य क्षणिकं ज्ञानं नीलाद्याकारमिति योगाचारमतविरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिगर्भं पूर्वपक्षमवतारयति -
एवमिति ।
विज्ञानवादस्य भ्रान्तिमूलतया समन्वयस्य तदविरोधोक्तेः सङ्गतयः । पूर्वपक्षे विज्ञानवादस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्तेऽस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वात्तत्सिद्धिरिति फलभेदः । बाह्यार्थवादिषु प्रत्युक्तेषु समानन्यायतया विज्ञानवादिनोऽपि प्रत्युक्तिसम्भवात्कथं पृथगुत्थानमित्याशङ्क्य तेभ्यो विज्ञानमात्रवादिनः सुगताभिप्रायत्वेन विशेषमाह -
केषाञ्चिदिति ।
हीनधियामिति यावत् ।
बाह्येऽर्थे सुगतस्यानिच्छायां किलकारः । ‘देशना लोकनाथानां सत्त्वाशयवशानुगाः’ इति न्यायेनाह -
तदिति ।
कस्तर्हि तस्याभिप्रायः, तत्राह -
तस्येति ।
ननु मानमेयादिभेदोपगमे कथं विज्ञानमात्रवादोऽन्यथा कथं व्यवहारसिद्धिः, तत्राह -
तस्मिन्निति ।
ज्ञानमेव कल्पितनीलाद्याकारतया मेयमवभासात्मतया फलं तच्छक्त्यात्मना मानं तदाश्रयतया मातेति विज्ञानवादेऽपि कल्पितमानादिभेदमुपेत्य सर्वव्यवहारसिद्धिरित्यर्थः ।
किञ्चार्थसारूप्यात्मना मानमवभासात्मना फलमिति सौत्रान्तिकाः । अनवभासव्यावृत्त्या फलं तच्छक्त्या मानमिति वैभाषिकाः । तेन तयोर्बाह्यमर्थमिच्छतोरपि कल्पितो भेदः क्षणिकस्यात्मनो द्वयकालानवस्थानात् । तद्युक्तं विज्ञानवादे कल्पितभेदेनैव सर्वव्यवहारसाधनमित्याह -
सतीति ।
उक्तमर्थं युक्त्या द्रढयितुं पृच्छति -
कथमिति ।
विमतं न ज्ञानातिरिक्तं, तदतिरेकेणानिरूप्यत्वात् , नरविषाणवदित्याह -
तदिति ।
तत्रासिद्धिमुद्धर्तुं विकल्पयति -
स हीति ।
एकस्थूलनीलाभासज्ञानस्य तद्विपरीतपरमाणुगोचरतायोगान्न परमाणवस्तावत्तदालम्बनमित्याह -
तत्रेति ।
द्वितीयं प्रत्याह -
नापीति ।
स्तम्भाद्यवयविनां परमाणुभ्यो भेदे गवाश्ववदत्यन्तवैलक्षण्यम् , अभेदे परमाणुमात्रतया स्थूलरूपेणावभासासिद्धिः, परमाणूनामतथात्वादित्याह -
तेषामिति ।
अवयवावयविरूपो बाह्यार्थो नास्ति चेन्मा भूत् , जातिव्यक्त्यादिरूपस्तु स्यादित्याशङ्क्याह -
एवमिति ।
जात्यादीनां व्यक्त्यादीनां चात्यन्तभिन्नत्वे स्वातन्त्र्यप्रसङ्गादत्यन्ताभिन्नत्वे तद्वदेवातद्भावाद्भिन्नाभिन्नत्वस्य विरुद्धत्वादवयवावयविभेदवज्जातिव्यक्त्यादिेभेदोऽपि नास्तीत्यर्थः ।
दृष्टस्य सर्वस्य विचारासहत्वाददृष्टसत्त्वे मानाभावान्न बाह्यालम्बनाः प्रत्यया इत्युक्तम् । सम्प्रति तेषां बाह्यानालम्बनत्वे हेत्वन्तरमाह -
अपि चेति ।
ज्ञानगतविशेषदृष्ट्यनुपपत्त्या नीलाद्याकारता तस्य सिद्धा, तथा च ज्ञानाकारस्यैव विषयत्वाद्व्यर्था बाह्यार्थकल्पना गौरवादित्यर्थः ।
इतश्च ज्ञेयं ज्ञानान्नान्यदित्याह -
अपि चेति ।
यद्येन नियतसहोपलम्भनं तत्तेनाभिन्नं, यथैकेन चन्द्रमसा द्वितीयश्चन्द्रमाः, नियतसहोपलम्भनं च ज्ञेयं ज्ञानेनेत्यर्थः ।
सहोपलम्भनियममेव स्फोरयति -
न हीति ।
ज्ञानज्ञेययोः स्वभावभेदेऽपि ग्राह्यग्रहकत्वान्नियमः स्यादित्याशङ्क्याह -
न चेति ।
क्षणिकस्य ज्ञानस्य ज्ञेयसम्बन्धे हेत्वभावाद्ग्राह्यग्राहकत्वेनोक्तनियमासिद्धिरित्यर्थः ।
‘सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये ‘ इत्युक्तमुपसंहरति -
तस्मादिति ।
यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्नादिप्रत्ययः तथा चैष विमतः प्रत्यय इत्याह -
स्वप्नेति ।
दृष्टान्तस्य साध्यवैकल्यं परिहरति -
यथेति ।
निर्देशमनुमानं निगमयति -
एवमिति ।
प्रत्ययवैचित्र्यानुपपत्तिरूपार्थापत्तिबाधितमनुमानमिति शङ्कते -
कथमिति ।
अनादिसन्ततिपतितमसंविदितरूपं ज्ञानमेव वासना तद्वशादनेकव्यवधानेनापि नीलादिवासितमेव ज्ञानमुत्पद्यते कार्पासरक्ततावदित्यन्यथोपपत्तिमाह -
वासनेति ।
वासनावैचित्र्याज्ज्ञानवैचित्र्यं ततश्च तद्वैचित्र्यमित्यन्योन्याश्रयत्वमाशङ्क्याह -
अनादौ हीति ।
अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यमेव ज्ञानवैचित्र्यहेतुर्नार्थवैचित्र्यमित्याह -
अपि चेति ।
पूर्वानुभववासनाभावेऽप्यपूर्वार्थसंनिधाने ज्ञानवैचित्र्यदर्शनादन्वयव्यतिरेकासिद्धिरित्याशङ्क्याह -
स्वप्नेति ।
अन्वयमुक्त्वा व्यतिरेकमाह -
अन्तरेणेति ।
ज्ञानातिरिक्तज्ञेयस्योक्तरीत्या विचारासहत्वात्क्षणिकज्ञानमात्रवादस्य प्रामाणिकत्वादर्थान्नित्यज्ञानाद्ब्रह्यणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्राक्षराणि व्याचष्टे -
नेति ।
उपलभ्यमानमपि शुक्तिरजतादिवन्मिथ्येत्याशङ्क्याबाधान्मैवमित्याह -
न चेति ।
उपलब्धिरेवासिद्धेत्याशङ्क्य सर्वथाऽनुपलब्धिर्वा ज्ञानातिरिक्तत्वेन वेति विकल्प्याद्ये दोषमाह -
यथेति ।
द्वितीयमवलम्बते -
नन्विति ।
प्रकाश्यप्रकाशकयोर्द्रवकठिनवद्विरुद्धयोर्भेदस्याध्यक्षत्वात्तद्बाधितमभेदवचनमित्याह -
बाढमिति ।
निरङ्कुशत्वं नियामकराहित्यम् ।
परोक्तेरयुक्तत्वमेव साधयति -
यत इति ।
किं तद्बलं व्यतिरिक्तोपलब्धिरित्याह -
उपलब्धेरिति ।
हेतुमेव स्फुटयति -
न हीति ।
उपलब्धिर्हि साक्षिणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रत्वेनेत्यर्थः ।
भवद्वचनादपि बाह्यमर्थं लौकिका भेदेनैव प्रतियन्तीत्याह -
अतश्चेति ।
कथं यथोक्तं वाक्यं व्यतिरेकोपलब्धिसाधकमित्याशङ्क्याह -
तेऽपीति ।
सर्वलोकप्रसिद्धबाह्यार्थधीप्रतिलम्भे हेतुमाह -
इतरथेति ।
अत्यन्तासतोऽपि बाह्यार्थस्य दृष्टान्तत्वमाशङ्क्याह -
न हीति ।
अबाधितव्यतिरेकोपलब्धौ वत्करणमयुक्तमिति फलितमाह -
तस्मादिति ।
अनुमानतो बाधाद्युक्तं वत्करणमिति शङ्कते -
नन्विति ।
अनुमानस्याबाधितविषयतापि हेतुः, प्रत्यक्षविरोधे तदभावान्न तस्य बाधकतेत्याह -
नायमिति ।
प्रमाणपूर्वकः सम्भवोऽर्थज्ञाने तदभावपूर्वकश्चासम्भवो नरविषाणे निश्चितः । बाह्यर्थे च प्रत्यक्षादिसम्भवादसम्भवाधीनस्तदसत्त्वाध्यवसायो न युक्त इत्यर्थः ।
सम्भवपूर्विका प्रमाणप्रवृत्तिरसम्भवपूर्विका तदप्रवृत्तिरिति वैपरीत्यमाशङ्क्यान्योन्याश्रयत्वान्मैवमित्याह -
नेति ।
सम्भाविते प्रमाणमित्युपगमस्तर्हि कथमित्याशङ्क्यात्र सम्भवासम्भवयोर्निश्चयतदभावत्वादन्यत्र सम्भावनायाः सन्देहत्वान्नानुपपत्तिरित्याह -
यद्धीति ।
बाह्यर्थस्याध्यक्षादिसिद्धत्वेऽपि तस्यावयवादिभ्यो व्यतिरेकादिविकल्पासहत्वान्न सम्भावनेत्याशङ्क्याह -
इहेति ।
बाह्यार्थस्यायुक्तत्वमदृष्टत्वं वा । नाद्योऽङ्गीकारात् । नेतरो दृष्टिविरोधात् । तस्मादिदन्तास्पदं ज्ञानाद्भिन्नं बाह्यं वस्तु सिद्धमित्यर्थः ।
यत्तु प्रत्यर्थं ज्ञानस्य व्यवस्थायै विषयसारूप्ये तेनैव विषयाकारस्यावरुद्धत्वान्न पृथगर्थकल्पनेति, तत्राह -
न चेति ।
यत्तु कल्पनागौरवमिति, तत्राह -
बहिरिति ।
प्रामाणिकी कल्पना न दुष्यतीत्यर्थः ।
यत्तु ‘सहोपलम्भनियमादभेदो नीलतद्धियोः’ इति, तत्र सहोपलम्भः साहित्येनोपलम्भो वा स्यादेकोपलभ्भो वा । प्रथमे साध्यसाधनयोर्व्याघातः, साहित्यस्य भेदव्याप्तत्वात् । द्वितीये त्वेकत्वेनोपलब्धिर्वा स्यादेकैवोपलब्धिर्वा । नाद्यः, असिद्धेः । नहि बहिरुपलभ्यमानस्यार्थस्योपलब्ध्या सहैकत्वेनोपलब्धिः । न द्वितीयः, साक्षिवेद्यत्वाद्धटाद्युपलब्धेर्घटादेश्च तद्विषयत्वादसिद्धितादवस्थ्यादित्याशयेनान्यथासिद्धिमाह -
अत इति ।
भेदस्य प्रत्यक्षत्वादिति यावत् ।
परकीयानुमानानां प्रत्यनुमानविरोधमाह -
अपि चेति ।
न विशेष्यस्येति ।
प्रत्यभिज्ञानादैक्यसिद्धेरित्यर्थः ।
विशेषणभेदेऽपि विशेष्यभेदो नेत्यत्र दृष्टान्तमाह -
यथेति ।
तथापि कथं ज्ञानार्थभेदः, तत्राह -
द्वाभ्यामिति ।
विमतमनेकस्माद्भिन्नम् , एकत्वात् , गोत्ववदित्यर्थः ।
विमतमेकस्मादन्यत् , अनेकत्वात् , संमतवदित्याह -
एकस्माच्चेति ।
अनुमानद्वयफलं परानुमाने साध्यासिद्धिमाह -
तस्मादिति ।
अर्थभेदेऽपि ज्ञानाभेदात्तयोर्भेदमुक्त्वा ज्ञेयाभेदेऽपि विज्ञानभेददृष्टेश्च तयोर्भिन्नतेत्याह -
तथेति ।
यथा घटज्ञानं पटज्ञानमित्यत्र ज्ञेयभेदेऽपि ज्ञानाभेदात्तयोर्भिन्नत्वं तथाऽत्रापि ज्ञानभेदे ज्ञेयैक्यदृष्ट्या तद्भिन्नत्वधीरित्यर्थः ।