अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

मा भूदसमवायिकारणं, कार्य­सि­द्धि­रे­वा­भी­ष्टे­त्या­श­ङ्क्याह -
असतीति ।

भावरूपकार्यं नासमवायिनं विनेति वक्तुं द्रव्यपदम् । काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रल­य­प्र­का­र­प्र­त्यु­क्ता­वपि सूत्रं योजयति -
यथेति ।

कथमसम्भवः प्रल­या­त्प्रा­ग­व­स्थायां विभा­गो­त्पा­द­क­क­र्म­नि­मि­त्तस्य सर्वस्यापि सम्भवात् । तत्तर्हि दृष्टमदृष्टं वा । नाद्य इत्याह -
न हीति ।
तत्रेति प्रल­य­प्र­यो­ज­क­वि­भा­ग­हे­तु­क­र्मोक्तिः । अपिः सर्ग­हे­तु­सं­यो­ग­नि­मि­त्त­क­र्म­दृ­ष्टा­न्तार्थः ।

किञ्चित्प्रलये कदा­चि­द­भि­घा­ता­दि­यो­गेऽपि नापर्यायेण सर्वलये तदस्ति, निया­म­का­भा­वा­दि­त्याह -
नियतमिति ।

द्वितीयं दूषयति -
अदृष्टमिति ।
देहादिलयारम्भे दुःखभेदभोगेऽपि पृथिव्यादिलये तदभावान्न तस्य कर्म­नि­मि­त्त­त्व­मिति भावः ।

अणू­ना­मा­द्य­स्या­न्तस्य च कर्मणो निमित्तमस्ति वा न वा । अस्ति चेद्दृ­ष्ट­म­दृष्टं वा । दृष्टमपि यत्नोऽभिघातादि वा । अदृष्टमपि परमाणुष्वात्मनि वा । सर्वथापि संयो­गो­त्प­त्त्यर्थं विभा­गो­त्प­त्त्य­र्थ­मु­भ­य­थापि न कर्म । कर्माभावात्तयोः सर्ग­प्र­ल­य­यो­र­भावः स्यादिति सूत्र­यो­ज­ना­मु­प­सं­ह­रति -
अत इति ।

परमाणुवादे सर्गा­द्य­यो­गा­त्तस्य सिद्धा भ्रान्तिमूलतेति निगमयति -
तस्मादिति ॥ १२ ॥

सम­वा­य­स्वी­का­रा­दपि पर­मा­णु­वा­द­स्या­यु­क्त­त्व­माह -
समवायेति ।

सूत्रं व्याचष्टे -
समवायेति ।

तदभावोऽत्र सर्गाभावो लयाभावो वा । नोभयत्रापि समवायाभ्युपगमो हेतु­रि­त्या­श­ङ्क्याह -
अणुवादेति ।
तस्य निरा­क­र­ण­म­स­म्भ­व­स्तेन सम­वा­या­भ्यु­प­ग­मस्य सङ्गतिरित्यर्थः ।

तदभ्युपगमं विभजते -
द्वाभ्यामिति ।

हेत्व­र्थ­मुक्त्वा तदभाव इति प्रतिज्ञार्थं स्फुटयति -
न चेति ।

यथा पूर्वो­क्त­न्या­या­द­णु­का­र­णता समर्थयितुं न शक्यते तथा द्व्यणु­क­स्याण्वोः सम­वा­य­स्वी­का­रा­दि­त्यत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

समवायः स्वत­न्त्रोऽ­स्व­तन्त्रो वा । नाद्यः, स्वतन्त्रस्य घट­क­त्वेऽ­ति­प्र­स­ङ्गात् । द्वितीये समवायस्य सम्बन्धान्तरेण सम­वा­यि­स­म्ब­न्धेऽ­न­व­स्था­ना­न्ना­णु­का­र­ण­तेति हेतुं विभजते -
यथेत्यादिना ।

किम­प्रा­मा­णि­क­त्वेन सम­वा­य­स्या­यु­क्त­त्व­मु­ता­न­व­स्थ­येति विकल्प्याद्यं दूषयन्नाशङ्कते -
नन्विति ।

द्वितीयं प्रत्याह -
नित्येति ।

एवकारार्थमाह -
नेति ।

तथापि सम्ब­न्धा­न्त­रा­पे­क्षा­या­म­न­व­स्थे­त्य­श­ङ्क्याह -
सम्बन्धान्तरेति ।
वाशब्दो नञनुकर्षणार्थः ।

अनवस्थाऽभावं स्फोरयति -
नेत्यादिना ।
समवायः समवायिभ्यां सम्बन्धान्तरं नापेक्षते सम्ब­न्धि­स­म्ब­न्ध­न­स्व­भा­व­त्वात् । अतः स्वभावदेव समवायितन्त्रः समवायो न सम्ब­न्धा­न्त­रे­णेति नानवस्थेत्यर्थः ।

समवायस्य सम्ब­न्धि­पा­र­त­न्त्र्य­स्व­भावं दूषयति -
नेतीति ।

तस्य स्वाभाविके सम्ब­न्धि­पा­र­तन्त्र्ये संयोगस्यापि स्वतः संयो­गि­त­न्त्र­त्व­यो­गा­त्तस्य संयोगिभ्यां समवायकल्पना न स्यादिति विपक्षे दोषमाह -
संयोगोऽपीति ।

किञ्च संयोगस्य सम्ब­न्धा­न्त­रा­पे­क्षा­या­म­र्था­न्त­रत्वं गुणत्वं वा हेतुः, तत्राद्यमाह -
अथेति ।

समवायेऽपि तुल्यमेतदित्याह -
समवायोऽपीति ।

द्विती­य­मा­श­ङ्क्याह -
न चेति ।
अपे­क्षा­का­र­ण­स्या­त्य­न्त­भि­न्न­त्व­स्ये­त्यर्थः ।

नात्य­न्त­भि­न्नत्वं तया किन्तु गुणत्वमेव, न च तदस्ति सम­वा­य­स्ये­त्या­श­ङ्क्याह -
गुणेति ।
न हि गुणत्वं सम्ब­न्धा­न्त­रा­पे­क्षा­हेतुः, कर्मादीनामपि तद­पे­क्ष­त्वा­दि­त्यर्थः ।

संयो­ग­स­म­वा­य­यो­स्तु­ल्यत्वे फलितमाह -
तस्मादिति ।

अनवस्थायां मूल­क्ष­य­का­रि­त्व­माह -
प्रसज्यमानायां चेति ।

सूत्रा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ १३ ॥

परमाणुवादायोगे हेत्वन्तरमाह -
नित्यमिति ।

इतश्च तद्वा­दा­सि­द्धि­रिति चकारार्थमाह -
अपि चेति ।

अनुपपत्तिं दर्शयितुं विकल्पयति -
अणव इति ।

न्यूनत्वं वारयति -
गत्यन्तरेति ।

विक­ल्प­च­तु­ष्ट­य­स्यापि दृष्टत्वं प्रतिजानीते -
चतुर्धेति ।

तत्राद्यस्य दृष्टत्वं स्पष्टयति -
प्रवृत्तीति ।

द्विती­येऽ­नु­प­पत्तिं स्फोरयति -
निवृत्तीति ।

तृतीयस्य नोत्था­न­मे­वे­त्याह -
उभयेति ।

चतुर्थं प्रत्याह -
अनुभयेति ।

अदृष्टादि संनिहितमपि न प्रव­र्त­क­मि­त्या­श­ङ्क्याह -
अत­न्त्र­त्वेऽ­पीति ।

पक्ष­च­तु­ष्ट­य­नि­षे­ध­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ॥ १४ ॥

परमाणूनां परमकारणत्वं निराकृत्य निरवयवत्वादि निराकर्तुमारभते -
रूपादीति ।

विपर्ययं दर्शयितुं परमतमनुवदति -
सावयवानामिति ।
यतो येभ्योऽवयवेभ्यः सकाशात्परः परस्ताद्भावीति यावत् । रूपादिमन्तः । रूप­र­स­ग­न्ध­स्प­र्शे­त्या­द्य­नु­क्र­मेण रूपमादौ विद्यते यस्य स्पर्शस्य स स्पर्शो रूपा­दि­स्त­दा­श्रया इत्यर्थः ।

तेषां चातुर्विध्ये हेतुः -
चतुर्विधस्येति ।
कार्यस्य चातुर्विध्यं कारणेऽपि तत्क­ल्प­य­ती­त्यर्थः ।

तेषां स्पर्शवत्त्वे हेतुमाह -
रूपादिमत इति ।
कार्ये दृष्टं स्पर्शित्वं कारणेऽपि तत्क­ल्प­क­मि­त्यर्थः ।

आर­म्भ­का­न्त­रा­पे­क्षा­या­म­न­व­स्था­ना­न्ना­र­म्भकाः स्युरिति मत्वाऽह -
नित्याश्चेति ।

परोपगतिमनूद्य प्रत्याह -
स इति ।

निरालम्बनत्वे हेतुः -
यत इति ।
रूपादिमत्त्वं पक्ष­व्या­प्त्यर्थं पूर्व­व­द्व्या­ख्ये­यम् । विमताः सावयवा नाशिनश्च, स्पर्शित्वात् , पट­व­दि­त्य­नु­मा­ना­त्प­रो­प­ग­ते­र्नि­रा­श्र­य­ते­त्यर्थः ।

अणूनां साव­य­व­त्वा­द्यु­क्ति­र्व्या­ह­ते­त्या­श­ङ्क्याह -
परमेति ।

कारणवत्त्वस्य नाशित्वहेतुत्वे तस्यैव द्रव्य­त्व­वि­शे­षि­तस्य सावयवत्वे हेतु­त्वा­त्कु­तोऽ­नु­मेति शङ्कते -
कुत इति ।

साधनव्याप्तिं मत्वा सूत्रा­व­य­व­म­व­ता­र­यति -
एवमिति ।

दर्शनमेव विश­द­य­न्व्या­प्ति­माह -
यद्धीति ।

स्पर्शवतः साव­य­व­त्व­म­नि­त्यत्वं च दृष्टमित्यत्र दृष्टान्तमाह -
तदिति ।

दृष्टा­न्त­बा­हुल्यं सूचयति -
तन्तवश्चेति ।

उपनयद्वारा पक्षधर्मतामाह -
तथाचेति ।

अनुमानद्वयं निगमयति -
तस्मादिति ।

पूर्वोक्तोपाधेः साध­न­व्या­प्ति­म­भि­प्रेतां प्रकटयितुं विशिनष्टि -
कारणवन्त इति ।
पृथि­वी­त्व­म­नि­त्य­मा­त्र­वृत्ति, स्पर्श­व­न्मा­त्र­वृ­त्ति­त्वात् , घट­त्व­व­दि­त्या­द्य­नु­मानं चकारार्थः ।

परमाणवो नित्याः, सत्त्वे सत्य­का­र­ण­व­त्त्वात् , आत्मवदिति प्रत्य­नु­मा­न­मु­त्था­प­यति -
यच्चेति ।

विशे­ष्या­सि­द्धि­माह -
तदपीति ।
एवं सति । परमाणूनां कारणवत्त्वे सतीत्यर्थः ।

तदेव कथं, तत्राह -
उक्तेनेति ।
स्पर्शित्वेन परिच्छिन्नत्वेन चेत्यर्थः ।

नित्य­त्व­नि­षे­ध­स्त­त्प्र­ति­यो­गि­व­स्तु­पू­र्वकः, निषेधत्वात् , घट­नि­षे­ध­व­दि­त्य­नु­मा­ना­द­णु­नि­त्य­त्व­सिद्धौ तद­नि­त्य­त्वा­नु­मा­ना­सि­द्धि­रि­त्य­नु­व­दति -
यदपीति ।
कार्यमनित्यमिति कार्ये विशेषतो नित्यत्वनिषेधो न स्याद्यदि कार­णेऽ­प्य­नि­त्य­त्वम् , अतोऽणूनां कारणानां नित्येतेति सूत्रार्थः ।

उभ­य­सि­द्धा­त्म­नि­त्य­त्वे­नैव विशे­ष­नि­षे­ध­सि­द्धे­रु­क्ता­नु­मा­नस्य सिद्ध­सा­ध्य­त्वा­न्ना­णु­नि­त्य­ता­सा­ध­क­ते­त्याह -
तदपीति ।

अनित्यमित्ययं कार्ये विशेषेण नित्यत्वनिषेध इत्य­ङ्गी­कृ­त्योक्तं, तदपि नास्तीत्याह -
न चेति ।
मूलप्रमाणं विना शब्दादेव पौरु­षे­या­द्योऽर्थे व्यव­हा­र­स्त­न्मा­त्रे­णेति यावत् ।

अन्यथा वटे यक्ष­प्र­सि­द्धे­रपि प्रामाण्यं स्यादिति मत्वा हेतुमाह -
प्रमाणान्तरेति ।
अनि­त्य­श­ब्दा­न्नि­त्य­त्व­नि­षे­ध­मात्रं सिद्धं न कार्ये तन्निषेधो येन कार्य­प्र­ति­यो­गिनि कारणे नित्य­त्व­स्थितिः, विशेषस्तु मानान्तरादेव लभ्यते, तत­स्त­स्मा­दे­वा­णु­नि­त्य­त्व­सिद्धौ व्यर्थं पूर्वा­नु­मा­न­मि­त्यर्थः ।

परमाणवो नित्याः, अनु­प­ल­भ्य­मा­न­का­र­ण­त्वात् , आत्म­व­दि­त्य­नु­मा­ना­न्त­र­म­नु­भा­षते -
यदपीति ।

प्रत्य­क्षे­णा­नु­मा­नेन वा तदनुपलब्धिरिति विक­ल्प्या­द्य­म­नु­व­दति -
तदिति ।
सतामणूनां दृश्य­मा­न­स्थू­ल­का­र्याणां प्रत्यक्षेण कार­णा­ग्र­ह­ण­म­वि­द्येति यदि सूत्रं व्याख्यायेतेति योजना ।

तर्हि द्व्यणुके व्यभिचारः स्यादित्याह -
तत इति ।

आर­म्भ­क­द्र­व्य­शू­न्यत्वे सति प्रत्य­क्षे­णा­नु­प्र­ल­ब्ध­का­र­ण­त्वस्य हेतु­त्वा­न्मै­व­मिति शङ्कते -
अथेति ।

अद्र­व्य­त्व­म­वि­द्य­मा­न­का­र­ण­द्र­व्यत्वं, तावतैव नित्यत्वसिद्धौ विशे­ष्य­वै­य­र्थ्य­मि­त्याह -
तथापीति ।

अस्तु तावदेव तर्हि नित्य­ता­नि­मित्तं, तत्राह -
तस्येति ।
न चानुमानेन कारणानुपलब्धिः, परि­च्छि­न्न­त्वा­नु­मा­न­स्यो­क्त­त्वा­दिति चकारार्थः ।

अव­य­व­ना­शोऽ­व­य­व­व्य­ति­ष­ङ्ग­ना­शश्च द्रव्यनाशकारणं तदु­भ­या­स­त्त्व­म­वि­द्या­प­दे­नो­च्यते, तथा च परमाणवो नित्याः, उभ­य­ना­श­का­र­ण­शू­न्य­त्वात् , आत्मवदिति सूत्रार्थ इत्याह -
अथापीति ।

हेत्वसिद्धिमाह -
नेति ।

आरम्भवादानुपगमं नियमाभावे हेतुमाह -
संयोगेति ।

परिणामवादे नाश­हे­त्व­न्त­र­स­म्भ­वा­द­सि­द्धि­रु­द्धृ­ते­त्याह -
यदेति ।
नच घृत­का­ठि­न्य­ना­शेऽपि कार­ण­म­व­य­व­वि­भा­गा­दीति युक्तम् , अणुकाठिन्यस्य नाश­क­द्व­या­भा­वेऽपि विना­शा­ङ्गी­का­रात् । नच तत्काठिन्यं न नश्यति, तत्कार्येऽपि तदनाशापातात् । कार­ण­गु­ण­ना­श­द्वारा कार्ये तन्नाशाश्रयणात् । तस्मादण्ववस्थां हित्वा ब्रह्मणः । स्वरू­पे­णा­व­स्था­न­म­णु­नाश इत्याशयेन घृत­का­ठि­न्य­मु­दा­हृ­तम् ।

प्रत्न­नु­मा­ना­योगे फलितमाह -
तस्मादिति ।

स्पर्श­व­त्त्वा­नु­मा­न­फलं निगमयति -
तस्मादपीति ॥ १५ ॥

पर­मा­णु­वा­दा­नु­प­पत्तौ हेत्वन्तरमाह -
उभयथा चेति ।

अणू­ना­म­तु­ल्य­गु­णत्वे तुल्यगुणत्वे च दोष­ध्रौ­व्या­त्त­द्वा­दा­सि­द्धि­रिति वक्तु­म­नु­भ­वा­ग­म­सि­द्ध­म­र्थ­माह -
गन्धेति ।

शब्दस्य पृथि­व्या­दि­गु­ण­त्वेन परै­र­नि­ष्ट­त्वा­च्च­त्वारि भूतानि चतु­स्त्रि­द्वे­क­गु­णा­न्यु­दा­हृत्य विकल्पयति -
तद्वदिति ।
स्थूल­पृ­थि­व्या­दि­व­दि­त्यर्थः ।

पक्षद्वयस्यापि दोषवत्त्वमाह -
उभयथेति ।

आद्यमनूद्य दोषानुषक्तिं विशदयति -
कल्प्यमान इति ।

मूर्त्युपचयः स्थौल्यम् । द्रव्या­ति­रि­क्तानां गुणानामुपचयेऽपि किमिति द्रव्यस्य स्थौल्यं, तत्राह -
न चेति ।

तत्र कार्य­लि­ङ्ग­म­नु­मानं हेतुमाह -
कार्येष्विति ।

कल्पा­न्त­र­म­नु­व­दति -
अकल्प्येति ।

सर्वे­षा­म­णु­त्वा­क्रा­न्तानां साम्या­र्थ­मे­कै­क­गु­णत्वं वा चतुर्गुणत्वं वा । तत्राद्यमनूद्य प्रत्याह -
परमाणुत्वेति ।

तेषा­मे­कै­क­गु­ण­त्वेऽपि किमिति कार्येषु नानागुणत्वं न स्यादि­त्या­श­ङ्क्याह -
कारणेति ।

द्वितीयमनूद्य निराह -
अथेत्यादिना ।

इष्टा­प­त्ति­मा­श­ङ्क्याह -
न चेति ।

चतुर्गुणत्वे सर्वेषां स्थौल्या­द्वा­यो­श्चा­क्षु­षत्वं प्रसज्येत, एकैकगुणत्वेऽपि तार­त­म्या­सि­द्धि­रिति मत्वोपसंहरति -
तस्मादिति ॥ १६ ॥

न केव­ल­म­णु­वा­द­स्या­यु­क्तत्वं किन्तु शिष्टा­प­रि­ग्र­हा­द्ग्र­न्थ­तोऽ­र्थ­त­श्चो­पे­क्ष्य­त्व­मि­त्याह -
अपरिग्रहाच्चेति ।

अत्य­न्त­मि­ति­वि­शे­ष­ण­सू­चि­त­म­र्थ­माह -
प्रधानेति ।
सत्का­र्य­त्वा­दि­त्या­दि­श­ब्दे­ना­त्म­नोऽ­स­ङ्ग­त्व­चि­द्रू­प­त्वादि गृह्यते ।

चका­र­सू­चि­त­म­र्थ­माह -
अपि चेति ।

परमतस्य न्यायशून्यत्वं वक्तुं तदभ्युपगममाह -
वैशेषिका इति ।

तेषां मिथस्तादात्म्यं वारयति -
अत्यन्तेति ।

तत्र हेतुः -
भिन्नेति ।

तत्र गुणवद्द्रव्यम् । सामान्यवत्त्वे सति प्रत्येकं द्रव्य­त्व­क­र्म­त्व­यो­र­ना­धारो गुणः । संयो­ग­वि­यो­ग­यो­र­स­म­वा­यि­का­र­ण­जा­तीयं कर्म । नित्यमनेकसमवेतं सामान्यम् । नित्यद्रव्येषु स्वरूपसन्तो विशेषाः । नित्यः सम्बन्धः समवाय इति भिन्नलक्षणत्वम् । पृथि­व्य­प्ते­जो­वा­य­वा­का­श­का­ल­दि­गा­त्म­म­नांसि नवैव द्रव्याणि । रूप­र­स­ग­न्ध­स्प­र्श­स­ङ्ख्या­प­रि­मा­ण­पृ­थ­क्त्व­प­र­त्वा­प­र­त्व­सं­यो­ग­वि­भा­ग­बु­द्धि­सु­ख­दुः­खे­च्छा­द्वे­ष­प्र­य­त्न­ध­र्मा­ध­र्म­सं­स्का­र­गु­रु­त्व­द्र­व­त्व­स्ने­ह­श­ब्दा­श्च­तु­र्वि­श­ति­गुणाः । उत्क्षे­प­णा­प­क्षे­प­णा­कु­ञ्च­न­प्र­सा­र­ण­ग­म­नानि पञ्चैव कर्माणि । परमपरं च द्विविधं सामान्यम् । अन्त्या विशे­षा­स्त्व­नन्ताः । समवायः पुनरेक एवेति मत्वाऽ­त्य­न्त­भेदे दृष्टान्तमाह -
यथेति ।

अभ्यु­प­ग­मा­न्त­र­माह -
तथात्वमिति ।
अत्य­न्त­भि­न्न­त्व­मिति यावत् ।

मनु­ष्या­द­त्य­न्त­भि­न्ना­ना­म­श्वा­दीनां मनु­ष्य­पा­र­त­न्त्र्य­वि­रो­ध­व­द्द्र­व्या­द­त्य­न्त­भि­न्नानां गुणादीनामपि द्रव्य­पा­र­त­न्त्र्य­म­त्य­न्त­भि­न्न­त्वेन विरुद्धमित्याह -
तदिति ।

परमाणवः सम­वा­य­श्चे­त्यु­भ­य­म­त्य­न्त­म­प्र­सि­द्ध­मि­त­र­त्प्र­सि­द्ध­मि­त्यु­पे­त्या­त्य­न्त­भि­न्नत्वं प्रत्याह -
तन्नेति ।

पार­त­न्त्र्य­नि­र्वा­ह­क­म­त्य­न्त­भि­न्नत्वं न तद्विरोधीत्याह -
कथमिति ।

अत्य­न्त­भि­न्नत्वं नित्य­पा­र­त­न्त्र्य­वि­रोधि दृष्टमिति व्याप्तिमाह -
यथेति ।

विमतं न द्रव्याधीनं, ततोऽ­त्य­न्त­भि­न्न­त्वात् , यद्य­तोऽ­त्य­न्त­भिन्नं न तत्तदधीनं, यथा कुशादयः शशा­दि­भ्योऽ­त्य­न्त­भि­न्ना­स्त­द­धीना नेत्यनुमानमाह -
एवमिति ।

व्यति­रे­क­मु­क्त्वा­न्व­य­माह -
अथेति ।
विमतं द्रव्यादभिन्नं, तद्भा­वा­भा­वा­नु­वि­धा­यि­भा­वा­भा­व­त्वात् , तद्वत् । न चाग्नि­भा­वा­भा­वा­नु­वि­धा­यि­भा­वा­भावे धूमे व्यभिचारः, तस्याग्निभानं विनापि भानात् । गुणादेश्च द्रव्यभानं विना भाने तत्पा­र­त­न्त्र्य­व्या­ह­ति­रिति भावः ।

विमतं द्रव्या­द्भि­द्यते, भिन्न­श­ब्द­प्र­त्य­य­भा­क्त्वात् , घटवदित्याशङ्क्य संस्था­ना­दि­भे­दो­प­ग­मेन सिद्ध­सा­ध्य­त्व­म­भि­प्रे­त्याह -
द्रव्यमिति ।
आकारविशेषः संस्था­न­भे­दोऽ­व­स्था­भे­द­स्त्वा­दि­श­ब्दार्थः ।

उक्तमर्यं दृष्टान्तेन साध­य­न्व्य­भि­चा­र­माह -
यथेति ।

एक­स्या­ने­का­व­स्थात्वं साङ्ख्य­सि­द्धा­न्त­स्तव त्वनेकस्य कल्पितत्वमेवातो न स्वम­त­सि­द्धि­रि­त्या­शङ्क्य तथापि तवापसिद्धान्तः स्यादित्याह -
तथेति ।

निरस्तमेव विधान्तरेणापि निरसितुं शङ्कयति -
नन्विति ।

न तदधीनत्वं तदभेदसाधकं, तत्सा­मा­ना­धि­क­र­ण्येन भानं तु तथा, न तद्धूमेऽस्तीति परिहरति -
सत्यमिति ।
तत्रेति व्यव­हा­र­भू­मि­रुक्ता ।

तुल्या गुणादेरपि द्रव्या­द्भे­द­धी­रि­त्या­श­ङ्‌क्याह -
इह त्विति ।
विवादस्थलं सप्तम्यर्थः ।

विमतं द्रव्यान्न भिद्यते, तत्स­मा­ना­धि­कृ­त­बु­द्धि­बो­ध्य­त्वात् , संमतवदित्याह -
तस्मादिति ।

गुणे दर्शितं न्यायं कर्मादावतिदिशति -
एतेनेति ।
विमतं द्रव्याभिन्नं, तत्स­त्ता­स्फू­र्ति­व्य­ति­रि­क्त­स­त्ता­स्फू­र्ति­शू­न्य­त्वात् , तत्स्वरूपवत् । न च साध्या­वि­शि­ष्टता, तन्मात्रत्वे साध्ये तन्मा­त्र­स­मा­ना­धि­कृ­त­धी­कृ­त­त­त्स­त्ता­व्य­ति­रि­क्त­स­त्ता­दि­रा­हि­त्यस्य हेतुत्वादिति भावः ।

गुणादीनां द्रव्य­सा­मा­ना­धि­क­र­ण्येन भानं तद­भि­न्न­त्वा­भा­वेऽपि स्यादि­त्य­न्य­था­सिद्धिं शङ्कते -
गुणानामिति ।

उभयत्र गुणग्रहणं कर्मा­दे­रु­प­ल­क्ष­णम् । तद्दूषयितुं विकल्पयति -
तदिति ।

पक्षत्रये दोषं प्रतिजानीते -
सर्वथेति ।

अपृथग्देशत्वं द्वयोरेकतरस्य वा । तत्राद्ये दोषमाह -
अपृथगिति ।

कथं स्वाभ्युपगमः, तद्विरोधो वा कथमित्याह -
कथमिति ।

प्रथमं स्वाभ्युपगमं दर्शयति -
तन्त्विति ।

तत्र काणादं सूत्रं प्रमाणयति -
तथा चेति ।

उक्तोऽर्थोत्र न भातीत्याशङ्क्य व्याचष्टे -
तन्तवो हीति ।

स्वाभ्युपगमं दर्शयित्वा तद्विरोधं दर्शयति -
स इति ।
न च सम्ब­न्धि­नो­र­न्य­त­र­स्या­पृ­थ­ग्दे­श­त्व­म­यु­त­सि­द्धत्वं, घटाकाशसंयोगे व्यभिचारात् । नापि पृथ­गा­श्र­या­ना­मा­श्रि­तत्वं तथा, पर­मा­ण्वा­का­श­स­म्बन्धे व्यभिचारात् । एतेन सम्ब­न्धि­नो­र्द्व­यो­र­न्य­त­रस्य वा पृथ­ग्ग­ति­म­त्त्व­रा­हित्यं तथेति व्याख्यातम् । अजसंयोगपक्षे दिक्कालसंयोगे व्यभिचारात् । कालो दिशा संयुज्यते, संयोगित्वात् , घटवदिति तत्सिद्धिः । नच मूर्त­त्वा­दि­रु­पाधिः, संयोगित्वस्यैव तद्व्य­ति­रे­क­प्र­यो­ज­क­त्वा­दिति भावः ।

द्विती­य­मु­त्थाप्य निरस्यति -
अथेत्यादिना ।

तृतीयमनूद्य प्रत्याह -
अपृथगिति ।

तयो­रा­त्म­भे­दा­योगे हेतुमाह -
तस्येति ।
नहि सामा­ना­धि­क­र­ण्यधीः समवायार्था, पटे शुक्ल इति धीप्र­स­ङ्गा­दि­त्यर्थः ।

गुणादीनां द्रव्यस्य चायुतसिद्धत्वं निर­स्या­भ्यु­प­ग­मा­न्तरं निरस्यति -
युतेति ।

अयुतसिद्धतोपगमः सम्ब­न्धि­द्व­या­पे­क्षोऽ­न्य­त­रा­पेक्षो वा । नाद्य इत्याह -
प्रागिति ।

द्विती­य­मु­त्था­प­यति -
अथेति ।

अयु­त­सि­द्ध­त्व­मु­पेत्य समवायं दुदूषयिषुः सम्ब­न्धोऽ­सि­द्धस्य सिद्धस्य वेति विकल्प्याद्यं निरस्यति -
एवमिति ।

द्वितीयं शङ्कयति -
सिद्धमिति ।

तर्हि सतोरप्राप्तयोः प्राप्तिः संयोगः, समवायस्तु नैव­मि­त्यु­प­ग­मा­त्का­र्य­का­र­ण­यो­रपि संयो­गा­प­त्ति­रि­त्याह -
प्रागिति ।

क्रियापूर्वकः सम्बन्धः संयोगः, नच कार्यकारणयोः सोऽस्तीति सम­वा­य­सि­द्धि­रि­त्या­श­ङ्क्याह -
यथेति ।
किञ्च सम्ब­न्ध्य­ति­रिक्ते सम्बन्धे सिद्धे संयोगः समवाय इति विवेकः ।

न सम्ब­न्धोऽ­ति­रि­क्तोऽस्ति, तस्य सम्ब­न्धि­स­म्ब­न्धेऽ­न­व­स्था­नात् । असम्बन्धे निया­म­क­त्वा­यो­गात् । तथाच कार्यं न कारणे समवेतं किन्तु कल्पितमेवेत्याह -
नापीति ।

सम्बन्धः सम्बन्धिभ्यां वस्त्वन्तरं, तद्वि­ल­क्ष­ण­श­ब्द­धी­ग­म्य­त्वात् , वस्त्वन्तरवदिति शङ्कते -
सम्बन्धीति ।

तत्त­द­नि­र्वा­च्या­ने­क­वि­शे­षा­पे­क्ष­यै­क­स्मि­न्नपि नाना­श­ब्द­धि­या­विति सिद्ध­सा­ध्य­त्व­माह -
नेति ।

सव्यभिचारश्च हेतुरिति मन्वानो दर्शनं विशदयति -
यथेति ।

स्वग­त­वि­शे­षा­पे­क्षया नाना­श­ब्द­धी­भा­क्त्व­मु­दा­ह­रति -
मनुष्येति ।

स्वग­ता­व­स्था­पे­क्षया तद्दर्शयति -
बाल इति ।

स्वग­त­क्रि­या­पे­क्षया तदुपन्यस्यति -
पितेति ।

व्यभि­चा­र­प्रा­चु­र्या­र्थ­मु­दा­ह­र­णा­न्त­र­माह -
यथा चेति ।

दृष्टा­न्त­स्थ­धर्मं दार्ष्टान्तिके योजयति -
तथेति ।

परो­क्ता­नु­मा­न­नि­रा­स­फ­ल­मु­प­सं­ह­रति -
इत्युपलब्धीति ।
उपलब्धिरेव गमकतया लक्षणं यस्य तेन योग्थत्वेन प्राप्त­स्या­नु­प­ल­ब्धि­स्त­स्मि­न्प्र­मा­ण­प­ञ्च­का­नु­प­प­त्ति­स्ततो वस्त्वन्तरस्य सम्ब­न्ध्य­ति­रि­क्त­स­म्ब­न्ध­स्या­भावो निश्चितः, योग्या­नु­प­ल­ब्धे­र­भा­व­बो­धि­त्वात् । तस्मा­त्का­र्त्स्न्यै­क­दे­शा­भ्या­म­न्त­रा­ल­दे­श­शू­न्या­व­स्थार्थौ सम­वा­य­सं­यो­ग­श­ब्द­धी­ग­म्या­वि­त्यर्थः ।

सम्ब­न्ध­श­ब्द­धियोः सम्ब­न्ध्य­र्थत्वे तस्य सदाभावात्ते सदा स्याता­मि­त्या­श­ङ्क्याह -
नापीति ।
स्वरू­पे­णा­ङ्गुल्यो रूपरूपिणोश्च तत्त­च्छ­ब्द­धी­वि­ष­यत्वं, नैरन्तर्यात्तु सम्ब­न्ध­श­ब्द­धी­ग­म्य­ते­त्ये­क­त्वेऽ­पी­त्य­त्रो­क्त­त्वान्न याव­त्स­म्ब­न्धि­सत्त्वं शब्द­धी­प्र­स­क्ति­रि­त्यर्थः ।

किञ्च सांशयोः संयोगेऽपि निरं­श­यो­र्ना­सा­वि­त्याह -
तथेति ।

द्व्यणु­का­दि­का­र्य­हे­तु­रेव परमाण्वोः संयोगो निरस्तः । सम्प्रति ज्ञाना­द्य­स­म­वा­यि­का­र­ण­मा­त्म­म­नः­सं­यो­ग­म­दृ­ष्ट­व­दा­त्म­सं­योगं चाणूनां निरस्यति -
अण्वात्मेति ।
आत्म­नोऽ­प्र­दे­श­त्वा­द­णु­म­न­सो­स्त­त्सं­योगः सक­ला­त्म­वृ­त्ति­रिति तयोरपि परममहत्त्वं स्यादिति भावः ।

असम्भवे हेत्वन्तरमाह -
प्रदेशेति ।

निरस्तमपि कल्पितप्रदेशं दोषा­न्त­रा­भि­धि­त्स­यो­द्भा­व­यति -
कल्पिता इति ।

कल्पनया तद्वत्त्वस्य सत्त्वमसत्त्वं वा । द्वितीये कल्पना वृथेति मत्वाद्यं प्रत्याह -
नेत्यादिना ।
अविद्यमानस्य प्रदे­श­व­त्त्व­ल­क्ष­ण­स्या­र्थस्य कल्पनया सत्त्व­सि­द्धा­विति यावत् ।

तत्र हेतुः -
इयानिति ।

कल्प­का­धी­न­त्वा­त्का­ल्प­नाया न तया सर्वा­र्थ­सि­द्धि­रि­त्या­श­ङ्क्याह -
कल्पनायाश्चेति ।

तथापि परि­मि­त­त्वा­त्तस्या न सर्वा­र्थ­सा­ध­कत्वं, तत्राह -
प्रभूतत्वेति ।

षण्णामेव पदार्थानां सम्भवान्न सर्वा­र्थ­सि­द्धि­रि­त्या­श­ङ्क्याह -
न चेति ।

निवारकाभावे फलं सर्वा­र्थ­सि­द्धि­मु­प­सं­ह­रति -
तस्मादिति ।

किञ्च कल्पनया वस्तुसिद्धौ संसा­र­मो­क्ष­यो­र­नि­य­ति­रिति ब्रुवाणः संसा­र­स्या­नि­य­ति­रिति -
कश्चिदिति ।

मुक्तेरनियतिमाह -
अन्यो वेति ।

अवस्थाद्वये हेतुमाह -
कस्तयोरिति ।

कार्य­का­र­ण­यो­र­त्य­न्त­भेदे तथै­वो­प­ल­ब्धि­प्राप्तौ सम­वा­या­दे­क­त्व­सि­द्धि­रि­त्या­शङ्क्य विशेषतः समवायं दूषयति -
किञ्चेति ।

दृष्टान्तं स्पष्टयति -
न हीति ।

कार्य­का­र­ण­यो­र­र्था­पत्त्या समवायः सिध्यतीति शङ्कते -
कार्येति ।

द्व्यणुकपरमाणू न समवायार्हौ, साव­य­व­नि­र­व­य­व­द्र­व्य­त्वात् , भूम्या­का­श­व­दि­त्य­त्रा­का­र्य­का­र­ण­द्र­व्य­त्वा­त्तयोः सम­वा­या­न­र्ह­ते­त्य­प्र­यो­ज­क­त्व­मा­श­ङ्क्याह -
नेत्यादिना ।

अन्य­त­र­व्य­ति­रे­के­णा­न्य­त­रस्य सिद्धिसम्भवे कथ­मे­व­मि­त्या­श­ङ्क्याह -
न हीति ।

कार्यस्य कार­णा­ना­श्रि­तत्वे स्वातन्त्र्यं स्यादि­त्या­श­ङ्क्याह -
कारणस्येति ।

परमाणूनां निर­व­य­व­त्व­मु­पे­त्यो­क्तम् । तदेव नास्तीत्याह -
किञ्चेति ।
परमाणवः सावयवाः, परि­च्छि­न्न­त्वात् , घटवत् । परिच्छिन्नत्वं साव­य­व­मा­त्र­वृत्ति, परि­च्छि­न्न­मा­त्र­वृ­त्ति­त्वात् , घटत्ववदित्यर्थः ।

तेषां सावयवत्वे दिग्भे­द­व्य­व­स्था­प­कत्वं हेतुरित्याह -
यावत्य इति ।

सावयवत्वफलमाह -
सावयवत्वादिति ।

उक्तानुमानफलमाह -
इति नित्यत्वेति ।

ये दिग्भे­द­व्य­व­स्था­प­का­स्त्वया परमाण्ववयवाः स्वीकृतास्त एव मम परमाणवस्तेऽपि साव­य­वा­श्चे­त्त­द­व­यवा एवेत्येवं यतः परं न विभागः स पर­मा­णु­र्नि­र­व­यवः, स च नित्यः परि­मा­ण­ता­र­त­म्य­वि­श्रा­न्त्या­धा­र­त्वा­दा­त्म­व­दिति शङ्कते –
यानिति ।

किं सर्वथैव विभागायोग्यं वस्तु पर­मा­णु­रु­ता­स्म­दा­दि­भि­र­वि­भ­ज्य­मा­ना­व­य­वम् । आद्ये न पर­मा­णो­र्दि­ग्भे­दा­व­धित्वं, मूलकारणस्य सन्मात्रस्यैव सर्वथा विभा­गा­यो­ग्य­त्वा­त्तस्य च निरवयवत्वं सिद्धमेव । द्वितीये सन्मा­त्रा­न्मू­ल­का­र­णा­द­ति­रिक्तं किञ्चन सूक्ष्मं वस्तु परमाणुरस्तु, स च विनष्टुमर्हति, पृथि­व्या­दि­जा­ती­य­त्वात् , परा­भी­ष्ट­द्व्य­णु­क­व­दि­त्याह -
नेति ।

दृष्टान्तं समर्थयते -
यथेति ।
वस्तुभूताऽपीति परमतेनोक्तम् ।

दार्ष्टान्तिकं निगमयति -
तथेति ।

नित्याः परमाणवः, निर­व­य­व­द्र­व्य­त्वात् , आत्मवदिति शङ्कते -
विनश्यन्त इति ।

हेत्वसिद्ध्या समाधत्ते -
नायमिति ।

उक्तमेव स्फुटयति -
यथेत्यादिना ।
अव­य­व­त­त्सं­यो­ग­वि­नाशौ विनापि सुवर्णपिण्डो नश्यति । विनापि संयोगान्तरं सुवर्णद्रवो जायते । परमाणुकाठिन्यं च विभागं विना विनश्यति । तद्गतद्रवश्च संयोगादृते भवति । नच काठिन्यद्रवौ ताव­द्द्र­व्या­ति­रिक्तौ शक्यौ वक्तुम् । एवं विनै­वा­व­य­व­वि­भा­ग­वि­नाशौ परमाणवो विन­ङ्क्ष्य­न्त्यन्ये चोत्पत्स्यन्त इत्यर्थः ।

मूर्तिशब्देन काठिन्यम् , आदि­श­ब्दे­ना­व­स्था­भे­दादि गृह्यते । द्रव्य­ना­श­स्या­व­स्था­नाशो नोदा­ह­र­ण­मि­त्या­श­ङ्क्या­त्रापि परमाण्ववस्थानाश एव सर्वकार्याणां तद­व­स्था­त्वा­दि­त्य­भि­प्रेत्य कार्य­द्र­व्य­त्व­हेतुं व्यभिचारयति -
तथेत्यादिना ।
कार्य­ना­श­स्या­व­य­व­ना­श­त­द्वि­भा­गा­धी­न­त्व­नि­य­मा­भा­व­व­दि­त्यर्थः ।

तस्य केवलत्वं प्राधान्यम् । सति तस्मि­न्का­र्यो­त्पा­दस्य क्षेपाभावात् । नियमाभावे हेतुमाह -
क्षीरेति ।
आदिशब्देन लवणादि गृह्यते । क्षीरा­द्य­नु­गु­णा­द­व­य­व­सं­यो­गा­द­ति­रिक्तो दध्याद्यनुगुणः संयो­गोऽ­व­य­व­सं­यो­गा­न्त­रम् । दधि­हि­मा­दी­त्या­दि­पदं जलाद्यर्थम् । दध्यादिषु सत्यपि कार्यद्रव्यत्वे विशि­ष्टा­ने­क­द्र­व्या­र­ब्ध­त्व­सि­द्धे­र­नै­का­न्त्या­दि­त्यर्थः । एतेन कार्यद्रव्यं स्वप­रि­मा­णा­द­णु­त­र­प­रि­मा­णा­रब्धं, कार्य­द्र­व्य­त्वा­दि­त्य­पा­स्तम् ।

यच्चा­णु­प­रि­मा­ण­ता­र­तम्यं क्वचि­द्वि­श्रान्तं, परि­मा­ण­ता­र­त­म्य­त्वा­दिति, तत्रा­श्र­या­सि­द्धि­रि­त्य­भि­प्रे­त्या­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
तदेवमिति ।
वाक्य­श­ब्दे­ना­प­रि­ग्र­ह­सूत्रं गृह्यते ॥ १७ ॥

वैशेषिकं निरस्य वैनाशिकं निरस्यति -
समुदाय इति ।

आर्हतादिमतं हित्वा किमित्यनन्तरं वैनाशिकमतं निरस्यते, तत्राह -
वैशेषिकेति ।
परिमाणभेदेन देहा­दे­रा­शु­त­र­वि­ना­शि­त्वा­ङ्गी­का­रा­द­र्ध­वै­ना­शि­कत्वं वैशेषिकस्येति । तन्निरासानन्तरं वैना­शि­क­त्वा­वि­शे­षा­द्बु­द्धिस्थं सर्व­वै­ना­शि­क­नि­र­स­न­मि­त्यर्थः ।

वैशेषिका देहा­दे­स्त्रि­क्ष­ण­स्था­यि­त्व­मा­स्थिताः, तथापि तन्मते निरस्ते तन्मात्रमपि यैर्नेष्टं तन्मतमतिशयेन नापे­क्षि­त­व्य­मि­त्याह -
नतरामिति ।

तथा­प्ये­के­नै­वा­धि­क­र­णेन तन्निराससम्भवे किम­धि­क­र­ण­द्व­ये­नेति, तत्राह -
स चेति ।

राद्धा­न्त­स्यै­क्या­द्ब­हु­प्र­का­र­त्वा­यो­ग­मा­श­ङ्क्याह -
प्रतिपत्तीति ।

उपदेष्टुः सर्व­ज्ञ­स्यै­क्या­त्कथं शिष्याणां तद्भेदः, तत्राह, -
विनेयेति ।
मन्द­म­ध्य­मो­त्त­म­धियां शिष्याणां भेदा­त्त­द्भे­द­सि­द्धि­रि­त्यर्थः । प्रति­प­त्ति­भे­दा­व­धा­र­णार्थो वाशब्दो न विकल्पार्थः ।

तानेव दर्शयति -
तत्रेति ।

सौत्रा­न्ति­क­वै­भा­षि­क­यो­र­व­ना­न्त­र­भे­देऽपि सर्वा­स्ति­त्व­स­म्प्र­ति­प­त्ते­रे­की­कृत्य त्रित्व­मु­प­पा­द­यति -
केचिदिति ।

इदा­नी­मा­द्या­धि­क­र­णस्य प्रवृ­त्ति­प्र­का­र­माह -
तत्रेति ।

बाह्यं विशिनष्टि -
भूतमिति ।

आभ्यन्तरं कथयति -
चित्तमिति ।

बाह्या­र्थ­वा­दि­बौ­द्ध­रा­द्धान्तो विषयः । स किं प्रामाणिको भ्रान्तो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षं विवृणोति -
तत्रेत्यादिना ।
तस्य भ्रान्त­त्वो­प­पा­द­नेन समन्वयस्य तद्वि­रो­ध­नि­रा­सा­त्पा­दा­दि­स­ङ्ग­तयः । तस्य प्रामा­णि­क­त्वा­त्त­द्वि­रोधे समन्वयासिद्धिः, भ्रान्त­त्वा­द्वि­रो­ध­स्या­भा­वा­त्त­त्सि­द्धि­रि­त्यु­भ­यत्र फलसिद्धिः । धातुशब्दः स्वभाववचनः । आदि­श­ब्दे­ना­प्ते­जो­वा­य्वा­का­श­र्तवो गृह्यन्ते ।

विष­या­णा­मि­न्द्रि­याणां च भौति­क­श­ब्द­वा­च्य­त्व­माह -
भौतिकमिति ।

पृथिव्यादयश्च परमाणुपुञ्जा एव नाव­य­व्या­र­म्भोऽ­स्तीति वक्तुं परमाणुस्वरूपमाह -
चतुष्टये चेति ।

कठिनस्वभावाः पृथिवीपरमाणवः । स्नेहस्वभावा आप्यपरमाणवः । उष्ण­ता­स्व­भा­वा­स्ते­जः­प­र­मा­णवः । ईरणं चलनं तत्स्वभावा वायुपरमाणवः । तेषां चतुर्विधानां सर्गकाले संयोगापत्तिमाह -
त इति ।

भूत­भौ­ति­का­नुक्त्वा चित्तचैत्तानाह -
तथेति ।

कर्म­क­र­ण­व्यु­त्प­त्तिभ्यां सवि­ष­या­णी­न्द्रि­याणि रूपस्कन्धः । रूप्य­मा­ण­पृ­थि­व्या­दीनां बाह्यत्वेऽपि देह­स्थ­त्वा­दि­न्द्रि­य­स­म्ब­न्धा­च्चा­ध्या­त्मि­क­त्वम् । अहमिति प्रत्ययो विज्ञानस्कन्धः । सुखादिप्रत्ययो वेदनास्कन्धः । गौरश्व इत्या­दि­श­ब्द­स­ञ्ज­ल्पि­त­प्र­त्ययः संज्ञास्कन्धः । संस्का­र­स्क­न्धस्तु रागा­दि­ध­र्मा­धर्मौ च । तत्र विज्ञा­न­स्क­न्ध­श्चि­त्तम् । इतरे चैत्ताः । उक्तानां स्कन्धानां समाहारं सङ्घातं दर्शयति -
तेऽपीति ।

उक्तस्य बाह्या­ध्या­त्मि­क­भा­व­जा­त­स्या­ध्य­क्षा­नु­मा­नाभ्यां क्षणिकत्वे सिद्धे स्थायिनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीति प्राप्तमनूद्य सिद्धान्तयति -
तत्रेति ।

सूत्रं व्याचष्टे -
योऽयमिति ।

बाह्य­त्व­मा­ध्या­त्मि­कत्वं चोभ­य­प्र­का­र­त्व­मु­भ­य­हे­तु­क­मे­वाह -
अण्विति ।

बाह्ये भूतभौतिकसमुदाये पृथि­व्या­दि­प­र­मा­णु­हे­तुके, रूप­वि­ज्ञा­ना­दि­हे­तुके चाध्यात्मिके समु­दा­येऽ­भि­प्रेते तस्या­प्रा­प्ति­र­यु­क्तता स्यादित्याह -
तस्मिन्निति ।

संह­न्य­मा­ना­ना­म­व्य­व­धाने सङ्घातानुपपत्तौ च न हेतु­रि­त्या­क्षि­पति -
कुत इति ।

सङ्घातः स्वतो वा परतो वा । नाद्य इत्याह -
समुदायिनामिति ।
अण्वा­दी­ना­म­चै­त­न्या­त्स्वा­त­न्त्र्येण प्रवृ­त्त्य­सि­द्धेर्न स्वतःसङ्घातो घटते । तथाच क्षणिकपक्षे सर्गादौ सङ्घातायोगान्न तद्विरोधः सम­न्व­य­स्ये­त्यर्थः ।

परमपि सङ्घातकारणं चित्ता­भि­ज्व­ल­न­म­न्यद्वा । तत्राद्यं दूषयति -
चित्तेति ।
सिद्धे सङ्घाते चित्ताभिज्वलनं ततः सङ्घात इत्य­न्यो­न्या­श्र­यान्न चित्ताभिज्वलनं तद्धे­तु­रि­त्यर्थः ।

अन्योऽपि संहन्ता चेतनोऽचेतनो वा । चेतनोऽपि भोक्ता प्रशासिता वा । द्विधापि स्थिरो वा क्षणिको वा । नाद्यः । अनभ्युपगमात् । न द्वितीयः । क्षणि­क­स्या­न्व­य­व्य­ति­रे­क­का­ला­न­व­स्था­नात् । भोक्तुश्च कार­ण­वि­न्या­स­वि­शे­ष­ज्ञा­ना­यो­गात् , सर्वज्ञस्य स्वत­स्त­ज्ज्ञा­नेऽपि क्षणि­क­त्वा­त्क­र्तृ­त्वा­सि­द्धे­रि­त्याह -
अन्यस्येति ।

अचेतनोऽपि संहन्ता धर्मादिर्वा स्यादा­ल­य­वि­ज्ञा­न­स­न्तानो वा । नाद्यः । तस्य पूर्व­व­च्चे­त­ना­धी­न­प्र­वृ­त्त्य­नु­प­पत्तेः । स्वत­श्चे­त्प्र­वृ­त्ति­स्तदा धर्मा­दि­प्र­वृ­त्त्य­नु­प­र­मा­न्मो­क्षा­सि­द्धि­रि­त्याह -
निरपेक्षेति ।

आल­य­वि­ज्ञा­न­स­न्तानः संहन्तेति पक्षं प्रत्याह -
आशयस्येति ।
आशे­र­तेऽ­स्मि­न्क­र्मा­नु­भ­व­वा­सना इत्याशयः सन्तानः । तस्यापि सन्ता­नि­भ्योऽ­न्य­त्व­म­न­न्यत्वं वा । द्विधापि दुर्नि­रू­प­त्वान्न तस्य संह­न्तृ­ते­त्यर्थः ।

स खल्वन्यः स्थिरो वा क्षणिको वा । प्रथ­मेऽ­स्म­दुक्तो भोक्तैव नामान्तरेणोक्तः स्यादिति मत्वा द्वितीये क्षणिकस्य व्यापा­रा­त्पूर्वं तत्काले वाऽभा­वा­त्का­र­ण­त्वा­श्र­य­त्व­यो­र­सि­द्धि­रि­त्याह -
क्षणिकत्वेति ।
एतेनानन्यत्वमपि प्रत्युक्तम् ।

सन्तानिनामपि क्षणि­क­त्वे­नो­क्त­रीत्या व्यापा­र­का­र­ण­त्वा­द्य­यो­गा­त्त­द­भि­न्नस्य सन्तानस्यापि तदसिद्धेरित्याह -
निर्व्या­पा­र­त्वा­दिति ।

संहन्तुरभावे फलितमाह -
तस्मादिति ।

यथा­क­थ­ञ्चि­ल्लो­क­यात्रा सिध्यति चेत्किं समु­दा­ये­ने­त्या­श­ङ्क्याह -
समुदायेति ॥ १८ ॥

सङ्घातस्य निमित्तमाशङ्क्य निरस्यति -
इतरेतरेति ।

पूर्वपक्षभागं विभजते -
यद्यपीति ।

तर्हि सङ्घा­ता­भा­वा­त्त­दा­ल­म्बना लोकयात्रा न निर्वहेत् , तत्राह -
तथापीति ।

कार्यं प्रत्ययते जनकत्वेन गच्छतीति प्रत्ययशब्दस्य हेतु­वा­चि­त्व­मु­पे­त्ये­त­रे­त­र­का­र­ण­त्वा­दि­त्यु­क्तम् । तथापि सङ्घातस्य निमित्तं वाच्यं, तत्राह -
अविद्यादीनामेव तन्नि­मि­त्त­त्वा­न्ना­पे­क्ष­णी­या­न्त­र­म­स्ती­त्यर्थः ।

के पुनरविद्यादयः, तत्राह -
ते चेति ।
वक्ष्य­मा­ण­बु­द्धि­स्थ­प­र­मर्शी तच्छब्दः । क्षणि­क­का­र्य­दुः­ख­स्व­भा­वे­ष्व­र्थेषु स्थायि­नि­त्य­सु­ख­बु­द्धि­र­विद्या । तस्यां सत्यां संस्कारा रागद्वेषमोहा विषयेषु भवन्ति । तेभ्यो गर्भस्थस्याद्यं विज्ञा­न­मु­त्प­द्यते । तस्मा­च्चा­ल­य­वि­ज्ञा­ना­त्पृ­थि­व्या­दि­च­तु­ष्ट­य­मु­पा­दा­न­का­रणं नामा­श्र­य­त्वा­न्नाम निष्पद्यते । तच्च कारणत्वेन स्वीकृत्य सिता­सि­ता­दि­रू­प­व­च्छ­री­र­म­भि­नि­र्व­र्तते । गर्भीभूतस्य शरीरस्य कल­ल­बु­द्बु­दा­द्य­वस्था नाम­रू­प­श­ब्दा­भ्या­म­त्रा­भीष्टा, जाते­रु­त्त­र­त्रा­भि­धा­नात् । नाम­रू­प­सं­मि­श्रि­ता­नी­न्द्रि­याणि षडायतनं, पृथिव्यादिधातवः षडायतनानि यस्य करणजातस्य तत्तथा । नाम­रू­पे­न्द्रि­याणां मिथः संनिपातः स्पर्शः । ततः सुखादिका वेदना । तस्यां सत्यां कर्तव्यं सुखं मयेत्यध्यवसानं तृष्णा । ततो वाक्का­य­चे­ष्टो­पा­दा­नम् । ततो भव­त्य­स्मा­ज्ज­न्मेति भवो धर्मादिः । तद्धेतुका देहादयो जातिः । जातस्य देहस्य परिपाको जरा । देहनाशो मरणम् । म्रियमाणस्य साभिषङ्गस्य पुत्रा­दा­व­न्त­र्दाहः शोकः । तदुत्थं हा पुत्र, इत्यादिप्रलपनं परिदेवना । शब्दा­दि­ज्ञा­न­प­ञ्च­क­सं­यु­क्त­म­सा­ध्व­नु­भ­वनं दुःखम् । दुर्मनस्ता मानसं दुःखम् । इतिशब्दो यथो­क्त­प­रा­म­र्शार्थः । एवञ्जाती यकशब्दो मद­मा­ना­द्यु­प­क्ले­श­स­ङ्ग्र­हार्थः ।

अविद्यादिहेतुका जन्मा­द­य­स्त­द्धे­तु­का­श्चा­वि­द्या­दय इति घटी­य­न्त्र­व­द­न­व­र­त­मा­व­र्त­न­मे­षा­मिति मत्वा विशिनष्टि -
इतरेति ।

अविद्यादीनां सत्त्वमेव कथमित्याशङ्क्य सङ्क्षे­प­वि­स्त­रा­भ्या­मु­क्त­त्वा­त्त­द्रूपं सौगतानां प्रसिद्धमित्याह -
सौगत इति ।

न केवलं तेषामेव प्रसिद्धं किन्तु सर्व­वा­दि­ना­म­पी­त्याह -
सर्वेषामिति ।
आनु­भ­वि­का­र्थ­प्र­त्या­ख्याने सर्व­व्य­व­हा­रा­सि­द्धि­रि­ति­भावः ।

अविद्यादीनां मिथो निमि­त्त­नै­मि­त्ति­क­त्वेऽपि कुतः सङ्घा­त­सि­द्धि­रि­त्या­श­ङ्क­यो­प­सं­ह­रति -
तदेवमिति ।
अविद्यादिरेव सङ्घाताभावे न सिध्य­ती­त्य­नु­प­पत्त्या तदाक्षेपे तदाश्रयः सर्वव्यवहारो निर्वहतीत्यर्थः ।

सिद्धा­न्त­भा­ग­म­व­ता­र­यति -
तन्नेति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।

हेतुं व्याचष्टे -
भवेदिति ।

अविद्यादीनां मिथो निमि­त्त­नै­मि­त्ति­क­भा­व­भाजां सङ्घा­त­नि­मि­त्त­त्व­मा­श­ङ्क्याह -
यत इति ।
उत्त­र­सू­त्र­स्थ­म­र्थ­म­भि­प्रे­त्ये­हा­पि­शब्दः ।

अविद्यादीनां मिथो हेतु­हे­तु­म­त्त्वेऽपि चेत­ना­धि­ष्ठा­ना­दृते सङ्घा­ता­सि­द्धि­रि­त्युक्ते पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।

किमविद्यादयः सङ्घातस्य गमकाः किं वोत्पादका इति विकल्पयति -
अत्रेति ।

तत्राद्यमनूद्य दूषयति -
यदीति ।
गमकत्वपक्षे स्वरू­प­सि­द्धि­र­न्यतो वाच्या तच्चा­न्य­न्ना­स्ती­त्यर्थः ।

अणूनां स्कन्धानां चोभ­य­वि­ध­स­ङ्घा­त­नि­मि­त्त­त्व­मा­श­ङ्क्याह -
तच्चेति ।
आश्र­या­श्र­यि­भू­ते­ष्विति भोक्तृविशेषणम् । अदृ­ष्टा­श्र­ये­ष्वि­त्यर्थः । अणुषु स्थिरेषु भोग­हे­त्व­दृ­ष्ट­वि­शि­ष्टेषु भोक्तृषु चोक्तविशेषणेषु स्वीकृतेषु सत्सु चेत­न­स्या­धि­ष्ठा­तु­र­नु­रू­प­स्या­भा­वान्न सम्भवति सङ्घा­ता­प­त्ते­र्नि­मित्तं किञ्चि­दि­त्यु­क्त­मि­त्यर्थः ।

कैमु­ति­क­न्या­य­म­पिना सूचितमाह -
किमिति ।

अदृ­ष्टा­श्र­य­क­र्तृ­रा­हि­त्य­माह -
आश्रयेति ।
आश्र­या­श्र­यि­शू­न्ये­ष्विति पाठे तूप­का­र्यो­प­का­र­क­त्व­व­र्जि­ते­ष्वि­त्यर्थः ।

विशिष्टेष्वणुषु स्वीक्राणेषु किं पुनः सङ्घा­ता­प­त्ते­र्नि­मित्तं, न किञ्चि­दि­त्या­क्षेपः । द्वितीयं शङ्कयति -
अथेति ।

पर­स्प­रा­श्र­य­त्वेन प्रत्याह -
कथमिति ।
पूर्व­पू­र्व­स­ङ्घा­ता­ना­मु­त्त­रो­त्त­र­स­ङ्घा­त­हे­तु­त्वा­त्त­दा­श्र­य­त्वा­च्चा­वि­द्या­दीनां नान्यो­न्या­श्र­य­त्वम् ।

नच संह­न्तृ­चे­त­ना­पेक्षा, स्वभावतो भावानां संह­ता­ना­मे­वो­द­य­व्य­यो­प­ग­मा­दि­त्याह -
अथेति ।

तद्दूषयितुं विकल्पयति -
तदापीति ।

सङ्घा­त­व­र्ति­नोऽ­दृ­ष्ट­स्या­धि­ष्ठा­तृ­चे­त­ना­भा­वा­त्त­द्व­शा­त्प्र­ति­नि­य­त­का­र्यो­त्पा­दा­योगे स्वभा­वा­दे­वो­त्प­त्ति­रा­स्थेया । तथाच पूर्यते गलति चेति पुद्गलं शरीरं, तच्च मनुष्यशब्दितं, तदुपेतः सङ्घातो नियमपक्षे न जात्य­न्त­र­भा­ग्भ­वे­दि­त्याह -
नियमेति ।

द्वितीयेऽपि व्यव­स्था­प­का­भा­वे­ना­व्य­व­स्था­माह -
अनियमेति ।

उभ­य­त्रे­ष्टा­पत्तिं शङ्कित्वा निरस्यति -
उभयमिति ।

भोगा­प­व­र्ग­व्य­व­हा­रा­नु­प­प­त्ते­श्चे­त्याह -
अपि चेति ।

क्षणवादेऽपि बुभुक्षुणा भोगो मुमुक्षुणा मोक्ष­श्चा­र्थ­नीयौ, तत्कुतो भोगा­प­व­र्ग­व्य­व­हा­रा­सिद्धिः, तत्राह -
यदिति ।

अभ्युपगमफलमाह -
ततश्चेति ।

भोगे दर्शितं न्यायं मोक्षेऽतिदिशति -
तथेति ।

विपक्षे दण्डमाह -
अन्येनेति ।

बुभु­क्षो­र्मु­मु­क्षोर्वा काल­द्व­य­स्था­यि­त्व­मा­श­ङ्क्याह -
अवस्थायित्व इति ।

परि­हा­र­भा­ग­ता­त्प­र्य­मु­प­सं­ह­रति -
तस्मादिति ॥ १९ ॥

उपे­त्य­वा­द­मि­दानीं त्यजति -
उत्तरेति ।

पूर्व­सू­त्रो­क्त­म­नू­द्यास्य सूत्रस्य तात्पर्यमाह -
उक्तमिति ।
अविद्यादीनां मिथो हेतुत्वमुपेत्य सङ्घा­ता­सि­द्धि­रुक्ता, संप्र­त्य­न्यो­न्य­हे­तु­त्व­मपि नेति वक्तुमिदं सूत्रमित्यर्थः ।

अवि­द्या­दी­ना­म­न्यो­न्य­नि­मि­त्त­त्वा­योगं वक्तुं परपक्षमनुवदति -
क्षणेति ।

तत्रानुपपत्तिं प्रतिजानीते -
न चेति ।

काऽत्रा­नु­प­प­त्ति­रि­त्या­शङ्क्य पूर्व­क्ष­ण­स्यो­त्पा­द­न­व्या­पारः समनन्तरक्षणे वा स्वसत्ताक्षणे वेति विकल्प्याद्यं प्रत्याह -
निरु­ध्य­मा­न­स्येति ।
अचिरनिरुद्धत्वं निरुध्यमानत्वम् । निरो­ध­हे­तु­सां­नि­ध्या­नु­ग­मा­न्नि­रु­द्धत्वं चिरनिरुद्धत्वम् ।

कल्पा­न्त­र­मु­त्था­प­यति -
अथेति ।

स्थायित्वं व्यवच्छिनत्ति -
परिनिष्पन्नेति ।
कारणस्य कार्या­त्पू­र्व­काले सत्ताऽर्थवती न कार्यकाले । तदा कार्यस्य सिद्धत्वेन तद­र्थ­स­त्ता­नु­प­यो­ग­त्वा­दिति भावः ।

तत्रापि कार्य­का­र­ण­त्वा­सि­द्धि­रि­त्याह -
तथापीति ।

कथं कारणस्योत्पादनं धर्मः स्वरूपं वा । नाद्य इत्याह -
भावेति ।

कल्पान्तरमाह -
अथेति ।

तत्रापि हेतुफलत्वस्य न सम्भावनेत्याह -
तथापीति ।

कथं हेतुस्वरूपं कार्यानन्वयि तदन्वयि वा । तत्र प्रथमं प्रत्याह -
हेत्विति ।
तदनुपरागेऽपि तद्भावे हिम­व­द्वि­न्ध्य­यो­रपि तद्भावः स्यादिति भावः ।

कल्पान्तरं दूषयति -
स्वभावेति ।

प्रथ­म­प­क्षो­क्त­दोषं प्रपञ्चयति -
विनैवेति ।
न च कार्यस्य कारणसादृश्यं तन्निवारकं, किञ्चि­द्रू­पा­नु­ग­म­भावे तस्यै­वा­स­म्भ­वा­दिति भावः ।

इतश्च क्षण­वा­द­सि­द्धि­रि­त्याह -
अपि चेति ।

तदेव वक्तु­मु­त्पा­द­नि­रोधौ त्रेधा विकल्पयति -
उत्पादेति ।

पक्षत्रयेऽपि वस्तुनो नित्य­त्व­प्र­स­ङ्गान्न क्षणिकतेत्याह -
सर्वथेति ।

तत्राद्यमनूद्य वस्तुनो नित्यत्वं प्रस­ञ्ज­य­न्क्ष­णि­क­त्वा­सि­द्धि­माह -
यदीति ।

द्वितीयेऽपि क्षणि­क­त्वा­सि­द्धि­ता­द­व­स्थ्य­माह -
अथेत्यादिना ।

तमेव विशेषं दर्शयति -
उत्पादेति ।

तृतीयमनूद्य क्षणि­क­त्वा­सिद्धिं स्फुटयति -
अथेति ।

प्रका­रा­न्त­र­मा­शङ्क्य प्रत्याह -
यदीति ।

उत्पा­द­नि­रो­ध­यो­र्दु­र्नि­रू­पत्वे फलमाह -
तस्मादिति ।
सङ्घातस्य हेतुफलत्वस्य चासि­द्धि­र­पि­श­ब्दार्थः ॥ २० ॥

किञ्चासति फलहेतौ फलमुत्पद्यते सत्येव वेति विकल्प्याद्यं दूषयति -
असतीति ।

सूत्रं व्याकर्तुं वृत्तं कीर्तयति -
क्षणेति ।

मा तर्हि पूर्व­क्ष­ण­स्यो­त्त­र­क्ष­ण­का­र­णत्वं भूत्तर्हि पूर्व­क्ष­णा­भा­वा­द्वो­त्त­र­क्ष­ण­स्यो­त्प­त्ति­स्त­द­भावे सति वा । नाद्यः, ‘नास­तोऽ­दृ­ष्ट­त्वात्’ इति वक्ष्यमाणत्वात् । द्वितीयमनुवदति -
अथेति ।

निर्हे­तु­फ­लो­त्पत्तिं प्रत्याह -
तत इति ।

प्रतिज्ञोपरोधं स्फोरयति -
चतुर्विधानिति ।
आलम्बनप्रत्ययः सम­न­न्त­र­प्र­त्य­योऽ­धि­प­ति­प्र­त्यय आलोकश्चेति चतुर्विधा हेत­व­स्ता­न्प्र­तीत्य प्राप्य चित्तं चैत्ताश्च तदभिन्नाः सुखादयो जायन्ते । तत्र नीलाभासस्य चित्तस्य नीला­दा­ल­म्ब­न­प्र­त्य­या­न्नी­ला­का­रता । सम­न­न्त­र­प्र­त्य­या­त्पू­र्व­ज्ञा­ना­द्बो­ध­रू­पता । चक्षु­षोऽ­धि­प­ति­प्र­त्य­या­द्रू­प­ग्र­ह­ण­प्र­ति­नि­यमः । आलोकाद्धेतोः स्पष्टता । सुखादीनामपि चैत्तानां चित्ता­भि­न्ना­ना­मे­ता­न्येव चत्वारि कारणानि । सेयं प्रतिज्ञा निर्हे­तु­फ­लो­त्पत्तौ बाध्येतेत्यर्थः ।

तत्रै­वा­ति­प्र­सङ्गं दोषान्तरमाह -
निर्हेतुकायां चेति ।

अन्यथेति सूत्रावयवं शङ्कात्वेन व्याकरोति -
अथेति ।
तथाच न प्रति­ज्ञो­प­रो­धा­ति­प्र­ङ्गा­विति शेषः ।

उत्प­त्ते­रु­त्प­द्य­मा­ना­भे­द­म­भ्यु­प­यन्तं प्रति सूत्रा­व­य­वे­नो­त्त­र­माह -
तत इति ।

यौगपद्योपगमे का हानिः, तत्राह -
तथापीति ।

पूर्ववदत्र प्रतिज्ञोपरोधो नास्ती­त्या­श­ङ्क्याह -
क्षणिका इति ।
आद्यन्तवन्तो भावाः संस्काराः, संस्क्रियन्ते समुत्पद्यन्त इति व्युत्पत्तेः ॥ २१ ॥

समुदायस्य कार्यकारणभावस्य क्षणिकत्वस्य चासिद्धिरुक्ता । संप्र­त्य­भ्यु­प­ग­मा­न्तरं प्रत्याह -
प्रतिसङ्ख्येति ।

सौगतमतासङ्गत्ये सूत्रस्य हेत्व­न्त­र­प­र­त्व­माह -
अपि चेति ।

तदेव वक्तुं तन्मतमनुभाषते -
वैनाशिका इति ।

संस्कृ­त­मु­त्पाद्यं त्रया­द­न्य­दि­त्यु­क्तम् । किं तत्त्रयं तदाह -
तदपीति ।

तस्यापि क्षणि­क­त्वा­दु­त्पा­द्य­त्वाच्च नान्य­त्व­प्र­ति­यो­गि­त्व­मि­त्य­श­ङ्क्याह -
त्रयमपीति ।

वस्तु­प्र­ति­यो­गि­का­न्यत्वं वस्त्व­न्त­र­स्या­पी­त्या­श­ङ्क्यो­क्तम् -
अभावेति ।

अभावस्यापि प्रतियोगिद्वारा सोपा­ख्य­त्व­मि­त्या­श­ङ्क्याह -
निरुपाख्यमिति ।

प्रतीपा सङ्ख्या प्रतिसङ्ख्या सन्तमिममसन्तं करोमीति धीस्तया निरोधस्तथेति व्युत्पादयति -
बुद्धीति ।

स्तम्भादीनां प्रतिक्षणं स्वारसिको विनाश इत्य­प्र­ति­स­ङ्ख्या­नि­रोधं व्याचष्टे -
तद्विपरीत इति ।
आव­र­णा­भा­व­व्य­ङ्गयं शब्दवद्द्रव्यं व्यवच्छेत्तुं मात्रपदम् ।

परा­भ्यु­प­ग­म­मुक्त्वा सूत्रविषयं परिशिनष्टि -
तेषामिति ।

तात्प­र्य­मुक्त्वा प्रतिज्ञां विभजते -
प्रतिसङ्ख्येति ।

तन्न प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।

हेतुं व्याख्यातुं विकल्पयति -
एतौ हीति ।

भावशब्दः सन्तानिवाची । तत्राद्यं दूषयति -
न तावदिति ।
योऽसावन्त्यः सन्तानी स किञ्चिदारभते न वा । नाद्यः, अन्त्य­त्वा­सिद्धेः, सन्ता­ना­नु­च्छे­दाच्च । द्विती­येऽ­र्थ­क्रि­या­भा­वा­त्त­द­सत्त्वे तज्जनकमपि सर्वमसदित्यनेन क्रमेणासन्तः सर्वे सन्तानिनः स्युः । न च विजा­ती­य­क्ष­णो­त्पा­द­क­त्वे­ना­र्थ­क्रि­या­का­रित्वं सजा­ती­या­नु­त्पा­द­क­त्वेन च सन्ता­नो­च्छित्तिः, एकस्मिन्नेव सन्ता­नेऽ­ने­क­स­न्ता­न­प्र­स­ङ्गात् । अतः सन्ता­ना­नु­च्छे­दान्न तद्गोचरौ निरोधावित्यर्थः ।

न द्वितीय इत्याह -
नापीति ।

निरन्वयं व्याचष्टे -
निरुपाख्य इति ।

घटकपालादिषु सर्वत्र सैवेयं मृदिति प्रत्य­भि­ज्ञा­ना­द­न्व­यिनो नाशा­भा­वा­व­ग­ते­रिति हेतुमाह -
सर्वास्विति ।

बीजा­ङ्कु­रा­दा­ना­मु­त्त­रो­त्त­र­कार्ये प्रत्य­भि­ज्ञा­ना­भा­वा­द­न्व­यि­वि­च्छि­त्ति­रि­त्या­श­ङ्क्याह -
अस्पष्टेति ।
तास्वपि नान्वयी विच्छिद्यते, घटकपालादौ दृष्टे­ना­न्व­य्य­वि­च्छे­देन विवादस्थलेऽपि तदनुमानात् । विमतं न निरन्वयविनाशि, कार्यत्वात् , घटादिवदित्यर्थः ।

अन्व­य्य­वि­च्छे­देऽपि विच्छे­दोऽ­व­स्था­ना­मा­त्य­न्ति­कः­स्या­दि­त्या­शङ्क्य नावस्था निर­न्व­य­ना­शि­न्य­स्ता­सा­म­नि­र्वा­च्य­त­या­न्व­यि­मा­त्र­त्वा­त्तस्य च सत्त्वे­ना­धि­ष्ठा­न­त्वा­द­ना­शा­दि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ २२ ॥

प्रति­स­ङ्ख्या­नि­रो­धा­न्त­र्भू­त­म­वि­द्या­दि­नि­रोधं निरस्यति -
उभयथेति ।

सूत्रं व्याकर्तुं विषयमुक्त्वा विकल्पयति -
योऽयमिति ।

यम­नि­य­मा­दि­सा­मग्नी परि­क­र­स्त­त्स­हि­त­स­म्य­ग्धी­सा­ध्य­श्चे­द­वि­द्या­दि­नि­रो­ध­स्तदा स्वमतहतिरित्याह -
पूर्वस्मिन्निति ।

स्वयमेव चेद­वि­द्या­दि­नि­रो­ध­स्तदा सर्वं क्षणि­क­मि­त्या­दि­भा­व­नो­प­दे­श­वै­य­र्थ्य­मि­त्याह -
उत्त­र­स्मिं­स्त्विति ।

सूत्र­व्या­ख्या­मु­प­सं­ह­रति -
एवमिति ॥ २३ ॥

निरोधद्वयं निरस्याकाशं निरस्यति -
आकाशे चेति ।

सूत्रस्य सङ्गतिमाह -
यच्चेति ।

वृत्तमनूद्य पूर्वो­त्त­र­सू­त्र­यो­र­पु­न­रुक्तं विषयमुक्त्वा प्रति­ज्ञा­मा­काङ्क्षां पूरयन्व्याकरोति -
आकाशे चेति ।

तत्र हेतुः -
प्रतिसङ्ख्येति ।

कथ­मा­व­र­णा­भा­व­मात्रे तस्मि­न्व­स्तु­त्वधीः, तत्राह -
आगमेति ।

तत्प्रा­मा­ण्येऽपि कथमाकाशे वस्तु­त्व­धी­रि­त्या­शङ्क्य तदु­त्प­त्ति­वा­दि­नीनां श्रुतीनां भूय­स्त्वा­दि­त्याह -
आत्मन इति ।
न हि निरुपाख्यं नर­वि­षा­ण­व­दु­त्प­त्तु­म­र्ह­तीति भावः ।

आगमाप्रामाण्ये बौद्धा विवदन्ते, तत्कथं तान्प्रत्यागमेन नभसो वस्तु­त्व­मु­च्यते, तत्राह -
विप्र­ति­प­न्ना­निति ।

अनुमानमेव सूचयति -
गन्धादीनामिति ।
शब्दो हि क्वचिदाश्रितः, धर्मत्वात् , गन्धवदिति सामान्यतो धर्मिसिद्धिः । शब्दश्च विशेषगुणः, अस्पर्शवत्त्वे सति बाह्यै­के­न्द्रि­य­ग्रा­ह्य­जा­ति­म­त्त्वात् , गन्धवत् । स च प्रत्यक्षत्वे सत्य­या­व­द्द्र­व्य­भा­वि­त्वेन स्पर्स­व­द­स­म्ब­न्धात् , विशेषगुणतया दिक्ला­ल­म­नो­भि­र­सं­स­र्गात् , बाह्ये­न्द्रि­य­ग्रा­ह्य­तया चाना­त्म­गु­ण­त्वात् , पारि­शे­ष्या­द­ष्ट­द्र­व्या­ति­रि­क्त­द्र­व्या­श्रयः । तच्चा­का­श­मि­त्यर्थः ।

आग­मा­द­नु­मा­ना­द­नु­भ­वाद्वा सोपा­ख्य­मा­का­श­मि­त्यु­क्त्वा­व­र­णा­भा­व­पक्षे दोषमाह -
अपि चेति ।
यथै­क­घ­ट­स­त्त्वेऽपि घटा­न्त­रा­स­त्त्व­प्र­त्युक्त्या निर्घटं भूतलमित्यशक्यं वक्तुं तथै­क­स्मि­न्ना­व­रणे सत्या­व­र­णा­न्त­रा­भा­व­प्र­यु­क्त्यापि न तद्धीनतेति पक्ष्य­न्त­र­स­ञ्चारो न स्यादित्यर्थः ।

देशा­व­च्छे­दे­ना­व­र­णा­भा­व­वि­भागं गृहीत्वा शङ्कते -
यत्रेति ।

अभावस्य धर्मि­प्र­ति­यो­ग्य­पे­क्ष­त्वा­द्ध­र्मिणो वस्तुत्वं स्यादित्याह -
येनेति ।

इतश्चाकाशस्य वस्तुत्वमित्याह -
अपि चेति ।

प्रसङ्गं प्रकटीकर्तुं स्वाभ्यु­प­ग­म­मु­प­न्य­स्यति -
सौगते हीति ।

किं सम्यङ्निश्चितं श्रेयोऽ­धि­क­र­ण­मस्या इति किंसंनिश्रया । कथमाकाशस्य वस्तुत्वाभावे तद्वि­रो­ध­प्र­सङ्गः, तत्राह -
तदिति ।
आश्रयत्वं नावस्तुनो दृष्टमित्यर्थः ।

स्वाभ्यु­प­ग­म­वि­रो­ध­प्र­स­ङ्ग­फ­ल­माह -
तस्मादिति ।

निरो­ध­द्व­य­स्या­का­शस्य चावस्तुत्वे साधारणं दूषणमाह -
अपि चेति ।

विप्रतिषेधं स्फोरयति -
न हीति ।
नाशा­भा­वो­प­ल­क्षि­त­स­त्ता­यो­गित्वं नित्यत्वम् । तद्वि­प­री­त­म­नि­त्य­त्वम् । तदुभयं न तुच्छस्य युक्तमित्यर्थः ।

वस्तुत्वाभावे धर्म­ध­र्मि­व्य­व­हा­रा­वि­ष­य­त्व­मि­त्यु­क्तम् । इदानीं तद्विषयत्वे वस्तुत्वं स्यादित्याह -
धर्मेति ॥ २४ ॥

संप्रत्यात्मनः स्थायित्वं, विशेषतः साधयति -
अनुस्मृतेश्चेति ।

सूत्रस्य वैना­शि­क­द­र्श­ना­नु­प­पत्तौ हेत्व­न्त­र­प­र­त्व­माह -
अपि चेति ।

तदेव वक्तुं पर­स्या­व­श्या­श्र­य­णी­य­म­र्थ­माह -
वैनाशिक इति ।

इष्टा­प­त्ति­मा­श­ङ्क्याह -
न चेति ।

उपलब्धुर्न क्षणिकता युक्तेत्यत्र हेतुमुक्त्वा व्याकरोति -
अन्विति ।

अनुशब्दस्य व्यव­च्छे­द्या­भा­वेऽपि स्मृत्यु­प­ल­ब्ध्यो­रे­क­क­र्तृ­क­त्वार्थं विशेषणमित्याह -
सा चेति ।

न केव­ल­मु­प­ल­ब्धि­स्मृ­त्यो­रे­वै­क­क­र्तृ­क­त्वम् , उप­ल­ब्ध्यो­र­पी­त्याह -
कथमिति ।

यस्तु सत्यपि भेदे सन्तानैक्यं स्मृति­प्र­यो­ज­क­मि­च्छति, तं प्रत्याह -
अपि चेति ।

पूर्वो­त्त­र­प्र­त्य­य­क­र्तृ­भे­देऽपि सन्ता­नै­क्या­दे­वं­विधा धीरि­त्या­श­ङ्क्याह -
यदि हीति ।
कर्तृभेदे स्मरा­म्य­ह­म­न्योऽ­द्रा­क्षी­दिति लोकस्य धीः स्यादित्यर्थः ।

ईदृश्येव धीरि­त्या­श­ङ्क्याह -
न त्विति ।

क्वचित्तादृश्या धियोऽ­नु­भ­व­सि­द्ध­त्व­मा­श­ङ्क्याह -
यत्रेति ।

कर्तृ­भे­दा­व­ग­ति­मु­दा­ह­रति -
स्मरामीति ।

क्वचि­त्त­यो­र्वि­भि­न्न­क­र्तृ­कत्वे दृष्टि­स्मृ­ति­त्वा­वि­शे­षा­द­ह­म­दोऽ­द्रा­क्ष­मि­त्य­त्रापि तयो­र्भि­न्न­क­र्तृ­क­त्व­म­नु­मे­य­मि­त्या­श­ङ्क्या­नु­भ­व­वि­रो­ध­माह -
इहेति ।

अव­ग­ति­म­न­व­ग­ति­व्यु­दा­सेन स्फोरयति -
न नेति ।
यदात्मनो दर्शनं पूर्वं निर्वृत्तं तदहं नाद्राक्षमिति न निह्नुते किं त्वनुमन्यते परोऽपीत्यर्थः ।

प्रत्य­क्ष­वि­रो­धा­द­नु­मा­ना­नु­दये दृष्टान्तमाह -
यथेति ।

एत­द्ध­ट­स्म­र्तै­त­द्ध­टा­नु­भ­वि­तै­त­द्ध­ट­ज्ञा­तृ­त्वा­त्स­म्प्र­ति­प­न्न­व्य­क्ति­व­दिति मत्वा फलितमाह -
तत्रेति ।
दर्शने स्मरणे चोक्तरीत्या कर्त्रैक्ये सतीति यावत् ।

दृष्टि­स्मृ­ति­क्ष­ण­द्व­य­व­र्ति­त्व­मे­क­स्या­स्मा­भि­रि­ष्यते, क्षणिकत्वं त्वाशु­त­र­वि­ना­शि­त्वा­दि­त्या­श­ङ्क्याह -
तथेति ।
स्वर­स­भ­ङ्गुं­र­त्व­व­दा­शु­त­र­वि­ना­शि­त्व­मपि भावानां प्रत्य­भि­ज्ञा­वि­रु­द्ध­मि­त्यर्थः ।

विरोधमेव स्फोरयति -
अनन्तरामिति ।
वर्त­मा­न­द­शा­मा­र­भ्यो­त्त­मा­दु­च्छ्वा­सा­दा­म­र­णा­द­न­न्तरां स्वस्यैव प्रति­प­त्ति­मा­त्मै­क­क­र्तृकां प्रत्यभिजानन् जन्मनश्च वर्त­मा­न­द­शा­प­र्य­न्त­म­तीताः प्रतीपत्तीः स्वकीयाः स्वमा­त्र­क­र्तृकाः प्रतिसन्दधानः सन्निति योजना ।

आत्मनि प्रत्यभिज्ञानं ज्वालादाविव सादृश्यकृता भ्रान्तिरिति शङ्कते -
स इति ।

एकस्य पूर्वो­त्त­र­क्ष­ण­द्व­य­त­त्सा­दृ­श्य­दृ­शोऽ­सत्त्वं सत्त्वं वेति विकल्पयति -
तमिति ।

असत्त्वं प्रत्याह -
तेनेति ।

सत्त्वमनूद्य निराह -
स्याच्चेदिति ।

तेनेदं सदृशमित्ययं विकल्पप्रत्ययः, स च स्वाकारं बाह्य­त­याऽ­ध्य­स्यति, तत्त्वतस्तु पूर्वापरौ क्षणौ तयोः सादृश्यं वा न गृह्णाति, तत्कथमेकस्य द्रष्टुः स्थायितेति शङ्कते -
तेनेति ।

वस्तु­द्व­य­प्र­त्य­या­द­न्य­त्व­धिया सादृ­श्य­प्र­त्य­य­स्या­न्त­र­शब्दः । तथापि तत्र वस्तु­द्व­य­प्र­त्य­यस्य निमि­त्त­त्वा­दे­केन क्षण­त्र­य­स्था­यिना भाव्यमित्याह -
नेति ।

तेनेदं सदृशमिति ज्ञाने तत्ते­द­न्ता­व­च्छि­न्ना­वर्थौ तयोः सादृश्यं च किं न भासते । भासमाना वा विज्ञा­न­स्या­का­रा­स्त­स्मा­ज्ज्ञा­ना­द्भिन्ना न वा । ज्ञानाकारत्वे ज्ञानमेकमनेकं वा । तत्राद्ये स्वसंवेदनविरोधः स्यादित्याह -
तेनेति ।

भासमानानां त्रयाणां ज्ञानाकारत्वे तस्य चैक्ये व्याघातः, एक­स्या­ने­का­का­र­त्वा­यो­गात् , आकारभेदे च तद्भेदात् । नच ज्ञानानेकत्वम् , एकज्ञानेन हि नाना­प­दा­र्थो­ल्लेखे नानेत्युल्लेखो न ज्ञानभेदः । परि­शे­षा­ज्ज्ञा­ना­द्भि­न्नोऽ­र्थ­स्तस्य च नानाकारस्य तत्ते­द­न्ता­स्प­दस्य तत्सादृश्यस्य च परामर्शः स्थायिन्यात्मनि सति स्यादिति मत्वोक्तमेव व्यनक्ति -
प्रत्य­या­न्त­र­मिति ।

ननु नार्थस्य ज्ञाने भानमवजानीमहे, येन प्रतीतिं विरुध्येमहि, किन्तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति । न च प्रती­ति­ता­व­न्मात्रे, अर्थस्य ज्ञानेऽ­ध्य­स्त­त्वात् , ततश्च न ज्ञानस्यैकस्य नाना­र्था­का­र­त्व­कृतो व्याघातः, न च बाह्यर्थावगमः, तत्राह -
यदेति ।
कल्पितोऽपि विज्ञा­नेऽ­र्था­का­र­स्त­स्मा­द्भि­न्नोऽ­भिन्नो वेति वक्तव्यम् , अनि­र्वा­च्य­त्वा­न­ङ्गी­का­रात् । भिन्नत्वे ज्ञाना­न्त­र­व­द­क­ल्पि­त­त्वम् । तथाच तेनेदमिति सदृशमिति च भाता­ना­म­र्था­ना­मे­क­ज्ञा­ना­भे­दो­प­गमे मिथोऽप्यभेदः स्यात् , तत­श्चा­न्यो­न्य­भे­देन पदार्था लोकसिद्धा निह्नूयेरन् । ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽपि निह्नूयेत, तदपह्नवे च स्वप­क्ष­सा­ध­न­प­र­प­क्षा­क्षे­पा­सिद्धिः । विक­ल्प­प्र­ति­भा­सिनां नित्य­त्वा­दी­ना­मे­का­र्थ­नि­ष्ठ­त्वा­भा­वा­दे­का­धि­क­र­ण­वि­प्र­ति­षि­द्ध­ध­र्म­द्व­यो­प­ग­म­रू­प­वि­प्र­ति­प­त्ते­र­स­म्भ­वा­दिति भावः ।

तत्ते­द­न्ता­दि­रर्थो ज्ञानस्यान्तर आकार इति मतं बाह्या­र्थ­वा­द­दू­ष­ण­म­ध्येऽपि प्रस­ङ्गा­दा­शङ्क्य निरस्तम् । इदानीमस्ति बाह्योऽर्थः, स तु क्षणिको निर्विकल्पके चकास्ति । सवि­क­ल्प­क­प्र­त्य­यास्तु विक­ल्पा­स्त­द्ग­त­सा­दृ­श्या­द्या­का­रेण निर्भासन्ते, तेन विप्र­ति­प­त्त्या­दि­व्य­व­हा­र­सि­द्धि­रिति बाह्या­र्थ­वा­द­मा­शङ्क्य निरस्यति -
एवमिति ।
न हि बाह्यस्यार्थस्य क्षणिकत्वं, प्रमाणाभावात् । न तावत्प्रत्यक्षं वर्त­मा­न­म­र्थ­म­व­गा­ह­मानं तस्या­व­र्त­मा­न­व्या­वृत्तिं गमयति । तद्धि वर्त­मा­न­ता­वि­शि­ष्टस्य तदै­वा­न्य­व्या­वृत्तिं गमयेदन्यदा वा । प्रथमे नास्म­त्प­क्ष­क्षतिः, एक­स्या­प­र्या­ये­णा­ने­क­का­ल­क­लि­त­त्वा­न­भ्यु­प­ग­मात् । न द्वितीयः, विरोधमन्तरेण काला­न्त­री­य­स­त्त्व­व्य­व­च्छे­द­क­त्वा­नु­प­पत्तेः । नापि यत्स­त्त­त्क्ष­णिकं, यथा दीपः सन्तश्च भावा इत्यनुमानं क्षणिकत्वसाधकं, दृष्टान्तस्य साध्यविकलत्वात् । तस्य नाशित्वेऽपि विव­क्षि­त­क्ष­णि­क­त्वा­भा­वात् । तस्मा­द­नि­श्चि­ता­र्थ­वा­दिनो विप्र­ल­म्भ­क­त्वान्न प्रति­वा­दि­ते­त्यर्थः ।

आत्मनि प्रत्यभिज्ञा सादृ­श्या­दि­त्यत्र हेत्वन्तरमाह -
न चेति ।

प्रत्यभिज्ञाया विप­र्या­सा­ख्य­म­प्रा­माण्यं निरस्य संशयाख्यमपि तन्निरस्यति -
भवेदिति ।

संश­य­सा­म­ग्री­स­त्त्वा­वस्था कदाचिदित्युक्ता । सम्भवो नाना­का­र­त्वो­प­पत्तिः । सन्दे­होऽ­पी­त्य­पिना विपर्यासो दृष्टान्तितः । तत्र सन्देहायोगे हेतुमाह -
य इति ।

प्रत्य­भि­ज्ञ­या­त्मनः स्थायित्वे फलितमाह -
तस्मादिति ॥ २५ ॥

कार­णा­भा­वा­त्का­र्यो­त्प­त्ति­रिति पक्षमवशिष्टं निराचष्टे -
नासत इति ।

परमतायोगे हेत्वन्तरपरत्वं सूत्रस्य दर्शयति -
इतश्चेति ।

तदेव स्फोरयति -
यत इति ।

अस्थि­रा­त्का­र­णा­त्का­र्यो­त्प­त्ति­मि­च्छ­ता­म­भा­वा­द्भा­वो­त्प­त्ति­र्ब­ला­दा­प­त­ती­त्येव न किन्तु स्वयमपि वैना­शि­का­स्त­थो­प­य­न्ती­त्याह -
दर्शयन्तीति ।

तद्व्याचष्टे -
विनष्टादिति ।
हिश­ब्द­स्त­दि­च्छा­याम् । स्वानिच्छायां किलकारः ।

विन­ष्टा­द्बी­जा­दे­र­ङ्कु­रा­दि­ज­न्मे­त्यत्र युक्तिमाह -
कूटस्थादिति ।
कारणं समर्थमसमर्थं वा । यद्यसमर्थं न कदाचिदपि कार्यं कुर्यात् । आद्ये समर्थस्य क्षेपा­यो­गा­द­प­र्या­ये­णा­शेषं कार्यं जनयेत् , तत­श्चो­त्त­र­क्ष­णेऽ­र्थ­क्रि­या­भा­वा­द­स­त्त्वम् । नच समर्थमपि सह­का­रि­सं­नि­धि­म­पेक्ष्य जनकं, सहकारिणा वस्तु­नोऽ­ति­श­य­ज­नने तस्य समर्थत्वे सदा तज्जननात् , असमर्थत्वे कदाचिदपि तज्जन्मायोगात् , सहकारिणोऽपि सह­का­र्य­न्त­रा­पे­क्षा­या­म­न­व­स्था­नात् , वस्तु­न­श्चा­ति­श­यस्य भेदे तस्यैव प्राप्ता­प्रा­प्त­वि­वे­केन जनकतया वस्त­न­स्त­द­सिद्धिः । अभेदे तस्यैव जन्यतया क्षणिकस्य जनकत्वापत्तिः । अतिशयानाधाने सहकार्यपेक्षैव न स्यादित्यर्थः ।

कूटस्थस्य कारणत्वदौस्थ्ये फलितमाह -
तस्मादिति ।

परमतनिरासित्वेन सूत्रमवतार्य व्याचष्टे -
तत्रेति ।

तदेव व्यतिरेकद्वारा साधयति -
यदीति ।

बीजा­द्य­भा­वे­भ्योऽ­ङ्कु­रा­द्यु­त्प­त्ते­स्त­द­भा­व­सि­द्धये कार­ण­वि­शे­षो­पा­दा­न­मि­त्या­श­ङ्क्याह -
न हीति ।

किञ्चा­भा­व­का­र­ण­वा­दिना तस्य निर्विशेषत्वं सविशेषत्वं वेष्टम् । आद्यं दूषयति -
निर्विशेषस्येति ।
एतेन ‘नास­तोऽ­दृ­ष्ट­त्वात्’ इति व्याख्यातम् ।

द्वितीयमनूद्य निरस्यति -
यदीति ।

अभावस्य कार­ण­त्व­मु­पे­त्योक्तं, तदे­वा­यु­क्त­मि­त्याह -
नापीति ।

कार्य­स्व­भा­वा­लो­च­न­यापि नाभावस्य कारणतेत्याह -
अभावादिति ।
यद्येनानन्वितं न तत्तस्य कार्यं, यथा हेम्नाऽनन्वितो घटो न हेम्नो विकारः । अन­न्वि­ता­श्चा­भा­वेन भावा­स्त­स्मा­न्ना­भा­व­वि­कारा इत्यर्थः ।

किञ्च यद्येनान्वितं तत्तस्य कार्यं, यथा हेम्नान्वितं रुचकादि तत्कार्यम् । अन्विताश्च भावेन भाव­स्त­स्मा­त्त­द्वि­कारा इत्याह -
सर्वस्येति ।

भावा­न्वि­त­त्वेऽपि कार­ण­म­न्व­य्ये­वे­त्य­नि­य­मा­द­भा­वोऽपि कारणं किं न स्यादि­त्या­श­ङ्क्याह -
न चेति ।

आद्येऽनुमाने व्याप्ति­मुक्त्वा द्वितीयेऽपि तामाह -
मृदिति ।

अभा­व­का­र­ण­वा­दि­नो­क्त­म­नु­भा­षते -
यत्त्विति ।

स्थिरस्य कारणत्वं न दृश्यते न युज्यते वा । नाद्यः, अनुभवविरोधात् । न द्वितीयः, स्थिरस्यापि क्रम­व­त्स­ह­का­रि­व­शा­त्क्र­म­का­रि­त्वा­वि­रो­धात् । न च सह­का­रि­ज­न्या­ति­श­य­स्यैव कारणत्वं न स्थायि­न­स्त­थात्वं, भेदा­भे­दा­दि­भि­र­नि­र्व­च­नी­या­ति­श­य­वतो वस्तुनो लोक­सि­द्ध­का­र­ण­त्वा­नि­रा­क­र­णात् । न च सम­र्थ­त्वा­द­प­र्या­य­म­शे­ष­ज­न­कत्वं, तत्त­त्का­ली­न­का­र्य­ज­न्म­सा­म­र्थ्यो­प­ग­मात् । न च साम­र्थ्या­सा­म­र्थ्याभ्यां भावाभावभेदः । कार्य­भे­द­प्र­ति­यो­गि­क­श­क्त्य­श­क्ति­यु­क्त­क्ष­णि­क­भा­व­स्ये­वा­भे­द­सि­द्धे­रिति मत्वाह -
तदिति ।

यत्तु विनष्टाद्धीति, तत्राह -
येष्विति ।

अङ्कुरादिषु पार्थि­वा­दि­स्व­भा­वा­ना­मेव कारणत्वेऽपि बीजा­द्य­व­य­वा­ना­मिति पर­म­ते­नो­क्त­मु­क्तेऽर्थे सूत्रं योजयन्नुपसंहरति -
तस्मादिति ।

स्वाभ्यु­प­ग­म­वि­रो­धा­दपि नाभा­वा­द्भा­वो­त्प­त्ति­रि­त्याह -
अपि चेति ॥ २६ ॥

अभावकारणत्वे कार­ण­वि­शे­षो­पा­दाने प्रवृ­त्ति­र­यु­क्ते­त्यु­क्तम् । इदानीं प्रवृ­त्ति­मा­त्र­मपि न युक्तमित्याह -
उदासीनानामिति ।

सूत्रं विभजते -
यदीति ।

अभाववादे सर्व­लौ­कि­क­व्य­व­हा­रा­सि­द्धि­मु­दा­ह­र­णै­र्द­र्श­यति -
कृषीति ।

पार­लौ­कि­क­व्य­व­हा­रोऽपि परमते न स्यादित्याह -
स्वर्गेति ।

उभ­य­वि­ध­व्य­व­हा­रा­स­त्त्व­प्र­स­ङ्ग­स्ये­ष्टत्वं प्रत्याचष्टे -
न चेति ।

सूत्र­द्व­या­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ २७ ॥

विज्ञानस्य क्षणिकेनार्थेन सालम्बनत्वं निराकृत्य निरालम्बनत्वं निरा­क­र्तुं­मा­र­भते -
नाभाव इति ।

रूपादिहीनं ब्रह्म जगदुपादानमिति वदतः समन्वयस्य क्षणिकं ज्ञानं नीलाद्याकारमिति योगा­चा­र­म­त­वि­रो­धोऽस्ति न वेति तत्प्रा­मा­णि­क­त्व­भ्रा­न्त­त्वाभ्यां सन्देहे सङ्गतिगर्भं पूर्व­प­क्ष­म­व­ता­र­यति -
एवमिति ।

विज्ञानवादस्य भ्रान्तिमूलतया समन्वयस्य तदविरोधोक्तेः सङ्गतयः । पूर्वपक्षे विज्ञानवादस्य प्रामा­णि­क­त्वा­त्त­द्वि­रोधे समन्वयासिद्धिः, सिद्धान्तेऽस्य भ्रान्त­त्वा­त्त­द्वि­रो­ध­स्या­भा­स­त्वा­त्त­त्सि­द्धि­रिति फलभेदः । बाह्यार्थवादिषु प्रत्युक्तेषु समानन्यायतया विज्ञा­न­वा­दि­नोऽपि प्रत्यु­क्ति­स­म्भ­वा­त्कथं पृथ­गु­त्था­न­मि­त्या­शङ्क्य तेभ्यो विज्ञा­न­मा­त्र­वा­दिनः सुग­ता­भि­प्रा­य­त्वेन विशेषमाह -
केषाञ्चिदिति ।
हीनधियामिति यावत् ।

बाह्येऽर्थे सुग­त­स्या­नि­च्छायां किलकारः । ‘देशना लोकनाथानां सत्त्वा­श­य­व­शा­नुगाः’ इति न्यायेनाह -
तदिति ।

कस्तर्हि तस्याभिप्रायः, तत्राह -
तस्येति ।

ननु मान­मे­या­दि­भे­दो­प­गमे कथं विज्ञा­न­मा­त्र­वा­दोऽ­न्यथा कथं व्यवहारसिद्धिः, तत्राह -
तस्मिन्निति ।
ज्ञानमेव कल्पि­त­नी­ला­द्या­का­र­तया मेयमवभासात्मतया फलं तच्छक्त्यात्मना मानं तदाश्रयतया मातेति विज्ञानवादेऽपि कल्पि­त­मा­ना­दि­भे­द­मु­पेत्य सर्व­व्य­व­हा­र­सि­द्धि­रि­त्यर्थः ।

किञ्चा­र्थ­सा­रू­प्या­त्मना मानमवभासात्मना फलमिति सौत्रान्तिकाः । अन­व­भा­स­व्या­वृत्त्या फलं तच्छक्त्या मानमिति वैभाषिकाः । तेन तयो­र्बा­ह्य­म­र्थ­मि­च्छ­तो­रपि कल्पितो भेदः क्षणिकस्यात्मनो द्वय­का­ला­न­व­स्था­नात् । तद्युक्तं विज्ञानवादे कल्पितभेदेनैव सर्व­व्य­व­हा­र­सा­ध­न­मि­त्याह -
सतीति ।

उक्तमर्थं युक्त्या द्रढयितुं पृच्छति -
कथमिति ।

विमतं न ज्ञानातिरिक्तं, तद­ति­रे­के­णा­नि­रू­प्य­त्वात् , नरविषाणवदित्याह -
तदिति ।

तत्रा­सि­द्धि­मु­द्धर्तुं विकल्पयति -
स हीति ।

एक­स्थू­ल­नी­ला­भा­स­ज्ञा­नस्य तद्वि­प­री­त­प­र­मा­णु­गो­च­र­ता­यो­गान्न पर­मा­ण­व­स्ता­व­त्त­दा­ल­म्ब­न­मि­त्याह -
तत्रेति ।

द्वितीयं प्रत्याह -
नापीति ।

स्तम्भा­द्य­व­य­विनां परमाणुभ्यो भेदे गवा­श्व­व­द­त्य­न्त­वै­ल­क्ष­ण्यम् , अभेदे परमाणुमात्रतया स्थूल­रू­पे­णा­व­भा­सा­सिद्धिः, पर­मा­णू­ना­म­त­था­त्वा­दि­त्याह -
तेषामिति ।

अवयवावयविरूपो बाह्यार्थो नास्ति चेन्मा भूत् , जाति­व्य­क्त्या­दि­रू­पस्तु स्यादि­त्या­श­ङ्क्याह -
एवमिति ।
जात्यादीनां व्यक्त्यादीनां चात्य­न्त­भि­न्नत्वे स्वात­न्त्र्य­प्र­स­ङ्गा­द­त्य­न्ता­भि­न्नत्वे तद्व­दे­वा­त­द्भा­वा­द्भि­न्ना­भि­न्न­त्वस्य विरु­द्ध­त्वा­द­व­य­वा­व­य­वि­भे­द­व­ज्जा­ति­व्य­क्त्या­दिे­भे­दोऽपि नास्तीत्यर्थः ।

दृष्टस्य सर्वस्य विचा­रा­स­ह­त्वा­द­दृ­ष्ट­सत्त्वे मानाभावान्न बाह्यालम्बनाः प्रत्यया इत्युक्तम् । सम्प्रति तेषां बाह्या­ना­ल­म्ब­नत्वे हेत्वन्तरमाह -
अपि चेति ।
ज्ञान­ग­त­वि­शे­ष­दृ­ष्ट्य­नु­प­पत्त्या नीलाद्याकारता तस्य सिद्धा, तथा च ज्ञानाकारस्यैव विष­य­त्वा­द्व्यर्था बाह्यार्थकल्पना गौरवादित्यर्थः ।

इतश्च ज्ञेयं ज्ञाना­न्ना­न्य­दि­त्याह -
अपि चेति ।
यद्येन नियतसहोपलम्भनं तत्तेनाभिन्नं, यथैकेन चन्द्रमसा द्विती­य­श्च­न्द्रमाः, नियतसहोपलम्भनं च ज्ञेयं ज्ञानेनेत्यर्थः ।

सहोपलम्भनियममेव स्फोरयति -
न हीति ।

ज्ञानज्ञेययोः स्वभावभेदेऽपि ग्राह्य­ग्र­ह­क­त्वा­न्नि­यमः स्यादि­त्या­श­ङ्क्याह -
न चेति ।
क्षणिकस्य ज्ञानस्य ज्ञेयसम्बन्धे हेत्व­भा­वा­द्ग्रा­ह्य­ग्रा­ह­क­त्वे­नो­क्त­नि­य­मा­सि­द्धि­रि­त्यर्थः ।

‘सहो­प­ल­म्भ­नि­य­मा­द­भेदो नीलतद्धियोः । भेदश्च भ्रान्ति­वि­ज्ञा­नै­र्दृ­श्ये­ते­न्दा­वि­वा­द्वये ‘ इत्यु­क्त­मु­प­सं­ह­रति -
तस्मादिति ।

यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्ना­दि­प्र­त्ययः तथा चैष विमतः प्रत्यय इत्याह -
स्वप्नेति ।

दृष्टान्तस्य साध्यवैकल्यं परिहरति -
यथेति ।

निर्देशमनुमानं निगमयति -
एवमिति ।

प्रत्य­य­वै­चि­त्र्या­नु­प­प­त्ति­रू­पा­र्था­प­त्ति­बा­धि­त­म­नु­मा­न­मिति शङ्कते -
कथमिति ।

अना­दि­स­न्त­ति­प­ति­त­म­सं­वि­दि­त­रूपं ज्ञानमेव वासना तद्व­शा­द­ने­क­व्य­व­धा­ने­नापि नीलादिवासितमेव ज्ञानमुत्पद्यते कार्पा­स­र­क्त­ता­व­दि­त्य­न्य­थो­प­प­त्ति­माह -
वासनेति ।

वास­ना­वै­चि­त्र्या­ज्ज्ञा­न­वै­चित्र्यं ततश्च तद्वै­चि­त्र्य­मि­त्य­न्यो­न्या­श्र­य­त्व­मा­श­ङ्क्याह -
अनादौ हीति ।

अन्व­य­व्य­ति­रे­का­भ्या­मपि वास­ना­वै­चि­त्र्य­मेव ज्ञान­वै­चि­त्र्य­हे­तु­र्ना­र्थ­वै­चि­त्र्य­मि­त्याह -
अपि चेति ।

पूर्वा­नु­भ­व­वा­स­ना­भा­वेऽ­प्य­पू­र्वा­र्थ­सं­नि­धाने ज्ञान­वै­चि­त्र्य­द­र्श­ना­द­न्व­य­व्य­ति­रे­का­सि­द्धि­रि­त्या­श­ङ्क्याह -
स्वप्नेति ।

अन्वयमुक्त्वा व्यतिरेकमाह -
अन्तरेणेति ।

ज्ञाना­ति­रि­क्त­ज्ञे­य­स्यो­क्त­रीत्या विचा­रा­स­ह­त्वा­त्क्ष­णि­क­ज्ञा­न­मा­त्र­वा­दस्य प्रामा­णि­क­त्वा­द­र्था­न्नि­त्य­ज्ञा­ना­द्ब्र­ह्यणो जगत्सर्गवादिनः समन्वयस्य विरो­धोऽ­स्ती­त्यु­प­सं­ह­रति -
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्राक्षराणि व्याचष्टे -
नेति ।

उपलभ्यमानमपि शुक्ति­र­ज­ता­दि­व­न्मि­थ्ये­त्या­श­ङ्क्या­बा­धा­न्मै­व­मि­त्याह -
न चेति ।

उप­ल­ब्धि­रे­वा­सि­द्धे­त्या­शङ्क्य सर्व­थाऽ­नु­प­ल­ब्धिर्वा ज्ञाना­ति­रि­क्त­त्वेन वेति विकल्प्याद्ये दोषमाह -
यथेति ।

द्वितीयमवलम्बते -
नन्विति ।

प्रका­श्य­प्र­का­श­क­यो­र्द्र­व­क­ठि­न­व­द्वि­रु­द्ध­यो­र्भे­द­स्या­ध्य­क्ष­त्वा­त्त­द्बा­धि­त­म­भे­द­व­च­न­मि­त्याह -
बाढमिति ।
निरङ्कुशत्वं नियामकराहित्यम् ।

परो­क्ते­र­यु­क्त­त्व­मेव साधयति -
यत इति ।

किं तद्बलं व्यति­रि­क्तो­प­ल­ब्धि­रि­त्याह -
उपलब्धेरिति ।

हेतुमेव स्फुटयति -
न हीति ।
उपलब्धिर्हि साक्षिणा बाह्य­वि­ष­य­त्वे­नैव गृह्यते नोप­ल­ब्धि­मा­त्र­त्वे­ने­त्यर्थः ।

भवद्वचनादपि बाह्यमर्थं लौकिका भेदेनैव प्रतियन्तीत्याह -
अतश्चेति ।

कथं यथोक्तं वाक्यं व्यति­रे­को­प­ल­ब्धि­सा­ध­क­मि­त्या­श­ङ्‌क्याह -
तेऽपीति ।

सर्व­लो­क­प्र­सि­द्ध­बा­ह्या­र्थ­धी­प्र­ति­लम्भे हेतुमाह -
इतरथेति ।

अत्यन्तासतोऽपि बाह्यार्थस्य दृष्टा­न्त­त्व­मा­श­ङ्क्याह -
न हीति ।

अबा­धि­त­व्य­ति­रे­को­प­लब्धौ वत्क­र­ण­म­यु­क्त­मिति फलितमाह -
तस्मादिति ।

अनुमानतो बाधाद्युक्तं वत्करणमिति शङ्कते -
नन्विति ।

अनु­मा­न­स्या­बा­धि­त­वि­ष­य­तापि हेतुः, प्रत्यक्षविरोधे तदभावान्न तस्य बाधकतेत्याह -
नायमिति ।
प्रमाणपूर्वकः सम्भ­वोऽ­र्थ­ज्ञाने तद­भा­व­पू­र्व­क­श्चा­स­म्भवो नरविषाणे निश्चितः । बाह्यर्थे च प्रत्य­क्षा­दि­स­म्भ­वा­द­स­म्भ­वा­धी­न­स्त­द­स­त्त्वा­ध्य­व­सायो न युक्त इत्यर्थः ।

सम्भवपूर्विका प्रमा­ण­प्र­वृ­त्ति­र­स­म्भ­व­पू­र्विका तदप्रवृत्तिरिति वैप­री­त्य­मा­श­ङ्क्या­न्यो­न्या­श्र­य­त्वा­न्मै­व­मि­त्याह -
नेति ।

सम्भाविते प्रमा­ण­मि­त्यु­प­ग­म­स्तर्हि कथ­मि­त्या­श­ङ्क्यात्र सम्भ­वा­स­म्भ­व­यो­र्नि­श्च­य­त­द­भा­व­त्वा­द­न्यत्र सम्भावनायाः सन्दे­ह­त्वा­न्ना­नु­प­प­त्ति­रि­त्याह -
यद्धीति ।

बाह्य­र्थ­स्या­ध्य­क्षा­दि­सि­द्ध­त्वेऽपि तस्यावयवादिभ्यो व्यति­रे­का­दि­वि­क­ल्पा­स­ह­त्वान्न सम्भा­व­ने­त्या­श­ङ्क्याह -
इहेति ।
बाह्या­र्थ­स्या­यु­क्त­त्व­म­दृ­ष्टत्वं वा । नाद्योऽ­ङ्गी­का­रात् । नेतरो दृष्टिविरोधात् । तस्मा­दि­द­न्ता­स्पदं ज्ञानाद्भिन्नं बाह्यं वस्तु सिद्धमित्यर्थः ।

यत्तु प्रत्यर्थं ज्ञानस्य व्यवस्थायै विषयसारूप्ये तेनैव विष­या­का­र­स्या­व­रु­द्ध­त्वान्न पृथ­ग­र्थ­क­ल्प­नेति, तत्राह -
न चेति ।

यत्तु कल्पनागौरवमिति, तत्राह -
बहिरिति ।
प्रामाणिकी कल्पना न दुष्यतीत्यर्थः ।

यत्तु ‘सहो­प­ल­म्भ­नि­य­मा­द­भेदो नीलतद्धियोः’ इति, तत्र सहोपलम्भः साहि­त्ये­नो­प­लम्भो वा स्यादेकोपलभ्भो वा । प्रथमे साध्य­सा­ध­न­यो­र्व्या­घातः, साहित्यस्य भेद­व्या­प्त­त्वात् । द्वितीये त्वेक­त्वे­नो­प­ल­ब्धिर्वा स्यादे­कै­वो­प­ल­ब्धिर्वा । नाद्यः, असिद्धेः । नहि बहि­रु­प­ल­भ्य­मा­न­स्या­र्थ­स्यो­प­लब्ध्या सहै­क­त्वे­नो­प­लब्धिः । न द्वितीयः, साक्षि­वे­द्य­त्वा­द्ध­टा­द्यु­प­ल­ब्धे­र्घ­टा­देश्च तद्वि­ष­य­त्वा­द­सि­द्धि­ता­द­व­स्थ्या­दि­त्या­श­ये­ना­न्य­था­सि­द्धि­माह -
अत इति ।
भेदस्य प्रत्य­क्ष­त्वा­दिति यावत् ।

परकीयानुमानानां प्रत्य­नु­मा­न­वि­रो­ध­माह -
अपि चेति ।

न विशेष्यस्येति ।
प्रत्य­भि­ज्ञा­ना­दै­क्य­सि­द्धे­रि­त्यर्थः ।

विशेषणभेदेऽपि विशेष्यभेदो नेत्यत्र दृष्टान्तमाह -
यथेति ।

तथापि कथं ज्ञानार्थभेदः, तत्राह -
द्वाभ्यामिति ।
विम­त­म­ने­क­स्मा­द्भि­न्नम् , एकत्वात् , गोत्ववदित्यर्थः ।

विम­त­मे­क­स्मा­द­न्यत् , अनेकत्वात् , संमतवदित्याह -
एकस्माच्चेति ।

अनुमानद्वयफलं परानुमाने साध्यासिद्धिमाह -
तस्मादिति ।

अर्थभेदेऽपि ज्ञाना­भे­दा­त्त­यो­र्भे­द­मुक्त्वा ज्ञेयाभेदेऽपि विज्ञा­न­भे­द­दृ­ष्टेश्च तयो­र्भि­न्न­ते­त्याह -
तथेति ।
यथा घटज्ञानं पटज्ञानमित्यत्र ज्ञेयभेदेऽपि ज्ञाना­भे­दा­त्त­यो­र्भि­न्नत्वं तथाऽत्रापि ज्ञानभेदे ज्ञेयै­क्य­दृष्ट्या तद्भि­न्न­त्व­धी­रि­त्यर्थः ।