अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

तदेव प्रकटयति -
अत्रापीति ।
अनुमानद्वयं पूर्ववत् ।

स्वरूपापेक्षया ज्ञानस्याभेदेन नित्यत्वं वृत्त्यु­प­धा­ना­पे­क्षया चानि­त्य­त्व­मि­त्य­वि­रोधः । इतश्च ज्ञाना­ति­रि­क्तोऽ­र्थोऽ­स्ती­त्याह -
अपि चेति ।

हेत्वन्तरमेव वक्तुं स्वरू­प­मा­त्र­निष्ठं ज्ञानं त्वन्मते ज्ञाना­न्त­र­वा­र्ता­न­भि­ज्ञ­मि­त्याह -
द्वयोरिति ।

ज्ञान­यो­र­न्यो­न्य­ग्रा­ह­क­त्वा­भा­वेऽपि कथ­म­ति­रि­क्ता­र्थ­धी­रि­त्या­श­ङ्क्याह -
ततश्चेति ।
इद­म­स्मा­द्भि­न्न­मिति धर्मि­प्र­ति­यो­ग्य­व­च्छिन्नो भेदो भाति, ज्ञानस्यैव धर्मित्वे प्रतियोगित्वे च तेन द्वयो­र­ग्र­हा­द्भे­द­प्र­तिज्ञा ते न युक्ता । तेन तदुपपत्तये ज्ञाना­र्थ­यो­र्भि­न्न­ते­त्यर्थः ।

किञ्च क्षणिकत्वं शून्य­त्व­म­ना­त्म­त्व­मि­त्या­दि­ध­र्म­प्र­ति­ज्ञापि ते हीयेत, अने­क­प्र­ति­ज्ञा­हे­तु­दृ­ष्टा­न्त­ज्ञा­न­भे­द­सा­ध्य­त्वात् , तस्य च मिथो­वा­र्ता­न­भि­ज्ञ­त्वा­त्ततो भिन्नं ज्ञेयमित्याह -
क्षणिकत्वादीति ।

स्वमसाधारणं सर्वतो व्यावृत्तं लक्षणं स्वलक्षणं तदपि येभ्यो व्यावृत्तं यच्च व्यावृत्तं तद­ने­क­ज्ञा­ना­पेक्षं, ज्ञानं च ज्ञाना­न्त­र­वा­र्ता­न­भि­ज्ञ­मु­क्त­मतः स्वल­क्ष­ण­प्र­ति­ज्ञा­र्थ­मपि ज्ञानाद्भिन्नं ज्ञेयमित्याह -
स्वलक्षणेति ।

सामान्यलक्षणमपि विधि­रू­प­म­न्या­पो­ह­रूपं वा भव­त्य­ने­क­धी­साध्यं, नहि गोत्वं धर्मिणीनां प्रतियोगिनीनां वा व्यक्तीनामग्रहे गृह्यते, तेन तत्प्र­ति­ज्ञा­र्थ­मपि ज्ञान­ज्ञे­य­यो­र­न्य­त्व­मि­त्याह -
सामान्येति ।

पूर्व­ज्ञा­न­मु­त्त­र­ज्ञा­नस्य नीलाद्याकारेण वासकं, तच्च वास्यवासकत्वं त्वन्म­तेऽ­ने­क­धी­सा­ध्यम् , अत­स्त­त्प्र­ति­ज्ञा­र्थ­मपि ज्ञान­ज्ञे­य­यो­र­न्य­त्व­मि­त्याह -
वास्येति ।

अवि­द्यो­प­प्ल­वोऽ­वि­द्या­सं­स­र्ग­स्तेन नीलमिति सद्धर्मो नर­वि­षा­ण­मि­त्य­स­द्ध­र्मोऽ­मू­र्त­मि­त्यु­भ­य­ध­र्म­स्त­त्प्र­ति­ज्ञापि बहु­ज्ञा­न­सा­ध्य­त्वा­दु­क्त­भे­दा­वे­दि­के­त्याह -
अविद्येति ।

बन्धप्रतिज्ञा च यो बध्यते यतश्च बध्यते तद­ने­क­धी­सा­ध्य­त्वा­दु­क्त­भे­द­हे­तु­रि­त्याह -
बन्धेति ।

मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते तद­ने­क­ज्ञा­न­सा­ध्य­त्वा­द्भे­द­सा­ध­न­मि­त्याह -
मोक्षेति ।
यच्च किञ्चि­त्प्र­ति­पा­द­यितुं प्रत्याख्यातुं वा प्रतिज्ञायते तत्प्रतिज्ञापि प्रति­पा­द­यि­तृ­प्र­ति­पा­द्या­द्य­ने­क­धी­सा­ध्य­त्वा­दि­ष्ट­भे­द­हे­तु­रि­त्या­दि­प­दम् ।

एता हि प्रतिज्ञाः सौगतमते दृष्टा ज्ञान­ज्ञे­य­भे­दा­नु­प­गमे विहताः स्युः, तस्मात्तदर्थं ज्ञान­ज्ञे­या­न्य­त्व­मा­व­श्य­क­मि­त्याह -
प्रतिज्ञाश्चेति ।

ज्ञानातिरिक्तं ज्ञेय­मा­व­श्य­क­मि­त्य­त्रा­न्यच्च कारणमस्तीत्याह -
किञ्चेति ।

तदेव वदन्विज्ञानेन तुल्यत्वं विज्ञेयस्य कथयति -
विज्ञानमिति ।

व्यव­हा­र­द­शा­या­म­बा­धि­ता­स­न्दि­ग्ध­भा­न­त्वा­ज्ज्ञानं शक्य­मु­प­ग­न्तु­मिति शङ्कते -
विज्ञानमिति ।

तथा भानस्यार्थेऽपि तुल्य­त्वा­त्त­दु­प­गमो बलादापततीत्याह -
बाह्योऽपीति ।

स्वसं­वे­द्य­त्वा­द्वि­ज्ञा­न­मि­ष्यते बाह्यर्थस्तु नैवमित्याह -
अथेति ।

अविरुद्धं लोकसिद्धं च हित्वा विरुद्धमलौकिकं चाभ्युपयता मौढ्यमेवात्मनो दर्शितं स्यादित्याह -
अत्यन्तेति ।

ज्ञानं स्वसंवेद्यमर्थो नैवमिति भेद­मु­पे­त्यो­क्तम् । इदानीं ज्ञानस्य न स्वसं­वे­द्य­ते­त्याह -
न चेति ।
स्वात्मनि कर्तरि कर्मत्वं गृहीत्वा क्रियास्वीकारे कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधा­न्य­मि­त्य­प­र्या­य­मे­कस्यां क्रिया­या­मे­क­स्यैव गुणत्वं प्राधान्यं चेति विरुद्धमापद्येत । तन्ना­र्थ­व­ज्ज्ञा­न­मपि स्वसं­वे­द्य­मि­त्यर्थः ।

कथं ते ज्ञानसिद्धिः कर्मत्वातिरेकेण कर्मतया वा । नाद्यः, धीकर्मतया सिद्धस्यैव सिद्ध­त्वा­भि­धा­नात् । न द्वितीयः, ज्ञाना­न्त­र­क­र्म­त्वेऽ­न­व­स्था­ना­त्त­त्प­रि­हा­रार्थं स्वकर्मतयैव तत्सि­द्धि­ध्रौ­व्या­दिति शङ्कते -
नन्विति ।

इतश्च ज्ञानस्य न ज्ञाना­न्त­र­क­र्म­त्व­मि­त्याह -
अपि चेति ।

विमतं न स्वावा­न्त­र­जा­ती­य­प्र­काश्यं, प्रकाशत्वात् , दीपवदित्याह -
प्रदीपवदिति ।

ज्ञानान्तरं कल्पयतः कल्प­ना­न­र्थ­क्य­मिति सम्बन्धः । तत्र हेतुः -
समत्वादिति ।

अन­व­स्था­प्र­स­क्ति­र­नु­मानं चेत्युभयमपि न साधकमिति दूषयति -
तदिति ।

तत्रा­न­व­स्था­प्र­स­क्ते­र­सत्त्वं साधयति -
विज्ञानेति ।
यदि बुद्धि­वृ­त्ति­ग्र­हा­व­स्था­या­मेव तत्साक्षिणो ग्रहाकाङ्क्षा तदानवस्था, नतु सास्ति साक्षिणः स्वयं­सि­द्ध­त्वा­दि­त्यर्थः ।

अनुमानं सिद्धसाध्यत्वेन निरस्यति -
साक्षीति ।

यत्प्रकाशते तदन्येन प्रकाशते, यथा ज्ञानार्थौ, प्रकाशते च साक्षीति न धीसा­क्षि­णो­र्वै­ल­क्ष­ण्य­मि­त्या­श­ङ्क्याह -
स्वयमिति ।
सदै­वा­स­न्दि­ग्धा­वि­प­र्य­स्तस्य साक्षिणो नित्य­सा­क्षा­त्का­र­त्व­म­ना­ग­न्तु­क­प्र­का­शत्वे सिध्यति, तेन तत्प्र­त्या­ख्या­ना­यो­गा­द­नु­मा­नस्य सिद्धा सिद्ध­सा­ध्य­ते­त्यर्थः ।

इतश्च साक्षिणो न प्रत्या­ख्या­न­मि­त्याह -
किञ्चेति ।

यथा दीपो दीपान्तरं नापेक्षते तथा ज्ञानमपि ज्ञाना­न्त­रा­न­पे­क्ष­मिति वदता मानागम्यं तदुक्तं स्यात् , स्वसंवेद्यत्वे कर्म­क­र्तृ­त्व­वि­रो­धा­द­न्य­वे­द्य­त्व­स्या­नि­ष्ट­त्वात् । स्वयमेव प्रथते तदिति ब्रुवता निःसाक्षिकं तदुक्तं स्यात् । तथा­चो­त्प­न्न­स्यापि तस्या­नु­त्प­न्न­स­म­त्वा­त्त­त्प्र­का­श­क­साक्षी न शक्योऽ­प­ह्नो­तु­मि­त्याह -
प्रदीपवदिति ।

प्रका­श­मा­न­स्या­प्रा­मा­णि­क­त्व­म­न­व­ग­न्तृ­कत्वं वा दूष­ण­मि­त्या­शङ्क्य दृष्टान्तमाह -
शिलेति ।

ज्ञान­स्यै­वा­व­ग­न्तृ­क­त्वा­न्ना­न्या­पे­क्षेति शङ्कते -
बाढमिति ।

ज्ञानं स्वाति­रि­क्त­वेद्यं, वेद्यत्वात् , दीप­व­दि­त्य­नु­मा­नान्न तस्य प्रमातृतेत्याह -
नेति ।
दर्शनादित्यन्तं व्याप्तिवचनम् । अतो विज्ञा­न­स्ये­त्या­द्य­नु­मा­नो­क्ति­रिति भेदः ।

साक्षिस्थाने मदिष्टं ज्ञानमेवास्तु ततो नास्ति विमतिरिति शङ्कते -
साक्षिण इति ।

ज्ञान­स्यो­त्प­त्त्या­दि­म­त्त्वा­त्त­त्सा­ध­केन भाव्यं, क्रियात्वाच्च छिदि­व­त्क­र्त्रा­श्र­य­त्व­मि­त्य­ति­रि­क्त­ज्ञा­तृ­त्व­सि­द्धि­रि­त्याह -
नेति ।

साक्षि­ज्ञा­न­यो­र्वै­ल­क्षण्ये फलितमाह -
अत इति ॥ २८ ॥

ज्ञानस्यापि ज्ञेय­व­द­न्य­वे­द्य­त्वा­ज्ज्ञा­न­सत्ता चेज्ज्ञे­य­स­त्तापि दुर्वा­रे­त्यु­क्तम् । इदानीं निरा­ल­म्ब­न­त्वा­नु­मा­नं­प्र­त्याह -
वैधर्म्याच्चेति ।

तद्व्याख्यातुं व्याव­र्त्य­म­नु­व­दति -
यदिति ।

तस्य निरा­स­यो­ग्य­त्व­माह -
तदिति ।

कथं तर्हि तन्निराकरणं, तत्र सूत्रमादाय व्याकरोति -
अत्रेति ।

मिथ्या­त्वा­वि­शे­षा­द­सिद्धं वैधर्म्यमित्याह -
किमिति ।

तत्र साध्यं निरालम्बनत्वं सर्व­थै­वा­ल­म्ब­न­शू­न्यत्वं वा वास्त­व­स­दा­ल­म्ब­न­वै­धुर्यं वा व्याव­हा­रि­क­स­दा­ल­म्ब­न­ही­नत्वं वा । आद्ये दृष्टान्तस्य साध्यविकलता, तत्रापि काल्प­नि­का­ल­म्ब­न­व­त्त्वो­प­ग­मात् । द्वितीये सिद्धसाध्यता । तृतीये बाध्यत्वस्य प्रयो­ज­क­त्वा­त्प्र­त्य­य­त्व­म­प्र­यो­ज­क­मि­त्याह -
बाधेति ।

स्वप्नादिधियां व्याव­हा­रि­क­स­दा­ल­म्ब­न­ही­नत्वे बाध्यत्वं प्रयो­ज­क­मि­त्युक्तं प्रकटयति -
बाध्यते हीति ।

बाधमेवाभिनयति -
मिथ्येति ।

तस्य मिथ्यात्वे कथं प्रथे­त्या­श­ङ्क्याह -
न हीति ।
निद्राग्लानमिति करणदोषोक्तिः ।

मायादिषु बाध्य­त्वा­भा­वेऽपि व्याव­हा­रि­क­स­दा­ल­म्ब­न­शू­न्य­त्वा­दु­पाधेः साध्या­व्या­प्ति­रि­त्या­श­ङ्क्याह -
एवमिति ।

साधनव्याप्तिं निराह -
नैवमिति ।

परमतेन स्वप्नस्य स्मृति­त्व­मु­पेत्य सूत्रं विधान्तरेण योजयति -
अपि चेति ।

तथापि कथं वैधर्म्यं, तदाह -
स्मृतीति ।

किं तद्वैलक्षण्यं, तदाह -
अर्थेति ।

स्मृते­र­र्थ­वि­प्र­यो­ग­मु­दा­ह­रति -
इष्टमिति ।

स्वप्न­जा­ग­र­यो­रेवं वैधर्म्येऽपि किम­नु­मा­न­स्ये­त्या­श­ङ्क्याह -
तत्रेति ।
उक्तनीत्या तस्मि­न्वै­धर्म्ये स्थिते सतीति यावत् । अप्र­मा­क­र­ण­ज­त्वो­पा­धेर्न निरा­ल­म्ब­न­त्वा­नु­मा­न­मि­त्यर्थः ।

उभ­यो­र­न्त­र­म­सि­द्ध­मि­त्या­श­ङ्क्या­नु­भ­व­वि­रो­धा­न्मै­व­मि­त्याह -
न चेति ।

इतश्च न निरा­ल­म्ब­न­त्वा­नु­मा­न­मि­त्याह -
अपि चेति ।

स्वतो जागरितधियां निरा­ल­म्ब­न­त्वोक्तौ दृष्टिविरोधे तन्नि­रा­सा­र्थ­म­नु­मा­न­मु­च्यते, तस्मिन्नक्तेऽपि तद्वि­रो­ध­ता­द­व­स्थ्य­मिति काला­त्य­या­प­दि­ष्ट­त्व­माह -
अनुभवेति ।

तद्विरोधेन स्वतो निरा­ल­म्ब­न­त्वा­भा­वेऽपि स्वप्न­सा­ध­र्म्या­त्त­द्भ­वि­ष्य­ती­त्या­श­ङ्क्याह -
न चेति ।

स्वतोऽसतो धर्म­स्य­न्य­सा­ध­र्म्या­दपि सत्त्वाभावे दृष्टान्तमाह -
न हीति ।

वैध­र्म्य­मुक्त्वा साधर्म्यं वदतो विरोधमाशङ्क्याह -
दर्शितं त्विति ॥ २९ ॥

चोद्यान्तरं निरसितुं सूत्रम् -
न भाव इति ।

तद्याकर्तुं चोद्यमनूद्य तस्य निरा­स­यो­ग्य­त्व­माह -
यदपीति ।

तन्निरासमेव सूत्रमवतार्य तदक्षरयोजनया दर्शयति -
अत्रेति ।

तेषा­म­नु­प­ल­ब्धा­वपि वासनानां भावे काऽनुपपत्तिः, तत्राह -
अर्थेति ।

निमि­त्ता­न्त­रा­दपि तासां योगा­द­ल­म­र्थो­प­ल­ब्ध्ये­त्या­श­ङ्क्याह -
अनुपलभ्येति ।

पूर्व­पू­र्व­ज्ञानं तत्सन्तानो वा वासना, तेनानादित्वान्न निमि­त्ता­पे­क्षे­त्या­श­ङ्क्याह -
अनादित्वेऽपीति ।
पूर्व­स्म­द्बी­जा­दि­दा­नी­मु­त्प­द्य­मा­न­म­ङ्कुरं दृष्ट­मि­त्य­दृ­ष्टेऽपि तज्जातीययोरेव कार्यकारणत्वं युक्तं, प्रकृते त्वर्थो­प­ल­ब्धि­नि­र­पे­क्ष­वा­स­नो­द­या­दृ­ष्टे­रा­दा­वेव तस्य कल्प्य­त्वा­द­न­व­स्था­ना­न्ना­भी­ष्ट­धी­वै­चि­त्र्य­धी­रि­त्यर्थः ।

स्वप्ना­दा­व­र्थ­धियं विनापि वासनाकृतं धीवैचित्र्यं दृष्ट­मि­त्यु­क्त­मा­श­ङ्क्या­नु­व­दति -
याविति ।

तत्रापि बाह्या­र्थ­धी­नि­मि­त्त­त्व­मस्ति वास­ना­ना­मि­त्यु­क्त­न्या­येन स्थिते नान्व­या­दि­सि­द्धि­रि­त्याह -
ताविति ।

प्रत्यु­क्ति­प्र­कारं सूचयति -
विनेति ।

इत­श्चा­न्व­या­द्य­सि­द्धि­रि­त्याह -
अपि चेति ।

अपू­र्वा­र्थ­दृ­ष्टा­वृ­तेऽपि वासनां धीवै­चि­त्र्य­दृ­ष्टेर्न क्वापि वास­ना­वै­चि­त्र्य­कृतं धीवै­चि­त्र्य­म­तोऽ­न्व­य­व्य­ति­रे­का­व­स्म­द­नु­गु­णा­वि­त्याह -
विनापीति ।

वास­ना­स­त्त्व­मु­पेत्य तद्वै­चि­त्र्यान्न धीवै­चि­त्र्य­मि­त्यु­क्तम् । इदानीं त्वन्मते न तत्स­त्त्व­मे­वे­त्याह -
अपि चेति ।

तदेव दर्शयितुं वासनास्वरूपमाह -
वासनेति ।

उक्तलक्षणानामपि वास­ना­ना­म­स्म­त्पक्षे कानुपपत्तिः, तत्राह -
संस्काराश्चेति ।

तेषां कश्चिदाश्रयोऽपि स्यादि­त्या­शङ्क्य विधान्तरेण सूत्रं योजयति -
न चेति ॥ ३० ॥

आलयज्ञानं वासनाधारः स्यादि­त्या­श­ङ्क्याह -
क्षणि­क­त्वा­च्चेति ।

सूत्रं व्याचष्टे -
यदपीति ।
विमतं न वास­ना­धा­र­त्व­योग्यं, क्षणिकत्वात् रूपा­दि­धी­व­दि­त्यर्थः ।

क्षणिकत्वेऽपि सन्तत्या स्थिरमालयज्ञानं सर्व­व्य­व­हा­रा­स्पदं स्यादि­त्या­श­ङ्क्याह -
न हीति ।
यद्येकः स्थायी कूटस्थो वा सर्वार्थदर्शी नेष्यते तदा देशाद्यपेक्षया वासनाधानं तदधीने स्मृति­प्र­त्य­भिज्ञे प्रत्य­क्षा­दि­व्य­व­हा­रश्च न सम्भवति, सन्ता­न­स्या­व­स्तुनो वास­ना­द्या­श्र­य­त्वा­यो­गा­दि­त्यर्थः ।

व्यव­हा­र­नि­र्वा­हा­र्थ­मा­ल­य­ज्ञा­नस्य स्थायित्वं चेत् , तत्राह -
स्थिरेति ।

क्षणि­क­त्व­सू­त्रस्य व्याख्या­ना­न्त­र­माह -
अपि चेति ।

मत­द्व­य­नि­रा­स­मु­प­सं­ह­रति -
एवमिति ।

ज्ञानज्ञेययोः सत्त्वे­ना­नि­रू­प­णा­त्प्र­ती­त­स्या­स­त्त्वा­यो­गा­द्वि­रो­धा­देव सद­स­त्त्व­यो­रे­क­त्रा­सि­द्धे­र­नि­र्वा­च्य­त्वस्य चैक­नि­षे­धेऽ­न्य­त­र­वि­धि­ध्रौ­व्या­द­स­म्भ­वा­द्वि­चा­रा­स­ह­त्व­मे­वास्तु वस्तूनां तत्त्व­मि­त्या­श­ङ्क्याह -
शून्येति ।
नादरः क्रियते सूत्रान्तराणि न रच्यन्त एता­न्ये­वा­वृत्त्या योज्यन्ते तन्निरासायेति यावत ।

तत्र ज्ञाना­र्थ­यो­र­भावः शून्यत्वं न युक्तं, प्रमा­णै­स्त­यो­रु­प­ल­ब्धे­रि­त्या­द्य­सू­त्रार्थ उक्तः । इदा­नी­म­ता­त्त्वि­कत्वं द्वैतस्य स्थाप­यि­तु­म­धि­ष्ठाने वस्तुनि वाच्ये तस्य त्वन्मते न भावो मान­तोऽ­नु­प­ल­ब्धे­स्तन्न शून्यतेति च वदन् ‘न भावोऽनुपलब्धेः’ इति सूत्रं योजयति -
न हीति ।
नच स्वप्नादाविव जागरेऽपि ज्ञाना­र्थ­यो­र­सत्त्वं, वस्तु­त­स्त­द­स­त्त्वेऽपि व्यव­हा­र­त­स्त­द­यो­गा­द्बा­धा­बा­धाभ्यां वैध­र्म्या­त्प्र­ती­ति­स्त­द­स­त्त्वस्य दृष्टा­न्तेऽ­प्य­सं­म­ते­रिति वैधर्म्यसूत्रं नेयम् । ‘क्षणिकत्वाच्च’ इति सूत्रम् ‘उपदेशाच्च’ इत्युपस्कृत्य क्षणि­क­त्व­शू­न्य­त्वो­प­दे­शा­द्व्या­ह­त­व्य­व­हा­रता सुगतस्येति योज्यम् ॥ ३१ ॥

वर्ण­क­द्व­या­र्थ­मु­प­सं­ह­रति -
सर्वथेति ।

उपसंहारसूत्रं विभजते -
किमिति ।

यथायथेति ।
ग्रन्थ­तोऽ­र्थ­त­श्चे­त्यर्थः ।

दर्शनमिति वा स्थानमिति वा वाच्ये पश्य­ना­ति­ष्ठ­ने­त्य­ल­क्ष­ण­प­द­प्र­यो­गा­द्ग्र­न्थ­त­स्ता­व­न्नो­प­पत्तिः । अर्थतश्च नैरा­त्म्य­मु­पे­त्या­ल­य­ज्ञानं सर्व­व्य­व­हा­रा­स्प­द­मि­त्यु­प­ग­मा­त्प्र­सि­द्धै­वा­नु­प­प­त्ति­रि­त्यु­पेत्य फलितमाह -
अतश्चेति ।

सौग­त­म­त­स्या­नु­प­प­न्नत्वे हेत्वन्तरं चकारसूचितमाह -
अपि चेति ।

वस्तुनि विक­ल्पा­नु­प­प­त्ते­र्वि­रो­धाच्च समु­च्च­या­सि­द्धि­रिति वक्तु­मि­त­रे­त­र­वि­रु­द्ध­मि­त्यु­क्तम् । सर्वज्ञस्य भगवतो वासु­दे­व­स्ये­ति­हा­स­पु­रा­ण­यो­र्बु­द्ध­त्व­प्र­सि­द्धे­स्त­स्या­स­म्ब­द्ध­प्र­ला­पि­त्व­म­यु­क्त­मि­त्या­श­ङ्क्याह -
प्रद्वेषो वेति ।
वैदि­क­प­थ­वि­रु­द्ध­ज­न्तू­प­ल­क्ष­णार्थं प्रजाग्रहणम् ।

चतुर्धापि सुगतमतस्य वैदि­कै­र­ना­द­र­णी­य­त्वान्न तद्विरोधो नित्य­स­च्चि­दा­त्मनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्येति निगमयति -
सर्वथापीति ॥ ३२ ॥

एवं मुक्तकच्छमते निरस्ते मुक्ताम्बराणां बुद्धि­स्थ­त्वा­त्त­न्मतं निरस्यति -
नैकस्मिन्निति ।

एक­रू­पा­द्ब्र­ह्मणो जगत्सर्गं वदन्समन्वयो विषयः । स किं सर्व­म­नै­का­न्ति­क­मिति मतेन विरुध्यते न वेति तत्प्रा­मा­णि­क­त्व­भ्रा­न्त­त्वाभ्यां सन्देहे सङ्गतिमाह -
निरस्त इति ।
सम­य­मा­त्र­सि­द्ध­प­ञ्च­स्क­न्धा­दि­प­दा­र्था­श्रि­त­न्या­या­भासे निरस्ते पञ्चा­स्ति­का­या­दि­सा­म­यि­क­प­दा­र्था­श्रि­त­न्या­या­भा­स­स­न्दृब्धे मते बुद्धिस्थे तन्निरसनं युक्तमित्यर्थः ।

एक­रू­प­ब्र­ह्म­स­म­न्व­य­वि­रो­ध्य­नै­का­न्त­वा­द­भ­ङ्गेन सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे तन्म­त­प्रा­मा­ण्या­त्त­द्वि­रोधे समन्वयासिद्धिः, सिद्धान्ते तद­प्रा­मा­ण्या­द्भ्रा­न्तेन तेन विरोधस्याभासतया तत्सि­द्धि­रि­त्य­भि­स­न्धाय पूर्वपक्षयति -
सप्त चेति ।
जीवाजीवौ भौक्तृभोग्यौ, मिथ्या­प्र­वृ­त्ति­रा­स्रवः, संवरनिर्जरौ सम्य­क्प्र­वृत्ती, बन्ध­स्त­द्धे­तु­त्वा­त्कर्म, मोक्ष­स्त­दु­च्छि­त्ति­रिति पदार्थाः सप्तेत्यर्थः ।

ननु भोक्तृ­भो­ग्य­यो­रि­त­रे­षा­म­न्त­र्भा­वा­त्कथं सप्तेत्युक्तं, लक्ष­ण­भे­दा­द­वा­न्त­र­ल­क्ष्य­भेदे सप्तेति न व्यवस्था, तत्राह -
सङ्क्षे­प­त­स्त्विति ।

नियमहेतुमाह -
यथेति ।
आस्रवादीनामजीवे मोक्षस्य पक्ष­भे­दा­दु­भ­य­त्रा­न्त­र्भाव इति विभागः ।

सङ्क्षे­प­वि­स्त­रा­भ्या­मु­क्त­प­दा­र्थेषु विस्तरान्तरमाह -
तयोरिति ।
अस्तीति कायते शब्द्यत इत्य­स्ति­का­य­शब्दः पारिभाषिकः पदार्थवाची । जीव­श्चा­सा­व­स्ति­का­य­श्चेति कर्मधारयः । पूर्यन्ते गलन्तीति पुद्गलाः पर­मा­ण­व­स्त­त्स­मू­होऽत्र पृथि­व्या­दि­रुक्तः । कर्मधारयः सर्वत्र । धर्मास्तिकायः सम्य­क्प्र­वृ­त्त्य­नु­मेयः । शास्त्री­य­बा­ह्य­प्र­वृ­त्त्या­न्त­रोऽ­पू­र्वाख्यो धर्मोऽनुमीयते । अधर्मास्तिकायः स्थित्यनुमेयः । ऊर्ध्वगमनशीलो जीवस्तस्य देहेऽ­व­स्था­ने­ना­ध­र्मोऽ­नु­मी­यते । आका­शा­स्ति­का­य­स्त्वा­व­र­णा­भावः ।

उक्त­प­दा­र्था­ना­म­वा­न्त­र­भे­द­माह -
सर्वेषामिति ।

तेषां मान­यु­क्ति­ही­नत्वं सूचयति -
स्वसमयेति ।

जीवा­स्ति­का­य­स्त्रेधा - बद्धो मुक्तो नित्यसिद्धश्च । तत्रा­र्ह­न्मु­नि­र्नि­त्य­सिद्धः । इतरे केचि­त्सा­ध­नै­र्मुक्ताः । अन्ये बद्धा इति भेदः । पुद्गलास्तिकायः षोढा । पृथि­व्या­दि­च­त्वारि भूतानि स्थावरं जङ्गमं चेति । प्रवृ­त्ति­स्थि­ति­भ्या­म­नु­मेयौ धर्मा­ध­र्मा­स्ति­का­या­वुक्तौ । आकाशास्तिकायो द्वेधा - लौकि­का­का­शोऽ­लौ­कि­का­का­शश्च । लोका­ना­म­न्त­र्वर्ती लोकाकाशः । तदुपरि मोक्ष­स्था­न­म­लो­का­काशः । आस्त्रवो मिथ्या­प्र­वृ­त्ति­रुक्ता । आस्त्रवयति पुरुषं ज्ञानजननेन विषयेष्विति नाना­वि­धे­न्द्रि­य­प्र­वृ­त्ति­रा­स्रव इत्येके । अपरे तु कर्ता­र­म­भि­व्याप्य स्रव­न्त्या­ग­च्छ­न्तीति कर्मा­ण्या­स्र­व­मा­च­क्षते । सम्यक्प्रवृत्ती संवरनिर्जरौ । तत्रा­स्र­व­स्रो­तो­द्वारं संवृणोतीति संवरः शमादिप्रवृत्तिः । निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्ज­र­स्त­प्त­शि­ला­रो­ह­णा­व­रो­ह­णादिः । बन्धो बध्नातीति कर्म तच्चाष्टविधम् । तत्र घातिकर्म चतुर्विधं ज्ञानावरणीयं दर्शनावरणीयं मोह­नी­य­म­न्त­रा­य­मिति । सम्यग्ज्ञानं न मोक्षहेतुरिति ज्ञानं विज्ञानावरणीयम् । आर्ह­त­म­ता­भ्या­सान्न मुक्तिरिति ज्ञानं दर्शनावरणीयम् । बहुषु तीर्थ­क­र­द­र्शि­तेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् । सन्मो­क्ष­मा­र्ग­प्र­वृ­त्तानां तत्प्रत्यूहकरं ज्ञानमन्तरायम् । तान्येतानि श्रेयो­ह­न्तृ­त्वा­द्धा­ति­क­र्माणि वेदनीयं नामिकं गोत्रि­क­मा­यु­ष्क­मि­त्य­घा­ति­क­र्मापि चतुर्विधम् । ममेदं ज्ञात­व्य­म­स्ती­त्य­भि­मानो वेदनीयम् । एत­न्ना­मा­स्मी­त्य­भि­मानो नामिकम् । अस्य शिष्यवंशे पति­तोऽ­स्मी­त्य­भि­मानो गोत्रिकम् । शरी­र­या­त्रा­नि­मित्तं कर्मायुष्कम् । अथवा सक्रियस्य बीजस्य पाव­क­प­व­न­व­शा­दी­ष­द्ध­नी­भावः शरी­रा­का­र­प­रि­णा­म­हे­तु­र्वे­द­नी­यम् । तच्छक्तिमति तस्मिन्बीजे कल­ला­ख्य­द्र­वा­व­स्थायां बुद्बु­दा­व­स्थायां चार­म्भ­क­क्रि­या­वि­शेषो नामिकम् । बीजस्य शरी­रा­का­र­प­रि­णा­म­श­क्ति­र्गो­त्रि­कम् । शुक्र­शो­णि­त­व्य­ति­करे जाते मिलितं तदु­भ­य­रू­प­मा­यु­ष्कम् । तान्येतानि शुक्ल­पु­द्ग­ला­श्र­य­त्वा­द­घा­तीनि कर्माणि । तदे­त­त्क­र्मा­ष्टकं बध्नातीति बन्धः । यद्यपि पूर्वो­क्ता­स्र­वोऽपि बन्धस्तथापि बन्ध­हे­तु­त्वा­द­य­मपि बन्ध इति द्रष्टव्यम् । आर्ह­त­मु­नि­प्राप्तिः सन्त­तो­र्ध्व­ग­तिर्वा मुक्तिरित्यर्थः । तथापि कथं वस्तु सम­स्त­म­ने­का­न्त­मि­त्या­श­ङ्क्याह -
सर्वत्रेति ।
अस्ति­त्व­ना­स्ति­त्वा­दा­विति यावत् । सप्ता­ना­मे­का­न्त­भ­ङ्गानां समाहारः सप्तभङ्गी तस्या नयः । घटः सन् घटोऽ­स­न्नि­त्ये­क­स्यैव सद­स­त्त्व­यो­र­ध्य­क्ष­त्वा­त्का­ल­भे­दो­पा­धि­क­ल्प­नायां कालस्यापि सन्नसन्निति प्रत्य­या­त्त­त्रापि तत्क­ल्प­ना­या­म­न­व­स्था­ना­त्प्र­त्य­क्ष­मेव वस्तू­ना­म­नै­का­न्त्य­मिति भावः ।

वस्तू­ना­मे­का­न्त­त्व­भङ्गाः सप्त कथं कदा च प्रस­र­न्ती­त्य­पे­क्षा­या­माह -
स्यादिति ।
स्याच्छ­ब्द­स्ति­ङ­न्त­प्र­ति­रू­पको निपा­तोऽ­ने­का­न्त­द्योती । तेन स्यादस्ति कथ­ञ्चि­द­स्ती­त्यर्थः । तथोत्तरत्रापि योजना । उक्तं हि - ‘तद्वि­धा­न­वि­व­क्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते क्रमे­णो­भ­य­वी­क्षायां प्रयोगः समुदायवान् । युग­प­त्त­द्वि­व­क्षायां स्याद­वा­च्य­म­श­क्तितः । आद्याऽ­वा­च्य­वि­व­क्षायां पञ्चमो भङ्ग इष्यते । अन्त्या­वा­च्य­वि­व­क्षायां षष्ठ­भ­ङ्ग­स­मु­द्भवः । समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते । ‘ इति ।

सत्त्वा­दा­वु­क्त­म­नै­का­न्ति­क­मे­क­त्वा­दा­व­ति­दि­शति -
एवमेवेति ।
यदि वस्तु सत्त्वा­दी­ना­मे­क­त­मेन व्यवस्थितं तदा तस्य सर्वथा सर्वदा सर्वत्र सर्वात्मना नियमे तदी­प्सा­जि­हा­साभ्यां प्रवृ­त्ति­नि­वृ­त्त्य­यो­गा­द­प्र­वृ­त्ति­नि­वृत्ति विश्वं स्यात् । अनैकान्तिकत्वे तु कस्य­चि­त्क­थ­ञ्चि­त्के­न­चि­द­व­स्थाने हानोपादाने प्रेक्षावतां प्रकल्प्येते, तस्मा­द­नै­का­न्तिकं सर्वमिति मतविरोधिसमन्वयो नेति भावः ।

पदार्थानां सत्त्वा­दि­व्य­वस्था वास्तवी व्यावहारिकी वा न सम्भवतीति विक­ल्प्या­द्य­म­ङ्गी­कृत्य द्वितीये व्यव­हा­र­वि­रो­ध­म­भि­प्रेत्य सिद्धान्तयति -
अत्रेति ।

व्यवहारतो वस्तुतो वा नानै­का­न्ति­क­त्व­मु­प­गन्तुं शक्यमिति प्रति­ज्ञा­प­र­त्वेन नञ्पदं व्याचष्टे -
नायमिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

हेतुं विभजते -
न हीति ।
एकत्र विरु­द्ध­ध­र्म­स­मा­वे­शा­स­म्भ­वा­द­नै­का­न्ति­क­त्वस्य द्विधा­प्य­यो­गा­दै­का­न्ति­क­त्वस्य च घटादिषु तत्त्व­तोऽ­यो­गेऽपि व्यवस्थयैव दृष्ट­व्य­व­हा­र­दृ­ष्टे­र्व्या­व­हा­रि­क­त्व­सि­द्धे­र­यु­क्त­त्वा­द्दि­ग­म्ब­र­रा­द्धा­न्तस्य न तेन विरोधः सम­न्व­य­स्ये­त्यर्थः ।

विम­त­म­नै­का­न्तिकं, वस्तुत्वात् , नर­सिं­हा­दि­व­दि­त्या­शङ्क्य हेतो­र­नै­का­न्ति­क­त्व­माह -
य इति ।
सङ्क्षे­प­वि­स्त­रा­भ्या­मु­क्त­स­ङ्ख्या­व­त्त्व­मे­ता­व­त्त्वम् । एवं­रू­प­त्व­मु­क्ता­वा­न्त­र­भे­द­भा­क्त्वम् ।

ननूक्तं पदार्थेषु वस्तुत्वे सत्यपि तथैवान्यथैव वेति निय­मा­भा­वा­त्ते­ष्वपि तथैवान्यथा वेत्य­नि­र्धा­रि­त­ज्ञा­नो­प­ग­मे­ना­नै­का­न्ति­क­त्वा­वि­शे­षा­त्कुतो वस्तु­त्व­म­नै­का­न्तिकं, तत्राह -
इतरथेति ।

स्थाणुर्वा पुरुषो वेति ज्ञान­व­त्प­दा­र्थेषु सप्त­त्वा­दि­ज्ञा­न­स्या­प्रा­मा­ण्य­प्र­स­ङ्गा­द­सा­ध­क­त्व­मुक्तं परिहरन्नाशङ्कते -
नन्विति ।

अनेकात्मकं वस्त्विति ज्ञानस्य निर्धारितत्वे तत्रैव वस्तु­त्व­स्या­नै­का­न्त्या­न्नै­व­मिति दूषयति -
नेतीति ।

निर्धारणे दर्शितन्यायं निर्धा­र­यि­तृ­त­त्क­र­ण­त­त्प्र­मे­ये­ष्व­ति­दि­शति -
एवमिति ।
निर्धारणं फलं यस्य मानादेस्तत्तथा तस्येति यावत् । चकारेण तन्मेयं सप्तत्वादि गृहीतम् । इति­श­ब्दोऽ­नि­र्धा­र­णा­त्म­क­त­यैव स्यादित्यनेन सम्बध्यते ।

अस्मदीये सिद्धान्ते परै­र­प्या­पा­द्य­माने का तस्य हानि­रि­त्या­श­ङ्क्याह -
एवमिति ।

उप­दे­शा­नु­प­प­त्ति­मुक्त्वा प्रवृत्तिरपि मुमु­क्षू­णा­म­यु­क्ते­त्याह -
कथं वेति ।

अनिश्चयेऽपि कृष्यादाविव प्रवृ­त्ति­मा­श­ङ्क्या­मु­ष्मि­क­हेतौ निश्चयादृते न प्रवृ­त्ति­रि­त्याह -
ऐकान्तिकेति ।

निश्चयं विनापि सर्वज्ञोक्त्या प्रवृत्तिः स्यादि­त्या­श­ङ्क्या­नि­र्धा­रि­ता­र्थ­शा­स्त्र­कर्तुः सर्व­ज्ञ­त्वा­सं­म­ते­र्मै­व­मि­त्याह -
अतश्चेति ।

सप्त­प­दा­र्थ­नि­य­म­व­त्प­ञ्चा­स्ति­का­य­नि­य­मोऽपि नास्तीत्याह -
तथेति ।

पञ्च­त्व­स­ङ्ख्या­नि­य­मा­भावे फलितमाह -
इत्यत इति ।

किञ्च सङ्क्षिप्तानां प्रपञ्चितानां च पदार्थानां सर्वैर्वा शब्दैरवाच्यत्वं केनचिद्वेति विकल्प्य घटा­दे­स्त­च्छ­ब्द­वा­च्य­त्वेऽपि स्तम्भा­दि­श­ब्दा­वा­च्य­त्वा­दा­द्य­मु­पेत्य द्वितीयं प्रत्याह -
न चेति ।

काऽत्रा­नु­प­पत्तिः, तत्राह -
उच्यन्ते चेति ।

ननु सत्त्वादिरूपेण निर्धा­र­णा­भा­वा­दु­च्य­मा­ना­ना­मपि स्याद­व­क्त­व्य­तेति न व्याह­ति­रु­क्ते­र्नि­र्धा­र­ण­पू­र्व­क­त्वेऽपि तथै­वे­त्य­नि­र्धा­र­णा­द­व­क्त­व्य­त्व­सिद्धिः, तत्राह -
उच्यमानाश्चेति ।
चकारो विप्र­ति­षि­द्ध­मि­त्ये­त­द­नु­क­र्ष­णार्थः ।

सत्त्वा­द्य­नै­का­न्ति­क­त्वा­व­धा­रणं निराकृत्य तत्फलं सम्यग्दर्शनं तद्वि­प­री­त­म­स­म्य­ग्द­र्शनं चास्ति नास्ति वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीति प्रलपन्नाप्तो न स्यादित्याह -
तथेति ।

इत­श्चा­स­ङ्ग­त­मा­र्हतं मतमित्याह -
स्वर्गेति ।

किञ्चा­र्ह­न्नि­त्युक्तो नित्य­मु­क्तोऽ­ना­दि­सिद्धो जीवः कश्चि­द्धे­त्व­नु­ष्ठा­ना­न्मु­च्य­तेऽ­न्य­स्त­द­भा­वा­द्ब­ध्यत एवमार्हते मते निश्चि­त­स्व­भा­वा­ना­मेषां तथात्वमस्ति न वेति विकल्प्यमाने स्यादस्ति स्यान्ना­स्ती­त्य­व्य­व­स्थायां शास्त्रा­व­धृ­त­स्व­भा­व­त्वा­स­म्भ­वा­त्त­द­प्रा­मा­ण्य­प्र­स­क्ति­रि­त्याह -
अनादीति ।

सत्त्वा­स­त्त्व­यो­र­नै­का­न्ति­क­त्वा­योगं सोप­स्क­र­मु­प­सं­ह­रति -
एवमिति ।

एव­मे­वै­क­त्व­नि­त्य­त्वा­दि­ष्व­प्युक्तं प्रत्याह -
एतेनेति ।
सत्त्वा­स­त्त्व­यो­र­नै­का­न्तो­प­ग­ति­रि­रा­से­नेति यावत् ।

परमाणुभ्यः स्थाव­र­ज­ङ्ग­मा­त्मानः सङ्घाता भवन्तीति दिग­म्ब­रा­स्त­त्कि­मिति न निरस्यते, तत्राह -
यत्त्विति ॥ ३३ ॥

पूर्वो­क्त­दृ­ष्टा­न्तेन स्याद्वादे दोषान्तरं समुच्चिनोति -
एवं चेति ।

सूत्राक्षराणि व्याचष्टे -
यथेति ।

पर­म­त­व­द­स्म­न्म­तेऽपि न दोष­प्र­स­क्ति­रि­त्याह -
कथमिति ।

तत्प्रसङ्गार्थं परपक्षमाह -
शरीरेति ।

तत्र दोषं प्रसञ्जयति -
शरीरेति ।
आत्म­त्व­म­नि­त्य­वृत्ति, परि­च्छि­न्न­वृ­त्ति­त्वात् , घटवदिति प्रसङ्गार्थः ।

अकृत्स्नत्वेन सूचितं दोषान्तरमाह -
शरीराणां चेति ।
कर्मणो विपाकः स्वफलं जन­यि­तु­म­ङ्कु­री­भावः । कृत्स्नं हस्तिशरीरं न व्याप्नुयात् । तदेकदेशो जीवशून्यः स्यादित्यर्थः । पुत्तिकाशरीरे कृत्स्नो न संमीयेत । तस्मि­न्न­न­न्त­र्भू­त­स्ततो बहिरपि जीवः स्यादित्यर्थः ।

किञ्च कौमारे स्वल्पपरिमाणो जीवस्तारुण्ये स्थाविरे च न कृत्स्नं शरीरं व्याप्नु­या­दि­त्याह -
समान इति ।

यथा प्रदीपो घटप्रासादोदरे वर्तमानः सङ्को­च­वि­का­स­वा­नेवं जीवोऽपि पुत्ति­का­ह­स्ति­दे­ह­यो­रि­त्याह -
स्यादिति ।

दीपावयवानां विशरणशीलत्वात् , अवयविनश्च दीपस्य प्रति­क्ष­ण­मु­त्प­त्ति­नि­रो­ध­व­तोऽ­नि­त्य­त्वात् . नित्या­त्म­दृ­ष्टा­न्त­त्वा­सि­द्धि­रिति मत्वा विकल्पयति -
तेषामिति ।

आद्ये देहाद्बहिरपि जीवोपगतिरित्याह -
प्रतिघात इति ।

एका­व­य­व­दे­श­त्वेऽपि तथै­वा­व­य­वा­ना­म­व­स्था­न­नि­य­मा­भावे परिमाणनियमो नात्मनि स्यादिति द्वितीयं प्रत्याह -
अप्रतिघातेऽपीति ।

जीवा­व­य­वा­ना­मा­न­न्त्य­म­ङ्गी­कृ­त्योक्त्वा तदपि नास्तीत्याह -
अपि चेति ।
परि­मि­त­त्वा­दि­त्यर्थः ॥ ३४ ॥

बृह­त्त­नु­दे­हा­प्ता­व­व­य­वो­प­ग­मा­प­ग­माभ्यां जीवस्य देह­प­रि­मा­ण­ताऽ­वि­रु­द्धे­त्याह -
अथेति ।

चोद्योत्तरत्वेन सूत्रमादत्ते -
तत्रापीति ।

प्रतिज्ञां विभजते -
न चेति ।

प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

विकारप्रसङ्गं प्रकटयति -
अवयवेति ।

आत्मनः समु­द्रा­दि­व­द्वि­क्रि­या­व­त्त्व­मि­ष्ट­मि­त्या­श­ङ्क्याह -
विक्रियेति ।

अनि­त्य­त्व­प्र­स­ङ्ग­स्ये­ष्टत्वं निराह -
ततश्चेति ।

तदर्थं तदभ्युपगमं दर्शयति -
कर्मेति ।
न चात्म­नोऽ­नि­त्यत्वे युक्तोऽयमुपगमो बन्ध­मो­क्षा­न्व­यि­नोऽ­भा­वात् । नहि तौ स्वतन्त्रौ तद्भावे बन्ध­स्या­ना­दि­त्वा­न्मु­क्तस्य चाना­शि­त्वा­न्ना­नि­त्य­ते­त्यर्थः ।

आदि­श­ब्द­सू­चि­त­म­र्थ­माह -
किञ्चेति ।

यस्यात्मा साव­य­व­स्त­स्या­व­य­वा­ना­मा­त्म­त्वम् अवयविनो वा । आद्येऽपि किमागमापायिनां तेषामात्मत्वं तद्धीनस्य वा कस्य­चि­द­व­य­व­स्येति विकल्प्याद्यं प्रत्याह -
आगच्छतामिति ।

कल्पान्तरं परिशिष्टमादत्ते -
ततश्चेति ।

तस्य विशे­ष­तोऽ­प­रि­ज्ञा­ना­दा­त्म­ज्ञा­ना­भा­वा­द­प­व­र्गा­सि­द्धि­रि­त्याह -
न चेति ।

आद्ये कल्पे दोषान्तरमाह -
किञ्चेति ।

अव­य­व­प्रा­दु­र्भा­वा­पा­दा­नत्वं तद्विलयाधारत्वं च महाभूतानां वा व्यतिरिक्तस्य वा कस्यचिदिति विमृश्याद्यं प्रत्याह -
न हीति ।

द्वितीयेऽपि प्रति­जी­व­म­सा­धा­रणः सर्वसाधारणो वेति विकल्प्य दूषयति -
नापीति ।
तथा चात्म­ज्ञा­ना­भा­वा­द­मु­क्ति­रे­वे­त्यर्थः ।

अवयवानां नात्म­त्व­म­व­य­वि­नस्तु तथात्वमिति मतं प्रत्याह -
किञ्चेति ।
एवं सति आत्मनोऽवयवित्वे सतीति यावत् ।

तत्र हेतुमाह -
आगच्छतामिति ।

किञ्च प्रत्येकमवयवा न चेत­ये­र­न्ने­का­भि­प्रा­य­त्वा­नि­य­मात् । विरु­द्धा­भि­प्रा­य­तया विरु­द्ध­क्रि­य­त्वेन शरी­रो­न्म­थ­न­प्र­सङ्गः । न चावयवसमूहस्य चैतन्यं, तस्य भेदाभेदाभ्यां दुर्भणत्वादिति मत्वाऽह -
अत इति ।
प्रकारप्रकारिणौ पञ्च­मी­भ्या­मुक्तौ ।

प्रकारान्तरेण सूत्रमवतारयति -
अथवेति ।

तदेव दर्शयति -
पूर्वेणेति ।
आत्माऽ­का­र्त्स्न्य­सू­त्रेण प्रसञ्जितां तदनित्यतां सन्ताननित्यतया सुग­त­व­त्प­रि­ह­र्त­व्या­मा­श­ङ्क्येदं सूत्रमित्यर्थः । पर्यायेण शरी­र­व्य­क्ति­भेे­देन परि­मा­ण­स्या­त्म­नि­ष्ठ­स्यै­क­रू­प­स्या­न­व­स्था­ना­द­न­व­स्थि­त­प­रि­मा­ण­स्या­त्म­नोऽ­नि­त्यत्वे शङ्कितेऽपि स्रोतोरूपेण तत्परिमाणस्य च यः सन्तानस्तस्य नित्यतैव न्यायस्तेनेति यावत् ।

व्यक्ती­ना­म­नि­त्य­त्वेऽपि सन्ताननित्यत्वे दृष्टान्तः -
यथेति ।

सिग् वस्त्रं विगतं येभ्यस्ते विसिचो विवसनास्तेषामपि पुत्ति­का­दे­ह­ह­स्ति­दे­हा­दा­वा­त्म­प­रि­मा­ण­स्या­न­व­स्थि­त­त्वेऽपि तत्स­न्ता­न­नि­त्य­त्वे­ना­त्म­नि­त्य­त्व­मा­शङ्क्य सूत्रमित्याह -
तद्वदिति ।

तदेव विवृणोति -
सन्तानस्येति ।

पर्यायशब्देन क्रम­भा­वि­प­रि­मा­ण­गतः सन्तानो गृह्यते, तन्नित्यत्वादपि नात्मनित्यत्वम् । तस्य हि वस्तु­त्व­म­व­स्तुत्वं वा । द्वितीये राद्धा­न्त­वि­रो­ध­मुक्त्वा प्रथमं प्रत्याह -
वस्तुत्वेऽपीति ।
स हि सन्ता­नि­भ्योऽ­भिन्नो भिन्नो वा । अभेदे प्रतिदेहं परिमाणभेदानां सन्ता­नि­ना­म­न्य­था­त्वा­त्का­र्य­त्वे­ना­नि­त्य­त्वा­त्त­द­भि­न्न­स­न्ता­न­स्यापि तथात्वम् । भेदे तत्स­न्ता­न­त्वा­यो­गा­द्भि­न्न­त्वेन घटा­दि­व­द्वि­का­रा­दि­प्र­स­ङ्गा­दा­त्म­नि­त्यत्वं सन्ताननित्यतया यदुच्यते तस्या­नु­प­प­त्ति­रि­त्यर्थः । इतिशब्दः सूत्र­व्या­ख्या­स­मा­प्त्यर्थः ॥ ३५ ॥

इतोऽपि न जीवस्य क्रमे­णो­प­चि­ता­प­चि­त­प­रि­मा­ण­त्व­मि­त्याह -
अन्त्येति ।

सूत्रं व्याकरोति -
अपि चेति ।

यज्जीवपरिमाणं तन्नित्यमिति व्याप्तिभूमिमाह -
अन्त्यस्येति ।

सफलमनुमानमाह -
तद्वदिति ।

विमतं नित्यं, जीवपरिमाणत्वात् , संम­त­व­दि­त्य­नु­मा­ना­द­वि­शे­ष­प्र­सङ्गः सदा जीवस्येत्युक्तं प्रकटयति -
एकेति ।
उप­च­या­प­च­य­यो­र­ने­क­रू­प­ता­व्या­प्ते­रु­क्ता­नु­मा­न­वि­रो­धा­दि­त्यर्थः ।

पूर्व­म­व­स्थि­त­शब्दो नित्य­प­र­त्वे­नोक्तः, अवि­शे­ष­श्चै­क­श­री­र­प­रि­मा­णता, उभयोः परि­मा­ण­यो­र्नि­त्य­त्व­प्र­स­ङ्गा­दिति च हेतुः । इदानीं शरीरमन्तरेणैव मोक्षकालीनस्य परि­मा­ण­स्या­व­स्थि­त­त्वा­दु­भ­यो­रपि पूर्व­यो­र­व­स्थ­यो­र्दे­हा­पेक्षां विना जीव­स्या­व­स्थि­त­प­रि­मा­ण­त्व­स­म्भ­वान्न शरीरपरिमाणत्वं किं त्वविशेषेण तस्याप्यणुत्वं महत्त्वं वा स्यादिति व्याख्यान्तरमाह -
अथवेति ।
विमतो न देहपरिमाणः, आत्मत्वात् , मुक्तवदित्यर्थः ।

आत्मनो देह­प­रि­मा­ण­त्वा­योगे फलितमाह -
अतश्चेति ॥ २६ ॥

लुञ्चितकेशमतं निराकृत्य जटा­धा­रि­मा­हे­श्व­र­मतं निराचष्टे -
पत्युरिति ।

सत्त्वा­स­त्त्व­यो­रे­क­त्रा­यो­ग­व­द­धि­ष्ठा­तृ­त्वो­पा­दा­न­त्व­यो­रपि नैकत्र योगोऽ­स्ती­त्या­श­ङ्कय तात्पर्यमाह -
इदानीमिति ।

अवि­शे­षे­णे­श्व­र­का­र­ण­वा­दि­नि­षे­ध­भ्र­म­नि­वृ­त्त्य­र्थ­माह -
केवलेति ।

अवि­शे­षो­क्ते­री­श्व­र­का­र­ण­त्व­मे­वात्र निषिध्यते न तस्य निमि­त्त­त्व­मा­त्र­मिति शङ्कते -
तदिति ।

स्वोक्ति­वि­रो­धा­न्मै­व­मि­त्याह -
प्रकृतिश्चेति । न

केवलमीश्वरस्य कार­ण­त्व­मा­त्र­नि­षेधे प्रकृतिसूत्रं विरुध्यते किं त्वभि­ध्या­सू­त्र­म­पीति मत्वाह -
अभिध्येति ।

प्रति­ष्ठा­पि­त­त्वात् ।
उक्त­ता­त्प­र्य­धी­रिति शेषः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -
यदीति ।

सूत्रकृतो विरु­द्धा­र्थ­वा­दित्वं परिहर्तुं फलितमाह -
तस्मादिति ।

तन्निराकरणं किम­र्थ­मि­त्या­शङ्क्य ब्रह्मा­त्मै­कत्वं दृढी­क­र्तु­मि­त्याह -
वेदान्तेति ।

एतेनाधिकरणस्य फलमुक्तम् । अद्वि­ती­या­द्ब्र­ह्मणो जगत्सर्गं ब्रुवतः समन्वयस्य केव­ल­म­धि­ष्ठा­ते­श्वरो जगतो नोपादानमिति माहे­श्व­र­रा­द्धा­न्तेन विरोधोऽस्ति न वेति तत्प्रा­मा­णि­क­त्व­भ्रा­न्त­त्वाभ्यां सन्देहे पूर्वपक्षयति -
सा चेति ।
माहे­श्व­र­म­त­नि­रा­क­र­णेन सम­न्व­य­वि­ष­य­ब्र­ह्मा­त्मै­क्य­स्यात्र दृढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे तन्मतस्य प्रामा­णि­क­त्वा­त्त­द्वि­रोधे सम­न्व­या­सि­द्धे­र्ब्र­ह्मा­त्मै­क्या­सिद्धिः । सिद्धान्ते तस्य भ्रान्त­त्वा­त्त­द्वि­रो­ध­स्या­भा­सत्वे सम­न्व­य­सि­द्धे­रै­क्य­सिद्धिः ।

ईश्वरकल्पनाया बहुप्रकारत्वे हेतुं सूचयति -
वेदेति ।

ज्ञान­श­क्त्यै­श्व­र्यो­त्क­र्ष­ता­र­तम्यं क्वचि­द्वि­श्रान्तं, तरतमभावत्वात् , परि­णा­म­ता­र­त­म्य­व­दि­त्याह -
केचिदिति ।

प्रधीयत इति प्रधा­न­स्या­वि­द्या­त्वा­त्प्र­धा­न­पु­रु­षा­धि­ष्ठा­ते­श्व­रोऽ­स्मा­भि­रपि गृह्यते, तत्राह -
इतरेति ।

चत्वारो माहेश्वराः - शैवाः पाशुपताः कारु­णि­क­सि­द्धा­न्तिन कापालिकाश्च । ते सर्वे महे­श्व­र­प्र­णी­ता­ग­म­प्रा­मा­ण्या­त्के­वलं निमि­त्त­मी­श्व­र­मि­च्छ­न्ती­त्य़ाह -
माहे­श्व­रा­स्त्विति ।

कार्यं प्राधानिकं महदादि कारणं महेश्वरः, योगः समाधिः, विधि­स्त्रि­ष­व­ण­स्रा­नादिः, दुःखान्तो मोक्ष इति पञ्च पदार्थाः । ते किम­र्थ­मी­श्व­रे­णोक्ताः, तत्राह -
पश्विति ।
पशवो जीवास्तेषां पाशो बन्धनं तद्विमोक्षो दुःखा­न्त­स्त­द­र्थ­मिति यावत् ।

कुम्भ­का­रा­दे­र­धि­ष्ठा­तु­श्चे­त­नस्य कुम्भादिकार्ये निमि­त्त­त्व­मा­त्र­दृ­ष्टे­री­श्व­रोऽपि जगदधिष्ठाता निमित्तमेव नोपा­दा­न­मे­क­स्यो­भ­य­वि­रो­धा­दिति मत्वाऽह -
पशुपतिरिति ।

वैशे­षि­क­नै­या­यि­क­वि­व­स­न­सु­ग­त­म­तानि सूचयति -
तथेति ।

विम­त­मु­पा­दा­ना­द्य­प­रो­क्ष­ज्ञा­न­व­ज्जन्यं, कार्यत्वात् , घटवदिति वैशेषिकाः । कर्मफलं सम्प्र­दा­ना­द्य­भि­ज्ञ­प्र­दा­तृकं, कर्मफलत्वात् , सेवाफलवदिति नैयायिकदिगम्बरौ । सौगतास्तु साङ्ख्या­नु­मा­ने­नैव तट­स्थ­मी­श्व­र­मा­स्थिताः । एवं माहेश्वरमतस्य प्रामा­णि­क­त्वा­त्त­द्वि­रोधः समन्वयस्येति प्राप्ते सिद्धान्तमाह -
अत इति ।

पूर्वा­धि­क­र­णा­न्न­ञ्प­द­म­ध्या­हृत्य साङ्ख्य­यो­गा­श्र­ये­श्व­र­क­ल्प­ना­दू­ष­ण­त्वेन सूत्रं योजयति -
पत्युरिति ।

ईश्वरस्य निमि­त्त­त्व­मात्रे मानसिद्धे हेत्व­सि­द्धि­रि­त्याह -
किमिति ।

तस्य तन्मा­त्र­त्व­मा­ग­मा­न्मा­ना­न्त­राद्वा । नाद्यः, तस्यो­भ­य­का­र­ण­त्व­वा­दि­ताया दर्शितत्वात् । माना­न्त­र­म­प्य­नु­मा­न­म­र्था­प­त्तिर्वा । आद्ये चेतनस्य द्रव्यं प्रति निमि­त्त­त्व­मात्रं लोके दृष्टमिति तद्ब­ला­त्त­न्मा­त्र­मी­श्वरं वदतो वैषम्यकारिणो रागा­दि­म­त्त्व­दृ­ष्टे­स्त­दपि तस्मि­न्क­ल्प्य­ल­मि­त्य­सा­म­ञ्जस्यं स्यादित्याह -
हीनेति ।
आग­मा­दी­श्व­र­सिद्धौ न दृष्ट­म­नु­स­र्तव्यं, तस्य दृष्ट­सा­ध­र्म्या­द­प्र­वृत्तेः । अनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतीति भावः ।

ईश्वरो हि न स्वेच्छया विषमान्प्राणिनो विदधाति किन्तु तत्क­र्मा­पे­क्षया, तेन न तस्य रागा­दि­म­त्त्व­मिति शङ्कते -
प्राणीति ।

कर्मापेक्षया फलदातृत्वेऽपि कारु­णि­क­त्वा­दी­श्वरः शुभस्यैव फलं ददाति नाशुभस्येति किं न स्यादित्याह -
नेति ।

येन येनेश्वरः शुभेनाशुभेन वा प्रेर्यते तस्य फलं ददा­ती­त्या­शङ्‌क्य कर्मणा स प्रवर्त्यते तेन च कर्मे­त्य­न्यो­न्या­श्र­या­न्मै­व­मि­त्याह -
कर्मेति ।

अतीतेन कर्मणा प्रव­र्ति­त­स्ये­श्व­रस्य वर्तमाने कर्मणि फलदानाय प्रवृ­त्ति­रि­त्य­ना­दि­त्वा­त्प्र­व­र्त्य­प्र­व­र्त­क­त्वस्य कर्मे­श्व­र­यो­र्ना­न्यो­न्या­श्र­य­ते­त्याह -
नानादित्वादिति ।

स्यादेष परिहारो यद्यतीतं कर्म स्वात­न्त्र्ये­णे­श्वरं प्रवर्तयेत् , तत्तु नास्त्य­चे­त­न­त्वात् , अतस्तदपि पूर्व­क­र्म­प्र­व­र्ति­ते­श्व­र­प्रे­रि­त­मेव वर्तमाने कर्मणि तत्प्रेरकमिति कर्मे­श्व­र­यो­र्मि­थोऽ­पे­क्षायाः सार्व­त्रि­क­त्वा­द­ना­दि­त्व­स्या­प्रा­मा­णि­क­त्वा­न्मै­व­मि­त्याह -
नेति ।

कर्मापेक्षया वैष­म्य­हे­तु­त्वस्य निर्व­क्तु­म­श­क्य­त्वा­ल्लो­क­दृष्ट्या स्यादेव रागा­दि­म­त्त्व­मी­श्व­र­स्ये­त्यु­क्तम् । इदानीं परमतेनापि तस्य रागादिमत्त्वं स्यादित्याह -
अपि चेति ।
प्रव­र्त­क­त्व­लि­ङ्गका रागादिदोषा इति नैयायिकसमयः । ततश्च प्रव­र्त­क­त्वा­दे­वे­श्व­रस्य तद्व­त्त्व­मि­त्यर्थः

प्रव­र्त­क­त्व­दो­ष­व­त्त्व­यो­र्व्याप्तिं व्यनक्ति - ।
न हीति ।

कारुण्यादपि प्रवृत्तेर्नैवं व्याप्ति­रि­त्या­श­ङ्क्याह -
स्वार्थेति ।
कारुण्ये सति स्वस्य दुःखं भवति, तेन कारुणिकोऽपि स्वदुः­ख­नि­वृ­त्तये परार्थेऽपि प्रवर्तत इत्यर्थः ।

तथापि किं जात­मी­श्व­र­स्ये­त्या­श­ङ्क्याह -
इत्येवमिति ।
न केवलं दृष्टा­नु­सा­रा­द­सा­म­ञ्जस्यं किं तूक्तेन प्रका­रे­णो­प­ग­मा­द­पी­त्यर्थः ।

स्वीका­र­मा­त्र­स्या­दो­ष­त्वा­त्तस्य दोष­प­र्य­व­सा­यि­त्व­माह -
स्वार्थेति ।
अर्थि­त्वा­दि­त्यर्थः ।

ईश्वरस्य प्रव­र्त­क­त्व­मु­पे­त्यो­क्तम् । तदपि पातञ्जलमते नास्तीत्याह -
पुरुषेति ॥ ३७ ॥

प्रधानवादे दोषान्तरमाह -
सम्बन्धेति ।

प्रकृ­ता­सा­म­ञ्जस्ये हेत्वन्तरपरं सूत्रमिति सूचयति -
पुनरिति ।

कथमीश्वरस्य प्रधा­न­पु­रु­षाभ्यां सम्ब­न्धोऽ­स्त्युत न । नास्ति चेद­धि­ष्ठा­त्र­धि­ष्ठे­य­ताऽ­सि­द्धि­रि­त्याह -
न हीति ।

अस्ति चेत्तर्हि स संयोगो वा समवायो वा योग्यता वेति विकल्प्याद्यं दूषयति -
न तावदिति ।

अप्रा­प्त­प्रा­प्ति­र­व्या­प्य­वृ­त्तिश्च संयोगस्य स्वरूपम् । तत्र प्रधा­ना­दि­ष्व­प्रा­प्त­प्रा­प्ते­र­भावे हेतुमाह -
प्रधानेति ।

अव्या­प्य­वृ­त्ति­त्वा­भा­वेऽपि हेतुमाह -
निरवयवत्वादिति ।

द्वितीयं निरस्यति -
नापीति ।

तृतीयं प्रत्याह -
नाप्यन्य इति ।
प्रधा­न­का­र्य­त्वस्य जग­तोऽ­सि­द्ध­त्वा­त्प्र­धा­ने­श्व­रयोः सम्बन्धस्य कार्य­क­ल्प्य­स्या­यो­गा­दि­त्यर्थः ।

तवापि माया­ब्र­ह्म­णो­र्वि­भु­त्वा­न्नि­र­व­य­व­त्वाच्च संयोगासिद्धिः सम­वा­य­स्या­नि­ष्ट­त्वा­त्का­र्य­का­र­ण­त्वस्य चासि­द्ध­त्वा­त्का­र्य­ग­म्य­यो­ग्य­ता­स­म्ब­न्धा­यो­गा­न्ना­धि­ष्ठा­त्र­धि­ष्ठे­य­तेति शङ्कते -
ब्रह्मेति ।

माया­ब्र­ह्म­णो­र­नि­र्वा­च्य­ता­दा­त्म्य­स­म्ब­न्धान्न साम्यमित्याह -
नेति ।

इतोऽपि ब्रह्मवादिनो न दोषसाम्यमित्याह -
अपि चेति ।

तथापि दृष्ट­म­नु­स­र्तव्यं, नेत्याह -
नावश्यमिति ।
दृष्ट­वि­रु­द्धेऽ­त्य­न्ता­दृष्टे चागमस्य प्रवृ­त्ते­रि­त्यर्थः ।

अनुमानवादिनि विशेषमाह -
परस्येति ।

ईश्वरवादिनोऽपि तुल्य­त्वा­दा­ग­म­ब­ल­स्या­नु­मा­न­ब­ल­म­धि­क­मिति शङ्कते -
परस्यापीति ।

किमीश्वरस्य सर्वज्ञत्वं तत्कृ­ता­ग­मा­द्ग­म्यते किंवाऽ­नु­मा­ना­दिति विकल्प्याद्ये दोषमाह -
नेत्यादिना ।
सर्व­ज्ञ­कृ­त­त्वे­ना­ग­म­प्रा­माण्ये ततः सर्वज्ञकृतत्वं ज्ञेयं, ततश्च तस्य प्रामाण्यमिति नैकमपि सिध्यति । अस्माकं त्वना­दि­सि­द्धा­द्वे­दा­द­न­पे­क्षा­द­लौ­कि­क­मपि यूपादिवद्दृष्टं स्यादिति भावः ।

न चानुमानादीश्वरः सर्वज्ञो ज्ञायते, दृष्ट­ब­ल­प्र­वृ­त्ते­र­नु­मा­ना­दी­श्वरं साधयतः स्वाभ्यु­प­ग­म­वै­प­री­त्य­ध्रौ­व्य­स्यो­क्त­त्वा­दि­त्यु­प­सं­ह­रति -
तस्मादिति ।

साङ्ख्य­यो­गो­क्त­न्यायं चतु­र्वि­ध­मा­हे­श्व­रेषु वैशेषिकादिषु चातिदिशति -
एवमिति ॥ ३८ ॥

द्विवि­धा­दा­ग­मा­द­नु­मा­नाच्च तट­स्थे­श्व­र­सि­द्धि­र्नि­रस्ता । संप्र­त्यु­द्भू­त­रू­पा­दि­ही­न­प्र­धा­ना­दे­र­स्म­दा­दि­भि­र­धि­ष्ठे­य­त्वा­नु­प­प­त्ति­र­र्था­प­त्ति­री­श्वरे मान­मि­त्या­श­ङ्क्या­स्म­दा­दि­व­दी­श्व­रे­णापि प्रधा­ना­दे­र­धि­ष्ठे­य­त्वा­नु­प­प­त्ते­र्मै­व­मि­त्याह -
अधिष्ठानेति ।

सूत्रं व्याकरोति -
इतश्चेति ।

अनुपपत्तिं वक्तुं पर­स्ये­श्व­र­क­ल्प­ना­म­नु­व­दति -
स हीति ।

अस्म­दा­दि­व­दी­श्व­रे­णापि प्रधा­ना­दी­ना­म­धि­ष्ठे­यत्वं न युक्तं तेना­र्था­प­त्ते­र­नु­त्था­ना­दि­त्याह -
नचेति ।

विमतं न चेतनाधिष्ठेयम् , अप्र­त्य­क्ष­त्वात् , मृदादिवदिति व्यति­रे­कि­णा­नु­प­प­त्ति­मेव स्फुटयति -
नहीति ।

अप्र­त्य­क्ष­त्व­मु­द्भू­त­रू­पा­दि­रा­हि­त्येन स्फोरयति -
रूपादीति ॥ ३९ ॥

चक्षु­रा­दा­व­नै­का­न्त्य­मा­शङ्क्य परिहरति -
करणवदिति ।

शङ्कां विभजते -
स्यादेतदिति ।

अनैकान्तिके शङ्कितेऽपि नार्था­प­त्ते­रु­त्था­न­मि­त्यु­त्तरं व्याचष्टे -
तथापीति ।
अस्मत्पक्षे चक्षु­रा­दि­स्वा­नु­भ­व­सि­द्ध­मे­वा­धि­ष्ठी­यते । अतो न व्यभि­चा­र­श­ङ्के­त्यर्थः ।

किञ्च कर­ण­ग्रा­म­व­च्चे­त­ना­धि­ष्ठि­तत्वं प्रधानादेरशक्यं वक्तुं वैषम्यादित्याह -
भोगादीति ।
आदि­श­ब्दा­त्त­त्का­र­ण­रू­प­द­र्श­नादि गृहीतम् । कर­ण­ग्रा­म­प्र­युक्तं हि रूपदर्शनादि तत्फलं च भोगश्चेतने दृश्यते, तेन तस्य तेनाधिष्ठितत्वं प्रधा­ना­दि­कृ­ताश्च भोगादयो नेश्वरस्य केनापीष्यन्ते । तथाच कर­ण­ग्रा­म­वै­ल­क्ष­ण्या­त्प्र­धा­ना­देर्न चेत­ना­धि­ष्ठि­त­त्व­मि­त्य­नु­त्था­न­म­र्था­प­त्ते­रि­त्यर्थः ।

विपक्षे दोषमाह -
करणेति ।
यदि प्रधानादेरिष्टं करणग्रामसाम्यं तर्हि संसारिणां तत्कृ­त­भो­गा­दि­व­दी­श­स्यापि प्रधानादिकृता भोगादयः स्युः, तत­श्चा­नी­श्व­र­त्वा­प­त्ते­र्ना­र्था­पत्त्या तद्धीरित्यर्थः ।

सूत्रद्वयस्य व्याख्यान्तरमाह -
अन्यथा वेति ।

ईश्व­र­स्या­धि­ष्ठानं शरीरं, तद­यो­गा­त्प्र­व­र्त­क­त्वा­सि­द्धेर्न कार्या­नु­प­पत्त्या तद्धीरित्याह -
अधिष्ठानेति ।

तद्व्याकरोति -
इतश्चेति ।

चेतनस्य प्रवर्तकत्वं सश­री­र­त्व­व्या­प्त­म­न्व­य­व्य­ति­रे­काभ्यां वद­न्नि­तः­श­ब्दार्थं स्फुटयति -
साधिष्ठानो हीति ।

विमतं शरी­रा­दि­म­त्पू­र्वकं, कार्यत्वात् , घटवदिति व्याप्तिफलमाह -
अतश्चेति ।

लीलामयं शरी­र­मी­श्व­र­स्यापि सिद्धमिति सिद्ध­सा­ध्य­ते­त्या­श­ङ्क्याह -
नचेति ।

तर्हि कार्यमपि शरी­रा­दि­म­त्पू­र्वकं मा भूदि­त्या­श­ङ्क्याह -
निरधिष्ठानत्वे चेति ।

अनीश्वरस्यैव सृष्ट्यु­त्त­र­भावि शरीरमीश्वरस्य प्राग­पी­च्छा­नि­र्मितं भवि­ष्य­ती­त्या­श­ङ्क्याह -
करणवदिति ।

चोद्यं व्याकरोति -
अथेति ।

न ताव­दी­श्व­र­स्ये­च्छा­नि­र्मिते प्राचीने देहे किञ्चिन्मानं, तथापि तदङ्गीकारे देहि­त्वा­दी­श्व­र­त्वा­सि­द्धि­रि­त्यु­त्त­र­माह -
एवमपीति ।

देहित्वेऽपि किमि­त्य­नी­श्व­रत्वं, तत्राह -
सशरीरत्वे हीति ॥ ४० ॥

श्रुत्य­नु­मा­ना­र्था­प­त्ति­भि­री­श्वरो न परेष्टः सिध्य­ती­त्यु­क्तम् । इदानीं तस्या­न­न्त­त्वा­द्यु­प­ग­मोऽपि न सम्भवतीत्याह -
अन्तवत्त्वमिति ।

सूत्रं व्याकरोति -
इतश्चेति ।

तदेव वक्तुं परमतमनुवदति -
स हीति ।

न तावदीश्वरस्य सर्वज्ञत्वं, नित्ये ज्ञाने स्वात­न्त्र्या­यो­गात् । ज्ञानस्य साक्षा­द्वि­ष­य­स­म्ब­न्धा­सि­द्धेश्च । तथाप्युपेत्य विकल्प्य दोषप्रसक्तिं प्रतिजानीते -
तत्रेति ।

कल्पद्वयेऽपि दोषानुषक्तिं प्रकटयितुं पृच्छति -
कथमिति ।

विमतमन्तवत् , इय­त्ता­प­रि­च्छि­न्न­त्वात् , घटवदित्याह -
पूर्वस्मिन्निति ।

लौकिकीं दृष्टिमेव स्पष्टयति -
यद्धीति ।

व्याप्ति­फ­ल­म­नु­मानं निगमयति -
तथेति ।

हेतो­र­सि­द्धि­मा­शङ्क्य सङ्ख्यातः स्वरूपतो वा परि­मि­ति­रा­हि­त्य­मिति विकल्प्याद्यं प्रत्याह -
सङ्ख्येति ।

न द्वितीयः । प्रधानादयः स्वरूपपरिमिताः, वस्तुतः परि­च्छि­न्न­त्वात् , घटवदित्याह -
स्वरूपेति ।
यस्य यादृशं परि­मा­ण­म­णु­म­ह­द्दीर्घं ह्रस्वं वा तदीश्वरेण सर्व­ज्ञ­त्वा­त्प­रि­च्छि­द्येत, तथाच ज्ञात­प­रि­मा­ण­त्वा­त्प्र­धा­ना­द्य­न्त­व­दि­त्यर्थः ।

प्रधा­न­पु­रु­षे­श्व­र­स्व­रू­पेण त्रित्वे ज्ञातेऽपि जीवा­ना­मा­न­न्त्या­त्त­द्ग­त­स­ङ्ख्या­ज्ञा­ना­भा­वा­त्तेषु सङ्ख्या­प­रि­मि­ति­र­सि­द्धे­त्या­श­ङ्क्याह -
पुरुषेति ।

पुरु­षै­स्ता­व­त्प्र­त्ये­क­मे­क­त्व­सङ्ख्या ज्ञाता । या च तेषा­म­न्यो­न्या­पे­क्षया बहुत्वसङ्ख्या सापीश्वरेण ज्ञायते । न च सहस्रं लक्षं वेति विशे­षा­ज्ञा­ना­दा­नन्त्यं, माषराशौ व्यभिचारात् । अस्मदादिभिः सङ्ख्या­तु­म­श­क्य­स्यापि गणितज्ञेन सङ्ख्या­त­त्व­द­र्श­नात् । सन्दिग्धं विशेषाज्ञानं सर्व­पु­रु­ष­प­रि­च­या­दृते तद­ज्ञा­न­नि­श्च­य­स्या­श­क्य­त्वात् । तस्मान्न जीवा­स्त­त्त्व­तोऽ­नन्ता वस्तुतः परि­च्छि­न्न­त्वा­दे­क­दे­श­स्थ­मा­षा­दि­व­दिति हेत्व­सि­द्धि­मु­द्धृत्य फलितमाह -
ततश्चेति ।

कति­प­य­सं­सा­रि­षू­क्त­न्या­य­म­व­शि­ष्टे­ष्व­ति­दि­शति –
एवमिति ।
यथा बहूनामपि माषा­णा­मे­कै­का­प­चये निखिलापचयो दृश्यते तथा क्रमेण सर्व­मु­क्ते­रि­दानीं सर्वसंसारशून्यं जगद् भवेदित्यर्थः ।

किञ्चे­श्व­र­स्या­स्मिन् पक्षे सर्वदा सर्वज्ञत्वं सर्वेश्वरत्वं च न सिद्ध्यतीत्याह -
प्रधानं चेति ।

दोषान्तरमाह -
प्रधानेति ।

सिद्धे सर्वे­षा­मा­द्य­न्त­वत्त्वे फलितमाह -
आद्यन्तेति ।

कल्पा­न्त­र­म­नु­व­दति -
अथेति ।
वाशब्दसूचितं विक­ल्प­द्व­य­मु­क्त्वा­द्य­न्त­वत्त्वं प्रतिपाद्य द्विती­य­म­व­ल­म्ब्या­स­र्व­ज्ञ­तेति ।

दूषयति -
तत इति ।

आग­मा­न­पे­क्ष­स्या­नु­मा­न­सि­द्ध­म­न्त­वत्त्वं दुर्वारम् । अस्माकं त्वाग­म­ग­म्य­त्वा­दा­न­न्त्यस्य नान्त­व­त्त्वा­नु­मा­नम् । एतेन पूर्व­प­क्षा­नु­मा­ना­न्यपि प्रत्युक्तानीति मत्वोपसंहरति -
तस्मादिति ।
शरी­रा­दि­रा­हि­त्या­नु­प­प­त्ति­व­दा­न­न्त्या­द्य­भ्यु­प­ग­मा­यो­गा­द­पी­त्य­पे­रर्थः । अपौ­रु­षे­य­श्रु­ति­सि­द्धे­श्व­रस्य न निरासोऽस्तीति तार्किकविशेषणम् ॥ ४१ ॥

माहे­श्व­र­म­त­नि­रा­सा­न­न्तरं वैष्णवमतं निरस्यति -
उत्पत्तीति ।

यद्वा पञ्च­प­दा­र्थ­वा­दिनि निरस्ते चतु­र्व्यू­ह­वा­दिनं निरस्यति -
उत्पत्तीति ।

वृत्त­म­नू­द्या­धि­क­र­ण­ता­त्प­र्य­माह -
येषामिति ।

अधि­क­र­णा­र­म्भ­मा­क्षि­पति -
नन्विति ।

तथापि भागवती स्मृति­र­प्र­मा­ण­त्वा­द­ना­द­र्त­व्येति वक्तु­म­धि­क­र­ण­मि­त्या­श­ङ्क्याह -
श्रुतीति ।

तत्प्रामाण्ये फलितमाह -
तदिति ।

वेदा­वि­रु­द्धां­श­मु­पेत्य विरु­द्धां­श­नि­रा­सा­या­धि­क­र­ण­मि­त्याह -
उच्यत इति ।
समा­न­त्वा­दि­त्यत्र श्रुति­स्मृ­त्यो­रिति शेषः ।

जीवा­भि­न्ना­द्ब्र­ह्मणो जगत्सर्गवादी समन्वयो जीवो­त्प­त्त्या­दि­वि­ष­य­प­ञ्च­रा­त्र­रा­द्धा­न्तेन विरुध्यते न वेति तत्प्रा­मा­ण्या­प्रा­मा­ण्याभ्यां सन्देहे पूर्वपक्षमाह -
तत्रेति ।

भाग­व­त­म­त­नि­रा­स­द्वारा सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे भागवतमतस्य मान­त्वा­त्त­द्वि­रोधे सम­न्व­या­सि­द्धे­र­भे­द­वा­दा­सिद्धिः । सिद्धान्ते तस्य भ्रम­त्वा­त्त­द्वि­रो­ध­स्या­भा­स­तया समन्वयसिद्ध्या तत्सिद्धिः । तत्र मूर्त्यन्तरं निराकर्तुं वासुदेव इत्युक्तम् । तस्य सावयवत्वं निरस्यति -
निरञ्जनेति ।

कथं तर्हि शास्त्रे मूर्तिभेदः, तत्राह -
स इति ।

व्यूहेषु भग­व­तोऽ­व­स्था­वि­शे­षे­ष्व­वा­न्त­र­भे­द­माह -
वासुदेव इति ।

तेष्वेव प्रकृ­ति­वि­कृ­ति­त्व­माह -
तेषामिति ।

सविशेषं शास्त्रा­र्थ­मुक्त्वा सहेतुं पुरुषार्थमाह -
तमिति ।
यथो­क्त­व्यू­ह­वन्तं सर्वप्रकृतिभूतं निर­ञ्ज­न­ज्ञा­न­रूपं परमात्मानमिति यावत् । वाक्का­य­चे­त­सा­म­व­धा­न­पू­र्वकं देव­ता­गृ­ह­ग­म­न­म­भि­ग­म­नम् । पूजा­द्र­व्या­णा­म­र्ज­न­मु­पा­दा­नम् । इज्या पूजा । स्वाध्यायो जपः । योगो ध्यानम् ।

परपक्षमनुभाष्य तस्मि­न्न­वि­रु­द्ध­मं­श­माह -
तत्रेति ।

तदनिरासे हेतुमाह -
स इति ।

अवि­रु­द्ध­मं­शा­न्त­र­माह -
यदपीति ।

तदनिषेधे हेतुमाह -
श्रुतीति ।
‘समाहितः श्रद्धावित्तो भूत्वा’ इत्याद्या श्रुतिः । ‘मत्क­र्म­कृ­न्म­त्प­रमो मद्भक्तः’ इत्याद्या स्मृतिः ।

निरस्यांशमाह -
यदिति ।

तत्र सूत्रमवतार्य व्याकरोति -
अत्रेति ।

हेतुं विवृणोति -
उत्पत्तीति ।
आदि­श­ब्दे­ना­कृ­ता­भ्या­ग­म­कृ­त­प्र­णा­श­स्व­र्ग­न­र­का­प­व­र्गा­भावा गृह्यन्ते ।

जीव­स्यो­त्प­त्ति­मत्त्वे दोषान्तरमाह -
ततश्चेति ।

कार्यस्यापि जीवस्य कार­ण­भ­ग­व­दा­प्ति­मोक्षे कानुपपत्तिः, तत्राह -
कारणेति ।

इतश्च न जीवो­त्प­त्ति­रि­त्याह -
प्रति­षे­धि­ष्य­तीति ।

जीवो­त्प­त्त्य­योगे तद­र्थ­प­ञ्च­रा­त्र­रा­द्धा­न्तस्य भ्रान्तत्वान्न तद्विरोधः सम­न्व­य­स्ये­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ४२ ॥

जीवजन्म निरस्य मनसस्ततो जन्म निरस्यति -
नचेति ।

चकारार्थमाह -
इतश्चेति ।

सङ्क­र्ष­णा­ज्जी­वा­न्म­नसो जन्मकल्पना नेत्य­त्रे­तः­श­ब्द­गृ­हीतं हेतुं स्फुटयति -
यस्मादिति ।
सिद्ध­क­र­ण­प्र­योक्ता कर्तेऽति प्रसि­द्धि­द्यो­तको हिशब्दः ।

करणस्य कर्तु­रु­त्प­त्त्य­भा­वेऽपि भागवतकल्पना कथमसङ्गतेति तद्वक्तुं तत्क­ल्प­ना­म­नु­व­दति -
वर्णयन्तीति ।

लोके करणस्य कर्तु­रु­त्प­त्त्य­भा­वेऽपि कथं परेषां कल्पना न कल्पते स्मृति­मू­ल­त्वा­दि­त्या­शङ्क्य तन्मूलं प्रत्य­क्ष­म­नु­मानं श्रुतिर्वेति विकल्प्याद्यौ प्रत्याह -
नचेति ।
न तावदस्याः स्मृतेरध्यक्षं मूलं, जीवान्मनोजनौ पर­स्ये­न्द्रि­य­सं­नि­कर्षे नियामकाभावात् । न द्वितीयः । दृष्टान्तं विना­नु­मा­ना­यो­गात् । यद्यपि बहु­वि­ध­वि­द्या­प­र्य­व­दा­तोऽपि विधाय करे कठोरधारं कुठारं तेन निष्ठुरमपि काष्ठं छिनत्ति तथापि न तस्या­सा­वु­पा­दा­नम् । तथा सङ्कर्षणोऽपि प्रद्युम्नस्य नोपादानं स्यात् । नच सङ्क­र्ष­ण­स्या­क­र­णस्य प्रद्यु­म्न­नि­र्मा­णम् । इतरथा करणमन्तरेणैव सर्व­नि­र्मा­णा­त्त­त्क­ल्प­ना­वै­य­र्थ्या­दिति भावः ।

तृतीयं दूषयति -
नचेति ॥ ४३ ॥

वासुदेवान्न सङ्कर्षणस्य जन्म, नापि सङ्क­र्ष­णा­त्प्र­द्यु­म्न­स्ये­त्य­त्रे­ष्टा­प­त्ति­मा­श­ङ्क्याह -
विज्ञानादीति ।

सूत्र­व्या­व­र्त्य­मु­त्था­प­यति -
अथापीति ।
जीवा­दि­त्वे­ने­ष्टानां सङ्कर्षणादीनां पूर्व­स्मा­त्पू­र्व­स्मा­ज्ज­न्मा­भा­वेऽ­पीति यावत् ।

तदेव दर्शयति -
नचेति ।

तर्हि केन प्रका­रे­णा­भि­प्रे­य­मा­णत्वं, तदाह -
किमिति ।

सर्वे­षा­मी­श्व­रत्वे हेतुमाह -
ज्ञानेति ।
ज्ञानं चैश्वर्यं च तयोः शक्तिरान्तरं सामर्थ्यम् । बलं शारीरं सामर्थ्यम् । वीर्यं शौर्यम् । तेजः प्रागल्भ्यम् । ते खल्वैश्वरा धर्मा­स्तै­र­न्विता यतः सङ्क­र्ष­णा­द­य­स्त­स्मा­द्युक्तं तेषां सर्वे­षा­मी­श्व­र­त्व­मि­त्यर्थः ।

तत्र भागवतोक्तिमाह -
वासुदेवा इति ।
निर्दो­ष­त्व­म­वि­द्या­दि­रा­हि­त्यम् । निरधिष्ठानत्वं निरुपादानत्वम् । निर­व­द्य­त्व­म­नि­त्य­त्वा­दि­दो­ष­शू­न्य­त्वम् ।

सर्वे­षा­मी­श्व­रत्वे तदुत्पत्त्ययोगे गुणत्वाद्दोषो नेति फलितमाह -
तस्मादिति ।

सिद्धान्तत्वेन सूत्रमवतारयति -
अत्रेति ।

तद्व्याकरोति -
एवमिति ।
विज्ञा­नै­श्व­र्य­श­क्त्या­दीनां सर्वत्र तुल्य­त्वेऽ­पी­त्यर्थः ।

जीवा­दि­भा­वो­प­ग­म­कृता पूर्व­त्रो­त्प­त्त्य­नु­प­प­त्ति­रुक्ता सा कथं सर्वे­षा­मी­श्व­रत्वे न स्यादि­त्या­श­ङ्क्याह -
प्राप्नोतीति ।

प्रकारान्तरं बुभुत्सते -
कथमिति ।

वासु­दे­वा­द­य­स्तु­ल्य­ध­र्माण ईश्वराः किं मिथो भिन्ना एव न त्वैक्य­मे­षा­मस्ति किं वैकस्यैव भगवतोऽवस्थाभेदा एत इति विक­ल्प्या­द्य­म­नु­व­दति -
यदीति ।

ते व्याहतकामाः स्युर्न वा । आद्ये कार्यासिद्धिः । चरमे त्वेके­नै­वे­श­नायाः कृत­त्वा­दि­त­रा­न­र्थ­क्यम् । सम्भूयकारित्वे परिषद्वन्न कश्चिदीश्वरः स्यादित्याह -
तत इति ।

अनेकेश्वरपक्षे दोषान्तरमाह -
सिद्धान्तेति ।

कल्पा­न्त­र­मु­त्था­प­यति -
अथेति ।
तुल्यधर्माणो वासु­दे­वा­द­य­श्च­त्वा­रोऽ­पी­श्वरा भगवतो व्यूहाः स्वीकृताः । तथाचैकात्मान इति नोक्तदोष इत्यर्थः ।

वासु­दे­वा­दी­ना­मे­क­व्यू­ह­त्वे­नै­क्य­मु­पेत्य प्रागुक्तं प्रसञ्जयति -
तथापीति ।

उत्प­त्त्य­स­म्भ­व­ता­द­वस्थ्यं समर्थयते -
नहीति ।

अतिशयमृतेऽपि कार्यकारणता स्यादि­त्या­शङ्क्य दृष्ट­वै­ष­म्या­न्मै­व­मि­त्याह -
भवितव्यं हीति ।

अन्वयमुक्त्वा व्यतिरेकमाह -
नहीति ।

ननु ज्ञाना­दी­ना­मु­त्कर्षो यत्र पर्यवस्यति तस्य कारणत्वं साति­श­य­ज्ञा­ना­दि­मतां कार्य­ते­त्य­ति­श­योऽस्ति । नेत्याह -
नचेति ।

कथं तर्हि पञ्च­रा­त्रि­णा­मु­प­गमः, तत्राह -
वासुदेवा इति ।

व्यूहादीनां चतु­ष्ट­य­म­ङ्गी­कृ­त्योक्त्वा तन्नियमं निराचष्टे -
नचेति ॥ ४४ ॥

इत­श्चा­ना­द­र­णी­य­मिदं मतमित्याह -
विप्र­ति­षे­धा­च्चेति ।

सूत्रं व्याचष्टे -
विप्र­ति­षे­ध­श्चेति ।

विरोधमेव स्फुटयति -
गुणेति ।

आदि­ग्र­ह­णा­त्प्र­द्यु­म्ना­नि­रु­द्ध­यो­र्म­नो­ह­ङ्का­र­यो­रा­त्मनो भेद­मु­क्त्वा­त्मान एवैत इति तद्वि­रु­द्धो­क्ति­र्गृ­हीता । गुण­गु­णि­त्व­क­ल्प­ना­रूपं विप्रतिषेधमाह -
ज्ञानेति ।
आत्मभ्यो गुणिभ्यो ज्ञाना­दी­न्गु­णा­न्भे­दे­नोक्त्वा पुनरात्मन एवैत इत्यब्रुवंस्ततो विप्रतिषेधः । अत्रादिशब्देन सङ्कर्षणो नाम जीवः प्रद्युम्नो मनोऽ­नि­रु­द्धोऽ­ह­ङ्कार इति भेदमुक्त्वा पुनरात्मान एवे­त्य­भे­द­वा­दा­द्वि­प्र­ति­षेधो गृह्यते ।

प्रकारान्तरेण सूत्रं व्याचष्टे -
वेदेति ।
अत्रादिशब्देन भागवते शास्त्रे पाद­मा­त्रा­ध्य­य­ना­द­शे­ष­वे­दा­ध्य­य­न­फलं सिध्यति ।

स्वाध्या­य­मा­त्रा­ध्ये­तु­र्वि­शि­ष्यते भाग­व­त­शा­स्त्रा­क्ष­र­मा­त्रा­ध्ये­ते­त्या­दि­निन्दा गृहीता । भाग­व­त­शा­स्त्र­प्र­णेतुः सर्वज्ञतया भ्रान्त्य­भा­वेऽपि वेदा­वि­रु­द्ध­ता­न्त्रि­का­नु­ष्ठा­न­वा­सु­दे­वा­र्च­नो­द्ये­क­दे­श­प्रा­मा­ण्येऽपि जीव­ज­न्मा­दि­वा­क्य­प्र­ण­य­ना­न्य­था­नु­प­प­त्त्यैव प्राणिनां विरुद्धधीद्वारा दुरितफलदानाय व्यामोहकत्वम् । जीव­ज­न्म­श्रु­ती­ना­मिव तज्ज­न्म­स्मृ­ती­ना­मपि चान्य­प­र­त्व­म­नु­त्प­त्ति­श्रु­ति­वि­रो­धा­दि­त्य­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

तदेवं परपक्षाणां भ्रान्ति­मू­ल­त्वान्न तैर्विरोधः समन्वयस्येति पादार्थं निगमयति -
सिद्धमिति ॥ ४५ ॥

अतिक्रान्ते पादे समन्वयस्थापनाय परपक्षाणां भ्रान्ति­मू­ल­त्व­मु­क्तम् । इदानीमपि समन्वयस्थित्यै भूत­भो­क्तृ­वि­ष­य­सृ­ष्ट्या­दि­श्रु­ति­वि­गानं निराक्रियते । तत्रा­नु­त्प­त्ति­प्र­स­ङ्गेन वियतोऽपि तदसम्भवमाशङ्क्य परि­ह­र­न्ना­दा­वे­क­दे­शि­म­त­माह -
न वियदिति ।

आका­शो­त्प­त्त्य­नु­त्प­त्ति­श्रु­त्यो­र्मिथो विरो­धा­द­प्रा­माण्ये शङ्किते तन्निरासेन सम­न्व­य­दृ­ढी­क­र­णा­दस्य पादा­दि­स­ङ्ग­ति­रि­त्य­भि­प्रेत्य पूर्वो­त्त­र­पा­द­स­ङ्गतिं व्यक्ती­कु­र्व­न्ना­पा­ततः सृष्टि­श्रु­ति­वि­मतिं दर्शयति -
वेदान्तेष्विति ।

तत्र तत्रेति सृष्टि­प्र­क­र­णोक्तिः । तासां भिन्न­प्र­स्था­न­त्व­मेव प्रक­ट­य­न्प्र­थ­म­मा­का­शो­त्प­त्त्य­नु­त्प­त्तिभ्यां तैत्ति­री­य­च्छा­न्दो­ग्य­श्रु­त्यो­र्वि­म­ति­माह -
केचिदिति ।

नभो­व­द्वा­यो­र­प्यु­त्प­त्त्य­नु­त्प­त्ति­भ्या­मपि तयोरेवास्ति विमतिरित्याह -
तथेति ।

न केवलं भूत­वि­ष­य­सृ­ष्टि­श्रु­ति­वि­म­ति­रपि तु भोक्तृ­भो­गो­प­क­र­ण­वि­ष­यापि सास्तीत्याह -
एवमिति ।
यथा नभसो वायो­श्चो­त्प­त्ति­म­धी­यते तैत्तिरीयास्तथा जीवस्य ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति जन्मामनन्ति माध्यन्दिना नैवमितरे । तथा प्राणानाम् ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इत्युत्पत्ति पठन्त्याथर्वणा नैवमन्ये । अतोऽस्ति धर्मिणि विमतिरित्यर्थः ।

धर्मद्वारापि विगानमाह -
एवमेवेति ।
क्रमा­दी­त्या­दि­श­ब्दे­ना­क्र­म­सङ्ख्ये गृह्येते ।

श्रुत्यन्तरेषु ।
श्रुति­वि­शे­षे­ष्विति यावत् ।

सृष्टि­श्रु­ती­ना­म­स्वा­र्थ­प­र­त्वा­न्मिथो विरोधेऽपि तात्प­र्य­व­द्वा­क्य­प्रा­मा­ण्या­द­स्म­त्प­क्ष­सि­द्धि­रि­त्या­श­ङ्क्याह -
विप्र­ति­षे­धा­च्चेति ।
सर्वत्र परपक्षेषु स्वोक्ति­वि­रो­धा­भा­वा­दत्र श्रुतिविरोधो विवक्षितः । स्वपक्षो ब्रह्मकारणवादः । विप्र­ति­षे­ध­श्रु­ति­ना­मे­वा­न्यो­न्य­मिति द्रष्टव्यम् ।

सृष्टि­श्रु­ति­ष्वा­पा­ति­क­वि­रो­धोक्त्या तत्फ­ल­मु­क्त्वा­न­न्त­र­पा­दा­व­व­ता­र­यति -
इत्यत इति ।
तद­र्थ­नि­र्म­ल­त्व­म­र्था­भा­स­नि­वृत्त्या सम्यगर्थधीः । प्रप­ञ्चोऽ­न­न्त­र­पा­द­द्व­यम् ।

ननु मुमु­क्षू­णा­मु­क्त­स­म­न्व­या­देव तत्त्व­धी­ला­भा­त्कृ­त­मे­त­न्नि­र्म­ल­त्वे­नेति, तत्राह -
तदर्थेति ।
वेदैकदेशस्य विरो­धा­द­प्रा­माण्ये तदे­क­दे­शा­न्त­र­स्यापि तथै­वा­प्रा­मा­ण्य­श­ङ्कया तत्स­म­न्व­या­त्त­त्त्व­ज्ञा­ना­सि­द्धे­र्ब्र­ह्म­का­र­ण­प­क्ष­स्या­न­पे­क्ष­णी­य­त्व­श­ङ्का­नि­वृ­त्ति­स्त­द­र्थ­नि­र्म­लत्वे फलतीत्यर्थः ।

इत्थं पादद्वयसम्बन्धे स्थिते भूत­भो­क्तृ­सृ­ष्ट्या­दि­श्रु­ति­वि­वा­दा­प­वा­दार्थे च तृतीये पादे सत्या­द्या­धि­क­र­ण­ता­त्प­र्य­माह -
तत्रेति ।
आका­शो­त्प­त्त्य­नु­त्प­त्ति­वा­दि­वा­क्य­यो­र­ने­क­वा­क्य­त्वै­क­वा­क्य­त्वाभ्यां मिथो विरोधसन्देहे विरो­ध­नि­रा­से­ना­वि­रोधं संसाध्य सम­न्व­य­दा­र्ढ्य­मत्र विवक्षितम् । सर्वेषु चाधिकरणेषु पादद्वयगतेषु पूर्वपक्षेषु श्रुतीनां विरो­धा­द­प्रा­माण्यं, सिद्धान्ते तासा­म­वि­रो­धा­त्प्रा­माण्यं फलम् । अत्र चाद्येऽधिकरणे श्रुत्यो­र्मि­थो­वि­रो­धा­द­प्रा­माण्ये वियदादिकारणे ब्रह्मणि सम­न्व­या­सि­द्धि­रे­कत्र, अन्यत्र तयोरेकवाक्यतया विरो­धा­भा­वा­त्प्रा­मा­ण्य­सि­द्धे­स्त­त्सि­द्धि­रिति भावः ।

पादद्वये पूर्वपक्षे श्रुतीनां मिथो विरोधः सिद्धान्ते त्वविरोधः साध्यते । तेन विरो­धा­वि­रो­धाभ्यां सन्देहे वाच्ये गौण­वा­द्य­भि­प्रा­ये­णाह -
किमस्येति ।

तैत्ति­री­य­च्छा­न्दो­ग्य­श्रु­तिभ्यां सन्दि­ह्य­गौ­ण­वा­द्य­भि­प्रायं प्रकटयितुं सूत्रमादत्ते -
तत्रेति ।

तदक्षराणि व्याचष्टे -
न खल्विति ।

तैत्तिरीये विय­दु­त्प­त्ति­श्रु­ते­र­न्यत्र तदश्रुतेर्मिथो विरोधे पर्य­व­सा­न­मा­शङ्क्य वक्ष्य­मा­ण­प्र­मा­ण­वि­रो­धा­ज्ज­न्म­श्रु­ते­र्गौ­ण­त्वा­त्ते­जो­मु­खैव सृष्टिरिति कुतो विरो­धा­श­ङ्के­त्या­श­ये­नाह -
छान्दोग्ये हीति ।

आकाशस्य जन्माश्रवणेऽपि कथमनुमानसिद्धा तदु­त्प­त्ति­र­प­ह्नू­ये­ते­त्या­श­ङ्क्याह -
श्रुतिश्चेति ।

तर्हि श्रुति­रे­वा­स्ती­त्या­शङ्क्य सा गौणीति सूचितमित्याह -
नचेति ।

तैत्ति­री­य­श्रु­ते­र्गौ­ण­त्वा­द­न्य­स्या­मु­ख्य­त्वान्न मिथो विरो­धोऽ­स्ती­त्यु­प­सं­ह­रति -
तस्मादिति ॥ १ ॥

पूर्वपक्षयति -
अस्ति त्विति ।

सूत्रं व्याकु­र्व­न्पू­र्व­पक्षं विवृणोति -
तुशब्द इति ।

श्रुत्यन्तरे त्वाका­श­स्यो­त्प­त्ति­र­स्ती­त्युक्तं, तदेव व्यनक्ति -
तैत्तिरीयका हीति ।

सर्व­ना­मा­र्थ­ज्ञा­प­नार्थं पूर्व­वा­क्या­नु­क्र­म­णम् । श्रुत्यो­रा­का­शो­त्प­त्त्य­नु­त्प­त्ति­वा­दित्वे फलितमाह -
ततश्चेति ।

प्रामा­ण्य­स्यौ­त्स­र्गि­क­त्वा­द्वि­रो­धे­ना­प्रा­मा­ण्या­यो­गा­दे­क­वा­क्य­तया कथ­ञ्चि­त्प्र­मा­ण्य­मे­ष्ट­व्य­मिति शङ्कते -
नन्विति ।

सम्भ­व­त्ये­क­वा­क्यत्वे तद्भेदो नेष्यते मिथो विरुद्धयोः श्रुत्यो­र्नै­क­वा­क्य­तेति परिहरति -
सत्यमिति ।

तदाकाशं सृष्ट्वा तेजोऽ­सृ­ज­ते­त्ये­क­वा­क्यत्वं ज्ञातुं शक्यमिति शङ्कते -
कुत इति ।

छान्दो­ग्या­नु­सा­रे­णै­क­वा­क्य­त्वा­योगं दर्शयति -
तत्तेज इति ।

एकवाक्यतावादी दृष्टान्तेन शङ्कते -
नन्विति ।

विप्रतिषेधवादी दूषयति -
नैवमिति ।

किमिह व्यापारः सूपादिपाकवत्किं वा युग­प­दे­क­स्मा­द्बी­जा­न्मू­ला­ङ्कु­रो­त्प­त्ति­व­त्त­द­क्रमः । नाद्यः, द्वयोः प्रथ­म­ज­त्व­श्रु­ति­वि­रो­धा­दि­त्याह -
प्रथमेति ।

न द्वितीयः, पाठ­क्र­मा­त्क्र­म­सृ­ष्टे­रि­ष्ट­त्वा­दि­त्याह -
न चेति ।

छान्दो­ग्या­नु­सा­रे­णै­क­वा­क्य­ताऽ­यो­ग­मुक्त्वा तैत्ति­री­या­नु­सा­रे­णापि तदयोगमाह -
एतेनेति ।

एतच्छब्दार्थमेव स्फुटयति -
तस्मादित्यादिना ।

इतश्च नैकवाक्यतेत्याह -
वायोरिति ।
छान्दोग्ये हि सदुपादानं तेजसो निर्दिश्यते । तैत्तिरीये त्वात्मनः सच्छ­ब्द­वा­च्या­दन्यो वायु­स्त­दु­पा­दा­न­मा­म्ना­यते, तन्नै­क­वा­क्य­ते­त्यर्थः ॥ २ ॥

प्रथ­म­ज­त्वे­ना­का­श­ते­ज­सो­र­स­हा­यत्वे सिद्धे तद्धिरोधेन सस­हा­य­त्व­क­ल्प­ना­यो­गा­द्व­स्तुनि विक­ल्पा­नु­प­प­त्ते­रि­दा­नी­न्त­न­स­र्ग­व­द्भू­त­स­र्ग­स्यापि तथात्वानुमाने सर्गभेदेनापि व्यव­स्थाऽ­सि­द्धे­र्मिथो विरुद्धतया प्रकृ­त­श्रु­त्य­प्रा­मा­ण्यान्न ब्रह्मकारणमिति पूर्व­प­क्ष­म­नु­भाष्य गौण­वा­दि­नोऽ­भि­प्रा­य­मा­वि­ष्कर्तुं सूत्रा­न्त­र­म­व­ता­र­यति -
अस्मिन्निति ।

ये त्वति­क्रा­न्त­सू­त्र­द्वयं मतद्वयमुपन्यस्य विप्र­ति­षे­ध­म­भि­द­ध­त्पू­र्व­प­क्ष­स­ङ्ग­त­मिति व्याचक्षते तान्व्यावर्त्य गौणवाद्येव पूर्वत्रापि विय­द­नु­त्प­त्ति­वा­दीति प्रत्य­भि­ज्ञा­प­य­न्व्या­चष्टे -
नास्तीति ।

तदु­त्प­त्ति­श्रु­ते­रपि दर्शि­त­त्वा­द्वि­प्र­ति­षेधे कः समा­धि­रि­त्या­श­ङ्क्याह -
या त्विति ।

तेजः­प्रा­थ­म्या­नु­रो­धे­ना­का­श­स्यो­त्पत्तिः प्राथम्यं चेति द्वय­बा­ध­न­म­यु­क्त­मा­का­श­प्रा­थ­म्या­नु­रो­धेन तेजसि प्राथम्यस्यैव बाधनमिति मन्वानश्चोदयति -
कस्मादिति ।

न वयं तेजः­प्रा­थ­म्य­म­नु­रु­न्धाना द्वयबाधं शिंष्मः, किन्तु माना­न्त­र­वि­रो­धा­दि­त्याह -
असम्भवादिति ।

वैशेषिकाधिकरणेन तन्मतस्य निर­स्त­त्वा­त्त­द­व­ष्ट­म्भेन कथ­म­स­म्भ­व­क­थे­त्या­श­ङ्क्याह -
नहीति ।

कणभुगभिप्रायमेव प्रकटयति -
ते हीति ।
आकाशं नोत्पद्यते, कार­ण­त्र­य­शू­न्य­त्वात् , आत्मवदित्यर्थः ।

समवायीति ।
पर­प्र­सि­द्धि­द्यो­त­नार्थो हिशब्दः । तत्र स्वानभ्युपगमं दर्शयितुं किलेति ।

आकाशस्यापि तर्हि त्रीणि कारणानि भवि­ष्य­न्ती­त्या­शङ्क्य सम­वा­यि­का­र­ण­वि­शे­ष­स्व­रू­प­माह -
द्रव्यस्येति ।

तदभावमाकाशे दर्शयति -
न चेति ।

समवायिकारणे निरस्ते सत्य­स­म­वा­यि­का­र­ण­मपि निरस्तमेवेत्याह -
यस्मिन्निति ।

कारणद्वयनिरासेन निमि­त्त­का­र­ण­नि­र­सनं सुकरमित्याह -
तदभावात्त्विति ।

कार­ण­शू­न्य­त्वा­दा­का­श­स्या­नु­त्प­त्ति­म­नु­माय तत्रै­वा­नु­मा­ना­न्त­र­माह -
उत्पत्तिमतां चेति ।
ये जायन्ते तेषा­म­नु­भ­वा­र्थ­क्रिये प्रागु­त्प­त्ते­र्नो­प­ल­भ्येते यथा तेजःप्रभृतीनाम् । न चाकाशस्य तादृशो विशेषोऽस्ति । तस्मा­त्त­न्नो­त्प­द्यते कार्य­ल­क्ष­ण­वि­क­ल­त्वा­दा­त्म­व­दि­त्यर्थः ।

प्रकाशनं प्रकाशोऽनुभवः । आदि­श­ब्दे­ना­र्थ­क्रिया गृह्यते । अभूत्वा भावित्वं हि कार्यलक्षणं, तदाकाशस्यापि सम्भवतीति कथं हेतु­सि­द्धि­रि­त्या­श­ङ्क्याह -
आकाशस्येति ।

तदेव स्फुट्यते -
किं हीति ।
महा­द्र­व्या­श्र­य­त्व­योग्यो देशोऽवकाशः । तद्वि­रु­द्ध­द्र­व्या­श्र­य­त्व­योग्यं सुषिरम् । अणु­द्व­य­त­त्सं­यो­गा­श्र­य­त्व­योग्यं छिद्रम् । एतत्त्रयरहितं न किञ्चि­त्प्रा­गा­सी­दिति विशेषणानामर्थः ।

किञ्चाकाशो न जायते, विभुत्वात् , निर­व­य­व­द्र­व्य­त्वा­द­स्प­र्श­द्र­व्य­त्वाच्च, आत्म­व­दि­त्य­नु­मा­न­त्र­य­माह -
पृथिव्यादीति ।

उक्ता­नु­मा­ना­ना­मु­त्प­त्ति­श्रु­ति­वि­रो­ध­मा­शङ्क्य तस्या गौणत्वं सदृ­ष्टा­न्त­मु­प­सं­ह­रति -
तस्मादिति ।

आलो­का­दि­व­दा­का­शस्य प्रदे­श­भे­द­व­त्त्वा­न्मुख्यं जन्मेत्याशङ्क्य जन्म­प्र­यो­ज­क­प्र­दे­श­भे­द­स्यापि गौणत्वमेवेत्याह -
यथा चेति ।

लौकिकव्यपदेशस्य गौणत्वेऽपि वैदिकव्यपदेशस्य मुख्य­त्व­मे­वे­त्या­श­ङ्क्याह -
वेदेऽपीति ।
इति­श­ब्दा­दु­प­रि­ष्टा­द्गौणो भेदव्यपदेशो भवतीति सम्बन्धः ॥ ३ ॥

न केव­ल­म­नु­मा­ना­दा­का­श­स्या­जत्वं किन्तु श्रुति­तोऽ­पी­त्याह -
शब्दाच्चेति ।

तद्व्याचष्टे -
शब्दः खल्विति ।

अमृतत्वमेवात्र श्रूयते न त्वनु­त्प­त्ति­रि­त्या­श­ङ्क्याह -
न हीति ।

श्रुता­र्था­प­त्त्य­न्त­र­माह -
आकाशवदिति ।

तथापि कथमनुत्पत्तिः, तत्राह -
न चेति ।

तदनुत्पत्तौ वाक्यमपि मानमित्याह -
स यथेति ।
आदि­म­ध्या­व­सा­न­वै­धु­र्य­मा­नन्त्यं, तदा­का­श­स्या­दि­मत्त्वे नोपपद्येत । आत्मनोऽपि तत्प्र­स­ङ्गा­दि­त्यर्थः ।

किञ्च नील­मु­त्प­ल­मि­ति­व­दा­का­शेन ब्रह्मणो विशेषणं दृष्टं, तदा­का­श­स्या­नु­त्प­त्ति­मत्त्वं साधयतीत्याह -
आकाशेति ।
चका­रा­दु­दा­ह­र­ण­मि­त्य­नु­कृ­ष्यते ।

आका­श­स्यो­त्प­त्ति­म­त्त्वेऽपि तेन ब्रह्मणो विशेषणत्वं किं न स्यादि­त्या­शङ्क्य बहुव्रीहिणा तादा­त्म्या­व­ग­मा­न्मै­व­मि­त्याह -
नहीति ।

शब्द­सा­म­र्थ्य­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ॥ ४ ॥

सम्भू­त­श­ब्द­म­धि­कृत्य सम्भा­वि­ता­श­ङ्का­मु­च्छि­नत्ति -
स्याच्चेति ।

पद­वि­ष­य­चो­द्यो­त्त­र­मिदं सूत्रमिति तात्पर्यमाह -
इदमिति ।

तदेव चोद्यं दर्शयति -
स्यादेतदिति ।
एक­वा­क्य­स्थ­स्यै­कस्य पद­स्यै­क­स्मि­न्नेव प्रकरणे यत्रा­नु­वृ­त्ति­स्तत्र मुख्यत्वं यत्र प्रयोगस्तत्र गौण­ते­त्य­यु­क्त­मि­त्यर्थः ।

चोद्योत्तरत्वेन सूत्रमवतार्य व्याकरोति -
अत इति ।

दृष्टान्तं व्याचष्टे -
यथेति ।

दार्ष्टान्तिके सम्भू­त­श­ब्द­स्यै­क­स्यैव मुख्य­त्व­गौ­णत्वे, दृष्टान्ते तु शब्दभेदोऽस्तीति वैष­म्य­मि­त्या­शङ्क्य प्रकरणाभेदे शब्द­प्र­वृ­त्ते­रे­क­रू­प­त्व­स्यौ­त्स­र्गि­क­त्वेऽपि तदसम्भवेन गौणत्वमुख्यत्वे दृष्टान्तदृष्टे तथा­त्रा­पी­त्ये­ता­व­न्मा­त्रस्य विव­क्षि­त­त्वा­न्मै­व­मि­त्याह -
यथा चेति ।

अद्वि­ती­य­श्रु­ति­वि­रो­धा­व­धा­र­ण­श्रु­ति­वि­रो­धा­च्चा­का­शा­नु­त्प­त्ति­र­यु­क्तेति शङ्कते -
कथमिति ।

का पुनः श्रुत्यो­र­नु­प­प­त्ति­रि­त्या­श­ङ्क्या­क्षे­प्तैव ब्रूते -
नन्विति ।

एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रो­धा­च्चा­का­शा­नु­त्प­त्ति­र­यु­क्ते­त्याह -
कथं चेति ।

चोद्यद्वयं परिहरति -
तदुच्यत इति ।

तत्रा­व­धा­र­ण­श्रु­ते­रु­प­प­त्ति­मा­का­शा­नु­त्प­त्ति­प­क्षेऽपि दर्शयति -
एकमिति ।

आपे­क्षि­क­म­व­धा­र­ण­मि­त्यत्र दृष्टान्तमाह -
यथेति ।

कुलं गृहम् । अमत्राणि घटशरावादीनि पात्राणि । तत्रापि कथ­म­व­धा­र­णे­त्या­श­ङ्क्याह -
स चेति ।
अन्यथा मृदा­दि­प्र­त्य­क्ष­वि­रोधः स्यादिति भावः ।

प्रकृतेऽपि स्वका­र्या­पे­क्ष­म­व­धा­र­ण­म­वि­रु­द्धम् । तदकार्यं तु तदतिरिक्तमपि प्राग­व­स्था­या­मस्तु का हानिरित्याह -
तद्वदिति ।

अव­धा­र­ण­श्रु­ति­व­द­द्वि­ती­य­श्रु­ते­र­वि­रो­ध­माह -
अद्वितीयेति ।

प्राप्त्यभावे किमर्थं तन्नि­वा­र­ण­मि­त्या­शङ्क्य प्राप्ति­द­र्श­न­पू­र्वकं तन्निवारणमेव विवृणोति -
यथेति ।

यदुक्तं नभसा द्वितीयेन सद्वितीयं ब्रह्म स्यादिति, तत्राह -
न चेति ।

नभ­श्चे­द्द्वि­तीयं कथं तेन ब्रह्म सद्वितीयं नेत्याशङ्क्याह -
लक्षणेति ।

शब्द­व­दा­का­श­म­श­ब्दा­दि­म­द्ब्र­ह्मे­त्यस्ति प्रस्तुतेऽपि लक्ष­णा­न्य­त्व­मि­त्या­श­ङ्क्याह -
नचेति ।
निर­व­य­व­त्वा­रू­प­त्वा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

लक्षणभेदाभावे कथं पृथ­क्त्व­म­न­यो­रि­त्या­श­ङ्क्याह -
सर्गेति ।

लक्ष­णा­न­न्य­त्व­नि­मि­त्ता­भे­दो­प­चा­रा­द­द्वि­ती­य­त्व­मि­त्यु­क्तेऽर्थे श्रुति­म­नु­ग्रा­हि­का­माह -
तथेति ।
‘आकाश आत्मा', ‘खं ब्रह्म’ इत्याद्या श्रुति­रा­दि­श­ब्दार्थः ।

लक्ष­णा­न्य­त्वा­भा­वे­ना­का­शस्य ब्रह्मानन्यत्वं हेतूकृत्य चोद्या­न्त­र­म­पा­क­रोति -
अत एवेति ।

इतश्च ब्रह्मविज्ञानेन सर्व­वि­ज्ञा­न­म­वि­रु­द्ध­मि­त्याह -
अपिचेति ।

ब्रह्मणि तत्कार्ये च ज्ञाते तदे­क­दे­श­का­ल­मा­का­श­मपि सहज्ञातमित्यत्र दृष्टान्तमाह -
यथेति ।

दृष्टान्तेऽपि कथमन्यस्य ग्रहादन्यस्य ग्रह­ण­मि­त्या­श­ङ्क्याह -
नहीति ।

दृष्टान्ते निविष्टमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।

गौणवादी स्वमतमुपसंहरति -
तस्मादिति ॥ ५ ॥

विय­दु­त्प­त्ति­श्रु­ते­र्गो­ण­त्वा­त्त­द­नु­त्प­त्ति­श्रुत्या विरो­धा­भा­वा­न्ना­प्रा­मा­ण्य­मिति गौणवादिमतमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्रं व्याकु­र्व­न्प्र­ति­ज्ञा­स्व­रू­प­माह -
येनेति ।

प्रति­वा­क्य­मि­ति­श­ब्दो­पा­दानं शाखा­भे­द­ख्या­प­ना­र्थम् । तस्या विव­क्षि­त­त्व­सि­द्ध्यर्थं विशिनष्टि -
प्रति­वे­दा­न्त­मिति ।

सर्वस्य ब्रह्म­मा­त्र­त्व­प्र­युक्त्या प्रति­ज्ञा­नु­प­रोधं साधयति -
तस्या इति ।

अत एव ब्रह्म­वि­ज्ञा­ने­ने­त्या­दिना पूर्वो­क्त­न्या­येन व्यतिरेकेऽपि प्रतिज्ञा सिध्यति चेत्कि­म­व्य­ति­रे­के­णे­त्या­श­ङ्क्याह -
व्यतिरेके हीति ।
तदु­त्प­त्ति­स्थि­ति­ल­य­त्वेन तद­भे­दा­दे­क­वि­ज्ञा­नेन सर्वविज्ञानं वक्तव्यं नान्यथा तन्मुख्यत्वम् । सम्भवति मुख्यत्वे कुत­स्त­दौ­प­चा­रि­क­ते­त्यर्थः ।

ननु प्रतिज्ञा सर्वस्य ब्रह्मणि कल्पि­त­त्वे­नो­प­प­द्यते, न तदु­त्प­त्त्या­द्य­पे­क्षते, तत्र कल्पि­त­त्व­म­न्त­रे­णा­वि­द्या­त­त्का­र्य­यो­स्त­दु­त्प­त्त्या­द्य­भा­वा­दि­त्या­श­ङ्क्या­वि­द्या­त­त्स­म्ब­न्धा­ति­रि­क्तत्वे सति तदु­त्प­त्त्या­द्य­ति­रे­केण तत्र कल्पि­त­त्वा­सि­द्धे­र्मै­व­मि­त्याह -
स चेति ।

अविशिष्टं सूत्रावयवं व्याचष्टे -
शब्देभ्यश्चेति ।
प्रकृ­ते­र्वि­का­रा­णा­म­व्य­ति­रेक एव न्यायस्तेनैवेति यावत् ।

शब्दानेवोदाहरति -
तथा हीति ।

सदे­वे­त्या­दि­श­ब्दानां प्रति­ज्ञा­वि­ष­य­त्वा­भा­वान्न सा तत्र विव­क्षि­ते­त्या­श­ङ्क्याह -
तत्साधनायेति ।

शब्दानां प्रति­ज्ञा­प­र­त्वेऽपि कथमाकाशस्य ब्रह्म­का­र्य­ते­त्या­श­ङ्क्याह -
तद्यदीति ।

प्रति­ज्ञा­हा­नि­म­नु­मो­द­मानं प्रत्याह -
नचेति ।

किञ्च प्रतिज्ञा चेदियमेका स्यात्तदा कथ­ञ्चि­द­वि­व­क्षिता शङ्क्येत, तास्तु भूयस्यो युक्तिसहिताश्च गम्यन्ते, तन्ना­वि­व­क्षि­त­त्व­श­ङ्के­त्याह -
तथा हीति ।
तेन तेन दृष्टान्तेन । दुन्दु­भि­श­ङ्ख­वी­णा­मृ­दा­दि­नेति यावत् ।

ते ते शब्दा इत्युक्तं व्यनक्ति -
इदमिति ।

श्रौत­प्र­ति­ज्ञा­सा­म­र्थ्य­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ।

स्वपक्षसाधकं प्रमाणमुक्त्वा छान्दो­ग्या­नु­सा­रेण परोक्तमनुवदति -
यदुक्तमिति ।

तैत्ति­री­य­क­श्रु­त्य­नु­रो­धेन परिहरति -
तदयुक्तमिति ।

एकदेशिनि दूषिते पूर्वपक्षी स्वपक्षे श्रुतीनां मिथो विरोधमुक्तं स्मारयति -
सत्यमिति ।

विरु­द्ध­त्वे­ना­प्रा­मा­ण्या­ङ्गी­का­रा­दे­क­वा­क्य­तया प्रामा­ण्य­मे­वा­ङ्गी­कर्तुं युक्तमित्याह -
नेत्यादिना ।

श्रुति­ना­मे­क­वा­क्य­त्व­स्या­वि­रो­धा­पे­क्ष­त्वा­त्प्र­कृते च श्रुति­द्व­य­वि­रो­ध­स्यो­क्त­त्वा­न्नै­क­वा­क्य­तेति शङ्कते -
भवत्विति ।

उक्तं विरोधमेव स्फोरयति -
सकृदिति ।
‘तत्तेजोऽसृजत’ इति स्रष्टा तच्छब्दार्थः सकृदेव श्रुतः, तस्य स्रष्ट­व्य­द्व­ये­ना­का­शेन तेजसा च सम्बन्धः ‘तदा­का­श­म­सृ­जत', ‘तत्तेजोऽसृजत’ इति नोपपद्यते, तत्क­थ­मे­क­वा­क्य­ते­त्यर्थः ।

स सूपं पक्त्वौदनं पच­ती­ति­व­दे­क­स्यापि स्रष्टुः स्रष्ट­व्य­द्व­य­स­म्ब­न्ध­सि­द्धि­रि­त्या­शङ्क्य दृष्टान्ते क्रमसम्बन्धेऽपि दार्ष्टान्तिके प्राथ­म्य­दृ­ष्टे­रु­भयोः सृष्टिक्रमस्य चेष्ट­त्वा­द्यु­ग­प­द­नु­त्प­त्तेर्न विरो­ध­स­मा­धि­रि­त्याह -
द्वयोश्चेति ।

शाखाभेदेन प्रथमजत्वं विक­ल्प्य­ता­मि­त्या­शङ्क्य वस्तुनि तद­यो­गा­न्मै­व­मि­त्याह -
विकल्पेति ।

तेजः­सृ­ष्टि­प्रा­थम्ये विय­त्सृ­ष्टि­स्त­त्प्रा­थम्यं चेत्युभयं बाध्यम् , आका­श­सृ­ष्टि­प्रा­थम्ये तु प्राथम्यमेव तेजः­सृ­ष्टे­र्बाध्यं न तत्सृ­ष्टि­र्वा­यो­र­ग्नि­रिति, तस्याः स्थाना­न्त­र­त्व­प्र­ति­ल­म्भात् , तत्र श्रुत­ध­र्मि­बा­ध­क­ल्प­ना­दु­भ­य­बा­ध­प्र­स­ञ्ज­का­द्ध­र्म­बा­ध­क­ल्प­न­मेव युक्तमित्याह -
नैष इति ।

किञ्च श्रुत्यो­र­न्य­थो­प­प­द्य­मा­ना­नु­प­प­द्य­मा­न­यो­र­न्य­था­नु­प­प­द्य­माना श्रुति­र्ब­ली­य­सीति तैत्ति­री­य­श्रु­ति­रे­वा­नु­स­र्त­व्ये­त्याह -
अशक्येति ।

छान्दो­ग्य­श्रु­ते­र­न्य­थो­प­प­द्य­मा­न­त्वेन दुर्बलत्वमाह -
शक्येति ।

अन्यथा परि­ण­य­न­मे­वा­भि­न­यति -
तदाकाशमिति ।