न्यायनिर्णयव्याख्या
२ परिच्छेदः
तदेव प्रकटयति -
अत्रापीति ।
अनुमानद्वयं पूर्ववत् ।
स्वरूपापेक्षया ज्ञानस्याभेदेन नित्यत्वं वृत्त्युपधानापेक्षया चानित्यत्वमित्यविरोधः । इतश्च ज्ञानातिरिक्तोऽर्थोऽस्तीत्याह -
अपि चेति ।
हेत्वन्तरमेव वक्तुं स्वरूपमात्रनिष्ठं ज्ञानं त्वन्मते ज्ञानान्तरवार्तानभिज्ञमित्याह -
द्वयोरिति ।
ज्ञानयोरन्योन्यग्राहकत्वाभावेऽपि कथमतिरिक्तार्थधीरित्याशङ्क्याह -
ततश्चेति ।
इदमस्माद्भिन्नमिति धर्मिप्रतियोग्यवच्छिन्नो भेदो भाति, ज्ञानस्यैव धर्मित्वे प्रतियोगित्वे च तेन द्वयोरग्रहाद्भेदप्रतिज्ञा ते न युक्ता । तेन तदुपपत्तये ज्ञानार्थयोर्भिन्नतेत्यर्थः ।
किञ्च क्षणिकत्वं शून्यत्वमनात्मत्वमित्यादिधर्मप्रतिज्ञापि ते हीयेत, अनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्यत्वात् , तस्य च मिथोवार्तानभिज्ञत्वात्ततो भिन्नं ज्ञेयमित्याह -
क्षणिकत्वादीति ।
स्वमसाधारणं सर्वतो व्यावृत्तं लक्षणं स्वलक्षणं तदपि येभ्यो व्यावृत्तं यच्च व्यावृत्तं तदनेकज्ञानापेक्षं, ज्ञानं च ज्ञानान्तरवार्तानभिज्ञमुक्तमतः स्वलक्षणप्रतिज्ञार्थमपि ज्ञानाद्भिन्नं ज्ञेयमित्याह -
स्वलक्षणेति ।
सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वा भवत्यनेकधीसाध्यं, नहि गोत्वं धर्मिणीनां प्रतियोगिनीनां वा व्यक्तीनामग्रहे गृह्यते, तेन तत्प्रतिज्ञार्थमपि ज्ञानज्ञेययोरन्यत्वमित्याह -
सामान्येति ।
पूर्वज्ञानमुत्तरज्ञानस्य नीलाद्याकारेण वासकं, तच्च वास्यवासकत्वं त्वन्मतेऽनेकधीसाध्यम् , अतस्तत्प्रतिज्ञार्थमपि ज्ञानज्ञेययोरन्यत्वमित्याह -
वास्येति ।
अविद्योपप्लवोऽविद्यासंसर्गस्तेन नीलमिति सद्धर्मो नरविषाणमित्यसद्धर्मोऽमूर्तमित्युभयधर्मस्तत्प्रतिज्ञापि बहुज्ञानसाध्यत्वादुक्तभेदावेदिकेत्याह -
अविद्येति ।
बन्धप्रतिज्ञा च यो बध्यते यतश्च बध्यते तदनेकधीसाध्यत्वादुक्तभेदहेतुरित्याह -
बन्धेति ।
मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते तदनेकज्ञानसाध्यत्वाद्भेदसाधनमित्याह -
मोक्षेति ।
यच्च किञ्चित्प्रतिपादयितुं प्रत्याख्यातुं वा प्रतिज्ञायते तत्प्रतिज्ञापि प्रतिपादयितृप्रतिपाद्याद्यनेकधीसाध्यत्वादिष्टभेदहेतुरित्यादिपदम् ।
एता हि प्रतिज्ञाः सौगतमते दृष्टा ज्ञानज्ञेयभेदानुपगमे विहताः स्युः, तस्मात्तदर्थं ज्ञानज्ञेयान्यत्वमावश्यकमित्याह -
प्रतिज्ञाश्चेति ।
ज्ञानातिरिक्तं ज्ञेयमावश्यकमित्यत्रान्यच्च कारणमस्तीत्याह -
किञ्चेति ।
तदेव वदन्विज्ञानेन तुल्यत्वं विज्ञेयस्य कथयति -
विज्ञानमिति ।
व्यवहारदशायामबाधितासन्दिग्धभानत्वाज्ज्ञानं शक्यमुपगन्तुमिति शङ्कते -
विज्ञानमिति ।
तथा भानस्यार्थेऽपि तुल्यत्वात्तदुपगमो बलादापततीत्याह -
बाह्योऽपीति ।
स्वसंवेद्यत्वाद्विज्ञानमिष्यते बाह्यर्थस्तु नैवमित्याह -
अथेति ।
अविरुद्धं लोकसिद्धं च हित्वा विरुद्धमलौकिकं चाभ्युपयता मौढ्यमेवात्मनो दर्शितं स्यादित्याह -
अत्यन्तेति ।
ज्ञानं स्वसंवेद्यमर्थो नैवमिति भेदमुपेत्योक्तम् । इदानीं ज्ञानस्य न स्वसंवेद्यतेत्याह -
न चेति ।
स्वात्मनि कर्तरि कर्मत्वं गृहीत्वा क्रियास्वीकारे कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यमित्यपर्यायमेकस्यां क्रियायामेकस्यैव गुणत्वं प्राधान्यं चेति विरुद्धमापद्येत । तन्नार्थवज्ज्ञानमपि स्वसंवेद्यमित्यर्थः ।
कथं ते ज्ञानसिद्धिः कर्मत्वातिरेकेण कर्मतया वा । नाद्यः, धीकर्मतया सिद्धस्यैव सिद्धत्वाभिधानात् । न द्वितीयः, ज्ञानान्तरकर्मत्वेऽनवस्थानात्तत्परिहारार्थं स्वकर्मतयैव तत्सिद्धिध्रौव्यादिति शङ्कते -
नन्विति ।
इतश्च ज्ञानस्य न ज्ञानान्तरकर्मत्वमित्याह -
अपि चेति ।
विमतं न स्वावान्तरजातीयप्रकाश्यं, प्रकाशत्वात् , दीपवदित्याह -
प्रदीपवदिति ।
ज्ञानान्तरं कल्पयतः कल्पनानर्थक्यमिति सम्बन्धः । तत्र हेतुः -
समत्वादिति ।
अनवस्थाप्रसक्तिरनुमानं चेत्युभयमपि न साधकमिति दूषयति -
तदिति ।
तत्रानवस्थाप्रसक्तेरसत्त्वं साधयति -
विज्ञानेति ।
यदि बुद्धिवृत्तिग्रहावस्थायामेव तत्साक्षिणो ग्रहाकाङ्क्षा तदानवस्था, नतु सास्ति साक्षिणः स्वयंसिद्धत्वादित्यर्थः ।
अनुमानं सिद्धसाध्यत्वेन निरस्यति -
साक्षीति ।
यत्प्रकाशते तदन्येन प्रकाशते, यथा ज्ञानार्थौ, प्रकाशते च साक्षीति न धीसाक्षिणोर्वैलक्षण्यमित्याशङ्क्याह -
स्वयमिति ।
सदैवासन्दिग्धाविपर्यस्तस्य साक्षिणो नित्यसाक्षात्कारत्वमनागन्तुकप्रकाशत्वे सिध्यति, तेन तत्प्रत्याख्यानायोगादनुमानस्य सिद्धा सिद्धसाध्यतेत्यर्थः ।
इतश्च साक्षिणो न प्रत्याख्यानमित्याह -
किञ्चेति ।
यथा दीपो दीपान्तरं नापेक्षते तथा ज्ञानमपि ज्ञानान्तरानपेक्षमिति वदता मानागम्यं तदुक्तं स्यात् , स्वसंवेद्यत्वे कर्मकर्तृत्वविरोधादन्यवेद्यत्वस्यानिष्टत्वात् । स्वयमेव प्रथते तदिति ब्रुवता निःसाक्षिकं तदुक्तं स्यात् । तथाचोत्पन्नस्यापि तस्यानुत्पन्नसमत्वात्तत्प्रकाशकसाक्षी न शक्योऽपह्नोतुमित्याह -
प्रदीपवदिति ।
प्रकाशमानस्याप्रामाणिकत्वमनवगन्तृकत्वं वा दूषणमित्याशङ्क्य दृष्टान्तमाह -
शिलेति ।
ज्ञानस्यैवावगन्तृकत्वान्नान्यापेक्षेति शङ्कते -
बाढमिति ।
ज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात् , दीपवदित्यनुमानान्न तस्य प्रमातृतेत्याह -
नेति ।
दर्शनादित्यन्तं व्याप्तिवचनम् । अतो विज्ञानस्येत्याद्यनुमानोक्तिरिति भेदः ।
साक्षिस्थाने मदिष्टं ज्ञानमेवास्तु ततो नास्ति विमतिरिति शङ्कते -
साक्षिण इति ।
ज्ञानस्योत्पत्त्यादिमत्त्वात्तत्साधकेन भाव्यं, क्रियात्वाच्च छिदिवत्कर्त्राश्रयत्वमित्यतिरिक्तज्ञातृत्वसिद्धिरित्याह -
नेति ।
साक्षिज्ञानयोर्वैलक्षण्ये फलितमाह -
अत इति ॥ २८ ॥
ज्ञानस्यापि ज्ञेयवदन्यवेद्यत्वाज्ज्ञानसत्ता चेज्ज्ञेयसत्तापि दुर्वारेत्युक्तम् । इदानीं निरालम्बनत्वानुमानंप्रत्याह -
वैधर्म्याच्चेति ।
तद्व्याख्यातुं व्यावर्त्यमनुवदति -
यदिति ।
तस्य निरासयोग्यत्वमाह -
तदिति ।
कथं तर्हि तन्निराकरणं, तत्र सूत्रमादाय व्याकरोति -
अत्रेति ।
मिथ्यात्वाविशेषादसिद्धं वैधर्म्यमित्याह -
किमिति ।
तत्र साध्यं निरालम्बनत्वं सर्वथैवालम्बनशून्यत्वं वा वास्तवसदालम्बनवैधुर्यं वा व्यावहारिकसदालम्बनहीनत्वं वा । आद्ये दृष्टान्तस्य साध्यविकलता, तत्रापि काल्पनिकालम्बनवत्त्वोपगमात् । द्वितीये सिद्धसाध्यता । तृतीये बाध्यत्वस्य प्रयोजकत्वात्प्रत्ययत्वमप्रयोजकमित्याह -
बाधेति ।
स्वप्नादिधियां व्यावहारिकसदालम्बनहीनत्वे बाध्यत्वं प्रयोजकमित्युक्तं प्रकटयति -
बाध्यते हीति ।
बाधमेवाभिनयति -
मिथ्येति ।
तस्य मिथ्यात्वे कथं प्रथेत्याशङ्क्याह -
न हीति ।
निद्राग्लानमिति करणदोषोक्तिः ।
मायादिषु बाध्यत्वाभावेऽपि व्यावहारिकसदालम्बनशून्यत्वादुपाधेः साध्याव्याप्तिरित्याशङ्क्याह -
एवमिति ।
साधनव्याप्तिं निराह -
नैवमिति ।
परमतेन स्वप्नस्य स्मृतित्वमुपेत्य सूत्रं विधान्तरेण योजयति -
अपि चेति ।
तथापि कथं वैधर्म्यं, तदाह -
स्मृतीति ।
किं तद्वैलक्षण्यं, तदाह -
अर्थेति ।
स्मृतेरर्थविप्रयोगमुदाहरति -
इष्टमिति ।
स्वप्नजागरयोरेवं वैधर्म्येऽपि किमनुमानस्येत्याशङ्क्याह -
तत्रेति ।
उक्तनीत्या तस्मिन्वैधर्म्ये स्थिते सतीति यावत् । अप्रमाकरणजत्वोपाधेर्न निरालम्बनत्वानुमानमित्यर्थः ।
उभयोरन्तरमसिद्धमित्याशङ्क्यानुभवविरोधान्मैवमित्याह -
न चेति ।
इतश्च न निरालम्बनत्वानुमानमित्याह -
अपि चेति ।
स्वतो जागरितधियां निरालम्बनत्वोक्तौ दृष्टिविरोधे तन्निरासार्थमनुमानमुच्यते, तस्मिन्नक्तेऽपि तद्विरोधतादवस्थ्यमिति कालात्ययापदिष्टत्वमाह -
अनुभवेति ।
तद्विरोधेन स्वतो निरालम्बनत्वाभावेऽपि स्वप्नसाधर्म्यात्तद्भविष्यतीत्याशङ्क्याह -
न चेति ।
स्वतोऽसतो धर्मस्यन्यसाधर्म्यादपि सत्त्वाभावे दृष्टान्तमाह -
न हीति ।
वैधर्म्यमुक्त्वा साधर्म्यं वदतो विरोधमाशङ्क्याह -
दर्शितं त्विति ॥ २९ ॥
चोद्यान्तरं निरसितुं सूत्रम् -
न भाव इति ।
तद्याकर्तुं चोद्यमनूद्य तस्य निरासयोग्यत्वमाह -
यदपीति ।
तन्निरासमेव सूत्रमवतार्य तदक्षरयोजनया दर्शयति -
अत्रेति ।
तेषामनुपलब्धावपि वासनानां भावे काऽनुपपत्तिः, तत्राह -
अर्थेति ।
निमित्तान्तरादपि तासां योगादलमर्थोपलब्ध्येत्याशङ्क्याह -
अनुपलभ्येति ।
पूर्वपूर्वज्ञानं तत्सन्तानो वा वासना, तेनानादित्वान्न निमित्तापेक्षेत्याशङ्क्याह -
अनादित्वेऽपीति ।
पूर्वस्मद्बीजादिदानीमुत्पद्यमानमङ्कुरं दृष्टमित्यदृष्टेऽपि तज्जातीययोरेव कार्यकारणत्वं युक्तं, प्रकृते त्वर्थोपलब्धिनिरपेक्षवासनोदयादृष्टेरादावेव तस्य कल्प्यत्वादनवस्थानान्नाभीष्टधीवैचित्र्यधीरित्यर्थः ।
स्वप्नादावर्थधियं विनापि वासनाकृतं धीवैचित्र्यं दृष्टमित्युक्तमाशङ्क्यानुवदति -
याविति ।
तत्रापि बाह्यार्थधीनिमित्तत्वमस्ति वासनानामित्युक्तन्यायेन स्थिते नान्वयादिसिद्धिरित्याह -
ताविति ।
प्रत्युक्तिप्रकारं सूचयति -
विनेति ।
इतश्चान्वयाद्यसिद्धिरित्याह -
अपि चेति ।
अपूर्वार्थदृष्टावृतेऽपि वासनां धीवैचित्र्यदृष्टेर्न क्वापि वासनावैचित्र्यकृतं धीवैचित्र्यमतोऽन्वयव्यतिरेकावस्मदनुगुणावित्याह -
विनापीति ।
वासनासत्त्वमुपेत्य तद्वैचित्र्यान्न धीवैचित्र्यमित्युक्तम् । इदानीं त्वन्मते न तत्सत्त्वमेवेत्याह -
अपि चेति ।
तदेव दर्शयितुं वासनास्वरूपमाह -
वासनेति ।
उक्तलक्षणानामपि वासनानामस्मत्पक्षे कानुपपत्तिः, तत्राह -
संस्काराश्चेति ।
तेषां कश्चिदाश्रयोऽपि स्यादित्याशङ्क्य विधान्तरेण सूत्रं योजयति -
न चेति ॥ ३० ॥
आलयज्ञानं वासनाधारः स्यादित्याशङ्क्याह -
क्षणिकत्वाच्चेति ।
सूत्रं व्याचष्टे -
यदपीति ।
विमतं न वासनाधारत्वयोग्यं, क्षणिकत्वात् रूपादिधीवदित्यर्थः ।
क्षणिकत्वेऽपि सन्तत्या स्थिरमालयज्ञानं सर्वव्यवहारास्पदं स्यादित्याशङ्क्याह -
न हीति ।
यद्येकः स्थायी कूटस्थो वा सर्वार्थदर्शी नेष्यते तदा देशाद्यपेक्षया वासनाधानं तदधीने स्मृतिप्रत्यभिज्ञे प्रत्यक्षादिव्यवहारश्च न सम्भवति, सन्तानस्यावस्तुनो वासनाद्याश्रयत्वायोगादित्यर्थः ।
व्यवहारनिर्वाहार्थमालयज्ञानस्य स्थायित्वं चेत् , तत्राह -
स्थिरेति ।
क्षणिकत्वसूत्रस्य व्याख्यानान्तरमाह -
अपि चेति ।
मतद्वयनिरासमुपसंहरति -
एवमिति ।
ज्ञानज्ञेययोः सत्त्वेनानिरूपणात्प्रतीतस्यासत्त्वायोगाद्विरोधादेव सदसत्त्वयोरेकत्रासिद्धेरनिर्वाच्यत्वस्य चैकनिषेधेऽन्यतरविधिध्रौव्यादसम्भवाद्विचारासहत्वमेवास्तु वस्तूनां तत्त्वमित्याशङ्क्याह -
शून्येति ।
नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योज्यन्ते तन्निरासायेति यावत ।
तत्र ज्ञानार्थयोरभावः शून्यत्वं न युक्तं, प्रमाणैस्तयोरुपलब्धेरित्याद्यसूत्रार्थ उक्तः । इदानीमतात्त्विकत्वं द्वैतस्य स्थापयितुमधिष्ठाने वस्तुनि वाच्ये तस्य त्वन्मते न भावो मानतोऽनुपलब्धेस्तन्न शून्यतेति च वदन् ‘न भावोऽनुपलब्धेः’ इति सूत्रं योजयति -
न हीति ।
नच स्वप्नादाविव जागरेऽपि ज्ञानार्थयोरसत्त्वं, वस्तुतस्तदसत्त्वेऽपि व्यवहारतस्तदयोगाद्बाधाबाधाभ्यां वैधर्म्यात्प्रतीतिस्तदसत्त्वस्य दृष्टान्तेऽप्यसंमतेरिति वैधर्म्यसूत्रं नेयम् । ‘क्षणिकत्वाच्च’ इति सूत्रम् ‘उपदेशाच्च’ इत्युपस्कृत्य क्षणिकत्वशून्यत्वोपदेशाद्व्याहतव्यवहारता सुगतस्येति योज्यम् ॥ ३१ ॥
वर्णकद्वयार्थमुपसंहरति -
सर्वथेति ।
उपसंहारसूत्रं विभजते -
किमिति ।
यथायथेति ।
ग्रन्थतोऽर्थतश्चेत्यर्थः ।
दर्शनमिति वा स्थानमिति वा वाच्ये पश्यनातिष्ठनेत्यलक्षणपदप्रयोगाद्ग्रन्थतस्तावन्नोपपत्तिः । अर्थतश्च नैरात्म्यमुपेत्यालयज्ञानं सर्वव्यवहारास्पदमित्युपगमात्प्रसिद्धैवानुपपत्तिरित्युपेत्य फलितमाह -
अतश्चेति ।
सौगतमतस्यानुपपन्नत्वे हेत्वन्तरं चकारसूचितमाह -
अपि चेति ।
वस्तुनि विकल्पानुपपत्तेर्विरोधाच्च समुच्चयासिद्धिरिति वक्तुमितरेतरविरुद्धमित्युक्तम् । सर्वज्ञस्य भगवतो वासुदेवस्येतिहासपुराणयोर्बुद्धत्वप्रसिद्धेस्तस्यासम्बद्धप्रलापित्वमयुक्तमित्याशङ्क्याह -
प्रद्वेषो वेति ।
वैदिकपथविरुद्धजन्तूपलक्षणार्थं प्रजाग्रहणम् ।
चतुर्धापि सुगतमतस्य वैदिकैरनादरणीयत्वान्न तद्विरोधो नित्यसच्चिदात्मनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्येति निगमयति -
सर्वथापीति ॥ ३२ ॥
एवं मुक्तकच्छमते निरस्ते मुक्ताम्बराणां बुद्धिस्थत्वात्तन्मतं निरस्यति -
नैकस्मिन्निति ।
एकरूपाद्ब्रह्मणो जगत्सर्गं वदन्समन्वयो विषयः । स किं सर्वमनैकान्तिकमिति मतेन विरुध्यते न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिमाह -
निरस्त इति ।
समयमात्रसिद्धपञ्चस्कन्धादिपदार्थाश्रितन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकपदार्थाश्रितन्यायाभाससन्दृब्धे मते बुद्धिस्थे तन्निरसनं युक्तमित्यर्थः ।
एकरूपब्रह्मसमन्वयविरोध्यनैकान्तवादभङ्गेन समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे तन्मतप्रामाण्यात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्ते तदप्रामाण्याद्भ्रान्तेन तेन विरोधस्याभासतया तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षयति -
सप्त चेति ।
जीवाजीवौ भौक्तृभोग्यौ, मिथ्याप्रवृत्तिरास्रवः, संवरनिर्जरौ सम्यक्प्रवृत्ती, बन्धस्तद्धेतुत्वात्कर्म, मोक्षस्तदुच्छित्तिरिति पदार्थाः सप्तेत्यर्थः ।
ननु भोक्तृभोग्ययोरितरेषामन्तर्भावात्कथं सप्तेत्युक्तं, लक्षणभेदादवान्तरलक्ष्यभेदे सप्तेति न व्यवस्था, तत्राह -
सङ्क्षेपतस्त्विति ।
नियमहेतुमाह -
यथेति ।
आस्रवादीनामजीवे मोक्षस्य पक्षभेदादुभयत्रान्तर्भाव इति विभागः ।
सङ्क्षेपविस्तराभ्यामुक्तपदार्थेषु विस्तरान्तरमाह -
तयोरिति ।
अस्तीति कायते शब्द्यत इत्यस्तिकायशब्दः पारिभाषिकः पदार्थवाची । जीवश्चासावस्तिकायश्चेति कर्मधारयः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणवस्तत्समूहोऽत्र पृथिव्यादिरुक्तः । कर्मधारयः सर्वत्र । धर्मास्तिकायः सम्यक्प्रवृत्त्यनुमेयः । शास्त्रीयबाह्यप्रवृत्त्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयते । अधर्मास्तिकायः स्थित्यनुमेयः । ऊर्ध्वगमनशीलो जीवस्तस्य देहेऽवस्थानेनाधर्मोऽनुमीयते । आकाशास्तिकायस्त्वावरणाभावः ।
उक्तपदार्थानामवान्तरभेदमाह -
सर्वेषामिति ।
तेषां मानयुक्तिहीनत्वं सूचयति -
स्वसमयेति ।
जीवास्तिकायस्त्रेधा - बद्धो मुक्तो नित्यसिद्धश्च । तत्रार्हन्मुनिर्नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ताः । अन्ये बद्धा इति भेदः । पुद्गलास्तिकायः षोढा । पृथिव्यादिचत्वारि भूतानि स्थावरं जङ्गमं चेति । प्रवृत्तिस्थितिभ्यामनुमेयौ धर्माधर्मास्तिकायावुक्तौ । आकाशास्तिकायो द्वेधा - लौकिकाकाशोऽलौकिकाकाशश्च । लोकानामन्तर्वर्ती लोकाकाशः । तदुपरि मोक्षस्थानमलोकाकाशः । आस्त्रवो मिथ्याप्रवृत्तिरुक्ता । आस्त्रवयति पुरुषं ज्ञानजननेन विषयेष्विति नानाविधेन्द्रियप्रवृत्तिरास्रव इत्येके । अपरे तु कर्तारमभिव्याप्य स्रवन्त्यागच्छन्तीति कर्माण्यास्रवमाचक्षते । सम्यक्प्रवृत्ती संवरनिर्जरौ । तत्रास्रवस्रोतोद्वारं संवृणोतीति संवरः शमादिप्रवृत्तिः । निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरस्तप्तशिलारोहणावरोहणादिः । बन्धो बध्नातीति कर्म तच्चाष्टविधम् । तत्र घातिकर्म चतुर्विधं ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति । सम्यग्ज्ञानं न मोक्षहेतुरिति ज्ञानं विज्ञानावरणीयम् । आर्हतमताभ्यासान्न मुक्तिरिति ज्ञानं दर्शनावरणीयम् । बहुषु तीर्थकरदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् । सन्मोक्षमार्गप्रवृत्तानां तत्प्रत्यूहकरं ज्ञानमन्तरायम् । तान्येतानि श्रेयोहन्तृत्वाद्धातिकर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमित्यघातिकर्मापि चतुर्विधम् । ममेदं ज्ञातव्यमस्तीत्यभिमानो वेदनीयम् । एतन्नामास्मीत्यभिमानो नामिकम् । अस्य शिष्यवंशे पतितोऽस्मीत्यभिमानो गोत्रिकम् । शरीरयात्रानिमित्तं कर्मायुष्कम् । अथवा सक्रियस्य बीजस्य पावकपवनवशादीषद्धनीभावः शरीराकारपरिणामहेतुर्वेदनीयम् । तच्छक्तिमति तस्मिन्बीजे कललाख्यद्रवावस्थायां बुद्बुदावस्थायां चारम्भकक्रियाविशेषो नामिकम् । बीजस्य शरीराकारपरिणामशक्तिर्गोत्रिकम् । शुक्रशोणितव्यतिकरे जाते मिलितं तदुभयरूपमायुष्कम् । तान्येतानि शुक्लपुद्गलाश्रयत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं बध्नातीति बन्धः । यद्यपि पूर्वोक्तास्रवोऽपि बन्धस्तथापि बन्धहेतुत्वादयमपि बन्ध इति द्रष्टव्यम् । आर्हतमुनिप्राप्तिः सन्ततोर्ध्वगतिर्वा मुक्तिरित्यर्थः । तथापि कथं वस्तु समस्तमनेकान्तमित्याशङ्क्याह -
सर्वत्रेति ।
अस्तित्वनास्तित्वादाविति यावत् । सप्तानामेकान्तभङ्गानां समाहारः सप्तभङ्गी तस्या नयः । घटः सन् घटोऽसन्नित्येकस्यैव सदसत्त्वयोरध्यक्षत्वात्कालभेदोपाधिकल्पनायां कालस्यापि सन्नसन्निति प्रत्ययात्तत्रापि तत्कल्पनायामनवस्थानात्प्रत्यक्षमेव वस्तूनामनैकान्त्यमिति भावः ।
वस्तूनामेकान्तत्वभङ्गाः सप्त कथं कदा च प्रसरन्तीत्यपेक्षायामाह -
स्यादिति ।
स्याच्छब्दस्तिङन्तप्रतिरूपको निपातोऽनेकान्तद्योती । तेन स्यादस्ति कथञ्चिदस्तीत्यर्थः । तथोत्तरत्रापि योजना । उक्तं हि - ‘तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते क्रमेणोभयवीक्षायां प्रयोगः समुदायवान् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः । आद्याऽवाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः । समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते । ‘ इति ।
सत्त्वादावुक्तमनैकान्तिकमेकत्वादावतिदिशति -
एवमेवेति ।
यदि वस्तु सत्त्वादीनामेकतमेन व्यवस्थितं तदा तस्य सर्वथा सर्वदा सर्वत्र सर्वात्मना नियमे तदीप्साजिहासाभ्यां प्रवृत्तिनिवृत्त्ययोगादप्रवृत्तिनिवृत्ति विश्वं स्यात् । अनैकान्तिकत्वे तु कस्यचित्कथञ्चित्केनचिदवस्थाने हानोपादाने प्रेक्षावतां प्रकल्प्येते, तस्मादनैकान्तिकं सर्वमिति मतविरोधिसमन्वयो नेति भावः ।
पदार्थानां सत्त्वादिव्यवस्था वास्तवी व्यावहारिकी वा न सम्भवतीति विकल्प्याद्यमङ्गीकृत्य द्वितीये व्यवहारविरोधमभिप्रेत्य सिद्धान्तयति -
अत्रेति ।
व्यवहारतो वस्तुतो वा नानैकान्तिकत्वमुपगन्तुं शक्यमिति प्रतिज्ञापरत्वेन नञ्पदं व्याचष्टे -
नायमिति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
हेतुं विभजते -
न हीति ।
एकत्र विरुद्धधर्मसमावेशासम्भवादनैकान्तिकत्वस्य द्विधाप्ययोगादैकान्तिकत्वस्य च घटादिषु तत्त्वतोऽयोगेऽपि व्यवस्थयैव दृष्टव्यवहारदृष्टेर्व्यावहारिकत्वसिद्धेरयुक्तत्वाद्दिगम्बरराद्धान्तस्य न तेन विरोधः समन्वयस्येत्यर्थः ।
विमतमनैकान्तिकं, वस्तुत्वात् , नरसिंहादिवदित्याशङ्क्य हेतोरनैकान्तिकत्वमाह -
य इति ।
सङ्क्षेपविस्तराभ्यामुक्तसङ्ख्यावत्त्वमेतावत्त्वम् । एवंरूपत्वमुक्तावान्तरभेदभाक्त्वम् ।
ननूक्तं पदार्थेषु वस्तुत्वे सत्यपि तथैवान्यथैव वेति नियमाभावात्तेष्वपि तथैवान्यथा वेत्यनिर्धारितज्ञानोपगमेनानैकान्तिकत्वाविशेषात्कुतो वस्तुत्वमनैकान्तिकं, तत्राह -
इतरथेति ।
स्थाणुर्वा पुरुषो वेति ज्ञानवत्पदार्थेषु सप्तत्वादिज्ञानस्याप्रामाण्यप्रसङ्गादसाधकत्वमुक्तं परिहरन्नाशङ्कते -
नन्विति ।
अनेकात्मकं वस्त्विति ज्ञानस्य निर्धारितत्वे तत्रैव वस्तुत्वस्यानैकान्त्यान्नैवमिति दूषयति -
नेतीति ।
निर्धारणे दर्शितन्यायं निर्धारयितृतत्करणतत्प्रमेयेष्वतिदिशति -
एवमिति ।
निर्धारणं फलं यस्य मानादेस्तत्तथा तस्येति यावत् । चकारेण तन्मेयं सप्तत्वादि गृहीतम् । इतिशब्दोऽनिर्धारणात्मकतयैव स्यादित्यनेन सम्बध्यते ।
अस्मदीये सिद्धान्ते परैरप्यापाद्यमाने का तस्य हानिरित्याशङ्क्याह -
एवमिति ।
उपदेशानुपपत्तिमुक्त्वा प्रवृत्तिरपि मुमुक्षूणामयुक्तेत्याह -
कथं वेति ।
अनिश्चयेऽपि कृष्यादाविव प्रवृत्तिमाशङ्क्यामुष्मिकहेतौ निश्चयादृते न प्रवृत्तिरित्याह -
ऐकान्तिकेति ।
निश्चयं विनापि सर्वज्ञोक्त्या प्रवृत्तिः स्यादित्याशङ्क्यानिर्धारितार्थशास्त्रकर्तुः सर्वज्ञत्वासंमतेर्मैवमित्याह -
अतश्चेति ।
सप्तपदार्थनियमवत्पञ्चास्तिकायनियमोऽपि नास्तीत्याह -
तथेति ।
पञ्चत्वसङ्ख्यानियमाभावे फलितमाह -
इत्यत इति ।
किञ्च सङ्क्षिप्तानां प्रपञ्चितानां च पदार्थानां सर्वैर्वा शब्दैरवाच्यत्वं केनचिद्वेति विकल्प्य घटादेस्तच्छब्दवाच्यत्वेऽपि स्तम्भादिशब्दावाच्यत्वादाद्यमुपेत्य द्वितीयं प्रत्याह -
न चेति ।
काऽत्रानुपपत्तिः, तत्राह -
उच्यन्ते चेति ।
ननु सत्त्वादिरूपेण निर्धारणाभावादुच्यमानानामपि स्यादवक्तव्यतेति न व्याहतिरुक्तेर्निर्धारणपूर्वकत्वेऽपि तथैवेत्यनिर्धारणादवक्तव्यत्वसिद्धिः, तत्राह -
उच्यमानाश्चेति ।
चकारो विप्रतिषिद्धमित्येतदनुकर्षणार्थः ।
सत्त्वाद्यनैकान्तिकत्वावधारणं निराकृत्य तत्फलं सम्यग्दर्शनं तद्विपरीतमसम्यग्दर्शनं चास्ति नास्ति वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीति प्रलपन्नाप्तो न स्यादित्याह -
तथेति ।
इतश्चासङ्गतमार्हतं मतमित्याह -
स्वर्गेति ।
किञ्चार्हन्नित्युक्तो नित्यमुक्तोऽनादिसिद्धो जीवः कश्चिद्धेत्वनुष्ठानान्मुच्यतेऽन्यस्तदभावाद्बध्यत एवमार्हते मते निश्चितस्वभावानामेषां तथात्वमस्ति न वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीत्यव्यवस्थायां शास्त्रावधृतस्वभावत्वासम्भवात्तदप्रामाण्यप्रसक्तिरित्याह -
अनादीति ।
सत्त्वासत्त्वयोरनैकान्तिकत्वायोगं सोपस्करमुपसंहरति -
एवमिति ।
एवमेवैकत्वनित्यत्वादिष्वप्युक्तं प्रत्याह -
एतेनेति ।
सत्त्वासत्त्वयोरनैकान्तोपगतिरिरासेनेति यावत् ।
परमाणुभ्यः स्थावरजङ्गमात्मानः सङ्घाता भवन्तीति दिगम्बरास्तत्किमिति न निरस्यते, तत्राह -
यत्त्विति ॥ ३३ ॥
पूर्वोक्तदृष्टान्तेन स्याद्वादे दोषान्तरं समुच्चिनोति -
एवं चेति ।
सूत्राक्षराणि व्याचष्टे -
यथेति ।
परमतवदस्मन्मतेऽपि न दोषप्रसक्तिरित्याह -
कथमिति ।
तत्प्रसङ्गार्थं परपक्षमाह -
शरीरेति ।
तत्र दोषं प्रसञ्जयति -
शरीरेति ।
आत्मत्वमनित्यवृत्ति, परिच्छिन्नवृत्तित्वात् , घटवदिति प्रसङ्गार्थः ।
अकृत्स्नत्वेन सूचितं दोषान्तरमाह -
शरीराणां चेति ।
कर्मणो विपाकः स्वफलं जनयितुमङ्कुरीभावः । कृत्स्नं हस्तिशरीरं न व्याप्नुयात् । तदेकदेशो जीवशून्यः स्यादित्यर्थः । पुत्तिकाशरीरे कृत्स्नो न संमीयेत । तस्मिन्ननन्तर्भूतस्ततो बहिरपि जीवः स्यादित्यर्थः ।
किञ्च कौमारे स्वल्पपरिमाणो जीवस्तारुण्ये स्थाविरे च न कृत्स्नं शरीरं व्याप्नुयादित्याह -
समान इति ।
यथा प्रदीपो घटप्रासादोदरे वर्तमानः सङ्कोचविकासवानेवं जीवोऽपि पुत्तिकाहस्तिदेहयोरित्याह -
स्यादिति ।
दीपावयवानां विशरणशीलत्वात् , अवयविनश्च दीपस्य प्रतिक्षणमुत्पत्तिनिरोधवतोऽनित्यत्वात् . नित्यात्मदृष्टान्तत्वासिद्धिरिति मत्वा विकल्पयति -
तेषामिति ।
आद्ये देहाद्बहिरपि जीवोपगतिरित्याह -
प्रतिघात इति ।
एकावयवदेशत्वेऽपि तथैवावयवानामवस्थाननियमाभावे परिमाणनियमो नात्मनि स्यादिति द्वितीयं प्रत्याह -
अप्रतिघातेऽपीति ।
जीवावयवानामानन्त्यमङ्गीकृत्योक्त्वा तदपि नास्तीत्याह -
अपि चेति ।
परिमितत्वादित्यर्थः ॥ ३४ ॥
बृहत्तनुदेहाप्ताववयवोपगमापगमाभ्यां जीवस्य देहपरिमाणताऽविरुद्धेत्याह -
अथेति ।
चोद्योत्तरत्वेन सूत्रमादत्ते -
तत्रापीति ।
प्रतिज्ञां विभजते -
न चेति ।
प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
विकारप्रसङ्गं प्रकटयति -
अवयवेति ।
आत्मनः समुद्रादिवद्विक्रियावत्त्वमिष्टमित्याशङ्क्याह -
विक्रियेति ।
अनित्यत्वप्रसङ्गस्येष्टत्वं निराह -
ततश्चेति ।
तदर्थं तदभ्युपगमं दर्शयति -
कर्मेति ।
न चात्मनोऽनित्यत्वे युक्तोऽयमुपगमो बन्धमोक्षान्वयिनोऽभावात् । नहि तौ स्वतन्त्रौ तद्भावे बन्धस्यानादित्वान्मुक्तस्य चानाशित्वान्नानित्यतेत्यर्थः ।
आदिशब्दसूचितमर्थमाह -
किञ्चेति ।
यस्यात्मा सावयवस्तस्यावयवानामात्मत्वम् अवयविनो वा । आद्येऽपि किमागमापायिनां तेषामात्मत्वं तद्धीनस्य वा कस्यचिदवयवस्येति विकल्प्याद्यं प्रत्याह -
आगच्छतामिति ।
कल्पान्तरं परिशिष्टमादत्ते -
ततश्चेति ।
तस्य विशेषतोऽपरिज्ञानादात्मज्ञानाभावादपवर्गासिद्धिरित्याह -
न चेति ।
आद्ये कल्पे दोषान्तरमाह -
किञ्चेति ।
अवयवप्रादुर्भावापादानत्वं तद्विलयाधारत्वं च महाभूतानां वा व्यतिरिक्तस्य वा कस्यचिदिति विमृश्याद्यं प्रत्याह -
न हीति ।
द्वितीयेऽपि प्रतिजीवमसाधारणः सर्वसाधारणो वेति विकल्प्य दूषयति -
नापीति ।
तथा चात्मज्ञानाभावादमुक्तिरेवेत्यर्थः ।
अवयवानां नात्मत्वमवयविनस्तु तथात्वमिति मतं प्रत्याह -
किञ्चेति ।
एवं सति आत्मनोऽवयवित्वे सतीति यावत् ।
तत्र हेतुमाह -
आगच्छतामिति ।
किञ्च प्रत्येकमवयवा न चेतयेरन्नेकाभिप्रायत्वानियमात् । विरुद्धाभिप्रायतया विरुद्धक्रियत्वेन शरीरोन्मथनप्रसङ्गः । न चावयवसमूहस्य चैतन्यं, तस्य भेदाभेदाभ्यां दुर्भणत्वादिति मत्वाऽह -
अत इति ।
प्रकारप्रकारिणौ पञ्चमीभ्यामुक्तौ ।
प्रकारान्तरेण सूत्रमवतारयति -
अथवेति ।
तदेव दर्शयति -
पूर्वेणेति ।
आत्माऽकार्त्स्न्यसूत्रेण प्रसञ्जितां तदनित्यतां सन्ताननित्यतया सुगतवत्परिहर्तव्यामाशङ्क्येदं सूत्रमित्यर्थः । पर्यायेण शरीरव्यक्तिभेेदेन परिमाणस्यात्मनिष्ठस्यैकरूपस्यानवस्थानादनवस्थितपरिमाणस्यात्मनोऽनित्यत्वे शङ्कितेऽपि स्रोतोरूपेण तत्परिमाणस्य च यः सन्तानस्तस्य नित्यतैव न्यायस्तेनेति यावत् ।
व्यक्तीनामनित्यत्वेऽपि सन्ताननित्यत्वे दृष्टान्तः -
यथेति ।
सिग् वस्त्रं विगतं येभ्यस्ते विसिचो विवसनास्तेषामपि पुत्तिकादेहहस्तिदेहादावात्मपरिमाणस्यानवस्थितत्वेऽपि तत्सन्ताननित्यत्वेनात्मनित्यत्वमाशङ्क्य सूत्रमित्याह -
तद्वदिति ।
तदेव विवृणोति -
सन्तानस्येति ।
पर्यायशब्देन क्रमभाविपरिमाणगतः सन्तानो गृह्यते, तन्नित्यत्वादपि नात्मनित्यत्वम् । तस्य हि वस्तुत्वमवस्तुत्वं वा । द्वितीये राद्धान्तविरोधमुक्त्वा प्रथमं प्रत्याह -
वस्तुत्वेऽपीति ।
स हि सन्तानिभ्योऽभिन्नो भिन्नो वा । अभेदे प्रतिदेहं परिमाणभेदानां सन्तानिनामन्यथात्वात्कार्यत्वेनानित्यत्वात्तदभिन्नसन्तानस्यापि तथात्वम् । भेदे तत्सन्तानत्वायोगाद्भिन्नत्वेन घटादिवद्विकारादिप्रसङ्गादात्मनित्यत्वं सन्ताननित्यतया यदुच्यते तस्यानुपपत्तिरित्यर्थः । इतिशब्दः सूत्रव्याख्यासमाप्त्यर्थः ॥ ३५ ॥
इतोऽपि न जीवस्य क्रमेणोपचितापचितपरिमाणत्वमित्याह -
अन्त्येति ।
सूत्रं व्याकरोति -
अपि चेति ।
यज्जीवपरिमाणं तन्नित्यमिति व्याप्तिभूमिमाह -
अन्त्यस्येति ।
सफलमनुमानमाह -
तद्वदिति ।
विमतं नित्यं, जीवपरिमाणत्वात् , संमतवदित्यनुमानादविशेषप्रसङ्गः सदा जीवस्येत्युक्तं प्रकटयति -
एकेति ।
उपचयापचययोरनेकरूपताव्याप्तेरुक्तानुमानविरोधादित्यर्थः ।
पूर्वमवस्थितशब्दो नित्यपरत्वेनोक्तः, अविशेषश्चैकशरीरपरिमाणता, उभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति च हेतुः । इदानीं शरीरमन्तरेणैव मोक्षकालीनस्य परिमाणस्यावस्थितत्वादुभयोरपि पूर्वयोरवस्थयोर्देहापेक्षां विना जीवस्यावस्थितपरिमाणत्वसम्भवान्न शरीरपरिमाणत्वं किं त्वविशेषेण तस्याप्यणुत्वं महत्त्वं वा स्यादिति व्याख्यान्तरमाह -
अथवेति ।
विमतो न देहपरिमाणः, आत्मत्वात् , मुक्तवदित्यर्थः ।
आत्मनो देहपरिमाणत्वायोगे फलितमाह -
अतश्चेति ॥ २६ ॥
लुञ्चितकेशमतं निराकृत्य जटाधारिमाहेश्वरमतं निराचष्टे -
पत्युरिति ।
सत्त्वासत्त्वयोरेकत्रायोगवदधिष्ठातृत्वोपादानत्वयोरपि नैकत्र योगोऽस्तीत्याशङ्कय तात्पर्यमाह -
इदानीमिति ।
अविशेषेणेश्वरकारणवादिनिषेधभ्रमनिवृत्त्यर्थमाह -
केवलेति ।
अविशेषोक्तेरीश्वरकारणत्वमेवात्र निषिध्यते न तस्य निमित्तत्वमात्रमिति शङ्कते -
तदिति ।
स्वोक्तिविरोधान्मैवमित्याह -
प्रकृतिश्चेति । न
केवलमीश्वरस्य कारणत्वमात्रनिषेधे प्रकृतिसूत्रं विरुध्यते किं त्वभिध्यासूत्रमपीति मत्वाह -
अभिध्येति ।
प्रतिष्ठापितत्वात् ।
उक्ततात्पर्यधीरिति शेषः ।
उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -
यदीति ।
सूत्रकृतो विरुद्धार्थवादित्वं परिहर्तुं फलितमाह -
तस्मादिति ।
तन्निराकरणं किमर्थमित्याशङ्क्य ब्रह्मात्मैकत्वं दृढीकर्तुमित्याह -
वेदान्तेति ।
एतेनाधिकरणस्य फलमुक्तम् । अद्वितीयाद्ब्रह्मणो जगत्सर्गं ब्रुवतः समन्वयस्य केवलमधिष्ठातेश्वरो जगतो नोपादानमिति माहेश्वरराद्धान्तेन विरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे पूर्वपक्षयति -
सा चेति ।
माहेश्वरमतनिराकरणेन समन्वयविषयब्रह्मात्मैक्यस्यात्र दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे तन्मतस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धेर्ब्रह्मात्मैक्यासिद्धिः । सिद्धान्ते तस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वे समन्वयसिद्धेरैक्यसिद्धिः ।
ईश्वरकल्पनाया बहुप्रकारत्वे हेतुं सूचयति -
वेदेति ।
ज्ञानशक्त्यैश्वर्योत्कर्षतारतम्यं क्वचिद्विश्रान्तं, तरतमभावत्वात् , परिणामतारतम्यवदित्याह -
केचिदिति ।
प्रधीयत इति प्रधानस्याविद्यात्वात्प्रधानपुरुषाधिष्ठातेश्वरोऽस्माभिरपि गृह्यते, तत्राह -
इतरेति ।
चत्वारो माहेश्वराः - शैवाः पाशुपताः कारुणिकसिद्धान्तिन कापालिकाश्च । ते सर्वे महेश्वरप्रणीतागमप्रामाण्यात्केवलं निमित्तमीश्वरमिच्छन्तीत्य़ाह -
माहेश्वरास्त्विति ।
कार्यं प्राधानिकं महदादि कारणं महेश्वरः, योगः समाधिः, विधिस्त्रिषवणस्रानादिः, दुःखान्तो मोक्ष इति पञ्च पदार्थाः । ते किमर्थमीश्वरेणोक्ताः, तत्राह -
पश्विति ।
पशवो जीवास्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तस्तदर्थमिति यावत् ।
कुम्भकारादेरधिष्ठातुश्चेतनस्य कुम्भादिकार्ये निमित्तत्वमात्रदृष्टेरीश्वरोऽपि जगदधिष्ठाता निमित्तमेव नोपादानमेकस्योभयविरोधादिति मत्वाऽह -
पशुपतिरिति ।
वैशेषिकनैयायिकविवसनसुगतमतानि सूचयति -
तथेति ।
विमतमुपादानाद्यपरोक्षज्ञानवज्जन्यं, कार्यत्वात् , घटवदिति वैशेषिकाः । कर्मफलं सम्प्रदानाद्यभिज्ञप्रदातृकं, कर्मफलत्वात् , सेवाफलवदिति नैयायिकदिगम्बरौ । सौगतास्तु साङ्ख्यानुमानेनैव तटस्थमीश्वरमास्थिताः । एवं माहेश्वरमतस्य प्रामाणिकत्वात्तद्विरोधः समन्वयस्येति प्राप्ते सिद्धान्तमाह -
अत इति ।
पूर्वाधिकरणान्नञ्पदमध्याहृत्य साङ्ख्ययोगाश्रयेश्वरकल्पनादूषणत्वेन सूत्रं योजयति -
पत्युरिति ।
ईश्वरस्य निमित्तत्वमात्रे मानसिद्धे हेत्वसिद्धिरित्याह -
किमिति ।
तस्य तन्मात्रत्वमागमान्मानान्तराद्वा । नाद्यः, तस्योभयकारणत्ववादिताया दर्शितत्वात् । मानान्तरमप्यनुमानमर्थापत्तिर्वा । आद्ये चेतनस्य द्रव्यं प्रति निमित्तत्वमात्रं लोके दृष्टमिति तद्बलात्तन्मात्रमीश्वरं वदतो वैषम्यकारिणो रागादिमत्त्वदृष्टेस्तदपि तस्मिन्कल्प्यलमित्यसामञ्जस्यं स्यादित्याह -
हीनेति ।
आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यं, तस्य दृष्टसाधर्म्यादप्रवृत्तेः । अनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतीति भावः ।
ईश्वरो हि न स्वेच्छया विषमान्प्राणिनो विदधाति किन्तु तत्कर्मापेक्षया, तेन न तस्य रागादिमत्त्वमिति शङ्कते -
प्राणीति ।
कर्मापेक्षया फलदातृत्वेऽपि कारुणिकत्वादीश्वरः शुभस्यैव फलं ददाति नाशुभस्येति किं न स्यादित्याह -
नेति ।
येन येनेश्वरः शुभेनाशुभेन वा प्रेर्यते तस्य फलं ददातीत्याशङ्क्य कर्मणा स प्रवर्त्यते तेन च कर्मेत्यन्योन्याश्रयान्मैवमित्याह -
कर्मेति ।
अतीतेन कर्मणा प्रवर्तितस्येश्वरस्य वर्तमाने कर्मणि फलदानाय प्रवृत्तिरित्यनादित्वात्प्रवर्त्यप्रवर्तकत्वस्य कर्मेश्वरयोर्नान्योन्याश्रयतेत्याह -
नानादित्वादिति ।
स्यादेष परिहारो यद्यतीतं कर्म स्वातन्त्र्येणेश्वरं प्रवर्तयेत् , तत्तु नास्त्यचेतनत्वात् , अतस्तदपि पूर्वकर्मप्रवर्तितेश्वरप्रेरितमेव वर्तमाने कर्मणि तत्प्रेरकमिति कर्मेश्वरयोर्मिथोऽपेक्षायाः सार्वत्रिकत्वादनादित्वस्याप्रामाणिकत्वान्मैवमित्याह -
नेति ।
कर्मापेक्षया वैषम्यहेतुत्वस्य निर्वक्तुमशक्यत्वाल्लोकदृष्ट्या स्यादेव रागादिमत्त्वमीश्वरस्येत्युक्तम् । इदानीं परमतेनापि तस्य रागादिमत्त्वं स्यादित्याह -
अपि चेति ।
प्रवर्तकत्वलिङ्गका रागादिदोषा इति नैयायिकसमयः । ततश्च प्रवर्तकत्वादेवेश्वरस्य तद्वत्त्वमित्यर्थः
प्रवर्तकत्वदोषवत्त्वयोर्व्याप्तिं व्यनक्ति - ।
न हीति ।
कारुण्यादपि प्रवृत्तेर्नैवं व्याप्तिरित्याशङ्क्याह -
स्वार्थेति ।
कारुण्ये सति स्वस्य दुःखं भवति, तेन कारुणिकोऽपि स्वदुःखनिवृत्तये परार्थेऽपि प्रवर्तत इत्यर्थः ।
तथापि किं जातमीश्वरस्येत्याशङ्क्याह -
इत्येवमिति ।
न केवलं दृष्टानुसारादसामञ्जस्यं किं तूक्तेन प्रकारेणोपगमादपीत्यर्थः ।
स्वीकारमात्रस्यादोषत्वात्तस्य दोषपर्यवसायित्वमाह -
स्वार्थेति ।
अर्थित्वादित्यर्थः ।
ईश्वरस्य प्रवर्तकत्वमुपेत्योक्तम् । तदपि पातञ्जलमते नास्तीत्याह -
पुरुषेति ॥ ३७ ॥
प्रधानवादे दोषान्तरमाह -
सम्बन्धेति ।
प्रकृतासामञ्जस्ये हेत्वन्तरपरं सूत्रमिति सूचयति -
पुनरिति ।
कथमीश्वरस्य प्रधानपुरुषाभ्यां सम्बन्धोऽस्त्युत न । नास्ति चेदधिष्ठात्रधिष्ठेयताऽसिद्धिरित्याह -
न हीति ।
अस्ति चेत्तर्हि स संयोगो वा समवायो वा योग्यता वेति विकल्प्याद्यं दूषयति -
न तावदिति ।
अप्राप्तप्राप्तिरव्याप्यवृत्तिश्च संयोगस्य स्वरूपम् । तत्र प्रधानादिष्वप्राप्तप्राप्तेरभावे हेतुमाह -
प्रधानेति ।
अव्याप्यवृत्तित्वाभावेऽपि हेतुमाह -
निरवयवत्वादिति ।
द्वितीयं निरस्यति -
नापीति ।
तृतीयं प्रत्याह -
नाप्यन्य इति ।
प्रधानकार्यत्वस्य जगतोऽसिद्धत्वात्प्रधानेश्वरयोः सम्बन्धस्य कार्यकल्प्यस्यायोगादित्यर्थः ।
तवापि मायाब्रह्मणोर्विभुत्वान्निरवयवत्वाच्च संयोगासिद्धिः समवायस्यानिष्टत्वात्कार्यकारणत्वस्य चासिद्धत्वात्कार्यगम्ययोग्यतासम्बन्धायोगान्नाधिष्ठात्रधिष्ठेयतेति शङ्कते -
ब्रह्मेति ।
मायाब्रह्मणोरनिर्वाच्यतादात्म्यसम्बन्धान्न साम्यमित्याह -
नेति ।
इतोऽपि ब्रह्मवादिनो न दोषसाम्यमित्याह -
अपि चेति ।
तथापि दृष्टमनुसर्तव्यं, नेत्याह -
नावश्यमिति ।
दृष्टविरुद्धेऽत्यन्तादृष्टे चागमस्य प्रवृत्तेरित्यर्थः ।
अनुमानवादिनि विशेषमाह -
परस्येति ।
ईश्वरवादिनोऽपि तुल्यत्वादागमबलस्यानुमानबलमधिकमिति शङ्कते -
परस्यापीति ।
किमीश्वरस्य सर्वज्ञत्वं तत्कृतागमाद्गम्यते किंवाऽनुमानादिति विकल्प्याद्ये दोषमाह -
नेत्यादिना ।
सर्वज्ञकृतत्वेनागमप्रामाण्ये ततः सर्वज्ञकृतत्वं ज्ञेयं, ततश्च तस्य प्रामाण्यमिति नैकमपि सिध्यति । अस्माकं त्वनादिसिद्धाद्वेदादनपेक्षादलौकिकमपि यूपादिवद्दृष्टं स्यादिति भावः ।
न चानुमानादीश्वरः सर्वज्ञो ज्ञायते, दृष्टबलप्रवृत्तेरनुमानादीश्वरं साधयतः स्वाभ्युपगमवैपरीत्यध्रौव्यस्योक्तत्वादित्युपसंहरति -
तस्मादिति ।
साङ्ख्ययोगोक्तन्यायं चतुर्विधमाहेश्वरेषु वैशेषिकादिषु चातिदिशति -
एवमिति ॥ ३८ ॥
द्विविधादागमादनुमानाच्च तटस्थेश्वरसिद्धिर्निरस्ता । संप्रत्युद्भूतरूपादिहीनप्रधानादेरस्मदादिभिरधिष्ठेयत्वानुपपत्तिरर्थापत्तिरीश्वरे मानमित्याशङ्क्यास्मदादिवदीश्वरेणापि प्रधानादेरधिष्ठेयत्वानुपपत्तेर्मैवमित्याह -
अधिष्ठानेति ।
सूत्रं व्याकरोति -
इतश्चेति ।
अनुपपत्तिं वक्तुं परस्येश्वरकल्पनामनुवदति -
स हीति ।
अस्मदादिवदीश्वरेणापि प्रधानादीनामधिष्ठेयत्वं न युक्तं तेनार्थापत्तेरनुत्थानादित्याह -
नचेति ।
विमतं न चेतनाधिष्ठेयम् , अप्रत्यक्षत्वात् , मृदादिवदिति व्यतिरेकिणानुपपत्तिमेव स्फुटयति -
नहीति ।
अप्रत्यक्षत्वमुद्भूतरूपादिराहित्येन स्फोरयति -
रूपादीति ॥ ३९ ॥
चक्षुरादावनैकान्त्यमाशङ्क्य परिहरति -
करणवदिति ।
शङ्कां विभजते -
स्यादेतदिति ।
अनैकान्तिके शङ्कितेऽपि नार्थापत्तेरुत्थानमित्युत्तरं व्याचष्टे -
तथापीति ।
अस्मत्पक्षे चक्षुरादिस्वानुभवसिद्धमेवाधिष्ठीयते । अतो न व्यभिचारशङ्केत्यर्थः ।
किञ्च करणग्रामवच्चेतनाधिष्ठितत्वं प्रधानादेरशक्यं वक्तुं वैषम्यादित्याह -
भोगादीति ।
आदिशब्दात्तत्कारणरूपदर्शनादि गृहीतम् । करणग्रामप्रयुक्तं हि रूपदर्शनादि तत्फलं च भोगश्चेतने दृश्यते, तेन तस्य तेनाधिष्ठितत्वं प्रधानादिकृताश्च भोगादयो नेश्वरस्य केनापीष्यन्ते । तथाच करणग्रामवैलक्षण्यात्प्रधानादेर्न चेतनाधिष्ठितत्वमित्यनुत्थानमर्थापत्तेरित्यर्थः ।
विपक्षे दोषमाह -
करणेति ।
यदि प्रधानादेरिष्टं करणग्रामसाम्यं तर्हि संसारिणां तत्कृतभोगादिवदीशस्यापि प्रधानादिकृता भोगादयः स्युः, ततश्चानीश्वरत्वापत्तेर्नार्थापत्त्या तद्धीरित्यर्थः ।
सूत्रद्वयस्य व्याख्यान्तरमाह -
अन्यथा वेति ।
ईश्वरस्याधिष्ठानं शरीरं, तदयोगात्प्रवर्तकत्वासिद्धेर्न कार्यानुपपत्त्या तद्धीरित्याह -
अधिष्ठानेति ।
तद्व्याकरोति -
इतश्चेति ।
चेतनस्य प्रवर्तकत्वं सशरीरत्वव्याप्तमन्वयव्यतिरेकाभ्यां वदन्नितःशब्दार्थं स्फुटयति -
साधिष्ठानो हीति ।
विमतं शरीरादिमत्पूर्वकं, कार्यत्वात् , घटवदिति व्याप्तिफलमाह -
अतश्चेति ।
लीलामयं शरीरमीश्वरस्यापि सिद्धमिति सिद्धसाध्यतेत्याशङ्क्याह -
नचेति ।
तर्हि कार्यमपि शरीरादिमत्पूर्वकं मा भूदित्याशङ्क्याह -
निरधिष्ठानत्वे चेति ।
अनीश्वरस्यैव सृष्ट्युत्तरभावि शरीरमीश्वरस्य प्रागपीच्छानिर्मितं भविष्यतीत्याशङ्क्याह -
करणवदिति ।
चोद्यं व्याकरोति -
अथेति ।
न तावदीश्वरस्येच्छानिर्मिते प्राचीने देहे किञ्चिन्मानं, तथापि तदङ्गीकारे देहित्वादीश्वरत्वासिद्धिरित्युत्तरमाह -
एवमपीति ।
देहित्वेऽपि किमित्यनीश्वरत्वं, तत्राह -
सशरीरत्वे हीति ॥ ४० ॥
श्रुत्यनुमानार्थापत्तिभिरीश्वरो न परेष्टः सिध्यतीत्युक्तम् । इदानीं तस्यानन्तत्वाद्युपगमोऽपि न सम्भवतीत्याह -
अन्तवत्त्वमिति ।
सूत्रं व्याकरोति -
इतश्चेति ।
तदेव वक्तुं परमतमनुवदति -
स हीति ।
न तावदीश्वरस्य सर्वज्ञत्वं, नित्ये ज्ञाने स्वातन्त्र्यायोगात् । ज्ञानस्य साक्षाद्विषयसम्बन्धासिद्धेश्च । तथाप्युपेत्य विकल्प्य दोषप्रसक्तिं प्रतिजानीते -
तत्रेति ।
कल्पद्वयेऽपि दोषानुषक्तिं प्रकटयितुं पृच्छति -
कथमिति ।
विमतमन्तवत् , इयत्तापरिच्छिन्नत्वात् , घटवदित्याह -
पूर्वस्मिन्निति ।
लौकिकीं दृष्टिमेव स्पष्टयति -
यद्धीति ।
व्याप्तिफलमनुमानं निगमयति -
तथेति ।
हेतोरसिद्धिमाशङ्क्य सङ्ख्यातः स्वरूपतो वा परिमितिराहित्यमिति विकल्प्याद्यं प्रत्याह -
सङ्ख्येति ।
न द्वितीयः । प्रधानादयः स्वरूपपरिमिताः, वस्तुतः परिच्छिन्नत्वात् , घटवदित्याह -
स्वरूपेति ।
यस्य यादृशं परिमाणमणुमहद्दीर्घं ह्रस्वं वा तदीश्वरेण सर्वज्ञत्वात्परिच्छिद्येत, तथाच ज्ञातपरिमाणत्वात्प्रधानाद्यन्तवदित्यर्थः ।
प्रधानपुरुषेश्वरस्वरूपेण त्रित्वे ज्ञातेऽपि जीवानामानन्त्यात्तद्गतसङ्ख्याज्ञानाभावात्तेषु सङ्ख्यापरिमितिरसिद्धेत्याशङ्क्याह -
पुरुषेति ।
पुरुषैस्तावत्प्रत्येकमेकत्वसङ्ख्या ज्ञाता । या च तेषामन्योन्यापेक्षया बहुत्वसङ्ख्या सापीश्वरेण ज्ञायते । न च सहस्रं लक्षं वेति विशेषाज्ञानादानन्त्यं, माषराशौ व्यभिचारात् । अस्मदादिभिः सङ्ख्यातुमशक्यस्यापि गणितज्ञेन सङ्ख्यातत्वदर्शनात् । सन्दिग्धं विशेषाज्ञानं सर्वपुरुषपरिचयादृते तदज्ञाननिश्चयस्याशक्यत्वात् । तस्मान्न जीवास्तत्त्वतोऽनन्ता वस्तुतः परिच्छिन्नत्वादेकदेशस्थमाषादिवदिति हेत्वसिद्धिमुद्धृत्य फलितमाह -
ततश्चेति ।
कतिपयसंसारिषूक्तन्यायमवशिष्टेष्वतिदिशति –
एवमिति ।
यथा बहूनामपि माषाणामेकैकापचये निखिलापचयो दृश्यते तथा क्रमेण सर्वमुक्तेरिदानीं सर्वसंसारशून्यं जगद् भवेदित्यर्थः ।
किञ्चेश्वरस्यास्मिन् पक्षे सर्वदा सर्वज्ञत्वं सर्वेश्वरत्वं च न सिद्ध्यतीत्याह -
प्रधानं चेति ।
दोषान्तरमाह -
प्रधानेति ।
सिद्धे सर्वेषामाद्यन्तवत्त्वे फलितमाह -
आद्यन्तेति ।
कल्पान्तरमनुवदति -
अथेति ।
वाशब्दसूचितं विकल्पद्वयमुक्त्वाद्यन्तवत्त्वं प्रतिपाद्य द्वितीयमवलम्ब्यासर्वज्ञतेति ।
दूषयति -
तत इति ।
आगमानपेक्षस्यानुमानसिद्धमन्तवत्त्वं दुर्वारम् । अस्माकं त्वागमगम्यत्वादानन्त्यस्य नान्तवत्त्वानुमानम् । एतेन पूर्वपक्षानुमानान्यपि प्रत्युक्तानीति मत्वोपसंहरति -
तस्मादिति ।
शरीरादिराहित्यानुपपत्तिवदानन्त्याद्यभ्युपगमायोगादपीत्यपेरर्थः । अपौरुषेयश्रुतिसिद्धेश्वरस्य न निरासोऽस्तीति तार्किकविशेषणम् ॥ ४१ ॥
माहेश्वरमतनिरासानन्तरं वैष्णवमतं निरस्यति -
उत्पत्तीति ।
यद्वा पञ्चपदार्थवादिनि निरस्ते चतुर्व्यूहवादिनं निरस्यति -
उत्पत्तीति ।
वृत्तमनूद्याधिकरणतात्पर्यमाह -
येषामिति ।
अधिकरणारम्भमाक्षिपति -
नन्विति ।
तथापि भागवती स्मृतिरप्रमाणत्वादनादर्तव्येति वक्तुमधिकरणमित्याशङ्क्याह -
श्रुतीति ।
तत्प्रामाण्ये फलितमाह -
तदिति ।
वेदाविरुद्धांशमुपेत्य विरुद्धांशनिरासायाधिकरणमित्याह -
उच्यत इति ।
समानत्वादित्यत्र श्रुतिस्मृत्योरिति शेषः ।
जीवाभिन्नाद्ब्रह्मणो जगत्सर्गवादी समन्वयो जीवोत्पत्त्यादिविषयपञ्चरात्रराद्धान्तेन विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -
तत्रेति ।
भागवतमतनिरासद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे भागवतमतस्य मानत्वात्तद्विरोधे समन्वयासिद्धेरभेदवादासिद्धिः । सिद्धान्ते तस्य भ्रमत्वात्तद्विरोधस्याभासतया समन्वयसिद्ध्या तत्सिद्धिः । तत्र मूर्त्यन्तरं निराकर्तुं वासुदेव इत्युक्तम् । तस्य सावयवत्वं निरस्यति -
निरञ्जनेति ।
कथं तर्हि शास्त्रे मूर्तिभेदः, तत्राह -
स इति ।
व्यूहेषु भगवतोऽवस्थाविशेषेष्ववान्तरभेदमाह -
वासुदेव इति ।
तेष्वेव प्रकृतिविकृतित्वमाह -
तेषामिति ।
सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -
तमिति ।
यथोक्तव्यूहवन्तं सर्वप्रकृतिभूतं निरञ्जनज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायो जपः । योगो ध्यानम् ।
परपक्षमनुभाष्य तस्मिन्नविरुद्धमंशमाह -
तत्रेति ।
तदनिरासे हेतुमाह -
स इति ।
अविरुद्धमंशान्तरमाह -
यदपीति ।
तदनिषेधे हेतुमाह -
श्रुतीति ।
‘समाहितः श्रद्धावित्तो भूत्वा’ इत्याद्या श्रुतिः । ‘मत्कर्मकृन्मत्परमो मद्भक्तः’ इत्याद्या स्मृतिः ।
निरस्यांशमाह -
यदिति ।
तत्र सूत्रमवतार्य व्याकरोति -
अत्रेति ।
हेतुं विवृणोति -
उत्पत्तीति ।
आदिशब्देनाकृताभ्यागमकृतप्रणाशस्वर्गनरकापवर्गाभावा गृह्यन्ते ।
जीवस्योत्पत्तिमत्त्वे दोषान्तरमाह -
ततश्चेति ।
कार्यस्यापि जीवस्य कारणभगवदाप्तिमोक्षे कानुपपत्तिः, तत्राह -
कारणेति ।
इतश्च न जीवोत्पत्तिरित्याह -
प्रतिषेधिष्यतीति ।
जीवोत्पत्त्ययोगे तदर्थपञ्चरात्रराद्धान्तस्य भ्रान्तत्वान्न तद्विरोधः समन्वयस्येत्युपसंहरति -
तस्मादिति ॥ ४२ ॥
जीवजन्म निरस्य मनसस्ततो जन्म निरस्यति -
नचेति ।
चकारार्थमाह -
इतश्चेति ।
सङ्कर्षणाज्जीवान्मनसो जन्मकल्पना नेत्यत्रेतःशब्दगृहीतं हेतुं स्फुटयति -
यस्मादिति ।
सिद्धकरणप्रयोक्ता कर्तेऽति प्रसिद्धिद्योतको हिशब्दः ।
करणस्य कर्तुरुत्पत्त्यभावेऽपि भागवतकल्पना कथमसङ्गतेति तद्वक्तुं तत्कल्पनामनुवदति -
वर्णयन्तीति ।
लोके करणस्य कर्तुरुत्पत्त्यभावेऽपि कथं परेषां कल्पना न कल्पते स्मृतिमूलत्वादित्याशङ्क्य तन्मूलं प्रत्यक्षमनुमानं श्रुतिर्वेति विकल्प्याद्यौ प्रत्याह -
नचेति ।
न तावदस्याः स्मृतेरध्यक्षं मूलं, जीवान्मनोजनौ परस्येन्द्रियसंनिकर्षे नियामकाभावात् । न द्वितीयः । दृष्टान्तं विनानुमानायोगात् । यद्यपि बहुविधविद्यापर्यवदातोऽपि विधाय करे कठोरधारं कुठारं तेन निष्ठुरमपि काष्ठं छिनत्ति तथापि न तस्यासावुपादानम् । तथा सङ्कर्षणोऽपि प्रद्युम्नस्य नोपादानं स्यात् । नच सङ्कर्षणस्याकरणस्य प्रद्युम्ननिर्माणम् । इतरथा करणमन्तरेणैव सर्वनिर्माणात्तत्कल्पनावैयर्थ्यादिति भावः ।
तृतीयं दूषयति -
नचेति ॥ ४३ ॥
वासुदेवान्न सङ्कर्षणस्य जन्म, नापि सङ्कर्षणात्प्रद्युम्नस्येत्यत्रेष्टापत्तिमाशङ्क्याह -
विज्ञानादीति ।
सूत्रव्यावर्त्यमुत्थापयति -
अथापीति ।
जीवादित्वेनेष्टानां सङ्कर्षणादीनां पूर्वस्मात्पूर्वस्माज्जन्माभावेऽपीति यावत् ।
तदेव दर्शयति -
नचेति ।
तर्हि केन प्रकारेणाभिप्रेयमाणत्वं, तदाह -
किमिति ।
सर्वेषामीश्वरत्वे हेतुमाह -
ज्ञानेति ।
ज्ञानं चैश्वर्यं च तयोः शक्तिरान्तरं सामर्थ्यम् । बलं शारीरं सामर्थ्यम् । वीर्यं शौर्यम् । तेजः प्रागल्भ्यम् । ते खल्वैश्वरा धर्मास्तैरन्विता यतः सङ्कर्षणादयस्तस्माद्युक्तं तेषां सर्वेषामीश्वरत्वमित्यर्थः ।
तत्र भागवतोक्तिमाह -
वासुदेवा इति ।
निर्दोषत्वमविद्यादिराहित्यम् । निरधिष्ठानत्वं निरुपादानत्वम् । निरवद्यत्वमनित्यत्वादिदोषशून्यत्वम् ।
सर्वेषामीश्वरत्वे तदुत्पत्त्ययोगे गुणत्वाद्दोषो नेति फलितमाह -
तस्मादिति ।
सिद्धान्तत्वेन सूत्रमवतारयति -
अत्रेति ।
तद्व्याकरोति -
एवमिति ।
विज्ञानैश्वर्यशक्त्यादीनां सर्वत्र तुल्यत्वेऽपीत्यर्थः ।
जीवादिभावोपगमकृता पूर्वत्रोत्पत्त्यनुपपत्तिरुक्ता सा कथं सर्वेषामीश्वरत्वे न स्यादित्याशङ्क्याह -
प्राप्नोतीति ।
प्रकारान्तरं बुभुत्सते -
कथमिति ।
वासुदेवादयस्तुल्यधर्माण ईश्वराः किं मिथो भिन्ना एव न त्वैक्यमेषामस्ति किं वैकस्यैव भगवतोऽवस्थाभेदा एत इति विकल्प्याद्यमनुवदति -
यदीति ।
ते व्याहतकामाः स्युर्न वा । आद्ये कार्यासिद्धिः । चरमे त्वेकेनैवेशनायाः कृतत्वादितरानर्थक्यम् । सम्भूयकारित्वे परिषद्वन्न कश्चिदीश्वरः स्यादित्याह -
तत इति ।
अनेकेश्वरपक्षे दोषान्तरमाह -
सिद्धान्तेति ।
कल्पान्तरमुत्थापयति -
अथेति ।
तुल्यधर्माणो वासुदेवादयश्चत्वारोऽपीश्वरा भगवतो व्यूहाः स्वीकृताः । तथाचैकात्मान इति नोक्तदोष इत्यर्थः ।
वासुदेवादीनामेकव्यूहत्वेनैक्यमुपेत्य प्रागुक्तं प्रसञ्जयति -
तथापीति ।
उत्पत्त्यसम्भवतादवस्थ्यं समर्थयते -
नहीति ।
अतिशयमृतेऽपि कार्यकारणता स्यादित्याशङ्क्य दृष्टवैषम्यान्मैवमित्याह -
भवितव्यं हीति ।
अन्वयमुक्त्वा व्यतिरेकमाह -
नहीति ।
ननु ज्ञानादीनामुत्कर्षो यत्र पर्यवस्यति तस्य कारणत्वं सातिशयज्ञानादिमतां कार्यतेत्यतिशयोऽस्ति । नेत्याह -
नचेति ।
कथं तर्हि पञ्चरात्रिणामुपगमः, तत्राह -
वासुदेवा इति ।
व्यूहादीनां चतुष्टयमङ्गीकृत्योक्त्वा तन्नियमं निराचष्टे -
नचेति ॥ ४४ ॥
इतश्चानादरणीयमिदं मतमित्याह -
विप्रतिषेधाच्चेति ।
सूत्रं व्याचष्टे -
विप्रतिषेधश्चेति ।
विरोधमेव स्फुटयति -
गुणेति ।
आदिग्रहणात्प्रद्युम्नानिरुद्धयोर्मनोहङ्कारयोरात्मनो भेदमुक्त्वात्मान एवैत इति तद्विरुद्धोक्तिर्गृहीता । गुणगुणित्वकल्पनारूपं विप्रतिषेधमाह -
ज्ञानेति ।
आत्मभ्यो गुणिभ्यो ज्ञानादीन्गुणान्भेदेनोक्त्वा पुनरात्मन एवैत इत्यब्रुवंस्ततो विप्रतिषेधः । अत्रादिशब्देन सङ्कर्षणो नाम जीवः प्रद्युम्नो मनोऽनिरुद्धोऽहङ्कार इति भेदमुक्त्वा पुनरात्मान एवेत्यभेदवादाद्विप्रतिषेधो गृह्यते ।
प्रकारान्तरेण सूत्रं व्याचष्टे -
वेदेति ।
अत्रादिशब्देन भागवते शास्त्रे पादमात्राध्ययनादशेषवेदाध्ययनफलं सिध्यति ।
स्वाध्यायमात्राध्येतुर्विशिष्यते भागवतशास्त्राक्षरमात्राध्येतेत्यादिनिन्दा गृहीता । भागवतशास्त्रप्रणेतुः सर्वज्ञतया भ्रान्त्यभावेऽपि वेदाविरुद्धतान्त्रिकानुष्ठानवासुदेवार्चनोद्येकदेशप्रामाण्येऽपि जीवजन्मादिवाक्यप्रणयनान्यथानुपपत्त्यैव प्राणिनां विरुद्धधीद्वारा दुरितफलदानाय व्यामोहकत्वम् । जीवजन्मश्रुतीनामिव तज्जन्मस्मृतीनामपि चान्यपरत्वमनुत्पत्तिश्रुतिविरोधादित्यधिकरणार्थमुपसंहरति -
तस्मादिति ।
तदेवं परपक्षाणां भ्रान्तिमूलत्वान्न तैर्विरोधः समन्वयस्येति पादार्थं निगमयति -
सिद्धमिति ॥ ४५ ॥
अतिक्रान्ते पादे समन्वयस्थापनाय परपक्षाणां भ्रान्तिमूलत्वमुक्तम् । इदानीमपि समन्वयस्थित्यै भूतभोक्तृविषयसृष्ट्यादिश्रुतिविगानं निराक्रियते । तत्रानुत्पत्तिप्रसङ्गेन वियतोऽपि तदसम्भवमाशङ्क्य परिहरन्नादावेकदेशिमतमाह -
न वियदिति ।
आकाशोत्पत्त्यनुत्पत्तिश्रुत्योर्मिथो विरोधादप्रामाण्ये शङ्किते तन्निरासेन समन्वयदृढीकरणादस्य पादादिसङ्गतिरित्यभिप्रेत्य पूर्वोत्तरपादसङ्गतिं व्यक्तीकुर्वन्नापाततः सृष्टिश्रुतिविमतिं दर्शयति -
वेदान्तेष्विति ।
तत्र तत्रेति सृष्टिप्रकरणोक्तिः । तासां भिन्नप्रस्थानत्वमेव प्रकटयन्प्रथममाकाशोत्पत्त्यनुत्पत्तिभ्यां तैत्तिरीयच्छान्दोग्यश्रुत्योर्विमतिमाह -
केचिदिति ।
नभोवद्वायोरप्युत्पत्त्यनुत्पत्तिभ्यामपि तयोरेवास्ति विमतिरित्याह -
तथेति ।
न केवलं भूतविषयसृष्टिश्रुतिविमतिरपि तु भोक्तृभोगोपकरणविषयापि सास्तीत्याह -
एवमिति ।
यथा नभसो वायोश्चोत्पत्तिमधीयते तैत्तिरीयास्तथा जीवस्य ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति जन्मामनन्ति माध्यन्दिना नैवमितरे । तथा प्राणानाम् ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इत्युत्पत्ति पठन्त्याथर्वणा नैवमन्ये । अतोऽस्ति धर्मिणि विमतिरित्यर्थः ।
धर्मद्वारापि विगानमाह -
एवमेवेति ।
क्रमादीत्यादिशब्देनाक्रमसङ्ख्ये गृह्येते ।
श्रुत्यन्तरेषु ।
श्रुतिविशेषेष्विति यावत् ।
सृष्टिश्रुतीनामस्वार्थपरत्वान्मिथो विरोधेऽपि तात्पर्यवद्वाक्यप्रामाण्यादस्मत्पक्षसिद्धिरित्याशङ्क्याह -
विप्रतिषेधाच्चेति ।
सर्वत्र परपक्षेषु स्वोक्तिविरोधाभावादत्र श्रुतिविरोधो विवक्षितः । स्वपक्षो ब्रह्मकारणवादः । विप्रतिषेधश्रुतिनामेवान्योन्यमिति द्रष्टव्यम् ।
सृष्टिश्रुतिष्वापातिकविरोधोक्त्या तत्फलमुक्त्वानन्तरपादाववतारयति -
इत्यत इति ।
तदर्थनिर्मलत्वमर्थाभासनिवृत्त्या सम्यगर्थधीः । प्रपञ्चोऽनन्तरपादद्वयम् ।
ननु मुमुक्षूणामुक्तसमन्वयादेव तत्त्वधीलाभात्कृतमेतन्निर्मलत्वेनेति, तत्राह -
तदर्थेति ।
वेदैकदेशस्य विरोधादप्रामाण्ये तदेकदेशान्तरस्यापि तथैवाप्रामाण्यशङ्कया तत्समन्वयात्तत्त्वज्ञानासिद्धेर्ब्रह्मकारणपक्षस्यानपेक्षणीयत्वशङ्कानिवृत्तिस्तदर्थनिर्मलत्वे फलतीत्यर्थः ।
इत्थं पादद्वयसम्बन्धे स्थिते भूतभोक्तृसृष्ट्यादिश्रुतिविवादापवादार्थे च तृतीये पादे सत्याद्याधिकरणतात्पर्यमाह -
तत्रेति ।
आकाशोत्पत्त्यनुत्पत्तिवादिवाक्ययोरनेकवाक्यत्वैकवाक्यत्वाभ्यां मिथो विरोधसन्देहे विरोधनिरासेनाविरोधं संसाध्य समन्वयदार्ढ्यमत्र विवक्षितम् । सर्वेषु चाधिकरणेषु पादद्वयगतेषु पूर्वपक्षेषु श्रुतीनां विरोधादप्रामाण्यं, सिद्धान्ते तासामविरोधात्प्रामाण्यं फलम् । अत्र चाद्येऽधिकरणे श्रुत्योर्मिथोविरोधादप्रामाण्ये वियदादिकारणे ब्रह्मणि समन्वयासिद्धिरेकत्र, अन्यत्र तयोरेकवाक्यतया विरोधाभावात्प्रामाण्यसिद्धेस्तत्सिद्धिरिति भावः ।
पादद्वये पूर्वपक्षे श्रुतीनां मिथो विरोधः सिद्धान्ते त्वविरोधः साध्यते । तेन विरोधाविरोधाभ्यां सन्देहे वाच्ये गौणवाद्यभिप्रायेणाह -
किमस्येति ।
तैत्तिरीयच्छान्दोग्यश्रुतिभ्यां सन्दिह्यगौणवाद्यभिप्रायं प्रकटयितुं सूत्रमादत्ते -
तत्रेति ।
तदक्षराणि व्याचष्टे -
न खल्विति ।
तैत्तिरीये वियदुत्पत्तिश्रुतेरन्यत्र तदश्रुतेर्मिथो विरोधे पर्यवसानमाशङ्क्य वक्ष्यमाणप्रमाणविरोधाज्जन्मश्रुतेर्गौणत्वात्तेजोमुखैव सृष्टिरिति कुतो विरोधाशङ्केत्याशयेनाह -
छान्दोग्ये हीति ।
आकाशस्य जन्माश्रवणेऽपि कथमनुमानसिद्धा तदुत्पत्तिरपह्नूयेतेत्याशङ्क्याह -
श्रुतिश्चेति ।
तर्हि श्रुतिरेवास्तीत्याशङ्क्य सा गौणीति सूचितमित्याह -
नचेति ।
तैत्तिरीयश्रुतेर्गौणत्वादन्यस्यामुख्यत्वान्न मिथो विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ॥ १ ॥
पूर्वपक्षयति -
अस्ति त्विति ।
सूत्रं व्याकुर्वन्पूर्वपक्षं विवृणोति -
तुशब्द इति ।
श्रुत्यन्तरे त्वाकाशस्योत्पत्तिरस्तीत्युक्तं, तदेव व्यनक्ति -
तैत्तिरीयका हीति ।
सर्वनामार्थज्ञापनार्थं पूर्ववाक्यानुक्रमणम् । श्रुत्योराकाशोत्पत्त्यनुत्पत्तिवादित्वे फलितमाह -
ततश्चेति ।
प्रामाण्यस्यौत्सर्गिकत्वाद्विरोधेनाप्रामाण्यायोगादेकवाक्यतया कथञ्चित्प्रमाण्यमेष्टव्यमिति शङ्कते -
नन्विति ।
सम्भवत्येकवाक्यत्वे तद्भेदो नेष्यते मिथो विरुद्धयोः श्रुत्योर्नैकवाक्यतेति परिहरति -
सत्यमिति ।
तदाकाशं सृष्ट्वा तेजोऽसृजतेत्येकवाक्यत्वं ज्ञातुं शक्यमिति शङ्कते -
कुत इति ।
छान्दोग्यानुसारेणैकवाक्यत्वायोगं दर्शयति -
तत्तेज इति ।
एकवाक्यतावादी दृष्टान्तेन शङ्कते -
नन्विति ।
विप्रतिषेधवादी दूषयति -
नैवमिति ।
किमिह व्यापारः सूपादिपाकवत्किं वा युगपदेकस्माद्बीजान्मूलाङ्कुरोत्पत्तिवत्तदक्रमः । नाद्यः, द्वयोः प्रथमजत्वश्रुतिविरोधादित्याह -
प्रथमेति ।
न द्वितीयः, पाठक्रमात्क्रमसृष्टेरिष्टत्वादित्याह -
न चेति ।
छान्दोग्यानुसारेणैकवाक्यताऽयोगमुक्त्वा तैत्तिरीयानुसारेणापि तदयोगमाह -
एतेनेति ।
एतच्छब्दार्थमेव स्फुटयति -
तस्मादित्यादिना ।
इतश्च नैकवाक्यतेत्याह -
वायोरिति ।
छान्दोग्ये हि सदुपादानं तेजसो निर्दिश्यते । तैत्तिरीये त्वात्मनः सच्छब्दवाच्यादन्यो वायुस्तदुपादानमाम्नायते, तन्नैकवाक्यतेत्यर्थः ॥ २ ॥
प्रथमजत्वेनाकाशतेजसोरसहायत्वे सिद्धे तद्धिरोधेन ससहायत्वकल्पनायोगाद्वस्तुनि विकल्पानुपपत्तेरिदानीन्तनसर्गवद्भूतसर्गस्यापि तथात्वानुमाने सर्गभेदेनापि व्यवस्थाऽसिद्धेर्मिथो विरुद्धतया प्रकृतश्रुत्यप्रामाण्यान्न ब्रह्मकारणमिति पूर्वपक्षमनुभाष्य गौणवादिनोऽभिप्रायमाविष्कर्तुं सूत्रान्तरमवतारयति -
अस्मिन्निति ।
ये त्वतिक्रान्तसूत्रद्वयं मतद्वयमुपन्यस्य विप्रतिषेधमभिदधत्पूर्वपक्षसङ्गतमिति व्याचक्षते तान्व्यावर्त्य गौणवाद्येव पूर्वत्रापि वियदनुत्पत्तिवादीति प्रत्यभिज्ञापयन्व्याचष्टे -
नास्तीति ।
तदुत्पत्तिश्रुतेरपि दर्शितत्वाद्विप्रतिषेधे कः समाधिरित्याशङ्क्याह -
या त्विति ।
तेजःप्राथम्यानुरोधेनाकाशस्योत्पत्तिः प्राथम्यं चेति द्वयबाधनमयुक्तमाकाशप्राथम्यानुरोधेन तेजसि प्राथम्यस्यैव बाधनमिति मन्वानश्चोदयति -
कस्मादिति ।
न वयं तेजःप्राथम्यमनुरुन्धाना द्वयबाधं शिंष्मः, किन्तु मानान्तरविरोधादित्याह -
असम्भवादिति ।
वैशेषिकाधिकरणेन तन्मतस्य निरस्तत्वात्तदवष्टम्भेन कथमसम्भवकथेत्याशङ्क्याह -
नहीति ।
कणभुगभिप्रायमेव प्रकटयति -
ते हीति ।
आकाशं नोत्पद्यते, कारणत्रयशून्यत्वात् , आत्मवदित्यर्थः ।
समवायीति ।
परप्रसिद्धिद्योतनार्थो हिशब्दः । तत्र स्वानभ्युपगमं दर्शयितुं किलेति ।
आकाशस्यापि तर्हि त्रीणि कारणानि भविष्यन्तीत्याशङ्क्य समवायिकारणविशेषस्वरूपमाह -
द्रव्यस्येति ।
तदभावमाकाशे दर्शयति -
न चेति ।
समवायिकारणे निरस्ते सत्यसमवायिकारणमपि निरस्तमेवेत्याह -
यस्मिन्निति ।
कारणद्वयनिरासेन निमित्तकारणनिरसनं सुकरमित्याह -
तदभावात्त्विति ।
कारणशून्यत्वादाकाशस्यानुत्पत्तिमनुमाय तत्रैवानुमानान्तरमाह -
उत्पत्तिमतां चेति ।
ये जायन्ते तेषामनुभवार्थक्रिये प्रागुत्पत्तेर्नोपलभ्येते यथा तेजःप्रभृतीनाम् । न चाकाशस्य तादृशो विशेषोऽस्ति । तस्मात्तन्नोत्पद्यते कार्यलक्षणविकलत्वादात्मवदित्यर्थः ।
प्रकाशनं प्रकाशोऽनुभवः । आदिशब्देनार्थक्रिया गृह्यते । अभूत्वा भावित्वं हि कार्यलक्षणं, तदाकाशस्यापि सम्भवतीति कथं हेतुसिद्धिरित्याशङ्क्याह -
आकाशस्येति ।
तदेव स्फुट्यते -
किं हीति ।
महाद्रव्याश्रयत्वयोग्यो देशोऽवकाशः । तद्विरुद्धद्रव्याश्रयत्वयोग्यं सुषिरम् । अणुद्वयतत्संयोगाश्रयत्वयोग्यं छिद्रम् । एतत्त्रयरहितं न किञ्चित्प्रागासीदिति विशेषणानामर्थः ।
किञ्चाकाशो न जायते, विभुत्वात् , निरवयवद्रव्यत्वादस्पर्शद्रव्यत्वाच्च, आत्मवदित्यनुमानत्रयमाह -
पृथिव्यादीति ।
उक्तानुमानानामुत्पत्तिश्रुतिविरोधमाशङ्क्य तस्या गौणत्वं सदृष्टान्तमुपसंहरति -
तस्मादिति ।
आलोकादिवदाकाशस्य प्रदेशभेदवत्त्वान्मुख्यं जन्मेत्याशङ्क्य जन्मप्रयोजकप्रदेशभेदस्यापि गौणत्वमेवेत्याह -
यथा चेति ।
लौकिकव्यपदेशस्य गौणत्वेऽपि वैदिकव्यपदेशस्य मुख्यत्वमेवेत्याशङ्क्याह -
वेदेऽपीति ।
इतिशब्दादुपरिष्टाद्गौणो भेदव्यपदेशो भवतीति सम्बन्धः ॥ ३ ॥
न केवलमनुमानादाकाशस्याजत्वं किन्तु श्रुतितोऽपीत्याह -
शब्दाच्चेति ।
तद्व्याचष्टे -
शब्दः खल्विति ।
अमृतत्वमेवात्र श्रूयते न त्वनुत्पत्तिरित्याशङ्क्याह -
न हीति ।
श्रुतार्थापत्त्यन्तरमाह -
आकाशवदिति ।
तथापि कथमनुत्पत्तिः, तत्राह -
न चेति ।
तदनुत्पत्तौ वाक्यमपि मानमित्याह -
स यथेति ।
आदिमध्यावसानवैधुर्यमानन्त्यं, तदाकाशस्यादिमत्त्वे नोपपद्येत । आत्मनोऽपि तत्प्रसङ्गादित्यर्थः ।
किञ्च नीलमुत्पलमितिवदाकाशेन ब्रह्मणो विशेषणं दृष्टं, तदाकाशस्यानुत्पत्तिमत्त्वं साधयतीत्याह -
आकाशेति ।
चकारादुदाहरणमित्यनुकृष्यते ।
आकाशस्योत्पत्तिमत्त्वेऽपि तेन ब्रह्मणो विशेषणत्वं किं न स्यादित्याशङ्क्य बहुव्रीहिणा तादात्म्यावगमान्मैवमित्याह -
नहीति ।
शब्दसामर्थ्यसिद्धमुपसंहरति -
तस्मादिति ॥ ४ ॥
सम्भूतशब्दमधिकृत्य सम्भाविताशङ्कामुच्छिनत्ति -
स्याच्चेति ।
पदविषयचोद्योत्तरमिदं सूत्रमिति तात्पर्यमाह -
इदमिति ।
तदेव चोद्यं दर्शयति -
स्यादेतदिति ।
एकवाक्यस्थस्यैकस्य पदस्यैकस्मिन्नेव प्रकरणे यत्रानुवृत्तिस्तत्र मुख्यत्वं यत्र प्रयोगस्तत्र गौणतेत्ययुक्तमित्यर्थः ।
चोद्योत्तरत्वेन सूत्रमवतार्य व्याकरोति -
अत इति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
दार्ष्टान्तिके सम्भूतशब्दस्यैकस्यैव मुख्यत्वगौणत्वे, दृष्टान्ते तु शब्दभेदोऽस्तीति वैषम्यमित्याशङ्क्य प्रकरणाभेदे शब्दप्रवृत्तेरेकरूपत्वस्यौत्सर्गिकत्वेऽपि तदसम्भवेन गौणत्वमुख्यत्वे दृष्टान्तदृष्टे तथात्रापीत्येतावन्मात्रस्य विवक्षितत्वान्मैवमित्याह -
यथा चेति ।
अद्वितीयश्रुतिविरोधावधारणश्रुतिविरोधाच्चाकाशानुत्पत्तिरयुक्तेति शङ्कते -
कथमिति ।
का पुनः श्रुत्योरनुपपत्तिरित्याशङ्क्याक्षेप्तैव ब्रूते -
नन्विति ।
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधाच्चाकाशानुत्पत्तिरयुक्तेत्याह -
कथं चेति ।
चोद्यद्वयं परिहरति -
तदुच्यत इति ।
तत्रावधारणश्रुतेरुपपत्तिमाकाशानुत्पत्तिपक्षेऽपि दर्शयति -
एकमिति ।
आपेक्षिकमवधारणमित्यत्र दृष्टान्तमाह -
यथेति ।
कुलं गृहम् । अमत्राणि घटशरावादीनि पात्राणि । तत्रापि कथमवधारणेत्याशङ्क्याह -
स चेति ।
अन्यथा मृदादिप्रत्यक्षविरोधः स्यादिति भावः ।
प्रकृतेऽपि स्वकार्यापेक्षमवधारणमविरुद्धम् । तदकार्यं तु तदतिरिक्तमपि प्रागवस्थायामस्तु का हानिरित्याह -
तद्वदिति ।
अवधारणश्रुतिवदद्वितीयश्रुतेरविरोधमाह -
अद्वितीयेति ।
प्राप्त्यभावे किमर्थं तन्निवारणमित्याशङ्क्य प्राप्तिदर्शनपूर्वकं तन्निवारणमेव विवृणोति -
यथेति ।
यदुक्तं नभसा द्वितीयेन सद्वितीयं ब्रह्म स्यादिति, तत्राह -
न चेति ।
नभश्चेद्द्वितीयं कथं तेन ब्रह्म सद्वितीयं नेत्याशङ्क्याह -
लक्षणेति ।
शब्दवदाकाशमशब्दादिमद्ब्रह्मेत्यस्ति प्रस्तुतेऽपि लक्षणान्यत्वमित्याशङ्क्याह -
नचेति ।
निरवयवत्वारूपत्वादिसङ्ग्रहार्थमादिपदम् ।
लक्षणभेदाभावे कथं पृथक्त्वमनयोरित्याशङ्क्याह -
सर्गेति ।
लक्षणानन्यत्वनिमित्ताभेदोपचारादद्वितीयत्वमित्युक्तेऽर्थे श्रुतिमनुग्राहिकामाह -
तथेति ।
‘आकाश आत्मा', ‘खं ब्रह्म’ इत्याद्या श्रुतिरादिशब्दार्थः ।
लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मानन्यत्वं हेतूकृत्य चोद्यान्तरमपाकरोति -
अत एवेति ।
इतश्च ब्रह्मविज्ञानेन सर्वविज्ञानमविरुद्धमित्याह -
अपिचेति ।
ब्रह्मणि तत्कार्ये च ज्ञाते तदेकदेशकालमाकाशमपि सहज्ञातमित्यत्र दृष्टान्तमाह -
यथेति ।
दृष्टान्तेऽपि कथमन्यस्य ग्रहादन्यस्य ग्रहणमित्याशङ्क्याह -
नहीति ।
दृष्टान्ते निविष्टमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
गौणवादी स्वमतमुपसंहरति -
तस्मादिति ॥ ५ ॥
वियदुत्पत्तिश्रुतेर्गोणत्वात्तदनुत्पत्तिश्रुत्या विरोधाभावान्नाप्रामाण्यमिति गौणवादिमतमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं व्याकुर्वन्प्रतिज्ञास्वरूपमाह -
येनेति ।
प्रतिवाक्यमितिशब्दोपादानं शाखाभेदख्यापनार्थम् । तस्या विवक्षितत्वसिद्ध्यर्थं विशिनष्टि -
प्रतिवेदान्तमिति ।
सर्वस्य ब्रह्ममात्रत्वप्रयुक्त्या प्रतिज्ञानुपरोधं साधयति -
तस्या इति ।
अत एव ब्रह्मविज्ञानेनेत्यादिना पूर्वोक्तन्यायेन व्यतिरेकेऽपि प्रतिज्ञा सिध्यति चेत्किमव्यतिरेकेणेत्याशङ्क्याह -
व्यतिरेके हीति ।
तदुत्पत्तिस्थितिलयत्वेन तदभेदादेकविज्ञानेन सर्वविज्ञानं वक्तव्यं नान्यथा तन्मुख्यत्वम् । सम्भवति मुख्यत्वे कुतस्तदौपचारिकतेत्यर्थः ।
ननु प्रतिज्ञा सर्वस्य ब्रह्मणि कल्पितत्वेनोपपद्यते, न तदुत्पत्त्याद्यपेक्षते, तत्र कल्पितत्वमन्तरेणाविद्यातत्कार्ययोस्तदुत्पत्त्याद्यभावादित्याशङ्क्याविद्यातत्सम्बन्धातिरिक्तत्वे सति तदुत्पत्त्याद्यतिरेकेण तत्र कल्पितत्वासिद्धेर्मैवमित्याह -
स चेति ।
अविशिष्टं सूत्रावयवं व्याचष्टे -
शब्देभ्यश्चेति ।
प्रकृतेर्विकाराणामव्यतिरेक एव न्यायस्तेनैवेति यावत् ।
शब्दानेवोदाहरति -
तथा हीति ।
सदेवेत्यादिशब्दानां प्रतिज्ञाविषयत्वाभावान्न सा तत्र विवक्षितेत्याशङ्क्याह -
तत्साधनायेति ।
शब्दानां प्रतिज्ञापरत्वेऽपि कथमाकाशस्य ब्रह्मकार्यतेत्याशङ्क्याह -
तद्यदीति ।
प्रतिज्ञाहानिमनुमोदमानं प्रत्याह -
नचेति ।
किञ्च प्रतिज्ञा चेदियमेका स्यात्तदा कथञ्चिदविवक्षिता शङ्क्येत, तास्तु भूयस्यो युक्तिसहिताश्च गम्यन्ते, तन्नाविवक्षितत्वशङ्केत्याह -
तथा हीति ।
तेन तेन दृष्टान्तेन । दुन्दुभिशङ्खवीणामृदादिनेति यावत् ।
ते ते शब्दा इत्युक्तं व्यनक्ति -
इदमिति ।
श्रौतप्रतिज्ञासामर्थ्यसिद्धमुपसंहरति -
तस्मादिति ।
स्वपक्षसाधकं प्रमाणमुक्त्वा छान्दोग्यानुसारेण परोक्तमनुवदति -
यदुक्तमिति ।
तैत्तिरीयकश्रुत्यनुरोधेन परिहरति -
तदयुक्तमिति ।
एकदेशिनि दूषिते पूर्वपक्षी स्वपक्षे श्रुतीनां मिथो विरोधमुक्तं स्मारयति -
सत्यमिति ।
विरुद्धत्वेनाप्रामाण्याङ्गीकारादेकवाक्यतया प्रामाण्यमेवाङ्गीकर्तुं युक्तमित्याह -
नेत्यादिना ।
श्रुतिनामेकवाक्यत्वस्याविरोधापेक्षत्वात्प्रकृते च श्रुतिद्वयविरोधस्योक्तत्वान्नैकवाक्यतेति शङ्कते -
भवत्विति ।
उक्तं विरोधमेव स्फोरयति -
सकृदिति ।
‘तत्तेजोऽसृजत’ इति स्रष्टा तच्छब्दार्थः सकृदेव श्रुतः, तस्य स्रष्टव्यद्वयेनाकाशेन तेजसा च सम्बन्धः ‘तदाकाशमसृजत', ‘तत्तेजोऽसृजत’ इति नोपपद्यते, तत्कथमेकवाक्यतेत्यर्थः ।
स सूपं पक्त्वौदनं पचतीतिवदेकस्यापि स्रष्टुः स्रष्टव्यद्वयसम्बन्धसिद्धिरित्याशङ्क्य दृष्टान्ते क्रमसम्बन्धेऽपि दार्ष्टान्तिके प्राथम्यदृष्टेरुभयोः सृष्टिक्रमस्य चेष्टत्वाद्युगपदनुत्पत्तेर्न विरोधसमाधिरित्याह -
द्वयोश्चेति ।
शाखाभेदेन प्रथमजत्वं विकल्प्यतामित्याशङ्क्य वस्तुनि तदयोगान्मैवमित्याह -
विकल्पेति ।
तेजःसृष्टिप्राथम्ये वियत्सृष्टिस्तत्प्राथम्यं चेत्युभयं बाध्यम् , आकाशसृष्टिप्राथम्ये तु प्राथम्यमेव तेजःसृष्टेर्बाध्यं न तत्सृष्टिर्वायोरग्निरिति, तस्याः स्थानान्तरत्वप्रतिलम्भात् , तत्र श्रुतधर्मिबाधकल्पनादुभयबाधप्रसञ्जकाद्धर्मबाधकल्पनमेव युक्तमित्याह -
नैष इति ।
किञ्च श्रुत्योरन्यथोपपद्यमानानुपपद्यमानयोरन्यथानुपपद्यमाना श्रुतिर्बलीयसीति तैत्तिरीयश्रुतिरेवानुसर्तव्येत्याह -
अशक्येति ।
छान्दोग्यश्रुतेरन्यथोपपद्यमानत्वेन दुर्बलत्वमाह -
शक्येति ।
अन्यथा परिणयनमेवाभिनयति -
तदाकाशमिति ।