अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

किञ्च ‘तत्तेजोऽसृजत’ इति श्रुतिः साक्षा­दे­वा­का­श­स्यो­त्पत्तिं वार­ये­द­र्था­द्वेति विकल्प्याद्यं दूषयति -
नहीति ।

न द्वितीयः, आर्थि­क­श्रु­ते­र्दु­र्ब­ल­त्वा­दि­त्याह -
श्रुत्यन्तरेति ।

तेजः­श्रु­ति­स्ते­जो­जन्म विय­द­नु­त्प­त्ति­श्चे­त्यु­भयं साक्षादेव बोधयति चेत्का हानि­रि­त्या­श­ङ्क्याह -
एकस्येति ।

एकस्य स्रष्टु­र­ने­क­व्या­पा­र­व­दे­क­स्यापि वाक्यस्य किं न स्यादि­त्या­श­ङ्क्याह -
स्रष्टा त्विति ।
वृद्ध­प्र­यो­गा­धीनं शब्द­सा­म­र्थ्या­व­धा­र­णम् । न चावृत्तिरहितस्य शब्द­स्या­ने­क­त्रार्थे व्यापारो दृष्टः । दृष्टं तु क्रमा­क्र­मा­भ्या­मे­क­स्यापि कर्तु­र­ने­क­व्या­पा­र­व­त्त्व­मि­त्यर्थः ।

उक्तन्यायेन श्रुत्यो­रे­क­वा­क्य­त्वे­ना­वि­रु­द्धा­र्थ­तया प्रामाण्यं युक्त­मि­त्यु­प­सं­ह­रति -
इत्येकेति ।

एकं वाक्य­मा­वृ­त्ति­र­हि­त­म­ने­क­व्या­पा­र­वन्न चेत्कथं तर्हि ‘तत्तेजोऽसृजत’ इत्य­त्रा­का­श­स्यो­त्प­त्ति­रु­प­सं­ह­र्त­व्ये­त्या­शङ्क्य नास्मिन्नर्थे वाक्यस्यैकस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याह -
नचेति ।

श्रुत्य­न्त­र­सि­द्धोऽपि क्रमः श्रुत्यन्तरे सङ्गृरह्यो भव­ती­त्ये­त­द्दृ­ष्टा­न्तेन स्पष्टयति -
यथा चेति ।

दृष्टा­न्त­वै­षम्यं शङ्कते -
नन्विति ।

तत्र विशेषणश्रुतिं प्रमाणयति -
तज्जलानितीति ।

व्यावर्त्यं कीर्तयति -
नैतदिति ।
यत्परः शब्दः स शब्दार्थः ।

न चायं शब्दः सृष्टिपरोऽतो न प्रसिद्धं क्रमं बाधितुमलमिति फलितमाह -
तस्मादिति ।

दार्ष्टान्तिके विशेषमाह -
तत्तेज इति ।

तस्य सृष्टिपरत्वेऽपि श्रुत्य­न्त­र­प्र­सि­द्ध­क्र­मा­नु­रो­धि­त्व­मा­श­ङ्क्याह -
तस्मादिति ।

तत्प­र­त्वा­त­त्प­र­त्व­वै­ष­म्येऽपि ‘तत्तेजोऽसृजत’ इत्यस्य न श्रुत्य­न्त­र­सि­द्ध­क्र­म­नि­वा­र­क­ते­त्याह -
नेत्युच्यत इति ।

किञ्च गुण­भू­त­क्र­म­वि­रो­धान्न प्रधा­न­भू­त­प­दा­र्थ­त्यागो युक्तः, गुणप्रधानविरोधे प्रधा­ना­नु­रो­ध­स्यैव युक्त­त्वा­दि­त्याह -
नहीति ।

इतोऽपि तेजः­प्रा­थ­म्या­नु­रो­धेन विय­त्प­दा­र्थ­त्या­गा­नु­प­प­त्ति­रि­त्याह -
अपिचेति ।

छान्दोग्ये तत्प्राथम्यं शाब्दमार्थं वा । नाद्य इत्याह -
तत्तेज इति ।

न द्वितीयः, अर्थ­सि­द्ध­क्र­मस्य श्रौतक्रमविरोधे बाध­क­त्वा­यो­गा­दि­त्याह -
अर्थात्त्विति ।
वियत्पवनयोः श्रुतिं विना प्रथ­म­त­स्ते­जः­श्रु­ति­व­शा­त्तस्य सृष्टौ प्राथम्यं भाति, तच्च श्रुत्यन्तरे तृती­य­त्व­श्रुत्या व्याहतमित्यर्थः ।

शाखाभेदेन विकल्पो वा स्यादु­भ­य­प्रा­थ­म्य­स्यो­भ­य­त्रो­प­सं­हृतेः समुच्चयो वेत्याशङ्क्याह -
विकल्पेति ।
प्रथमजत्वे सिद्ध­व­स्तु­त्वा­द्वि­क­ल्पा­स­म्भ­वा­न्नि­रस्तः । ‘वायोरग्निः’ इति श्रुति­वि­रो­धा­न्नो­भ­यो­रु­भ­यत्र प्रथमजत्वम् । नच क्रम­सृ­ष्टा­वि­ष्टा­या­मु­भ­यो­रु­भ­यत्र प्राथ­म्य­मु­प­सं­हर्तृं शक्यं, तेन द्वाभ्यां द्वावपि निर­स्ता­वि­त्यर्थः ।

तैत्ति­री­य­श्रु­त्य­नु­रो­धेन छान्दो­ग्य­श्रु­ति­न­य­नान्न तयो­र्वि­रो­धोऽ­स्ती­त्यु­प­सं­ह­रति -
तस्मादिति ।

न केवलमविरोधोऽपि तु छन्दो­ग­श्रु­ते­र­नु­कू­लैव तैत्ति­री­य­श्रु­ति­रि­त्याह -
अपिचेति ।

उत्पत्तौ वियदुपसंहारं विनापि प्रति­पा­दि­त­त्वा­त्प्र­ति­ज्ञाया न छान्दो­ग्य­श्रु­त्य­नु­कूला तैत्ति­री­य­श्रु­ति­रि­त्या­शङ्क्य पूर्वो­क्त­म­नु­व­दति -
यच्चेति ।
अतो न प्रति­ज्ञे­त्य­त्रा­का­श­स्यो­त्प­त्त्य­भा­वेऽ­पीति शेषः ।

एक­मे­वा­द्वि­ती­य­मिति श्रुति­स­मा­धा­न­म­नु­द्र­वति -
न चेति ।

अन्यथा प्रतिज्ञोपपादनं तावद् दूषयति –
अत्रेति ।
क्षीरपूर्णघटे प्रक्षिप्ता नीर­बि­न्द­व­स्त­द्ग्र­ह­णे­नैव गृह्यन्ते, न पृथ­क्पा­थो­बि­न्दूनां ग्रहणमवशिष्यते । तथा ब्रह्मणि सकार्ये ज्ञाते तदभिन्नदेशकालं नभो विज्ञातमेव, तदनेन दृष्टान्तेन नेदं प्रतिज्ञानं नेतुं युक्तं, दृष्टा­न्ता­नु­रो­धि­त्वा­द्दा­र्ष्टा­न्ति­कस्य, दृष्टान्तस्य च प्रकृ­ति­वि­का­र­रू­प­त्वा­द्दा­र्ष्टा­न्ति­केऽपि तथात्वस्य युक्तत्वात् । तस्मा­दा­का­शा­दे­र्ब्र­ह्म­वि­का­रत्वे तत्प्र­कृ­ति­भू­त­ब्र­ह्म­णोऽ­न­न्य­त्व­मि­त्य­ने­नैव न्यायेनेदं नेयमित्यर्थः ।

इतश्च न क्षीरो­द­क­दृ­ष्टा­न्ते­नै­त­न्ने­त­व्य­मि­त्याह -
न क्षीरेति ।

तत्र हेतुमाह -
नहीति ।

मा भूदेकविज्ञानेन सर्वविज्ञानं सम्यग्ज्ञानं, तत्राह -
न चेति ।
मायया भ्रान्तिरूपया यदलीकं मिथ्याभाषणं तेन वञ्च­न­म­न्य­था­बो­धनं तेन वा विप्र­लि­प्सा­दि­भिर्वा नार्था­व­धा­र­ण­म­पौ­रु­षे­यस्य वेदस्योपपद्यते । तेषां पुरु­ष­ध­र्म­त्वा­द्वे­देऽ­स­म्भ­वा­दि­त्यर्थः ।

यत्तु क्षीर­नी­र­व­द्ब्र­ह्म­न­भ­सो­र­व्य­ति­रे­का­द­द्वि­ती­य­श्रु­ति­रिति, तत्राह -
सावधारणेति ।
यद्य­द्वि­ती­य­प­द­मौ­प­चा­रिकं तर्हि कथमवधारणम् । नहि माणवके सिंहत्वोपचारेण सिंहादन्यो माणवको नेति प्रयो­गोऽ­स्ती­त्यर्थः ।

यत्तु स्वका­र्या­पे­क्षया सर्व­मि­द­मु­प­प­न्न­मिति, तत्राह -
नचेति ।
तत्स­म्भ­वा­द्ब्र­ह्मणि विशे­ष­ण­वै­य­र्थ्य­मिति पूरयितुं हिशब्दः ।

मृदादिष्वपि स्वका­र्या­पे­क्षया वस्त्वे­क­दे­श­वि­षयं सर्व­वि­ज्ञा­न­मि­च्छन्तं प्रति दोषान्तरमाह -
न तदिति ।

कथ­म­पू­र्व­व­दु­प­न्यासः, तत्राह -
श्वेतकेतो इति ।

त्वत्पक्षे वा कथमिदं प्रतिज्ञानं, तत्राह -
तस्मादिति ।
स्वका­र्या­पे­क्षया वस्त्वे­क­दे­श­वि­ष­य­त्वा­स­म्भ­वा­दिति यावत् ॥ ६ ॥

साव­धा­र­णा­द्वि­ती­य­श्रु­ते­रे­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­प्र­ति­पा­द­नाच्च नभसोऽपि ब्रह्मकार्यत्वं पृथि­व्या­दि­व­दि­त्यु­क्तम् । इदा­नी­म­नु­मा­न­वि­रो­धा­दा­का­शो­त्प­त्ते­र­स­म्भ­वा­त्त­दु­त्प­त्ति­श्र­वणं गौण­मि­त्यु­क्त­म­नु­व­दति -
यत्पुनरिति ।

अनुमानस्य माना­न्त­र­वि­रो­धे­ना­मा­न­त्वा­न्ना­का­शो­त्प­त्ति­श्रु­ते­र्गौ­ण­त्वा­पा­द­न­सा­म­र्थ्य­मिति सूत्रमवतारयति -
अत्रेति ।

अक्षरोक्तमर्थं कथयति -
तुशब्द इति ।

व्यावृ­त्ति­प्र­का­र­म­भि­न­यति -
न खल्विति ।

तत्र विभ­क्त­त्व­हे­तु­क­म­नु­मानं हेतुं कुर्व­न्व्या­प्ति­माह -
यत इति ।

यद्विभक्तं तत्कार्यं यथा च घटा­दी­त्य­न्व­य­मुक्त्वा व्यतिरेकमाह -
न त्विति ।
यन्न कार्यं तन्न विभक्तं, यथात्मेत्यर्थः ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -
विभागश्चेति ।

विमतं कार्यम् , अवि­द्या­व्य­ति­रि­क्तत्वे सति विभ­क्त­त्वा­त्सा­मा­न्य­व­त्त्वा­द्गु­णि­त्वाच्च घट­व­दि­त्य­भि­प्रे­त्याह -
तस्मादिति ।

दिगादिषु व्यभि­चा­र­मा­शङ्क्य पक्ष­तु­ल्य­त्वा­न्मै­व­मि­त्याह -
एतेनेति ।

आत्मा गगनादिभ्यो विभको न वा । आद्ये विभक्तोऽपि विकारो नेति व्यभिचारः । द्वितीये तद­भि­न्न­त्वा­त्त­द्व­देव तस्यापि कार्यतेति मत्वा चोदयति -
नन्विति ।

न तावदात्मनि व्यभिचारः, सति मातरि बाधविधुरे विभागाभावात् । नच तस्य प्राती­ति­क­वि­भा­गेन कार्यत्वं, सर्व­का­र­ण­त्व­श्रु­ति­वि­रो­धात् । नच तद्व­दे­वा­का­श­स्यापि न कार्यता, तत्कार्यतायाः श्रुत­त्वा­दि­त्य­भि­प्रे­त्याह -
न । आत्मन इति ।

आत्मनोऽपि वस्तु­त्वा­द्ध­ट­व­त्का­र्य­त्वा­नु­मा­नान्न सर्व­का­र­ण­ते­त्या­श­ङ्क्या­र्था­प­त्ति­वि­रो­धा­न्नै­व­मि­त्याह -
यदि हीति ।
निरात्मकत्वं निरुपादानत्वम् ।

तत्प्रा­प्ति­फ­ल­माह -
तथाचेति ।

इष्टापत्तिं निराचष्टे -
आत्मत्वाच्चेति ।
निराकर्तास्ति न वा । आद्ये निरा­क­र्तै­वा­त्मे­त्या­त्मनो नित्यसत्त्वम् । द्वितीये तदभावे निरा­क­र­णा­सि­द्धे­र्नि­त्य­त्व­मि­त्यर्थः ।

आत्म­का­र­ण­स्यै­वा­का­शा­दि­का­र­ण­त्वान्न सर्वस्य निरा­त्म­क­त्व­मि­त्या­श­ङ्क्याह -
नहीति ।
सत्ता­स्फू­र्त्यो­र­न्या­न­पे­क्ष­त्वा­दा­त्म­नोऽ­ना­ग­न्तु­कत्वं, तत्कथं तत्का­र­ण­मा­का­शा­दि­का­र­ण­मि­त्यर्थः ।

प्रमाणापेक्षया सिध्यन्नात्मा कथं निर­पे­क्ष­स्फू­र्ति­रि­त्या­श­ङ्क्याह -
नहीति ।
तस्यापि स्वयमेव साध­क­त्वा­दि­त्यर्थः ।

प्रत्प्र­क्षा­द्व्य­ति­रे­के­णा­त्मनः सिद्धत्वे तेषा­मा­न­र्थ­क्य­मि­त्या­श­ङ्क्याह -
तस्य हीति ।

आत्मानः स्वयंसिद्धत्वे वस्तु­त्वा­वि­शे­षा­दा­का­शा­दी­ना­मपि तथा सम्भ­वा­त्प्र­मा­ण­वै­य­र्थ्य­ता­द­व­स्थ्य­मि­त्या­श­ङ्क्याह -
नहीति ।
जड­त्वा­द­न­भ्यु­प­ग­माच्च न स्वतःसिद्धता तेषामित्यर्थः ।

आत्मनोऽपि स्वप्रकाशत्वं वादिनो नोप­ग­च्छ­न्ती­त्या­श­ङ्क्याह -
आत्मा त्विति ।
प्रमा­णा­दि­सा­क्षि­त्वान्न तद­धी­ना­त्म­सि­द्धि­रि­त्यर्थः ।

आत्मनः स्वप्र­का­श­त्वेऽपि कथ­म­नि­रा­क­र­ण­मि­त्या­श­ङ्क्याह -
नचेति ।
निराकरणमपि तदधीनात्मलाभं तद्विरुद्धं नोदेतीत्यर्थः ।

अहमस्मि ब्रह्मेति तत्त्व­ज्ञा­ना­न्नाहं कर्ता भोक्ता चेत्यात्मनोऽपि निराकरणं दृष्ट­मि­त्या­श­ङ्क्याह -
आगन्तुकं हीति ।

जीव­त्व­म­ना­ग­न्तु­क­मपि निरा­क्रि­य­मा­ण­मि­ष्ट­मि­त्या­श­ङ्क्याह -
नेति ।

किं तर्हि स्वरूपं तदाह -
य एवेति ।

तदपि निरा­क्रि­य­ता­मि­त्या­शङ्क्य निरा­क­र्त्र­न्त­रा­भा­वा­न्नै­व­मि­त्याह -
नहीति ।

आत्मनः सत्ता­स्फू­र्त्यो­र­न्या­न­पे­क्ष­त्व­म­ना­ग­न्तु­कत्वे कारणमुक्त्वा स्फूर्ता­व­न्या­न­पे­क्ष­त्व­मु­प­पाद्य सत्तायामपि तदुपपादयति -
तथेति ।
सदा­ह­मि­त्य­प­रो­क्षै­क­रू­पा­नु­भ­वा­न्ना­त्मनः सत्ताव्यभिचारः, येनान्यतः सत्ता­मा­का­ङ्क्षे­दि­त्यर्थः ।

जीवतो मातु­र­न्य­था­भा­वा­भा­वेेऽपि मृतस्य स्यादि­त्या­श­ङ्क्याह -
तथेत्यादिना ।
यत्स्व­भा­व­त्व­म­नु­भ­व­सिद्धं तस्यान्यथात्वं बाधकादवसातव्यं, बाधकं च घटादीनां स्वभावाद्विचलनं मानोपनीतं, यस्य तु न तदस्ति तस्या­त्म­नोऽ­नु­भ­व­सि­द्धस्य नान्यथात्वमिति भावः ।

आत्मनः स्वतः­सि­द्ध­त्वे­ना­ना­ग­न्तु­कत्वे फलितमाह -
एवमिति ।

विभ­क्त­त्व­हे­तो­र­व्य­भि­चा­रेऽपि बाध­क­त­र्का­भा­वा­द­प्र­यो­ज­क­ते­त्या­श­ङ्क्याह -
कार्यत्वं चेति ।
अकार्यस्यात्मनः स्वरू­पो­पा­धा­व­बा­धि­त­भे­द­शू­न्य­त्वान्न मुख्यं विभक्तत्वम् । आकाशस्य तथा­वि­ध­भे­द­व­त्त्वा­न्मु­ख्य­वि­भा­गि­त्वेन कार्यत्वमन्यथा मुख्य­वि­भा­गा­नु­प­प­त्ति­रिति कुतोऽ­प्र­यो­ज­क­ते­त्यर्थः ।

आका­शा­नु­त्प­त्त्य­नु­मा­नानां प्रत्य­नु­मा­न­वि­रो­ध­मुक्त्वा सम­वा­यि­का­र­ण­शू­न्यत्वं विशेषतो दूषयितुमनुभाषते -
यत्त्विति ।

तत्र समा­न­जा­ती­य­स्या­र­म्भ­क­त्व­म­यो­ग­व्य­व­च्छे­दे­ना­न्य­यो­ग­व्य­व­च्छे­देन वेति विक­ल्प्य­मा­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति –
तत्प्रतीति ।

नियमो हि कारणमात्रनिष्ठो वा निमि­त्त­का­र­ण­निष्ठो वा सम­वा­यि­का­र­ण­निष्ठो वेति विकल्प्याद्यं प्रत्याह -
न हीति ।

न द्वितीय इत्याह -
न चेति ।

तृतीयमादत्ते -
स्यादेतदिति ।

सम­वा­यि­का­र­ण­स्या­प­र­जात्या वा परजात्या वा समा­न­जा­ती­य­त्व­मिति विकल्प्याद्यं निरस्यति -
तदपीति ।

अनै­का­न्ति­का­न्त­र­माह -
तथेति ।
नच रज्ज्वादेः सूत्र­वा­ला­दि­स­मु­दा­य­मा­त्रत्वं, पटादेरपि तथा­त्वा­प­त्ता­व­व­य­वि­स­मु­दा­य­मा­त्रा­पा­क­र­ण­प्र­स­ङ्गा­दिति भावः ।

द्वितीय समा­न­जा­ती­य­वि­शे­ष­ण­वै­य­र्थ्यम् , अद्र­व्य­स्या­स­त­श्चा­ना­र­म्भ­क­त्वेन सर्वस्यापि समा­न­जा­ती­य­त्व­स­म्भ­वा­दि­त्याह -
सत्त्वेति ।

समा­न­जा­ती­य­मे­वा­र­म्भ­क­मिति नियमं निरा­कृ­त्या­ने­के­षा­मा­र­म्भ­क­त्व­नि­यमं निराकरोति -
नापीति ।

तन्नियमो हि कार्य­मा­त्रा­रम्भे वा द्रव्यारम्भे वा । नाद्य इत्याह -
अणुमनसोरिति ।

ययोः संयोगस्तौ संहत्य कर्मारभेते चेत्त­स्यो­भ­य­स­म­वे­त­त्वा­दे­क­द्र­व्य­त्व­व्या­ह­ति­रि­त्या­शङ्क्य सति कर्मणि संयोगः सति च तस्मिन्कर्मेति पर­स्प­रा­श्र­य­त्वा­न्नै­व­मि­त्याह -
एकैको हीति ।

द्व्यणु­का­र­म्भ­क­सं­यो­गा­स­म­वा­यि­का­र­ण­मा­त्म­म­नः­सं­यो­ग­ज­नकं च कर्माद्यं कर्म । द्वितीयमवलम्बते -
द्रव्येति ।

आर­म्भ­वा­दा­न­भ्यु­प­ग­मेन दूषयति -
न । परिणामेति ।

तदेव प्रपञ्चयति -
भवेदिति ।
न त्वेव­म­भ्यु­प­ग­म्यते । तस्मान्नैष नियम इति शेषः ।

तदनभ्युपगमे कथं कार्यो­त्प­त्ति­रि­त्या­श­ङ्क्याह -
तदेवेति ।

परिणामपक्षेऽपि तुल्यमनेकेषां कार­ण­त्व­मि­त्या­श­ङ्क्याह -
तच्चेति ।

यत्र क्षीरं दधिभावेन परिणमते तत्र नाव­य­वा­ना­म­ने­के­षा­मु­पा­दा­न­त्वम् , अविभक्तस्यैव क्षीरस्य दध्यात्मना परिणामोपलम्भात् , यथा परमाणुवादिनां क्षीरद्व्यणुकं त्र्यणुकं वा द्रव्या­न्त­रा­सं­यो­गेऽपि दधि जनयति तथा परि­णा­म­प­क्षेऽ­पीति विवक्षन्नाह -
क्वचिदिति ।

पक्षद्वयेऽपि कार­ण­त्व­म­ने­के­षा­मि­त्य­स्मि­न्नि­यमे न कारणमस्तीत्याह -
नेश्वरेति ।

एक­स्मा­द­ने­क­स्माच्च कार्यो­त्प­त्ति­द­र्श­ना­न्नि­र्ण­या­सि­द्धि­रि­त्या­श­ङ्क्याह -
अत इति ।

एकस्यापि परिणामिनः सह­का­र्य­पे­क्षा­द­र्श­ना­त्त­द्वि­र­हिणो ब्रह्मणो जग­त्का­र­ण­त्व­म­यु­क्त­मि­त्या­श­ङ्क्याह -
तथाचेति ।

कार­ण­शू­न्य­त्वा­दा­का­श­मा­त्म­व­द­नु­त्प­त्ति­म­दि­त्ये­त­न्नि­र­स्तम् । इदा­नी­म­भू­त्वा­भा­वि­त्वा­भा­वान्न तदु­त्प­त्ति­म­दि­त्यु­क्त­म­नु­व­दति -
यच्चोक्तमिति ।

हेत्वसिद्ध्या परिहरति -
तदयुक्तमिति ।
शब्दाधारत्वं विशेषः । आकाशस्य मूर्त­त्वा­भा­वा­न्मू­र्त­वि­रो­धि­न­श्चा­र्था­न्त­र­त्वा­त्त­द­भा­वेऽपि न प्रागवस्थायां काठि­न्य­प्र­स­क्ति­रिति भावः ।

‘अाकाशशरीरं ब्रह्म’ इति श्रुते­रा­का­शा­भावे कथं ब्रह्म­णोऽ­व­स्था­न­मि­त्या­श­ङ्क्या­का­श­व­च्छ­री­र­म­स्येति व्युत्पत्त्या श्रुत्युपपत्तिं मत्त्वाऽह -
यथा चेति ।

अव­का­शा­न्त­र­म­न्त­रे­णा­का­श­स्थि­ति­व­द्ब्र­ह्म­णोऽपि तत्कारणस्य तदतिरेकेण सुषु­प्त्य­व­स्था­या­मि­वा­व­स्थि­ति­र­वि­रु­द्धेति हेत्व­सि­द्धि­मु­प­सं­ह­रति -
तस्मादिति ।

उक्ता­नु­मा­ना­न्त­रा­ण्य­नूद्य काला­त्य­या­प­दि­ष्ट­ता­माह -
यदपीति ।

न्यायशून्या श्रुति­र­नु­मा­न­म­प­बा­धि­तु­म­स­म­र्थे­त्या­श­ङ्क्याह -
उत्पत्तीति ।

इतश्चाकाशस्य न नित्यत्वमित्याह -
अनित्यमिति ।
वस्तुतस्तु गुणाश्रयत्वमेव हेतुः । आकाशो जायते, महाभूतत्वात् , अस्म­दा­दि­बा­ह्ये­न्द्रि­य­ग्रा­ह्य­गु­णा­धा­र­त्वाद्वा, पृथि­व्या­दि­व­दि­त्य­नु­मा­न­मा­दि­श­ब्दार्थः ।

आद्यस्य हेतो­र­न्य­त­रा­नै­का­न्ति­कत्वं चोदयति -
आत्मनीति ।

निर्गु­ण­त्व­श्रु­ति­मा­श्रित्य परिहरति -
न तस्येति ।
न चाका­श­म­नि­त्य­वि­शे­ष­गु­णा­धि­क­र­ण­वि­भु­भिन्नं, मेयत्वादिति तत्सिद्धिः । आकाशं श्रोत्र­ग्रा­ह्य­वि­शे­ष­गु­णा­धि­क­र­ण­वि­भ्व­न्यत् , मेयत्वादित्यपि प्रसङ्गात् , आत्मनि सर्व­वि­शे­ष­नि­रा­क­र­ण­वि­वि­ध­श्रु­ति­वि­रो­धा­च्चेति भावः ।

इतश्च त्वदुक्ता हेतवः साधका न भवन्तीत्याह -
विभुत्वादीनां चेति ।

आकाशस्य नित्यत्वे नानु­मा­न­म­स्ती­त्यु­प­पाद्य यच्चैतदुक्तं शब्दा­न्नि­त्य­त्व­मिति तदनूद्य दूषयति -
यच्चेतदिति ।

किमि­त्य­मृ­त­त्व­श्रु­ति­रा­पे­क्षिकी व्याख्यायते मुक्यार्थैव किं न स्यादि­त्या­श­ङ्क्याह -
उत्पत्तीति ।

आका­श­स्या­नि­त्यत्वं चेदात्मनि तत्तु­ल्य­त्व­श्रु­ति­र्व्या­ह­न्ये­ते­त्या­श­ङ्क्याह -
आकाशवदिति ।

समत्वाभावे न क्वचि­दु­प­मा­न­त्व­मु­प­ल­ब्ध­मि­त्या­श­ङ्क्याह -
यथेति ।

‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा’ इति श्रुतिस्तर्हि कथ­मि­त्या­श­ङ्क्याह -
एतेनेति ।
उत्प­त्ति­वि­ना­श­यो­रु­प­पा­दि­त­त्वेन न्यूने­नो­प­मा­ना­यो­गा­च्चे­त्यर्थः ।

कथमाकाशस्य ब्रह्मणः सका­शा­न्न्यू­न­प­रि­मा­ण­त्व­मि­त्या­शङ्क्य पूर्वो­क्त­युक्त्या श्रुतिं समुच्चिनोति -
ज्यायानिति ।

इतश्च ब्रह्मणि नोप­मा­नो­प­प­त्ति­रि­त्याह -
न तस्येति ।

इतोऽपि नित्य­त्व­मा­का­शस्य नाश­ङ्कि­त­व्य­मि­त्याह -
अतोऽन्यदिति ।

यदुक्तं स्याच्चैकस्य ब्रह्म­श­ब्द­व­दिति, तद्दूषयति -
तपसीति ।
युक्तं तपसि ब्रह्मशब्दस्य गौणत्वं, तस्य ब्रह्म­ज्ञा­न­सा­ध­न­त्वात् , आकाशे तु सम्भूतशब्दस्य ज्वल­ना­दि­व­द्बा­ध­का­भा­वा­द­नु­ग्रा­ह­क­स­द्भा­वाच्च मुख्य­त्व­मे­वे­त्यर्थः ।

श्रुति­यु­क्ति­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ।

आका­श­सृ­ष्टि­श्रु­त्य­नु­सा­रेण तेजः सृष्टि­श्रु­ति­न­य­ना­त्त­यो­रे­क­वा­क्य­तया प्रामा­ण्यो­प­प­त्ते­रा­का­श­का­रणे ब्रह्मणि समन्वयः सिद्ध्य­ती­त्य­धि­क­र­णार्थं निगमयति -
इति सिद्धमिति ॥ ७ ॥

विय­दु­त्प­त्ति­मुक्त्वा पव­नो­त्प­त्ति­म­ति­दे­शेन साधयति -
एतेनेति ।

अत्र पूर्व­व­त्पा­दा­दि­स­ङ्ग­तयो न पृथग्वक्तव्या भव­न्ती­त्य­भि­प्रेत्य तात्पर्यमाह -
अतिदेशोऽयमिति ।

फलभेदमपि पूर्ववदुपेत्य सूत्राक्षरार्थं कथयति -
एतेनेति ।

विय­दु­त्प­त्ति­क­थ­ना­न­न्तरं तेजआद्यतिक्रम्य वायो­रु­त्प­त्ति­म­त्वेन व्याख्याने कारणमाह -
वियदाश्रय इति ।

‘तत्तेजोऽसृजत’ इति श्रुतिः ‘आकाशाद्वायुः’ इति श्रुत्या विरुध्यते न वेत्ये­क­वा­क्य­त्वा­स­म्भ­व­स­म्भ­वाभ्यां संशये सत्यतिदेशं विशदीकर्तुं तुल्य­न्या­य­त्व­माह -
तत्रापीति ।

बहूक्त्या वियदधिकरणेऽपि पक्षत्रयमस्तीति सूचितं, तदेव पक्षत्रयं सङ्क्षि­प­न्प्र­थमं गौणवादिपक्षमाह -
न वायुरिति ।

पूर्वपक्षं सङ्क्षिपति -
अस्ति त्विति ।
छान्दोग्ये तेजसः ‘तत्तेजोऽसृजत’ इति प्रथ­म­ज­त्व­श्र­व­णात् , तैत्तिरीयके च ‘आकाशाद्वायुः’ इति वायो­स्ते­जः­स­का­शा­त्पू­र्व­ज­त्व­श्रु­ते­रु­भ­यो­स्त­द­नु­प­पत्त्या मिथो विरोधे श्रुत्यो­र­प्रा­मा­ण्या­दा­का­श­द्वारा वायुकारणे ब्रह्मणि सम­न्व­या­सि­द्धि­रि­त्यर्थः ।दर्शितश्रुत्या वायु­नि­त्य­त्व­मा­पे­क्षि­क­मि­त्या­श­ङ्क्या­भ्य­स्य­मा­न­त्वा­न्नै­व­मि­त्याह – अमृतत्वदीति । गौण­वा­दि­नोऽ­भि­प्रायं सङ्गृह्णाति -
ततश्चेति ।

आका­श­व­द्वा­यो­र­का­र­ण­त्वा­भा­वा­त्क­थ­म­स­म्भ­वा­श­ङ्के­त्या­श­ङ्क्याह -
असम्भवश्चेति ।

दर्शितश्रुत्या वायु­नि­त्य­त्व­मा­पे­क्षि­क­मि­त्या­श­ङ्क्या­भ्य­स्य­मा­न­त्वा­न्नै­व­मि­त्याह –
अमृतत्वदीति ।

‘वायु­श्चा­न्त­रिक्षं चैतदमृतम्’ इति श्रूयते । आदिशब्देन ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इत्यभ्यासो गृह्यते । प्रति­ज्ञा­श्रु­ते­र­नु­मा­नाच्च पव­नो­त्प­त्ते­रा­व­श्य­कत्वे श्रुत्यो­रे­क­वा­क्य­तया विरो­धा­भा­वा­दा­का­श­द्वारा वायुकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धान्तमाह -
प्रतिज्ञेति ।

यत्तु वायो­र­स्त­म­य­प्र­ति­षे­धा­दु­त्प­त्ते­र­स­म्भव इति, तत्राह -
अस्तमयेति ।

अमृ­त­त्वा­दि­श्र­वणं तर्हि कथं, तत्राह -
कृतेति ।
प्रति­ज्ञा­वा­क्या­र्थ­प्रा­धा­न्या­त्त­दु­प­पा­द­क­वा­यू­त्प­त्ति­प्र­ति­पा­द­क­वा­क्यानां च बहु­त्वा­न्मु­ख्य­भू­त­स्त्वाभ्यां बली­य­स्त्वा­द­मृ­त­त्वा­स्त­म­य­नि­षे­धा­वा­पे­क्षि­क­त्वेन नेयौ । अभ्या­स­त्सू­पा­स्या­द­रा­र्थ­त्वान्न वायो­र­मृ­त­त्व­मा­त्य­न्तिकं गमयति । ‘अप पुनर्मृत्युं जयति’ इत्य­प­मृ­त्य­ज­य­स्यैव वाक्यशेषे श्रवणादिति भावः ।

अधि­का­श­ङ्का­भा­वे­ना­ति­दे­श­मा­क्षि­पति -
नन्विति ।

अधिकां शङ्कां दर्श­य­न्नु­त्त­र­माह -
उच्यत इति ।

यदुक्तमसति विशेषे नाति­दे­शोऽ­र्थ­वा­निति, तदङ्गीकरोति -
सत्यमिति ।

तर्हि पूर्वे­णै­वा­धि­क­र­णेन गत­त्वा­दि­द­म­घि­क­र­ण­म­ना­र­भ्य­मिति, तत्राह -
तथापीति ।
शब्दा­नु­रो­धि­न्यपि शङ्का न वस्त्व­नु­रो­धि­नीति मात्रशब्दार्थः ।

शब्द­मा­त्र­कृ­ता­मा­श­ङ्का­मेव दर्शयति -
संवर्गेति ।

‘स यो वायुं दिशां वत्सं वेद’ इत्या­दि­वि­द्या­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । द्विती­य­मा­दि­प­द­म­मृ­त­त्व­श्र­व­ण­म­भ्यासं च सङ्गृह्णाति । अमृ­त­त्वा­दि­श्र­व­णस्य कृत­प्र­ति­वि­धि­त्वा­त्कथं तद्व­शा­दा­श­ङ्केति, तत्राह -
कस्यचिदिति ।
प्रति­ज्ञा­नु­प­रो­धा­दिना वायो­र्नि­त्य­त्वा­नु­प­प­त्ते­रु­क्त­त्वा­त्त­त्का­रणे ब्रह्मणि समन्वयः सिध्य­ती­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ॥ ८ ॥

ब्रह्मणो विय­त्प­व­न­का­र­णत्वं पूर्वा­धि­क­र­ण­यो­रु­क्तम् । इदानीमग्निरेव विस्फु­लि­ङ्गोऽ­ग्ने­र्य­थो­त्प­द्यते तथा ब्रह्मा­न्त­रा­द्ब्र­ह्मो­त्प­द्य­ता­मि­त्या­श­ङ्क्याह -
असम्भवस्त्विति ।

‘न चास्य कश्चिज्जनिता’ इत्या­दे­र्ब्र­ह्म­णोऽ­जत्वं प्रतिपादयतः समन्वयस्य ‘त्वं जातो भवसि’ इत्यादिश्रुत्या विरोधोऽस्त्युत नेत्ये­क­वा­क्य­त्वा­स­म्भ­व­स­म्भ­वाभ्यां सन्देहे पूर्वपक्षमाह -
वियदिति ।
दर्शि­त­श्रु­ति­वि­रो­ध­प­रि­हा­र­द्वारा सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे विरो­धा­द­प्रा­माण्ये नित्यसिद्धे ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते वाक्यै­क्या­द­वि­रो­धा­त्प्रा­माण्ये तत्र तत्सिद्धिः ।

सम्भा­व­ना­मा­त्रा­द­र्थ­सि­द्धा­व­ति­प्र­स­ङ्गा­त्प्र­मा­ण­मेव साधकं वक्त­व्य­मि­त्या­श­ङ्क्याह -
तथेति ।
ब्रह्म कस्यचित्कार्यं, कारणत्वात् , आकाशवत् । न चाज­त्व­श्रु­ति­वि­रोधः, अनु­मा­ना­नु­गृ­ही­त­ज­न्म­श्रुत्या तस्या विरोधात् । न चान­व­स्था­नु­गृ­ही­ता­ज­त्व­श्रु­ति­र्ब­ल­वती, कार्य­का­र­ण­प­र­म्प­राया बीजा­दि­व­दा­ना­दि­त्वा­द­न्ध­प­र­म्प­रया तद­नु­गृ­ही­त­त्वेऽपि तत्रा­नु­मा­ना­नु­गृ­ही­त­त्वे­ना­वि­शे­षा­दस्ति विरोधः श्रुत्योरिति भावः ।

ब्रह्म न कार्यं, कारणशून्यत्वात् , नर­वि­षा­ण­व­दि­त्य­नु­मा­ना­नु­गृ­ही­ता­ज­त्व­श्रुत्या ब्रह्मणो नित्य­त्वा­ज्ज­न्म­श्रु­ते­रौ­पा­धि­क­ज­न्म­वि­ष­य­त्वे­ना­वि­रो­धा­न्नि­त्य­सिद्धे ब्रह्मणि सम­न्व­य­सि­द्धि­रिति सिद्धान्तमाह -
तामिति ।

तत्र प्रतिज्ञाभागं विभजते -
न खल्विति ।

कारणशून्यत्वं विश­दी­कु­र्व­न्प्र­श्न­पू­र्वकं सौत्रं हेतुमादत्ते -
कस्मादिति ।

ब्रह्मणो हि कार्यत्वं ब्रुवता सन्मात्रं वा सद्विशेषो वा तस्यासद्वा कारणमिति वक्तव्यम् । नाद्य इत्याह -
सन्मात्रं हीति ।

न द्वितीय इत्याह -
नापीति ।

दृष्टविपर्ययमेव साधयति -
सामान्यादिति ।

न तृतीय इत्याह -
नापीति ।

श्रुति­वि­रो­धा­च्चायं पक्षो न सम्भवतीत्याह -
कथमिति ।

युक्त्या हेतुमुपपाद्य श्रुत्योपपादयति -
स कारणमिति ।

यदुक्तं विय­त्प­व­न­यो­र­स­म्भा­व्य­मा­न­ज­न्म­नो­र­पी­त्यादि, तत्राह -
वियदिति ।

विभ­क्त­त्व­मु­त्प­त्ता­वु­प­पत्तिः । ब्रह्मण्यपि तुल्यं विभ­क्त­त्व­मि­त्या­शङ्क्य ब्रह्म­त्व­वि­रो­धा­न्मै­व­मि­त्याह -
न त्विति ।

यत्तु तथे­त्या­दा­व­नु­मा­न­मुक्तं तद्दूषयति -
नचेति ।

तस्य कार्यत्वं वदता मूल­प्र­कृ­ति­रु­प­ग­म्यते न वेति विकल्प्य द्वितीयं प्रत्याह -
मूलेति ।
नचा­ना­दि­त्वा­न्ना­न­वस्था, ब्रह्मणोऽपि कार्यत्वे तत्त­दु­पा­दा­न­प­र­म्प­रा­यौ­ग­पद्ये प्रल­या­भा­व­प्र­स­ङ्गा­दिति भावः ।

प्रथमे तुल्य­बा­धा­प­त्ति­रि­त्या­श­ये­नाह -
या मूलेति ।

एवं कार्य­त्वा­नु­मा­न­स्या­भा­स­त्वा­ज्ज­न्म­श्रु­ते­श्चौ­पा­धि­क­वि­ष­य­त्वा­द­का­र्य­त्वा­नु­मा­ना­नु­गृ­ही­ता­ज­त्व­श्रु­ते­र्ब­ली­य­स्त्वा­दि­त­र­स्या­स्त­द­नु­रो­धि­त्वा­दि­त­रे­त­रा­वि­रो­धा­न्नि­त्या­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन्समन्वयः सम्भ­व­ती­त्यु­प­सं­ह­रति -
इत्यविरोध इति ॥ ९ ॥

अध्य­स्त­स्या­धि­ष्ठा­न­त्वा­यो­गान्न कुतश्चिदपि ब्रह्मणो जन्मेत्युक्तम् । इदानीं वायोरपि तर्हि कार्य­त्वे­ना­ध्य­स्त­त्वा­त्ते­ज­स­स्ततो जन्मा­नु­प­प­त्ते­र्ब्र­ह्मण एव तज्जन्मेति प्रत्यवस्थाने प्रत्याह -
तेजोऽत इति ।

तैत्तिरीये छान्दोग्ये च जायमानत्वेन श्रुतं तेजो विषयः । तत्किं ब्रह्मकार्यं किं वा वायुकार्यमिति संशयस्य बीजं दर्श­य­न्पू­र्व­प­क्ष­माह -
छान्दोग्य इति ।
तत्रेति शाखाद्वयोक्तिः । नच ‘तत्तेजोऽसृजत’ इति श्रुते­र्नि­मि­त्त­वि­ष­य­त्वात् ‘वायोरग्निः’ इति श्रुते­रु­पा­दा­न­वि­ष­य­त्वा­द­वि­प्र­ति­पत्तिः । ‘बहु स्याम्’ इति बहु­भ­व­ना­शं­स­न­लि­ङ्गे­नो­पा­दा­न­त्वा­व­ग­मा­दिति भावः ।

अत्रापि श्रुत्यो­र्वि­रो­ध­नि­रा­क­र­ण­द्वारा वायुभावमापन्ने ब्रह्मणि तेजोयोनौ सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे श्रुत्यो­र­ने­क­वा­क्य­त्वेन विरो­धा­द­प्रा­माण्ये तेजोहेतौ ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदे­क­वा­क्य­त्वे­ना­वि­रो­धा­त्प्रा­माण्ये तत्र तत्सिद्धिः । सत्यां विप्रतिपत्तौ विशे­ष­का­र­ण­म­न्त­रे­णा­न्य­त­र­नि­श्च­या­सि­द्धि­रिति शङ्कते -
कुत इति ।

उपक्रान्तस्य सन्मा­त्र­स्यै­क­मे­वा­द्वि­ती­य­मि­त्य­व­धा­रि­ता­द्वि­ती­य­त्व­नि­र्धा­र­णाय ‘तत्तेजोऽसृजत’ इति वच­ना­दु­पा­दा­ना­दे­वो­पा­दे­य­स्या­व्य­ति­रे­का­दु­पा­दा­न­त्व­मेव तेजः प्रति ब्रह्मणो विवक्षितमित्याह -
सदेवेति ।

किञ्चा­द्येेऽ­धि­क­रणे सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नु­गृ­ही­तो­त्प­त्ति­श्रु­ते­र्ब्र­ह्म­जत्वं वियतो वर्णितं, तेनैव न्यायेन तेजसोऽपि ब्रह्म­ज­त्व­मे­ष्ट­व्य­मि­त्याह -
सर्वविज्ञानेति ।

इतश्च ब्रह्मजत्वं तेजसो युक्तमित्याह -
तज्जलानिति चेति ।

अथर्वणश्रुत्या च तेजसो ब्रह्म­ज­त्व­सि­द्धि­रि­त्याह -
एतस्मादिति ।

तथापि तैत्ति­री­य­श्रु­त्या­लो­च­नायां न ब्रह्मजत्वं तेजसः स्यादित्याह -
तैत्तिरीयके चेति ।

ननु ‘वायोरग्निः’ इति श्रूते­र्वा­यु­द्वारा तेजसो ब्रह्मजत्वेऽपि दर्शितश्रुतयो न विरु­ध्य­न्तेऽ­न्यथा वायोरग्निरिति श्रुति­र्बा­ध्येत, तत्राह -
तस्मादिति ।

यद्यपि वायो­र­ग्नि­रि­त्य­पा­दा­न­प­ञ्चमी कार­क­वि­भ­क्ति­र्वा­यो­र­न­न्त­र­मि­त्यु­प­प­द­वि­भ­क्ते­र्ब­ली­यसी तथापि बहु­श्रु­ति­वि­रो­धा­द्दु­र्ब­लाऽपि सैवोचितेति मत्वा क्रमोपदेशमेव विशदयति -
वायोरिति ।

यदि पुनरित्थमस्याः श्रुतेरर्थो नाश्रीयते तर्हि विरुद्धार्थैव श्रुतिरियं पूर्वो­क्त­श्रु­ति­भि­रिति पूर्व­प­क्ष­म­नु­भाष्य सिद्धान्तमाह -
एवं प्राप्त इति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।

हेतुमेव व्यतिरेकद्वारा विवृणोति -
अव्यवहिते हीति ।
कदर्थिता पीडिता बाधितेति यावत् । तेजसो वायुयोनित्वं पञ्चमीश्रुत्या निर्धारितं, ब्रह्मयोनित्वं तु तस्य बहु­भ­व­ना­शं­स­न­लि­ङ्गा­द­व­ग­तम् , अतः श्रुत्या लिङ्गं बाधित्वा वायुयोनित्वं मुख्यमादाय लिङ्गं परम्परया ब्रह्म­यो­नि­त्व­वि­षयं विवक्षमाणेन न्यायेन ब्रह्म­वा­यु­स­मु­च्च­य­मे­वा­भ्यु­प­ग­म­य­तीति भावः ।

पञ्च­मी­श्रु­ते­रुक्तां गतिं पूर्ववादी स्मारयति -
नन्विति ।

न क्रमार्थत्वं पञ्चम्या युक्तं, पूर्वो­त्त­र­वा­क्यो­पा­दा­ने­ना­पा­दा­ना­र्थ­त्व­प्र­ती­ते­रिति परिहरति -
नेतीति ।

उत्त­र­वा­क्य­मि­हे­त्यु­च्यते । इत­श्चा­पा­दा­ना­र्थ­त्व­मेव पञ्चम्या न क्रमा­र्थ­त्व­मि­त्याह -
अपि चेति ।
प्रक­र­णा­दु­पा­दा­ना­ख्या­पा­द­न­का­र­का­भि­धा­यित्वं पञ्चम्याः सिद्धं परित्यज्य पदार्थान्तरयोगो न कल्पयितुं शक्यते । क्लृप्त­क­ल्प्य­यो­र्मध्ये क्लृप्तस्यैव बली­य­स्त्वा­दि­त्यर्थः ।

पञ्च­मी­श्रु­ते­र­क्र­मा­र्थत्वे फलितमाह –
तस्मादिति ।

श्रुतिबलात् तेजसो वायुजत्वे तद्बलादेव ब्रह्मजत्वमपि तस्यास्थेयमतः श्रुत्योर्मिथो विरोधः स्यादिति शङ्कते –
नन्विति ।

‘वायोरग्निः’ इति साक्षात् तेजसो वायु­ज­त्व­मु­च्यते, ‘तत्तेजोऽसृजत’ इति त्वाका­श­वा­यु­द्वारा तस्य ब्रह्मजत्वमिति विरोधसमाधिरिति समाधत्ते –
न, तस्या इति ।

अविरोधमेव साधयति –
यदापीति ।

साक्षा­त्पा­र­म्प­र्याभ्यां कारणत्वे दृष्टान्तमाह –
यथेति ।
तस्या धेनोः शृतं तप्तं क्षीरं विवक्षितम् । तदेव दधि­सं­सृ­ष्ट­मा­मि­क्षेति भेदः । तत्र क्षीरस्य दध्नि साक्षा­त्का­र­ण­त्वेऽपि गव्यं दधीति प्रयोगो दृष्ट­स्त­थाऽ­त्रा­पी­त्यर्थः ।

तर्हि ब्रह्मणो वायुभावापत्तौ किं प्रमा­ण­मि­त्या­श­ङ्क्याऽऽह –
दर्शयति चेति ।

पार­म्प­र्य­ज­स्यापि तज्ज­त्व­व्य­प­दे­श­यो­ग्यत्वे प्रमाणमाह –
तथा चेति ।

अन्तःकरणादिभ्यः स्वकारणेभ्यो बुद्ध्या­दी­ना­म­य­शो­न्ता­ना­मु­त्प­त्ति­द­र्श­ना­न्मत्त एवे­त्य­व­धा­र­ण­म­यु­क्त­मि­त्या­श­ङ्क्याऽऽह –
यद्यपीति ।
प्राणाड्या परम्परयेति यावत् । ईश्व­र­वं­श्य­त्वात् तद्वं­शो­द्भ­व­त्वा­दि­द­म­व­धा­र­ण­स्म­र­ण­मिति शेषः । सर्व­स्ये­त्य­स्मा­द­र्वाक् तथापीति वक्तव्यम् । पार­म्प­र्य­वि­ष­यत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरुक्तम् ।

इदानीम् ‘इदं सर्वमसृजत’ इत्या­दि­श्रु­ते­रपि पार­म्प­र्य­वि­ष­य­त्व­मे­षि­त­व्य­मि­त्याह –
एतेनेति ।

सर्वस्य साक्षाद् ब्रह्मजत्वाभावे कथं तासामुपपत्तिः, तत्राह –
तासामिति ।
सर्वथा साक्षा­त्प­र­म्प­रया वा । सर्वस्य ब्रह्म­ज­त्व­मा­त्रे­णा­क्र­म­वा­दि­नीनां श्रुती­ना­मु­प­प­त्ते­रि­त­र­श्रु­ति­व­शात् पार­म्प­र्य­मे­वा­श्र­य­णी­य­मि­त्यर्थः ।

क्रम­श्रु­ती­ना­मे­वा­क्र­म­श्रु­ति­व­शा­न्न­यनं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
क्रमवदिति ।
अन्यथा पार­म्प­र्य­म­न्त­रे­णेति यावत् । न साक्षा­त्का­र­ण­वि­ष­य­त्व­मिति शेषः ।

अव्यवधानेन ब्रह्मजत्वाभावे कथं प्रति­ज्ञे­त्या­श­ङ्क्याऽऽह –
प्रतिज्ञाऽपीति ।

अक्रमश्रुतीनां क्रम­श्रु­त्य­नु­सा­रि­त्वेन मिथो विरोधाभावात् तेजसो वियत्पवनद्वारा कारणे ब्रह्मणि समन्वयः सिद्ध्य­ती­त्यु­प­सं­ह­रति –
इत्यविरोध इति ॥१०॥

विषयं विविच्य सहेतुं संशयमाह -
स इति ।

श्रुति­वि­प्र­ति­पत्ति विशदयति -
कासुचिदिति ।
‘यथा सुदी­प्ता­त्पा­व­कात्’ इत्याद्या जीवो­त्प­त्ति­वा­दिन्यः श्रुतयः ।

कासुचिदिति ।
‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’ इत्या­द्या­स्वि­त्यर्थः ।

प्रवेशवाक्येऽपि जन्म­धी­र­स्ती­त्या­श­ङ्क्याह -
नचेति ।

श्रुति­वि­प्र­ति­पत्त्या शङ्कामुक्त्वा पूर्वपक्षयति -
तत्रेति ।
अत्र चोक्त­श्रु­ति­वि­प्र­ति­प­त्ति­नि­रा­सेन सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः ।

पूर्वपक्षे श्रुतीनां विप्र­ति­प­त्ते­र­ने­क­वा­क्य­त्वेन विरो­धा­द­प्रा­माण्ये समन्वयासिद्धिः । सिद्धान्ते श्रुती­ना­म­वि­प्र­ति­प­त्ते­रे­क­वा­क्य­त्वा­द­वि­रोधे नित्ये प्रत्य­ग्ब्र­ह्मणि समन्वयसिद्धिः । जन्म­प्र­यो­ज­का­वि­शे­ष­त्व­वि­र­हा­न्नो­त्प­त्ति­रि­त्याह -
कुत इति ।

आत्मनस्तद्बिरहे विवदमानो विय­दु­त्प­त्ति­न्या­येन प्रत्याह -
प्रतिज्ञेति ।

तदनुपरोधं साधयति -
एकस्मिन्निति ।

अकार्यत्वेऽपि प्रति­ज्ञा­सि­द्धि­श्चेत्कि तत्का­र्य­त्वे­ने­त्या­श­ङ्कय तस्य पर­स्मा­द्भि­न्न­त्व­म­भि­न्नत्वं वेति विकल्प्याद्यं दूषयति -
तत्त्वान्तरत्वे त्विति ।

द्वितीयं निरस्यति -
नचेति ।

लक्षणमेदं साधयति -
अपहतेति ।

नित्य­त्व­श्रु­ति­वि­रो­ध­मा­श­ङ्क्या­नु­मा­ना­नु­गृ­ही­ता­नि­त्य­त्व­श्रु­ति­वि­रो­धा­त्ता­सा­मु­प­च­रि­ता­र्थ­तेति मत्वाह -
विभागाच्चेति ।

तत्त्व­म­स्या­दि­वा­क्या­पे­क्षि­ता­र्था­वे­द­क­त्वा­न्नि­त्य­त्वा­न्नि­त्य­त्व­श्रु­तीनां नोप­च­रि­ता­र्थ­ते­त्या­शङ्क्य नित्यनित्ययोरपि कार्य­का­र­ण­यो­र्मृ­द्ध­ट­व­त्ता­दा­त्म्य­स­म्भ­वा­द­वि­रुद्धं महा­वा­क्य­मि­त्य­भि­प्रे­त्या­नि­त्य­त्व­श्रु­त्य­नु­ग्रा­ह­का­नु­मा­ना­ङ्ग­व्या­प्ति­माह -
यावानिति ।

आका­शा­दे­र्वि­भ­क्त­त्वेऽपि विका­र­त्वा­सि­द्धे­र­सिद्धा व्याप्ति­रि­त्या­श­ङ्क्याह -
तस्येति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवेति

प्रति­दे­ह­मा­त्म­वि­भागे कर्म­त­त्फ­ल­व्य­व­स्था­नु­प­पत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चेक्त्वा­नु­मा­न­माह -
तस्येति ।

यद­नु­ग्रा­ह­क­म­नु­मा­न­मुक्तं तां श्रुतिमाह -
अपिचेति ।

जीवस्य मुख्यो­त्प­त्ति­रत्र नेष्टे­त्या­शङ्क्य प्राणादीनां तथो­त्प­त्ति­दृष्टेः सम­भि­व्या­हा­रा­ज्जी­व­स्यापि तादृश्येव सेति मत्वाह -
प्राणादेरिति ।

किञ्चौपाधिकं जन्म चेदुपाघेरेव तद्वाच्यं नोभ­यो­रि­त्या­श­ये­नाह -
सर्वएव इति ।

जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -
यथेति ।

भावा­ना­मे­वो­त्प­त्ति­ल­या­व­त्रोक्तौ न जीवा­ना­मि­त्या­श­ङ्क्याह -
सरूपेति ।
भावशब्दो जीववाचीति शेषः । अन्यत्रापि इति ॥ १० ॥

तेजसो वायु­का­र्य­त्व­मु­क्त्वाऽ­न­न्त­र­नि­र्दि­ष्टा­ना­मपां तेजसो जन्मातिदेशेन निरूपयति -
आप इति ।

वाक्यं हि सूत्रं न पदमात्रं तत्कुतोऽस्य सूत्र­ते­त्या­शङ्क्य सूत्रं पूरयति -
अत इति ।

‘एतस्माज्जायते’ इत्युपक्रम्य ‘खं वायु­र्ज्यो­ति­रापः’ इति ‘अग्नेरापः’ इति ‘तदपोऽसृजत’ इति च श्रूयते । तत्र किमापः सतो जायन्ते किंवा तेजस इति श्रुति­वि­प्र­ति­पत्तेः सन्देहे सत्य­पा­म­ग्नि­दा­ह्य­त्वा­द­ग्ने­रु­त्प­त्त्य­यो­गात् ‘अग्नेरापः’ ‘तदपोऽसृजत’ इति च श्रुती गौण्या­व­न्य­थाऽ­थ­र्व­ण­श्रु­ति­वि­रो­धान्न ब्रह्मणि सम­न्व­य­सि­द्धि­रिति पूर्वपक्षे सिद्धान्तमाह -
आपोऽत इति ।

अपां कारणत्वे तेजसः श्रुतेऽपि प्रत्य­क्ष­वि­रो­धा­न्नि­श्च­या­सि­द्धि­रि­त्या­श­ङ्क्याह -
सतीति ।
त्रिवृ­त्कृ­त­यो­र­प्ते­ज­सो­र्वि­रो­धेऽपि तयो­र­त्रि­वृ­त्कृ­त­यो­र­ती­न्द्रि­य­त्वा­द्वि­रो­धा­प्र­ती­ते­र्व­चने सति निश्च­यो­प­प­त्ति­रि­त्यर्थः ।

सन्देहाभावे विचारस्य निर­व­का­श­त्वा­त्क­थ­मिदं सूत्र­मि­त्या­श­ङ्क्याह -
तेजसस्त्विति ।
महा­भू­त­स­र्ग­व्या­ख्याने प्रक्रान्ते क्रम­प्रा­प्ता­ना­म­पा­म­ति­क्र­मणं मा भूदि­त्य­भि­प्रेत्य प्रत्य­क्ष­वि­रो­धात् । ‘आप एवाग्र आसुः’ इति च पूर्व­स­द्भा­व­श्र­व­णा­दा­थ­र्व­ण­श्रु­तेश्च ‘अग्नेरापः’ इत्याद्या श्रुतिर्गौणीति मन्दाशङ्कां निरसितुमिदं सूत्रम् । पूर्व­व­त्क्र­म­श्रु­त्य­नु­रो­धे­ना­क्र­म­श्रु­ते­र्ने­त­व्य­त्वा­त्पू­र्व­स­द्भा­व­श्रु­तेश्च भूत­सू­क्ष्म­मा­त्र­वि­ष­य­त्वे­ना­वि­रो­धा­त्ते­जो­भा­व­मा­पन्ने ब्रह्मण्यपां कारणे ‘तदपोऽसृजत’ इत्यादिश्रुतेः समन्वयसिद्धौ न गौणार्थतेति भावः । तत्र च तैत्ति­री­या­दि­श्रु­ते­रा­थ­र्व­णा­दि­श्रु­तेश्च मिथो­वि­रो­ध­नि­रा­क­र­ण­द्वारा ब्रह्म­ण्ये­वा­बा­दि­का­रणे सम­न्व­य­प्र­ति­पा­द­ना­त्पा­दा­दि­स­ङ्ग­ति­स्त­थैव फलभेदश्चेति द्रष्टव्यम् ॥ ११ ॥

तेजः­का­र्य­त्वे­नो­क्ता­ना­मपां कार्यत्वेन ‘ता अन्नमसृजन्त’ इति श्रुतस्यान्नस्य पृथिवीत्वं साधयति -
पृथिवीति ।

अधिकरणस्य विषयमाह –
ता इति ।

अन्न­श­ब्दा­न्म­हा­भू­त­प्र­क­र­णाच्च दर्शितश्रुतिं विषयीकृत्य विचारप्रयोजकं सन्देहमाह -
तत्रेति ।
अभ्यवहार्यम् । भक्षणयोग्यमिति यावत् ।

अप्का­र्य­वि­गा­न­द्वारा कारणसमन्वये विगानं दर्श­य­न्पू­र्व­प­क्ष­यति -
तत्र प्राप्तमिति ।
‘ता अन्नमसृजन्त’ इति श्रुतेः ‘अद्भ्वः पृथिवी’ इति श्रुतेश्च विरो­ध­नि­रा­क­र­ण­द्वा­रेण परम्परया पृथिवीकारणे ब्रह्मणि सम­न्व­य­प्र­ति­पा­द­ना­दत्र पादा­दि­स­ङ्ग­ति­सौ­ल­भ्य­मिति मन्तव्यम् ।

उक्त­श्रु­त्यो­र­ने­क­वा­क्य­तया विरो­धा­द­प्रा­माण्ये पूर्वपक्षे समन्वयासिद्धिः, सिद्धान्ते त्वेक­वा­क्य­त्वे­ना­वि­रो­धा­त्प्रा­माण्ये तत्सिद्धिः । प्रकरणादिना पृथिवीप्रतीतौ कथमन्नशब्देन व्रीह्यादि ग्राह्य­मि­त्या­शङ्क्य श्रुतेस्ततो बली­य­स्त्वा­दि­त्याह -
तत्र हीति ।

अन्नशब्देन व्रीह्यादि ग्राह्यमित्यत्र लिङ्गमपि दर्शयति -
वाक्यशेषोऽपीति ।
तस्मादिति । अद्भ्योऽन्नस्य सृष्टत्वादिति यावत् ।

तदेव ।
तत्रैवेत्यर्थः ।

वर्षणे सत्यन्नस्य बहुभवनं श्रुत­मि­त्ये­ता­वता कथमन्नशब्दस्य पृथि­वी­व्या­वृ­त्ति­रि­त्या­श­ङ्क्याह -
व्रीहीति ।
श्रुति­लि­ङ्गा­भ्या­म­न्न­श­ब्दस्य प्रति­द्धा­र्थत्वे सिद्धे ‘ता अन्नमसृजन्त’ इत्यादिश्रुतेः श्रुत्यन्तरेण ‘अद्भ्वः पृथिवी’ इत्यादिना विरोध इति पूर्व­प­क्षो­प­सं­हार इतिशब्दार्थः ।

पूर्वपक्षमनूद्य सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञाभागं व्याचष्टे -
एवं प्राप्त इति ।

श्रुति­लि­ङ्गा­भ्या­म­न्न­श­ब्दस्य व्रीह्या­दि­वि­ष­यत्वे दर्शिते पृथिवीविषयत्वं हेत्व­भा­वा­द­यु­क्त­मिति शङ्कते -
कस्मादिति ।

अन्नशब्दस्य पृथिवीविषयत्वे सूत्रोक्तं हेतुत्रयं विभज्यावतारयति -
अधिकारादिति ।

अधिकारशब्दितं प्रकरणमादौ विवृणोति -
अधिकार इति ।

प्रकरणस्य महा­भू­त­वि­ष­य­त्वेऽपि परम्परया व्रीह्या­दि­वि­ष­य­त्व­म­न्न­श­ब्दस्य किं न स्यादि­त्या­शङ्क्य प्रबलप्रमाणं विना पर­म्प­रा­क­ल्प­न­म­नु­चि­त­मि­त्याह -
तत्रेति ।

प्रक­र­ण­व­ल्लि­ङ्ग­मपि सिद्धान्ते साधकमस्तीत्याह -
तथेति ।

लिङ्ग­स्या­न्य­था­सिद्धिं शङ्कित्वा दूषयति -
नहीति ।

कृष्ण­त्व­नि­य­म­रा­हित्यं पृथिव्यामपि तुल्य­मि­त्य­सिद्धिं लिङ्गस्य चोदयति -
नन्विति ।

पृथि­वी­प्र­दे­शा­ना­म­कृ­ष्णा­ना­मपि प्रथनात्तत्र कृष्ण­त्व­नि­य­मा­भा­वा­द­स­म्भवि लिङ्गमिति, तन्निराकरोति -
नायमिति ।

बाहुल्यमेव प्रकटयति -
भूयिष्ठं हीति ।

वाक्यशेषे यदन्नस्य कृष्णत्वं श्रुतं तत्तस्य पृथिवीत्वं गमयतीत्यत्र पौराणिकसंमतिमाह -
पौराणिका अपीति ।

प्रकरणलिङ्गे दर्शयित्वा स्थानमपि सिद्धान्ते दर्शयति -
श्रुत्य­न्त­र­म­पीति ।

समानाधिकारम् ।
महा­भू­त­सृ­ष्टि­वि­ष­य­त्वेन समानप्रकरणमिति यावत् ।

तत्रैव बृह­दा­र­ण्य­क­श्रु­ति­मु­दा­ह­रति -
तद्यदिति ।
तत्तत्र सृष्टिकाले यदपां यस्तासां शरो मण्डो घनीभावोऽभूदिति प्रकृतः शरो निरुच्यते । स हि समहन्यत सङ्घातात्मना परिणतः । सोऽपां कठिनाकारपरिणामः पृथिव्यभवत् । विशे­ष्य­पृ­थि­व्य­पे­क्षया सेत्युक्तम् । चकारस्तु श्रुत्य­न्त­र­मि­ति­प­दा­नु­क­र्ष­णार्थः ।

तैत्तिरीयके तेज आरभ्य चतु­र्थ­प­र्या­य­प­ठि­त­स्यैव व्रीह्या­दि­रू­प­त्वा­त्तृ­ती­य­प­र्या­यस्य पृथि­वी­वि­ष­य­त्वा­च्छा­न्दो­ग्येऽपि तस्य तद्विषयत्वं युक्तमिति स्थानमेव प्रकटयति -
पृथि­व्या­स्त्विति ।

प्रमाणत्रयफलं निगमयति -
एवमिति ।

अन्न­श­ब्द­श्रुत्या व्रीह्या­दि­प्र­ति­प­त्ति­रु­क्ते­त्या­श­ङ्क्याह -
प्रसिद्धिरपीति ।

लिङ्गानुगृहीता श्रुतिर्बलवती कुतो बाध्यत इत्याशङ्क्य त्वदुक्तं लिङ्गं सिद्धा­न्ता­नु­कू­ल­मि­त्याह -
वाक्यशेषोऽपीति ।

प्रक­र­णा­दि­भि­र्यदा पृथिवी परिगृह्यते तदा श्रुति­लि­ङ्ग­यो­र्ना­त्य­न्त­बाधः । स्वार्था­प­रि­त्या­गेन तदाकारपरिणतायां पृथिव्यां प्रवृ­त्त्यु­प­पत्तेः । श्रुति­लि­ङ्गा­भ्या­म­न्न­मा­त्र­प­रि­ग्रहे हेतु­लि­ङ्ग­प्र­क­र­णा­दी­ना­म­त्य­न्त­बाधः स्यात् । तेषां पृथि­वी­वि­ष­य­त्वा­त्त­द­नु­पा­दाने निरवकाशत्वात् । तत्र प्रमा­ण­स­मु­दा­य­यो­रि­त­रे­त­र­वि­रो­धेऽ­न्य­त­र­स्या­त्य­न्त­बा­धे­ना­न्य­त­रो­पा­दा­ना­द्वा­र­म­न्य­त­र­स्या­ल्प­बा­धे­ना­न्य­त­रो­पा­दा­न­मिति श्रुति­लि­ङ्ग­यो­र­न्न­मा­त्र­नि­ष्ठत्वं बाधित्वा प्रक­र­णा­दि­भि­र­न्ना­का­र­प­रि­णता पृथिव्येव ग्रहीतव्येति मन्वानः सिद्धा­न्त­मु­प­सं­ह­रति -
तस्मादिति ।
तैत्ति­री­य­श्रु­त्य­नु­सा­रेण छन्दो­ग­श्रु­ति­न­य­ना­त्त­यो­र­वि­रो­धा­द­न्न­भा­व­मा­पन्ने पृथिवीकारणे ब्रह्मणि सम­न्व­यो­प­प­त्ति­रिति निग­म­य­तु­मि­ती­त्यु­क्तम् ॥१२॥

पूर्वे­ष्व­धि­क­र­णेषु महाभूतानां पूर्व­स्मा­त्पू­र्व­स्मा­दु­त्त­र­स्यो­त्त­र­स्यो­त्त­रस्य सृष्टिरुपदिष्टा । सम्प्रति भूतानां स्वकार्ये स्वात­न्त्र्या­द्ब्र­ह्मणः सर्व­का­र­ण­त्व­श्रु­ति­वि­रोधः स्यादि­त्या­श­ङ्क्याह -
तदभिध्यानादिति ।

विष­य­प्र­द­र्श­न­पू­र्व­क­मा­का­शा­दि­श­ब्दानां चेत­ना­चे­त­न­वि­ष­य­त्वाभ्यां सन्देहमुक्त्वा पूर्वपक्षं गृह्णाति -
किमिमानीति ।

अत्र च भूत­सृ­ष्ट­त्व­श्रु­ते­र्ब्र­ह्म­स्र­ष्टृ­त्व­श्रु­तेश्च विरो­ध­नि­रा­क­र­ण­द्वा­रेण सर्वस्रष्टरि ब्रह्मणि सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे श्रुत्यो­र्वि­रो­धा­द­ने­क­वा­क्य­त्वान्न तत्र ब्रह्मणि समन्वयः । सिद्धान्ते तु तयो­रे­क­वा­क्य­त­याऽ­वि­रो­धा­त्प्रा­मा­ण्या­त्त­त्सिद्धिः । ‘आकाशादेव समुत्पद्यन्ते’ इत्ये­व­का­र­श्रुत्या ब्रह्मणः स्वतान्त्र्ये समधिगते भूत­स्व­त­न्त्र्य­म­यु­क्त­मिति शङ्कते -
कुत इति ।

मूल­का­र­ण­त्वा­पे­क्षया ब्रह्मणः स्वात­न्त्र्य­श्र­व­ण­मि­त्या­श­य­वा­नाह -
आकाशादिति ।

पूर्व­प­क्ष­मा­क्षि­पति -
नन्विति ।

आका­शा­दि­श­ब्दै­रा­का­शा­द्य­भि­मा­नि­नीनां देवतानां मनु­ष्या­दि­श­ब्दै­रिव तदभिमानिनां जीवानां विवक्षितत्वात् , पञ्चमीनां च निमि­त्ता­र्थ­त्वात् , आका­शा­द्या­त्म­ने­श्व­रस्य वाय्वा­द्यु­पा­दा­न­त्व­व­त्त­द­भि­मा­नि­दे­व­ता­त्म­ना­धि­ष्ठा­तृत्वं चाविरुद्धमिति परिहरति -
नैष दोष इति ।
भूतानामपीति भूता­भि­मा­नि­दे­व­ता­भि­प्रा­यम् ।

‘सोऽकामयत’ इति परमेश्वरं प्रस्तुत्य ‘तदात्मानं स्वयमकुरुत’ इति कर्तृत्वं श्रुतं, ‘यः पृथिव्यां तिष्ठन्’ इत्यादिना चेश्वरस्य निय­न्तृ­त्व­मुक्तं, तत्कुतो देवतानां स्वातन्त्र्येण कार्ये निय­न्तृ­त्व­मि­त्या­शङ्क्य प्रस्ता­व­लि­ङ्गा­भ्या­म­व­द्यो­तितं ब्रह्मणः सर्व­नि­य­न्तृ­त्व­म­भि­मा­नि­दे­व­ता­द्वारा पारम्पर्येणापि सिध्यति, अन्यथा ब्रह्म­का­र­ण­त्व­श्रु­ते­र्भू­त­का­र­ण­त्व­श्रु­तेश्च मिथो विरोधः स्यादि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः । आकाशादिशब्दैर्न देवतालक्षणा, मुख्या­र्थ­बा­धा­भा­वात् , पञ्च­म्य­श्चा­पा­दा­ना­र्था­स्तत्र रूढतरत्वादिति सिद्धान्तयति -
एवं प्राप्त इति ।

भूतानां स्वात­न्त्र्य­श्र­व­णा­न्नास्ति स्ववि­का­र­सृ­ष्टा­वी­श्व­रा­पे­क्षे­त्यु­क्त­त्वा­दु­क्त­प्र­ति­ज्ञा­नु­प­प­त्ति­रिति शङ्कते -
कुत इति ।

सौत्रं हेतुमादाय विभजते -
तल्लिङ्गादिति ।

इतश्च भूतानामयुक्ता स्वातन्त्र्येण प्रवृ­त्ति­रि­त्याह -
तथेति ।
ब्रह्मा­का­श­यो­र­न्य­त­र­प­दा­र्थो­पा­दा­नेऽ­न्य­त­र­प­दा­र्थ­बा­ध­प्र­स­ङ्गा­त्प­ञ्च­म्ये­व­का­र­श्रु­ति­भ्या­म­व­ग­त­स्वा­त­न्त्र्य­यो­स्त­यो­रे­क­त­र­स्या­प्य­बा­धेन समुच्चयोपादानेन नैर­पे­क्ष्य­मात्रं बाधित्वा पूर्व­पू­र्व­भू­ता­का­र­प­रि­णतं ब्रह्मो­त्त­रो­त्त­र­भू­तो­पा­दा­न­मु­पे­य­मिति भावः ।

पूर्व­प­क्ष­बी­ज­म­नूद्य तद­भि­ध्या­ना­दे­वेति सूत्रावयवयोजनया निराकरोति -
यत्त्विति ।
परमेश्वरस्य भूतेषु प्रवे­शा­त्त­दी­य­मे­वा­भि­ध्या­न­म­प्ते­ज­सो­रु­प­च­र्यते, तन्न भूतानां चेत­न­त्वा­श­ङ्के­त्यर्थः ।

भूतानां तद­भि­मा­नि­चे­त­न­दे­व­ता­द्वा­रे­णे­क्ष­ण­सिद्धौ किमी­श्व­रे­णे­त्या­श­ङ्क्याह -
नान्य इति ।

भवतु वा चेतनानां देवतात्मनां भिन्नत्वं तथापि किङ्कारणमिति विशये परमेश्वरस्य कारणत्वेन क्लृप्तत्वात्स एव द्विधा कारणमित्याह -
प्रकृतत्वादिति ।
ब्रह्मणः स्वरूपेण पररूपेण सर्वकारणत्वे सर्व­स्र­ष्टृ­ब्र­ह्म­स­म­न्व­यस्य भूत­स्वा­त­न्त्र्य­स्र­ष्टृ­त्व­श्रु­ति­वि­रोधो नेति सिद्धमिति भावः ॥ १३ ॥

सृष्टि­क्र­म­म­भि­धाय लयक्रममभिधत्ते -
विपर्ययेणेति ।

यद्यप्यत्र श्रुति­वि­प्र­ति­षेधो न साक्षा­त्प­रि­ह्नि­यते तथा­प्यु­त्प­त्ति­क्रमे निरूपिते लयक्रमो बुद्धि­स्थ­त्वा­द्वि­चा­र्यत इति प्रासङ्गिकी सङ्ग­ति­रि­त्य­भि­प्रे­त्याह -
भूतानामिति ।
वस्तुतस्तु सर्व­प्र­ल­या­धा­र­ब्र­ह्म­स­म­न्व­यस्य कार­ण­ना­शा­त्का­र्य­नाश इति न्याया­नु­गृ­ही­त­सृ­ष्टि­क्र­म­श्रु­ति­वि­रोधो निरस्यत इति सङ्गतयः । पूर्वपक्षे भूतलयस्य श्रौत­सं­नि­हि­त­क्र­म­ला­भा­द­शे­ष­ल­या­धा­र­ब्र­ह्म­स­म­न्व­यस्य न्यायो­पे­त­सृ­ष्टि­क्र­म­वि­रो­धा­द­सिद्धिः । सिद्धान्ते लोकानुरोधिन्याः श्रुतेः श्रुति­सं­नि­हि­ता­दपि लौकिकक्रमस्य संनि­हि­त­त­र­त्वा­त्तेन तद्बा­ध­क­ते­त्युक्ते् ब्रह्मणि तत्सिद्धिः ।

‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ’ इत्यादौ कार्य­लि­ङ्ग­का­नु­मा­न­प्र­द­र्श­नात् , ‘यत्प्रयन्ति’ इत्यादौ च लय­मा­त्र­श्र­व­णेऽपि क्रम­स्या­श्रु­त­त्वात् , आकाङ्क्षायाश्च द्विधाऽपि शान्ते­श्चि­न्ता­प्र­का­र­मे­वा­भि­न­यति -
किमनियतेनेति ।

सति प्रलये क्रम­श्चि­न्त­नीयः, स एव नास्तीति केचित् , तान्प्रत्याह -
त्रयोऽपीति ।

उपक्रममात्रेण पूर्वपक्षमाह -
तत्रेति ।

श्रुतो­त्प­त्ति­क्र­मा­देव नियमे सत्यनियमो न युक्ति­मा­नि­त्या­शङ्क्य पक्षान्तरमाह -
अथवेति ।

महाभूतप्रलयोऽपि क्रममपेक्षते, तदु­त्प­त्ति­प्र­ल­य­यो­र­न्य­त­र­त्वात् , तदु­त्प­त्ति­व­दि­त्य­भि­प्रे­त्याह -
क्रमाकाङ्क्षिण इति ।
तथाचासौ श्रौत­सं­नि­हि­त­क्र­म­वान्न स्मार्तं व्यवहितं क्रममवलम्बते । तस्य बहिरङ्गत्वादिति भावः ।

महा­भू­ता­ना­मु­त्प­त्ति­क्र­मेण प्रलये क्रमवति सति सर्वप्रलयाधारे ब्रह्मणि समन्वयो न्याया­नु­गृ­ही­त­सृ­ष्टि­क्र­म­श्रु­ति­वि­रुद्धो न सिध्य­ती­त्यु­प­सं­ह­रति -
एवमिति ।

सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
तत इति ।

लोक­दृ­ष्ट­प­दा­र्थ­बो­धा­धीना हि श्रुतिः । अतः श्रुति­सं­नि­हि­ता­दपि लौकिकक्रमस्य संनि­हि­त­त­र­त्वा­त्तेन तद्बाधनं युक्त­मि­त्यु­प­प­द्यत इति सूत्रावयवं व्याचष्टे -
तथाहीति ।

चका­र­सू­चि­त­मु­प­प­त्त्य­न्त­र­माह -
अपिचेति ।

सत्यपीत्थं लौकिके दर्शने प्रकृते किमा­या­त­मि­त्या­शङ्क्य फलपरत्वेनापि सूत्रावयवं योजयति -
अतश्चेति ।

पृथि­व्या­दी­ना­म­बादौ लय­श्चे­द्ब्र­ह्मणः सर्व­का­र्य­ल­या­धा­रत्वं कथमित्याशङ्क्य तत्त­त्का­र­णा­त्मके ब्रह्मणि तत्त­त्का­र्य­ल­या­भ्यु­प­ग­मा­त्त­त्रैव पर्यवसानमिति मत्वाऽऽह -
एवं क्रमेणेति ।

पारम्पर्यं परित्यज्य साक्षा­द्ब्र­ह्मणि सर्व­का­र्य­ल­या­भ्यु­प­गमो बली­या­नि­त्या­श­ङ्क्याह -
नहीति ।
घटा­दे­र्मृ­त्का­र्यस्य परमाणुषु लयानभ्युपगमात् । अन्यथा घटादिनाशे पर­मा­णू­ना­म­ती­न्द्रि­य­त्वान्न किञ्चि­दु­प­ल­भ्ये­तेति भावः ।

लौकि­क­न्या­य­व­शा­दु­त्प­त्ति­क्र­म­वि­प­रीतं प्रलयक्रमं प्रदर्श्य तत्रैव स्मृतिं संवादयति -
स्मृतावपीति ।
‘वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते’ इति वाक्य­मा­दि­श­ब्दार्थः ।

स्मार्त­क­मा­ल्लौ­कि­क­न्या­याच्च श्रौतक्रमस्य संनि­कृ­ष्ट­त्वा­दा­का­ङ्क्षा­सं­नि­धिभ्यां तस्यै­वो­पा­दे­य­त्व­मि­त्या­शङ्क्य योग्य­त्वा­भा­वा­न्मै­व­मि­त्याह -
उत्पत्तीति ।

आकाङ्क्षापि तत्र नास्तीत्याह -
नचेति ।
अयो­ग्य­वि­ष­या­भ्या­मा­का­ङ्क्षा­सं­नि­धिभ्यां विप्र­कृ­ष्ट­वि­ष­येऽ­प्या­का­ङ्क्षा­यो­ग्यत्वे बलवत्तरे सम्बन्धस्य योग्य­ता­नि­मि­त्त­त्वा­दिति भावः ।

अयो­ग्य­त्वा­दि­त्युक्तं साधयति -
नहीति ।

कार्य­का­र­ण­यो­र­भेदे कार्याभावे कार­ण­व­त्त­द­भा­वेऽपि कार्यं स्यादि­त्या­श­ङ्क्याह -
कार्येति ।
तदेवं ब्रह्मणः सर्व­प्र­ल­या­धा­र­त्वा­त्तत्र समन्वयस्य ‘कार­ण­ना­शा­त्का­र्य­नाश’ इति न्याया­नु­गृ­ही­त­सृ­ष्टि­क्र­म­श्रुत्या न विरोधोऽस्तीति सिद्धमिति भावः ॥ १४ ॥

पूर्वो­क्त­भू­तो­त्प­त्ति­प्र­ल­य­क्र­मस्य करणसृष्ट्या बाधमाशङ्क्य परिहरति -
अन्तरेति ।

भूतो­त्प­त्ति­प्र­ल­य­क्रमो विषयः । स किं करणसृष्टिक्रमेण बाध्यते न वेति करणानां भौति­क­त्वा­भौ­ति­क­त्वाभ्यां सन्देहे पूर्वपक्षयितुं वृत्तं कीर्तयति -
भूतानामिति ।

उक्तो­त्प­त्ति­प्र­ल­य­क्र­मस्य विरो­ध­द्यो­त­ना­र्थ­मु­क्त­म­र्था­न्त­र­म­नु­द्र­वति -
आत्मादिरिति ।
अत्र च क्रम­व­द्भू­तो­त्प­त्ति­प्र­ल­या­धारे ब्रह्मणि समन्वयस्य कर­ण­सृ­ष्टि­श्रुत्या विरो­ध­प­रि­हा­र­द्वारा दृढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे कर­ण­स­र्ग­श्रु­ति­वि­रो­धा­दु­क्त­स­म­न्व­या­सिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः ।

देह­प्र­दे­शा­ति­रि­क्ते­द्नि­या­भा­वा­त्कथं यथोक्तः सन्देहः स्यादि­त्या­श­ङ्क्याह -
सेन्द्रियस्येति ।

श्रुति­स्मृ­त्यो­रुक्ता प्रसिद्धिः । तत्र श्रुतिमुदाहरति -
बुद्धिं त्विति ।

‘इन्द्रियाणि परा­ण्या­हु­रि­न्द्रि­येभ्यः परं मनः । मनसस्तु परा बुद्धिः‘ इत्याद्या स्मृति­रु­दा­ह­र्तव्या । करणानां सत्त्वेऽपि तेषा­मा­ह­ङ्का­रि­क­त्वा­त्त­दु­त्प­त्ति­क्र­मेण कुतो भूतो­त्प­त्त्या­दि­क्र­मस्य विरो­धा­श­ङ्के­त्या­श­ङ्काह -
तयोरिति ।
तेषा­मा­ह­ङ्का­रि­कत्वे माना­भा­वा­द्ब्र­ह्म­ज­त्व­स्या­व­श्य­कत्वे तत्कार्येष्वेव कस्मि­श्चि­द­न्त­राले बुद्धि­से­न्द्रि­य­म­न­सो­रु­त्प­त्ति­लयौ ग्राह्या­वि­त्यर्थः ।

तथापि भूतो­त्प­त्त्य­न­न्तरं तदु­त्प­त्त्य­ङ्गी­का­र­तया भूतो­त्प­त्त्या­दि­क्र­म­स्या­वि­रु­द्ध­ते­त्या­शङ्क्य क्रमा­का­ङ्क्षायां करणोत्पत्तेः श्रुत्य­न्त­र­सि­द्ध­क्र­म­सि­द्धे­र्वि­रो­धोऽ­स्ती­त्याह -
अपि चेति ।

अन्नमयश्रुतौ करणानां भौतिकत्वे सिद्धे भूतानन्तर्यं तेषा­मि­त्या­शङ्क्य ‘आपोमयः प्राणः’ इत्यत्र तद्वि­का­र­त्वा­भा­व­व­दि­हापि तद्वि­का­र­त्वा­भा­वा­त्क­र­णो­त्प­त्ति­श्रुत्या क्रम­व­द्भू­तो­त्प­त्त्या­दि­श्रु­ते­र्वि­रो­धोऽ­स्ती­त्यु­प­सं­ह­रति -
तस्मादिति ।

सिद्धा­न्त­मा­दत्ते -
नेति ।
इन्द्रि­या­णा­मु­त्प­त्ति­क्र­मस्य भूतो­त्प­त्त्या­दि­क्र­म­वि­रु­द्ध­वि­शे­षा­सि­द्धेर्न विरो­धोऽ­स्ती­त्यर्थः ।

किं भौतिकत्वं कर­णा­ना­मु­ता­भौ­ति­क­त्वम् । आद्यं प्रत्याह -
यदीति ।

द्वितीयं दूषयति -
भवतीति ।
न चापोमय इतिवन्मयटो न विकारार्थता करणानां विभ­क्त­त्वा­त्का­र्यत्वे कार­णा­पे­क्षा­या­म­न्न­म­य­मि­त्या­दि­श्रु­ते­र­पे­क्षि­तो­क्त्य­र्थ­म­सति बाधके मयटो विकारार्थताया युक्तत्वादिति भावः ।

भौतिकत्वे करणानां भूतानन्तरं तदुत्पत्तेर्न पृथ­क्त­द्व्य­प­देशः स्यादि­त्या­श­ङ्क्याह -
व्यपदेशोऽपीति ।

क्वचि­दि­त्या­थ­र्वणं वाक्यमुक्तम् । प्रौढवादेन तेषा­म­भौ­ति­क­त्व­मु­पे­त्यापि ब्रवीति -
अथ त्विति ।
अभौतिकत्वेऽपि पूर्वोत्तरत्वेन विशे­ष­ण­वि­शे­ष्यत्वे माना­भा­वा­द्भू­तो­त्प­त्ति­क्रमो न करणक्रमेण विरुध्यत इत्यर्थः ।

ननु यथा ‘समिधो यजति’ इत्यादौ पाठक्रम एवानुष्ठानक्रमे मानं तथै­त­स्मा­दि­त्या­दि­पा­ठ­क्र­मे­णै­वादौ कर­णा­न्यु­त्प­द्यन्ते पश्चा­द्भू­ता­नी­त्यत्र मानं, नेत्याह -
आथर्वणेति ।
तत्र तेषां क्रम­मा­त्र­मा­म्ना­यो­त्प­त्ति­रु­क्तेति योजना । श्रुत्य­र्था­वि­रु­द्धोहि पाठोऽनुष्ठाने मानम् , इह तु ‘आत्मन आकाशः’ इत्या­दि­श्रु­त्य­र्थ­वि­रो­धा­द­ग्नि­हो­त्र­हो­म­य­वा­गू­पा­क­व­त्पा­ठ­क्र­म­भ­ङ्गेन भूतानन्तरं कर­णो­त्प­त्ति­रि­त्यर्थः ।

करणानां भूतानां चैककार्यत्वे क्रमा­का­ङ्क्षायां पूर्व­वि­शि­ष्ट­स्यै­वो­त्त­र­ज­न­क­त्वा­त्क­र­ण­प्रा­थ­म्य­मि­त्या­शङ्क्य भिन्न­प­रि­क­र­त्वा­न्मै­व­मि­त्याह -
तथेति ।
प्रजापतिः सर्व­भू­त­सू­क्ष्मा­त्मकः सूत्रात्मा । स्थूलं कार्यमिदमुच्यते । तदु­त्प­त्ति­प्रा­क्का­लोऽ­ग्र­श­ब्दार्थः । अत्र प्रजा­प­ति­सृ­ष्टि­व­च­ना­द्भू­त­सृ­ष्टि­प्रा­थम्यं, ततश्च मन­आ­दि­सृ­ष्टि­रु­क्तेति करणसर्गस्य पाश्चा­त्य­त्व­मिति विवेकः ।

भूत­क­र­णो­त्प­त्त्यो­रेवं सिद्धे क्रमे क्रम­व­द्भू­तो­त्प­त्ति­ल­या­धारे ब्रह्मणि समन्वयस्य कर­णो­त्प­त्ति­श्रुत्या विरोधो नेत्युपसंहरति -
तस्मादिति ॥ १५ ॥

पूर्वाधिकरणेषु तत्प­दा­र्थ­का­र­ण­त्व­सिद्ध्यै भूतो­त्प­त्ति­श्रु­ति­वि­रोधो निरस्तः । संप्र­त्या­पा­द­स­मा­प्ते­स्त्व­म्प­दा­र्थ­शुद्ध्यै जीव­वि­ष­य­श्रु­ति­वि­रोधो निरस्यते । तत्र कर­णो­त्प­त्ति­श्चेन्न भूतो­त्प­त्ति­क्र­म­म­न्य­थ­यति तर्हि जीवो­त्प­त्ति­स्त­द­न्य­थ­ये­दि­त्या­शङ्क्य सैव नास्तीत्याह -
चराचरेति ।
इह जीव­ज­नि­मृ­ति­नि­मि­त्त­वै­श्वा­न­री­ये­ष्ट्या­दि­शा­स्त्राणां तन्नि­त्य­त्व­शा­स्त्राणां चाविरोधद्वारा नित्य­सि­द्ध­प्र­त्य­ग्ब्र­ह्मणि सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे शास्त्र­द्व­य­वि­रो­धा­त्ता­दृ­ग्ब्र­ह्म­स­म­न्व­या­सिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः ।

जीवो विषयः, तस्य किं देहो­त्पा­द­ना­श­यो­र­नौ­पा­धि­क­मु­त्प­त्त्यादि न वेति श्रुति­वि­प्र­ति­पत्तेः सन्देहे पूर्वपक्षमाह -
स्त इति ।

देहगामित्वादयं व्यपदेशो न जीवजन्मादि साध­ये­दि­त्या­शङ्क्य चेतनोद्देशेन जात­क­र्मा­दि­वि­धा­ना­द­य­मपि व्यपदेशो न देह­मा­त्र­गा­मी­त्याह -
जातेति ।

न चोपा­ध्य­प­रा­म­र्शा­दौ­पा­धिकौ तस्य जन्मनाशौ, नापि देहस्य संस्कारविधिः, पुरुषविषयत्वेन प्रसिद्धत्वात् , अतो जीव­स्या­नौ­पा­धि­को­त्प­त्ति­ना­श­सि­द्धे­र­जा­मृ­त­प्र­त्य­ग्ब्र­ह्म­स­म­न्व­या­सि­द्धि­रि­त्याह -
इति स्यादिति ।

उत्सूत्रं सिद्धान्तमाह -
तामिति ।

उपपत्तिमेव दर्शयति -
शरीरेति ।
उद्दे­श्यो­पा­दे­य­यो­र्मिथो विरोधे सत्यु­पा­दे­य­ज­न्मा­न्त­र­फ­ल­सा­ध­न­वि­धि­वि­रो­धि­नो­रु­द्दे­श्य­च्चे­त­न­ज­न्म­म­र­ण­यो­र्दे­हो­पा­धि­त्वे­नो­प­च­रि­त­त्वा­ज्ज­न्मा­न्त­र­सा­ध­न­क­र्म­स­म्ब­न्ध­योग्यो जन्ममृतिरहितः सन्नात्मा सिध्यतीत्यर्थः ।

आत्मनो जन्माद्यभाव एव शास्त्री­य­स्व­र्गा­दि­स­म्ब­न्ध­सि­द्धि­स्त­द­न्य­था­नु­प­पत्त्या नित्यत्वं तस्येत्युक्तम् । इदानीं श्रुतिसिद्धं चैतदित्याह -
श्रूयते चेति ।
जीवेनापेतं त्यक्तम् । वाव किले­त्य­व­धा­र­णार्थौ निपातौ । जीवो न म्रियत एवेत्यर्थः ।

पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
नन्विति ।

तदुत्तरत्वेन सूत्रं पातयितुं योजनिकामाह -
सत्यमिति ।

भाक्तो व्यपदेशो मुख्यापेक्षीति मत्वा पृच्छति -
किमिति ।

तत्र सूत्रमवतार्य व्याकरोति -
उच्यत इति ।

तयो­स्त­द्वि­ष­य­त्वेन मुख्यत्वे हेतुमाह -
स्थावरेति ।

उपचारे कारणमाह -
तदिति ।

देहगामित्वेन जन्मादिशब्दस्य मुख्यत्वे सौत्रं हेतुमादाय व्याचष्टे -
तदिति ।

देहयोगमनपेक्ष्य साक्षादेव जीवगतौ जन्मनाशशब्दौ किं न स्यातां, तत्राह -
नहीति ।

न केव­ल­म­न्व­य­व्य­ति­रे­का­भ्या­म­य­म­र्थोऽ­व­ग­म्यते किन्तु श्रूत्यापीत्याह -
स वा इति ।

कथं नित्यस्य जायमानत्वं, तत्राह -
शरीरमिति ।

कथं म्रियमाणत्वं, तत्राह -
उत्क्रामन्निति ।

श्रुते­स्ता­त्प­र्य­माह -
शरीरेति ।

यत्तु जात­क­र्मा­दि­वि­धा­ना­ज्जी­व­स्या­नौ­पा­धिकौ जन्मनाशाविति तत्राह -
जातेति ।

पूर्वो­त्त­रा­धि­क­र­ण­यो­रे­का­र्थ­तया पौन­रु­क्त्य­मा­श­ङ्क्या­र्थ­भे­द­माह -
जीवस्येति ।
तदेवमात्मनो देहो­त्प­त्त्या­दा­व­नौ­पा­धि­को­त्प­त्त्या­द्य­भा­वा­ज्जा­ते­ष्ट्या­दि­शा­स्त्रा­णा­मौ­पा­धि­क­त­द्वि­ष­य­त्वा­दा­त्म­नि­त्य­त्व­शा­स्त्राणां मुख्या­र्थ­त्वा­द­ना­द्य­न­न्त­प्र­त्य­ग्ब्र­ह्म­स­म­न्व­य­सि­द्धि­रिति भावः ॥ १६ ॥

देहो­त्प­त्ति­ना­श­यो­रा­त्मो­त्प­त्ति­नाशौ निरस्य कल्पा­द्य­न्त­यो­र्ज­न्म­नाशौ तस्य निरस्यति -
नात्मेति ।

अधिकरणविषयमाह -
अस्तीति ।

‘असम्भवस्तु’ इत्यत्र ब्रह्म­ज­न्म­नि­षे­धा­त्त­द­भि­न्न­जी­व­ज­न्मा­शङ्का निर­व­का­शे­त्या­श­ङ्क्याह -
जीवेति ।

शरीरादेरेव सप्राणस्य जीवत्वमिति प्राकृताः, तान्प्रत्याह -
शरीरेति ।

‘कर्मा­ध्यक्षः', ‘साक्षी’ इत्या­दि­श्रु­ते­री­श्व­र­त्वा­दस्य कुतो जीवत्वं, तत्रोक्तम् -
कर्मेति ।

विषयं विविच्य सहेतुं संशयमाह -
स इति ।

श्रुति­वि­प्र­ति­पत्तिं विशदयति -
कासुचिदिति ।

‘यथा सुदी­प्ता­त्पा­व­कात्’ इत्याद्या जीवो­त्प­त्ति­वा­दिन्यः श्रुतयः ।
कासुचिदिति ।
‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’ इत्या­द्या­स्वि­त्यर्थः ।

प्रवेशवाक्येऽपि जन्म­धी­र­स्ती­त्या­श­ङ्क्याह -
नचेति ।

श्रुति­वि­प्र­ति­पत्त्या संशयमुक्त्वा पूर्वपक्षयति -
तत्रेति ।
अत्र चोक्त­श्रु­ति­वि­प्र­ति­प­त्ति­नि­रा­सेन सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे श्रुतीनां विप्र­ति­प­त्ते­र­ने­क­वा­क्य­त्वेन विरो­धा­द­प्रा­माण्ये समन्वयासिद्धिः । सिद्धान्ते श्रूती­ना­म­वि­प्र­ति­प­त्ते­रे­क­वा­क्य­त्वा­द­वि­रोधे नित्ये प्रत्य­ग्ब्र­ह्मणि समन्वयसिद्धिः ।

जन्म­प्र­यो­ज­क­जा­ड्य­वि­शे­ष­त्व­वि­र­हा­न्नो­त्प­त्ति­रि­त्याह -
कुत इति ।

आत्मनस्तद्विरहे विवदमानो विय­दु­त्प­त्ति­न्या­येन प्रत्याह -
प्रतिज्ञेति ।

तदनुपरोधं साधयति -
एकस्मिन्निति ।

अकार्यत्वेऽपि प्रति­ज्ञा­सि­द्धि­श्चेत्किं तत्का­र्य­त्वे­ने­त्या­शङ्क्य तस्य पर­स्मा­द्भि­न्न­त्व­म­भि­न्नत्वं वेति विकल्प्याद्यं दूषयति -
तत्त्वान्तरत्वे त्विति ।

द्वितीयं निरस्यति -
नचेति ।

लक्षणभेदं साधयति -
अपहतेति ।

नित्य­त्व­श्रु­ति­वि­रो­ध­मा­श­ङ्क्या­नु­मा­ना­नु­गृ­ही­ता­नि­त्य­त्व­श्रु­ति­वि­रो­धा­त्ता­सा­मु­प­च­रि­ता­र्थ­तेति मत्वाह -
विभागाच्चेति ।

तत्त्व­म­स्या­दि­वा­क्या­पे­क्षि­ता­र्था­वे­द­क­त्वा­न्नि­त्य­त्व­श्रु­तीनां नोप­च­रि­ता­र्थ­ते­त्या­शङ्क्य नित्या­नि­त्य­यो­रपि कार्य­का­र­ण­यो­र्मृ­द्ध­ट­व­त्ता­दा­त्म्य­स­म्भ­वा­द­वि­रुद्धं महा­वा­क्य­मि­त्य­भि­प्रे­त्या­नि­त्य­त्व­श्रु­त्य­नु­ग्रा­ह­का­नु­मा­ना­ङ्ग­व्या­प्ति­माह -
यावानिति ।

आका­शा­दे­र्वि­भ­क्त­त्वेऽपि विका­र­त्वा­सि­द्धे­र­सिद्धा व्याप्ति­रि­त्या­श­ङ्क्याह -
तस्येति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवेति ।

प्रति­दे­ह­मा­त्म­वि­भागे कर्म­त­त्फ­ल­व्य­व­स्था­नु­प­पत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चोक्त्वा­नु­मा­न­माह -
तस्येति ।

यद­नु­ग्रा­ह­क­म­नु­मा­न­मुक्तं तां श्रुतिमाह -
अपिचेति ।

जीवस्य मुख्यो­त्प­त्ति­रत्र नेष्टे­त्या­शङ्क्य प्राणादीनां तथो­त्प­त्ति­दृष्टेः सम­भि­व्या­हा­रा­ज्जी­व­स्यापि तादृश्येव सेति मत्वाह -
प्राणादेरिति ।

किञ्चौपाधिकं जन्म चेदुपाधेरेव तद्वाच्यं नोभ­यो­रि­त्या­श­ये­नाह -
सर्व एव इति ।

जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -
यथेति ।

भावा­ना­मे­वो­त्प­त्ति­ल­या­व­त्रोक्तौ न जीवा­ना­मि­त्या­श­ङ्क्याह -
सरूपेति ।
भावशब्दो जीववाचीति शेषः ।

अन्यत्रापि सत्त्वेन सारू­प्य­मा­श­ङ्क्याह -
जीवेति ।

भूतो­त्प­त्त्य­धि­कारे जीवो­त्प­त्ते­र­श्र­व­णान्न तदु­त्प­त्ति­रि­त्या­श­ङ्क्याह -
न चेति ।

तत्र तार्तीयन्यायेन हेतुमाह -
श्रुत्यन्तरेति ।

जीवोत्पत्तौ परस्यैव कथं प्रवे­श­श्र­व­ण­मि­त्या­श­ङ्क्याह -
प्रवेशेति ।
यथा मृदादि स्वविकारे घटादौ चूर्णा­दि­वि­का­रा­न्त­रेण प्रविशति तथा ब्रह्म शरीरं सृष्ट्वा जीवाख्यविकारेण प्रवि­ष्ट­मि­त्यर्थः ।

ब्रह्मणो विकारोत्पत्तौ दृष्टान्तमाह -
तदिति ।

अनु­मा­ना­नु­गृ­ही­त­श्रु­ति­फ­ल­माह -
तस्मादिति ।

जीव­नि­त्य­त्वा­नि­त्य­त्व­श्रु­तीनां मुख्यत्वे मिथो विरोधादसिद्धिः समन्वयस्येति पूर्वपक्षमनूद्य सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञां योजयति -
एवमिति ।

अनु­मा­नो­पे­त­श्रुत्या जीवो­त्प­त्ते­रु­क्ते­र­युक्ता प्रतिज्ञेत्याह -
कस्मादिति ।

सौत्रं हेतुमुक्त्वा व्याकरोति -
अश्रुतेरिति ।

गुणो­प­सं­हा­र­न्या­ये­नोक्तं स्मारयति -
नन्विति ।

न्याया­धी­ना­मु­क्ति­म­ङ्गी­कृत्य जीवो­त्प­त्ति­श्रु­ते­स्त­द­नु­त्प­त्ति­श्रुत्या वारणान्नात्र न्यायोऽ­स्ती­त्याह -
सत्यमिति ।

जीवजन्मायोगे प्रश्नपूर्वकं सौत्रं हेतुमाह -
कस्मादिति ।

हेतुद्वयं विवृणोति -
नित्यत्वं हीति ।

नित्य­त्वा­ज­त्वा­दि­भा­नेऽपि जन्माभावो न भाती­त्या­श­ङ्क्याह -
न चेति ।

या नित्य­त्वा­दि­वा­दिन्यो जीवोत्पत्तिं न मृष्यन्ति ताः श्रुती­रा­का­ङ्क्षा­द्वा­रो­दा­ह­रति -
ताः का इति ।

उत्प­त्ति­श्रु­ते­र­नु­मा­ना­नु­ग्र­हा­द­नु­त्प­त्ति­श्रु­त्य­पे­क्षया प्राबल्यमुक्तं स्मारयति -
नन्विति ।

स्वाभाविकं वा विभ­क्त­त्व­मौ­पा­धिकं वेति विकल्पयति -
अत्रेति ।

नाद्योऽ­सि­द्धे­रि­त्याह -
नेति ।

औपाधिकं विभ­क्त­त्व­मौ­पा­धिकं स्वाभाविकं वा विकारमात्मनो गमयेत् । आद्ये सिद्धसाधनत्वं मत्वोक्तम् -
बुद्ध्यादीति ।

द्वितीये कालातीतत्वं विव­क्ष­न्नौ­पा­धिकं विभा­ग­भा­न­मि­त्यत्र मानमाह -
तथा चेति ।

ब्रह्मविकारत्वं जीवस्य निरस्यता बुद्धिविकारत्वं तन्मयत्वोक्त्या स्वीकृ­त­मि­त्या­श­ङ्क्याह -
तन्मयत्वमिति ।
जाल्मो जडात्मा प्राकृतः पुरुषः । स यथा स्रीपरतन्त्रः स्त्रीमयो व्यपदिश्यते तथा जीव­स्या­प्र­प­ञ्च­पू­र्ण­त्वा­प्र­ति­पत्त्या बुद्ध्या­द्यु­प­र­क्त­प­रि­च्छि­न्न­रू­पत्वं बुद्ध्यधीनमिति तन्म­य­त्वो­क्ति­रि­त्यर्थः ।

अनु­ग्रा­ह­क­म­नु­मा­न­म­पो­द्या­नु­ग्रा­ह्य­श्रु­ते­र्ग­ति­माह -
यदपीति ।

अत एवेत्यस्य व्याख्यानम् -
उपाधीति ।

नयनमभिनयति -
उपाधीति ।

तत्र मैत्रे­यी­ब्रा­ह्मणं संवादयति -
तथाचेति ।

‘प्रज्ञानघन एव’ इत्युक्त्वा ‘न प्रेत्य संज्ञास्ति’ इति वदतो विरोधः स्यादि­त्या­श­ङ्क्याह -
तथेति ।
पूर्वा­प­र­वि­रो­ध­स­मा­धि­द्वा­रेति यावत् ।

न प्रेत्ये­त्यु­क्त­स्या­य­मिति परामर्शः । एतदपि प्रश्नपूर्वकं प्रतिपादयतीति सम्बन्धः । प्रश्न­म­नु­क्रा­मति -
अत्रेति ।
मोहान्तं मोह­म­ध्य­मा­पी­प­द­दा­पा­दि­त­वा­नि­म­मि­त्य­र्थ­नि­र्देशः ।

प्रति­पा­द­न­प्र­कारं प्रकटयति -
न वेति ।
मोहं मोहकरं वाक्यम् ।

अविनाशित्वे परिणामित्वाभावं हेतुमाह -
अनुच्छित्तीति ।

कथं तर्हि न प्रेत्येत्यादि, तत्राह -
मात्रेति ।

यत्तु प्रतिज्ञया ब्रह्मकार्यता जीवस्येति, तत्राह -
प्रतिज्ञेति ।

यत्तु लक्ष­ण­भे­दा­न्नै­क्य­मिति, तत्राह -
लक्षणेति ।

बिम्ब­प्र­ति­बि­म्बा­दि­व­दौ­पा­धिको भेदो न स्वाभाविक इत्यत्र हेतुमाह -
अत इति ।

प्रधानवाक्येन फल­व­ताऽऽ­क्षि­प्त­नि­त्य­त्व­बो­ध­का­वा­न्त­र­वा­क्य­नु­रो­धेन प्रधा­न­वा­क्य­वि­रु­द्ध­का­र्य­त्व­वा­दि­वा­क्यानां दुर्ब­ल­त्वे­नो­प­च­रि­ता­र्थ­त्वा­न्मिथो विरो­धा­भा­वा­न्नि­त्य­प्र­त्य­ग्ब्र­ह्म­स­म­न्व­य­सि­द्धि­रि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ १७ ॥

आत्मनो नित्य­त्व­मुक्त्वा तद­नु­त्प­त्ति­हेतोः स्वप्रकाशत्वमाह -
ज्ञ इति ।
अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्स्वप्रकाशता । न चैवं गता­र्थ­त्व­म­नु­त्प­न्न­स्यापि जीव­स्या­नि­त्य­ज्ञा­न­त्व­श्रुत्या ब्रह्मा­न्य­त्व­श­ङ्कायां ब्रह्मै­क्य­यो­ग्य­त्वा­यात्र जीवस्य स्वप्र­का­श­तो­क्ते­रिति भावः ।

विष­य­सं­श­य­त­त्का­र­णानि दर्शयति -
स इति ।

विमृश्य पूर्वपक्षं गृह्णाति -
किमिति ।
अत्र च ‘आत्मैवास्य ज्योतिः’ इत्या­दि­श्रु­तीनां ‘पश्यंश्चक्षुः’ इत्या­दि­श्रु­ति­भि­र्जी­वा­नि­त्य­धी­त्व­वा­दि­नी­भि­र्वि­रो­ध­स­मा­धा­न­द्वारा चिद्रू­प­प्र­त्य­ग्ब्र­ह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे यथोक्तश्रुतीनां मिथो विरो­धा­द­नै­क­म­त्या­द­प्रा­मा­ण्या­दुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासा­म­वि­रो­धा­दे­क­वा­क्य­तया प्रामा­ण्या­त्तत्र तत्सिद्धिः ।

आत्मनश्चेत् चैतन्यमागन्तुकं किं तर्हि तस्य कारणमागन्तुकस्य तद­पे­क्ष­त्वा­त्त­त्राह -
आत्मेति ।
आत्मा कादा­चि­त्क­ज्ञानः, तद­र्थ­मा­दी­य­मा­न­सा­ध­न­त्वात् , ईश्वरवदिति व्यति­रे­की­त्यर्थः ।

सम­वा­य्य­स­म­वा­यि­वि­षयं विशेषणं निमित्तं त्वदृष्टादि । आत्ममनः संयो­गा­द­स­म­वा­यि­न­श्चै­त­न्य­मा­त्म­गुणो भवतीत्यत्र पिठ­र­पा­क­प्र­क्रि­यया दृष्टान्तमाह -
अग्नीति ।

किं चात्मा ज्ञाना­न्त­र­प्र­काश्यः, वस्तुत्वात् , घटवदिति मत्वाह -
इति प्राप्तमिति ।

आत्मा न नित्यचैतन्यः, तद्व्य­भि­चा­रि­त्वात् , घटवदित्याह -
नित्येति ।

इष्टापत्तिं निराचष्टे -
ते पृष्टा इति ।

तदा तेषामसत्त्वादेव चैत­न्य­व्य­भि­चा­रि­त्व­मि­त्या­श­ङ्क्याह -
स्वस्थाश्चेति ।

तथापि कथं चैत­न्य­स्या­ग­न्तु­कत्वं, तत्राह -
चेतयमाना इति ।

आत्मा न ज्ञानस्वभावः, स्वसं­स­र्गि­स­र्व­न­व­भा­स­क­त्वात् , आदित्यवदिति व्यति­रे­के­णो­प­सं­ह­रति -
अत इति ।
भाष्ये हेतु­सा­ध्य­नि­रुक्त्या साध्या­वि­शि­ष्टत्वं निरसनीयम् ।

आत्मनः स्वप्र­का­श­त्व­श्रु­ती­ना­म­नि­त्य­धी­त्व­श्रु­तीनां च विरोधे सम­न्व­या­सि­द्धि­रिति पक्षमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्रं योजयति -
ज्ञ इति ।

अत एवेत्युक्तं व्यनक्ति -
यस्मादिति ।

उत्पत्त्यभावे हेतुमाह -
परमिति ।

तस्य कुतो जीवत्वं, तत्राह -
उपाधीति ।
येन ब्रह्मा­भि­न्न­त्वे­नो­त्प­त्ति­रा­त्मनो निरस्ता तेनैव तस्य नित्य­चै­त­न्य­ताऽपि सुप्रतिपदा । विमतं चैतन्यस्वभावं, ब्रह्मा­भि­न्न­त्वात् , तद्वदित्यर्थः ।

दृष्टान्तस्य साध्य­वै­क­ल्य­मु­द्ध­रति -
परस्येति ।

हेत्वसिद्धिं प्रत्याह -
तदेवेति ।
चेच्छब्दो निश्चयार्थः । प्रकृ­ति­वि­का­र­त्व­ही­न­द्र­व्या­र्थ­प­द­सा­मा­ना­धि­क­र­ण्यम् , एकद्रव्यनिष्ठम् , उक्त­सा­मा­ना­धि­क­र­ण्य­त्वात् , सोऽय­मि­ति­व­दि­त्य­नु­मा­ना­त्प्र­वे­श­श्रु­तेश्च ब्रह्मैव जीवो निश्चित इति हेतु­सि­द्धि­रि­त्यर्थः ।

ब्रह्मा­भि­न्न­त्व­फलं निगमयति -
तस्मादिति ।

न केवलं नित्य­चै­त­न्य­ब्र­ह्म­त्वा­ज्जी­वस्य नित्यचैतन्यत्वं किन्तु स्वप्र­का­श­त्व­श्र­व­णा­द­पी­त्याह -
विज्ञानेति ।

‘योऽयं विज्ञानमयः प्राणेषु’ इत्यारभ्य तत्प्रकरणस्थाः श्रुती­रा­त्म­स्व­प्र­का­श­त्व­सा­ध­ना­यो­प­न्य­स्य­न्नु­क्ता­नु­मा­नानां काला­त्य­या­प­दि­ष्ट­त्व­माह -
असुप्त इति ।
स्वयमसुप्तो भासमान एवात्मा सुप्ता­न्वा­गा­दी­नु­प­र­त­व्या­पा­रा­न­भि­प­श्य­तीति यावत् । अत्रेति स्वप्नोक्तिः । नच तत्र मनसो भावा­त्त­न्नि­मि­त्त­मा­त्मनो ज्योतिष्ट्वं तदा तस्य कर्म­त्वा­द­क­र­ण­त्वा­दिति भावः ।

व्यभि­चा­रि­क­र­ण­ज­न्य­बु­द्धी­ना­म­व्य­भि­चा­रि­चै­तन्यं विना निय­ता­नु­स­न्धा­ना­सि­द्धे­रा­त्मनो नित्य­चै­त­न्य­त्व­मि­त्याह -
अथेति ।
आत्मा नित्य­चै­त­न्य­स्व­भावः, स्वसत्तायां तद्व्य­ति­रे­क­शू­न्य­त्वात् , ईश्व­र­सं­वे­द­न­व­दिति भावः ।

प्रति­कू­ल­त­र्क­प­रा­हतिं शङ्कते -
नित्येति ।

आत्मनो नित्य­चै­त­न्य­त्वेऽपि स्वतोऽसङ्गतया विष­या­सं­स­र्गा­त्त­द्वि­शे­ष­यो­ग­द्वारा तत्प­रि­च्छे­दा­र्थ­म­न्तः­क­र­णा­द्य­पे­क्ष­णान्न तद्वै­य­र्थ्य­मि­त्याह -
नेति ।
न चासं­स­र्गि­त्वा­देव विष­य­वि­शे­षा­सं­सर्गे कुतस्तद्भानं मिथोऽयोगेऽपि द्वयो­रे­का­न्तः­क­र­ण­सं­स­र्गा­द्यु­क्त­त्वेन भान­स­म्भ­वा­न्मु­ख­र­क्ति­म­गु­ण­यो­र्मि­थोऽ­यो­गेऽपि स्फटि­को­प­रा­गा­धी­न­स­म्ब­न्ध­व­दिति भावः ।

गन्धा­दि­वि­ष­य­वि­शे­षस्य परि­च्छे­द­स्त­द­व­च्छि­न्न­श्चि­त्प्र­का­श­स्त­द्व्य­ञ्ज­क­ज­ड­प्र­का­शा­न्तः­क­र­ण­प­रि­णा­मो­द­या­र्थ­त्वा­द्घ्रा­णा­दीनां नान­र्थ­क्य­मि­त्यत्र श्रौतं लिङ्गमाह -
तथाहीति ।

स्वसत्तायां तद­व्य­भि­चा­रि­त्वा­दिति हेतोरसिद्धिं परिहर्तुं परोक्तं तद्व्य­भि­चा­रि­त्व­हे­तु­म­नु­व­दति -
यत्त्विति ।

स्वकी­य­हे­तो­र­सि­द्धि­मु­द्ध­र­न्प­र­की­य­हे­तो­रा­ग­म­वि­रो­ध­माह -
तस्येति ।

पश्य­न्नि­त्ये­त­दु­प­पा­द­यति -
नहीति ।

न पश्यतीत्युक्तं व्यनक्ति -
न त्विति ।

पश्यन्न पश्यतीति विरोधमाशङ्क्याह -
एतदिति ।

विष­या­भा­वा­द­चे­त­य­मा­नत्वं दृष्टान्तेन स्पष्टयति -
यथेति ।

वस्तु­त्वा­दि­हे­तो­र­नि­त्य­चै­त­न्य­त्व­सि­द्धा­वा­त्म­न­श्चि­द्रू­पता कुतः स्यादि­त्या­श­ङ्क्याह -
वैशेषिकादीति ।

आत्म­चै­त­न्य­स्या­ग­न्तु­कत्वे मानाभावात्तस्य नित्यचैतन्यत्वे पश्य­न्नि­त्या­दि­श्रु­तीनां स्वप्र­का­श­त्व­श्रु­त्य­नु­सा­रेण नय­ना­द­न्यो­न्य­म­वि­रो­धा­न्नि­त्य­चै­तन्ये प्रत्य­ग्ब्र­ह्मणि सम­न्व­य­सि­द्धि­रि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ १८ ॥

ब्रह्मै­क्य­यो­ग्य­त्वा­या­त्मनः स्वप्र­का­श­त्व­मु­क्तम् । इदानीं तस्य स्वाभा­वि­का­णु­त्व­नि­रा­सेन वस्तुतो महत्त्वं चैत­न्या­दी­ष­द्ब­हिष्ठं साधयति -
उत्क्रान्तीति ।

अधिकरणस्य विषयसंशयौ दर्शयति -
इदानीमिति ।
किमणुपरिमाणो जीव आहो महापरिमाण इत्येवं विप्रतिपत्तेः सन्दिह्यते ।

मध्यमपरिमाणत्वं निरस्तमेवात्र तथाणुत्वं निरस्तप्रायमिति वक्तु­म­ती­ता­धि­क­र­णा­र­म्भ­मा­क्षि­पति -
ननु चेति ।

तथापि जीव­स्या­न­न्त्य­नि­रू­प­णा­र्थ­म­धि­क­र­ण­मि­त्या­श­ङ्क्याह -
अतश्चेति ।
तुल्य­ल­क्ष­ण­त्वा­दि­त्यर्थः ।

तथापि विचारारम्भस्य किं जातं, तदाह -
परस्येति ।

तथापि जीवस्य तन्नोक्तं, तत्राह -
तत्रेति ।
पराभिन्नतया तद्वदानन्त्ये सतीति यावत् ।

आरम्भं समाधत्ते -
उच्यत इति ।

यदुक्तं जीवस्य नित्यत्वादि, तदङ्गीकरोति -
सत्यमिति ।

तर्हि परममहत्त्वमपि तस्य सिद्धमेव, किमनया चिन्त­ये­त्या­श­ङ्क्याह -
उत्क्रान्तीति ।

न केवलं श्रुता­र्था­प­त्ति­सि­द्ध­मा­त्म­नोऽ­णुत्वं किन्तु श्रौतमपीत्याह -
स्वशब्देनेति ।

आत्मा­णु­त्व­श्रु­ति­क­ला­पस्य तदा­न­न्त्य­श्रु­ति­जा­तस्य वाऽना­कु­ल­त्व­म­न्यो­न्य­म­वि­रु­द्धत्वं तत्प्र­ति­पा­द­ने­ना­प­रि­च्छिन्ने ब्रह्मणि सम­न्व­य­सा­ध­क­म­धि­क­र­ण­म­र्थ­व­दि­त्यु­प­सं­ह­रति -
तस्येति ।
एतेन पादा­दि­स­ङ्ग­ति­रुक्ता । पूर्वपक्षे चात्मा­णु­त्व­म­ह­त्त्व­श्रु­त्यो­र्वि­रु­द्ध­त्वे­ना­प्रा­मा­ण्या­दुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तयो­र­वि­रु­द्ध­त्वा­त्प्रा­मा­ण्या­त्त­त्सिद्धिः ।

अधि­क­र­णा­र­म्भ­मे­व­मुक्त्वा सूत्रं व्याकु­र्व­न्पू­र्व­प­क्ष­यति -
तत्रेति ।

उक्तं हेतुं विवृणोति -
उत्कान्तीति ।
स पुरुषो मुमू­र्षु­रा­र­ब्ध­क­र्मा­व­साने यदाऽ­स्मा­द­भि­मा­नतो गृहीतादिति यावत् । सहैवेत्यत्र तदेति वक्तव्यम् । एतच्छब्दो वागादिविषयः । तस्मा­ल्लो­का­दि­त्या­ग­म­ना­पा­दा­न­त्वेन चन्द्रलोको गृह्यते । तत्र भोक्त­व्य­क­र्म­क्ष­या­न­न्तर्यं पुनरित्युच्यते । अस्मै लोकायेति । एतं लोकं प्रतीत्यर्थः ।

कर्मशब्देन तदनुष्ठानं लक्ष्यते हेतुमनूद्य तत्फलमाह -
आसामिति ।

ननु जीव­स्यो­त्क्रा­न्ति­ग­त्या­ग­ति­भि­श्च­ल­न­मेव गम्यते न परिच्छेदः, तत्राह -
नहीति ।

सर्वगतस्य स्वाश्र­य­सं­यो­ग­वि­भा­ग­हे­तु­श्च­ल­नम् । नभोवच्चलनं न चेत्तथापि कुतोऽणुत्वं परिशेषादित्याह -
सतीति ॥ १९ ॥

नात्मनो देहा­द­प­स­र्प­ण­मु­त्क्र­मणं किन्तु स्वाम्य­नि­वृ­त्ति­मा­त्रम् । मन एव तूत्क्रम्य भोगदेशं गच्छतीत्येके । तत्राह -
स्वात्मनेति ।

सूत्रं व्याचिख्यासुः स्वाम्य­नि­वृ­त्ति­मा­त्र­मु­त्क्र­म­ण­मि­त्य­ङ्गी­क­रोति -
उत्क्रान्तिरिति ।

देहे स्वाम्यनिवृत्तौ हेतुमाह -
कर्मेति ।

तथापि गत्या­ग­ति­भ्या­म­णु­त्व­मा­त्मनः स्याद­प­रि­च्छि­न्नस्य सत­स्त­द­यो­गा­दि­त्याह -
उत्तरे त्विति ।

घटगमनागमनाम्यां नभ­स­स्त­द्भ्रा­न्ति­व­दु­पा­धे­रा­त्म­नोऽपि गत्या­ग­ति­भ्रान्तिः स्यादि­त्या­शङ्क्य दृष्टान्ते दृष्ट­त्वा­त्त­था­त्वेऽपि कथमागमिकस्य तथात्वमित्याह -
स्वात्मनेति ।

पचतीत्यादौ पाका­द्य­ना­श्र­य­स्यापि कर्तृ­त्वो­क्ति­व­दा­त्मनो गत्या­द्य­ना­श्र­य­स्यापि तत्क­र्तृ­त्व­मु­च्य­ता­मि­त्या­श­ङ्क्याह -
गमेरिति ।

श्रुति­प्रा­मा­ण्या­द्ग­त्या­ग­त्यो­र्जी­वे­नैव सम्बन्धे फलितमाह -
अमध्यमेति ।
जीवोऽणुः, अम­ध्य­म­प­रि­मा­णत्वे सति गत्या­ग­ति­म­त्त्वात् , पर­मा­णु­व­दि­त्यर्थः ।

स्वाम्य­नि­वृ­त्ति­मा­त्र­मु­त्क्रा­न्ति­रि­त्यु­पे­त्यो­क्तम् । सम्प्रति सूत्रो­क्तो­त्क्रा­न्ते­स्तर्हि पूर्वो­त्त­र­प­क्षा­नु­प­यो­गि­ते­त्या­श­ङ्क्याह -
सत्योश्चेति ।

तत्र हेतुः -
नहीति ।

इतश्च देहा­द­प­स­र्प­ण­मे­वो­त्क्रा­न्ति­रि­त्याह -
देहेति ।
अपादानात्वं विश्ले­षा­व­धि­त्वम् । अन्येभ्यो वा मुखादिभ्यस्तं जीवमुत्क्रमन्तं प्राणोऽ­नू­त्क्र­म­तीति शेषः ।

किञ्च स्वदेहमध्येऽपि गत्या­ग­ति­भा­वा­त्प­रि­च्छिन्नो जीव इत्याह -
स इति ।
जीव­श्च­क्षु­रा­दी­न्द्रि­याणि गृहीत्वा स्वापादौ हृदयं प्रविशति । शुक्रं ज्योति­ष्म­त्क­र­ण­जा­त­मा­दाय पुन­र्जा­ग­रि­त­मा­ग­च्छ­ती­त्यर्थः ।

बाह्या­दि­वा­न्त­रा­दपि गत्या­दे­रा­त्म­नोऽ­णु­त्व­मि­त्याह -
तस्मादिति ॥ २० ॥

सर्व­ग­त­त्व­श्रु­ति­वि­रो­ध­मा­शङ्क्य विष­या­न्त­रोक्त्या प्रत्याह -
नाणुरिति ।

चोद्यं विवृणोति -
अथापीति ।
उक्त­हे­तु­भि­रा­त्म­नोऽ­णुत्वे दृष्टेपीति यावत् ।

अणु­त्व­श्रु­ते­रु­क्त­त्वा­द­सिद्धो हेतु­रि­त्या­श­ङ्क्याह -
अणुत्वेति ।

परि­मा­णा­न्त­र­श्र­वणं विवृणोति -
स वा इति ।

परिहारमवतार्य व्याचष्टे -
नेति ।

महापरिमाणश्रवणं परमात्मविषयं तत्प्र­क­र­ण­स्थ­त्वा­दि­त्युक्तं साधयति -
परस्येति ।

कथमस्य पर­वि­ष­य­ते­त्या­शङ्क्य - प्राधान्येन तस्य प्रति­पा­द्य­त्वा­दु­त्स­र्ग­त­स्त­थे­त्याह -
परस्यैवेति ।

न केवलमौत्सर्गिकं परप्रकरणत्वम् , आर­भ्या­धी­ति­ब­ला­दपि तद्धीरित्याह -
विरज इति ।

परि­मा­णा­न्त­र­श्रुतेः श्रुत्या जीवगामित्वे सिद्धे प्रकरणस्य दौर्बल्यान्न परविषयतेति शङ्कते -
नन्विति ।

यथा वामदेवस्य गर्भस्थस्यैव ‘अहं मनुरभवं सूर्यश्च’ इति शास्त्रदृष्ट्या व्यपदेशो दृष्टस्तथा जीवस्य पर­मा­र्था­भे­द­दृष्ट्या मह­त्त्व­नि­र्देशः, तथा च स्वतोऽ­णु­त्व­म­वि­रु­द्ध­मि­त्याह -
शास्त्रेति ।
अणोर्जीवस्य ब्रह्मणो भिन्ना­भि­न्न­त्वे­ना­त्य­न्त­भे­दा­भा­वा­त्त­द्भे­दस्य चाध्य­क्ष­त्वा­द­भेद एव शास्त्री­य­स्त­द­पे­क्षया च जीव­म­ह­त्त्वो­क्ति­रिति भावः ।

परि­मा­णा­न्त­र­श्रु­ते­रन्य विष­य­त्वा­ज्जी­व­स्या­णुत्वं युक्त­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ २१ ॥

गत्या­दि­श्रु­त्य­नु­प­प­त्ते­र­नु­मा­नस्य च श्रुत्य­न्त­र­वि­रो­ध­नि­रा­से­ना­णु­त्व­सा­ध­क­त्व­मु­क्तम् । इदानीं तत्रैव श्रुतिमाह -
स्वशब्देति ।

चशब्दं योजयति -
इतश्चेति ।

स्वशब्दं व्याकु­र्व­न्नि­तः­श­ब्दार्थं स्फुटयति -
यत इति ।

दुर्ज्ञा­त­त्व­धिया पर­मा­त्मै­वा­णु­रि­वा­णु­रुक्त इत्याशङ्क्याह -
प्राणेति ।
वृत्तिभेदेन पञ्चधा प्राणो यस्मि­न्सं­नि­विष्टः स प्राणाधारो जीव एवाणुर्वेदितव्य उच्यते । पर­स्या­प्रा­ण­स­म्ब­न्धा­दि­त्यर्थः ।

उन्मानं विभजते -
तथेति ।
स्वश­ब्द­व­दि­त्यर्थः । उद्धृतं मानमुन्मानम् , अत्य­न्ता­प­कृ­ष्ट­प­रि­मा­ण­मि­त्यर्थः ।

तदुदाहरति -
वालेति ।
आराग्रादुद्धृतं मानं मात्रा यस्य स जीवस्तथा ॥ २२ ॥

सूत्रान्तरार्थं शङ्कते -
नन्विति ।

उपलब्धिरपि न सर्वदेहगता किन्तु प्रदे­श­ग­ते­त्या­श­ङ्क्याह -
दृश्यते चेति ।

देह­व्या­पि­का­र्या­न्य­था­नु­प­पत्त्या जीवो नाणुरिति चोद्यं सूत्रेण प्रत्याह -
अत इति ।