न्यायनिर्णयव्याख्या
२ परिच्छेदः
किञ्च ‘तत्तेजोऽसृजत’ इति श्रुतिः साक्षादेवाकाशस्योत्पत्तिं वारयेदर्थाद्वेति विकल्प्याद्यं दूषयति -
नहीति ।
न द्वितीयः, आर्थिकश्रुतेर्दुर्बलत्वादित्याह -
श्रुत्यन्तरेति ।
तेजःश्रुतिस्तेजोजन्म वियदनुत्पत्तिश्चेत्युभयं साक्षादेव बोधयति चेत्का हानिरित्याशङ्क्याह -
एकस्येति ।
एकस्य स्रष्टुरनेकव्यापारवदेकस्यापि वाक्यस्य किं न स्यादित्याशङ्क्याह -
स्रष्टा त्विति ।
वृद्धप्रयोगाधीनं शब्दसामर्थ्यावधारणम् । न चावृत्तिरहितस्य शब्दस्यानेकत्रार्थे व्यापारो दृष्टः । दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारवत्त्वमित्यर्थः ।
उक्तन्यायेन श्रुत्योरेकवाक्यत्वेनाविरुद्धार्थतया प्रामाण्यं युक्तमित्युपसंहरति -
इत्येकेति ।
एकं वाक्यमावृत्तिरहितमनेकव्यापारवन्न चेत्कथं तर्हि ‘तत्तेजोऽसृजत’ इत्यत्राकाशस्योत्पत्तिरुपसंहर्तव्येत्याशङ्क्य नास्मिन्नर्थे वाक्यस्यैकस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याह -
नचेति ।
श्रुत्यन्तरसिद्धोऽपि क्रमः श्रुत्यन्तरे सङ्गृरह्यो भवतीत्येतद्दृष्टान्तेन स्पष्टयति -
यथा चेति ।
दृष्टान्तवैषम्यं शङ्कते -
नन्विति ।
तत्र विशेषणश्रुतिं प्रमाणयति -
तज्जलानितीति ।
व्यावर्त्यं कीर्तयति -
नैतदिति ।
यत्परः शब्दः स शब्दार्थः ।
न चायं शब्दः सृष्टिपरोऽतो न प्रसिद्धं क्रमं बाधितुमलमिति फलितमाह -
तस्मादिति ।
दार्ष्टान्तिके विशेषमाह -
तत्तेज इति ।
तस्य सृष्टिपरत्वेऽपि श्रुत्यन्तरप्रसिद्धक्रमानुरोधित्वमाशङ्क्याह -
तस्मादिति ।
तत्परत्वातत्परत्ववैषम्येऽपि ‘तत्तेजोऽसृजत’ इत्यस्य न श्रुत्यन्तरसिद्धक्रमनिवारकतेत्याह -
नेत्युच्यत इति ।
किञ्च गुणभूतक्रमविरोधान्न प्रधानभूतपदार्थत्यागो युक्तः, गुणप्रधानविरोधे प्रधानानुरोधस्यैव युक्तत्वादित्याह -
नहीति ।
इतोऽपि तेजःप्राथम्यानुरोधेन वियत्पदार्थत्यागानुपपत्तिरित्याह -
अपिचेति ।
छान्दोग्ये तत्प्राथम्यं शाब्दमार्थं वा । नाद्य इत्याह -
तत्तेज इति ।
न द्वितीयः, अर्थसिद्धक्रमस्य श्रौतक्रमविरोधे बाधकत्वायोगादित्याह -
अर्थात्त्विति ।
वियत्पवनयोः श्रुतिं विना प्रथमतस्तेजःश्रुतिवशात्तस्य सृष्टौ प्राथम्यं भाति, तच्च श्रुत्यन्तरे तृतीयत्वश्रुत्या व्याहतमित्यर्थः ।
शाखाभेदेन विकल्पो वा स्यादुभयप्राथम्यस्योभयत्रोपसंहृतेः समुच्चयो वेत्याशङ्क्याह -
विकल्पेति ।
प्रथमजत्वे सिद्धवस्तुत्वाद्विकल्पासम्भवान्निरस्तः । ‘वायोरग्निः’ इति श्रुतिविरोधान्नोभयोरुभयत्र प्रथमजत्वम् । नच क्रमसृष्टाविष्टायामुभयोरुभयत्र प्राथम्यमुपसंहर्तृं शक्यं, तेन द्वाभ्यां द्वावपि निरस्तावित्यर्थः ।
तैत्तिरीयश्रुत्यनुरोधेन छान्दोग्यश्रुतिनयनान्न तयोर्विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ।
न केवलमविरोधोऽपि तु छन्दोगश्रुतेरनुकूलैव तैत्तिरीयश्रुतिरित्याह -
अपिचेति ।
उत्पत्तौ वियदुपसंहारं विनापि प्रतिपादितत्वात्प्रतिज्ञाया न छान्दोग्यश्रुत्यनुकूला तैत्तिरीयश्रुतिरित्याशङ्क्य पूर्वोक्तमनुवदति -
यच्चेति ।
अतो न प्रतिज्ञेत्यत्राकाशस्योत्पत्त्यभावेऽपीति शेषः ।
एकमेवाद्वितीयमिति श्रुतिसमाधानमनुद्रवति -
न चेति ।
अन्यथा प्रतिज्ञोपपादनं तावद् दूषयति –
अत्रेति ।
क्षीरपूर्णघटे प्रक्षिप्ता नीरबिन्दवस्तद्ग्रहणेनैव गृह्यन्ते, न पृथक्पाथोबिन्दूनां ग्रहणमवशिष्यते । तथा ब्रह्मणि सकार्ये ज्ञाते तदभिन्नदेशकालं नभो विज्ञातमेव, तदनेन दृष्टान्तेन नेदं प्रतिज्ञानं नेतुं युक्तं, दृष्टान्तानुरोधित्वाद्दार्ष्टान्तिकस्य, दृष्टान्तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकेऽपि तथात्वस्य युक्तत्वात् । तस्मादाकाशादेर्ब्रह्मविकारत्वे तत्प्रकृतिभूतब्रह्मणोऽनन्यत्वमित्यनेनैव न्यायेनेदं नेयमित्यर्थः ।
इतश्च न क्षीरोदकदृष्टान्तेनैतन्नेतव्यमित्याह -
न क्षीरेति ।
तत्र हेतुमाह -
नहीति ।
मा भूदेकविज्ञानेन सर्वविज्ञानं सम्यग्ज्ञानं, तत्राह -
न चेति ।
मायया भ्रान्तिरूपया यदलीकं मिथ्याभाषणं तेन वञ्चनमन्यथाबोधनं तेन वा विप्रलिप्सादिभिर्वा नार्थावधारणमपौरुषेयस्य वेदस्योपपद्यते । तेषां पुरुषधर्मत्वाद्वेदेऽसम्भवादित्यर्थः ।
यत्तु क्षीरनीरवद्ब्रह्मनभसोरव्यतिरेकादद्वितीयश्रुतिरिति, तत्राह -
सावधारणेति ।
यद्यद्वितीयपदमौपचारिकं तर्हि कथमवधारणम् । नहि माणवके सिंहत्वोपचारेण सिंहादन्यो माणवको नेति प्रयोगोऽस्तीत्यर्थः ।
यत्तु स्वकार्यापेक्षया सर्वमिदमुपपन्नमिति, तत्राह -
नचेति ।
तत्सम्भवाद्ब्रह्मणि विशेषणवैयर्थ्यमिति पूरयितुं हिशब्दः ।
मृदादिष्वपि स्वकार्यापेक्षया वस्त्वेकदेशविषयं सर्वविज्ञानमिच्छन्तं प्रति दोषान्तरमाह -
न तदिति ।
कथमपूर्ववदुपन्यासः, तत्राह -
श्वेतकेतो इति ।
त्वत्पक्षे वा कथमिदं प्रतिज्ञानं, तत्राह -
तस्मादिति ।
स्वकार्यापेक्षया वस्त्वेकदेशविषयत्वासम्भवादिति यावत् ॥ ६ ॥
सावधारणाद्वितीयश्रुतेरेकविज्ञानेन सर्वविज्ञानप्रतिपादनाच्च नभसोऽपि ब्रह्मकार्यत्वं पृथिव्यादिवदित्युक्तम् । इदानीमनुमानविरोधादाकाशोत्पत्तेरसम्भवात्तदुत्पत्तिश्रवणं गौणमित्युक्तमनुवदति -
यत्पुनरिति ।
अनुमानस्य मानान्तरविरोधेनामानत्वान्नाकाशोत्पत्तिश्रुतेर्गौणत्वापादनसामर्थ्यमिति सूत्रमवतारयति -
अत्रेति ।
अक्षरोक्तमर्थं कथयति -
तुशब्द इति ।
व्यावृत्तिप्रकारमभिनयति -
न खल्विति ।
तत्र विभक्तत्वहेतुकमनुमानं हेतुं कुर्वन्व्याप्तिमाह -
यत इति ।
यद्विभक्तं तत्कार्यं यथा च घटादीत्यन्वयमुक्त्वा व्यतिरेकमाह -
न त्विति ।
यन्न कार्यं तन्न विभक्तं, यथात्मेत्यर्थः ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
विभागश्चेति ।
विमतं कार्यम् , अविद्याव्यतिरिक्तत्वे सति विभक्तत्वात्सामान्यवत्त्वाद्गुणित्वाच्च घटवदित्यभिप्रेत्याह -
तस्मादिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षतुल्यत्वान्मैवमित्याह -
एतेनेति ।
आत्मा गगनादिभ्यो विभको न वा । आद्ये विभक्तोऽपि विकारो नेति व्यभिचारः । द्वितीये तदभिन्नत्वात्तद्वदेव तस्यापि कार्यतेति मत्वा चोदयति -
नन्विति ।
न तावदात्मनि व्यभिचारः, सति मातरि बाधविधुरे विभागाभावात् । नच तस्य प्रातीतिकविभागेन कार्यत्वं, सर्वकारणत्वश्रुतिविरोधात् । नच तद्वदेवाकाशस्यापि न कार्यता, तत्कार्यतायाः श्रुतत्वादित्यभिप्रेत्याह -
न । आत्मन इति ।
आत्मनोऽपि वस्तुत्वाद्धटवत्कार्यत्वानुमानान्न सर्वकारणतेत्याशङ्क्यार्थापत्तिविरोधान्नैवमित्याह -
यदि हीति ।
निरात्मकत्वं निरुपादानत्वम् ।
तत्प्राप्तिफलमाह -
तथाचेति ।
इष्टापत्तिं निराचष्टे -
आत्मत्वाच्चेति ।
निराकर्तास्ति न वा । आद्ये निराकर्तैवात्मेत्यात्मनो नित्यसत्त्वम् । द्वितीये तदभावे निराकरणासिद्धेर्नित्यत्वमित्यर्थः ।
आत्मकारणस्यैवाकाशादिकारणत्वान्न सर्वस्य निरात्मकत्वमित्याशङ्क्याह -
नहीति ।
सत्तास्फूर्त्योरन्यानपेक्षत्वादात्मनोऽनागन्तुकत्वं, तत्कथं तत्कारणमाकाशादिकारणमित्यर्थः ।
प्रमाणापेक्षया सिध्यन्नात्मा कथं निरपेक्षस्फूर्तिरित्याशङ्क्याह -
नहीति ।
तस्यापि स्वयमेव साधकत्वादित्यर्थः ।
प्रत्प्रक्षाद्व्यतिरेकेणात्मनः सिद्धत्वे तेषामानर्थक्यमित्याशङ्क्याह -
तस्य हीति ।
आत्मानः स्वयंसिद्धत्वे वस्तुत्वाविशेषादाकाशादीनामपि तथा सम्भवात्प्रमाणवैयर्थ्यतादवस्थ्यमित्याशङ्क्याह -
नहीति ।
जडत्वादनभ्युपगमाच्च न स्वतःसिद्धता तेषामित्यर्थः ।
आत्मनोऽपि स्वप्रकाशत्वं वादिनो नोपगच्छन्तीत्याशङ्क्याह -
आत्मा त्विति ।
प्रमाणादिसाक्षित्वान्न तदधीनात्मसिद्धिरित्यर्थः ।
आत्मनः स्वप्रकाशत्वेऽपि कथमनिराकरणमित्याशङ्क्याह -
नचेति ।
निराकरणमपि तदधीनात्मलाभं तद्विरुद्धं नोदेतीत्यर्थः ।
अहमस्मि ब्रह्मेति तत्त्वज्ञानान्नाहं कर्ता भोक्ता चेत्यात्मनोऽपि निराकरणं दृष्टमित्याशङ्क्याह -
आगन्तुकं हीति ।
जीवत्वमनागन्तुकमपि निराक्रियमाणमिष्टमित्याशङ्क्याह -
नेति ।
किं तर्हि स्वरूपं तदाह -
य एवेति ।
तदपि निराक्रियतामित्याशङ्क्य निराकर्त्रन्तराभावान्नैवमित्याह -
नहीति ।
आत्मनः सत्तास्फूर्त्योरन्यानपेक्षत्वमनागन्तुकत्वे कारणमुक्त्वा स्फूर्तावन्यानपेक्षत्वमुपपाद्य सत्तायामपि तदुपपादयति -
तथेति ।
सदाहमित्यपरोक्षैकरूपानुभवान्नात्मनः सत्ताव्यभिचारः, येनान्यतः सत्तामाकाङ्क्षेदित्यर्थः ।
जीवतो मातुरन्यथाभावाभावेेऽपि मृतस्य स्यादित्याशङ्क्याह -
तथेत्यादिना ।
यत्स्वभावत्वमनुभवसिद्धं तस्यान्यथात्वं बाधकादवसातव्यं, बाधकं च घटादीनां स्वभावाद्विचलनं मानोपनीतं, यस्य तु न तदस्ति तस्यात्मनोऽनुभवसिद्धस्य नान्यथात्वमिति भावः ।
आत्मनः स्वतःसिद्धत्वेनानागन्तुकत्वे फलितमाह -
एवमिति ।
विभक्तत्वहेतोरव्यभिचारेऽपि बाधकतर्काभावादप्रयोजकतेत्याशङ्क्याह -
कार्यत्वं चेति ।
अकार्यस्यात्मनः स्वरूपोपाधावबाधितभेदशून्यत्वान्न मुख्यं विभक्तत्वम् । आकाशस्य तथाविधभेदवत्त्वान्मुख्यविभागित्वेन कार्यत्वमन्यथा मुख्यविभागानुपपत्तिरिति कुतोऽप्रयोजकतेत्यर्थः ।
आकाशानुत्पत्त्यनुमानानां प्रत्यनुमानविरोधमुक्त्वा समवायिकारणशून्यत्वं विशेषतो दूषयितुमनुभाषते -
यत्त्विति ।
तत्र समानजातीयस्यारम्भकत्वमयोगव्यवच्छेदेनान्ययोगव्यवच्छेदेन वेति विकल्प्यमाद्यमङ्गीकृत्य द्वितीयं दूषयति –
तत्प्रतीति ।
नियमो हि कारणमात्रनिष्ठो वा निमित्तकारणनिष्ठो वा समवायिकारणनिष्ठो वेति विकल्प्याद्यं प्रत्याह -
न हीति ।
न द्वितीय इत्याह -
न चेति ।
तृतीयमादत्ते -
स्यादेतदिति ।
समवायिकारणस्यापरजात्या वा परजात्या वा समानजातीयत्वमिति विकल्प्याद्यं निरस्यति -
तदपीति ।
अनैकान्तिकान्तरमाह -
तथेति ।
नच रज्ज्वादेः सूत्रवालादिसमुदायमात्रत्वं, पटादेरपि तथात्वापत्ताववयविसमुदायमात्रापाकरणप्रसङ्गादिति भावः ।
द्वितीय समानजातीयविशेषणवैयर्थ्यम् , अद्रव्यस्यासतश्चानारम्भकत्वेन सर्वस्यापि समानजातीयत्वसम्भवादित्याह -
सत्त्वेति ।
समानजातीयमेवारम्भकमिति नियमं निराकृत्यानेकेषामारम्भकत्वनियमं निराकरोति -
नापीति ।
तन्नियमो हि कार्यमात्रारम्भे वा द्रव्यारम्भे वा । नाद्य इत्याह -
अणुमनसोरिति ।
ययोः संयोगस्तौ संहत्य कर्मारभेते चेत्तस्योभयसमवेतत्वादेकद्रव्यत्वव्याहतिरित्याशङ्क्य सति कर्मणि संयोगः सति च तस्मिन्कर्मेति परस्पराश्रयत्वान्नैवमित्याह -
एकैको हीति ।
द्व्यणुकारम्भकसंयोगासमवायिकारणमात्ममनःसंयोगजनकं च कर्माद्यं कर्म । द्वितीयमवलम्बते -
द्रव्येति ।
आरम्भवादानभ्युपगमेन दूषयति -
न । परिणामेति ।
तदेव प्रपञ्चयति -
भवेदिति ।
न त्वेवमभ्युपगम्यते । तस्मान्नैष नियम इति शेषः ।
तदनभ्युपगमे कथं कार्योत्पत्तिरित्याशङ्क्याह -
तदेवेति ।
परिणामपक्षेऽपि तुल्यमनेकेषां कारणत्वमित्याशङ्क्याह -
तच्चेति ।
यत्र क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादानत्वम् , अविभक्तस्यैव क्षीरस्य दध्यात्मना परिणामोपलम्भात् , यथा परमाणुवादिनां क्षीरद्व्यणुकं त्र्यणुकं वा द्रव्यान्तरासंयोगेऽपि दधि जनयति तथा परिणामपक्षेऽपीति विवक्षन्नाह -
क्वचिदिति ।
पक्षद्वयेऽपि कारणत्वमनेकेषामित्यस्मिन्नियमे न कारणमस्तीत्याह -
नेश्वरेति ।
एकस्मादनेकस्माच्च कार्योत्पत्तिदर्शनान्निर्णयासिद्धिरित्याशङ्क्याह -
अत इति ।
एकस्यापि परिणामिनः सहकार्यपेक्षादर्शनात्तद्विरहिणो ब्रह्मणो जगत्कारणत्वमयुक्तमित्याशङ्क्याह -
तथाचेति ।
कारणशून्यत्वादाकाशमात्मवदनुत्पत्तिमदित्येतन्निरस्तम् । इदानीमभूत्वाभावित्वाभावान्न तदुत्पत्तिमदित्युक्तमनुवदति -
यच्चोक्तमिति ।
हेत्वसिद्ध्या परिहरति -
तदयुक्तमिति ।
शब्दाधारत्वं विशेषः । आकाशस्य मूर्तत्वाभावान्मूर्तविरोधिनश्चार्थान्तरत्वात्तदभावेऽपि न प्रागवस्थायां काठिन्यप्रसक्तिरिति भावः ।
‘अाकाशशरीरं ब्रह्म’ इति श्रुतेराकाशाभावे कथं ब्रह्मणोऽवस्थानमित्याशङ्क्याकाशवच्छरीरमस्येति व्युत्पत्त्या श्रुत्युपपत्तिं मत्त्वाऽह -
यथा चेति ।
अवकाशान्तरमन्तरेणाकाशस्थितिवद्ब्रह्मणोऽपि तत्कारणस्य तदतिरेकेण सुषुप्त्यवस्थायामिवावस्थितिरविरुद्धेति हेत्वसिद्धिमुपसंहरति -
तस्मादिति ।
उक्तानुमानान्तराण्यनूद्य कालात्ययापदिष्टतामाह -
यदपीति ।
न्यायशून्या श्रुतिरनुमानमपबाधितुमसमर्थेत्याशङ्क्याह -
उत्पत्तीति ।
इतश्चाकाशस्य न नित्यत्वमित्याह -
अनित्यमिति ।
वस्तुतस्तु गुणाश्रयत्वमेव हेतुः । आकाशो जायते, महाभूतत्वात् , अस्मदादिबाह्येन्द्रियग्राह्यगुणाधारत्वाद्वा, पृथिव्यादिवदित्यनुमानमादिशब्दार्थः ।
आद्यस्य हेतोरन्यतरानैकान्तिकत्वं चोदयति -
आत्मनीति ।
निर्गुणत्वश्रुतिमाश्रित्य परिहरति -
न तस्येति ।
न चाकाशमनित्यविशेषगुणाधिकरणविभुभिन्नं, मेयत्वादिति तत्सिद्धिः । आकाशं श्रोत्रग्राह्यविशेषगुणाधिकरणविभ्वन्यत् , मेयत्वादित्यपि प्रसङ्गात् , आत्मनि सर्वविशेषनिराकरणविविधश्रुतिविरोधाच्चेति भावः ।
इतश्च त्वदुक्ता हेतवः साधका न भवन्तीत्याह -
विभुत्वादीनां चेति ।
आकाशस्य नित्यत्वे नानुमानमस्तीत्युपपाद्य यच्चैतदुक्तं शब्दान्नित्यत्वमिति तदनूद्य दूषयति -
यच्चेतदिति ।
किमित्यमृतत्वश्रुतिरापेक्षिकी व्याख्यायते मुक्यार्थैव किं न स्यादित्याशङ्क्याह -
उत्पत्तीति ।
आकाशस्यानित्यत्वं चेदात्मनि तत्तुल्यत्वश्रुतिर्व्याहन्येतेत्याशङ्क्याह -
आकाशवदिति ।
समत्वाभावे न क्वचिदुपमानत्वमुपलब्धमित्याशङ्क्याह -
यथेति ।
‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा’ इति श्रुतिस्तर्हि कथमित्याशङ्क्याह -
एतेनेति ।
उत्पत्तिविनाशयोरुपपादितत्वेन न्यूनेनोपमानायोगाच्चेत्यर्थः ।
कथमाकाशस्य ब्रह्मणः सकाशान्न्यूनपरिमाणत्वमित्याशङ्क्य पूर्वोक्तयुक्त्या श्रुतिं समुच्चिनोति -
ज्यायानिति ।
इतश्च ब्रह्मणि नोपमानोपपत्तिरित्याह -
न तस्येति ।
इतोऽपि नित्यत्वमाकाशस्य नाशङ्कितव्यमित्याह -
अतोऽन्यदिति ।
यदुक्तं स्याच्चैकस्य ब्रह्मशब्दवदिति, तद्दूषयति -
तपसीति ।
युक्तं तपसि ब्रह्मशब्दस्य गौणत्वं, तस्य ब्रह्मज्ञानसाधनत्वात् , आकाशे तु सम्भूतशब्दस्य ज्वलनादिवद्बाधकाभावादनुग्राहकसद्भावाच्च मुख्यत्वमेवेत्यर्थः ।
श्रुतियुक्तिसिद्धमुपसंहरति -
तस्मादिति ।
आकाशसृष्टिश्रुत्यनुसारेण तेजः सृष्टिश्रुतिनयनात्तयोरेकवाक्यतया प्रामाण्योपपत्तेराकाशकारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्यधिकरणार्थं निगमयति -
इति सिद्धमिति ॥ ७ ॥
वियदुत्पत्तिमुक्त्वा पवनोत्पत्तिमतिदेशेन साधयति -
एतेनेति ।
अत्र पूर्ववत्पादादिसङ्गतयो न पृथग्वक्तव्या भवन्तीत्यभिप्रेत्य तात्पर्यमाह -
अतिदेशोऽयमिति ।
फलभेदमपि पूर्ववदुपेत्य सूत्राक्षरार्थं कथयति -
एतेनेति ।
वियदुत्पत्तिकथनानन्तरं तेजआद्यतिक्रम्य वायोरुत्पत्तिमत्वेन व्याख्याने कारणमाह -
वियदाश्रय इति ।
‘तत्तेजोऽसृजत’ इति श्रुतिः ‘आकाशाद्वायुः’ इति श्रुत्या विरुध्यते न वेत्येकवाक्यत्वासम्भवसम्भवाभ्यां संशये सत्यतिदेशं विशदीकर्तुं तुल्यन्यायत्वमाह -
तत्रापीति ।
बहूक्त्या वियदधिकरणेऽपि पक्षत्रयमस्तीति सूचितं, तदेव पक्षत्रयं सङ्क्षिपन्प्रथमं गौणवादिपक्षमाह -
न वायुरिति ।
पूर्वपक्षं सङ्क्षिपति -
अस्ति त्विति ।
छान्दोग्ये तेजसः ‘तत्तेजोऽसृजत’ इति प्रथमजत्वश्रवणात् , तैत्तिरीयके च ‘आकाशाद्वायुः’ इति वायोस्तेजःसकाशात्पूर्वजत्वश्रुतेरुभयोस्तदनुपपत्त्या मिथो विरोधे श्रुत्योरप्रामाण्यादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयासिद्धिरित्यर्थः ।दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह – अमृतत्वदीति । गौणवादिनोऽभिप्रायं सङ्गृह्णाति -
ततश्चेति ।
आकाशवद्वायोरकारणत्वाभावात्कथमसम्भवाशङ्केत्याशङ्क्याह -
असम्भवश्चेति ।
दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह –
अमृतत्वदीति ।
‘वायुश्चान्तरिक्षं चैतदमृतम्’ इति श्रूयते । आदिशब्देन ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इत्यभ्यासो गृह्यते । प्रतिज्ञाश्रुतेरनुमानाच्च पवनोत्पत्तेरावश्यकत्वे श्रुत्योरेकवाक्यतया विरोधाभावादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धान्तमाह -
प्रतिज्ञेति ।
यत्तु वायोरस्तमयप्रतिषेधादुत्पत्तेरसम्भव इति, तत्राह -
अस्तमयेति ।
अमृतत्वादिश्रवणं तर्हि कथं, तत्राह -
कृतेति ।
प्रतिज्ञावाक्यार्थप्राधान्यात्तदुपपादकवायूत्पत्तिप्रतिपादकवाक्यानां च बहुत्वान्मुख्यभूतस्त्वाभ्यां बलीयस्त्वादमृतत्वास्तमयनिषेधावापेक्षिकत्वेन नेयौ । अभ्यासत्सूपास्यादरार्थत्वान्न वायोरमृतत्वमात्यन्तिकं गमयति । ‘अप पुनर्मृत्युं जयति’ इत्यपमृत्यजयस्यैव वाक्यशेषे श्रवणादिति भावः ।
अधिकाशङ्काभावेनातिदेशमाक्षिपति -
नन्विति ।
अधिकां शङ्कां दर्शयन्नुत्तरमाह -
उच्यत इति ।
यदुक्तमसति विशेषे नातिदेशोऽर्थवानिति, तदङ्गीकरोति -
सत्यमिति ।
तर्हि पूर्वेणैवाधिकरणेन गतत्वादिदमघिकरणमनारभ्यमिति, तत्राह -
तथापीति ।
शब्दानुरोधिन्यपि शङ्का न वस्त्वनुरोधिनीति मात्रशब्दार्थः ।
शब्दमात्रकृतामाशङ्कामेव दर्शयति -
संवर्गेति ।
‘स यो वायुं दिशां वत्सं वेद’ इत्यादिविद्यासङ्ग्रहार्थमादिपदम् । द्वितीयमादिपदममृतत्वश्रवणमभ्यासं च सङ्गृह्णाति । अमृतत्वादिश्रवणस्य कृतप्रतिविधित्वात्कथं तद्वशादाशङ्केति, तत्राह -
कस्यचिदिति ।
प्रतिज्ञानुपरोधादिना वायोर्नित्यत्वानुपपत्तेरुक्तत्वात्तत्कारणे ब्रह्मणि समन्वयः सिध्यतीत्युपसंहर्तुमितिशब्दः ॥ ८ ॥
ब्रह्मणो वियत्पवनकारणत्वं पूर्वाधिकरणयोरुक्तम् । इदानीमग्निरेव विस्फुलिङ्गोऽग्नेर्यथोत्पद्यते तथा ब्रह्मान्तराद्ब्रह्मोत्पद्यतामित्याशङ्क्याह -
असम्भवस्त्विति ।
‘न चास्य कश्चिज्जनिता’ इत्यादेर्ब्रह्मणोऽजत्वं प्रतिपादयतः समन्वयस्य ‘त्वं जातो भवसि’ इत्यादिश्रुत्या विरोधोऽस्त्युत नेत्येकवाक्यत्वासम्भवसम्भवाभ्यां सन्देहे पूर्वपक्षमाह -
वियदिति ।
दर्शितश्रुतिविरोधपरिहारद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे विरोधादप्रामाण्ये नित्यसिद्धे ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते वाक्यैक्यादविरोधात्प्रामाण्ये तत्र तत्सिद्धिः ।
सम्भावनामात्रादर्थसिद्धावतिप्रसङ्गात्प्रमाणमेव साधकं वक्तव्यमित्याशङ्क्याह -
तथेति ।
ब्रह्म कस्यचित्कार्यं, कारणत्वात् , आकाशवत् । न चाजत्वश्रुतिविरोधः, अनुमानानुगृहीतजन्मश्रुत्या तस्या विरोधात् । न चानवस्थानुगृहीताजत्वश्रुतिर्बलवती, कार्यकारणपरम्पराया बीजादिवदानादित्वादन्धपरम्परया तदनुगृहीतत्वेऽपि तत्रानुमानानुगृहीतत्वेनाविशेषादस्ति विरोधः श्रुत्योरिति भावः ।
ब्रह्म न कार्यं, कारणशून्यत्वात् , नरविषाणवदित्यनुमानानुगृहीताजत्वश्रुत्या ब्रह्मणो नित्यत्वाज्जन्मश्रुतेरौपाधिकजन्मविषयत्वेनाविरोधान्नित्यसिद्धे ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तमाह -
तामिति ।
तत्र प्रतिज्ञाभागं विभजते -
न खल्विति ।
कारणशून्यत्वं विशदीकुर्वन्प्रश्नपूर्वकं सौत्रं हेतुमादत्ते -
कस्मादिति ।
ब्रह्मणो हि कार्यत्वं ब्रुवता सन्मात्रं वा सद्विशेषो वा तस्यासद्वा कारणमिति वक्तव्यम् । नाद्य इत्याह -
सन्मात्रं हीति ।
न द्वितीय इत्याह -
नापीति ।
दृष्टविपर्ययमेव साधयति -
सामान्यादिति ।
न तृतीय इत्याह -
नापीति ।
श्रुतिविरोधाच्चायं पक्षो न सम्भवतीत्याह -
कथमिति ।
युक्त्या हेतुमुपपाद्य श्रुत्योपपादयति -
स कारणमिति ।
यदुक्तं वियत्पवनयोरसम्भाव्यमानजन्मनोरपीत्यादि, तत्राह -
वियदिति ।
विभक्तत्वमुत्पत्तावुपपत्तिः । ब्रह्मण्यपि तुल्यं विभक्तत्वमित्याशङ्क्य ब्रह्मत्वविरोधान्मैवमित्याह -
न त्विति ।
यत्तु तथेत्यादावनुमानमुक्तं तद्दूषयति -
नचेति ।
तस्य कार्यत्वं वदता मूलप्रकृतिरुपगम्यते न वेति विकल्प्य द्वितीयं प्रत्याह -
मूलेति ।
नचानादित्वान्नानवस्था, ब्रह्मणोऽपि कार्यत्वे तत्तदुपादानपरम्परायौगपद्ये प्रलयाभावप्रसङ्गादिति भावः ।
प्रथमे तुल्यबाधापत्तिरित्याशयेनाह -
या मूलेति ।
एवं कार्यत्वानुमानस्याभासत्वाज्जन्मश्रुतेश्चौपाधिकविषयत्वादकार्यत्वानुमानानुगृहीताजत्वश्रुतेर्बलीयस्त्वादितरस्यास्तदनुरोधित्वादितरेतराविरोधान्नित्याद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयः सम्भवतीत्युपसंहरति -
इत्यविरोध इति ॥ ९ ॥
अध्यस्तस्याधिष्ठानत्वायोगान्न कुतश्चिदपि ब्रह्मणो जन्मेत्युक्तम् । इदानीं वायोरपि तर्हि कार्यत्वेनाध्यस्तत्वात्तेजसस्ततो जन्मानुपपत्तेर्ब्रह्मण एव तज्जन्मेति प्रत्यवस्थाने प्रत्याह -
तेजोऽत इति ।
तैत्तिरीये छान्दोग्ये च जायमानत्वेन श्रुतं तेजो विषयः । तत्किं ब्रह्मकार्यं किं वा वायुकार्यमिति संशयस्य बीजं दर्शयन्पूर्वपक्षमाह -
छान्दोग्य इति ।
तत्रेति शाखाद्वयोक्तिः । नच ‘तत्तेजोऽसृजत’ इति श्रुतेर्निमित्तविषयत्वात् ‘वायोरग्निः’ इति श्रुतेरुपादानविषयत्वादविप्रतिपत्तिः । ‘बहु स्याम्’ इति बहुभवनाशंसनलिङ्गेनोपादानत्वावगमादिति भावः ।
अत्रापि श्रुत्योर्विरोधनिराकरणद्वारा वायुभावमापन्ने ब्रह्मणि तेजोयोनौ समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योरनेकवाक्यत्वेन विरोधादप्रामाण्ये तेजोहेतौ ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्र तत्सिद्धिः । सत्यां विप्रतिपत्तौ विशेषकारणमन्तरेणान्यतरनिश्चयासिद्धिरिति शङ्कते -
कुत इति ।
उपक्रान्तस्य सन्मात्रस्यैकमेवाद्वितीयमित्यवधारिताद्वितीयत्वनिर्धारणाय ‘तत्तेजोऽसृजत’ इति वचनादुपादानादेवोपादेयस्याव्यतिरेकादुपादानत्वमेव तेजः प्रति ब्रह्मणो विवक्षितमित्याह -
सदेवेति ।
किञ्चाद्येेऽधिकरणे सर्वविज्ञानप्रतिज्ञानुगृहीतोत्पत्तिश्रुतेर्ब्रह्मजत्वं वियतो वर्णितं, तेनैव न्यायेन तेजसोऽपि ब्रह्मजत्वमेष्टव्यमित्याह -
सर्वविज्ञानेति ।
इतश्च ब्रह्मजत्वं तेजसो युक्तमित्याह -
तज्जलानिति चेति ।
अथर्वणश्रुत्या च तेजसो ब्रह्मजत्वसिद्धिरित्याह -
एतस्मादिति ।
तथापि तैत्तिरीयश्रुत्यालोचनायां न ब्रह्मजत्वं तेजसः स्यादित्याह -
तैत्तिरीयके चेति ।
ननु ‘वायोरग्निः’ इति श्रूतेर्वायुद्वारा तेजसो ब्रह्मजत्वेऽपि दर्शितश्रुतयो न विरुध्यन्तेऽन्यथा वायोरग्निरिति श्रुतिर्बाध्येत, तत्राह -
तस्मादिति ।
यद्यपि वायोरग्निरित्यपादानपञ्चमी कारकविभक्तिर्वायोरनन्तरमित्युपपदविभक्तेर्बलीयसी तथापि बहुश्रुतिविरोधाद्दुर्बलाऽपि सैवोचितेति मत्वा क्रमोपदेशमेव विशदयति -
वायोरिति ।
यदि पुनरित्थमस्याः श्रुतेरर्थो नाश्रीयते तर्हि विरुद्धार्थैव श्रुतिरियं पूर्वोक्तश्रुतिभिरिति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -
एवं प्राप्त इति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
हेतुमेव व्यतिरेकद्वारा विवृणोति -
अव्यवहिते हीति ।
कदर्थिता पीडिता बाधितेति यावत् । तेजसो वायुयोनित्वं पञ्चमीश्रुत्या निर्धारितं, ब्रह्मयोनित्वं तु तस्य बहुभवनाशंसनलिङ्गादवगतम् , अतः श्रुत्या लिङ्गं बाधित्वा वायुयोनित्वं मुख्यमादाय लिङ्गं परम्परया ब्रह्मयोनित्वविषयं विवक्षमाणेन न्यायेन ब्रह्मवायुसमुच्चयमेवाभ्युपगमयतीति भावः ।
पञ्चमीश्रुतेरुक्तां गतिं पूर्ववादी स्मारयति -
नन्विति ।
न क्रमार्थत्वं पञ्चम्या युक्तं, पूर्वोत्तरवाक्योपादानेनापादानार्थत्वप्रतीतेरिति परिहरति -
नेतीति ।
उत्तरवाक्यमिहेत्युच्यते । इतश्चापादानार्थत्वमेव पञ्चम्या न क्रमार्थत्वमित्याह -
अपि चेति ।
प्रकरणादुपादानाख्यापादनकारकाभिधायित्वं पञ्चम्याः सिद्धं परित्यज्य पदार्थान्तरयोगो न कल्पयितुं शक्यते । क्लृप्तकल्प्ययोर्मध्ये क्लृप्तस्यैव बलीयस्त्वादित्यर्थः ।
पञ्चमीश्रुतेरक्रमार्थत्वे फलितमाह –
तस्मादिति ।
श्रुतिबलात् तेजसो वायुजत्वे तद्बलादेव ब्रह्मजत्वमपि तस्यास्थेयमतः श्रुत्योर्मिथो विरोधः स्यादिति शङ्कते –
नन्विति ।
‘वायोरग्निः’ इति साक्षात् तेजसो वायुजत्वमुच्यते, ‘तत्तेजोऽसृजत’ इति त्वाकाशवायुद्वारा तस्य ब्रह्मजत्वमिति विरोधसमाधिरिति समाधत्ते –
न, तस्या इति ।
अविरोधमेव साधयति –
यदापीति ।
साक्षात्पारम्पर्याभ्यां कारणत्वे दृष्टान्तमाह –
यथेति ।
तस्या धेनोः शृतं तप्तं क्षीरं विवक्षितम् । तदेव दधिसंसृष्टमामिक्षेति भेदः । तत्र क्षीरस्य दध्नि साक्षात्कारणत्वेऽपि गव्यं दधीति प्रयोगो दृष्टस्तथाऽत्रापीत्यर्थः ।
तर्हि ब्रह्मणो वायुभावापत्तौ किं प्रमाणमित्याशङ्क्याऽऽह –
दर्शयति चेति ।
पारम्पर्यजस्यापि तज्जत्वव्यपदेशयोग्यत्वे प्रमाणमाह –
तथा चेति ।
अन्तःकरणादिभ्यः स्वकारणेभ्यो बुद्ध्यादीनामयशोन्तानामुत्पत्तिदर्शनान्मत्त एवेत्यवधारणमयुक्तमित्याशङ्क्याऽऽह –
यद्यपीति ।
प्राणाड्या परम्परयेति यावत् । ईश्वरवंश्यत्वात् तद्वंशोद्भवत्वादिदमवधारणस्मरणमिति शेषः । सर्वस्येत्यस्मादर्वाक् तथापीति वक्तव्यम् । पारम्पर्यविषयत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरुक्तम् ।
इदानीम् ‘इदं सर्वमसृजत’ इत्यादिश्रुतेरपि पारम्पर्यविषयत्वमेषितव्यमित्याह –
एतेनेति ।
सर्वस्य साक्षाद् ब्रह्मजत्वाभावे कथं तासामुपपत्तिः, तत्राह –
तासामिति ।
सर्वथा साक्षात्परम्परया वा । सर्वस्य ब्रह्मजत्वमात्रेणाक्रमवादिनीनां श्रुतीनामुपपत्तेरितरश्रुतिवशात् पारम्पर्यमेवाश्रयणीयमित्यर्थः ।
क्रमश्रुतीनामेवाक्रमश्रुतिवशान्नयनं किं न स्यादित्याशङ्क्याऽऽह –
क्रमवदिति ।
अन्यथा पारम्पर्यमन्तरेणेति यावत् । न साक्षात्कारणविषयत्वमिति शेषः ।
अव्यवधानेन ब्रह्मजत्वाभावे कथं प्रतिज्ञेत्याशङ्क्याऽऽह –
प्रतिज्ञाऽपीति ।
अक्रमश्रुतीनां क्रमश्रुत्यनुसारित्वेन मिथो विरोधाभावात् तेजसो वियत्पवनद्वारा कारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्युपसंहरति –
इत्यविरोध इति ॥१०॥
विषयं विविच्य सहेतुं संशयमाह -
स इति ।
श्रुतिविप्रतिपत्ति विशदयति -
कासुचिदिति ।
‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।
कासुचिदिति ।
‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।
प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -
नचेति ।
श्रुतिविप्रतिपत्त्या शङ्कामुक्त्वा पूर्वपक्षयति -
तत्रेति ।
अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः ।
पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रुतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः । जन्मप्रयोजकाविशेषत्वविरहान्नोत्पत्तिरित्याह -
कुत इति ।
आत्मनस्तद्बिरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -
प्रतिज्ञेति ।
तदनुपरोधं साधयति -
एकस्मिन्निति ।
अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्कि तत्कार्यत्वेनेत्याशङ्कय तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -
तत्त्वान्तरत्वे त्विति ।
द्वितीयं निरस्यति -
नचेति ।
लक्षणमेदं साधयति -
अपहतेति ।
नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -
विभागाच्चेति ।
तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यनित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -
यावानिति ।
आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -
तस्येति ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवेति
प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चेक्त्वानुमानमाह -
तस्येति ।
यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -
अपिचेति ।
जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -
प्राणादेरिति ।
किञ्चौपाधिकं जन्म चेदुपाघेरेव तद्वाच्यं नोभयोरित्याशयेनाह -
सर्वएव इति ।
जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -
यथेति ।
भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -
सरूपेति ।
भावशब्दो जीववाचीति शेषः । अन्यत्रापि इति ॥ १० ॥
तेजसो वायुकार्यत्वमुक्त्वाऽनन्तरनिर्दिष्टानामपां तेजसो जन्मातिदेशेन निरूपयति -
आप इति ।
वाक्यं हि सूत्रं न पदमात्रं तत्कुतोऽस्य सूत्रतेत्याशङ्क्य सूत्रं पूरयति -
अत इति ।
‘एतस्माज्जायते’ इत्युपक्रम्य ‘खं वायुर्ज्योतिरापः’ इति ‘अग्नेरापः’ इति ‘तदपोऽसृजत’ इति च श्रूयते । तत्र किमापः सतो जायन्ते किंवा तेजस इति श्रुतिविप्रतिपत्तेः सन्देहे सत्यपामग्निदाह्यत्वादग्नेरुत्पत्त्ययोगात् ‘अग्नेरापः’ ‘तदपोऽसृजत’ इति च श्रुती गौण्यावन्यथाऽथर्वणश्रुतिविरोधान्न ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षे सिद्धान्तमाह -
आपोऽत इति ।
अपां कारणत्वे तेजसः श्रुतेऽपि प्रत्यक्षविरोधान्निश्चयासिद्धिरित्याशङ्क्याह -
सतीति ।
त्रिवृत्कृतयोरप्तेजसोर्विरोधेऽपि तयोरत्रिवृत्कृतयोरतीन्द्रियत्वाद्विरोधाप्रतीतेर्वचने सति निश्चयोपपत्तिरित्यर्थः ।
सन्देहाभावे विचारस्य निरवकाशत्वात्कथमिदं सूत्रमित्याशङ्क्याह -
तेजसस्त्विति ।
महाभूतसर्गव्याख्याने प्रक्रान्ते क्रमप्राप्तानामपामतिक्रमणं मा भूदित्यभिप्रेत्य प्रत्यक्षविरोधात् । ‘आप एवाग्र आसुः’ इति च पूर्वसद्भावश्रवणादाथर्वणश्रुतेश्च ‘अग्नेरापः’ इत्याद्या श्रुतिर्गौणीति मन्दाशङ्कां निरसितुमिदं सूत्रम् । पूर्ववत्क्रमश्रुत्यनुरोधेनाक्रमश्रुतेर्नेतव्यत्वात्पूर्वसद्भावश्रुतेश्च भूतसूक्ष्ममात्रविषयत्वेनाविरोधात्तेजोभावमापन्ने ब्रह्मण्यपां कारणे ‘तदपोऽसृजत’ इत्यादिश्रुतेः समन्वयसिद्धौ न गौणार्थतेति भावः । तत्र च तैत्तिरीयादिश्रुतेराथर्वणादिश्रुतेश्च मिथोविरोधनिराकरणद्वारा ब्रह्मण्येवाबादिकारणे समन्वयप्रतिपादनात्पादादिसङ्गतिस्तथैव फलभेदश्चेति द्रष्टव्यम् ॥ ११ ॥
तेजःकार्यत्वेनोक्तानामपां कार्यत्वेन ‘ता अन्नमसृजन्त’ इति श्रुतस्यान्नस्य पृथिवीत्वं साधयति -
पृथिवीति ।
अधिकरणस्य विषयमाह –
ता इति ।
अन्नशब्दान्महाभूतप्रकरणाच्च दर्शितश्रुतिं विषयीकृत्य विचारप्रयोजकं सन्देहमाह -
तत्रेति ।
अभ्यवहार्यम् । भक्षणयोग्यमिति यावत् ।
अप्कार्यविगानद्वारा कारणसमन्वये विगानं दर्शयन्पूर्वपक्षयति -
तत्र प्राप्तमिति ।
‘ता अन्नमसृजन्त’ इति श्रुतेः ‘अद्भ्वः पृथिवी’ इति श्रुतेश्च विरोधनिराकरणद्वारेण परम्परया पृथिवीकारणे ब्रह्मणि समन्वयप्रतिपादनादत्र पादादिसङ्गतिसौलभ्यमिति मन्तव्यम् ।
उक्तश्रुत्योरनेकवाक्यतया विरोधादप्रामाण्ये पूर्वपक्षे समन्वयासिद्धिः, सिद्धान्ते त्वेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्सिद्धिः । प्रकरणादिना पृथिवीप्रतीतौ कथमन्नशब्देन व्रीह्यादि ग्राह्यमित्याशङ्क्य श्रुतेस्ततो बलीयस्त्वादित्याह -
तत्र हीति ।
अन्नशब्देन व्रीह्यादि ग्राह्यमित्यत्र लिङ्गमपि दर्शयति -
वाक्यशेषोऽपीति ।
तस्मादिति । अद्भ्योऽन्नस्य सृष्टत्वादिति यावत् ।
तदेव ।
तत्रैवेत्यर्थः ।
वर्षणे सत्यन्नस्य बहुभवनं श्रुतमित्येतावता कथमन्नशब्दस्य पृथिवीव्यावृत्तिरित्याशङ्क्याह -
व्रीहीति ।
श्रुतिलिङ्गाभ्यामन्नशब्दस्य प्रतिद्धार्थत्वे सिद्धे ‘ता अन्नमसृजन्त’ इत्यादिश्रुतेः श्रुत्यन्तरेण ‘अद्भ्वः पृथिवी’ इत्यादिना विरोध इति पूर्वपक्षोपसंहार इतिशब्दार्थः ।
पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञाभागं व्याचष्टे -
एवं प्राप्त इति ।
श्रुतिलिङ्गाभ्यामन्नशब्दस्य व्रीह्यादिविषयत्वे दर्शिते पृथिवीविषयत्वं हेत्वभावादयुक्तमिति शङ्कते -
कस्मादिति ।
अन्नशब्दस्य पृथिवीविषयत्वे सूत्रोक्तं हेतुत्रयं विभज्यावतारयति -
अधिकारादिति ।
अधिकारशब्दितं प्रकरणमादौ विवृणोति -
अधिकार इति ।
प्रकरणस्य महाभूतविषयत्वेऽपि परम्परया व्रीह्यादिविषयत्वमन्नशब्दस्य किं न स्यादित्याशङ्क्य प्रबलप्रमाणं विना परम्पराकल्पनमनुचितमित्याह -
तत्रेति ।
प्रकरणवल्लिङ्गमपि सिद्धान्ते साधकमस्तीत्याह -
तथेति ।
लिङ्गस्यान्यथासिद्धिं शङ्कित्वा दूषयति -
नहीति ।
कृष्णत्वनियमराहित्यं पृथिव्यामपि तुल्यमित्यसिद्धिं लिङ्गस्य चोदयति -
नन्विति ।
पृथिवीप्रदेशानामकृष्णानामपि प्रथनात्तत्र कृष्णत्वनियमाभावादसम्भवि लिङ्गमिति, तन्निराकरोति -
नायमिति ।
बाहुल्यमेव प्रकटयति -
भूयिष्ठं हीति ।
वाक्यशेषे यदन्नस्य कृष्णत्वं श्रुतं तत्तस्य पृथिवीत्वं गमयतीत्यत्र पौराणिकसंमतिमाह -
पौराणिका अपीति ।
प्रकरणलिङ्गे दर्शयित्वा स्थानमपि सिद्धान्ते दर्शयति -
श्रुत्यन्तरमपीति ।
समानाधिकारम् ।
महाभूतसृष्टिविषयत्वेन समानप्रकरणमिति यावत् ।
तत्रैव बृहदारण्यकश्रुतिमुदाहरति -
तद्यदिति ।
तत्तत्र सृष्टिकाले यदपां यस्तासां शरो मण्डो घनीभावोऽभूदिति प्रकृतः शरो निरुच्यते । स हि समहन्यत सङ्घातात्मना परिणतः । सोऽपां कठिनाकारपरिणामः पृथिव्यभवत् । विशेष्यपृथिव्यपेक्षया सेत्युक्तम् । चकारस्तु श्रुत्यन्तरमितिपदानुकर्षणार्थः ।
तैत्तिरीयके तेज आरभ्य चतुर्थपर्यायपठितस्यैव व्रीह्यादिरूपत्वात्तृतीयपर्यायस्य पृथिवीविषयत्वाच्छान्दोग्येऽपि तस्य तद्विषयत्वं युक्तमिति स्थानमेव प्रकटयति -
पृथिव्यास्त्विति ।
प्रमाणत्रयफलं निगमयति -
एवमिति ।
अन्नशब्दश्रुत्या व्रीह्यादिप्रतिपत्तिरुक्तेत्याशङ्क्याह -
प्रसिद्धिरपीति ।
लिङ्गानुगृहीता श्रुतिर्बलवती कुतो बाध्यत इत्याशङ्क्य त्वदुक्तं लिङ्गं सिद्धान्तानुकूलमित्याह -
वाक्यशेषोऽपीति ।
प्रकरणादिभिर्यदा पृथिवी परिगृह्यते तदा श्रुतिलिङ्गयोर्नात्यन्तबाधः । स्वार्थापरित्यागेन तदाकारपरिणतायां पृथिव्यां प्रवृत्त्युपपत्तेः । श्रुतिलिङ्गाभ्यामन्नमात्रपरिग्रहे हेतुलिङ्गप्रकरणादीनामत्यन्तबाधः स्यात् । तेषां पृथिवीविषयत्वात्तदनुपादाने निरवकाशत्वात् । तत्र प्रमाणसमुदाययोरितरेतरविरोधेऽन्यतरस्यात्यन्तबाधेनान्यतरोपादानाद्वारमन्यतरस्याल्पबाधेनान्यतरोपादानमिति श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वा प्रकरणादिभिरन्नाकारपरिणता पृथिव्येव ग्रहीतव्येति मन्वानः सिद्धान्तमुपसंहरति -
तस्मादिति ।
तैत्तिरीयश्रुत्यनुसारेण छन्दोगश्रुतिनयनात्तयोरविरोधादन्नभावमापन्ने पृथिवीकारणे ब्रह्मणि समन्वयोपपत्तिरिति निगमयतुमितीत्युक्तम् ॥१२॥
पूर्वेष्वधिकरणेषु महाभूतानां पूर्वस्मात्पूर्वस्मादुत्तरस्योत्तरस्योत्तरस्य सृष्टिरुपदिष्टा । सम्प्रति भूतानां स्वकार्ये स्वातन्त्र्याद्ब्रह्मणः सर्वकारणत्वश्रुतिविरोधः स्यादित्याशङ्क्याह -
तदभिध्यानादिति ।
विषयप्रदर्शनपूर्वकमाकाशादिशब्दानां चेतनाचेतनविषयत्वाभ्यां सन्देहमुक्त्वा पूर्वपक्षं गृह्णाति -
किमिमानीति ।
अत्र च भूतसृष्टत्वश्रुतेर्ब्रह्मस्रष्टृत्वश्रुतेश्च विरोधनिराकरणद्वारेण सर्वस्रष्टरि ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योर्विरोधादनेकवाक्यत्वान्न तत्र ब्रह्मणि समन्वयः । सिद्धान्ते तु तयोरेकवाक्यतयाऽविरोधात्प्रामाण्यात्तत्सिद्धिः । ‘आकाशादेव समुत्पद्यन्ते’ इत्येवकारश्रुत्या ब्रह्मणः स्वतान्त्र्ये समधिगते भूतस्वतन्त्र्यमयुक्तमिति शङ्कते -
कुत इति ।
मूलकारणत्वापेक्षया ब्रह्मणः स्वातन्त्र्यश्रवणमित्याशयवानाह -
आकाशादिति ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
आकाशादिशब्दैराकाशाद्यभिमानिनीनां देवतानां मनुष्यादिशब्दैरिव तदभिमानिनां जीवानां विवक्षितत्वात् , पञ्चमीनां च निमित्तार्थत्वात् , आकाशाद्यात्मनेश्वरस्य वाय्वाद्युपादानत्ववत्तदभिमानिदेवतात्मनाधिष्ठातृत्वं चाविरुद्धमिति परिहरति -
नैष दोष इति ।
भूतानामपीति भूताभिमानिदेवताभिप्रायम् ।
‘सोऽकामयत’ इति परमेश्वरं प्रस्तुत्य ‘तदात्मानं स्वयमकुरुत’ इति कर्तृत्वं श्रुतं, ‘यः पृथिव्यां तिष्ठन्’ इत्यादिना चेश्वरस्य नियन्तृत्वमुक्तं, तत्कुतो देवतानां स्वातन्त्र्येण कार्ये नियन्तृत्वमित्याशङ्क्य प्रस्तावलिङ्गाभ्यामवद्योतितं ब्रह्मणः सर्वनियन्तृत्वमभिमानिदेवताद्वारा पारम्पर्येणापि सिध्यति, अन्यथा ब्रह्मकारणत्वश्रुतेर्भूतकारणत्वश्रुतेश्च मिथो विरोधः स्यादित्युपसंहर्तुमितिशब्दः । आकाशादिशब्दैर्न देवतालक्षणा, मुख्यार्थबाधाभावात् , पञ्चम्यश्चापादानार्थास्तत्र रूढतरत्वादिति सिद्धान्तयति -
एवं प्राप्त इति ।
भूतानां स्वातन्त्र्यश्रवणान्नास्ति स्वविकारसृष्टावीश्वरापेक्षेत्युक्तत्वादुक्तप्रतिज्ञानुपपत्तिरिति शङ्कते -
कुत इति ।
सौत्रं हेतुमादाय विभजते -
तल्लिङ्गादिति ।
इतश्च भूतानामयुक्ता स्वातन्त्र्येण प्रवृत्तिरित्याह -
तथेति ।
ब्रह्माकाशयोरन्यतरपदार्थोपादानेऽन्यतरपदार्थबाधप्रसङ्गात्पञ्चम्येवकारश्रुतिभ्यामवगतस्वातन्त्र्ययोस्तयोरेकतरस्याप्यबाधेन समुच्चयोपादानेन नैरपेक्ष्यमात्रं बाधित्वा पूर्वपूर्वभूताकारपरिणतं ब्रह्मोत्तरोत्तरभूतोपादानमुपेयमिति भावः ।
पूर्वपक्षबीजमनूद्य तदभिध्यानादेवेति सूत्रावयवयोजनया निराकरोति -
यत्त्विति ।
परमेश्वरस्य भूतेषु प्रवेशात्तदीयमेवाभिध्यानमप्तेजसोरुपचर्यते, तन्न भूतानां चेतनत्वाशङ्केत्यर्थः ।
भूतानां तदभिमानिचेतनदेवताद्वारेणेक्षणसिद्धौ किमीश्वरेणेत्याशङ्क्याह -
नान्य इति ।
भवतु वा चेतनानां देवतात्मनां भिन्नत्वं तथापि किङ्कारणमिति विशये परमेश्वरस्य कारणत्वेन क्लृप्तत्वात्स एव द्विधा कारणमित्याह -
प्रकृतत्वादिति ।
ब्रह्मणः स्वरूपेण पररूपेण सर्वकारणत्वे सर्वस्रष्टृब्रह्मसमन्वयस्य भूतस्वातन्त्र्यस्रष्टृत्वश्रुतिविरोधो नेति सिद्धमिति भावः ॥ १३ ॥
सृष्टिक्रममभिधाय लयक्रममभिधत्ते -
विपर्ययेणेति ।
यद्यप्यत्र श्रुतिविप्रतिषेधो न साक्षात्परिह्नियते तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थत्वाद्विचार्यत इति प्रासङ्गिकी सङ्गतिरित्यभिप्रेत्याह -
भूतानामिति ।
वस्तुतस्तु सर्वप्रलयाधारब्रह्मसमन्वयस्य कारणनाशात्कार्यनाश इति न्यायानुगृहीतसृष्टिक्रमश्रुतिविरोधो निरस्यत इति सङ्गतयः । पूर्वपक्षे भूतलयस्य श्रौतसंनिहितक्रमलाभादशेषलयाधारब्रह्मसमन्वयस्य न्यायोपेतसृष्टिक्रमविरोधादसिद्धिः । सिद्धान्ते लोकानुरोधिन्याः श्रुतेः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधकतेत्युक्ते् ब्रह्मणि तत्सिद्धिः ।
‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ’ इत्यादौ कार्यलिङ्गकानुमानप्रदर्शनात् , ‘यत्प्रयन्ति’ इत्यादौ च लयमात्रश्रवणेऽपि क्रमस्याश्रुतत्वात् , आकाङ्क्षायाश्च द्विधाऽपि शान्तेश्चिन्ताप्रकारमेवाभिनयति -
किमनियतेनेति ।
सति प्रलये क्रमश्चिन्तनीयः, स एव नास्तीति केचित् , तान्प्रत्याह -
त्रयोऽपीति ।
उपक्रममात्रेण पूर्वपक्षमाह -
तत्रेति ।
श्रुतोत्पत्तिक्रमादेव नियमे सत्यनियमो न युक्तिमानित्याशङ्क्य पक्षान्तरमाह -
अथवेति ।
महाभूतप्रलयोऽपि क्रममपेक्षते, तदुत्पत्तिप्रलययोरन्यतरत्वात् , तदुत्पत्तिवदित्यभिप्रेत्याह -
क्रमाकाङ्क्षिण इति ।
तथाचासौ श्रौतसंनिहितक्रमवान्न स्मार्तं व्यवहितं क्रममवलम्बते । तस्य बहिरङ्गत्वादिति भावः ।
महाभूतानामुत्पत्तिक्रमेण प्रलये क्रमवति सति सर्वप्रलयाधारे ब्रह्मणि समन्वयो न्यायानुगृहीतसृष्टिक्रमश्रुतिविरुद्धो न सिध्यतीत्युपसंहरति -
एवमिति ।
सिद्धान्तसूत्रमवतार्य व्याकरोति -
तत इति ।
लोकदृष्टपदार्थबोधाधीना हि श्रुतिः । अतः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधनं युक्तमित्युपपद्यत इति सूत्रावयवं व्याचष्टे -
तथाहीति ।
चकारसूचितमुपपत्त्यन्तरमाह -
अपिचेति ।
सत्यपीत्थं लौकिके दर्शने प्रकृते किमायातमित्याशङ्क्य फलपरत्वेनापि सूत्रावयवं योजयति -
अतश्चेति ।
पृथिव्यादीनामबादौ लयश्चेद्ब्रह्मणः सर्वकार्यलयाधारत्वं कथमित्याशङ्क्य तत्तत्कारणात्मके ब्रह्मणि तत्तत्कार्यलयाभ्युपगमात्तत्रैव पर्यवसानमिति मत्वाऽऽह -
एवं क्रमेणेति ।
पारम्पर्यं परित्यज्य साक्षाद्ब्रह्मणि सर्वकार्यलयाभ्युपगमो बलीयानित्याशङ्क्याह -
नहीति ।
घटादेर्मृत्कार्यस्य परमाणुषु लयानभ्युपगमात् । अन्यथा घटादिनाशे परमाणूनामतीन्द्रियत्वान्न किञ्चिदुपलभ्येतेति भावः ।
लौकिकन्यायवशादुत्पत्तिक्रमविपरीतं प्रलयक्रमं प्रदर्श्य तत्रैव स्मृतिं संवादयति -
स्मृतावपीति ।
‘वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते’ इति वाक्यमादिशब्दार्थः ।
स्मार्तकमाल्लौकिकन्यायाच्च श्रौतक्रमस्य संनिकृष्टत्वादाकाङ्क्षासंनिधिभ्यां तस्यैवोपादेयत्वमित्याशङ्क्य योग्यत्वाभावान्मैवमित्याह -
उत्पत्तीति ।
आकाङ्क्षापि तत्र नास्तीत्याह -
नचेति ।
अयोग्यविषयाभ्यामाकाङ्क्षासंनिधिभ्यां विप्रकृष्टविषयेऽप्याकाङ्क्षायोग्यत्वे बलवत्तरे सम्बन्धस्य योग्यतानिमित्तत्वादिति भावः ।
अयोग्यत्वादित्युक्तं साधयति -
नहीति ।
कार्यकारणयोरभेदे कार्याभावे कारणवत्तदभावेऽपि कार्यं स्यादित्याशङ्क्याह -
कार्येति ।
तदेवं ब्रह्मणः सर्वप्रलयाधारत्वात्तत्र समन्वयस्य ‘कारणनाशात्कार्यनाश’ इति न्यायानुगृहीतसृष्टिक्रमश्रुत्या न विरोधोऽस्तीति सिद्धमिति भावः ॥ १४ ॥
पूर्वोक्तभूतोत्पत्तिप्रलयक्रमस्य करणसृष्ट्या बाधमाशङ्क्य परिहरति -
अन्तरेति ।
भूतोत्पत्तिप्रलयक्रमो विषयः । स किं करणसृष्टिक्रमेण बाध्यते न वेति करणानां भौतिकत्वाभौतिकत्वाभ्यां सन्देहे पूर्वपक्षयितुं वृत्तं कीर्तयति -
भूतानामिति ।
उक्तोत्पत्तिप्रलयक्रमस्य विरोधद्योतनार्थमुक्तमर्थान्तरमनुद्रवति -
आत्मादिरिति ।
अत्र च क्रमवद्भूतोत्पत्तिप्रलयाधारे ब्रह्मणि समन्वयस्य करणसृष्टिश्रुत्या विरोधपरिहारद्वारा दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे करणसर्गश्रुतिविरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
देहप्रदेशातिरिक्तेद्नियाभावात्कथं यथोक्तः सन्देहः स्यादित्याशङ्क्याह -
सेन्द्रियस्येति ।
श्रुतिस्मृत्योरुक्ता प्रसिद्धिः । तत्र श्रुतिमुदाहरति -
बुद्धिं त्विति ।
‘इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिः‘ इत्याद्या स्मृतिरुदाहर्तव्या । करणानां सत्त्वेऽपि तेषामाहङ्कारिकत्वात्तदुत्पत्तिक्रमेण कुतो भूतोत्पत्त्यादिक्रमस्य विरोधाशङ्केत्याशङ्काह -
तयोरिति ।
तेषामाहङ्कारिकत्वे मानाभावाद्ब्रह्मजत्वस्यावश्यकत्वे तत्कार्येष्वेव कस्मिश्चिदन्तराले बुद्धिसेन्द्रियमनसोरुत्पत्तिलयौ ग्राह्यावित्यर्थः ।
तथापि भूतोत्पत्त्यनन्तरं तदुत्पत्त्यङ्गीकारतया भूतोत्पत्त्यादिक्रमस्याविरुद्धतेत्याशङ्क्य क्रमाकाङ्क्षायां करणोत्पत्तेः श्रुत्यन्तरसिद्धक्रमसिद्धेर्विरोधोऽस्तीत्याह -
अपि चेति ।
अन्नमयश्रुतौ करणानां भौतिकत्वे सिद्धे भूतानन्तर्यं तेषामित्याशङ्क्य ‘आपोमयः प्राणः’ इत्यत्र तद्विकारत्वाभाववदिहापि तद्विकारत्वाभावात्करणोत्पत्तिश्रुत्या क्रमवद्भूतोत्पत्त्यादिश्रुतेर्विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ।
सिद्धान्तमादत्ते -
नेति ।
इन्द्रियाणामुत्पत्तिक्रमस्य भूतोत्पत्त्यादिक्रमविरुद्धविशेषासिद्धेर्न विरोधोऽस्तीत्यर्थः ।
किं भौतिकत्वं करणानामुताभौतिकत्वम् । आद्यं प्रत्याह -
यदीति ।
द्वितीयं दूषयति -
भवतीति ।
न चापोमय इतिवन्मयटो न विकारार्थता करणानां विभक्तत्वात्कार्यत्वे कारणापेक्षायामन्नमयमित्यादिश्रुतेरपेक्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वादिति भावः ।
भौतिकत्वे करणानां भूतानन्तरं तदुत्पत्तेर्न पृथक्तद्व्यपदेशः स्यादित्याशङ्क्याह -
व्यपदेशोऽपीति ।
क्वचिदित्याथर्वणं वाक्यमुक्तम् । प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि ब्रवीति -
अथ त्विति ।
अभौतिकत्वेऽपि पूर्वोत्तरत्वेन विशेषणविशेष्यत्वे मानाभावाद्भूतोत्पत्तिक्रमो न करणक्रमेण विरुध्यत इत्यर्थः ।
ननु यथा ‘समिधो यजति’ इत्यादौ पाठक्रम एवानुष्ठानक्रमे मानं तथैतस्मादित्यादिपाठक्रमेणैवादौ करणान्युत्पद्यन्ते पश्चाद्भूतानीत्यत्र मानं, नेत्याह -
आथर्वणेति ।
तत्र तेषां क्रममात्रमाम्नायोत्पत्तिरुक्तेति योजना । श्रुत्यर्थाविरुद्धोहि पाठोऽनुष्ठाने मानम् , इह तु ‘आत्मन आकाशः’ इत्यादिश्रुत्यर्थविरोधादग्निहोत्रहोमयवागूपाकवत्पाठक्रमभङ्गेन भूतानन्तरं करणोत्पत्तिरित्यर्थः ।
करणानां भूतानां चैककार्यत्वे क्रमाकाङ्क्षायां पूर्वविशिष्टस्यैवोत्तरजनकत्वात्करणप्राथम्यमित्याशङ्क्य भिन्नपरिकरत्वान्मैवमित्याह -
तथेति ।
प्रजापतिः सर्वभूतसूक्ष्मात्मकः सूत्रात्मा । स्थूलं कार्यमिदमुच्यते । तदुत्पत्तिप्राक्कालोऽग्रशब्दार्थः । अत्र प्रजापतिसृष्टिवचनाद्भूतसृष्टिप्राथम्यं, ततश्च मनआदिसृष्टिरुक्तेति करणसर्गस्य पाश्चात्यत्वमिति विवेकः ।
भूतकरणोत्पत्त्योरेवं सिद्धे क्रमे क्रमवद्भूतोत्पत्तिलयाधारे ब्रह्मणि समन्वयस्य करणोत्पत्तिश्रुत्या विरोधो नेत्युपसंहरति -
तस्मादिति ॥ १५ ॥
पूर्वाधिकरणेषु तत्पदार्थकारणत्वसिद्ध्यै भूतोत्पत्तिश्रुतिविरोधो निरस्तः । संप्रत्यापादसमाप्तेस्त्वम्पदार्थशुद्ध्यै जीवविषयश्रुतिविरोधो निरस्यते । तत्र करणोत्पत्तिश्चेन्न भूतोत्पत्तिक्रममन्यथयति तर्हि जीवोत्पत्तिस्तदन्यथयेदित्याशङ्क्य सैव नास्तीत्याह -
चराचरेति ।
इह जीवजनिमृतिनिमित्तवैश्वानरीयेष्ट्यादिशास्त्राणां तन्नित्यत्वशास्त्राणां चाविरोधद्वारा नित्यसिद्धप्रत्यग्ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे शास्त्रद्वयविरोधात्तादृग्ब्रह्मसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
जीवो विषयः, तस्य किं देहोत्पादनाशयोरनौपाधिकमुत्पत्त्यादि न वेति श्रुतिविप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -
स्त इति ।
देहगामित्वादयं व्यपदेशो न जीवजन्मादि साधयेदित्याशङ्क्य चेतनोद्देशेन जातकर्मादिविधानादयमपि व्यपदेशो न देहमात्रगामीत्याह -
जातेति ।
न चोपाध्यपरामर्शादौपाधिकौ तस्य जन्मनाशौ, नापि देहस्य संस्कारविधिः, पुरुषविषयत्वेन प्रसिद्धत्वात् , अतो जीवस्यानौपाधिकोत्पत्तिनाशसिद्धेरजामृतप्रत्यग्ब्रह्मसमन्वयासिद्धिरित्याह -
इति स्यादिति ।
उत्सूत्रं सिद्धान्तमाह -
तामिति ।
उपपत्तिमेव दर्शयति -
शरीरेति ।
उद्देश्योपादेययोर्मिथो विरोधे सत्युपादेयजन्मान्तरफलसाधनविधिविरोधिनोरुद्देश्यच्चेतनजन्ममरणयोर्देहोपाधित्वेनोपचरितत्वाज्जन्मान्तरसाधनकर्मसम्बन्धयोग्यो जन्ममृतिरहितः सन्नात्मा सिध्यतीत्यर्थः ।
आत्मनो जन्माद्यभाव एव शास्त्रीयस्वर्गादिसम्बन्धसिद्धिस्तदन्यथानुपपत्त्या नित्यत्वं तस्येत्युक्तम् । इदानीं श्रुतिसिद्धं चैतदित्याह -
श्रूयते चेति ।
जीवेनापेतं त्यक्तम् । वाव किलेत्यवधारणार्थौ निपातौ । जीवो न म्रियत एवेत्यर्थः ।
पूर्वपक्षबीजमनुभाषते -
नन्विति ।
तदुत्तरत्वेन सूत्रं पातयितुं योजनिकामाह -
सत्यमिति ।
भाक्तो व्यपदेशो मुख्यापेक्षीति मत्वा पृच्छति -
किमिति ।
तत्र सूत्रमवतार्य व्याकरोति -
उच्यत इति ।
तयोस्तद्विषयत्वेन मुख्यत्वे हेतुमाह -
स्थावरेति ।
उपचारे कारणमाह -
तदिति ।
देहगामित्वेन जन्मादिशब्दस्य मुख्यत्वे सौत्रं हेतुमादाय व्याचष्टे -
तदिति ।
देहयोगमनपेक्ष्य साक्षादेव जीवगतौ जन्मनाशशब्दौ किं न स्यातां, तत्राह -
नहीति ।
न केवलमन्वयव्यतिरेकाभ्यामयमर्थोऽवगम्यते किन्तु श्रूत्यापीत्याह -
स वा इति ।
कथं नित्यस्य जायमानत्वं, तत्राह -
शरीरमिति ।
कथं म्रियमाणत्वं, तत्राह -
उत्क्रामन्निति ।
श्रुतेस्तात्पर्यमाह -
शरीरेति ।
यत्तु जातकर्मादिविधानाज्जीवस्यानौपाधिकौ जन्मनाशाविति तत्राह -
जातेति ।
पूर्वोत्तराधिकरणयोरेकार्थतया पौनरुक्त्यमाशङ्क्यार्थभेदमाह -
जीवस्येति ।
तदेवमात्मनो देहोत्पत्त्यादावनौपाधिकोत्पत्त्याद्यभावाज्जातेष्ट्यादिशास्त्राणामौपाधिकतद्विषयत्वादात्मनित्यत्वशास्त्राणां मुख्यार्थत्वादनाद्यनन्तप्रत्यग्ब्रह्मसमन्वयसिद्धिरिति भावः ॥ १६ ॥
देहोत्पत्तिनाशयोरात्मोत्पत्तिनाशौ निरस्य कल्पाद्यन्तयोर्जन्मनाशौ तस्य निरस्यति -
नात्मेति ।
अधिकरणविषयमाह -
अस्तीति ।
‘असम्भवस्तु’ इत्यत्र ब्रह्मजन्मनिषेधात्तदभिन्नजीवजन्माशङ्का निरवकाशेत्याशङ्क्याह -
जीवेति ।
शरीरादेरेव सप्राणस्य जीवत्वमिति प्राकृताः, तान्प्रत्याह -
शरीरेति ।
‘कर्माध्यक्षः', ‘साक्षी’ इत्यादिश्रुतेरीश्वरत्वादस्य कुतो जीवत्वं, तत्रोक्तम् -
कर्मेति ।
विषयं विविच्य सहेतुं संशयमाह -
स इति ।
श्रुतिविप्रतिपत्तिं विशदयति -
कासुचिदिति ।
‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।
कासुचिदिति ।
‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।
प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -
नचेति ।
श्रुतिविप्रतिपत्त्या संशयमुक्त्वा पूर्वपक्षयति -
तत्रेति ।
अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रूतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः ।
जन्मप्रयोजकजाड्यविशेषत्वविरहान्नोत्पत्तिरित्याह -
कुत इति ।
आत्मनस्तद्विरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -
प्रतिज्ञेति ।
तदनुपरोधं साधयति -
एकस्मिन्निति ।
अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्किं तत्कार्यत्वेनेत्याशङ्क्य तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -
तत्त्वान्तरत्वे त्विति ।
द्वितीयं निरस्यति -
नचेति ।
लक्षणभेदं साधयति -
अपहतेति ।
नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -
विभागाच्चेति ।
तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यानित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -
यावानिति ।
आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -
तस्येति ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवेति ।
प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चोक्त्वानुमानमाह -
तस्येति ।
यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -
अपिचेति ।
जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -
प्राणादेरिति ।
किञ्चौपाधिकं जन्म चेदुपाधेरेव तद्वाच्यं नोभयोरित्याशयेनाह -
सर्व एव इति ।
जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -
यथेति ।
भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -
सरूपेति ।
भावशब्दो जीववाचीति शेषः ।
अन्यत्रापि सत्त्वेन सारूप्यमाशङ्क्याह -
जीवेति ।
भूतोत्पत्त्यधिकारे जीवोत्पत्तेरश्रवणान्न तदुत्पत्तिरित्याशङ्क्याह -
न चेति ।
तत्र तार्तीयन्यायेन हेतुमाह -
श्रुत्यन्तरेति ।
जीवोत्पत्तौ परस्यैव कथं प्रवेशश्रवणमित्याशङ्क्याह -
प्रवेशेति ।
यथा मृदादि स्वविकारे घटादौ चूर्णादिविकारान्तरेण प्रविशति तथा ब्रह्म शरीरं सृष्ट्वा जीवाख्यविकारेण प्रविष्टमित्यर्थः ।
ब्रह्मणो विकारोत्पत्तौ दृष्टान्तमाह -
तदिति ।
अनुमानानुगृहीतश्रुतिफलमाह -
तस्मादिति ।
जीवनित्यत्वानित्यत्वश्रुतीनां मुख्यत्वे मिथो विरोधादसिद्धिः समन्वयस्येति पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां योजयति -
एवमिति ।
अनुमानोपेतश्रुत्या जीवोत्पत्तेरुक्तेरयुक्ता प्रतिज्ञेत्याह -
कस्मादिति ।
सौत्रं हेतुमुक्त्वा व्याकरोति -
अश्रुतेरिति ।
गुणोपसंहारन्यायेनोक्तं स्मारयति -
नन्विति ।
न्यायाधीनामुक्तिमङ्गीकृत्य जीवोत्पत्तिश्रुतेस्तदनुत्पत्तिश्रुत्या वारणान्नात्र न्यायोऽस्तीत्याह -
सत्यमिति ।
जीवजन्मायोगे प्रश्नपूर्वकं सौत्रं हेतुमाह -
कस्मादिति ।
हेतुद्वयं विवृणोति -
नित्यत्वं हीति ।
नित्यत्वाजत्वादिभानेऽपि जन्माभावो न भातीत्याशङ्क्याह -
न चेति ।
या नित्यत्वादिवादिन्यो जीवोत्पत्तिं न मृष्यन्ति ताः श्रुतीराकाङ्क्षाद्वारोदाहरति -
ताः का इति ।
उत्पत्तिश्रुतेरनुमानानुग्रहादनुत्पत्तिश्रुत्यपेक्षया प्राबल्यमुक्तं स्मारयति -
नन्विति ।
स्वाभाविकं वा विभक्तत्वमौपाधिकं वेति विकल्पयति -
अत्रेति ।
नाद्योऽसिद्धेरित्याह -
नेति ।
औपाधिकं विभक्तत्वमौपाधिकं स्वाभाविकं वा विकारमात्मनो गमयेत् । आद्ये सिद्धसाधनत्वं मत्वोक्तम् -
बुद्ध्यादीति ।
द्वितीये कालातीतत्वं विवक्षन्नौपाधिकं विभागभानमित्यत्र मानमाह -
तथा चेति ।
ब्रह्मविकारत्वं जीवस्य निरस्यता बुद्धिविकारत्वं तन्मयत्वोक्त्या स्वीकृतमित्याशङ्क्याह -
तन्मयत्वमिति ।
जाल्मो जडात्मा प्राकृतः पुरुषः । स यथा स्रीपरतन्त्रः स्त्रीमयो व्यपदिश्यते तथा जीवस्याप्रपञ्चपूर्णत्वाप्रतिपत्त्या बुद्ध्याद्युपरक्तपरिच्छिन्नरूपत्वं बुद्ध्यधीनमिति तन्मयत्वोक्तिरित्यर्थः ।
अनुग्राहकमनुमानमपोद्यानुग्राह्यश्रुतेर्गतिमाह -
यदपीति ।
अत एवेत्यस्य व्याख्यानम् -
उपाधीति ।
नयनमभिनयति -
उपाधीति ।
तत्र मैत्रेयीब्राह्मणं संवादयति -
तथाचेति ।
‘प्रज्ञानघन एव’ इत्युक्त्वा ‘न प्रेत्य संज्ञास्ति’ इति वदतो विरोधः स्यादित्याशङ्क्याह -
तथेति ।
पूर्वापरविरोधसमाधिद्वारेति यावत् ।
न प्रेत्येत्युक्तस्यायमिति परामर्शः । एतदपि प्रश्नपूर्वकं प्रतिपादयतीति सम्बन्धः । प्रश्नमनुक्रामति -
अत्रेति ।
मोहान्तं मोहमध्यमापीपददापादितवानिममित्यर्थनिर्देशः ।
प्रतिपादनप्रकारं प्रकटयति -
न वेति ।
मोहं मोहकरं वाक्यम् ।
अविनाशित्वे परिणामित्वाभावं हेतुमाह -
अनुच्छित्तीति ।
कथं तर्हि न प्रेत्येत्यादि, तत्राह -
मात्रेति ।
यत्तु प्रतिज्ञया ब्रह्मकार्यता जीवस्येति, तत्राह -
प्रतिज्ञेति ।
यत्तु लक्षणभेदान्नैक्यमिति, तत्राह -
लक्षणेति ।
बिम्बप्रतिबिम्बादिवदौपाधिको भेदो न स्वाभाविक इत्यत्र हेतुमाह -
अत इति ।
प्रधानवाक्येन फलवताऽऽक्षिप्तनित्यत्वबोधकावान्तरवाक्यनुरोधेन प्रधानवाक्यविरुद्धकार्यत्ववादिवाक्यानां दुर्बलत्वेनोपचरितार्थत्वान्मिथो विरोधाभावान्नित्यप्रत्यग्ब्रह्मसमन्वयसिद्धिरित्युपसंहरति -
तस्मादिति ॥ १७ ॥
आत्मनो नित्यत्वमुक्त्वा तदनुत्पत्तिहेतोः स्वप्रकाशत्वमाह -
ज्ञ इति ।
अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्स्वप्रकाशता । न चैवं गतार्थत्वमनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुत्या ब्रह्मान्यत्वशङ्कायां ब्रह्मैक्ययोग्यत्वायात्र जीवस्य स्वप्रकाशतोक्तेरिति भावः ।
विषयसंशयतत्कारणानि दर्शयति -
स इति ।
विमृश्य पूर्वपक्षं गृह्णाति -
किमिति ।
अत्र च ‘आत्मैवास्य ज्योतिः’ इत्यादिश्रुतीनां ‘पश्यंश्चक्षुः’ इत्यादिश्रुतिभिर्जीवानित्यधीत्ववादिनीभिर्विरोधसमाधानद्वारा चिद्रूपप्रत्यग्ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे यथोक्तश्रुतीनां मिथो विरोधादनैकमत्यादप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधादेकवाक्यतया प्रामाण्यात्तत्र तत्सिद्धिः ।
आत्मनश्चेत् चैतन्यमागन्तुकं किं तर्हि तस्य कारणमागन्तुकस्य तदपेक्षत्वात्तत्राह -
आत्मेति ।
आत्मा कादाचित्कज्ञानः, तदर्थमादीयमानसाधनत्वात् , ईश्वरवदिति व्यतिरेकीत्यर्थः ।
समवाय्यसमवायिविषयं विशेषणं निमित्तं त्वदृष्टादि । आत्ममनः संयोगादसमवायिनश्चैतन्यमात्मगुणो भवतीत्यत्र पिठरपाकप्रक्रियया दृष्टान्तमाह -
अग्नीति ।
किं चात्मा ज्ञानान्तरप्रकाश्यः, वस्तुत्वात् , घटवदिति मत्वाह -
इति प्राप्तमिति ।
आत्मा न नित्यचैतन्यः, तद्व्यभिचारित्वात् , घटवदित्याह -
नित्येति ।
इष्टापत्तिं निराचष्टे -
ते पृष्टा इति ।
तदा तेषामसत्त्वादेव चैतन्यव्यभिचारित्वमित्याशङ्क्याह -
स्वस्थाश्चेति ।
तथापि कथं चैतन्यस्यागन्तुकत्वं, तत्राह -
चेतयमाना इति ।
आत्मा न ज्ञानस्वभावः, स्वसंसर्गिसर्वनवभासकत्वात् , आदित्यवदिति व्यतिरेकेणोपसंहरति -
अत इति ।
भाष्ये हेतुसाध्यनिरुक्त्या साध्याविशिष्टत्वं निरसनीयम् ।
आत्मनः स्वप्रकाशत्वश्रुतीनामनित्यधीत्वश्रुतीनां च विरोधे समन्वयासिद्धिरिति पक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं योजयति -
ज्ञ इति ।
अत एवेत्युक्तं व्यनक्ति -
यस्मादिति ।
उत्पत्त्यभावे हेतुमाह -
परमिति ।
तस्य कुतो जीवत्वं, तत्राह -
उपाधीति ।
येन ब्रह्माभिन्नत्वेनोत्पत्तिरात्मनो निरस्ता तेनैव तस्य नित्यचैतन्यताऽपि सुप्रतिपदा । विमतं चैतन्यस्वभावं, ब्रह्माभिन्नत्वात् , तद्वदित्यर्थः ।
दृष्टान्तस्य साध्यवैकल्यमुद्धरति -
परस्येति ।
हेत्वसिद्धिं प्रत्याह -
तदेवेति ।
चेच्छब्दो निश्चयार्थः । प्रकृतिविकारत्वहीनद्रव्यार्थपदसामानाधिकरण्यम् , एकद्रव्यनिष्ठम् , उक्तसामानाधिकरण्यत्वात् , सोऽयमितिवदित्यनुमानात्प्रवेशश्रुतेश्च ब्रह्मैव जीवो निश्चित इति हेतुसिद्धिरित्यर्थः ।
ब्रह्माभिन्नत्वफलं निगमयति -
तस्मादिति ।
न केवलं नित्यचैतन्यब्रह्मत्वाज्जीवस्य नित्यचैतन्यत्वं किन्तु स्वप्रकाशत्वश्रवणादपीत्याह -
विज्ञानेति ।
‘योऽयं विज्ञानमयः प्राणेषु’ इत्यारभ्य तत्प्रकरणस्थाः श्रुतीरात्मस्वप्रकाशत्वसाधनायोपन्यस्यन्नुक्तानुमानानां कालात्ययापदिष्टत्वमाह -
असुप्त इति ।
स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरतव्यापारानभिपश्यतीति यावत् । अत्रेति स्वप्नोक्तिः । नच तत्र मनसो भावात्तन्निमित्तमात्मनो ज्योतिष्ट्वं तदा तस्य कर्मत्वादकरणत्वादिति भावः ।
व्यभिचारिकरणजन्यबुद्धीनामव्यभिचारिचैतन्यं विना नियतानुसन्धानासिद्धेरात्मनो नित्यचैतन्यत्वमित्याह -
अथेति ।
आत्मा नित्यचैतन्यस्वभावः, स्वसत्तायां तद्व्यतिरेकशून्यत्वात् , ईश्वरसंवेदनवदिति भावः ।
प्रतिकूलतर्कपराहतिं शङ्कते -
नित्येति ।
आत्मनो नित्यचैतन्यत्वेऽपि स्वतोऽसङ्गतया विषयासंसर्गात्तद्विशेषयोगद्वारा तत्परिच्छेदार्थमन्तःकरणाद्यपेक्षणान्न तद्वैयर्थ्यमित्याह -
नेति ।
न चासंसर्गित्वादेव विषयविशेषासंसर्गे कुतस्तद्भानं मिथोऽयोगेऽपि द्वयोरेकान्तःकरणसंसर्गाद्युक्तत्वेन भानसम्भवान्मुखरक्तिमगुणयोर्मिथोऽयोगेऽपि स्फटिकोपरागाधीनसम्बन्धवदिति भावः ।
गन्धादिविषयविशेषस्य परिच्छेदस्तदवच्छिन्नश्चित्प्रकाशस्तद्व्यञ्जकजडप्रकाशान्तःकरणपरिणामोदयार्थत्वाद्घ्राणादीनां नानर्थक्यमित्यत्र श्रौतं लिङ्गमाह -
तथाहीति ।
स्वसत्तायां तदव्यभिचारित्वादिति हेतोरसिद्धिं परिहर्तुं परोक्तं तद्व्यभिचारित्वहेतुमनुवदति -
यत्त्विति ।
स्वकीयहेतोरसिद्धिमुद्धरन्परकीयहेतोरागमविरोधमाह -
तस्येति ।
पश्यन्नित्येतदुपपादयति -
नहीति ।
न पश्यतीत्युक्तं व्यनक्ति -
न त्विति ।
पश्यन्न पश्यतीति विरोधमाशङ्क्याह -
एतदिति ।
विषयाभावादचेतयमानत्वं दृष्टान्तेन स्पष्टयति -
यथेति ।
वस्तुत्वादिहेतोरनित्यचैतन्यत्वसिद्धावात्मनश्चिद्रूपता कुतः स्यादित्याशङ्क्याह -
वैशेषिकादीति ।
आत्मचैतन्यस्यागन्तुकत्वे मानाभावात्तस्य नित्यचैतन्यत्वे पश्यन्नित्यादिश्रुतीनां स्वप्रकाशत्वश्रुत्यनुसारेण नयनादन्योन्यमविरोधान्नित्यचैतन्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -
तस्मादिति ॥ १८ ॥
ब्रह्मैक्ययोग्यत्वायात्मनः स्वप्रकाशत्वमुक्तम् । इदानीं तस्य स्वाभाविकाणुत्वनिरासेन वस्तुतो महत्त्वं चैतन्यादीषद्बहिष्ठं साधयति -
उत्क्रान्तीति ।
अधिकरणस्य विषयसंशयौ दर्शयति -
इदानीमिति ।
किमणुपरिमाणो जीव आहो महापरिमाण इत्येवं विप्रतिपत्तेः सन्दिह्यते ।
मध्यमपरिमाणत्वं निरस्तमेवात्र तथाणुत्वं निरस्तप्रायमिति वक्तुमतीताधिकरणारम्भमाक्षिपति -
ननु चेति ।
तथापि जीवस्यानन्त्यनिरूपणार्थमधिकरणमित्याशङ्क्याह -
अतश्चेति ।
तुल्यलक्षणत्वादित्यर्थः ।
तथापि विचारारम्भस्य किं जातं, तदाह -
परस्येति ।
तथापि जीवस्य तन्नोक्तं, तत्राह -
तत्रेति ।
पराभिन्नतया तद्वदानन्त्ये सतीति यावत् ।
आरम्भं समाधत्ते -
उच्यत इति ।
यदुक्तं जीवस्य नित्यत्वादि, तदङ्गीकरोति -
सत्यमिति ।
तर्हि परममहत्त्वमपि तस्य सिद्धमेव, किमनया चिन्तयेत्याशङ्क्याह -
उत्क्रान्तीति ।
न केवलं श्रुतार्थापत्तिसिद्धमात्मनोऽणुत्वं किन्तु श्रौतमपीत्याह -
स्वशब्देनेति ।
आत्माणुत्वश्रुतिकलापस्य तदानन्त्यश्रुतिजातस्य वाऽनाकुलत्वमन्योन्यमविरुद्धत्वं तत्प्रतिपादनेनापरिच्छिन्ने ब्रह्मणि समन्वयसाधकमधिकरणमर्थवदित्युपसंहरति -
तस्येति ।
एतेन पादादिसङ्गतिरुक्ता । पूर्वपक्षे चात्माणुत्वमहत्त्वश्रुत्योर्विरुद्धत्वेनाप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तयोरविरुद्धत्वात्प्रामाण्यात्तत्सिद्धिः ।
अधिकरणारम्भमेवमुक्त्वा सूत्रं व्याकुर्वन्पूर्वपक्षयति -
तत्रेति ।
उक्तं हेतुं विवृणोति -
उत्कान्तीति ।
स पुरुषो मुमूर्षुरारब्धकर्मावसाने यदाऽस्मादभिमानतो गृहीतादिति यावत् । सहैवेत्यत्र तदेति वक्तव्यम् । एतच्छब्दो वागादिविषयः । तस्माल्लोकादित्यागमनापादानत्वेन चन्द्रलोको गृह्यते । तत्र भोक्तव्यकर्मक्षयानन्तर्यं पुनरित्युच्यते । अस्मै लोकायेति । एतं लोकं प्रतीत्यर्थः ।
कर्मशब्देन तदनुष्ठानं लक्ष्यते हेतुमनूद्य तत्फलमाह -
आसामिति ।
ननु जीवस्योत्क्रान्तिगत्यागतिभिश्चलनमेव गम्यते न परिच्छेदः, तत्राह -
नहीति ।
सर्वगतस्य स्वाश्रयसंयोगविभागहेतुश्चलनम् । नभोवच्चलनं न चेत्तथापि कुतोऽणुत्वं परिशेषादित्याह -
सतीति ॥ १९ ॥
नात्मनो देहादपसर्पणमुत्क्रमणं किन्तु स्वाम्यनिवृत्तिमात्रम् । मन एव तूत्क्रम्य भोगदेशं गच्छतीत्येके । तत्राह -
स्वात्मनेति ।
सूत्रं व्याचिख्यासुः स्वाम्यनिवृत्तिमात्रमुत्क्रमणमित्यङ्गीकरोति -
उत्क्रान्तिरिति ।
देहे स्वाम्यनिवृत्तौ हेतुमाह -
कर्मेति ।
तथापि गत्यागतिभ्यामणुत्वमात्मनः स्यादपरिच्छिन्नस्य सतस्तदयोगादित्याह -
उत्तरे त्विति ।
घटगमनागमनाम्यां नभसस्तद्भ्रान्तिवदुपाधेरात्मनोऽपि गत्यागतिभ्रान्तिः स्यादित्याशङ्क्य दृष्टान्ते दृष्टत्वात्तथात्वेऽपि कथमागमिकस्य तथात्वमित्याह -
स्वात्मनेति ।
पचतीत्यादौ पाकाद्यनाश्रयस्यापि कर्तृत्वोक्तिवदात्मनो गत्याद्यनाश्रयस्यापि तत्कर्तृत्वमुच्यतामित्याशङ्क्याह -
गमेरिति ।
श्रुतिप्रामाण्याद्गत्यागत्योर्जीवेनैव सम्बन्धे फलितमाह -
अमध्यमेति ।
जीवोऽणुः, अमध्यमपरिमाणत्वे सति गत्यागतिमत्त्वात् , परमाणुवदित्यर्थः ।
स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्युपेत्योक्तम् । सम्प्रति सूत्रोक्तोत्क्रान्तेस्तर्हि पूर्वोत्तरपक्षानुपयोगितेत्याशङ्क्याह -
सत्योश्चेति ।
तत्र हेतुः -
नहीति ।
इतश्च देहादपसर्पणमेवोत्क्रान्तिरित्याह -
देहेति ।
अपादानात्वं विश्लेषावधित्वम् । अन्येभ्यो वा मुखादिभ्यस्तं जीवमुत्क्रमन्तं प्राणोऽनूत्क्रमतीति शेषः ।
किञ्च स्वदेहमध्येऽपि गत्यागतिभावात्परिच्छिन्नो जीव इत्याह -
स इति ।
जीवश्चक्षुरादीन्द्रियाणि गृहीत्वा स्वापादौ हृदयं प्रविशति । शुक्रं ज्योतिष्मत्करणजातमादाय पुनर्जागरितमागच्छतीत्यर्थः ।
बाह्यादिवान्तरादपि गत्यादेरात्मनोऽणुत्वमित्याह -
तस्मादिति ॥ २० ॥
सर्वगतत्वश्रुतिविरोधमाशङ्क्य विषयान्तरोक्त्या प्रत्याह -
नाणुरिति ।
चोद्यं विवृणोति -
अथापीति ।
उक्तहेतुभिरात्मनोऽणुत्वे दृष्टेपीति यावत् ।
अणुत्वश्रुतेरुक्तत्वादसिद्धो हेतुरित्याशङ्क्याह -
अणुत्वेति ।
परिमाणान्तरश्रवणं विवृणोति -
स वा इति ।
परिहारमवतार्य व्याचष्टे -
नेति ।
महापरिमाणश्रवणं परमात्मविषयं तत्प्रकरणस्थत्वादित्युक्तं साधयति -
परस्येति ।
कथमस्य परविषयतेत्याशङ्क्य - प्राधान्येन तस्य प्रतिपाद्यत्वादुत्सर्गतस्तथेत्याह -
परस्यैवेति ।
न केवलमौत्सर्गिकं परप्रकरणत्वम् , आरभ्याधीतिबलादपि तद्धीरित्याह -
विरज इति ।
परिमाणान्तरश्रुतेः श्रुत्या जीवगामित्वे सिद्धे प्रकरणस्य दौर्बल्यान्न परविषयतेति शङ्कते -
नन्विति ।
यथा वामदेवस्य गर्भस्थस्यैव ‘अहं मनुरभवं सूर्यश्च’ इति शास्त्रदृष्ट्या व्यपदेशो दृष्टस्तथा जीवस्य परमार्थाभेददृष्ट्या महत्त्वनिर्देशः, तथा च स्वतोऽणुत्वमविरुद्धमित्याह -
शास्त्रेति ।
अणोर्जीवस्य ब्रह्मणो भिन्नाभिन्नत्वेनात्यन्तभेदाभावात्तद्भेदस्य चाध्यक्षत्वादभेद एव शास्त्रीयस्तदपेक्षया च जीवमहत्त्वोक्तिरिति भावः ।
परिमाणान्तरश्रुतेरन्य विषयत्वाज्जीवस्याणुत्वं युक्तमित्युपसंहरति -
तस्मादिति ॥ २१ ॥
गत्यादिश्रुत्यनुपपत्तेरनुमानस्य च श्रुत्यन्तरविरोधनिरासेनाणुत्वसाधकत्वमुक्तम् । इदानीं तत्रैव श्रुतिमाह -
स्वशब्देति ।
चशब्दं योजयति -
इतश्चेति ।
स्वशब्दं व्याकुर्वन्नितःशब्दार्थं स्फुटयति -
यत इति ।
दुर्ज्ञातत्वधिया परमात्मैवाणुरिवाणुरुक्त इत्याशङ्क्याह -
प्राणेति ।
वृत्तिभेदेन पञ्चधा प्राणो यस्मिन्संनिविष्टः स प्राणाधारो जीव एवाणुर्वेदितव्य उच्यते । परस्याप्राणसम्बन्धादित्यर्थः ।
उन्मानं विभजते -
तथेति ।
स्वशब्दवदित्यर्थः । उद्धृतं मानमुन्मानम् , अत्यन्तापकृष्टपरिमाणमित्यर्थः ।
तदुदाहरति -
वालेति ।
आराग्रादुद्धृतं मानं मात्रा यस्य स जीवस्तथा ॥ २२ ॥
सूत्रान्तरार्थं शङ्कते -
नन्विति ।
उपलब्धिरपि न सर्वदेहगता किन्तु प्रदेशगतेत्याशङ्क्याह -
दृश्यते चेति ।
देहव्यापिकार्यान्यथानुपपत्त्या जीवो नाणुरिति चोद्यं सूत्रेण प्रत्याह -
अत इति ।