न्यायनिर्णयव्याख्या
२ परिच्छेदः
परिच्छिन्नस्यापि स्वभाववशाद्व्यापि कार्यं स्यादित्यन्यथोपपत्तिं दर्शयन्दृष्टान्तं व्याचष्टे -
यथेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
देहव्यापकत्वमात्मसम्बन्धस्य सर्वाङ्गीणशैत्यज्ञाने शक्तत्वाद्युक्तं प्रादेशिकस्यात्मनो व्यापि कार्यमित्युक्तेऽर्थे युक्तिं ब्रुवन्नवशिष्टं सूत्रभागं व्याचष्टे -
त्वगिति ।
प्रादेशिकस्यात्मनः सम्बन्धः समस्तां त्वचं कथं व्याप्नुयात् , तत्राह -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वात्तद्व्याप्तिरित्यर्थः ।
तथापि कथं त्वचः सर्वाङ्गीणशैत्यसङ्गतिः, तत्राह -
त्वक्चेति ।
अर्थापत्तेरन्यथाऽप्युपपत्तिं दृष्टान्तेनोक्तामुपसंहर्तुमितिशब्दः ॥ २३ ॥
वैषम्यं शङ्कित्वा प्रत्याह -
अवस्थितीति ।
तत्र शङ्कां विवृणोति -
अत्रेति ।
जीवस्याणोरपि देहव्यापिकार्यं स्यादिति दृष्टान्तेनोक्ते सतीति यावत् ।
अतुल्यत्वमेव व्यतिरेकेण साधयति -
सिद्धे हीति ।
न चात्मनो देहैकदेशस्थत्वं प्रत्यक्षमित्युक्तदृष्टान्तासिद्धिरिति शेषः ।
दृष्टान्ते विशेषं दर्शयति -
प्रत्यक्षं त्विति ।
अवस्थितिविशेषमेव विशदयति -
एकेति ।
कार्यमपि तर्हि तथैव स्यादित्याशङ्क्योक्तम् -
सकलेति ।
आत्मन्यपि तुल्यमेतदित्याशङ्क्याह -
आत्मन इति ।
प्रत्यक्षतोऽल्पीयसश्चन्दनबिन्दोस्त्वग्व्याप्त्या व्यापि कार्यं युक्तम् । यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं कार्यं तस्य व्यापित्वमौत्सर्गिकं तु हित्वा नेयं कल्पना युक्तेत्यर्थः ।
आत्मनो देहैकदेशस्थत्वमप्रत्यक्षमपि चन्दनबिन्दुदृष्टान्तेनाणुत्वहेतुनानुमेयमिति शङ्कते -
अनुमेयमिति ।
सन्दिग्धासन्दिग्धत्वेन सन्दिग्धं दूषयति -
नेत्यादिना ।
परिहारमवतार्य व्याकरोति -
अत्रेति ।
प्रत्यक्षानुमानयोरभावादात्मनो देहैकदेशस्थत्वं निरस्तमिति शङ्कते -
कथमिति ।
श्रुतिमाश्रित्य सूत्रावयवेन समाधत्ते -
हृदीति ।
‘यो वेद निहितं गुहायाम्’ इत्याद्युपदेशसङ्ग्रहार्थमादिपदम् । सिद्धे तुल्यत्वे फलितमाह -
तस्मादिति ॥ २४ ॥
अणोरात्मनश्चैतन्यं स्वभावतोऽणुपरिमाणं देहतुल्योपलब्ध्याकारपरिणतमित्युक्त्वा पक्षान्तरमाह -
गुणाद्वेति ।
प्रतिज्ञां व्याचष्टे -
चैतन्येति ।
जीवस्याणुत्वे तद्गुणस्य चैतन्यस्य कुतो देहव्याप्तिः, तत्राह -
यथेति ।
सूत्रस्यापरितुष्ट्या पक्षान्तरार्थत्वादपरितुष्टिहेतुमाह -
स्यादिति ।
जीवस्यापि स्वावयवद्वारा सर्वदेहविप्रसर्पणमाशङ्क्य तदवयवानामचेतनत्वे तदयोगाच्चैतन्येऽपि प्रत्येकं चैतन्ये युगपदेकस्यानेकभोक्त्रधिष्ठितस्य देहस्याव्यवस्थापातान्मिलितचैतन्ये मेलनस्यावयवानतिरेकात्तेषां वा चैतन्यान्न जीवस्य स्वावयवैर्देहे विप्रसर्पणमिति मत्वाह -
न त्विति ॥ २५ ॥
सूत्रान्तरमवतारयितुमाक्षिपति -
कथमिति ।
चैतन्यं गुणत्वान्न गुणिनोऽन्यत्रेत्यत्र दृष्टान्तमाह -
नहीति ।
यथा दीपस्य गुणोऽपि प्रभा तदतिरेकेणाशेषमपवरकोदरं व्याप्नोति तथा चैतन्यमात्मनो गुणोऽपि तमतिक्रम्य सर्वं देहं व्याप्नुयादतो व्यभिचारान्नानुमेति शङ्कते -
प्रदीपेति ।
प्रभाया गुणत्वाभावान्नैवमित्याह -
नेति ।
द्वयोरपि तेजोद्रव्यत्वे कथमवान्तरभेदः, तत्राह -
निबिडेति ।
गुणत्वस्य गन्धे व्यभिचारमाह -
अत इति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
तत्र हेतुमाह -
अप्राप्तेष्विति ।
सूत्रावयवं व्याकुर्वन्दार्ष्टान्तिकमाह -
एवमिति ।
परानुमाने फलितं दोषमाह -
अतश्चेति ।
अतःशब्दोक्तं हेतुं स्पष्टयति -
गुणस्येति ।
उक्तहेत्वसिद्धिं ब्रुवन्व्यभिचारं वारयति -
गन्धस्येति ।
किमिदमनुमेयं किं वाऽघ्यक्षमिति विकल्प्याद्यं प्रत्याह -
नेति ।
विश्लिष्टावयवानामल्पत्वादपक्षयो न भातीत्याशङ्क्याह -
अक्षीयमाणमिति ।
तथात्वेनानुभूयमानमिति यावत् । विमतमवियुक्तावयवं, पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात् , संमतवदित्यर्थः ।
हेतोरन्यथासिद्धिरिति शङ्कते -
स्यादिति ।
विश्लष्टानामल्पत्वादित्युपलक्षणम् । द्रव्यान्तराणूनामनुप्रविष्टत्वादित्यपि द्रष्टव्यम् । विश्लोषानुप्रवेशाभ्यां सन्नपि विशेषो गुरुत्वाद्यपचयरूपः सौक्ष्म्यान्नोपलक्ष्यत इत्यर्थः ।
नासिकापुटं प्रति गतानां गन्धवदवयवानामध्यक्षेणाग्रहादागतिरयुक्तेत्याशङ्क्यायोग्यत्वादग्रहणमित्याह -
सूक्ष्मा हीति ।
परमाणुशब्देन परकीया वा परमाणवस्त्रसरेणवो वा गृह्येरन् । आद्ये तद्गतरूपादिवद्गन्धस्यापि नोपलब्धिः स्यादित्याह -
नेति ।
द्वितीयं प्रत्याह -
स्फुटेति ।
त्रसरेणुग्रहेऽपि नागकेसरादिष्वपि दूरेषु स्फुटगन्धधीर्भवति न भवेन्नासिकापुटं प्रविष्टानां गन्धवतां त्रसरेणुमात्रत्वादित्यर्थः ।
गन्धस्याश्रयेण सह गतिरनुमेयेति प्रतिक्षिप्य प्रत्यक्षपक्षं प्रत्याह -
नचेति ।
कथं तर्हि लौकिकी धीः, तत्राह -
गन्ध इति ।
गन्धो नाश्रयादन्यत्र वर्तते, गुणत्वात् , रूपादिवदित्यनुमानान्नेदं व्यभिचारस्थलमिति शङ्कते -
रूपेति ।
आश्रयेण सहैव गतिर्वा तद्गत्यभावे गन्धस्यापि तद्राहित्यं वा साध्यम् । आद्ये पूर्वोक्तदोषं मत्वा द्वितीयं प्रत्याह -
नेति ।
प्रत्यक्षविरोधादनुमानानुत्थाने फलितमाह -
तस्मादिति ।
तद्विरोधेऽपि तदुत्थितावतिप्रसक्तिं वक्ति -
नहीति ॥ २६ ॥
गन्धस्य गुणिनं विनापि वृत्तेश्चैतन्यस्यापि तद्योगादणुत्वेऽपि देहव्यापिकार्यसिद्धिरित्युक्तम् । इदानीं चैतन्येनैवात्मनो देहव्याप्तिरित्यत्र श्रुतिमाह -
तथाचेति ।
सूत्रं व्याचष्टे -
हृदयेति ॥ २७ ॥
चैतन्यगुणेनात्मनो देहव्याप्तौ हेत्वन्तरमाह -
पृथगिति ।
सूत्रं व्याचष्टे -
प्रज्ञयेति ।
विधान्तरेण सूत्रार्थमाह -
तदिति ।
एतमेवाभिप्रायं चैतन्येनात्मनो देहव्यापित्वविषयं बाघकाभावं साधकभावं च परामृश्य पूर्वपक्षमुपसंहरति -
तस्मादिति ॥ २८ ॥
तदनुवादेन सिद्धान्तं सूत्रयति -
एवमिति ।
तदक्षरार्थमाह -
तुशब्द इति ।
पक्षमनुभाष्य तद्व्यावर्तनं प्रतिजानीते -
नैतदिति ।
तत्र हेत्वर्थमुक्तं स्मारयति -
उत्पत्तीति ।
कार्यकारणत्वानुपपत्तौ सत्यां सामानाधिकरण्यश्रुतेश्चेति तृतीयहेत्वर्थः ।
जीवब्रह्मणोरभेदेऽपि प्रकृते किं जातमित्याशङ्क्य जीवो महान्ब्रह्माभिन्नत्वात्तद्वदित्याह -
परमिति ।
दृष्टान्तस्य साध्यवैकल्यं 'सत्यं ज्ञानम्' इत्यादिश्रुत्या निराचष्टे -
परस्येति ।
अनुमानफलमाह -
तस्मादिति ।
जीवस्य विभुत्वे तन्महत्त्ववादिश्रुतिस्मृतिवाक्यान्यपि मुख्यार्थानि भवन्तीत्यनुमानानुग्राह्यमागममाह -
तथाचेति ।
नित्यः सर्वनतः स्थाणुरित्यादयः स्मार्तवादाः । तत्त्वमस्यादिप्रधानवाक्याज्जीवस्य महत्त्वं तदणुत्वार्थगुणभूतवाक्यानां श्रुतिलिङ्गानां च तद्विरोधादौपाधिकार्थत्वसिद्धेरिति भावः ।
किञ्च ‘अर्थवादवाक्यानां लौकिकादपि न्यायाद्दौर्बल्यम्’ इति न्यायेन सर्वदेहव्यापिशैत्योपलम्भान्यथानुपपत्तिनिमित्तमहत्त्वेनाणुत्वश्रुतीनां बाधः स्यादित्याह -
नचेति ।
त्वगात्मसम्बन्धस्य त्वग्व्यापित्वात्त्वचश्च सर्वदेहव्याप्तेस्तद्वारा जीवस्याणोरपि व्यापिकार्यमित्युक्तं शङ्कते -
त्वगिति ।
अतिप्रसक्त्या प्रत्याह -
नेति ।
पादतलमात्रे कण्टकस्य संयुक्तत्वात्कुतोऽन्यत्र वेदनेत्याशङ्क्याह -
त्वगिति ।
तथापि कथं देहमात्रे वेदनाधीः, तत्राह -
त्वक्चेति ।
अतिप्रसङ्गमुपसंहर्तुमितिशब्दः । अस्तु देहमात्रे वेदनाधीरित्यतिप्रसङ्गस्येष्टत्वमाशङ्क्याह -
पादेति ।
यदुक्तं गुणाद्वेति, तत्राह -
नचेति ।
हेतुं व्यतिरेकेण स्फोरयति -
गुणत्वमिति ।
लोकवदित्युक्तं प्रत्याह -
प्रदीपेति ।
यत्तु व्यतिरेको गन्धवदिति, तत्राह -
गन्धोऽपीति ।
निराश्रयस्यैव सञ्चरणं तस्योक्तमित्याशङ्क्याह -
अन्यथेति ।
गन्धस्याश्रयनियमे युक्तिमुक्त्वा वृद्धसंमतिमाह -
तथा चेति ।
न चाध्यक्षविरुद्धौ युक्त्यागमौ, तेनाश्रयशून्यत्वाग्रहान्महतां च त्रसरेणूनामनुद्भूतरूपस्पर्शानामागतिरिति स्फुटोपलम्भसम्भवान्मूलद्रव्ये चाविशेषोऽवयवान्तरयोगादिति भावः ।
चैतन्यस्य गुणत्वमुपेत्य गुणस्य गुणिनं विनाऽन्यत्रागतेः सर्वदेहव्यापिकार्यायोगान्नाणुर्जीव इत्युक्तम् । इदानीं न गुणत्वमपि तस्येत्याह -
यदीति ।
चैतन्यव्याप्तौ जीवाणुत्वासिद्धिं ब्रुवतो वैयधिकरण्यमित्याह -
चैतन्यमिति ।
औष्ण्यप्रकाशयोर्गुणत्वाच्चैतन्यस्य स्वरूपत्वे नोदाहरणतेत्याशङ्क्य रूपादिवद्गुणगुणित्वाभावान्मैवमित्याह -
नात्रेति ।
औष्ण्यप्रकाशावग्निश्च सप्तम्यर्थः । औष्ण्याद्यतिरिक्ताग्निस्वरूपाभावं हेतुं कर्तुमितिशब्दः । जीवस्याणुत्वं न चेदस्तु मध्यमपरिमाणत्वं, नेत्याह -
शरीरेति ।
परिमाणद्वयायोगे परिशिष्टमाह -
परिशेषादिति ।
विभुत्वे जीवस्याणुत्वादिव्यपदेशासिद्धिरित्युक्तमनुस्मारयति -
कथमिति ।
तदुत्तरत्वेन सूत्रावयवं पातयति -
अत इति ।
‘अभ्युपगमाद्धृदि हि’ इति हृदयस्य प्रकृतत्वात्तन्निष्ठा बुद्धिरेवात्र तच्छब्देत्यक्षरार्थमाह -
तस्या इति ।
पदार्थमुक्त्वा समासमाह -
तद्गुणा इति ।
पारमार्थिकमात्मनः संसारित्वं किं बुद्धिगुणैरित्याशङ्क्याह -
नहीति ।
असङ्गत्वेनापरिणामित्वं सूचयति -
केवलस्येति ।
बुद्धिधर्माणामात्मगतत्वासिद्धेः साङ्ख्यवदात्मनः संसारित्वायोगमाशङ्क्याह -
बुद्धीति ।
आत्मनो बुद्धितद्धर्माध्यासद्वारा संसारित्वेऽपि प्रकृतेऽणुत्वादिवादे किं जातमित्याशङ्क्याह -
तस्मादिति ।
किञ्च जीवस्याणुत्ववादीनि यानि वाक्यान्युक्तानि तान्यपि पौर्वापर्यपर्यालोचनायां महत्त्वमेव तस्य गमयन्तीति मत्वोन्मानश्रुतिं प्रत्याह -
तथाचेति ।
अणुत्वे च महत्त्वे च श्रुते किमित्युभयं नेष्टमित्याशङ्क्यान्यतरद्वा द्वयमपि वा तत्त्वम् । आद्येऽपि महत्त्वस्याणुत्वस्य वा वस्तुतेति विकल्प्य प्रथममङ्गीकुर्वन्नाह -
तच्चेति ।
द्वयमपि तत्त्वमपि पक्षं विरोधेन प्रत्याह -
नहीति ।
कल्पान्तरं निराह -
नचेति ।
तत्त्वमसीत्यत्रत्वमर्थोद्देशेनानन्तब्रह्मभावस्य विधित्सितत्वाद्विधित्सितानन्त्यविरोधादुद्देश्यस्थमणुत्वमविवक्षितमिति भावः ।
उन्मानान्तरं प्रत्याह -
तथेति ।
बुद्ध्यध्यासेन तद्गुणेनात्मन्यध्यस्तेन तस्मिन्मिथ्यागुणान्तरमुत्पद्यते, तेनात्मगुणेनाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः । वस्तुतस्तु नायं गुणाधारो न चापकर्षवानित्यर्थः ।
श्रुतेस्तात्पर्यमाह -
बुद्धीति ।
यत्तु स्वशब्दादणुत्वं, तद्दूषयति -
एष इति ।
दुर्ज्ञानत्वज्ञापकप्रकरणापेक्षया श्रुतेरेव प्राबल्यादणुत्वमित्याशङ्क्य काल्पनिकं तदिष्टं वास्तवमयुक्तमित्याह -
जीवस्येति ।
परमात्मदृष्टान्तार्थोऽपिशब्दः । तदभिन्नत्वादित्युक्तो हेतुः । परस्य प्रकरणिनो विभुत्वात्तदभिन्नत्वाच्च जीवस्य न चेदणुत्वं तर्हि कथमणुत्वश्रुतिः, तत्राह -
तस्मादिति ।
अणुशब्दस्यात्यन्तसूक्ष्मे प्रयोगात्कथमुक्तार्थतेत्याशङ्क्याह -
उपाधीति ।
यत्तु पृथगुपदेशादिति, तत्राह -
तथेति ।
यथा स्वशब्दोन्माने जीवस्य नाणुत्वमावेदयतस्तथा पृथगुपदेशोऽपि तस्याणोरेव चैतन्यस्य देहव्याप्तिमाहेत्यर्थः ।
समारुह्य वागादिना नामाद्याप्नोतीति शेषः । प्रज्ञाशब्दस्य चैतन्यार्थत्वात्कुतो बुद्धिविषयतेत्याशङ्क्याह -
व्यपदेशेति ।
गुणगुणित्वेन तस्य मुख्यत्वे किमित्यौपचारिकत्वं, तत्राह -
नहीति ।
अत्रेति चैतन्यात्मनोरुक्तिः । उक्तं ‘यदि तु चैतन्यं जीवस्येत्यादौ’ इति शेषः ।
यत्तु तथाच दर्शयतीति, तत्राह -
हृदयेति ।
यच्चोत्क्रान्त्यादिश्रुतेर्जीवोऽणुरिति, तत्राह -
तथेति ।
इतीक्षित्वेति शेषः ।
यत्तु स्वात्मना चोत्तरयोरिति, तत्राह -
उत्क्रान्तीति ।
तत्र हेतुमाह -
नहीति ।
दार्ष्टान्तिकमुपसंहरति -
एवमिति ।
दृष्टान्तमादाय व्याचष्टे -
प्राज्ञवदिति ।
उक्तदृष्टान्तानुसारेण जीवस्यापि बुद्धिगुणसारत्वादणुत्वादिव्यपदेश इत्याह -
तद्वदिति ॥ २९ ॥
सूत्रन्तरनिरस्या शङ्कामाह -
स्यादेतदिति ।
कथमसत्त्वं स्वरूपेण सत्त्वादित्याशङ्क्याह -
असंसारित्वं वेति ।
सूत्रमवतारयति -
अत इति ।
न दोष इति प्रतिज्ञात्वेन योजयति -
नेयमिति ।
प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
बुद्धियोगस्यानाशित्वे तत्त्वधीवैयर्थ्यं वा तस्यान्तवत्त्वेनागन्तुकतया संसारस्यादिमत्त्वादकृतागमादिप्रसङ्गो वा तदुभयमपि नास्तीति हेतुं विवृणोति -
यावदिति ।
तदेव स्पष्टयति -
यावदस्येति ।
संसारनिवृत्त्युत्तरकालमपि जीवस्वरूपनिर्वाहकत्वेन बुद्धियोगोऽभ्युपगन्तव्य इत्याशङ्क्याह -
यावदेव चेति ।
जीवस्य वस्तुत्वान्नोपाधियोगापेक्षेत्याशङ्क्य वाच्यस्य लक्ष्यस्य वा वस्तुत्वमिति विकल्प्याद्यं दूषयति -
परमार्थेति ।
द्वितीयं निराह -
नहीति ।
लक्ष्यस्य ब्रह्माव्यतिरेके वेदान्तार्थनिरूपणायामित्यत्र सूचितं हेतुमाह -
नेत्यादिना ।
सूत्रावयवमाकाङ्क्षाद्वारा निक्षिपति -
कथमिति ।
तस्यार्थमाह -
तथाहीति ।
‘बुद्धिं तु सारथिं विद्धी’ त्यादि ग्रहीतुमादिपदम् । कथमत्र यावदात्मभावित्वधीरित्याशङ्क्य तदर्थ विज्ञानमयपदार्थमाह -
तत्रेति ।
विज्ञानस्य ब्रह्मत्वात्तन्मयत्वं तत्कार्यत्वं तदात्मत्वं वेत्याशङ्क्याह -
प्रदेशान्तर इति ।
विज्ञानं बुद्धिरस्तु, तथापि कथमात्मनस्तद्विकारत्वं मयटो विकारार्थत्वात्तत्राह -
बुद्धीति ।
कथं विकारार्थस्य मयटोऽर्थान्तरं शङ्क्यते, तत्राह -
यथेति ।
इह लोके बुद्ध्यवियोगेऽप्यात्मनो लोकान्तरसञ्चारे तद्वियोगः स्यादित्याशङ्क्याह -
स समान इति ।
नात्र बुद्ध्या सहावियोगो भातीत्याशङ्क्याकाङ्क्षाद्वारा समानपदं पूरयति -
केनेति ।
येन केनापि समानत्वे कुतो विशेषोक्तिः, तत्राह -
संनिधानादिति ।
‘योऽयं विज्ञानमयः प्राणेषु’ इत्यत्रेति शेषः ।
परिच्छिन्नस्यैव गतेरात्मनस्तदभावात्कथमुभयलोकसञ्चारित्वं, तत्राह -
तच्चेति ।
बुद्धिवदात्मनो ध्यानादियोगित्वमत्र भातीवशब्दस्योपमार्थत्वादित्याशङ्क्याह -
एतदिति ।
इवशब्दस्याभासार्थत्वान्नोपमार्थतेति भावः ।
न केवलमागमाद्बुद्धिसम्बन्धस्य यावत्संसार्यात्मभावित्वं किन्तु युक्तेरपीत्याह -
अपिचेति ।
मिथ्याज्ञानस्य सत्येव संसारिणि कर्मणा निवृत्तेस्तन्निमित्तबुद्धिसम्बन्धस्यापि तत्सिद्धेर्न यावदात्मभावितेत्याशङ्क्याह -
नचेति ।
सम्यग्ज्ञानादेव मिथ्याज्ञाननिवृत्तिरित्यत्र मानमाह -
दर्शयतीति ।
आदित्यवर्णं प्रकाशरूपं तमसः परस्तादविद्यासंस्पर्शशून्यमित्यर्थः ॥ ३० ॥
यावदात्मभावित्वहेतोरसिद्धिं शङ्कते -
नन्विति ।
तत्र बुद्धिसम्बन्धासम्भवे हेतुमाह -
सतेति ।
किञ्च कार्यत्वाद्बुद्धेरात्मनस्तद्योगस्य च तथात्वात्तत्र, नाशध्रौव्यादसिद्धिर्ध्रुवेत्याह -
कृत्स्नेति ।
परिहरत्वेन सूत्रमवतारयति -
अत्रेति ।
तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
पुंस्त्वं पुरुषस्य प्रजोत्पादनसामर्थ्यम् । आदिशब्देन स्रियाः स्त्रीत्वं बीजस्याङ्कुरजनकत्वमित्यादि गृहीतम् । बाल्यादिष्वित्यादिपदेनावस्थाविशेषा गृह्यन्ते । यौवनादिष्वित्यत्रापि, स एवादिशब्दार्थः ।
कस्मादविद्यमानवदिष्टानामाविर्भावः, अविद्यमानानामेव पुनरुत्पत्तिः किं न स्यात् , तत्राह -
नेति ।
तैलकलुषितबीजादिग्रहार्थमादिपदम् । एतेन तुशब्दो व्याख्यातः ।
'अस्य सत' इति दार्ष्टान्तिकं व्याचष्टे -
एवमिति ।
अभिव्यक्तियोगादिति व्याकरोति -
एवं हीति ।
तदेव व्यतिरेकतः स्फोरयति -
नहीति ।
कारणं विनाऽपि कार्यं स्यादित्यतिप्रसङ्गः । स्वापे बीजात्मना सतो बुद्धियोगस्य प्रबोधे व्यक्तिरित्यत्र मानमाह -
दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसत्त्वोक्तिः । तत्कृतत्वं स्वापादुत्थानस्य कथयति -
त इति ।
पूर्वबोधः सप्तम्यर्थः ।
स्वापे लये च बुद्धियोगस्य बीजात्मनाऽवस्थाने फलितमाह -
तस्मादिति ॥ ३१ ॥
बुद्धिसद्भावे मानमाह -
नित्येति ।
तद्व्याख्यातुमन्तःकरणगतानवान्तरभेदानाह -
तच्चेति ।
तत्रतत्र ।
‘मनसा ह्येव पश्यति मनसा श्रृणोति', ‘बुद्धेर्गुणेनात्मगुणेन चैव', ‘बुद्धिश्च न विचेष्टते', ‘विज्ञानेन विज्ञानमादाय', ‘विज्ञानं यज्ञं तनुते', ‘चेतसा वेदितव्यः’ इत्यादिप्रदेशेष्वित्यर्थः ।
एकमेवान्तःकरणं कथमनेकधोच्यते, तत्राह -
क्वचिच्चेति ।
अभिमानप्रधानोऽहङ्कारो विज्ञानम् । चिदाकारप्रधानं चित्तम् । अथ यथोक्तमन्तःकरणमेव नास्ति । नच श्रुत्या तदस्तित्वं, तत्प्रामाण्येऽपि केषाञ्चिद्विसंवादात् , तत्राह -
तच्चेति ।
तत्र हेतुत्वेन सूत्रवयवं व्याकरोति -
अन्यथेति ।
नित्योपलब्धिप्रसङ्गं प्रकटयति -
आत्मेति ।
कारणे सति कार्यं भवत्येवेत्यनियमान्न नित्योपलब्धिप्रसक्तिरिति शङ्कते -
अथेति ।
तर्हि नित्यमेवानुपलब्धिः स्यादपेक्षणीयान्तराभावादित्याह -
तत इति ।
प्रसङ्गस्येष्टत्वमाशङ्क्याह -
नचेति ।
आत्मेन्द्रियार्थसांनिध्येऽपि कदाचिदेव ज्ञानोदयादन्तःकरणमस्तीत्युक्तम् । इदानीं तदनुपगमे दोषान्तरापत्तेरपि तदस्तीति ब्रुवन्नन्यतरनिथमो वेत्येतद्योजयति -
अथवेति ।
अन्यतरस्य शक्तिप्रतिबन्धे का हानिः ; तत्राह -
नचेति ।
अवधानमनुभवितुं स्मर्तुं वा वाञ्छा । नच साऽऽत्मनो धर्मः, तस्याविक्रियत्वात् । नापीन्द्रियाणामन्धादीनामेकैकेन्द्रियाभावेऽपि तद्दर्शनादान्तरत्वाच्च बाह्येन्द्रियधर्मत्वायोगात्तेन परिशेषाद्यस्यावधानानवधाने तदन्तःकरणमस्तीत्याह -
तस्मादिति ।
अनुबुभूषा साश्रया, गुणत्वात् , रूपवदित्यनुमानात्तदधिकरणमन्तःकरणं परिशेषतो लब्धमिति भावः ।
न केवलमन्तःकरणमौपपत्तिकं श्रौतमपीत्याह -
तथा चेति ।
मनः स्वग्राह्यजातिमद्विशेषगुणाधिकरणं, प्रत्यक्षज्ञानकरणत्वात् , चक्षुर्वदित्यभिप्रेत्याह -
कामादयश्चेति ।
बुद्धिसद्भावस्य मानयुक्तिसिद्धत्वे फलितमाह -
तस्मादिति ॥ ३२ ॥
स्वाभाविकमणुत्वं पराणुद्य वस्तुतो महत्त्वं चैतन्यादीषद्बहिष्ठं प्रतिष्ठापितम् । इदानीं ततोऽपि बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यावर्तनेनात्मनि साधयति -
कर्तेति ।
आत्मा किमकर्ता कर्ता वेति विप्रतिपत्तेः सन्देहे ‘तद्गुणसारत्वात्’ इत्यनेनैव तत्कर्तृत्वादिसिद्धेर्न संशीतिरित्याशङ्क्याह -
तद्गुणेति ।
अधिकारः प्रसङ्गः । यद्यपि कर्तृत्वस्य न स्वयं पुमर्थता, नापि प्रतिपाद्यवाक्यार्थोपयोगिता, यद्यपि चौपाधिकं कर्तृत्वमात्मानि प्रागेव सिद्धं, तथापि निरस्यपक्षसम्भवात्तन्निरासायारम्भः सम्भवतीति भावः । अत्र च विध्यादिश्रुतीनामसङ्गतादिश्रुतीनां चात्मकर्तृत्वाकर्तृत्वार्थानां बन्धमोक्षविषयत्वेन मिथो विरोधं विधूय नित्यमुक्ते ब्रह्मणि समन्वयाधानात्पादादिसङ्गतयः ।
पूर्वपक्षे श्रुतीनाममूषां विरुद्धत्वेनाप्रामाण्यात्तत्र समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन व्यवस्थया प्रामाण्यात्तत्सिद्धिरिति मन्वानः सिद्धान्तं प्रतिजानीते -
कर्ता चेति ।
सत्येव मनसि जागरादौ कर्तृत्वोपलम्भादसति स्वापे तदभावादन्वयव्यतिरेकाभ्यां कर्तृत्वस्य मनोनिष्ठत्वदृष्टेः, तत्सत्ताहेतुविषयत्वसम्भवे च तयोस्तद्विशिष्टार्थधीमात्रहेतुत्वकल्पनाया बहिरङ्गत्वात् , अहं कर्तेति धियश्चात्मनः साधारण्यान्न कर्तृत्वमात्मनोऽस्तीत्याह -
कस्मादिति ।
स्वर्गाद्यर्थिनो यागादिविध्यन्यथानुपपत्त्या कर्तृत्वमात्मनो दुर्वारमित्याह -
शास्त्रेति ।
तदेव व्याकरोति -
एवमिति ।
ऐक्यश्रुतिविरोधे विधिशास्त्रमन्यपरतया दुर्बलमित्याशङ्क्य सम्पत्परत्वेन तस्याः सावकाशत्वाद्विधिश्रुतेश्च निरवकाशत्वान्मैवमित्याह -
अन्यथेति ।
कर्त्री बुद्धिरित्युपगमात्तद्विषयत्वेन विधिशास्त्रं सावकाशमित्याशङ्क्य विधेः प्रतिपत्तुरेव कर्तृतेत्याह -
तद्धीति ।
ममेदं कर्तव्यमिति धीसमर्थस्य चेतनस्य विधिसम्बन्धमाह विधिशास्त्रमित्यर्थः ।
तथापि कथं तस्य कर्तृत्वधीरित्याशङ्क्याह -
नचेति ।
तस्य विधेयार्थकर्तृतां विनाऽनुपपन्नं विधिशास्त्रं चेतनस्य तदर्थानुपपत्त्या गमयति । बुद्धेरेव कर्तृत्वे यस्य भोक्तुरपेक्षितोपायो विधिर्न तस्य कर्तृत्वं यस्य कर्तृत्वं न तस्यापेक्षितोपाय इत्यसङ्गतिरिति भावः ।
‘अनश्नन्’ इत्यादिश्रुतिविरोधे श्रुतार्थापत्तिर्दुर्बलेत्याशङ्क्य श्रुतिमाह -
तथेति ॥ ३३ ॥
विहारो विहरणं सञ्चारस्तदुपदेशानुपपत्त्यापि जीवस्य कर्तृतेत्याह -
विहारेति ।
सूत्रस्य हेत्वन्तरपरत्वमाह -
इतश्चेति ।
जीवप्रक्रियायामिति बुद्धिप्रस्तावव्यासेधार्थमुक्तम् । सन्ध्ये स्थाने स्वप्नावस्थायामिति यावत् । ईयते गच्छति ॥ ३४ ॥
अकर्तुरुपादानानुपपत्त्यापि कर्तृत्वमित्याह -
उपादानादिति ।
तद्व्याकरोति -
इतश्चेति ।
प्राणानामिन्द्रियाणां विज्ञानेन बु्ध्द्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना ।
उपादानान्तरमाह -
प्राणानिति ।
योजना पूर्ववत् ॥ ३५ ॥
कर्तृवाचकाख्यातश्रुत्यापि जीवस्य कर्तृत्वमित्याह -
व्यपदेशाच्चेति ।
विज्ञानशब्दस्य जीवार्थत्वं गृहीत्वा सूत्रावयवं योजयति -
इतश्चेति ।
न चेदित्यादेर्व्यावर्त्यां शङ्कामाह -
नन्विति ।
नात्र बुद्धिर्विज्ञानमिति सूत्रभागेनाह -
नेतीति ।
तदेव स्फुटयितुं प्रतिजानीते -
जीवस्येति ।
प्रतिज्ञार्थं सूत्रावयवं व्याकुर्वन्व्यतिरेकेण स्फोरयति -
नेति ।
विपर्ययमभिनयति -
विज्ञानेनेति ।
अस्मन्मते बुद्धेरेव कर्तृत्वात्तत्र तद्व्यपदेशसिद्धिरित्याशङ्क्य केवलाया बुद्धेः करणत्वेनैव व्यपदेशदर्शनान्मैवमित्याह -
तथेति ।
तैत्तिरीयश्रुतौ विशेषमाह -
इहेति ।
कर्तृसामानाधिकरण्यमाख्यातेन कर्तृवाचिना विज्ञानपदस्याभिव्याहारः । प्रकृते वाक्ये विज्ञानस्य कर्तृत्वमन्यत्र करणत्वेऽपीति निगमयति -
इत्यदोष इति ॥ ३६ ॥
सूत्रान्तरव्यावर्त्यमाह -
अत्रेति ।
तथैव सम्पादयति नेत्याह -
विपरीतमिति ।
सहकारिवशादिष्टानिष्टोपादानेषु पुरुषप्रवृत्तिरित्याशङ्क्याह -
नचेति ।
तस्यास्वातन्त्र्ये लक्षणाभावादकर्तृत्वं स्वातन्त्र्ये बुद्धिपूर्वकारिणो नानियता प्रवृत्तिरित्यर्थः ।
सूत्रमवतारयति -
अत इति ।
सत्यपि स्वातन्त्र्ये स्यादनियता प्रवृत्तिरिति सूत्रं व्याकुर्वन्परिहरति -
यथेति ।
दृष्टान्ते विवदमानः सन्नाह -
उपलब्धाविति ।
चक्षुरादीनां विषयोपनायकत्वात्तदुपलब्धौ चात्मनश्चेतनत्वेन स्वातन्त्र्यादुदाहरणसिद्धिरित्याह -
नेत्यादिना ।
विषयोपनयनद्वारा तज्ज्ञाने करणापेक्षाध्रौव्यान्नात्मनः स्वतन्त्र्यमित्याशङ्क्याह -
अपि चेति ।
इतश्च दृष्टान्तदार्ष्टान्तिकयोर्न वैषम्यमिति यावत् । उपलब्धाविवेत्यपेरर्थः ।
देशाद्यपेक्षायां लक्षणाभावादकर्तृत्वं स्यादित्याशङ्क्याह -
नचेति ।
तत्र हेतुमाह -
भवतीति ।
यदुक्तं धीपूर्वकारिणो नानियता प्रवृत्तिरिति, तत्राह -
सहकारीति ।
कर्ता हि करणादीनि कारकान्तराणि प्रयुङ्क्ते, न तैरयं प्रयुज्यते, तेन तस्य स्वातन्त्र्यं, न, कारकान्तरानपेक्षत्वात् , क्वापि तथा स्वातन्त्र्यायोगात् । तथाचायमदृष्टवशादिष्टमेव प्रेप्सुस्तदुपायभ्रमादनिष्टहेतुमनुतिष्ठन्ननिष्टमाप्नुयादित्यनियता प्रवृत्तिः, कर्तृत्वनियमश्चेत्यर्थः ॥ ३७ ॥
बुद्धेरेव कर्तृत्वे कारकविभक्तिविपर्ययो ‘न चेत्’ इत्यत्रोक्तः । सम्प्रति तच्छक्तिविपर्ययमाह -
शक्तीति ।
सूत्रं व्याख्यातुं प्रतिज्ञां व्याकरोति -
इतश्चेति ।
हेतुमेव व्यतिरेकद्वारा विवृणोति -
यदीति ।
शक्तिविपर्ययमुदाहरति -
करणेति ।
बुद्ध्यतिरिक्तकर्त्रभावादित्यर्थः ।
बुद्धेरस्तु कर्तृशक्तिः, तत्राह -
सत्यां चेति ।
कर्तृत्वे बुद्धेरहन्धीविषयत्वेनात्मत्वं किमित्युपेयं, तत्राह -
अहङ्कारेति ।
अन्तःकरणाधिष्ठातुरेवात्मत्वात्कुतो बुद्धेरेवात्मत्वं, तत्राह -
तस्याश्चेति ।
कर्तुः स्वयमेव शक्तेर्न करणापेक्षेत्याशङ्क्याह -
शक्तोऽपि हीति ।
लोकवदिहापि कर्तुरपेक्षितमेव करणमिति वक्तुमितिशब्दः । अस्तु तर्हि कर्त्र्या बुद्धेरन्यदेव करणं, तत्राह -
ततश्चेति ॥ ३८ ॥
ज्ञानसाधनविध्यन्यथानुपपत्त्यापि कर्तृत्वमात्मनः स्वीकार्यमित्याह -
समाधीति ।
सूत्रं विवृणोति -
योऽपीति ।
ज्ञानोपायं समाधिमनुतिष्ठन्नकर्तात्मेति दुर्वचनमित्यर्थः ।
शास्त्रार्थवत्त्वादिहेतूनां फलमुपसंहरति -
तस्मादिति ।
उक्तहेतुषु प्रत्येकं साधकत्वं सम्भावयितुमपिशब्दः ॥ ३९ ॥
साङ्ख्यमतनिरासेनोक्तात्मकर्तृत्वस्य स्वाभाविकत्वं निरस्यति -
यथाचेति ।
सङ्गतिं दर्शयन्वृत्तं कीर्तयति -
एवमिति ।
उक्ते कर्तृत्वे विप्रतिपत्त्या संशयमाह -
तदिति ।
सङ्गतिफले पूर्ववत् ।
अत्रापि समाप्तौ सर्वं व्यक्तीभविष्यतीति मत्वा पूर्वपक्षयति -
तत्रेति ।
नच तर्हि पूर्वाधिकरणमनर्थकम् , आरोप्यप्रापकत्वात् । नच स्वातन्त्र्येण सम्बन्धाद्यभावे तस्यैतदवान्तरसूत्रत्वंं, तत्रापि कर्तृत्वे समर्थिते सत्यसङ्गस्य स्तुत्यापि नेतुं शक्यत्वे विरोधपरिहारेण समन्वयदार्ढ्यसिद्धौ साक्षादपि सङ्गत्यादेः सुवचत्वात् ।
ननु कर्तृत्वसत्त्वमात्रमुक्ता हेतवः साधयन्ति, न तस्य स्वाभाविकत्वं, नहि तस्योपाध्यनपेक्षत्वमुक्तं, तत्राह -
अपवादेति ।
न चान्वयव्यतिरेकाभ्यां विशिष्टस्य कर्तृत्वं शङ्कनीयं, तदुत्पत्तौ मनसो निमित्तत्वादपि तदुपपत्तेरिति मत्वा पूर्वपक्षमुपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति -
एवमिति ।
स्वाभाविकं कर्तृत्वमपवादकाभावादित्ययुक्तं मुक्त्यनुपपत्तेरपवादकत्वादित्याह -
नेति ।
उक्तं विवृण्वन्कर्तृत्वमात्मनः स्वभावो धर्मो वेति विकल्प्याद्यं प्रत्याह -
कर्तृत्वेति ।
कर्तृत्वे सत्येव पुरुषार्थसम्भवात्किं तन्निवृत्त्येत्याशङ्क्याह -
नचेति ।
द्वितीयमाश्रित्य शङ्कते -
नन्विति ।
सत्यां शक्तौ कार्यपरिहारोऽपि कथं, तत्राह -
तदिति ।
शक्तस्यैव निमित्तपरिहारात्कार्यपरिहारं दृष्टान्तेन दर्शयति -
यथेति ।
कर्तृत्वस्य धर्मादीनि निमित्तानि । तेषां ज्ञानानिवर्त्यत्वे मुक्तावपि सम्भवात्कर्तृत्वं स्यात् । ज्ञानेन तन्निवृत्तौ तेषामज्ञानकार्यत्वात्तत्कृतं कर्तृत्वमपि तथा स्यत् । शक्तेश्च शक्तशक्यसापेक्षतया सनिमित्तक्रियालक्षणशक्याक्षेपकत्वादनिर्मोक्षः । तस्मान्निमित्तपरिहारस्य दुरनुष्ठानत्वान्न शक्तिवादे मुक्तिरित्याह -
नेत्यादिना ।
शक्तिलक्षणेन शक्त्याक्षिप्तेन शक्येन सह यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये । मनुष्यदेहस्य शास्त्रसामर्थ्याद्देवत्वाप्तिवत्कर्तृभूतस्याकर्तृरूपमोक्षाप्तिः शास्त्रवशादेवेति शङ्कते -
नन्विति ।
किं सन्नेव मोक्षोऽज्ञानवृतो ज्ञानात्तन्निवृत्त्याप्यत उतासन्नपूर्वो हेतुशक्त्या लभ्यते । आद्ये कर्तृत्वस्य भ्रान्तित्वम् । द्वितीयं दूषयति -
नेति ।
मुक्तेः साधनाय तत्त्वमुपेत्योक्तम् , तदेव नेत्याह -
अपिचेति ।
तथापि कथं स्वाभाविकं कर्तृत्वमपह्नूयते, तत्राह -
तादृगिति ।
का तर्हि कर्तृत्वदृष्टेरात्मनि गतिः, तत्राह -
तस्मादिति ।
आत्मन्यौपाधिकमारोपितं कर्तृत्वमित्यत्र मानमाह -
तथाचेति ।
उक्तश्रुत्योस्तात्पर्यमाह -
उपाधीति ।
विद्वदनुभवविरुद्धा च स्वाभाविकी कर्तृतेत्याह -
नहीति ।
विवेकिनामित्युक्तेरवस्थाभेदापेक्षमैक्यमित्याशङ्क्याह -
नान्य इति ।
बुद्ध्यादिसङ्घातादतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी कर्ता च प्रसज्येत । नच तद्युक्तं, नित्यशुद्धत्वादिविरोधात् । यदि परस्मादन्यश्चेतनस्तर्हि नासौ बुद्ध्यादिव्यतिरिक्तः स्यादिति शङ्कते -
पर एवेति ।
न तावत्केवलस्य चेतनस्य मुक्तिबन्धौ, तस्य नित्यमुक्तत्वात् । नापि केवलस्य बुद्ध्यादेस्तौ, तस्य जडत्वात् , किं त्वनाद्यनिर्वाच्याविद्योत्थबुद्ध्याद्युपाधिद्वारा चेतनस्यैव तौ कल्प्येते । नच व्यवस्थानुपपत्तिः, एकस्मिन्नपि चिद्धातौ काल्पनिकभेदाधीनव्यवस्थापनात् , वस्तुतस्तदभावस्येष्टत्वात् । तस्मात्परस्मादन्यस्य चितिमतोऽभावेऽपि वस्तुतः संसारित्वस्य तस्मिन्नप्रसङ्गात्कल्पनया चोपगमान्नैवमित्याह -
न । अविद्येति ।
उक्तेऽर्थे श्रौतावन्वयव्यतिरेकौ दर्शयति -
तथाचेति ।
उपाध्युद्भवाभिभवाभ्यां कर्तृत्वस्योद्भवाभिभवश्रवणादपि तदौपाधिकमित्याह -
तथेति ।
परमानन्दत्वेनाप्तकामत्वं साधयति -
आत्मेति ।
कामयितव्याभावादपि तथेत्याह -
अकाममिति ।
अशेषशोकसंस्पर्शशून्यत्वादपि तथेत्याह -
शोकान्तरमिति ।
उक्तस्य सौषुप्तात्मरूपस्य परमपुरुषार्थतामाह -
एषेति ।
प्रेप्सितमैश्वर्यमतिरिक्तमस्तीत्याशङ्क्याह -
एषाऽस्येति ।
लोकविशेषस्यापेक्षणीयत्वमाशङ्क्योक्तम् -
एष इति ।
परमानन्दस्यातिरिक्तस्यापेक्षक्त्वमाशङ्क्याह -
एषोऽस्येति ।
उक्तेऽर्थे सूत्रमवतारयति -
तदेतदिति ।
तदक्षराणि व्याकरोति -
त्वर्थे चेति ।
चकारोऽवधारणे ।
तुशब्दार्थमेव स्फोरयति -
नैवमिति ।
तत्र दृष्टान्तं व्याचक्षाणो हेतुमाह -
यथेति ।
अन्यैरप्रेर्यत्वं स्वस्थत्वम् । मानसप्रयत्नराहित्यं निर्वृतत्वम् । कायचेष्टाशून्यत्वं निर्व्यापारत्वम् । बुद्ध्यादिसम्पिण्डितैकद्रव्ये सत्येव जागरादौ क्रियादर्शनादसति तस्मिन्केवलात्मनि स्वापादौ तददर्शनाद्विशिष्टस्य क्रियाकारणत्वम् । तत्रापि निमित्तादुपादानस्य कार्यान्वयित्वेनान्तरङ्गत्वादुपादानत्वमन्वयव्यतिरेकाभ्यामुक्तन्यायवद्भ्यां ब्रह्मात्मत्वशास्त्रोपबृंहिताभ्यां लभ्यमिति भावः ।
सम्प्रसादे कर्तृत्वरहितस्यापि जागरादौ कर्तृत्वं चेन्मुक्तावपि तथैव स्यादित्याशङ्क्याह -
तथेति ।
तत्र कारणसद्भावाद्युक्तं कर्तृत्वम् , इह तदभावान्नेेति भावः ।
यथा कर्तृत्वादिशक्तियुक्तस्य तक्ष्णो वास्यादिप्रेरकत्वेन कर्तृत्वमेवमिहापि स्याद्दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्याशङ्क्याह -
तक्षेति ।
इतोऽपि विवक्षितांशेन साम्यं न त्वत्यन्तमित्याह -
न त्विति ।
एवं सिद्धान्तमुपपाद्य पूर्वपक्षबीजमनुभाषते -
यत्त्विति ।
शास्त्रार्थवत्त्वमादौ दूषयति -
तत्रेति ।
‘यत्परं शास्त्रं स एव तदर्थः ‘ इत्युपगमात् , तस्य च कर्त्रपेक्षितोपायतापरत्वात् , कर्तुः स्वरूपपरत्वाभावात्कर्ता लोकसिद्धो न शास्त्रसिद्ध इत्यर्थः ।
प्रसिद्धस्योद्देश्यत्वात्प्रसिद्धेश्च मानत्वात्प्रामाणिकं कर्तृत्वमित्याशङ्क्याह -
नचेति ।
विधिशास्त्रस्य स्वाभाविककर्तृत्वे तात्पर्याभावे फलितमाह -
तस्मादिति ।
श्रुतार्थापत्तिं निरस्याति -
कर्तेति ।
तदुभयनिरासन्यायेन लिङ्गद्वयमपि निरस्तमित्याह -
एतेनेति ।
अनुवादरूपत्वात्पारमार्थिककर्तृत्वासाधकत्वादिति शेषः ।
विहारोपदेशः स्वाभाविकमेव कर्तृत्वं साधयति, करणविरहे श्रुतकर्तृत्वस्य स्वाभाविकत्वध्रौव्यादित्याह -
नन्विति ।
उपादानमपि स्वाभाविकं कर्तृत्वं गमयतीत्याह -
तथेति ।
विशिष्टस्य कर्तृत्वे करणानामपि कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् । नचैवमस्ति, तेषु कर्मकरणविभक्त्योरेव श्रवणात् । तस्मात्केवलस्यैवात्मनः कर्तृतेत्यर्थः ।
परिहरति -
अत्रेति ।
तत्रादौ विहारोपदेशस्य स्वाभाविककर्तृत्वसाधकत्वं प्रत्याह -
न तावदिति ।
तत्रेति स्वप्नोक्तिः । जाग्रदवस्थायामिवेत्यपेरर्थः ।
स्वप्नावस्थायामात्मनो मनसः सम्बन्धे स्मृतिमाह -
तथा चेति
सेवते तेनैव मनसा वासनामयान्विषयान्यदीति योजना ।
स्वप्ने मनःसत्त्वे युक्तिमाह -
कामादयश्चेति ।
तथाच धर्मित्वेन मनोऽपि तत्रास्तीति शेषः ।
श्रुतिस्मृतियुक्तिसिद्धं निगमयति -
तस्मादिति ।
विहारस्य वास्तवत्वमुपेत्योक्तम् । इदानीं तदपि नास्ति कुतस्तद्वशादात्मनो वास्तवकर्तृतेत्याह -
विहारोऽपीति ।
यत्तूपादानादात्मनो वास्तवकर्तृत्वमिति, तत्राह -
तथेति ।
करणसहितस्य कर्तृत्वे करणेऽपि कर्तृविभक्तिः स्यादित्युक्तं प्रत्याह -
भवतीति ।
करणविशिष्टस्योपादानकर्तृत्वमुपेत्योक्तं, तदपि नास्तीत्याह -
अपिचेति ।
करणव्यापारोपरमस्य बुद्धिपूर्वकत्वात्तस्मिन्निष्टे तत्रात्मनः स्वातन्त्र्यमपीष्टमेवेत्याशङ्क्याह -
अबुद्धीति ।
व्यपदेशाच्च क्रियायामित्युक्तमनूद्य प्रत्याह -
यस्त्विति ।
बुद्धौ विज्ञानशब्दस्य प्रसिद्धत्वं ‘विज्ञानेन विज्ञानमादाय’ इत्यादौ द्रष्टव्यम् ।
मनोमयानन्तरं विज्ञानमयोक्तेश्च विज्ञानशब्दस्य बुद्ध्यर्थत्वं संनिधेरित्याह -
मनोनन्तरेति ।
तस्य तदर्थत्वे हेत्वन्तरमाह -
तस्येति ।
श्रद्धावयवत्वेऽपि कुतो विज्ञानमयस्य बुद्ध्यव्यतिरेकस्तत्राह -
श्रद्धादीनां चेति ।
मन्त्रशेषालोचनायामपि विज्ञानशब्दास्य बुद्ध्यर्थतेत्याह -
विज्ञानमिति ।
इन्द्रियाणि देवाः । तयापि कथं बुद्धिसिद्धिः, तत्राह -
ज्येष्ठत्वस्येति ।
‘महद्यक्षं प्रथमजं वेद', 'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ इति बुद्धेरेव हिरण्यगर्भाभेदेन न्येष्ठत्वोक्तेर्वाक्यशेषे बुद्धिसिद्धिरित्यर्थः ।
किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिसाध्यत्वसिद्धेर्यज्ञकर्तृविज्ञानं बुद्धिरेवेत्याह -
स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते तेन चित्तस्य पूर्वोत्तरभावो यज्ञ इति यज्ञकर्तुर्बुद्धित्वसिद्धेस्तत्सामान्यादत्रापि बुद्धिरेव विज्ञानमित्यर्थः ।
‘न चेन्निर्देशविपर्ययः’ इत्युक्तं ‘शक्तिविपर्ययात्’ इत्युक्तेन सह दूषयति -
नचेति ।
विक्लिद्यन्ति तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति कारकान्तराणामपि स्वव्यापारेषु कर्तृत्वस्वीकारादित्याह -
सर्वेति ।
तर्हि बुद्ध्यादीनां कर्तृत्वमेव न करणत्वं, नेत्याह -
उपलब्धीति ।
तत्रापि बुद्धेरेव कर्तृत्वमित्याशङ्क्योक्तम् -
सा चेति ।
तर्हि केवलस्यात्मनस्तां प्रति कर्तृत्वं, नेत्याह -
नचेति ।
न चोपलब्धेर्नित्यत्वे कुतो बुद्धेस्तत्र करणतेति वाच्यम् , विषयोपरक्ततया तस्या जन्यत्वात्तत्र करणत्वसिद्धिरिति भावः ।
यत्तु बुद्धेः कर्तृत्वे कर्तुरहमित्युपलभ्य प्रवृत्तिदृष्टेरुपलब्धौ करणान्तरस्यान्वेष्यत्वाच्च केवलस्यैवात्मनः कर्तृत्वमिति, तत्राह -
अहङ्करेति ।
सत्यमहकारपू र्वकं कर्तृत्वं तथापि न तदुपलब्धुः साक्षिणोऽस्तीत्यत्र हेतुमाह -
अहङ्कारस्येति ।
अहङ्कारवत्तद्विशिष्टस्यैव चेतनस्य कर्तृत्वं साक्षिणोपलभ्यते तस्मान्न केवलस्यात्मनः कर्तृत्वम् । विशिष्टस्य च कर्तृत्वे ज्ञातुरेव कर्तृत्वं कर्तुरेव भोक्तृत्वमित्येतदपि सिध्यतीत्यर्थः ।
उपलब्धौ बुद्धेरकर्तृत्वे बुद्धेरुपलब्धृत्वे करणान्तरं कल्प्यमित्यपि प्रत्युक्तमित्याह -
नचेति ।
बुद्धेरुपलब्धृत्वाभावे सतीति यावत् ।
किञ्च बुद्धेरुपलब्धौ करणत्वमात्मनश्च कर्तृत्वं नेष्टं तदात्मा बुद्ध्या जानातीत्ययुक्तं, नेत्याह -
बुद्धेरिति ।
आत्मस्वरूपोपलब्धौ नित्यत्वात्कर्त्राद्यभावेऽपि तस्यास्तत्तदर्थावच्छेदे बुद्ध्यादीनां करणत्वादात्मनश्च तदुपाधिनाऽहङ्कारपूर्वकं कर्तृत्वादविरुद्धा प्रसिद्धिरित्यर्थः ।
यत्तु समाध्यभावाच्चेति तत्राह -
समाधीति ।
उक्तहेतूनामात्मनि स्वाभाविककर्तृत्वासाधकत्वे सिद्धे विध्यादिश्रुतीनां कल्पितकर्तृत्वोपजीवित्वात् , असङ्गश्रुतीनां च वास्तवासङ्गत्ववादित्वान्मिथोविरोधाभावान्नित्यशुद्धे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -
तस्मादिति ॥ ४० ॥
औपाधिकमपि पूर्वोक्तं कर्तृत्वमीश्वरायत्तमित्याह -
परात्त्विति ।
विषयमनूद्य जीवस्य करणादिपौष्कल्यादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह -
यदिति ।
कर्ममीमांसकपक्षं गृह्णाति -
तत्रेति ।
अत्र च ‘एष ह्येव’ इत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसमाधानेन सर्वनियामके ब्रह्मणि समन्वयसमाधानात्पादादिसङ्गतयः । पूर्वपक्षे दर्शितश्रुतीनां मिथोविरोधादप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन प्रामाण्यात्तत्र तत्सिद्धिः ।
शास्त्रादीश्वरस्यापेक्षणीयतेति शङ्कते -
कस्मादिति ।
कर्तृत्वसामग्र्यामीश्वरोऽन्तर्भूतो न वेति विकल्प्य द्वितीयं निरस्यति -
अपेक्षेति ।
आद्यं प्रत्याह -
अयं हीति ।
कारकान्तराणि तत्तत्कार्यनिर्माणकारणानि करणादीनि तेषां सामग्रीसम्पूर्णता तया सम्पन्नः सहितः सन्निति यावत् ।
एवं कर्तृत्वे सम्भवति नेश्वरापेक्षा केवलव्यतिरेकाभावादित्याह -
तस्येति ।
मा भूदीश्वरस्य शास्त्रवशादपेक्ष्यत्वं, मानान्तरात्तु भविष्यति, तत्राह -
नचेति ।
किञ्चेश्वरो द्वेषपक्षपातरहितः साध्वसाधुनोर्न कर्मणोर्जीवान्प्रवर्तयेत् , तस्य स्वतन्त्रस्य कारुणिकत्वात्कर्मणि साधुन्येव प्रवर्तकत्वात् । अतो विचित्रसर्गासिद्धिरित्याह -
क्लेशेति ।
उक्तोत्तरत्वादनवकाशं चोद्यमिति शङ्कते -
नन्विति ।
तत्रेश्वरस्य जगत्कारणत्वप्रकृतदोषाभावश्चिन्तितः । अत्र तु जीवस्य कर्तृत्वेऽपीश्वरस्य प्रयोजकत्वकृतदोषाभावं सापेक्षत्वमाक्षिप्य चिन्तयतीत्यर्थः ।
भेदमुपेत्याह -
सत्यमिति ।
ईश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं ततस्तदधीनकर्मापेक्षमीश्वरस्य कारयितृत्वमिति चक्रकादिदोषप्रसङ्गान्नेश्वरस्य सापेक्षत्वादित्यर्थः ।
ईश्वरायत्ते जीवस्य कर्तृत्वे पूर्वपूर्वकर्मवासनासापेक्षमुत्तरोत्तरकर्तृत्वमित्यपि न सिध्यतीत्याह -
अकृतेति ।
जीवस्येश्वरापेक्षाभावे फलितमाह -
तस्मादिति ।
स्वतश्चेदस्य कर्तृत्वं विध्यादिश्रुतिसिद्धं तदा ‘एष ह्येव’ इत्यादिश्रुतिविरोधे समन्वयासिद्धिरित्युपसंहर्तुमितिशब्दः ।
सिद्धान्तयति -
एतामिति ।
प्रतिज्ञां विवृणोति -
अविद्येति ।
जीवस्येश्वरादेव संसारस्य मोक्षस्य च सिद्धिर्भवितुमर्हतीति सम्बन्धः । तस्य परस्मदत्यन्तान्यत्वं निरस्यति -
अविद्येति ।
सैव तिमिरं विद्याप्रकाशमन्तरेणानिराकरणात्तेनान्धः स्वरूपज्ञानहीनश्चिदात्मा तस्यावच्छिन्नस्वभावस्य देहादिसमुदायविषयाविवेकदर्शनं विभ्रमस्तच्छीलस्य विक्षिप्तस्य जीवस्य सतोऽविद्यादशायां संसारस्य पृथक्त्वेन कल्पितादीश्वरात्सिद्धिरिति यावत् ।
तस्य वास्तवपररूपमाह -
परस्मादिति ।
सर्वविषयज्ञानाभावे कथं कारयितृत्वं, तत्राह -
कर्मेति ।
तथापि सर्वत्र संनिध्यभावे कारयितृत्वासिद्धिः, तत्राह -
सर्वेति ।
तथापि तज्ज्ञानाभावे तदसिद्धिः, तत्राह -
साक्षिण इति ।
तदुपपादयति -
चेतयितुरिति ।
ईश्वरस्य कारयितृत्वे स्वगतव्यापारवत्त्वमाशङ्क्योक्तम् -
तदिति ।
संसारस्यानर्थत्वेन हेयत्वार्थं विशिनष्टि -
कर्तृत्वेति ।
कथं बन्धहेतुरीश्वरस्तद्विरुद्धमोक्षहेतुः स्यात् , तत्राह -
तदनुग्रहेति ।
जीवस्य दोषप्रयुक्तत्वात्कारकान्तरसामग्रीमत्त्वादीश्वरस्य कृष्यादिषु कारणत्वाप्रसिद्धेश्च न तदपेक्षं कर्तृत्वमित्याह -
कुत इति ।
सौत्रं हेतुमवतार्य व्याचष्टे -
तदिति ।
केवलव्यतिरेकाभावेऽपि श्रुतेरीश्वरस्य सुखादौ धर्मादेरिव कारणत्वं केवलव्यतिरेकस्य दृष्टकारणक्लृप्तिविषयत्वादागमस्यादृष्टकारणकल्पकत्वेन व्यवस्थानादिति भावः ।
तामेव श्रुतिमाह -
तथाहीति ॥ ४१ ॥
चोद्यान्तरमनुद्रवति -
नन्विति ।
उत्तरत्वेन सूत्रमवतारयति -
नेतीति ।
तदक्षराणि व्याकरोति -
तुशब्द इति ।
ईश्वरस्य प्रवर्त्यादृष्टापेक्षया प्रवर्तकत्वे फलितमाह -
ततश्चेति ।
दोषाणामप्रसङ्गमेव प्रकटयति -
जीवेति ।
धर्माधर्माभ्यामेव फलवैषम्यासिद्धेरलमीश्वरेणेत्याशङ्क्य पर्जन्यवदित्युक्तम् । तद्विवृणोति -
यथेति ।
अतिदीर्घा वल्ल्यो गुच्छाः, ह्रस्वा गुल्मा इति भेदः ।
बीजेभ्यो जायमानव्रीह्यादीनां कृतं पर्जन्येनेत्याशङ्क्याह -
न हीति ।
कृतं तर्हि बीजैरित्याशङ्क्याह -
नापीति ।
दार्ष्टान्तिकं विवृणोति -
एवमिति ।
यदि जीवेन कृतः स्वेच्छया कश्चित्प्रयत्नस्तदा तदपेक्षः सन्नीश्वरो विषमं कर्तृत्वं कुर्यात् । न तु तदस्ति, चक्रकापत्तेरिति शङ्कते -
नन्विति ।
किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वमेव नेत्यापाद्यते किं वा तस्य कर्तृत्वे कारयितृत्वमीश्वरस्य नेति, तत्राद्यं प्रत्याह –
नेति ।
न हि गुर्वधीनो माणवको नाध्ययनस्य कर्तेति भावः ।
द्वितीयं दूषयति -
कुर्वन्तं हीति ।
अध्ययनशक्तं प्रत्येवाध्यापकत्वोपलम्भात्क्रियाशक्तिमन्तं जीवं प्रत्यपि कारयितृत्वमीश्वरस्य युक्तमिति भावः ।
चक्रकापत्तिं निरस्याति -
अपिचेति ।
अनवद्यं जीवस्य कर्तृत्वं तत्कृतधर्माधर्मापेक्षया च कारयितृत्वमीश्वरस्येति शेषः ।
तस्य सापेक्षत्वे मानं पृच्छति -
कथमिति ।
तत्र मानोक्तिपरं सूत्रावयवमादत्ते -
विहितेति ।
ईश्वरस्य सापेक्षत्वे विहितस्य निषिद्धस्य चावैयर्थ्यम् , तस्य चेन्नैरपेक्ष्यं तदा तयोरानार्थक्यम् । अतस्तयोरर्थवत्त्वानुपपत्तिरीश्वरस्य सापेक्षत्वसाधिकेत्याह -
एवमिति ।
किमितीश्वरस्य नैरपेक्ष्ये विहितादिवैयर्थ्यं, तत्राह -
ईश्वरइति ।
तयोः स्थाने स एव नियुज्येत यत्ताभ्यां कार्यं तदसावेव कुर्यादिति तयोरानर्थक्यमित्यर्थः ।
जीवं प्रति प्रवर्तकत्वेन निवर्तकत्वेन च तदर्थवत्त्वमाशङ्क्याह -
अत्यन्तेति ।
सर्वात्मना जीवस्येश्वराधीनत्वात्तत्प्रेरितस्य प्रवृत्तिनिवृत्तिभाक्त्वात्कृतं विधिनिषेधाभ्यामित्यर्थः ।
आदिशब्दार्थमाह -
तथेति ।
अत्यन्तं स्वातन्त्र्यादेवं कुर्वन्नपीश्वरो न पर्यनुयोगमर्हतीत्याशङ्क्याह -
ततश्चेति ।
ईश्वरस्य स्वातन्त्र्येण फलहेतुत्वे समीहितासमीहितहेतुभेदविधायि शास्रममानं स्यादित्यर्थः ।
आदिशब्दगृहीतं दोषान्तरमाह -
ईश्वरस्येति ।
पुरुषकारस्य ।
इष्टानिष्टाप्तिहानानुकूलस्य यत्नस्येति यावत् । पुरुषकारवैयर्थ्यं दृष्टान्तयितुं तथेत्युक्तम् । तेषां वैयर्थ्यमिति सम्बन्धः । पूर्वोक्तदोषोऽकृताभ्यागमादिः । तदेवम् ‘एष हि’ इत्यादिश्रुतीनां विध्यादिश्रुतिभिरविरोधात्परस्मिन्नशेषनियन्तरि समन्वयसिद्धिरिति ॥ ४२ ॥
जीवात्मन्यारोपितं कर्तृत्वमीश्वरायत्तमित्युक्तम् । इदानीं निर्धारितयोग्यत्वस्य तस्य ब्रह्मैक्यं साधयति -
अंश इति ।
विषयं वक्तुं वृत्तं कीर्तयति -
जीवेति ।
तस्य सम्बन्धापेक्षकत्वमाह -
स चेति ।
सिद्धान्तानुसारिणमपि दृष्टान्तमाह -
यथा वेति ।
उपकार्योपकारकत्वाक्षिप्तं जीवेश्वरसम्बन्धं विषयीकृत्योभयथादृष्टिं हेतुं कृत्वा विचारप्रयोजकं सन्देहमाह -
ततश्चेति ।
नियामकाभावेन पूर्वपक्षाभासं सङ्गृह्णाति -
अनियम इति ।
जीवेश्वरयोरनंशत्वेन प्रदेशवृत्तेः संयोगस्यानुपपत्तेः, समवायस्य च निरस्तत्वात् , कार्यकारणत्वादिहीनतया तादात्म्यस्यापि दुःसम्पादत्वात् , निरंशे चांशासम्भवात् , ‘पादोऽस्य’ इत्यादिश्रुतेरौपचारिकत्वात् , भृत्यस्वामिसम्बन्धस्य च प्रसिद्धत्वात् , अनियमस्य च जघन्यत्वान्नियमेन भृत्यस्वामिलक्षणः सम्बन्धस्तयोरित्याह -
अथवेति ।
अत्र च जीवब्रह्मभेदाभेदश्रुतिविरोधनिरासेनैकरसे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे भेदाभेदश्रुतीनां विरोधादप्रामाण्यादुक्तसमन्वयासिद्धिः । सिद्धान्ते तासामविरोधात्प्रामाण्यात्तत्सिद्धिः ।
पूर्वपक्षमनूद्य प्रतिज्ञामवतार्य व्याकरोति -
अत इति ।
अग्नेः सांशत्वादंशांशित्वेऽपि प्रकृते न सांशतेति प्रतिज्ञासिद्धिमाशङ्क्याह -
अंश इति ।
सूत्रसामर्थ्यान्मुख्यमेवांशत्वं जीवस्य किं न स्यात् , तत्राह -
नहीति ।
चोद्यद्वारा सूत्रावयवमादत्ते -
कस्मादिति ।
व्यतिरेकेण व्याकरोति -
स इति ।
आत्यन्तिकाभेदे भेदोक्त्यसिद्धिश्चेत्तदर्थमात्यन्तिको भेदः स्यादिति शङ्कते -
ननु चेति ।
कथञ्चिद्भेदेऽपि यस्य सिद्धिस्तस्यातिशयेन सिद्धिरात्यन्तिके भेदे स्यादित्युक्तम् -
सुतरामिति ।
सूत्रावयवेनोत्तरमाह -
अत इति ।
तस्यार्थमाह -
नचेति ।
अभेदव्यपदेशं विशदयन्दाशकितवादित्वमित्यादि व्याचष्टे -
तथाहीति ।
दाशादिपदार्थोक्तिपूर्वकमुद्देश्यविधेयत्वं प्रकटयन्हीनजन्तूदाहरणतात्पर्यमाह -
दाशा इति ।
उक्तार्थस्फुटीकरणार्थमुदाहरणान्तरमाह -
तथेति ।
वञ्चसि गच्छसि ।
सूत्रात्मैवात्र सर्वात्मत्वेन स्तूयते न परमात्मेत्याशङ्क्य श्रुत्यन्तरमाह -
सर्वाणीति ।
यदास्ते यो नामरूपे निर्मायाभिवदनादि कुर्वन्वर्तते तं विद्वानिहैवामृतो भवतीति सम्बन्धः ।
न केवलं विधिद्वारैवाभेदो बोध्यते किन्तु निषेधद्वाराऽपीत्याह -
नेति ।
न केवलं श्रुतितोऽभेदो न्यायतश्चेत्याह -
चैतन्यं चेति ।
जीवो नात्यन्तं ब्रह्मणो भिद्यते, चिद्रूपत्वात् , ब्रह्मवदेवेत्यर्थः ।
व्यपदेशाभ्यामुपपत्तेश्च फलितमाह -
अत इति ॥ ४३ ॥
अंशत्वसिद्धौ हेत्वन्तरत्वेनान्तरसूत्रमवतारयति -
कुतश्चेति ।
तद्व्याचष्टे -
मन्त्रेति ।
अस्य सहस्रशीर्ष्णः पुरुषस्य तावान्महिमा विभूतिनं स्वरूपं यावानेष प्रपञ्चस्ततस्तस्मात्प्रपञ्चाज्ज्यायान्महत्तर एवायं प्रकृतः पुरुषः । आद्यपादार्थं विवृणोति -
पादोऽस्येति ।
द्वितीयपादार्थं प्रपञ्चयति -
त्रिपादिति ।
भूतशब्देन रूढियोगाभ्यां महाभूतानां जनिमन्मात्रस्य ज्ञाने कुतो जीवोक्तिरित्याशङ्क्याह -
अत्रेति ।
वृद्धव्यवहाराभावे कथं भूतशब्दस्योक्तार्थततेत्याशङ्क्य वैदिकव्यवहारं दर्शयति -
अहिंसन्निति ।
तीर्थानि शास्त्रोक्तानि कर्माणि तेभ्योऽन्यत्र सर्वाणि भूतान्यहिसन्वर्तेतेत्यत्र भूतशब्दो जीवप्रधानेषु स्थावरजङ्गमेषु प्रयुज्यते तत्र प्राप्तहिंसानिषेधस्य फलवत्त्वात् । अतो युक्तं प्रकृतेऽपि भूतशब्दस्य जीवविषयत्वमित्यर्थः ।
तथापि भूतानां पादत्वमेवोच्यते न त्वंशत्वमित्याशङ्क्याह -
अंश इति ।
मान्त्रवर्णिकमर्थमुपसंहरति -
तस्मादिति ॥ ४४ ॥
न केवलं श्रुतेरेव जीवस्येश्वरांशत्वं किन्तु स्मृतेरपीति सूत्रान्तरमुत्थापयति -
कुतश्चेति ।
तद्व्याकरोति -
ईश्वरेति ।
स्मृतिसिद्धमर्यं निगमयति -
तस्मादिति ।
जीवेश्वरयोरीशित्रीशितव्यभावात्तस्य स्वामिभृत्यादिष्वेव प्रसिद्धत्वात्तयोः स्वामिभृत्यभावः सम्बन्धो नांशांशित्वं लोकप्रसिद्धिविरोधादित्याशङ्क्योक्तमनुवदति -
यत्त्विति ।
यववराहाधिकरणन्यायेन लोकप्रसिद्धिः शास्त्रीयप्रसिद्ध्या बाध्येत्याह -
यद्यपीति ।
जीवेश्वरयोरौपाधिकत्वाविशेषे कस्मादीशित्रीशितव्यभावो विपरीतो न स्यादित्याशङ्क्याह -
निरतिशयेति ।
एकस्मिन्नेव पूर्णे चिदात्मन्यनाद्यनिर्वाच्याविद्याकल्पितो जीवेश्वरजगद्भेदः । तत्र कल्पितोपाध्युत्कर्षनिकर्षवशादीशित्रीशितव्यव्यवस्था । वस्तुतस्तु सर्वकल्पनातीतं चिदेकतानमद्वितीयं तत्त्वमिति भावः ॥ ४५ ॥
उत्तरसूत्रव्यावर्त्यां शङ्कामाह -
अत्रेति ।
जीवेश्वरयोरंशांशित्वं सप्तम्यर्थः ।
दुःखित्वं स्यात् ।
ततश्चानीश्वरत्वमिति शेषः ।
अंशगतेन दुःखेनांशिनो दुःखित्वं दृष्टान्तेन स्पष्टयति -
यथेति ।
ईश्वरस्य दुःखित्वे दोषान्तरमाह -
ततश्चेति ।
ब्रह्मप्राप्तानां महत्तरे दुःखे प्राप्ते मोक्षस्यापुरुषार्थतेत्याह -
अत इति ।
तस्यापुमर्थत्वे सम्यग्धीसाधनविधायिशास्त्रवैयर्थ्यमित्याह -
इति सम्यगिति ।
सूत्रमवतारयति -
अत्रेति ।
नैवं पर इति भागं विभजते -
यथेति ।
प्रतिज्ञाते विभागे हेतुमाह -
जीवो हीति ।
जीवस्य दुःखित्वे तदंशित्वादीश्वर स्यापि दुःखित्वमित्याशङ्क्य तस्यापि वस्तुतोऽदुःखित्वान्मैवमित्याह -
जीवस्येति ।
न चानिर्वाच्यमेव दुःखं, ब्रह्मण्यपीति वाच्यं, तदुपनायकदृष्ट्यभावात् , कल्पितस्य च दृष्टिमात्रदेहत्वात् , जीवद्वारा च ब्रह्मणि तदुपगमात् । नचैवं ब्रह्मप्राप्तानां महत्तरदुःखप्राप्तिरज्ञानतज्जध्वस्तेरेव तत्प्राप्तित्वादिति भावः ।
मिथ्याभिमानकृतं दुःखमित्ययुक्तं, पुत्रादौ विवेकबुद्ध्यात्माभिमानाभावेऽपि तद्गतदुःखस्यात्मन्यारोपादित्याशङ्क्याह -
यथा चेति ।
अनुभवितारं विशिंषन्भ्रान्तिमभिनयति -
अहमिति ।
अन्वयेनोक्तं निगमयति -
ततश्चेति ।
तमेवार्थं व्यतिरेकेण स्फोरयति -
व्यतिरेकेति ।
तदेव विवृणोति -
तथा हीति ।
उक्तं व्यतिरेकमुपजीव्य सम्यग्दर्शनानर्थक्यप्रसङ्गं प्रत्यादिशति -
अतश्चेति ।
लौकिकस्य शास्त्रोत्थतत्त्वधीशून्यस्येत्यर्थः ।
सम्यग्दर्शनं विवेकज्ञानमात्रम् ।
विषयशून्यात् ।
अविषयादिति यावत् । तस्य सम्यग्दर्शनं शास्त्रीयं तत्त्वसाक्षात्करणं तस्यार्थवत्त्वमिति किमु वक्तव्यमिति योजना ।
कैमुतिकन्यायफलमाह -
तस्मादिति ॥ ४५ ॥
ईश्वरः स्वांशगतैर्दुःखैर्दुःखी स्यात् , अंशित्वात् देवदत्तवदित्यत्र तन्निमित्तभ्रमवत्त्वोपाधेरप्रयोजको हेतुरित्युक्तम् । इदानीं तात्त्विकं प्रातीतिकं वा दुःखित्वमीश्वरे साध्यमिति विकल्प्याद्ये यदंशाश्रितं तदंशिनि वस्तुतः स्यादित्यत्र व्यभिचारमाह -
प्रकाशेति ।
प्रकाशदृष्टान्तं व्याचष्टे -
यथेति ।
आत्मन्युपाधितो दुःखादिप्रतीतिरेव, वस्तुतस्तु न प्राप्तिरित्यत्र दृष्टान्तमुक्त्वा लोकद्वयसंसारस्यापि तस्मिन्प्रतीतिमात्रं न वस्तुतेत्यत्र दृष्टान्तमाह -
यथा चेति ।
क्रियामात्रस्यात्मनि वस्तुतो नास्ति प्राप्तिरित्यत्रोदाहरणम् -
यथाचेति ।
दृष्टान्तत्रयगतमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
वास्तवे दुःखित्वे साध्ये व्यभिचारमुक्त्वा दृष्टान्तस्य साध्यवैकल्यमाह -
जीवस्येति ।
प्रतीतिके दुःखित्वे साध्ये जीवद्वारा परस्मिन्नपि तत्प्रतीतेरिष्टत्वेन सिद्धसाध्यतां मत्वोभयत्रापि नास्ति वस्तुतो दुःखित्वमागमविरोधादित्याह -
तथाचेति ।
परकीयानुमाननिरासफलमुपसंहरति -
तस्मादिति ॥ ४६ ॥
पारनुमाने श्रुतिस्मृतिविरुद्धतया कालात्ययापदेशं दर्शयति -
स्मरन्तीति ।
तत्र स्मृतिविरोधं विभजते -
स्मरन्ति चेत्यादिना ।
कासौ स्मृतिस्तामाह -
तत्रेति ।
निर्धारणार्थ सप्तमी । फलैश्चापीति चकारात्कर्मभिरपीत्यर्थः । कर्मात्मा कर्माश्रयो जीवः । पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवो मनो बुद्धिश्चेति सप्तदशसङ्ख्यावच्छिन्नः समूहः सप्तदशको राशिस्तेनेति यावत् ।
सूत्रे स्मृतिविरोध उद्भाव्यते, श्रुतिविरोधस्तु न भातीत्याशङ्क्याह -
चशब्दादिति ।
यथादित्यः सर्वप्रकाशको न प्रकाश्यदोषैः स्पृश्यते तथेति यावत् ॥ ४७ ॥
अंशांशित्वमुपेत्यांशित्वहेतोरप्रयोजकत्वाद्युक्तम् । इदानीमंश इत्युक्तमाक्षिप्य समाधातुं स्वरूपैक्यमादायाक्षिपति -
अत्रेति ।
कथमित्यस्मादुपरिष्टात्तर्हीति सम्बध्यते । अनुज्ञादिव्यवस्थानुपपत्त्या स्वरूपभेदः स्यादित्यर्थः ।
आक्षेप्तुर्विवक्षितमज्ञात्वा शङ्कते -
नन्विति ।
अंशांशित्वे फलितमाह -
तदिति ।
तेषामंशानां जीवानामंशिनः परस्मान्मिथश्च भेदादिति यावत् ।
अनुज्ञादेरेवं सिद्धौ चोद्यासिद्धिरनुज्ञादिविषये फलतीत्याह -
किमिति ।
आक्षेप्ता प्रत्याह -
उच्यत इति ।
जीवस्येश्वरांशत्वमाश्रित्यानुज्ञादेः सिद्धिरुक्ता, तां निरस्यति -
नैतदिति ।
अभेदवादिनीः श्रुतीरनुक्रामति -
तदित्यादिना ।
व्यपदेशद्वयमादायोक्तं सिद्धान्ती स्मारयति -
नन्विति ।
उभयदृष्ट्यांऽशत्वमुभयोः प्रतिपाद्यत्वे स्यात् । न च तदस्तीत्याह -
स्यादिति ।
भेदाभेदयोरभेदं निर्धारयितुमत्रेत्युक्तम् । तस्यैव प्रतिपाद्यत्वे हेतुमाह -
ब्रह्मेति ।
भेदोऽपि प्रतिपाद्यतामभेदवदित्याशङ्क्याह -
स्वभावेति ।
अविद्या स्वभावः ।
इतश्चाभेदस्यैव प्रतिपाद्यतेत्याह -
नचेति ।
तस्यैव प्रतिपाद्यत्वे फलितमाह -
तस्मादिति ।
स्मरूपैक्ये स्थिते पूर्वोक्तानुपपत्तितादवस्थ्यमित्याह -
इत्यत इति ।
अनुज्ञासिद्धये स्वरूपभेदे वाच्ये सिद्धान्ती सूत्रेणोत्तरमाह -
तामिति ॥ ४८ ॥
वैदिकानुज्ञापरिहारौ ज्ञानसौकर्यार्थमुदाहरति -
ऋताविति ।
लौकिकावपि तौ दर्शयति -
एवमिति ।
लौकिकवैदिकानुज्ञादेरुक्तरूपत्वेऽपि कथमैकात्म्ये तयोः सिद्धिरित्याशङ्क्याह -
एवमिति ।
आत्मनो देहेन सम्बन्धेऽपि कथमुभयोः सिद्धिः, तत्राह -
देहैरिति ।
आत्मनोऽसङ्गस्य न तैः सङ्गतिरित्याह -
क इति ।
असङ्गत्वेऽपि तस्य देहादिसम्बन्धं दर्शयति -
देहादिरिति ।
उक्ते सम्बन्धे मानमाह -
दृष्टा चेति ।
तस्या अविद्यात्मकत्वेन निवृत्तत्वान्नानुज्ञादिप्रयोजकतेत्याशङ्क्य सम्यग्ज्ञानात्प्रागूर्ध्वं वा तस्या निवृत्तिरिति विकल्प्याद्यं दूषयति -
नहीति ।
अविद्यात्मकत्वात्तस्याः सम्यग्ज्ञानातिरिक्तविरोध्यभावादित्यर्थः ।
निवारकान्तराभावं तुशब्देन परामृश्य सर्वत्रासङ्कुचद्वृत्तित्वमुक्तसम्बन्धस्याह -
प्राक्त्विति ।
अज्ञानावस्थायां देहादियोगस्यानिवृत्तत्वे फलितमाह -
तदेवमिति ।
विशेषो भेदः ।
द्वितीयमालम्बते -
सम्यगिति ।
सम्यग्दर्शनं किमात्मैक्यधीः किं वा देहातिरिक्तधीः । नाद्यः, तद्वतो देहादिसम्बन्धनिवृत्तेरनुज्ञाद्यानर्थक्यस्येष्टत्वादित्याह -
नेति ।
अनुपपत्तिमेव वक्तुं सामान्यन्यायमाह -
हेयेति ।
तथापि कथमात्मैक्यदर्शिनो नियोज्यत्वासिद्धिः, तत्राह -
आत्मनस्त्विति ।
आत्मानतिरिक्ते विषये नियोज्यत्वमाशङ्क्याहेयोपादेयत्वादात्मनो नैवमित्याह -
नचेति ।