अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

परि­च्छि­न्न­स्यापि स्वभा­व­व­शा­द्व्यापि कार्यं स्यादि­त्य­न्य­थो­प­पत्तिं दर्श­य­न्दृ­ष्टान्तं व्याचष्टे -
यथेति ।

दार्ष्टा­न्ति­क­माह -
एवमिति ।

देह­व्या­प­क­त्व­मा­त्म­स­म्ब­न्धस्य सर्वा­ङ्गी­ण­शै­त्य­ज्ञाने शक्त­त्वा­द्युक्तं प्रादे­शि­क­स्या­त्मनो व्यापि कार्य­मि­त्यु­क्तेऽर्थे युक्तिं ब्रुवन्नवशिष्टं सूत्रभागं व्याचष्टे -
त्वगिति ।

प्रादे­शि­क­स्या­त्मनः सम्बन्धः समस्तां त्वचं कथं व्याप्नुयात् , तत्राह -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वग­व­य­वि­नि­ष्ठ­त्वा­द­व­य­वि­न­श्चै­क­त्वा­त्त­द्व्या­प्ति­रि­त्यर्थः ।

तथापि कथं त्वचः सर्वा­ङ्गी­ण­शै­त्य­स­ङ्गतिः, तत्राह -
त्वक्चेति ।
अर्था­प­त्ते­र­न्य­थाऽ­प्यु­प­पत्तिं दृष्टा­न्ते­नो­क्ता­मु­प­सं­ह­र्तु­मि­ति­शब्दः ॥ २३ ॥

वैषम्यं शङ्कित्वा प्रत्याह -
अवस्थितीति ।

तत्र शङ्कां विवृणोति -
अत्रेति ।
जीवस्याणोरपि देहव्यापिकार्यं स्यादिति दृष्टा­न्ते­नोक्ते सतीति यावत् ।

अतुल्यत्वमेव व्यतिरेकेण साधयति -
सिद्धे हीति ।
न चात्मनो देहैकदेशस्थत्वं प्रत्य­क्ष­मि­त्यु­क्त­दृ­ष्टा­न्ता­सि­द्धि­रिति शेषः ।

दृष्टान्ते विशेषं दर्शयति -
प्रत्यक्षं त्विति ।

अव­स्थि­ति­वि­शे­ष­मेव विशदयति -
एकेति ।

कार्यमपि तर्हि तथैव स्यादि­त्या­श­ङ्क्यो­क्तम् -
सकलेति ।

आत्मन्यपि तुल्य­मे­त­दि­त्या­श­ङ्क्याह -
आत्मन इति ।
प्रत्य­क्ष­तोऽ­ल्पी­य­स­श्च­न्द­न­बि­न्दो­स्त्व­ग्व्याप्त्या व्यापि कार्यं युक्तम् । यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं कार्यं तस्य व्यापि­त्व­मौ­त्स­र्गिकं तु हित्वा नेयं कल्पना युक्तेत्यर्थः ।

आत्मनो देहै­क­दे­श­स्थ­त्व­म­प्र­त्य­क्ष­मपि चन्द­न­बि­न्दु­दृ­ष्टा­न्ते­ना­णु­त्व­हे­तु­ना­नु­मे­य­मिति शङ्कते -
अनुमेयमिति ।

सन्दि­ग्धा­स­न्दि­ग्ध­त्वेन सन्दिग्धं दूषयति -
नेत्यादिना ।

परिहारमवतार्य व्याकरोति -
अत्रेति ।

प्रत्य­क्षा­नु­मा­न­यो­र­भा­वा­दा­त्मनो देहैकदेशस्थत्वं निरस्तमिति शङ्कते -
कथमिति ।

श्रुतिमाश्रित्य सूत्रावयवेन समाधत्ते -
हृदीति ।

‘यो वेद निहितं गुहायाम्’ इत्या­द्यु­प­दे­श­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । सिद्धे तुल्यत्वे फलितमाह -
तस्मादिति ॥ २४ ॥

अणो­रा­त्म­न­श्चै­तन्यं स्वभा­व­तोऽ­णु­प­रि­माणं देह­तु­ल्यो­प­ल­ब्ध्या­का­र­प­रि­ण­त­मि­त्युक्त्वा पक्षान्तरमाह -
गुणाद्वेति ।

प्रतिज्ञां व्याचष्टे -
चैतन्येति ।

जीवस्याणुत्वे तद्गुणस्य चैतन्यस्य कुतो देहव्याप्तिः, तत्राह -
यथेति ।

सूत्र­स्या­प­रि­तुष्ट्या पक्षा­न्त­रा­र्थ­त्वा­द­प­रि­तु­ष्टि­हे­तु­माह -
स्यादिति ।

जीवस्यापि स्वावयवद्वारा सर्व­दे­ह­वि­प्र­स­र्प­ण­मा­शङ्क्य तद­व­य­वा­ना­म­चे­त­नत्वे तद­यो­गा­च्चै­त­न्येऽपि प्रत्येकं चैतन्ये युग­प­दे­क­स्या­ने­क­भो­क्त्र­धि­ष्ठि­तस्य देह­स्या­व्य­व­स्था­पा­ता­न्मि­लि­त­चै­तन्ये मेल­न­स्या­व­य­वा­न­ति­रे­का­त्तेषां वा चैतन्यान्न जीवस्य स्वावयवैर्देहे विप्रसर्पणमिति मत्वाह -
न त्विति ॥ २५ ॥

सूत्रा­न्त­र­म­व­ता­र­यि­तु­मा­क्षि­पति -
कथमिति ।

चैतन्यं गुणत्वान्न गुणि­नोऽ­न्य­त्रे­त्यत्र दृष्टान्तमाह -
नहीति ।

यथा दीपस्य गुणोऽपि प्रभा तद­ति­रे­के­णा­शे­ष­म­प­व­र­को­दरं व्याप्नोति तथा चैतन्यमात्मनो गुणोऽपि तमतिक्रम्य सर्वं देहं व्याप्नुयादतो व्यभि­चा­रा­न्ना­नु­मेति शङ्कते -
प्रदीपेति ।

प्रभाया गुण­त्वा­भा­वा­न्नै­व­मि­त्याह -
नेति ।

द्वयोरपि तेजोद्रव्यत्वे कथमवान्तरभेदः, तत्राह -
निबिडेति ।

गुणत्वस्य गन्धे व्यभिचारमाह -
अत इति ।

दृष्टान्तं व्याचष्टे -
यथेति ।

तत्र हेतुमाह -
अप्राप्तेष्विति ।

सूत्रावयवं व्याकु­र्व­न्दा­र्ष्टा­न्ति­क­माह -
एवमिति ।

परानुमाने फलितं दोषमाह -
अतश्चेति ।

अतःशब्दोक्तं हेतुं स्पष्टयति -
गुणस्येति ।

उक्त­हे­त्व­सिद्धिं ब्रुव­न्व्य­भि­चारं वारयति -
गन्धस्येति ।

किमिदमनुमेयं किं वाऽघ्यक्षमिति विकल्प्याद्यं प्रत्याह -
नेति ।

विश्लि­ष्टा­व­य­वा­ना­म­ल्प­त्वा­द­प­क्षयो न भाती­त्या­श­ङ्क्याह -
अक्षीयमाणमिति ।
तथा­त्वे­ना­नु­भू­य­मा­न­मिति यावत् । विम­त­म­वि­यु­क्ता­व­यवं, पूर्वावस्थातो गुरु­त्वा­द्य­प­च­य­ही­न­त्वात् , संमतवदित्यर्थः ।

हेतो­र­न्य­था­सि­द्धि­रिति शङ्कते -
स्यादिति ।
विश्ल­ष्टा­ना­म­ल्प­त्वा­दि­त्यु­प­ल­क्ष­णम् । द्रव्या­न्त­रा­णू­ना­म­नु­प्र­वि­ष्ट­त्वा­दि­त्यपि द्रष्टव्यम् । विश्लो­षा­नु­प्र­वे­शाभ्यां सन्नपि विशेषो गुरु­त्वा­द्य­प­च­य­रूपः सौक्ष्म्या­न्नो­प­ल­क्ष्यत इत्यर्थः ।

नासिकापुटं प्रति गतानां गन्ध­व­द­व­य­वा­ना­म­ध्य­क्षे­णा­ग्र­हा­दा­ग­ति­र­यु­क्ते­त्या­श­ङ्क्या­यो­ग्य­त्वा­द­ग्र­ह­ण­मि­त्याह -
सूक्ष्मा हीति ।

परमाणुशब्देन परकीया वा पर­मा­ण­व­स्त्र­स­रे­णवो वा गृह्येरन् । आद्ये तद्ग­त­रू­पा­दि­व­द्ग­न्ध­स्यापि नोपलब्धिः स्यादित्याह -
नेति ।

द्वितीयं प्रत्याह -
स्फुटेति ।
त्रस­रे­णु­ग्र­हेऽपि नागकेसरादिष्वपि दूरेषु स्फुट­ग­न्ध­धी­र्भ­वति न भवेन्नासिकापुटं प्रविष्टानां गन्धवतां त्रस­रे­णु­मा­त्र­त्वा­दि­त्यर्थः ।

गन्धस्याश्रयेण सह गतिरनुमेयेति प्रतिक्षिप्य प्रत्यक्षपक्षं प्रत्याह -
नचेति ।

कथं तर्हि लौकिकी धीः, तत्राह -
गन्ध इति ।

गन्धो नाश्रयादन्यत्र वर्तते, गुणत्वात् , रूपा­दि­व­दि­त्य­नु­मा­ना­न्नेदं व्यभि­चा­र­स्थ­ल­मिति शङ्कते -
रूपेति ।

आश्रयेण सहैव गतिर्वा तद्गत्यभावे गन्धस्यापि तद्राहित्यं वा साध्यम् । आद्ये पूर्वोक्तदोषं मत्वा द्वितीयं प्रत्याह -
नेति ।

प्रत्य­क्ष­वि­रो­धा­द­नु­मा­ना­नु­त्थाने फलितमाह -
तस्मादिति ।

तद्विरोधेऽपि तदु­त्थि­ता­व­ति­प्र­सक्तिं वक्ति -
नहीति ॥ २६ ॥

गन्धस्य गुणिनं विनापि वृत्ते­श्चै­त­न्य­स्यापि तद्यो­गा­द­णु­त्वेऽपि देह­व्या­पि­का­र्य­सि­द्धि­रि­त्यु­क्तम् । इदानीं चैत­न्ये­नै­वा­त्मनो देह­व्या­प्ति­रि­त्यत्र श्रुतिमाह -
तथाचेति ।

सूत्रं व्याचष्टे -
हृदयेति ॥ २७ ॥

चैत­न्य­गु­णे­ना­त्मनो देहव्याप्तौ हेत्वन्तरमाह -
पृथगिति ।

सूत्रं व्याचष्टे -
प्रज्ञयेति ।

विधान्तरेण सूत्रार्थमाह -
तदिति ।

एतमेवाभिप्रायं चैतन्येनात्मनो देह­व्या­पि­त्व­वि­षयं बाघकाभावं साधकभावं च परामृश्य पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ॥ २८ ॥

तदनुवादेन सिद्धान्तं सूत्रयति -
एवमिति ।

तदक्षरार्थमाह -
तुशब्द इति ।

पक्षमनुभाष्य तद्व्यावर्तनं प्रतिजानीते -
नैतदिति ।

तत्र हेत्वर्थमुक्तं स्मारयति -
उत्पत्तीति ।
कार्य­का­र­ण­त्वा­नु­प­पत्तौ सत्यां सामा­ना­धि­क­र­ण्य­श्रु­ते­श्चेति तृतीयहेत्वर्थः ।

जीव­ब्र­ह्म­णो­र­भे­देऽपि प्रकृते किं जातमित्याशङ्क्य जीवो महा­न्ब्र­ह्मा­भि­न्न­त्वा­त्त­द्व­दि­त्याह -
परमिति ।

दृष्टान्तस्य साध्यवैकल्यं 'सत्यं ज्ञानम्' इत्यादिश्रुत्या निराचष्टे -
परस्येति ।

अनुमानफलमाह -
तस्मादिति ।

जीवस्य विभुत्वे तन्म­ह­त्त्व­वा­दि­श्रु­ति­स्मृ­ति­वा­क्या­न्यपि मुख्यार्थानि भव­न्ती­त्य­नु­मा­ना­नु­ग्रा­ह्य­मा­ग­म­माह -
तथाचेति ।
नित्यः सर्वनतः स्थाणुरित्यादयः स्मार्तवादाः । तत्त्व­म­स्या­दि­प्र­धा­न­वा­क्या­ज्जी­वस्य महत्त्वं तद­णु­त्वा­र्थ­गु­ण­भू­त­वा­क्यानां श्रुतिलिङ्गानां च तद्वि­रो­धा­दौ­पा­धि­का­र्थ­त्व­सि­द्धे­रिति भावः ।

किञ्च ‘अर्थ­वा­द­वा­क्यानां लौकिकादपि न्याया­द्दौ­र्ब­ल्यम्’ इति न्यायेन सर्व­दे­ह­व्या­पि­शै­त्यो­प­ल­म्भा­न्य­था­नु­प­प­त्ति­नि­मि­त्त­म­ह­त्त्वे­ना­णु­त्व­श्रु­तीनां बाधः स्यादित्याह -
नचेति ।

त्वगा­त्म­स­म्ब­न्धस्य त्वग्व्या­पि­त्वा­त्त्व­चश्च सर्व­दे­ह­व्या­प्ते­स्त­द्वारा जीवस्याणोरपि व्यापि­का­र्य­मि­त्युक्तं शङ्कते -
त्वगिति ।

अतिप्रसक्त्या प्रत्याह -
नेति ।

पादतलमात्रे कण्टकस्य संयु­क्त­त्वा­त्कु­तोऽ­न्यत्र वेद­ने­त्या­श­ङ्क्याह -
त्वगिति ।

तथापि कथं देहमात्रे वेदनाधीः, तत्राह -
त्वक्चेति ।

अति­प्र­स­ङ्ग­मु­प­सं­ह­र्तु­मि­ति­शब्दः । अस्तु देहमात्रे वेद­ना­धी­रि­त्य­ति­प्र­स­ङ्ग­स्ये­ष्ट­त्व­मा­श­ङ्क्याह -
पादेति ।

यदुक्तं गुणाद्वेति, तत्राह -
नचेति ।

हेतुं व्यतिरेकेण स्फोरयति -
गुणत्वमिति ।

लोकवदित्युक्तं प्रत्याह -
प्रदीपेति ।

यत्तु व्यतिरेको गन्धवदिति, तत्राह -
गन्धोऽपीति ।

निराश्रयस्यैव सञ्चरणं तस्यो­क्त­मि­त्या­श­ङ्क्याह -
अन्यथेति ।

गन्ध­स्या­श्र­य­नि­यमे युक्तिमुक्त्वा वृद्धसंमतिमाह -
तथा चेति ।
न चाध्य­क्ष­वि­रुद्धौ युक्त्यागमौ, तेना­श्र­य­शू­न्य­त्वा­ग्र­हा­न्म­हतां च त्रस­रे­णू­ना­म­नु­द्भू­त­रू­प­स्प­र्शा­ना­मा­ग­ति­रिति स्फुटो­प­ल­म्भ­स­म्भ­वा­न्मू­ल­द्रव्ये चावि­शे­षोऽ­व­य­वा­न्त­र­यो­गा­दिति भावः ।

चैतन्यस्य गुणत्वमुपेत्य गुणस्य गुणिनं विनाऽ­न्य­त्रा­गतेः सर्व­दे­ह­व्या­पि­का­र्या­यो­गा­न्ना­णु­र्जीव इत्युक्तम् । इदानीं न गुणत्वमपि तस्येत्याह -
यदीति ।

चैतन्यव्याप्तौ जीवा­णु­त्वा­सिद्धिं ब्रुवतो वैय­धि­क­र­ण्य­मि­त्याह -
चैतन्यमिति ।

औष्ण्य­प्र­का­श­यो­र्गु­ण­त्वा­च्चै­त­न्यस्य स्वरूपत्वे नोदा­ह­र­ण­ते­त्या­शङ्क्य रूपा­दि­व­द्गु­ण­गु­णि­त्वा­भा­वा­न्मै­व­मि­त्याह -
नात्रेति ।

औष्ण्य­प्र­का­शा­व­ग्निश्च सप्तम्यर्थः । औष्ण्या­द्य­ति­रि­क्ता­ग्नि­स्व­रू­पा­भावं हेतुं कर्तुमितिशब्दः । जीवस्याणुत्वं न चेदस्तु मध्य­म­प­रि­मा­णत्वं, नेत्याह -
शरीरेति ।

परिमाणद्वयायोगे परिशिष्टमाह -
परिशेषादिति ।

विभुत्वे जीव­स्या­णु­त्वा­दि­व्य­प­दे­शा­सि­द्धि­रि­त्यु­क्त­म­नु­स्मा­र­यति -
कथमिति ।

तदुत्तरत्वेन सूत्रावयवं पातयति -
अत इति ।

‘अभ्यु­प­ग­मा­द्धृदि हि’ इति हृदयस्य प्रकृ­त­त्वा­त्त­न्निष्ठा बुद्धिरेवात्र तच्छ­ब्दे­त्य­क्ष­रा­र्थ­माह -
तस्या इति ।

पदार्थमुक्त्वा समासमाह -
तद्गुणा इति ।

पार­मा­र्थि­क­मा­त्मनः संसारित्वं किं बुद्धि­गु­णै­रि­त्या­श­ङ्क्याह -
नहीति ।

अस­ङ्ग­त्वे­ना­प­रि­णा­मित्वं सूचयति -
केवलस्येति ।

बुद्धि­ध­र्मा­णा­मा­त्म­ग­त­त्वा­सिद्धेः साङ्ख्यवदात्मनः संसा­रि­त्वा­यो­ग­मा­श­ङ्क्याह -
बुद्धीति ।

आत्मनो बुद्धि­त­द्ध­र्मा­ध्या­स­द्वारा संसारित्वेऽपि प्रकृ­तेऽ­णु­त्वा­दि­वादे किं जात­मि­त्या­श­ङ्क्याह -
तस्मादिति ।

किञ्च जीव­स्या­णु­त्व­वा­दीनि यानि वाक्या­न्यु­क्तानि तान्यपि पौर्वा­प­र्य­प­र्या­लो­च­नायां महत्त्वमेव तस्य गमयन्तीति मत्वो­न्मा­न­श्रुतिं प्रत्याह -
तथाचेति ।

अणुत्वे च महत्त्वे च श्रुते किमित्युभयं नेष्ट­मि­त्या­श­ङ्क्या­न्य­त­रद्वा द्वयमपि वा तत्त्वम् । आद्येऽपि मह­त्त्व­स्या­णु­त्वस्य वा वस्तुतेति विकल्प्य प्रथ­म­म­ङ्गी­कु­र्व­न्नाह -
तच्चेति ।

द्वयमपि तत्त्वमपि पक्षं विरोधेन प्रत्याह -
नहीति ।

कल्पान्तरं निराह -
नचेति ।
तत्त्व­म­सी­त्य­त्र­त्व­म­र्थो­द्दे­शे­ना­न­न्त­ब्र­ह्म­भा­वस्य विधि­त्सि­त­त्वा­द्वि­धि­त्सि­ता­न­न्त्य­वि­रो­धा­दु­द्दे­श्य­स्थ­म­णु­त्व­म­वि­व­क्षि­त­मिति भावः ।

उन्मानान्तरं प्रत्याह -
तथेति ।
बुद्ध्यध्यासेन तद्गु­णे­ना­त्म­न्य­ध्य­स्तेन तस्मि­न्मि­थ्या­गु­णा­न्त­र­मु­त्प­द्यते, तेना­त्म­गु­णे­ना­रा­ग्र­प­रि­मा­णोऽ­प­कृ­ष्टश्च जीवो दृष्टः । वस्तुतस्तु नायं गुणाधारो न चाप­क­र्ष­वा­नि­त्यर्थः ।

श्रुते­स्ता­त्प­र्य­माह -
बुद्धीति ।

यत्तु स्वश­ब्दा­द­णुत्वं, तद्दूषयति -
एष इति ।

दुर्ज्ञा­न­त्व­ज्ञा­प­क­प्र­क­र­णा­पे­क्षया श्रुतेरेव प्राब­ल्या­द­णु­त्व­मि­त्या­शङ्क्य काल्पनिकं तदिष्टं वास्त­व­म­यु­क्त­मि­त्याह -
जीवस्येति ।

पर­मा­त्म­दृ­ष्टा­न्ता­र्थोऽ­पि­शब्दः । तद­भि­न्न­त्वा­दि­त्युक्तो हेतुः । परस्य प्रकरणिनो विभु­त्वा­त्त­द­भि­न्न­त्वाच्च जीवस्य न चेदणुत्वं तर्हि कथ­म­णु­त्व­श्रुतिः, तत्राह -
तस्मादिति ।

अणु­श­ब्द­स्या­त्य­न्त­सूक्ष्मे प्रयो­गा­त्क­थ­मु­क्ता­र्थ­ते­त्या­श­ङ्क्याह -
उपाधीति ।

यत्तु पृथगुपदेशादिति, तत्राह -
तथेति ।
यथा स्वशब्दोन्माने जीवस्य नाणु­त्व­मा­वे­द­य­त­स्तथा पृथगुपदेशोऽपि तस्याणोरेव चैतन्यस्य देह­व्या­प्ति­मा­हे­त्यर्थः ।

समारुह्य वागादिना नामा­द्या­प्नो­तीति शेषः । प्रज्ञाशब्दस्य चैत­न्या­र्थ­त्वा­त्कुतो बुद्धि­वि­ष­य­ते­त्या­श­ङ्क्याह -
व्यपदेशेति ।

गुणगुणित्वेन तस्य मुख्यत्वे किमि­त्यौ­प­चा­रि­कत्वं, तत्राह -
नहीति ।
अत्रेति चैत­न्या­त्म­नो­रुक्तिः । उक्तं ‘यदि तु चैतन्यं जीवस्येत्यादौ’ इति शेषः ।

यत्तु तथाच दर्शयतीति, तत्राह -
हृदयेति ।

यच्चो­त्क्रा­न्त्या­दि­श्रु­ते­र्जी­वोऽ­णु­रिति, तत्राह -
तथेति ।
इतीक्षित्वेति शेषः ।

यत्तु स्वात्मना चोत्तरयोरिति, तत्राह -
उत्क्रान्तीति ।

तत्र हेतुमाह -
नहीति ।

दार्ष्टा­न्ति­क­मु­प­सं­ह­रति -
एवमिति ।

दृष्टान्तमादाय व्याचष्टे -
प्राज्ञवदिति ।

उक्त­दृ­ष्टा­न्ता­नु­सा­रेण जीवस्यापि बुद्धि­गु­ण­सा­र­त्वा­द­णु­त्वा­दि­व्य­प­देश इत्याह -
तद्वदिति ॥ २९ ॥

सूत्र­न्त­र­नि­रस्या शङ्कामाह -
स्यादेतदिति ।

कथमसत्त्वं स्वरूपेण सत्त्वा­दि­त्या­श­ङ्क्याह -
असंसारित्वं वेति ।

सूत्रमवतारयति -
अत इति ।

न दोष इति प्रतिज्ञात्वेन योजयति -
नेयमिति ।

प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।

बुद्धि­यो­ग­स्या­ना­शित्वे तत्त्व­धी­वै­यर्थ्यं वा तस्या­न्त­व­त्त्वे­ना­ग­न्तु­क­तया संसा­र­स्या­दि­म­त्त्वा­द­कृ­ता­ग­मा­दि­प्र­सङ्गो वा तदुभयमपि नास्तीति हेतुं विवृणोति -
यावदिति ।

तदेव स्पष्टयति -
यावदस्येति ।

संसा­र­नि­वृ­त्त्यु­त्त­र­का­ल­मपि जीव­स्व­रू­प­नि­र्वा­ह­क­त्वेन बुद्धि­यो­गोऽ­भ्यु­प­ग­न्तव्य इत्याशङ्क्याह -
यावदेव चेति ।

जीवस्य वस्तु­त्वा­न्नो­पा­धि­यो­गा­पे­क्षे­त्या­शङ्क्य वाच्यस्य लक्ष्यस्य वा वस्तुत्वमिति विकल्प्याद्यं दूषयति -
परमार्थेति ।

द्वितीयं निराह -
नहीति ।

लक्ष्यस्य ब्रह्मा­व्य­ति­रेके वेदा­न्ता­र्थ­नि­रू­प­णा­या­मि­त्यत्र सूचितं हेतुमाह -
नेत्यादिना ।

सूत्रा­व­य­व­मा­का­ङ्क्षा­द्वारा निक्षिपति -
कथमिति ।

तस्यार्थमाह -
तथाहीति ।

‘बुद्धिं तु सारथिं विद्धी’ त्यादि ग्रहीतुमादिपदम् । कथमत्र याव­दा­त्म­भा­वि­त्व­धी­रि­त्या­शङ्क्य तदर्थ विज्ञा­न­म­य­प­दा­र्थ­माह -
तत्रेति ।

विज्ञानस्य ब्रह्म­त्वा­त्त­न्म­यत्वं तत्कार्यत्वं तदात्मत्वं वेत्याशङ्क्याह -
प्रदेशान्तर इति ।

विज्ञानं बुद्धिरस्तु, तथापि कथ­मा­त्म­न­स्त­द्वि­का­रत्वं मयटो विका­रा­र्थ­त्वा­त्त­त्राह -
बुद्धीति ।

कथं विकारार्थस्य मयटोऽर्थान्तरं शङ्क्यते, तत्राह -
यथेति ।

इह लोके बुद्ध्य­वि­यो­गेऽ­प्या­त्मनो लोकान्तरसञ्चारे तद्वियोगः स्यादि­त्या­श­ङ्क्याह -
स समान इति ।

नात्र बुद्ध्या सहावियोगो भाती­त्या­श­ङ्क्या­का­ङ्क्षा­द्वारा समानपदं पूरयति -
केनेति ।

येन केनापि समानत्वे कुतो विशेषोक्तिः, तत्राह -
संनिधानादिति ।
‘योऽयं विज्ञानमयः प्राणेषु’ इत्यत्रेति शेषः ।

परिच्छिन्नस्यैव गते­रा­त्म­न­स्त­द­भा­वा­त्क­थ­मु­भ­य­लो­क­स­ञ्चा­रित्वं, तत्राह -
तच्चेति ।

बुद्धिवदात्मनो ध्याना­दि­यो­गि­त्व­मत्र भाती­व­श­ब्द­स्यो­प­मा­र्थ­त्वा­दि­त्या­श­ङ्क्याह -
एतदिति ।
इव­श­ब्द­स्या­भा­सा­र्थ­त्वा­न्नो­प­मा­र्थ­तेति भावः ।

न केव­ल­मा­ग­मा­द्बु­द्धि­स­म्ब­न्धस्य याव­त्सं­सा­र्या­त्म­भा­वित्वं किन्तु युक्तेरपीत्याह -
अपिचेति ।

मिथ्याज्ञानस्य सत्येव संसारिणि कर्मणा निवृ­त्ते­स्त­न्नि­मि­त्त­बु­द्धि­स­म्ब­न्ध­स्यापि तत्सिद्धेर्न याव­दा­त्म­भा­वि­ते­त्या­श­ङ्क्याह -
नचेति ।

सम्यग्ज्ञानादेव मिथ्या­ज्ञा­न­नि­वृ­त्ति­रि­त्यत्र मानमाह -
दर्शयतीति ।
आदित्यवर्णं प्रकाशरूपं तमसः पर­स्ता­द­वि­द्या­सं­स्प­र्श­शू­न्य­मि­त्यर्थः ॥ ३० ॥

याव­दा­त्म­भा­वि­त्व­हे­तो­र­सिद्धिं शङ्कते -
नन्विति ।

तत्र बुद्धि­स­म्ब­न्धा­स­म्भवे हेतुमाह -
सतेति ।

किञ्च कार्य­त्वा­द्बु­द्धे­रा­त्म­न­स्त­द्यो­गस्य च तथात्वात्तत्र, नाश­ध्रौ­व्या­द­सि­द्धि­र्ध्रु­वे­त्याह -
कृत्स्नेति ।

परिहरत्वेन सूत्रमवतारयति -
अत्रेति ।

तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
पुंस्त्वं पुरुषस्य प्रजो­त्पा­द­न­सा­म­र्थ्यम् । आदिशब्देन स्रियाः स्त्रीत्वं बीज­स्या­ङ्कु­र­ज­न­क­त्व­मि­त्यादि गृहीतम् । बाल्या­दि­ष्वि­त्या­दि­प­दे­ना­व­स्था­वि­शेषा गृह्यन्ते । यौव­ना­दि­ष्वि­त्य­त्रापि, स एवादिशब्दार्थः ।

कस्मा­द­वि­द्य­मा­न­व­दि­ष्टा­ना­मा­वि­र्भावः, अविद्यमानानामेव पुनरुत्पत्तिः किं न स्यात् , तत्राह -
नेति ।
तैल­क­लु­षि­त­बी­जा­दि­ग्र­हा­र्थ­मा­दि­प­दम् । एतेन तुशब्दो व्याख्यातः ।

'अस्य सत' इति दार्ष्टान्तिकं व्याचष्टे -
एवमिति ।

अभि­व्य­क्ति­यो­गा­दिति व्याकरोति -
एवं हीति ।

तदेव व्यतिरेकतः स्फोरयति -
नहीति ।

कारणं विनाऽपि कार्यं स्यादि­त्य­ति­प्र­सङ्गः । स्वापे बीजात्मना सतो बुद्धियोगस्य प्रबोधे व्यक्तिरित्यत्र मानमाह -
दर्शयतीति ।

न विदु­रि­त्य­वि­द्या­त्म­क­बी­ज­स­त्त्वोक्तिः । तत्कृतत्वं स्वापा­दु­त्था­नस्य कथयति -
त इति ।
पूर्वबोधः सप्तम्यर्थः ।

स्वापे लये च बुद्धियोगस्य बीजा­त्म­नाऽ­व­स्थाने फलितमाह -
तस्मादिति ॥ ३१ ॥

बुद्धिसद्भावे मानमाह -
नित्येति ।

तद्व्या­ख्या­तु­म­न्तः­क­र­ण­ग­ता­न­वा­न्त­र­भे­दा­नाह -
तच्चेति ।

तत्रतत्र ।
‘मनसा ह्येव पश्यति मनसा श्रृणोति', ‘बुद्धे­र्गु­णे­ना­त्म­गु­णेन चैव', ‘बुद्धिश्च न विचे­ष्टते', ‘विज्ञानेन विज्ञा­न­मा­दाय', ‘विज्ञानं यज्ञं तनुते', ‘चेतसा वेदितव्यः’ इत्या­दि­प्र­दे­शे­ष्वि­त्यर्थः ।

एकमेवान्तःकरणं कथमनेकधोच्यते, तत्राह -
क्वचिच्चेति ।

अभि­मा­न­प्र­धा­नोऽ­ह­ङ्कारो विज्ञानम् । चिदाकारप्रधानं चित्तम् । अथ यथो­क्त­म­न्तः­क­र­ण­मेव नास्ति । नच श्रुत्या तदस्तित्वं, तत्प्रा­मा­ण्येऽपि केषा­ञ्चि­द्वि­सं­वा­दात् , तत्राह -
तच्चेति ।

तत्र हेतुत्वेन सूत्रवयवं व्याकरोति -
अन्यथेति ।

नित्यो­प­ल­ब्धि­प्र­सङ्गं प्रकटयति -
आत्मेति ।

कारणे सति कार्यं भव­त्ये­वे­त्य­नि­य­मान्न नित्यो­प­ल­ब्धि­प्र­स­क्ति­रिति शङ्कते -
अथेति ।

तर्हि नित्य­मे­वा­नु­प­लब्धिः स्याद­पे­क्ष­णी­या­न्त­रा­भा­वा­दि­त्याह -
तत इति ।

प्रस­ङ्ग­स्ये­ष्ट­त्व­मा­श­ङ्क्याह -
नचेति ।

आत्मे­न्द्रि­या­र्थ­सां­नि­ध्येऽपि कदाचिदेव ज्ञानो­द­या­द­न्तः­क­र­ण­म­स्ती­त्यु­क्तम् । इदानीं तदनुपगमे दोषा­न्त­रा­प­त्ते­रपि तदस्तीति ब्रुव­न्न­न्य­त­र­नि­थमो वेत्येतद्योजयति -
अथवेति ।

अन्यतरस्य शक्तिप्रतिबन्धे का हानिः ; तत्राह -
नचेति ।

अवधानमनुभवितुं स्मर्तुं वा वाञ्छा । नच साऽऽत्मनो धर्मः, तस्या­वि­क्रि­य­त्वात् । नापी­न्द्रि­या­णा­म­न्धा­दी­ना­मे­कै­के­न्द्रि­या­भा­वेऽपि तद्द­र्श­ना­दा­न्त­र­त्वाच्च बाह्ये­न्द्रि­य­ध­र्म­त्वा­यो­गा­त्तेन परि­शे­षा­द्य­स्या­व­धा­ना­न­व­धाने तद­न्तः­क­र­ण­म­स्ती­त्याह -
तस्मादिति ।
अनुबुभूषा साश्रया, गुणत्वात् , रूप­व­दि­त्य­नु­मा­ना­त्त­द­धि­क­र­ण­म­न्तः­क­रणं परिशेषतो लब्धमिति भावः ।

न केव­ल­म­न्तः­क­र­ण­मौ­प­प­त्तिकं श्रौतमपीत्याह -
तथा चेति ।

मनः स्वग्रा­ह्य­जा­ति­म­द्वि­शे­ष­गु­णा­धि­क­रणं, प्रत्य­क्ष­ज्ञा­न­क­र­ण­त्वात् , चक्षु­र्व­दि­त्य­भि­प्रे­त्याह -
कामादयश्चेति ।

बुद्धिसद्भावस्य मान­यु­क्ति­सि­द्धत्वे फलितमाह -
तस्मादिति ॥ ३२ ॥

स्वाभा­वि­क­म­णुत्वं पराणुद्य वस्तुतो महत्त्वं चैत­न्या­दी­ष­द्ब­हिष्ठं प्रतिष्ठापितम् । इदानीं ततोऽपि बहिष्ठं कर्तृत्वं बुद्धि­क­र्तृ­त्व­व्या­व­र्त­ने­ना­त्मनि साधयति -
कर्तेति ।

आत्मा किमकर्ता कर्ता वेति विप्रतिपत्तेः सन्देहे ‘तद्गु­ण­सा­र­त्वात्’ इत्यनेनैव तत्क­र्तृ­त्वा­दि­सि­द्धेर्न संशी­ति­रि­त्या­श­ङ्क्याह -
तद्गुणेति ।
अधिकारः प्रसङ्गः । यद्यपि कर्तृत्वस्य न स्वयं पुमर्थता, नापि प्रति­पा­द्य­वा­क्या­र्थो­प­यो­गिता, यद्यपि चौपाधिकं कर्तृ­त्व­मा­त्मानि प्रागेव सिद्धं, तथापि निर­स्य­प­क्ष­स­म्भ­वा­त्त­न्नि­रा­सा­या­रम्भः सम्भवतीति भावः । अत्र च विध्या­दि­श्रु­ती­ना­म­स­ङ्ग­ता­दि­श्रु­तीनां चात्म­क­र्तृ­त्वा­क­र्तृ­त्वा­र्थानां बन्ध­मो­क्ष­वि­ष­य­त्वेन मिथो विरोधं विधूय नित्यमुक्ते ब्रह्मणि सम­न्व­या­धा­ना­त्पा­दा­दि­स­ङ्ग­तयः ।

पूर्वपक्षे श्रुतीनाममूषां विरु­द्ध­त्वे­ना­प्रा­मा­ण्या­त्तत्र समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन व्यवस्थया प्रामा­ण्या­त्त­त्सि­द्धि­रिति मन्वानः सिद्धान्तं प्रतिजानीते -
कर्ता चेति ।

सत्येव मनसि जागरादौ कर्तृ­त्वो­प­ल­म्भा­द­सति स्वापे तद­भा­वा­द­न्व­य­व्य­ति­रे­काभ्यां कर्तृत्वस्य मनो­नि­ष्ठ­त्व­दृष्टेः, तत्स­त्ता­हे­तु­वि­ष­य­त्व­स­म्भवे च तयो­स्त­द्वि­शि­ष्टा­र्थ­धी­मा­त्र­हे­तु­त्व­क­ल्प­नाया बहिरङ्गत्वात् , अहं कर्तेति धियश्चात्मनः साधारण्यान्न कर्तृ­त्व­मा­त्म­नोऽ­स्ती­त्याह -
कस्मादिति ।

स्वर्गा­द्य­र्थिनो यागा­दि­वि­ध्य­न्य­था­नु­प­पत्त्या कर्तृत्वमात्मनो दुर्वारमित्याह -
शास्त्रेति ।

तदेव व्याकरोति -
एवमिति ।

ऐक्य­श्रु­ति­वि­रोधे विधि­शा­स्त्र­म­न्य­प­र­तया दुर्ब­ल­मि­त्या­शङ्क्य सम्पत्परत्वेन तस्याः साव­का­श­त्वा­द्वि­धि­श्रु­तेश्च निर­व­का­श­त्वा­न्मै­व­मि­त्याह -
अन्यथेति ।

कर्त्री बुद्धि­रि­त्यु­प­ग­मा­त्त­द्वि­ष­य­त्वेन विधिशास्त्रं साव­का­श­मि­त्या­शङ्क्य विधेः प्रतिपत्तुरेव कर्तृतेत्याह -
तद्धीति ।
ममेदं कर्तव्यमिति धीसमर्थस्य चेतनस्य विधिसम्बन्धमाह विधि­शा­स्त्र­मि­त्यर्थः ।

तथापि कथं तस्य कर्तृ­त्व­धी­रि­त्या­श­ङ्क्याह -
नचेति ।
तस्य विधे­या­र्थ­क­र्तृतां विनाऽनुपपन्नं विधिशास्त्रं चेतनस्य तद­र्था­नु­प­पत्त्या गमयति । बुद्धेरेव कर्तृत्वे यस्य भोक्तु­र­पे­क्षि­तो­पायो विधिर्न तस्य कर्तृत्वं यस्य कर्तृत्वं न तस्या­पे­क्षि­तो­पाय इत्यसङ्गतिरिति भावः ।

‘अनश्नन्’ इत्या­दि­श्रु­ति­वि­रोधे श्रुता­र्था­प­त्ति­र्दु­र्ब­ले­त्या­शङ्क्य श्रुतिमाह -
तथेति ॥ ३३ ॥

विहारो विहरणं सञ्चा­र­स्त­दु­प­दे­शा­नु­प­प­त्त्यापि जीवस्य कर्तृतेत्याह -
विहारेति ।

सूत्रस्य हेत्व­न्त­र­प­र­त्व­माह -
इतश्चेति ।
जीव­प्र­क्रि­या­या­मिति बुद्धि­प्र­स्ता­व­व्या­से­धा­र्थ­मु­क्तम् । सन्ध्ये स्थाने स्वप्ना­व­स्था­या­मिति यावत् । ईयते गच्छति ॥ ३४ ॥

अक­र्तु­रु­पा­दा­ना­नु­प­प­त्त्यापि कर्तृत्वमित्याह -
उपादानादिति ।

तद्व्याकरोति -
इतश्चेति ।
प्राणा­ना­मि­न्द्रि­याणां विज्ञानेन बु्ध्द्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना ।

उपादानान्तरमाह -
प्राणानिति ।
योजना पूर्ववत् ॥ ३५ ॥

कर्तृ­वा­च­का­ख्या­त­श्रु­त्यापि जीवस्य कर्तृत्वमित्याह -
व्यपदेशाच्चेति ।

विज्ञानशब्दस्य जीवार्थत्वं गृहीत्वा सूत्रावयवं योजयति -
इतश्चेति ।

न चेदि­त्या­दे­र्व्या­वर्त्यां शङ्कामाह -
नन्विति ।

नात्र बुद्धि­र्वि­ज्ञा­न­मिति सूत्रभागेनाह -
नेतीति ।

तदेव स्फुटयितुं प्रतिजानीते -
जीवस्येति ।

प्रतिज्ञार्थं सूत्रावयवं व्याकु­र्व­न्व्य­ति­रे­केण स्फोरयति -
नेति ।

विपर्ययमभिनयति -
विज्ञानेनेति ।

अस्मन्मते बुद्धेरेव कर्तृत्वात्तत्र तद्व्य­प­दे­श­सि­द्धि­रि­त्या­शङ्क्य केवलाया बुद्धेः करणत्वेनैव व्यप­दे­श­द­र्श­ना­न्मै­व­मि­त्याह -
तथेति ।

तैत्तिरीयश्रुतौ विशेषमाह -
इहेति ।

कर्तृ­सा­मा­ना­धि­क­र­ण्य­मा­ख्या­तेन कर्तृवाचिना विज्ञा­न­प­द­स्या­भि­व्या­हारः । प्रकृते वाक्ये विज्ञानस्य कर्तृत्वमन्यत्र करणत्वेऽपीति निगमयति -
इत्यदोष इति ॥ ३६ ॥

सूत्रा­न्त­र­व्या­व­र्त्य­माह -
अत्रेति ।

तथैव सम्पादयति नेत्याह -
विपरीतमिति ।

सह­का­रि­व­शा­दि­ष्टा­नि­ष्टो­पा­दा­नेषु पुरु­ष­प्र­वृ­त्ति­रि­त्या­श­ङ्क्याह -
नचेति ।
तस्या­स्वा­तन्त्र्ये लक्ष­णा­भा­वा­द­क­र्तृत्वं स्वातन्त्र्ये बुद्धि­पू­र्व­का­रिणो नानियता प्रवृ­त्ति­रि­त्यर्थः ।

सूत्रमवतारयति -
अत इति ।

सत्यपि स्वातन्त्र्ये स्यादनियता प्रवृत्तिरिति सूत्रं व्याकु­र्व­न्प­रि­ह­रति -
यथेति ।

दृष्टान्ते विवदमानः सन्नाह -
उपलब्धाविति ।

चक्षुरादीनां विष­यो­प­ना­य­क­त्वा­त्त­दु­प­लब्धौ चात्म­न­श्चे­त­न­त्वेन स्वात­न्त्र्या­दु­दा­ह­र­ण­सि­द्धि­रि­त्याह -
नेत्यादिना ।

विषयोपनयनद्वारा तज्ज्ञाने कर­णा­पे­क्षा­ध्रौ­व्या­न्ना­त्मनः स्वत­न्त्र्य­मि­त्या­श­ङ्क्याह -
अपि चेति ।
इतश्च दृष्टा­न्त­दा­र्ष्टा­न्ति­क­योर्न वैषम्यमिति यावत् । उप­ल­ब्धा­वि­वे­त्य­पे­रर्थः ।

देशा­द्य­पे­क्षायां लक्ष­णा­भा­वा­द­क­र्तृत्वं स्यादि­त्या­श­ङ्क्याह -
नचेति ।

तत्र हेतुमाह -
भवतीति ।

यदुक्तं धीपूर्वकारिणो नानियता प्रवृत्तिरिति, तत्राह -
सहकारीति ।
कर्ता हि करणादीनि कारकान्तराणि प्रयुङ्क्ते, न तैरयं प्रयुज्यते, तेन तस्य स्वातन्त्र्यं, न, कार­का­न्त­रा­न­पे­क्ष­त्वात् , क्वापि तथा स्वात­न्त्र्या­यो­गात् । तथा­चा­य­म­दृ­ष्ट­व­शा­दि­ष्ट­मेव प्रेप्सु­स्त­दु­पा­य­भ्र­मा­द­नि­ष्ट­हे­तु­म­नु­ति­ष्ठ­न्न­नि­ष्ट­मा­प्नु­या­दि­त्य­नि­यता प्रवृत्तिः, कर्तृ­त्व­नि­य­म­श्चे­त्यर्थः ॥ ३७ ॥

बुद्धेरेव कर्तृत्वे कार­क­वि­भ­क्ति­वि­प­र्ययो ‘न चेत्’ इत्यत्रोक्तः । सम्प्रति तच्छ­क्ति­वि­प­र्य­य­माह -
शक्तीति ।

सूत्रं व्याख्यातुं प्रतिज्ञां व्याकरोति -
इतश्चेति ।

हेतुमेव व्यतिरेकद्वारा विवृणोति -
यदीति ।

शक्ति­वि­प­र्य­य­मु­दा­ह­रति -
करणेति ।
बुद्ध्य­ति­रि­क्त­क­र्त्र­भा­वा­दि­त्यर्थः ।

बुद्धेरस्तु कर्तृशक्तिः, तत्राह -
सत्यां चेति ।

कर्तृत्वे बुद्धे­र­ह­न्धी­वि­ष­य­त्वे­ना­त्मत्वं किमित्युपेयं, तत्राह -
अहङ्कारेति ।

अन्तः­क­र­णा­धि­ष्ठा­तु­रे­वा­त्म­त्वा­त्कुतो बुद्धे­रे­वा­त्मत्वं, तत्राह -
तस्याश्चेति ।

कर्तुः स्वयमेव शक्तेर्न कर­णा­पे­क्षे­त्या­श­ङ्क्याह -
शक्तोऽपि हीति ।

लोकवदिहापि कर्तु­र­पे­क्षि­त­मेव करणमिति वक्तुमितिशब्दः । अस्तु तर्हि कर्त्र्या बुद्धेरन्यदेव करणं, तत्राह -
ततश्चेति ॥ ३८ ॥

ज्ञान­सा­ध­न­वि­ध्य­न्य­था­नु­प­प­त्त्यापि कर्तृत्वमात्मनः स्वीका­र्य­मि­त्याह -
समाधीति ।

सूत्रं विवृणोति -
योऽपीति ।
ज्ञानोपायं समा­धि­म­नु­ति­ष्ठ­न्न­क­र्ता­त्मेति दुर्व­च­न­मि­त्यर्थः ।

शास्त्रा­र्थ­व­त्त्वा­दि­हे­तूनां फलमुपसंहरति -
तस्मादिति ।
उक्तहेतुषु प्रत्येकं साधकत्वं सम्भा­व­यि­तु­म­पि­शब्दः ॥ ३९ ॥

साङ्ख्य­म­त­नि­रा­से­नो­क्ता­त्म­क­र्तृ­त्वस्य स्वाभाविकत्वं निरस्यति -
यथाचेति ।

सङ्गतिं दर्शयन्वृत्तं कीर्तयति -
एवमिति ।

उक्ते कर्तृत्वे विप्रतिपत्त्या संशयमाह -
तदिति ।
सङ्गतिफले पूर्ववत् ।

अत्रापि समाप्तौ सर्वं व्यक्ती­भ­वि­ष्य­तीति मत्वा पूर्वपक्षयति -
तत्रेति ।
नच तर्हि पूर्वा­धि­क­र­ण­म­न­र्थ­कम् , आरो­प्य­प्रा­प­क­त्वात् । नच स्वातन्त्र्येण सम्बन्धाद्यभावे तस्यै­त­द­वा­न्त­र­सू­त्रत्वंं, तत्रापि कर्तृत्वे समर्थिते सत्यसङ्गस्य स्तुत्यापि नेतुं शक्यत्वे विरोधपरिहारेण सम­न्व­य­दा­र्ढ्य­सिद्धौ साक्षादपि सङ्गत्यादेः सुवचत्वात् ।

ननु कर्तृ­त्व­स­त्त्व­मा­त्र­मुक्ता हेतवः साधयन्ति, न तस्य स्वाभाविकत्वं, नहि तस्यो­पा­ध्य­न­पे­क्ष­त्व­मुक्तं, तत्राह -
अपवादेति ।
न चान्व­य­व्य­ति­रे­काभ्यां विशिष्टस्य कर्तृत्वं शङ्कनीयं, तदुत्पत्तौ मनसो निमित्तत्वादपि तदुपपत्तेरिति मत्वा पूर्व­प­क्ष­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति -
एवमिति ।

स्वाभाविकं कर्तृ­त्व­म­प­वा­द­का­भा­वा­दि­त्य­युक्तं मुक्त्य­नु­प­प­त्ते­र­प­वा­द­क­त्वा­दि­त्याह -
नेति ।

उक्तं विवृ­ण्व­न्क­र्तृ­त्व­मा­त्मनः स्वभावो धर्मो वेति विकल्प्याद्यं प्रत्याह -
कर्तृत्वेति ।

कर्तृत्वे सत्येव पुरु­षा­र्थ­स­म्भ­वात्किं तन्नि­वृ­त्त्ये­त्या­श­ङ्क्याह -
नचेति ।

द्विती­य­मा­श्रित्य शङ्कते -
नन्विति ।

सत्यां शक्तौ कार्यपरिहारोऽपि कथं, तत्राह -
तदिति ।

शक्तस्यैव निमि­त्त­प­रि­हा­रा­त्का­र्य­प­रि­हारं दृष्टान्तेन दर्शयति -
यथेति ।

कर्तृत्वस्य धर्मादीनि निमित्तानि । तेषां ज्ञाना­नि­व­र्त्यत्वे मुक्तावपि सम्भ­वा­त्क­र्तृत्वं स्यात् । ज्ञानेन तन्निवृत्तौ तेषा­म­ज्ञा­न­का­र्य­त्वा­त्त­त्कृतं कर्तृत्वमपि तथा स्यत् । शक्तेश्च शक्त­श­क्य­सा­पे­क्ष­तया सनि­मि­त्त­क्रि­या­ल­क्ष­ण­श­क्या­क्षे­प­क­त्वा­द­नि­र्मोक्षः । तस्मा­न्नि­मि­त्त­प­रि­हा­रस्य दुर­नु­ष्ठा­न­त्वान्न शक्तिवादे मुक्तिरित्याह -
नेत्यादिना ।

शक्तिलक्षणेन शक्त्या­क्षि­प्तेन शक्येन सह यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये । मनुष्यदेहस्य शास्त्र­सा­म­र्थ्या­द्दे­व­त्वा­प्ति­व­त्क­र्तृ­भू­त­स्या­क­र्तृ­रू­प­मो­क्षाप्तिः शास्त्र­व­शा­दे­वेति शङ्कते -
नन्विति ।

किं सन्नेव मोक्षोऽ­ज्ञा­न­वृतो ज्ञाना­त्त­न्नि­वृ­त्त्या­प्यत उतासन्नपूर्वो हेतुशक्त्या लभ्यते । आद्ये कर्तृत्वस्य भ्रान्तित्वम् । द्वितीयं दूषयति -
नेति ।

मुक्तेः साधनाय तत्त्व­मु­पे­त्यो­क्तम् , तदेव नेत्याह -
अपिचेति ।

तथापि कथं स्वाभाविकं कर्तृ­त्व­म­प­ह्नू­यते, तत्राह -
तादृगिति ।

का तर्हि कर्तृ­त्व­दृ­ष्टे­रा­त्मनि गतिः, तत्राह -
तस्मादिति ।

आत्म­न्यौ­पा­धि­क­मा­रो­पितं कर्तृ­त्व­मि­त्यत्र मानमाह -
तथाचेति ।

उक्त­श्रु­त्यो­स्ता­त्प­र्य­माह -
उपाधीति ।

विद्व­द­नु­भ­व­वि­रुद्धा च स्वाभाविकी कर्तृतेत्याह -
नहीति ।

विवे­कि­ना­मि­त्यु­क्ते­र­व­स्था­भे­दा­पे­क्ष­मै­क्य­मि­त्या­श­ङ्क्याह -
नान्य इति ।

बुद्ध्या­दि­स­ङ्घा­ता­द­ति­रिक्तो यदि पर­स्मा­द­न्य­श्चे­तनो न स्यात्तदा पर एव संसारी कर्ता च प्रसज्येत । नच तद्युक्तं, नित्य­शु­द्ध­त्वा­दि­वि­रो­धात् । यदि पर­स्मा­द­न्य­श्चे­त­न­स्तर्हि नासौ बुद्ध्या­दि­व्य­ति­रिक्तः स्यादिति शङ्कते -
पर एवेति ।

न तावत्केवलस्य चेतनस्य मुक्तिबन्धौ, तस्य नित्य­मु­क्त­त्वात् । नापि केवलस्य बुद्ध्यादेस्तौ, तस्य जडत्वात् , किं त्वना­द्य­नि­र्वा­च्या­वि­द्यो­त्थ­बु­द्ध्या­द्यु­पा­धि­द्वारा चेतनस्यैव तौ कल्प्येते । नच व्यव­स्था­नु­प­पत्तिः, एकस्मिन्नपि चिद्धातौ काल्प­नि­क­भे­दा­धी­न­व्य­व­स्था­प­नात् , वस्तु­त­स्त­द­भा­व­स्ये­ष्ट­त्वात् । तस्मा­त्प­र­स्मा­द­न्यस्य चितिमतोऽभावेऽपि वस्तुतः संसारित्वस्य तस्मि­न्न­प्र­स­ङ्गा­त्क­ल्प­नया चोप­ग­मा­न्नै­व­मि­त्याह -
न । अविद्येति ।

उक्तेऽर्थे श्रौता­व­न्व­य­व्य­ति­रेकौ दर्शयति -
तथाचेति ।

उपा­ध्यु­द्भ­वा­भि­भ­वाभ्यां कर्तृ­त्व­स्यो­द्भ­वा­भि­भ­व­श्र­व­णा­दपि तदौपाधिकमित्याह -
तथेति ।

पर­मा­न­न्द­त्वे­ना­प्त­का­मत्वं साधयति -
आत्मेति ।

काम­यि­त­व्या­भा­वा­दपि तथेत्याह -
अकाममिति ।

अशे­ष­शो­क­सं­स्प­र्श­शू­न्य­त्वा­दपि तथेत्याह -
शोकान्तरमिति ।

उक्तस्य सौषु­प्ता­त्म­रू­पस्य पर­म­पु­रु­षा­र्थ­ता­माह -
एषेति ।

प्रेप्सि­त­मै­श्व­र्य­म­ति­रि­क्त­म­स्ती­त्या­श­ङ्क्याह -
एषाऽस्येति ।

लोक­वि­शे­ष­स्या­पे­क्ष­णी­य­त्व­मा­श­ङ्क्यो­क्तम् -
एष इति ।

पर­मा­न­न्द­स्या­ति­रि­क्त­स्या­पे­क्ष­क्त्व­मा­श­ङ्क्याह -
एषोऽस्येति ।

उक्तेऽर्थे सूत्रमवतारयति -
तदेतदिति ।

तदक्षराणि व्याकरोति -
त्वर्थे चेति ।
चकारोऽवधारणे ।

तुशब्दार्थमेव स्फोरयति -
नैवमिति ।

तत्र दृष्टान्तं व्याचक्षाणो हेतुमाह -
यथेति ।
अन्यै­र­प्रे­र्यत्वं स्वस्थत्वम् । मान­स­प्र­य­त्न­रा­हित्यं निर्वृतत्वम् । काय­चे­ष्टा­शू­न्यत्वं निर्व्या­पा­र­त्वम् । बुद्ध्या­दि­स­म्पि­ण्डि­तै­क­द्रव्ये सत्येव जागरादौ क्रिया­द­र्श­ना­द­सति तस्मि­न्के­व­ला­त्मनि स्वापादौ तद­द­र्श­ना­द्वि­शि­ष्टस्य क्रियाकारणत्वम् । तत्रापि निमि­त्ता­दु­पा­दा­नस्य कार्या­न्व­यि­त्वे­ना­न्त­र­ङ्ग­त्वा­दु­पा­दा­न­त्व­म­न्व­य­व्य­ति­रे­का­भ्या­मु­क्त­न्या­य­वद्भ्यां ब्रह्मा­त्म­त्व­शा­स्त्रो­प­बृं­हि­ताभ्यां लभ्यमिति भावः ।

सम्प्रसादे कर्तृ­त्व­र­हि­त­स्यापि जागरादौ कर्तृत्वं चेन्मुक्तावपि तथैव स्यादि­त्या­श­ङ्क्याह -
तथेति ।
तत्र कार­ण­स­द्भा­वा­द्युक्तं कर्तृत्वम् , इह तदभावान्नेेति भावः ।

यथा कर्तृ­त्वा­दि­श­क्ति­यु­क्तस्य तक्ष्णो वास्या­दि­प्रे­र­क­त्वेन कर्तृ­त्व­मे­व­मि­हापि स्याद्दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­स्तु­ल्य­त्वा­दि­त्या­श­ङ्क्याह -
तक्षेति ।

इतोऽपि विवक्षितांशेन साम्यं न त्वत्य­न्त­मि­त्याह -
न त्विति ।

एवं सिद्धा­न्त­मु­प­पाद्य पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
यत्त्विति ।

शास्त्रा­र्थ­व­त्त्व­मादौ दूषयति -
तत्रेति ।
‘यत्परं शास्त्रं स एव तदर्थः ‘ इत्युपगमात् , तस्य च कर्त्र­पे­क्षि­तो­पा­य­ता­प­र­त्वात् , कर्तुः स्वरू­प­प­र­त्वा­भा­वा­त्कर्ता लोकसिद्धो न शास्त्रसिद्ध इत्यर्थः ।

प्रसि­द्ध­स्यो­द्दे­श्य­त्वा­त्प्र­सि­द्धेश्च मान­त्वा­त्प्रा­मा­णिकं कर्तृ­त्व­मि­त्या­श­ङ्क्याह -
नचेति ।

विधिशास्त्रस्य स्वाभा­वि­क­क­र्तृत्वे तात्पर्याभावे फलितमाह -
तस्मादिति ।

श्रुता­र्था­पत्तिं निरस्याति -
कर्तेति ।

तदु­भ­य­नि­रा­स­न्या­येन लिङ्गद्वयमपि निरस्तमित्याह -
एतेनेति ।
अनु­वा­द­रू­प­त्वा­त्पा­र­मा­र्थि­क­क­र्तृ­त्वा­सा­ध­क­त्वा­दिति शेषः ।

विहारोपदेशः स्वाभाविकमेव कर्तृत्वं साधयति, करणविरहे श्रुत­क­र्तृ­त्वस्य स्वाभा­वि­क­त्व­ध्रौ­व्या­दि­त्याह -
नन्विति ।

उपादानमपि स्वाभाविकं कर्तृत्वं गमयतीत्याह -
तथेति ।
विशिष्टस्य कर्तृत्वे करणानामपि कर्त्र­न्त­र्भा­वा­त्ते­ष्वपि कर्तृविभक्तिः स्यात् । नचैवमस्ति, तेषु कर्म­क­र­ण­वि­भ­क्त्यो­रेव श्रवणात् । तस्मा­त्के­व­ल­स्यै­वा­त्मनः कर्तृतेत्यर्थः ।

परिहरति -
अत्रेति ।

तत्रादौ विहारोपदेशस्य स्वाभा­वि­क­क­र्तृ­त्व­सा­ध­कत्वं प्रत्याह -
न तावदिति ।
तत्रेति स्वप्नोक्तिः । जाग्र­द­व­स्था­या­मि­वे­त्य­पे­रर्थः ।

स्वप्ना­व­स्था­या­मा­त्मनो मनसः सम्बन्धे स्मृतिमाह -
तथा चेति
सेवते तेनैव मनसा वास­ना­म­या­न्वि­ष­या­न्य­दीति योजना ।

स्वप्ने मनःसत्त्वे युक्तिमाह -
कामादयश्चेति ।
तथाच धर्मित्वेन मनोऽपि तत्रास्तीति शेषः ।

श्रुति­स्मृ­ति­यु­क्ति­सिद्धं निगमयति -
तस्मादिति ।

विहारस्य वास्त­व­त्व­मु­पे­त्यो­क्तम् । इदानीं तदपि नास्ति कुत­स्त­द्व­शा­दा­त्मनो वास्त­व­क­र्तृ­ते­त्याह -
विहारोऽपीति ।

यत्तू­पा­दा­ना­दा­त्मनो वास्त­व­क­र्तृ­त्व­मिति, तत्राह -
तथेति ।

करणसहितस्य कर्तृत्वे करणेऽपि कर्तृविभक्तिः स्यादित्युक्तं प्रत्याह -
भवतीति ।

कर­ण­वि­शि­ष्ट­स्यो­पा­दा­न­क­र्तृ­त्व­मु­पे­त्योक्तं, तदपि नास्तीत्याह -
अपिचेति ।

कर­ण­व्या­पा­रो­प­र­मस्य बुद्धि­पू­र्व­क­त्वा­त्त­स्मि­न्निष्टे तत्रात्मनः स्वात­न्त्र्य­म­पी­ष्ट­मे­वे­त्या­श­ङ्क्याह -
अबुद्धीति ।

व्यपदेशाच्च क्रिया­या­मि­त्यु­क्त­म­नूद्य प्रत्याह -
यस्त्विति ।
बुद्धौ विज्ञानशब्दस्य प्रसिद्धत्वं ‘विज्ञानेन विज्ञानमादाय’ इत्यादौ द्रष्टव्यम् ।

मनोमयानन्तरं विज्ञा­न­म­यो­क्तेश्च विज्ञानशब्दस्य बुद्ध्यर्थत्वं संनिधेरित्याह -
मनोनन्तरेति ।

तस्य तदर्थत्वे हेत्वन्तरमाह -
तस्येति ।

श्रद्धा­व­य­व­त्वेऽपि कुतो विज्ञानमयस्य बुद्ध्य­व्य­ति­रे­क­स्त­त्राह -
श्रद्धादीनां चेति ।

मन्त्र­शे­षा­लो­च­ना­या­मपि विज्ञानशब्दास्य बुद्ध्य­र्थ­ते­त्याह -
विज्ञानमिति ।

इन्द्रियाणि देवाः । तयापि कथं बुद्धिसिद्धिः, तत्राह -
ज्येष्ठ­त्व­स्येति ।
‘महद्यक्षं प्रथमजं वेद', 'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ इति बुद्धेरेव हिर­ण्य­ग­र्भा­भे­देन न्येष्ठ­त्वो­क्ते­र्वा­क्य­शेषे बुद्धि­सि­द्धि­रि­त्यर्थः ।

किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धि­सा­ध्य­त्व­सि­द्धे­र्य­ज्ञ­क­र्तृ­वि­ज्ञानं बुद्धिरेवेत्याह -
स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते तेन चित्तस्य पूर्वोत्तरभावो यज्ञ इति यज्ञ­क­र्तु­र्बु­द्धि­त्व­सि­द्धे­स्त­त्सा­मा­न्या­द­त्रापि बुद्धिरेव विज्ञा­न­मि­त्यर्थः ।

‘न चेन्नि­र्दे­श­वि­प­र्ययः’ इत्युक्तं ‘शक्ति­वि­प­र्य­यात्’ इत्युक्तेन सह दूषयति -
नचेति ।

विक्लिद्यन्ति तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति कारकान्तराणामपि स्वव्यापारेषु कर्तृ­त्व­स्वी­का­रा­दि­त्याह -
सर्वेति ।

तर्हि बुद्ध्यादीनां कर्तृत्वमेव न करणत्वं, नेत्याह -
उपलब्धीति ।

तत्रापि बुद्धेरेव कर्तृ­त्व­मि­त्या­श­ङ्क्यो­क्तम् -
सा चेति ।

तर्हि केव­ल­स्या­त्म­नस्तां प्रति कर्तृत्वं, नेत्याह -
नचेति ।
न चोप­ल­ब्धे­र्नि­त्यत्वे कुतो बुद्धेस्तत्र करणतेति वाच्यम् , विषयोपरक्ततया तस्या जन्यत्वात्तत्र कर­ण­त्व­सि­द्धि­रिति भावः ।

यत्तु बुद्धेः कर्तृत्वे कर्तु­र­ह­मि­त्यु­प­लभ्य प्रवृ­त्ति­दृ­ष्टे­रु­प­लब्धौ कर­णा­न्त­र­स्या­न्वे­ष्य­त्वाच्च केवलस्यैवात्मनः कर्तृत्वमिति, तत्राह -
अहङ्करेति ।

सत्यमहकारपू र्वकं कर्तृत्वं तथापि न तदुपलब्धुः साक्षि­णोऽ­स्ती­त्यत्र हेतुमाह -
अहङ्कारस्येति ।
अह­ङ्का­र­व­त्त­द्वि­शि­ष्ट­स्यैव चेतनस्य कर्तृत्वं साक्षिणोपलभ्यते तस्मान्न केवलस्यात्मनः कर्तृत्वम् । विशिष्टस्य च कर्तृत्वे ज्ञातुरेव कर्तृत्वं कर्तुरेव भोक्तृ­त्व­मि­त्ये­त­दपि सिध्यतीत्यर्थः ।

उपलब्धौ बुद्धे­र­क­र्तृत्वे बुद्धे­रु­प­ल­ब्धृत्वे करणान्तरं कल्प्यमित्यपि प्रत्यु­क्त­मि­त्याह -
नचेति ।
बुद्धे­रु­प­ल­ब्धृ­त्वा­भावे सतीति यावत् ।

किञ्च बुद्धेरुपलब्धौ करणत्वमात्मनश्च कर्तृत्वं नेष्टं तदात्मा बुद्ध्या जाना­ती­त्य­युक्तं, नेत्याह -
बुद्धेरिति ।
आत्म­स्व­रू­पो­प­लब्धौ नित्य­त्वा­त्क­र्त्रा­द्य­भा­वेऽपि तस्या­स्त­त्त­द­र्था­व­च्छेदे बुद्ध्यादीनां कर­ण­त्वा­दा­त्म­नश्च तदु­पा­धि­नाऽ­ह­ङ्का­र­पू­र्वकं कर्तृ­त्वा­द­वि­रुद्धा प्रसि­द्धि­रि­त्यर्थः ।

यत्तु समा­ध्य­भा­वा­च्चेति तत्राह -
समाधीति ।

उक्त­हे­तू­ना­मा­त्मनि स्वाभा­वि­क­क­र्तृ­त्वा­सा­ध­कत्वे सिद्धे विध्या­दि­श्रु­तीनां कल्पि­त­क­र्तृ­त्वो­प­जी­वि­त्वात् , असङ्गश्रुतीनां च वास्त­वा­स­ङ्ग­त्व­वा­दि­त्वा­न्मि­थो­वि­रो­धा­भा­वा­न्नि­त्य­शुद्धे ब्रह्मणि सम­न्व­य­सि­द्धि­रि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ४० ॥

औपाधिकमपि पूर्वोक्तं कर्तृ­त्व­मी­श्व­रा­य­त्त­मि­त्याह -
परात्त्विति ।

विषयमनूद्य जीवस्य कर­णा­दि­पौ­ष्क­ल्या­दी­श्व­रस्य कार­यि­तृ­त्व­श्रु­तेश्च संशयमाह -
यदिति ।

कर्म­मी­मां­स­क­पक्षं गृह्णाति -
तत्रेति ।
अत्र च ‘एष ह्येव’ इत्या­दि­श्रु­तीनां विधि­श्रु­त्या­दि­भि­र्वि­रो­ध­स­मा­धा­नेन सर्वनियामके ब्रह्मणि सम­न्व­य­स­मा­धा­ना­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे दर्शितश्रुतीनां मिथो­वि­रो­धा­द­प्रा­मा­ण्या­दुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन प्रामा­ण्या­त्तत्र तत्सिद्धिः ।

शास्त्रा­दी­श्व­र­स्या­पे­क्ष­णी­य­तेति शङ्कते -
कस्मादिति ।

कर्तृ­त्व­सा­म­ग्र्या­मी­श्व­रोऽ­न्त­र्भूतो न वेति विकल्प्य द्वितीयं निरस्यति -
अपेक्षेति ।

आद्यं प्रत्याह -
अयं हीति ।
कारकान्तराणि तत्त­त्का­र्य­नि­र्मा­ण­का­र­णानि करणादीनि तेषां साम­ग्री­स­म्पू­र्णता तया सम्पन्नः सहितः सन्निति यावत् ।

एवं कर्तृत्वे सम्भवति नेश्वरापेक्षा केव­ल­व्य­ति­रे­का­भा­वा­दि­त्याह -
तस्येति ।

मा भूदीश्वरस्य शास्त्र­व­शा­द­पे­क्ष्यत्वं, मानान्तरात्तु भविष्यति, तत्राह -
नचेति ।

किञ्चेश्वरो द्वेष­प­क्ष­पा­त­र­हितः साध्वसाधुनोर्न कर्म­णो­र्जी­वा­न्प्र­व­र्त­येत् , तस्य स्वतन्त्रस्य कारु­णि­क­त्वा­त्क­र्मणि साधुन्येव प्रवर्तकत्वात् । अतो विचि­त्र­स­र्गा­सि­द्धि­रि­त्याह -
क्लेशेति ।

उक्तो­त्त­र­त्वा­द­न­व­काशं चोद्यमिति शङ्कते -
नन्विति ।
तत्रेश्वरस्य जग­त्का­र­ण­त्व­प्र­कृ­त­दो­षा­भा­व­श्चि­न्तितः । अत्र तु जीवस्य कर्तृ­त्वेऽ­पी­श्व­रस्य प्रयो­ज­क­त्व­कृ­त­दो­षा­भावं सापे­क्ष­त्व­मा­क्षिप्य चिन्तयतीत्यर्थः ।

भेदमुपेत्याह -
सत्यमिति ।
ईश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं तत­स्त­द­धी­न­क­र्मा­पे­क्ष­मी­श्व­रस्य कारयितृत्वमिति चक्र­का­दि­दो­ष­प्र­स­ङ्गा­न्ने­श्व­रस्य सापे­क्ष­त्वा­दि­त्यर्थः ।

ईश्वरायत्ते जीवस्य कर्तृत्वे पूर्व­पू­र्व­क­र्म­वा­स­ना­सा­पे­क्ष­मु­त्त­रो­त्त­र­क­र्तृ­त्व­मि­त्यपि न सिध्यतीत्याह -
अकृतेति ।

जीव­स्ये­श्व­रा­पे­क्षा­भावे फलितमाह -
तस्मादिति ।
स्वतश्चेदस्य कर्तृत्वं विध्या­दि­श्रु­ति­सिद्धं तदा ‘एष ह्येव’ इत्या­दि­श्रु­ति­वि­रोधे सम­न्व­या­सि­द्धि­रि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

सिद्धान्तयति -
एतामिति ।

प्रतिज्ञां विवृणोति -
अविद्येति ।

जीवस्येश्वरादेव संसारस्य मोक्षस्य च सिद्धि­र्भ­वि­तु­म­र्ह­तीति सम्बन्धः । तस्य पर­स्म­द­त्य­न्ता­न्यत्वं निरस्यति -
अविद्येति ।
सैव तिमिरं विद्या­प्र­का­श­म­न्त­रे­णा­नि­रा­क­र­णा­त्ते­नान्धः स्वरू­प­ज्ञा­न­ही­न­श्चि­दात्मा तस्या­व­च्छि­न्न­स्व­भा­वस्य देहा­दि­स­मु­दा­य­वि­ष­या­वि­वे­क­द­र्शनं विभ्र­म­स्त­च्छी­लस्य विक्षिप्तस्य जीवस्य सतोऽ­वि­द्या­द­शायां संसारस्य पृथक्त्वेन कल्पि­ता­दी­श्व­रा­त्सि­द्धि­रिति यावत् ।

तस्य वास्तवपररूपमाह -
परस्मादिति ।

सर्व­वि­ष­य­ज्ञा­ना­भावे कथं कारयितृत्वं, तत्राह -
कर्मेति ।

तथापि सर्वत्र संनिध्यभावे कार­यि­तृ­त्वा­सिद्धिः, तत्राह -
सर्वेति ।

तथापि तज्ज्ञानाभावे तदसिद्धिः, तत्राह -
साक्षिण इति ।

तदुपपादयति -
चेतयितुरिति ।

ईश्वरस्य कारयितृत्वे स्वग­त­व्या­पा­र­व­त्त्व­मा­श­ङ्क्यो­क्तम् -
तदिति ।

संसा­र­स्या­न­र्थ­त्वेन हेयत्वार्थं विशिनष्टि -
कर्तृत्वेति ।

कथं बन्ध­हे­तु­री­श्व­र­स्त­द्वि­रु­द्ध­मो­क्ष­हेतुः स्यात् , तत्राह -
तदनुग्रहेति ।

जीवस्य दोष­प्र­यु­क्त­त्वा­त्का­र­का­न्त­र­सा­म­ग्री­म­त्त्वा­दी­श्व­रस्य कृष्यादिषु कार­ण­त्वा­प्र­सि­द्धेश्च न तदपेक्षं कर्तृत्वमित्याह -
कुत इति ।

सौत्रं हेतुमवतार्य व्याचष्टे -
तदिति ।
केव­ल­व्य­ति­रे­का­भा­वेऽपि श्रुतेरीश्वरस्य सुखादौ धर्मादेरिव कारणत्वं केवलव्यतिरेकस्य दृष्ट­का­र­ण­क्लृ­प्ति­वि­ष­य­त्वा­दा­ग­म­स्या­दृ­ष्ट­का­र­ण­क­ल्प­क­त्वेन व्यवस्थानादिति भावः ।

तामेव श्रुतिमाह -
तथाहीति ॥ ४१ ॥

चोद्या­न्त­र­म­नु­द्र­वति -
नन्विति ।

उत्तरत्वेन सूत्रमवतारयति -
नेतीति ।

तदक्षराणि व्याकरोति -
तुशब्द इति ।

ईश्वरस्य प्रव­र्त्या­दृ­ष्टा­पे­क्षया प्रवर्तकत्वे फलितमाह -
ततश्चेति ।

दोषा­णा­म­प्र­स­ङ्ग­मेव प्रकटयति -
जीवेति ।

धर्मा­ध­र्मा­भ्या­मेव फल­वै­ष­म्या­सि­द्धे­र­ल­मी­श्व­रे­णे­त्या­शङ्क्य पर्ज­न्य­व­दि­त्यु­क्तम् । तद्विवृणोति -
यथेति ।
अतिदीर्घा वल्ल्यो गुच्छाः, ह्रस्वा गुल्मा इति भेदः ।

बीजेभ्यो जाय­मा­न­व्री­ह्या­दीनां कृतं पर्ज­न्ये­ने­त्या­श­ङ्क्याह -
न हीति ।

कृतं तर्हि बीजै­रि­त्या­श­ङ्क्याह -
नापीति ।

दार्ष्टान्तिकं विवृणोति -
एवमिति ।

यदि जीवेन कृतः स्वेच्छया कश्चि­त्प्र­य­त्न­स्तदा तदपेक्षः सन्नीश्वरो विषमं कर्तृत्वं कुर्यात् । न तु तदस्ति, चक्रकापत्तेरिति शङ्कते -
नन्विति ।

किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वमेव नेत्यापाद्यते किं वा तस्य कर्तृत्वे कार­यि­तृ­त्व­मी­श्व­रस्य नेति, तत्राद्यं प्रत्याह –
नेति ।
न हि गुर्वधीनो माणवको नाध्ययनस्य कर्तेति भावः ।

द्वितीयं दूषयति -
कुर्वन्तं हीति ।
अध्ययनशक्तं प्रत्ये­वा­ध्या­प­क­त्वो­प­ल­म्भा­त्क्रि­या­श­क्ति­मन्तं जीवं प्रत्यपि कार­यि­तृ­त्व­मी­श्व­रस्य युक्तमिति भावः ।

चक्रकापत्तिं निरस्याति -
अपिचेति ।
अनवद्यं जीवस्य कर्तृत्वं तत्कृ­त­ध­र्मा­ध­र्मा­पे­क्षया च कार­यि­तृ­त्व­मी­श्व­र­स्येति शेषः ।

तस्य सापेक्षत्वे मानं पृच्छति -
कथमिति ।

तत्र मानोक्तिपरं सूत्रा­व­य­व­मा­दत्ते -
विहितेति ।

ईश्वरस्य सापेक्षत्वे विहितस्य निषिद्धस्य चावैयर्थ्यम् , तस्य चेन्नैरपेक्ष्यं तदा तयोरानार्थक्यम् । अत­स्त­यो­र­र्थ­व­त्त्वा­नु­प­प­त्ति­री­श्व­रस्य सापे­क्ष­त्व­सा­धि­के­त्याह -
एवमिति ।

किमितीश्वरस्य नैरपेक्ष्ये विहि­ता­दि­वै­यर्थ्यं, तत्राह -
ईश्वरइति ।
तयोः स्थाने स एव नियुज्येत यत्ताभ्यां कार्यं तदसावेव कुर्यादिति तयो­रा­न­र्थ­क्य­मि­त्यर्थः ।

जीवं प्रति प्रवर्तकत्वेन निवर्तकत्वेन च तद­र्थ­व­त्त्व­मा­श­ङ्क्याह -
अत्यन्तेति ।
सर्वात्मना जीव­स्ये­श्व­रा­धी­न­त्वा­त्त­त्प्रे­रि­तस्य प्रवृ­त्ति­नि­वृ­त्ति­भा­क्त्वा­त्कृतं विधि­नि­षे­धा­भ्या­मि­त्यर्थः ।

आदिशब्दार्थमाह -
तथेति ।

अत्यन्तं स्वात­न्त्र्या­देवं कुर्वन्नपीश्वरो न पर्य­नु­यो­ग­म­र्ह­ती­त्या­श­ङ्क्याह -
ततश्चेति ।
ईश्वरस्य स्वातन्त्र्येण फलहेतुत्वे समी­हि­ता­स­मी­हि­त­हे­तु­भे­द­वि­धायि शास्रममानं स्यादित्यर्थः ।

आदिशब्दगृहीतं दोषान्तरमाह -
ईश्वरस्येति ।

पुरुषकारस्य ।
इष्टा­नि­ष्टा­प्ति­हा­ना­नु­कू­लस्य यत्नस्येति यावत् । पुरु­ष­का­र­वै­यर्थ्यं दृष्टान्तयितुं तथेत्युक्तम् । तेषां वैयर्थ्यमिति सम्बन्धः । पूर्वो­क्त­दो­षोऽ­कृ­ता­भ्या­ग­मादिः । तदेवम् ‘एष हि’ इत्या­दि­श्रु­तीनां विध्या­दि­श्रु­ति­भि­र­वि­रो­धा­त्प­र­स्मि­न्न­शे­ष­नि­य­न्तरि सम­न्व­य­सि­द्धि­रिति ॥ ४२ ॥

जीवा­त्म­न्या­रो­पितं कर्तृ­त्व­मी­श्व­रा­य­त्त­मि­त्यु­क्तम् । इदानीं निर्धा­रि­त­यो­ग्य­त्वस्य तस्य ब्रह्मैक्यं साधयति -
अंश इति ।

विषयं वक्तुं वृत्तं कीर्तयति -
जीवेति ।

तस्य सम्ब­न्धा­पे­क्ष­क­त्व­माह -
स चेति ।

सिद्धा­न्ता­नु­सा­रि­ण­मपि दृष्टान्तमाह -
यथा वेति ।

उप­का­र्यो­प­का­र­क­त्वा­क्षिप्तं जीवे­श्व­र­स­म्बन्धं विष­यी­कृ­त्यो­भ­य­था­दृष्टिं हेतुं कृत्वा विचारप्रयोजकं सन्देहमाह -
ततश्चेति ।

नियामकाभावेन पूर्वपक्षाभासं सङ्गृह्णाति -
अनियम इति ।

जीवे­श्व­र­यो­र­नं­श­त्वेन प्रदेशवृत्तेः संयो­ग­स्या­नु­प­पत्तेः, समवायस्य च निरस्तत्वात् , कार्य­का­र­ण­त्वा­दि­ही­न­तया तादात्म्यस्यापि दुःसम्पादत्वात् , निरंशे चांशासम्भवात् , ‘पादोऽस्य’ इत्या­दि­श्रु­ते­रौ­प­चा­रि­क­त्वात् , भृत्य­स्वा­मि­स­म्ब­न्धस्य च प्रसिद्धत्वात् , अनियमस्य च जघ­न्य­त्वा­न्नि­य­मेन भृत्य­स्वा­मि­ल­क्षणः सम्ब­न्ध­स्त­यो­रि­त्याह -
अथवेति ।
अत्र च जीव­ब्र­ह्म­भे­दा­भे­द­श्रु­ति­वि­रो­ध­नि­रा­से­नै­क­रसे ब्रह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे भेदा­भे­द­श्रु­तीनां विरो­धा­द­प्रा­मा­ण्या­दु­क्त­स­म­न्व­या­सिद्धिः । सिद्धान्ते तासा­म­वि­रो­धा­त्प्रा­मा­ण्या­त्त­त्सिद्धिः ।

पूर्वपक्षमनूद्य प्रति­ज्ञा­म­व­तार्य व्याकरोति -
अत इति ।

अग्नेः सांश­त्वा­दं­शां­शि­त्वेऽपि प्रकृते न सांशतेति प्रति­ज्ञा­सि­द्धि­मा­श­ङ्क्याह -
अंश इति ।

सूत्र­सा­म­र्थ्या­न्मु­ख्य­मे­वां­शत्वं जीवस्य किं न स्यात् , तत्राह -
नहीति ।

चोद्यद्वारा सूत्रा­व­य­व­मा­दत्ते -
कस्मादिति ।

व्यतिरेकेण व्याकरोति -
स इति ।

आत्यन्तिकाभेदे भेदो­क्त्य­सि­द्धि­श्चे­त्त­द­र्थ­मा­त्य­न्तिको भेदः स्यादिति शङ्कते -
ननु चेति ।

कथञ्चिद्भेदेऽपि यस्य सिद्धि­स्त­स्या­ति­श­येन सिद्धि­रा­त्य­न्तिके भेदे स्यादित्युक्तम् -
सुतरामिति ।

सूत्रा­व­य­वे­नो­त्त­र­माह -
अत इति ।

तस्यार्थमाह -
नचेति ।

अभेदव्यपदेशं विश­द­य­न्दा­श­कि­त­वा­दि­त्व­मि­त्यादि व्याचष्टे -
तथाहीति ।

दाशा­दि­प­दा­र्थो­क्ति­पू­र्व­क­मु­द्दे­श्य­वि­धे­यत्वं प्रक­ट­य­न्ही­न­ज­न्तू­दा­ह­र­ण­ता­त्प­र्य­माह -
दाशा इति ।

उक्ता­र्थ­स्फु­टी­क­र­णा­र्थ­मु­दा­ह­र­णा­न्त­र­माह -
तथेति ।
वञ्चसि गच्छसि ।

सूत्रात्मैवात्र सर्वात्मत्वेन स्तूयते न पर­मा­त्मे­त्या­शङ्क्य श्रुत्यन्तरमाह -
सर्वाणीति ।
यदास्ते यो नामरूपे निर्मा­या­भि­व­द­नादि कुर्वन्वर्तते तं विद्वा­नि­है­वा­मृतो भवतीति सम्बन्धः ।

न केवलं विधि­द्वा­रै­वा­भेदो बोध्यते किन्तु निषे­ध­द्वा­राऽ­पी­त्याह -
नेति ।

न केवलं श्रुतितोऽभेदो न्यायतश्चेत्याह -
चैतन्यं चेति ।
जीवो नात्यन्तं ब्रह्मणो भिद्यते, चिद्रूपत्वात् , ब्रह्म­व­दे­वे­त्यर्थः ।

व्यप­दे­शा­भ्या­मु­प­प­त्तेश्च फलितमाह -
अत इति ॥ ४३ ॥

अंशत्वसिद्धौ हेत्व­न्त­र­त्वे­ना­न्त­र­सू­त्र­म­व­ता­र­यति -
कुतश्चेति ।

तद्व्याचष्टे -
मन्त्रेति ।

अस्य सहस्रशीर्ष्णः पुरुषस्य तावान्महिमा विभूतिनं स्वरूपं यावानेष प्रप­ञ्च­स्त­त­स्त­स्मा­त्प्र­प­ञ्चा­ज्ज्या­या­न्म­ह­त्तर एवायं प्रकृतः पुरुषः । आद्यपादार्थं विवृणोति -
पादोऽस्येति ।

द्वितीयपादार्थं प्रपञ्चयति -
त्रिपादिति ।

भूतशब्देन रूढियोगाभ्यां महाभूतानां जनिमन्मात्रस्य ज्ञाने कुतो जीवो­क्ति­रि­त्या­श­ङ्क्याह -
अत्रेति ।

वृद्ध­व्य­व­हा­रा­भावे कथं भूत­श­ब्द­स्यो­क्ता­र्थ­त­ते­त्या­शङ्क्य वैदिकव्यवहारं दर्शयति -
अहिंसन्निति ।
तीर्थानि शास्त्रोक्तानि कर्माणि तेभ्योऽन्यत्र सर्वाणि भूता­न्य­हि­स­न्व­र्ते­ते­त्यत्र भूतशब्दो जीवप्रधानेषु स्थावरजङ्गमेषु प्रयुज्यते तत्र प्राप्त­हिं­सा­नि­षे­धस्य फलवत्त्वात् । अतो युक्तं प्रकृतेऽपि भूतशब्दस्य जीव­वि­ष­य­त्व­मि­त्यर्थः ।

तथापि भूतानां पादत्वमेवोच्यते न त्वंश­त्व­मि­त्या­श­ङ्क्याह -
अंश इति ।

मान्त्र­व­र्णि­क­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ४४ ॥

न केवलं श्रुतेरेव जीव­स्ये­श्व­रां­शत्वं किन्तु स्मृतेरपीति सूत्रा­न्त­र­मु­त्था­प­यति -
कुतश्चेति ।

तद्व्याकरोति -
ईश्वरेति ।

स्मृति­सि­द्ध­मर्यं निगमयति -
तस्मादिति ।

जीवे­श्व­र­यो­री­शि­त्री­शि­त­व्य­भा­वा­त्तस्य स्वामि­भृ­त्या­दि­ष्वेव प्रसि­द्ध­त्वा­त्तयोः स्वामिभृत्यभावः सम्बन्धो नांशांशित्वं लोक­प्र­सि­द्धि­वि­रो­धा­दि­त्या­श­ङ्क्यो­क्त­म­नु­व­दति -
यत्त्विति ।

यव­व­रा­हा­धि­क­र­ण­न्या­येन लोकप्रसिद्धिः शास्त्री­य­प्र­सिद्ध्या बाध्येत्याह -
यद्यपीति ।

जीवे­श्व­र­यो­रौ­पा­धि­क­त्वा­वि­शेषे कस्मा­दी­शि­त्री­शि­त­व्य­भावो विपरीतो न स्यादि­त्या­श­ङ्क्याह -
निरतिशयेति ।
एकस्मिन्नेव पूर्णे चिदा­त्म­न्य­ना­द्य­नि­र्वा­च्या­वि­द्या­क­ल्पितो जीवे­श्व­र­ज­ग­द्भेदः । तत्र कल्पि­तो­पा­ध्यु­त्क­र्ष­नि­क­र्ष­व­शा­दी­शि­त्री­शि­त­व्य­व्य­वस्था । वस्तुतस्तु सर्वकल्पनातीतं चिदे­क­ता­न­म­द्वि­तीयं तत्त्वमिति भावः ॥ ४५ ॥

उत्त­र­सू­त्र­व्या­वर्त्यां शङ्कामाह -
अत्रेति ।
जीवे­श्व­र­यो­रं­शां­शित्वं सप्तम्यर्थः ।

दुःखित्वं स्यात् ।
तत­श्चा­नी­श्व­र­त्व­मिति शेषः ।

अंशगतेन दुःखेनांशिनो दुःखित्वं दृष्टान्तेन स्पष्टयति -
यथेति ।

ईश्वरस्य दुःखित्वे दोषान्तरमाह -
ततश्चेति ।

ब्रह्म­प्रा­प्तानां महत्तरे दुःखे प्राप्ते मोक्ष­स्या­पु­रु­षा­र्थ­ते­त्याह -
अत इति ।

तस्यापुमर्थत्वे सम्य­ग्धी­सा­ध­न­वि­धा­यि­शा­स्त्र­वै­य­र्थ्य­मि­त्याह -
इति सम्यगिति ।

सूत्रमवतारयति -
अत्रेति ।

नैवं पर इति भागं विभजते -
यथेति ।

प्रतिज्ञाते विभागे हेतुमाह -
जीवो हीति ।

जीवस्य दुःखित्वे तदंशित्वादीश्वर स्यापि दुःखि­त्व­मि­त्या­शङ्क्य तस्यापि वस्तु­तोऽ­दुः­खि­त्वा­न्मै­व­मि­त्याह -
जीवस्येति ।
न चानिर्वाच्यमेव दुःखं, ब्रह्मण्यपीति वाच्यं, तदु­प­ना­य­क­दृ­ष्ट्य­भा­वात् , कल्पितस्य च दृष्टि­मा­त्र­दे­ह­त्वात् , जीवद्वारा च ब्रह्मणि तदुपगमात् । नचैवं ब्रह्म­प्रा­प्तानां मह­त्त­र­दुः­ख­प्रा­प्ति­र­ज्ञा­न­त­ज्ज­ध्व­स्ते­रेव तत्प्रा­प्ति­त्वा­दिति भावः ।

मिथ्याभिमानकृतं दुःख­मि­त्य­युक्तं, पुत्रादौ विवे­क­बु­द्ध्या­त्मा­भि­मा­ना­भा­वेऽपि तद्ग­त­दुः­ख­स्या­त्म­न्या­रो­पा­दि­त्या­श­ङ्क्याह -
यथा चेति ।

अनुभवितारं विशिं­ष­न्भ्रा­न्ति­म­भि­न­यति -
अहमिति ।

अन्वयेनोक्तं निगमयति -
ततश्चेति ।

तमेवार्थं व्यतिरेकेण स्फोरयति -
व्यतिरेकेति ।

तदेव विवृणोति -
तथा हीति ।

उक्तं व्यति­रे­क­मु­प­जीव्य सम्य­ग्द­र्श­ना­न­र्थ­क्य­प्र­सङ्गं प्रत्यादिशति -
अतश्चेति ।
लौकिकस्य शास्त्रो­त्थ­त­त्त्व­धी­शू­न्य­स्ये­त्यर्थः ।

सम्यग्दर्शनं विवे­क­ज्ञा­न­मा­त्रम् ।
विषयशून्यात् ।
अविषयादिति यावत् । तस्य सम्यग्दर्शनं शास्त्रीयं तत्त्व­सा­क्षा­त्क­रणं तस्या­र्थ­व­त्त्व­मिति किमु वक्तव्यमिति योजना ।

कैमु­ति­क­न्या­य­फ­ल­माह -
तस्मादिति ॥ ४५ ॥

ईश्वरः स्वांश­ग­तै­र्दुः­खै­र्दुःखी स्यात् , अंशित्वात् देव­द­त्त­व­दि­त्यत्र तन्नि­मि­त्त­भ्र­म­व­त्त्वो­पा­धे­र­प्र­यो­जको हेतुरित्युक्तम् । इदानीं तात्त्विकं प्रातीतिकं वा दुःखित्वमीश्वरे साध्यमिति विकल्प्याद्ये यदंशाश्रितं तदंशिनि वस्तुतः स्यादित्यत्र व्यभिचारमाह -
प्रकाशेति ।

प्रका­श­दृ­ष्टान्तं व्याचष्टे -
यथेति ।

आत्मन्युपाधितो दुःखा­दि­प्र­ती­ति­रेव, वस्तुतस्तु न प्राप्ति­रि­त्यत्र दृष्टा­न्त­मुक्त्वा लोक­द्व­य­सं­सा­र­स्यापि तस्मि­न्प्र­ती­ति­मात्रं न वस्तुतेत्यत्र दृष्टान्तमाह -
यथा चेति ।

क्रिया­मा­त्र­स्या­त्मनि वस्तुतो नास्ति प्राप्ति­रि­त्य­त्रो­दा­ह­र­णम् -
यथाचेति ।

दृष्टा­न्त­त्र­य­ग­त­मर्थं दार्ष्टान्तिके योजयति -
एवमिति ।

वास्तवे दुःखित्वे साध्ये व्यभि­चा­र­मुक्त्वा दृष्टान्तस्य साध्यवैकल्यमाह -
जीवस्येति ।

प्रतीतिके दुःखित्वे साध्ये जीवद्वारा परस्मिन्नपि तत्प्र­ती­ते­रि­ष्ट­त्वेन सिद्धसाध्यतां मत्वोभयत्रापि नास्ति वस्तुतो दुःखि­त्व­मा­ग­म­वि­रो­धा­दि­त्याह -
तथाचेति ।

पर­की­या­नु­मा­न­नि­रा­स­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ॥ ४६ ॥

पारनुमाने श्रुति­स्मृ­ति­वि­रु­द्ध­तया कालात्ययापदेशं दर्शयति -
स्मरन्तीति ।

तत्र स्मृतिविरोधं विभजते -
स्मरन्ति चेत्यादिना ।

कासौ स्मृतिस्तामाह -
तत्रेति ।
निर्धारणार्थ सप्तमी । फलैश्चापीति चका­रा­त्क­र्म­भि­र­पी­त्यर्थः । कर्मात्मा कर्माश्रयो जीवः । पञ्च ज्ञाने­न्द्रि­याणि पञ्च कर्मेन्द्रियाणि पञ्च वायवो मनो बुद्धिश्चेति सप्त­द­श­स­ङ्ख्या­व­च्छिन्नः समूहः सप्तदशको राशिस्तेनेति यावत् ।

सूत्रे स्मृतिविरोध उद्भाव्यते, श्रुतिविरोधस्तु न भाती­त्या­श­ङ्क्याह -
चशब्दादिति ।
यथादित्यः सर्वप्रकाशको न प्रकाश्यदोषैः स्पृश्यते तथेति यावत् ॥ ४७ ॥

अंशां­शि­त्व­मु­पे­त्यां­शि­त्व­हे­तो­र­प्र­यो­ज­क­त्वा­द्यु­क्तम् । इदानीमंश इत्यु­क्त­मा­क्षिप्य समाधातुं स्वरू­पै­क्य­मा­दा­या­क्षि­पति -
अत्रेति ।
कथ­मि­त्य­स्मा­दु­प­रि­ष्टा­त्त­र्हीति सम्बध्यते । अनु­ज्ञा­दि­व्य­व­स्था­नु­प­पत्त्या स्वरूपभेदः स्यादित्यर्थः ।

आक्षे­प्तु­र्वि­व­क्षि­त­म­ज्ञात्वा शङ्कते -
नन्विति ।

अंशांशित्वे फलितमाह -
तदिति ।
तेषामंशानां जीवानामंशिनः परस्मान्मिथश्च भेदादिति यावत् ।

अनुज्ञादेरेवं सिद्धौ चोद्या­सि­द्धि­र­नु­ज्ञा­दि­वि­षये फलतीत्याह -
किमिति ।

आक्षेप्ता प्रत्याह -
उच्यत इति ।

जीव­स्ये­श्व­रां­श­त्व­मा­श्रि­त्या­नु­ज्ञादेः सिद्धिरुक्ता, तां निरस्यति -
नैतदिति ।

अभेदवादिनीः श्रुती­र­नु­क्रा­मति -
तदित्यादिना ।

व्यप­दे­श­द्व­य­मा­दा­योक्तं सिद्धान्ती स्मारयति -
नन्विति ।

उभ­य­दृ­ष्ट्यांऽ­श­त्व­मु­भयोः प्रतिपाद्यत्वे स्यात् । न च तदस्तीत्याह -
स्यादिति ।

भेदाभेदयोरभेदं निर्धा­र­यि­तु­म­त्रे­त्यु­क्तम् । तस्यैव प्रतिपाद्यत्वे हेतुमाह -
ब्रह्मेति ।

भेदोऽपि प्रति­पा­द्य­ता­म­भे­द­व­दि­त्या­श­ङ्क्याह -
स्वभावेति ।
अविद्या स्वभावः ।

इतश्चाभेदस्यैव प्रति­पा­द्य­ते­त्याह -
नचेति ।

तस्यैव प्रतिपाद्यत्वे फलितमाह -
तस्मादिति ।

स्मरूपैक्ये स्थिते पूर्वो­क्ता­नु­प­प­त्ति­ता­द­व­स्थ्य­मि­त्याह -
इत्यत इति ।

अनुज्ञासिद्धये स्वरूपभेदे वाच्ये सिद्धान्ती सूत्रेणोत्तरमाह -
तामिति ॥ ४८ ॥

वैदि­का­नु­ज्ञा­प­रि­हारौ ज्ञान­सौ­क­र्या­र्थ­मु­दा­ह­रति -
ऋताविति ।

लौकिकावपि तौ दर्शयति -
एवमिति ।

लौकि­क­वै­दि­का­नु­ज्ञा­दे­रु­क्त­रू­प­त्वेऽपि कथमैकात्म्ये तयोः सिद्धि­रि­त्या­श­ङ्क्याह -
एवमिति ।

आत्मनो देहेन सम्बन्धेऽपि कथमुभयोः सिद्धिः, तत्राह -
देहैरिति ।

आत्मनोऽसङ्गस्य न तैः सङ्गतिरित्याह -
क इति ।

असङ्गत्वेऽपि तस्य देहादिसम्बन्धं दर्शयति -
देहादिरिति ।

उक्ते सम्बन्धे मानमाह -
दृष्टा चेति ।

तस्या अवि­द्या­त्म­क­त्वेन निवृ­त्त­त्वा­न्ना­नु­ज्ञा­दि­प्र­यो­ज­क­ते­त्या­शङ्क्य सम्य­ग्ज्ञा­ना­त्प्रा­गूर्ध्वं वा तस्या निवृत्तिरिति विकल्प्याद्यं दूषयति -
नहीति ।
अवि­द्या­त्म­क­त्वा­त्तस्याः सम्य­ग्ज्ञा­ना­ति­रि­क्त­वि­रो­ध्य­भा­वा­दि­त्यर्थः ।

निवा­र­का­न्त­रा­भावं तुशब्देन परामृश्य सर्व­त्रा­स­ङ्कु­च­द्वृ­त्ति­त्व­मु­क्त­स­म्ब­न्ध­स्याह -
प्राक्त्विति ।

अज्ञानावस्थायां देहा­दि­यो­ग­स्या­नि­वृ­त्तत्वे फलितमाह -
तदेवमिति ।
विशेषो भेदः ।

द्वितीयमालम्बते -
सम्यगिति ।

सम्यग्दर्शनं किमात्मैक्यधीः किं वा देहातिरिक्तधीः । नाद्यः, तद्वतो देहा­दि­स­म्ब­न्ध­नि­वृ­त्ते­र­नु­ज्ञा­द्या­न­र्थ­क्य­स्ये­ष्ट­त्वा­दि­त्याह -
नेति ।

अनुपपत्तिमेव वक्तुं सामान्यन्यायमाह -
हेयेति ।

तथापि कथ­मा­त्मै­क्य­द­र्शिनो नियो­ज्य­त्वा­सिद्धिः, तत्राह -
आत्मनस्त्विति ।

आत्मानतिरिक्ते विषये नियो­ज्य­त्व­मा­श­ङ्क्या­हे­यो­पा­दे­य­त्वा­दा­त्मनो नैवमित्याह -
नचेति ।