न्यायनिर्णयव्याख्या
२ परिच्छेदः
द्वितीयं शङ्कते -
शरीरेति ।
व्यतिरेकादर्शने नियोज्यत्वासिद्धेः सति तस्मिन्देहासम्बन्धान्नियोगायोगादनुज्ञाद्यानर्थक्यमित्यर्थः ।
देहाद्व्यतिरेकदर्शिनोऽपि तत्संहतत्वाभिमानिनो नियोज्यत्वयोगादनुज्ञादेरर्थवत्तेत्याह -
नेत्यादिना ।
तदेव विभजते -
सत्यमिति ।
अङ्गीकृतं भागं दर्शयति -
व्यतिरेकेति ।
तर्हि देहादियोगस्य निवृतेरनुज्ञाद्यसिद्धिः, तत्राह -
तथापीति ।
असंहतत्वेऽपि तद्दर्शनाभावे दृष्टान्तमाह -
व्योमादिवदिति ।
व्यतिरेकदर्शिनो नियोज्यत्वं चेदविशेषादैक्यदर्शिनोऽपि स्यादित्याशङ्क्याह -
नहीति ।
देहादिष्वसंहतत्वदर्शिनः संहतत्वधीशून्यस्य सुषुप्तस्येति यावत् ।
तर्हि सम्यग्दर्शिनो विधिनिषेधाभावाद्यथेष्टचेष्टापत्तिः, नेत्याह -
नचेति ।
विषयाभिनिविष्टचेतसो ज्ञानानुदयादवश्यं साधकावस्थायामेवाभिनिवेशत्यागेन भवितव्यम् । तस्य पुनः सम्यग्ज्ञानोदयेऽपि पूर्ववासनातो विषयाभिनिवेशाभावान्नियतप्रवृत्तेर्न यथेष्टचेष्टेत्यर्थः ।
प्रसङ्गागतं त्यक्त्वा प्रकृतमुपसंहरति -
तस्मादिति ।
उपाधिवशादनुज्ञापरिहारावित्यत्र दृष्टान्तमाह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति श्मशानादिसम्बन्धी वह्निरत्र क्रव्यादित्युच्यते ॥ ४८ ॥
अनुज्ञादेरुक्तरीत्या सिद्धिमुपेत्य कर्मफलसम्बन्धव्यतिकरमाशङ्क्य परिहरति -
असन्ततेश्चेति ।
सूत्रव्यावर्त्यं शङ्कामाह -
स्यातामिति ।
यद्यपि स्थूलदेहावच्छेदादनुज्ञापरिहारौ युज्येते तथापि कर्मफलसङ्करो दुर्वारः, एतद्देहिविशिष्टस्य स्वर्गादिभोगायोगे स्वरूपस्यैव तद्योगध्रौव्यात् । अतः स्वर्गीतरादिव्यवस्थानुपपत्त्या स्वरूपभेद इत्यर्थः ।
किं परमात्मापेक्षयैकत्वं किं वा जीवापेक्षया । आद्ये परस्याभोक्तुरपि सर्वाश्रयत्वान्न व्यतिकराशङ्केत्याह -
नैतदिति ।
द्वितीयं सूत्रवयवेन निरस्यति -
असन्ततेरिति ।
तदेव विवृणोति -
नहीति ।
स्थूलदेहयोगव्यभिचारेऽप्यविद्यातदुत्थान्तःकरणयोगस्यासंसारमोक्षादव्यभिचारात्तदवच्छिन्नस्यैव स्वर्गादिभोगित्वान्न व्यवस्थायाः स्वरूपभेदधीरित्यर्थः ।
औपाघिकभेदेन व्यवस्थोपपत्तिं सूत्रावयवार्थं दर्शयति -
ततश्चेति ॥ ४९ ॥
आद्ये सूत्रे जीवस्यांशत्वमवच्छेदबुद्धयोक्तमधुना ‘रूपं रूपम्' इत्यादिश्रुतिसिद्धं प्रतिबिम्बपक्षमुपन्यस्यति -
आभास इति ।
तद्व्याख्याति -
आभास एवेति ।
एवकारार्थमाह -
नेत्यादिना ।
न हि जीवः साक्षात्परमात्मैव, उपाधिव्यवधानात् । नापि वस्त्वन्तरं, ‘तत्सृष्ट्वा’ इत्यादिश्रुतिस्मृतिविरोधादित्यर्थः ।
आभासपक्षे स्वर्गीतरादिव्यवस्थापि सुस्थेत्याह -
अतश्चेति ।
अस्मिन्पक्षे बन्धोऽज्ञानाज्ज्ञानान्मुक्तिरित्येतदपि सिध्यतीत्याह -
अभासस्येति ।
स्वरूपैक्येऽपि नास्ति दुःखादिसङ्कर इत्युक्त्वा चकारसूचितं वक्तुमुपक्रमते -
येषां त्विति ।
आत्मभेदात्परमते व्यतिकरो नेति शङ्कते -
कथमिति ।
परपक्षे व्यतिकरं प्रसञ्जयितुं साङ्ख्याभिप्रायं तावदाह -
बहव इति ।
कथंं तर्हि तेषां भोगापवर्गौ, तत्राह -
तदर्थमिति ।
वैशेषिकप्रक्रियामाह -
सतीति ।
घटादिसाम्यमेव स्फोरयति -
द्रव्येति ।
मात्रचो विवक्षितं दर्शयति -
स्वत इति ।
कथं तर्हि तेषु भोगापवर्गौ, तत्राह -
तदिति ।
तथापि कथं बन्धमोक्षावित्याशङ्क्य बन्धस्वरूपमाह -
तत्रेति ।
मुक्तिस्वरूपमाह -
तेषामिति ।
स्वापादिव्यावृत्त्यर्थमत्यन्तपदम् ।
पक्षद्वयमनूद्य साङ्ख्यपक्षे व्यवस्थानुपपत्तिमाह -
तत्रेति ।
संनिधानाद्यविशेषादित्यादिशब्दादौदासीन्यमुक्तम् । साङ्ख्याभिप्रायमाशङ्कते -
स्यादिति ।
सर्वेषां पुंसां संनिधिनिर्विशेषत्वयोरविशेषेऽपि प्रधानमेव तेषां मोक्षार्थं प्रवर्तते । तथाच कञ्चित्कालं नर्तकीवत्स्वात्मानं दर्शयित्वा स्वयमेवोपरमते । सविकारप्रधानदर्शनमेव पुंसां बन्धः, तदुपरमे तद्दृष्ट्यभावान्मुक्तिरुपचर्यते । अतो नियतप्रधानप्रवृत्त्या व्यवस्थासिद्धिरित्यर्थः ।
प्रतिनियतप्रधानप्रवृत्त्यनङ्गीकारे स्वविभूतिख्यापनाय तत्प्रवृत्तिरिति पुंसां मोक्षो न स्यादित्याह -
अन्यथेति ।
प्रधानप्रवृत्तेर्मोक्षार्थत्वेऽपि सर्वेषामपर्यायमेव कस्मान्मोक्षो न भवेत् , कस्यचिन्मोक्षो बन्धश्च कस्यचिदिति व्यवस्थायां मानाभावादित्याह -
नैतदिति ।
प्रधानस्य स्वविभूतिख्यापनपरिहाराय प्रतिनियतप्रवृत्तिरित्युक्तं, तत्राह -
नहीति ।
नियमस्यानादित्वान्नात्र युक्तिरन्वेष्येत्याशङ्क्यानियमस्यैवानादित्वान्मैवमित्याह -
असत्यामिति ।
वैशेषिकसमयेऽपि व्यवस्थाऽसिद्धिमाह -
काणादानामिति ।
संनिधानादीत्यादिशब्देन द्रव्यत्वादि गृहीतम् । हेतुर्मनःसंयोगः । फलं सुखादि ॥ ५० ॥
यददृष्टकृतो मनःसंयोगस्तस्यैव तत्कृतं सुखादीति व्यवस्थां शङ्कते -
स्यादेतदिति ।
सूत्रेणोत्तरमाह -
नेत्याहेति ।
अनियमं व्याख्यातुं पक्षद्वयसाधारणं तज्जन्मप्रकारमाह -
बहुष्विति ।
एवमदृष्टोत्पत्तावपि तन्निमित्ता व्यवस्था किं न स्यादित्याशङ्क्य साङ्ख्यान्प्रत्याह -
साङ्ख्यानामिति ।
पक्षान्तरेऽप्यदृष्टानियमं व्याचष्टे -
काणादानामिति ।
पूर्ववदिति ।
सुखाद्युत्पादकमनःसंयोगवदित्यर्थः । यद्वा नियम्यत्वेन प्रकृतसुखादिवदित्यर्थः । एष एव दोष इत्यदृष्टस्य नियामकत्वायोगो गृह्यते ॥ ५१ ॥
अदृष्टहेत्वसाधारण्येन तस्यापि तथात्वं शङ्कते -
स्यादेतदिति ।
सूत्रेण परिहरति -
नेत्याहेति ।
तद्विभजते -
अभिसन्धीति ।
अदृष्टं दृष्टान्तयितुमपिशब्दः । उक्तो दोषोऽदृष्टस्य सुखादेश्चानियमः ॥ ५२ ॥
प्रकारान्तरेणासाधारण्यमाशङ्क्य दूषयति -
प्रदेशादिति चेदिति ।
चोद्यं विवृणोति -
अथेति ।
परिहारं विभजते -
तदपीत्यादिना ।
सर्वेषामात्मनां सर्वदेहेष्वन्तर्भावे फलितमाह -
तत्रेति ।
प्रदेशकल्पनामुपेत्यापि दूषयति -
कल्प्येति ।
कार्यमभिसन्ध्यादि ।
यस्यात्मनः शरीरं तस्यैव तत्र वृत्तिलाभो नान्येषामित्याशङ्क्याह -
शरीरमिति ।
नच पूर्वादृष्टवशाद्देहनियमस्तस्यापि नियमश्च देहसम्बन्धादित्यनादित्वाददोषोऽन्धपरम्परापातादागमानुरोधे चात्मैक्यप्रसङ्गादिति भावः ।
किञ्च प्रदेशभेदं विनापि सुखादिव्यवस्थाया दृष्टत्वान्न तस्य व्यवस्थापकतेत्याह -
प्रदेशेति ।
द्वयोरात्मनोस्तुल्यदेशमदृष्टं कथमित्याशङ्क्याह -
तथाहीति ।
किञ्च प्रदेशभेदेऽपि कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यान्न तस्य व्यवस्थापकतेत्याह -
स्वर्गादीति ।
बहूनां सर्वगतत्वमुपेत्याव्यवस्थोक्ता । सम्प्रति तदपि नास्तीत्याह -
सर्वेति ।
बहूनां विभुत्वे दृष्टान्ताभावेऽपि तुल्यदेशत्वे तद्भावादात्मनां पारिशेष्याद्विभुत्वमित्याशङ्क्याह -
वदेति ।
रूपादीनां बहूनामेक एव घटो देशो दृष्टो नच मिथोविरोधो निरवयवत्वात्तथात्मनामपि निरवयवानामेकदेशतेति शङ्कते -
रूपेति ।
तेषामपि तेजोजलादिभिः स्वधर्मिभिरभेदात्तदतिरिक्तघटामावात्कुतो दृष्टान्ततेत्याह -
नेति ।
किञ्चात्मानां बहुत्वमपि लक्षणभेदादन्त्यविशैषवशाद्वा । नाद्यः, अन्यत्र लक्षणभेदात् । भेदेऽपि प्रकृते तदभावादित्याह -
लक्षणेति ।
नात्मनां तद्भेदोऽस्ति, तेषां भिन्नलक्षणानुपलम्भात् । ततश्चायुक्तं बहुत्वमित्यर्थः ।
द्वितीयं शङ्कित्वा दूषयति -
अन्त्येत्यादिना ।
नित्यद्रव्याः स्वरूपसन्तो विशेषास्तद्वशादात्मसु व्यावृत्तिरित्ययुक्तं, नहि तेषां निर्भिन्ने व्यावृत्तिधीहेतुत्वं स्वरूपादपि तत्प्रसक्तावेकाभावप्रसङ्गात् । अतो भेदे सिद्धेऽन्त्यविशेषसिद्धिस्तत्सिद्धौ च भेदसिद्धिरित्यन्योन्याश्रयान्नैकस्यापि सिद्धिरित्यर्थः ।
यत्तु बहूनामात्मनां विभुत्वासिद्धिर्दृष्टान्ताभावादिति । तन्न । आकाशादीनामेव तथात्वादित्याशङ्क्याह -
आकाशादीनामिति ।
परपक्षं निराकृत्य स्वपक्षमुपसंहरति -
तस्मादिति ।
'यो बहून्कल्पयति कल्प यत्यसावेकम् ‘ इति न्यायादेकस्तावदात्मा सर्वसंमतः, तस्मिंश्चाकाशाकल्पे परोपाधिना व्यवहारसिद्धौ न तात्त्विकभेदकल्पनायां किञ्चिन्मानं फलं वास्तीति भावः ।
तदेवं भूतभोक्तृविषयश्रुतिविरोधव्यसेधेन समन्वयः सिद्धो ब्रह्मणीति पादार्थमुपसंहरति -
इति सिद्धमिति ॥ ५३ ॥
भूतभोक्तृविषयश्रुतिविरोधं पूर्वपादे परिहृत्य भौतिकेन्द्रियादिश्रुतिविरोधं परिहर्तुं पादान्तरमवतारयन्पूर्वाधिकरणे कर्तृस्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति -
तथेति ।
पूर्वोत्तरपादसङ्गतिमाह -
वियदादीति ।
प्राणविषयः ।
प्राणोत्पत्तिसङ्ख्यातत्त्वादिविषय इत्यर्थः ।
सति विरोधे तत्परिहाराय प्रयतितव्यमिति मत्वा प्रथमं प्राणोत्पत्तिविषयं विरोधमुदाहरति -
तत्रेति ।
क्वचिदुत्पत्त्यश्रवणमाकाशस्येवोत्पत्त्यभावासाधकत्वात्किमित्युद्भावितमित्याशङ्क्यानुत्पत्तिवाक्यसहायत्वेनेत्याह -
क्वचिच्चेति ।
शून्यवादमाशङ्क्याह -
तदिति ।
प्रसिद्धानामृषीणां प्रसङ्गं प्रत्याह -
तदित्यादिना ।
कथमत्र प्राणानामनुत्पत्त्याम्नानं, तद्वाचकपदाभावात्तत्राह -
प्रागिति ।
विप्रतिपत्त्यर्थमुत्पत्तिवाक्यं दर्शयति –
अन्यत्रेति ।
विप्रतिपत्त्यर्थमुत्पत्तिवाक्यं दर्शयति -
अन्यत्रेति ।
विप्रतिपत्तेरेकादशेन्द्रियाणामुत्पत्तिरस्ति न वेति संशीतावनध्यवसायेन पूर्वपक्षयति -
तत्रेति ।
नच वियदधिकरणन्यायेन निर्णयः, प्राणानां प्रलये सत्त्वश्रुतेर्वियदमृतत्वादिश्रुतिवदवान्तरप्रलयाभिप्रायेण नयनप्रकाराज्ञानादिति भावः ।
श्रुतीनाममानत्वे शङ्किते गौणवाद्याह -
अथवेति ।
प्रलये प्राणव्यवहाराभावादुत्पत्तिकाले तद्भावात्तद्विषयतया जन्मश्रुतिरन्यथासिद्धा । प्राणानां प्रागवस्थानश्रवणं तु तेषां जन्माभावे लिङ्गम् , अनन्यथासिद्धतया बलीयस्त्वात्तज्जन्माभावसाधकमिति भावः ।
अत्र च प्राणोत्पत्त्यनुत्पत्तिश्रुतीनां मिथोविरोधनिषेधेन मूलकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे तासां विरोधादप्रामाण्यात्तत्र समन्वयासिद्धिः । सिद्धान्ते त्वविरोधेन तत्सिद्धिः । पूर्वपक्षमनुभाष्य सिद्धान्तयति -
अत इति ।
सौत्रं तथाशब्दमाक्षिपति -
कथमिति ।
आनुलोम्यमाञ्जस्यम् । कथं प्रकृतोपमानाभावः, तत्र किं परदूषणं प्राणानामुपमानमाहोस्विददृष्टमथवा जीवः । नाद्य इत्याह -
सर्वेति ।
परपक्षदूषणस्य प्राणानां च सादृश्याभावेऽपि किमित्युपमानोपमेयभावो न स्यात् , तत्राह -
सादृश्ये हीति ।
कल्पान्तरमाह -
अदृष्टेति ।
तेन साम्यप्रतिपादनमेव प्रकटयति -
यथेति ।
पुनरुक्त्या दूषयति -
तदपीति ।
तृतीयं प्रत्यह -
नचेति ।
सिद्धान्तविरोधं स्फोरयति -
जीवस्येति ।
आक्षेपमुपसंहरति -
तस्मादिति ।
सूत्राक्षराक्षेपं परिहरति -
नेति ।
किं तदुदाहरणं, तदाह -
अत्रेति ।
कथं तदुपात्तेनोपमानं, तदाह -
तत्रेति ।
उक्तन्यायमाथर्वणादिवाक्येष्वपि योजयति -
तथेति ।
संनिहितमेवोपमानमित्यङ्गीकृत्यैकवाक्योपात्तत्वेन सांनिध्यमुक्तम् । इदानीं नायं नियमः, व्यवहितोपमानस्यापि मीमांसकैरिष्टत्वादित्याह -
अथवेति ।
अस्ति तावदश्वदाननिमित्तेष्टिः ‘वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्’ इत्याम्नाता । सा किं लौकिकेऽश्वदाने वैदिकेऽश्वदाने वेति सन्देहे ‘दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात्’ इति पूर्वपक्षसूत्रम् । अस्यार्थः - अश्वदाने लौकिके दोषनिर्घातार्था प्रकृतेष्टिरेष्टव्या, तत्रैव ‘न केसरिणो ददाति’ इति निषेधातिक्रमकृतस्य दोषस्य सम्भवात् । वैदिकेऽश्वदाने सामान्यनिषेधानवकाशान्न तत्कृतो दोषः स्यात् । पौण्डरीकेऽश्वसहस्रं दक्षिणेत्यादिविशेषशास्त्राद्वैदिकाश्वदानस्य निर्दोषत्वसिद्धेरिति । राद्धान्तसूत्रम् - ‘अर्थवादोऽनुपपातात्तस्माद्यज्ञे प्रतीयते’ इति । तस्यार्थः - लौकिकेऽश्वदाने सति जलोदररूपवरुणग्रहदोषो नोपपतति मानाभावात् । न चेदमेव वाक्यमत्र मानम् , अश्वदाने जलोदराख्यो दोषस्तन्निर्घातार्था चेष्टिरित्यर्थभेदे वाक्यभेदात् । नच वरुणशब्दो वृणोतीति निषेधातिक्रमकृतदोषानुवादीति कुतो वाक्यभेद, तथा सति प्रसिद्धित्यागप्रसङ्गात्तत्त्यागेच वैदिकेऽपि दाने तुरगत्यागजं क्लेशमात्रमुक्तव्युत्पत्त्या वरुणशब्दवाच्यं स्यात् । तस्माद्यावद्वरुणगृहीतस्य वरुणोन्मोचने श्रेयस्तावदस्यामिष्टावित्यर्थवादोऽयम् । तथाच यज्ञसंबन्धिन्यश्वदाने प्रतीयते वारुणीष्टिरिति स्थिते चैवं प्रतिग्रहीतुर्दातुर्वा सेष्टिरिति सन्देहे पूर्वपक्षितम् - ‘अचोदितं च कर्म भेदात्’ इति । तस्यार्थः - दातुरचोदितमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति प्रतिग्रहीत्रा तस्य भेदाद्विशेषणादिति । ‘सा लिङ्गादार्त्विजे स्यात् ‘ इति सिद्धान्तसूत्रम् । ऋत्विजामयमित्यार्त्विजो यजमानस्तस्मिन्कर्तरि सा वारुणीष्टिःस्यात् , ‘प्रजापतिर्वरुणायाश्वमनयत्’ इत्युपक्रमे दातुः सङ्कीर्तनाल्लिङ्गात् । नच दातरि प्रतिगृह्णातीति विरुद्धं, सम्प्रदानप्रेरणादिना तस्यापि प्रतिग्रहकर्तृत्वादित्यर्थः । एवं दातुरिष्टिरिति व्यवस्थाप्योक्तम् ‘पानव्यापच्च तद्वत्’ इति । ‘सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामी’ इत्यत्र लौकिकसोमपानवमने वा वैदिकसोमपानवमने वा सौमेन्द्रश्चरुरिति सन्देहे सति प्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षवल्लौकिके धातुसाम्यार्थं सोमस्य पाने यदि व्यापद्वमनं भवति तदा तस्मिल्लौकिके वमने यागो विधीयते । ‘इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति’ इति दोषाद्वमननिमित्तेन्द्रियशोषस्य च दर्शनान्न वरुणग्रहणवदप्राप्तिः । वैदिेके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति पूर्वपक्षयित्वा राद्धान्तितम् - ‘दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् ‘ इति । वैदिके हि सोमपानवमने सौमेन्द्रश्चरुः स्यात् । ‘मा मे वाङ्नाभिमतिगाः’ इति मन्त्रलिङ्गाद्वमने कर्मवैगुण्याद्दोषावगमात् । लौकिके तु सोमपानवमने न कश्चिद्दोषः स्यात्तस्य धातुसाम्यार्थत्वात्तज्जन्येन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वात् । श्रूयते चेन्द्रियेणेत्यादिना वैदिकस्य पानस्य व्यापदि दोषः, स च वमनेन सोमसंस्कारे विनष्टे सत्युपपद्यते, तस्माद्वैदिके वमने याग इत्यर्थः । ‘तत्सर्वत्राविशेषात्’ ‘स्वामिनो वा तदर्थत्वात् ‘ इत्येवंविधानि पूर्वोत्तरपक्षसूत्राण्यादिशब्देन गृह्यन्ते । तेषु व्यवहितोपमानसम्बन्धस्याभियुक्तैरिष्टत्वादत्रापि व्यवहितोपमानसम्बन्धः सम्भवतीति भाष्यार्थः ।
व्यवहितोपमानसम्बन्धितया तथाशब्दार्थमुक्त्वा सूत्रं योजयति -
यथेति ।
प्रतिज्ञामात्रस्य सूत्रे दृष्टेरिष्टं हेतुं प्रश्नपूर्वकमाह -
कः पुनरिति ।
पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।
‘अश्रवणं श्रवणानुसारेण नेयम्’ इति गुणोपसंहारन्यायेन दूषयति -
तदिति ।
कुतस्तेनैव न्यायेन श्रवणमश्रवणानुरोधेन न नीयते, वियदधिकरणविरोधादित्याह -
नहीति ।
श्रुत्यनुरोधेनाश्रुतेर्नेतव्यत्वे फलितमाह -
तस्मादिति ॥ १ ॥
विरोधवादिनं प्रतिबोध्य गौणवादिनं प्रत्याह -
गौणीति ।
सूत्रव्यावर्त्यमनूद्य तदुत्तरत्वेनावतार्य विभजते -
यदित्यादिना ।
काऽसौ प्रतिज्ञा, कथं वा प्राणानामुत्पत्तेर्गौणत्वे तद्धानिः, तत्राह -
कस्मिन्निति ।
कथमेतस्मादित्यादिना प्रतिज्ञा समर्थ्यते, तत्राह -
सा चेति ।
विपक्षे दोषमाह -
गौण्यां त्विति ।
प्रतिज्ञाऽपि गौणीति न तदर्थं प्राणोत्पत्तिर्मुख्या वाच्येत्याशङ्क्योपक्रमोपसंहारालोचनया विवक्षिताद्वितीयत्वानुरोधेन प्रतिज्ञाया गौणत्वायोगान्मुख्यैव प्राणोत्पत्तिरित्याह -
तथाचेति ।
प्रतिज्ञाया मुख्यत्वसिद्धये भूयःसु प्रदेशेषु दृष्टत्वं हेत्वन्तरमाह -
तथेति ।
प्राणानामुत्पत्तिश्चेत्प्रागवस्थायां सत्त्वश्रुतिर्विरुध्येतेति शङ्कते -
कथमिति ।
नैतद्वाक्यं ब्रह्मणो मूलकारणस्य प्राणसद्भावार्थं, तस्य श्रुत्या सर्वविशेषराहित्यसिद्धेरित्याह -
नैतदिति ।
किंविषयं तर्हि वाक्यं, तत्राह -
अवान्तरेति ।
हिरण्यगर्भोऽवान्तरप्रकृतिस्तत्प्राणास्तित्वविषयमेतद्वाक्यमिति योजना ।
हिरण्यगर्भस्यापि विकारत्वात्कथं विकारासत्त्वोक्तिपूर्वकं प्राणसत्त्वावधारणं, तत्राह -
स्वविकारेति ।
अवान्तरलये हिरण्यगर्भकार्यसमुदायासत्त्वापेक्षया तदीयप्राणसत्त्वावधारणमित्यर्थः । ‘एतस्माज्जायते प्राणः’ इत्यादाविन्द्रियाणां श्रुत्यैव जन्मोक्तम् । ‘तदाहुः’ इत्यादौ तु प्रागुत्पत्तेस्तेषामवस्थानं जन्माभावे लिङ्गं, तत्र लिङ्गस्य श्रुत्या बाधायामन्यतरस्यात्यन्तबाधकल्पनात् ‘वरं प्रबलानुरोधेन दुर्बलस्य विषयव्यवस्थाकल्पनम्’ इति न्यायेन वियदादिभिः सहेन्द्रियाणामुत्पत्त्याम्नानान्महाप्रलये तदुत्पत्तिरवान्तरप्रलये त्वनुत्पत्तिरिति श्रुतिलिङ्गयोर्विषयव्यवस्थेति भावः ।
ब्रह्मण एव सर्वप्रकृतित्वान्नावान्तरप्रकृतौ मानमित्याशङ्क्याह -
व्याकृतेति ।
‘हिरण्यगर्भः समवर्तताग्रे', ‘आदिकर्ता स भूतानाम्’ इत्यादिश्रुतिस्मृत्योः कार्यावच्छिन्नानामपि मूलकारणावस्थाविशेषाणां हिरण्यगर्भादीनां प्रकृतिविकारभावेन प्रसिद्धेरवान्तरप्रकृतिरस्तीत्यर्थः ।
तदेवं प्राणसत्त्वश्रुतेरवान्तरप्रलयविषयत्वान्महाप्रलयानन्तरं प्राणोत्पत्तिश्रुतेर्न गौणतेति स्वाभिप्रायेण सूत्रं व्याख्याय वियदधिकरणवदिहापि किं न व्याख्यातमित्याशङ्क्य विशेषमाह -
वियदिति ।
एकस्य सूत्रस्यैकार्थत्वयोगे किमर्थद्वयोक्त्येत्याशङ्क्याह -
तदिति ॥ २ ॥
प्राणानां मुख्यं जन्मेत्यत्र हेत्वन्तरमाह -
तत्प्रागिति ।
तस्य जायत इति जन्मवाचिपदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतत्वाच्च प्राणानां मुख्यं जन्मेति योजना ।
चकारार्थमाह -
इतश्चेति ।
तदेव स्पष्टयन्नवशिष्टं व्याचष्टे -
यदिति ।
तथापि कथं प्राणेषु मुख्या जन्मश्रुतिः, तत्राह -
आकाशादिष्विति ।
तत्सामान्यात् ।
तैराकाशादिभिः सह जायमानत्वेन तुल्यत्वादित्यर्थः ।
एकस्यापि शब्दस्य विषयभेदादग्न्यादिशब्दवद्गौणत्वमुख्यत्वे स्यातामित्याशङ्क्याह -
नहीति ।
एकस्मिन्नपि प्रकरणे ‘अन्नं ब्रह्म', ‘आनन्दो ब्रह्म’ इत्यादौ ब्रह्मशब्दस्यानेकार्थत्ववदिहापि स्यादित्याशङ्क्याह -
एकस्मिन्निति ।
तथापि तपसा ब्रह्मेत्यादिवदनेकार्थत्वमाशङ्क्योक्तम् -
एकइति ।
ब्रह्मशब्दस्यापि तुल्यमेकत्वमित्याशङ्क्याह -
सकृदिति ।
एतस्मादित्यादावुक्तन्यायं वाक्यान्तरेऽप्यतिदिशति -
तथेति ।
तस्य जन्मवाचिनः शब्दस्य पूर्वश्रवणात्तस्य चोत्तरेषु मुख्यत्वात्तत्सामान्यात्प्राणेष्वपि मुख्यतेत्युक्तम् । इदानीं मुख्यजन्मवाचिनः शब्दात्प्राक्प्राणादीनां श्रुतेस्तद्योगिनामितरेषामिव तेषामपि तत्साहचर्यान्मुख्यं जन्मेति व्याख्यान्तरमाह -
यत्रेति ।
न्यायः सह पठितेषु जन्मनो मुख्यत्वाविशेषस्तत्रोदाहरणम् - यथेति ॥ ३ ॥
छान्दोग्ये प्राणानामुत्पत्त्यश्रवणमङ्गीकृत्यान्यत्रोत्पत्तिश्रवणादुत्पत्तिः साधिता । सम्प्रति तत्रापि तदुत्पत्त्यश्रवणमसिद्धमित्याह -
तत्पूर्वकत्वादिति ।
तच्छब्देन तेजोबन्नान्युच्यन्ते । प्राणेन मनसा च सहिताया वाचस्तेजोबन्नकार्यत्वादस्ति तदुत्पत्तिश्रुतिरित्यर्थः ।
तेजःप्रभृतीनां सृष्टिप्रकरणे प्राणानामुत्पत्तिर्न श्रुता तेषामेव सृष्टेः शिष्टत्वादित्याशङ्कामनुवदति -
यद्यपीति ।
सूत्रव्याख्यानेनोत्तरमाह -
तथापीति ।
वागादीनां त्रयाणां प्रणाड्या ब्रह्मजन्मत्वेऽपि कुतो हस्तादीनां तथेत्याशङ्क्याह -
तदिति ।
तैर्वागादिभिः सामान्यंं हस्तादीनां प्राणत्वम् । उक्तमेव प्रपञ्चयति -
तथाहीति ।
तथापि कथमेषां ब्रह्मजत्वं किमेषामन्नादिमयत्वं मुख्यं गौणं वा । प्रथमं प्रत्याह -
तत्रेति ।
तेजआदीनां तज्जत्वादिति शेषः ।
द्वितीयमनूद्य तत्रापि ब्रह्मजत्वमत्याज्यमित्याह -
अथेत्यादिना ।
‘स प्राणमसृजत’ इत्यादि श्रुत्यन्तरम् । प्राणोत्पत्तिश्रुतेर्मुख्यार्थत्वेऽपि विरोधाभावादश्रुतेश्चासिद्धत्वान्मूलकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -
तस्मादिति ॥ ४ ॥
करणानामुत्पत्तिनिरूपणेन तद्विलक्षणं त्वम्पदार्थं निरूप्य तेषामेव संङ्ख्यां निर्णेतुं पूर्वपक्षयति -
सप्तेति ।
पूर्वोत्तरसङ्गतिमाह -
उत्पत्तीति ।
सर्वप्राणसङ्ख्याविषयत्वं व्यावर्त्य वागादिसङ्ख्याविषयत्वमस्याधिकरणस्य दर्शयति -
तत्रेति ।
मुख्यादितरान् प्राणान्विषयत्वेनोक्त्वा सहेतुं संशयमाह -
श्रुतीति ।
श्रुतिविप्रतिपत्तिमेवोपन्यस्यति -
क्वचिदित्यादिना ।
चक्षुर्घ्राणं रसनं श्रोत्रं वाङ्मनस्त्वगिति सप्त प्राणाः ।
ग्रहत्वेन
बन्धत्वेनेति यावत् । त एव सहस्ताधिकाः सन्तोऽष्टौ । तेषां च ग्रहत्वं बन्धनहेतुत्वात् । एतेषां विषया रूपादयोऽतिग्रहाः । ते हि रागमुत्पाद्येन्द्रियाकर्षकत्वाद्ग्रहानतिशेरते । द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे वागिति सप्त शीर्ष्णि भवाः शीर्षण्या प्राणाः । द्वाववाञ्चौ पायूपस्थौ बुद्धिमनसी चेति नव । पुरुषे तदाकारे देहे शिरःपाण्यादिमत्युक्ता नव प्राणा नाभिश्च दशमी दशानां पूरणीति श्रुत्यर्थः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चाप्नोतीत्यात्मेत्येकादश प्राणाः । त एव सहृदया द्वादश । त एव साहङ्कारास्त्रयोदश ।
श्रुतिविप्रतिपत्तिमुपसंहरति -
एवमिति ।
प्रश्नपूर्वकं पूर्वपक्षसूत्रं योजयति -
किमिति ।
अत्र च प्राणसङ्ख्याश्रुतिविवादव्युदासेन तत्कारणे ब्रह्मणि समन्वयव्यवस्थापनात्पादादिसङ्गतयः । पूर्वपक्षे सप्तप्राणकारणे ब्रह्मणि समन्वयेऽप्येकादशप्राणकारणे तत्र तदसिद्धिः । सिद्धान्ते तदनुसारित्वादितरश्रुतीनामेकादशप्राणकारणे ब्रह्मणि तत्सिद्धिः ।
गतेरिति हेतुं प्रश्नद्वारा व्याचष्टे -
कुत इति ।
न केवलं श्रुतितोऽधिगतेः सप्तैव प्राणाः किन्तु विशेषणादपीत्यवशिष्टं व्याचष्टे -
विशेषिताश्चेति ।
दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्राणाः शीर्षण्याः सप्तेत्युक्ते हस्तादीनामशीर्षण्यानामप्राणत्वं भातीत्यर्थः ।
प्राणानां सप्तत्वं वीप्साविरुद्धमिति शङ्कते -
नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः स्वस्थानेषु निहिताः निक्षिप्ता इति यावत् ।
वीप्सा पुनर्वचनमन्यथापि स्यादिति पूर्ववाद्याह -
नेति ।
पुरुषभेदकृतवीप्साप्रवृत्तिं प्रकटयति -
प्रतीति ।
व्यावर्त्यमंशमाह -
नेत्यादिना ।
सङ्ख्यान्तरश्रुतिविरोधं शङ्कते -
नन्विति ।
सङ्ख्यान्तरश्रुतिमङ्गीकरोति -
सत्यमिति ।
तर्हि सङ्ख्यान्तरमपि ग्राह्यं, नेत्याह -
विरोधात्त्विति ।
सप्तत्वावच्छिन्नानामेवाष्टत्वाद्यवच्छेदायोगादन्यतमत्यागावश्यम्भावे कतमा सङ्ख्याऽदेयेति विवक्षायां लाघवान्निश्चितं सप्तत्वमित्यर्थः ।
न्यूनाधिकसङ्ख्ययोरधिका ग्राह्या तस्यां न्यूनान्तर्भावादित्याशङ्क्यैकादशसङ्ख्यां गृहीत्वा वृत्तिभेदेन नवद्वादशत्रयोदशसङ्ख्यावदिहापि प्राथम्याल्लाघधवाच्च सप्तत्वस्यैव युक्तत्वाद्वृत्त्यपेक्षया सङ्ख्यान्तरमित्याह -
वृत्तीति ।
वक्ष्यमाणयुक्त्या मन्यतेरुक्तिः ॥ ५ ॥
सिद्धान्तयति -
अत्रेति ।
तत्प्रतिज्ञां विभजते -
हस्तादयस्त्विति ।
गृह्णाति पुरुषं बध्नातीति ग्रहः, तत्रेन्द्रियाणामर्थद्वारा पुरुषबन्धने हेतुत्वमित्यतिग्रहत्वमर्थानां ततोऽतिग्रहेण कर्मणा हस्तनिर्वर्त्यादानेन हस्तो गृहीतः सम्बद्धः । तदेव स्पष्टयति -
हस्ताभ्यामिति ।
सप्तत्वादतिरेकश्रुतेर्न सप्तत्वनियतिरित्यर्थः ।
सप्तत्वमपि श्रुतमेवेत्याशङ्क्य सूत्रावयवं व्याचष्टे -
स्थिते चेति ।
अन्तर्भावेन सप्तत्वं साधयति - -
हीनेति ।
अतो नेत्यादि योजयति -
अतश्चेति ।
प्राणस्तर्हि कतीत्यपेक्षायामाह -
उत्तरेति ।
तर्हि गौरवमित्याशङ्क्य प्राणानामेकादशत्वं न कल्प्यते येन लाघवमन्वेष्यमित्याह -
तथेति ।
आत्मशब्दस्य प्रतीचि रूढेर्न प्राणभेदविषयतेत्याशङ्क्याह -
आत्मेति ।
एकादशत्वस्य श्रुतत्वाद्ग्रहणे द्वादशत्वत्रयोदशत्वयोरपि तथा ग्रहः स्यादिति शङ्कते -
नन्विति ।
श्रुतीनां मिथोविरोधादर्थव्यवस्थासिद्धौ मानान्तरवशेन व्यवस्था वाच्या । तथाच कार्यलिङ्गकानुमानानुगृहीतैकादशप्राणश्रुतिरेवादरणीयेत्याह -
सत्यमिति ।
कार्यलिङ्गकमनुमानं विशदयति -
शब्देति ।
बाह्येन्द्रियाणामित्थमनुमानेऽपि कथं मनसोऽनुमानं, तत्राह -
सर्वेति ।
इन्द्रियाणां वर्तमानतत्तदेकार्थनियतत्वादतीतादिसर्वार्थज्ञानाच्च तदर्थमिन्द्रियान्तरं कल्प्यमित्यर्थः ।
सङ्कल्पादिदृष्टेस्तदर्थं करणान्तरमपि कल्प्यमित्याशङ्क्याह -
अनेकेति ।
मनसश्चेदेकत्वं तर्हि कथं भेदोक्तिः, तत्राह -
तदेवेति ।
एकस्यैव वृत्तिभेदात्किमित्यनेकधात्वं, धर्मिभेद एव कुतो न स्यादित्याशङ्क्य धर्म्यभेदश्रुतिविरोधादित्याह -
तथाचेति ।
विशेषितत्वादित्युक्तं प्रत्याह -
अपिचेति ।
कथं तर्हि सप्तत्वं, तत्राह -
स्थानेति ।
रूपादिधीरूपकार्याभेदादेकमेवेन्द्रियं स्थानभेदाद्भिन्नमिवोपचरितमित्यर्थः ।
यत्तु वृत्तिभेदापेक्षं सङ्ख्यान्तरश्रवणं, तत्राह -
न चेति ।
अन्धादेरप्यादानादिकार्यदर्शनादितरेषां चक्षुरादिवृत्तित्वे तदसम्भवादिति भावः ।
तथापि श्रुत्यन्तरेषु सत्सु कथमेकादशत्वं, तत्र दशत्वश्रुतेर्गतिमाह -
तथेति ।
स्थानभेदात्सप्त वै शीर्षण्या इति सप्तत्वोक्तिवदिति यावत् । नाभिर्दशमीत्युक्तत्वात्प्राणत्वं तस्या अपीत्याशङ्क्याह -
नहीति ।
कथं तर्हि तत्र प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह -
मुख्यस्येति ।
सप्त प्राणाः प्रभवन्तीत्यादेर्गतिमाह -
क्वचिदिति ।
अष्टौ ग्रहा इत्यादेर्गतिं सूचयति -
क्वचिदिति ।
किं तर्हि वाक्यमुपासनादिविषयं किंवा तत्त्वविषयमित्युक्ते विचारस्य सावकाशत्वमाह -
तदेवमिति ।
कर्थ तर्हि निर्णयः, तत्राह -
कार्येति ।
एवं प्राणसङ्ख्याविषयश्रुतिविवादाभावादेकादशप्राणकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -
इति स्थितमिति ।
वर्णकान्तरमाह -
इयमिति ।
इन्द्रियाण्येव विषयस्तानि किं सप्त किं वैकादशेति श्रुतिविमत्या सन्देहे पूर्वपक्षमाह -
सप्तेति ।
येषां सह गमनं तेषामेव जन्मान्तरीयभोगोपायत्वादिन्द्रियत्वम् , इह तु सप्तानामेव गतिः श्रूयते । तस्मात्तेषामेवेन्द्रियत्वमित्यर्थः ।
सप्तगतेरिति व्याख्याय शङ्कोत्तरत्वेन पदान्तरमादत्ते -
नन्वित्यादिना ।
तद्व्याकरोति -
सप्तैवेति ।
चक्षुरादय इत्यादिशब्देन घ्राणरसनावाक्श्रोत्रत्वङ्मनांसि गृह्यन्ते । इहेत्युत्क्रान्तिप्रकरणोक्तिः । यत्र यस्यामवस्थायां चक्षुरधिष्ठातृदेवतांशः स एष पुरुषशब्दितः पराङ् पर्यावर्तते बहिर्देशात्स्वस्थानं प्रति व्यावर्तते तदानीमरूपज्ञो जीवो भवति हृदये चक्षुरेकीभवति पार्श्वस्थाश्च नायं पश्यतीत्याहुः । न जिघ्रति न रसयते न वदति न श्रृणोति न मनुते न स्पृशतीत्येवं सप्तैव विशेषिता इत्यर्थः ।
तथापि सर्वश्रुत्या सर्वप्राणगमनमाशङ्क्य प्रकरणात्तस्याः सङ्कोचमाह -
प्रकृतेति ।
प्रकरणेन श्रुतिसङ्कोचं दृष्टान्तेन स्पष्टयति -
यथेत्यादिना ।
‘एकीभवति न विजानातीत्याहुः’ इतिबुद्धेरपि पाठादसिद्धं सप्तानामेवानुक्रमणमित्याह -
नन्विति ।
बुद्धेरनुक्रमणं न सप्तत्वविघातकमित्याह -
नेति ।
पूर्वपक्षमुपसंहरति -
तस्मादिति ।
तदनुवादेन सिद्धान्तयति -
एवमिति ।
अक्षरार्थाविशेषेऽपि तात्पर्यार्थे विशेषं दर्शयितुमक्षरार्थं सङ्क्षिपति -
हस्तादयस्त्विति ।
यदुक्तमनुयायिनामेवेेन्द्रियत्वं तदङ्गीकृत्यानुयायित्वमेकादशानामस्तीत्याह -
ग्रहत्वं चेति ।
कथमेतावता सर्वदेहानुयायित्वमित्याशङ्क्य जीवस्य सर्वदेहेषु बद्धत्वसिद्धेस्तद्धीरित्याह -
स चेति ।
सर्वेषु देहेषु जीवस्य बद्धत्वेऽपि कुतो ग्रहसंज्ञकस्य हस्तादेरनुयायित्वं, तत्राह -
तस्मादिति ।
हृदयग्रहसंज्ञकहस्तादिबन्धस्याऽऽमोक्षादात्मानुयायित्वे स्मृतिमाह -
तथाचेति ।
पुर्यष्टकं विशिनष्टि -
प्राणाद्येनेति ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकं मनआद्यन्तःकरणचतुष्कमविद्या कामः कर्म चेति पुर्यष्टकम् । तच्चानेनात्मा लिङ्ग्यते ज्ञायत इति लिङ्गम् । प्रकृतोपयोगितात्पर्यं स्मृतेर्दर्शयति -
प्रागिति ।
सार्थेन्द्रियप्रस्तावे हस्तादीनां सार्थानामुक्तेरपि तेषामिन्द्रियत्वं देहान्तरसञ्चारित्वं च प्रसिद्धमित्याह -
आथर्वणे चेति ।
इतश्च हस्तादीनामस्तीन्द्रियत्वं देहान्तरसञ्चारित्वं चेत्याह -
तथेति ।
यत्तु सर्वशब्दः प्रकृतगामीति, तत्राह -
सर्वेति ।
अनुयायिनामेवेन्द्रियत्वे वाच्ये प्राणमनूत्क्रामन्तमित्यत्र सर्वशब्देन प्राकरणिकसप्तप्रणोक्तिर्वा ‘दशेमे पुरुषे प्राणा आत्मैकादश’ इति श्रुत्यन्तरसिद्धैकादशप्राणानां सर्वे प्राणा इति प्राणश्रुत्युक्तानामुक्तिर्वेति । विमर्शे प्राकरणिकसप्तग्रहाद्वरं श्रौतैकादशग्रहः संनिकर्षादिति भावः ।
परोक्तं दृष्टान्तं विघटयति -
सर्व इति ।
कथं तर्हि सङ्कोचः, तत्राह -
सर्वेति ।
उत्क्रान्तिवाक्येऽपि तथा सङ्कोचः स्यात् , नेत्याह -
इह त्विति ।
अनुपपत्तिके सङ्कोचे प्राकरणिकः सङ्ख्यानियमो युक्तः । दार्ष्टान्तिके तु नानुपपत्तिरिति कुतः सङ्कोच इत्यर्थः ।
सङ्कोचाभावे फलितमाह -
तस्मादिति ॥ ६ ॥
एकादशप्राणानामुत्क्रान्तिरुक्ता सा न मुख्या तेषां व्यापित्वादित्याशङ्क्याह -
अणवश्चेति ।
सङ्क्षेपतोऽधिकरणतात्पर्यमाह -
अधुनेति ।
उत्पत्तिसङ्ख्याश्रुत्यविरोधोक्त्यनन्तरं परिमाणश्रुतिविरोधो निरस्यत इत्यर्थः ।
उक्तप्राणानामुत्क्रान्त्यानन्त्यश्रुतिभ्यां परिच्छिन्नत्वविभुत्वसन्देहे सिद्धान्तं तावदाह -
अणवश्चैत इति ।
अत्रोत्क्रान्त्यानन्त्यश्रुत्योरविरोधेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयस्थापनात्पादादिसङ्गतिः । पूर्वपक्षे दर्शितश्रुत्योर्मिथोविरोधादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः । अणुशब्दात्परमाणुपरिमाणत्वं प्राप्तं प्रत्याह -
अणुत्वं चेति ।
सौक्ष्म्यं द्रव्याणामुद्भूतरूपस्पर्शानाधारत्वम् । परिच्छेदो मध्यमपरिमाणत्वम् । परमाणुतुल्यत्वमेवाणुत्वं किं न स्यात् , तत्राह -
कृत्स्नेति ।
सौक्ष्म्यं प्रपञ्चयति -
सूक्ष्मा इति ।
परिच्छेदं साधयति -
परिच्छिन्नाश्चेति ।
विभुत्वे चेन्द्रियाणामन्तःकरणावच्छेदादणुत्वमात्मनो यदुत्क्रान्त्यधिकरणे सिद्धं तदपि न सिध्येदित्याह -
तद्गुणेति ।
प्राणाः सर्वगताः, सर्वत्र दृष्टकार्यत्वात् , आकाशवदित्यनुमानात्सर्वेऽनन्ता इत्यादिश्रुतेश्च तेषां विभुत्वाद्देह एवाभिव्यक्तेश्च सर्वत्र दृष्ट्यप्रसङ्गात्कुतोऽणुत्वमिति पूर्वपक्षमाह -
सर्वगतानामिति ।
हेतोरसिद्धेरुपासनापरत्वाच्च श्रुतेरिन्द्रियाणां विभुत्वे मानाभावाद्यद्वृत्तित्वेनेष्टं तदेवास्माकं साधकतमत्वात्करणमित्याह -
नेत्यादिना ।
तदेव स्पष्टयति -
यदेवेति ।
वृत्तिमदेव करणं न वृत्तिमात्रमित्याशङ्क्या -
अन्यद्वेति ।
वृत्तेर्वा वृत्तिमतो वा देहावच्छिन्नस्यैव वृत्तिसाधनस्य करणत्वे फलितमाह -
इतीति ।
अनर्थिकेत्युपलक्षणमप्रामाणिकी चेति वाच्यम् ।
साङ्ख्यपक्षायोगे फलितमाह -
तस्मादिति ॥ ७ ॥
मुख्यप्राणातिरिक्तप्राणानां सृष्ट्यादि शिष्ट्वा मुख्येऽपि प्राणे प्रथमाधिकरणन्याय इत्यतिदिशति -
श्रेष्ठश्चेति ।
ज्ञाते चक्षुरादौ तद्व्यापारात् प्राणस्य भेदचिन्ता सुकरेति चक्षुरादिनिरूपणानन्तरमतिदेशो न विरुध्यते । मुख्यप्राणो विषयः, तस्य किं जन्म नास्ति किं वास्तीति श्रुतिविप्रतिपत्त्या संशयेऽतिदेशं विशदयति -
मुख्यश्चेति ।
अत्र चाद्याधिकरणवत्पादादिसङ्गतिफलभेदौ ।
कुतस्तर्हि ब्रह्मविकारत्वं, तत्राह -
तच्चेति ।
पूर्वोक्तन्यायेनैव ब्रह्मविकारत्वसिद्धौ किमतिदेशेनेत्याह -
किमर्थ इति ।
अतिदेशफलमाह -
अधिकाशङ्केति ।
तामेवाधिकां शङ्कां दर्शयति -
नासदासीये हीति ।
नासदासीदित्यारभ्य प्रवृत्ते सूक्ते ब्रह्मपरे मन्त्र एव वर्णयतीति वर्णो दृष्टोऽस्तीति यावत् । तर्हि तस्मिन्महाप्रलये मृत्युर्मारको मृत्युमद्वा कार्यं नासीत् , अमृतमपि देवोपभोगयोग्यममृतत्वाधिकरणं वा नासीत् , तथा रात्र्या रात्रेरह्नो दिवसस्य च प्रकेतश्चिह्नभूतश्चन्द्रः सविता च नास्तां, स्वधया सहेति सम्बन्धः । स्वधेति पितृभ्यो दीयमानमन्नम् । पित्राद्यर्चनमपि नासीदित्यर्थः । यद्वा स्वधया स्वया धारणया स्वकीयस्थित्या तदेकमवातं वातवर्जितमानीच्चेष्टां कृतवदिति यावत् । तस्माच्चेष्टावतः सकाशाद्ध किलान्यत्किञ्चन किञ्चिदपि परः परं प्रकृष्टं नाऽऽस न बभूवेत्यर्थः ।
अस्मिन्मन्त्रे विवक्षितमंशमाह -
प्रागिति ।
अत्र प्राणवाचकाभावात्कथं तदस्तित्वधीरित्याशङ्क्याह -
आनीदिति ।
प्राणोत्पत्तिन्यायेनैव मुख्यस्यापि जन्मसिद्धौ किं पुनरुक्त्येत्याशङ्क्यावान्तरप्रकृतिविषयत्वेन व्यवस्था तत्रोक्ता । प्रकृते महाप्रलयविषयत्वान्न पूर्वन्यायसिद्धिरिति मत्वाह -
तस्मादिति ।
अधिकां शङ्कामुक्त्वा सिद्धान्तयति -
तामिति ।
‘एतस्माज्जायते प्राणः’ इति प्राणजन्म श्रुतम् । ‘आनीत्’ इत्यननं प्राणव्यापारः प्रागवस्थायां प्राणसत्त्वे लिङ्गम् । तत्र द्वयोर्महाप्रलयावान्तरप्रलयभेदेन व्यवस्थानुपपत्तावन्यतरस्य गौणत्वे श्रुतिविरोधे लिङ्गस्यैव गौणत्वादानीच्छब्दस्य मूलकारणसत्तावाचित्वकल्पनया प्राणस्य जन्मोपेयमिति । शङ्कानिरासमेव सूचयति -
आनीदिति ।
प्रमाणान्तरवदित्यपेरर्थः ।
इतश्च प्रागवस्थायां न प्राणस्य सत्त्वमित्याह -
अवातमिति ।
इतोऽपि महाप्रलये प्राणसत्ता नास्तीत्याह -
अप्राणो हीति ।
आनीच्छब्दस्तर्हि कथमित्याशङ्क्य धातूनामनेकार्थत्वमाश्रित्याह -
तस्मादिति ।
एवं शङ्कानिरासेऽपि प्राणे श्रेष्ठशब्दाप्रसिद्धौ कथं सूत्रमित्याशङ्क्याह -
श्रेष्ठ इति ।
श्रौतं ज्येष्ठत्वं साधयति -
ज्येष्ठश्चेति ।
तदेव व्यतिरेकद्वारा स्फोरयति -
न चेदिति ।
न सम्भवेदिति श्रुतेरेवानुकरणमिन्द्रियाणामपि तुल्यं ज्यैष्ठ्यं, तत्राह -
श्रोत्रादीनां त्विति ।
श्रेष्ठत्वं साधसति -
श्रेष्ठश्चेति ।
कथं गुणाधिक्यं, तत्रोक्तम् -
न वा इति ।
तदेवं मुख्यप्राणोत्पत्तिश्रुतीनामन्योन्यमविरोधान्मुख्यप्राणकारणे ब्रह्मणि समन्वय इति ॥ ८ ॥
मुख्यप्राणोत्पत्तिचिन्तानन्तरं तत्स्वरूपं चिन्तयति -
नेत्यादिना ।
अधिकरणतात्पर्यमाह -
स इति ।
मुख्यप्राणो वायुमात्रं वा करणवृत्तिर्वा तत्त्वान्तरं वेति विप्रतिपत्त्या सन्दिह्य तत्त्वान्तरत्वं निर्धार्यत इत्यर्थः । अत्र च भेदाभेदश्रुतिविरोधनिषेधेन वाय्वाद्यतिरिक्तप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे भेदाभेदश्रुत्योर्मिथो विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः । यद्वा पूर्वपक्षे वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेकः ।
सिद्धान्ते तत्त्वान्तरात्प्राणात्तद्विवेक इत्यङ्गीकृत्य पूर्वपक्षमाह -
तत्रेति ।
अभेदश्रुतिरिव भेदश्रुतिरपि स वायुनेत्याद्या प्राणस्य वायोरस्तीत्याशङ्क्योभयोर्मुख्यत्वासिद्धेस्तोककल्पनानुरोधाद्गौणी भेदश्रुतिरिति मत्वाह -
एवं हीति ।
भेदश्रुत्यवष्टम्भेऽपि ‘धर्मिभेदाद्धर्मभेदो लघीयान्’ इति न्यायेन वागादीनां सम्भूय देहचालनादिहेतुसामान्यव्यापारसम्भवान्न प्राणाख्यं पदार्थान्तरं कल्प्यं, गौरवादिन्द्रियवृत्तितया तद्भेदस्यापि वक्तुं शक्यत्वादिति पक्षान्तरमाह -
अथवेति ।
तन्त्रान्तरीयाभिप्रायं विवृणोति -
एवंं हीति ।
वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेक इति प्राप्तमनूद्य सिद्धान्तयति -
अत्रेति ।
न वायुः प्राण इत्यत्र पृथगुपदेशहेतुं विशदयति -
वायोरिति ।
‘मनो ब्रह्मेत्युपासीत ‘ इत्युपक्रम्य मनोब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । मनो हि वागादिभिः स्वविषयेषु गौरिव पादैः प्रवर्तते । तत्र प्राण एव मनोब्रह्मणो वागाद्यपेक्षया चतुर्थपादः । स च वायुनाधिदैविकेन भात्यभिव्यज्यते स्वव्यापारे च तपत्युद्गच्छतीत्यर्थः ।
यद्यपि छान्दोग्यभाष्ये घ्राणेन्द्रियमिन्द्रियप्रकरणात्प्राण इत्युक्तं तथापि प्राणश्रुतिवशादत्र मुख्यप्राणो गृह्यते । अंशांशित्वेन भेदश्रुतिरित्याशङ्क्योपचारप्रसङ्गान्मैवमित्याह -
न हीति ।
नापि करणव्यापार इत्यत्र पृथगुपदेशं हेतुं विभज्य व्याचष्टे -
तथेति ।
प्राणस्य वागादीनां च मिथः संवादलिङ्गेनोत्पत्तिभेदलिङ्गेन चेन्द्रियतद्व्यापारेभ्यो भिन्नत्वसिद्धेर्न लाघवात्तद्वृत्तित्वमित्यर्थः ।
पृथगनुक्रमणं वृत्तिवृत्तिमतोर्भेदादित्याशङ्क्याह -
वृत्तीति ।
तादात्म्याद्भेदोऽप्यस्तीत्याशङ्क्य भेदवादस्याफलत्वान्मैवमित्याह -
न हीति ।
प्रतिज्ञाद्वयेऽपि हेतुं विभज्य व्याख्यायाविभागेनापि व्याख्याति -
तथेति ।
श्रुत्यवष्टम्भेन पक्षद्वयं निराकृत्य कारणवृत्तित्वे दोषान्तरमाह -
न चेति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रसाध्या, चक्षुरादीनां प्रत्येकमेवैकरूपग्रहणादिवृत्तौ स्वातन्त्र्यात् । अतो न प्राणः सामान्यकरणवृत्तिरित्यर्थः ।
समुदायस्य करणत्वमुपेत्योक्तं तदेव नास्त्यवस्तुत्वात् । द्वित्रिकरणविकलानां च प्राणनाभावप्रसङ्गात् । अतोऽपि न करणवृत्तिः प्राण इत्याह -
समुदायस्येति ।
दृष्टान्तेन समुदितानां करणानां करणत्वं शङ्कते -
नन्विति ।
एकादशत्वं पक्षिषु दार्ष्टान्तिकानुरोधादुक्तम् ।
वैषम्यं दर्शयन्परिहरति -
इति नेति ।
तत्रेति दृष्टान्तोक्तिः ।
दार्ष्टान्तिकेऽपि किमित्यवान्तरव्यापारवतां प्राणानां प्राणाख्यसामान्यवृत्तिर्न स्यादित्याशङ्क्यावान्तरव्यापारस्तेषां श्रवणादिर्वा वृत्त्यन्तरं वेति विक्ल्प्याद्ये श्रोत्रादीनां श्रवणादिव्यापारयौगपद्ये मानायोगान्मैवमित्याह -
इह त्विति ।
कल्पान्तरं प्रत्याह -
प्रमाणेति ।
किञ्च श्रवणादीनामपरिस्पन्दत्वात्तत्प्रधानव्यापाराननुरूपत्वान्न तदवान्तरव्यापारतेत्याह -
अत्यन्तेति ।
किञ्च वागादिवृत्तित्वे प्राणस्य वागादिपारतन्त्र्यं वाच्यं, तद्वैपरीत्यं चात्र दृष्टं, तन्न प्राणस्य वागादिवृत्तितेत्याह -
तथेति ।
पृथगुपगदेशयुक्तिफलमुपसंहरति -
तस्मादिति ।
अपृथगुपदेशस्य गतिं पृच्छति -
कथमिति ।
यथा मृदोऽवस्थाविशेषो घटो मृदात्मा तथा वायोरवस्थाविशेषः प्राणो वाय्वात्मेत्याह -
उच्यत इति ।
अध्यात्मापन्नः शरीरे प्रतिष्ठितः पञ्चव्यूहः प्राणापानव्यानोदानसमानाख्यावस्थाविशेषवान्विशेषात्मना व्यावृत्तरूपेणेति यावत् ।
कथं तर्हि पृथगुपदेशः, तत्राह -
नापीति ।
तत्त्वान्तरत्वस्य तन्मात्रत्वस्य चास्वीकारे फलितमाह -
अतश्चेति ।
‘यः प्राणः स वायुः’ इति सामानाधिकरण्यवाक्येन प्राणस्य वायुत्वं सिद्धम् , ‘एतस्माज्जायते प्राणः’ इत्युत्पत्तिभेदलिङ्गेन स्वरूपभेदो दृष्टः । द्वयोश्च वाक्यलिङ्गयोर्विरोधे वाक्यं समीरणस्वभावताविषयं लिङ्गं व्यक्तिभेदविषयमिति व्यवस्थाया वायोः प्राणस्य च विषयभेदो युक्तः, लिङ्गस्य च बलीयस्त्वादिति भावः ॥ ९ ॥
प्राणो वागादिवृत्तिर्न चेत्तर्हि तस्येन्द्रियवत्करणत्वानङ्गीकाराज्जीववद्भोक्तृतेति शङ्कते -
स्यादिति ।
प्राणस्य श्रेष्ठत्वमितरेषां तं प्रति गुणत्वं च साधयति -
तथाहीति ।
श्रेष्ठत्वफलमाह -
तस्मादिति ।
प्राणस्यापि जीववदत्र भोक्तृत्वे विरुद्धाभिप्रायानेकभोक्त्रधिष्ठिततया देहस्य गमनादि न भवेदिति भावः ।
प्राणस्य चक्षुरादिवदत्यन्तोपसर्जनत्वाभावेऽपि परिचारकवतः सामन्तादे राजानं प्रति गुणत्ववद्गुणत्वं जीवं प्रति स्यादित्याह -
तमिति ।
सूत्राक्षराणि व्याचष्टे -
तुशब्द इत्यादिना ।
प्राणो न स्वतन्त्रः, भोगसाधनत्वात् , चक्षुरादिवदित्यर्थः ।
प्राणसंवादादिष्वित्यादिशब्देनान्येऽपि ज्ञानध्यानप्रदेशा गृह्यन्ते । सहशासनेऽपि कथं प्राणस्य चक्षुरादिसाम्यं, तत्राह -
समानेति ।
तत्र दृष्टान्तमाह -
बृहदिति ।
ते हि सामनी सहैव सर्वत्र पठ्येते तयोश्च कर्मणि सहैव प्रयुज्यमानत्वं दृष्टं सामत्वं वा साम्यम् । तथा प्राणस्यापि चक्षुरादिभिः सह पठितस्य जीवोपकरणता तुल्येत्यर्थः । संहतत्वाचेतनत्वादीत्यादिशब्देन परिच्छिन्नत्वाद्यन्तवत्त्वादिग्रहणम् ॥ १० ॥
सूत्रान्तरव्यावर्त्यमाह -
स्यादिति ।
प्राणस्य करणत्वेऽपि कुतः सविषयत्वप्रसक्तिरित्याशङ्क्य चक्षुरादिषु तथा दृष्टत्वादित्याह -
रूपेति ।
यज्जीवस्य भोगकरणं तत्सविषयं दृष्टं, यथा चक्षुरादि तथा प्राणस्यापि विषयो वाच्यः । तदभावात्तस्य स्वतन्त्रतेत्यर्थः ।
तर्हि प्राणेऽपि कश्चिद्विषयोऽस्तु, तत्राह -
अपि चेति ।
प्राणसाध्यफलाभावादपि चक्षुरादिवत्प्राणाख्यं तत्त्वं जीवभोगोपकरणं द्वादशेऽन्द्रियवन्नोपेयमित्यर्थः ।
चोद्योत्तरं सूत्रं पातयति -
अत इति ।
प्राणस्य जीवभोगोपकरणत्वे सविषयत्वप्रसक्तिमुक्तां प्रत्याह -
न तावदिति ।
प्राणस्याकरणत्वे कथं जीवस्य सर्वार्थत्वेनोपकरणभूतोऽसावित्युक्तमाशङ्क्याह -
न हीति ।
विषयपरिच्छेदाभावे प्रणस्याप्रमाणत्वान्न सत्त्वधीरित्यशङ्क्याह -
न चेति ।
कार्यलिङ्गकमनुमानं प्राणे सम्भवतीत्युक्तं प्रश्नपूर्वकं सूत्रावयवेन स्फुटयति -
कस्मादिति ।
अन्वयव्यतिरेकसिद्धं प्राणानामसम्भाव्यं कार्यं मुख्यप्राणस्य दर्शयति -
प्राणान्तरेष्विति ।
प्राणोपास्तिप्रक्रमार्थोऽथशब्दः । अहंश्रेयसीति स्वस्य श्रेष्ठतानिमित्तं व्यूदिरे विवादं चक्रिरे । तद्वृत्तिमात्रहीनं मूकादित्वेन स्थितमिति यावत् ।
न केवलं प्राणस्योत्क्रमणेच्छायां वागादिशैथिल्यापत्तिलिङ्गेन प्राणनिमित्ता देहस्थितिः किन्तु यथोक्तमर्थं श्रुतिः स्वयमेव निर्वक्तीत्याह -
तानिति ।
तत्रैव श्रुत्यन्तरमाह -
प्राणेनेति ।
अवरं निकृष्टमनेकाशुचिनीडं कुलायं देहाख्यं गृहं प्राणानुपसंहारेण रक्षञ्जीवः सुप्तिं याति । प्राणस्याप्युपसंहारे मृतभ्रान्तिः स्यादित्यर्थः ।
प्राणस्य कार्यान्तरं श्रुत्यन्तरेण दर्शयति -
यस्मादिति ।
तेन प्राणेन यदश्नाति जीवस्तेनाशनादिनेति यावत् ।
प्राणस्य कार्यान्तरं वाक्यान्तरेणोपन्यस्यति -
कस्मिन्निति । ॥ ११ ॥
प्राणस्य प्राणान्तरेष्वसम्भाव्यमानकार्यसत्त्वे हेत्वन्तरमाह -
पञ्चेति ।
सूत्रं व्याकरोति -
इतश्चेति ।
कथमेतावताऽन्यत्रासम्भाविकार्यविशेषसिद्धिः, तत्राह -
वृत्तीति ।
तदेव विवृणोति -
प्राण इति ।
उच्छ्वासादीत्यादिशब्देन देहधारणादि गृह्यते । एतेन निश्वासादीत्यादिशब्दो व्याख्यातः । उत्क्रान्त्यादीत्यादिपदेन गत्यागती गृह्येते ।
प्राणस्य पञ्चवृत्तित्वमुपसंहरति -
एवमिति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
कास्ता मनसः पञ्चवृत्तयः, तत्राह -
श्रोत्रादीति ।
लोकप्रसिद्ध्यपेक्षया श्रुतिप्रसिद्धेर्बलवत्त्वात्कामाद्या मनोवृत्तयः स्युरित्याशङ्क्याह -
नत्विति ।
पञ्चसङ्ख्याधिक्याच्चेत्कामाद्या वृत्तयो नेष्यन्ते तर्हि ज्ञानेऽपि पञ्चत्वनियमासिद्धेः श्रोत्रादिनिमित्ता इत्याद्ययुक्तमिति शङ्कते -
नन्विति ।
उक्ते पञ्चवृत्तित्वे मनसोऽरुचिकारणमुक्त्वा प्रकारान्तरेण तस्य पञ्चवृत्तित्वमाह -
एवमिति ।
इहेति प्रकृतसूत्रोक्तिः ।
योगशास्त्रप्रसिद्धा मनोवृत्तीरेवानुक्रामति -
प्रमाणेति ।
प्रमासाधनं प्रमाणम् । मिथ्याध्यवसायो विपर्ययः । ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’ अग्रहणं निद्रा । अनुभूतमात्रज्ञानं स्मृतिः । परसिद्धेन परो बोधनीय इत्यस्मिन्नंशे विरोधाभावादप्रतिषिद्धत्वयुक्तं न त्विदमेवाभिप्रेतम् ।
विपर्ययादीनामविद्यावृत्तित्वोपगमादिन्द्रियव्यापारोपरममात्रत्वान्निद्राया मनोवृत्तित्वासिद्धिरित्यपरितोषात्पक्षान्तरमाह -
बह्विति ।
मनोवत्पञ्चवृत्तित्वादुपकरणत्वं प्राणस्येत्येतदपि सूत्रार्थत्वेन द्रष्टव्यमित्याह -
जीवेति ।
तदेवं वायोरिन्द्रियवृत्तेश्च प्राणस्य भेदाभेदश्रुत्योरविरोधाद्यथोक्तप्राणकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धम् ॥ १२ ॥
मुख्यस्य प्राणस्य सृष्टिं स्वभावविशेषं च निरूप्य परिमाणमतिदेशेन निरूपयति -
अणुश्चेति ।
मुख्यप्राणो महान्परिच्छिन्नो वेति श्रुतिविप्रतिपत्तेः संशये सिद्धान्तमाह -
अणुरिति ।
इहापीति सूत्रस्य मुख्यस्य प्राणस्य ।
सूक्ष्म इत्यादिना ।
अत्रापि व्यापित्वपरिच्छिन्नत्वश्रुत्योर्विरोधनिरासेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
सर्वत्र दृष्टकार्यत्वादाकाशवत्प्राणो महानित्यत्र हेत्वसिद्धेर्यत्र शरीरं तत्रेति विशेषणे शरीरतद्रूपादिष्वनैकान्त्यादनुमानेन प्राणस्य महत्त्वासिद्धावपि समोऽनेन सर्वेणेति श्रौतलिङ्गेन तत्सिद्धिरित्यधिकाशङ्कां दर्शयन्पूर्वपक्षमाह -
नन्विति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती परिच्छिन्नत्वमुत्क्रान्त्यादिभिर्भाति समोऽनेनेत्यादिना विभुत्वं, ततश्च परिच्छिन्नत्वस्य मुख्यत्वे विभुत्वस्यात्यन्तबाधः स्यादपरिच्छिन्नत्वस्य मुख्यत्वे परिच्छिन्नत्वमौपाधिकं युक्तम् । यद्यपि सर्वेऽनन्ता इतिवत्प्राणानन्त्यश्रुतिरपि नेतुमुचिता तथापि विधान्तरेण तन्नयनार्थमाशङ्केत्यर्थः ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति परिच्छेदेऽपि प्राणस्य लिङ्गदर्शनाद्द्वयोर्लिङ्गयोर्विरोधे सत्याध्यात्मिकाधिदैविकरूपाभ्यां व्यवस्थेति परिहरति -
तदिति ।
समष्टिव्यष्टिरूपेणानुवृत्तव्यावृत्तरूपेणेत्यर्थः ।
उभयथा लिङ्गयोर्व्यवस्थासिद्धावपीयमेव कुतो व्यवस्थेत्याशङ्क्य त्वदुक्तलिङ्गस्य प्राणमात्रपरिच्छेदासाधकत्वादाधिदैविकविषयत्वेन समोऽनेनेत्याद्यास्थेयमित्याह -
अपि चेति ।
मुख्यप्राणस्य व्यापित्वपरिच्छिन्नत्वश्रुत्योरित्थमविरोधात्परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयधीरित्युपसंहरति -
तस्मादिति ॥ १३ ॥
प्राणस्याध्यात्माधिदैवतविभागेनाणुत्वविभुत्वनिरूपणप्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकादित्याद्यपेक्षां चेष्टामाचष्टे -
ज्योतिरादीति ।
अधिकरणस्य विषयसंशयौ दर्शयति -
ते पुनरिति ।
अन्वयव्यतिरेकाभ्यामाद्यो विकल्पः, द्वितीयो देवताधिष्ठितत्वोक्तेरिति विवेक्तव्यम् । ‘चक्षुषा हि रूपाणि पश्यति’ इति । ‘आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्’ इत्यदिश्रुतेरविरोधद्वारा देवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
केवलव्यतिरेकाभावाद्देवताया नाधिष्ठातृत्वमिति पूर्वपक्षयति -
तत्रेति ।
न च दृष्टकारणक्लृप्तावन्वयव्यतिरेकापेक्षायामपि देवतायाः श्रुतेरधिष्ठातृत्वोक्तेर्न तदपेक्षेति वाच्यं, देवतायास्तत्राधिष्ठातृत्वादृष्टेर्वागादिभावस्यैव भानात् । न च चेतनस्याचेतनभावाऽसिद्धेरधिष्ठातृत्वमेवेति युक्तम् , अचेतनस्याग्न्यादेरचेतनवागादिभावसिद्धेरिति भावः ।
इतश्च स्वमहिम्नैव प्राणानां प्रवृत्तिरित्याह -
अपिचेति ।
देवताश्चश्रुरादिजन्यकर्मतत्फलयोगिन्यश्चक्षुराद्यभिमानेन प्रवर्तकत्वाज्जीववदित्यनुमित्या तदेव स्फुटयति -
देवतेति ।
सिद्धसाध्यत्वमाशङ्क्य विरोधाभिप्रायानेकाधिष्ठिततया शरीरस्य गमनाद्यसम्भवापत्तेः शरीरस्य भोक्तृत्वं न स्यादित्याह -
शारीरस्येति ।
‘न ह वै देवान्पापं गच्छति’ इत्यादिना देवताया भोक्तृत्वं निरस्तमित्याशङ्क्य पुण्यफलमेव देवता भुञ्जते न पापफलमित्येतावन्मात्रस्य तत्रेष्टत्वान्मैवमिति मत्वोपसंहरति -
अत इति ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
तत्र पूर्वपक्षनिषेधं विभजते -
तुशब्देेनेति ।
उत्तरपक्षप्रतिज्ञां प्रकटयति -
ज्योतिरादिभिरिति ।
हेतुमवतार्य विवृणोति -
हेतुं चेति ।
तद्भाव एवात्र भाति, नच तदधिष्ठातृत्वमित्याशङ्क्य चेतनानामचेतनत्वासिद्धेरधिष्ठातृत्वमेवात्रेष्टमित्याह -
अग्नेश्चेति ।
अधिष्ठानाधिष्ठेयत्वं हित्वोपादानोपादेयत्वमुपेत्याग्न्यादीनामचेतनानामेव वागादिभावेन मुखादिषु प्रवेशः स्यादित्याशङ्क्याह -
न हीति ।
वाक्चक्षुषोस्तैजसत्वेन तेजोमात्रत्वे सत्यग्न्यादित्यशब्दयोरैकार्थ्येन पौनरुक्त्याद्व्यक्तिभेदेन कारणभेदे चक्षुरादेरादित्यमण्डलादिव्यतिरिक्तस्थले कार्यानुपलब्धिप्रसङ्गाद्देवतानां चेतनानामेवाग्न्यादीनामधिष्ठातृत्वेन सम्बन्धो वागादिषु विवक्षितो न सम्बन्धान्तरं सदप्यत्राभिप्रेतमित्यर्थः ।
अग्निर्वाग्भूत्वेत्याद्युक्तमन्यत्राप्यतिदिशति -
तथेति ।
अग्न्यादीनामधिष्ठातृत्वं वागादीनामधिष्ठेयतेत्यत्रैव हेत्वन्तरमाह -
तथेति ।
तत्रैव लिङ्गान्तरमाह -
स वा इति ।
स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानां मृत्युमतीत्यावहत्प्रापयत् । किं प्रापितवानित्युच्यते । यदा हि मुक्ता तदा सा पूर्वमप्यग्निरेव सती मृत्युवियोगे प्रतिबन्धाभावादग्निरेवाभवदित्यर्थः ।
इतश्चाग्न्यादीनां वागादीनां चाधिष्ठानाधिष्ठेयत्वमित्याह -
सर्वत्रेति ।
उक्तेऽर्थे स्मृतिमपि संवादयति -
स्मृताविति ।
पूर्वपक्षबीजमनुभाषते -
यदिति ।
प्राणानां स्वकार्यशक्तियोगेऽपि चेतनाधिष्ठितानामेव प्रवृत्तिरित्याह -
तदिति ।
शकटादीनां बलीवर्दाद्यधिष्ठितानां प्रवृत्तिर्दृष्टा, क्षीरादीनामनधिष्ठितानामपि दध्यादिप्रवृत्तिसिद्धिः, तथाचोभयथासम्भवे कथं निर्णयः, तत्राह -
उभयथेति ॥ १४ ॥
उक्तं युक्त्यन्तरं निराकर्तुं सूत्रमवतारयति -
यदपीत्यादिना ।
सूत्रं व्याचष्टे -
सतीष्विति ।
शारीरेणैव ।
भोक्त्रेति शेषः । प्राणानां भोगसाधनत्वेनेति वक्तव्यम् । सम्बन्धः स्वस्वामिभावः ।
तामेव श्रुतिमाह -
तथाहीति ।
देहे प्राणप्रवेशानन्तर्यमथशब्दार्थः । यत्र गोलकगतकृष्णसारे छिद्रमाकाशमनुविषण्णमनुगतं चक्षुस्तत्र स आत्मा चक्षुषि भवश्चाक्षुषस्तस्य दर्शनाय चक्षुर्न चैतन्यायेति यावत् । अथशब्दोऽप्यर्थः । दर्शनाद्यर्थं चक्षुराद्यपेक्षायामपि जिङ्घ्राणीति सङ्कल्पं स्वत एव यो वेद स आत्मा तस्य गन्धज्ञानाय घ्नाणमिति द्वितीयवाक्यार्थः ।
विमता देवता नैतच्चक्षुरादिजन्यधर्मतत्फलयोगिन्यः, एतच्चक्षुरादिसाधनोत्थरूपादिज्ञानानाश्रयत्वात् , पुरुषान्तरवदिति मत्वा श्रुतेस्तात्पर्यमाह -
शारीरेणेति ।
इतश्चास्मिन्देहे देवतानां न भोक्तृतेत्याह -
अपिचेति ।
अनेकत्वेऽपि तासामत्र भोक्तृत्वे का क्षतिः, तत्राह -
एको हीति ।
योऽहं रूपमद्राक्षं सोऽहं शृणोमीत्येकस्यैव प्रत्यभिज्ञानं प्रतिसन्धानम् । बहूनां भोक्तृत्वे विरुद्धक्रियस्य शरीरस्योन्मथनमादिशब्दार्थः ॥ १५ ॥
कदाचिद्देवतानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यवस्थामाशङ्क्याह -
तस्येति ।
स्वकर्मार्जिते देहे जीवस्य भोक्तृतानियमान्मैवमित्यर्थः ।
सूत्रार्थं विवृणोति -
तस्येत्यादिना ।
न देवतानामत्र भोक्तृतेत्यत्र हेतुमाह -
ता हीति ।
देवतानामिह देहे भोगाभावे श्रुतिमप्यनुकूलयति -
श्रुतिश्चेति ।
सूत्रव्याख्यान्तरमाह -
शारीरेणेति ।
उत्क्रमणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमित्यर्थः ।
देवतानामत्राभोक्तृत्वे फलितमाह -
तस्मादिति ।
हेतुमेव स्फोरयति -
करणेति ।
आलोकवत्करणोपकारकत्वमेव देवतानां न तज्जन्यभोगवत्त्वमित्यर्थः । तदेवं ‘चक्षुषा हि रूपाणि’ इत्यादिश्रुतेः । ‘आदित्यश्चश्रुर्भूत्वा’ इत्यादिश्रुतेश्चादित्यादिदेवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहर्तुमितिशब्दः ॥ १६ ॥
सत्स्विन्द्रियेषु तदधिष्ठातृचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण नेति चोदिते प्रत्याह -
त इति ।
उक्तमनूद्य भेदाभेदश्रुतिभ्यां सन्देहमाह -
मुख्यश्चेति ।
तत्रेति ।
एकादशप्राणेष्विति यावत् ।
पूर्ववदाम्नानबलेन पूर्वपक्षयति -
किमित्यादिना ।
अत्र भेदाभेदश्रुत्योरविरोधेन तत्त्वान्तरे मूलकारणे ब्रह्मणि समन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधात्तदसिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
श्रुतिमेवाह -
तथाहीति ।
हन्तेदानीमस्यैव मुख्यप्राणस्य सर्वे वयं रूपमसाम भवामेत्याशिषं दत्वा ते वागादय एतस्यैव मुख्यस्य रूपं बभूवुरिति श्रुत्यर्थः ।
वाचकशब्दैक्याच्चैकत्वमित्याह -
प्राणेति ।
अक्षादिशब्दवदनेकार्थत्वं प्राणशब्दस्य किं न स्यादित्याशङ्क्यागतिका हीयं गतिरित्याह -
इतरथेति ।
गङ्गादिशब्दवदनेकार्थत्वमाशङ्क्य भेदे मानाभावान्मुख्यसम्भवे कुतो लक्षणेत्याह -
एकत्रेति ।
ननु ‘एतस्माज्जायते प्राणः’ इत्यादौ भेदवादाद्वागादीनां प्राणात्तत्त्वान्तरत्वम् । न च मनः सर्वेन्द्रियाणीतिवद्भेदोक्तेर्भेदासाधकत्वं तदिन्द्रियत्वस्य स्मृतिसिद्धत्वाद्ब्राह्मणपरिव्राजकवद्भेदवादेऽपि प्रकृते पृथगुक्तेरेव तत्त्वान्तरत्वध्रौव्यादित्याशङ्क्यात्राप्यभेदश्रुतेरभेदस्यैव सिद्धेर्भेदोक्तिर्ब्राह्मणपरिव्राजकवदिति मत्वाह -
तस्मादिति ।
पूर्वपक्षमनूद्य सूत्राद्बहिरेव प्रतिजानीते -
एवमिति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
आकाङ्क्षापूर्वकं हेतुं विवृण्वन्नेव सूत्राक्षराणि योजयति -
क इत्यादिना ।
व्यपदेशभेदं विशदयति -
एतस्मादिति ।
उक्तव्यपदेशभेदस्यातिप्रसङ्गित्वं शङ्कते -
नन्विति ।
एवं सति उक्तहेतुना वागादीनां मुख्यात्तत्त्वान्तरत्वे सतीति यावत् ।
उत्सर्गतो भेदव्यपदेशस्य तत्त्वान्तरस्य साधकत्वमङ्गीकरोति -
सत्यमिति ।
कथं तर्हीन्द्रियत्वं मनसः सिद्धं, तत्राह -
स्मृतौ त्विति ।
श्रुतिस्मृतिभ्यामपवादाद्भेदव्यपदेशस्यौपचारिकत्वमित्यर्थः ।
प्राणस्यापि मनोवदिन्द्रियत्वं किं न स्यात् , तत्राह -
प्रणस्येति ।
तत्रापि भेदवादस्यौपचारिकत्वमाशङ्क्यापवादाभावान्नेत्याह -
व्यपदेशेति ।
उपपत्तिमेव व्यतिरेकेण स्फोरयति -
तत्त्वेति ।
व्यपदेशभेदानुपपत्त्योक्तं भेदमुपसंहरति -
तस्मादिति ॥ १७ ॥
तत्रैव हेत्वन्तरं पृच्छति -
कुत इति ।
प्राणस्य वागादिभ्यः साक्षाद्भेदोक्तेरपि भेदधीरित्याह -
भेदेति ।
सूत्रं विभजते -
भेदेनेति ।
इन्द्रियवृत्तयः शास्त्रोद्भासिता देवाः स्वाभाविक्यस्ता एवासुरास्तयोः सदाऽन्योन्यमभिभवरूपः सङ्ग्रामस्तत्रासुरपराजयायौद्गात्रं कर्म देवाः प्रारेभिरे, ते च देवा वाचमूचुस्त्वं न उद्गयेत्युपक्रम्य तां वाचमसुराः पाप्मनाऽविध्यन्नित्यादिना वागादीनसुरैः पाप्मना कल्याणासङ्गनिमित्तेन विद्धानुक्त्वा वागादिप्रकरणमुपसंहृत्याथेति प्रकरणविच्छेदेन प्रसिद्धमास्ये भवं मुख्यप्राणमूचुर्वागादयस्त्वं न उद्गायेत्युक्त्वा तेन चोद्गाने प्रारब्धे पूर्ववद्वेधायोपक्रममात्रेणाभेद्यपाषाणक्षिप्तलोष्टवदसुरा नष्टा इत्यसुरविध्वंसिनो मुख्यप्राणस्य पृथगुक्तेर्भेदसिद्धिरित्याह -
ते हेत्यादिना ।
भेदे श्रुत्यन्तरमाह -
तथेति ।
तानि त्रीण्यन्नान्यात्मने स्वार्थं प्रजापतिरकुरुत कृतवानिति यावत् , भेदश्रुतिसिद्धमुपसंहरति -
तस्मादिति ॥ १८ ॥
तत्रैव हेत्वन्तरं प्रश्नपूर्वकमाह -
कुतश्चेति ।
विरुद्धधर्मवत्त्वादपि भेदधीरिति सूत्रार्थः ।
तमेवार्थं विवृणोति -
वैलक्षण्यं चेति ।
किमिदं वैलक्षण्यं तदाह -
सुप्तेष्विति ।
अर्थक्रियाकृतं वैलक्षण्यान्तरमाह -
तस्यैवेति ।
लक्षणभेदकृतं फलमुपसंहरति -
तस्मादिति ।
अभेदश्रुतेरुक्तमभेदमनुवदिति -
यदिति ।
अभेदे तस्यास्तात्पर्याभावान्मैवमित्याह -
तदिति ।
अभेदश्रुतिः सप्तम्यर्थः ।
भेदप्रतीतिं प्रकटयति -
तथीहीति ।
दध्रे धारणाभिप्रायं चक्रे । तस्मान्मृत्युना श्रमेणाक्रान्तत्वादिति यावत् ।
प्राकारान्तरेण भेदप्रतीतिमाह -
अयमिति ।
अभेदश्रुतेस्तर्हि का गतिः, तामाह -
तस्मादिति ।
एतस्यैव सर्वे रूपमभवन्निति वाक्यात्तस्मादेत एतेनाख्यायन्ते प्राणा इति च प्राणश्रुतेरिन्द्रियाणां प्राणवृत्तित्वे प्राप्ते प्राणसंवादादिगतैर्बहुभिर्भेदलिङ्गैरर्थान्तरत्वे च लिङ्गैर्बलीयोभिरबलं वाक्यं बाध्यते । श्रुतिरपीन्द्रियाणां प्राणसंज्ञार्थेत्यन्यपरा लिङ्गैर्बहुभिर्बाध्येति भावः ।
यत्तु प्राणशब्दस्य मुख्यत्वसम्भवे न लक्षणेति, तत्राह –
अत इति ।
प्राणस्येन्द्रियेभ्यो भेदो यस्मात् प्रामाणिकस्तस्मादेव तच्छब्दस्य तेषु मुख्यतायोगाद्युक्ता लक्षणेत्यर्थः ।
श्रुत्यालोचनातोऽपि प्राणशब्दस्य लक्षणासिद्धिरित्याह -
तथाचेति ।
अभेदश्रुतेर्गतिमुक्त्वोपसंहरति -
तस्मादिति ।
तदेवं भेदाभेदश्रुत्योरविरोधात्तत्त्वान्तरभूतवागादिमूलकारणे ब्रह्मणि समन्वयधीरित्युपसंहर्तुमितीत्युक्तम् ॥ १९ ॥
उत्पत्तिरुत्पादनेति व्यापारावुत्पद्यमानोत्पादकगतौ प्रसिद्धौ । तत्र जगदुत्पत्तिश्रुतिविरोधोऽतीतेन सन्दर्भेण निरस्तः । संप्रत्युत्पादनाविषयश्रुतिविरोधो निरस्यते । तत्रापि भूतसूक्ष्मोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नम् । भौतिकनिर्माणश्रुतिषु विप्रतिपत्तिरिति तन्निरासार्थमाह -
संज्ञेति ।
नामरूपाभेदात्करणानां प्राणाभेदशङ्कानिरासप्रसङ्गेन नामरूपव्याकरणं किङ्कर्तृकमिति निरूपयतीति विशेषसङ्गतिं गृहीत्वाऽधिकरणस्य विषयमाह -
सदिति ।
उपदेशमेव दर्शयति -
सेयमिति ।
ईक्षणप्रयोजनं यद्बहुभवनमुक्तं तदद्यापि न सिद्धमिति पुनरीक्षां कृतवती सदाख्या देवतेत्यर्थः ।
ईक्षणप्रकारमभिनयति -
हन्तेति ।
इदानीमहमिमा यथोक्तास्तेजोबन्नाख्यास्तिस्त्रो देवता व्यवहारापेक्षायामनेन पूर्वसृष्टावनुभूतेनाधुना स्मृतेन जीवेनात्मना बुद्ध्यादिभूतमात्रायामादर्शे मुखवदनुप्रविश्य नाम च रूपं च ते व्याकरवाणीदमस्य नामेदं च रूपमिति स्पष्टं करवाण्येवमीक्षित्वा पुनरपि देवता व्यवहारार्थमीक्षां चकारेत्याह -
तासामिति ।
तिसृणां देवतानामेकैकां देवतां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकां करवाणि । तथा च स्थूलभूतेषु व्यवहारसिद्धिरित्यर्थः ।
नामरूपव्याकरणं विषयीकृत्यानेन जीवेनेत्यस्य व्याकरवाणीत्यनेन वानुप्रविश्येत्यनेन वा सम्बन्धसम्भावनया सन्देहमाह -
तत्रेति ।
भौतिकसृष्टिश्रुतिविरोधनिरासेन परस्मिन्नेव तत्कारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे जीवस्यैव भौतिकसृष्टिकारणत्वात्तस्मिन्नेव समन्वयाद्ब्रह्मणि तदसिद्धिः ।
सिद्धान्ते परस्यैव तद्धेतुत्वात्तत्रैव तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षमाह -
तत्रेत्यादिना ।
जीवेनेत्यस्य प्रविश्येत्यनेन सम्बन्धान्न जीवस्य व्याकर्तृत्वमिति शङ्कते -
कुत इति ।
क्रियापदस्य प्राधान्यात्तेनान्येषामन्वयाज्जीवेनेत्यस्य व्याकरवाणीत्यनेन सङ्गतिरित्याह -
अनेनेति ।
सेयं देवतेत्युपक्रम्य व्याकरवाणीत्युत्तमपुरुषप्रयोगाद्देवताया व्याकर्तृत्वं न जीवस्येत्याशङ्क्योपचारादुत्तमपुरुषप्रयोगं दृष्टान्तेन दर्शयति -
यथेत्यादिना ।
उपचारान्मुख्यग्रहणं युक्तमित्याशङ्क्य जीवेनेति विशेषणवैयर्थ्यान्मैवमिति मत्वा दार्ष्टान्तिकमाह -
एवमिति ।
जीवस्य प्रवेष्टृत्वं ब्रह्मणो व्याकर्तृत्वमित्यङ्गीकारे समानकर्तृकत्वाऽऽभावात्क्त्वाप्रत्ययविरोधः स्यादिति भावः ।
नदीसमुद्रादिव्याकरणे जीवस्यायोग्यत्वाद्ब्रह्मणस्तत्र कर्तृतेत्याशङ्क्यानुमानमाह -
अपिचेति ।
विप्रतिपन्नमिदमा परामृश्यते । भौतिकसृष्टिश्रुतिषु विरोधान्न सर्वकारणे ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं पदशो विभजते -
तुशब्देनेति ।
पदार्थमुक्त्वा प्रतिज्ञावाक्यार्थं स्फुटयति -
येयमिति ।
अधिदैवविषयमग्न्याद्युदाहरणम् । अधिभूतविषयं कुशादि । पश्वाद्यध्यात्मविषयमिति भेदः ।
न केवलं जात्युपाधावनेकप्रकारं किन्तु व्यक्त्युपाधावपीत्याह -
प्रतीति ।
कारणविषयविप्रतिषेधनिषेधयावधारणम् । तत्र सौत्रं हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -
कुत इति ।
परोक्तमनुवदति -
नन्विति ।
आकाङ्क्षासंनिधियोग्यतावशेनान्वयाज्जीवेनेत्यस्य प्रविश्येत्यनेन संनिधानाज्जीवस्य च सर्वनामरूपव्याकरणे योग्यत्वाभावात्तस्य प्रवेशेनैव सम्बन्धो नान्येनेत्याह -
नैतदिति ।
उपसर्जनस्योपसर्जनेनासम्बन्धात्प्रधानेन क्रियापदेनैव जीवपदस्य सङ्गतिरुक्तेत्याशङ्क्य व्याकरवाणीत्युत्तमपुरुषस्यौपचारिकत्वापत्तेर्मैवमित्याह -
तेनेति ।
परोक्तमनुमानं योग्यानुपलब्धिविरोधेन निरस्यति -
नचेति ।
आगमविरोधाच्चायुक्तमनुमानमित्याह -
येष्विति ।
यत्तु कर्तृभेदे क्त्वाप्रत्ययविरोध इति, तत्राह -
नचेति ।
कथं तर्हि व्यपदेशभेदः, तत्राह -
उपाधीति ।
औपाधिके भेदे वास्तवे चाभेदे फलितमाह -
तेनेति ।
जीवब्रह्मणोरैक्याज्जीवकर्तृकमपि व्याकरणं ब्रह्मकर्तृकं चेत्तर्हि जीवकर्तृकमेव सद्ब्रह्मकर्तृकं किं न स्यादित्याशङ्क्य ब्रह्मकर्तृकत्वस्यैव वेदान्तेषु प्रसिद्धेर्मैवमित्याह -
परमेश्वर इति ।
सूत्रार्थमुपसंहरति -
तस्मादिति ।
भूतविषयनामरूपव्याकरणस्य त्रिवृत्करणात्पूर्वमपि सम्भवात्र्रिवृत्कुर्वतो नामरूपव्याकरणं कर्मेति कथमुक्तमित्याशङ्क्य भौतिकविषयमेतदिति विशेषणसिद्धिमाह -
त्रिवृदिति ।
इहेति व्याकरणवाक्योक्तिः ।
किं तत्र्रिवृत्करणं यद्व्याकरणात्पूर्वभावीत्याशङ्क्याह -
तच्चेति ।
यथा छान्दोग्ये भूतत्रयसृष्टिस्तैत्तिरीयश्रुत्यनुरोधाद्भूतपञ्चकविषयोक्ता तथात्रापि त्रिवृत्करणं, पञ्चीकरणाभिप्रायं द्रष्टव्यं श्रुत्यन्तरे पञ्चानां भूतानां सृष्टेरुक्तत्वात् । किं पुनर्नामरूपव्याकरणं, तदाह -
तत्रेति ।
अग्नावुक्तन्यायमतिदिशति -
एवमिति ।
आदित्यादीनां तैजसानामेव श्रुत्योक्तेर्न सर्वत्र त्रिवृत्करणमित्याशङ्क्याह -
अनेनेति ।
यस्य त्रिवृत्करणं गम्यते तस्यैवास्तु किमतिदेशेनेत्याशङ्क्याह -
उपक्रमेति ।
तिस्रस्तावदिमास्तेजोबन्नाख्या देवतास्तासामेकैका देवता त्रिवृत्र्रिवृत्र्र्यात्मिका त्र्यात्मिका भवतीत्युपक्रमार्थः । उपसंहारस्थावितिशब्दौ क्रमेण यच्छब्दाभ्यां सम्बन्ध्येते । अविज्ञातं विशेषरूपेणादृष्टम् । इवकारावुभयत्र दृष्टरूपस्याभासत्वार्थौ । एतासां तिसृणामेव देवतानां समासः । समुदाय इति यावत् ॥ २० ॥
बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकेऽस्मिन्मानं वदन्नुत्तरसूत्रसङ्गतिमाह -
तासामिति ।
अध्यात्मं देहे त्रिवृत्करणमपरं कार्यत्रयरूपेण वर्तनमिति यावत् । याः खल्विमा देवतास्तिस्रो बहिस्त्रिवृत्कृता दर्शितास्तासामेकैका देवता पुरुषं शरीरं प्राप्य त्रिवृत्कार्यत्रयरूपेण त्र्यात्मिका त्र्यात्मिका भवतीत्यर्थः ।
तदित्याध्यात्मिकं त्रिवृत्करणमुच्यते । सर्वस्य त्रिवृत्कृतत्वाविशेषे कथं व्यवहारविशेषः स्यादित्याशङ्क्याह -
आशङ्कितमिति ।
उत्तरसूत्रेण शङ्कितं दोषमुद्भाव्य परिहरिष्यन्नादौ त्रिवृत्करणं विषयं दर्शयतीति योजना ।
ननु वैशेषिका मनसो नित्यत्वं साङ्ख्या वाङ्मनसयोराहङ्कारिकत्वमाहुरन्नमयता च मनसोऽन्नसम्बन्धाल्लक्षणार्था तदुपयोगे तत्स्वास्थ्यात् । वाचोऽपि तेजोमयत्वं पाटवेन तेजःसाम्यमेव, तत्राह -
मांसादीति ।
मनआदि भौमादीति वक्तव्ये मांसादिवचनं सिद्धेन सह साध्यस्य मनआदेर्दृष्टान्तार्थम् । यथा मांसादि भौममेवं वाङ्मनसे अपि तैजसभौमे शब्दवशाज्ज्ञेये इत्यर्थः ।
सूत्राक्षराणि व्याचष्टे -
भूमेरिति ।
यथाशब्दमित्युक्तं विशदयति -
तथाहीति ।
भूमेर्मांसादिभावः सूत्रितस्तदयुक्तमोदनस्यैव तथात्वदृष्टेरित्याशङ्क्याह -
त्रिवृदिति ।
सूत्रतात्पर्यमुक्त्वा श्रुतितात्पर्यमाह -
तस्याश्चेति ।
इतरयोश्चेति भागं व्याकरोति -
एवमिति ।
तदेव कार्यमुदाहरति -
मूत्रमिति ।
जलाधीनस्थितित्वात्तत्कार्यत्वं प्राणस्योपचर्यते श्रुत्यन्तरे तस्य वायुकार्यत्वसिद्धेरन्यत्रापवादाभावान्मुख्यमेतत्कार्यत्वमिति विवेकः ॥ २१ ॥
अविशेषेण सर्वेषां त्र्यात्मकत्वे कथमन्नादिशब्दवाच्यतेति चोदयति -
अत्रेति ।
बाह्ये व्यवहारविशेषासम्भवमुक्त्वा देहेऽपि तदसम्भवमाह -
तथेति ।
उत्तरसूत्रमवतारयति -
अत्रेति ।
तदक्षराणि व्याचष्टे -
तुशब्देनेति ।
भूयस्त्वं विवृणोति -
सत्यपीति ।
दृष्टं भूयस्त्वमुदाहरति -
अग्नेरिति ।
अफलत्वादप्रतिपाद्यं त्रिवृत्करणमित्याशङ्क्याह -
व्यवहारेति ।
एकैकभूतगोचरत्वेनापि व्यवहारस्य सुकरत्वान्न तादर्थ्येन त्रिवृत्करणमित्याशङ्क्याह -
व्यवहारश्चेति ।
केवलभूततन्मात्राणामिन्द्रियागोचरत्वात्तदर्थं तदुक्तिरित्यर्थः ।
उक्तमनूद्यावशिष्टं भागं व्याचष्टे -
तस्मादिति ।
विरोधसमाधिमुपसंहरन्पदाभ्यासस्य तात्पर्यमाह -
तद्वाद इति ॥ २२ ॥