अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

द्वितीयं शङ्कते -
शरीरेति ।
व्यतिरेकादर्शने नियो­ज्य­त्वा­सिद्धेः सति तस्मि­न्दे­हा­स­म्ब­न्धा­न्नि­यो­गा­यो­गा­द­नु­ज्ञा­द्या­न­र्थ­क्य­मि­त्यर्थः ।

देहा­द्व्य­ति­रे­क­द­र्शि­नोऽपि तत्सं­ह­त­त्वा­भि­मा­निनो नियो­ज्य­त्व­यो­गा­द­नु­ज्ञा­दे­र­र्थ­व­त्ते­त्याह -
नेत्यादिना ।

तदेव विभजते -
सत्यमिति ।

अङ्गीकृतं भागं दर्शयति -
व्यतिरेकेति ।

तर्हि देहादियोगस्य निवृ­ते­र­नु­ज्ञा­द्य­सिद्धिः, तत्राह -
तथापीति ।

असंहतत्वेऽपि तद्दर्शनाभावे दृष्टान्तमाह -
व्योमादिवदिति ।

व्यतिरेकदर्शिनो नियोज्यत्वं चेद­वि­शे­षा­दै­क्य­द­र्शि­नोऽपि स्यादि­त्या­श­ङ्क्याह -
नहीति ।
देहा­दि­ष्व­सं­ह­त­त्व­द­र्शिनः संह­त­त्व­धी­शू­न्यस्य सुषुप्तस्येति यावत् ।

तर्हि सम्यग्दर्शिनो विधि­नि­षे­धा­भा­वा­द्य­थे­ष्ट­चे­ष्टा­पत्तिः, नेत्याह -
नचेति ।
विष­या­भि­नि­वि­ष्ट­चे­तसो ज्ञाना­नु­द­या­द­वश्यं साध­का­व­स्था­या­मे­वा­भि­नि­वे­श­त्या­गेन भवितव्यम् । तस्य पुनः सम्य­ग्ज्ञा­नो­द­येऽपि पूर्ववासनातो विष­या­भि­नि­वे­शा­भा­वा­न्नि­य­त­प्र­वृ­त्तेर्न यथे­ष्ट­चे­ष्टे­त्यर्थः ।

प्रसङ्गागतं त्यक्त्वा प्रकृतमुपसंहरति -
तस्मादिति ।

उपा­धि­व­शा­द­नु­ज्ञा­प­रि­हा­रा­वि­त्यत्र दृष्टान्तमाह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति श्मशा­ना­दि­स­म्बन्धी वह्निरत्र क्रव्या­दि­त्यु­च्यते ॥ ४८ ॥

अनु­ज्ञा­दे­रु­क्त­रीत्या सिद्धिमुपेत्य कर्म­फ­ल­स­म्ब­न्ध­व्य­ति­क­र­मा­शङ्क्य परिहरति -
असन्ततेश्चेति ।

सूत्र­व्या­वर्त्यं शङ्कामाह -
स्यातामिति ।
यद्यपि स्थूल­दे­हा­व­च्छे­दा­द­नु­ज्ञा­प­रि­हारौ युज्येते तथापि कर्मफलसङ्करो दुर्वारः, एत­द्दे­हि­वि­शि­ष्टस्य स्वर्गा­दि­भो­गा­योगे स्वरूपस्यैव तद्यो­ग­ध्रौ­व्यात् । अतः स्वर्गी­त­रा­दि­व्य­व­स्था­नु­प­पत्त्या स्वरूपभेद इत्यर्थः ।

किं पर­मा­त्मा­पे­क्ष­यै­कत्वं किं वा जीवापेक्षया । आद्ये परस्याभोक्तुरपि सर्वा­श्र­य­त्वान्न व्यति­क­रा­श­ङ्के­त्याह -
नैतदिति ।

द्वितीयं सूत्रवयवेन निरस्यति -
असन्ततेरिति ।

तदेव विवृणोति -
नहीति ।
स्थूल­दे­ह­यो­ग­व्य­भि­चा­रेऽ­प्य­वि­द्या­त­दु­त्था­न्तः­क­र­ण­यो­ग­स्या­सं­सा­र­मो­क्षा­द­व्य­भि­चा­रा­त्त­द­व­च्छि­न्न­स्यैव स्वर्गा­दि­भो­गि­त्वान्न व्यवस्थायाः स्वरू­प­भे­द­धी­रि­त्यर्थः ।

औपाघिकभेदेन व्यवस्थोपपत्तिं सूत्रावयवार्थं दर्शयति -
ततश्चेति ॥ ४९ ॥

आद्ये सूत्रे जीव­स्यां­श­त्व­म­व­च्छे­द­बु­द्ध­यो­क्त­म­धुना ‘रूपं रूपम्' इत्या­दि­श्रु­ति­सिद्धं प्रति­बि­म्ब­प­क्ष­मु­प­न्य­स्यति -
आभास इति ।

तद्व्याख्याति -
आभास एवेति ।

एवकारार्थमाह -
नेत्यादिना ।
न हि जीवः साक्षा­त्प­र­मा­त्मैव, उपाधिव्यवधानात् । नापि वस्त्वन्तरं, ‘तत्सृष्ट्वा’ इत्या­दि­श्रु­ति­स्मृ­ति­वि­रो­धा­दि­त्यर्थः ।

आभासपक्षे स्वर्गी­त­रा­दि­व्य­व­स्थापि सुस्थेत्याह -
अतश्चेति ।

अस्मिन्पक्षे बन्धोऽ­ज्ञा­ना­ज्ज्ञा­ना­न्मु­क्ति­रि­त्ये­त­दपि सिध्यतीत्याह -
अभासस्येति ।

स्वरूपैक्येऽपि नास्ति दुःखादिसङ्कर इत्युक्त्वा चकारसूचितं वक्तुमुपक्रमते -
येषां त्विति ।

आत्मभेदात्परमते व्यतिकरो नेति शङ्कते -
कथमिति ।

परपक्षे व्यतिकरं प्रसञ्जयितुं साङ्ख्या­भि­प्रायं तावदाह -
बहव इति ।

कथंं तर्हि तेषां भोगापवर्गौ, तत्राह -
तदर्थमिति ।

वैशे­षि­क­प्र­क्रि­या­माह -
सतीति ।

घटादिसाम्यमेव स्फोरयति -
द्रव्येति ।

मात्रचो विवक्षितं दर्शयति -
स्वत इति ।

कथं तर्हि तेषु भोगापवर्गौ, तत्राह -
तदिति ।

तथापि कथं बन्ध­मो­क्षा­वि­त्या­शङ्क्य बन्धस्वरूपमाह -
तत्रेति ।

मुक्तिस्वरूपमाह -
तेषामिति ।
स्वापा­दि­व्या­वृ­त्त्य­र्थ­म­त्य­न्त­प­दम् ।

पक्षद्वयमनूद्य साङ्ख्यपक्षे व्यव­स्था­नु­प­प­त्ति­माह -
तत्रेति ।

संनि­धा­ना­द्य­वि­शे­षा­दि­त्या­दि­श­ब्दा­दौ­दा­सी­न्य­मु­क्तम् । साङ्ख्या­भि­प्रा­य­मा­श­ङ्कते -
स्यादिति ।
सर्वेषां पुंसां संनि­धि­नि­र्वि­शे­ष­त्व­यो­र­वि­शे­षेऽपि प्रधानमेव तेषां मोक्षार्थं प्रवर्तते । तथाच कञ्चित्कालं नर्त­की­व­त्स्वा­त्मानं दर्शयित्वा स्वयमेवोपरमते । सवि­का­र­प्र­धा­न­द­र्श­न­मेव पुंसां बन्धः, तदुपरमे तद्दृ­ष्ट्य­भा­वा­न्मु­क्ति­रु­प­च­र्यते । अतो निय­त­प्र­धा­न­प्र­वृत्त्या व्यव­स्था­सि­द्धि­रि­त्यर्थः ।

प्रति­नि­य­त­प्र­धा­न­प्र­वृ­त्त्य­न­ङ्गी­कारे स्ववि­भू­ति­ख्या­प­नाय तत्प्र­वृ­त्ति­रिति पुंसां मोक्षो न स्यादित्याह -
अन्यथेति ।

प्रधा­न­प्र­वृ­त्ते­र्मो­क्षा­र्थ­त्वेऽपि सर्वे­षा­म­प­र्या­य­मेव कस्मान्मोक्षो न भवेत् , कस्यचिन्मोक्षो बन्धश्च कस्यचिदिति व्यवस्थायां मानाभावादित्याह -
नैतदिति ।

प्रधानस्य स्ववि­भू­ति­ख्या­प­न­प­रि­हा­राय प्रति­नि­य­त­प्र­वृ­त्ति­रि­त्युक्तं, तत्राह -
नहीति ।

निय­म­स्या­ना­दि­त्वा­न्नात्र युक्ति­र­न्वे­ष्ये­त्या­श­ङ्क्या­नि­य­म­स्यै­वा­ना­दि­त्वा­न्मै­व­मि­त्याह -
असत्यामिति ।

वैशेषिकसमयेऽपि व्यव­स्थाऽ­सि­द्धि­माह -
काणादानामिति ।
संनि­धा­ना­दी­त्या­दि­श­ब्देन द्रव्यत्वादि गृहीतम् । हेतुर्मनःसंयोगः । फलं सुखादि ॥ ५० ॥

यददृष्टकृतो मनः­सं­यो­ग­स्त­स्यैव तत्कृतं सुखादीति व्यवस्थां शङ्कते -
स्यादेतदिति ।

सूत्रेणोत्तरमाह -
नेत्याहेति ।

अनियमं व्याख्यातुं पक्षद्वयसाधारणं तज्ज­न्म­प्र­का­र­माह -
बहुष्विति ।

एव­म­दृ­ष्टो­त्प­त्ता­वपि तन्निमित्ता व्यवस्था किं न स्यादि­त्या­शङ्क्य साङ्ख्या­न्प्र­त्याह -
साङ्ख्यानामिति ।

पक्षा­न्त­रेऽ­प्य­दृ­ष्टा­नि­यमं व्याचष्टे -
काणादानामिति ।

पूर्ववदिति ।
सुखा­द्यु­त्पा­द­क­म­नः­सं­यो­ग­व­दि­त्यर्थः । यद्वा नियम्यत्वेन प्रकृ­त­सु­खा­दि­व­दि­त्यर्थः । एष एव दोष इत्यदृष्टस्य नियामकत्वायोगो गृह्यते ॥ ५१ ॥

अदृ­ष्ट­हे­त्व­सा­धा­र­ण्येन तस्यापि तथात्वं शङ्कते -
स्यादेतदिति ।

सूत्रेण परिहरति -
नेत्याहेति ।

तद्विभजते -
अभिसन्धीति ।
अदृष्टं दृष्टा­न्त­यि­तु­म­पि­शब्दः । उक्तो दोषोऽदृष्टस्य सुखादेश्चानियमः ॥ ५२ ॥

प्रका­रा­न्त­रे­णा­सा­धा­र­ण्य­मा­शङ्क्य दूषयति -
प्रदेशादिति चेदिति ।

चोद्यं विवृणोति -
अथेति ।

परिहारं विभजते -
तदपीत्यादिना ।

सर्वेषामात्मनां सर्व­दे­हे­ष्व­न्त­र्भावे फलितमाह -
तत्रेति ।

प्रदे­श­क­ल्प­ना­मु­पे­त्यापि दूषयति -
कल्प्येति ।
कार्य­म­भि­स­न्ध्यादि ।

यस्यात्मनः शरीरं तस्यैव तत्र वृत्तिलाभो नान्ये­षा­मि­त्या­श­ङ्क्याह -
शरीरमिति ।
नच पूर्वा­दृ­ष्ट­व­शा­द्दे­ह­नि­य­म­स्त­स्यापि नियमश्च देह­स­म्ब­न्धा­दि­त्य­ना­दि­त्वा­द­दो­षोऽ­न्ध­प­र­म्प­रा­पा­ता­दा­ग­मा­नु­रोधे चात्मै­क्य­प्र­स­ङ्गा­दिति भावः ।

किञ्च प्रदेशभेदं विनापि सुखा­दि­व्य­व­स्थाया दृष्टत्वान्न तस्य व्यव­स्था­प­क­ते­त्याह -
प्रदेशेति ।

द्वयो­रा­त्म­नो­स्तु­ल्य­दे­श­म­दृष्टं कथ­मि­त्या­श­ङ्क्याह -
तथाहीति ।

किञ्च प्रदेशभेदेऽपि कर्तृ­त्व­भो­क्तृ­त्व­यो­रै­का­धि­क­र­ण्यान्न तस्य व्यव­स्था­प­क­ते­त्याह -
स्वर्गादीति ।

बहूनां सर्व­ग­त­त्व­मु­पे­त्या­व्य­व­स्थोक्ता । सम्प्रति तदपि नास्तीत्याह -
सर्वेति ।

बहूनां विभुत्वे दृष्टा­न्ता­भा­वेऽपि तुल्यदेशत्वे तद्भावादात्मनां पारि­शे­ष्या­द्वि­भु­त्व­मि­त्या­श­ङ्क्याह -
वदेति ।

रूपादीनां बहूनामेक एव घटो देशो दृष्टो नच मिथोविरोधो निर­व­य­व­त्वा­त्त­था­त्म­ना­मपि निर­व­य­वा­ना­मे­क­दे­श­तेति शङ्कते -
रूपेति ।

तेषामपि तेजोजलादिभिः स्वध­र्मि­भि­र­भे­दा­त्त­द­ति­रि­क्त­घ­टा­मा­वा­त्कुतो दृष्टा­न्त­ते­त्याह -
नेति ।

किञ्चात्मानां बहुत्वमपि लक्ष­ण­भे­दा­द­न्त्य­वि­शै­ष­व­शाद्वा । नाद्यः, अन्यत्र लक्षणभेदात् । भेदेऽपि प्रकृते तदभावादित्याह -
लक्षणेति ।
नात्मनां तद्भेदोऽस्ति, तेषां भिन्न­ल­क्ष­णा­नु­प­ल­म्भात् । ततश्चायुक्तं बहुत्वमित्यर्थः ।

द्वितीयं शङ्कित्वा दूषयति -
अन्त्येत्यादिना ।
नित्यद्रव्याः स्वरूपसन्तो विशे­षा­स्त­द्व­शा­दा­त्मसु व्यावृ­त्ति­रि­त्य­युक्तं, नहि तेषां निर्भिन्ने व्यावृ­त्ति­धी­हे­तुत्वं स्वरूपादपि तत्प्र­स­क्ता­वे­का­भा­व­प्र­स­ङ्गात् । अतो भेदे सिद्धेऽ­न्त्य­वि­शे­ष­सि­द्धि­स्त­त्सिद्धौ च भेद­सि­द्धि­रि­त्य­न्यो­न्या­श्र­या­न्नै­क­स्यापि सिद्धिरित्यर्थः ।

यत्तु बहूनामात्मनां विभु­त्वा­सि­द्धि­र्दृ­ष्टा­न्ता­भा­वा­दिति । तन्न । आकाशादीनामेव तथा­त्वा­दि­त्या­श­ङ्क्याह -
आकाशादीनामिति ।

परपक्षं निराकृत्य स्वप­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।
'यो बहून्कल्पयति कल्प यत्यसावेकम् ‘ इति न्याया­दे­क­स्ता­व­दात्मा सर्वसंमतः, तस्मिं­श्चा­का­शा­कल्पे परोपाधिना व्यवहारसिद्धौ न तात्त्वि­क­भे­द­क­ल्प­नायां किञ्चिन्मानं फलं वास्तीति भावः ।

तदेवं भूत­भो­क्तृ­वि­ष­य­श्रु­ति­वि­रो­ध­व्य­से­धेन समन्वयः सिद्धो ब्रह्मणीति पादा­र्थ­मु­प­सं­ह­रति -
इति सिद्धमिति ॥ ५३ ॥

भूत­भो­क्तृ­वि­ष­य­श्रु­ति­वि­रोधं पूर्वपादे परिहृत्य भौति­के­न्द्रि­या­दि­श्रु­ति­वि­रोधं परिहर्तुं पादा­न्त­र­म­व­ता­र­य­न्पू­र्वा­धि­क­रणे कर्तृस्वरूपं विचार्य तदु­प­क­र­णा­ना­मि­न्द्रि­या­णा­मु­त्पत्ति साधयति -
तथेति ।

पूर्वो­त्त­र­पा­द­स­ङ्ग­ति­माह -
वियदादीति ।

प्राणविषयः ।
प्राणो­त्प­त्ति­स­ङ्ख्या­त­त्त्वा­दि­वि­षय इत्यर्थः ।

सति विरोधे तत्परिहाराय प्रयतितव्यमिति मत्वा प्रथमं प्राणो­त्प­त्ति­वि­षयं विरोधमुदाहरति -
तत्रेति ।

क्वचि­दु­त्प­त्त्य­श्र­व­ण­मा­का­श­स्ये­वो­त्प­त्त्य­भा­वा­सा­ध­क­त्वा­त्कि­मि­त्यु­द्भा­वि­त­मि­त्या­श­ङ्क्या­नु­त्प­त्ति­वा­क्य­स­हा­य­त्वे­ने­त्याह -
क्वचिच्चेति ।

शून्य­वा­द­मा­श­ङ्क्याह -
तदिति ।

प्रसि­द्धा­ना­मृ­षीणां प्रसङ्गं प्रत्याह -
तदित्यादिना ।

कथमत्र प्राणा­ना­म­नु­त्प­त्त्या­म्नानं, तद्वा­च­क­प­दा­भा­वा­त्त­त्राह -
प्रागिति ।

विप्र­ति­प­त्त्य­र्थ­मु­त्प­त्ति­वाक्यं दर्शयति –
अन्यत्रेति ।

विप्र­ति­प­त्त्य­र्थ­मु­त्प­त्ति­वाक्यं दर्शयति -
अन्यत्रेति ।

विप्र­ति­प­त्ते­रे­का­द­शे­न्द्रि­या­णा­मु­त्प­त्ति­रस्ति न वेति संशी­ता­व­न­ध्य­व­सा­येन पूर्वपक्षयति -
तत्रेति ।
नच विय­द­धि­क­र­ण­न्या­येन निर्णयः, प्राणानां प्रलये सत्त्व­श्रु­ते­र्वि­य­द­मृ­त­त्वा­दि­श्रु­ति­व­द­वा­न्त­र­प्र­ल­या­भि­प्रा­येण नय­न­प्र­का­रा­ज्ञा­ना­दिति भावः ।

श्रुती­ना­म­मा­नत्वे शङ्किते गौणवाद्याह -
अथवेति ।
प्रलये प्राण­व्य­व­हा­रा­भा­वा­दु­त्प­त्ति­काले तद्भा­वा­त्त­द्वि­ष­य­तया जन्म­श्रु­ति­र­न्य­था­सिद्धा । प्राणानां प्राग­व­स्था­न­श्र­वणं तु तेषां जन्माभावे लिङ्गम् , अनन्यथासिद्धतया बली­य­स्त्वा­त्त­ज्ज­न्मा­भा­व­सा­ध­क­मिति भावः ।

अत्र च प्राणो­त्प­त्त्य­नु­त्प­त्ति­श्रु­तीनां मिथो­वि­रो­ध­नि­षे­धेन मूलकारणे ब्रह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे तासां विरो­धा­द­प्रा­मा­ण्या­त्तत्र समन्वयासिद्धिः । सिद्धान्ते त्वविरोधेन तत्सिद्धिः । पूर्व­प­क्ष­म­नु­भाष्य सिद्धान्तयति -
अत इति ।

सौत्रं तथा­श­ब्द­मा­क्षि­पति -
कथमिति ।

आनु­लो­म्य­मा­ञ्ज­स्यम् । कथं प्रकृ­तो­प­मा­ना­भावः, तत्र किं परदूषणं प्राणा­ना­मु­प­मा­न­मा­हो­स्वि­द­दृ­ष्ट­म­थवा जीवः । नाद्य इत्याह -
सर्वेति ।

परपक्षदूषणस्य प्राणानां च सादृश्याभावेऽपि किमि­त्यु­प­मा­नो­प­मे­य­भावो न स्यात् , तत्राह -
सादृश्ये हीति ।

कल्पान्तरमाह -
अदृष्टेति ।

तेन साम्य­प्र­ति­पा­द­न­मेव प्रकटयति -
यथेति ।

पुनरुक्त्या दूषयति -
तदपीति ।

तृतीयं प्रत्यह -
नचेति ।

सिद्धान्तविरोधं स्फोरयति -
जीवस्येति ।

आक्षेपमुपसंहरति -
तस्मादिति ।

सूत्रा­क्ष­रा­क्षेपं परिहरति -
नेति ।

किं तदुदाहरणं, तदाह -
अत्रेति ।

कथं तदु­पा­त्ते­नो­प­मानं, तदाह -
तत्रेति ।

उक्त­न्या­य­मा­थ­र्व­णा­दि­वा­क्ये­ष्वपि योजयति -
तथेति ।

संनि­हि­त­मे­वो­प­मा­न­मि­त्य­ङ्गी­कृ­त्यै­क­वा­क्यो­पा­त्त­त्वेन सांनिध्यमुक्तम् । इदानीं नायं नियमः, व्यव­हि­तो­प­मा­न­स्यापि मीमां­स­कै­रि­ष्ट­त्वा­दि­त्याह -
अथवेति ।
अस्ति ताव­द­श्व­दा­न­नि­मि­त्तेष्टिः ‘वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति याव­तोऽ­श्वा­न्प्र­ति­गृ­ह्णी­या­त्ता­वतो वारु­णां­श्च­तु­ष्क­पा­ला­न्नि­र्व­पेत्’ इत्याम्नाता । सा किं लौकिकेऽश्वदाने वैदिकेऽश्वदाने वेति सन्देहे ‘दोषा­त्त्वि­ष्टि­र्लौ­किके स्याच्छा­स्त्राद्धि वैदिके न दोषः स्यात्’ इति पूर्व­प­क्ष­सू­त्रम् । अस्यार्थः - अश्वदाने लौकिके दोषनिर्घातार्था प्रकृ­ते­ष्टि­रे­ष्टव्या, तत्रैव ‘न केसरिणो ददाति’ इति निषे­धा­ति­क्र­म­कृ­तस्य दोषस्य सम्भवात् । वैदिकेऽश्वदाने सामा­न्य­नि­षे­धा­न­व­का­शान्न तत्कृतो दोषः स्यात् । पौण्ड­री­केऽ­श्व­स­हस्रं दक्षि­णे­त्या­दि­वि­शे­ष­शा­स्त्रा­द्वै­दि­का­श्व­दा­नस्य निर्दो­ष­त्व­सि­द्धे­रिति । राद्धा­न्त­सू­त्रम् - ‘अर्थ­वा­दोऽ­नु­प­पा­ता­त्त­स्मा­द्यज्ञे प्रतीयते’ इति । तस्यार्थः - लौकिकेऽश्वदाने सति जलो­द­र­रू­प­व­रु­ण­ग्र­ह­दोषो नोपपतति मानाभावात् । न चेदमेव वाक्यमत्र मानम् , अश्वदाने जलोदराख्यो दोष­स्त­न्नि­र्घा­तार्था चेष्टि­रि­त्य­र्थ­भेदे वाक्यभेदात् । नच वरुणशब्दो वृणोतीति निषे­धा­ति­क्र­म­कृ­त­दो­षा­नु­वा­दीति कुतो वाक्यभेद, तथा सति प्रसि­द्धि­त्या­ग­प्र­स­ङ्गा­त्त­त्त्या­गेच वैदिकेऽपि दाने तुरगत्यागजं क्लेश­मा­त्र­मु­क्त­व्यु­त्पत्त्या वरुणशब्दवाच्यं स्यात् । तस्मा­द्या­व­द्व­रु­ण­गृ­ही­तस्य वरुणोन्मोचने श्रेय­स्ता­व­द­स्या­मि­ष्टा­वि­त्य­र्थ­वा­दोऽ­यम् । तथाच यज्ञ­सं­ब­न्धि­न्य­श्व­दाने प्रतीयते वारुणीष्टिरिति स्थिते चैवं प्रति­ग्र­ही­तु­र्दा­तुर्वा सेष्टिरिति सन्देहे पूर्वपक्षितम् - ‘अचोदितं च कर्म भेदात्’ इति । तस्यार्थः - दातु­र­चो­दि­त­मि­ष्टि­कर्म यः प्रतिगृह्णाति स निर्वपेदिति प्रतिग्रहीत्रा तस्य भेदा­द्वि­शे­ष­णा­दिति । ‘सा लिङ्गा­दा­र्त्विजे स्यात् ‘ इति सिद्धा­न्त­सू­त्रम् । ऋत्वि­जा­म­य­मि­त्या­र्त्विजो यज­मा­न­स्त­स्मि­न्क­र्तरि सा वारु­णी­ष्टिः­स्यात् , ‘प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­यत्’ इत्युपक्रमे दातुः सङ्की­र्त­ना­ल्लि­ङ्गात् । नच दातरि प्रतिगृह्णातीति विरुद्धं, सम्प्र­दा­न­प्रे­र­णा­दिना तस्यापि प्रति­ग्र­ह­क­र्तृ­त्वा­दि­त्यर्थः । एवं दातुरिष्टिरिति व्यव­स्था­प्यो­क्तम् ‘पानव्यापच्च तद्वत्’ इति । ‘सौमेन्द्रं चरुं निर्व­पे­च्छ्या­माकं सोमवामी’ इत्यत्र लौकिकसोमपानवमने वा वैदिकसोमपानवमने वा सौमे­न्द्र­श्च­रु­रिति सन्देहे सति प्रति­ग्र­हे­ष्ट्या­द्य­धि­क­र­ण­पू­र्व­प­क्ष­व­ल्लौ­किके धातुसाम्यार्थं सोमस्य पाने यदि व्यापद्वमनं भवति तदा तस्मिल्लौकिके वमने यागो विधीयते । ‘इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति’ इति दोषा­द्व­म­न­नि­मि­त्ते­न्द्रि­य­शो­षस्य च दर्शनान्न वरु­ण­ग्र­ह­ण­व­द­प्राप्तिः । वैदिेके तु सोमपाने शेष­प्र­ति­प­त्ते­र्जा­त­त्वा­द्व­म­नेऽपि न दोष इति पूर्वपक्षयित्वा राद्धान्तितम् - ‘दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् ‘ इति । वैदिके हि सोमपानवमने सौमेन्द्रश्चरुः स्यात् । ‘मा मे वाङ्नाभिमतिगाः’ इति मन्त्र­लि­ङ्गा­द्व­मने कर्म­वै­गु­ण्या­द्दो­षा­व­ग­मात् । लौकिके तु सोमपानवमने न कश्चिद्दोषः स्यात्तस्य धातु­सा­म्या­र्थ­त्वा­त्त­ज्ज­न्ये­न्द्रि­य­शो­षस्य धातु­सा­म्य­क­र­त्वेन गुणत्वात् । श्रूयते चेन्द्रि­ये­णे­त्या­दिना वैदिकस्य पानस्य व्यापदि दोषः, स च वमनेन सोमसंस्कारे विनष्टे सत्युपपद्यते, तस्माद्वैदिके वमने याग इत्यर्थः । ‘तत्स­र्व­त्रा­वि­शे­षात्’ ‘स्वामिनो वा तदर्थत्वात् ‘ इत्येवंविधानि पूर्वो­त्त­र­प­क्ष­सू­त्रा­ण्या­दि­श­ब्देन गृह्यन्ते । तेषु व्यव­हि­तो­प­मा­न­स­म्ब­न्ध­स्या­भि­यु­क्तै­रि­ष्ट­त्वा­द­त्रापि व्यव­हि­तो­प­मा­न­स­म्बन्धः सम्भवतीति भाष्यार्थः ।

व्यव­हि­तो­प­मा­न­स­म्ब­न्धि­तया तथा­श­ब्दा­र्थ­मुक्त्वा सूत्रं योजयति -
यथेति ।

प्रति­ज्ञा­मा­त्रस्य सूत्रे दृष्टेरिष्टं हेतुं प्रश्नपूर्वकमाह -
कः पुनरिति ।

पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।

‘अश्रवणं श्रवणानुसारेण नेयम्’ इति गुणो­प­सं­हा­र­न्या­येन दूषयति -
तदिति ।

कुतस्तेनैव न्यायेन श्रव­ण­म­श्र­व­णा­नु­रो­धेन न नीयते, विय­द­धि­क­र­ण­वि­रो­धा­दि­त्याह -
नहीति ।

श्रुत्य­नु­रो­धे­ना­श्रु­ते­र्ने­त­व्यत्वे फलितमाह -
तस्मादिति ॥ १ ॥

विरोधवादिनं प्रतिबोध्य गौणवादिनं प्रत्याह -
गौणीति ।

सूत्र­व्या­व­र्त्य­म­नूद्य तदु­त्त­र­त्वे­ना­व­तार्य विभजते -
यदित्यादिना ।

काऽसौ प्रतिज्ञा, कथं वा प्राणा­ना­मु­त्प­त्ते­र्गौ­णत्वे तद्धानिः, तत्राह -
कस्मिन्निति ।

कथ­मे­त­स्मा­दि­त्या­दिना प्रतिज्ञा समर्थ्यते, तत्राह -
सा चेति ।

विपक्षे दोषमाह -
गौण्यां त्विति ।

प्रतिज्ञाऽपि गौणीति न तदर्थं प्राणो­त्प­त्ति­र्मुख्या वाच्ये­त्या­श­ङ्क्यो­प­क्र­मो­प­सं­हा­रा­लो­च­नया विव­क्षि­ता­द्वि­ती­य­त्वा­नु­रो­धेन प्रतिज्ञाया गौण­त्वा­यो­गा­न्मु­ख्यैव प्राणो­त्प­त्ति­रि­त्याह -
तथाचेति ।

प्रतिज्ञाया मुख्यत्वसिद्धये भूयःसु प्रदेशेषु दृष्टत्वं हेत्वन्तरमाह -
तथेति ।

प्राणा­ना­मु­त्प­त्ति­श्चे­त्प्रा­ग­व­स्थायां सत्त्व­श्रु­ति­र्वि­रु­ध्ये­तेति शङ्कते -
कथमिति ।

नैतद्वाक्यं ब्रह्मणो मूलकारणस्य प्राण­स­द्भा­वार्थं, तस्य श्रुत्या सर्व­वि­शे­ष­रा­हि­त्य­सि­द्धे­रि­त्याह -
नैतदिति ।

किंविषयं तर्हि वाक्यं, तत्राह -
अवान्तरेति ।
हिर­ण्य­ग­र्भोऽ­वा­न्त­र­प्र­कृ­ति­स्त­त्प्रा­णा­स्ति­त्व­वि­ष­य­मे­त­द्वा­क्य­मिति योजना ।

हिर­ण्य­ग­र्भ­स्यापि विकारत्वात्कथं विका­रा­स­त्त्वो­क्ति­पू­र्वकं प्राण­स­त्त्वा­व­धा­रणं, तत्राह -
स्वविकारेति ।
अवान्तरलये हिर­ण्य­ग­र्भ­का­र्य­स­मु­दा­या­स­त्त्वा­पे­क्षया तदी­य­प्रा­ण­स­त्त्वा­व­धा­र­ण­मि­त्यर्थः । ‘एतस्माज्जायते प्राणः’ इत्या­दा­वि­न्द्रि­याणां श्रुत्यैव जन्मोक्तम् । ‘तदाहुः’ इत्यादौ तु प्रागु­त्प­त्ते­स्ते­षा­म­व­स्थानं जन्माभावे लिङ्गं, तत्र लिङ्गस्य श्रुत्या बाधा­या­म­न्य­त­र­स्या­त्य­न्त­बा­ध­क­ल्प­नात् ‘वरं प्रबलानुरोधेन दुर्बलस्य विष­य­व्य­व­स्था­क­ल्प­नम्’ इति न्यायेन वियदादिभिः सहे­न्द्रि­या­णा­मु­त्प­त्त्या­म्ना­ना­न्म­हा­प्र­लये तदु­त्प­त्ति­र­वा­न्त­र­प्र­लये त्वनु­त्प­त्ति­रिति श्रुति­लि­ङ्ग­यो­र्वि­ष­य­व्य­व­स्थेति भावः ।

ब्रह्मण एव सर्व­प्र­कृ­ति­त्वा­न्ना­वा­न्त­र­प्र­कृतौ मान­मि­त्या­श­ङ्क्याह -
व्याकृतेति ।
‘हिरण्यगर्भः सम­व­र्त­ताग्रे', ‘आदिकर्ता स भूतानाम्’ इत्या­दि­श्रु­ति­स्मृत्योः कार्या­व­च्छि­न्ना­ना­मपि मूल­का­र­णा­व­स्था­वि­शे­षाणां हिर­ण्य­ग­र्भा­दीनां प्रकृ­ति­वि­का­र­भा­वेन प्रसि­द्धे­र­वा­न्त­र­प्र­कृ­ति­र­स्ती­त्यर्थः ।

तदेवं प्राण­स­त्त्व­श्रु­ते­र­वा­न्त­र­प्र­ल­य­वि­ष­य­त्वा­न्म­हा­प्र­ल­या­न­न्तरं प्राणो­त्प­त्ति­श्रु­तेर्न गौणतेति स्वाभिप्रायेण सूत्रं व्याख्याय विय­द­धि­क­र­ण­व­दि­हापि किं न व्याख्या­त­मि­त्या­शङ्क्य विशेषमाह -
वियदिति ।

एकस्य सूत्र­स्यै­का­र्थ­त्व­योगे किम­र्थ­द्व­यो­क्त्ये­त्या­श­ङ्क्याह -
तदिति ॥ २ ॥

प्राणानां मुख्यं जन्मेत्यत्र हेत्वन्तरमाह -
तत्प्रागिति ।
तस्य जायत इति जन्म­वा­चि­प­द­स्या­का­शा­दिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतत्वाच्च प्राणानां मुख्यं जन्मेति योजना ।

चकारार्थमाह -
इतश्चेति ।

तदेव स्पष्ट­य­न्न­व­शिष्टं व्याचष्टे -
यदिति ।

तथापि कथं प्राणेषु मुख्या जन्मश्रुतिः, तत्राह -
आकाशादिष्विति ।

तत्सामान्यात् ।
तैराकाशादिभिः सह जायमानत्वेन तुल्य­त्वा­दि­त्यर्थः ।

एकस्यापि शब्दस्य विष­य­भे­दा­द­ग्न्या­दि­श­ब्द­व­द्गौ­ण­त्व­मु­ख्यत्वे स्याता­मि­त्या­श­ङ्क्याह -
नहीति ।

एकस्मिन्नपि प्रकरणे ‘अन्नं ब्रह्म', ‘आनन्दो ब्रह्म’ इत्यादौ ब्रह्म­श­ब्द­स्या­ने­का­र्थ­त्व­व­दि­हापि स्यादि­त्या­श­ङ्क्याह -
एकस्मिन्निति ।

तथापि तपसा ब्रह्मे­त्या­दि­व­द­ने­का­र्थ­त्व­मा­श­ङ्क्यो­क्तम् -
एकइति ।

ब्रह्म­श­ब्द­स्यापि तुल्य­मे­क­त्व­मि­त्या­श­ङ्क्याह -
सकृदिति ।

एत­स्मा­दि­त्या­दा­वु­क्त­न्यायं वाक्या­न्त­रेऽ­प्य­ति­दि­शति -
तथेति ।

तस्य जन्मवाचिनः शब्दस्य पूर्व­श्र­व­णा­त्तस्य चोत्तरेषु मुख्य­त्वा­त्त­त्सा­मा­न्या­त्प्रा­णे­ष्वपि मुख्य­ते­त्यु­क्तम् । इदानीं मुख्यजन्मवाचिनः शब्दा­त्प्रा­क्प्रा­णा­दीनां श्रुते­स्त­द्यो­गि­ना­मि­त­रे­षा­मिव तेषामपि तत्सा­ह­च­र्या­न्मुख्यं जन्मेति व्याख्यान्तरमाह -
यत्रेति ।
न्यायः सह पठितेषु जन्मनो मुख्य­त्वा­वि­शे­ष­स्त­त्रो­दा­ह­र­णम् - यथेति ॥ ३ ॥

छान्दोग्ये प्राणा­ना­मु­त्प­त्त्य­श्र­व­ण­म­ङ्गी­कृ­त्या­न्य­त्रो­त्प­त्ति­श्र­व­णा­दु­त्पत्तिः साधिता । सम्प्रति तत्रापि तदु­त्प­त्त्य­श्र­व­ण­म­सि­द्ध­मि­त्याह -
तत्पू­र्व­क­त्वा­दिति ।
तच्छब्देन तेजो­ब­न्ना­न्यु­च्यन्ते । प्राणेन मनसा च सहिताया वाच­स्ते­जो­ब­न्न­का­र्य­त्वा­दस्ति तदु­त्प­त्ति­श्रु­ति­रि­त्यर्थः ।

तेजःप्रभृतीनां सृष्टिप्रकरणे प्राणा­ना­मु­त्प­त्तिर्न श्रुता तेषामेव सृष्टेः शिष्ट­त्वा­दि­त्या­श­ङ्का­म­नु­व­दति -
यद्यपीति ।

सूत्र­व्या­ख्या­ने­नो­त्त­र­माह -
तथापीति ।

वागादीनां त्रयाणां प्रणाड्या ब्रह्म­ज­न्म­त्वेऽपि कुतो हस्तादीनां तथेत्याशङ्क्याह -
तदिति ।

तैर्वागादिभिः सामान्यंं हस्तादीनां प्राणत्वम् । उक्तमेव प्रपञ्चयति -
तथाहीति ।

तथापि कथमेषां ब्रह्मजत्वं किमे­षा­म­न्ना­दि­म­यत्वं मुख्यं गौणं वा । प्रथमं प्रत्याह -
तत्रेति ।
तेजआदीनां तज्जत्वादिति शेषः ।

द्वितीयमनूद्य तत्रापि ब्रह्म­ज­त्व­म­त्या­ज्य­मि­त्याह -
अथेत्यादिना ।

‘स प्राणमसृजत’ इत्यादि श्रुत्यन्तरम् । प्राणो­त्प­त्ति­श्रु­ते­र्मु­ख्या­र्थ­त्वेऽपि विरो­धा­भा­वा­द­श्रु­ते­श्चा­सि­द्ध­त्वा­न्मू­ल­का­रणे ब्रह्मणि सम­न्व­य­सि­द्धि­रि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ४ ॥

कर­णा­ना­मु­त्प­त्ति­नि­रू­प­णेन तद्विलक्षणं त्वम्पदार्थं निरूप्य तेषामेव संङ्ख्यां निर्णेतुं पूर्वपक्षयति -
सप्तेति ।

पूर्वो­त्त­र­स­ङ्ग­ति­माह -
उत्पत्तीति ।

सर्व­प्रा­ण­स­ङ्ख्या­वि­ष­यत्वं व्यावर्त्य वागा­दि­स­ङ्ख्या­वि­ष­य­त्व­म­स्या­धि­क­र­णस्य दर्शयति -
तत्रेति ।

मुख्यादितरान् प्राणा­न्वि­ष­य­त्वे­नोक्त्वा सहेतुं संशयमाह -
श्रुतीति ।

श्रुति­वि­प्र­ति­प­त्ति­मे­वो­प­न्य­स्यति -
क्वचिदित्यादिना ।
चक्षुर्घ्राणं रसनं श्रोत्रं वाङ्मनस्त्वगिति सप्त प्राणाः ।

ग्रहत्वेन
बन्धत्वेनेति यावत् । त एव सहस्ताधिकाः सन्तोऽष्टौ । तेषां च ग्रहत्वं बन्धनहेतुत्वात् । एतेषां विषया रूपा­द­योऽ­ति­ग्रहाः । ते हि राग­मु­त्पा­द्ये­न्द्रि­या­क­र्ष­क­त्वा­द्ग्र­हा­न­ति­शे­रते । द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे वागिति सप्त शीर्ष्णि भवाः शीर्षण्या प्राणाः । द्वाववाञ्चौ पायूपस्थौ बुद्धिमनसी चेति नव । पुरुषे तदाकारे देहे शिरः­पा­ण्या­दि­म­त्युक्ता नव प्राणा नाभिश्च दशमी दशानां पूरणीति श्रुत्यर्थः । पञ्च बुद्धी­न्द्रि­याणि पञ्च कर्मेन्द्रियाणि मन­श्चा­प्नो­ती­त्या­त्मे­त्ये­का­दश प्राणाः । त एव सहृदया द्वादश । त एव साह­ङ्का­रा­स्त्र­यो­दश ।

श्रुति­वि­प्र­ति­प­त्ति­मु­प­सं­ह­रति -
एवमिति ।

प्रश्नपूर्वकं पूर्वपक्षसूत्रं योजयति -
किमिति ।
अत्र च प्राण­स­ङ्ख्या­श्रु­ति­वि­वा­द­व्यु­दा­सेन तत्कारणे ब्रह्मणि सम­न्व­य­व्य­व­स्था­प­ना­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे सप्तप्राणकारणे ब्रह्मणि सम­न्व­येऽ­प्ये­का­द­श­प्रा­ण­का­रणे तत्र तदसिद्धिः । सिद्धान्ते तद­नु­सा­रि­त्वा­दि­त­र­श्रु­ती­ना­मे­का­द­श­प्रा­ण­का­रणे ब्रह्मणि तत्सिद्धिः ।

गतेरिति हेतुं प्रश्नद्वारा व्याचष्टे -
कुत इति ।

न केवलं श्रुतितोऽधिगतेः सप्तैव प्राणाः किन्तु विशे­ष­णा­द­पी­त्य­व­शिष्टं व्याचष्टे -
विशेषिताश्चेति ।
दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्य­ती­ति­व­त्प्राणाः शीर्षण्याः सप्तेत्युक्ते हस्ता­दी­ना­म­शी­र्ष­ण्या­ना­म­प्रा­णत्वं भातीत्यर्थः ।

प्राणानां सप्तत्वं वीप्सा­वि­रु­द्ध­मिति शङ्कते -
नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः स्वस्थानेषु निहिताः निक्षिप्ता इति यावत् ।

वीप्सा पुन­र्व­च­न­म­न्य­थापि स्यादिति पूर्ववाद्याह -
नेति ।

पुरु­ष­भे­द­कृ­त­वी­प्सा­प्र­वृत्तिं प्रकटयति -
प्रतीति ।

व्याव­र्त्य­मं­श­माह -
नेत्यादिना ।

सङ्ख्या­न्त­र­श्रु­ति­वि­रोधं शङ्कते -
नन्विति ।

सङ्ख्या­न्त­र­श्रु­ति­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि सङ्ख्यान्तरमपि ग्राह्यं, नेत्याह -
विरोधात्त्विति ।
सप्त­त्वा­व­च्छि­न्ना­ना­मे­वा­ष्ट­त्वा­द्य­व­च्छे­दा­यो­गा­द­न्य­त­म­त्या­गा­व­श्य­म्भावे कतमा सङ्ख्याऽदेयेति विवक्षायां लाघवान्निश्चितं सप्त­त्व­मि­त्यर्थः ।

न्यूना­धि­क­स­ङ्ख्य­यो­र­धिका ग्राह्या तस्यां न्यूना­न्त­र्भा­वा­दि­त्या­श­ङ्क्यै­का­द­श­सङ्ख्यां गृहीत्वा वृत्तिभेदेन नव­द्वा­द­श­त्र­यो­द­श­स­ङ्ख्या­व­दि­हापि प्राथ­म्या­ल्ला­घ­ध­वाच्च सप्तत्वस्यैव युक्त­त्वा­द्वृ­त्त्य­पे­क्षया सङ्ख्या­न्त­र­मि­त्याह -
वृत्तीति ।
वक्ष्य­मा­ण­युक्त्या मन्यतेरुक्तिः ॥ ५ ॥

सिद्धान्तयति -
अत्रेति ।

तत्प्रतिज्ञां विभजते -
हस्तादयस्त्विति ।

गृह्णाति पुरुषं बध्नातीति ग्रहः, तत्रे­न्द्रि­या­णा­म­र्थ­द्वारा पुरुषबन्धने हेतु­त्व­मि­त्य­ति­ग्र­ह­त्व­म­र्थानां ततोऽतिग्रहेण कर्मणा हस्त­नि­र्व­र्त्या­दा­नेन हस्तो गृहीतः सम्बद्धः । तदेव स्पष्टयति -
हस्ताभ्यामिति ।
सप्त­त्वा­द­ति­रे­क­श्रु­तेर्न सप्त­त्व­नि­य­ति­रि­त्यर्थः ।

सप्तत्वमपि श्रुत­मे­वे­त्या­शङ्क्य सूत्रावयवं व्याचष्टे -
स्थिते चेति ।

अन्तर्भावेन सप्तत्वं साधयति - -
हीनेति ।

अतो नेत्यादि योजयति -
अतश्चेति ।

प्राणस्तर्हि कती­त्य­पे­क्षा­या­माह -
उत्तरेति ।

तर्हि गौर­व­मि­त्या­शङ्क्य प्राणा­ना­मे­का­द­शत्वं न कल्प्यते येन लाघ­व­म­न्वे­ष्य­मि­त्याह -
तथेति ।

आत्मशब्दस्य प्रतीचि रूढेर्न प्राण­भे­द­वि­ष­य­ते­त्या­श­ङ्क्याह -
आत्मेति ।

एकादशत्वस्य श्रुत­त्वा­द्ग्र­हणे द्वाद­श­त्व­त्र­यो­द­श­त्व­यो­रपि तथा ग्रहः स्यादिति शङ्कते -
नन्विति ।

श्रुतीनां मिथो­वि­रो­धा­द­र्थ­व्य­व­स्था­सिद्धौ मानान्तरवशेन व्यवस्था वाच्या । तथाच कार्य­लि­ङ्ग­का­नु­मा­ना­नु­गृ­ही­तै­का­द­श­प्रा­ण­श्रु­ति­रे­वा­द­र­णी­ये­त्याह -
सत्यमिति ।

कार्य­लि­ङ्ग­क­म­नु­मानं विशदयति -
शब्देति ।

बाह्ये­न्द्रि­या­णा­मि­त्थ­म­नु­मा­नेऽपि कथं मनसोऽनुमानं, तत्राह -
सर्वेति ।
इन्द्रियाणां वर्त­मा­न­त­त्त­दे­का­र्थ­नि­य­त­त्वा­द­ती­ता­दि­स­र्वा­र्थ­ज्ञा­नाच्च तद­र्थ­मि­न्द्रि­या­न्तरं कल्प्यमित्यर्थः ।

सङ्क­ल्पा­दि­दृ­ष्टे­स्त­दर्थं करणान्तरमपि कल्प्य­मि­त्या­श­ङ्क्याह -
अनेकेति ।

मनसश्चेदेकत्वं तर्हि कथं भेदोक्तिः, तत्राह -
तदेवेति ।

एकस्यैव वृत्ति­भे­दा­त्कि­मि­त्य­ने­क­धात्वं, धर्मिभेद एव कुतो न स्यादि­त्या­शङ्क्य धर्म्य­भे­द­श्रु­ति­वि­रो­धा­दि­त्याह -
तथाचेति ।

विशे­षि­त­त्वा­दि­त्युक्तं प्रत्याह -
अपिचेति ।

कथं तर्हि सप्तत्वं, तत्राह -
स्थानेति ।
रूपा­दि­धी­रू­प­का­र्या­भे­दा­दे­क­मे­वे­न्द्रियं स्थान­भे­दा­द्भि­न्न­मि­वो­प­च­रि­त­मि­त्यर्थः ।

यत्तु वृत्ति­भे­दा­पेक्षं सङ्ख्या­न्त­र­श्र­वणं, तत्राह -
न चेति ।
अन्धा­दे­र­प्या­दा­ना­दि­का­र्य­द­र्श­ना­दि­त­रेषां चक्षु­रा­दि­वृ­त्तित्वे तदसम्भवादिति भावः ।

तथापि श्रुत्यन्तरेषु सत्सु कथमेकादशत्वं, तत्र दश­त्व­श्रु­ते­र्ग­ति­माह -
तथेति ।

स्थानभेदात्सप्त वै शीर्षण्या इति सप्त­त्वो­क्ति­व­दिति यावत् । नाभि­र्द­श­मी­त्यु­क्त­त्वा­त्प्रा­णत्वं तस्या अपीत्याशङ्क्याह -
नहीति ।

कथं तर्हि तत्र प्राणशब्द इत्याशङ्‌क्य लक्षणयेत्याह -
मुख्यस्येति ।

सप्त प्राणाः प्रभ­व­न्ती­त्या­दे­र्ग­ति­माह -
क्वचिदिति ।

अष्टौ ग्रहा इत्यादेर्गतिं सूचयति -
क्वचिदिति ।

किं तर्हि वाक्य­मु­पा­स­ना­दि­वि­षयं किंवा तत्त्व­वि­ष­य­मि­त्युक्ते विचारस्य सावकाशत्वमाह -
तदेवमिति ।

कर्थ तर्हि निर्णयः, तत्राह -
कार्येति ।

एवं प्राण­स­ङ्ख्या­वि­ष­य­श्रु­ति­वि­वा­दा­भा­वा­दे­का­द­श­प्रा­ण­का­रणे ब्रह्मणि सम­न्व­य­सि­द्धि­रि­त्यु­प­सं­ह­रति -
इति स्थितमिति ।

वर्णकान्तरमाह -
इयमिति ।

इन्द्रियाण्येव विषयस्तानि किं सप्त किं वैकादशेति श्रुतिविमत्या सन्देहे पूर्वपक्षमाह -
सप्तेति ।
येषां सह गमनं तेषामेव जन्मा­न्त­री­य­भो­गो­पा­य­त्वा­दि­न्द्रि­य­त्वम् , इह तु सप्तानामेव गतिः श्रूयते । तस्मा­त्ते­षा­मे­वे­न्द्रि­य­त्व­मि­त्यर्थः ।

सप्तगतेरिति व्याख्याय शङ्कोत्तरत्वेन पदान्तरमादत्ते -
नन्वित्यादिना ।

तद्व्याकरोति -
सप्तैवेति ।
चक्षुरादय इत्यादिशब्देन घ्राण­र­स­ना­वा­क्श्रो­त्र­त्व­ङ्म­नांसि गृह्यन्ते । इहे­त्यु­त्क्रा­न्ति­प्र­क­र­णोक्तिः । यत्र यस्यामवस्थायां चक्षु­र­धि­ष्ठा­तृ­दे­व­तांशः स एष पुरुषशब्दितः पराङ् पर्यावर्तते बहि­र्दे­शा­त्स्व­स्थानं प्रति व्यावर्तते तदानीमरूपज्ञो जीवो भवति हृदये चक्षुरेकीभवति पार्श्वस्थाश्च नायं पश्यतीत्याहुः । न जिघ्रति न रसयते न वदति न श्रृणोति न मनुते न स्पृशतीत्येवं सप्तैव विशेषिता इत्यर्थः ।

तथापि सर्वश्रुत्या सर्व­प्रा­ण­ग­म­न­मा­शङ्क्य प्रकरणात्तस्याः सङ्कोचमाह -
प्रकृतेति ।

प्रकरणेन श्रुतिसङ्कोचं दृष्टान्तेन स्पष्टयति -
यथेत्यादिना ।

‘एकीभवति न विजा­ना­ती­त्याहुः’ इतिबुद्धेरपि पाठादसिद्धं सप्ता­ना­मे­वा­नु­क्र­म­ण­मि­त्याह -
नन्विति ।

बुद्धेरनुक्रमणं न सप्त­त्व­वि­घा­त­क­मि­त्याह -
नेति ।

पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।

तदनुवादेन सिद्धान्तयति -
एवमिति ।

अक्ष­रा­र्था­वि­शे­षेऽपि तात्पर्यार्थे विशेषं दर्श­यि­तु­म­क्ष­रार्थं सङ्क्षिपति -
हस्तादयस्त्विति ।

यदु­क्त­म­नु­या­यि­ना­मे­वेे­न्द्रि­यत्वं तद­ङ्गी­कृ­त्या­नु­या­यि­त्व­मे­का­द­शा­ना­म­स्ती­त्याह -
ग्रहत्वं चेति ।

कथमेतावता सर्व­दे­हा­नु­या­यि­त्व­मि­त्या­शङ्क्य जीवस्य सर्वदेहेषु बद्ध­त्व­सि­द्धे­स्त­द्धी­रि­त्याह -
स चेति ।

सर्वेषु देहेषु जीवस्य बद्धत्वेऽपि कुतो ग्रहसंज्ञकस्य हस्ता­दे­र­नु­या­यित्वं, तत्राह -
तस्मादिति ।

हृद­य­ग्र­ह­सं­ज्ञ­क­ह­स्ता­दि­ब­न्ध­स्याऽऽ­मो­क्षा­दा­त्मा­नु­या­यित्वे स्मृतिमाह -
तथाचेति ।

पुर्यष्टकं विशिनष्टि -
प्राणाद्येनेति ।

प्राणादिपञ्चकं भूत­सू­क्ष्म­प­ञ्चकं कर्मे­न्द्रि­य­प­ञ्चकं ज्ञाने­न्द्रि­य­प­ञ्चकं मन­आ­द्य­न्तः­क­र­ण­च­तु­ष्क­म­विद्या कामः कर्म चेति पुर्यष्टकम् । तच्चानेनात्मा लिङ्ग्यते ज्ञायत इति लिङ्गम् । प्रकृ­तो­प­यो­गि­ता­त्पर्यं स्मृतेर्दर्शयति -
प्रागिति ।

सार्थे­न्द्रि­य­प्र­स्तावे हस्तादीनां सार्था­ना­मु­क्ते­रपि तेषा­मि­न्द्रि­यत्वं देहा­न्त­र­स­ञ्चा­रित्वं च प्रसिद्धमित्याह -
आथर्वणे चेति ।

इतश्च हस्ता­दी­ना­म­स्ती­न्द्रि­यत्वं देहा­न्त­र­स­ञ्चा­रित्वं चेत्याह -
तथेति ।

यत्तु सर्वशब्दः प्रकृतगामीति, तत्राह -
सर्वेति ।
अनु­या­यि­ना­मे­वे­न्द्रि­यत्वे वाच्ये प्राण­म­नू­त्क्रा­म­न्त­मि­त्यत्र सर्वशब्देन प्राक­र­णि­क­स­प्त­प्र­णो­क्तिर्वा ‘दशेमे पुरुषे प्राणा आत्मैकादश’ इति श्रुत्य­न्त­र­सि­द्धै­का­द­श­प्रा­णानां सर्वे प्राणा इति प्राण­श्रु­त्यु­क्ता­ना­मु­क्ति­र्वेति । विमर्शे प्राक­र­णि­क­स­प्त­ग्र­हा­द्वरं श्रौतैकादशग्रहः संनिकर्षादिति भावः ।

परोक्तं दृष्टान्तं विघटयति -
सर्व इति ।

कथं तर्हि सङ्कोचः, तत्राह -
सर्वेति ।

उत्क्रा­न्ति­वा­क्येऽपि तथा सङ्कोचः स्यात् , नेत्याह -
इह त्विति ।
अनुपपत्तिके सङ्कोचे प्राकरणिकः सङ्ख्यानियमो युक्तः । दार्ष्टान्तिके तु नानुपपत्तिरिति कुतः सङ्कोच इत्यर्थः ।

सङ्कोचाभावे फलितमाह -
तस्मादिति ॥ ६ ॥

एका­द­श­प्रा­णा­ना­मु­त्क्रा­न्ति­रुक्ता सा न मुख्या तेषां व्यापि­त्वा­दि­त्या­श­ङ्क्याह -
अणवश्चेति ।

सङ्क्षे­प­तोऽ­धि­क­र­ण­ता­त्प­र्य­माह -
अधुनेति ।
उत्प­त्ति­स­ङ्ख्या­श्रु­त्य­वि­रो­धो­क्त्य­न­न्तरं परि­मा­ण­श्रु­ति­वि­रोधो निरस्यत इत्यर्थः ।

उक्त­प्रा­णा­ना­मु­त्क्रा­न्त्या­न­न्त्य­श्रु­तिभ्यां परि­च्छि­न्न­त्व­वि­भु­त्व­स­न्देहे सिद्धान्तं तावदाह -
अणवश्चैत इति ।

अत्रो­त्क्रा­न्त्या­न­न्त्य­श्रु­त्यो­र­वि­रो­धेन परि­च्छि­न्न­प्रा­ण­का­रणे ब्रह्मणि सम­न्व­य­स्था­प­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे दर्शि­त­श्रु­त्यो­र्मि­थो­वि­रो­धा­दुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः । अणु­श­ब्दा­त्प­र­मा­णु­प­रि­मा­णत्वं प्राप्तं प्रत्याह -
अणुत्वं चेति ।

सौक्ष्म्यं द्रव्या­णा­मु­द्भू­त­रू­प­स्प­र्शा­ना­धा­र­त्वम् । परिच्छेदो मध्य­म­प­रि­मा­ण­त्वम् । पर­मा­णु­तु­ल्य­त्व­मे­वा­णुत्वं किं न स्यात् , तत्राह -
कृत्स्नेति ।

सौक्ष्म्यं प्रपञ्चयति -
सूक्ष्मा इति ।

परिच्छेदं साधयति -
परि­च्छि­न्ना­श्चेति ।

विभुत्वे चेन्द्रि­या­णा­म­न्तः­क­र­णा­व­च्छे­दा­द­णु­त्व­मा­त्मनो यदु­त्क्रा­न्त्य­धि­क­रणे सिद्धं तदपि न सिध्येदित्याह -
तद्गुणेति ।

प्राणाः सर्वगताः, सर्वत्र दृष्ट­का­र्य­त्वात् , आका­श­व­दि­त्य­नु­मा­ना­त्स­र्वेऽ­नन्ता इत्या­दि­श्रु­तेश्च तेषां विभुत्वाद्देह एवाभिव्यक्तेश्च सर्वत्र दृष्ट्य­प्र­स­ङ्गा­त्कु­तोऽ­णु­त्व­मिति पूर्वपक्षमाह -
सर्वगतानामिति ।

हेतो­र­सि­द्धे­रु­पा­स­ना­प­र­त्वाच्च श्रुते­रि­न्द्रि­याणां विभुत्वे माना­भा­वा­द्य­द्वृ­त्ति­त्वे­नेष्टं तदेवास्माकं साध­क­त­म­त्वा­त्क­र­ण­मि­त्याह -
नेत्यादिना ।

तदेव स्पष्टयति -
यदेवेति ।

वृत्तिमदेव करणं न वृत्ति­मा­त्र­मि­त्या­शङ्क्या -
अन्यद्वेति ।

वृत्तेर्वा वृत्तिमतो वा देहा­व­च्छि­न्न­स्यैव वृत्तिसाधनस्य करणत्वे फलितमाह -
इतीति ।
अन­र्थि­के­त्यु­प­ल­क्ष­ण­म­प्रा­मा­णिकी चेति वाच्यम् ।

साङ्ख्य­प­क्षा­योगे फलितमाह -
तस्मादिति ॥ ७ ॥

मुख्य­प्रा­णा­ति­रि­क्त­प्रा­णानां सृष्ट्यादि शिष्ट्वा मुख्येऽपि प्राणे प्रथ­मा­धि­क­र­ण­न्याय इत्यतिदिशति -
श्रेष्ठश्चेति ।

ज्ञाते चक्षुरादौ तद्व्यापारात् प्राणस्य भेदचिन्ता सुकरेति चक्षु­रा­दि­नि­रू­प­णा­न­न्त­र­म­ति­देशो न विरुध्यते । मुख्यप्राणो विषयः, तस्य किं जन्म नास्ति किं वास्तीति श्रुति­वि­प्र­ति­पत्त्या संशयेऽतिदेशं विशदयति -
मुख्यश्चेति ।
अत्र चाद्या­धि­क­र­ण­व­त्पा­दा­दि­स­ङ्ग­ति­फ­ल­भेदौ ।

कुतस्तर्हि ब्रह्म­वि­का­रत्वं, तत्राह -
तच्चेति ।

पूर्वो­क्त­न्या­ये­नैव ब्रह्म­वि­का­र­त्व­सिद्धौ किम­ति­दे­शे­ने­त्याह -
किमर्थ इति ।

अतिदेशफलमाह -
अधिकाशङ्केति ।

तामेवाधिकां शङ्कां दर्शयति -
नासदासीये हीति ।
नास­दा­सी­दि­त्या­रभ्य प्रवृत्ते सूक्ते ब्रह्मपरे मन्त्र एव वर्णयतीति वर्णो दृष्टोऽस्तीति यावत् । तर्हि तस्मि­न्म­हा­प्र­लये मृत्युर्मारको मृत्युमद्वा कार्यं नासीत् , अमृतमपि देवो­प­भो­ग­यो­ग्य­म­मृ­त­त्वा­धि­क­रणं वा नासीत् , तथा रात्र्या रात्रेरह्नो दिवसस्य च प्रके­त­श्चि­ह्न­भू­त­श्चन्द्रः सविता च नास्तां, स्वधया सहेति सम्बन्धः । स्वधेति पितृभ्यो दीयमानमन्नम् । पित्रा­द्य­र्च­न­मपि नासीदित्यर्थः । यद्वा स्वधया स्वया धारणया स्वकीयस्थित्या तदेकमवातं वात­व­र्जि­त­मा­नी­च्चेष्टां कृतवदिति यावत् । तस्मा­च्चे­ष्टा­वतः सकाशाद्ध किलान्यत्किञ्चन किञ्चिदपि परः परं प्रकृष्टं नाऽऽस न बभूवेत्यर्थः ।

अस्मिन्मन्त्रे विवक्षितमंशमाह -
प्रागिति ।

अत्र प्राण­वा­च­का­भा­वा­त्कथं तद­स्ति­त्व­धी­रि­त्या­श­ङ्क्याह -
आनीदिति ।

प्राणो­त्प­त्ति­न्या­ये­नैव मुख्यस्यापि जन्मसिद्धौ किं पुन­रु­क्त्ये­त्या­श­ङ्क्या­वा­न्त­र­प्र­कृ­ति­वि­ष­य­त्वेन व्यवस्था तत्रोक्ता । प्रकृते महा­प्र­ल­य­वि­ष­य­त्वान्न पूर्व­न्या­य­सि­द्धि­रिति मत्वाह -
तस्मादिति ।

अधिकां शङ्कामुक्त्वा सिद्धान्तयति -
तामिति ।

‘एतस्माज्जायते प्राणः’ इति प्राणजन्म श्रुतम् । ‘आनीत्’ इत्यननं प्राणव्यापारः प्रागवस्थायां प्राणसत्त्वे लिङ्गम् । तत्र द्वयो­र्म­हा­प्र­ल­या­वा­न्त­र­प्र­ल­य­भे­देन व्यव­स्था­नु­प­प­त्ता­व­न्य­त­रस्य गौणत्वे श्रुतिविरोधे लिङ्गस्यैव गौण­त्वा­दा­नी­च्छ­ब्दस्य मूल­का­र­ण­स­त्ता­वा­चि­त्व­क­ल्प­नया प्राणस्य जन्मोपेयमिति । शङ्कानिरासमेव सूचयति -
आनीदिति ।
प्रमा­णा­न्त­र­व­दि­त्य­पे­रर्थः ।

इतश्च प्रागवस्थायां न प्राणस्य सत्त्वमित्याह -
अवातमिति ।

इतोऽपि महाप्रलये प्राणसत्ता नास्तीत्याह -
अप्राणो हीति ।

आनी­च्छ­ब्द­स्तर्हि कथमित्याशङ्क्य धातू­ना­म­ने­का­र्थ­त्व­मा­श्रि­त्याह -
तस्मादिति ।

एवं शङ्कानिरासेऽपि प्राणे श्रेष्ठ­श­ब्दा­प्र­सिद्धौ कथं सूत्र­मि­त्या­श­ङ्क्याह -
श्रेष्ठ इति ।

श्रौतं ज्येष्ठत्वं साधयति -
ज्येष्ठश्चेति ।

तदेव व्यतिरेकद्वारा स्फोरयति -
न चेदिति ।

न सम्भवेदिति श्रुते­रे­वा­नु­क­र­ण­मि­न्द्रि­या­णा­मपि तुल्यं ज्यैष्ठ्यं, तत्राह -
श्रोत्रादीनां त्विति ।

श्रेष्ठत्वं साधसति -
श्रेष्ठश्चेति ।

कथं गुणाधिक्यं, तत्रोक्तम् -
न वा इति ।
तदेवं मुख्य­प्रा­णो­त्प­त्ति­श्रु­ती­ना­म­न्यो­न्य­म­वि­रो­धा­न्मु­ख्य­प्रा­ण­का­रणे ब्रह्मणि समन्वय इति ॥ ८ ॥

मुख्य­प्रा­णो­त्प­त्ति­चि­न्ता­न­न्तरं तत्स्वरूपं चिन्तयति -
नेत्यादिना ।

अधि­क­र­ण­ता­त्प­र्य­माह -
स इति ।
मुख्यप्राणो वायुमात्रं वा करणवृत्तिर्वा तत्त्वान्तरं वेति विप्रतिपत्त्या सन्दिह्य तत्त्वान्तरत्वं निर्धार्यत इत्यर्थः । अत्र च भेदा­भे­द­श्रु­ति­वि­रो­ध­नि­षे­धेन वाय्वा­द्य­ति­रि­क्त­प्रा­ण­का­रणे ब्रह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे भेदा­भे­द­श्रु­त्यो­र्मिथो विरो­धा­दु­क्त­स­म­न्व­या­सिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः । यद्वा पूर्वपक्षे वायु­मा­त्रा­दि­न्द्रि­य­मा­त्राद्वा त्वमर्थस्य विवेकः ।

सिद्धान्ते तत्त्वा­न्त­रा­त्प्रा­णा­त्त­द्वि­वेक इत्यङ्गीकृत्य पूर्वपक्षमाह -
तत्रेति ।

अभेदश्रुतिरिव भेदश्रुतिरपि स वायुनेत्याद्या प्राणस्य वायो­र­स्ती­त्या­श­ङ्क्यो­भ­यो­र्मु­ख्य­त्वा­सि­द्धे­स्तो­क­क­ल्प­ना­नु­रो­धा­द्गौणी भेदश्रुतिरिति मत्वाह -
एवं हीति ।

भेद­श्रु­त्य­व­ष्ट­म्भेऽपि ‘धर्मि­भे­दा­द्ध­र्म­भेदो लघीयान्’ इति न्यायेन वागादीनां सम्भूय देह­चा­ल­ना­दि­हे­तु­सा­मा­न्य­व्या­पा­र­स­म्भ­वान्न प्राणाख्यं पदार्थान्तरं कल्प्यं, गौर­वा­दि­न्द्रि­य­वृ­त्ति­तया तद्भेदस्यापि वक्तुं शक्यत्वादिति पक्षान्तरमाह -
अथवेति ।

तन्त्रा­न्त­री­या­भि­प्रायं विवृणोति -
एवंं हीति ।

वायु­मा­त्रा­दि­न्द्रि­य­मा­त्राद्वा त्वमर्थस्य विवेक इति प्राप्तमनूद्य सिद्धान्तयति -
अत्रेति ।

न वायुः प्राण इत्यत्र पृथगुपदेशहेतुं विशदयति -
वायोरिति ।
‘मनो ब्रह्मे­त्यु­पा­सीत ‘ इत्युपक्रम्य मनोब्रह्मणो वाक्प्रा­ण­च­क्षुः­श्रोत्रैः पादै­श्च­तु­ष्पा­त्त्व­मु­क्तम् । मनो हि वागादिभिः स्वविषयेषु गौरिव पादैः प्रवर्तते । तत्र प्राण एव मनोब्रह्मणो वागाद्यपेक्षया चतुर्थपादः । स च वायुनाधिदैविकेन भात्यभिव्यज्यते स्वव्यापारे च तप­त्यु­द्ग­च्छ­ती­त्यर्थः ।

यद्यपि छान्दोग्यभाष्ये घ्राणे­न्द्रि­य­मि­न्द्रि­य­प्र­क­र­णा­त्प्राण इत्युक्तं तथापि प्राण­श्रु­ति­व­शा­दत्र मुख्यप्राणो गृह्यते । अंशांशित्वेन भेद­श्रु­ति­रि­त्या­श­ङ्क्यो­प­चा­र­प्र­स­ङ्गा­न्मै­व­मि­त्याह -
न हीति ।

नापि करणव्यापार इत्यत्र पृथगुपदेशं हेतुं विभज्य व्याचष्टे -
तथेति ।
प्राणस्य वागादीनां च मिथः संवा­द­लि­ङ्गे­नो­त्प­त्ति­भे­द­लि­ङ्गेन चेन्द्रि­य­त­द्व्या­पा­रेभ्यो भिन्न­त्व­सि­द्धेर्न लाघ­वा­त्त­द्वृ­त्ति­त्व­मि­त्यर्थः ।

पृथगनुक्रमणं वृत्ति­वृ­त्ति­म­तो­र्भे­दा­दि­त्या­श­ङ्क्याह -
वृत्तीति ।

तादा­त्म्या­द्भे­दोऽ­प्य­स्ती­त्या­शङ्क्य भेद­वा­द­स्या­फ­ल­त्वा­न्मै­व­मि­त्याह -
न हीति ।

प्रति­ज्ञा­द्व­येऽपि हेतुं विभज्य व्याख्या­या­वि­भा­गे­नापि व्याख्याति -
तथेति ।

श्रुत्य­व­ष्ट­म्भेन पक्षद्वयं निराकृत्य कारणवृत्तित्वे दोषान्तरमाह -
न चेति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रसाध्या, चक्षुरादीनां प्रत्ये­क­मे­वै­क­रू­प­ग्र­ह­णा­दि­वृत्तौ स्वातन्त्र्यात् । अतो न प्राणः सामा­न्य­क­र­ण­वृ­त्ति­रि­त्यर्थः ।

समुदायस्य कर­ण­त्व­मु­पे­त्योक्तं तदेव नास्त्य­व­स्तु­त्वात् । द्वित्रि­क­र­ण­वि­क­लानां च प्राण­ना­भा­व­प्र­स­ङ्गात् । अतोऽपि न करणवृत्तिः प्राण इत्याह -
समुदायस्येति ।

दृष्टान्तेन समुदितानां करणानां करणत्वं शङ्कते -
नन्विति ।
एकादशत्वं पक्षिषु दार्ष्टा­न्ति­का­नु­रो­धा­दु­क्तम् ।

वैषम्यं दर्शयन्परिहरति -
इति नेति ।
तत्रेति दृष्टान्तोक्तिः ।

दार्ष्टा­न्ति­केऽपि किमि­त्य­वा­न्त­र­व्या­पा­र­वतां प्राणानां प्राणा­ख्य­सा­मा­न्य­वृ­त्तिर्न स्यादि­त्या­श­ङ्क्या­वा­न्त­र­व्या­पा­र­स्तेषां श्रवणादिर्वा वृत्त्यन्तरं वेति विक्ल्प्याद्ये श्रोत्रादीनां श्रव­णा­दि­व्या­पा­र­यौ­ग­पद्ये माना­यो­गा­न्मै­व­मि­त्याह -
इह त्विति ।

कल्पान्तरं प्रत्याह -
प्रमाणेति ।

किञ्च श्रव­णा­दी­ना­म­प­रि­स्प­न्द­त्वा­त्त­त्प्र­धा­न­व्या­पा­रा­न­नु­रू­प­त्वान्न तद­वा­न्त­र­व्या­पा­र­ते­त्याह -
अत्यन्तेति ।

किञ्च वागा­दि­वृ­त्तित्वे प्राणस्य वागा­दि­पा­र­तन्त्र्यं वाच्यं, तद्वैपरीत्यं चात्र दृष्टं, तन्न प्राणस्य वागा­दि­वृ­त्ति­ते­त्याह -
तथेति ।

पृथ­गु­प­ग­दे­श­यु­क्ति­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।

अपृथगुपदेशस्य गतिं पृच्छति -
कथमिति ।

यथा मृदोऽ­व­स्था­वि­शेषो घटो मृदात्मा तथा वायो­र­व­स्था­वि­शेषः प्राणो वाय्वात्मेत्याह -
उच्यत इति ।
अध्यात्मापन्नः शरीरे प्रतिष्ठितः पञ्चव्यूहः प्राणा­पा­न­व्या­नो­दा­न­स­मा­ना­ख्या­व­स्था­वि­शे­ष­वा­न्वि­शे­षा­त्मना व्यावृ­त्त­रू­पे­णेति यावत् ।

कथं तर्हि पृथगुपदेशः, तत्राह -
नापीति ।

तत्त्वा­न्त­र­त्वस्य तन्मात्रत्वस्य चास्वीकारे फलितमाह -
अतश्चेति ।
‘यः प्राणः स वायुः’ इति सामा­ना­धि­क­र­ण्य­वा­क्येन प्राणस्य वायुत्वं सिद्धम् , ‘एतस्माज्जायते प्राणः’ इत्यु­त्प­त्ति­भे­द­लि­ङ्गेन स्वरूपभेदो दृष्टः । द्वयोश्च वाक्य­लि­ङ्ग­यो­र्वि­रोधे वाक्यं समी­र­ण­स्व­भा­व­ता­वि­षयं लिङ्गं व्यक्ति­भे­द­वि­ष­य­मिति व्यवस्थाया वायोः प्राणस्य च विषयभेदो युक्तः, लिङ्गस्य च बलीयस्त्वादिति भावः ॥ ९ ॥

प्राणो वागादिवृत्तिर्न चेत्तर्हि तस्ये­न्द्रि­य­व­त्क­र­ण­त्वा­न­ङ्गी­का­रा­ज्जी­व­व­द्भो­क्तृ­तेति शङ्कते -
स्यादिति ।

प्राणस्य श्रेष्ठ­त्व­मि­त­रेषां तं प्रति गुणत्वं च साधयति -
तथाहीति ।

श्रेष्ठत्वफलमाह -
तस्मादिति ।
प्राणस्यापि जीववदत्र भोक्तृत्वे विरु­द्धा­भि­प्रा­या­ने­क­भो­क्त्र­धि­ष्ठि­त­तया देहस्य गमनादि न भवेदिति भावः ।

प्राणस्य चक्षु­रा­दि­व­द­त्य­न्तो­प­स­र्ज­न­त्वा­भा­वेऽपि परिचारकवतः सामन्तादे राजानं प्रति गुण­त्व­व­द्गु­णत्वं जीवं प्रति स्यादित्याह -
तमिति ।

सूत्राक्षराणि व्याचष्टे -
तुशब्द इत्यादिना ।
प्राणो न स्वतन्त्रः, भोगसाधनत्वात् , चक्षु­रा­दि­व­दि­त्यर्थः ।

प्राण­सं­वा­दा­दि­ष्वि­त्या­दि­श­ब्दे­ना­न्येऽपि ज्ञान­ध्या­न­प्र­देशा गृह्यन्ते । सहशासनेऽपि कथं प्राणस्य चक्षु­रा­दि­साम्यं, तत्राह -
समानेति ।

तत्र दृष्टान्तमाह -
बृहदिति ।
ते हि सामनी सहैव सर्वत्र पठ्येते तयोश्च कर्मणि सहैव प्रयुज्यमानत्वं दृष्टं सामत्वं वा साम्यम् । तथा प्राणस्यापि चक्षुरादिभिः सह पठितस्य जीवोपकरणता तुल्येत्यर्थः । संह­त­त्वा­चे­त­न­त्वा­दी­त्या­दि­श­ब्देन परि­च्छि­न्न­त्वा­द्य­न्त­व­त्त्वा­दि­ग्र­ह­णम् ॥ १० ॥

सूत्रा­न्त­र­व्या­व­र्त्य­माह -
स्यादिति ।

प्राणस्य करणत्वेऽपि कुतः सवि­ष­य­त्व­प्र­स­क्ति­रि­त्या­शङ्क्य चक्षुरादिषु तथा दृष्ट­त्वा­दि­त्याह -
रूपेति ।
यज्जीवस्य भोगकरणं तत्सविषयं दृष्टं, यथा चक्षुरादि तथा प्राणस्यापि विषयो वाच्यः । तदभावात्तस्य स्वत­न्त्र­ते­त्यर्थः ।

तर्हि प्राणेऽपि कश्चि­द्वि­ष­योऽस्तु, तत्राह -
अपि चेति ।
प्राण­सा­ध्य­फ­ला­भा­वा­दपि चक्षु­रा­दि­व­त्प्रा­णाख्यं तत्त्वं जीवभोगोपकरणं द्वाद­शेऽ­न्द्रि­य­व­न्नो­पे­य­मि­त्यर्थः ।

चोद्योत्तरं सूत्रं पातयति -
अत इति ।

प्राणस्य जीवभोगोपकरणत्वे सवि­ष­य­त्व­प्र­स­क्ति­मुक्तां प्रत्याह -
न तावदिति ।

प्राण­स्या­क­र­णत्वे कथं जीवस्य सर्वा­र्थ­त्वे­नो­प­क­र­ण­भू­तोऽ­सा­वि­त्यु­क्त­मा­श­ङ्क्याह -
न हीति ।

विष­य­प­रि­च्छे­दा­भावे प्रण­स्या­प्र­मा­ण­त्वान्न सत्त्व­धी­रि­त्य­श­ङ्क्याह -
न चेति ।

कार्य­लि­ङ्ग­क­म­नु­मानं प्राणे सम्भवतीत्युक्तं प्रश्नपूर्वकं सूत्रावयवेन स्फुटयति -
कस्मादिति ।

अन्व­य­व्य­ति­रे­क­सिद्धं प्राणा­ना­म­स­म्भाव्यं कार्यं मुख्यप्राणस्य दर्शयति -
प्राणा­न्त­रे­ष्विति ।
प्राणो­पा­स्ति­प्र­क्र­मा­र्थोऽ­थ­शब्दः । अहंश्रेयसीति स्वस्य श्रेष्ठ­ता­नि­मित्तं व्यूदिरे विवादं चक्रिरे । तद्वृ­त्ति­मा­त्र­हीनं मूकादित्वेन स्थितमिति यावत् ।

न केवलं प्राण­स्यो­त्क्र­म­णे­च्छायां वागा­दि­शै­थि­ल्या­प­त्ति­लि­ङ्गेन प्राणनिमित्ता देहस्थितिः किन्तु यथोक्तमर्थं श्रुतिः स्वयमेव निर्वक्तीत्याह -
तानिति ।

तत्रैव श्रुत्यन्तरमाह -
प्राणेनेति ।
अवरं निकृ­ष्ट­म­ने­का­शु­चि­नीडं कुलायं देहाख्यं गृहं प्राणा­नु­प­सं­हा­रेण रक्षञ्जीवः सुप्तिं याति । प्राण­स्या­प्यु­प­सं­हारे मृतभ्रान्तिः स्यादित्यर्थः ।

प्राणस्य कार्यान्तरं श्रुत्यन्तरेण दर्शयति -
यस्मादिति ।
तेन प्राणेन यदश्नाति जीव­स्ते­ना­श­ना­दि­नेति यावत् ।

प्राणस्य कार्यान्तरं वाक्या­न्त­रे­णो­प­न्य­स्यति -
कस्मिन्निति । ॥ ११ ॥

प्राणस्य प्राणा­न्त­रे­ष्व­स­म्भा­व्य­मा­न­का­र्य­सत्त्वे हेत्वन्तरमाह -
पञ्चेति ।

सूत्रं व्याकरोति -
इतश्चेति ।

कथ­मे­ता­व­ताऽ­न्य­त्रा­स­म्भा­वि­का­र्य­वि­शे­ष­सिद्धिः, तत्राह -
वृत्तीति ।

तदेव विवृणोति -
प्राण इति ।
उच्छ्वा­सा­दी­त्या­दि­श­ब्देन देहधारणादि गृह्यते । एतेन निश्वा­सा­दी­त्या­दि­शब्दो व्याख्यातः । उत्क्रा­न्त्या­दी­त्या­दि­प­देन गत्यागती गृह्येते ।

प्राणस्य पञ्च­वृ­त्ति­त्व­मु­प­सं­ह­रति -
एवमिति ।

दृष्टान्तं व्याचष्टे -
यथेति ।

कास्ता मनसः पञ्चवृत्तयः, तत्राह -
श्रोत्रादीति ।

लोक­प्र­सि­द्ध्य­पे­क्षया श्रुति­प्र­सि­द्धे­र्ब­ल­व­त्त्वा­त्का­माद्या मनोवृत्तयः स्युरि­त्या­श­ङ्क्याह -
नत्विति ।

पञ्च­स­ङ्ख्या­धि­क्या­च्चे­त्का­माद्या वृत्तयो नेष्यन्ते तर्हि ज्ञानेऽपि पञ्च­त्व­नि­य­मा­सिद्धेः श्रोत्रा­दि­नि­मित्ता इत्या­द्य­यु­क्त­मिति शङ्कते -
नन्विति ।

उक्ते पञ्चवृत्तित्वे मन­सोऽ­रु­चि­का­र­ण­मुक्त्वा प्रकारान्तरेण तस्य पञ्च­वृ­त्ति­त्व­माह -
एवमिति ।
इहेति प्रकृ­त­सू­त्रोक्तिः ।

योग­शा­स्त्र­प्र­सिद्धा मनो­वृ­त्ती­रे­वा­नु­क्रा­मति -
प्रमाणेति ।
प्रमासाधनं प्रमाणम् । मिथ्याध्यवसायो विपर्ययः । ‘शब्द­ज्ञा­ना­नु­पाती वस्तुशून्यो विकल्पः’ अग्रहणं निद्रा । अनु­भू­त­मा­त्र­ज्ञानं स्मृतिः । परसिद्धेन परो बोधनीय इत्यस्मिन्नंशे विरो­धा­भा­वा­द­प्र­ति­षि­द्ध­त्व­युक्तं न त्विद­मे­वा­भि­प्रे­तम् ।

विप­र्य­या­दी­ना­म­वि­द्या­वृ­त्ति­त्वो­प­ग­मा­दि­न्द्रि­य­व्या­पा­रो­प­र­म­मा­त्र­त्वा­न्नि­द्राया मनो­वृ­त्ति­त्वा­सि­द्धि­रि­त्य­प­रि­तो­षा­त्प­क्षा­न्त­र­माह -
बह्विति ।

मनो­व­त्प­ञ्च­वृ­त्ति­त्वा­दु­प­क­र­णत्वं प्राण­स्ये­त्ये­त­दपि सूत्रार्थत्वेन द्रष्ट­व्य­मि­त्याह -
जीवेति ।
तदेवं वायो­रि­न्द्रि­य­वृ­त्तेश्च प्राणस्य भेदा­भे­द­श्रु­त्यो­र­वि­रो­धा­द्य­थो­क्त­प्रा­ण­का­रणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धम् ॥ १२ ॥

मुख्यस्य प्राणस्य सृष्टिं स्वभावविशेषं च निरूप्य परिमाणमतिदेशेन निरूपयति -
अणुश्चेति ।

मुख्यप्राणो महा­न्प­रि­च्छिन्नो वेति श्रुति­वि­प्र­ति­पत्तेः संशये सिद्धान्तमाह -
अणुरिति ।
इहापीति सूत्रस्य मुख्यस्य प्राणस्य ।

सूक्ष्म इत्यादिना ।
अत्रापि व्यापि­त्व­प­रि­च्छि­न्न­त्व­श्रु­त्यो­र्वि­रो­ध­नि­रा­सेन परि­च्छि­न्न­प्रा­ण­का­रणे ब्रह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे श्रुत्यो­र्वि­रो­धा­दु­क्त­स­म­न्व­या­सिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः ।

सर्वत्र दृष्ट­का­र्य­त्वा­दा­का­श­व­त्प्राणो महानित्यत्र हेत्व­सि­द्धे­र्यत्र शरीरं तत्रेति विशेषणे शरी­र­त­द्रू­पा­दि­ष्व­नै­का­न्त्या­द­नु­मा­नेन प्राणस्य मह­त्त्वा­सि­द्धा­वपि समोऽनेन सर्वेणेति श्रौतलिङ्गेन तत्सि­द्धि­रि­त्य­धि­का­शङ्कां दर्श­य­न्पू­र्व­प­क्ष­माह -
नन्विति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्ति­के­त्यु­च्यते । नागो हस्ती परि­च्छि­न्न­त्व­मु­त्क्रा­न्त्या­दि­भि­र्भाति समोऽ­ने­ने­त्या­दिना विभुत्वं, ततश्च परि­च्छि­न्न­त्वस्य मुख्यत्वे विभु­त्व­स्या­त्य­न्त­बाधः स्याद­प­रि­च्छि­न्न­त्वस्य मुख्यत्वे परि­च्छि­न्न­त्व­मौ­पा­धिकं युक्तम् । यद्यपि सर्वेऽनन्ता इति­व­त्प्रा­णा­न­न्त्य­श्रु­ति­रपि नेतुमुचिता तथापि विधान्तरेण तन्न­य­ना­र्थ­मा­श­ङ्के­त्यर्थः ।

तमुत्क्रामन्तं प्राणोऽ­नू­त्क्रा­म­तीति परिच्छेदेऽपि प्राणस्य लिङ्ग­द­र्श­ना­द्द्व­यो­र्लि­ङ्ग­यो­र्वि­रोधे सत्या­ध्या­त्मि­का­धि­दै­वि­क­रू­पाभ्यां व्यवस्थेति परिहरति -
तदिति ।
सम­ष्टि­व्य­ष्टि­रू­पे­णा­नु­वृ­त्त­व्या­वृ­त्त­रू­पे­णे­त्यर्थः ।

उभयथा लिङ्ग­यो­र्व्य­व­स्था­सि­द्धा­व­पी­य­मेव कुतो व्यव­स्थे­त्या­शङ्क्य त्वदु­क्त­लि­ङ्गस्य प्राण­मा­त्र­प­रि­च्छे­दा­सा­ध­क­त्वा­दा­धि­दै­वि­क­वि­ष­य­त्वेन समोऽ­ने­ने­त्या­द्या­स्थे­य­मि­त्याह -
अपि चेति ।

मुख्यप्राणस्य व्यापि­त्व­प­रि­च्छि­न्न­त्व­श्रु­त्यो­रि­त्थ­म­वि­रो­धा­त्प­रि­च्छि­न्न­प्रा­ण­का­रणे ब्रह्मणि सम­न्व­य­धी­रि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ १३ ॥

प्राण­स्या­ध्या­त्मा­धि­दै­व­त­वि­भा­गे­ना­णु­त्व­वि­भु­त्व­नि­रू­प­ण­प्र­स­ङ्गे­ना­ध्या­त्मि­कानां प्राणा­ना­मा­धि­दै­वि­का­दि­त्या­द्य­पेक्षां चेष्टामाचष्टे -
ज्योतिरादीति ।

अधिकरणस्य विषयसंशयौ दर्शयति -
ते पुनरिति ।
अन्व­य­व्य­ति­रे­का­भ्या­माद्यो विकल्पः, द्वितीयो देव­ता­धि­ष्ठि­त­त्वो­क्ते­रिति विवेक्तव्यम् । ‘चक्षुषा हि रूपाणि पश्यति’ इति । ‘आदि­त्य­श्च­क्षु­र्भू­त्वा­क्षिणी प्राविशत्’ इत्य­दि­श्रु­ते­र­वि­रो­ध­द्वारा देव­ता­धि­ष्ठि­त­च­क्षु­रा­दि­का­रणे ब्रह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे श्रुत्यो­र्वि­रो­धा­दु­क्त­स­म­न्व­या­सिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः ।

केव­ल­व्य­ति­रे­का­भा­वा­द्दे­व­ताया नाधि­ष्ठा­तृ­त्व­मिति पूर्वपक्षयति -
तत्रेति ।
न च दृष्ट­का­र­ण­क्लृ­प्ता­व­न्व­य­व्य­ति­रे­का­पे­क्षा­या­मपि देवतायाः श्रुते­र­धि­ष्ठा­तृ­त्वो­क्तेर्न तदपेक्षेति वाच्यं, देव­ता­या­स्त­त्रा­धि­ष्ठा­तृ­त्वा­दृ­ष्टे­र्वा­गा­दि­भा­व­स्यैव भानात् । न च चेत­न­स्या­चे­त­न­भा­वाऽ­सि­द्धे­र­धि­ष्ठा­तृ­त्व­मे­वेति युक्तम् , अचे­त­न­स्या­ग्न्या­दे­र­चे­त­न­वा­गा­दि­भा­व­सि­द्धे­रिति भावः ।

इतश्च स्वमहिम्नैव प्राणानां प्रवृ­त्ति­रि­त्याह -
अपिचेति ।

देव­ता­श्च­श्रु­रा­दि­ज­न्य­क­र्म­त­त्फ­ल­यो­गि­न्य­श्च­क्षु­रा­द्य­भि­मा­नेन प्रव­र्त­क­त्वा­ज्जी­व­व­दि­त्य­नु­मित्या तदेव स्फुटयति -
देवतेति ।

सिद्ध­सा­ध्य­त्व­मा­शङ्क्य विरो­धा­भि­प्रा­या­ने­का­धि­ष्ठि­त­तया शरीरस्य गम­ना­द्य­स­म्भ­वा­पत्तेः शरीरस्य भोक्तृत्वं न स्यादित्याह -
शारीरस्येति ।

‘न ह वै देवान्पापं गच्छति’ इत्यादिना देवताया भोक्तृत्वं निर­स्त­मि­त्या­शङ्क्य पुण्यफलमेव देवता भुञ्जते न पाप­फ­ल­मि­त्ये­ता­व­न्मा­त्रस्य तत्रे­ष्ट­त्वा­न्मै­व­मिति मत्वोपसंहरति -
अत इति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

तत्र पूर्वपक्षनिषेधं विभजते -
तुशब्देेनेति ।

उत्त­र­प­क्ष­प्र­तिज्ञां प्रकटयति -
ज्योति­रा­दि­भि­रिति ।

हेतुमवतार्य विवृणोति -
हेतुं चेति ।

तद्भाव एवात्र भाति, नच तद­धि­ष्ठा­तृ­त्व­मि­त्या­शङ्क्य चेत­ना­ना­म­चे­त­न­त्वा­सि­द्धे­र­धि­ष्ठा­तृ­त्व­मे­वा­त्रे­ष्ट­मि­त्याह -
अग्नेश्चेति ।

अधि­ष्ठा­ना­धि­ष्ठे­यत्वं हित्वो­पा­दा­नो­पा­दे­य­त्व­मु­पे­त्या­ग्न्या­दी­ना­म­चे­त­ना­ना­मेव वागादिभावेन मुखादिषु प्रवेशः स्यादि­त्या­श­ङ्क्याह -
न हीति ।
वाक्च­क्षु­षो­स्तै­ज­स­त्वेन तेजोमात्रत्वे सत्य­ग्न्या­दि­त्य­श­ब्द­यो­रै­का­र्थ्येन पौन­रु­क्त्या­द्व्य­क्ति­भे­देन कारणभेदे चक्षु­रा­दे­रा­दि­त्य­म­ण्ड­ला­दि­व्य­ति­रि­क्त­स्थले कार्या­नु­प­ल­ब्धि­प्र­स­ङ्गा­द्दे­व­तानां चेत­ना­ना­मे­वा­ग्न्या­दी­ना­म­धि­ष्ठा­तृ­त्वेन सम्बन्धो वागादिषु विवक्षितो न सम्बन्धान्तरं सद­प्य­त्रा­भि­प्रे­त­मि­त्यर्थः ।

अग्नि­र्वा­ग्भू­त्वे­त्या­द्यु­क्त­म­न्य­त्रा­प्य­ति­दि­शति -
तथेति ।

अग्न्या­दी­ना­म­धि­ष्ठा­तृत्वं वागा­दी­ना­म­धि­ष्ठे­य­ते­त्य­त्रैव हेत्वन्तरमाह -
तथेति ।

तत्रैव लिङ्गान्तरमाह -
स वा इति ।
स प्राणो वाचं प्रथ­मा­मु­द्गी­थ­क­र्मणि प्रधानां मृत्यु­म­ती­त्या­व­ह­त्प्रा­प­यत् । किं प्रापि­त­वा­नि­त्यु­च्यते । यदा हि मुक्ता तदा सा पूर्व­म­प्य­ग्नि­रेव सती मृत्युवियोगे प्रति­ब­न्धा­भा­वा­द­ग्नि­रे­वा­भ­व­दि­त्यर्थः ।

इत­श्चा­ग्न्या­दीनां वागादीनां चाधि­ष्ठा­ना­धि­ष्ठे­य­त्व­मि­त्याह -
सर्वत्रेति ।

उक्तेऽर्थे स्मृतिमपि संवादयति -
स्मृताविति ।

पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
यदिति ।

प्राणानां स्वका­र्य­श­क्ति­यो­गेऽपि चेत­ना­धि­ष्ठि­ता­ना­मेव प्रवृ­त्ति­रि­त्याह -
तदिति ।

शकटादीनां बली­व­र्दा­द्य­धि­ष्ठि­तानां प्रवृ­त्ति­र्दृष्टा, क्षीरा­दी­ना­म­न­धि­ष्ठि­ता­ना­मपि दध्या­दि­प्र­वृ­त्ति­सिद्धिः, तथाचोभयथासम्भवे कथं निर्णयः, तत्राह -
उभयथेति ॥ १४ ॥

उक्तं युक्त्यन्तरं निराकर्तुं सूत्रमवतारयति -
यदपीत्यादिना ।

सूत्रं व्याचष्टे -
सतीष्विति ।

शारीरेणैव ।
भोक्त्रेति शेषः । प्राणानां भोगसाधनत्वेनेति वक्तव्यम् । सम्बन्धः स्वस्वामिभावः ।

तामेव श्रुतिमाह -
तथाहीति ।
देहे प्राण­प्र­वे­शा­न­न्त­र्य­म­थ­श­ब्दार्थः । यत्र गोलकगतकृष्णसारे छिद्र­मा­का­श­म­नु­वि­ष­ण्ण­म­नु­गतं चक्षुस्तत्र स आत्मा चक्षुषि भव­श्चा­क्षु­ष­स्तस्य दर्शनाय चक्षुर्न चैतन्यायेति यावत् । अथशब्दोऽप्यर्थः । दर्शनाद्यर्थं चक्षु­रा­द्य­पे­क्षा­या­मपि जिङ्घ्राणीति सङ्कल्पं स्वत एव यो वेद स आत्मा तस्य गन्धज्ञानाय घ्नाणमिति द्विती­य­वा­क्यार्थः ।

विमता देवता नैत­च्च­क्षु­रा­दि­ज­न्य­ध­र्म­त­त्फ­ल­यो­गिन्यः, एत­च्च­क्षु­रा­दि­सा­ध­नो­त्थ­रू­पा­दि­ज्ञा­ना­ना­श्र­य­त्वात् , पुरुषान्तरवदिति मत्वा श्रुते­स्ता­त्प­र्य­माह -
शारीरेणेति ।

इत­श्चा­स्मि­न्देहे देवतानां न भोक्तृतेत्याह -
अपिचेति ।

अनेकत्वेऽपि तासामत्र भोक्तृत्वे का क्षतिः, तत्राह -
एको हीति ।
योऽहं रूपमद्राक्षं सोऽहं शृणो­मी­त्ये­क­स्यैव प्रत्यभिज्ञानं प्रतिसन्धानम् । बहूनां भोक्तृत्वे विरुद्धक्रियस्य शरी­र­स्यो­न्म­थ­न­मा­दि­श­ब्दार्थः ॥ १५ ॥

कदा­चि­द्दे­व­ता­ना­मत्र भोक्तृत्वं कदा­चि­ज्जी­व­स्ये­त्य­व­स्था­मा­श­ङ्क्याह -
तस्येति ।
स्वकर्मार्जिते देहे जीवस्य भोक्तृ­ता­नि­य­मा­न्मै­व­मि­त्यर्थः ।

सूत्रार्थं विवृणोति -
तस्येत्यादिना ।

न देवतानामत्र भोक्तृतेत्यत्र हेतुमाह -
ता हीति ।

देवतानामिह देहे भोगाभावे श्रुति­म­प्य­नु­कू­ल­यति -
श्रुतिश्चेति ।

सूत्र­व्या­ख्या­न्त­र­माह -
शारीरेणेति ।
उत्क्रमणादिषु जीवस्य प्राणा­व्य­भि­चा­रा­त्त­स्यैव प्राण­स्वा­मित्वं, देवतानां तु पर­स्वा­मि­क­र­थ­सा­र­थि­व­द­धि­ष्ठा­तृ­त्व­मा­त्र­मि­त्यर्थः ।

देव­ता­ना­म­त्रा­भो­क्तृत्वे फलितमाह -
तस्मादिति ।

हेतुमेव स्फोरयति -
करणेति ।
आलो­क­व­त्क­र­णो­प­का­र­क­त्व­मेव देवतानां न तज्ज­न्य­भो­ग­व­त्त्व­मि­त्यर्थः । तदेवं ‘चक्षुषा हि रूपाणि’ इत्यादिश्रुतेः । ‘आदि­त्य­श्च­श्रु­र्भूत्वा’ इत्या­दि­श्रु­ते­श्चा­दि­त्या­दि­दे­व­ता­धि­ष्ठि­त­च­क्षु­रा­दि­का­रणे ब्रह्मणि सम­न्व­य­सि­द्धि­रि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ॥ १६ ॥

सत्स्वि­न्द्रि­येषु तद­धि­ष्ठा­तृ­चिन्ता, तान्येव प्राण­वृ­त्ति­व्य­ति­रे­केण नेति चोदिते प्रत्याह -
त इति ।

उक्तमनूद्य भेदा­भे­द­श्रु­तिभ्यां सन्देहमाह -
मुख्यश्चेति ।

तत्रेति ।
एका­द­श­प्रा­णे­ष्विति यावत् ।

पूर्व­व­दा­म्ना­न­ब­लेन पूर्वपक्षयति -
किमित्यादिना ।
अत्र भेदा­भे­द­श्रु­त्यो­र­वि­रो­धेन तत्त्वान्तरे मूलकारणे ब्रह्मणि समन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुत्यो­र्वि­रो­धा­त्त­द­सिद्धिः । सिद्धान्ते तद­वि­रो­धा­त्त­त्सिद्धिः ।

श्रुतिमेवाह -
तथाहीति ।
हन्तेदानीमस्यैव मुख्यप्राणस्य सर्वे वयं रूपमसाम भवामेत्याशिषं दत्वा ते वागादय एतस्यैव मुख्यस्य रूपं बभूवुरिति श्रुत्यर्थः ।

वाच­क­श­ब्दै­क्या­च्चै­क­त्व­मि­त्याह -
प्राणेति ।

अक्षा­दि­श­ब्द­व­द­ने­का­र्थत्वं प्राणशब्दस्य किं न स्यादि­त्या­श­ङ्क्या­ग­तिका हीयं गतिरित्याह -
इतरथेति ।

गङ्गा­दि­श­ब्द­व­द­ने­का­र्थ­त्व­मा­शङ्क्य भेदे माना­भा­वा­न्मु­ख्य­स­म्भवे कुतो लक्षणेत्याह -
एकत्रेति ।

ननु ‘एतस्माज्जायते प्राणः’ इत्यादौ भेद­वा­दा­द्वा­गा­दीनां प्राणा­त्त­त्त्वा­न्त­र­त्वम् । न च मनः सर्वे­न्द्रि­या­णी­ति­व­द्भे­दो­क्ते­र्भे­दा­सा­ध­कत्वं तदि­न्द्रि­य­त्वस्य स्मृति­सि­द्ध­त्वा­द्ब्रा­ह्म­ण­प­रि­व्रा­ज­क­व­द्भे­द­वा­देऽपि प्रकृते पृथगुक्तेरेव तत्त्वा­न्त­र­त्व­ध्रौ­व्या­दि­त्या­श­ङ्क्या­त्रा­प्य­भे­द­श्रु­ते­र­भे­द­स्यैव सिद्धे­र्भे­दो­क्ति­र्ब्रा­ह्म­ण­प­रि­व्रा­ज­क­व­दिति मत्वाह -
तस्मादिति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव प्रतिजानीते -
एवमिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

आका­ङ्क्षा­पू­र्वकं हेतुं विवृण्वन्नेव सूत्राक्षराणि योजयति -
क इत्यादिना ।

व्यपदेशभेदं विशदयति -
एतस्मादिति ।

उक्त­व्य­प­दे­श­भे­द­स्या­ति­प्र­स­ङ्गित्वं शङ्कते -
नन्विति ।
एवं सति उक्तहेतुना वागादीनां मुख्या­त्त­त्त्वा­न्त­रत्वे सतीति यावत् ।

उत्सर्गतो भेदव्यपदेशस्य तत्त्वान्तरस्य साध­क­त्व­म­ङ्गी­क­रोति -
सत्यमिति ।

कथं तर्ही­न्द्रि­यत्वं मनसः सिद्धं, तत्राह -
स्मृतौ त्विति ।
श्रुति­स्मृ­ति­भ्या­म­प­वा­दा­द्भे­द­व्य­प­दे­श­स्यौ­प­चा­रि­क­त्व­मि­त्यर्थः ।

प्राणस्यापि मनो­व­दि­न्द्रि­यत्वं किं न स्यात् , तत्राह -
प्रणस्येति ।

तत्रापि भेद­वा­द­स्यौ­प­चा­रि­क­त्व­मा­श­ङ्क्या­प­वा­दा­भा­वा­न्ने­त्याह -
व्यपदेशेति ।

उपपत्तिमेव व्यतिरेकेण स्फोरयति -
तत्त्वेति ।

व्यप­दे­श­भे­दा­नु­प­प­त्त्योक्तं भेदमुपसंहरति -
तस्मादिति ॥ १७ ॥

तत्रैव हेत्वन्तरं पृच्छति -
कुत इति ।

प्राणस्य वागादिभ्यः साक्षा­द्भे­दो­क्ते­रपि भेदधीरित्याह -
भेदेति ।

सूत्रं विभजते -
भेदेनेति ।

इन्द्रियवृत्तयः शास्त्रो­द्भा­सिता देवाः स्वाभाविक्यस्ता एवासुरास्तयोः सदाऽ­न्यो­न्य­म­भि­भ­व­रूपः सङ्ग्रा­म­स्त­त्रा­सु­र­प­रा­ज­या­यौ­द्गात्रं कर्म देवाः प्रारेभिरे, ते च देवा वाचमूचुस्त्वं न उद्ग­ये­त्यु­प­क्रम्य तां वाचमसुराः पाप्म­नाऽ­वि­ध्य­न्नि­त्या­दिना वागादीनसुरैः पाप्मना कल्या­णा­स­ङ्ग­नि­मि­त्तेन विद्धानुक्त्वा वागा­दि­प्र­क­र­ण­मु­प­सं­हृ­त्या­थेति प्रकरणविच्छेदेन प्रसिद्धमास्ये भवं मुख्य­प्रा­ण­मू­चु­र्वा­गा­द­यस्त्वं न उद्गा­ये­त्युक्त्वा तेन चोद्गाने प्रारब्धे पूर्व­व­द्वे­धा­यो­प­क्र­म­मा­त्रे­णा­भे­द्य­पा­षा­ण­क्षि­प्त­लो­ष्ट­व­द­सुरा नष्टा इत्य­सु­र­वि­ध्वं­सिनो मुख्यप्राणस्य पृथ­गु­क्ते­र्भे­द­सि­द्धि­रि­त्याह -
ते हेत्यादिना ।

भेदे श्रुत्यन्तरमाह -
तथेति ।

तानि त्रीण्य­न्ना­न्या­त्मने स्वार्थं प्रजापतिरकुरुत कृतवानिति यावत् , भेद­श्रु­ति­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ॥ १८ ॥

तत्रैव हेत्वन्तरं प्रश्नपूर्वकमाह -
कुतश्चेति ।
विरु­द्ध­ध­र्म­व­त्त्वा­दपि भेदधीरिति सूत्रार्थः ।

तमेवार्थं विवृणोति -
वैलक्षण्यं चेति ।

किमिदं वैलक्षण्यं तदाह -
सुप्तेष्विति ।

अर्थक्रियाकृतं वैल­क्ष­ण्या­न्त­र­माह -
तस्यैवेति ।

लक्षणभेदकृतं फलमुपसंहरति -
तस्मादिति ।

अभे­द­श्रु­ते­रु­क्त­म­भे­द­म­नु­व­दिति -
यदिति ।

अभेदे तस्या­स्ता­त्प­र्या­भा­वा­न्मै­व­मि­त्याह -
तदिति ।
अभेदश्रुतिः सप्तम्यर्थः ।

भेदप्रतीतिं प्रकटयति -
तथीहीति ।
दध्रे धारणाभिप्रायं चक्रे । तस्मान्मृत्युना श्रमे­णा­क्रा­न्त­त्वा­दिति यावत् ।

प्राकारान्तरेण भेदप्रतीतिमाह -
अयमिति ।

अभे­द­श्रु­ते­स्तर्हि का गतिः, तामाह -
तस्मादिति ।
एतस्यैव सर्वे रूपमभवन्निति वाक्या­त्त­स्मा­देत एतेनाख्यायन्ते प्राणा इति च प्राण­श्रु­ते­रि­न्द्रि­याणां प्राणवृत्तित्वे प्राप्ते प्राण­सं­वा­दा­दि­ग­तै­र्ब­हु­भि­र्भे­द­लि­ङ्गै­र­र्था­न्त­रत्वे च लिङ्गै­र्ब­ली­यो­भि­र­बलं वाक्यं बाध्यते । श्रुति­र­पी­न्द्रि­याणां प्राण­सं­ज्ञा­र्थे­त्य­न्य­परा लिङ्गै­र्ब­हु­भि­र्बा­ध्येति भावः ।

यत्तु प्राणशब्दस्य मुख्यत्वसम्भवे न लक्षणेति, तत्राह –
अत इति ।
प्राण­स्ये­न्द्रि­येभ्यो भेदो यस्मात् प्रामा­णि­क­स्त­स्मा­देव तच्छब्दस्य तेषु मुख्य­ता­यो­गा­द्युक्ता लक्षणेत्यर्थः ।

श्रुत्या­लो­च­ना­तोऽपि प्राणशब्दस्य लक्ष­णा­सि­द्धि­रि­त्याह -
तथाचेति ।

अभे­द­श्रु­ते­र्ग­ति­मु­क्त्वो­प­सं­ह­रति -
तस्मादिति ।
तदेवं भेदा­भे­द­श्रु­त्यो­र­वि­रो­धा­त्त­त्त्वा­न्त­र­भू­त­वा­गा­दि­मू­ल­का­रणे ब्रह्मणि सम­न्व­य­धी­रि­त्यु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ १९ ॥

उत्प­त्ति­रु­त्पा­द­नेति व्यापा­रा­वु­त्प­द्य­मा­नो­त्पा­द­क­गतौ प्रसिद्धौ । तत्र जग­दु­त्प­त्ति­श्रु­ति­वि­रो­धोऽ­ती­तेन सन्दर्भेण निरस्तः । संप्र­त्यु­त्पा­द­ना­वि­ष­य­श्रु­ति­वि­रोधो निरस्यते । तत्रापि भूत­सू­क्ष्मो­त्पा­दनं पारमेश्वरमेवेति श्रुति­ष्व­वि­प्र­ति­प­न्नम् । भौति­क­नि­र्मा­ण­श्रु­तिषु विप्र­ति­प­त्ति­रिति तन्निरासार्थमाह -
संज्ञेति ।

नाम­रू­पा­भे­दा­त्क­र­णानां प्राणा­भे­द­श­ङ्का­नि­रा­स­प्र­स­ङ्गेन नामरूपव्याकरणं किङ्कर्तृकमिति निरूपयतीति विशेषसङ्गतिं गृही­त्वाऽ­धि­क­र­णस्य विषयमाह -
सदिति ।

उपदेशमेव दर्शयति -
सेयमिति ।
ईक्षणप्रयोजनं यद्बहुभवनमुक्तं तदद्यापि न सिद्धमिति पुनरीक्षां कृतवती सदाख्या देवतेत्यर्थः ।

ईक्ष­ण­प्र­का­र­म­भि­न­यति -
हन्तेति ।

इदानीमहमिमा यथो­क्ता­स्ते­जो­ब­न्ना­ख्या­स्तिस्त्रो देवता व्यव­हा­रा­पे­क्षा­या­म­नेन पूर्व­सृ­ष्टा­व­नु­भू­ते­ना­धुना स्मृतेन जीवेनात्मना बुद्ध्या­दि­भू­त­मा­त्रा­या­मा­दर्शे मुखवदनुप्रविश्य नाम च रूपं च ते व्याकरवाणीदमस्य नामेदं च रूपमिति स्पष्टं कर­वा­ण्ये­व­मी­क्षित्वा पुनरपि देवता व्यव­हा­रा­र्थ­मीक्षां चकारेत्याह -
तासामिति ।
तिसृणां देवतानामेकैकां देवतां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकां करवाणि । तथा च स्थूलभूतेषु व्यव­हा­र­सि­द्धि­रि­त्यर्थः ।

नामरूपव्याकरणं विषयीकृत्यानेन जीवेनेत्यस्य व्याक­र­वा­णी­त्य­नेन वानु­प्र­वि­श्ये­त्य­नेन वा सम्ब­न्ध­स­म्भा­व­नया सन्देहमाह -
तत्रेति ।
भौति­क­सृ­ष्टि­श्रु­ति­वि­रो­ध­नि­रा­सेन परस्मिन्नेव तत्कारणे ब्रह्मणि सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे जीवस्यैव भौति­क­सृ­ष्टि­का­र­ण­त्वा­त्त­स्मि­न्नेव सम­न्व­या­द्ब्र­ह्मणि तदसिद्धिः ।

सिद्धान्ते परस्यैव तद्धे­तु­त्वा­त्त­त्रैव तत्सि­द्धि­रि­त्य­भि­स­न्धाय पूर्वपक्षमाह -
तत्रेत्यादिना ।

जीवेनेत्यस्य प्रविश्येत्यनेन सम्बन्धान्न जीवस्य व्याक­र्तृ­त्व­मिति शङ्कते -
कुत इति ।

क्रियापदस्य प्राधा­न्या­त्ते­ना­न्ये­षा­म­न्व­या­ज्जी­वे­ने­त्यस्य व्याक­र­वा­णी­त्य­नेन सङ्गतिरित्याह -
अनेनेति ।

सेयं देव­ते­त्यु­प­क्रम्य व्याक­र­वा­णी­त्यु­त्त­म­पु­रु­ष­प्र­यो­गा­द्दे­व­ताया व्याकर्तृत्वं न जीव­स्ये­त्या­श­ङ्क्यो­प­चा­रा­दु­त्त­म­पु­रु­ष­प्र­योगं दृष्टान्तेन दर्शयति -
यथेत्यादिना ।

उप­चा­रा­न्मु­ख्य­ग्र­हणं युक्त­मि­त्या­शङ्क्य जीवेनेति विशे­ष­ण­वै­य­र्थ्या­न्मै­व­मिति मत्वा दार्ष्टा­न्ति­क­माह -
एवमिति ।
जीवस्य प्रवेष्टृत्वं ब्रह्मणो व्याक­र्तृ­त्व­मि­त्य­ङ्गी­कारे समा­न­क­र्तृ­क­त्वाऽऽ­भा­वा­त्क्त्वा­प्र­त्य­य­वि­रोधः स्यादिति भावः ।

नदी­स­मु­द्रा­दि­व्या­क­रणे जीव­स्या­यो­ग्य­त्वा­द्ब्र­ह्म­ण­स्तत्र कर्तृ­ते­त्या­श­ङ्क्या­नु­मा­न­माह -
अपिचेति ।

विप्र­ति­प­न्न­मि­दमा परामृश्यते । भौति­क­सृ­ष्टि­श्रु­तिषु विरोधान्न सर्वकारणे ब्रह्मणि सम­न्व­य­सि­द्धि­रिति पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्रं पदशो विभजते -
तुशब्देनेति ।

पदार्थमुक्त्वा प्रति­ज्ञा­वा­क्यार्थं स्फुटयति -
येयमिति ।
अधि­दै­व­वि­ष­य­म­ग्न्या­द्यु­दा­ह­र­णम् । अधिभूतविषयं कुशादि । पश्वा­द्य­ध्या­त्म­वि­ष­य­मिति भेदः ।

न केवलं जात्यु­पा­धा­व­ने­क­प्र­कारं किन्तु व्यक्त्यु­पा­धा­व­पी­त्याह -
प्रतीति ।

कार­ण­वि­ष­य­वि­प्र­ति­षे­ध­नि­षे­ध­या­व­धा­र­णम् । तत्र सौत्रं हेतुं प्रश्न­पू­र्व­क­मा­दाय व्याचष्टे -
कुत इति ।

परोक्तमनुवदति -
नन्विति ।

आका­ङ्क्षा­सं­नि­धि­यो­ग्य­ता­व­शे­ना­न्व­या­ज्जी­वे­ने­त्यस्य प्रविश्येत्यनेन संनि­धा­ना­ज्जी­वस्य च सर्व­ना­म­रू­प­व्या­क­रणे योग्य­त्वा­भा­वा­त्तस्य प्रवेशेनैव सम्बन्धो नान्येनेत्याह -
नैतदिति ।

उप­स­र्ज­न­स्यो­प­स­र्ज­ने­ना­स­म्ब­न्धा­त्प्र­धा­नेन क्रियापदेनैव जीवपदस्य सङ्ग­ति­रु­क्ते­त्या­शङ्क्य व्याक­र­वा­णी­त्यु­त्त­म­पु­रु­ष­स्यौ­प­चा­रि­क­त्वा­प­त्ते­र्मै­व­मि­त्याह -
तेनेति ।

परोक्तमनुमानं योग्या­नु­प­ल­ब्धि­वि­रो­धेन निरस्यति -
नचेति ।

आग­म­वि­रो­धा­च्चा­यु­क्त­म­नु­मा­न­मि­त्याह -
येष्विति ।

यत्तु कर्तृभेदे क्त्वाप्र­त्य­य­वि­रोध इति, तत्राह -
नचेति ।

कथं तर्हि व्यपदेशभेदः, तत्राह -
उपाधीति ।

औपाधिके भेदे वास्तवे चाभेदे फलितमाह -
तेनेति ।

जीव­ब्र­ह्म­णो­रै­क्या­ज्जी­व­क­र्तृ­क­मपि व्याकरणं ब्रह्मकर्तृकं चेत्तर्हि जीवकर्तृकमेव सद्ब्र­ह्म­क­र्तृकं किं न स्यादि­त्या­शङ्क्य ब्रह्म­क­र्तृ­क­त्व­स्यैव वेदान्तेषु प्रसि­द्धे­र्मै­व­मि­त्याह -
परमेश्वर इति ।

सूत्रा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

भूत­वि­ष­य­ना­म­रू­प­व्या­क­र­णस्य त्रिवृ­त्क­र­णा­त्पू­र्व­मपि सम्भ­वा­त्र्रि­वृ­त्कु­र्वतो नामरूपव्याकरणं कर्मेति कथ­मु­क्त­मि­त्या­शङ्क्य भौति­क­वि­ष­य­मे­त­दिति विशेषणसिद्धिमाह -
त्रिवृदिति ।
इहेति व्याक­र­ण­वा­क्योक्तिः ।

किं तत्र्रिवृत्करणं यद्व्या­क­र­णा­त्पू­र्व­भा­वी­त्या­श­ङ्क्याह -
तच्चेति ।

यथा छान्दोग्ये भूत­त्र­य­सृ­ष्टि­स्तै­त्ति­री­य­श्रु­त्य­नु­रो­धा­द्भू­त­प­ञ्च­क­वि­ष­योक्ता तथात्रापि त्रिवृत्करणं, पञ्ची­क­र­णा­भि­प्रायं द्रष्टव्यं श्रुत्यन्तरे पञ्चानां भूतानां सृष्टे­रु­क्त­त्वात् । किं पुन­र्ना­म­रू­प­व्या­क­रणं, तदाह -
तत्रेति ।

अग्ना­वु­क्त­न्या­य­म­ति­दि­शति -
एवमिति ।

आदित्यादीनां तैजसानामेव श्रुत्योक्तेर्न सर्वत्र त्रिवृ­त्क­र­ण­मि­त्या­श­ङ्क्याह -
अनेनेति ।

यस्य त्रिवृत्करणं गम्यते तस्यैवास्तु किम­ति­दे­शे­ने­त्या­श­ङ्क्याह -
उपक्रमेति ।
तिस्र­स्ता­व­दि­मा­स्ते­जो­ब­न्नाख्या देव­ता­स्ता­सा­मे­कैका देवता त्रिवृ­त्र्रि­वृ­त्र्र्या­त्मिका त्र्यात्मिका भव­ती­त्यु­प­क्र­मार्थः । उप­सं­हा­र­स्था­वि­ति­शब्दौ क्रमेण यच्छब्दाभ्यां सम्बन्ध्येते । अविज्ञातं विशे­ष­रू­पे­णा­दृ­ष्टम् । इवकारावुभयत्र दृष्ट­रू­प­स्या­भा­स­त्वार्थौ । एतासां तिसृणामेव देवतानां समासः । समुदाय इति यावत् ॥ २० ॥

बाह्यं त्रिवृ­त्क­र­ण­मु­क्त्वा­ध्या­त्मि­केऽ­स्मि­न्मानं वद­न्नु­त्त­र­सू­त्र­स­ङ्ग­ति­माह -
तासामिति ।
अध्यात्मं देहे त्रिवृत्करणमपरं कार्यत्रयरूपेण वर्तनमिति यावत् । याः खल्विमा देवतास्तिस्रो बहि­स्त्रि­वृ­त्कृता दर्शि­ता­स्ता­सा­मे­कैका देवता पुरुषं शरीरं प्राप्य त्रिवृ­त्का­र्य­त्र­य­रू­पेण त्र्यात्मिका त्र्यात्मिका भवतीत्यर्थः ।

तदि­त्या­ध्या­त्मिकं त्रिवृ­त्क­र­ण­मु­च्यते । सर्वस्य त्रिवृ­त्कृ­त­त्वा­वि­शेषे कथं व्यवहारविशेषः स्यादि­त्या­श­ङ्क्याह -
आशङ्कितमिति ।
उत्तरसूत्रेण शङ्कितं दोषमुद्भाव्य परिहरिष्यन्नादौ त्रिवृत्करणं विषयं दर्शयतीति योजना ।

ननु वैशेषिका मनसो नित्यत्वं साङ्ख्या वाङ्म­न­स­यो­रा­ह­ङ्का­रि­क­त्व­मा­हु­र­न्न­म­यता च मन­सोऽ­न्न­स­म्ब­न्धा­ल्ल­क्ष­णार्था तदुपयोगे तत्स्वास्थ्यात् । वाचोऽपि तेजोमयत्वं पाटवेन तेजःसाम्यमेव, तत्राह -
मांसादीति ।
मनआदि भौमादीति वक्तव्ये मांसादिवचनं सिद्धेन सह साध्यस्य मन­आ­दे­र्दृ­ष्टा­न्ता­र्थम् । यथा मांसादि भौममेवं वाङ्मनसे अपि तैजसभौमे शब्दवशाज्ज्ञेये इत्यर्थः ।

सूत्राक्षराणि व्याचष्टे -
भूमेरिति ।

यथा­श­ब्द­मि­त्युक्तं विशदयति -
तथाहीति ।

भूमे­र्मां­सा­दि­भावः सूत्रि­त­स्त­द­यु­क्त­मो­द­न­स्यैव तथा­त्व­दृ­ष्टे­रि­त्या­श­ङ्क्याह -
त्रिवृदिति ।

सूत्र­ता­त्प­र्य­मुक्त्वा श्रुति­ता­त्प­र्य­माह -
तस्याश्चेति ।

इतरयोश्चेति भागं व्याकरोति -
एवमिति ।

तदेव कार्यमुदाहरति -
मूत्रमिति ।
जला­धी­न­स्थि­ति­त्वा­त्त­त्का­र्यत्वं प्राण­स्यो­प­च­र्यते श्रुत्यन्तरे तस्य वायु­का­र्य­त्व­सि­द्धे­र­न्य­त्रा­प­वा­दा­भा­वा­न्मु­ख्य­मे­त­त्का­र्य­त्व­मिति विवेकः ॥ २१ ॥

अविशेषेण सर्वेषां त्र्यात्मकत्वे कथ­म­न्ना­दि­श­ब्द­वा­च्य­तेति चोदयति -
अत्रेति ।

बाह्ये व्यव­हा­र­वि­शे­षा­स­म्भ­व­मुक्त्वा देहेऽपि तदसम्भवमाह -
तथेति ।

उत्त­र­सू­त्र­म­व­ता­र­यति -
अत्रेति ।

तदक्षराणि व्याचष्टे -
तुशब्देनेति ।

भूयस्त्वं विवृणोति -
सत्यपीति ।

दृष्टं भूय­स्त्व­मु­दा­ह­रति -
अग्नेरिति ।

अफ­ल­त्वा­द­प्र­ति­पाद्यं त्रिवृ­त्क­र­ण­मि­त्या­श­ङ्क्याह -
व्यवहारेति ।

एकै­क­भू­त­गो­च­र­त्वे­नापि व्यवहारस्य सुकरत्वान्न तादर्थ्येन त्रिवृ­त्क­र­ण­मि­त्या­श­ङ्क्याह -
व्यवहारश्चेति ।
केव­ल­भू­त­त­न्मा­त्रा­णा­मि­न्द्रि­या­गो­च­र­त्वा­त्त­दर्थं तदु­क्ति­रि­त्यर्थः ।

उक्त­म­नू­द्या­व­शिष्टं भागं व्याचष्टे -
तस्मादिति ।

विरो­ध­स­मा­धि­मु­प­सं­ह­र­न्प­दा­भ्या­सस्य तात्पर्यमाह -
तद्वाद इति ॥ २२ ॥