न्यायनिर्णयव्याख्या
३ परिच्छेदः
जीवोपकरणभूतभौतिकजन्मादिनिरूपणानन्तरं तदुपहितजीवस्य संसारप्रकारं निरूपयितुं देहान्तरारम्भे भूतसूक्ष्मपरिष्वक्तस्यैव गमनमिति तावदाह -
तदन्तरेति ।
हेतुहेतुमद्भावसम्बन्धमध्याययोर्वक्तुं पूर्वाध्यायार्थं सङ्क्षिपति -
द्वितीय इति ।
ब्रह्मणि निरपवादे समन्वये स्मृतिन्यायश्रुतिविरोधनिरासेनानध्यवसायरूपाप्रामाण्याभावात्तार्तीयविचारावसरः स्यादिति हेतुहेतुमत्त्वलक्षणसङ्गतिरिति भावः ।
अनन्तरपादस्यावान्तरसङ्गत्यर्थं तदुपयुक्तमनुद्रवति -
तत्र चेति ।
तथाच तैरुपहितस्य जीवस्य संसारप्रकारविचारोऽवतरतीति शेषः ।
इदानीं तार्तीयमर्थं सौकर्यार्थं पादशो विभज्य दर्शयति -
अथेति ।
वैराग्यपादार्थं सङ्गृह्य पदार्थं सङ्गृह्णाति -
तदिति ।
संसाराद्विरक्तस्य मुमुक्षोर्मोक्षहेत्वपरोक्षवाक्यार्थज्ञानसाधनलक्ष्यपदार्थज्ञानाय जीवस्यावस्थान्तराणि ब्रह्मस्वरूपं च निरूप्यत इत्यर्थः ।
तृतीयपादार्थमाह -
विद्येति ।
निर्गुणब्रह्मवाक्यस्थापुनरुक्तपदोपसंहाराय मन्दाधिकारिणां सगुणोपासनैकरूप्याय च सर्वशाखासु विद्या भिन्नाऽभिन्ना वा गुणानामुपसंहारो न वेति विचार्यत इत्यर्थः ।
चतुर्थपादार्थमाह -
सम्यगिति ।
विरक्तस्य लक्ष्यपदार्थज्ञस्य सर्वशाखास्वपुनरुक्तशब्दोपसंहारेणैकरूपवाक्यज्ञानवतो यज्ज्ञानं तावन्मात्रादेव पुरुषार्थस्तद्धेतूनां च यज्ञादिविधीनां शमादिविधीनां च बहिरङ्गत्वान्तरङ्गत्वभेदः शुद्धसत्त्वानां बहिरङ्गापोहेनान्तरङ्गग्रहायोच्यते । यस्मिञ्जन्मनि ज्ञानसाधनानुष्ठानं तस्मिन्नेव जन्मनि ज्ञानोदयेन मुक्तिरित्यनियमो जन्मान्तरीयसंस्कारस्यापि हेतुत्वादित्यर्थः ।
अध्यायार्थं सङ्क्षिप्य निगमयति -
इत्येतदिति ।
लोकायतिकमतनिरसनमपि समधिकमत्रास्तीत्याशङ्क्याह -
प्रसङ्गेति ।
अध्यायार्थं सङ्क्षिप्य पादार्थं सङ्क्षिपति -
तत्रेति ।
पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निदृष्ट्योपासनं पञ्चाग्निविद्या तामाश्रित्य संसारे पुण्यपापफलगतिप्रकारोऽत्र निरूप्यत इति यावत् । तस्यापि प्रदर्शनमेव न प्रतिपादनमिति मत्वोक्तं प्रदर्श्यत इति ।
पुमर्थसाधनमेवात्र निरूप्यं किमर्थं संसारगतिप्रदर्शनं, तत्राह -
वैराग्येति ।
अनेकायासं कर्मकृत्वापि न स्वातन्त्र्यं क्वापि लभ्यते तेन कृतं कर्मतत्फलाभ्यामित्यर्थः ।
पञ्चाग्निविद्योपास्तिरस्मिन्प्रकरणे विधीयते न वैराग्याय संसारगतिरित्याशङ्क्योपसंहारालोचनया संसारगतिरत्र विवक्षितेत्याह -
तस्मादिति ।
यस्मात्कर्मफलभूतः संसारो गत्यागतिरूपोऽनर्थस्तस्माज्जुगुप्सां घृणां कुर्वीत कर्मफले विद्वानिति पञ्चाग्निविद्योपसंहारे श्रवणादत्र वैराग्याय संसारगतिरभिहिता । यद्यपि विरक्तस्याधिकाराद्वैराग्यं शास्त्रादावधिकारिविशेषणं सिद्धं तथापि तदेव युक्त्या दृढीक्रियत इति भावः ।
आद्यपादतात्पर्यमुक्त्वा तदवयवाद्यधिकरणविषयमाह -
जीवइति ।
देहान्तरप्राप्तौ सहायसत्त्वं दर्शयति -
मुख्येति ।
तत्र प्राधनकारणमाह -
अविद्येति ।
अनाद्यनिर्वाच्या चित्प्रतिबिम्बनिमित्ततया जीवत्वहेतुरविद्या । कर्म शुभाशुभव्यामिश्रूपम् । पूर्वप्रज्ञा जन्मान्तरीयसंस्कारः । ते परिग्रहाः प्रधानभूताः संसरणे यस्य स तथा ।
प्रमितस्य विषयत्वात्किमत्र प्रमाणं, तदाह -
अथेति ।
देहान्तरप्रेप्सानन्तर्यमथशब्दार्थः ।
न केवलं शब्दादेव तदवगतं युक्तितश्चेत्याह -
धर्मेति ।
नियतदेशकालफलभोगान्यथानुपपत्त्यापि देहान्तरसञ्चरणं सिद्धमित्यर्थः ।
देहान्तरसञ्चारिणं जीवं विषयीकृत्य वादिविप्रतिपत्तेः सन्देहमाह -
स किमिति ।
देहशब्दो भाविविषयः । आद्ये निराश्रयप्राणगत्यभावान्न वैराग्यम् । चरमे भूतपरिष्वङ्गे प्राणानां नरकादिगतेर्वैराग्यम् । इत्युभयत्र फलम् ।
अत्र च परिष्वक्तरंहणनिरूपणेन वैराग्यदृढीकरणादधिकारिसिद्धौ तस्य शास्त्रे प्रवृत्तिरिति पादादिसङ्गतिरित्यङ्गीकृत्य पूर्वपक्षमाह -
किमित्यादिना ।
करणैरिव भूतैरपि परिष्वक्तस्यैव रंहणमिति शङ्कते -
कुत इति ।
वैषम्यं दर्शयन्नुत्तरमाह -
करणेति ।
करणोपादाने मानमाह -
स इति ।
तेजोमात्राशब्दस्य करणविषयत्वे हेतुमाह -
वाक्येति ।
स यत्रैष चाक्षुषः पुरुष इत्यादाविति यावत् ।
प्रश्नप्रतिवचनाभ्यामपां गमने गम्यमाने कथं भूतमात्राणामुपादानासंकीर्तनं, तत्राह -
नैवमिति ।
अापः पुरुषवचसो भवन्तीत्यपां पुरुषवचनक्रियायोगमात्रं भाति न पुरुषोपादानत्वम् । नच पञ्चसु स्थानेष्वपां गमनमस्ति श्रद्धादीनामेव होम्यत्वावगमात् । यद्यपि करणानां भौतिकत्वात्तदुपादानश्रुत्यैव भूतोपादानमर्थाक्षिप्तं तथापीन्द्रियोपादानापञ्चीकृतभूतांशान्यभूतविवक्षयेदमश्रुतत्वमिति भावः ।
देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य गमनमित्याशङ्क्याह -
सुलभाश्चेति ।
परिष्वङ्गे मानफलयोरभावे फलितमुपसंहरति -
तस्मादिति ।
पूर्वपक्षमनुभाष्य प्रतिज्ञामवतार्य व्याकरोति -
एवमिति ।
परिष्वङ्गे मानाभावान्नैवमित्युक्तमाशङ्क्य सौत्रं हेतुमादाय व्याचष्टे -
कुत इति ।
पञ्चसु स्थानेष्वापो हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषाकारेण परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य प्रश्नः । तस्य चोत्तराज्ञाने तत्पितरं प्रति निरूपणं राज्ञा कृतम् । असौ वाव लोको गौतमेत्यादिना ।
तदिदं सङ्क्षिप्याह -
द्युपर्जन्येति ।
द्युप्रभृतीनामनग्नीनामग्नित्वं होमाधारत्वसाम्याद्ध्यानार्थं सम्पादितम् । श्रद्धादीनामाहुतित्वं च तत्र तत्र संनिपातमात्रेणोक्तम् । किं च पञ्चमे स्थाने गर्भाकारेणापः परिणमन्तीत्युपक्रमोपसंहारयोरेकवाक्यत्वावगतेः ।
सिद्धान्तेन तत्परिवेष्टितो गच्छतीत्याह -
इति त्विति ।
प्रश्नादीनां फलितं निगमयति -
तस्मादिति ।
अशरीरस्य गतिश्चेदद्भिः सम्परिष्वक्तस्य सा कल्प्येत न तु तस्य गतिः । किन्तु यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवोऽपि देहान्तरं गृहीत्वैव पूर्वं देहं मुञ्चति तेन श्रुत्यन्तरविरोधान्न परिष्वक्तरंहणमिति शङ्कते -
नन्विति ।
प्रश्नप्रत्युक्तिश्रुत्यपेक्षया बृहदारण्यकश्रुतिरन्योक्ता । अप्परिवेष्टितस्य गत्युक्तिश्रुतेर्गत्यन्तराभावाद्दृष्टान्तश्रुतेश्च तद्भावान्न विरोधोऽस्तीत्याह -
तत्रापीति ।
कर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषये भावनाया देवोऽहमित्यादिकाया दीर्घीभावो व्यवहितार्थालम्बनत्वं तावन्मात्रं जलूकयोपमीयत इति योजना । जीवो हि संसरन्देहेन्द्रियाद्युपाधिः स्वयं प्रादेशिकत्वान्न तत्रस्थो देहान्तरं गन्तुमर्हत्यतः सूक्ष्मदेहेनैव परिष्वक्तो रंहतीति भावः ।
साङ्ख्यादयोऽन्यथा देहान्तरप्राप्तिमाहुस्तथैव किं न गृह्येतेत्याशङ्क्य श्रुतिविरोधादित्याह -
एवमिति ।
याः पुरुषमतिप्रभवास्ताः सर्वा एवानादर्तव्या इति सम्बन्धः ।
तत्र साङ्ख्यीयकल्पनामाह -
व्यापिनामिति ।
करणानामाहङ्कारिकत्वात्तस्य व्यापित्वात्तेषामात्मनां च विभुत्वे किमिति शरीरे वृत्तिलाभो नियम्यते, तत्राह -
कर्मेति ।
सौगतानां कल्पनामाह -
केवलस्येति ।
आत्मा खल्वालयज्ञानसन्तानस्तस्य वृत्तयः शब्दादिज्ञानानि तल्लाभः शरीरान्तरे भवति । केवलशब्दस्तु करणसाहित्यमात्मनो वारयति ।
कथं तर्हि देहान्तरे करणानीत्याशङ्क्य पञ्चेन्द्रियाणि चक्षुरादीनि गोलकमात्रत्वान्मनसश्च समनन्तरप्रत्ययमात्रत्वादभिनवानामेव तेषां शरीरान्तरे जन्मेत्याह -
इन्द्रियाणीति ।
वैशेषिककल्पनामाह -
मन इति ।
केवलं करणैरात्मना च रहितमिति यावत् । करणानि नूतनान्येव तत्रारभ्यन्त आत्मा तु विभुत्वादक्रियोऽपि तत्र वृत्तिमात्रमाप्नोति । भोगस्थानं भोगायतनं नूतनशरीरमित्यर्थः ।
दिगम्बरकल्पनामाह -
जीव इति ।
वेदवाह्यकल्पनामुपसंहरति -
इत्येवमाद्या इति ।
लोकायतकल्पनामाद्यग्रहणेन सङ्गृह्णाति । ते हि देहमात्रात्मवादिनो भस्मीभावमेवात्मनो मन्यन्ते न कस्यचिद्गमनम् ।
तासामनादर्तव्यत्वे हेतुं स्फुटयति -
श्रुतीति ॥ १ ॥
भूतसूक्षमपरिवेष्टितस्य गमने प्रश्नप्रतिवचनाभ्यामिति हेतुरुक्तः स विवक्षितार्थसाधको नेत्युत्तरसूत्रव्यावर्त्यां शङ्कामाह -
नन्विति ।
हेतोरसाधकत्वशङ्कां प्रत्याह -
अत इति ।
सूत्राक्षराणि व्याचष्टे -
तुशब्देनेति ।
अपां त्र्यात्मकत्वेऽपि प्रकृते किं जातं, तदाह -
तास्विति ।
एवं तर्हि भूतत्रयारब्धत्वमेव न त्रिवृत्कृततदारभ्यत्वमित्यपरितोषात्पक्षान्तरमाह -
त्र्यात्मकश्चेति ।
पञ्चानां भूतानां कार्यस्य गन्धस्वेदपाकप्राणावकाशदानस्य दर्शनात्कार्यत्रयस्यैवोपलब्धिरसिद्धेत्यपरितोषात्पक्षान्तरमाह -
पुनश्चेति ।
वातपित्तश्लेष्मभिः शरीरधारणात्मकैर्धातुभिस्त्रिधातुत्वात्त्र्यामक इति योजना ।
एवं त्र्यात्मकत्वेऽपि कथं भूतान्तराणामारम्भकत्वं, तत्राह -
नेति ।
वातपित्तयोर्वायुतेजोजन्ययोर्देहे दर्शनादित्यर्थः ।
कथं तर्हि प्रश्नप्रतिवचनयोर्नियमेनापां ग्रहणं, तत्राह -
तस्मादिति ।
भूयस्त्वादितिसूत्रावयवमुपसंहारव्याजेन व्याख्यातं प्रत्यक्षावष्टम्भेनोपपादयति -
सर्वेति ।
द्रवांशस्य भूयस्त्वादपां ग्रहणम् । कठिनांशस्य ततोऽपि बाहुल्यदृष्टेरयुक्तमपां ग्रहणमिति शङ्कते -
नन्विति ।
पञ्चात्मके देहे पार्थिवांशबाहुल्येऽपि भूयस्त्वमपामविरुद्धं भूतान्तरापेक्षया सम्भवादित्याह -
नैष इति ।
किञ्च देहोपादानयो रेतोलोहितयोरपां बाहुल्यात्तेनैव भूतान्तरोपलक्षणं युक्तमित्याह -
दृश्यते चेति ।
देहनिमित्तानां कर्मणामब्बाहुल्याच्च ताभिर्भूतान्तरलक्षणेत्याह -
कर्म चेति ।
सोमादीनामिहैव भस्मीभावान्न तद्गतमब्बाहुल्यं देहान्तरारम्भोपयोगीत्याशङ्क्याह -
कर्मेति ।
आपो हि स्थूलकर्मसाधनतया तत्सम्बन्धिन्यः सूक्ष्मरूपेण पुरुषमाश्रिताः श्रद्धाशब्दाः सह कर्मसंस्कारैर्द्युलोकाग्नौ हुताश्चन्द्रलोके देहमारभन्त इति वक्ष्यमाणत्वादस्ति तासां देहारम्भोपयोग इत्यर्थः ।
निमित्तगतमपि द्रवबाहुल्यं देहारम्भोपयोगीति स्थिते युक्तमद्भिर्भूतान्तरोपलक्षणमित्युपसंहरति -
तस्मादिति ।
अप्शब्देन भूतान्तरोपलक्षणे भूतसूक्ष्मपञ्चकपरिवेष्टितस्य युक्तैव गतिरित्याह -
इतीति ॥ २ ॥
किञ्च भौतिकप्राणगत्यनुपपत्त्या तत्कारणभूतगतिरवश्यम्भाविनी भूतगतिश्चेदिष्टा देहान्तरारम्भकत्वमपि तेषां स्यादित्याह -
प्राणेति ।
सूत्रं विभजते -
प्राणानां चेति ।
तेषां गमनेऽपि कुतो देहबीजानां भूतानां गतिः, तत्राह -
सा चेति ।
स्वतन्त्राणामेव प्राणानां गमनं किं न स्यादित्याशङ्क्याह -
नहीति ।
प्राणा हि जीवतः साश्रया दृष्टास्तेनोत्क्रमणेऽपि तेषां साश्रयत्वमित्यर्थः ॥ ३ ॥
प्राणानां साश्रयत्वेऽपि जीवेन सह गतिरसिद्धेत्याशङ्क्य प्रत्याह -
अग्न्यादीति ।
चोद्यं विवृणोति -
स्यादिति ।
उक्तं हेतुं व्यनक्ति -
तथाहीति ।
परिहारं व्याकरोति -
नेत्यादिना ।
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः ।
तदेव विशदयितुमादौ गतिं प्रसञ्जयति -
ओषधीरिति ।
तत्रापि मुख्यैव गतिः स्यादित्याशङ्क्याह -
नहीति ।
अग्न्यादिगतिश्रुतिनां तमुत्क्रामन्तमित्यादिश्रुतीनां च मिथोविरोधेऽग्न्यादिगतिश्रुतिरौपचारिकी तत्प्रायपाठादित्युक्तम् । इदानीं जीवगतिश्रुत्यनुपपत्त्यापि प्राणगतिदृष्टेरग्न्यादिगतिश्रुतिरौपचारिकीत्याह -
नचेति ।
इतश्च प्राणानां जीवेन सह गतेरावश्यकत्वादग्न्यादिगतिश्रुतिरौपचारिकीत्याह -
नापीति ।
सहगतिश्रुतिरेव कस्मादौपचारिकी न स्यादित्याशङ्क्य निमित्ताभावादित्याह -
बिस्पष्टं चेति ।
अन्यत्र तमुत्क्रामन्तमित्यादावित्यर्थः ।
अग्न्यादिगतिश्रुतेरौपचारिक्तवं निमित्तोक्तिपूर्वकमुपसंहरति -
अत इति ॥ ४ ॥
भूतान्तरोपसृष्टानामपां गमनमुपपाद्य पञ्चम्यामाहुतौ तासां पुरुषाकारत्वमुक्तमाक्षिप्य समाधत्ते -
प्रथम इति ।
चोद्यं विभजते -
स्यादिति ।
श्रवणाभावं दर्शयितुमग्नीन्प्रस्तौति -
इहेति ।
पञ्चाग्निविद्याप्रकरणं सप्तम्यर्थः ।
द्युलोकप्रभतृयो द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चाहुतयः श्रद्धासोमदृष्ट्यन्नरेतोरूपास्तथापि कथं प्रथमेऽग्नावपामश्रवणं, तत्राह -
तेषाञ्चेति ।
प्रथमविशेषणमनर्थकमन्यत्राप्यश्रवणादित्याशङ्क्य कथञ्चिदन्यत्र श्रवणेऽपि प्रकृते तन्नास्तीत्याह -
यदीति ।
तर्हि कल्प्यतामपामेव प्रथमेऽपि होम्यत्वमविशेषादित्याशङ्क्याह -
प्रथमे त्विति ।
तत्रापि श्रद्धाशब्देनापामेवोक्तेर्नाश्रवणमित्याशङ्क्याह -
श्रद्धा चेति ।
श्रुतिलक्षणयोः श्रुतिर्न्याय्येति भावः ।
प्रथमेऽग्नावपामश्रुतिफलमाह -
तस्मादिति ।
सिद्धान्तभागं विभजते -
नेत्यादिना ।
श्रद्धाशब्दस्यार्थान्तरे रूढेर्न तेनापामुक्तिरिति शङ्कित्वा सूत्रावयवं व्याचष्टे -
कुत इत्यादिना । एवं हीति ।
श्रुद्धाशब्देनापां ग्रहे सतीति यावत् ।
सङ्गानं सम्प्रतिपत्तिः । तामेव व्यतिरेकेण स्फोरयति -
इतरथेति ।
यदुक्तमितरथा पुनरिति तदेव स्फुटयति -
पञ्चम्यामिति ।
श्रद्धाशब्दस्याद्भ्योऽर्थान्तरत्वं दूषयति -
तत इति ।
यदि चतुर्ष्वेव स्थानेष्वपां होम्यता तदा चतुर्थ्यामाहुताविति वाच्यं पञ्चम्यामिति विशेषणात्प्रथमस्थानेऽपि तासामेव होम्यता सिद्धेत्यर्थः ।
उपसंहारालोचनायामपि श्रद्धाशब्दत्वमपामेवेत्याह -
इति त्विति ।
उपपत्तेरित्यस्यार्थान्तरमाह -
श्रद्धेति ।
श्रद्धापरिणामस्य सोमादेरब्बहुलत्वेऽपि श्रद्धाशब्दत्वमपामित्यत्र किमायातं तदाह -
सा चेति ।
गोमयवृश्चिकादौ प्रत्यक्षेण विलक्षणत्वदृष्टेर्वृष्ट्यादेः श्रद्धाकार्यस्याब्बहुलत्वेऽपि कारणस्य श्रद्धाया मा भूदप्त्वमित्याशङ्क्याह -
कारणेति ।
क्वचिद्वैलक्षण्यस्य प्रवृत्तत्वादिष्टत्वेऽपि श्रद्धापरिणामस्य सोमादेरब्बहुलत्वोपलब्धेः श्रद्धायास्तथात्वं कल्प्यते । वैलक्षण्यग्राहिण्यसति माने कल्पनाया दृष्टानुसारित्वादित्यर्थः ।
यत्तु प्रसिद्ध्या प्रत्ययविशेषः श्रद्धेति, तत्राह -
नचेति ।
जुहोतिश्रुतिसामर्थ्यान्मुख्यार्थत्यागे संनिहितवाक्यानुसारेण लक्षणेत्याह -
इत्याप इति ।
नच धर्मिणा सहैव होमस्तत्रापि लक्षणाध्रौव्ये संनिहितवाक्यानुसारिण्यास्तस्या न्याय्यत्वादिति भावः ।
उपपत्तेरिति भागं विधान्तरेण व्याचष्टे -
श्रद्धेति ।
वृद्धप्रयोगाभावे कथं वैदिकोऽपि प्रयोगः स्यादित्याशङ्क्य तस्यौपचारिकत्वमाह -
तनुत्वमिति ।
सूक्ष्मत्वगुणादप्सु श्रद्धाशब्दस्य गौणत्वे दृष्टान्तमाह -
यथेति ।
श्रद्धाशब्दस्याप्सु गौणत्वमुक्त्वा लाक्षणिकत्वमाह -
श्रद्धेति ।
यत्कर्म श्रद्धापूर्वकं तदुपायत्वेनापां तद्योगात्परम्परया श्रद्धायोगिनीष्वप्सु तच्छब्द इत्यर्थः ।
लक्षणानिमित्तं सम्बन्धान्तरमाह -
श्रद्धेति ।
अपां श्रद्धाहेतुत्वे मानमाह -
आपो हेति ।
अस्मै पुंसेऽधिकारिणे संनमन्ते जनयन्ति दर्शनमात्रेण स्नानादिपुण्यकर्मसिद्ध्यर्थं श्रद्धामित्यर्थः ॥ ५ ॥
अपामेव प्रथमस्थानेऽपि होम्यत्वज्ञानात्पञ्चम्यामाहुतौ तासां पुरुषाकारपरिणामः स्यादित्युक्तम् । इदानीमाद्ये सूत्रे यदद्भिः । परिवेष्टितो जीवो गच्छतीति प्रतिज्ञातं तदसत्त्वमाशङ्क्य परिहरति -
अश्रुतत्वादिति ।
तत्र चोद्यं विशदयति -
अथापीति ।
भूतान्तरोपसृष्टानामपां पुरुषाकारपरिणामेऽपीति यावत् ।
उक्तेऽर्थेऽङ्गीकृते नास्ति विमतिरित्याशङ्क्याह -
न त्विति ।
हेत्वर्थं विवृणोति -
नहीति ।
अत्रेति प्रकरणोक्तिः ।
अश्रुतत्वफलमाह -
तस्मादिति ।
समाधिं विभजते -
नेत्यादिना ।
कर्मफलोक्तिप्रारम्भार्थोऽथशब्दः ।
इष्टादिकारिणां प्रदेशान्तरगमनप्रतीतावपि प्रकृते किमायातं, तदाह -
त इति ।
पञ्चाग्निविद्यावाक्यमिहेत्युक्तम् । तत्र हेतुमाह -
तस्मिन्निति ।
धूमादिवाक्ये पञ्चाग्निवाक्ये च सोमराजत्वप्राप्तिश्रवणविशेषादिष्टादिकारिणः श्रद्धाशब्दिताद्भिर्वेष्टिता द्युलोकं यान्तीति भातीत्यर्थः ।
ननु महदिह श्रुत्योर्वैलक्षण्यं श्रद्धाशब्दितानामपां क्वचिद्द्युलोेके होमः श्रुतः क्वचिदिष्टादिकारिणां धूमादिक्रमेणाकाशप्राप्तिर्न च तेषामापः सन्ति येन तद्वेष्टितानां गतिः, तत्राह -
तेषां चेति ।
आपो यथोक्ताः सन्तु हुतानां तासां कथमिष्टादिकारिभिर्योगः, तत्राह -
ता इति ।
दध्यादीनामपामाहवनीये हुतानामिहैव भस्मीभूतानां न जीवसङ्गतिरित्याशङ्क्य विशिनष्टि -
सूक्ष्मा इति ।
तदेव साधयति -
आहुत्य इति ।
तथापि कथं सहगमनं, तदाह -
तेषां चेति ।
नैधनं विधानमन्त्येष्टिविधानम् ।
होममन्त्रमुदाहरति -
असाविति ।
अमुकनामा यजमानः स्वर्गार्थं गच्छतु । स्वाहाकारो मन्त्रान्तज्ञापनार्थः ।
तथापि कथं परिवेष्टितानामिष्टादिकारिणां गतिः, तत्राह -
तत इति ।
प्रत्यक्षसिद्धदध्यादिवैशेष्यार्थमाहुतिमय्य इत्युक्तम् । क्रियातो विशिनष्टि -
अपूर्वेति ।
तत्र श्रुतिमवतारयति -
यदिति ।
तदेवं श्रुतिसामान्यं प्रतिपाद्याहुतिरुपाणामपां गमने सिद्धे श्रुत्यन्तरमपि मानमित्याह -
तथाचेति ।
अग्निहोत्रप्रकरणे ‘न त्वेवैनयोस्त्वमुत्क्रान्तिं न गति न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ’ इति जनकेन ये षट् पदार्था याज्ञवल्क्यं प्रयुक्तास्ते षट् प्रश्ना निर्दिश्यन्ते । तेषां निर्वचनरूपो वाक्यशेषः - ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षं तर्पयित्वा दिवं पृथिवीं पुरुषं योषितं वाविश्य पुरुषरूपेणोत्तिष्ठते’ इत्येवंरूपः । तेनाग्निहोत्रे सायं प्रातश्च क्रियमाणाहुत्योरपूर्वरूपयोरनुष्ठातृगामिफलसिद्धये तेन सह द्युलोकप्राप्तिरुक्ता । तथाच वाचसनेयकश्रुतिपर्यालोचनायामपि जीवानामप्परिवेष्टितानां गतिसिद्धिरित्यर्थः ।
श्रुत्यन्तरालोचनातः सिद्धमुपसंहरति -
तस्मादिति ॥ ६ ॥
उत्तरसूत्रव्यावर्त्यमाह -
कथमिति ।
का पुनरस्यां प्रतिज्ञायामनुपपत्तिः, तत्राह -
यावतेति ।
नन्वेषशब्देन चन्द्रमा गृह्यते नेष्टादिकारिणस्ततस्तेऽपि सोमं राजानं देवत्वादितरदेववद्भक्षयन्तीत्याशङ्क्य श्रुत्यन्तरे तेषामेव भक्ष्यत्वसिद्धेर्नैवमित्याह -
ते चन्द्रमिति ।
यथा यज्ञे सोमं राजानं चमसस्थमृत्विजः पुनः पुनराप्याययन्त्यपक्षयन्ति चेति दृष्टम् । तथा तानिष्टादिकारिणश्चन्द्रमसि प्राप्तान्देवा भक्षयन्तीत्यर्थः ।
दार्ष्टान्तिकं विवृणोति -
एवमिति ।
देवैरिष्टादिकारिणां भक्ष्यत्वेऽपि तेषामुपभोगाय गमनं किं न स्यादित्याशङ्क्याह -
न चेति ।
उत्तरत्वेन सूत्रमवतारयति -
अत इति ।
इष्टादिकारिणामद्यत्वे मुख्ये भोगाभावो न तु तदस्तीति प्रतिजानीते -
वाशब्द इति ।
तेषां तर्हि श्रूयमाणमन्नत्वं कथमित्याशङ्क्य सिद्धान्तप्रतिज्ञामाह -
भाक्तमिति ।
अन्नशब्दश्रुत्या मुख्येऽन्नत्वे किमिति भाक्तं तदुक्तमित्याशङ्क्यानन्यथासिद्धश्रुत्यर्थापत्तिविरोधादौपचारिकी श्रुतिरित्याह -
मुख्ये हीति ।
अधिक्रियतेऽनेनेत्यधिकारो विधिपुरुषसंबन्धनिमित्तं कामादि तदुक्ता श्रुतिरधिकारश्रुतिस्तस्या वैयर्थ्यपरिहारार्थमिष्टादिकारिणामन्नत्वं भाक्तमेवेत्यर्थः ।
उक्तमेव व्यनक्ति -
चन्द्रेति ।
न केवलं मुख्यार्थबाधादन्नशब्दस्यामुख्यार्थत्वमन्यत्र प्रयोगादपीत्याह -
अन्नेति ।
अन्नत्वस्यामुख्यत्वे कथं भक्षयन्तीत्युक्तं, तत्राह -
तस्मादिति ।
न केवलमिष्टादिकारिणामन्नत्वस्यामुख्यत्वादमुख्यमेषां भक्षणं किं तु श्रुत्यन्तरादपीत्याह -
न ह वा इति ।
तथापि पारतन्त्र्यान्नेष्टादिकारिणां भोगसिद्धिरिति कुतो भोगाय गमनं, तत्राह -
तेषां चेति ।
केन दोषेण तेषां देवभोग्यतेत्याशङ्क्य सूत्रावयवं व्याचष्टे -
अनात्मेति ।
अत्र मानं दर्शयन्नवशिष्टं सूत्रांशं योजयति -
तथाहीति ।
अविद्याधिकारारम्भार्थोऽथशब्दः ।
उपास्तिमेव भेददृष्टिं स्पष्टयति -
अन्योऽसाविति ।
भेददृष्टिनिदानमाह -
न स इति ।
तस्य दृष्टान्तं देवोपभोग्यत्वमाह -
यथेति ।
उक्तश्रुतेस्तात्पर्थमाह -
स चेति ।
अनात्मश्रुतेर्मुख्यार्थत्वानुरोधेन सूत्रांशस्यार्थमुक्त्वा प्रकरणानुरोधेनार्थान्तरमाह -
अनात्मेति ।
पञ्चाग्निविद्याविहीनत्वं तेषामनात्मवित्त्वम् ।
तद्वत्त्वेनात्मवित्त्वं चेत्तद्राहित्येनानात्मवित्त्वं तदेव कथमित्याशङ्क्याह -
पञ्चाग्नीति ।
इष्टादिकारिणां पञ्चाग्निविद्याशून्यत्वेऽपि कथं देवान्प्रत्यन्नत्वं, तत्राह -
पञ्चेति ।
गुणवादेन देवोपभोग्यत्वेनेति यावत् ।
किमर्था प्रशंसेत्याशङ्क्याह -
पञ्चाग्नीति ।
तस्यापि विधित्सितत्वे हेतुमाह -
वाक्येति ।
गौतमप्रवाहणसंवादरूपवाक्यस्य पूर्वापरालोचनया पञ्चाग्निविद्याविधौ तात्पर्यावगतेरिति यावत् ।
अनात्मवित्त्वादिति व्याख्याय तथाहीत्यादि व्याख्याति -
तथाहीति ।
इष्टादिकारी सर्वनामार्थः ।
पूर्वोक्तवाक्येन तुल्यार्थत्वबुद्ध्या तथेत्युक्तम् । पञ्चाग्निविद्याधिकारादन्यत्र प्रवृत्तत्वमाह -
अन्यदिति ।
अत एव श्रुत्यन्तरमित्युक्तम् । पर्यायान्तरोपक्रमार्थोऽथशब्दः । जितो लोकः पूर्वसिद्धो लोको भोग्यो येषां तेषामाजानसिद्धानामिति यावत् ।
कर्मदेवत्वं व्युत्पादयति -
य इति ।
श्रुत्यन्तरस्य तात्पर्यमाह -
इष्टादीति ।
तेषामन्नत्वस्य भाक्तत्वे फलितमाह -
एवमिति ।
अत्रेति प्रश्नप्रतिवचनोक्तिः ।
इष्टादिकारिणां भोगाय चन्द्रं प्रति गमने सम्भाविते तेषामेव प्रश्नप्रतिवचनयोरपि प्रतीतेर्युक्तं प्रथमसूत्रोक्तमित्युपसंहरति -
तस्मादिति ॥ ७ ॥
कर्मसमवायिनीनामपां पञ्चमाहुतौ पुम्परिणामहेतुमाश्रित्याद्भिः परिवेष्टितजीवगतिरुक्ता, सम्प्रति स्वर्गादवरोहतां कर्मैव नास्ति कुतस्तत्समवायिन्य आपः कुतस्तरां पुम्परिणाम इत्याशङ्क्याह -
कृतेति ।
येषां पूर्वत्र चन्द्रमण्डलारोहणमुक्तं त एव प्रत्यवरोहन्तो विषय इति वक्तुं प्रत्यवरोहवाक्यमुदाहरति -
इष्टादीति ।
ततश्चन्द्रमण्डलादिति यावत् । तस्मिन्नित्यपि तदेवोक्तम् । भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः । यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावदाम्नायत इति योजना ।
यावत्सम्पातमिति विशेषणाद्रमणीयचरणा रमणीयां योनिमित्यादिवाक्याच्च संशयमाह -
तत्रेति ।
प्रकृतेषु प्रत्यवरोहत्सु जीवेष्विति यावत् ।
निरनुशयशब्दार्थमेव स्पष्टयति -
भुक्तेति ।
अत्रापि प्रत्यवरोहतां सानुशयत्वसमर्थनद्वारा वैराग्याय संसारगतिरेव निरूप्यत इति पूर्ववत्पादादिसङ्गतिमभिप्रेत्य पूर्वपक्षमाकाङ्क्षापूर्वकं गृह्णाति -
किं तावदिति ।
पूर्वपक्षे गतिरेव कर्मकृता तदभावकृता त्वागतिः सिद्धान्ते कर्मकृतत्वाविशेषो द्वयोरिति फलभेदः ।
तत्र प्रश्नपूर्वकं लिङ्गं हेतूकरोति -
कुत इति ।
यावत्पतनमुषित्वेत्येतावदत्र भाति न तु कर्मणः सर्वस्य भुक्तत्वमित्याशङ्क्याह -
सम्पातेति ।
यावत्पतनं तावदपतनमिति वचनमनर्थकमिति मत्वा वाक्यार्थमाह -
यावदिति ।
चन्द्रमण्डले सर्वकर्मोपभोगे श्रुत्यन्तरसंमतिमाह -
तेषामिति ।
इष्टादिकारिणां यदा तद्भोक्तव्यं कर्म पर्यवैति परिगच्छति परिक्षीणं भवति तदा तत आवर्तन्त इत्युत्तरेणान्वयः ।
यावच्छब्दोपबन्धस्य गत्यन्तरं शङ्कते -
स्यादिति ।
श्रुत्यन्तरविरोधेन प्रत्याह -
नैवमिति ।
तदेव प्रपञ्चयति -
प्राप्येति ।
अयं संसारी यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्माल्लोकात्पुनरस्मै लोकाय कर्मानुष्ठानार्थमागच्छति । पुनःशब्दात्पूर्वमप्यागत इति गम्यते संसारस्यानादित्वादित्यर्थः ।
परामर्शश्रुतेस्तात्पर्यमाह -
इति हीति ।
न चोपसंहारे ब्राह्मण्यादिहेतुकर्मावगमादुपक्रमस्यापि सङ्कोचस्तदनुसारेणोपसंहारस्य नेतव्यत्वात् । उपक्रमे च यावत्सम्पातमिति श्रवणात्तस्य च प्रथमश्रुतस्य बलीयस्त्वाद्ब्राह्मण्यादिप्रापकचरणस्य चाचारतया कर्मणोऽर्थान्तरत्वात् ‘यथाकारी यथाचारी’ इत्यादिषु भेदेन तयोरुक्तत्वान्न कर्मणा ब्राह्मणादियोन्यापत्तिरिति भावः ।
न केवलं श्रुत्यैवैतद्गम्यते किन्तु युक्त्यापीत्याह -
अपिचेति ।
विमतं स्वसंनिहिताविशेषाभिव्यञ्जकमभिव्यञ्जकत्वात्प्रादीपवत् । अभिव्यक्तिश्च कर्मणां फलदानायोन्मुखत्वम् ।
तत्र किञ्चिद्भुज्यते किञ्चिन्नेत्यशक्यं वक्तुमित्याशयवानाह -
प्रायणमिति ।
मरणस्यानारब्धसर्वकर्माभिव्यञ्जकत्वे हेतुमाह -
प्रागिति ।
अस्तु तर्हि प्रायणं प्रबलस्य कर्मणो व्यञ्जकं तत्राह -
तच्चेति ।
तदुपपादयति -
नहीति ।
उक्तमर्थं दृष्टान्तेन साधयति -
नहीति ।
श्रुतियुक्तिभ्यां सर्वस्य कर्मणश्चन्द्रलोेके भुक्तफलत्वेन क्षयितत्वे फलितमाह -
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
प्रतिज्ञां विभजते -
येनेति ।
हेतुमाकाङ्क्षाद्वाराऽवतार्य व्याकरोति -
केनेति ।
तत् तत्र तेषां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति यत्तदभ्याशो ह क्षिप्रमेवाप्रतिबन्धेनेत्यर्थः ।
रमणीयां योनिं विशिनष्टि -
ब्राह्मणेति ।
प्रत्यवरोहतां शुभकर्मवतां शुभयोनिप्राप्तिमुक्त्वा तेषामेवाशुभकर्मवतामशुभयोनिप्राप्तिमाह -
अथेति ।
कपूयचरणा निन्दितकर्माणः । शेषं पूर्ववत् ।
ननु चरणादाचाराद्योन्यापत्तिरत्रोच्यते नानुशयादन्यच्चरणमन्योऽनुशयस्तत्राह -
चरणेति ।
अनुशेते भोक्तारमनुगच्छतीत्यनुशयः कर्मसमूहः स चरणशब्दार्थो भविष्यतीत्यर्थः ।
दृष्टशब्देन प्रत्यक्षश्रुतिरुक्ता । व्याख्यानान्तरमाह -
दृष्टश्चेति ।
सर्वप्राणिषु जन्मारभ्य दृष्टोऽयमुत्कृष्टापकृष्टात्मा भोगोऽदृष्टनिमित्तः, भोगत्वात्स्वर्गादिभोगवदित्यर्थः । कथमाकस्मिकत्वासम्भवः, तत्राह -
अभ्युदयेति ।
‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ इति सुखदुःखयोः सुकृतदुष्कृतकार्यत्वस्य सिद्धत्वाद्यो भोगः स कर्मनिमित्त इति व्याप्तेरनुशयसिद्धिरित्यर्थः ।
दृष्टं व्याख्याय स्मृतिं व्याचष्टे -
स्मृतिरपीति ।
प्रेत्य प्रायणं कृत्वा चन्द्रलोकमधिरुह्येत्यर्थः । ततः शेषेण भुक्तादन्येन कर्मणा जन्म प्रतिपद्यन्त इति सम्बन्धः । श्रुतं ज्ञानम् । वृत्तमाचारः । देशश्च जातिश्च कुलं च रूपं चायुश्च श्रुतं च वृत्तं च वित्तं च सुखं च मेधा च ते विशिष्टा येषु ते तथोक्ताः ।
अनुशयशब्दस्यार्थान्तरे रूढेर्निर्धारणार्थं पृच्छति -
कः पुनरिति ।
एकदेशिमतमाह -
केचिदिति ।
तत्पक्षे किमिष्टादिकर्मस्वशेषतो भुक्तफलेष्वननुभुक्तकर्मान्तरवशादावृत्तिः, अथवा तेषामेववशेषादिति संशये भुक्तत्वादिष्टादीनामभुक्तकर्मान्तरादावृत्तिरिति प्राप्ते कृतात्ययेऽनुशयवानिति व्याचष्टे -
स्वर्गेति ।
यदिष्टादि स्वर्गार्थं कृतं तस्य भुक्तस्यात्यये कश्चिदवशेषोऽनुशयस्तद्वानवरोहतीत्यर्थः ।
दृष्टेतिपदस्यार्थमाह -
भाण्डेति ।
तदेव प्रपञ्चयति -
यथेति ।
भाण्डानुसारिणः स्नेहस्याविरोधाद्युक्तः शेषः ।
कर्म तु फलोदयविरोधित्वात्फलं चेज्जातं नष्टमेवेति न तस्य शेषसिद्धिरिति शङ्कते -
नन्विति ।
कृत्स्नस्य कर्मणो यदि फलं जातं तदा नावशेषसिद्धिर्न तु तदस्तीत्याह -
नायमिति ।
येन कर्मणा चन्द्रमसमारूढास्तत्कर्म सर्वं तत्र न भुक्तमित्ययुक्तमिति शङ्कते -
नन्विति ।
भोगार्थं चन्द्रारोहणमङ्गीकृत्य विरोधं समाधत्ते -
बाढमिति ।
अत्रापि दृष्टेति व्याचष्टे -
यथेति ।
अत्र च स्मृतिशब्देन लौकिकी स्मृतिर्यथोक्तदृष्टमूला वा ‘ततः शेषेण’ इत्याद्या गृहीता । तदेतदेकदेशिमतं दूषयति -
नचेति ।
इवकारो मधुरोक्त्या प्रयुक्तो वस्तुतस्त्वेवकारो विवक्षितः ।
अयुक्तत्वे हेतुमाह -
नहीति ।
स्वर्गार्थेन कर्मणा स्वर्गश्चेदारब्धो न तस्य शेषस्तेन स्वर्गो नारभ्यते चेन्न तस्यार्थवत्तेति भावः ।
स्वर्गस्यारब्धत्वेऽपि कृत्स्नस्यानारम्भान्नोक्तदूषणमिति शङ्कते -
नन्विति ।
स्वर्गार्थं चोदितस्य कर्मणः स्वर्गार्थत्वयोगान्मैवमित्याह -
तदेतदिति ।
परोक्तं दृष्टान्तं विघटयति -
स्नेहेति ।
तथादृष्टत्वादुपपन्नेति यावत् ।
दार्ष्टान्तिकेऽपि तथैव लेशानुवृत्तिरित्याशङ्क्य दृष्टा कल्पिता वा सेति विकल्प्याद्यं प्रत्याह -
नत्विति ।
इहेति शास्त्रीयव्यवहारभूमिरुक्ता ।
द्वितीयं निराह -
नापीति ।
शब्दैकगम्यत्वान्नायमर्थः सामान्यतो दृष्टगम्य इत्यर्थः ।
किञ्च स्वर्गहेतुकर्मशेषादनुशयादवरोहे कपूययोन्यापत्तिशास्त्रविरोधः स्यादित्याह -
अवश्यं चेति ।
तदेव स्फुटयति -
यदीत्यादिना ।
परमतायोगे स्वमतमुपसंहरति -
तस्मादिति ।
प्रथमं पूर्वपक्षबीजमनुभाषते -
यदिति ।
यद्यपि यत्किञ्चयावत्सम्पातशब्दौ चन्द्रमस्येव सर्वस्य कर्मणो भुक्तत्वप्रापकत्वेनानुशयाभावे लिङ्गभूतौ तथापि रमणीयचरणाः कपूयचरणा इति शब्दयोर्विशिष्टजात्यारम्भकैहिककर्मसद्भावावेदकत्वादशेषभोगविषयसामान्यलिङ्गस्यैहिककर्मसत्त्वविषयविशेषलिङ्गेनामुष्मिकविषयतया सङ्कोचः स्यादिति मत्वाह -
नैतदिति ।
फलभोगेन चन्द्रलोके स्थित्वेति शेषः । क्षपयित्वा तस्माल्लोकात्पुनरस्मै लोकायागच्छतीति प्राप्यान्तमित्यादिवाक्येन गम्यत इति योजना ।
द्वितीयं पूर्वपक्षबीजमनुवदति -
यदपीति ।
मरणस्याविशेषेणाशेषानारब्धकर्मव्यञ्जकत्वे विभागायोगं फलितमाह -
तत्रेति ।
रमणीयचरणा इत्याद्यनुशयवादिश्रुतिविरोधादभिव्यञ्जकमपि प्रायणं न सर्वकर्मव्यञ्जकमनुमातुं शक्यमित्याह -
तदपीति ।
व्यञ्जकत्वं प्रायणस्यापीत्युक्तं, तदपि नास्तीत्याह -
अपिचेति ।
नहि तस्य सर्वकर्मव्यञ्जकत्वे कारणं किञ्चिदिति भावः ।
पूर्ववादी पृष्टं मत्वा हेतुमाह -
आरब्धेति ।
नानाविधसुखदुःखफलकर्मणामपर्यायेण प्रायणेऽभिव्यक्तिश्चेत्फलाभिमुख्यलक्षणत्वाद््व्यक्तेर्युगपत्तत्तत्फलभोगप्रसङ्गात्तस्य चादृष्टेस्तत्तत्प्रबलकर्मप्रतिबन्धध्वंसमपेक्ष्य क्रमेणैव तत्तत्कर्मव्यक्तिरिति परिहरति -
यथेति ।
युगपत्फलारम्भासम्भवादित्यसिद्धम् ।
सर्वस्यापि कर्मणोऽनारब्धफलत्वाविशेषादेकजात्यारम्भकत्वसम्भवादित्याशङ्क्य विरुद्धजातिनिमित्तभोगफलस्य कर्मणः शास्त्रयुक्तिविरुद्धमेकजात्यारम्भकत्वमित्याह -
नहीति ।
प्रायणावस्थायामुपस्थिते विरुद्धे कर्मणि प्रबलेन दुर्वलस्योच्छेदः स्यादित्याशङ्क्याह -
नापीति ।
कृतं कर्मावश्यकफलकमिति नास्त्येकान्तः ।
प्रायश्चित्तेन ब्रह्मज्ञानेन च तत्क्षयश्नुतेरित्याशङ्क्या प्रकृते तदभावान्नोच्छेदोऽस्तीत्याह -
नहीति ।
प्रायश्चित्तेन वा ब्रह्मज्ञानेन वा भोगेन वा विना कर्मणां विच्छेदो नेत्यत्र मानमाह-
स्मृतीति
इतोऽपि प्रायणाभिव्यक्तं सर्वमेव कर्म एकजात्यारम्भकमित्ययुक्तमित्याह -
यदि चेति
पूर्वस्य कर्मणः सर्वस्याप्येकजात्यारम्भकस्य भोगेन क्षयान्मनुष्याधिकारित्वाच्च शास्त्रस्य स्वर्गादियोनिषु कर्मासिद्धेर्न तन्निमित्तः संसारः स्यात् । नच ज्ञानाभावान्मुक्तिरिति दुर्घटतेत्यर्थः ।
‘श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति । ‘इत्यादिस्मृतिविरोधोऽपि कर्माशयस्यैकभविकत्वे स्यादित्याह -
ब्रह्मेति ।
एकस्यापि कर्मणोऽनेकजात्यारम्भकत्वस्मरणादनेकेषामेकजात्यारम्भकत्वं दूरनिरस्तमित्युक्तं तदयुक्तम् । एकं हि कर्मैकफलं दृष्टं नच सामान्यतोदृष्टविरुद्धं वचनं मानमित्याशङ्क्याह -
नचेति ।
किञ्च प्रायणं सर्वस्य वा कर्मणो व्यञ्जकं कस्यचिदेव वा । नाद्य इत्याह -
नचेति ।
कारीर्यादेरिहैवानुष्ठितस्यात्रैव भुज्यमानत्वान्न प्रायणेन व्यङ्ग्यतेत्यर्थः ।
द्वितीयं निरस्यन्परोक्तं दृष्टान्तं प्रत्याह -
प्रदीपेति ।
यश्च प्रदीपदृष्टान्तः सोऽपि प्रायणस्य सति व्यञ्जकत्वेऽनुकूलः स्यात् । यदा तु न तद्व्यञ्जकं किं तु बलवता प्रतिबद्धं दुर्बलं दुष्टमिति दर्शितं तदा तेनैव सोऽपि निरस्त इत्यर्थः ।
भवतु वा प्रायणस्य क्वचित्कर्मणि व्यञ्जकत्वं तदापि प्रदीपोऽनुकूलो भवतीत्याह -
स्थूलेति ।
उक्तमेव व्यनक्ति -
यथेत्यादिना ।
इति सर्वकर्मव्यञ्जकत्वासिद्धिः । कतिपयव्यञ्जकत्वमिष्टमेवेति शेषः ।
ऐकभविकः कर्माशय इति मतनिरासं निगमयति -
तस्मादिति ।
श्रुतिश्चरणश्रुतिः । स्मृतिश्च श्वसूकरेत्याद्या । न्यायस्तु केन हेतुनेत्यादावुक्तः ।
यदि सर्वं कर्मैकस्मिन्मुमुक्षुदेहे न भुज्यते तदावशिष्टकर्मानन्त्यान्न कदाचिन्मुक्तिरतो मुक्त्यनुपपत्त्या प्रायणव्यक्तं सर्वं कर्मैकदेहारम्भकमित्याशङ्क्याह -
शेषेति ।
सूत्रवयव्याख्यानमुपसंहरति -
तस्मादिति ।
अवशिष्टं व्याचष्टे -
ते चेति ।
विरुद्धमेतदित्याशङ्क्याह -
धूमेति ।
यथेतंशब्दाच्चेति ।
यथेतमेवाध्वानं पुनर्निवर्तन्ते यथेतमिति श्रुतेश्चेत्यर्थः ।
विपर्ययरप्रतीतिप्रापकमाह -
रात्र्यादीति ॥ ८ ॥
पूर्वोदाहृतां श्रुतिमाक्षेपसमाधिभ्यां विवृणोति -
चरणादिति ।
चोद्यं व्याकरोति -
अथापीति ।
श्रुत्यानुशयसत्त्वे दर्शितेऽपीति यावत् ।
चरणाद्या योन्यापत्तिः सानुशयादेव तयोरैक्यादित्याशङ्क्याह -
अन्यदिति ।
तदेवान्यत्वं स्फुटयितुं चरणानुशयशब्दार्थमनुवदति -
चरणमिति ।
तत्र श्रुतिमनुकूलयति -
श्रुतिश्चेति ।
तयोर्भेदे फलितमाह -
तस्मादिति ।
परिहारं व्याचष्टे -
नेत्यादिना ।
‘अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद्बिदुर्बुधाः’ इति स्मृतस्य शीलस्यापि कर्माङ्गत्वाच्चरणशब्देन शीलवाचिना कर्मानुशयो लक्ष्यत इति भावः ॥ ९ ॥
कार्ष्णाजिनिवाक्यस्य पौरुषेत्यत्वान्मूले वक्तव्ये मुख्यत्यागेन लक्षणाहेत्वभावाच्चरणशब्दितस्य शीलस्यैवानर्थक्यपरिहारार्थं योन्यापत्तिहेतुतेत्याशङ्क्य परिहरति -
आनर्थक्यमिति ।
शङ्कां विभजते -
स्यादिति ।
सम्भवति मुख्येऽर्थे लक्षणा न ग्राह्येत्यर्थः ।
कर्मणैव योन्यापत्तिसम्भवाच्चरणशब्देन तल्लक्षणेत्याशङ्क्य शास्त्रप्रामाण्यात्कर्मवच्चरणस्यापि योग्यापत्तिहेतुता स्यादिति पूर्ववाद्येवाह -
नन्विति ।
किञ्च कर्मलक्षणायां तस्यैव फलं श्रुतमिति शीलस्य तत्कल्प्येत तस्यापि विहितस्याफलत्वायोगात्तेन चरणस्यैव यथाश्रुतं फलमुपेतव्यमित्याह -
अवश्यं चेति ।
तदनुपगमे दोषमाह -
अन्यथेति ।
आचारस्य कर्माङ्गत्वादङ्गाङ्गिनोश्चैकाधिकारत्वान्न पृथक्फलकल्पनेत्याह -
नेत्यादिना ।
उक्तमर्थं प्रश्नपूर्वकं सौत्रं हेतुमादाय विशदयति -
कुत इति ।
कथमिष्टादिकर्मसमुदायस्य चरणापेक्षत्वं, तत्राह -
नहीति ।
सदाचारयुक्तस्य कर्माधिकारे मानमाह -
आचारेति ।
वेदशब्देन वेदार्थोपलक्षणादाचारस्तच्छेषो न स्वतन्त्रफल इत्युक्तम् । इदानीं स्नानादिवत्पुरुषसंस्कारतया भिन्नफलत्वेऽपि न विरोधोऽस्तीत्याह -
पुरुषेति ।
कथं तर्हि पृथक्फलत्वं, तत्राह -
इष्टादौ हीति ।
अङ्गावबद्धोपास्तिवदित्यर्थः ।
आचारस्यैव योन्यापत्तिहेतुत्वेऽपि किमित्यनुशयस्य तत्कल्पनेत्याशङ्क्य कर्मणस्तद्धेतुत्वप्रसिद्धेरित्याह -
कर्म चेति ।
एकदेशिमतमुपसंहरति -
तस्मादिति ।
तदेव प्रपञ्चयति -
नहीति ।
अयुक्तत्वं दृष्टान्तेन स्पष्टयति -
नहीति ।
इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ॥ १० ॥
साक्षात्सिद्धान्तमाह -
सुकृतेति ।
तदेव विवृणोति -
बादरिस्त्विति ।
कथं चरणशब्देन मुख्यवृत्त्या कर्मोच्यते, तत्राह -
चरणमिति ।
वृद्धप्रयोगाभावे कथं तस्य कर्मविषयत्वं, तत्राह -
तथाहीति ।
कर्मणः सर्वार्थकारित्वप्रसिद्धेराचारस्यातथात्वाद्भिन्नतेत्याशङ्क्य पूर्वोक्तस्मृतेरक्रोधादेः साधारणधर्मस्य शीलत्वसिद्धेर्मैवमित्याह -
आचारोऽपीति ।
कथं तर्हि श्रौतो भेदवादः, तत्राह -
भेदव्यपदेशस्त्विति ।
लक्षणायां निमित्ताभावाच्चरणशब्दोऽनुशये मुख्य इति बादरिमतमुपसंहरति -
तस्मादिति ॥ ११ ॥
इष्टादिकारिणामनुशयवतामागतिरुक्ता । संप्रत्यनिष्टादिकारिणामपि चन्द्रस्थलस्खलितानामनुशयवतामागतिमभिप्रेत्य चोदयति -
अनिष्टादीति ।
प्रथमाधिकरणेनास्य सङ्गतिमाह -
इष्टादीति ।
व्यावहितमनूद्यानिष्टादिकारिणो विषयीकृत्य ये वै के चेत्यविशेषश्रुतेर्वैवस्वतं सङ्गमनं जनानामिति श्रुतेश्च संशयं दर्शयति -
ये त्विति ।
अत्र चानिष्टादिकारिणां शुभमार्गेण गमनमात्रमपि नेत्युक्त्या वैराग्ये दृढीकृते पूर्ववदेव पादादिसङ्गतयः ।
पूर्वपक्षे शुभाशुभकारिणामविशेषेण चन्द्रगतेस्तत्र शुभकरणमकिञ्चित्करमिति फलति, सिद्धान्ते त्वशुभकारिणां गत्यन्तरध्रौव्याच्चन्द्रगतौ प्रयोजकमिष्टाद्येवेति मत्वा पूर्वपक्षसूत्रं योजयति -
तत्रेति ।
तेषामिष्टादिकं कर्म चन्द्रलोकप्रापकमस्तीत्यतो नियमनिषेधो न युक्तिमानिति शङ्कते -
कस्मादिति ।
श्रुत्या परिहरति -
यत इति ।
तामेवोदाहरति -
यथाहीति ।
श्रुतेश्चन्द्रलोकगमनमुपपाद्य चकारसूचितयुक्तितोऽपि तदुपपादयति -
देहेति ।
देवयानपितृयाणातिरेकेण गमनागमनमार्गाश्रवणादथैतयोः पथोर्न कतरेणचनेत्यारभ्य जायस्व म्रियस्वेत्येतत्तृतीयं स्थानमिति स्थानमात्रत्वश्रुत्या पथित्वेनाप्रतीतेश्चन्द्रमण्डलं प्राप्यावतीर्णानामपि तद्योगान्न केषाञ्चिदेव गतिरिति मत्वोपसंहरति -
तस्मादिति ।
सर्वेषां तुल्यगतित्वे तत्प्राप्तिहेत्वनुष्ठानवैयर्थ्यमिति शङ्कते -
इष्टादीति ।
तत्र भोगाभावेऽपि मार्गान्तरशून्यतया ग्रामं गच्छन्वृक्षमूलान्युपसर्पतीतिवदुपपन्ना गतिरित्याह -
नेतरेषामिति ॥ १२ ॥
सिद्धान्तमुपक्रमते -
संयमने त्विति ।
सूत्रं व्याचष्टे -
तुशब्द इति ।
पक्षव्यावृत्तिमेव व्यनक्ति -
नैतदिति ।
का पुनरत्रानुपपत्तिः । तत्र तेषां तद्गमनमफलं सफलं वेति विकल्प्याद्यं प्रत्याह -
भोगायेति ।
द्वितीये ऽपि गमनस्य प्रत्यवरोहो वा भोगो वा फलं, नाद्य इत्याह -
नापीति ।
पक्षद्वयनिरासं दृष्टान्तेन स्पष्टयति -
यथेति ।
कल्पान्तरं निरस्यति -
भोगश्चेति ।
तुशब्दार्थमुपसंहरति -
तस्मादिति ।
कथं तर्हि तेषामारोहावरोहावित्याशङ्क्य संयमने त्वनुभूयेत्यादि विभजते -
ते त्विति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
हेतुं व्याचष्टे -
तथाहीति ।
प्रयतां प्रेत्य गच्छतां सम्परायः परलोकः । सम्यगवश्यम्भावेन परा परस्ताद्देहपातादीयते गम्यत इति व्युत्पत्तेः । तत्प्राप्त्यर्थः साधनविशेषः साम्परायः । स बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमाद्यन्तं प्रमादं कुर्वन्तं विषयप्रवणं प्रति न भाति । स न केवलमज्ञ एव किन्तु विपरीतदर्शी च यस्मादयमेव लोकस्त्र्यन्नपानादिरस्ति न पर इति मानी मननशीलस्तस्मात्तदनुरूपमाचरन्पुनःपुनर्जननमरणप्राप्त्या मे वशमापद्यत इति मृत्योर्नचिकेतसं प्रति वचनम् ।
श्रुत्यन्तरमाह -
वैवस्वतमिति ।
जनानां परलोकगतानां सङ्गमनं सङ्गम्यं वैवस्वतं यमं राजानं हविषा दुवस्यत प्रीणयतेत्यर्थः ।
‘ये वै के चास्मा’ दित्यादिश्रुत्या सर्वेषां चन्द्रगतिः सिद्धेत्युक्तमित्याशङ्क्य विरोध्यनेकलिङ्गदृष्ट्या तदन्यथा नेयमित्याह -
बह्वेवेति ।
‘ये वै के च’ ‘वैवस्वतं सङ्गमनम्’ इत्यनयोर्वाक्ययोः सामान्येन चन्द्रलोकयमलोकगतिवादिनोर्विद्याकर्मविशेषितमार्गद्वयभ्रष्टानामनिष्टादिकारिणां तृतीयस्थानगतिवादिवाक्येनेष्टादिकारिणां चन्द्रगतिवाक्येन च विशेषार्थेन विषयविशेषनियतिरिति भावः ॥ १३ ॥
इतश्चेष्टादिकारिविषये ये वै के चेत्यादिवाक्यस्य सङ्कोच इत्याह -
स्मरन्ति चेति ।
तद्व्याकरोति -
अपिचेत्यादिना ॥ १४ ॥
इतश्चानिष्टादिकारिणां न चन्द्रगतिरित्याह -
अपीति ।
तद्व्याख्याति -
अपिचेत्यादिना ॥ १५ ॥
अनिष्टादिकारिणां चन्द्रमण्डले भोगाभावाद्यमवश्यतायाश्च श्रुतिस्मृतिसिद्धत्वान्न चन्द्रगतिरित्युक्तमिदानीं तेषां यमवश्यतामाक्षिपति -
नन्विति ।
विरुद्धत्वे हेतुमाह -
यावतेति ।
सूत्रेण परिहरति -
नेत्याहेति ।
तद्विभजते -
तेष्वपीति ।
एकत्रोभयोरधिष्ठातृत्वायोगमाशङ्क्याह -
यमेति ॥ १६ ॥
मार्गद्वयभ्रष्टानां तृतीयस्थानोक्तेरपि नानिष्टादिकारिणां चन्द्रगतिरित्याह -
विद्येति ।
हेत्वन्तरमेव प्रकटयन्भूमिकोक्तिपूर्वकं श्रुतिमुदाहरति -
पञ्चेति ।
तद्विद्येति प्रकरणमुक्तम् । श्रौती प्लुतिर्विचारणार्था । तृतीयस्थानोक्त्यारम्भार्थोऽथशब्दः । तत्प्रतिपत्तिफलमाह -
तेनेति ।
श्रुत्यर्थं सूत्रयोजनया विशदयति -
तत्रेति ।
उक्ता श्रुतिः सप्तम्यर्थः ।
पथिशब्दस्यार्थान्तरे रूढेर्विद्याकर्मार्थत्वे न मानमिति शङ्कते -
कस्मादिति ।
तत्र प्रकरणं प्रमाणयति -
प्रकृतत्वादिति ।
तदेव विवृणोति -
विद्येति ।
प्रतिपत्तौ प्रतिपत्तिसाधने । तत्र देवयानस्य पथो विद्याद्वारा प्रकृतत्वं प्रकटयति -
तद्य इति ।
कर्मद्वारा पितृयाणस्यापि प्रकृतत्वमाह -
इष्टेति ।
विद्याकर्मणोरेवं प्रकृतत्वेऽपि प्रकृते किं जातं तदाह -
तदिति ।
विद्याकर्महीनानां क्षुद्रजन्तुभावोऽत्र निर्दिश्यते न पुनस्तृतीयोऽध्वेत्याशङ्क्याह -
एतदिति ।
मार्गद्वयभ्रष्टानामनिष्टादिकारिणां तृतीयस्थानोक्तिफलमाह -
तस्मादिति ।
यदिदं तृतीयस्थानकीर्तनं तन्न चन्द्रगतिं वारयत्यागत्यापि तत्प्राप्तिसम्भवादिति शङ्कते -
स्यादिति ।
मानफलाभ्यां हि कल्पना न चेह तदुभयं, तथाच नैव कल्पनेत्याह -
तदपीति ।
प्रतिवचनस्य कृत्स्नाननुरूपत्वप्रसङ्गादपि नेयं कल्पनेत्याह -
अपिचेति ।
कथं तर्हि प्रश्नानुगुणं प्रतिवचनं, तत्राह -
तथाहीति ।
गमनेऽपि तस्य प्रश्नानुगुणत्वसिद्धिरित्याह -
अवरोहेति ।
अवरोहकृतासम्पूरणस्याश्रुतेर्नैवमपि श्रुतहान्यादि कल्पयितव्यमित्याह -
नेति ।
तदेव प्रपञ्चयति -
सत्यमिति ।
तर्हि तथैवासम्पूरणं स्यादित्याशङ्क्य श्रुतिविरोधान्मैवमित्याह -
श्रुतिस्त्विति ।
श्रुतिसिद्धमसम्पूरणं निगमयति -
तेनेति ।
किमिति तदवरोहणकृतमेव श्रुतावपि नेष्टमित्याशङ्क्याह -
अवरोहस्येति ।
युक्त्या स्वपक्षमुपपाद्य परपक्षं चापनुद्य पूर्ववाद्युद्भावितवाक्यस्य सूत्राक्षरेणैव गतिं दर्शयितुमारभते -
तुशब्दस्त्विति ।
उच्छित्तिप्रकारं प्रकटयति -
एवमिति ।
उक्तन्यायेनादिष्टादिकारिणां चन्द्रगत्ययोगे सतीति यावत् । अधिकृतशब्देनेष्टादिकारिणो गृह्यन्ते ।
सर्वशब्दस्याधिकृतार्थत्वे स्थिते स्थितं वाक्यार्थमाह -
ये वा इति ॥ १७ ॥
परोक्तश्रुतेर्गतिमुक्त्वा तदीयां युक्तिमनुवदति -
यदिति ।
तदुत्तरत्वेन सूत्रमादत्ते -
तदिति ।
प्रतिज्ञां पूरयन्योजयति -
नेत्यादिना ।
पृष्ट्वा हेतुमुक्त्वा व्याचष्टे -
कुत इति ।
भोगाय हि चन्द्रारोहणमित्यादिवर्णितः प्रकारः ।
उपलम्भमेवाभिनयति -
जायस्वेति ।
ज्ञानकर्मशून्या हि कृमिकीटादिभावेन पुनः पुनर्जायन्ते म्रियन्ते चेति प्रसिद्धम् । नच तत्राहुतिसङ्ख्योपलभ्यते । नच तेषां निरन्तरं जायमानानां म्रियमाणानां चाहुतिसङ्ख्या कल्प्यते दृष्टविरोधे कल्पनानवकाशादित्यर्थः ।
किञ्च देहमात्रहेतुत्वेनाहुतिसङ्ख्या नियम्यते मनुष्यदेहहेतुत्वेन वा तत्राद्यं पुरुषशब्दविरोधेन प्रत्याह -
अपिचेति ।
द्वितीयं निराह -
अपिचेत्यादिना ।
तत्र हेतुमाह -
वाक्यस्येति ।
तस्य विधिनिषेधार्थद्वयार्थतायां वाक्यभेदादैक्ये च सम्भवति तदयोगदित्यर्थः ।
पञ्चम्यामाहुतावपां पुरुषाकारपरिणामेऽपि नापञ्चम्यामाहुतौ तासां तन्निषेधश्चेत्तर्हि तासामुभयथा देहारम्भसम्भवे कथं व्यवस्थेत्याशङ्क्याह -
तत्रेति । अन्येषां त्विति ।
चन्द्रमण्डलं प्रत्यारोहश्च येषां न युक्तस्तेषामिति यावत् ॥ १८ ॥
मनुष्यदेहारम्भं प्रत्याहुतिसङ्ख्यानियमाभावे स्मृतिं संवादयति -
स्मर्यतेऽपीति ।
सूत्रं व्याकरोति -
अपिचेति ।
लोकशब्देन सूत्रभाष्ययोरितिहासादिरपि व्युत्पत्त्योच्यते ।
अयोनिजत्वाविशेषेऽपि द्रोणादिष्ववान्तरविशेषमाह -
तत्रेति ।
तद्दृष्टान्तेनानिष्टादिकारिष्वप्याहुतिसङ्ख्यानियमाभावधीरिति फलितमाह -
यथेति ।
देहमात्रहेतुत्वेनाहुतिसङ्ख्यानियमो नेत्यत्रापि सूत्रस्य तात्पर्यमस्तीत्याह -
बलाकेति ॥ १९ ॥
इतश्च देहमात्रारम्भे नाहुतिसङ्ख्यानियमोऽस्तीत्याह -
दर्शनाच्चेति ।
ऐतरेयश्रुत्यवष्टम्भेन सूत्रं व्याकरोति -
अपिचेत्यादिना ।
अन्यत्रपीत्यनिष्टादिकारिणो निर्दिश्यन्ते ॥ २० ॥
श्रुत्यन्तरविरोधं शङ्कते -
नन्विति ।
अण्डजमेवाण्डजं पक्ष्यादि । जीवजं जरायुजम् । उद्भिद्य जायत इत्युद्भिज्जं वृक्षादि ।
छान्दोग्यश्रुतिविरोधं सूत्रेण परिहरति -
अत्रेति ।
तद्व्याख्याति -
अण्डजमिति ।
उद्भिज्जशब्देन स्वेदजोपसङ्ग्रहे हेतुमाह -
उभोयोरिति ।
ऐतरेयके तर्हि भेदव्यपदेशस्य का गतिः, तत्राह -
स्थावरेति ।
श्रुत्योर्विरोधं निराकृतमुपसंहरति -
इत्यविरोध इति ॥ २१ ॥
अनिष्टादिकारिणामारोहावरोहरूपा गतिरुक्ता सम्प्रतीष्टादिकारिणामवशिष्टमवरोहप्रकारं निरूपयति -
साभाव्येति ।
व्यवहितेन सम्बन्धं दर्शयति -
इष्टादीति ।
विषयवाक्यमुदाहरति -
तत्रेति ।
चन्द्रमसि भोगं समाप्य प्राप्तावरोहेष्विष्टादिकारिष्विति यावत् । चन्द्रे भोक्तव्यकर्मणः समाप्त्यानन्तर्यमथेत्युक्तम् । एतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते पुनःशब्दादनादौ संसारे पूर्वमपि चन्द्रं गता निवृत्ताश्चेति गम्यते ।
कोऽसावध्वा यं प्रति निवर्तन्ते तमाह -
यथेति ।
यथागतं मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रम आगमनेऽप्याकाशोक्तेर्यथेतमिति भाति पितृलोकाद्यकीर्तनादभ्रादिसङ्कीर्तनाच्चानेवमपीति गम्यते । तथाच यथेतमित्युपलक्षणं याः खल्वापश्चन्द्रमण्डले देहमारब्धवत्यस्ताः कर्मक्षये द्रुता आकाशं गतास्तत्सदृशा यदा जायन्ते तदा तदुपहिता अनुशयिनोऽप्याकाशसमा भवन्तीत्याह -
आकाशादिति ।
तत्तुल्यतामापन्नाश्च वायुनेतश्चामुतश्च नीयमाना वायुसमा अनुशयिनोऽप्परिवेष्टिता वायुतुल्या भवन्तीत्याह -
आकाशमिति ।
तदनन्तरं यो धूमो गमनदशायामासीत्तत्तुल्यो भवत्यनुशयीत्याह -
वायुरिति ।
ततोऽपां धारणात्सम्भृतोदकं यदभ्रं तत्तुल्योऽनुशयीत्याह -
धूम इति ।
ततो जलसेचनान्मेघो वर्षणकर्ता तत्तुल्यः स सिध्यतीत्याह -
अभ्रमिति ।
तत्सादृश्यमापद्य वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्याह -
मेघ इति ।
अवरोहत्सु देहभृत्सु विषयेष्वाकाशं वायुमिति कर्मत्वोक्तेर्धूमो भवतीत्यादि भवतिश्रुतेश्च सन्देहमाह -
तत्रेति ।
देवयानपितृयाणौ पन्थानौ प्रक्रम्य तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षणत्वम् ।
भवतिश्रुतेश्च सादृश्यलक्षणत्वे हेत्वभावात्तादात्म्यार्थत्वमेवेति पूर्वपक्षयति -
तत्रेत्यादिना ।
अत्र चावरोहरूपसंसारगतिनिरूपणद्वारा वैराग्यदृढीकरणात्पूर्ववत्पादादिसङ्गतयः । पूर्वपक्षे भवतिश्रुतेर्मुख्यार्थत्वसिद्धिः । सिद्धान्ते तूपपत्त्या लाक्षणिकार्थत्वधीः ।
यथेतमाकाशमाकाशाद्वायुमित्यत्र तादात्म्यादृष्टेरन्यस्य चान्यात्मत्वासिद्धेर्नाकाशादितादात्म्यमनुशयिनामिति शङ्कते -
कुत इति ।
वायुर्भूत्वेत्यादौ तादात्म्यसिद्धेर्नहुषादिषु चाजगरादिभावानुभवाद्यथेतमाकाशमित्यादावपि तादात्म्यमेवेति परिहरति -
एवं हीति ।
भवतिश्रुतेः सादृश्यलक्षकत्वेऽपि नानुपपत्तिरित्याशङ्क्याह -
इतरथेति ।
सापि शब्दवृत्तित्वादाश्रितेत्याशङ्क्याह -
श्रुतीति ।
श्रुतेर्मुख्यार्थत्वे तदक्षरानुकूल्यं फलमाह -
तथाचेति ।
पूर्वोक्तप्राकरेण श्रुतेर्मुख्यार्थत्वमाश्रित्यानुशयिनामाकाशादिस्वरूपापत्तावक्षराणि सम्यञ्चि भवन्तीत्यर्थः ।
श्रुत्या पूर्वपक्षमुपसंहरति -
तस्मादिति ।
आकाशादितादात्म्यं प्रत्याख्यातुं प्रयतितव्यमिति पक्षमनुभाष्य सिद्धान्तयति -
एवमिति ।
समानो भावः साभाव्यं सादृश्यं तदापत्तिरिति योजनया प्रतिज्ञां विवृणोति -
आकाशादीति ।
कथं पुनश्चेतनानामनुशयिनामचेतनैराकाशादिभिः सादृश्यमित्याशङ्क्य प्रतिज्ञातमेवार्थं प्रकटयति -
चन्द्रेति ।
प्रतिज्ञासमाप्तावितिशब्दः । उक्तेऽर्थे श्रुतिमुदाहरति -
तदेतदिति ।
भवतिश्रुत्या तादात्म्यमेवोपेयं न तत्सादृश्यमिति शङ्कते -
कुत इति ।
तत्र हेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
एवं हीत्याकाशादिसादृश्याङ्गीकारे सतीति यावत् । एतदित्याकाशादिभवनमुक्तम् ।
युक्तं हि नहुषादिदेहारम्भकभूतानामजगरादिभावेन परिणामित्वं तद्देहानामयौगपद्यादिह तु सूक्ष्मदेहस्याकाशादेश्चापर्यायत्वान्न परस्परात्मतेत्युक्तमेव साधयति -
नहीति ।
वायुर्भूत्वेत्यादिश्रुतेस्तर्हि का गतिः, तत्राह -
आकाशेति ।
अनुशयिनामाकाशादिभ्यस्तिलमाषान्तेभ्यः स्वेनैव रूपेण निष्क्रमणान्यथानुपपतिरूपश्रुतार्थापत्त्यान्यस्य पूर्वसिद्धान्यभावानुपपत्त्यनुगृहीतया विरोधादुपचरिततद्भावापत्तिविषया श्रुतिरिति भावः ।
आकाशादिना संयोगमात्रं भवतिश्रुत्या लक्ष्यतां किं सादृश्येनेत्याशङ्क्याकाशे तदनुपपत्तेरवैरूप्यार्थं वाय्वादावपि सादृश्यमेवेत्याह -
विभुत्वाच्चेति ।
यदुक्तमेवं सति श्रुतिर्भवतीतरथा लक्षणेति, तत्राह -
श्रुतीति ।
अनुशयिनामाकाशादितादात्म्यायोगात्तत्तुल्यतापत्तेः श्रुत्यर्थत्वात्तत्परिहाराय प्रेक्षाकारिणा प्रयत्नवता भाव्यमित्युपसंहरति -
अत इति ॥ २२ ॥
पूर्वपूर्वसादृश्यङ्गतानामुत्तरोत्तरसादृश्यापत्तिरविलम्बेनेत्याह -
नातिचिरेणेति ।
विषयसंशयौ दर्शयति -
तत्रेति ।
अवरोहत्सु तत्तत्सादृश्यं गतेष्विति यावत् ।
गन्तृभेदेन चिराचिराभ्यां गतिदर्शनात्तमेव संशयं विशदयति -
किमिति ।
शास्त्रमतीन्द्रियार्थे मानं न चेह शास्त्रमस्ति तथाचानिर्धारणेति पूर्वपक्षयति -
तत्रेति ।
न च ‘अतो वै खलु दुर्निष्प्रपतरम्’ इति व्रीह्यादिभावादूर्ध्वमेव विलम्बगमनावगमात्पूर्वमविलम्बसिद्धिरिति वाच्यम् । तत्र दुःखनिःसरणस्यैव विवक्षितत्वेन विलम्बस्यानिष्टत्वात् । नच देहाद्यभावाद्दुःखासिद्धेर्विलम्बाभिप्रायमेतदिति युक्तम् । तथापि प्रकृतसर्वपरामर्शकातःशब्दात्पूर्वस्माद्विलम्बगमनप्रतीतेः सर्वत्र प्रयत्नगौरवं तुल्यमिति भावः । अत्र चाकाशादिभावमारभ्य व्रीह्यादिभावपर्यन्तावरोहरूपसंसारगतेस्तत्तत्सादृश्यरूपायाश्चिराचिरत्वनिरूपणेन वैराग्यस्यैव दृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे सर्वत्र तत्तद्भावपरिहारार्थं प्रयत्नगौरवं कर्तव्यम् । सिद्धान्ते तु तदर्थं कर्तव्यप्रयत्नस्य क्वचिल्लाघवं क्वचिद्गौरवमिति फलभेदः ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां पूरयन्विवृणोति -
एवमिति ।
नियामकशास्त्राभावान्नैतदित्याह -
कुत इति ।
नियामकविषयं हेतुमवतार्य व्याचष्टे -
विशेषेति ।
वाक्यस्य विवक्षितमर्थं वदन्पदं पूरयति -
तकार इति ।
पदं पूरयित्वा पदार्थं वदन्वाक्यार्थमाह -
दुर्निष्क्रमेति ।
कथमेतावताकाशादिभ्यो विलम्बमन्तरेण निःसरणं भाति तत्राह -
तदिति ।
सुखनिःसरणमेवाकाशादिषु विशेषणादालक्ष्यते नाविलम्बनिःसरणमित्याशङ्क्याह -
सुखेति ।
किमर्थमित्थं कल्प्यत आकाशादेः सुखेन निःसरणं व्रीह्यादेस्तु दुःखेनेति यथाश्रुतमेव किं न स्यात् , तत्राह -
तस्मिन्निति ।
अतःशब्दस्य प्रकृतपरामर्शित्वेऽप्येकवाक्योपात्तव्रीह्यादिपरामर्शित्वेन निराकाङ्क्षत्वाद्वाक्यान्तरोपात्ताकाशाद्यपरामर्शित्वादाकाशादिवर्षणान्तादविलम्बेन निःसरणमित्युपसंहरति -
तस्मादिति ।
आकाशादौ व्रीह्यादौ च तद्भावं परिहर्तुं कर्तव्यप्रयत्नस्य लाघवगौरवविशेषं निगमयितुमितीत्युक्तम् ॥ २३ ॥
अनुशयिनामाकाशादिप्रवर्षणान्तसादृश्यं चिरभावि, तत्सादृश्यत्वात् , व्रीह्यादिसादृश्यवदित्यस्य विशेषणश्रुत्या बाधमुक्त्वा प्रकृतावरोहवाक्यैकदेशमवशिष्टं विचारयति -
अन्येति ।
सङ्गतिं सूचयन्विषयमाह -
तस्मिन्निति ।
त इहेति तच्छब्देनानुशयिनो गृह्यन्ते । व्यवहारभूमिः सप्तम्यर्थः ।
व्रीह्यादिभावमापन्नेष्वनुशयिषु, जायत इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च विचारहेतुं संशयमाह -
तत्रेति । अस्मिन्नवधाविति ।
आकाशादिवर्षणान्ततत्सादृश्यापत्त्यनन्तरदशायामित्यर्थः । अत्र च स्थावरभावस्य संसारगतेरालोचनद्वारा वैराग्यस्यैव दृढीकारणात्पादादिसङ्गतिः । पूर्वपक्षे व्रीह्यादिजन्मनो मुख्यत्वेऽनुश्यिनां तत्परिहारायाधिकृतेनाधिकं प्रयतितव्यम् ।
सिद्धान्ते तदीयसंश्लेषमात्रं निराकर्तुं प्रयत्नलाघवमिति विवक्षित्वा विमर्शापूर्वकं पूर्वपक्षयति -
किं तावदिति ।
आकाशादिष्विव व्रीह्यादिष्वपि संश्लेषमात्रं न तद्देहतेति शङ्कते -
कुत इति ।
विशेषं दर्शयन्परिहरति -
जनेरिति ।
जीवस्य जन्माभावेऽपि देवो जातो मनुष्यो जात इत्यादौ तत्तद्देहाभिमानद्वारा जनेर्मुख्यत्वदर्शनात्तत्रापि मुख्यत्वार्थं देहाभिमानपूर्वकं सुखदुःखभाक्त्वमास्थेयमित्यर्थः ।
कथं स्थावरभावे जनेर्मुख्यत्वं नहि तत्र देहाभिमानपूर्वकं मनुष्यादिदेहवद्भोगोऽस्ति, तत्राह -
स्थावरेति ।
‘स्थाणुमन्येऽनुसंयन्ति’ इत्याद्या श्रुतिः ‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः’ इत्याद्या च स्मृतिः ।
ननूदाहृताभ्यां श्रुतिस्मृतिभ्यां पापफलत्वं स्थावरभावस्य भाति तत्कथमिष्टादिकारिणां चन्द्रस्थलस्खलितानां तत्प्राप्तिः शङ्क्यते, तत्राह -
पश्विति ।
सोमपानावसरे परस्परमुच्छिष्टभक्षणमादिशब्देन विवक्षितम् ।
‘अग्नीषोमीयं पशुमालभेत’ इति विशेषशास्त्रान्न हिंस्यादित्यादिसामान्यशास्त्रस्य विशेषविषये बाधात्पशुहिंसनस्य नानिष्टफलतेत्याशङ्क्य क्रत्वर्थतया पुरुषार्थतया च विधिनिषेधयोर्भिन्नार्थत्वेनाविरोधाद्बाध्यबाधकत्वासिद्धेरशक्यं पशुहिंसनस्य निषेधाधिगतमनर्थहेतुत्वमपाकर्तुमित्याशयवानुपसंहरति -
तस्मादिति ।
पशुहिंसादेरङ्गत्वान्न स्वातन्त्र्येण व्रीह्यादिजन्महेतुतेत्याशङ्क्य पापान्तरस्य तद्धेतुत्वे दृष्टान्तमाह -
श्वादीति ।
अवरोहाधिकारे श्वादिभावः श्रुतो नेत्याशङ्क्य श्रुत्यन्तरमाह -
यथेति ।
अनुशयिनां व्रीह्यादिजन्मनो मुख्यत्वे तत्परिहारायाधिकृतेन प्रयत्नगौरवं कर्तव्यमित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां पूरयतित्वा योजयति -
एवमिति ।
तव सौत्रं दृष्टान्तमादाय व्याचष्टे -
पूर्ववदिति ।
जनेर्मुख्यत्वाय व्रीह्यादिष्वनुशयिनस्तत्सुखदुःखभाजो भवन्तीत्युक्तम् ।
तथाच तेषां तेषु न संश्लेषमात्रमिति शङ्कते -
कुत इति ।
पूर्ववदिति सूत्रभागस्यार्थद्वयविवक्षया प्रयुक्तत्वादर्थान्तरं दर्शयन्परिहरति -
तद्वदिति ।
वायुर्भूत्वेत्यादौ व्रीह्यादिवाक्ये चोक्तिसाम्येऽपि स्थावरादिभावस्यानुशयिनां विरोधिनी पूर्ववाक्ये व्रीह्यादिवाक्ये वा न काचिदुक्तिरस्तीति शङ्कते -
कोऽभिलापस्येति ।
कर्मपरिणामनिमित्तत्वकथनं विना तद्भावोक्तिस्तद्देहत्वप्राप्त्यभावे लिङ्गमिति ब्रुवन्नभिलापस्य तद्वद्भावमाह -
कर्मेति ।
अन्तरेण कर्मव्यापारं व्रीह्यादितेति नास्ति सङ्कीर्तनमित्याशङ्क्य कर्मविशेषव्यापारस्य निमित्तत्वेनानुक्तिरिष्टेत्याह -
यथेति ।
अनुशयिनां व्रीह्यादिभावेन जन्मास्मिन्प्रकरणे कर्मव्यापारोक्तिं विनोक्तत्वादाकाशादिभाववदिति फलितमाह -
तस्मादिति ।
किञ्च ब्राह्मणादिजन्मन्येव रमणीयचरणा इत्यादिकर्मकीर्तनं प्रागपि तज्जन्मनो व्रीह्यादिभावेन जन्मसत्त्वे व्यर्थं स्यात् । अतो नास्ति पुरस्ताज्जन्मेति श्रुतार्थापत्तिमाह -
यत्रेति ।
किञ्च यो यो ह्यन्नमत्तीत्यादिनोत्तरत्र पुरुषाहुतिसम्बन्धोऽनुशयिनां श्रूयते स च तेषां व्रीह्यादिभावेन जन्मोपगमेन तल्लवनादौ प्रवासप्रसङ्गदयुक्तः स्यादतो न पूर्वं मुख्यं जन्मेति श्रुतार्थापत्त्यन्तरमाह -
अपिचेति ।
जीवानां व्रीह्यादिभ्योऽन्यत्वात्तत्पीडनेऽपि न प्रवासोऽस्तीत्याशङ्क्याह -
यो हीति ।
अनुशयिनां प्रवासेऽपि का क्षतिः, तत्राह -
तत्रेति ।
पूर्वोक्तहेतुफलमुपसंहरति -
अत इति ।
यत्तु जनेर्मुख्यत्वसिद्धेर्भोगस्थानत्वाच्च स्थावरत्वस्य मुख्यमेवानुशयिनां व्रीह्यादिजन्मेति, तत्राह -
एतेनेति ।
उक्तयुक्त्या जन्मश्रुतेरुपचरितार्थत्वेनेति यावत् ।
अनुशयिनां वा स्थावरजीवानां वा स्थावरभावस्य भोगस्थानतेति विकल्प्याद्यमुक्तन्यायेन दूषयति -
उपभोगेति ।
यदनुशयिनां स्थावरत्वस्य भोगस्थानत्वं तच्च प्रतिब्रूयादिति सम्बन्धः ।
द्वितीयमङ्गीकरोति -
नचेति ।
केषां तर्हि तदुपभोगायतनं, तत्राह -
भवत्विति ।
अन्येऽपि न तत्र भोक्तारो व्रीह्यादिसंश्लिष्टत्वादनुशयिवदित्याशङ्क्य तद्देहपरिणामिपापराहित्युमुपाधिरित्याह -
अपुण्येति ।
अनुशयिनामपि ब्रीह्यादिभावानुकूलपापविशेषवत्त्वं कल्प्यमित्युपाधेरसम्भवमाशङ्क्य निरतिशयपुण्यकारिणां प्रबलपापरिग्रहायोगादल्पपापैश्च स्थावरत्वासिद्धेर्मैवमित्याह -
चन्द्रमसस्त्विति ॥ २४ ॥
परोक्तमनूद्य निरस्यति -
अशुद्धमिति ।
अनुवादं विभजते -
यदिति ।
इष्टादिकारिणोऽनिष्टफलवत्त्वसम्भवे फलितमाह -
इत्यत इति ।
एतेन गौणी जन्मश्रुतिरिति प्रत्युक्तमित्याह -
तत्रेति ।
व्रीह्यादिजन्मनो मुख्यत्वे सतीते यावत् । परिहारमवतारयति -
तदिति ।
न वैदिकं कर्माशुद्धमिति प्रतिज्ञायां शास्त्रहेतुत्वादित्युक्तं विवृणोति -
अयमिति ।
अनुमानमपि कस्मादस्मिन्नर्थे न प्रमाणमित्याशङ्क्य दृष्टं सामान्यतोऽदृष्टं वा तदिति विकल्प्याद्यं प्रत्याह -
अतीन्द्रियत्वादिति ।
द्वितीयन्दूषयति -
अनियतेति ।
तदेव प्रपञ्चयति -
यस्मिन्निति ।
शुद्धे हि देशे सायम्प्रातरित्यादौ काले जीवनादौ च निमित्ते योऽग्निहोत्रादिधर्मो निर्वर्त्यते स एवाशुद्धे देशे मध्यरात्रादौ काले मरणादौ च निमित्ते कुतः सन्नधर्म इति प्रसिद्धं तथाच न तत्र सामान्यतोदृष्टं सावकाशमित्यर्थः ।
धर्मादिज्ञानं नानुमानिकं किन्तु शास्त्रमात्रकृतमित्युक्तं तन्निगमयति -
तेनेति ।
शास्त्रादेव धर्मादिज्ञानेऽपि प्रकृते किं जातं, तदाह -
शास्त्राच्चेति ।
दुष्टत्वमपि ज्योतिष्टोमस्य निषेधाधिगतमिति साङ्ख्यः शङ्कते -
नन्विति ।
पशुहिसायां निषेधसामर्थ्यादनर्थहेतुत्वमौत्सर्गिकमित्यङ्गीकरोति -
बाढमिति ।
तथापि विधिसामर्थ्यात्तस्य क्रतूपकारित्वेन श्रेयोहेतुत्वमापवादिकमुपेयमित्याह -
अपवाद इति ।
तयोः सामान्यविशेषविषयत्वेन व्यवस्थितविषयत्वादविरुद्धतया न बाध्यबाधकतेत्युक्तं तत्राह -
उत्सर्गेति ।
पुशहिंसाया निषेधादनर्थहेतुत्वं क्रतूपकारो विधेरित्युभयार्थत्वाविरोधेऽपि परिहृत्यैवानर्थं क्रतूपकारेणार्थबाहुल्यहेतुत्वाभावेन विधिरनर्थकः स्यात् । नच श्येनेऽपि वैधी प्रवृत्तिरिति तस्य विशिष्टार्थहेतुता । सर्वत्र कामेषु करणांंशे रागात्प्रवृत्तिरितिकर्तव्यतांशे वैधीत्युपगमात् । ज्योतिष्टोमस्य श्येनस्यैव काम्यत्वेऽपि नाभिचरेदितिवदनिषिद्धत्वादग्नीषोमीयहिंसायामितिकर्तव्यरूपायां प्रवृत्तेर्विध्यधीनत्वाद्विशिष्टार्थसाधनत्वमेव । तथाच विधिनिषेधयोर्विरोधे सावकाशानवकाशन्यायेन व्यवस्थेति भावः ।
विधिनिषेधयोरविरोधे फलितमाह -
तस्मादिति ।
नानृतं वदेदितिवत्कस्यचित्प्रकरणे श्रुतत्वाभावात्पुरुषार्थत्वेन प्राप्तहननस्यैव न हिंस्यादिति निषेधाद्विहितक्रत्वर्थहिंसाया निषेधाविषयत्वान्नानर्थहेतुता । किं तु सुखफलत्वमेवेत्यर्थः ।
शिष्टैरनुष्ठीयमानमपि देशविशेषे मांसाशनादि विवादास्पदं देशान्तरे दृश्यते, तत्राह -
अनिन्द्यमानत्वादिति ।
वैदिकस्य कर्मणः शुद्धत्वे सिद्धमर्थमाह -
नेति ।
प्रतिरूपं प्रतिकूलमनिष्टमिति यावत् ।
कर्मान्तरनिबन्धनस्तर्हि ब्रीह्यादिभावोऽनुशयिनां भविष्यतीत्युक्तम् , तत्राह -
नचेति ।
इहेति व्रीह्यादिजन्मनीत्यर्थः । वैशेषिकोऽधिकारोऽसाधारणो हेतुः ।
अनुशयिनां तद्भावोक्तिस्तर्हि कथमित्यशङ्क्याह -
अत इति ॥ २५ ॥
किञ्च वाक्यशेषे संयोगस्यैव तद्भावस्य श्रुतेरुपक्रमेऽपि तद्भावः संयोगान्नार्थान्तरमित्याह -
रेतःसिगिति ।
सूत्रं व्याकरोति -
इतश्चेति ।
प्रकृतोपयोगित्वेनान्नभक्षकं तरुणत्वेन विशिनष्टि -
यो रेत इति ।
तद्भूय एव भवतीति श्रुत्या तद्भावमेवान्नानुगतोऽनुशयी प्रतिपद्यत इत्युच्यते न संयोगमात्रमित्याशङ्क्याह -
नचेति ।
अत्रेत्यद्यमानान्नानुगतोऽनुशयी वाक्यं वा प्रकृतमुच्यते ।
रेतःसिचः स्वभावालोचनया मुख्यस्य तद्भावस्यायोगं स्फोरयति -
चिरेति ।
अनुशयिस्वभावालोचनयापि तमेवार्थं समर्थयते -
कथमिति ।
मुख्यस्य तद्भावस्यायोगे फलितमाह -
तत्रेति ।
तथापि व्रीह्यादिभावे किं जातं तदाह -
तद्वदिति ।
अन्यथोपक्रमोपसंहारयोर्विरोधः स्यात्तत्परिहारार्थमुपसंहारवदुपक्रमोऽपि नेतव्य इत्याह -
इत्यविरोध इति ॥ २६ ॥
तर्हि सर्वत्रानुशयिनां संसर्गमात्रमिति ब्राह्मणयोनिमित्यादिकापि श्रुतिरुपचरितार्थेत्याशङ्क्योक्तम् -
योनेरिति ।
सूत्रं व्याकरोति -
अथेत्यादिना ।
शरीरवत्त्वस्य विशिष्टावसरत्वदर्शनाद्व्रीह्यादिषु नानुशयिनां तद्वत्त्वं नापि सुखाद्यन्वितत्वमिति फलितमाह -
तस्मादिति ।
अनुशयिनां व्रीह्यादिजन्मामुख्यमुपपाद्याधिकरणार्थमुपसंहरति -
तस्मादिति ।
तदेवमिष्टादिकारिणामनिष्टादिकारिणां चारोहावरोहरूपसंसारगतौ सिद्धायां ततो वैराग्यमधिकारिविशेषणतया वाक्यार्थधीसाधनं दृढीकृतं भवतीति पादार्थमुपसंहरति -
इति सिद्धमिति ॥ २७ ॥
संसारगतिनिरूपणेन ततो दृढीकृतवैराग्यस्य वाक्यार्थावगतये तत्त्वमर्थौ संशोधयितुं पादमारभमाणस्त्वमर्थस्य जाग्रदवस्था संसारनिरूपणेनैव निरूपितेत्युपेत्य स्वयञ्ज्योतिष्ट्वसिद्धये स्वप्नावस्थां वक्तुं पूर्वपक्षयति -
सन्ध्ये सृष्टिरिति ।
वृत्तमनूद्य पादसङ्गतिमाह -
अतिक्रान्त इति ।
संसारस्य पुनःपुनरारोहावरोहरूपत्वात्तस्मिन्नस्वास्थ्ये विरक्तस्य वाक्यार्थज्ञानार्थं पदार्थशोधनाय द्वितीयपादारम्भः । तत्रापि त्वमर्थस्योद्देश्यत्वात् ‘न स्थानतोऽपि’ इत्यतः प्राक्तनस्यावस्थानिर्मुक्तत्वप्रतिपादनाय प्रयत्यते । ततश्चा पादसमाप्तेस्तत्पदार्थो विविच्यते । तत्रापि स्वयञ्ज्योतिष्ट्वस्पाष्ट्यार्थं स्वप्नावस्था प्रथमं व्यवस्थाप्यत इत्यर्थः ।
आरम्भणाधिकरणे स्वप्नस्य मायामयत्वं सिद्धवत्कृत्य जाग्रदवस्थाया मायामयत्वं निरूपितम् । इदानीं तदेव स्वप्नस्य मायामयत्वं प्रकटयितुं तद्विषयवाक्यमुदाहरति -
इदमिति ।
तस्मिन्वाक्ये स्वाप्नीं सृष्टिमधिकृत्य रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह -
तत्रेति ।
पारमार्थिकत्वमर्थक्रियासमर्थत्वमित्यभिप्रेत्य प्रबोध इवेत्युदाहरणमन्यथा तत्रापि वास्तव्याः सृष्टेरनिष्टत्वेन साध्यवैकल्यात् । मायामयत्वं प्रातीतिकसत्तामात्रोपेतत्वम् । अत्र च त्वमर्थस्य स्वप्नावस्थानिरूपणेन ततो निष्कृष्टस्य स्वयञ्ज्योतिषः शुद्धतया वाक्यार्थान्वयित्वेन तद्धेतुत्वमस्तीति तत्प्रतिपादनात्पादादिसङ्गतयः । पूर्वपक्षे स्वप्नस्य सत्यतया ततो निष्कर्षायोगादशुद्धस्यस्यास्वयञ्ज्योतिषो वाक्यार्थान्वयासिद्धिः ।