अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

जीवो­प­क­र­ण­भू­त­भौ­ति­क­ज­न्मा­दि­नि­रू­प­णा­न­न्तरं तदुपहितजीवस्य संसारप्रकारं निरूपयितुं देहान्तरारम्भे भूत­सू­क्ष्म­प­रि­ष्व­क्त­स्यैव गमनमिति तावदाह -
तदन्तरेति ।

हेतु­हे­तु­म­द्भा­व­स­म्ब­न्ध­म­ध्या­य­यो­र्वक्तुं पूर्वा­ध्या­यार्थं सङ्क्षिपति -
द्वितीय इति ।
ब्रह्मणि निरपवादे समन्वये स्मृति­न्या­य­श्रु­ति­वि­रो­ध­नि­रा­से­ना­न­ध्य­व­सा­य­रू­पा­प्रा­मा­ण्या­भा­वा­त्ता­र्ती­य­वि­चा­रा­व­सरः स्यादिति हेतु­हे­तु­म­त्त्व­ल­क्ष­ण­स­ङ्ग­ति­रिति भावः ।

अन­न्त­र­पा­द­स्या­वा­न्त­र­स­ङ्ग­त्यर्थं तदु­प­यु­क्त­म­नु­द्र­वति -
तत्र चेति ।
तथाच तैरुपहितस्य जीवस्य संसा­र­प्र­का­र­वि­चा­रोऽ­व­त­र­तीति शेषः ।

इदानीं तार्तीयमर्थं सौकर्यार्थं पादशो विभज्य दर्शयति -
अथेति ।

वैराग्यपादार्थं सङ्गृह्य पदार्थं सङ्गृह्णाति -
तदिति ।
संसा­रा­द्वि­र­क्तस्य मुमु­क्षो­र्मो­क्ष­हे­त्व­प­रो­क्ष­वा­क्या­र्थ­ज्ञा­न­सा­ध­न­ल­क्ष्य­प­दा­र्थ­ज्ञा­नाय जीव­स्या­व­स्था­न्त­राणि ब्रह्मस्वरूपं च निरूप्यत इत्यर्थः ।

तृतीयपादार्थमाह -
विद्येति ।
निर्गु­ण­ब्र­ह्म­वा­क्य­स्था­पु­न­रु­क्त­प­दो­प­सं­हा­राय मन्दाधिकारिणां सगु­णो­पा­स­नै­क­रू­प्याय च सर्वशाखासु विद्या भिन्नाऽभिन्ना वा गुणानामुपसंहारो न वेति विचार्यत इत्यर्थः ।

चतु­र्थ­पा­दा­र्थ­माह -
सम्यगिति ।
विरक्तस्य लक्ष्य­प­दा­र्थ­ज्ञस्य सर्व­शा­खा­स्व­पु­न­रु­क्त­श­ब्दो­प­सं­हा­रे­णै­क­रू­प­वा­क्य­ज्ञा­न­वतो यज्ज्ञानं तावन्मात्रादेव पुरु­षा­र्थ­स्त­द्धे­तूनां च यज्ञादिविधीनां शमादिविधीनां च बहि­र­ङ्ग­त्वा­न्त­र­ङ्ग­त्व­भेदः शुद्धसत्त्वानां बहि­र­ङ्गा­पो­हे­ना­न्त­र­ङ्ग­ग्र­हा­यो­च्यते । यस्मिञ्जन्मनि ज्ञान­सा­ध­ना­नु­ष्ठानं तस्मिन्नेव जन्मनि ज्ञानोदयेन मुक्ति­रि­त्य­नि­यमो जन्मा­न्त­री­य­सं­स्का­र­स्यापि हेतु­त्वा­दि­त्यर्थः ।

अध्यायार्थं सङ्क्षिप्य निगमयति -
इत्येतदिति ।

लोका­य­ति­क­म­त­नि­र­स­न­मपि सम­धि­क­म­त्रा­स्ती­त्या­श­ङ्क्याह -
प्रसङ्गेति ।

अध्यायार्थं सङ्क्षिप्य पादार्थं सङ्क्षिपति -
तत्रेति ।
पञ्चसु द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­त्स्व­ग्नि­दृ­ष्ट्यो­पा­सनं पञ्चाग्निविद्या तामाश्रित्य संसारे पुण्य­पा­प­फ­ल­ग­ति­प्र­का­रोऽत्र निरूप्यत इति यावत् । तस्यापि प्रदर्शनमेव न प्रतिपादनमिति मत्वोक्तं प्रदर्श्यत इति ।

पुम­र्थ­सा­ध­न­मे­वात्र निरूप्यं किमर्थं संसा­र­ग­ति­प्र­द­र्शनं, तत्राह -
वैराग्येति ।
अनेकायासं कर्मकृत्वापि न स्वातन्त्र्यं क्वापि लभ्यते तेन कृतं कर्म­त­त्फ­ला­भ्या­मि­त्यर्थः ।

पञ्चा­ग्नि­वि­द्यो­पा­स्ति­र­स्मि­न्प्र­क­रणे विधीयते न वैराग्याय संसा­र­ग­ति­रि­त्या­श­ङ्क्यो­प­सं­हा­रा­लो­च­नया संसारगतिरत्र विवक्षितेत्याह -
तस्मादिति ।
यस्मा­त्क­र्म­फ­ल­भूतः संसारो गत्या­ग­ति­रू­पोऽ­न­र्थ­स्त­स्मा­ज्जु­गुप्सां घृणां कुर्वीत कर्मफले विद्वानिति पञ्चा­ग्नि­वि­द्यो­प­सं­हारे श्रवणादत्र वैराग्याय संसारगतिरभिहिता । यद्यपि विर­क्त­स्या­धि­का­रा­द्वै­राग्यं शास्त्रा­दा­व­धि­का­रि­वि­शे­षणं सिद्धं तथापि तदेव युक्त्या दृढीक्रियत इति भावः ।

आद्य­पा­द­ता­त्प­र्य­मुक्त्वा तद­व­य­वा­द्य­धि­क­र­ण­वि­ष­य­माह -
जीवइति ।

देहा­न्त­र­प्राप्तौ सहायसत्त्वं दर्शयति -
मुख्येति ।

तत्र प्राधनकारणमाह -
अविद्येति ।
अना­द्य­नि­र्वाच्या चित्प्र­ति­बि­म्ब­नि­मि­त्त­तया जीव­त्व­हे­तु­र­विद्या । कर्म शुभा­शु­भ­व्या­मि­श्रू­पम् । पूर्वप्रज्ञा जन्मा­न्त­री­य­सं­स्कारः । ते परिग्रहाः प्रधानभूताः संसरणे यस्य स तथा ।

प्रमितस्य विष­य­त्वा­त्कि­मत्र प्रमाणं, तदाह -
अथेति ।
देहा­न्त­र­प्रे­प्सा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

न केवलं शब्दादेव तदवगतं युक्ति­त­श्चे­त्याह -
धर्मेति ।
निय­त­दे­श­का­ल­फ­ल­भो­गा­न्य­था­नु­प­प­त्त्यापि देहान्तरसञ्चरणं सिद्धमित्यर्थः ।

देहा­न्त­र­स­ञ्चा­रिणं जीवं विषयीकृत्य वादि­वि­प्र­ति­पत्तेः सन्देहमाह -
स किमिति ।
देहशब्दो भाविविषयः । आद्ये निरा­श्र­य­प्रा­ण­ग­त्य­भा­वान्न वैराग्यम् । चरमे भूतपरिष्वङ्गे प्राणानां नर­का­दि­ग­ते­र्वै­रा­ग्यम् । इत्युभयत्र फलम् ।

अत्र च परि­ष्व­क्त­रं­ह­ण­नि­रू­प­णेन वैरा­ग्य­दृ­ढी­क­र­णा­द­धि­का­रि­सिद्धौ तस्य शास्त्रे प्रवृत्तिरिति पादा­दि­स­ङ्ग­ति­रि­त्य­ङ्गी­कृत्य पूर्वपक्षमाह -
किमित्यादिना ।

करणैरिव भूतैरपि परिष्वक्तस्यैव रंहणमिति शङ्कते -
कुत इति ।

वैषम्यं दर्श­य­न्नु­त्त­र­माह -
करणेति ।

करणोपादाने मानमाह -
स इति ।

तेजो­मा­त्रा­श­ब्दस्य करणविषयत्वे हेतुमाह -
वाक्येति ।
स यत्रैष चाक्षुषः पुरुष इत्यादाविति यावत् ।

प्रश्न­प्र­ति­व­च­ना­भ्या­मपां गमने गम्यमाने कथं भूत­मा­त्रा­णा­मु­पा­दा­ना­सं­की­र्तनं, तत्राह -
नैवमिति ।
अापः पुरुषवचसो भवन्तीत्यपां पुरु­ष­व­च­न­क्रि­या­यो­ग­मात्रं भाति न पुरु­षो­पा­दा­न­त्वम् । नच पञ्चसु स्थानेष्वपां गमनमस्ति श्रद्धादीनामेव होम्यत्वावगमात् । यद्यपि करणानां भौति­क­त्वा­त्त­दु­पा­दा­न­श्रु­त्यैव भूतो­पा­दा­न­म­र्था­क्षिप्तं तथा­पी­न्द्रि­यो­पा­दा­ना­प­ञ्ची­कृ­त­भू­तां­शा­न्य­भू­त­वि­व­क्ष­ये­द­म­श्रु­त­त्व­मिति भावः ।

देहा­न्त­रा­र­म्भा­न्य­था­नु­प­पत्त्या भूतपरिष्वक्तस्य गम­न­मि­त्या­श­ङ्क्याह -
सुलभाश्चेति ।

परिष्वङ्गे मानफलयोरभावे फलितमुपसंहरति -
तस्मादिति ।

पूर्व­प­क्ष­म­नु­भाष्य प्रति­ज्ञा­म­व­तार्य व्याकरोति -
एवमिति ।

परिष्वङ्गे माना­भा­वा­न्नै­व­मि­त्यु­क्त­मा­शङ्क्य सौत्रं हेतुमादाय व्याचष्टे -
कुत इति ।
पञ्चसु स्थानेष्वापो हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरु­ष­श­ब्द­वाच्याः पुरुषाकारेण परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य प्रश्नः । तस्य चोत्तराज्ञाने तत्पितरं प्रति निरूपणं राज्ञा कृतम् । असौ वाव लोको गौतमेत्यादिना ।

तदिदं सङ्क्षिप्याह -
द्युपर्जन्येति ।
द्युप्र­भृ­ती­ना­म­न­ग्नी­ना­म­ग्नित्वं होमा­धा­र­त्व­सा­म्या­द्ध्या­नार्थं सम्पादितम् । श्रद्धा­दी­ना­मा­हु­तित्वं च तत्र तत्र संनि­पा­त­मा­त्रे­णो­क्तम् । किं च पञ्चमे स्थाने गर्भाकारेणापः परि­ण­म­न्ती­त्यु­प­क्र­मो­प­सं­हा­र­यो­रे­क­वा­क्य­त्वा­व­गतेः ।

सिद्धान्तेन तत्परिवेष्टितो गच्छतीत्याह -
इति त्विति ।

प्रश्नादीनां फलितं निगमयति -
तस्मादिति ।

अशरीरस्य गतिश्चेदद्भिः सम्परिष्वक्तस्य सा कल्प्येत न तु तस्य गतिः । किन्तु यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवोऽपि देहान्तरं गृहीत्वैव पूर्वं देहं मुञ्चति तेन श्रुत्य­न्त­र­वि­रो­धान्न परि­ष्व­क्त­रं­ह­ण­मिति शङ्कते -
नन्विति ।

प्रश्न­प्र­त्यु­क्ति­श्रु­त्य­पे­क्षया बृह­दा­र­ण्य­क­श्रु­ति­र­न्योक्ता । अप्प­रि­वे­ष्टि­तस्य गत्यु­क्ति­श्रु­ते­र्ग­त्य­न्त­रा­भा­वा­द्दृ­ष्टा­न्त­श्रु­तेश्च तद्भावान्न विरो­धोऽ­स्ती­त्याह -
तत्रापीति ।
कर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषये भावनाया देवोऽ­ह­मि­त्या­दि­काया दीर्घीभावो व्यव­हि­ता­र्था­ल­म्ब­नत्वं तावन्मात्रं जलूकयोपमीयत इति योजना । जीवो हि संस­र­न्दे­हे­न्द्रि­या­द्यु­पाधिः स्वयं प्रादे­शि­क­त्वान्न तत्रस्थो देहान्तरं गन्तुमर्हत्यतः सूक्ष्मदेहेनैव परिष्वक्तो रंहतीति भावः ।

साङ्ख्या­द­योऽ­न्यथा देहा­न्त­र­प्रा­प्ति­मा­हु­स्त­थैव किं न गृह्ये­ते­त्या­शङ्क्य श्रुति­वि­रो­धा­दि­त्याह -
एवमिति ।
याः पुरु­ष­म­ति­प्र­भ­वास्ताः सर्वा एवानादर्तव्या इति सम्बन्धः ।

तत्र साङ्ख्यी­य­क­ल्प­ना­माह -
व्यापिनामिति ।

कर­णा­ना­मा­ह­ङ्का­रि­क­त्वा­त्तस्य व्यापि­त्वा­त्ते­षा­मा­त्मनां च विभुत्वे किमिति शरीरे वृत्तिलाभो नियम्यते, तत्राह -
कर्मेति ।

सौगतानां कल्पनामाह -
केवलस्येति ।
आत्मा खल्वा­ल­य­ज्ञा­न­स­न्ता­न­स्तस्य वृत्तयः शब्दादिज्ञानानि तल्लाभः शरीरान्तरे भवति । केवलशब्दस्तु कर­ण­सा­हि­त्य­मा­त्मनो वारयति ।

कथं तर्हि देहान्तरे कर­णा­नी­त्या­शङ्क्य पञ्चेन्द्रियाणि चक्षुरादीनि गोल­क­मा­त्र­त्वा­न्म­न­सश्च सम­न­न्त­र­प्र­त्य­य­मा­त्र­त्वा­द­भि­न­वा­ना­मेव तेषां शरीरान्तरे जन्मेत्याह -
इन्द्रियाणीति ।

वैशे­षि­क­क­ल्प­ना­माह -
मन इति ।
केवलं करणैरात्मना च रहितमिति यावत् । करणानि नूतनान्येव तत्रारभ्यन्त आत्मा तु विभु­त्वा­द­क्रि­योऽपि तत्र वृत्ति­मा­त्र­मा­प्नोति । भोगस्थानं भोगायतनं नूत­न­श­री­र­मि­त्यर्थः ।

दिग­म्ब­र­क­ल्प­ना­माह -
जीव इति ।

वेद­वा­ह्य­क­ल्प­ना­मु­प­सं­ह­रति -
इत्येवमाद्या इति ।
लोका­य­त­क­ल्प­ना­मा­द्य­ग्र­ह­णेन सङ्गृह्णाति । ते हि देह­मा­त्रा­त्म­वा­दिनो भस्मी­भा­व­मे­वा­त्मनो मन्यन्ते न कस्यचिद्गमनम् ।

तासा­म­ना­द­र्त­व्यत्वे हेतुं स्फुटयति -
श्रुतीति ॥ १ ॥

भूत­सू­क्ष­म­प­रि­वे­ष्टि­तस्य गमने प्रश्न­प्र­ति­व­च­ना­भ्या­मिति हेतुरुक्तः स विव­क्षि­ता­र्थ­सा­धको नेत्यु­त्त­र­सू­त्र­व्या­वर्त्यां शङ्कामाह -
नन्विति ।

हेतो­र­सा­ध­क­त्व­शङ्कां प्रत्याह -
अत इति ।

सूत्राक्षराणि व्याचष्टे -
तुशब्देनेति ।

अपां त्र्यात्म­क­त्वेऽपि प्रकृते किं जातं, तदाह -
तास्विति ।

एवं तर्हि भूत­त्र­या­र­ब्ध­त्व­मेव न त्रिवृ­त्कृ­त­त­दा­र­भ्य­त्व­मि­त्य­प­रि­तो­षा­त्प­क्षा­न्त­र­माह -
त्र्यात्म­क­श्चेति ।

पञ्चानां भूतानां कार्यस्य गन्ध­स्वे­द­पा­क­प्रा­णा­व­का­श­दा­नस्य दर्श­ना­त्का­र्य­त्र­य­स्यै­वो­प­ल­ब्धि­र­सि­द्धे­त्य­प­रि­तो­षा­त्प­क्षा­न्त­र­माह -
पुनश्चेति ।
वात­पि­त्त­श्ले­ष्मभिः शरी­र­धा­र­णा­त्म­कै­र्धा­तु­भि­स्त्रि­धा­तु­त्वा­त्त्र्या­मक इति योजना ।

एवं त्र्यात्म­क­त्वेऽपि कथं भूता­न्त­रा­णा­मा­र­म्भ­कत्वं, तत्राह -
नेति ।
वात­पि­त्त­यो­र्वा­यु­ते­जो­ज­न्य­यो­र्देहे दर्शनादित्यर्थः ।

कथं तर्हि प्रश्न­प्र­ति­व­च­न­यो­र्नि­य­मे­नापां ग्रहणं, तत्राह -
तस्मादिति ।

भूय­स्त्वा­दि­ति­सू­त्रा­व­य­व­मु­प­सं­हा­र­व्या­जेन व्याख्यातं प्रत्य­क्षा­व­ष्ट­म्भे­नो­प­पा­द­यति -
सर्वेति ।

द्रवांशस्य भूयस्त्वादपां ग्रहणम् । कठिनांशस्य ततोऽपि बाहु­ल्य­दृ­ष्टे­र­यु­क्त­मपां ग्रहणमिति शङ्कते -
नन्विति ।

पञ्चात्मके देहे पार्थि­वां­श­बा­हु­ल्येऽपि भूय­स्त्व­म­पा­म­वि­रुद्धं भूता­न्त­रा­पे­क्षया सम्भवादित्याह -
नैष इति ।

किञ्च देहोपादानयो रेतोलोहितयोरपां बाहुल्यात्तेनैव भूता­न्त­रो­प­ल­क्षणं युक्तमित्याह -
दृश्यते चेति ।

देहनिमित्तानां कर्म­णा­म­ब्बा­हु­ल्याच्च ताभि­र्भू­ता­न्त­र­ल­क्ष­णे­त्याह -
कर्म चेति ।

सोमादीनामिहैव भस्मीभावान्न तद्ग­त­म­ब्बा­हुल्यं देहा­न्त­रा­र­म्भो­प­यो­गी­त्या­श­ङ्क्याह -
कर्मेति ।
आपो हि स्थूल­क­र्म­सा­ध­न­तया तत्सम्बन्धिन्यः सूक्ष्मरूपेण पुरुषमाश्रिताः श्रद्धाशब्दाः सह कर्म­सं­स्का­रै­र्द्यु­लो­काग्नौ हुता­श्च­न्द्र­लोके देहमारभन्त इति वक्ष्य­मा­ण­त्वा­दस्ति तासां देहारम्भोपयोग इत्यर्थः ।

निमित्तगतमपि द्रवबाहुल्यं देहा­र­म्भो­प­यो­गीति स्थिते युक्त­म­द्भि­र्भू­ता­न्त­रो­प­ल­क्ष­ण­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।

अप्शब्देन भूता­न्त­रो­प­ल­क्षणे भूत­सू­क्ष्म­प­ञ्च­क­प­रि­वे­ष्टि­तस्य युक्तैव गतिरित्याह -
इतीति ॥ २ ॥

किञ्च भौति­क­प्रा­ण­ग­त्य­नु­प­पत्त्या तत्का­र­ण­भू­त­ग­ति­र­व­श्य­म्भा­विनी भूत­ग­ति­श्चे­दिष्टा देहा­न्त­रा­र­म्भ­क­त्व­मपि तेषां स्यादित्याह -
प्राणेति ।

सूत्रं विभजते -
प्राणानां चेति ।

तेषां गमनेऽपि कुतो देहबीजानां भूतानां गतिः, तत्राह -
सा चेति ।

स्वतन्त्राणामेव प्राणानां गमनं किं न स्यादि­त्या­श­ङ्क्याह -
नहीति ।
प्राणा हि जीवतः साश्रया दृष्टा­स्ते­नो­त्क्र­म­णेऽपि तेषां साश्र­य­त्व­मि­त्यर्थः ॥ ३ ॥

प्राणानां साश्रयत्वेऽपि जीवेन सह गति­र­सि­द्धे­त्या­शङ्क्य प्रत्याह -
अग्न्यादीति ।

चोद्यं विवृणोति -
स्यादिति ।

उक्तं हेतुं व्यनक्ति -
तथाहीति ।

परिहारं व्याकरोति -
नेत्यादिना ।
अद­र्श­ना­दो­ष­धि­व­न­स्प­ति­ग­म­न­स्येति शेषः ।

तदेव विशदयितुमादौ गतिं प्रसञ्जयति -
ओषधीरिति ।

तत्रापि मुख्यैव गतिः स्यादि­त्या­श­ङ्क्याह -
नहीति ।

अग्न्या­दि­ग­ति­श्रु­तिनां तमु­त्क्रा­म­न्त­मि­त्या­दि­श्रु­तीनां च मिथो­वि­रो­धेऽ­ग्न्या­दि­ग­ति­श्रु­ति­रौ­प­चा­रिकी तत्प्रा­य­पा­ठा­दि­त्यु­क्तम् । इदानीं जीव­ग­ति­श्रु­त्य­नु­प­प­त्त्यापि प्राण­ग­ति­दृ­ष्टे­र­ग्न्या­दि­ग­ति­श्रु­ति­रौ­प­चा­रि­की­त्याह -
नचेति ।

इतश्च प्राणानां जीवेन सह गते­रा­व­श्य­क­त्वा­द­ग्न्या­दि­ग­ति­श्रु­ति­रौ­प­चा­रि­की­त्याह -
नापीति ।

सहगतिश्रुतिरेव कस्मादौपचारिकी न स्यादि­त्या­शङ्क्य निमि­त्ता­भा­वा­दि­त्याह -
बिस्पष्टं चेति ।
अन्यत्र तमु­त्क्रा­म­न्त­मि­त्या­दा­वि­त्यर्थः ।

अग्न्या­दि­ग­ति­श्रु­ते­रौ­प­चा­रि­क्तवं निमि­त्तो­क्ति­पू­र्व­क­मु­प­सं­ह­रति -
अत इति ॥ ४ ॥

भूता­न्त­रो­प­सृ­ष्टा­ना­मपां गमनमुपपाद्य पञ्चम्यामाहुतौ तासां पुरु­षा­का­र­त्व­मु­क्त­मा­क्षिप्य समाधत्ते -
प्रथम इति ।

चोद्यं विभजते -
स्यादिति ।

श्रवणाभावं दर्श­यि­तु­म­ग्नी­न्प्र­स्तौति -
इहेति ।
पञ्चा­ग्नि­वि­द्या­प्र­क­रणं सप्तम्यर्थः ।

द्युलोकप्रभतृयो द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षित्सु पञ्चाहुतयः श्रद्धा­सो­म­दृ­ष्ट्य­न्न­रे­तो­रू­पा­स्त­थापि कथं प्रथ­मेऽ­ग्ना­व­पा­म­श्र­वणं, तत्राह -
तेषाञ्चेति ।

प्रथ­म­वि­शे­ष­ण­म­न­र्थ­क­म­न्य­त्रा­प्य­श्र­व­णा­दि­त्या­शङ्क्य कथञ्चिदन्यत्र श्रवणेऽपि प्रकृते तन्नास्तीत्याह -
यदीति ।

तर्हि कल्प्यतामपामेव प्रथमेऽपि होम्य­त्व­म­वि­शे­षा­दि­त्या­श­ङ्क्याह -
प्रथमे त्विति ।

तत्रापि श्रद्धा­श­ब्दे­ना­पा­मे­वो­क्ते­र्ना­श्र­व­ण­मि­त्या­श­ङ्क्याह -
श्रद्धा चेति ।
श्रुतिलक्षणयोः श्रुति­र्न्या­य्येति भावः ।

प्रथ­मेऽ­ग्ना­व­पा­म­श्रु­ति­फ­ल­माह -
तस्मादिति ।

सिद्धान्तभागं विभजते -
नेत्यादिना ।

श्रद्धा­श­ब्द­स्या­र्था­न्तरे रूढेर्न तेना­पा­मु­क्ति­रिति शङ्कित्वा सूत्रावयवं व्याचष्टे -
कुत इत्यादिना । एवं हीति ।
श्रुद्धा­श­ब्दे­नापां ग्रहे सतीति यावत् ।

सङ्गानं सम्प्रतिपत्तिः । तामेव व्यतिरेकेण स्फोरयति -
इतरथेति ।

यदुक्तमितरथा पुनरिति तदेव स्फुटयति -
पञ्चम्यामिति ।

श्रद्धा­श­ब्द­स्या­द्भ्योऽ­र्था­न्त­रत्वं दूषयति -
तत इति ।
यदि चतुर्ष्वेव स्थानेष्वपां होम्यता तदा चतु­र्थ्या­मा­हु­ता­विति वाच्यं पञ्चम्यामिति विशे­ष­णा­त्प्र­थ­म­स्था­नेऽपि तासामेव होम्यता सिद्धेत्यर्थः ।

उप­सं­हा­रा­लो­च­ना­या­मपि श्रद्धा­श­ब्द­त्व­म­पा­मे­वे­त्याह -
इति त्विति ।

उप­प­त्ते­रि­त्य­स्या­र्था­न्त­र­माह -
श्रद्धेति ।

श्रद्धा­प­रि­णा­मस्य सोमा­दे­र­ब्ब­हु­ल­त्वेऽपि श्रद्धा­श­ब्द­त्व­म­पा­मि­त्यत्र किमायातं तदाह -
सा चेति ।

गोमयवृश्चिकादौ प्रत्यक्षेण विल­क्ष­ण­त्व­दृ­ष्टे­र्वृ­ष्ट्यादेः श्रद्धा­का­र्य­स्या­ब्ब­हु­ल­त्वेऽपि कारणस्य श्रद्धाया मा भूद­प्त्व­मि­त्या­श­ङ्क्याह -
कारणेति ।
क्वचि­द्वै­ल­क्ष­ण्यस्य प्रवृ­त्त­त्वा­दि­ष्ट­त्वेऽपि श्रद्धा­प­रि­णा­मस्य सोमा­दे­र­ब्ब­हु­ल­त्वो­प­लब्धेः श्रद्धा­या­स्त­थात्वं कल्प्यते । वैल­क्ष­ण्य­ग्रा­हि­ण्य­सति माने कल्पनाया दृष्टा­नु­सा­रि­त्वा­दि­त्यर्थः ।

यत्तु प्रसिद्ध्या प्रत्ययविशेषः श्रद्धेति, तत्राह -
नचेति ।

जुहो­ति­श्रु­ति­सा­म­र्थ्या­न्मु­ख्या­र्थ­त्यागे संनि­हि­त­वा­क्या­नु­सा­रेण लक्षणेत्याह -
इत्याप इति ।
नच धर्मिणा सहैव होमस्तत्रापि लक्षणाध्रौव्ये संनि­हि­त­वा­क्या­नु­सा­रि­ण्या­स्तस्या न्याय्यत्वादिति भावः ।

उपपत्तेरिति भागं विधान्तरेण व्याचष्टे -
श्रद्धेति ।

वृद्ध­प्र­यो­गा­भावे कथं वैदिकोऽपि प्रयोगः स्यादि­त्या­शङ्क्य तस्यौ­प­चा­रि­क­त्व­माह -
तनुत्वमिति ।

सूक्ष्म­त्व­गु­णा­दप्सु श्रद्धाशब्दस्य गौणत्वे दृष्टान्तमाह -
यथेति ।

श्रद्धा­श­ब्द­स्याप्सु गौणत्वमुक्त्वा लाक्षणिकत्वमाह -
श्रद्धेति ।
यत्कर्म श्रद्धापूर्वकं तदुपायत्वेनापां तद्यो­गा­त्प­र­म्प­रया श्रद्धा­यो­गि­नी­ष्वप्सु तच्छब्द इत्यर्थः ।

लक्षणानिमित्तं सम्बन्धान्तरमाह -
श्रद्धेति ।

अपां श्रद्धाहेतुत्वे मानमाह -
आपो हेति ।
अस्मै पुंसेऽधिकारिणे संनमन्ते जनयन्ति दर्शनमात्रेण स्नाना­दि­पु­ण्य­क­र्म­सि­द्ध्यर्थं श्रद्धा­मि­त्यर्थः ॥ ५ ॥

अपामेव प्रथमस्थानेऽपि होम्य­त्व­ज्ञा­ना­त्प­ञ्च­म्या­मा­हुतौ तासां पुरु­षा­का­र­प­रि­णामः स्यादित्युक्तम् । इदानीमाद्ये सूत्रे यदद्भिः । परिवेष्टितो जीवो गच्छतीति प्रतिज्ञातं तद­स­त्त्व­मा­शङ्क्य परिहरति -
अश्रुतत्वादिति ।

तत्र चोद्यं विशदयति -
अथापीति ।
भूता­न्त­रो­प­सृ­ष्टा­ना­मपां पुरु­षा­का­र­प­रि­णा­मेऽ­पीति यावत् ।

उक्तेऽ­र्थेऽ­ङ्गी­कृते नास्ति विम­ति­रि­त्या­श­ङ्क्याह -
न त्विति ।

हेत्वर्थं विवृणोति -
नहीति ।
अत्रेति प्रकरणोक्तिः ।

अश्रुतत्वफलमाह -
तस्मादिति ।

समाधिं विभजते -
नेत्यादिना ।
कर्म­फ­लो­क्ति­प्रा­र­म्भा­र्थोऽ­थ­शब्दः ।

इष्टादिकारिणां प्रदे­शा­न्त­र­ग­म­न­प्र­ती­ता­वपि प्रकृते किमायातं, तदाह -
त इति ।

पञ्चा­ग्नि­वि­द्या­वा­क्य­मि­हे­त्यु­क्तम् । तत्र हेतुमाह -
तस्मिन्निति ।
धूमादिवाक्ये पञ्चाग्निवाक्ये च सोम­रा­ज­त्व­प्रा­प्ति­श्र­व­ण­वि­शे­षा­दि­ष्टा­दि­का­रिणः श्रद्धा­श­ब्दि­ता­द्भि­र्वे­ष्टिता द्युलोकं यान्तीति भातीत्यर्थः ।

ननु महदिह श्रुत्यो­र्वै­ल­क्षण्यं श्रद्धा­श­ब्दि­ता­ना­मपां क्वचि­द्द्यु­लोेके होमः श्रुतः क्वचि­दि­ष्टा­दि­का­रिणां धूमा­दि­क्र­मे­णा­का­श­प्रा­प्तिर्न च तेषामापः सन्ति येन तद्वेष्टितानां गतिः, तत्राह -
तेषां चेति ।

आपो यथोक्ताः सन्तु हुतानां तासां कथ­मि­ष्टा­दि­का­रि­भि­र्योगः, तत्राह -
ता इति ।

दध्या­दी­ना­म­पा­मा­ह­व­नीये हुतानामिहैव भस्मीभूतानां न जीव­स­ङ्ग­ति­रि­त्या­शङ्क्य विशिनष्टि -
सूक्ष्मा इति ।

तदेव साधयति -
आहुत्य इति ।

तथापि कथं सहगमनं, तदाह -
तेषां चेति ।
नैधनं विधा­न­म­न्त्ये­ष्टि­वि­धा­नम् ।

होम­म­न्त्र­मु­दा­ह­रति -
असाविति ।
अमुकनामा यजमानः स्वर्गार्थं गच्छतु । स्वाहाकारो मन्त्रा­न्त­ज्ञा­प­नार्थः ।

तथापि कथं परि­वे­ष्टि­ता­ना­मि­ष्टा­दि­का­रिणां गतिः, तत्राह -
तत इति ।

प्रत्य­क्ष­सि­द्ध­द­ध्या­दि­वै­शे­ष्या­र्थ­मा­हु­ति­मय्य इत्युक्तम् । क्रियातो विशिनष्टि -
अपूर्वेति ।

तत्र श्रुतिमवतारयति -
यदिति ।

तदेवं श्रुतिसामान्यं प्रति­पा­द्या­हु­ति­रु­पा­णा­मपां गमने सिद्धे श्रुत्यन्तरमपि मानमित्याह -
तथाचेति ।
अग्नि­हो­त्र­प्र­क­रणे ‘न त्वेवै­न­यो­स्त्व­मु­त्क्रान्तिं न गति न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ’ इति जनकेन ये षट् पदार्था याज्ञवल्क्यं प्रयुक्तास्ते षट् प्रश्ना निर्दिश्यन्ते । तेषां निर्वचनरूपो वाक्यशेषः - ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्त­रि­क्ष­मा­वि­श­तस्ते अन्तरिक्षं तर्पयित्वा दिवं पृथिवीं पुरुषं योषितं वाविश्य पुरु­ष­रू­पे­णो­त्ति­ष्ठते’ इत्येवंरूपः । तेनाग्निहोत्रे सायं प्रातश्च क्रिय­मा­णा­हु­त्यो­र­पू­र्व­रू­प­यो­र­नु­ष्ठा­तृ­गा­मि­फ­ल­सि­द्धये तेन सह द्युलो­क­प्रा­प्ति­रुक्ता । तथाच वाच­स­ने­य­क­श्रु­ति­प­र्या­लो­च­ना­या­मपि जीवा­ना­म­प्प­रि­वे­ष्टि­तानां गति­सि­द्धि­रि­त्यर्थः ।

श्रुत्य­न्त­रा­लो­च­नातः सिद्धमुपसंहरति -
तस्मादिति ॥ ६ ॥

उत्त­र­सू­त्र­व्या­व­र्त्य­माह -
कथमिति ।

का पुनरस्यां प्रति­ज्ञा­या­म­नु­प­पत्तिः, तत्राह -
यावतेति ।

नन्वेषशब्देन चन्द्रमा गृह्यते नेष्टा­दि­का­रि­ण­स्त­त­स्तेऽपि सोमं राजानं देव­त्वा­दि­त­र­दे­व­व­द्भ­क्ष­य­न्ती­त्या­शङ्क्य श्रुत्यन्तरे तेषामेव भक्ष्य­त्व­सि­द्धे­र्नै­व­मि­त्याह -
ते चन्द्रमिति ।
यथा यज्ञे सोमं राजानं चमसस्थमृत्विजः पुनः पुन­रा­प्या­य­य­न्त्य­प­क्ष­यन्ति चेति दृष्टम् । तथा तानि­ष्टा­दि­का­रि­ण­श्च­न्द्र­मसि प्राप्तान्देवा भक्ष­य­न्ती­त्यर्थः ।

दार्ष्टान्तिकं विवृणोति -
एवमिति ।

देवै­रि­ष्टा­दि­का­रिणां भक्ष्यत्वेऽपि तेषामुपभोगाय गमनं किं न स्यादि­त्या­श­ङ्क्याह -
न चेति ।

उत्तरत्वेन सूत्रमवतारयति -
अत इति ।

इष्टा­दि­का­रि­णा­म­द्यत्वे मुख्ये भोगाभावो न तु तदस्तीति प्रतिजानीते -
वाशब्द इति ।

तेषां तर्हि श्रूय­मा­ण­म­न्नत्वं कथमित्याशङ्क्य सिद्धा­न्त­प्र­ति­ज्ञा­माह -
भाक्तमिति ।

अन्न­श­ब्द­श्रुत्या मुख्येऽन्नत्वे किमिति भाक्तं तदु­क्त­मि­त्या­श­ङ्क्या­न­न्य­था­सि­द्ध­श्रु­त्य­र्था­प­त्ति­वि­रो­धा­दौ­प­चा­रिकी श्रुतिरित्याह -
मुख्ये हीति ।
अधि­क्रि­य­तेऽ­ने­ने­त्य­धि­कारो विधि­पु­रु­ष­सं­ब­न्ध­नि­मित्तं कामादि तदुक्ता श्रुति­र­धि­का­र­श्रु­ति­स्तस्या वैय­र्थ्य­प­रि­हा­रा­र्थ­मि­ष्टा­दि­का­रि­णा­म­न्नत्वं भाक्त­मे­वे­त्यर्थः ।

उक्तमेव व्यनक्ति -
चन्द्रेति ।

न केवलं मुख्या­र्थ­बा­धा­द­न्न­श­ब्द­स्या­मु­ख्या­र्थ­त्व­म­न्यत्र प्रयोगादपीत्याह -
अन्नेति ।

अन्न­त्व­स्या­मु­ख्यत्वे कथं भक्ष­य­न्ती­त्युक्तं, तत्राह -
तस्मादिति ।

न केव­ल­मि­ष्टा­दि­का­रि­णा­म­न्न­त्व­स्या­मु­ख्य­त्वा­द­मु­ख्य­मेषां भक्षणं किं तु श्रुत्य­न्त­रा­द­पी­त्याह -
न ह वा इति ।

तथापि पार­त­न्त्र्या­न्ने­ष्टा­दि­का­रिणां भोगसिद्धिरिति कुतो भोगाय गमनं, तत्राह -
तेषां चेति ।

केन दोषेण तेषां देव­भो­ग्य­ते­त्या­शङ्क्य सूत्रावयवं व्याचष्टे -
अनात्मेति ।

अत्र मानं दर्शयन्नवशिष्टं सूत्रांशं योजयति -
तथाहीति ।
अवि­द्या­धि­का­रा­र­म्भा­र्थोऽ­थ­शब्दः ।

उपास्तिमेव भेददृष्टिं स्पष्टयति -
अन्योऽसाविति ।

भेद­दृ­ष्टि­नि­दा­न­माह -
न स इति ।

तस्य दृष्टान्तं देवो­प­भो­ग्य­त्व­माह -
यथेति ।

उक्त­श्रु­ते­स्ता­त्प­र्थ­माह -
स चेति ।

अना­त्म­श्रु­ते­र्मु­ख्या­र्थ­त्वा­नु­रो­धेन सूत्रां­श­स्या­र्थ­मुक्त्वा प्रक­र­णा­नु­रो­धे­ना­र्था­न्त­र­माह -
अनात्मेति ।
पञ्चा­ग्नि­वि­द्या­वि­ही­नत्वं तेषा­म­ना­त्म­वि­त्त्वम् ।

तद्व­त्त्वे­ना­त्म­वित्त्वं चेत्त­द्रा­हि­त्ये­ना­ना­त्म­वित्त्वं तदेव कथ­मि­त्या­श­ङ्क्याह -
पञ्चाग्नीति ।

इष्टादिकारिणां पञ्चा­ग्नि­वि­द्या­शू­न्य­त्वेऽपि कथं देवा­न्प्र­त्य­न्नत्वं, तत्राह -
पञ्चेति ।
गुणवादेन देवो­प­भो­ग्य­त्वे­नेति यावत् ।

किमर्था प्रशं­से­त्या­श­ङ्क्याह -
पञ्चाग्नीति ।

तस्यापि विधित्सितत्वे हेतुमाह -
वाक्येति ।
गौत­म­प्र­वा­ह­ण­सं­वा­द­रू­प­वा­क्यस्य पूर्वापरालोचनया पञ्चा­ग्नि­वि­द्या­विधौ तात्प­र्या­व­ग­ते­रिति यावत् ।

अना­त्म­वि­त्त्वा­दिति व्याख्याय तथाहीत्यादि व्याख्याति -
तथाहीति ।
इष्टादिकारी सर्वनामार्थः ।

पूर्वो­क्त­वा­क्येन तुल्या­र्थ­त्व­बुद्ध्या तथेत्युक्तम् । पञ्चा­ग्नि­वि­द्या­धि­का­रा­द­न्यत्र प्रवृत्तत्वमाह -
अन्यदिति ।
अत एव श्रुत्य­न्त­र­मि­त्यु­क्तम् । पर्या­या­न्त­रो­प­क्र­मा­र्थोऽ­थ­शब्दः । जितो लोकः पूर्वसिद्धो लोको भोग्यो येषां तेषा­मा­जा­न­सि­द्धा­ना­मिति यावत् ।

कर्मदेवत्वं व्युत्पादयति -
य इति ।

श्रुत्यन्तरस्य तात्पर्यमाह -
इष्टादीति ।

तेषामन्नत्वस्य भाक्तत्वे फलितमाह -
एवमिति ।
अत्रेति प्रश्न­प्र­ति­व­च­नोक्तिः ।

इष्टादिकारिणां भोगाय चन्द्रं प्रति गमने सम्भाविते तेषामेव प्रश्न­प्र­ति­व­च­न­यो­रपि प्रतीतेर्युक्तं प्रथ­म­सू­त्रो­क्त­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ७ ॥

कर्म­स­म­वा­यि­नी­ना­मपां पञ्चमाहुतौ पुम्प­रि­णा­म­हे­तु­मा­श्रि­त्याद्भिः परि­वे­ष्टि­त­जी­व­ग­ति­रुक्ता, सम्प्रति स्वर्गादवरोहतां कर्मैव नास्ति कुत­स्त­त्स­म­वा­यिन्य आपः कुतस्तरां पुम्परिणाम इत्याशङ्क्याह -
कृतेति ।

येषां पूर्वत्र चन्द्र­म­ण्ड­ला­रो­ह­ण­मुक्तं त एव प्रत्यवरोहन्तो विषय इति वक्तुं प्रत्य­व­रो­ह­वा­क्य­मु­दा­ह­रति -
इष्टादीति ।
तत­श्च­न्द्र­म­ण्ड­ला­दिति यावत् । तस्मिन्नित्यपि तदेवोक्तम् । भोक्त­व्य­क­र्म­स­मा­प्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । यथेतमित्यारभ्य श्वादि­यो­नि­मि­त्यन्तं वाक्यं यावदाम्नायत इति योजना ।

यावत्सम्पातमिति विशे­ष­णा­द्र­म­णी­य­च­रणा रमणीयां योनि­मि­त्या­दि­वा­क्याच्च संशयमाह -
तत्रेति ।
प्रकृतेषु प्रत्यवरोहत्सु जीवेष्विति यावत् ।

निर­नु­श­य­श­ब्दा­र्थ­मेव स्पष्टयति -
भुक्तेति ।

अत्रापि प्रत्यवरोहतां सानु­श­य­त्व­स­म­र्थ­न­द्वारा वैराग्याय संसारगतिरेव निरूप्यत इति पूर्व­व­त्पा­दा­दि­स­ङ्ग­ति­म­भि­प्रेत्य पूर्व­प­क्ष­मा­का­ङ्क्षा­पू­र्वकं गृह्णाति -
किं तावदिति ।
पूर्वपक्षे गतिरेव कर्मकृता तदभावकृता त्वागतिः सिद्धान्ते कर्म­कृ­त­त्वा­वि­शेषो द्वयोरिति फलभेदः ।

तत्र प्रश्नपूर्वकं लिङ्गं हेतूकरोति -
कुत इति ।

याव­त्प­त­न­मु­षि­त्वे­त्ये­ता­व­दत्र भाति न तु कर्मणः सर्वस्य भुक्त­त्व­मि­त्या­श­ङ्क्याह -
सम्पातेति ।

यावत्पतनं तावदपतनमिति वचनमनर्थकमिति मत्वा वाक्यार्थमाह -
यावदिति ।

चन्द्रमण्डले सर्वकर्मोपभोगे श्रुत्य­न्त­र­सं­म­ति­माह -
तेषामिति ।
इष्टादिकारिणां यदा तद्भोक्तव्यं कर्म पर्यवैति परिगच्छति परिक्षीणं भवति तदा तत आवर्तन्त इत्यु­त्त­रे­णा­न्वयः ।

याव­च्छ­ब्दो­प­ब­न्धस्य गत्यन्तरं शङ्कते -
स्यादिति ।

श्रुत्य­न्त­र­वि­रो­धेन प्रत्याह -
नैवमिति ।

तदेव प्रपञ्चयति -
प्राप्येति ।
अयं संसारी यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्मा­ल्लो­का­त्पु­न­रस्मै लोकाय कर्मा­नु­ष्ठा­ना­र्थ­मा­ग­च्छति । पुनः­श­ब्दा­त्पू­र्व­म­प्या­गत इति गम्यते संसा­र­स्या­ना­दि­त्वा­दि­त्यर्थः ।

परा­म­र्श­श्रु­ते­स्ता­त्प­र्य­माह -
इति हीति ।
न चोपसंहारे ब्राह्म­ण्या­दि­हे­तु­क­र्मा­व­ग­मा­दु­प­क्र­म­स्यापि सङ्को­च­स्त­द­नु­सा­रे­णो­प­सं­हा­रस्य नेतव्यत्वात् । उपक्रमे च यावत्सम्पातमिति श्रवणात्तस्य च प्रथमश्रुतस्य बली­य­स्त्वा­द्ब्रा­ह्म­ण्या­दि­प्रा­प­क­च­र­णस्य चाचारतया कर्म­णोऽ­र्था­न्त­र­त्वात् ‘यथाकारी यथाचारी’ इत्यादिषु भेदेन तयोरुक्तत्वान्न कर्मणा ब्राह्म­णा­दि­यो­न्या­प­त्ति­रिति भावः ।

न केवलं श्रुत्यै­वै­त­द्ग­म्यते किन्तु युक्त्यापीत्याह -
अपिचेति ।
विमतं स्वसं­नि­हि­ता­वि­शे­षा­भि­व्य­ञ्ज­क­म­भि­व्य­ञ्ज­क­त्वा­त्प्रा­दी­प­वत् । अभिव्यक्तिश्च कर्मणां फल­दा­ना­यो­न्मु­ख­त्वम् ।

तत्र किञ्चिद्भुज्यते किञ्चि­न्ने­त्य­शक्यं वक्तु­मि­त्या­श­य­वा­नाह -
प्रायणमिति ।

मर­ण­स्या­ना­र­ब्ध­स­र्व­क­र्मा­भि­व्य­ञ्ज­कत्वे हेतुमाह -
प्रागिति ।

अस्तु तर्हि प्रायणं प्रबलस्य कर्मणो व्यञ्जकं तत्राह -
तच्चेति ।

तदुपपादयति -
नहीति ।

उक्तमर्थं दृष्टान्तेन साधयति -
नहीति ।

श्रुति­यु­क्तिभ्यां सर्वस्य कर्म­ण­श्च­न्द्र­लोेके भुक्तफलत्वेन क्षयितत्वे फलितमाह -
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

प्रतिज्ञां विभजते -
येनेति ।

हेतु­मा­का­ङ्क्षा­द्वा­राऽ­व­तार्य व्याकरोति -
केनेति ।
तत् तत्र तेषां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणास्ते रमणीयां योनि­मा­प­द्ये­र­न्निति यत्तदभ्याशो ह क्षिप्र­मे­वा­प्र­ति­ब­न्धे­ने­त्यर्थः ।

रमणीयां योनिं विशिनष्टि -
ब्राह्मणेति ।

प्रत्यवरोहतां शुभकर्मवतां शुभ­यो­नि­प्रा­प्ति­मुक्त्वा तेषा­मे­वा­शु­भ­क­र्म­व­ता­म­शु­भ­यो­नि­प्रा­प्ति­माह -
अथेति ।
कपूयचरणा निन्दितकर्माणः । शेषं पूर्ववत् ।

ननु चर­णा­दा­चा­रा­द्यो­न्या­प­त्ति­र­त्रो­च्यते नानु­श­या­द­न्य­च्च­र­ण­म­न्योऽ­नु­श­य­स्त­त्राह -
चरणेति ।
अनुशेते भोक्ता­र­म­नु­ग­च्छ­ती­त्य­नु­शयः कर्मसमूहः स चरणशब्दार्थो भविष्यतीत्यर्थः ।

दृष्टशब्देन प्रत्य­क्ष­श्रु­ति­रुक्ता । व्याख्या­ना­न्त­र­माह -
दृष्टश्चेति ।

सर्वप्राणिषु जन्मारभ्य दृष्टोऽ­य­मु­त्कृ­ष्टा­प­कृ­ष्टात्मा भोगोऽ­दृ­ष्ट­नि­मित्तः, भोग­त्वा­त्स्व­र्गा­दि­भो­ग­व­दि­त्यर्थः । कथ­मा­क­स्मि­क­त्वा­स­म्भवः, तत्राह -
अभ्युदयेति ।
‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ इति सुखदुःखयोः सुकृ­त­दु­ष्कृ­त­का­र्य­त्वस्य सिद्धत्वाद्यो भोगः स कर्मनिमित्त इति व्याप्ते­र­नु­श­य­सि­द्धि­रि­त्यर्थः ।

दृष्टं व्याख्याय स्मृतिं व्याचष्टे -
स्मृतिरपीति ।
प्रेत्य प्रायणं कृत्वा चन्द्र­लो­क­म­धि­रु­ह्ये­त्यर्थः । ततः शेषेण भुक्तादन्येन कर्मणा जन्म प्रतिपद्यन्त इति सम्बन्धः । श्रुतं ज्ञानम् । वृत्तमाचारः । देशश्च जातिश्च कुलं च रूपं चायुश्च श्रुतं च वृत्तं च वित्तं च सुखं च मेधा च ते विशिष्टा येषु ते तथोक्ताः ।

अनु­श­य­श­ब्द­स्या­र्था­न्तरे रूढे­र्नि­र्धा­र­णार्थं पृच्छति -
कः पुनरिति ।

एकदेशिमतमाह -
केचिदिति ।

तत्पक्षे किमि­ष्टा­दि­क­र्म­स्व­शे­षतो भुक्त­फ­ले­ष्व­न­नु­भु­क्त­क­र्मा­न्त­र­व­शा­दा­वृत्तिः, अथवा तेषा­मे­व­व­शे­षा­दिति संशये भुक्त­त्वा­दि­ष्टा­दी­ना­म­भु­क्त­क­र्मा­न्त­रा­दा­वृ­त्ति­रिति प्राप्ते कृता­त्य­येऽ­नु­श­य­वा­निति व्याचष्टे -
स्वर्गेति ।
यदिष्टादि स्वर्गार्थं कृतं तस्य भुक्तस्यात्यये कश्चि­द­व­शे­षोऽ­नु­श­य­स्त­द्वा­न­व­रो­ह­ती­त्यर्थः ।

दृष्टे­ति­प­द­स्या­र्थ­माह -
भाण्डेति ।

तदेव प्रपञ्चयति -
यथेति ।
भाण्डानुसारिणः स्नेह­स्या­वि­रो­धा­द्युक्तः शेषः ।

कर्म तु फलो­द­य­वि­रो­धि­त्वा­त्फलं चेज्जातं नष्टमेवेति न तस्य शेषसिद्धिरिति शङ्कते -
नन्विति ।

कृत्स्नस्य कर्मणो यदि फलं जातं तदा नावशेषसिद्धिर्न तु तदस्तीत्याह -
नायमिति ।

येन कर्मणा चन्द्र­म­स­मा­रू­ढा­स्त­त्कर्म सर्वं तत्र न भुक्त­मि­त्य­यु­क्त­मिति शङ्कते -
नन्विति ।

भोगार्थं चन्द्रा­रो­ह­ण­म­ङ्गी­कृत्य विरोधं समाधत्ते -
बाढमिति ।

अत्रापि दृष्टेति व्याचष्टे -
यथेति ।

अत्र च स्मृतिशब्देन लौकिकी स्मृति­र्य­थो­क्त­दृ­ष्ट­मूला वा ‘ततः शेषेण’ इत्याद्या गृहीता । तदेतदेकदेशिमतं दूषयति -
नचेति ।
इवकारो मधुरोक्त्या प्रयुक्तो वस्तु­त­स्त्वे­व­कारो विवक्षितः ।

अयुक्तत्वे हेतुमाह -
नहीति ।
स्वर्गार्थेन कर्मणा स्वर्ग­श्चे­दा­रब्धो न तस्य शेषस्तेन स्वर्गो नारभ्यते चेन्न तस्यार्थवत्तेति भावः ।

स्वर्ग­स्या­र­ब्ध­त्वेऽपि कृत्स्न­स्या­ना­र­म्भा­न्नो­क्त­दू­ष­ण­मिति शङ्कते -
नन्विति ।

स्वर्गार्थं चोदितस्य कर्मणः स्वर्गा­र्थ­त्व­यो­गा­न्मै­व­मि­त्याह -
तदेतदिति ।

परोक्तं दृष्टान्तं विघटयति -
स्नेहेति ।
तथा­दृ­ष्ट­त्वा­दु­प­प­न्नेति यावत् ।

दार्ष्टा­न्ति­केऽपि तथैव लेशा­नु­वृ­त्ति­रि­त्या­शङ्क्य दृष्टा कल्पिता वा सेति विकल्प्याद्यं प्रत्याह -
नत्विति ।
इहेति शास्त्री­य­व्य­व­हा­र­भू­मि­रुक्ता ।

द्वितीयं निराह -
नापीति ।
शब्दै­क­ग­म्य­त्वा­न्ना­य­मर्थः सामान्यतो दृष्टगम्य इत्यर्थः ।

किञ्च स्वर्ग­हे­तु­क­र्म­शे­षा­द­नु­श­या­द­व­रोहे कपू­य­यो­न्या­प­त्ति­शा­स्त्र­वि­रोधः स्यादित्याह -
अवश्यं चेति ।

तदेव स्फुटयति -
यदीत्यादिना ।

परमतायोगे स्वमतमुपसंहरति -
तस्मादिति ।

प्रथमं पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
यदिति ।

यद्यपि यत्कि­ञ्च­या­व­त्स­म्पा­त­शब्दौ चन्द्रमस्येव सर्वस्य कर्मणो भुक्त­त्व­प्रा­प­क­त्वे­ना­नु­श­या­भावे लिङ्गभूतौ तथापि रमणीयचरणाः कपूयचरणा इति शब्द­यो­र्वि­शि­ष्ट­जा­त्या­र­म्भ­कै­हि­क­क­र्म­स­द्भा­वा­वे­द­क­त्वा­द­शे­ष­भो­ग­वि­ष­य­सा­मा­न्य­लि­ङ्ग­स्यै­हि­क­क­र्म­स­त्त्व­वि­ष­य­वि­शे­ष­लि­ङ्गे­ना­मु­ष्मि­क­वि­ष­य­तया सङ्कोचः स्यादिति मत्वाह -
नैतदिति ।
फलभोगेन चन्द्रलोके स्थित्वेति शेषः । क्षपयित्वा तस्मा­ल्लो­का­त्पु­न­रस्मै लोकायागच्छतीति प्राप्या­न्त­मि­त्या­दि­वा­क्येन गम्यत इति योजना ।

द्वितीयं पूर्व­प­क्ष­बी­ज­म­नु­व­दति -
यदपीति ।

मर­ण­स्या­वि­शे­षे­णा­शे­षा­ना­र­ब्ध­क­र्म­व्य­ञ्ज­कत्वे विभागायोगं फलितमाह -
तत्रेति ।

रमणीयचरणा इत्या­द्य­नु­श­य­वा­दि­श्रु­ति­वि­रो­धा­द­भि­व्य­ञ्ज­क­मपि प्रायणं न सर्व­क­र्म­व्य­ञ्ज­क­म­नु­मातुं शक्यमित्याह -
तदपीति ।

व्यञ्जकत्वं प्राय­ण­स्या­पी­त्युक्तं, तदपि नास्तीत्याह -
अपिचेति ।
नहि तस्य सर्व­क­र्म­व्य­ञ्ज­कत्वे कारणं किञ्चिदिति भावः ।

पूर्ववादी पृष्टं मत्वा हेतुमाह -
आरब्धेति ।

नाना­वि­ध­सु­ख­दुः­ख­फ­ल­क­र्म­णा­म­प­र्या­येण प्राय­णेऽ­भि­व्य­क्ति­श्चे­त्फ­ला­भि­मु­ख्य­ल­क्ष­ण­त्वा­द््व्य­क्ते­र्यु­ग­प­त्त­त्त­त्फ­ल­भो­ग­प्र­स­ङ्गा­त्तस्य चादृ­ष्टे­स्त­त्त­त्प्र­ब­ल­क­र्म­प्र­ति­ब­न्ध­ध्वं­स­म­पेक्ष्य क्रमेणैव तत्त­त्क­र्म­व्य­क्ति­रिति परिहरति -
यथेति ।
युग­प­त्फ­ला­र­म्भा­स­म्भ­वा­दि­त्य­सि­द्धम् ।

सर्वस्यापि कर्म­णोऽ­ना­र­ब्ध­फ­ल­त्वा­वि­शे­षा­दे­क­जा­त्या­र­म्भ­क­त्व­स­म्भ­वा­दि­त्या­शङ्क्य विरु­द्ध­जा­ति­नि­मि­त्त­भो­ग­फ­लस्य कर्मणः शास्त्र­यु­क्ति­वि­रु­द्ध­मे­क­जा­त्या­र­म्भ­क­त्व­मि­त्याह -
नहीति ।

प्राय­णा­व­स्था­या­मु­प­स्थिते विरुद्धे कर्मणि प्रबलेन दुर्व­ल­स्यो­च्छेदः स्यादि­त्या­श­ङ्क्याह -
नापीति ।
कृतं कर्मा­व­श्य­क­फ­ल­क­मिति नास्त्येकान्तः ।

प्रायश्चित्तेन ब्रह्मज्ञानेन च तत्क्ष­य­श्नु­ते­रि­त्या­शङ्क्या प्रकृते तद­भा­वा­न्नो­च्छे­दोऽ­स्ती­त्याह -
नहीति ।

प्रायश्चित्तेन वा ब्रह्मज्ञानेन वा भोगेन वा विना कर्मणां विच्छेदो नेत्यत्र मानमाह-
स्मृतीति

इतोऽपि प्राय­णा­भि­व्यक्तं सर्वमेव कर्म एक­जा­त्या­र­म्भ­क­मि­त्य­यु­क्त­मि­त्याह -
यदि चेति
पूर्वस्य कर्मणः सर्व­स्या­प्ये­क­जा­त्या­र­म्भ­कस्य भोगेन क्षया­न्म­नु­ष्या­धि­का­रि­त्वाच्च शास्त्रस्य स्वर्गादियोनिषु कर्मासिद्धेर्न तन्निमित्तः संसारः स्यात् । नच ज्ञाना­भा­वा­न्मु­क्ति­रिति दुर्घटतेत्यर्थः ।

‘श्वसू­क­र­ख­रो­ष्ट्राणां गोऽजा­वि­मृ­ग­प­क्षि­णाम् । चण्डा­ल­पु­ल्क­सानां च ब्रह्महा योनिमृच्छति । ‘इत्या­दि­स्मृ­ति­वि­रो­धोऽपि कर्मा­श­य­स्यै­क­भ­वि­कत्वे स्यादित्याह -
ब्रह्मेति ।

एकस्यापि कर्म­णोऽ­ने­क­जा­त्या­र­म्भ­क­त्व­स्म­र­णा­द­ने­के­षा­मे­क­जा­त्या­र­म्भ­कत्वं दूर­नि­र­स्त­मि­त्युक्तं तदयुक्तम् । एकं हि कर्मैकफलं दृष्टं नच सामा­न्य­तो­दृ­ष्ट­वि­रुद्धं वचनं मान­मि­त्या­श­ङ्क्याह -
नचेति ।

किञ्च प्रायणं सर्वस्य वा कर्मणो व्यञ्जकं कस्यचिदेव वा । नाद्य इत्याह -
नचेति ।
कारी­र्या­दे­रि­है­वा­नु­ष्ठि­त­स्या­त्रैव भुज्यमानत्वान्न प्रायणेन व्यङ्ग्य­ते­त्यर्थः ।

द्वितीयं निरस्यन्परोक्तं दृष्टान्तं प्रत्याह -
प्रदीपेति ।
यश्च प्रदी­प­दृ­ष्टान्तः सोऽपि प्रायणस्य सति व्यञ्ज­क­त्वेऽ­नु­कूलः स्यात् । यदा तु न तद्व्यञ्जकं किं तु बलवता प्रतिबद्धं दुर्बलं दुष्टमिति दर्शितं तदा तेनैव सोऽपि निरस्त इत्यर्थः ।

भवतु वा प्रायणस्य क्वचित्कर्मणि व्यञ्जकत्वं तदापि प्रदीपोऽनुकूलो भवतीत्याह -
स्थूलेति ।

उक्तमेव व्यनक्ति -
यथेत्यादिना ।
इति सर्व­क­र्म­व्य­ञ्ज­क­त्वा­सिद्धिः । कति­प­य­व्य­ञ्ज­क­त्व­मि­ष्ट­मे­वेति शेषः ।

ऐकभविकः कर्माशय इति मतनिरासं निगमयति -
तस्मादिति ।
श्रुति­श्च­र­ण­श्रुतिः । स्मृतिश्च श्वसू­क­रे­त्याद्या । न्यायस्तु केन हेतु­ने­त्या­दा­वुक्तः ।

यदि सर्वं कर्मै­क­स्मि­न्मु­मु­क्षु­देहे न भुज्यते तदा­व­शि­ष्ट­क­र्मा­न­न्त्यान्न कदा­चि­न्मु­क्ति­रतो मुक्त्य­नु­प­पत्त्या प्रायणव्यक्तं सर्वं कर्मै­क­दे­हा­र­म्भ­क­मि­त्या­श­ङ्क्याह -
शेषेति ।

सूत्र­व­य­व्या­ख्या­न­मु­प­सं­ह­रति -
तस्मादिति ।

अवशिष्टं व्याचष्टे -
ते चेति ।

विरु­द्ध­मे­त­दि­त्या­श­ङ्क्याह -
धूमेति ।

यथे­तं­श­ब्दा­च्चेति ।
यथेतमेवाध्वानं पुनर्निवर्तन्ते यथेतमिति श्रुते­श्चे­त्यर्थः ।

विप­र्य­य­र­प्र­ती­ति­प्रा­प­क­माह -
रात्र्यादीति ॥ ८ ॥

पूर्वोदाहृतां श्रुति­मा­क्षे­प­स­मा­धिभ्यां विवृणोति -
चरणादिति ।

चोद्यं व्याकरोति -
अथापीति ।
श्रुत्या­नु­श­य­सत्त्वे दर्शितेऽपीति यावत् ।

चरणाद्या योन्यापत्तिः सानुशयादेव तयो­रै­क्या­दि­त्या­श­ङ्क्याह -
अन्यदिति ।

तदेवान्यत्वं स्फुटयितुं चर­णा­नु­श­य­श­ब्दा­र्थ­म­नु­व­दति -
चरणमिति ।

तत्र श्रुतिमनुकूलयति -
श्रुतिश्चेति ।

तयोर्भेदे फलितमाह -
तस्मादिति ।

परिहारं व्याचष्टे -
नेत्यादिना ।
‘अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शील­मे­त­द्बि­दु­र्बुधाः’ इति स्मृतस्य शीलस्यापि कर्मा­ङ्ग­त्वा­च्च­र­ण­श­ब्देन शीलवाचिना कर्मानुशयो लक्ष्यत इति भावः ॥ ९ ॥

कार्ष्णा­जि­नि­वा­क्यस्य पौरु­षे­त्य­त्वा­न्मूले वक्तव्ये मुख्यत्यागेन लक्ष­णा­हे­त्व­भा­वा­च्च­र­ण­श­ब्दि­तस्य शील­स्यै­वा­न­र्थ­क्य­प­रि­हा­रार्थं योन्या­प­त्ति­हे­तु­ते­त्या­शङ्क्य परिहरति -
आनर्थक्यमिति ।

शङ्कां विभजते -
स्यादिति ।
सम्भवति मुख्येऽर्थे लक्षणा न ग्राह्येत्यर्थः ।

कर्मणैव योन्या­प­त्ति­स­म्भ­वा­च्च­र­ण­श­ब्देन तल्ल­क्ष­णे­त्या­शङ्क्य शास्त्र­प्रा­मा­ण्या­त्क­र्म­व­च्च­र­ण­स्यापि योग्या­प­त्ति­हे­तुता स्यादिति पूर्ववाद्येवाह -
नन्विति ।

किञ्च कर्मलक्षणायां तस्यैव फलं श्रुतमिति शीलस्य तत्कल्प्येत तस्यापि विहि­त­स्या­फ­ल­त्वा­यो­गा­त्तेन चरणस्यैव यथाश्रुतं फल­मु­पे­त­व्य­मि­त्याह -
अवश्यं चेति ।

तदनुपगमे दोषमाह -
अन्यथेति ।

आचारस्य कर्मा­ङ्ग­त्वा­द­ङ्गा­ङ्गि­नो­श्चै­का­धि­का­र­त्वान्न पृथ­क्फ­ल­क­ल्प­ने­त्याह -
नेत्यादिना ।

उक्तमर्थं प्रश्नपूर्वकं सौत्रं हेतुमादाय विशदयति -
कुत इति ।

कथ­मि­ष्टा­दि­क­र्म­स­मु­दा­यस्य चरणापेक्षत्वं, तत्राह -
नहीति ।

सदाचारयुक्तस्य कर्माधिकारे मानमाह -
आचारेति ।

वेदशब्देन वेदा­र्थो­प­ल­क्ष­णा­दा­चा­र­स्त­च्छेषो न स्वतन्त्रफल इत्युक्तम् । इदानीं स्नाना­दि­व­त्पु­रु­ष­सं­स्का­र­तया भिन्नफलत्वेऽपि न विरो­धोऽ­स्ती­त्याह -
पुरुषेति ।

कथं तर्हि पृथक्फलत्वं, तत्राह -
इष्टादौ हीति ।
अङ्गा­व­ब­द्धो­पा­स्ति­व­दि­त्यर्थः ।

आचारस्यैव योन्या­प­त्ति­हे­तु­त्वेऽपि किमित्यनुशयस्य तत्क­ल्प­ने­त्या­शङ्क्य कर्म­ण­स्त­द्धे­तु­त्व­प्र­सि­द्धे­रि­त्याह -
कर्म चेति ।

एक­दे­शि­म­त­मु­प­सं­ह­रति -
तस्मादिति ।

तदेव प्रपञ्चयति -
नहीति ।

अयुक्तत्वं दृष्टान्तेन स्पष्टयति -
नहीति ।
इतिशब्दो दार्ष्टा­न्ति­क­प्र­द­र्श­नार्थः ॥ १० ॥

साक्षा­त्सि­द्धा­न्त­माह -
सुकृतेति ।

तदेव विवृणोति -
बादरिस्त्विति ।

कथं चरणशब्देन मुख्यवृत्त्या कर्मोच्यते, तत्राह -
चरणमिति ।

वृद्ध­प्र­यो­गा­भावे कथं तस्य कर्मविषयत्वं, तत्राह -
तथाहीति ।

कर्मणः सर्वा­र्थ­का­रि­त्व­प्र­सि­द्धे­रा­चा­र­स्या­त­था­त्वा­द्भि­न्न­ते­त्या­शङ्क्य पूर्वो­क्त­स्मृ­ते­र­क्रो­धादेः साधारणधर्मस्य शील­त्व­सि­द्धे­र्मै­व­मि­त्याह -
आचारोऽपीति ।

कथं तर्हि श्रौतो भेदवादः, तत्राह -
भेद­व्य­प­दे­श­स्त्विति ।

लक्षणायां निमि­त्ता­भा­वा­च्च­र­ण­श­ब्दोऽ­नु­शये मुख्य इति बाद­रि­म­त­मु­प­सं­ह­रति -
तस्मादिति ॥ ११ ॥

इष्टा­दि­का­रि­णा­म­नु­श­य­व­ता­मा­ग­ति­रुक्ता । संप्र­त्य­नि­ष्टा­दि­का­रि­णा­मपि चन्द्र­स्थ­ल­स्ख­लि­ता­ना­म­नु­श­य­व­ता­मा­ग­ति­म­भि­प्रेत्य चोदयति -
अनिष्टादीति ।

प्रथ­मा­धि­क­र­णे­नास्य सङ्गतिमाह -
इष्टादीति ।

व्याव­हि­त­म­नू­द्या­नि­ष्टा­दि­का­रिणो विषयीकृत्य ये वै के चेत्य­वि­शे­ष­श्रु­ते­र्वै­व­स्वतं सङ्गमनं जनानामिति श्रुतेश्च संशयं दर्शयति -
ये त्विति ।
अत्र चानि­ष्टा­दि­का­रिणां शुभमार्गेण गमनमात्रमपि नेत्युक्त्या वैराग्ये दृढीकृते पूर्ववदेव पादादिसङ्गतयः ।

पूर्वपक्षे शुभा­शु­भ­का­रि­णा­म­वि­शे­षेण चन्द्रगतेस्तत्र शुभ­क­र­ण­म­कि­ञ्चि­त्क­र­मिति फलति, सिद्धान्ते त्वशुभकारिणां गत्य­न्त­र­ध्रौ­व्या­च्च­न्द्र­गतौ प्रयो­ज­क­मि­ष्टा­द्ये­वेति मत्वा पूर्वपक्षसूत्रं योजयति -
तत्रेति ।

तेषामिष्टादिकं कर्म चन्द्र­लो­क­प्रा­प­क­म­स्ती­त्यतो नियमनिषेधो न युक्तिमानिति शङ्कते -
कस्मादिति ।

श्रुत्या परिहरति -
यत इति ।

तामेवोदाहरति -
यथाहीति ।

श्रुते­श्च­न्द्र­लो­क­ग­म­न­मु­प­पाद्य चका­र­सू­चि­त­यु­क्ति­तोऽपि तदुपपादयति -
देहेति ।

देव­या­न­पि­तृ­या­णा­ति­रे­केण गम­ना­ग­म­न­मा­र्गा­श्र­व­णा­द­थै­तयोः पथोर्न कत­रे­ण­च­ने­त्या­रभ्य जायस्व म्रिय­स्वे­त्ये­त­त्तृ­तीयं स्थानमिति स्थान­मा­त्र­त्व­श्रुत्या पथि­त्वे­ना­प्र­ती­ते­श्च­न्द्र­म­ण्डलं प्राप्या­व­ती­र्णा­ना­मपि तद्योगान्न केषाञ्चिदेव गतिरिति मत्वोपसंहरति -
तस्मादिति ।

सर्वेषां तुल्यगतित्वे तत्प्रा­प्ति­हे­त्व­नु­ष्ठा­न­वै­य­र्थ्य­मिति शङ्कते -
इष्टादीति ।

तत्र भोगाभावेऽपि मार्गा­न्त­र­शू­न्य­तया ग्रामं गच्छ­न्वृ­क्ष­मू­ला­न्यु­प­स­र्प­ती­ति­व­दु­प­पन्ना गतिरित्याह -
नेतरेषामिति ॥ १२ ॥

सिद्धा­न्त­मु­प­क्र­मते -
संयमने त्विति ।

सूत्रं व्याचष्टे -
तुशब्द इति ।

पक्ष­व्या­वृ­त्ति­मेव व्यनक्ति -
नैतदिति ।

का पुन­र­त्रा­नु­प­पत्तिः । तत्र तेषां तद्गमनमफलं सफलं वेति विकल्प्याद्यं प्रत्याह -
भोगायेति ।

द्वितीये ऽपि गमनस्य प्रत्यवरोहो वा भोगो वा फलं, नाद्य इत्याह -
नापीति ।

पक्षद्वयनिरासं दृष्टान्तेन स्पष्टयति -
यथेति ।

कल्पान्तरं निरस्यति -
भोगश्चेति ।

तुश­ब्दा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

कथं तर्हि तेषा­मा­रो­हा­व­रो­हा­वि­त्या­शङ्क्य संयमने त्वनुभूयेत्यादि विभजते -
ते त्विति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

हेतुं व्याचष्टे -
तथाहीति ।
प्रयतां प्रेत्य गच्छतां सम्परायः परलोकः । सम्य­ग­व­श्य­म्भा­वेन परा पर­स्ता­द्दे­ह­पा­ता­दी­यते गम्यत इति व्युत्पत्तेः । तत्प्रा­प्त्यर्थः साधनविशेषः साम्परायः । स बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमाद्यन्तं प्रमादं कुर्वन्तं विषयप्रवणं प्रति न भाति । स न केवलमज्ञ एव किन्तु विपरीतदर्शी च यस्मादयमेव लोक­स्त्र्य­न्न­पा­ना­दि­रस्ति न पर इति मानी मन­न­शी­ल­स्त­स्मा­त्त­द­नु­रू­प­मा­च­र­न्पु­नः­पु­न­र्ज­न­न­म­र­ण­प्राप्त्या मे वशमापद्यत इति मृत्यो­र्न­चि­के­तसं प्रति वचनम् ।

श्रुत्यन्तरमाह -
वैवस्वतमिति ।
जनानां परलोकगतानां सङ्गमनं सङ्गम्यं वैवस्वतं यमं राजानं हविषा दुवस्यत प्रीणयतेत्यर्थः ।

‘ये वै के चास्मा’ दित्या­दि­श्रुत्या सर्वेषां चन्द्रगतिः सिद्धे­त्यु­क्त­मि­त्या­शङ्क्य विरो­ध्य­ने­क­लि­ङ्ग­दृष्ट्या तदन्यथा नेयमित्याह -
बह्वेवेति ।
‘ये वै के च’ ‘वैवस्वतं सङ्गमनम्’ इत्य­न­यो­र्वा­क्ययोः सामान्येन चन्द्र­लो­क­य­म­लो­क­ग­ति­वा­दि­नो­र्वि­द्या­क­र्म­वि­शे­षि­त­मा­र्ग­द्व­य­भ्र­ष्टा­ना­म­नि­ष्टा­दि­का­रिणां तृती­य­स्था­न­ग­ति­वा­दि­वा­क्ये­ने­ष्टा­दि­का­रिणां चन्द्र­ग­ति­वा­क्येन च विशेषार्थेन विष­य­वि­शे­ष­नि­य­ति­रिति भावः ॥ १३ ॥

इत­श्चे­ष्टा­दि­का­रि­वि­षये ये वै के चेत्या­दि­वा­क्यस्य सङ्कोच इत्याह -
स्मरन्ति चेति ।

तद्व्याकरोति -
अपिचेत्यादिना ॥ १४ ॥

इत­श्चा­नि­ष्टा­दि­का­रिणां न चन्द्र­ग­ति­रि­त्याह -
अपीति ।

तद्व्याख्याति -
अपिचेत्यादिना ॥ १५ ॥

अनि­ष्टा­दि­का­रिणां चन्द्रमण्डले भोगा­भा­वा­द्य­म­व­श्य­ता­याश्च श्रुति­स्मृ­ति­सि­द्ध­त्वान्न चन्द्र­ग­ति­रि­त्यु­क्त­मि­दानीं तेषां यम­व­श्य­ता­मा­क्षि­पति -
नन्विति ।

विरुद्धत्वे हेतुमाह -
यावतेति ।

सूत्रेण परिहरति -
नेत्याहेति ।

तद्विभजते -
तेष्वपीति ।

एक­त्रो­भ­यो­र­धि­ष्ठा­तृ­त्वा­यो­ग­मा­श­ङ्क्याह -
यमेति ॥ १६ ॥

मार्ग­द्व­य­भ्र­ष्टानां तृती­य­स्था­नो­क्ते­रपि नानि­ष्टा­दि­का­रिणां चन्द्र­ग­ति­रि­त्याह -
विद्येति ।

हेत्वन्तरमेव प्रक­ट­य­न्भू­मि­को­क्ति­पू­र्वकं श्रुतिमुदाहरति -
पञ्चेति ।

तद्विद्येति प्रकरणमुक्तम् । श्रौती प्लुति­र्वि­चा­र­णार्था । तृती­य­स्था­नो­क्त्या­र­म्भा­र्थोऽ­थ­शब्दः । तत्प्र­ति­प­त्ति­फ­ल­माह -
तेनेति ।

श्रुत्यर्थं सूत्रयोजनया विशदयति -
तत्रेति ।
उक्ता श्रुतिः सप्तम्यर्थः ।

पथि­श­ब्द­स्या­र्था­न्तरे रूढे­र्वि­द्या­क­र्मा­र्थत्वे न मानमिति शङ्कते -
कस्मादिति ।

तत्र प्रकरणं प्रमाणयति -
प्रकृतत्वादिति ।

तदेव विवृणोति -
विद्येति ।

प्रतिपत्तौ प्रतिपत्तिसाधने । तत्र देवयानस्य पथो विद्याद्वारा प्रकृतत्वं प्रकटयति -
तद्य इति ।

कर्मद्वारा पितृयाणस्यापि प्रकृतत्वमाह -
इष्टेति ।

विद्या­क­र्म­णो­रेवं प्रकृतत्वेऽपि प्रकृते किं जातं तदाह -
तदिति ।

विद्या­क­र्म­ही­नानां क्षुद्र­ज­न्तु­भा­वोऽत्र निर्दिश्यते न पुन­स्तृ­ती­योऽ­ध्वे­त्या­श­ङ्क्याह -
एतदिति ।

मार्ग­द्व­य­भ्र­ष्टा­ना­म­नि­ष्टा­दि­का­रिणां तृती­य­स्था­नो­क्ति­फ­ल­माह -
तस्मादिति ।

यदिदं तृती­य­स्था­न­की­र्तनं तन्न चन्द्रगतिं वारयत्यागत्यापि तत्प्रा­प्ति­स­म्भ­वा­दिति शङ्कते -
स्यादिति ।

मानफलाभ्यां हि कल्पना न चेह तदुभयं, तथाच नैव कल्पनेत्याह -
तदपीति ।

प्रतिवचनस्य कृत्स्ना­न­नु­रू­प­त्व­प्र­स­ङ्गा­दपि नेयं कल्पनेत्याह -
अपिचेति ।

कथं तर्हि प्रश्नानुगुणं प्रतिवचनं, तत्राह -
तथाहीति ।

गमनेऽपि तस्य प्रश्ना­नु­गु­ण­त्व­सि­द्धि­रि­त्याह -
अवरोहेति ।

अव­रो­ह­कृ­ता­स­म्पू­र­ण­स्या­श्रु­ते­र्नै­व­मपि श्रुतहान्यादि कल्प­यि­त­व्य­मि­त्याह -
नेति ।

तदेव प्रपञ्चयति -
सत्यमिति ।

तर्हि तथैवासम्पूरणं स्यादि­त्या­शङ्क्य श्रुति­वि­रो­धा­न्मै­व­मि­त्याह -
श्रुतिस्त्विति ।

श्रुति­सि­द्ध­म­स­म्पू­रणं निगमयति -
तेनेति ।

किमिति तदवरोहणकृतमेव श्रुतावपि नेष्ट­मि­त्या­श­ङ्क्याह -
अवरोहस्येति ।

युक्त्या स्वपक्षमुपपाद्य परपक्षं चापनुद्य पूर्व­वा­द्यु­द्भा­वि­त­वा­क्यस्य सूत्राक्षरेणैव गतिं दर्शयितुमारभते -
तुशब्दस्त्विति ।

उच्छि­त्ति­प्र­कारं प्रकटयति -
एवमिति ।
उक्त­न्या­ये­ना­दि­ष्टा­दि­का­रिणां चन्द्रगत्ययोगे सतीति यावत् । अधि­कृ­त­श­ब्दे­ने­ष्टा­दि­का­रिणो गृह्यन्ते ।

सर्व­श­ब्द­स्या­धि­कृ­ता­र्थत्वे स्थिते स्थितं वाक्यार्थमाह -
ये वा इति ॥ १७ ॥

परो­क्त­श्रु­ते­र्ग­ति­मुक्त्वा तदीयां युक्तिमनुवदति -
यदिति ।

तदुत्तरत्वेन सूत्रमादत्ते -
तदिति ।

प्रतिज्ञां पूरयन्योजयति -
नेत्यादिना ।

पृष्ट्वा हेतुमुक्त्वा व्याचष्टे -
कुत इति ।
भोगाय हि चन्द्रा­रो­ह­ण­मि­त्या­दि­व­र्णितः प्रकारः ।

उप­ल­म्भ­मे­वा­भि­न­यति -
जायस्वेति ।
ज्ञानकर्मशून्या हि कृमिकीटादिभावेन पुनः पुनर्जायन्ते म्रियन्ते चेति प्रसिद्धम् । नच तत्रा­हु­ति­स­ङ्ख्यो­प­ल­भ्यते । नच तेषां निरन्तरं जायमानानां म्रियमाणानां चाहुतिसङ्ख्या कल्प्यते दृष्टविरोधे कल्प­ना­न­व­का­शा­दि­त्यर्थः ।

किञ्च देह­मा­त्र­हे­तु­त्वे­ना­हु­ति­सङ्ख्या नियम्यते मनु­ष्य­दे­ह­हे­तु­त्वेन वा तत्राद्यं पुरु­ष­श­ब्द­वि­रो­धेन प्रत्याह -
अपिचेति ।

द्वितीयं निराह -
अपिचेत्यादिना ।

तत्र हेतुमाह -
वाक्यस्येति ।
तस्य विधि­नि­षे­धा­र्थ­द्व­या­र्थ­तायां वाक्यभेदादैक्ये च सम्भवति तदयोगदित्यर्थः ।

पञ्च­म्या­मा­हु­ता­वपां पुरु­षा­का­र­प­रि­णा­मेऽपि नाप­ञ्च­म्या­मा­हुतौ तासां तन्नि­षे­ध­श्चे­त्तर्हि तासामुभयथा देहारम्भसम्भवे कथं व्यव­स्थे­त्या­श­ङ्क्याह -
तत्रेति । अन्येषां त्विति ।
चन्द्रमण्डलं प्रत्यारोहश्च येषां न युक्तस्तेषामिति यावत् ॥ १८ ॥

मनुष्यदेहारम्भं प्रत्या­हु­ति­स­ङ्ख्या­नि­य­मा­भावे स्मृतिं संवादयति -
स्मर्यतेऽपीति ।

सूत्रं व्याकरोति -
अपिचेति ।
लोकशब्देन सूत्र­भा­ष्य­यो­रि­ति­हा­सा­दि­रपि व्युत्प­त्त्यो­च्यते ।

अयो­नि­ज­त्वा­वि­शे­षेऽपि द्रोणा­दि­ष्व­वा­न्त­र­वि­शे­ष­माह -
तत्रेति ।

तद्दृ­ष्टा­न्ते­ना­नि­ष्टा­दि­का­रि­ष्व­प्या­हु­ति­स­ङ्ख्या­नि­य­मा­भा­व­धी­रिति फलितमाह -
यथेति ।

देह­मा­त्र­हे­तु­त्वे­ना­हु­ति­स­ङ्ख्या­नि­यमो नेत्यत्रापि सूत्रस्य तात्प­र्य­म­स्ती­त्याह -
बलाकेति ॥ १९ ॥

इतश्च देहमात्रारम्भे नाहु­ति­स­ङ्ख्या­नि­य­मोऽ­स्ती­त्याह -
दर्शनाच्चेति ।

ऐत­रे­य­श्रु­त्य­व­ष्ट­म्भेन सूत्रं व्याकरोति -
अपिचेत्यादिना ।
अन्य­त्र­पी­त्य­नि­ष्टा­दि­का­रिणो निर्दिश्यन्ते ॥ २० ॥

श्रुत्य­न्त­र­वि­रोधं शङ्कते -
नन्विति ।
अण्डजमेवाण्डजं पक्ष्यादि । जीवजं जरायुजम् । उद्भिद्य जायत इत्युद्भिज्जं वृक्षादि ।

छान्दो­ग्य­श्रु­ति­वि­रोधं सूत्रेण परिहरति -
अत्रेति ।

तद्व्याख्याति -
अण्डजमिति ।

उद्भिज्जशब्देन स्वेद­जो­प­स­ङ्ग्रहे हेतुमाह -
उभोयोरिति ।

ऐतरेयके तर्हि भेदव्यपदेशस्य का गतिः, तत्राह -
स्थावरेति ।

श्रुत्यो­र्वि­रोधं निरा­कृ­त­मु­प­सं­ह­रति -
इत्यविरोध इति ॥ २१ ॥

अनि­ष्टा­दि­का­रि­णा­मा­रो­हा­व­रो­ह­रूपा गतिरुक्ता सम्प्र­ती­ष्टा­दि­का­रि­णा­म­व­शि­ष्ट­म­व­रो­ह­प्र­कारं निरूपयति -
साभाव्येति ।

व्यवहितेन सम्बन्धं दर्शयति -
इष्टादीति ।

विष­य­वा­क्य­मु­दा­ह­रति -
तत्रेति ।
चन्द्रमसि भोगं समाप्य प्राप्ता­व­रो­हे­ष्वि­ष्टा­दि­का­रि­ष्विति यावत् । चन्द्रे भोक्तव्यकर्मणः समा­प्त्या­न­न्त­र्य­म­थे­त्यु­क्तम् । एतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते पुनःशब्दादनादौ संसारे पूर्वमपि चन्द्रं गता निवृत्ताश्चेति गम्यते ।

कोऽसावध्वा यं प्रति निवर्तन्ते तमाह -
यथेति ।
यथागतं मासेभ्यः पितृलोकं पितृ­लो­का­दा­का­श­मा­का­शा­च्च­न्द्र­मिति गमनक्रम आग­म­नेऽ­प्या­का­शो­क्ते­र्य­थे­त­मिति भाति पितृ­लो­का­द्य­की­र्त­ना­द­भ्रा­दि­स­ङ्की­र्त­ना­च्चा­ने­व­म­पीति गम्यते । तथाच यथे­त­मि­त्यु­प­ल­क्षणं याः खल्वा­प­श्च­न्द्र­म­ण्डले देह­मा­र­ब्ध­व­त्यस्ताः कर्मक्षये द्रुता आकाशं गतास्तत्सदृशा यदा जायन्ते तदा तदुपहिता अनु­श­यि­नोऽ­प्या­का­श­समा भवन्तीत्याह -
आकाशादिति ।

तत्तु­ल्य­ता­मा­प­न्नाश्च वायु­ने­त­श्चा­मु­तश्च नीयमाना वायुसमा अनु­श­यि­नोऽ­प्प­रि­वे­ष्टिता वायुतुल्या भवन्तीत्याह -
आकाशमिति ।

तदनन्तरं यो धूमो गम­न­द­शा­या­मा­सी­त्त­त्तुल्यो भवत्यनुशयीत्याह -
वायुरिति ।

ततोऽपां धार­णा­त्स­म्भृ­तो­दकं यदभ्रं तत्तु­ल्योऽ­नु­श­यी­त्याह -
धूम इति ।

ततो जलसेचनान्मेघो वर्षणकर्ता तत्तुल्यः स सिध्यतीत्याह -
अभ्रमिति ।

तत्सा­दृ­श्य­मा­पद्य वर्ष­धा­रा­भि­र­नु­शयी पृथिवीमापद्यत इत्याह -
मेघ इति ।

अवरोहत्सु देहभृत्सु विषयेष्वाकाशं वायुमिति कर्म­त्वो­क्ते­र्धूमो भवतीत्यादि भवतिश्रुतेश्च सन्देहमाह -
तत्रेति ।
देवयानपितृयाणौ पन्थानौ प्रक्रम्य तृती­य­त्वो­क्ते­र्युक्तं स्थानशब्दस्य मार्गलक्षणत्वम् ।

भवतिश्रुतेश्च सादृ­श्य­ल­क्ष­णत्वे हेत्व­भा­वा­त्ता­दा­त्म्या­र्थ­त्व­मे­वेति पूर्वपक्षयति -
तत्रेत्यादिना ।
अत्र चाव­रो­ह­रू­प­सं­सा­र­ग­ति­नि­रू­प­ण­द्वारा वैरा­ग्य­दृ­ढी­क­र­णा­त्पू­र्व­व­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे भव­ति­श्रु­ते­र्मु­ख्या­र्थ­त्व­सिद्धिः । सिद्धान्ते तूपपत्त्या लाक्ष­णि­का­र्थ­त्वधीः ।

यथे­त­मा­का­श­मा­का­शा­द्वा­यु­मि­त्यत्र तादा­त्म्या­दृ­ष्टे­र­न्यस्य चान्या­त्म­त्वा­सि­द्धे­र्ना­का­शा­दि­ता­दा­त्म्य­म­नु­श­यि­ना­मिति शङ्कते -
कुत इति ।

वायु­र्भू­त्वे­त्यादौ तादा­त्म्य­सि­द्धे­र्न­हु­षा­दिषु चाज­ग­रा­दि­भा­वा­नु­भ­वा­द्य­थे­त­मा­का­श­मि­त्या­दा­वपि तादात्म्यमेवेति परिहरति -
एवं हीति ।

भवतिश्रुतेः सादृ­श्य­ल­क्ष­क­त्वेऽपि नानु­प­प­त्ति­रि­त्या­श­ङ्क्याह -
इतरथेति ।

सापि शब्द­वृ­त्ति­त्वा­दा­श्रि­ते­त्या­श­ङ्क्याह -
श्रुतीति ।

श्रुते­र्मु­ख्या­र्थत्वे तदक्षरानुकूल्यं फलमाह -
तथाचेति ।
पूर्वो­क्त­प्रा­क­रेण श्रुते­र्मु­ख्या­र्थ­त्व­मा­श्रि­त्या­नु­श­यि­ना­मा­का­शा­दि­स्व­रू­पा­प­त्ता­व­क्ष­राणि सम्यञ्चि भवन्तीत्यर्थः ।

श्रुत्या पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।

आका­शा­दि­ता­दात्म्यं प्रत्याख्यातुं प्रयतितव्यमिति पक्षमनुभाष्य सिद्धान्तयति -
एवमिति ।

समानो भावः साभाव्यं सादृश्यं तदापत्तिरिति योजनया प्रतिज्ञां विवृणोति -
आकाशादीति ।

कथं पुन­श्चे­त­ना­ना­म­नु­श­यि­ना­म­चे­त­नै­रा­का­शा­दिभिः सादृ­श्य­मि­त्या­शङ्क्य प्रति­ज्ञा­त­मे­वार्थं प्रकटयति -
चन्द्रेति ।

प्रति­ज्ञा­स­मा­प्ता­वि­ति­शब्दः । उक्तेऽर्थे श्रुतिमुदाहरति -
तदेतदिति ।

भवतिश्रुत्या तादा­त्म्य­मे­वो­पेयं न तत्सादृश्यमिति शङ्कते -
कुत इति ।

तत्र हेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
एवं हीत्या­का­शा­दि­सा­दृ­श्या­ङ्गी­कारे सतीति यावत् । एत­दि­त्या­का­शा­दि­भ­व­न­मु­क्तम् ।

युक्तं हि नहु­षा­दि­दे­हा­र­म्भ­क­भू­ता­ना­म­ज­ग­रा­दि­भा­वेन परिणामित्वं तद्दे­हा­ना­म­यौ­ग­प­द्या­दिह तु सूक्ष्म­दे­ह­स्या­का­शा­दे­श्चा­प­र्या­य­त्वान्न पर­स्प­रा­त्म­ते­त्यु­क्त­मेव साधयति -
नहीति ।

वायु­र्भू­त्वे­त्या­दि­श्रु­ते­स्तर्हि का गतिः, तत्राह -
आकाशेति ।
अनु­श­यि­ना­मा­का­शा­दि­भ्य­स्ति­ल­मा­षा­न्तेभ्यः स्वेनैव रूपेण निष्क्र­म­णा­न्य­था­नु­प­प­ति­रू­प­श्रु­ता­र्था­प­त्त्या­न्यस्य पूर्व­सि­द्धा­न्य­भा­वा­नु­प­प­त्त्य­नु­गृ­ही­तया विरो­धा­दु­प­च­रि­त­त­द्भा­वा­प­त्ति­वि­षया श्रुतिरिति भावः ।

आकाशादिना संयोगमात्रं भवतिश्रुत्या लक्ष्यतां किं सादृ­श्ये­ने­त्या­श­ङ्क्या­काशे तद­नु­प­प­त्ते­र­वै­रू­प्यार्थं वाय्वादावपि सादृ­श्य­मे­वे­त्याह -
विभुत्वाच्चेति ।

यदुक्तमेवं सति श्रुति­र्भ­व­ती­त­रथा लक्षणेति, तत्राह -
श्रुतीति ।

अनु­श­यि­ना­मा­का­शा­दि­ता­दा­त्म्या­यो­गा­त्त­त्तु­ल्य­ता­पत्तेः श्रुत्य­र्थ­त्वा­त्त­त्प­रि­हा­राय प्रेक्षाकारिणा प्रयत्नवता भाव्य­मि­त्यु­प­सं­ह­रति -
अत इति ॥ २२ ॥

पूर्व­पू­र्व­सा­दृ­श्य­ङ्ग­ता­ना­मु­त्त­रो­त्त­र­सा­दृ­श्या­प­त्ति­र­वि­ल­म्बे­ने­त्याह -
नातिचिरेणेति ।

विषयसंशयौ दर्शयति -
तत्रेति ।
अवरोहत्सु तत्तत्सादृश्यं गतेष्विति यावत् ।

गन्तृभेदेन चिराचिराभ्यां गतिदर्शनात्तमेव संशयं विशदयति -
किमिति ।

शास्त्र­म­ती­न्द्रि­यार्थे मानं न चेह शास्त्रमस्ति तथा­चा­नि­र्धा­र­णेति पूर्वपक्षयति -
तत्रेति ।
न च ‘अतो वै खलु दुर्नि­ष्प्र­प­त­रम्’ इति व्रीह्या­दि­भा­वा­दू­र्ध्व­मेव विल­म्ब­ग­म­ना­व­ग­मा­त्पू­र्व­म­वि­ल­म्ब­सि­द्धि­रिति वाच्यम् । तत्र दुःखनिःसरणस्यैव विवक्षितत्वेन विल­म्ब­स्या­नि­ष्ट­त्वात् । नच देहा­द्य­भा­वा­द्दुः­खा­सि­द्धे­र्वि­ल­म्बा­भि­प्रा­य­मे­त­दिति युक्तम् । तथापि प्रकृ­त­स­र्व­प­रा­म­र्श­का­तः­श­ब्दा­त्पू­र्व­स्मा­द्वि­ल­म्ब­ग­म­न­प्र­तीतेः सर्वत्र प्रयत्नगौरवं तुल्यमिति भावः । अत्र चाका­शा­दि­भा­व­मा­रभ्य व्रीह्या­दि­भा­व­प­र्य­न्ता­व­रो­ह­रू­प­सं­सा­र­ग­ते­स्त­त्त­त्सा­दृ­श्य­रू­पा­या­श्चि­रा­चि­र­त्व­नि­रू­प­णेन वैराग्यस्यैव दृढी­क­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे सर्वत्र तत्त­द्भा­व­प­रि­हा­रार्थं प्रयत्नगौरवं कर्तव्यम् । सिद्धान्ते तु तदर्थं कर्त­व्य­प्र­य­त्नस्य क्वचिल्लाघवं क्वचिद्गौरवमिति फलभेदः ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञां पूरयन्विवृणोति -
एवमिति ।

निया­म­क­शा­स्त्रा­भा­वा­न्नै­त­दि­त्याह -
कुत इति ।

नियामकविषयं हेतुमवतार्य व्याचष्टे -
विशेषेति ।

वाक्यस्य विवक्षितमर्थं वदन्पदं पूरयति -
तकार इति ।

पदं पूरयित्वा पदार्थं वद­न्वा­क्या­र्थ­माह -
दुर्निष्क्रमेति ।

कथ­मे­ता­व­ता­का­शा­दिभ्यो विलम्बमन्तरेण निःसरणं भाति तत्राह -
तदिति ।

सुख­निः­स­र­ण­मे­वा­का­शा­दिषु विशे­ष­णा­दा­ल­क्ष्यते नावि­ल­म्ब­निः­स­र­ण­मि­त्या­श­ङ्क्याह -
सुखेति ।

किमर्थमित्थं कल्प्यत आकाशादेः सुखेन निःसरणं व्रीह्यादेस्तु दुःखेनेति यथाश्रुतमेव किं न स्यात् , तत्राह -
तस्मिन्निति ।

अतःशब्दस्य प्रकृ­त­प­रा­म­र्शि­त्वेऽ­प्ये­क­वा­क्यो­पा­त्त­व्री­ह्या­दि­प­रा­म­र्शि­त्वेन निरा­का­ङ्क्ष­त्वा­द्वा­क्या­न्त­रो­पा­त्ता­का­शा­द्य­प­रा­म­र्शि­त्वा­दा­का­शा­दि­व­र्ष­णा­न्ता­द­वि­ल­म्बेन निःस­र­ण­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।
आकाशादौ व्रीह्यादौ च तद्भावं परिहर्तुं कर्त­व्य­प्र­य­त्नस्य लाघवगौरवविशेषं निग­म­यि­तु­मि­ती­त्यु­क्तम् ॥ २३ ॥

अनु­श­यि­ना­मा­का­शा­दि­प्र­व­र्ष­णा­न्त­सा­दृश्यं चिरभावि, तत्सा­दृ­श्य­त्वात् , व्रीह्या­दि­सा­दृ­श्य­व­दि­त्यस्य विशेषणश्रुत्या बाधमुक्त्वा प्रकृ­ता­व­रो­ह­वा­क्यै­क­दे­श­म­व­शिष्टं विचारयति -
अन्येति ।

सङ्गतिं सूचयन्विषयमाह -
तस्मिन्निति ।
त इहेति तच्छ­ब्दे­ना­नु­श­यिनो गृह्यन्ते । व्यवहारभूमिः सप्तम्यर्थः ।

व्रीह्या­दि­भा­व­मा­प­न्ने­ष्व­नु­श­यिषु, जायत इति श्रुतेः कर्म­पू­र्व­क­त्वा­श्रु­तेश्च विचारहेतुं संशयमाह -
तत्रेति । अस्मिन्नवधाविति ।
आका­शा­दि­व­र्ष­णा­न्त­त­त्सा­दृ­श्या­प­त्त्य­न­न्त­र­द­शा­या­मि­त्यर्थः । अत्र च स्थावरभावस्य संसा­र­ग­ते­रा­लो­च­न­द्वारा वैराग्यस्यैव दृढी­का­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे व्रीह्या­दि­ज­न्मनो मुख्य­त्वेऽ­नु­श्यिनां तत्प­रि­हा­रा­या­धि­कृ­ते­ना­धिकं प्रयतितव्यम् ।

सिद्धान्ते तदी­य­सं­श्ले­ष­मात्रं निराकर्तुं प्रयत्नलाघवमिति विवक्षित्वा विमर्शापूर्वकं पूर्वपक्षयति -
किं तावदिति ।

आकाशादिष्विव व्रीह्यादिष्वपि संश्लेषमात्रं न तद्देहतेति शङ्कते -
कुत इति ।

विशेषं दर्शयन्परिहरति -
जनेरिति ।
जीवस्य जन्माभावेऽपि देवो जातो मनुष्यो जात इत्यादौ तत्त­द्दे­हा­भि­मा­न­द्वारा जने­र्मु­ख्य­त्व­द­र्श­ना­त्त­त्रापि मुख्यत्वार्थं देहा­भि­मा­न­पू­र्वकं सुख­दुः­ख­भा­क्त्व­मा­स्थे­य­मि­त्यर्थः ।

कथं स्थावरभावे जनेर्मुख्यत्वं नहि तत्र देहा­भि­मा­न­पू­र्वकं मनु­ष्या­दि­दे­ह­व­द्भो­गोऽस्ति, तत्राह -
स्थावरेति ।
‘स्थाणु­म­न्येऽ­नु­सं­यन्ति’ इत्याद्या श्रुतिः ‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः’ इत्याद्या च स्मृतिः ।

ननूदाहृताभ्यां श्रुति­स्मृ­तिभ्यां पापफलत्वं स्थावरभावस्य भाति तत्क­थ­मि­ष्टा­दि­का­रिणां चन्द्र­स्थ­ल­स्ख­लि­तानां तत्प्राप्तिः शङ्क्यते, तत्राह -
पश्विति ।
सोमपानावसरे पर­स्प­र­मु­च्छि­ष्ट­भ­क्ष­ण­मा­दि­श­ब्देन विवक्षितम् ।

‘अग्नीषोमीयं पशुमालभेत’ इति विशे­ष­शा­स्त्रान्न हिंस्या­दि­त्या­दि­सा­मा­न्य­शा­स्त्रस्य विशेषविषये बाधा­त्प­शु­हिं­स­नस्य नानि­ष्ट­फ­ल­ते­त्या­शङ्क्य क्रत्वर्थतया पुरुषार्थतया च विधि­नि­षे­ध­यो­र्भि­न्ना­र्थ­त्वे­ना­वि­रो­धा­द्बा­ध्य­बा­ध­क­त्वा­सि­द्धे­र­शक्यं पशुहिंसनस्य निषे­धा­धि­ग­त­म­न­र्थ­हे­तु­त्व­म­पा­क­र्तु­मि­त्या­श­य­वा­नु­प­सं­ह­रति -
तस्मादिति ।

पशु­हिं­सा­दे­र­ङ्ग­त्वान्न स्वातन्त्र्येण व्रीह्या­दि­ज­न्म­हे­तु­ते­त्या­शङ्क्य पापान्तरस्य तद्धेतुत्वे दृष्टान्तमाह -
श्वादीति ।

अवरोहाधिकारे श्वादिभावः श्रुतो नेत्याशङ्क्य श्रुत्यन्तरमाह -
यथेति ।
अनुशयिनां व्रीह्या­दि­ज­न्मनो मुख्यत्वे तत्प­रि­हा­रा­या­धि­कृ­तेन प्रयत्नगौरवं कर्त­व्य­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञां पूरयतित्वा योजयति -
एवमिति ।

तव सौत्रं दृष्टान्तमादाय व्याचष्टे -
पूर्ववदिति ।
जनेर्मुख्यत्वाय व्रीह्या­दि­ष्व­नु­श­यि­न­स्त­त्सु­ख­दुः­ख­भाजो भवन्तीत्युक्तम् ।

तथाच तेषां तेषु न संश्ले­ष­मा­त्र­मिति शङ्कते -
कुत इति ।

पूर्ववदिति सूत्र­भा­ग­स्या­र्थ­द्व­य­वि­व­क्षया प्रयु­क्त­त्वा­द­र्था­न्तरं दर्शयन्परिहरति -
तद्वदिति ।

वायु­र्भू­त्वे­त्यादौ व्रीह्या­दि­वाक्ये चोक्तिसाम्येऽपि स्थाव­रा­दि­भा­व­स्या­नु­श­यिनां विरोधिनी पूर्ववाक्ये व्रीह्या­दि­वाक्ये वा न काचि­दु­क्ति­र­स्तीति शङ्कते -
कोऽभिलापस्येति ।

कर्म­प­रि­णा­म­नि­मि­त्त­त्व­क­थनं विना तद्भा­वो­क्ति­स्त­द्दे­ह­त्व­प्रा­प्त्य­भावे लिङ्गमिति ब्रुव­न्न­भि­ला­पस्य तद्वद्भावमाह -
कर्मेति ।

अन्तरेण कर्मव्यापारं व्रीह्यादितेति नास्ति सङ्की­र्त­न­मि­त्या­शङ्क्य कर्म­वि­शे­ष­व्या­पा­रस्य निमि­त्त­त्वे­ना­नु­क्ति­रि­ष्टे­त्याह -
यथेति ।

अनुशयिनां व्रीह्यादिभावेन जन्मा­स्मि­न्प्र­क­रणे कर्म­व्या­पा­रोक्तिं विनो­क्त­त्वा­दा­का­शा­दि­भा­व­व­दिति फलितमाह -
तस्मादिति ।

किञ्च ब्राह्म­णा­दि­ज­न्म­न्येव रमणीयचरणा इत्या­दि­क­र्म­की­र्तनं प्रागपि तज्जन्मनो व्रीह्यादिभावेन जन्मसत्त्वे व्यर्थं स्यात् । अतो नास्ति पुर­स्ता­ज्ज­न्मेति श्रुता­र्था­प­त्ति­माह -
यत्रेति ।

किञ्च यो यो ह्यन्न­म­त्ती­त्या­दि­नो­त्त­रत्र पुरु­षा­हु­ति­स­म्ब­न्धोऽ­नु­श­यिनां श्रूयते स च तेषां व्रीह्यादिभावेन जन्मोपगमेन तल्लवनादौ प्रवा­स­प्र­स­ङ्ग­द­युक्तः स्यादतो न पूर्वं मुख्यं जन्मेति श्रुता­र्था­प­त्त्य­न्त­र­माह -
अपिचेति ।

जीवानां व्रीह्या­दि­भ्योऽ­न्य­त्वा­त्त­त्पी­ड­नेऽपि न प्रवा­सोऽ­स्ती­त्या­श­ङ्क्याह -
यो हीति ।

अनुशयिनां प्रवासेऽपि का क्षतिः, तत्राह -
तत्रेति ।

पूर्वो­क्त­हे­तु­फ­ल­मु­प­सं­ह­रति -
अत इति ।

यत्तु जने­र्मु­ख्य­त्व­सि­द्धे­र्भो­ग­स्था­न­त्वाच्च स्थावरत्वस्य मुख्य­मे­वा­नु­श­यिनां व्रीह्या­दि­ज­न्मेति, तत्राह -
एतेनेति ।
उक्तयुक्त्या जन्म­श्रु­ते­रु­प­च­रि­ता­र्थ­त्वे­नेति यावत् ।

अनुशयिनां वा स्थावरजीवानां वा स्थावरभावस्य भोगस्थानतेति विक­ल्प्या­द्य­मु­क्त­न्या­येन दूषयति -
उपभोगेति ।
यदनुशयिनां स्थावरत्वस्य भोगस्थानत्वं तच्च प्रतिब्रूयादिति सम्बन्धः ।

द्विती­य­म­ङ्गी­क­रोति -
नचेति ।

केषां तर्हि तदुपभोगायतनं, तत्राह -
भवत्विति ।

अन्येऽपि न तत्र भोक्तारो व्रीह्या­दि­सं­श्लि­ष्ट­त्वा­द­नु­श­यि­व­दि­त्या­शङ्क्य तद्दे­ह­प­रि­णा­मि­पा­प­रा­हि­त्यु­मु­पा­धि­रि­त्याह -
अपुण्येति ।

अनुशयिनामपि ब्रीह्या­दि­भा­वा­नु­कू­ल­पा­प­वि­शे­ष­वत्त्वं कल्प्य­मि­त्यु­पा­धे­र­स­म्भ­व­मा­शङ्क्य निर­ति­श­य­पु­ण्य­का­रिणां प्रब­ल­पा­प­रि­ग्र­हा­यो­गा­द­ल्प­पा­पैश्च स्थाव­र­त्वा­सि­द्धे­र्मै­व­मि­त्याह -
चन्द्र­म­स­स्त्विति ॥ २४ ॥

परोक्तमनूद्य निरस्यति -
अशुद्धमिति ।

अनुवादं विभजते -
यदिति ।

इष्टा­दि­का­रि­णोऽ­नि­ष्ट­फ­ल­व­त्त्व­स­म्भवे फलितमाह -
इत्यत इति ।

एतेन गौणी जन्मश्रुतिरिति प्रत्यु­क्त­मि­त्याह -
तत्रेति ।

व्रीह्या­दि­ज­न्मनो मुख्यत्वे सतीते यावत् । परिहारमवतारयति -
तदिति ।

न वैदिकं कर्माशुद्धमिति प्रतिज्ञायां शास्त्र­हे­तु­त्वा­दि­त्युक्तं विवृणोति -
अयमिति ।

अनुमानमपि कस्मा­द­स्मि­न्नर्थे न प्रमा­ण­मि­त्या­शङ्क्य दृष्टं सामा­न्य­तोऽ­दृष्टं वा तदिति विकल्प्याद्यं प्रत्याह -
अती­न्द्रि­य­त्वा­दिति ।

द्वितीयन्दूषयति -
अनियतेति ।

तदेव प्रपञ्चयति -
यस्मिन्निति ।
शुद्धे हि देशे साय­म्प्रा­त­रि­त्यादौ काले जीवनादौ च निमित्ते योऽग्नि­हो­त्रा­दि­धर्मो निर्वर्त्यते स एवाशुद्धे देशे मध्यरात्रादौ काले मरणादौ च निमित्ते कुतः सन्नधर्म इति प्रसिद्धं तथाच न तत्र सामान्यतोदृष्टं सावकाशमित्यर्थः ।

धर्मादिज्ञानं नानुमानिकं किन्तु शास्त्र­मा­त्र­कृ­त­मि­त्युक्तं तन्निगमयति -
तेनेति ।

शास्त्रादेव धर्मा­दि­ज्ञा­नेऽपि प्रकृते किं जातं, तदाह -
शास्त्राच्चेति ।

दुष्टत्वमपि ज्योतिष्टोमस्य निषेधाधिगतमिति साङ्ख्यः शङ्कते -
नन्विति ।

पशुहिसायां निषे­ध­सा­म­र्थ्या­द­न­र्थ­हे­तु­त्व­मौ­त्स­र्गि­क­मि­त्य­ङ्गी­क­रोति -
बाढमिति ।

तथापि विधि­सा­म­र्थ्या­त्तस्य क्रतूपकारित्वेन श्रेयो­हे­तु­त्व­मा­प­वा­दि­क­मु­पे­य­मि­त्याह -
अपवाद इति ।

तयोः सामा­न्य­वि­शे­ष­वि­ष­य­त्वेन व्यव­स्थि­त­वि­ष­य­त्वा­द­वि­रु­द्ध­तया न बाध्य­बा­ध­क­ते­त्युक्तं तत्राह -
उत्सर्गेति ।
पुशहिंसाया निषे­धा­द­न­र्थ­हे­तुत्वं क्रतूपकारो विधे­रि­त्यु­भ­या­र्थ­त्वा­वि­रो­धेऽपि परि­हृ­त्यै­वा­नर्थं क्रतू­प­का­रे­णा­र्थ­बा­हु­ल्य­हे­तु­त्वा­भा­वेन विधिरनर्थकः स्यात् । नच श्येनेऽपि वैधी प्रवृत्तिरिति तस्य विशि­ष्टा­र्थ­हे­तुता । सर्वत्र कामेषु करणांंशे रागा­त्प्र­वृ­त्ति­रि­ति­क­र्त­व्य­तांशे वैधीत्युपगमात् । ज्योतिष्टोमस्य श्येनस्यैव काम्यत्वेऽपि नाभि­च­रे­दि­ति­व­द­नि­षि­द्ध­त्वा­द­ग्नी­षो­मी­य­हिं­सा­या­मि­ति­क­र्त­व्य­रू­पायां प्रवृ­त्ते­र्वि­ध्य­धी­न­त्वा­द्वि­शि­ष्टा­र्थ­सा­ध­न­त्व­मेव । तथाच विधि­नि­षे­ध­यो­र्वि­रोधे साव­का­शा­न­व­का­श­न्या­येन व्यवस्थेति भावः ।

विधि­नि­षे­ध­यो­र­वि­रोधे फलितमाह -
तस्मादिति ।
नानृतं वदे­दि­ति­व­त्क­स्य­चि­त्प्र­क­रणे श्रुत­त्वा­भा­वा­त्पु­रु­षा­र्थ­त्वेन प्राप्तहननस्यैव न हिंस्यादिति निषे­धा­द्वि­हि­त­क्र­त्व­र्थ­हिं­साया निषे­धा­वि­ष­य­त्वा­न्ना­न­र्थ­हे­तुता । किं तु सुख­फ­ल­त्व­मे­वे­त्यर्थः ।

शिष्टै­र­नु­ष्ठी­य­मा­न­मपि देशविशेषे मांसाशनादि विवादास्पदं देशान्तरे दृश्यते, तत्राह -
अनि­न्द्य­मा­न­त्वा­दिति ।

वैदिकस्य कर्मणः शुद्धत्वे सिद्धमर्थमाह -
नेति ।
प्रतिरूपं प्रति­कू­ल­म­नि­ष्ट­मिति यावत् ।

कर्मा­न्त­र­नि­ब­न्ध­न­स्तर्हि ब्रीह्या­दि­भा­वोऽ­नु­श­यिनां भवि­ष्य­ती­त्यु­क्तम् , तत्राह -
नचेति ।
इहेति व्रीह्या­दि­ज­न्म­नी­त्यर्थः । वैशे­षि­कोऽ­धि­का­रोऽ­सा­धा­रणो हेतुः ।

अनुशयिनां तद्भा­वो­क्ति­स्तर्हि कथमित्यशङ्क्याह -
अत इति ॥ २५ ॥

किञ्च वाक्यशेषे संयोगस्यैव तद्भावस्य श्रुते­रु­प­क्र­मेऽपि तद्भावः संयो­गा­न्ना­र्था­न्त­र­मि­त्याह -
रेतःसिगिति ।

सूत्रं व्याकरोति -
इतश्चेति ।

प्रकृ­तो­प­यो­गि­त्वे­ना­न्न­भ­क्षकं तरुणत्वेन विशिनष्टि -
यो रेत इति ।

तद्भूय एव भवतीति श्रुत्या तद्भा­व­मे­वा­न्ना­नु­ग­तोऽ­नु­शयी प्रतिपद्यत इत्युच्यते न संयो­ग­मा­त्र­मि­त्या­श­ङ्क्याह -
नचेति ।
अत्रे­त्य­द्य­मा­ना­न्ना­नु­ग­तोऽ­नु­शयी वाक्यं वा प्रकृतमुच्यते ।

रेतःसिचः स्वभावालोचनया मुख्यस्य तद्भावस्यायोगं स्फोरयति -
चिरेति ।

अनु­श­यि­स्व­भा­वा­लो­च­न­यापि तमेवार्थं समर्थयते -
कथमिति ।

मुख्यस्य तद्भावस्यायोगे फलितमाह -
तत्रेति ।

तथापि व्रीह्यादिभावे किं जातं तदाह -
तद्वदिति ।

अन्य­थो­प­क्र­मो­प­सं­हा­र­यो­र्वि­रोधः स्यात्त­त्प­रि­हा­रा­र्थ­मु­प­सं­हा­र­व­दु­प­क्र­मोऽपि नेतव्य इत्याह -
इत्यविरोध इति ॥ २६ ॥

तर्हि सर्व­त्रा­नु­श­यिनां संसर्गमात्रमिति ब्राह्म­ण­यो­नि­मि­त्या­दि­कापि श्रुति­रु­प­च­रि­ता­र्थे­त्या­श­ङ्क्यो­क्तम् -
योनेरिति ।

सूत्रं व्याकरोति -
अथेत्यादिना ।

शरीरवत्त्वस्य विशि­ष्टा­व­स­र­त्व­द­र्श­ना­द्व्री­ह्या­दिषु नानुशयिनां तद्वत्त्वं नापि सुखा­द्य­न्वि­त­त्व­मिति फलितमाह -
तस्मादिति ।

अनुशयिनां व्रीह्या­दि­ज­न्मा­मु­ख्य­मु­प­पा­द्या­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

तदे­व­मि­ष्टा­दि­का­रि­णा­म­नि­ष्टा­दि­का­रिणां चारो­हा­व­रो­ह­रू­प­सं­सा­र­गतौ सिद्धायां ततो वैरा­ग्य­म­धि­का­रि­वि­शे­ष­ण­तया वाक्या­र्थ­धी­सा­धनं दृढीकृतं भवतीति पादा­र्थ­मु­प­सं­ह­रति -
इति सिद्धमिति ॥ २७ ॥

संसा­र­ग­ति­नि­रू­प­णेन ततो दृढी­कृ­त­वै­रा­ग्यस्य वाक्यार्थावगतये तत्त्वमर्थौ संशोधयितुं पाद­मा­र­भ­मा­ण­स्त्व­म­र्थस्य जाग्रदवस्था संसारनिरूपणेनैव निरू­पि­ते­त्यु­पेत्य स्वय­ञ्ज्यो­ति­ष्ट्व­सि­द्धये स्वप्नावस्थां वक्तुं पूर्वपक्षयति -
सन्ध्ये सृष्टिरिति ।

वृत्तमनूद्य पादसङ्गतिमाह -
अतिक्रान्त इति ।
संसारस्य पुनः­पु­न­रा­रो­हा­व­रो­ह­रू­प­त्वा­त्त­स्मि­न्न­स्वास्थ्ये विरक्तस्य वाक्या­र्थ­ज्ञा­नार्थं पदार्थशोधनाय द्विती­य­पा­दा­रम्भः । तत्रापि त्वम­र्थ­स्यो­द्दे­श्य­त्वात् ‘न स्थानतोऽपि’ इत्यतः प्राक्त­न­स्या­व­स्था­नि­र्मु­क्त­त्व­प्र­ति­पा­द­नाय प्रयत्यते । ततश्चा पाद­स­मा­प्ते­स्त­त्प­दार्थो विविच्यते । तत्रापि स्वय­ञ्ज्यो­ति­ष्ट्व­स्पा­ष्ट्यार्थं स्वप्नावस्था प्रथमं व्यवस्थाप्यत इत्यर्थः ।

आरम्भणाधिकरणे स्वप्नस्य मायामयत्वं सिद्धवत्कृत्य जाग्रदवस्थाया मायामयत्वं निरूपितम् । इदानीं तदेव स्वप्नस्य मायामयत्वं प्रकटयितुं तद्वि­ष­य­वा­क्य­मु­दा­ह­रति -
इदमिति ।

तस्मिन्वाक्ये स्वाप्नीं सृष्टिमधिकृत्य रथा­दि­स­र्गा­म्ना­ना­द्र­था­द्य­भा­वा­म्ना­नाच्च संशयमाह -
तत्रेति ।
पार­मा­र्थि­क­त्व­म­र्थ­क्रि­या­स­म­र्थ­त्व­मि­त्य­भि­प्रेत्य प्रबोध इवे­त्यु­दा­ह­र­ण­म­न्यथा तत्रापि वास्तव्याः सृष्टे­र­नि­ष्ट­त्वेन साध्यवैकल्यात् । मायामयत्वं प्राती­ति­क­स­त्ता­मा­त्रो­पे­त­त्वम् । अत्र च त्वमर्थस्य स्वप्ना­व­स्था­नि­रू­प­णेन ततो निष्कृष्टस्य स्वयञ्ज्योतिषः शुद्धतया वाक्या­र्था­न्व­यि­त्वेन तद्धे­तु­त्व­म­स्तीति तत्प्र­ति­पा­द­ना­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे स्वप्नस्य सत्यतया ततो निष्क­र्षा­यो­गा­द­शु­द्ध­स्य­स्या­स्व­य­ञ्ज्यो­तिषो वाक्या­र्था­न्व­या­सिद्धिः ।