न्यायनिर्णयव्याख्या
३ परिच्छेदः
सिद्धान्ते तस्य मिथ्यात्वात्ततो निष्कृष्टस्य स्वयञ्ज्योतिष्ट्वात्तदन्वयेन तद्धीहेतुत्वमिति मत्वा पूर्वपक्षमुपादत्ते -
तत्रेति ।
प्रतिज्ञां विवृण्वन्नादौ सन्ध्यशब्दार्थमाह -
सन्ध्यमितीति ।
तत्र मानमाह -
वेद इति ।
प्रथमप्रयोगाभावे कथं वैदिकप्रयोगसिद्धिरित्याशङ्क्य यौगिकत्वान्न तदपेक्षेत्याह -
द्वयोरिति ।
ऐहिकामुष्मिकं च यदैन्द्रियकं रूपादिज्ञानं तस्याभावादनुदयाच्च स्वप्नस्थानं तयोः सन्ध्यमुक्तम् । स्थूलदर्शनस्य चाभावाद्वासनामयज्ञानस्य तत्र भावात्प्रबोधसम्प्रसादयोर्वा सन्ध्यं स्वप्नस्थानमिति विवेक्तव्यम् ।
पदार्थमुक्त्वा प्रतिज्ञां पूरयति -
तस्मिन्निति ।
स्वप्नसृष्टेर्न सत्यत्वं मानाभावादित्याह -
कुत इति ।
श्रुतिं प्रमाणयन्नुत्तरमाह -
यत इति ।
बाह्यरथाद्यभावेऽपीत्यथशब्दः ।
न केवलं सृष्टिश्रुत्या स्वप्नसृष्टेः सत्यत्वं सकर्तृकत्वादपि तस्माज्जागरितसृष्टिवदर्थक्रियासामर्थ्यं सत्यत्वमेष्टव्यमित्याह -
स हीति ॥ १ ॥
किञ्च विमताः सत्याः, निर्मितत्वाज्जाग्रन्निर्मितरथादिवदित्याह -
निर्मातारं चेति ।
निर्मितान्कामान्विशिनष्टि -
पुत्रादयश्चेति ।
निर्मातारं चेत्यादि व्याकरोति -
अपिचेति ।
सुप्तेषु करणेषु निर्व्यापारेष्विति यावत् । स त्वया पृष्ट आत्मेति शेषः ।
कामशब्दस्य यौगिकार्थमाह -
पुत्रादयश्चेति ।
रूढिर्योगमपहरतीतिन्यायेन शङ्कते -
नन्विति ।
प्रकरणविरोधान्नात्र रूढिरित्याह -
नेत्यादिना ।
तत्रेति य एष इत्यादि यत्र श्रुतं तत्रैव प्रकरण इति यावत् । परकर्तृकत्वादपि सत्यैव स्वप्नसृष्टिः सम्प्रतिपन्नवदित्याह -
प्राज्ञं चेति ।
तद्विषयं प्रकरणं प्रकटयति -
प्राज्ञस्येति ।
तद्विषयं वाक्यशेषमपि विशदयति -
तदिति ।
दृष्टान्तस्य साध्यविकलतां प्रत्याह -
प्राज्ञेति ।
हेत्वसिद्धिमाशङ्क्य क्वचिज्जीवकर्तृकत्वश्रवणेऽपि जीवस्य प्राज्ञाभेदाय ब्रह्मणस्तद्भावात्प्राज्ञकर्तृकतेति मत्वा दार्ष्टान्तिकमाह -
तथेति ।
स्वप्नजागरितयोस्तुल्यदेशत्वश्रवणादपि स्वप्नस्य सत्यतेत्याह -
तथाचेति ।
स्वप्नजाग्रद्धियोरेकार्थत्वश्रुत्यापि स्वप्नसृष्टेः सत्यतेत्याह -
यानीति ।
उक्तश्रुतेस्तात्पर्यमाह -
स्वप्नेति ।
बाध्यत्वेन मिथ्यात्वमाशङ्क्य जागरितसृष्टेः श्रुत्या बाध्यत्वेऽपि तत्त्वसाक्षात्कारात्प्रागनुवृत्तेः सत्यत्ववदस्यापि स्वप्नस्य सत्यतेत्याह -
तस्मादिति ।
स्वप्नसृष्टेः सत्यत्वे तद्विशिष्टात्मनोऽशुद्धेर्न वाक्यार्थान्वयितेत्युपसंहर्तुमितीत्युक्तम् ॥ २ ॥
पूर्वपक्षानुवादेन सिद्धान्तं सूत्रयति -
एवमिति ।
अक्षरव्याख्यामारभते -
तुशब्द इति ।
पक्षव्यावृत्तिमेव व्यावर्त्यानुवादेन व्यनक्ति -
नैतदिति ।
पूर्वपक्षनिषेधं प्रतिज्ञायोत्तरपक्षं प्रतिजानीते -
मायेति ।
मायाविद्यायोर्भेदो नेति वक्तुं सूत्रभाष्ययोर्मायाशब्दः । सूत्रे मात्रशब्देन सति मातरि बाध्यत्वं नाम भ्रान्तिसिद्धत्वं स्वप्नस्य जाग्रद्वैलक्षण्यं विवक्षितम् ।
श्रुतियुक्तिभ्यां स्वप्नसृष्टेः सत्यत्वोक्तेर्नेयं प्रतिज्ञेति शङ्कते -
कुत इति ।
तयोरन्यथासिद्धेर्वक्ष्यमाणत्वं मत्वा हेतुमवतार्य व्याकरोति -
कार्त्स्न्येनेति ।
परमार्थवस्तुधर्मो योग्यदेशकालनिमित्तसाहित्यम् । वस्तुत्वस्य कात्स्नर्येन व्याप्तत्वात्तथाव्यक्त्यभावे तद्व्याप्यं वस्तुत्वमपि व्यावर्त्येतेत्यर्थः ।
एकस्यापि सर्वात्मनाऽनभिव्यक्तेः सर्वत्र वस्तुत्वव्यावृत्तिरित्याक्षिपति -
किमिति ।
अतिप्रसङ्गं प्रत्याख्यातुमिष्टं कार्त्स्न्यं व्याचष्टे -
देशेति ।
स्वप्नेऽपि तत्सिद्धिमाशङ्क्याह -
नेत्यादिना ।
तत्र स्वप्ने योग्यदेशायोगं विवृणोति -
न तावदिति ।
यत्र स्वप्नो दृश्यते स एव रथादीनां योग्यो देशः स्यादित्याशङ्क्य स किं देहादन्तर्बहिर्वेति विकल्प्याद्यं प्रत्याह -
नहीति ।
द्वितीयं शङ्कते -
स्यादिति ।
तत्रोपपत्तिमाह -
देशेति ।
तत्रैव श्रुतिमाह -
दर्शयतीति ।
देहाद्बहिरेव स्वप्नधीरित्यत्र युक्त्यन्तरमाह -
स्थितीति ।
अन्तरेव वा स्वप्नो न बहिरित्याह -
नेतीति ।
बहिर्गतस्यागत्यनियमात्तत्रैव प्रबोधप्रसङ्गादपि न स्वप्नो बहिरित्याह -
क्वचिच्चेति ।
श्रावयति स्वप्नद्रष्टा प्रबुद्धः सन्पार्श्वस्थानिति शेषः ।
उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -
देहाच्चेदिति ।
इतश्च देहाद्बहिर्देशान्तरं गत्वा न स्वप्नधीरित्याह -
येनेति ।
न स्वप्नो देशान्तरं गतस्येत्यत्रैव हेत्वन्तरमाह -
यथेति ।
तदेव व्यतिरेकेणोपपादयति -
परिधावन्निति ।
देहाद्देहान्तरं गच्छन्निति यावत् ।
न केवलं स्वप्नोऽन्तरेवेत्युपपन्नं किन्तु श्रौतश्चेत्याह -
दर्शयतीति ।
एतदिति स्वप्नवाचि क्रियाविशेषणम् । स्वप्न्ययेति वृत्तिर्विशेष्यते ।
अन्तरेव स्वप्नश्चेत्कथं तर्हि बहिष्कुलायश्रुतिरिति, तत्राह -
अतश्चेति ।
कथं शरीरे वसतो बहिरेवेत्युक्तिरित्याशङ्क्योपचारे निमित्तमाह -
यो हीति ।
यत्तु स्थितिगतिप्रत्ययभेदसामञ्जस्याय स्वप्नो बहिरिति, तत्राह -
स्थितीति ।
एवं सतीति ।
श्रुतियुक्तिभ्यामन्तरेव स्वप्ने सिद्धे सतीत्यर्थः । विप्रलम्भो विभ्रमः । योग्यदेशायोगं स्वप्नस्योक्त्वा तादृक्कालायोगं स्पष्टयति -
कालेति ।
अत्र रात्रिसमयेऽपि केतुमालादौ वर्षान्तरे वासरो भवतीति भारत इत्युक्तम् ।
विधान्तरेण कालविसंवादमाह -
तथेति ।
योग्यकालायोगमुक्त्वा तादृङ्निमित्तायोगमाह -
निमित्तान्यपीति ।
बुद्ध्यर्थं योग्यनिमित्तायोगं साधयति -
करणेति ।
अस्येति स्वप्नद्रष्टुरुक्तिः ।
कर्मार्थं योग्यनिमित्ताभावमाह -
रथादीति ।
अबाधासम्भवं विभजते -
बाध्यन्ते चेति ।
न केवलं प्रबोधे बाध्यत्वं स्वप्नेऽपीत्याह -
स्वप्न इति ।
आदावन्ते च व्यभिचारधीर्जागरेऽपि तुल्येत्याशङ्क्य विशेषमाह -
रथोऽयमिति ।
न केवलमध्यक्षं स्वप्ने रथादीनां बाध्यत्वं किन्तु श्रुतमपीत्याह -
स्पष्टं चेति ।
योग्यदेशाद्यभावेन सिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ३ ॥
स्वप्नस्य मायामात्रत्वे शुभाशुभफलत्वान्वयव्यतिरेकाभ्यां शास्त्रेण च विरोधः स्यादित्याशङ्क्याह -
सूचकश्चेति ।
सूत्रव्यावर्त्यामाशङ्कामाह -
मायेति ।
विरोधद्वयं प्रत्याह -
नेतीति ।
तत्र प्रथमं श्रुतिविरोधं निरस्यति -
सूचकश्च हीति ।
स्वप्नो भविष्यतः साधुनः सूचक इत्यत्र श्रुतिमुक्त्वा तादृशोऽसाधुनोऽपि सूचकोऽसावित्यत्र श्रुतिमाह -
तथेति ।
अन्वयव्यतिरेकविरोधसमाधिं स्फुटयति -
आचक्षते चेति ।
इतश्चोभयविरोधवैधुर्यमित्याह -
मन्त्रेति ।
तर्हि शुभाशुभसूचकत्वानुपपत्त्या स्वप्नस्य सत्यत्वान्न मायामात्रत्वमित्याशङ्क्यार्थक्रियाकारित्वेऽपि परमार्थत्वाभावान्मिथ्यात्वमित्याह -
तत्रापीति ।
स्वप्नस्य सत्यार्थसूचकत्वेऽपीति यावत् ।
द्विविधविरोधसमाधिफलमुपसंहरति -
तस्मादिति ।
परोक्तमनूद्य दूषयति -
यदित्यादिना ।
तदिति सुप्तस्य स्रष्टृत्वादिवचनम् । एवं सतीति पूर्वोक्तन्यायेन स्वप्नस्य मायामात्रत्वे सतीत्यर्थः ।
स्वप्नदृष्टरथादिस्रष्ट्टत्वादिवचसो गौणत्वं दृष्टान्तेन स्पष्टयति -
यथेति ।
लाङ्गलस्यापि गवाद्युद्वोढृत्वं मुख्यमेव किं न स्यादित्यत्राह -
न त्विति ।
तथापि दार्ष्टान्तिके मुख्यमेव स्रष्टृत्वं सुप्तस्य चेतनत्वेन स्रष्टृत्वयोगादित्याशङ्क्याह -
न तु प्रत्यक्षमिति ।
जाग्रतः स्रष्टृत्ववद्यदि सुप्तस्यापि तदिष्टं तर्हि सृष्टस्य रथादेर्न प्रबोधमात्रेण बाध्यता स्यादित्यर्थः ।
धर्माधर्मयोरेव निमित्तत्वात्कुतः सुप्तस्य निमित्ततेत्याशङ्क्य तत्फलित्वेन तत्कर्तृतयेत्याह -
निमित्तत्वं चेति ।
इतश्च श्रुत्या स्वप्नसृष्टिर्वास्तवी नाभीष्टेत्याह -
अपिचेति ।
हेत्वन्तरं स्फोरयति -
जागरित इति ।
अस्त्वात्मनः स्वयञ्ज्योतिष्ट्वविवेचनाय स्वप्नोक्तिस्तथापि स्वप्ने सृष्टिवचनं मुख्यमेवेत्याशङ्क्याह -
तत्रेति ।
जागरितादविशेषादित्यर्थः ।
पूर्वापरालोचनायां श्रुतेरन्यपरत्वादसत्त्वे रथादीनां सिद्धे फलितमाह -
तस्मादिति ।
यत्तु निर्मातारं चेत्यादि, तत्राह -
एतेनेति ।
रथादिसृष्टिवचनस्य भाक्तत्वोपपादनेनेति यावत् ।
परोक्तमनुमानमनूद्य हेत्वसिद्ध्या दूषयति -
यदपीति ।
स्वयं विहत्य पूर्वं देहं निश्चेष्टं कृत्वा स्वयं निर्मायापूर्वं वासनामयं देहं सम्पाद्य स्वेन भासा स्वकीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन चेत्यर्थः ।
न केवलं बृहदारण्यके जीवस्य स्वापकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -
इहापीति ।
प्रकरणवाक्यशेषाभ्यां परमात्मा निर्मातेत्युक्तमाशङ्क्य जीवभावमापन्नस्य परस्य स्वाविद्यया स्वप्नोदानत्वं वा विना तद्भावं स्वाविद्यया तदधिष्ठातृत्वं वेति विकल्प्याद्यमङ्गीकरोति -
नचेति ।
द्वितीयमपि स्वीकरोति -
तस्येति ।
तर्हि प्राज्ञकर्तृत्वहेतोः सिद्धेरनुमानमदुष्टमित्याशङ्क्य व्यावहारिकं पारमार्थिकं वा सत्यत्वं साध्यमिति विकल्प्याद्ये बाधकं प्रत्यक्षविरोधमाह -
पारमार्थिकस्त्विति ।
व्यवहारे बाधवैधुर्यमिह पारमार्थिकत्वम् ।
द्वितीये दृष्टान्तस्य साध्यविकलतेत्याह -
नचेति ।
वियदादिसर्गस्यासिद्धं मिथ्यात्वमिति कुतो दृष्टान्तस्य साध्यविकलता, तत्राह -
प्रतीति ।
कस्तर्हि स्वप्नस्य जाग्रतो विशेषो येनैतन्मिथ्यात्वं पृथगुच्यते, तत्रह -
प्राक्त्विति ।
व्यवहारेऽपि स्वप्नस्य मिथ्यात्वं वक्तुं पृथगुक्तिरिति भावः ॥ ४ ॥
यदुक्तं स्वप्नो योग्यनिमित्ताभावान्मिथ्येति तन्न, जीवसङ्कल्पस्यैव निमित्तत्वसिद्धेरित्याशङ्क्याह -
परेति ।
सूत्रव्यावर्त्यमाह -
अथापीति ।
पूर्वोक्तरीत्या मिथ्यात्वे स्वप्नस्योक्तेऽपीत्यर्थः ।
जीवेश्वरयोरंशांशित्वेऽपि किं स्यात् , तत्राह -
तत्रेति ।
तस्मिञ्जीवे परस्यांशे श्रुतिस्मृतिसिद्धे सतीति यावत् ।
ज्ञानैश्वर्यशक्तिसाम्ये फलितमाह -
ततश्चेति ।
नाविद्यामयी स्वप्नसृष्टिः किन्तु साङ्कल्पिकी सत्येति चोद्यमनूद्योत्सूत्रं परिहरति -
अत्रेति ।
असर्वज्ञत्वानीश्वरत्वयोरध्यक्षत्वान्न जीवस्य सङ्कल्पादेव रथादिसृष्टिरित्यर्थः ।
तर्हि विरुद्धत्वादेव न तयोरैक्यमिति शङ्कते -
किमिति ।
प्रातीतिके विरोधेऽपि वस्तुतस्तदभावादैक्यमित्याह -
न नेति ।
किमिति तर्हि जीवे सर्वज्ञत्वादि न भातीत्याशङ्क्य सूत्रं योजयति -
विद्यमानमिति ।
अविद्यादीत्यादिपदं तत्कार्यार्थम् ।
यन्न कदाचिदुपलभ्यते तस्य सत्यत्वमेव कथं, तत्राह -
तदिति ।
आदरदीर्घकालनैरन्तर्यत्रयवत्त्वं ध्यानस्य सूचयति -
यतमानस्येति ।
ध्यानकार्यमीश्वरप्रसादप्रतिबन्धकपापध्वंसं दर्शयति -
विधूतेति ।
किमिति तर्हि सर्वेषामीश्वरध्यायिनां तन्नाविर्भवति, तत्राह -
संसिद्धस्येति ।
अणिमादिविशिष्टस्येति यावत् ।
ततः स्वतोव्यक्तौ हेतुं पृच्छति -
कुत इति ।
सूत्रपदेनोत्तरम् -
ततो हीति ।
कथमीश्वरस्य विरुद्धफलहेतुतेत्याशङ्क्य विभजते -
ईश्वरेति ।
तत्र मानमाह -
तथाचेति ।
परमात्मैवाहमिति साक्षादनुभूय सर्वपाशानामविद्यारागादिबन्धनानामपहानिरपक्षयो भवति ।
क्षीणैश्च क्लेशैस्तत्कार्यजन्ममृत्युध्वंस इति निर्गुणविद्याफलमुक्तम् । सगुणविद्याफलमाह -
तस्येति ।
परस्याभिमुख्येन ध्यानाद्बन्धमोक्षापेक्षया वा मन्त्रोक्तपाशहानिजन्मादिप्रहाणसिद्धिद्वयापेक्षया वा तृतीयम् । अणिमाद्यैश्वर्यं देहभेदे देहविशेषे सिद्धदेहे साधकदेहपाते वा सति जगत्कारणसायुज्यापत्त्या भवति । ततश्च विश्वैश्वर्यं निरतिशयैश्वर्यं भुक्त्वा निर्गुणविद्योदये केवलोऽद्वितीयः सन्नाप्तकामो निरतिशयानन्दात्मनैव तिष्ठतीति क्रममुक्तिरित्यर्थः ॥ ५ ॥
जीवस्य स्वत एवानाविर्भूतज्ञानैश्वर्यतया सङ्कल्पमात्रं न स्रष्टृतेत्युक्तं तत्र हेत्वसिद्धिमाशङ्क्याह -
देहयोगाद्वा सोऽपीति ।
सूत्रव्यावर्त्यमाह -
कस्मादिति ।
आक्षेपं विवृणोति -
युक्तं त्विति ।
पारमार्थिकस्य प्रतिबन्धस्याभावः साध्यते प्रातिभासिकस्य वेति विकल्पयति -
उच्यत इति ।
आद्यमङ्गीकरोति -
सत्यमिति ।
द्वितीयं दूषयति -
सोऽपीति ।
सूत्रे देहशब्देन स्थूलं सूक्ष्मं च देहं गृहीत्वा व्याचष्टे -
देहेति ।
वेदनाशब्देन सुखादयो गृह्यन्ते । आदिशब्देन तद्धेतुरविद्या ।
तद्धर्मकस्यैवान्यसम्पर्कतिरस्कारे दृष्टान्तमाह -
अस्तीति ।
अरणिस्थोऽग्निरस्तीत्येतदेव सन्दिग्धमित्याशङ्क्याह -
यथा वेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
सूत्रे वाशब्दस्य पक्षान्तरद्योतित्वमाशङ्क्याह -
वाशब्द इति ।
तत्रान्यत्वाशङ्कां दर्शयति -
नन्विति ।
तद्व्यावृत्तिं विशदयति -
नेतीति ।
इतश्च न वास्तवमन्यत्वमित्याह -
तदिति ।
अनन्यत्वे फलितमाह -
अत इति ।
जीवस्य ज्ञानादितिरोभावेऽपि किं स्यात् , तत्राह -
अतश्चेति ।
साङ्कल्पिकत्वे दोषान्तरमाह -
यदि चेति ।
तत्र हेतुः -
नहीति ।
परोक्तमनूद्य निरस्यति -
यदिति ।
स्वप्नेऽपि जागरवदर्थेन्द्रियसत्त्वे दुर्विवेचनतया साध्यं स्वयञ्ज्योतिष्ट्वं न सिध्येदित्याह -
स्वयमिति ।
इतश्च न स्वप्नस्य सत्यत्वार्थमेव तद्वाक्यमित्याह -
श्रुत्येति ।
तर्हि केनाभिप्रायेणेदं साम्यमुक्तं, तत्राह -
जागरितेति ।
स्वप्नस्य जागरितेन तुल्यनिर्भासत्वाभिप्रायं साम्यवचनमिति शेषः ।
स्वप्नस्य सत्यत्वसाधकाभावे मिथ्यात्वसाधके च फलितमुपसंहरति -
तस्मादिति ॥ ६ ॥
बाह्यकरणोपरमं स्वप्नमात्मनः स्वयञ्ज्योतिष्ट्वार्थं निरूप्यान्तःकरणोपरमं सुषुप्तं तस्य ब्रह्मत्वाय निरूपयति -
तदभाव इति ।
अधिकरणसङ्गतिमाह -
स्वप्नेति ।
स्वप्नाभावस्य प्रतियोगिस्वप्नाधीननिरूपणत्वाद्धेतुहेतुमत्तेत्यर्थः ।
विषयवाक्यान्युदाहरति -
तत्रेति ।
सुषुप्तिचिन्ताप्रस्तावः सप्तम्यर्थः । तत्तत्र तास्ववस्थासु मध्ये सुषुप्तिरुच्यते । यस्यामवस्थायामेत्स्वपनं यथा स्यात्तथा सुप्तः । समस्तः संवृतसर्वबाह्येन्द्रियः । सम्प्रसन्नः संवृतान्तःकरणश्चेत्यर्थः ।
नाडीपुरीततोः समुच्चयवाक्यं पठति -
अन्यत्रेति ।
नाडीपरमात्मनोः समुच्चयवाक्यं दर्शयति -
तथेति ।
परमात्ममात्रविषयाणि वाक्यान्तराण्याह -
तथेति ।
नाडीपुरीतद्ब्रह्मसु सप्तमीश्रुतेः समुच्चयोक्तेश्च संशयमाह -
तत्रेति ।
अत्र स्वापनिरूपणद्वारा ब्रह्माभिन्नत्वमर्थसिद्धेर्वाक्यार्थधीसम्भवात्पादादिसङ्गतिः । पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानियमः ।
सिद्धान्ते नाडीपुरीतद्द्वारा ब्रह्मस्थानत्वनियमाज्जीवस्य ब्रह्मात्मत्वनियतिरित्यभिसन्धाय विमृश्य पूर्वपक्षयति -
किमिति ।
नाडीपुरीतद्ब्रह्मणां विकल्पे प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
एकार्थत्वेऽपि समुच्चये का क्षतिः, तत्राह -
नहीति ।
एकार्थत्वमेव नाड्यादिषु कथं, तत्राह -
नाड्यादीनां चेति ।
एकार्थता निरपेक्षस्वापाधारतेति यावत् ।
अस्मिन्प्राण एवैकधा भवतीत्यपि वाक्ये सप्तम्या चेदाधारत्वं तर्हि सतस्तृतीयोक्तेर्नाधारतेति शङ्कते -
नन्विति ।
सप्तम्यभावेऽपि तदर्थसिद्धेराधारत्वं सतोऽपि स्यादित्याह -
नैष इति ।
तत्रापि सत्यपि नाड्यादाविवेत्यर्थः ।
तस्य गम्यमानत्वमेव दर्शयति -
वाक्येति ।
तत्र सता सोम्येत्यादाविति यावत् ।
प्राणस्यायतनत्वेऽपि किं सतः स्यात् , तत्राह -
प्राणेति ।
तथापि कथं सप्तम्यर्थस्य गम्यमानत्वं, तत्राह -
आयतनं चेति ।
सति सप्तमीनिर्देशस्यासत्त्वमुपेत्योक्तं तदपि नास्तीत्याह -
सप्तमीति ।
विशेषज्ञानोपरमलक्षणस्वापस्य नाडीपुरीततोरयोगात्तयोर्न सुप्तिस्थानतेत्याशङ्क्य शास्त्रप्रामाण्यमाश्रित्याह -
सर्वत्रेति ।
न च जीवाधारत्वं नाड्यादेरयुक्तं बुद्ध्युपाधिकजीवाधारत्वाविरोधात् । नच विकल्पेऽन्यतरबाधाद्युक्तः समुच्चयस्तत्रापि प्रत्येकं सप्तमीश्रुतिसिद्धनिरपेक्षाधारत्वस्यात्यन्तबाधात् ।
ताभिः प्रत्यवसृप्येत्यादौ तु कदाचिन्नाड्य एव कदाचित्ताभिः सञ्चरमाणस्य पुरीतदेव कदाचित्ताभिरेव सञ्चरतो ब्रह्मैवाधार इति युक्तमन्यथा निरपेक्षाधारत्वश्रुतिविरोधादिति मत्वोपसंहरति -
तस्मादिति ।
विकल्पे जीवस्य ब्रह्मैक्यमनियतमिति फलितं वक्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तमाह -
एवमिति ।
प्रतिज्ञां विभजते -
तदित्यादिना ।
चकारेण पुरीतदुक्तिं गृहीत्वाह -
समुच्चयेनेति ।
समुच्चये सिद्धान्ते प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे -
कुतइत्यादिना ।
नाड्यादीनां सुप्तिस्थानत्वश्रुतिर्विकल्पेऽपि स्यादित्याशङ्क्याह -
विकल्पे हीति ।
तेषामन्यतमस्य सुप्तिस्थानत्वे नान्यतमस्य तदिति पक्षे बाधः स चायुक्तो बाधस्यागतिकगतित्वादित्यर्थः ।
परोक्तं विकल्पहेतुमनुवदति -
नन्विति ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाह -
नेतीति ।
प्रकृतदर्शादिसाधनीभूतपुरोडाशप्रकृतितया व्रीहियवौ श्रुतौ, समर्थौ च निरपेक्षतया पुरोडाशं कर्तुं तयोर्मिथोपेक्षायामनपेक्षसाधनत्वार्थकश्रुतिबाधादनन्यगतित्वेन विकल्पाश्रयणम् । नाड्यादीनां तु न प्रत्येकं स्वापसाधने शक्तिरिति वक्ष्यते, नापि मानमिति भावः । यत्त्वेकार्थत्वं तत्किं मानान्तरसिद्धं किंवा सप्तमीसिद्धम् । नाद्यः । तदनुपलम्भात् ।
न द्वितीय इत्याह -
नहीति ।
प्रासादस्य पर्यङ्कधारणार्थत्वं पर्यङ्कस्य शयनार्थतेति नानार्थत्वेऽप्येकविभक्तिनिर्देशः । व्यवधानाव्यवधानाभ्यां च शयनसाधनत्वसमुच्चयः ।
तद्वदमूषु श्रुतिष्वपि नाड्यादिषु सप्तमीसमुच्चयश्चेत्याह -
तथेति ।
अनेकश्रुतिसामर्थ्यालोचनया समुच्चयमुक्त्वा तत्रैव श्रुतिमाह -
तथाचेति ।
उक्तश्रुतेस्तात्पर्यमाह -
समुच्चयमिति ।
तत्र हेतुः -
एकेति ।
नाडीनां प्राणस्य चैकेन वाक्येनोपादानान्मिथः समुच्चय इत्यर्थः ।
प्राणस्य नाडीसमुच्चयेऽपि ब्रह्मणस्ताभिः समुच्चये किं जातं, तत्राह -
प्राणस्येति ।
समुच्चये श्रुत्यन्तरं नैरपेक्ष्यद्योति विरुध्येतेत्याशङ्क्याह -
यत्रेति ।
नाडीनां द्वारत्वे कथमधिकरणश्रुतिः, तत्राह -
नचेति ।
नाड्यादौ सप्तम्याः सामीप्यमर्थमादाय ब्रह्मण्यधिकरणार्थत्वेऽपि न तद्विरोधोऽस्तीत्यर्थः ।
विरोधाभावं साधयति -
नाडीभिरिति ।
तदेव दृष्टान्तेन स्पष्टयति -
यो हीति ।
इतश्च ब्रह्मैवैकं स्वापाधिकरणमित्याह -
अपिचेति ।
तर्हि नाडीषु सुप्तिसङ्कीर्तनमनर्थकमित्याशङ्क्य हेत्वन्तरमेव स्फोरयति -
अत्रेति ।
नाडीप्रकरणं सप्तम्यर्थः ।
मार्गोपदेशायोक्तानां नाडीनां स्तुत्यर्थं सुप्तिकीर्तनमित्यत्र गमकमाह -
नाडीष्विति ।
तासु सुप्तस्य पाप्मास्पर्शे को हेतुः, तत्राह -
ब्रवीतीति ।
हेतुं विभजते -
तेजसेति ।
विषयदर्शनाभावे तदुत्थसुखाद्यभावात्तद्धेतुधर्माद्यनुमानायोगात्पाप्मभिरस्पर्श इति शेषः ।
हेतुवाक्यं विधान्तरेण व्याकरोति -
अथवेति ।
ब्रह्मसम्पत्तावपि कथं पापास्पर्शः, तत्राह -
ब्रह्मेति ।
कतरद्व्याख्यानमादेयं द्वितीयमित्याह -
एवं चेति ।
नाडीनां ब्रह्मप्राप्तिद्वारत्वे सतीति यावत् ।
नाडीद्वारा ब्रह्मणः स्वापस्थानत्वे क्वचित्ताभिः प्रत्यवसृप्य पुरीतति शेत इति पुरीतदुक्तिर्वृथेत्याशङ्क्य पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -
तथेति ।
उक्तमेव विवृणोति -
य इति ।
आकाशे शेते, चेत्पुरीतति कथं शेते, तत्राह -
तदिति ।
तदेव दृष्टान्तेन स्पष्टयति -
प्राकारेति ।
पुरीतदाकाशसमुच्चयेऽपि कथं पुरीतद्ब्रह्मणोः समुच्चयः, तत्राह -
हृदयेति ।
नाडीब्रह्मणोरिव पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -
तथेति ।
सत्प्राज्ञयोरपि सुप्तिस्थानत्वोक्तेस्त्रयाणामेव कथं समुच्चयोक्तिरित्याशङ्क्याह -
सदिति ।
समुच्चयपक्षमुपसंहरति -
एवमिति ।
तेष्ववान्तरविभागमाह -
तत्रेति ।
नाडीपुरीततोर्द्वारत्वे हेत्वन्तरमाह -
अपिचेति ।
तयोरुपाध्याधारत्वमपि कथं, तत्राह -
तत्रेति ।
नाडीषु पुरीतति च जीवस्योपाध्यन्तर्भूतानि करणानि कर्माणि तिष्ठन्तीत्युपाध्याधारत्वं तयोरुक्तम् । जीवस्य त्वाधारो ब्रह्मैवेत्यर्थः ।
किमिति तयोः साक्षादेव जीवाधारत्वं नेष्टं, तत्राह -
नहीति ।
तर्हि ब्रह्मणोऽपि कुतो जीवाधारत्वमैक्यादित्याशङ्क्याह -
ब्रह्मेति ।
तादात्म्याभिप्रायेण स्वापे जीवस्य ब्रह्माधारत्वोक्तिरित्यत्र लिङ्गमाह -
यत इति ।
स्वशब्दस्य स्वकीयार्थत्वान्न तादात्म्यमत्र भातीत्याशङ्क्य पदार्थोक्त्या वाक्यार्थमाह -
स्वेति ।
जीवस्य ब्रह्मैक्यमेव नाडीपुरीततोस्तु तदुपाध्याधारतया तदाधारतेत्यतुल्यार्थत्वान्न विकल्पोऽस्तीत्युक्तम् । इदानीं विकल्पायोगे हेत्वन्तरमाह -
अपिचेति ।
जीवस्य चेदौत्सर्गिकं ब्रह्मत्वं तर्हि किमिति स्वापे तस्य तद्रूपत्वमुच्यते, तत्राह -
स्वप्नेति ।
सुषुप्तेरपवादाभावाज्जीवस्य ब्रह्मतादात्म्ये फलितमाह -
अतश्चेति ।
इतश्च विकल्पासिद्धिरित्याह -
अपिचेति ।
हेत्वन्तरमेव स्फोरयन्विकल्पवादिनोऽपि संमतमर्थमाह -
स्थानेति ।
क्वचिदिति नाडीपुरीतद्ब्रह्मणामन्यतमोक्तिः । अन्यथा सुप्तिभङ्गो जागरादिवदिति भावः ।
स्वापस्यैवंरूपत्वेऽपि विकल्पे कानुपपत्तिः, तत्राह -
तत्रेति ।
एकत्वमद्वैतावस्थात्वम् ।
सति सम्पन्नस्य विशेषज्ञानाभावे मानमाह -
तदिति ।
अवशिष्टेऽपि स्थानद्वये यथोक्तं सुषुप्तं युक्तमेवेत्याशङ्क्याह -
नाडीष्विति ।
नाड्यादिगोचरस्य पुंसो द्वैतावस्थत्वाद्विशेषाज्ञाने नास्ति हेतुरित्यर्थः ।
द्वैतावस्थस्य विशेषज्ञाननियमे मानमाह -
यत्रेति ।
तस्यापि विशेषाज्ञाने हेतुं शङ्कते -
नन्विति ।
भिद्यत इति भेदो भिद्यमानस्य विषयस्यापीत्यर्थः । जीवस्यातिदूरत्वं स्वाभाविकमौपाधिकं वा ।
तत्राद्यं दूषयति -
बाढमिति ।
स्वाभाविकमपि दूरत्वमज्ञाने हेतुरित्यत्र दृष्टान्तमाह -
यथेति ।
अस्तु प्रस्तुतेऽपि तादृगतिदूरत्वमज्ञानहेतुर्नेत्याह -
न त्विति ।
द्वितीयमनुवदति -
उपाधीति ।
तर्हि विकल्पासिद्धिरित्याह -
तथापीति ।
सुप्तिदशायामुपाधिपरिच्छेदाङ्गीकारे च कतिपयसंनिहितार्थज्ञानप्रसङ्गादशेषविशेषज्ञानशून्यतायै निरूपाधितया जीवस्य ब्रह्मरूपेणावस्थानमास्थेयमित्यर्थः ।
उपाधीनामुपशमे कथं नाड्यादिसमुच्चयोक्तिः, तत्राह -
नचेति ।
इहेति स्वापस्थानमुक्तम् । गुणप्रधानत्वेन समुच्चयोक्तिरित्यर्थः ।
किञ्च नाड्यादीनां स्वापस्थानत्वोक्तेरफलत्वान्न समुच्चयो विकल्पो वेत्याह -
नहीति ।
कथमस्याफलत्वमित्याशङ्क्य स्वातन्त्र्येण वा फलवदङ्गत्वेन वा फलवत्त्वमिति विकल्प्याद्यं प्रत्याह -
नहीति ।
द्वितीयं दूषयति -
नापीति ।
विकल्पसमुच्चययोरप्रतिपाद्यत्वे किमत्र प्रतिपाद्यं, तदाह -
ब्रह्म त्विति ।
तद्विज्ञानेऽपि तुल्यमफलत्वमित्याशङ्क्याधिकरणत्वज्ञानस्य प्रयोजनमाह -
तेनेति ।
ब्रह्म स्वापस्थानमिति ज्ञानस्य फलवत्त्वे फलितमाह -
तस्मादिति ॥ ७ ॥
ब्रह्मण एव प्रबोधापादानत्वोक्तेरपि तदेव सुप्तिस्थानमित्याह -
अत इति ।
सूत्रं व्याचष्टे -
यस्मादिति ।
विकल्पेऽपि तदपादानत्वोक्तिर्ब्रह्मणो घटिष्यते नेत्याह -
विकल्प्यमानेष्विति ।
नच नाडीपुरीततोरुत्थानापादानत्वं कदाचिदपि शिष्यते ब्रह्मण एव तु तद्वचने फलितमुपसंहरति -
तस्मादपीति ।
एवमात्मनो ब्रह्मात्मत्वं सिद्धमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् ॥ ८ ॥
अतः प्रबोधोऽस्मादिति स्वापानन्तरं ब्रह्मणः सकाशात्प्रबोधोक्तेस्तदात्मनैव सुप्तस्तिष्ठतीत्युक्तम् । इदानीं तस्मात्प्रबोधस्तदापत्तिं गमयति सुप्तादन्यस्य प्रबोधसम्भवेन तस्य नाड्यादिस्थानत्वसम्भवादित्याशङ्क्याह -
स एवेति ।
स्वापस्थानाद्ब्रह्मणः प्रतिबुध्यमानं जीवमधिकृत्योपाधिनाशात्कर्मानुस्मृत्यादिदर्शनाच्च संशयमाह -
तस्या इति ।
तस्यैवोत्थानोक्त्या स्वापातिरेकसाधनेन त्वमर्थशोधनात्तस्य ब्रह्मैक्ययोग्यतया वाक्यीयज्ञानोपयोगितेति पादादिसङ्गतिः ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सिद्धान्ते तस्यैवोत्थानादज्ञातब्रह्मात्मना सुप्तस्यावस्थानात्तदैक्यज्ञानादेव मुक्तेस्तदर्थवत्त्वनियतिरित्यभिप्रेत्य नियामकानुपलब्ध्या पूर्वपक्षयति -
तत्रेति ।
नियमसम्भवे नानियमो युक्तिमानिति शङ्कते -
कुत इति ।
नियमायोगं दृष्टान्तेन साधयति -
यदेति ।
जलबिन्दोः सावयवत्वादवयवप्रसर्पणप्रणाडिकयैकत्वमापन्नस्य तस्यैव नोद्धरणम् । जीवस्य तु सोपाधित्वादुपाधेर्यावद्बन्धभावित्वादुद्धारसिद्धिरित्याशङ्क्योपाधिलयाभावे सत्सम्पत्त्यसिद्धेर्मैवमिति मत्वा दार्ष्टान्तिकमाह -
तद्वदिति ।
नियामकायोगे फलितमाह -
तस्मादिति ।
सम्भावनामात्रेणेश्वरो वेत्युक्तम् । अनियमपक्षे मोक्षः सुप्तस्येति ज्ञानवैयर्थ्यमिति वक्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तप्रतिज्ञामाह -
एवमिति ।
ऐक्यावस्थायामवच्छेदाभावे तस्यैवोत्थानं नियन्तुमशक्यमिति शङ्कते -
कस्मादिति ।
अवच्छेदकाविद्याशक्तिं सिद्धवत्कृत्य तस्यैवोत्थाने मानमाह -
कर्मेति ।
षड्यागानामिव समुच्चितानामिह न हेतुत्वं किन्तु प्रत्येकमित्याह -
विभज्येति ।
तत्र कर्मशब्दोक्तं हेतुं विशदयति -
कर्मेति ।
शेषानुष्ठानदर्शनमेव प्रकटयति -
तथाहीति ।
कथमेतावता तस्यैवोत्थानमित्याशङ्क्योक्तम् -
नचेति ।
सामिकृतस्यार्धमनुष्ठितस्येति यावत् ।
एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातादित्याह -
अतिप्रसङ्गादिति ।
उक्तहेतुफलमुपसंहरति -
तस्मादिति ।
अतः स एवोत्तिष्ठतीति शेषः ।
अनुस्मृतिं व्याकरोति -
इतश्चेति ।
का पुनरुक्तानुस्मृतेरन्योत्थानेऽनुपपत्तिः, तत्राह -
नहीति ।
अनुस्मृतिरित्यत्रानुशब्देन प्रत्यभिज्ञापि सूचितेत्याह -
सोऽहमिति ।
शब्दशब्दार्थमाह -
शब्देभ्यश्चेति ।
अयनं गमनमायः प्रतिनियतं गमनं प्रतिन्यायः स यथा भवति तथा योनिं योनिं प्रत्यागच्छति स्वापानन्तरं जागरायेत्यर्थः । सुप्तानामुत्थानयोग्यत्वमापन्नमेतं न विन्दन्तीति सूचितम् । इहेति पूर्वप्रबोधोक्तिः । तदाभवन्तीति स्वापव्यवहितं जागरितमुच्यते ।
विधिपदं व्याचष्टे -
कर्मेति ।
स एवोत्तिष्ठतीत्येतदेवमेवेत्युक्तम् । तदेव व्यतिरेकमुखेन विशदयति -
अन्यथेति ।
विद्यानर्थक्यं व्यनक्ति -
अन्येति ।
कर्मवैयर्थ्यमाह -
एवं चेदिति ।
सुप्तमात्रस्य मुक्त्युपगमश्चेदित्यर्थः । अनुष्ठानकाले फलाभावात्कर्मणो ध्यानस्य च कालान्तरफलस्यान्योत्थानपक्षे वैयर्थ्यमित्यर्थः । विद्यात्र ध्यानम् ।
इतश्च नान्योत्थानमित्याह -
अपिचेति ।
अन्योत्थाने सोऽन्यो जीवो वा स्यादीश्वरो वा, जीवश्चेद्बद्धो मुक्तो वा, बद्धोऽपि देहान्तरे व्यवहरमाणस्तत्र सुप्तो वेति विकल्प्याद्यमनूद्य प्रत्याह -
अन्येति ।
द्वितीयमनुभाष्य दूषयति -
अथेत्यादिना ।
विफलं गौरवमेव स्फोरयति -
यो हीति ।
कल्पान्तरमनूद्य निरस्यति -
अथेति ।
अन्तवत्त्वे का क्षतिः, तत्राह -
निवृत्तेति ।
हेत्वभावादिति भावः । मुक्तस्य नोत्थानमित्युक्तन्यायेन कल्पान्तरं निराह -
एतेनेति ।
तदीयस्वरूपापेक्षया हेतुमाह -
नित्येति ।
प्रत्येकं सर्वपक्षेषु दोषमुक्त्वा साधारणं दोषमाह -
अकृतेति ।
अन्योत्थाने पाश्चात्यप्रबोधकालीनसुखादेर्न पूर्वकर्मकार्यतेत्यकृतमागच्छेत्कृतं च सुप्तस्य मुक्तौ फलमदत्त्वैव नश्येदिति दोषद्वयमित्यर्थः ।
अन्योत्थानायोगे फलितमाह -
तस्मादिति ।
पूर्वपक्षबीजमनुवदति -
यदिति ।
दृष्टान्तवैषम्योक्त्या प्रत्याह -
तदित्यादिना ।
नास्माभिरेवान्यैरपि दुर्विवेचनत्वं तुल्यमित्याशङ्क्याह -
दृश्यते चेति ।
प्रकारान्तरेण दृष्टान्तवैषमाह -
अपिचेति ।
कस्तर्हि जीवः, तत्राह -
सदेवेति ।
सत एवोपाधिना जीवत्वे नानाजीववादोऽपि प्रत्युक्त इत्याह -
एवमिति ।
उक्तमेव व्यतिरेकद्वारोपपादयति -
उपाध्यन्तरेति ।
उपाधिभेदमुपेत्य तत्र तत्र जीवभेदो गम्यतामित्याशङ्क्य बीजाङ्कुरवद्व्यक्ताव्यक्तात्मनैकस्यैवोपाधेः स्थितेर्मैवमित्याह -
स एवेति ।
सुप्तस्यैवोत्थानादज्ञातब्रह्मणा तदवस्थानं सिद्धमित्युपसंहरति -
इत्यत इति ॥ ९ ॥
अवस्थात्रयमुक्त्वा मूर्च्छाख्यमवस्थान्तरं दर्शयति -
मुग्ध इति ।
विषयमाह -
अस्तीति ।
प्राणाणिकस्य विषयत्वात्तस्य लोकसिद्धतामाह -
यमिति ।
स किं जागराद्यवस्थानामन्यतमावस्थान्तर्गतः किंवावस्थान्तरगत इत्यवस्थाचतुष्टयप्रसिद्धिनियमवैलक्षण्याभ्यां सन्देहे प्रत्यभिज्ञया स एवोत्तिष्ठतीत्युक्तेर्विशेषज्ञानाभावाविशेषेणैक्यप्रत्यभिज्ञानान्मुग्धिः सुप्तिरेवेति पूर्वपक्षयति -
स त्विति ।
अत्र मुग्धेरवस्थान्तरत्वोक्त्या ततो विभक्ते त्वमर्थे शोधिते तस्य वाक्यार्थान्वयिनस्तद्धीहेतुत्वात्पादादिसङ्गतिः । पूर्वपक्षे मूर्च्छातिरेकार्थं पृथङ् न प्रयतितव्यम् । सिद्धान्ते पृथक्प्रयत्नध्रौव्यमिति मत्वा पूर्वपक्षं विवृणोति -
तिस्रस्तावदिति ।
शरीरस्थस्येतिविशेषणसिद्धमवस्थान्तरमाह -
चतुर्थीति ।
मूर्च्छापि चिरोच्छ्वासवेपथुप्रभृतिधर्मभेदादवस्थान्तरमित्याशङ्क्य सुप्तेरेवावान्तरभेदादेवंविधत्वसिद्धेर्न धर्मिभेदकल्पनेत्याह -
न त्विति ।
अवस्थान्तरस्याप्रसिद्धत्वे सुषुप्त्यन्तर्भावं मूर्च्छाया मत्वा निगमयति -
तस्मादति ।
तथाच तद्व्यतिरेकार्थं पृथङ् न प्रयतितव्यमिति फलितमितिशब्दार्थः ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
परिशेषादित्यस्यार्थं परिशेषं दर्शयितुमारभते -
न तावदिति ।
जाग्रदवस्थो हीन्द्रियैरर्थानुपलभते मुग्धो नैवमिति वैषम्यं हेतुमाह -
नहीति ।
जाग्रदवस्थस्यैव मुग्धस्यार्थानुपलम्भो दुःखानुभवव्यग्रतया स्यादिति दृष्टान्तेन शङ्कते -
स्यादिति ।
इषुकारन्यायं प्रपञ्चयति -
यथेत्यादिना ।
वैषम्योक्त्या प्रत्याह -
नेत्यादिना ।
मुग्धस्य जागरितावस्थत्वाभावे हेत्वन्तरमाह -
जाग्रतश्चेति ।
देहधारणाभावाद्विषयमात्रानुपलब्धेश्च मुग्धो जाग्रदवस्थो नेति निगमयति -
तस्मादिति ।
अस्तु तर्हि तस्य स्वप्नावस्थत्वं, नेत्याह -
नापीति ।
तर्हि तस्य मृतावस्थत्वं नेत्याह -
नापीति ।
पूर्ववत्प्राणोष्माणौ मुग्धे न सिद्धौ तत्कुतोऽस्य मृतादान्यत्वं तत्राह -
मुग्धे हीति ।
ऊष्मास्ति नेति संशय्यान्यरनिश्चयार्थं हृदयदेशमालभन्ते स्पृशन्तीति यावत् ।
प्राणोऽस्ति नेति च सन्दिह्यान्यतरार्थं नासिकादेशमालभन्त इति सम्बन्धः । नास्तित्वनिश्चयफलमाह -
यदीति ।
परस्य पराध्यवसायो गोचरो नेत्याशङ्क्य कार्यलिङ्गकमनुमानमाह -
दहनायेति ।
अस्तित्वनिश्चयफलमाह -
अथ त्विति ।
तत्रापि कार्यलिङ्गकमनुमानमाह -
संज्ञेति ।
मुग्धस्य मृतत्वाभावे हेत्वन्तरमाह -
पुनरिति ।
यमराजं प्रविष्टस्यापि पुनरुत्थानं किं न स्यात् , तत्राह -
नहीति ।
परिशेषसिद्धं मुग्धस्य स्वापावस्थत्वमित्याह -
अस्त्विति ।
तत्र सालक्षण्यं हेतुमाह -
निःसंज्ञत्वादिति ।
उक्तसालक्षण्येऽपि लक्षणनिमित्तफलानां भेदान्नैक्यमित्याह -
नेत्यादिना ।
लक्षणं लक्षणभेदं विवृणोति -
मुग्ध इति ।
निमित्तभेदमुदाहरति -
निमित्तेति ।
आदिपदेनोभयत्रापि ज्वरादि गृह्यते श्रमापनयार्था ब्रह्मसम्पत्तिः सुषुप्तिः, देहत्यागार्था तत्सम्पत्तिर्मोहः, सति मोहे मरणाभावेऽपि तस्मिन्नसति तदभावादिति फलभेदं मत्वा मोहस्वापयोरैक्ये मानाभावमाह -
नचेति ।
परिशेषायातमर्थमाह -
परीति ।
साम्यवैलक्षण्याभ्यामर्धसम्पत्तिं साधयति -
निःसंज्ञत्वादिति ।
अर्धसम्पत्तिमाक्षिपति -
कथमिति ।
कानुपपत्तिरित्याशङ्क्य मुग्धस्यार्धसम्पत्त्यभावं साधयितुं सुप्तेन साम्यं कर्मतत्फललेशाभावेन कथयति -
यावतेति ।
यत्सुप्तं प्रति सत्सम्पन्नत्वं श्रुतं तदुपाध्युपरमाभिप्रायं स चोपाध्युपरमो मुग्धस्यापीति कृत्स्नसम्पत्तिरेवेति भावः ।
कर्मसम्बन्धस्य यावद्बन्धभावित्वात्सुप्तस्य कर्मराहित्यमसिद्धमित्याशङ्क्य तत्कार्यसुखदुःखधीराहित्यात्तद्धेतुकर्मराहित्यं कल्प्यमित्याह -
जीवे हीति ।
सुप्तस्य सुखानुभवात्तदविनाभूतो दुःखानुभवोऽपि कल्प्यतामित्याशङ्क्य स्वप्रकाशस्वरूपसुखानुभवव्यतिरेकेण कर्मोत्थानुकूलप्रतिकूलार्थधीजन्यौ प्रत्ययावसम्भाविनावित्याह -
नचेति ।
सुप्तस्य कर्मफलवैकल्येऽपि मुग्धस्य किं सिद्धं, तत्राह -
मुग्धेऽपीति ।
सुखादिधीराहित्यकल्पितकर्मराहित्येन सम्पूर्णा सत्सम्पत्तिर्मुग्धेऽपीति निगमयति -
तस्मादिति ।
ब्रह्मसम्पत्त्यविशेषेऽपि सुप्तिमूर्च्छयोर्भेदोऽस्तीत्याह -
अत्रेति ।
यत्तु मूर्च्छायां जीवस्य ब्रह्मणा नार्धसम्पत्तिरिति दर्शितं तदङ्गीकरोति -
नेत्यादिना ।
तर्हि किमपेक्षयार्धसम्पत्तिः, तत्राह -
किमिति ।
अर्धेनादीयमानेन निःसंज्ञत्वेनेति यावत् । परित्यज्यमानेन चार्धेन प्रसन्नवदनत्वादिनेत्यर्थः । अवस्थान्तरं मरणम् ।
उपनेयापनेयार्धाभ्यामुभयपक्षत्वं कथं मुग्धे सिद्धं, तत्राह -
दर्शिते चेति ।
तथापि कथमस्या मरणपक्षत्वं तत्राह -
द्वारं चेति ।
मुम्धत्वं मरणस्य द्वारं चेत्तस्मिन्सति स्यादेवेत्याशङ्क्याह -
यदेति ।
कर्मणः सावशेषत्वे गमकमाह -
तदेति ।
तर्हि कुतो द्वारत्वं मरणं प्रति मोहस्योक्तं, तत्राह -
यदा त्विति ।
कर्मणो निःशेषत्वे प्रयोजकमाह -
तदेति ।
साम्यवैषम्याभ्यां सिद्धमुपसंहरति -
तस्मादिति ।
अवस्थान्तरमप्रसिद्धत्वान्नेत्युक्तमनुवदति -
यत्त्विति ।
जीवद्दशायां सर्वजीवसाधारण्याभावादप्रसिद्धिर्न त्वभेदादित्याह -
नेत्यादिना ।
इदानीमप्रसिद्धिरपि नास्तीत्याह -
प्रसिद्धा चेति ।
आयुर्वेदो वैद्यशास्त्रम् । कथमन्यथा मुसलपातादिना मुग्धं बन्धुमुपलभ्य तदीयसंज्ञालाभार्थं तदीयपितृप्रभृतयश्चिकित्साशास्त्रकुशलमन्विष्यानुगच्छेयुरिति भावः ।
कस्मात्तर्हि पञ्चमतया मुग्धिर्न गण्यते, तत्राह -
अर्धेति ।
निःसंज्ञत्वमप्रसन्नवदनतेत्यादिना सुप्तिमरणान्तर्भावधिया पञ्चमतया मूर्च्छा नोक्तेत्यर्थः ।
उक्तवैषम्यादनन्तर्भावधिया पृथगुक्तिरपि स्यादित्याशङ्क्यानन्तर्भावेऽपि सर्वसाधारणत्वाभावान्मैवमिति मत्वा त्वमर्थशोधनमुपसंहरति -
इत्यनवद्यमिति ॥ १० ॥
स्वप्नाद्यवस्थोक्त्या तद्व्यतिरिक्तं स्वप्रकाशं ब्रह्मात्मकं सदैकरूपं त्वमर्थमुद्धेश्यं परिशोध्येदानीं विधेयतदर्थशोधनमारभमाणस्तस्य तावन्निर्विशेषत्वमाह -
नेत्यादिना ।
सङ्गतिमाह -
येनेति ।
ब्रह्मस्वरूपस्यासकृदुक्तत्वात्किमनेनारम्भेणेत्याशङ्क्य श्रुतिषु दृष्टविवादनिरासेन तन्निर्णयार्थमित्याह -
श्रुतीति ।
विषयोक्तिपूर्वकं संशयबीजमाह -
सन्तीति ।
सविशेषत्वं निर्विशेषत्वं चोभयं लिङ्ग्यते प्रकाश्यते याभिः श्रुतिभिस्तास्तथा । तत्र सविशेष ब्रह्मश्रुतीरुदाहरति -
सर्वेति ।
चकारेणोक्तार्थाः श्रुतयोऽन्या यः सर्वज्ञः स सर्वविदित्याद्याः समुच्चिताः । सविशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथा ।
निर्विशेषब्रह्मश्रुतीरुदाहरति -
अस्थूलमिति ।
यत्तदद्रेश्यमदृश्येऽनात्म्ये नेति नेत्याद्याः श्रुतयश्चकारेण गृह्यन्ते । निर्विशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथेति ।
पूर्ववत्सविषयं संशयबीजमुक्त्वा संशयमाह -
किमिति ।
उभयं सविशेषत्वं निर्विशेषत्वं च लिङ्ग्यते यस्मिन्ब्रह्मणि तत्तथेति यावत् । उभयत्र श्रुत्यनुग्रहादेकत्रोभयोर्विरोधान्नाद्यो विकल्पः । सविशेषत्वं निर्विशेषत्वं वान्यतरद्यत्र लिङ्ग्यते तद्ब्रह्म तथेत्येतत् ।
परस्य परिणामित्वकूटस्थत्वाभ्यां द्वितीयं विकल्पयति -
यदेति ।
अत्र निर्विशेषस्य तदर्थस्य ब्रह्मणो निरूपणे तस्य वाक्यार्थान्वयितया तद्धीहेतुत्वलाभात्पादादिसङ्गतिः ।
पूर्वपक्षे द्विरूपं ब्रह्म ध्येयं सिद्धान्ते तु निर्विशेषमेव तज्ज्ञेयमित्यभिप्रेत्य पूर्वपक्षयति -
तत्रेति ।
उभयविधत्वं विकृताविकृतब्रह्मापेक्षया वा स्थितिप्रलयकालभेदेन वा कार्यकारणब्रह्मभेदेन वा कारणाकारणब्रह्मभेदेन वा न व्यवस्थापयितुं शक्यं ब्रह्मद्वयाभावात् ।
तत्कथमेकस्य विरुद्धोभयरूपतेत्याशङ्क्याह -
उभयेति ।
नच निर्विशेषब्रह्मप्रकरणस्थशब्दानां निषेध्यार्पणेन निषेधवाक्यैकवाक्यतया सप्रपञ्चातात्पर्यान्न सविशेषधीरिति वाच्यम् । उपास्तिप्रकरणस्थसप्रपञ्चवाक्यान्तरैः स्वशेषिविधिविरोधशून्यतया स्वार्थे प्रमाणैः सप्रपञ्चतासिद्धेर्निषेधवाक्यविरोधेऽपि तेषां स्वशेषिवाक्याविरुद्धत्वात्प्रामाण्योपपत्तेरिति भावः ।
उभयरूपं ब्रह्म ध्येयमिति पूर्वपक्षमनूद्य सिद्धान्तसूत्रमादत्ते -
एवमिति ।
उभयलिङ्गत्वं ब्रह्मणः स्वाभाविकमाहो परोपाधिकम् ।
आद्यं प्रत्याह -
न तावदिति ।
अनुपपत्तिं स्फुटयति -
नहीति ।
द्वितीयं शङ्कते -
अस्त्विति ।
स्थानत इति व्याचष्टे -
पृथिव्यादीति ।
स्थानमुपाधिस्तद्योगादिति यावत् । औपाधिकत्वेऽपि सत्यत्वमग्निसम्पर्कजन्यलौहित्यवदिति भावः ।
उपाधिवशादाविद्योभयलिङ्गत्वयोगेऽपि न तात्त्विकमुभयलिङ्गत्वं कूटस्थस्य ब्रह्मणो वास्तवरूपान्तरायोगादित्याह -
तदपीति ।
उक्तमेव दृष्टान्तेन स्पष्ठयति -
नहीति ।
आलक्तकाद्युपाधिघटिते स्फटिकादावस्वच्छताधीस्तर्हि कथं, तत्राह -
भ्रमेति ।
स्वरसधवलस्य स्फटिकादेरुपाधितो दृष्टोरुणिमा न वास्तवः संयुक्तोपाधेरेवारुणतया भानादित्यर्थः ।
उपाधेरमिथ्यात्वेऽपि तत्कृतं मिथ्येत्युक्तम् । इदानीं तस्यापि मिथ्यात्वात्तन्मिथ्येति किं वक्तव्यमित्याह -
उपाधीनामिति ।
उभयरूपत्वं तत्त्वतो ब्रह्मणो न चेत्तर्हि सविशेषत्वमेव नानाश्रुतिवशादिष्यतामित्याशङ्क्याह -
अतश्चेति ।
सर्वस्य विशेषस्याविद्याकृतत्वादेवेति यावत् ।
तत्र हेतुत्वेन सूत्रावयवं व्याचष्टे -
सर्वत्रेति ॥ ११ ॥
न स्थानतोऽपीत्यादिनोक्तमाक्षिप्य समाधत्ते -
नेत्यादिना ।
निषेध्यमनूद्य निषेद्धुं नञर्थमाह -
अथापीति ।
श्रुतिभिर्ब्रह्मणो निर्विशेषत्वे मितेऽपीति यावत् ।
श्रौतस्य नासिद्धिरिति शङ्कते -
कस्मादिति ।
श्रुत्यन्तरविरोधात्तदसिद्धिरिति सूत्रावयवेनाह -
भेदादिति ।
तदेव विभजते -
भिन्ना हीति ।
तादृगारोपदेशस्य फलमाह -
तस्मादिति ।
निर्विशेषत्ववदित्यपेरर्थः ।
उक्तविरोधं स्मारयति -
नन्विति ।
औपाधिकमाकारभेदमादाय प्रत्याह -
अयमपीति ।
उभयरूपत्वस्वीकारेण विरोधसमाधिवदित्यपेरर्थः ।
आकारभेदो नोपाधितोऽपीत्युक्तमित्याशङ्क्याह -
अन्यथेति ।
रूपभेदवादिशास्त्रप्रामाण्यार्थमौपाधिकस्तद्भेदो वक्तव्य इत्यर्थः ।
किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते किं वोपाधिसंनिधेस्तत्त्वत एव ब्रह्मणोऽपि भेदो जायते । प्रथमे ब्रह्मणो नोभयरूपतेत्यभिप्रेत्याह -
नेतीति ।
आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकुर्वन्द्वितीये श्रुत्यन्तरविरोधमाह -
कस्मादित्यादिना ।
कल्पद्वयफलमाह -
अतश्चेति ॥ १२ ॥
भेददर्शननिन्दया भेदोक्तेरपि न तात्त्विको भेदः शास्त्रीयोऽस्तीत्याह -
अपिचेति ।
सूत्रं व्याकरोति -
अपिचेत्यादिना ।
भोक्ता जीवो भोग्यं शब्दादि तदुभयं प्रेर्यं प्रेरितारं च नियन्तारमीश्वरं मत्वा विचार्य तत्सर्वं त्रिविधं मे मम प्रोक्तं ब्रह्मैवेति जानीयादित्यर्थः ।
उक्तवाक्यार्थमाह -
समस्तस्येति ॥ १३ ॥
उत्तरसूत्रव्यावर्त्यां शङ्कामाह -
कथमिति ।
श्रुतीनां तुल्यत्वाद्ब्रह्मणो निर्विशेषत्वे नियामकं नास्तीत्यर्थः ।
तत्परातत्परविरोधे तत्परं बलवदितिन्यायं नियामकं वदन्ननन्तरसूत्रमवतारयति -
अत इति ।
तत्र प्रतिज्ञां विभजते -
रूपादीति ।
प्रश्नद्वारा नियामकमुक्त्वा विवृणोति -
कस्मादित्यादिना ।
एतेषामपि तत्प्रधानत्वमुपास्तिविधिशेषत्वादसिद्धमित्याशङ्क्याह -
इत्येतदिति ।
समन्वयाधिकरणमुपजीव्य फलितमाह -
तस्मादिति ।
सप्रपञ्चवाक्यानामपि तुल्यं तत्प्रधानत्वमित्याशङ्क्याह -
इतराणीति ।
तेषां वस्तुपरत्वाभावे हेतुमाह -
उपासनेति ।
तेषामपि स्वशेष्यविरोधादुक्ता स्वार्थे मानतेत्याशङ्क्य पर्णमयीवाक्यवन्मानान्तरविरोधान्मैवमित्याह -
तेष्विति ।
विरोधस्य तुल्यत्वात्कुतो निर्धारणेत्याशङ्क्याह -
सतीति ।
उक्तहेतुकृतां विनिगमनामेवाभिनयति -
येनेति ॥ १४ ॥
सूत्रान्तरं प्रश्नपूर्वकमवतारयति -
का तर्हीति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
चकारार्थं दार्ष्टान्तिकमाह -
एवमिति ।
किमर्थो ब्रह्मणो निराकारस्याकारोपदेशः, तत्राह -
तदिति ।
अवैयर्थ्यादित्यत्र प्रातिपदिकार्थमाह -
एवमिति ।
निष्प्रपञ्चवाक्यविरोधाद्वैयर्थ्यमेव तेषां किं न स्यादित्याशङ्क्य प्रत्ययार्थमाह -
नहीति ।
पूर्वापरविरोधं शङ्कते -
नन्विति ।
एवमपीत्युक्तरीत्या श्रुतीनां व्यवस्थितत्वेऽपीत्यर्थः ।
औपाधिकमुभयलिङ्गत्वं वास्तवमुपेत्य विरोधः साध्यते किंवाऽविद्याकृतमिति विकल्प्याद्यं निराह -
नेतीति ।
वस्तुधर्मत्वानुपपत्तेः वस्तुनो धर्मः सत्यत्वं तद्वत्तासिद्धेरिति यावत् ।
इतश्च नोपाधिकृतनानात्वस्य सत्यतेत्याह -
उपाधीनां चेति ।
न तेषामाविद्यत्वं शास्त्रतस्तद्धियं विना तद्विशिष्टोपास्त्ययोगादित्याशङ्क्य तत्त्वावेदकमानाद्ब्रह्मज्ञाने तदज्ञानध्वस्तेरुपास्त्यादिव्यवहारस्यापि निरवकाशत्वादुपाधीनां व्यावहारिकसत्त्वेऽपि न तात्त्विकतेत्याह -
सत्यामिति ।
आविद्यकं तु नानात्वं न विरोधहेतुस्तस्य पूर्वमपि सर्वव्यवहारहेतोरुपगतेरिति मत्वाह -
तत्र तत्रेति ॥ १५ ॥
कीदृशं तर्हि निर्विशेषं ब्रह्म, तत्रोक्तम् -
आहेति ।
तद्विभजते -
आह चेति ।
मात्रचोऽर्थमाह -
विलक्षणेति ।
कासौ श्रुतिस्तामाह -
स यथेति ।
एकरसे चिन्मात्रे स दृष्टान्तो यथा येन प्रकारेण लोके सैन्धवस्य घनो मूर्तिविशेषः खिल्यभावोऽन्तर्बहिर्भेदशून्यः सर्वो लवणैकरसस्तथैवायमात्माऽन्तर्बहिर्विभागरहितः समस्तोऽपि प्रकृष्टज्ञप्त्यैकतानस्तिष्ठतीत्यर्थः ।
सविशेषस्यैव सैन्धवघनस्य दृष्टान्तितत्वाद्दार्ष्टान्तिकस्यापि ब्रह्मणः सविशेषत्वं दृष्टान्तदार्ष्टान्तिकयोरैकरूप्यादित्याशङ्क्याह -
एतदिति ॥ १६ ॥
अन्यापोहमुखेन बोध्यमानत्वादपि स्वगतविशेषशून्यं ब्रह्म ।
विशेषवत्त्वे तदुक्त्यापि प्रतिपादनसिद्धावितरव्यावृत्तिवैयर्थ्यादित्याह -
दर्शयतीति ।
सूत्रं व्याचष्टे -
दर्शयतीत्यादिना ।
अन्यनिषेधेनैव ब्रह्मोक्तौ स्वगतविशेषाभावे हेतुमाह -
निर्विशेषत्वादिति ।
रूपद्वयव्याख्यानन्तर्यमथशब्दार्थः । तस्य ब्रह्मधीहेतुत्वमतःशब्दार्थः । विदितं कार्यमविदितं कारणम् । अथो इति निपातोऽप्यर्थः । अधीत्युपरिष्टादन्यदित्यर्थः । तमानन्दं ब्रह्मस्वभावं विद्वान्न कुतश्चन विभेतीति शेषः ।
तत्रैव श्रुत्यन्तरमाह -
बाष्कलिनेति ।
स तु प्रश्ने कृते बाध्यस्य तूष्णीम्भावे भावमविद्वान्भूयो भूयः पप्रच्छ तं पुनरतिनिर्बन्धकारिणं बाध्वो द्वितीये तृतीये वा प्रश्ने प्रत्युक्तवानित्याह -
तं हेति ।
उक्तं चेदुत्तरं किमिति न मया ज्ञातं, तत्राह -
त्वं त्विति ।
कथं तूष्णीम्भाव एवोत्तरं, तत्राह -
उपशान्त इति ।
अथो इत्यादि व्याचष्टे -
तथेति ।
सूत्रगताथोशब्दस्तथेत्यर्थे ज्ञेयः ।
उक्तिफलमाह -
यदिति ।
ज्ञेयमेव विशिनष्टि -
अनादिमदिति ।
आदिरस्यास्तीत्यादिमत्कार्यं तदस्य नास्तीत्यनादिमत्कार्यरहितमित्यर्थः ।
स्वयं च न कार्यमित्याह -
न सदिति ।
नच तत्कारणमित्युक्तम् -
नासदिति ।
तथा वास्तवनिर्विशेषत्ववशेनेति यावत् । सर्वेषां भूतानां पृथिव्यादीनां गुणा गन्धादयः सर्वप्राणभृतां वा गुणा जनकत्वपालकत्वादयस्तैर्युक्तं मां पश्यसीति यदेतदेषा माया मया सृष्टेति योजना ।
कस्मादेषा मायेत्युक्ते निर्विशेषश्रुतिमाश्रित्याह -
नैवमिति ॥ १७ ॥
विशिष्टदृष्टान्तोक्तिरपि निर्विशेषत्वमस्य गमयतीत्याह -
अत इति ।
सूत्राक्षराणि व्याचष्टे -
यत इति ।
पूर्वोक्तसर्वरूपाण्युपादाय विशेषाणामुपाधिनिमित्तत्वे विशेषवत्तायाः सत्यत्वं शङ्कित्वोक्तमपारमार्थिकीमिति । जलसूर्यकादिवदिति कप्रत्ययो बिम्बाद्भेदेन प्रतिबिम्बस्याभासत्वधिया प्रयुक्तः ।
तान्येव मोक्षशास्त्राणि सङ्क्षिप्याह -
यथेति ।
अयं हि विवस्वाञ्ज्योतिःस्वभावः स्वयमेकोऽपि तत्तत्पात्रगता भिन्ना अपोऽनुगच्छन्बहुधा क्रियते । एवमयमात्मा तत्तत्क्षेत्रेष्वनुगच्छन्कूटस्थस्वप्रकाशचिद्धातुरेकोऽपि सन्नुपाधिना भेदरूपः क्रियत इति योजना ।
आदिशब्दोपात्तं जलचन्द्रकोपमानं दर्शयति -
एक एवेति ॥ १८ ॥
उत्तरसूत्रमवतारयति -
अत्रेति ।
श्रौतः स्मार्तश्च दृष्टान्तः सप्तम्यर्थः ।
न तथात्वमिति व्याचष्टे -
नेत्यादिना ।
इहेत्यात्मोक्तिः । हेतुमवतार्य तद्वदग्रहणं दर्शयितुं दृष्टान्तस्वरूपमाह -
सूर्यादिभ्यो हीति ।
दार्ष्टान्तिके तद्वैषम्यमाह -
न त्विति ।
उपाधीनामात्मनो विप्रकृष्टदेशत्वाभावे हेतुमाह -
सर्वगतत्वादिति ।
तेषां तस्मात्पृथग्भूतत्वाभावे हेतुमाह -
सर्वेति ।
वैषम्यफलमाह -
तस्मादिति ॥ १९ ॥
चोद्यमनूद्य सिद्धान्तयति -
अत्रेति ।
दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितांशेन वा सर्वात्मना वा साम्यं तत्राद्यमङ्गीकरोति -
युक्त इति ।
द्वितीयं निराह -
नहीति ।
उपाधेर्भिन्नत्वं भिन्नदेशत्वं च दृष्टान्ते दृष्टमिह तदभावाद्रूपशून्यत्वाच्च ब्रह्मणो न प्रतिबिम्बं कल्प्यमित्याशङ्क्याह -
नचेति ।
शास्त्रीये दृष्टान्ते किं सूत्रेणेत्याशङ्क्याह -
शास्त्रेति ।
प्रयोजनमात्मनो निर्विशेषत्वज्ञानम् ।
विवक्षितांशेन साम्येऽपि सर्वात्मना साम्यमतिप्रसङ्गीत्युक्तमिदानीमाकाङ्क्षापूर्वकं सूत्रमादाय विभजते -
किमित्यादिना ।
वृद्धिह्रासेत्यादि व्याख्यायावशिष्टं व्याचष्टे -
एवमिति ।
अविरोधस्तद्भावस्येति शेषः ॥ २० ॥
ब्रह्म न प्रतिबिम्बभावं गन्तुमलममूर्तत्वाद्गन्धवदित्यत्राप्रयोजकत्वमुक्त्वा दोषान्तरमागमविरोधमाह -
दर्शनाच्चेति ।
सूत्रं विवृणोति -
दर्शयतीति ।
द्विपदोपलक्षितानि मनुष्यादिशरीराणि । चतुष्पदोपलक्षितानि च पश्वादिशरीराणि । पुरश्चक्रे पुरुश्चक्षुराद्यभिव्यक्तेः पुरस्तादेव स स्रष्टेश्वरः पक्षी लिङ्गशरीरी भूत्वा पुरस्तान्येव सृष्टानि शरीराण्याविशत्प्रविष्टवान् । स च वस्तुवृत्त्या पुरुषः पूर्णस्तदतिरिक्तवस्त्वभावादित्यर्थः ।
प्रतिबिम्बपक्षस्य श्रुतिमूलत्वे फलितमाह -
तस्मादिति ।
स्वसिद्धान्तमुपसंहरति -
तस्मान्निर्विकल्पेति ।
स्वमतेनाधिकरणमुक्त्वा स्वयूथ्यमतमुत्थापयति -
अत्रेति ।
व्याख्यातेषु सूत्रेष्विति यावत् ।
न स्थानतोऽपीत्यादि प्रकाशवच्चेत्यतः प्रागेकमधिकरणं तद्गतं विचारं दर्शयति -
प्रथममिति ।
प्रकाशवच्चेत्यादि द्वितीयमधिकरणं तत्रत्यं विचारमाह -
द्वितीयं त्विति ।
तत्र पूर्वपक्षसूत्रं प्रकाशवच्चेति । न केवलं सद्रूपमेव ब्रह्म किन्तु चैतन्यप्रकाशवच्च ‘सत्यं ज्ञानं’ ‘सदेव’ इत्युभयश्रुतेः । एवं सत्यवैयर्थ्यात्सिद्धान्तसूत्रमाह चेति । सत्त्वं चैतन्यप्रकाशमात्रं सदेव विज्ञानमानन्दमित्याद्या श्रुतिराह तन्न ब्रह्मणो नानारसत्वाशङ्केत्यर्थः ।
द्वितीयमधिकरणं दूषयति -
अत्रेति ।
सर्वथापि फलस्य सन्देहस्य च भावेऽपीत्यर्थः ।
कथं फलस्य भावे वैयर्थ्यमित्याशङ्क्य तत्किमनेकरूपत्वनिराकरणं किंवा सन्मात्रत्वसाधनमथवा बोधमात्रत्वबोधनमिति विकल्प्याद्यं दूषयति -
यदिति ।
द्वितीयं निरस्यति -
नचेति ।
न केवलं श्रुतिविरोधोऽपि तु श्रुतार्थापत्तिविरोधश्चेत्याह -
कथं वेति ।
एतेन पूर्वपक्षासिद्धिरुक्ता ।
तृतीयं प्रत्याह -
नापीति ।
श्रुतिविरोधवद्युक्तिविरोधश्चास्तीत्याह -
कथमिति ।
सतो व्यावृत्तस्य तुच्छत्वादित्यर्थः । एतेन सिद्धान्तासिद्धिरुक्ता ।
पूर्वपक्षान्तरमपि परस्यायुक्तं पूर्वाधिकरणविरोधादित्याह -
नापीति ।
प्रसङ्गमेव प्रपञ्चयति -
सत्तेति ।
तद्व्यावृत्तत्वं तद्विशेषितत्वम् ।
श्रुत्यवष्टम्मेन पूर्वपक्षसिद्धिं शङ्कते -
श्रुतत्वादिति ।
विरुद्धमर्थं श्रुतिरपि न वदेदतो न तदवष्टम्भादुभयात्मता शङ्कनीयेत्याह -
नैकस्येति ।
विरोधं परिहर्तुं वाक्यार्थस्याखण्डतां चोदयति -
अथेति ।
वाक्यार्थाखण्डत्वमुपेत्य परस्य संशयानुपपत्तिमाह -
तथापीति ।
एकाधिकरणत्वे सूत्राणामसाङ्गत्याद्भिन्नाधिकरणत्वमाशङ्क्याह -
सूत्राणीति ।
इतश्च नाधिकरणभेदोऽस्तीत्याह -
अपिचेति ।
पूर्वाधिकरणापेक्षितहेत्वन्तरवादित्वेनोत्तरसूत्राणां तच्छेषत्वसिद्धेर्न भेदकल्पनेति हेत्वन्तरमेव स्फुटयति -
ब्रह्मेति ।
आकारवद्ब्रह्मवादिश्रुतीनां प्रकारान्तरेण गतिरिति मतमनुवदति -
यदपीति ।
प्रपञ्चप्रविलयपक्षं दूषयति -
तदपीति ।
सर्वश्रुतीनामेकवाक्यत्वसम्भवे किमिति तदसमीचीनतेति पृच्छति -
कथमिति ।
परविद्याप्रकरणस्थानामाकारवद्ब्रह्मबादिश्रुतीनामेकवाक्यत्वं किं वोपास्तिप्रकरणस्थानामथ वा सर्वासां, तत्राद्यमङ्गीकरोति -
ये हीति ।
यथा रथे वाजिनो युज्यन्ते तथास्यत्मनः संयुक्ताः स्वविषयप्रकाशनाय हरयो हरणादिन्द्रियाणि दश प्राणिभेदापेक्षया च शताः शतानीत्युपक्रम्यात्मनश्चेन्द्रियाणां च भेदं शङ्कित्वोक्तम् -
अयमित्यादि ।
तेषां प्रविलयद्वारा ब्रह्मवाक्येनैकवाक्यत्वे हेतुमाह -
तदेतदिति ।
द्वितीयं दूषयति -
ये पुनरिति ।
तेषां लयार्थत्वेन ब्रह्मवाक्यैकवाक्यत्वाभावे हेतुमाह -
स क्रतुमिति ।
किञ्च मनोमयादिवाक्यान्न साक्षाल्लयो भाति किन्तु लक्षयितव्यः ।
नच श्रुतित्यागेन लक्षणा श्रुतेर्बलीयस्त्वादित्याह -
श्रुत्या चेति ।
तृतीयं प्रत्याह -
सर्वेषां चेति ।
यदि हि काश्चिदपि श्रुतयो नाकारवादितयोपासनापराः स्युस्तदा सर्वासां लयार्थत्वेन निरूपणाद्ब्रह्मप्रधानत्वाविशेषादेता ध्यानविधिप्रधाना निष्प्रपञ्चप्रधानास्त्वेता इति विनिगमनं न स्यात्तथाच सूत्रं विरुध्येतेत्यर्थः ।
निष्प्रपञ्चवाक्येष्वेव फलश्रवणात् ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्सप्रपञ्चवाक्यानां तदेकवाक्यतेत्याशङ्क्याह -
फलमिति ।
उपास्तिफलेन फलवत्त्वादुक्तन्यायाविषयत्वमाकारवद्वाक्यानामिति स्थिते फलितमाह -
इत्यत इति ।
एकवाक्यताहेत्वदृष्टेरपि नैकवाक्यतेत्याह -
कथं चेति ।
हेतुत्वानुपलब्धिरसिद्धेति शङ्कते -
एकेति ।
यद्यपि प्रयाजदर्शपूर्णमासवाक्ययोर्विषयानुबन्धभेदान्नियोगभेदस्तथाप्येकाधिकारनियोग इत्येकनियोगत्वम् । तथा तत्त्वावबोधकामस्यैको नियोगः सर्वत्रेत्येकवाक्यतेत्यर्थः ।
तत्त्वमादिवाक्येषु नियोगाभावादेकनियोगधीरसिद्धेति दूषयति -
नेति ।
तेष्वपि कल्प्यतां नियोगोऽन्यथा प्रामाण्यायोगादित्याशङ्क्याह -
वस्त्विति ।