अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

सिद्धान्ते तस्य मिथ्यात्वात्ततो निष्कृष्टस्य स्वय­ञ्ज्यो­ति­ष्ट्वा­त्त­द­न्व­येन तद्धी­हे­तु­त्व­मिति मत्वा पूर्व­प­क्ष­मु­पा­दत्ते -
तत्रेति ।

प्रतिज्ञां विवृण्वन्नादौ सन्ध्य­श­ब्दा­र्थ­माह -
सन्ध्यमितीति ।

तत्र मानमाह -
वेद इति ।

प्रथ­म­प्र­यो­गा­भावे कथं वैदि­क­प्र­यो­ग­सि­द्धि­रि­त्या­शङ्क्य यौगिकत्वान्न तदपेक्षेत्याह -
द्वयोरिति ।
ऐहिकामुष्मिकं च यदैन्द्रियकं रूपादिज्ञानं तस्या­भा­वा­द­नु­द­याच्च स्वप्नस्थानं तयोः सन्ध्यमुक्तम् । स्थूलदर्शनस्य चाभा­वा­द्वा­स­ना­म­य­ज्ञा­नस्य तत्र भावा­त्प्र­बो­ध­स­म्प्र­सा­द­योर्वा सन्ध्यं स्वप्नस्थानमिति विवेक्तव्यम् ।

पदार्थमुक्त्वा प्रतिज्ञां पूरयति -
तस्मिन्निति ।

स्वप्नसृष्टेर्न सत्यत्वं मानाभावादित्याह -
कुत इति ।

श्रुतिं प्रमा­ण­य­न्नु­त्त­र­माह -
यत इति ।
बाह्य­र­था­द्य­भा­वेऽ­पी­त्य­थ­शब्दः ।

न केवलं सृष्टिश्रुत्या स्वप्नसृष्टेः सत्यत्वं सकर्तृकत्वादपि तस्मा­ज्जा­ग­रि­त­सृ­ष्टि­व­द­र्थ­क्रि­या­सा­मर्थ्यं सत्य­त्व­मे­ष्ट­व्य­मि­त्याह -
स हीति ॥ १ ॥

किञ्च विमताः सत्याः, निर्मि­त­त्वा­ज्जा­ग्र­न्नि­र्मि­त­र­था­दि­व­दि­त्याह -
निर्मातारं चेति ।

निर्मि­ता­न्का­मा­न्वि­शि­नष्टि -
पुत्रादयश्चेति ।

निर्मातारं चेत्यादि व्याकरोति -
अपिचेति ।
सुप्तेषु करणेषु निर्व्या­पा­रे­ष्विति यावत् । स त्वया पृष्ट आत्मेति शेषः ।

कामशब्दस्य यौगिकार्थमाह -
पुत्रादयश्चेति ।

रूढि­र्यो­ग­म­प­ह­र­ती­ति­न्या­येन शङ्कते -
नन्विति ।

प्रक­र­ण­वि­रो­धा­न्नात्र रूढिरित्याह -
नेत्यादिना ।

तत्रेति य एष इत्यादि यत्र श्रुतं तत्रैव प्रकरण इति यावत् । परकर्तृकत्वादपि सत्यैव स्वप्नसृष्टिः सम्प्र­ति­प­न्न­व­दि­त्याह -
प्राज्ञं चेति ।

तद्विषयं प्रकरणं प्रकटयति -
प्राज्ञस्येति ।

तद्विषयं वाक्यशेषमपि विशदयति -
तदिति ।

दृष्टान्तस्य साध्यविकलतां प्रत्याह -
प्राज्ञेति ।

हेत्व­सि­द्धि­मा­शङ्क्य क्वचि­ज्जी­व­क­र्तृ­क­त्व­श्र­व­णेऽपि जीवस्य प्राज्ञाभेदाय ब्रह्म­ण­स्त­द्भा­वा­त्प्रा­ज्ञ­क­र्तृ­क­तेति मत्वा दार्ष्टा­न्ति­क­माह -
तथेति ।

स्वप्न­जा­ग­रि­त­यो­स्तु­ल्य­दे­श­त्व­श्र­व­णा­दपि स्वप्नस्य सत्यतेत्याह -
तथाचेति ।

स्वप्न­जा­ग्र­द्धि­यो­रे­का­र्थ­त्व­श्रु­त्यापि स्वप्नसृष्टेः सत्यतेत्याह -
यानीति ।

उक्त­श्रु­ते­स्ता­त्प­र्य­माह -
स्वप्नेति ।

बाध्यत्वेन मिथ्या­त्व­मा­शङ्क्य जागरितसृष्टेः श्रुत्या बाध्यत्वेऽपि तत्त्व­सा­क्षा­त्का­रा­त्प्रा­ग­नु­वृत्तेः सत्यत्ववदस्यापि स्वप्नस्य सत्यतेत्याह -
तस्मादिति ।
स्वप्नसृष्टेः सत्यत्वे तद्वि­शि­ष्टा­त्म­नोऽ­शु­द्धेर्न वाक्या­र्था­न्व­यि­ते­त्यु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ २ ॥

पूर्व­प­क्षा­नु­वा­देन सिद्धान्तं सूत्रयति -
एवमिति ।

अक्ष­र­व्या­ख्या­मा­र­भते -
तुशब्द इति ।

पक्ष­व्या­वृ­त्ति­मेव व्याव­र्त्या­नु­वा­देन व्यनक्ति -
नैतदिति ।

पूर्वपक्षनिषेधं प्रति­ज्ञा­यो­त्त­र­पक्षं प्रतिजानीते -
मायेति ।
माया­वि­द्या­यो­र्भेदो नेति वक्तुं सूत्र­भा­ष्य­यो­र्मा­या­शब्दः । सूत्रे मात्रशब्देन सति मातरि बाध्यत्वं नाम भ्रान्ति­सि­द्धत्वं स्वप्नस्य जाग्र­द्वै­ल­क्षण्यं विवक्षितम् ।

श्रुति­यु­क्तिभ्यां स्वप्नसृष्टेः सत्य­त्वो­क्ते­र्नेयं प्रतिज्ञेति शङ्कते -
कुत इति ।

तयो­र­न्य­था­सि­द्धे­र्व­क्ष्य­मा­णत्वं मत्वा हेतुमवतार्य व्याकरोति -
कार्त्स्न्ये­नेति ।
पर­मा­र्थ­व­स्तु­धर्मो योग्य­दे­श­का­ल­नि­मि­त्त­सा­हि­त्यम् । वस्तुत्वस्य कात्स्नर्येन व्याप्त­त्वा­त्त­था­व्य­क्त्य­भावे तद्व्याप्यं वस्तुत्वमपि व्याव­र्त्ये­ते­त्यर्थः ।

एकस्यापि सर्वा­त्म­नाऽ­न­भि­व्यक्तेः सर्वत्र वस्तु­त्व­व्या­वृ­त्ति­रि­त्या­क्षि­पति -
किमिति ।

अतिप्रसङ्गं प्रत्या­ख्या­तु­मिष्टं कार्त्स्न्यं व्याचष्टे -
देशेति ।

स्वप्नेऽपि तत्सि­द्धि­मा­श­ङ्क्याह -
नेत्यादिना ।

तत्र स्वप्ने योग्यदेशायोगं विवृणोति -
न तावदिति ।

यत्र स्वप्नो दृश्यते स एव रथादीनां योग्यो देशः स्यादि­त्या­शङ्क्य स किं देहा­द­न्त­र्ब­हि­र्वेति विकल्प्याद्यं प्रत्याह -
नहीति ।

द्वितीयं शङ्कते -
स्यादिति ।

तत्रोपपत्तिमाह -
देशेति ।

तत्रैव श्रुतिमाह -
दर्शयतीति ।

देहाद्बहिरेव स्वप्न­धी­रि­त्यत्र युक्त्यन्तरमाह -
स्थितीति ।

अन्तरेव वा स्वप्नो न बहिरित्याह -
नेतीति ।

बहि­र्ग­त­स्या­ग­त्य­नि­य­मा­त्त­त्रैव प्रबो­ध­प्र­स­ङ्गा­दपि न स्वप्नो बहिरित्याह -
क्वचिच्चेति ।
श्रावयति स्वप्नद्रष्टा प्रबुद्धः सन्पा­र्श्व­स्था­निति शेषः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -
देहाच्चेदिति ।

इतश्च देहा­द्ब­हि­र्दे­शा­न्तरं गत्वा न स्वप्नधीरित्याह -
येनेति ।

न स्वप्नो देशान्तरं गतस्येत्यत्रैव हेत्वन्तरमाह -
यथेति ।

तदेव व्यति­रे­के­णो­प­पा­द­यति -
परिधावन्निति ।
देहाद्देहान्तरं गच्छन्निति यावत् ।

न केवलं स्वप्नोऽ­न्त­रे­वे­त्यु­प­पन्नं किन्तु श्रौतश्चेत्याह -
दर्शयतीति ।
एतदिति स्वप्नवाचि क्रियाविशेषणम् । स्वप्न्ययेति वृत्ति­र्वि­शे­ष्यते ।

अन्तरेव स्वप्नश्चेत्कथं तर्हि बहि­ष्कु­ला­य­श्रु­ति­रिति, तत्राह -
अतश्चेति ।

कथं शरीरे वसतो बहि­रे­वे­त्यु­क्ति­रि­त्या­श­ङ्क्यो­प­चारे निमित्तमाह -
यो हीति ।

यत्तु स्थिति­ग­ति­प्र­त्य­य­भे­द­सा­म­ञ्ज­स्याय स्वप्नो बहिरिति, तत्राह -
स्थितीति ।

एवं सतीति ।

श्रुति­यु­क्ति­भ्या­म­न्त­रेव स्वप्ने सिद्धे सतीत्यर्थः । विप्रलम्भो विभ्रमः । योग्यदेशायोगं स्वप्न­स्योक्त्वा तादृक्कालायोगं स्पष्टयति -
कालेति ।
अत्र रात्रिसमयेऽपि केतुमालादौ वर्षान्तरे वासरो भवतीति भारत इत्युक्तम् ।

विधान्तरेण कालविसंवादमाह -
तथेति ।

योग्य­का­ला­यो­ग­मुक्त्वा तादृ­ङ्नि­मि­त्ता­यो­ग­माह -
निमित्तान्यपीति ।

बुद्ध्यर्थं योग्य­नि­मि­त्ता­योगं साधयति -
करणेति ।
अस्येति स्वप्न­द्र­ष्टु­रुक्तिः ।

कर्मार्थं योग्य­नि­मि­त्ता­भा­व­माह -
रथादीति ।

अबाधासम्भवं विभजते -
बाध्यन्ते चेति ।

न केवलं प्रबोधे बाध्यत्वं स्वप्नेऽपीत्याह -
स्वप्न इति ।

आदावन्ते च व्यभि­चा­र­धी­र्जा­ग­रेऽपि तुल्ये­त्या­शङ्क्य विशेषमाह -
रथोऽयमिति ।

न केवलमध्यक्षं स्वप्ने रथादीनां बाध्यत्वं किन्तु श्रुतमपीत्याह -
स्पष्टं चेति ।

योग्य­दे­शा­द्य­भा­वेन सिद्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ३ ॥

स्वप्नस्य मायामात्रत्वे शुभा­शु­भ­फ­ल­त्वा­न्व­य­व्य­ति­रे­काभ्यां शास्त्रेण च विरोधः स्यादि­त्या­श­ङ्क्याह -
सूचकश्चेति ।

सूत्र­व्या­व­र्त्या­मा­श­ङ्का­माह -
मायेति ।

विरोधद्वयं प्रत्याह -
नेतीति ।

तत्र प्रथमं श्रुतिविरोधं निरस्यति -
सूचकश्च हीति ।

स्वप्नो भविष्यतः साधुनः सूचक इत्यत्र श्रुतिमुक्त्वा तादृ­शोऽ­सा­धु­नोऽपि सूच­कोऽ­सा­वि­त्यत्र श्रुतिमाह -
तथेति ।

अन्व­य­व्य­ति­रे­क­वि­रो­ध­स­माधिं स्फुटयति -
आचक्षते चेति ।

इत­श्चो­भ­य­वि­रो­ध­वै­धु­र्य­मि­त्याह -
मन्त्रेति ।

तर्हि शुभा­शु­भ­सू­च­क­त्वा­नु­प­पत्त्या स्वप्नस्य सत्यत्वान्न माया­मा­त्र­त्व­मि­त्या­श­ङ्क्या­र्थ­क्रि­या­का­रि­त्वेऽपि पर­मा­र्थ­त्वा­भा­वा­न्मि­थ्या­त्व­मि­त्याह -
तत्रापीति ।
स्वप्नस्य सत्या­र्थ­सू­च­क­त्वेऽ­पीति यावत् ।

द्विवि­ध­वि­रो­ध­स­मा­धि­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।

परोक्तमनूद्य दूषयति -
यदित्यादिना ।
तदिति सुप्तस्य स्रष्टृ­त्वा­दि­व­च­नम् । एवं सतीति पूर्वो­क्त­न्या­येन स्वप्नस्य मायामात्रत्वे सतीत्यर्थः ।

स्वप्न­दृ­ष्ट­र­था­दि­स्र­ष्ट्ट­त्वा­दि­व­चसो गौणत्वं दृष्टान्तेन स्पष्टयति -
यथेति ।

लाङ्गलस्यापि गवा­द्यु­द्वो­ढृत्वं मुख्यमेव किं न स्यादित्यत्राह -
न त्विति ।

तथापि दार्ष्टान्तिके मुख्यमेव स्रष्टृत्वं सुप्तस्य चेतनत्वेन स्रष्टृ­त्व­यो­गा­दि­त्या­श­ङ्क्याह -
न तु प्रत्यक्षमिति ।
जाग्रतः स्रष्टृ­त्व­व­द्यदि सुप्तस्यापि तदिष्टं तर्हि सृष्टस्य रथादेर्न प्रबोधमात्रेण बाध्यता स्यादित्यर्थः ।

धर्माधर्मयोरेव निमि­त्त­त्वा­त्कुतः सुप्तस्य निमि­त्त­ते­त्या­शङ्क्य तत्फलित्वेन तत्क­र्तृ­त­ये­त्याह -
निमित्तत्वं चेति ।

इतश्च श्रुत्या स्वप्न­सृ­ष्टि­र्वा­स्तवी नाभीष्टेत्याह -
अपिचेति ।

हेत्वन्तरं स्फोरयति -
जागरित इति ।

अस्त्वात्मनः स्वय­ञ्ज्यो­ति­ष्ट्व­वि­वे­च­नाय स्वप्नो­क्ति­स्त­थापि स्वप्ने सृष्टिवचनं मुख्य­मे­वे­त्या­श­ङ्क्याह -
तत्रेति ।
जाग­रि­ता­द­वि­शे­षा­दि­त्यर्थः ।

पूर्वा­प­रा­लो­च­नायां श्रुते­र­न्य­प­र­त्वा­द­सत्त्वे रथादीनां सिद्धे फलितमाह -
तस्मादिति ।

यत्तु निर्मातारं चेत्यादि, तत्राह -
एतेनेति ।
रथा­दि­सृ­ष्टि­व­च­नस्य भाक्त­त्वो­प­पा­द­ने­नेति यावत् ।

परो­क्त­म­नु­मा­न­म­नूद्य हेत्वसिद्ध्या दूषयति -
यदपीति ।
स्वयं विहत्य पूर्वं देहं निश्चेष्टं कृत्वा स्वयं निर्मायापूर्वं वासनामयं देहं सम्पाद्य स्वेन भासा स्वकी­य­बु­द्धि­वृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन चेत्यर्थः ।

न केवलं बृहदारण्यके जीवस्य स्वापकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -
इहापीति ।

प्रक­र­ण­वा­क्य­शे­षाभ्यां परमात्मा निर्मा­ते­त्यु­क्त­मा­शङ्क्य जीवभावमापन्नस्य परस्य स्वाविद्यया स्वप्नोदानत्वं वा विना तद्भावं स्वाविद्यया तदधिष्ठातृत्वं वेति विक­ल्प्या­द्य­म­ङ्गी­क­रोति -
नचेति ।

द्वितीयमपि स्वीकरोति -
तस्येति ।

तर्हि प्राज्ञ­क­र्तृ­त्व­हेतोः सिद्धे­र­नु­मा­न­म­दु­ष्ट­मि­त्या­शङ्क्य व्यावहारिकं पारमार्थिकं वा सत्यत्वं साध्यमिति विकल्प्याद्ये बाधकं प्रत्य­क्ष­वि­रो­ध­माह -
पार­मा­र्थि­क­स्त्विति ।
व्यवहारे बाधवैधुर्यमिह पारमार्थिकत्वम् ।

द्वितीये दृष्टान्तस्य साध्य­वि­क­ल­ते­त्याह -
नचेति ।

विय­दा­दि­स­र्ग­स्या­सिद्धं मिथ्यात्वमिति कुतो दृष्टान्तस्य साध्यविकलता, तत्राह -
प्रतीति ।

कस्तर्हि स्वप्नस्य जाग्रतो विशेषो येनै­त­न्मि­थ्यात्वं पृथगुच्यते, तत्रह -
प्राक्त्विति ।
व्यवहारेऽपि स्वप्नस्य मिथ्यात्वं वक्तुं पृथगुक्तिरिति भावः ॥ ४ ॥

यदुक्तं स्वप्नो योग्य­नि­मि­त्ता­भा­वा­न्मि­थ्येति तन्न, जीवसङ्कल्पस्यैव निमि­त्त­त्व­सि­द्धे­रि­त्या­श­ङ्क्याह -
परेति ।

सूत्र­व्या­व­र्त्य­माह -
अथापीति ।
पूर्वोक्तरीत्या मिथ्यात्वे स्वप्न­स्यो­क्तेऽ­पी­त्यर्थः ।

जीवे­श्व­र­यो­रं­शां­शि­त्वेऽपि किं स्यात् , तत्राह -
तत्रेति ।
तस्मिञ्जीवे परस्यांशे श्रुति­स्मृ­ति­सिद्धे सतीति यावत् ।

ज्ञानै­श्व­र्य­श­क्ति­साम्ये फलितमाह -
ततश्चेति ।

नाविद्यामयी स्वप्नसृष्टिः किन्तु साङ्कल्पिकी सत्येति चोद्य­म­नू­द्यो­त्सूत्रं परिहरति -
अत्रेति ।
अस­र्व­ज्ञ­त्वा­नी­श्व­र­त्व­यो­र­ध्य­क्ष­त्वान्न जीवस्य सङ्कल्पादेव रथा­दि­सृ­ष्टि­रि­त्यर्थः ।

तर्हि विरुद्धत्वादेव न तयोरैक्यमिति शङ्कते -
किमिति ।

प्रातीतिके विरोधेऽपि वस्तु­त­स्त­द­भा­वा­दै­क्य­मि­त्याह -
न नेति ।

किमिति तर्हि जीवे सर्वज्ञत्वादि न भातीत्याशङ्क्य सूत्रं योजयति -
विद्यमानमिति ।
अवि­द्या­दी­त्या­दि­पदं तत्कार्यार्थम् ।

यन्न कदाचिदुपलभ्यते तस्य सत्यत्वमेव कथं, तत्राह -
तदिति ।

आद­र­दी­र्घ­का­ल­नै­र­न्त­र्य­त्र­य­वत्त्वं ध्यानस्य सूचयति -
यतमानस्येति ।

ध्यान­का­र्य­मी­श्व­र­प्र­सा­द­प्र­ति­ब­न्ध­क­पा­प­ध्वंसं दर्शयति -
विधूतेति ।

किमिति तर्हि सर्वे­षा­मी­श्व­र­ध्या­यिनां तन्नाविर्भवति, तत्राह -
संसिद्धस्येति ।
अणि­मा­दि­वि­शि­ष्ट­स्येति यावत् ।

ततः स्वतोव्यक्तौ हेतुं पृच्छति -
कुत इति ।

सूत्र­प­दे­नो­त्त­रम् -
ततो हीति ।

कथमीश्वरस्य विरु­द्ध­फ­ल­हे­तु­ते­त्या­शङ्क्य विभजते -
ईश्वरेति ।

तत्र मानमाह -
तथाचेति ।
परमात्मैवाहमिति साक्षादनुभूय सर्व­पा­शा­ना­म­वि­द्या­रा­गा­दि­ब­न्ध­ना­ना­म­प­हा­नि­र­प­क्षयो भवति ।

क्षीणैश्च क्लेशै­स्त­त्का­र्य­ज­न्म­मृ­त्यु­ध्वंस इति निर्गु­ण­वि­द्या­फ­ल­मु­क्तम् । सगुणविद्याफलमाह -
तस्येति ।
परस्याभिमुख्येन ध्याना­द्ब­न्ध­मो­क्षा­पे­क्षया वा मन्त्रो­क्त­पा­श­हा­नि­ज­न्मा­दि­प्र­हा­ण­सि­द्धि­द्व­या­पे­क्षया वा तृतीयम् । अणि­मा­द्यै­श्वर्यं देहभेदे देहविशेषे सिद्धदेहे साधकदेहपाते वा सति जग­त्का­र­ण­सा­यु­ज्या­पत्त्या भवति । ततश्च विश्वैश्वर्यं निरतिशयैश्वर्यं भुक्त्वा निर्गु­ण­वि­द्यो­दये केवलोऽद्वितीयः सन्नाप्तकामो निर­ति­श­या­न­न्दा­त्म­नैव तिष्ठतीति क्रम­मु­क्ति­रि­त्यर्थः ॥ ५ ॥

जीवस्य स्वत एवा­ना­वि­र्भू­त­ज्ञा­नै­श्व­र्य­तया सङ्कल्पमात्रं न स्रष्टृ­ते­त्युक्तं तत्र हेत्व­सि­द्धि­मा­श­ङ्क्याह -
देहयोगाद्वा सोऽपीति ।

सूत्र­व्या­व­र्त्य­माह -
कस्मादिति ।

आक्षेपं विवृणोति -
युक्तं त्विति ।

पारमार्थिकस्य प्रति­ब­न्ध­स्या­भावः साध्यते प्रातिभासिकस्य वेति विकल्पयति -
उच्यत इति ।

आद्यमङ्गीकरोति -
सत्यमिति ।

द्वितीयं दूषयति -
सोऽपीति ।

सूत्रे देहशब्देन स्थूलं सूक्ष्मं च देहं गृहीत्वा व्याचष्टे -
देहेति ।
वेदनाशब्देन सुखादयो गृह्यन्ते । आदिशब्देन तद्धेतुरविद्या ।

तद्ध­र्म­क­स्यै­वा­न्य­स­म्प­र्क­ति­र­स्कारे दृष्टान्तमाह -
अस्तीति ।

अर­णि­स्थोऽ­ग्नि­र­स्ती­त्ये­त­देव सन्दि­ग्ध­मि­त्या­श­ङ्क्याह -
यथा वेति ।

दार्ष्टा­न्ति­क­माह -
एवमिति ।

सूत्रे वाशब्दस्य पक्षा­न्त­र­द्यो­ति­त्व­मा­श­ङ्क्याह -
वाशब्द इति ।

तत्रा­न्य­त्वा­शङ्कां दर्शयति -
नन्विति ।

तद्व्यावृत्तिं विशदयति -
नेतीति ।

इतश्च न वास्त­व­म­न्य­त्व­मि­त्याह -
तदिति ।

अनन्यत्वे फलितमाह -
अत इति ।

जीवस्य ज्ञाना­दि­ति­रो­भा­वेऽपि किं स्यात् , तत्राह -
अतश्चेति ।

साङ्कल्पिकत्वे दोषान्तरमाह -
यदि चेति ।

तत्र हेतुः -
नहीति ।

परोक्तमनूद्य निरस्यति -
यदिति ।

स्वप्नेऽपि जाग­र­व­द­र्थे­न्द्रि­य­सत्त्वे दुर्विवेचनतया साध्यं स्वय­ञ्ज्यो­तिष्ट्वं न सिध्येदित्याह -
स्वयमिति ।

इतश्च न स्वप्नस्य सत्यत्वार्थमेव तद्वाक्यमित्याह -
श्रुत्येति ।

तर्हि केना­भि­प्रा­ये­णेदं साम्यमुक्तं, तत्राह -
जागरितेति ।
स्वप्नस्य जागरितेन तुल्य­नि­र्भा­स­त्वा­भि­प्रायं साम्यवचनमिति शेषः ।

स्वप्नस्य सत्य­त्व­सा­ध­का­भावे मिथ्यात्वसाधके च फलितमुपसंहरति -
तस्मादिति ॥ ६ ॥

बाह्यकरणोपरमं स्वप्नमात्मनः स्वय­ञ्ज्यो­ति­ष्ट्वार्थं निरू­प्या­न्तः­क­र­णो­प­रमं सुषुप्तं तस्य ब्रह्मत्वाय निरूपयति -
तदभाव इति ।

अधिकरणसङ्गतिमाह -
स्वप्नेति ।
स्वप्नाभावस्य प्रति­यो­गि­स्व­प्ना­धी­न­नि­रू­प­ण­त्वा­द्धे­तु­हे­तु­म­त्ते­त्यर्थः ।

विष­य­वा­क्या­न्यु­दा­ह­रति -
तत्रेति ।
सुषु­प्ति­चि­न्ता­प्र­स्तावः सप्तम्यर्थः । तत्तत्र तास्ववस्थासु मध्ये सुषुप्तिरुच्यते । यस्या­म­व­स्था­या­मे­त्स्व­पनं यथा स्यात्तथा सुप्तः । समस्तः संवृ­त­स­र्व­बा­ह्ये­न्द्रियः । सम्प्रसन्नः संवृ­ता­न्तः­क­र­ण­श्चे­त्यर्थः ।

नाडीपुरीततोः समुच्चयवाक्यं पठति -
अन्यत्रेति ।

नाडीपरमात्मनोः समुच्चयवाक्यं दर्शयति -
तथेति ।

पर­मा­त्म­मा­त्र­वि­ष­याणि वाक्या­न्त­रा­ण्याह -
तथेति ।

नाडी­पु­री­त­द्ब्र­ह्मसु सप्तमीश्रुतेः समुच्चयोक्तेश्च संशयमाह -
तत्रेति ।
अत्र स्वाप­नि­रू­प­ण­द्वारा ब्रह्मा­भि­न्न­त्व­म­र्थ­सि­द्धे­र्वा­क्या­र्थ­धी­स­म्भ­वा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे स्थान­वि­क­ल्पा­ज्जी­वस्य ब्रह्मै­क्या­नि­यमः ।

सिद्धान्ते नाडी­पु­री­त­द्द्वारा ब्रह्म­स्था­न­त्व­नि­य­मा­ज्जी­वस्य ब्रह्मा­त्म­त्व­नि­य­ति­रि­त्य­भि­स­न्धाय विमृश्य पूर्वपक्षयति -
किमिति ।

नाडी­पु­री­त­द्ब्र­ह्मणां विकल्पे प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

एकार्थत्वेऽपि समुच्चये का क्षतिः, तत्राह -
नहीति ।

एकार्थत्वमेव नाड्यादिषु कथं, तत्राह -
नाड्यादीनां चेति ।
एकार्थता निर­पे­क्ष­स्वा­पा­धा­र­तेति यावत् ।

अस्मिन्प्राण एवैकधा भवतीत्यपि वाक्ये सप्तम्या चेदाधारत्वं तर्हि सत­स्तृ­ती­यो­क्ते­र्ना­धा­र­तेति शङ्कते -
नन्विति ।

सप्तम्यभावेऽपि तद­र्थ­सि­द्धे­रा­धा­रत्वं सतोऽपि स्यादित्याह -
नैष इति ।
तत्रापि सत्यपि नाड्या­दा­वि­वे­त्यर्थः ।

तस्य गम्यमानत्वमेव दर्शयति -
वाक्येति ।
तत्र सता सोम्ये­त्या­दा­विति यावत् ।

प्राण­स्या­य­त­न­त्वेऽपि किं सतः स्यात् , तत्राह -
प्राणेति ।

तथापि कथं सप्तम्यर्थस्य गम्यमानत्वं, तत्राह -
आयतनं चेति ।

सति सप्त­मी­नि­र्दे­श­स्या­स­त्त्व­मु­पे­त्योक्तं तदपि नास्तीत्याह -
सप्तमीति ।

विशे­ष­ज्ञा­नो­प­र­म­ल­क्ष­ण­स्वा­पस्य नाडी­पु­री­त­तो­र­यो­गा­त्त­योर्न सुप्ति­स्था­न­ते­त्या­शङ्क्य शास्त्र­प्रा­मा­ण्य­मा­श्रि­त्याह -
सर्वत्रेति ।
न च जीवाधारत्वं नाड्यादेरयुक्तं बुद्ध्यु­पा­धि­क­जी­वा­धा­र­त्वा­वि­रो­धात् । नच विक­ल्पेऽ­न्य­त­र­बा­धा­द्युक्तः समु­च्च­य­स्त­त्रापि प्रत्येकं सप्त­मी­श्रु­ति­सि­द्ध­नि­र­पे­क्षा­धा­र­त्व­स्या­त्य­न्त­बा­धात् ।

ताभिः प्रत्य­व­सृ­प्ये­त्यादौ तु कदाचिन्नाड्य एव कदाचित्ताभिः सञ्चरमाणस्य पुरीतदेव कदाचित्ताभिरेव सञ्चरतो ब्रह्मैवाधार इति युक्तमन्यथा निर­पे­क्षा­धा­र­त्व­श्रु­ति­वि­रो­धा­दिति मत्वोपसंहरति -
तस्मादिति ।
विकल्पे जीवस्य ब्रह्मै­क्य­म­नि­य­त­मिति फलितं वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तमाह -
एवमिति ।

प्रतिज्ञां विभजते -
तदित्यादिना ।

चकारेण पुरीतदुक्तिं गृहीत्वाह -
समुच्चयेनेति ।

समुच्चये सिद्धान्ते प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे -
कुतइत्यादिना ।

नाड्यादीनां सुप्ति­स्था­न­त्व­श्रु­ति­र्वि­क­ल्पेऽपि स्यादि­त्या­श­ङ्क्याह -
विकल्पे हीति ।
तेषामन्यतमस्य सुप्तिस्थानत्वे नान्यतमस्य तदिति पक्षे बाधः स चायुक्तो बाध­स्या­ग­ति­क­ग­ति­त्वा­दि­त्यर्थः ।

परोक्तं विक­ल्प­हे­तु­म­नु­व­दति -
नन्विति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र्वै­ष­म्य­माह -
नेतीति ।
प्रकृ­त­द­र्शा­दि­सा­ध­नी­भू­त­पु­रो­डा­श­प्र­कृ­ति­तया व्रीहियवौ श्रुतौ, समर्थौ च निरपेक्षतया पुरोडाशं कर्तुं तयो­र्मि­थो­पे­क्षा­या­म­न­पे­क्ष­सा­ध­न­त्वा­र्थ­क­श्रु­ति­बा­धा­द­न­न्य­ग­ति­त्वेन विकल्पाश्रयणम् । नाड्यादीनां तु न प्रत्येकं स्वापसाधने शक्तिरिति वक्ष्यते, नापि मानमिति भावः । यत्त्वे­का­र्थत्वं तत्किं मानान्तरसिद्धं किंवा सप्तमीसिद्धम् । नाद्यः । तदनुपलम्भात् ।

न द्वितीय इत्याह -
नहीति ।
प्रासादस्य पर्य­ङ्क­धा­र­णा­र्थत्वं पर्यङ्कस्य शयनार्थतेति नाना­र्थ­त्वेऽ­प्ये­क­वि­भ­क्ति­नि­र्देशः । व्यव­धा­ना­व्य­व­धा­नाभ्यां च शय­न­सा­ध­न­त्व­स­मु­च्चयः ।

तद्वदमूषु श्रुतिष्वपि नाड्यादिषु सप्त­मी­स­मु­च्च­य­श्चे­त्याह -
तथेति ।

अने­क­श्रु­ति­सा­म­र्थ्या­लो­च­नया समुच्चयमुक्त्वा तत्रैव श्रुतिमाह -
तथाचेति ।

उक्त­श्रु­ते­स्ता­त्प­र्य­माह -
समुच्चयमिति ।

तत्र हेतुः -
एकेति ।
नाडीनां प्राणस्य चैकेन वाक्ये­नो­पा­दा­ना­न्मिथः समुच्चय इत्यर्थः ।

प्राणस्य नाडीसमुच्चयेऽपि ब्रह्मणस्ताभिः समुच्चये किं जातं, तत्राह -
प्राणस्येति ।

समुच्चये श्रुत्यन्तरं नैर­पे­क्ष्य­द्योति विरु­ध्ये­ते­त्या­श­ङ्क्याह -
यत्रेति ।

नाडीनां द्वारत्वे कथ­म­धि­क­र­ण­श्रुतिः, तत्राह -
नचेति ।
नाड्यादौ सप्तम्याः सामी­प्य­म­र्थ­मा­दाय ब्रह्म­ण्य­धि­क­र­णा­र्थ­त्वेऽपि न तद्वि­रो­धोऽ­स्ती­त्यर्थः ।

विरोधाभावं साधयति -
नाडीभिरिति ।

तदेव दृष्टान्तेन स्पष्टयति -
यो हीति ।

इतश्च ब्रह्मैवैकं स्वापा­धि­क­र­ण­मि­त्याह -
अपिचेति ।

तर्हि नाडीषु सुप्ति­स­ङ्की­र्त­न­म­न­र्थ­क­मि­त्या­शङ्क्य हेत्वन्तरमेव स्फोरयति -
अत्रेति ।
नाडीप्रकरणं सप्तम्यर्थः ।

मार्गो­प­दे­शा­यो­क्तानां नाडीनां स्तुत्यर्थं सुप्ति­की­र्त­न­मि­त्यत्र गमकमाह -
नाडीष्विति ।

तासु सुप्तस्य पाप्मास्पर्शे को हेतुः, तत्राह -
ब्रवीतीति ।

हेतुं विभजते -
तेजसेति ।
विषयदर्शनाभावे तदु­त्थ­सु­खा­द्य­भा­वा­त्त­द्धे­तु­ध­र्मा­द्य­नु­मा­ना­यो­गा­त्पा­प्म­भि­र­स्पर्श इति शेषः ।

हेतुवाक्यं विधान्तरेण व्याकरोति -
अथवेति ।

ब्रह्म­स­म्प­त्ता­वपि कथं पापास्पर्शः, तत्राह -
ब्रह्मेति ।

कत­र­द्व्या­ख्या­न­मा­देयं द्वितीयमित्याह -
एवं चेति ।
नाडीनां ब्रह्म­प्रा­प्ति­द्वा­रत्वे सतीति यावत् ।

नाडीद्वारा ब्रह्मणः स्वापस्थानत्वे क्वचित्ताभिः प्रत्यवसृप्य पुरीतति शेत इति पुरी­त­दु­क्ति­र्वृ­थे­त्या­शङ्क्य पुरी­त­द्ब्र­ह्म­णो­रपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -
तथेति ।

उक्तमेव विवृणोति -
य इति ।

आकाशे शेते, चेत्पुरीतति कथं शेते, तत्राह -
तदिति ।

तदेव दृष्टान्तेन स्पष्टयति -
प्राकारेति ।

पुरी­त­दा­का­श­स­मु­च्च­येऽपि कथं पुरी­त­द्ब्र­ह्मणोः समुच्चयः, तत्राह -
हृदयेति ।

नाडीब्रह्मणोरिव पुरी­त­द्ब्र­ह्म­णो­रपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -
तथेति ।

सत्प्राज्ञयोरपि सुप्ति­स्था­न­त्वो­क्ते­स्त्र­या­णा­मेव कथं समु­च्च­यो­क्ति­रि­त्या­श­ङ्क्याह -
सदिति ।

समु­च्च­य­प­क्ष­मु­प­सं­ह­रति -
एवमिति ।

तेष्व­वा­न्त­र­वि­भा­ग­माह -
तत्रेति ।

नाडी­पु­री­त­तो­र्द्वा­रत्वे हेत्वन्तरमाह -
अपिचेति ।

तयो­रु­पा­ध्या­धा­र­त्व­मपि कथं, तत्राह -
तत्रेति ।
नाडीषु पुरीतति च जीव­स्यो­पा­ध्य­न्त­र्भू­तानि करणानि कर्माणि तिष्ठ­न्ती­त्यु­पा­ध्या­धा­रत्वं तयोरुक्तम् । जीवस्य त्वाधारो ब्रह्मै­वे­त्यर्थः ।

किमिति तयोः साक्षादेव जीवाधारत्वं नेष्टं, तत्राह -
नहीति ।

तर्हि ब्रह्मणोऽपि कुतो जीवा­धा­र­त्व­मै­क्या­दि­त्या­श­ङ्क्याह -
ब्रह्मेति ।

तादा­त्म्या­भि­प्रा­येण स्वापे जीवस्य ब्रह्मा­धा­र­त्वो­क्ति­रि­त्यत्र लिङ्गमाह -
यत इति ।

स्वशब्दस्य स्वकी­या­र्थ­त्वान्न तादात्म्यमत्र भातीत्याशङ्क्य पदार्थोक्त्या वाक्यार्थमाह -
स्वेति ।

जीवस्य ब्रह्मैक्यमेव नाडीपुरीततोस्तु तदुपाध्याधारतया तदा­धा­र­ते­त्य­तु­ल्या­र्थ­त्वान्न विक­ल्पोऽ­स्ती­त्यु­क्तम् । इदानीं विकल्पायोगे हेत्वन्तरमाह -
अपिचेति ।

जीवस्य चेदौत्सर्गिकं ब्रह्मत्वं तर्हि किमिति स्वापे तस्य तद्रू­प­त्व­मु­च्यते, तत्राह -
स्वप्नेति ।

सुषु­प्ते­र­प­वा­दा­भा­वा­ज्जी­वस्य ब्रह्म­ता­दात्म्ये फलितमाह -
अतश्चेति ।

इतश्च विक­ल्पा­सि­द्धि­रि­त्याह -
अपिचेति ।

हेत्वन्तरमेव स्फोर­य­न्वि­क­ल्प­वा­दि­नोऽपि संमतमर्थमाह -
स्थानेति ।
क्वचिदिति नाडी­पु­री­त­द्ब्र­ह्म­णा­म­न्य­त­मोक्तिः । अन्यथा सुप्तिभङ्गो जागरादिवदिति भावः ।

स्वाप­स्यै­वं­रू­प­त्वेऽपि विकल्पे कानुपपत्तिः, तत्राह -
तत्रेति ।
एक­त्व­म­द्वै­ता­व­स्था­त्वम् ।

सति सम्पन्नस्य विशेषज्ञानाभावे मानमाह -
तदिति ।

अवशिष्टेऽपि स्थानद्वये यथोक्तं सुषुप्तं युक्त­मे­वे­त्या­श­ङ्क्याह -
नाडीष्विति ।
नाड्यादिगोचरस्य पुंसो द्वैता­व­स्थ­त्वा­द्वि­शे­षा­ज्ञाने नास्ति हेतुरित्यर्थः ।

द्वैतावस्थस्य विशेषज्ञाननियमे मानमाह -
यत्रेति ।

तस्यापि विशेषाज्ञाने हेतुं शङ्कते -
नन्विति ।
भिद्यत इति भेदो भिद्यमानस्य विष­य­स्या­पी­त्यर्थः । जीव­स्या­ति­दू­रत्वं स्वाभा­वि­क­मौ­पा­धिकं वा ।

तत्राद्यं दूषयति -
बाढमिति ।

स्वाभाविकमपि दूरत्वमज्ञाने हेतुरित्यत्र दृष्टान्तमाह -
यथेति ।

अस्तु प्रस्तुतेऽपि तादृ­ग­ति­दू­र­त्व­म­ज्ञा­न­हे­तु­र्ने­त्याह -
न त्विति ।

द्वितीयमनुवदति -
उपाधीति ।

तर्हि विक­ल्पा­सि­द्धि­रि­त्याह -
तथापीति ।
सुप्ति­द­शा­या­मु­पा­धि­प­रि­च्छे­दा­ङ्गी­कारे च कति­प­य­सं­नि­हि­ता­र्थ­ज्ञा­न­प्र­स­ङ्गा­द­शे­ष­वि­शे­ष­ज्ञा­न­शू­न्य­तायै निरूपाधितया जीवस्य ब्रह्म­रू­पे­णा­व­स्था­न­मा­स्थे­य­मि­त्यर्थः ।

उपाधीनामुपशमे कथं नाड्या­दि­स­मु­च्च­योक्तिः, तत्राह -
नचेति ।
इहेति स्वाप­स्था­न­मु­क्तम् । गुणप्रधानत्वेन समु­च्च­यो­क्ति­रि­त्यर्थः ।

किञ्च नाड्यादीनां स्वाप­स्था­न­त्वो­क्ते­र­फ­ल­त्वान्न समुच्चयो विकल्पो वेत्याह -
नहीति ।

कथ­म­स्या­फ­ल­त्व­मि­त्या­शङ्क्य स्वातन्त्र्येण वा फलवदङ्गत्वेन वा फलवत्त्वमिति विकल्प्याद्यं प्रत्याह -
नहीति ।

द्वितीयं दूषयति -
नापीति ।

विक­ल्प­स­मु­च्च­य­यो­र­प्र­ति­पा­द्यत्वे किमत्र प्रतिपाद्यं, तदाह -
ब्रह्म त्विति ।

तद्विज्ञानेऽपि तुल्य­म­फ­ल­त्व­मि­त्या­श­ङ्क्या­धि­क­र­ण­त्व­ज्ञा­नस्य प्रयोजनमाह -
तेनेति ।

ब्रह्म स्वापस्थानमिति ज्ञानस्य फलवत्त्वे फलितमाह -
तस्मादिति ॥ ७ ॥

ब्रह्मण एव प्रबो­धा­पा­दा­न­त्वो­क्ते­रपि तदेव सुप्ति­स्था­न­मि­त्याह -
अत इति ।

सूत्रं व्याचष्टे -
यस्मादिति ।

विकल्पेऽपि तद­पा­दा­न­त्वो­क्ति­र्ब्र­ह्मणो घटिष्यते नेत्याह -
विक­ल्प्य­मा­ने­ष्विति ।

नच नाडी­पु­री­त­तो­रु­त्था­ना­पा­दा­नत्वं कदाचिदपि शिष्यते ब्रह्मण एव तु तद्वचने फलितमुपसंहरति -
तस्मादपीति ।
एवमात्मनो ब्रह्मात्मत्वं सिद्ध­मि­त्य­धि­क­र­णा­र्थ­मु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ ८ ॥

अतः प्रबो­धोऽ­स्मा­दिति स्वापानन्तरं ब्रह्मणः सका­शा­त्प्र­बो­धो­क्ते­स्त­दा­त्म­नैव सुप्त­स्ति­ष्ठ­ती­त्यु­क्तम् । इदानीं तस्मा­त्प्र­बो­ध­स्त­दा­पत्तिं गमयति सुप्तादन्यस्य प्रबोधसम्भवेन तस्य नाड्या­दि­स्था­न­त्व­स­म्भ­वा­दि­त्या­श­ङ्क्याह -
स एवेति ।

स्वाप­स्था­ना­द्ब्र­ह्मणः प्रतिबुध्यमानं जीव­म­धि­कृ­त्यो­पा­धि­ना­शा­त्क­र्मा­नु­स्मृ­त्या­दि­द­र्श­नाच्च संशयमाह -
तस्या इति ।
तस्यै­वो­त्था­नोक्त्या स्वापा­ति­रे­क­सा­ध­नेन त्वम­र्थ­शो­ध­ना­त्तस्य ब्रह्मै­क्य­यो­ग्य­तया वाक्यी­य­ज्ञा­नो­प­यो­गि­तेति पादादिसङ्गतिः ।

पूर्वपक्षे ज्ञानवैयर्थ्यं सिद्धान्ते तस्यै­वो­त्था­ना­द­ज्ञा­त­ब्र­ह्मा­त्मना सुप्त­स्या­व­स्था­ना­त्त­दै­क्य­ज्ञा­ना­देव मुक्ते­स्त­द­र्थ­व­त्त्व­नि­य­ति­रि­त्य­भि­प्रेत्य निया­म­का­नु­प­लब्ध्या पूर्वपक्षयति -
तत्रेति ।

नियमसम्भवे नानियमो युक्तिमानिति शङ्कते -
कुत इति ।

नियमायोगं दृष्टान्तेन साधयति -
यदेति ।

जलबिन्दोः साव­य­व­त्वा­द­व­य­व­प्र­स­र्प­ण­प्र­णा­डि­क­यै­क­त्व­मा­प­न्नस्य तस्यैव नोद्धरणम् । जीवस्य तु सोपा­धि­त्वा­दु­पा­धे­र्या­व­द्ब­न्ध­भा­वि­त्वा­दु­द्धा­र­सि­द्धि­रि­त्या­श­ङ्क्यो­पा­धि­ल­या­भावे सत्स­म्प­त्त्य­सि­द्धे­र्मै­व­मिति मत्वा दार्ष्टा­न्ति­क­माह -
तद्वदिति ।

नियामकायोगे फलितमाह -
तस्मादिति ।
सम्भा­व­ना­मा­त्रे­णे­श्वरो वेत्युक्तम् । अनियमपक्षे मोक्षः सुप्तस्येति ज्ञान­वै­य­र्थ्य­मिति वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धा­न्त­प्र­ति­ज्ञा­माह -
एवमिति ।

ऐक्या­व­स्था­या­म­व­च्छे­दा­भावे तस्यैवोत्थानं निय­न्तु­म­श­क्य­मिति शङ्कते -
कस्मादिति ।

अव­च्छे­द­का­वि­द्या­शक्तिं सिद्धवत्कृत्य तस्यैवोत्थाने मानमाह -
कर्मेति ।

षड्यागानामिव समुच्चितानामिह न हेतुत्वं किन्तु प्रत्येकमित्याह -
विभज्येति ।

तत्र कर्मशब्दोक्तं हेतुं विशदयति -
कर्मेति ।

शेषा­नु­ष्ठा­न­द­र्श­न­मेव प्रकटयति -
तथाहीति ।

कथमेतावता तस्यै­वो­त्था­न­मि­त्या­श­ङ्क्यो­क्तम् -
नचेति ।
सामि­कृ­त­स्या­र्ध­म­नु­ष्ठि­त­स्येति यावत् ।

एकस्यैव ज्योति­ष्टो­मा­दे­र­ने­क­य­ज­मा­न­क­त्वा­पा­ता­दि­त्याह -
अतिप्रसङ्गादिति ।

उक्त­हे­तु­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।
अतः स एवोत्तिष्ठतीति शेषः ।

अनुस्मृतिं व्याकरोति -
इतश्चेति ।

का पुन­रु­क्ता­नु­स्मृ­ते­र­न्यो­त्था­नेऽ­नु­प­पत्तिः, तत्राह -
नहीति ।

अनु­स्मृ­ति­रि­त्य­त्रा­नु­श­ब्देन प्रत्यभिज्ञापि सूचितेत्याह -
सोऽहमिति ।

शब्दशब्दार्थमाह -
शब्देभ्यश्चेति ।
अयनं गमनमायः प्रतिनियतं गमनं प्रतिन्यायः स यथा भवति तथा योनिं योनिं प्रत्यागच्छति स्वापानन्तरं जागरायेत्यर्थः । सुप्ता­ना­मु­त्था­न­यो­ग्य­त्व­मा­प­न्न­मेतं न विन्दन्तीति सूचितम् । इहेति पूर्व­प्र­बो­धोक्तिः । तदाभवन्तीति स्वापव्यवहितं जागरितमुच्यते ।

विधिपदं व्याचष्टे -
कर्मेति ।

स एवो­त्ति­ष्ठ­ती­त्ये­त­दे­व­मे­वे­त्यु­क्तम् । तदेव व्यतिरेकमुखेन विशदयति -
अन्यथेति ।

विद्यानर्थक्यं व्यनक्ति -
अन्येति ।

कर्मवैयर्थ्यमाह -
एवं चेदिति ।
सुप्तमात्रस्य मुक्त्यु­प­ग­म­श्चे­दि­त्यर्थः । अनुष्ठानकाले फलाभावात्कर्मणो ध्यानस्य च काला­न्त­र­फ­ल­स्या­न्यो­त्था­न­पक्षे वैय­र्थ्य­मि­त्यर्थः । विद्यात्र ध्यानम् ।

इतश्च नान्यो­त्था­न­मि­त्याह -
अपिचेति ।

अन्योत्थाने सोऽन्यो जीवो वा स्यादीश्वरो वा, जीवश्चेद्बद्धो मुक्तो वा, बद्धोऽपि देहान्तरे व्यवहरमाणस्तत्र सुप्तो वेति विक­ल्प्या­द्य­म­नूद्य प्रत्याह -
अन्येति ।

द्वितीयमनुभाष्य दूषयति -
अथेत्यादिना ।

विफलं गौरवमेव स्फोरयति -
यो हीति ।

कल्पान्तरमनूद्य निरस्यति -
अथेति ।

अन्तवत्त्वे का क्षतिः, तत्राह -
निवृत्तेति ।

हेत्वभावादिति भावः । मुक्तस्य नोत्था­न­मि­त्यु­क्त­न्या­येन कल्पान्तरं निराह -
एतेनेति ।

तदी­य­स्व­रू­पा­पे­क्षया हेतुमाह -
नित्येति ।

प्रत्येकं सर्वपक्षेषु दोषमुक्त्वा साधारणं दोषमाह -
अकृतेति ।
अन्योत्थाने पाश्चा­त्य­प्र­बो­ध­का­ली­न­सु­खा­देर्न पूर्व­क­र्म­का­र्य­ते­त्य­कृ­त­मा­ग­च्छे­त्कृतं च सुप्तस्य मुक्तौ फलमदत्त्वैव नश्येदिति दोष­द्व­य­मि­त्यर्थः ।

अन्योत्थानायोगे फलितमाह -
तस्मादिति ।

पूर्व­प­क्ष­बी­ज­म­नु­व­दति -
यदिति ।

दृष्टा­न्त­वै­ष­म्योक्त्या प्रत्याह -
तदित्यादिना ।

नास्मा­भि­रे­वा­न्यै­रपि दुर्विवेचनत्वं तुल्य­मि­त्या­श­ङ्क्याह -
दृश्यते चेति ।

प्रकारान्तरेण दृष्टान्तवैषमाह -
अपिचेति ।

कस्तर्हि जीवः, तत्राह -
सदेवेति ।

सत एवोपाधिना जीवत्वे नानाजीववादोऽपि प्रत्युक्त इत्याह -
एवमिति ।

उक्तमेव व्यति­रे­क­द्वा­रो­प­पा­द­यति -
उपाध्यन्तरेति ।

उपाधिभेदमुपेत्य तत्र तत्र जीवभेदो गम्य­ता­मि­त्या­शङ्क्य बीजा­ङ्कु­र­व­द्व्य­क्ता­व्य­क्ता­त्म­नै­क­स्यै­वो­पाधेः स्थिते­र्मै­व­मि­त्याह -
स एवेति ।

सुप्त­स्यै­वो­त्था­ना­द­ज्ञा­त­ब्र­ह्मणा तदवस्थानं सिद्ध­मि­त्यु­प­सं­ह­रति -
इत्यत इति ॥ ९ ॥

अव­स्था­त्र­य­मुक्त्वा मूर्च्छा­ख्य­म­व­स्था­न्तरं दर्शयति -
मुग्ध इति ।

विषयमाह -
अस्तीति ।

प्राणाणिकस्य विषयत्वात्तस्य लोकसिद्धतामाह -
यमिति ।

स किं जाग­रा­द्य­व­स्था­ना­म­न्य­त­मा­व­स्था­न्त­र्गतः किंवा­व­स्था­न्त­र­गत इत्य­व­स्था­च­तु­ष्ट­य­प्र­सि­द्धि­नि­य­म­वै­ल­क्ष­ण्याभ्यां सन्देहे प्रत्यभिज्ञया स एवो­त्ति­ष्ठ­ती­त्यु­क्ते­र्वि­शे­ष­ज्ञा­ना­भा­वा­वि­शे­षे­णै­क्य­प्र­त्य­भि­ज्ञा­ना­न्मुग्धिः सुप्तिरेवेति पूर्वपक्षयति -
स त्विति ।

अत्र मुग्धे­र­व­स्था­न्त­र­त्वोक्त्या ततो विभक्ते त्वमर्थे शोधिते तस्य वाक्या­र्था­न्व­यि­न­स्त­द्धी­हे­तु­त्वा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे मूर्च्छा­ति­रे­कार्थं पृथङ् न प्रयतितव्यम् । सिद्धान्ते पृथ­क्प्र­य­त्न­ध्रौ­व्य­मिति मत्वा पूर्वपक्षं विवृणोति -
तिस्रस्तावदिति ।

शरी­र­स्थ­स्ये­ति­वि­शे­ष­ण­सि­द्ध­म­व­स्था­न्त­र­माह -
चतुर्थीति ।

मूर्च्छापि चिरो­च्छ्वा­स­वे­प­थु­प्र­भृ­ति­ध­र्म­भे­दा­द­व­स्था­न्त­र­मि­त्या­शङ्क्य सुप्ते­रे­वा­वा­न्त­र­भे­दा­दे­वं­वि­ध­त्व­सि­द्धेर्न धर्मि­भे­द­क­ल्प­ने­त्याह -
न त्विति ।

अव­स्था­न्त­र­स्या­प्र­सि­द्धत्वे सुषु­प्त्य­न्त­र्भावं मूर्च्छाया मत्वा निगमयति -
तस्मादति ।
तथाच तद्व्य­ति­रे­कार्थं पृथङ् न प्रयतितव्यमिति फलि­त­मि­ति­श­ब्दार्थः ।

पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

परि­शे­षा­दि­त्य­स्यार्थं परिशेषं दर्शयितुमारभते -
न तावदिति ।

जाग्रदवस्थो हीन्द्रि­यै­र­र्था­नु­प­ल­भते मुग्धो नैवमिति वैषम्यं हेतुमाह -
नहीति ।

जाग्रदवस्थस्यैव मुग्ध­स्या­र्था­नु­प­लम्भो दुःखा­नु­भ­व­व्य­ग्र­तया स्यादिति दृष्टान्तेन शङ्कते -
स्यादिति ।

इषुकारन्यायं प्रपञ्चयति -
यथेत्यादिना ।

वैषम्योक्त्या प्रत्याह -
नेत्यादिना ।

मुग्धस्य जाग­रि­ता­व­स्थ­त्वा­भावे हेत्वन्तरमाह -
जाग्रतश्चेति ।

देह­धा­र­णा­भा­वा­द्वि­ष­य­मा­त्रा­नु­प­ल­ब्धेश्च मुग्धो जाग्रदवस्थो नेति निगमयति -
तस्मादिति ।

अस्तु तर्हि तस्य स्वप्ना­व­स्थत्वं, नेत्याह -
नापीति ।

तर्हि तस्य मृतावस्थत्वं नेत्याह -
नापीति ।

पूर्व­व­त्प्रा­णो­ष्माणौ मुग्धे न सिद्धौ तत्कुतोऽस्य मृतादान्यत्वं तत्राह -
मुग्धे हीति ।
ऊष्मास्ति नेति संश­य्या­न्य­र­नि­श्च­यार्थं हृदयदेशमालभन्ते स्पृशन्तीति यावत् ।

प्राणोऽस्ति नेति च सन्दि­ह्या­न्य­त­रार्थं नासि­का­दे­श­मा­ल­भन्त इति सम्बन्धः । नास्ति­त्व­नि­श्च­य­फ­ल­माह -
यदीति ।

परस्य पराध्यवसायो गोचरो नेत्याशङ्क्य कार्य­लि­ङ्ग­क­म­नु­मा­न­माह -
दहनायेति ।

अस्ति­त्व­नि­श्च­य­फ­ल­माह -
अथ त्विति ।

तत्रापि कार्य­लि­ङ्ग­क­म­नु­मा­न­माह -
संज्ञेति ।

मुग्धस्य मृतत्वाभावे हेत्वन्तरमाह -
पुनरिति ।

यमराजं प्रविष्टस्यापि पुनरुत्थानं किं न स्यात् , तत्राह -
नहीति ।

परिशेषसिद्धं मुग्धस्य स्वापा­व­स्थ­त्व­मि­त्याह -
अस्त्विति ।

तत्र सालक्षण्यं हेतुमाह -
निःसं­ज्ञ­त्वा­दिति ।

उक्त­सा­ल­क्ष­ण्येऽपि लक्ष­ण­नि­मि­त्त­फ­लानां भेदा­न्नै­क्य­मि­त्याह -
नेत्यादिना ।

लक्षणं लक्षणभेदं विवृणोति -
मुग्ध इति ।

निमि­त्त­भे­द­मु­दा­ह­रति -
निमित्तेति ।

आदि­प­दे­नो­भ­य­त्रापि ज्वरादि गृह्यते श्रमापनयार्था ब्रह्मसम्पत्तिः सुषुप्तिः, देहत्यागार्था तत्स­म्प­त्ति­र्मोहः, सति मोहे मरणाभावेऽपि तस्मिन्नसति तदभावादिति फलभेदं मत्वा मोह­स्वा­प­यो­रैक्ये मानाभावमाह -
नचेति ।

परि­शे­षा­या­त­म­र्थ­माह -
परीति ।

साम्य­वै­ल­क्ष­ण्या­भ्या­म­र्ध­स­म्पत्तिं साधयति -
निःसं­ज्ञ­त्वा­दिति ।

अर्ध­स­म्प­त्ति­मा­क्षि­पति -
कथमिति ।

कानु­प­प­त्ति­रि­त्या­शङ्क्य मुग्ध­स्या­र्ध­स­म्प­त्त्य­भावं साधयितुं सुप्तेन साम्यं कर्म­त­त्फ­ल­ले­शा­भा­वेन कथयति -
यावतेति ।
यत्सुप्तं प्रति सत्सम्पन्नत्वं श्रुतं तदु­पा­ध्यु­प­र­मा­भि­प्रायं स चोपाध्युपरमो मुग्धस्यापीति कृत्स्न­स­म्प­त्ति­रे­वेति भावः ।

कर्मसम्बन्धस्य याव­द्ब­न्ध­भा­वि­त्वा­त्सु­प्तस्य कर्म­रा­हि­त्य­म­सि­द्ध­मि­त्या­शङ्क्य तत्का­र्य­सु­ख­दुः­ख­धी­रा­हि­त्या­त्त­द्धे­तु­क­र्म­रा­हित्यं कल्प्यमित्याह -
जीवे हीति ।

सुप्तस्य सुखा­नु­भ­वा­त्त­द­वि­ना­भूतो दुःखानुभवोऽपि कल्प्य­ता­मि­त्या­शङ्क्य स्वप्र­का­श­स्व­रू­प­सु­खा­नु­भ­व­व्य­ति­रे­केण कर्मो­त्था­नु­कू­ल­प्र­ति­कू­ला­र्थ­धी­जन्यौ प्रत्य­या­व­स­म्भा­वि­ना­वि­त्याह -
नचेति ।

सुप्तस्य कर्म­फ­ल­वै­क­ल्येऽपि मुग्धस्य किं सिद्धं, तत्राह -
मुग्धेऽपीति ।

सुखा­दि­धी­रा­हि­त्य­क­ल्पि­त­क­र्म­रा­हि­त्येन सम्पूर्णा सत्स­म्प­त्ति­र्मु­ग्धेऽ­पीति निगमयति -
तस्मादिति ।

ब्रह्म­स­म्प­त्त्य­वि­शे­षेऽपि सुप्ति­मू­र्च्छ­यो­र्भे­दोऽ­स्ती­त्याह -
अत्रेति ।

यत्तु मूर्च्छायां जीवस्य ब्रह्मणा नार्ध­स­म्प­त्ति­रिति दर्शितं तदङ्गीकरोति -
नेत्यादिना ।

तर्हि किम­पे­क्ष­या­र्ध­स­म्पत्तिः, तत्राह -
किमिति ।
अर्धेनादीयमानेन निःसं­ज्ञ­त्वे­नेति यावत् । परित्यज्यमानेन चार्धेन प्रस­न्न­व­द­न­त्वा­दि­ने­त्यर्थः । अवस्थान्तरं मरणम् ।

उप­ने­या­प­ने­या­र्धा­भ्या­मु­भ­य­प­क्षत्वं कथं मुग्धे सिद्धं, तत्राह -
दर्शिते चेति ।

तथापि कथमस्या मरणपक्षत्वं तत्राह -
द्वारं चेति ।

मुम्धत्वं मरणस्य द्वारं चेत्तस्मिन्सति स्यादे­वे­त्या­श­ङ्क्याह -
यदेति ।

कर्मणः सावशेषत्वे गमकमाह -
तदेति ।

तर्हि कुतो द्वारत्वं मरणं प्रति मोहस्योक्तं, तत्राह -
यदा त्विति ।

कर्मणो निःशेषत्वे प्रयोजकमाह -
तदेति ।

साम्य­वै­ष­म्याभ्यां सिद्धमुपसंहरति -
तस्मादिति ।

अव­स्था­न्त­र­म­प्र­सि­द्ध­त्वा­न्ने­त्यु­क्त­म­नु­व­दति -
यत्त्विति ।

जीवद्दशायां सर्व­जी­व­सा­धा­र­ण्या­भा­वा­द­प्र­सि­द्धिर्न त्वभेदादित्याह -
नेत्यादिना ।

इदा­नी­म­प्र­सि­द्धि­रपि नास्तीत्याह -
प्रसिद्धा चेति ।
आयुर्वेदो वैद्यशास्त्रम् । कथमन्यथा मुसलपातादिना मुग्धं बन्धुमुपलभ्य तदी­य­सं­ज्ञा­ला­भार्थं तदी­य­पि­तृ­प्र­भृ­त­य­श्चि­कि­त्सा­शा­स्त्र­कु­श­ल­म­न्वि­ष्या­नु­ग­च्छे­यु­रिति भावः ।

कस्मात्तर्हि पञ्चमतया मुग्धिर्न गण्यते, तत्राह -
अर्धेति ।
निःसं­ज्ञ­त्व­म­प्र­स­न्न­व­द­न­ते­त्या­दिना सुप्ति­म­र­णा­न्त­र्भा­व­धिया पञ्चमतया मूर्च्छा नोक्तेत्यर्थः ।

उक्त­वै­ष­म्या­द­न­न्त­र्भा­व­धिया पृथगुक्तिरपि स्यादि­त्या­श­ङ्क्या­न­न्त­र्भा­वेऽपि सर्व­सा­धा­र­ण­त्वा­भा­वा­न्मै­व­मिति मत्वा त्वम­र्थ­शो­ध­न­मु­प­सं­ह­रति -
इत्यनवद्यमिति ॥ १० ॥

स्वप्ना­द्य­व­स्थोक्त्या तद्व्यतिरिक्तं स्वप्रकाशं ब्रह्मात्मकं सदैकरूपं त्वम­र्थ­मु­द्धेश्यं परिशोध्येदानीं विधे­य­त­द­र्थ­शो­ध­न­मा­र­भ­मा­ण­स्तस्य ताव­न्नि­र्वि­शे­ष­त्व­माह -
नेत्यादिना ।

सङ्गतिमाह -
येनेति ।

ब्रह्म­स्व­रू­प­स्या­स­कृ­दु­क्त­त्वा­त्कि­म­ने­ना­र­म्भे­णे­त्या­शङ्क्य श्रुतिषु दृष्ट­वि­वा­द­नि­रा­सेन तन्नि­र्ण­या­र्थ­मि­त्याह -
श्रुतीति ।

विष­यो­क्ति­पू­र्वकं संशयबीजमाह -
सन्तीति ।

सविशेषत्वं निर्विशेषत्वं चोभयं लिङ्ग्यते प्रकाश्यते याभिः श्रुति­भि­स्ता­स्तथा । तत्र सविशेष ब्रह्म­श्रु­ती­रु­दा­ह­रति -
सर्वेति ।
चका­रे­णो­क्तार्थाः श्रुतयोऽन्या यः सर्वज्ञः स सर्व­वि­दि­त्याद्याः समुच्चिताः । सविशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथा ।

निर्वि­शे­ष­ब्र­ह्म­श्रु­ती­रु­दा­ह­रति -
अस्थूलमिति ।
यत्त­द­द्रे­श्य­म­दृ­श्येऽ­नात्म्ये नेति नेत्याद्याः श्रुतयश्चकारेण गृह्यन्ते । निर्विशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथेति ।

पूर्ववत्सविषयं संशयबीजमुक्त्वा संशयमाह -
किमिति ।
उभयं सविशेषत्वं निर्विशेषत्वं च लिङ्ग्यते यस्मिन्ब्रह्मणि तत्तथेति यावत् । उभयत्र श्रुत्य­नु­ग्र­हा­दे­क­त्रो­भ­यो­र्वि­रो­धा­न्नाद्यो विकल्पः । सविशेषत्वं निर्विशेषत्वं वान्यतरद्यत्र लिङ्ग्यते तद्ब्रह्म तथेत्येतत् ।

परस्य परि­णा­मि­त्व­कू­ट­स्थ­त्वाभ्यां द्वितीयं विकल्पयति -
यदेति ।
अत्र निर्विशेषस्य तदर्थस्य ब्रह्मणो निरूपणे तस्य वाक्या­र्था­न्व­यि­तया तद्धी­हे­तु­त्व­ला­भा­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे द्विरूपं ब्रह्म ध्येयं सिद्धान्ते तु निर्विशेषमेव तज्ज्ञे­य­मि­त्य­भि­प्रेत्य पूर्वपक्षयति -
तत्रेति ।
उभयविधत्वं विकृ­ता­वि­कृ­त­ब्र­ह्मा­पे­क्षया वा स्थिति­प्र­ल­य­का­ल­भे­देन वा कार्य­का­र­ण­ब्र­ह्म­भे­देन वा कार­णा­का­र­ण­ब्र­ह्म­भे­देन वा न व्यवस्थापयितुं शक्यं ब्रह्म­द्व­या­भा­वात् ।

तत्कथमेकस्य विरु­द्धो­भ­य­रू­प­ते­त्या­श­ङ्क्याह -
उभयेति ।
नच निर्वि­शे­ष­ब्र­ह्म­प्र­क­र­ण­स्थ­श­ब्दानां निषेध्यार्पणेन निषे­ध­वा­क्यै­क­वा­क्य­तया सप्र­प­ञ्चा­ता­त्प­र्यान्न सविशेषधीरिति वाच्यम् । उपा­स्ति­प्र­क­र­ण­स्थ­स­प्र­प­ञ्च­वा­क्या­न्तरैः स्वशे­षि­वि­धि­वि­रो­ध­शू­न्य­तया स्वार्थे प्रमाणैः सप्र­प­ञ्च­ता­सि­द्धे­र्नि­षे­ध­वा­क्य­वि­रो­धेऽपि तेषां स्वशे­षि­वा­क्या­वि­रु­द्ध­त्वा­त्प्रा­मा­ण्यो­प­प­त्ते­रिति भावः ।

उभयरूपं ब्रह्म ध्येयमिति पूर्वपक्षमनूद्य सिद्धा­न्त­सू­त्र­मा­दत्ते -
एवमिति ।
उभयलिङ्गत्वं ब्रह्मणः स्वाभाविकमाहो परोपाधिकम् ।

आद्यं प्रत्याह -
न तावदिति ।

अनुपपत्तिं स्फुटयति -
नहीति ।

द्वितीयं शङ्कते -
अस्त्विति ।

स्थानत इति व्याचष्टे -
पृथिव्यादीति ।
स्थान­मु­पा­धि­स्त­द्यो­गा­दिति यावत् । औपाधिकत्वेऽपि सत्य­त्व­म­ग्नि­स­म्प­र्क­ज­न्य­लौ­हि­त्य­व­दिति भावः ।

उपा­धि­व­शा­दा­वि­द्यो­भ­य­लि­ङ्ग­त्व­यो­गेऽपि न तात्त्वि­क­मु­भ­य­लि­ङ्गत्वं कूटस्थस्य ब्रह्मणो वास्त­व­रू­पा­न्त­रा­यो­गा­दि­त्याह -
तदपीति ।

उक्तमेव दृष्टान्तेन स्पष्ठयति -
नहीति ।

आल­क्त­का­द्यु­पा­धि­घ­टिते स्फटि­का­दा­व­स्व­च्छ­ता­धी­स्तर्हि कथं, तत्राह -
भ्रमेति ।
स्वरसधवलस्य स्फटि­का­दे­रु­पा­धितो दृष्टोरुणिमा न वास्तवः संयु­क्तो­पा­धे­रे­वा­रु­ण­तया भानादित्यर्थः ।

उपा­धे­र­मि­थ्या­त्वेऽपि तत्कृतं मिथ्येत्युक्तम् । इदानीं तस्यापि मिथ्या­त्वा­त्त­न्मि­थ्येति किं वक्तव्यमित्याह -
उपाधीनामिति ।

उभयरूपत्वं तत्त्वतो ब्रह्मणो न चेत्तर्हि सविशेषत्वमेव नाना­श्रु­ति­व­शा­दि­ष्य­ता­मि­त्या­श­ङ्क्याह -
अतश्चेति ।
सर्वस्य विशे­ष­स्या­वि­द्या­कृ­त­त्वा­दे­वेति यावत् ।

तत्र हेतुत्वेन सूत्रावयवं व्याचष्टे -
सर्वत्रेति ॥ ११ ॥

न स्थान­तोऽ­पी­त्या­दि­नो­क्त­मा­क्षिप्य समाधत्ते -
नेत्यादिना ।

निषेध्यमनूद्य निषेद्धुं नञर्थमाह -
अथापीति ।
श्रुति­भि­र्ब्र­ह्मणो निर्विशेषत्वे मितेऽपीति यावत् ।

श्रौतस्य नासिद्धिरिति शङ्कते -
कस्मादिति ।

श्रुत्य­न्त­र­वि­रो­धा­त्त­द­सि­द्धि­रिति सूत्रावयवेनाह -
भेदादिति ।

तदेव विभजते -
भिन्ना हीति ।

तादृगारोपदेशस्य फलमाह -
तस्मादिति ।
निर्वि­शे­ष­त्व­व­दि­त्य­पे­रर्थः ।

उक्तविरोधं स्मारयति -
नन्विति ।

औपा­धि­क­मा­का­र­भे­द­मा­दाय प्रत्याह -
अयमपीति ।
उभ­य­रू­प­त्व­स्वी­का­रेण विरो­ध­स­मा­धि­व­दि­त्य­पे­रर्थः ।

आकारभेदो नोपा­धि­तोऽ­पी­त्यु­क्त­मि­त्या­श­ङ्क्याह -
अन्यथेति ।
रूप­भे­द­वा­दि­शा­स्त्र­प्रा­मा­ण्या­र्थ­मौ­पा­धि­क­स्त­द्भेदो वक्तव्य इत्यर्थः ।

किमुपाधिगत एव रूपभेदो ब्रह्म­ण्यु­प­च­र्यते किं वोपा­धि­सं­नि­धे­स्त­त्त्वत एव ब्रह्मणोऽपि भेदो जायते । प्रथमे ब्रह्मणो नोभ­य­रू­प­ते­त्य­भि­प्रे­त्याह -
नेतीति ।

आका­ङ्क्षा­पू­र्वकं हेतुमवतार्य व्याकु­र्व­न्द्वि­तीये श्रुत्य­न्त­र­वि­रो­ध­माह -
कस्मादित्यादिना ।

कल्पद्वयफलमाह -
अतश्चेति ॥ १२ ॥

भेददर्शननिन्दया भेदोक्तेरपि न तात्त्विको भेदः शास्त्री­योऽ­स्ती­त्याह -
अपिचेति ।

सूत्रं व्याकरोति -
अपिचेत्यादिना ।
भोक्ता जीवो भोग्यं शब्दादि तदुभयं प्रेर्यं प्रेरितारं च नियन्तारमीश्वरं मत्वा विचार्य तत्सर्वं त्रिविधं मे मम प्रोक्तं ब्रह्मैवेति जानीयादित्यर्थः ।

उक्त­वा­क्या­र्थ­माह -
समस्तस्येति ॥ १३ ॥

उत्त­र­सू­त्र­व्या­वर्त्यां शङ्कामाह -
कथमिति ।
श्रुतीनां तुल्य­त्वा­द्ब्र­ह्मणो निर्विशेषत्वे नियामकं नास्तीत्यर्थः ।

तत्प­रा­त­त्प­र­वि­रोधे तत्परं बलवदितिन्यायं नियामकं वद­न्न­न­न्त­र­सू­त्र­म­व­ता­र­यति -
अत इति ।

तत्र प्रतिज्ञां विभजते -
रूपादीति ।

प्रश्नद्वारा नियामकमुक्त्वा विवृणोति -
कस्मादित्यादिना ।

एतेषामपि तत्प्र­धा­न­त्व­मु­पा­स्ति­वि­धि­शे­ष­त्वा­द­सि­द्ध­मि­त्या­श­ङ्क्याह -
इत्येतदिति ।

सम­न्व­या­धि­क­र­ण­मु­प­जीव्य फलितमाह -
तस्मादिति ।

सप्र­प­ञ्च­वा­क्या­ना­मपि तुल्यं तत्प्र­धा­न­त्व­मि­त्या­श­ङ्क्याह -
इतराणीति ।

तेषां वस्तुपरत्वाभावे हेतुमाह -
उपासनेति ।

तेषामपि स्वशे­ष्य­वि­रो­धा­दुक्ता स्वार्थे मानतेत्याशङ्क्य पर्ण­म­यी­वा­क्य­व­न्मा­ना­न्त­र­वि­रो­धा­न्मै­व­मि­त्याह -
तेष्विति ।

विरोधस्य तुल्यत्वात्कुतो निर्धा­र­णे­त्या­श­ङ्क्याह -
सतीति ।

उक्तहेतुकृतां विनि­ग­म­ना­मे­वा­भि­न­यति -
येनेति ॥ १४ ॥

सूत्रान्तरं प्रश्न­पू­र्व­क­म­व­ता­र­यति -
का तर्हीति ।

दृष्टान्तं व्याचष्टे -
यथेति ।

चकारार्थं दार्ष्टा­न्ति­क­माह -
एवमिति ।

किमर्थो ब्रह्मणो निरा­का­र­स्या­का­रो­प­देशः, तत्राह -
तदिति ।

अवै­य­र्थ्या­दि­त्यत्र प्राति­प­दि­का­र्थ­माह -
एवमिति ।

निष्प्र­प­ञ्च­वा­क्य­वि­रो­धा­द्वै­य­र्थ्य­मेव तेषां किं न स्यादि­त्या­शङ्क्य प्रत्ययार्थमाह -
नहीति ।

पूर्वापरविरोधं शङ्कते -
नन्विति ।
एव­म­पी­त्यु­क्त­रीत्या श्रुतीनां व्यव­स्थि­त­त्वेऽ­पी­त्यर्थः ।

औपा­धि­क­मु­भ­य­लि­ङ्गत्वं वास्तवमुपेत्य विरोधः साध्यते किंवाऽ­वि­द्या­कृ­त­मिति विकल्प्याद्यं निराह -
नेतीति ।
वस्तु­ध­र्म­त्वा­नु­प­पत्तेः वस्तुनो धर्मः सत्यत्वं तद्व­त्ता­सि­द्धे­रिति यावत् ।

इतश्च नोपा­धि­कृ­त­ना­ना­त्वस्य सत्यतेत्याह -
उपाधीनां चेति ।

न तेषामाविद्यत्वं शास्त्र­त­स्त­द्धियं विना तद्वि­शि­ष्टो­पा­स्त्य­यो­गा­दि­त्या­शङ्क्य तत्त्वा­वे­द­क­मा­ना­द्ब्र­ह्म­ज्ञाने तद­ज्ञा­न­ध्व­स्ते­रु­पा­स्त्या­दि­व्य­व­हा­र­स्यापि निर­व­का­श­त्वा­दु­पा­धीनां व्याव­हा­रि­क­स­त्त्वेऽपि न तात्त्वि­क­ते­त्याह -
सत्यामिति ।

आविद्यकं तु नानात्वं न विरोधहेतुस्तस्य पूर्वमपि सर्व­व्य­व­हा­र­हे­तो­रु­प­ग­ते­रिति मत्वाह -
तत्र तत्रेति ॥ १५ ॥

कीदृशं तर्हि निर्विशेषं ब्रह्म, तत्रोक्तम् -
आहेति ।

तद्विभजते -
आह चेति ।

मात्रचोऽर्थमाह -
विलक्षणेति ।

कासौ श्रुतिस्तामाह -
स यथेति ।
एकरसे चिन्मात्रे स दृष्टान्तो यथा येन प्रकारेण लोके सैन्धवस्य घनो मूर्तिविशेषः खिल्य­भा­वोऽ­न्त­र्ब­हि­र्भे­द­शून्यः सर्वो लव­णै­क­र­स­स्त­थै­वा­य­मा­त्माऽ­न्त­र्ब­हि­र्वि­भा­ग­र­हितः समस्तोऽपि प्रकृ­ष्ट­ज्ञ­प्त्यै­क­ता­न­स्ति­ष्ठ­ती­त्यर्थः ।

सविशेषस्यैव सैन्धवघनस्य दृष्टा­न्ति­त­त्वा­द्दा­र्ष्टा­न्ति­क­स्यापि ब्रह्मणः सविशेषत्वं दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­रै­क­रू­प्या­दि­त्या­श­ङ्क्याह -
एतदिति ॥ १६ ॥
अन्यापोहमुखेन बोध्यमानत्वादपि स्वग­त­वि­शे­ष­शून्यं ब्रह्म ।

विशेषवत्त्वे तदुक्त्यापि प्रति­पा­द­न­सि­द्धा­वि­त­र­व्या­वृ­त्ति­वै­य­र्थ्या­दि­त्याह -
दर्शयतीति ।

सूत्रं व्याचष्टे -
दर्शयतीत्यादिना ।

अन्यनिषेधेनैव ब्रह्मोक्तौ स्वगतविशेषाभावे हेतुमाह -
निर्वि­शे­ष­त्वा­दिति ।
रूप­द्व­य­व्या­ख्या­न­न्त­र्य­म­थ­श­ब्दार्थः । तस्य ब्रह्म­धी­हे­तु­त्व­म­तः­श­ब्दार्थः । विदितं कार्यमविदितं कारणम् । अथो इति निपातोऽप्यर्थः । अधी­त्यु­प­रि­ष्टा­द­न्य­दि­त्यर्थः । तमानन्दं ब्रह्मस्वभावं विद्वान्न कुतश्चन विभेतीति शेषः ।

तत्रैव श्रुत्यन्तरमाह -
बाष्कलिनेति ।

स तु प्रश्ने कृते बाध्यस्य तूष्णीम्भावे भाव­म­वि­द्वा­न्भूयो भूयः पप्रच्छ तं पुन­र­ति­नि­र्ब­न्ध­का­रिणं बाध्वो द्वितीये तृतीये वा प्रश्ने प्रत्यु­क्त­वा­नि­त्याह -
तं हेति ।

उक्तं चेदुत्तरं किमिति न मया ज्ञातं, तत्राह -
त्वं त्विति ।

कथं तूष्णीम्भाव एवोत्तरं, तत्राह -
उपशान्त इति ।

अथो इत्यादि व्याचष्टे -
तथेति ।
सूत्र­ग­ता­थो­श­ब्द­स्त­थे­त्यर्थे ज्ञेयः ।

उक्तिफलमाह -
यदिति ।

ज्ञेयमेव विशिनष्टि -
अनादिमदिति ।
आदि­र­स्या­स्ती­त्या­दि­म­त्कार्यं तदस्य नास्ती­त्य­ना­दि­म­त्का­र्य­र­हि­त­मि­त्यर्थः ।

स्वयं च न कार्यमित्याह -
न सदिति ।

नच तत्का­र­ण­मि­त्यु­क्तम् -
नासदिति ।
तथा वास्त­व­नि­र्वि­शे­ष­त्व­व­शे­नेति यावत् । सर्वेषां भूतानां पृथिव्यादीनां गुणा गन्धादयः सर्वप्राणभृतां वा गुणा जन­क­त्व­पा­ल­क­त्वा­द­य­स्तै­र्युक्तं मां पश्यसीति यदेतदेषा माया मया सृष्टेति योजना ।

कस्मादेषा मायेत्युक्ते निर्वि­शे­ष­श्रु­ति­मा­श्रि­त्याह -
नैवमिति ॥ १७ ॥

विशि­ष्ट­दृ­ष्टा­न्तो­क्ति­रपि निर्वि­शे­ष­त्व­मस्य गमयतीत्याह -
अत इति ।

सूत्राक्षराणि व्याचष्टे -
यत इति ।
पूर्वो­क्त­स­र्व­रू­पा­ण्यु­पा­दाय विशे­षा­णा­मु­पा­धि­नि­मि­त्तत्वे विशेषवत्तायाः सत्यत्वं शङ्कि­त्वो­क्त­म­पा­र­मा­र्थि­की­मिति । जल­सू­र्य­का­दि­व­दिति कप्रत्ययो बिम्बाद्भेदेन प्रति­बि­म्ब­स्या­भा­स­त्व­धिया प्रयुक्तः ।

तान्येव मोक्षशास्त्राणि सङ्क्षिप्याह -
यथेति ।
अयं हि विव­स्वा­ञ्ज्यो­तिः­स्व­भावः स्वयमेकोऽपि तत्तत्पात्रगता भिन्ना अपोऽ­नु­ग­च्छ­न्ब­हुधा क्रियते । एवमयमात्मा तत्त­त्क्षे­त्रे­ष्व­नु­ग­च्छ­न्कू­ट­स्थ­स्व­प्र­का­श­चि­द्धा­तु­रे­कोऽपि सन्नुपाधिना भेदरूपः क्रियत इति योजना ।

आदिशब्दोपात्तं जलचन्द्रकोपमानं दर्शयति -
एक एवेति ॥ १८ ॥

उत्त­र­सू­त्र­म­व­ता­र­यति -
अत्रेति ।
श्रौतः स्मार्तश्च दृष्टान्तः सप्तम्यर्थः ।

न तथात्वमिति व्याचष्टे -
नेत्यादिना ।

इहे­त्या­त्मोक्तिः । हेतुमवतार्य तद्वदग्रहणं दर्शयितुं दृष्टा­न्त­स्व­रू­प­माह -
सूर्यादिभ्यो हीति ।

दार्ष्टान्तिके तद्वैषम्यमाह -
न त्विति ।

उपाधीनामात्मनो विप्र­कृ­ष्ट­दे­श­त्वा­भावे हेतुमाह -
सर्वगतत्वादिति ।

तेषां तस्मा­त्पृ­थ­ग्भू­त­त्वा­भावे हेतुमाह -
सर्वेति ।

वैषम्यफलमाह -
तस्मादिति ॥ १९ ॥

चोद्यमनूद्य सिद्धान्तयति -
अत्रेति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र्वि­व­क्षि­तां­शेन वा सर्वात्मना वा साम्यं तत्रा­द्य­म­ङ्गी­क­रोति -
युक्त इति ।

द्वितीयं निराह -
नहीति ।

उपा­धे­र्भि­न्नत्वं भिन्नदेशत्वं च दृष्टान्ते दृष्टमिह तद­भा­वा­द्रू­प­शू­न्य­त्वाच्च ब्रह्मणो न प्रतिबिम्बं कल्प्य­मि­त्या­श­ङ्क्याह -
नचेति ।

शास्त्रीये दृष्टान्ते किं सूत्रे­णे­त्या­श­ङ्क्याह -
शास्त्रेति ।
प्रयोजनमात्मनो निर्वि­शे­ष­त्व­ज्ञा­नम् ।

विवक्षितांशेन साम्येऽपि सर्वात्मना साम्य­म­ति­प्र­स­ङ्गी­त्यु­क्त­मि­दा­नी­मा­का­ङ्क्षा­पू­र्वकं सूत्रमादाय विभजते -
किमित्यादिना ।

वृद्धि­ह्रा­से­त्यादि व्याख्या­या­व­शिष्टं व्याचष्टे -
एवमिति ।
अवि­रो­ध­स्त­द्भा­व­स्येति शेषः ॥ २० ॥

ब्रह्म न प्रतिबिम्बभावं गन्तु­म­ल­म­मू­र्त­त्वा­द्ग­न्ध­व­दि­त्य­त्रा­प्र­यो­ज­क­त्व­मुक्त्वा दोषा­न्त­र­मा­ग­म­वि­रो­ध­माह -
दर्शनाच्चेति ।

सूत्रं विवृणोति -
दर्शयतीति ।
द्विप­दो­प­ल­क्षि­तानि मनु­ष्या­दि­श­री­राणि । चतु­ष्प­दो­प­ल­क्षि­तानि च पश्वादिशरीराणि । पुरश्चक्रे पुरु­श्च­क्षु­रा­द्य­भि­व्यक्तेः पुरस्तादेव स स्रष्टेश्वरः पक्षी लिङ्गशरीरी भूत्वा पुरस्तान्येव सृष्टानि शरी­रा­ण्या­वि­श­त्प्र­वि­ष्ट­वान् । स च वस्तुवृत्त्या पुरुषः पूर्ण­स्त­द­ति­रि­क्त­व­स्त्व­भा­वा­दि­त्यर्थः ।

प्रति­बि­म्ब­प­क्षस्य श्रुतिमूलत्वे फलितमाह -
तस्मादिति ।

स्वसि­द्धा­न्त­मु­प­सं­ह­रति -
तस्मा­न्नि­र्वि­क­ल्पेति ।

स्वम­ते­ना­धि­क­र­ण­मुक्त्वा स्वयू­थ्य­म­त­मु­त्था­प­यति -
अत्रेति ।
व्याख्यातेषु सूत्रेष्विति यावत् ।

न स्थान­तोऽ­पी­त्यादि प्रका­श­व­च्चे­त्यतः प्रागेकमधिकरणं तद्गतं विचारं दर्शयति -
प्रथममिति ।

प्रका­श­व­च्चे­त्यादि द्वितीयमधिकरणं तत्रत्यं विचारमाह -
द्वितीयं त्विति ।
तत्र पूर्वपक्षसूत्रं प्रकाशवच्चेति । न केवलं सद्रूपमेव ब्रह्म किन्तु चैत­न्य­प्र­का­श­वच्च ‘सत्यं ज्ञानं’ ‘सदेव’ इत्युभयश्रुतेः । एवं सत्य­वै­य­र्थ्या­त्सि­द्धा­न्त­सू­त्र­माह चेति । सत्त्वं चैत­न्य­प्र­का­श­मात्रं सदेव विज्ञा­न­मा­न­न्द­मि­त्याद्या श्रुतिराह तन्न ब्रह्मणो नाना­र­स­त्वा­श­ङ्के­त्यर्थः ।

द्वितीयमधिकरणं दूषयति -
अत्रेति ।
सर्वथापि फलस्य सन्देहस्य च भावेऽपीत्यर्थः ।

कथं फलस्य भावे वैय­र्थ्य­मि­त्या­शङ्क्य तत्कि­म­ने­क­रू­प­त्व­नि­रा­क­रणं किंवा सन्मा­त्र­त्व­सा­ध­न­म­थवा बोध­मा­त्र­त्व­बो­ध­न­मिति विकल्प्याद्यं दूषयति -
यदिति ।

द्वितीयं निरस्यति -
नचेति ।

न केवलं श्रुतिविरोधोऽपि तु श्रुता­र्था­प­त्ति­वि­रो­ध­श्चे­त्याह -
कथं वेति ।
एतेन पूर्व­प­क्षा­सि­द्धि­रुक्ता ।

तृतीयं प्रत्याह -
नापीति ।

श्रुति­वि­रो­ध­व­द्यु­क्ति­वि­रो­ध­श्चा­स्ती­त्याह -
कथमिति ।
सतो व्यावृत्तस्य तुच्छ­त्वा­दि­त्यर्थः । एतेन सिद्धा­न्ता­सि­द्धि­रुक्ता ।

पूर्व­प­क्षा­न्त­र­मपि परस्यायुक्तं पूर्वा­धि­क­र­ण­वि­रो­धा­दि­त्याह -
नापीति ।

प्रसङ्गमेव प्रपञ्चयति -
सत्तेति ।
तद्व्या­वृ­त्तत्वं तद्विशेषितत्वम् ।

श्रुत्य­व­ष्ट­म्मेन पूर्व­प­क्ष­सिद्धिं शङ्कते -
श्रुतत्वादिति ।

विरुद्धमर्थं श्रुतिरपि न वदेदतो न तद­व­ष्ट­म्भा­दु­भ­या­त्मता शङ्कनीयेत्याह -
नैकस्येति ।

विरोधं परिहर्तुं वाक्या­र्थ­स्या­ख­ण्डतां चोदयति -
अथेति ।

वाक्या­र्था­ख­ण्ड­त्व­मु­पेत्य परस्य संश­या­नु­प­प­त्ति­माह -
तथापीति ।

एकाधिकरणत्वे सूत्रा­णा­म­सा­ङ्ग­त्या­द्भि­न्ना­धि­क­र­ण­त्व­मा­श­ङ्क्याह -
सूत्राणीति ।

इतश्च नाधि­क­र­ण­भे­दोऽ­स्ती­त्याह -
अपिचेति ।

पूर्वा­धि­क­र­णा­पे­क्षि­त­हे­त्व­न्त­र­वा­दि­त्वे­नो­त्त­र­सू­त्राणां तच्छे­ष­त्व­सि­द्धेर्न भेदकल्पनेति हेत्वन्तरमेव स्फुटयति -
ब्रह्मेति ।

आका­र­व­द्ब्र­ह्म­वा­दि­श्रु­तीनां प्रकारान्तरेण गतिरिति मतमनुवदति -
यदपीति ।

प्रप­ञ्च­प्र­वि­ल­य­पक्षं दूषयति -
तदपीति ।

सर्व­श्रु­ती­ना­मे­क­वा­क्य­त्व­स­म्भवे किमिति तदसमीचीनतेति पृच्छति -
कथमिति ।

पर­वि­द्या­प्र­क­र­ण­स्था­ना­मा­का­र­व­द्ब्र­ह्म­बा­दि­श्रु­ती­ना­मे­क­वा­क्यत्वं किं वोपा­स्ति­प्र­क­र­ण­स्था­ना­मथ वा सर्वासां, तत्रा­द्य­म­ङ्गी­क­रोति -
ये हीति ।

यथा रथे वाजिनो युज्यन्ते तथास्यत्मनः संयुक्ताः स्ववि­ष­य­प्र­का­श­नाय हरयो हर­णा­दि­न्द्रि­याणि दश प्राणि­भे­दा­पे­क्षया च शताः शता­नी­त्यु­प­क्र­म्या­त्म­न­श्चे­न्द्रि­याणां च भेदं शङ्कित्वोक्तम् -
अयमित्यादि ।

तेषां प्रविलयद्वारा ब्रह्म­वा­क्ये­नै­क­वा­क्यत्वे हेतुमाह -
तदेतदिति ।

द्वितीयं दूषयति -
ये पुनरिति ।

तेषां लयार्थत्वेन ब्रह्म­वा­क्यै­क­वा­क्य­त्वा­भावे हेतुमाह -
स क्रतुमिति ।
किञ्च मनो­म­या­दि­वा­क्यान्न साक्षाल्लयो भाति किन्तु लक्षयितव्यः ।

नच श्रुतित्यागेन लक्षणा श्रुते­र्ब­ली­य­स्त्वा­दि­त्याह -
श्रुत्या चेति ।

तृतीयं प्रत्याह -
सर्वेषां चेति ।
यदि हि काश्चिदपि श्रुतयो नाका­र­वा­दि­त­यो­पा­स­ना­पराः स्युस्तदा सर्वासां लयार्थत्वेन निरू­प­णा­द्ब्र­ह्म­प्र­धा­न­त्वा­वि­शे­षा­देता ध्यान­वि­धि­प्र­धाना निष्प्र­प­ञ्च­प्र­धा­ना­स्त्वेता इति विनिगमनं न स्यात्तथाच सूत्रं विरु­ध्ये­ते­त्यर्थः ।

निष्प्र­प­ञ्च­वा­क्ये­ष्वेव फलश्रवणात् ‘फल­व­त्सं­नि­धा­व­फलं तदङ्गम्’ इति न्याया­त्स­प्र­प­ञ्च­वा­क्यानां तदे­क­वा­क्य­ते­त्या­श­ङ्क्याह -
फलमिति ।

उपास्तिफलेन फल­व­त्त्वा­दु­क्त­न्या­या­वि­ष­य­त्व­मा­का­र­व­द्वा­क्या­ना­मिति स्थिते फलितमाह -
इत्यत इति ।

एक­वा­क्य­ता­हे­त्व­दृ­ष्टे­रपि नैकवाक्यतेत्याह -
कथं चेति ।

हेतु­त्वा­नु­प­ल­ब्धि­र­सि­द्धेति शङ्कते -
एकेति ।
यद्यपि प्रया­ज­द­र्श­पू­र्ण­मा­स­वा­क्य­यो­र्वि­ष­या­नु­ब­न्ध­भे­दा­न्नि­यो­ग­भे­द­स्त­था­प्ये­का­धि­का­र­नि­योग इत्ये­क­नि­यो­ग­त्वम् । तथा तत्त्वा­व­बो­ध­का­म­स्यैको नियोगः सर्व­त्रे­त्ये­क­वा­क्य­ते­त्यर्थः ।

तत्त्व­मा­दि­वा­क्येषु नियो­गा­भा­वा­दे­क­नि­यो­ग­धी­र­सि­द्धेति दूषयति -
नेति ।

तेष्वपि कल्प्यतां नियोगोऽन्यथा प्रामा­ण्या­यो­गा­दि­त्या­श­ङ्क्याह -
वस्त्विति ।