अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

विषयाभावाच्च न नियो­गोऽ­त्रे­त्याह -
किमिति ।

नियो­ज्या­व­च्छिन्नो नियोगस्तस्य किं विष­ये­णे­त्या­श­ङ्क्याह -
पुरुषो हीति ।

विषयोऽपि तर्हि नियो­गा­व­च्छे­द­क­त्वेन कश्चि­त्क­ल्प्य­ता­मि­त्या­शङ्क्य द्वैतलयो वा स स्याद्ब्र­ह्म­ज्ञानं वा तद­वि­द्या­नि­वृ­त्तिर्वा तत्का­र्य­नि­वृ­त्ति­र्वेति विक­ल्प्या­द्य­मा­दत्ते -
नन्विति ।

तत्त्वा­व­बो­ध­का­मि­न­स्त­त्त्वा­व­बो­ध­फ­लके विषये तदुपकारके वा नियोगो युक्त­स्त­स्मा­त्कथं प्रपञ्चलये स्यादि­त्या­शङ्क्य तदु­प­का­र­क­त्वा­दि­त्याह -
अप्रविलापिते हीति ।

काम्य­मा­न­त­त्त्वा­व­बो­धो­प­का­र­कत्वे फलितमाह -
अत इति ।

उक्तमर्थं वैदिकोदाहरणेन स्फुटयति -
यथेति ।

स्वर्गं प्रति यागस्य साधनत्वात्तत्र नियोगेऽपि प्रकृते काम्य­मा­नो­पा­य­त्वा­भा­वा­त्कुतो नियोगः स्यादि­त्या­शङ्क्य प्रति­ब­न्ध­नि­वृ­त्ति­तया प्रप­ञ्च­ल­य­स्या­नु­ष्ठे­यत्वं लौकि­क­दृ­ष्टा­न्तेन दर्शयति -
यथा चेत्यादिना ।

तत्त्वज्ञानकामो द्वैतं प्रविलापयेदिति न नियोगो ब्रह्मणोऽपि तल्लये लया­पा­ता­दि­त्या­श­ङ्क्याह -
ब्रह्मेति ।
नहि लोके कार्यनाशेऽपि कारणं नश्य­त्या­रो­पि­त­स्या­धि­ष्ठा­ना­न्त­र्भा­वेऽपि तस्य तद­न­न्त­र्भा­वा­दिति भावः ।

नैयोगिके द्वैतलये फलितमाह -
तेनेति ।

वेदान्तानां द्वैत­त्व­वि­यो­ग­नि­ष्ठ­त्वे­नै­क­वा­क्यत्वं शङ्कितं प्रत्याह -
अत्रेति ।

प्रश्नमेव विशदयति -
कोऽयमिति ।

किंशब्दोपात्तं पक्षद्वयं दर्शयति -
किमित्यादिना ।
वास्त­व­स्या­वा­स्त­वस्य वा द्वैतस्य लयो नियो­ग­वि­ष­य­त्वे­नेष्ट इति विकल्पार्थः ।

आद्यमनूद्य प्रत्याह -
यदीत्यादिना ।
वस्तुनो ज्ञाना­द­ध्व­स्ते­र्मु­स­ला­दिना च कृत्स्न­द्वै­त­नि­वृ­त्त्य­यो­गा­न्न­भो­ग्र­स­न­नि­यो­ग­व­दयं नियोगः स्यादित्यर्थः ।

किञ्चानादौ संसारे कश्चित्प्रागितो मुक्तो न वा । तत्रा­द्येऽ­द्य­त­न­पृ­थि­व्या­द्यु­प­ल­ब्धि­र्वि­रु­ध्येत । द्वितीये शुका­दि­मु­क्ति­श्रु­ति­वि­रोधः । तस्या­श्चा­र्थ­वा­द­त्वेऽपि द्वारार्थे तात्प­र्या­वि­रो­धा­दि­त्य­ने­क­जी­व­वा­द­मु­पे­त्याह -
एकेनेति ।

द्विती­य­मु­त्था­प­यति -
अथेति ।

तर्हि द्वैतलये नियो­ग­वै­य­र्थ्य­मि­त्याह -
तत इति ।
ब्रह्म­त­त्त्व­ज्ञा­प­ने­नैव तद­वि­द्या­कृ­त­द्वै­त­ल­या­त्त­देव वेदा­न्तै­र्ज्ञा­प­नीयं कृतमत्र नियोगेनेत्यर्थः ।

कथं तदावेदनं तदाह -
एकमिति ।

मा तर्हि द्वैतलये नियोगो भूद्ब्र­ह्म­ज्ञाने तु स्यादिति द्विती­य­मा­श­ङ्क्याह -
तस्मिन्निति ।
शब्दोक्ते ब्रह्मणि नियोगापेक्षां विना शब्दशक्तेरेव ज्ञानो­त्प­त्तेर्न तद्विषयोऽपि नियो­गोऽ­स्ती­त्यर्थः ।

उत्पन्ने ज्ञाने नान्त­री­य­क­त्वे­ना­ज्ञा­न­नि­वृ­त्तेर्न नियो­ग­स्त­त्रा­पीति तृतीयं प्रत्याह -
तयेति ।

चतुर्थं निरस्यति -
ततश्चेति ।
कार­णा­वि­द्या­नि­वृ­त्ते­रिति यावत् ।

किञ्च ब्रह्मज्ञानादौ नियोगो ब्रह्मण्यज्ञाते ज्ञाते वा । तत्राद्यं दूषयति -
अनावेदिते त्विति ।

द्वितीयमालम्बते -
नन्विति ।

ब्रह्मणि शाब्दे तद्वशादेव नियोगादृते ब्रह्म­ज्ञा­ना­दि­सि­द्धे­र्नि­यो­ग­वै­य­र्थ्य­मि­त्याह -
नेत्यादिना ।

तदेव दृष्टान्तेन स्फुटयति -
रज्जिवति ।

ब्रह्म­त­त्त्वा­वे­द­न­सि­द्ध­मपि ब्रह्म ज्ञानादिनियोगेन पुनः साध्य­मि­त्या­श­ङ्क्याह -
नचेति ।
कर­णा­प­र्य­व­सा­ना­दि­त्यर्थः ।

विष­या­भा­वा­न्नि­यो­गा­भा­व­मुक्त्वा नियोज्याभावादपि वेदान्तेषु तदभावमाह -
नियोज्योऽपीति ।

प्रप­ञ्चा­न्त­र्भा­व­पक्षं प्रत्याह -
प्रथम इति ।
प्रपञ्चप्रविलयो ब्रह्म­ज्ञा­ना­दे­रु­प­ल­क्ष­णम् ।

मुमु­क्षो­र्नि­यो­ज्य­त्व­मा­श­ङ्क्यो­क्तम् -
कस्येति ।

ब्रह्मा­न्त­र्भावे नियोज्यत्वं दुर्वचमित्याह -
द्वितीयेऽपीति ।

ब्रह्म­णोऽ­न­न्योऽपि जीवोऽ­वि­द्य­याऽ­न्य­त्वा­न्नि­योज्यः स्यादि­त्या­शङ्क्य ब्रह्म­ण्या­वे­दिते भेद­का­वि­द्या­यो­गा­न्नै­व­मि­त्याह -
जीवत्वमिति ।

ब्रह्मज्ञाने श्रूयमाणा विधयस्तर्केण कथं निरस्यन्ते, तत्राह -
द्रष्टव्यादीति ।

तेषा­म­भि­मु­खी­क­र­णा­र्थत्वं न क्वापि दृष्ट­मि­त्या­श­ङ्क्याह -
लोकेऽपीति ।

ज्ञानमेव प्रकृत्यर्थतया श्रुतं किमिति लोके वेदे वा न विधे­य­मि­त्या­श­ङ्क्या­पु­रु­ष­त­न्त्र­त्वा­दि­त्याह -
ज्ञेयेति ।

किञ्च नियोगवादिनाऽपि वेदान्तानां वस्तु­वा­दि­त्व­म­वश्यं वाच्यं नियो­ग­मा­त्रा­त्त­त्त्व­ज्ञा­ना­यो­गात् । ततो वाक्यादेव तदु­त्प­त्ते­र्नि­यो­गा­न­र्थ­क्य­मि­त्याह -
तस्मादिति ।
ज्ञान­स्य­पु­रु­ष­त­न्त्र­तया विधे­य­त्वा­यो­ग­स्त­च्छ­ब्दार्थः । तं ज्ञेयाभिमुखं पुरुषं प्रतीति यावत् ।

तथापि नियोगाभावे कथं तत्र धीरि­त्या­श­ङ्क्याह -
तस्मिन्निति ।

किञ्च मानानपेक्षो विधिर्न सम्यग्ज्ञानं जनयति । नच मुमु­क्षो­र्मि­थ्या­ज्ञा­न­मु­प­यु­क्तम् । नच प्रमाणबाधिते सम्यग्ज्ञानं जनयितुं शक्यम् । तथाच मानेनैव तत्सि­द्धे­र्व्यर्थो विधिरित्याह -
नचेति ।

योषि­दा­दि­ष्व­ग्न्या­दि­धी­व­न्मा­न­वि­रु­द्धेऽपि विधेर्युक्तं ज्ञान­मि­त्या­श­ङ्क्याह -
यदीति ।

अन्यथाज्ञानमपि न मानसी क्रिया रज्जु­भु­ज­ङ्गा­दि­धी­व­दि­त्या­श­ङ्क्याह -
स्वयमिति ।
शास्त्री­य­य­त्ना­द्य­न­पे­क्ष­तया जात­ज्ञा­न­स्या­क्रि­या­त्वेऽपि शास्त्री­य­म­न्य­स्या­न्य­ज्ञानं प्रयत्नादिकृतं मानसी क्रियैवेत्यर्थः ।

कथम्भूतं तर्हि सम्यग्ज्ञानं, तत्राह -
ज्ञानं त्विति ।

तदपि नियोगाधीनं किं न स्यात् , तत्राह -
नेति ।

नेक्षे­ते­त्या­दि­नि­षे­ध­वि­ष­य­त्व­व­द्वि­धि­वि­ष­य­त्व­मपि स्यादि­त्या­श­ङ्क्याह -
नचेति ।
तत्रापि सङ्कल्पप्रयत्न एव विधीयत इति भावः ।

सम्यग्ज्ञानस्य विधि­नि­षे­धा­वि­ष­यत्वे हेतुमाह -
नहीति ।

प्रय­त्ना­न­धी­नत्वे फलितमाह -
अत इति ।
मान­व­स्तु­त­न्त्र­त्व­म­पे­रर्थः ।

नियोगवादिनं प्रत्यन्यच्च किञ्चिदुच्यते दूषणमित्याह -
किञ्चेति ।

तदेव स्फोरयति -
नियोगेति ।
शास्त्रस्य नियोगनिष्ठत्वे पदा­र्थ­यो­रै­क्यो­प­गमो भ्रान्तिमूलः स्यादित्यर्थः ।

शास्त्र­सि­द्ध­त्वा­दु­भ­य­मपि प्रामा­णि­क­मि­त्याह -
अथेति ।

अनेकार्थतया वाक्यभेदो विरु­द्धा­र्थ­त्वा­द­प्रा­माण्यं चेति दूषयति -
तत इति ।

उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दि­सिद्धा ब्रह्मपरतापि वेदान्तानां नियोगपरत्वे पीड्येतेत्याह -
नियोगेति ।

किञ्च धियो विधेयत्वे कर्म­व­द­पू­र्वा­वा­न्त­र­व्या­पा­रा­त्फ­ल­सि­द्धि­रे­ष्टव्या तत­श्चा­दृ­ष्ट­फ­ल­त्व­म­नि­त्यत्वं सातिशयत्वं च स्वर्गा­दि­व­त्त­त्फ­लस्य स्यादित्याह -
कर्मेति ।

वेदान्तानां नियोगपरत्वाभावे कथं प्रामाण्यं, तत्राह -
तस्मादिति ।

तेषा­म­नि­यो­ग­नि­ष्ठत्वे फलितमाह -
अतश्चेति ।

वेदान्तेषु नियो­गा­भा­वा­दे­क­नि­यो­ग­वि­धि­र­सिद्ध इत्युक्तम् । सम्प्रति प्रौढवादितया नियोगमङ्गीकृत्य तदेकत्वं प्रत्याह -
अभ्यु­प­ग­म्य­मा­नेऽ­पीति ।

तत्र हेतुमाह -
नहीति ।
भिन्न­वा­क्या­र्थ­वि­षयः शब्दः शब्दान्तरम् । यथा यज­ति­द­दा­ति­जु­हो­त­य­स्त­थे­हापि वेदोपासीतेति शब्दभेदः । अादिशब्देन रूपभेदः प्रकरणभेदः फलभेदश्च गृह्यते । एतैर्भेदे सिद्धे तदे­क­त्वा­सि­द्धि­रि­त्यर्थः ।

अनुबन्धभेदेऽपि प्रया­ज­द­र्श­पू­र्ण­मा­से­ष्विव नियो­गै­क्य­मा­श­ङ्क्या­धि­का­रां­शस्य तत्राभेदादिह तद­भा­वा­न्नै­व­मि­त्याह -
प्रयाजेति ।

एकस्यैव स्वर्गकामस्य साङ्ग­प्र­यो­गा­धि­का­र­व­द­त्रापि मुमु­क्षो­रे­क­स्यैव द्वैत­ल­या­दा­व­धि­का­रा­दु­भ­य­वि­धि­वा­क्येषु नियोगैक्यं स्यादि­त्या­श­ङ्क्याह -
न त्विति ।

भिन्ना­धि­का­र­त्वा­द­न्यो­न्यो­प­का­रा­यो­गा­च्चेति हेतुमाह -
नहीति ।

तर्हि भारूपत्वादीनां विशि­ष्ट­गु­ण­वा­दि­त्व­म­न्येषां तस्मिन्नेव धर्मिणि द्वैत­वि­ला­प­ना­र्थ­ते­त्ये­क­वा­क्य­ते­त्या­श­ङ्क्याह -
नहि कृत्स्नेति ।

एकवाक्यत्वायोगे फलितमाह -
तस्मादिति ।
अनि­र्वा­च्य­द्वै­ता­ल­म्बनाः सविशेषश्रुतयः स्वाभा­वि­का­द्वै­ता­ल­म्ब­नाश्च निर्विशेषश्रुतय इत्यस्मदुक्तो विभागः । निष्प्र­प­ञ्च­म­द्वयं चैतन्यैकरसंं ब्रह्मेति तत्प­द­ल­क्ष्य­मु­प­सं­ह­र्तु­भि­ती­त्यु­क्तम् ॥ २१ ॥

निषे­ध­श्रु­ति­भि­र्ब्र­ह्मणि निर्विशेषे निरूपिते तासां ब्रह्म­नि­षे­ध­त्व­मा­श­ङ्क्यो­क्तम् -
प्रकृतेति ।

ब्रह्म सन्मात्रं तच्च सामा­न्य­त्वा­द्वि­शे­षा­पेक्षं तेन तेषु निषिद्धेषु नास्ति ब्रह्मेति शङ्कायामधिकरणम् । तस्य विषयवाक्यं सोपक्रममाह -
द्वे वावेति ।
वावशब्दोऽवधारणे ।

रूप­द्व­य­मे­वा­व­धृतं विशिनष्टि -
मूर्तं चेति ।

किं तन्मूर्तं किञ्च तद­मू­र्त­मि­त्या­का­ङ्क्षा­या­मु­क्तम् -
पञ्चेति ।
पृथि­व्य­प्ते­जो­रूपं भूतत्रयं मूर्तरूपं वाय्वाकाशं चामूर्तरूपमिति द्विराशित्वेन पञ्चभूतानि विभा­गे­नो­क्ता­नी­त्यर्थः ।

अमूर्तस्य भूतद्वयस्य रसः सारो हिरण्यगर्भः करणात्मा य एष एतस्मिन्मण्डले पुरुषो यश्चायमध्यात्मं दक्षि­णेऽ­क्ष­न्पु­रुष इत्युक्तस्तस्य वासनाभयानि रूपाणि तद्यथा माहा­र­ज­न­मि­त्या­दिना विचित्राणि दर्शयित्वा रूपिणो ब्रह्मणः स्वरू­पो­क्त्य­र्थ­म­थे­त्या­दि­वा­क्य­मि­त्याह -
अमूर्तेति ।
सत्यस्य सत्यमित्यत्र षष्ठ्य­न्त­स­त्य­श­ब्दा­र्थो­क्त्य­न­न्त­र­मि­त्य­थ­श­ब्दार्थः । प्रथ­मा­न्त­स­त्य­श­ब्दा­र्थस्य वक्त­व्य­त्वे­ना­व­शे­षा­दि­त्या­तः­श­ब्दार्थः । अवशिष्टार्थस्तु व्यक्तीभविष्यति ।

वाक्यो­क्ति­द्वारा तद­र्थ­नि­षे­ध­म­धि­क­र­ण­वि­ष­य­मुक्त्वा विशे­षा­नु­प­ल­म्भ­कृतं संशयमाह -
तत्रेति ।

जिज्ञा­सा­हे­तु­मुक्तं व्यनक्ति -
नहीति ।

सामान्येन दृष्टस्यैव विशेषतो दृष्टौ स्थाण्वादौ संशयदृष्टेरत्र तदभावे कथमसौ स्यादि­त्या­श­ङ्क्याह -
इतिशब्देनेति ।

अस्तु तर्हि तदर्थवत्त्वाय यत्किञ्चिदत्र निषे­ध्य­मि­त्या­श­ङ्क्यो­क्तम् -
इतिशब्दश्चेति ।

प्रत्य­क्षा­दि­सं­नि­हि­त­घ­टा­द्या­ल­म्ब­न­स्तर्हि निषेधः स्यादि­त्या­शङ्क्य सजा­ती­य­मा­ना­र्पि­तस्य विजा­ती­य­मा­न­सि­द्धा­द­न्त­र­ङ्ग­त्वा­त्त­दा­ल­म्ब­न­तैव निषेधस्येत्याह -
संनिहितं चेति ।

प्रकृतत्वं विशे­षा­सि­द्धि­श्चेति हेतुमुक्त्वा संशयं निगमयति -
तत्रेति ।

अन्य­त­र­नि­षे­धे­नापि निषेधसिद्ध्या पक्षान्तरमाह -
अाहोस्विदिति ।

द्वितीयेऽपि ब्रह्मणो वाङ्म­न­सा­ती­त­त्वा­त्प्र­प­ञ्चस्य चाध्य­क्षा­दि­सि­द्ध­त्वा­त्तस्य व्याव­हा­रि­क­मा­न­सि­द्ध­त्वेऽपि कल्पि­त­त्वा­त्त­त्क­ल्प­ना­धि­ष्ठा­न­त्वा­त्त­न्नि­षे­धा­व­धि­त्वाच्च ब्रह्मणः परि­शे­षा­र्ह­त्वा­दिति पक्षद्वयं दर्शयति -
यदपीति ।

अत्र निषे­धा­र्थोक्त्या तत्पदार्थस्यैव शोधनात्तस्यैव शद्धस्य वाक्या­र्था­न्व­यि­त्वेन तद्धी­हेु­तु­त्वा­त्पा­दा­दि­स­ङ्ग­ति­रिति मत्वा पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे निषेधस्य शून्य­ता­न्त­त्वा­द्ब्र­ह्मणः शून्यस्य प्रत्यक्त्वेन ज्ञानानर्हता । सिद्धान्ते व्यतिरिक्तस्यैव निषे­धा­द­प्र­प­ञ्चस्य ब्रह्मणस्तत्वेन ज्ञानयोग्यता सति सम्भवे प्राप्त­स­र्व­नि­षे­ध­क­ल्प­ना­दे­क­दे­श­स्यैव तत्कल्पनं युक्तं लाघवात् ।

नेदं रजतमित्यादौ तथा­द­र्श­ना­दि­त्या­शङ्क्य निषे­ध­द्व­य­शक्त्या प्राप्त­स­र्व­बा­ध­क­ल्पनं युक्तमन्यत्र निषे­ध­द्व­या­भा­वा­दे­क­दे­श­स्यैव बाधेत्याह -
द्वौ चेति ।

निषे­ध­यो­र्द्व­यो­र­पु­न­रु­क्त­म­र्थ­म­भि­न­यति -
तयोरिति ।

वस्त्व­न्त­रा­भा­व­वि­शि­ष्ट­व­स्त्व­न्त­र­ज्ञा­न­स्यैव नेदं रजतमित्यादौ निषे­धा­र्थ­त्वान्न सर्वनिषेधः सम्भ­व­ती­त्या­श­ङ्क्याह -
अथवेति ।

तत्र हेतुः -
तद्धीति ।

प्रकृ­त­त्वा­वि­शे­षा­त्प्र­प­ञ्च­स्यापि निषेधो ब्रह्म­व­दि­त्या­श­ङ्क्या­ध्य­क्षा­दि­वि­रो­धा­न्मै­व­मि­त्याह -
न त्विति ।

ब्रह्म­मा­त्र­नि­षेधे निषे­ध­द्व­य­वै­य­र्थ्य­मे­के­नैव कृत­त्वा­दि­त्या­श­ङ्क्याह -
अभ्यासस्त्विति ।

पक्षद्वयमनूद्य सिद्धान्तयति -
एवमिति ।

तत्र प्रथ­म­मु­त्सू­त्र­मेव प्रथमं पक्षं प्रत्याह -
नेति ।

प्रस­ङ्ग­स्ये­ष्टत्वं निराचष्टे -
किञ्चिद्धीति ।

वास्तवमधिष्ठानं ज्ञात्वारोप्यं निरस्यमित्यत्र दृष्टान्तमाह -
यथेति ।

अस्तु तर्हि शून्यमेव वस्तु तद­धि­ग­म्ये­त­र­न्नि­षेध्यं नेत्याह -
तच्चेति ।
निषेधनं तदर्थः । लोक­सि­द्ध­प­दा­र्था­न्व­य­यो­ग्य­ता­व­शेन वाक्या­र्थ­स्वी­का­रा­न्ने­त्येव च निषे­धा­द­र्श­ना­न्ना­य­मयं नेदमिहेति धर्मि­प्र­ति­यो­गि­घ­टि­त­स्यैव निषेधस्य दृष्टे­र्वि­शे­ष­णा­व­शे­ष­स्या­व­श्य­क­त्वा­द­युक्ता शून्यतेत्यर्थः ।

किञ्च लोके भ्रमस्य साधि­ष्ठा­न­त्वो­प­ल­म्भा­त्ता­त्त्वि­का­धि­ष्ठा­ना­भावे प्रत्य­क्षा­दि­सि­द्ध­द्वै­त­स्यैव तात्त्वि­क­त्वा­पा­ता­न्नि­षेधो निरवकाशः स्यादित्याह -
अपरीति ।
दृष्टसर्वनिषेधे तदे­क­दे­श­व­स्तु­धी­रू­पा­प­वा­दा­भा­वा­दु­त्स­र्ग­स्थि­ति­रिति न्याया­त्पू­र्व­दृ­ष्टस्य वस्तु­त्व­प्र­स­ङ्गा­द­न­व­धि­क­नि­षे­धा­यो­गा­द­व­स्तु­तया च शून्य­भा­ना­त्त­द्दृष्ट्या पूर्व­दृ­ष्ट­नि­षे­धा­स­म्भ­वान्न तत्पर्यन्तो निषेध इति भावः ।

पूर्वपक्षान्तरं प्रत्याह -
नापीति ।
प्राप्ति­पू­र्व­क­त्वा­न्नि­षे­धस्य ब्रह्म­ण­श्चा­वि­द्यया प्रत्य­क्षा­दि­भिर्वा द्वैत­व­द­प्राप्तेः शब्देन प्राप्तस्य तेनैव निषेधे पङ्क­प्र­क्षा­ल­न­न्यान्न तन्निषेध इति भावः ।

ब्रह्मणो निषेध्यत्वाभावे हेत्वन्तरमाह -
ब्रह्मेति ।
आदिपदेन ब्रह्म­वि­दा­प्नो­ती­त्या­दि­रु­प­क्रमो गृह्यते ।

ब्रह्मणः सत्त्वा­स­त्त्व­धि­यो­र्गु­ण­दो­षो­क्ते­रपि न तन्नि­षे­ध्य­मि­त्याह -
असन्निति ।

ब्रह्मणः सन्मा­त्र­त्व­सि­द्धे­रपि न तन्नि­षे­ध्य­मि­त्याह -
अस्तीति ।

किञ्च सर्वेषु वेदान्तेषु साक्षाद्वा परम्परया वा ब्रह्मैव प्रतिपाद्यते तेन तद्विरोधादपि न तन्नि­षे­ध्य­मि­त्याह -
सर्वेति ।

यत्तु वाङ्म­न­सा­ती­त­त्वा­द­स­म्भा­वि­त­स­द्भावं निषेधार्थं ब्रह्मेति, तत्राह -
वागिति ।

तत्र हेतुः -
नहीति ।

केनाभिप्रायेण तर्हि वाङ्म­न­सा­ती­त­त्व­मुक्तं, तत्राह -
प्रतिपादनेति ।

वागा­द्य­ती­त­त्वे­ना­सत्त्वे ब्रह्म­णोऽ­व­ग­म्य­माने किमियं प्रति­पा­द­न­प्र­क्रि­ये­त्या­श­ङ्क्याह -
एतदिति ।

पक्षद्वयायोगे फलितं निषेधार्थं निगमयति -
तस्मादिति ।

उक्तेऽर्थे सूत्रमवतार्य योजयति -
तदेतदित्यादिना ।

ब्रह्मणो रूपद्वयं निषेध्यमित्यत्र हेतुमाह -
तद्धीति ।

प्रकृ­त­त्व­मा­त्रेण निषेधे ब्रह्मणोऽपि निषेधः स्याद­वि­शे­षा­दि­त्या­श­ङ्क्याह -
प्रपञ्चितं चेति ।
ब्रह्मणः षष्ठ्य­न्त­प­द­वा­च्य­तया प्रप­ञ्चा­व­च्छे­दे­ना­प्र­धा­न­त्वा­त्प्र­पञ्च एव प्रधानतया निषेधेन सम्बध्यत इत्यर्थः ।

पुरु­ष­श­ब्द­श्र­व­णा­त्तस्य च ब्रह्म­वि­ष­य­त्वा­द्ब्र­ह्मापि प्रप­ञ्चि­त­मि­त्या­शङ्क्य पुरु­ष­श­ब्द­स्यात्र लिङ्गा­त्म­वि­ष­य­त्वा­न्मै­व­मि­त्याह -
तदिति ।

वासनालक्षणमेव रूपं किमि­त्यु­प­मा­भि­रु­च्यते प्रसि­द्ध­रू­प­त्व­मेव पुरुषस्य कुतो नेष्ट­मि­त्या­श­ङ्क्याह -
अमूर्तेति ।

रूपद्वयस्य प्राधान्येन प्रकृतत्वे फलमाह -
तदिति ।

अर्थतो ब्रह्मणोऽपि प्राधान्येन प्रकृ­त­त्वा­वि­शे­षा­न्नि­षे­ध्य­त्व­मि­त्या­श­ङ्क्याह -
ब्रह्म त्विति ।
अर्थतस्तस्य प्राधान्येऽपि राजपुरुषादाविव शब्दतः प्रधानतया प्रकृतं रूपद्वयमेव प्रकृ­त­प­रा­म­र्शि­ने­ति­श­ब्दे­ना­नूद्य निषे­ध्य­मि­त्यर्थः ।

ब्रह्मणस्तर्हि प्राधा­न्ये­ना­प्र­कृ­त­त्वा­दु­त्त­र­त्रापि न प्रति­पा­द्य­ते­त्या­श­ङ्क्याह -
प्रपञ्चिते चेति ।

एवमुपक्रमेऽपि कथं वाक्यार्थो निर्णी­य­ता­मि­त्या­श­ङ्क्या­ध्या­रो­पा­प­वा­द­न्यायं सूचयति -
तत्रेति ।

निर्घटं भूतलमित्युक्ते घटस्यान्यत्र सत्त्व­व­द्ब्र­ह्मणि रूप­द्व­य­नि­षे­धेऽपि ततोऽन्यत्र तद्भ­वे­दि­त्या­श­ङ्क्याह -
तदास्पदमिति ।
उपादानादन्यत्र कार्या­यो­गा­त्तत्र निषिद्धस्य न क्वापि सत्तेति भावः,

यत्तु प्रत्य­क्षा­दि­सि­द्धस्य द्वैतस्य न निषे­ध­स्त­द्वि­रो­धा­दिति, तत्राह -
युक्तं चेति ।
तत्त्वा­वे­द­न­मा­ना­सि­द्ध­त्वा­द्वा­चा­र­म्भ­णा­दि­श­ब्दाच्च द्वैतस्य वस्तु­स­त्त्व­वै­धु­र्या­द्युक्ता निषेध्यतेति भावः ।

सत्त्वेन सिद्धं द्वैतं निषिध्यते चेद्ब्रह्मणोऽपि तथा सिद्ध्य­वि­शे­षा­न्नि­षे­ध­ता­द­व­स्थ्य­मि­त्या­श­ङ्क्याह -
न त्विति ।
आरो­पा­धि­ष्ठा­न­त्वेन निषेधावधित्वेन चावशेषान्न ब्रह्मणो निषे­ध्य­ते­त्यर्थः ।

द्वे वावे­त्या­दि­नोक्तं रूपद्वयं निषिध्यते चेत्प­ङ्क­प्र­क्षा­ल­न­न्या­या­त्प्र­स­ज्य­प्र­ति­षेधे गौरवं स्यादि­त्या­श­ङ्क्याह -
नचेति ।

अत्रेति रूप­द्व­य­नि­षे­ध­प­क्षोक्तिः । शङ्का न कार्येत्यत्र हेतुमाह -
यत इति ।

अप्रतिपाद्यं चेदनुवाद्यत्वं नच प्राप्तिफले विनाऽनुवादः, तत्राह -
लोकेति ।

तथापि कथं पङ्क­प्र­क्षा­ल­न­न्यायो न स्यादि­त्या­शङ्क्य निषेधस्य फल­व­त्त्वा­दि­त्याह -
शुद्धेति ।

उक्तरीत्या निषेधस्य निर्दो­ष­त्व­मुक्तं निगमयति -
इति निरवद्यमिति ।

द्वौ निषेधौ तयो­र­वै­य­र्थ्यार्थं सर्वं निषे­ध्य­मि­त्युक्तं प्रत्याह -
द्वौ चेति ।

सम्भावितं पक्षान्तरमाह -
यद्वेति ।
भावा­भा­व­वि­ष­य­त्वेन वा निषेधद्वयं विवक्षितम् ।

पक्षान्तरमाह -
अथवेति ।

वीप्सापक्षे वाक्यार्थमाह -
इतीति ।
यावदिति पक्षान्तरेभ्यो विशेषार्थम् ।

तेषु निराकाङ्क्षो वाक्यार्थो न सिध्यतीत्याह -
परीति ।

वीप्सापक्षे निराकाङ्क्षा वाक्यार्थधीरिति विशेषमाह -
वीप्सायां त्विति ।

सूत्रा­व­य­व­व्या­ख्या­मु­प­सं­ह­रति -
तस्मादिति ।

अवयवान्तरमादाय व्याकरोति -
इतश्चेति ।

कथं तावता निषेधस्य नाभावावसानत्वं, तत्राह -
अभावेति ।

नेति नेतीति निषे­धा­त्प­र­म­स्तीति प्रतिपादकं किमि­त्य­पे­क्षा­या­मा­दे­श­नि­र्व­च­न­वा­क्य­मे­वे­त्य­क्ष­र­यो­ज­नया दर्शयति -
तत्रेति ।

निर्व­च­न­प्र­का­र­मे­वा­का­ङ्क्षा­पू­र्व­क­माह -
नेत्याविना ।
हि यस्मान्नेति नेत्या­दि­ष्टा­दे­त­स्मा­द्ब्र­ह्म­णोऽ­न्य­द्व्य­ति­रिक्तं नास्ति ब्रह्मैव परमस्ति तस्मान्नेति नेत्युच्यते न तु सर्वाभावधियेति निर्वचनस्यार्थः ।

एवं­प्र­का­र­मे­त­न्नि­र्व­च­न­म­नि­षिद्धं ब्रह्म वदतीत्याह -
तच्चेति ।

निर्व­च­न­मे­वा­नि­षिद्धं ब्रह्माहेति श्रुति­यो­ज­न­यो­क्तम् । इदानीं नामधेयमेव निषेधावशिष्टं ब्रह्माहेति विधान्तरेण श्रुतियोजनया दर्शयति -
यदेति ।

किं तन्नामधेयं तदाह -
अथेति ।

प्रकृ­त­नि­षे­ध­स्या­भा­वा­न्त­त्व­नि­षे­धा­र्थोऽ­थ­शब्दः ।
ननु नामधेयं निषे­ध­स्या­भा­वा­न्त­त्वेऽपि तद्विषयं घटिष्यते । नेत्याह -
तच्चेति ।

द्वेधा सूत्रा­व­य­व­व्या­ख्या­मु­प­सं­ह­रति -
तस्मादिति ॥ २२ ॥

अनिषेध्यत्वेन वस्तुसत्यं ब्रह्मोक्त्वा तस्या­ग्रा­ह्य­त्वे­ना­स­त्त्व­मा­शङ्क्य प्रत्याह -
तदव्यक्तमिति ।

सूत्र­व्या­व­र्त्य­माह -
यत्तदिति ।

आत्मनि गृह्यमाणे तद­भि­न्न­ब्र­ह्मापि ग्राह्यमिति वापाद्यते भावत्वे घट­व­त्प्र­त्य­क्ष­ग्रा­ह्यता तस्या स्यादिति वा । नाद्यः । प्रत्य­ग­भि­न्न­त्वेऽ­प्य­वि­द्या­वृ­त­त्वा­त्त­द्ग्र­हेऽपि तद­ग्र­ह­सि­द्धे­रि­त्याह -
उच्यत इति ।

न द्वितीय इत्याह -
तदिति ।

कथ­मि­न्द्रि­या­ग्रा­ह्यत्वं ब्रह्मणः सिद्धं, तत्राह -
आह हीति ।
अन्यै­र्दे­वै­रि­न्द्रि­या­न्त­रै­रिति यावत् ।

श्रुत्यु­क्ति­प­र­त्वेन सूत्रावयवं व्याख्याय विधान्तरेण व्याचष्टे -
स्मृतिरिति ॥ २३ ॥

आत्मैव ब्रह्मा­वि­द्या­वृतं चेन्न कदाचिदपि गृह्ये­ते­त्या­श­ङ्क्याह -
अपीति ।

सूत्रं व्याकरोति -
अपिचेति ।
नास्य सदा ग्राह्य­त्व­म­ग्रा­ह्यत्वं वा समाध्यवस्थायां प्रत्यक्त्वेन भानादित्यर्थः । भक्ति­ध्या­नाभ्यां प्रकर्षेण स्वीये मनसि प्रतीचो निधानं भक्ति­ध्या­न­प्र­णि­धा­नम् । आदिपदेन तत्पू­र्व­क­ज­प­न­म­स्का­रा­दि­ग्र­ह­णम् ।

तत्र प्रश्नपूर्वकं प्रमाणमाह -
कथमिति ।
स्वयम्भूः स्रष्टा परमात्मा खानि छिद्रो­प­ल­क्षि­ता­नी­न्द्रि­याणि परा­ञ्च्य­ना­त्म­वि­ष­याणि व्यतृ­ण­द्धिं­सि­त­वान् ।

सा हि तेषां हिंसा यदसदर्थविषयतया समर्पणमित्याह -
पराञ्चीति ।

तेषां तथासृष्टत्वे गमकमाह -
तस्मादिति ।

यदि परा­ञ्च­मे­वा­र्थ­मि­न्द्रियैः पश्यति नान्तरात्मानं कथं तर्हि लोकस्य तत्र ज्ञान­मि­त्या­शङ्क्य साधनचतुष्टयवतः समाधिकाले शुद्धे मनसि प्रत्यक्त्वेन तद्दृ­ष्टि­रि­त्याह -
कश्चिदिति ।

ततो नित्या­द्य­नु­ष्ठा­ना­त्प­रि­शु­द्ध­बु­द्धि­र्ज्ञा­नस्य कर­ण­व्यु­त्प­त्त्याऽ­न्तः­क­र­णस्य प्रसादो नैर्मल्यं तेन निरवयवं निष्प्रपञ्चं प्रत्यञ्चं ध्याय­न्न­वि­ष­य­त्वेन तत्सा­क्षा­त्क­रो­ती­त्याह -
ज्ञानेति ।
विगता निद्रा येभ्यस्ते तथेति स्वापाद्विवेकः । जितः श्वासो यैरिति प्राणा­या­म­नि­ष्ठ­तोक्तिः । सन्तुष्टा इति मनो­व्या­कु­ल­ता­व्या­वृत्त्या स्वप्नाद्विवेकः । संय­ता­नी­न्द्रि­याणि येषामिति जागरिताद्भेदः । एतानि विशेषणानि यम­नि­य­मा­दि­स­र्वा­ङ्गो­प­स­ङ्ग्र­हा­र्थानि योगात्मत्वं तज्जधीगम्यत्वम् ॥ २४ ॥

सूत्रा­न्त­र­व्या­व­र्त्य­माह -
नन्विति ।

व्यावर्तकं सूत्रमवतारयति -
नेतीति ।

प्रका­शा­दि­व­च्चेति भागं विभजते -
यथेति ।

यद्यपि दृष्टा­न्ता­दात्मा प्रका­श­श­ब्दि­तोऽ­ज्ञा­न­त­त्कार्ये कर्मण्युपाधौ सविशेषस्तथापि वस्तु­त­स्त­स्या­वै­शे­ष्य­मै­क­र­स्य­मे­वेति दार्ष्टा­न्ति­क­माह -
एवमिति ।

अभ्यासादिति व्याचष्टे -
तथाहीति ॥ २५ ॥

जीवस्य ब्रह्मा­त्म­त्वा­प्ति­श्रु­ति­व­शा­दपि वास्त­व­मै­क्य­मौ­पा­धिकं नानात्वमित्याह -
अत इति ।

अतोऽनन्तेनेति व्याचष्टे -
अतश्चेति ।

अभेदस्य स्वाभाविकत्वे सूत्रावयवं व्याकुर्वाणो हेतुमाह -
तथाहीति ।
आदिपदेन ब्रह्म­वि­दा­प्रोति परमित्यादि ग्राह्यम् ॥ २६ ॥

जीव­ब्र­ह्म­णो­रा­त्य­न्ति­क­मै­क्य­मुक्त्वा भेदा­भे­द­वा­द­मु­त्था­प­यति -
उभयेति ।

सूत्रद्वयस्य सङ्गतिमाह -
तस्मिन्निति ।

तदुपन्यासफलमाह -
स्वमतेति ।

अस्तु तर्हि भेद­व्य­प­दे­शा­त्त­यो­र्भि­न्न­त्व­मेव, तत्राह -
क्वचिदिति ।

अन्य­त­र­व्य­प­दे­शा­त्त­द­न्यस्य त्याज्य­ता­मा­श­ङ्क्याह -
तत्रेति ।
भेदो नियतो गृह्यते चेद­भे­दो­क्ति­र­ना­ल­म्बना स्यादिति द्रष्टव्यम् ।

अन्यतरोक्तेरपि निरा­ल­म्ब­न­त्वा­योगे फलितमाह -
अत इति ।
अत्रेति ब्रह्मा­त्मोक्तिः ।

अहि­कु­ण्ड­ल­व­दि­त्युक्तं विवृणोति -
यथेति ॥ २७ ॥

अहि­कु­ण्ड­ल­न्या­येन परस्य जीवः संस्थानभूतो दर्शितः । सम्प्रति तदेकदेशभूत इति विधान्तरमाह -
प्रकाशेति ।

तद्व्याकरोति -
अथवेति ।

ब्रह्मा­त्म­त­त्त्व­मे­त­दि­त्यु­क्तम् । दृष्टान्तं व्याचष्टे -
यथेति ।

अभेद एव तर्हि तयोर्नेत्याह -
अथ चेति ।
इहापीति पूर्व­व­द्ब्र­ह्मा­त्मोक्तिः पर­म­त­मु­प­सं­ह­र्तु­मि­ति­शब्दः ॥ २८ ॥

स्वसिद्धान्तमाह -
पूर्ववद्वेति ।

तत्प्रपञ्चयति -
यथेति ।

तर्हि भेदस्यैव प्रतिपाद्यता । मैवम् । प्रसि­द्धा­नु­वा­दे­ना­प्र­सि­द्धस्य तद्भावादित्याह -
अभेदमिति ।

परमतायोगे स्वमतमुपसंहरति -
तस्मादिति ॥ २९ ॥

स्वमतसम्भवे हेत्वन्तरमाह -
प्रतिषेधाच्चेति ।

चकारार्थमाह -
इतश्चेति ।

इतःशब्दार्थं विवृण्वन्नादौ चेत­न­भे­द­नि­षे­ध­मु­दा­ह­रति -
यदिति ।

अचेतनभेदनिषेधं दर्शयति -
अथेति ।

उक्त­नि­षे­ध­द्व­या­त्म­क­शा­स्त्र­ता­त्पर्यं सङ्गृह्णाति -
ब्रह्मेति ।
तदेवं निषे­ध­वा­क्या­र्था­लो­च­नया निष्प्रपञ्चं ब्रह्म वाक्या­र्था­न्व­य­योग्यं तत्पदलक्ष्यमिति ॥ ३० ॥

नेति नेतीति ब्रह्मातिरिक्तं सर्वं निषे­ध्य­मि­त्युक्तं तदयुक्तं सेत्वा­दि­व्य­प­दे­शेभ्यो वस्त्व­न्त­र­स­त्त्वा­व­ग­मात् । द्युभ्वा­द्य­धि­क­रणे सेतुव्यपदेशस्य प्रतिनीतत्वेऽपि भेदा­दि­व्य­प­दे­शानां गति­म­जा­न­न्ना­श­ङ्कते -
परमिति ।

विष­यो­क्ति­पू­र्वकं सबीजं संशयमाह -
यदिति ।

सर्व­श्रु­ति­वि­प्र­ति­प­त्ति­नि­रा­से­ना­द्वयं ब्रह्मैव वस्तु नान्यदिति स्थिते कथमयमारम्भः स्यादि­त्या­श­ङ्क्याह -
कानिचिदिति ।
मन्दा­श­ङ्का­नि­रा­साय तत्प­द­ल­क्ष्य­स्या­द्व­य­त्व­प्र­प­ञ्चा­र्थोऽ­य­मा­र­म्भ­स्त­तोऽस्य पादा­दि­स­ङ्ग­ति­सौ­ल­भ्यम् । पूर्वपक्षे सद्वि­ती­य­त्वा­द्ब्र­ह्मणो द्विती­य­नि­षे­धा­सिद्धिः । सिद्धान्ते तस्या­द्व­य­त्वा­द्द्वै­त­नि­षे­धो­प­पत्तिः ।

अन्यस्य निषे­धा­द्ब्र­ह्म­णश्च श्रुत­त्वा­त्त­दस्ति चेद्ब्र­ह्मा­ति­रि­क्त­स्यापि श्रुत्यो­क्त­त्वा­द­स्ति­तेति मत्वा पूर्वपक्षसूत्रं योजयति -
परमित्यादिना ।

इति­श­ब्दोऽ­क्ष­र­यो­ज­ना­स­मा­प्त्यर्थः । तत्राद्यं विवृणोति -
सेत्विति ।

ब्रह्मणः सेतुत्वेऽपि कथं सद्वि­ती­य­त्व­मि­त्या­शङ्क्य व्याप्तिमाह -
सेतुशब्दश्चेति ।

ब्रह्म सद्वितीयं सेतु­त्वा­ल्लौ­कि­क­से­तु­व­दिति मत्वाह -
इह चेति ।

इतश्च ब्रह्मसेतोः सद्वि­ती­य­त्व­मि­त्याह -
सेतुमिति ।

कथमेतावता वस्त्व­न्त­रा­स्तित्वं, तत्राह -
यथेति ।
जाङ्गलं वात­भू­यि­ष्ठ­मि­त्यु­क्त­त्वा­द्वा­त­ब­हुलो देशो जाङ्गलम् । इह तु न्यायसाम्येन स्थल­मा­त्र­मु­क्तम् ।

द्वितीयं हेतुं व्याकरोति -
उन्मानेति ।
प्राची प्रतीची दक्षिणोदीचीति चतस्रः कलाः प्रकाशवान्पादः । पृथि­व्य­न्त­रिक्षं द्यौः समुद्र इत्यु­न­न्त­वा­न्पादः । अग्निः सूर्यश्चन्द्रमा विद्युदिति ज्योति­ष्मा­न्पादः । चक्षुः श्रोत्रं वाङ्मन इत्या­य­त­न­वा­न्पादः । एते पादा­श्च­त्वा­रोऽ­स्येति चतुष्पाद्ब्रह्म पादा­ना­म­र्धा­न्यष्टौ शफा­न्य­स्ये­त्य­ष्टा­शफं चतस्रश्चतस्रः कला एकैकस्य पादस्येति षोडशकलं षोड­शा­व­य­व­मि­त्यर्थः ।

एवमुन्मानेऽपि कथं वस्त्व­न्त­रा­स्तित्वं, तत्राह -
यच्चेति ।
कार्षापणशब्देन षोडशपणानां संज्ञोक्ता ।

ब्रह्म सद्वि­ती­य­मु­न्मि­त­त्वा­त्संं­म­त­व­दि­त्याह -
तथेति ।

तृतीयं हेतुं व्याचष्टे -
तथेति ।

तथापि कथं सद्वि­ती­य­त्व­मि­त्या­शङ्क्य व्याप्तिमाह -
मितानां चेति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवानां चेति ।

विमतं सद्वितीयं, सम्ब­न्ध­व­त्त्वात् , नगरवदित्याह -
अत इति ।

चतुर्थं हेतुं विवृणोति -
भेदेति ।

तत्राधारतो भेद­व्य­प­दे­श­मु­दा­ह­रति -
तथाहीति ।

अतिदेशतस्तं दर्शयति -
अतिदेशं चेति ।
अस्ये­त्य­क्षि­स्थस्य पुरु­ष­स्ये­त्यर्थः । अमु­ने­त्या­दि­त्य­म­ण्ड­ल­स्थेन पुरुषेण सहेति यावत् ।

अवधितोऽपि भेदोक्तिं साधयति -
सावधिकं चेति ।
एक­स्ये­त्या­धि­दै­वि­कस्य पुरुषस्येति यावत् । पुन­रे­क­स्ये­त्या­ध्या­त्मि­कस्य पुरु­ष­स्ये­त्यर्थः ।

ऐश्वर्यस्य सावधिकत्वे दृष्टान्तमाह -
यथेति ।
विमतं सद्वितीयं, भेद­व्य­प­दे­श­भा­क्त्वात् , घटवदित्यर्थः ॥ ३१ ॥

पूर्व­प­क्ष­मु­प­सं­ह­रति -
एवमिति ।

ब्रह्मणः सद्वितीयत्वे ततोऽन्यस्य निषे­ध्य­त्वो­क्ति­र­यु­क्तेति वक्तु­मि­ती­त्यु­क्तम् । पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्रं व्याचष्टे -
तुशब्देनेति ।

निरो­ध­प्र­का­र­म­भि­न­यति -
नेति ।

तत्किं सादि किंवानादि । प्रथमं प्रत्याह -
प्रमाणेति ।

तदेव स्फुटयति -
नहीति ।

अभेदेऽपि माना­दृ­ष्टि­स्तु­ल्ये­त्या­शङ्क्य जन्मा­दि­सू­त्र­मा­रभ्य तत्र तत्र सिद्धमर्थं स्मारयति -
सर्वस्येति ।

आर­म्भ­णा­धि­क­र­ण­सि­द्ध­मर्थं कथयति -
अनन्यत्वं चेति ।

द्वितीयं निराह -
नचेति ।

ब्रह्मा­ति­रि­क्त­व­स्त्व­भावे श्रुति­व­त्त­द­र्था­प­त्ति­माह -
एकेति ।

ब्रह्मणः सद्वितीयत्वे माना­न्यु­क्ता­नीति शङ्कते -
नन्विति ।

तत्र सेतुव्यपदेशस्य द्विती­य­व­स्तु­सा­ध­कत्वं नास्तीत्याह -
नेतीति ।

स हि श्रुतितोऽर्थतो वा वस्त्वन्तरं साधयति, तत्राद्यं दूषयति -
सेत्विति ।

द्वितीयं शङ्कते -
तत्रेति ।

श्रौता­र्थ­वि­रो­धा­दा­र्थि­कार्थो न युक्तो लिङ्गस्य श्रुतितो दुर्ब­ल­त्वा­दि­त्याह -
नचेति ।

इतश्च तस्य न वस्त्व­न्त­र­सा­ध­क­त्व­मि­त्याह -
अपिचेति ।

विवक्षितं सेतु­सा­म्य­मु­पेक्ष्य तद्व्या­प्त­म­र्था­न्तरं कल्प­य­तोऽ­ति­प्र­सक्तिः स्यादिति हेत्वन्तरमेव स्फुटयति -
सेत्विति ।

यावति स्वीकृते श्रुतिर्न विरुध्यते तावदेव स्वीकर्तव्यं तस्या निर्दोषत्वेन बल­व­त्त­र­त्वा­दि­त्याह -
नचेति ।

सेतुशब्दस्य तर्हि का गतिरित्याशङ्क्य सूत्रयोजनया दर्शयति -
सेतु­सा­मा­न्या­दिति ।

किं तत्प्रसिद्धेन सेतुना सामान्यमात्मनि सेतुशब्दप्रयोगे निमित्तं तदाह -
जगत इति ।
तस्य जगतो मर्या­दा­स्त­त्त­न्नि­य­ता­र्थ­क्रि­यासु व्यव­स्थि­त­त्व­ल­क्ष­णा­स्तासां तदाश्रयस्य जग­त­श्चा­न्त­र्या­मि­तया यदात्मनो विधारकत्वं तत्तस्य सेतु­सा­मा­न्य­मि­त्यर्थः ।

तेनात्मनि सेतुशब्दप्रयोगे सति किं सिध्यति तदाह -
अत इति ।

यत्तु तर­ति­श­ब्दा­दा­त्म­सेतोः सद्वितीयत्वं, तत्राह -
सेतुमिति ।
स्वस्यैव स्वाति­क्र­मा­यो­गा­त्प्रा­प्नो­त्य­र्थ­स्त­र­ति­रि­त्य­युक्तं प्राप्नोतेरपि स्वात्म­न्य­यो­गात् ।

ब्रह्म­वि­दा­प्नो­ती­ति­व­दु­प­प­त्ता­वपि नात्र तरतिस्तदर्थो वृद्ध­प्र­यो­गा­नु­प­ल­ब्धे­रि­त्या­श­ङ्क्याह -
यथेति ॥ ३२ ॥

सेतु­व्य­प­दे­श­व­द्द्वि­तीयं हेतुं निरस्यति -
बुद्ध्यर्थ इति ।

व्याव­र्त्य­म­नूद्य व्यावर्तकं सूत्रमादाय विभजते -
यदपीति ।
उन्मा­न­व्य­प­दे­शोऽ­पी­त्य­पिना सेतुव्यपदेशो दृष्टान्त्यते ।

उपा­स­ना­र्थ­त्व­मु­न्मा­न­व्य­प­दे­शस्य विशदयति -
चतुष्पादिति ।

शुद्धं ब्रह्म हित्वा सोपाधिके किमिति तत्र बुद्धिः स्थिरीक्रियते, तत्राह -
नहीति ।

उत्तमबुद्धीनां झटित्यनौपाधिके ब्रह्मणि बुद्धि­प्र­वे­शेऽ­पी­त­रेषां तदभावात्तेषामपि सङ्ग्रहार्थ सोपाधिके ब्रह्मणि स्थिरीक्रियते बुद्धिरिति फलितं वक्तु­मि­ती­त्यु­क्तम् । सूत्रभागमादाय वैदि­को­दा­ह­र­ण­त्वेन व्याकरोति -
पादवदित्यादिना ।
वागादय इत्यादिशब्देन प्राण­च­क्षुः­श्रो­त्र­मिति गृहीतम् । अग्न्यादय इत्यादिशब्देन वायुरादित्यो दिश इति त्रयमुक्तम् ।

इदानीं तमेव सूत्रावयवं लौकिकत्वेन योजयति -
अथवेति ।

पादविभागं विनापि व्यवहारबाहुल्यं स्यादि­त्या­श­ङ्क्याह -
नहीति ।

उक्तदृष्टान्तेन मन्दमध्यमधियां ध्यानव्यवहाराय ब्रह्म­ण्यु­न्मा­न­क­ल्प­नेति दार्ष्टा­न्ति­क­माह -
तद्वदिति ॥ ३३ ॥

अवशिष्टं हेतुद्वयं निराचष्टे -
स्थानेति ।

सूत्र­ता­त्प­र्य­माह -
इहेति ।

तमेव परि­हा­र­मु­क्त्वा­नु­वा­द­द्वारा स्फोरयति -
यदपीति ।

तत्र सूत्रावयवं हेतुत्वेन योजयति -
यत इति ।
स्थानविशेषो बुद्धिः । आदि­त्य­श्च­क्षु­रि­त्यादिः ।

द्वयोरपि परिहारं सङ्क्षिप्य विभज्य दर्शयन्नादौ सम्बन्धव्यपदेशं प्रत्याह -
सम्बन्धेति ।

भेदव्यपदेशेऽपि स्थानविशेषादिति पदं योजयति -
तथेति ।

व्यप­दे­श­यो­रौ­पा­धि­कत्वे प्रका­श­दृ­ष्टान्तं व्याचष्टे -
प्रकाशेत्यादिना ।

आदि­श­ब्दे­नो­क्त­मु­दा­ह­र­णा­न्त­र­माह -
यथा वेति ।

एवमेकस्मिन्नपि ब्रह्म­ण्यु­पा­ध्य­पे­क्षा­वेतौ व्यपदेशावित्याह -
तद्वदिति ॥ ३४ ॥

मुख्ये व्यपदेशद्वये सम्भवति कुत­स्त­दौ­प­चा­रि­क­मु­च्यते, तत्राह -
उपपत्तेश्चेति ।

तत्र सम्बन्धव्यपदेशे सूत्रं योजयति -
उपपद्यते चेति ।
अत्रेति ब्रह्मा­त्म­नो­रुक्तिः ।

अौपचारिकस्यैव सम्ब­न्ध­स्यो­प­प­त्ति­मु­प­पा­द­यति -
स्वमिति ।

मुख्य­स­म्ब­न्धा­स­म्भवं साधयति -
स्वरूपस्येति ।

सम्बन्धस्य द्विनि­ष्ठ­त्वा­दे­क­स्मि­न्न­यो­ग­मा­श­ङ्क्याह -
उपाधीति ।

इदानीमौपचारिकं भेदमादाय सूत्रं योजयति -
तथेति ।

श्रौतव्यपदेशस्य मुख्यत्वमेव न त्वौप­चा­रि­क­त्व­म­न्य­त्रा­दृ­ष्टे­रि­त्या­श­ङ्क्याह -
तथाचेति ॥ ३५ ॥

स्वपक्षे हेत्वन्तरमाह -
तथेति ।

सूत्र­ता­त्प­र्य­माह -
एवमिति ।
ब्रह्म­णोऽ­द्वि­ती­यत्वं स्वपक्षः ।

हेत्वन्तरमेव सूत्रयोजनया विशदयति -
तथेति ।
यथा सेत्वा­दि­व्य­प­दे­श­नि­रा­सेभ्यो न वस्त्व­न्त­र­धी­स्त­थेति यावत् ।

अन्य­प्र­ति­षे­ध­मु­दा­ह­रति -
तथाहीति ।

तस्य ताटस्थ्यं व्यासेधति -
अहमेवेति ।

अहङ्कारस्य सर्वा­त्म­त्व­प्राप्तिं प्रत्याह -
आत्मैवेति ।

निन्दा­नु­प­पत्त्या भेदनिषेधं दर्शयति -
सर्वमिति ।

बाधायां सामा­ना­धि­क­र­ण्या­दपि तत्सि­द्धि­रि­त्याह -
ब्रह्मैवेति ।

आर्थिकीं निषे­ध­धि­य­मुक्त्वा साक्षादेव तत्प्रतीतिमाह -
नेहेति ।
यस्मा­त्प­र­मि­त्यत्र तेनेदं पूर्णं पुरु­षे­णे­त्यु­त्त­रेण सम्बन्धः ।

सेत्वा­दि­व्य­प­दे­शेभ्यो दर्शितवाक्यानां विशेषमाह -
स्वप्रकरणेति ।

ब्रह्म­णोऽ­द्व­यत्वे हेत्वन्तरमाह -
सर्वान्तरेति ॥ ३६ ॥

ब्रह्म­णोऽ­द्व­य­त्वेऽपि सर्वगतत्वं सर्वात्मत्वं च कथं, तत्राह -
अनेनेति ।

सूत्रं व्याकरोति -
अनेनेत्यादिना ।

सेत्वा­दि­व्य­प­दे­शा­ना­म­नि­रासे पर­प्र­ति­षे­धा­ना­श्र­यणे च सर्व­ग­त­त्व­मा­का­श­स्येव ब्रह्मणः स्यादि­त्या­श­ङ्क्याह -
अन्यथेति ।

तत्र सेत्वा­दि­व्य­प­दे­शा­नि­रासे सर्व­ग­त­त्वा­सिद्धिं स्फुटयति -
सेत्वादीति ।

पर­नि­षे­धा­ना­श्र­य­णेऽपि तदसिद्धि साधयति -
तथेति ।

परि­च्छे­द­प्र­स­क्ति­रि­ष्टै­वे­त्या­श­ङ्क्या­व­शिष्टं व्याचष्टे -
सर्वेति ।
आदिशब्दः सूत्रे स्मृति­न्या­या­पे­क्षया प्रयुक्तः । तत्र श्रुत्या सह स्मृतिरुक्ता । न्यायस्तु परिच्छिन्नत्वे सत्य­नि­त्य­त्वा­दि­ल­क्षणो यावद्विकारः सूत्रोक्तः । नच सर्व­मू­र्त­सं­यो­गित्वं सर्वगतत्वं सत्त्वे द्वैतस्य स्यादिति युक्तम् । तत्क­ल्प­ना­धि­ष्ठा­न­तया ब्रह्मणः सर्व­ग­त­त्वो­प­ग­मा­द­तोऽ­द्वि­ती­य­म­न­व­च्छिन्नं ब्रह्मेति ॥ ३७ ॥

ब्रह्मा­ति­रि­क्तेऽर्थे निषिद्धे ब्रह्मणो निर्वि­शे­ष­त्वान्न फल­दा­तृ­त्व­मि­त्या­शङ्क्य व्यव­हा­र­त­स्त­दु­प­पा­द­यि­तु­मु­प­क्र­मते -
फलमिति ।

पूर्वा­धि­क­र­ण­यो­स्त­त्प­द­लक्ष्यं ब्रह्मो­क्त­मि­दानीं तत्प­द­वा­च्य­मी­श्वरं दर्श­य­ती­त्य­धि­क­र­णस्य तात्पर्यमाह -
तस्यैवेति ।

कुतो निर्वि­शे­ष­त्वे­नो­क्तस्य फल­हे­तु­ते­त्या­श­ङ्क्याह -
व्याव­हा­रि­क्या­मिति ।
निर्वि­शे­ष­स­त्या­द्वि­ती­य­पू­र्ण­स्व­भा­वा­द­न्यत्वं फलेहेतुत्वाख्यं स्वभावः ।

तात्प­र्य­मुक्त्वा विचारविषयमाह -
यदिति ।
इष्टं देवत्वादि । अनिष्टं तिर्यक्त्वादि । व्यामिश्रं मनुष्यत्वम् ।

कर्मफलत्वं साधयितुं संसा­रा­व­स्था­ग­त­त्व­माह -
संसारेति ।

त्रिविधकर्मफले लोकानुभवं प्रमाणयति -
प्रसिद्धमिति ।

उभयोरपि फल­हे­तु­त्व­श्रु­ते­रुक्ते विषये संशयमाह -
किमिति ।

सर्वगतत्वेन फलदातृत्वस्य सत्यपि समानन्यायत्वे कर्मपक्षं निरा­क­रि­ष्य­न्नादौ सिद्धा­न्त­मु­प­क्र­मते -
तत्रेति ।
वाच्या­र्थो­क्ते­र्ल­क्ष्या­र्थो­क्ति­वि­शे­ष­त्वा­त्तस्य च वाक्या­र्थ­धी­हे­तु­त्वा­दस्य पादादिसङ्गतयः । पूर्वपक्षे कर्मण एव फल­दा­न­सा­म­र्थ्या­दी­श्व­र­स्या­कि­ञ्चि­त्क­र­त्वम् । सिद्धान्ते स्वतन्त्रस्य कर्म­णोऽ­सा­म­र्थ्या­त्त­द्द्वारा पर­स्यै­व­त­द्भा­वा­त्त­स्या­र्थ­व­त्त्वम् ।

कट­वे­ष्ट­न­सं­स्का­रा­दि­व­त्पु­ण्या­दि­सं­स्का­रा­त्फ­लो­त्पत्तौ न प्रदा­त्र­पे­क्षेति शङ्कते -
कुत इति ।

तत्र सौत्रं हेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।

देश­का­ल­वि­शे­षा­भि­ज्ञत्वे योग्यत्वमाह -
सर्वेति ।

कर्मा­नु­रू­प­फ­ल­दा­तृत्वे हेतुमाह -
सृष्टीति ।
विमतं विशि­ष्ट­ज्ञा­न­व­द्दा­तृकं, कर्मफलत्वात् , सेवा­दि­क­र्म­फ­ल­व­दि­त्यर्थः ।

कर्मपक्षे क्रियातो वा तज्ज­न्या­पू­र्वाद्वा फलमाद्यं दूषयति -
कर्मणस्त्विति ।
क्रियारूपं कर्म क्षणिकं तच्च नष्टं वा फल­मु­त्पा­द­ये­दु­त्पाद्य वा फलं नश्येत् ।

नाद्य इत्याह -
अभावादिति ।

द्वितीयं शङ्कते -
स्यादिति ।

तदैव तर्हि भोगः स्यादि­त्या­शङ्क्य कर्मा­न्त­र­प्र­ति­ब­न्धा­त्तदा भोक्तु­म­यो­ग्य­त्वाद्वा नैवमित्याह -
तदिति ।

स्वर्गा­दि­भो­ग­स्यै­वा­र्थ्य­मा­न­त्वेन फल­त्वा­द­भु­ज्य­मा­न­मपि फलं स्वरू­पे­णा­स्ती­त्य­यु­क्त­मि­त्याह -
तदपीति ।

किञ्च स्वर्ग­न­र­क­यो­र­ति­ती­व्र­सु­ख­दुः­ख­त्वा­द­न­नु­भू­य­मा­न­यो­र­सिद्धेः स्वरूपेण फल­स­त्त्वो­क्ति­र­यु­क्ते­त्याह -
यदिति ।

प्रसिद्धत्वमेव व्यतिरेकद्वारा स्फोरयति -
नहीति ।

कल्पा­न्त­र­मु­त्था­प­यति -
अथेति ।

तस्य स्वतन्त्रस्य वा चेतनाधिष्ठितस्य वा फलदातृत्वं नाद्य इत्याह -
तदपीति ।

न द्विती­य­स्त­स्यै­वा­प्रा­मा­णि­क­त्वा­दि­त्याह -
तदस्तित्वे चेति ।

आशुतरविनाशिनो यागस्य काला­न्त­र­भा­वि­फ­ल­हे­तुत्वं, श्रुतं स्थायि­व­स्त्व­ति­रे­के­णा­नु­प­प­न्न­म­पूर्वं कल्प­य­ती­त्य­र्था­प­त्ति­रत्र मानमिति शङ्कते -
अर्थापत्तिरिति ।

कर्म­भि­रा­रा­धि­ता­दी­श्व­रा­देव स्थायिनो यथो­क्त­फ­ल­सि­द्धे­र्मै­व­मि­त्याह -
नेश्वरेति ॥ ३८ ॥

श्रुति­वि­रु­द्ध­त्वाच्च न फलहेतुत्वेन नियो­ग­क­ल्प­ने­त्याह -
श्रुतत्वाच्चेति ।

सूत्रं व्याचष्टे -
न केवलमिति ।
कर्म­फ­ल­त्वा­दि­ल­क्षण पूर्वो­क्तो­प­पत्तिः ।

तामेव श्रुतिमुदाहरति -
तथाचेति ।

निरूपाधिकं रूपमुक्त्वा सोपाधिकमाह -
अन्नाद इति ।
अन्न­मा­स­म­न्ता­त्प्रा­णिभ्यो ददातीत्यन्नादः । वसु धनमर्थिभ्यो ददातीति वसुदानः । तदुभयमन्नं वसु च कर्मफलम् ॥ ३९ ॥

सम्प्रति पूर्वपक्षयति -
धर्ममिति ।

सूत्रं विभजते -
जैमिनिस्त्विति ।

श्रुते­रि­त्युक्तं व्यनक्ति -
श्रूयत इति ।

कथमेतावता फलहेतुत्वं कर्मणः सिद्धं, तत्राह -
तत्र चेति ।
विधि­श्रु­ति­र्वि­ध्य­र्थ­स्तस्य लिङाद्यर्थस्य प्रेरणात्मनो यागो विष­य­स्त­द्भा­वा­व­ग­मा­द्यागः स्वर्गस्य साधनमिति गम्यते पुरु­षा­भि­ल­षि­त­स्व­र्ग­सा­ध­न­त्वा­भावे यागस्य तत्र प्रेर­णा­यो­गा­दि­त्यर्थः ।

पुरु­ष­प्र­वृ­त्ते­र­र्थ­भा­व­नाया भाव्या­का­ङ्क्ष­त्वा­दे­क­प­दो­पा­त्त­तया यागस्य संनि­हि­त­त्वा­द्भा­व्य­त्वेन सम्बन्धो न विष­य­त्वे­ने­त्या­श­ङ्क्याह -
अन्यथेति ।
योग्यतायाः संनिधेः सका­शा­द­न्त­र­ङ्ग­त्वा­द्या­गस्य च क्लेशात्मकत्वेन फलार्थं प्रवृ­त्त­भा­व­ना­भा­व्य­त्वा­यो­गा­त्पु­रु­ष­वि­शे­ष­ण­त्वेन श्रुत­स्व­र्गा­दे­रेव भाव­नो­द्दे­श्य­रू­प­भा­व्य­त्व­सि­द्धे­र­पु­रु­षार्थे पुरु­ष­स्या­प्र­वृत्तेः स्वर्गादेरेव भाव्यत्वं यागस्य तु करणतया साध्यतेत्यर्थः ।

कर्म न कालान्तरीयफलदं क्षणि­क­त्वा­दि­त्युक्तं स्मारयति -
नन्विति ।

श्रुत्य­व­ष्ट­म्भेन निराचष्टे -
नेति ।

तदेव व्यनक्ति -
श्रुतिश्चेदिति ।

उपपत्तिमेव व्यतिरेकद्वारा दर्शयति -
नचेति ।

कर्मा­वा­न्त­र­व्या­पा­र­त्व­मु­पेत्य कर्मणो वेत्युक्तम् । फलो­त्प­त्त्य­न्य­था­नु­प­पत्त्या कल्प्यमानत्वं गृहीत्वा फलस्य वेत्युक्तम् । उपपत्तेश्चेति द्वितीयहेतुं विवृणोति -
उपपद्यते चेति ।

तत्र विधि­श्रु­ते­रि­त्या­दि­रुक्तः प्रकारः । श्रुत्यु­प­प­त्तिभ्यां स्वपक्षमुक्त्वा सिद्धान्तं प्रत्याह -
ईश्वरस्त्विति ।
एक­रू­पा­त्का­र­णा­न्ना­ने­क­रूपं कार्यं कार्या­न्त­रा­णा­मा­क­स्मि­क­त्वा­पा­ता­दि­त्यर्थः ।

शुभा­शु­भ­फ­ल­दा­तृत्वे राग­द्वे­षा­दि­म­त्त्वा­प­त्तेश्च नेश्व­रा­त्फ­ल­मि­त्याह -
वैषम्येति ।

ईश्वरस्य फलदातृत्वे कर्मा­नु­ष्ठा­न­वै­यर्थ्यं दोषान्तरमाह -
तदिति ।

उक्त­दो­ष­नि­वृ­त्त्य­र्थ­म­पू­र्वा­देव फलं नेश्व­रा­दि­त्यु­क्त­मु­प­सं­ह­रति -
तस्मादिति ॥ ४० ॥

ईश्वरात्फलमिति सिद्धान्तयति -
पूर्वं त्विति ।

उत्त­र­प­क्ष­प्र­तिज्ञां विभजते -
बादरायणस्त्विति ।

पर­प­क्ष­नि­षे­ध­प्र­तिज्ञां प्रकटयति -
केवलादिति ।
ईश्व­रा­न­पे­क्षा­दिति यावत् ।

कथमीश्वरस्यापि केवलस्य फलहेतुत्वं, तत्राह -
कर्मेति ।
यथा परपक्षे कर्मा­पे­क्षा­द­पू­र्वा­पे­क्षाद्वा कर्मणो युक्तं फलमित्युपगतं तथा तद­न्य­त­रा­पे­क्षा­दी­श्व­रा­देव फलमस्तु । तथाच न वैष­म्या­दी­त्यर्थः ।

तत्र प्रश्नपूर्वकं प्रमाणमाह -
कुत इति ।

अपू­र्व­स्या­चे­त­नस्य केव­ल­स्या­प्र­वृ­त्ते­स्त­स्यैव फल­दा­तृ­त्व­क­ल्प­नायां दृष्ट­वि­रो­धा­द्दे­व­ता­पू­जा­त्म­क­त्वाच्च यागस्य पूज्य­मा­न­दे­व­ता­प्र­सा­द­द्वारा फल­व­त्त्वा­दु­क्त­श्रु­ता­र्था­प­त्ते­री­श्व­रे­णो­प­क्ष­या­द­पू­र्व­म­प्र­मा­ण­मिति मत्वा हेतुं व्याचष्टे -
धर्मेति ।

श्रौतं हेतु­व्य­प­दे­श­मुक्त्वा स्मार्तं कथयति -
स्मर्यते चेति ।
तस्य तत्त­द्दे­व­ता­स्व­भा­वस्य ममेति यावत् । तत­स्त­स्मा­दा­रा­धि­ता­द­नु­ष्ठि­ता­दि­त्यर्थः ।

हेतु­व्य­प­दे­शा­दि­त्य­स्या­र्था­न्त­र­माह -
सर्वेति ।

ईश्वरस्य सृष्ट्या­दि­हे­तु­त्वेऽपि कथं फलहेतुत्वं, तत्राह -
तदेवेति ।

यच्च विचित्रस्य कारणस्येत्यादि, तत्राह -
विचित्रेति ॥ ४१ ॥

तात्त्वि­क­म­ता­त्त्विकं च ब्रह्मणो रूपमुक्त्वा तद्धियां प्रतिवेदान्तं प्रतीतानां नामा­द्य­भे­दा­द­भे­द­माह -
सर्ववेदान्तेति ।

पूर्वो­त्त­र­पा­दयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -
व्याख्यातमिति ।

ज्ञेये ब्रह्मण्युक्ते तज्ज्ञानं किंरू­प­मि­त्य­पे­क्षायां तद्वि­चा­रा­यो­त्त­र­पा­द­प्र­वृ­त्ति­रि­त्याह -
इदानीमिति ।
पदार्थयोः शोध­ना­न­न्त­र­म­पु­न­रु­क्ता­पे­क्षि­त­प­द­प­दा­र्थो­प­सं­हा­रेण सगु­ण­नि­र्गु­ण­वा­क्या­ना­मर्थो निर्धार्यते । तत्र सगुणविद्यानां सत्त्व­शु­द्धि­द्वारा निर्गु­ण­वि­द्यो­प­यो­गा­त्प­दा­र्थो­प­सं­ह­रेण वाक्या­र्थ­ज्ञा­ना­र्थ­त्वाच्च सगु­ण­वा­क्या­र्थ­चि­न्ता­र्थ­वती निर्गुणचिन्ता तु तद्धीद्वारा मुक्ति­हे­तु­रि­त्यर्थः ।

निरुपाधिकं ब्रह्मज्ञानं विचा­र्य­त्वे­नो­क्त­मिति मत्वा पादा­र­म्भ­मा­क्षि­पति -
नन्विति ।

अव­य­व­भे­दा­भा­वा­त्त­न्नि­मित्तो ज्ञानभेदो न सम्भवतीत्याह -
पूर्वेति ।

स्वभा­व­भे­दा­भा­वा­त्त­त्कृ­तोऽपि ज्ञानभेदो नास्तीत्याह -
एकरसमिति ।

ज्ञेयस्य ब्रह्मणः सर्व­प्र­का­र­भे­दा­भावे फलितमाह -
तत्रेति ।

वेदान्तानां शक्ति­ता­त्प­र्या­लो­च­ना­या­मपि नेयं चिन्तेत्याह -
नहीति ।

एकस्यापि पिता पुत्रो भ्राते­त्या­दा­व­ने­क­वि­ज्ञा­न­वि­ष­य­त्व­व­दि­हापि स्यादि­त्या­श­ङ्क्याह -
एकेति ।

एकस्मिन्नेकरूपे स्मृत्या­द्य­ने­क­ज्ञा­न­व­द­ने­क­ज्ञा­न­सि­द्धि­रि­त्या­श­ङ्क्याह -
नचेति ।
दृष्टान्ते तु पूर्व­का­ल­वि­शि­ष्टा­दे­त­त्का­ल­वि­शि­ष्ट­म­न्य­दिति ज्ञानभेदो युक्तो ब्रह्मणि तु निरुपाधिके नैवमित्यर्थः ।

अर्थ­स्यै­क­रू­प­त्वेऽपि ज्ञानमनेकरूपं तयो­र्भे­दा­दि­त्या­श­ङ्क्याह -
नहीति ।

तदेव प्रपञ्चयति -
यदीति ।

पूर्वपक्षे ज्ञान­भे­द­श­ङ्का­योगं निगमयति -
तस्मादिति ।

सिद्धान्तेऽपि चोद­ना­द्य­भे­दा­ज्ज्ञा­ना­भेदो न सिध्यतीत्याह -
नापीति ।

तर्हि सूत्रविरोधः स्यादि­त्या­शङ्क्य पूर्वा­प­र­वि­रो­धा­त्त्या­ज्य­मे­त­दि­त्य­भि­प्रे­त्याह -
अविधीति ।

आक्षेपमुपसंहरति -
तदिति ।

तत्त­द­ने­को­पा­ध्य­व­च्छि­न्न­ब्र­ह्म­वि­ष­याणि प्राणादिविषयाणि चोपासनानि विचा­र­यो­ग्या­नी­त्याह -
तदुच्यत इति ।

निरु­पा­धि­ब्र­ह्म­ज्ञाने ज्ञेयै­क्या­दैक्यं सिद्धमिति न भेदाभेदचिन्ता । तत्र पुन­र्गु­णो­प­सं­हारो लक्ष्या­ख­ण्ड­वा­क्या­र्थ­सि­द्ध्यर्थं वाच्या­र्थ­त­द्वा­च­क­प­दो­प­सं­हा­र­रूपो वर्तिष्यते तेनो­क्त­वि­चा­रा­र­म्भ­सि­द्धि­रि­त्याह -
इत्यदोष इति ।

सगुणमपि विचार्यमाणद्वयं ब्रह्मैवेति कथं तस्मि­न्नु­पा­स्ति­भे­दा­भे­द­चि­न्ते­त्या­श­ङ्क्याह -
अत्रेति ।
सोपाधिकं ब्रह्म सप्तम्यर्थः ।

न केवलं विषयभेदाद्भेदः किन्तु फलभेदादपीत्याह -
कर्मवदिति ।

विरक्तस्य मुमुक्षोरलमनेन विचा­रे­णे­त्या­श­ङ्क्याह -
क्रमेति ।
तस्यापि यथोक्तो विचारो हेयो­पा­दे­य­वि­वे­को­प­का­री­त्यर्थः । निर्गु­ण­वि­द्यायां क्वचि­द्भे­द­भ्र­मा­पो­हे­ना­भेदो निरू­प्य­तेऽ­पु­न­रु­क्त­श­ब्दानां सत्यादिधर्माणां वा साधा­र­ण­स्व­रू­प­ल­क्ष­णा­र्थ­मु­प­सं­हारो वर्ण्यते ।

सगुणविद्यासु पुनरभेदः क्वचि­त्क्व­चि­द्भेदः क्वचि­द्गु­णा­ना­मु­प­सं­हारः क्वचिदनुपसंहार इत्युपसंहरति -
तेष्विति ।

एवं पादा­र­म्भ­मुक्त्वा प्रतिशाखं प्रतीतज्ञानानि विषयीकृत्य नामा­दि­भे­दा­च्चो­द­ना­द्य­वि­शे­षा­च्चा­द्य­धि­क­र­णा­व­यवं संशयमाह -
किमिति ।

अत्र चोत्सर्गतः सर्वशाखासु विद्यैक्ये सिद्धे पूर्वो­क्त­न्या­येन विद्यातो मुक्ति­स­म्भ­वा­त्पा­दा­दि­स­ङ्ग­ति­रिति मत्वा पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे प्रतिवेदान्तं विद्या­भे­दा­द्गु­णा­नु­प­सं­हारः । सिद्धन्ते सर्वत्र विद्यै­क्या­त्त­दु­प­सं­हार इति फलमुत्तराधिकरणे वक्ष्यति । शाखान्तराधिकरणे ‘नाम­रू­प­ध­र्म­वि­शे­ष­पु­न­रु­क्ति­नि­न्दा­श­क्ति­स­मा­प्ति­व­च­न­प्रा­य­श्चि­त्ता­न्या­र्थ­द­र्श­न­श­ब्दा­न्त­र­स­ङ्ख्या­प्र­क्रि­या­तोऽपि कर्मभेदः स्यात्’ इति पूर्व­प­क्ष­सू­त्रेण पूर्वपक्षे कर्मभेदे ये हेतवो नामादयो दर्शितास्ते विद्या­भे­द­ल­क्ष­ण­पू­र्व­प­क्षो­प­यो­गि­त्वे­ना­त्रा­नू­द्यन्त इत्यर्थः ।

तत्र नाम्नो भेदकत्वमुदाहरति -
नाम्न इति ।
आदि­प­दा­दे­क­प्र­क­र­ण­स्था­ग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दि­ग्र­ह­णम् । ‘अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यत्र ज्योति­ष्टो­मा­नु­वा­देन सह­स्र­द­क्षि­ण­गु­ण­वि­धिर्वा तद्गु­ण­क­क­र्मा­न्त­र­वि­धि­र्वेति सन्देहे, प्रकृ­त­ज्यो­ति­ष्टो­मस्य तदेकदेशवाचिना ज्योतिःशब्देन भीमा­दि­श­ब्द­व­द­भि­धा­ना­त्क­र्मा­न्त­र­वि­धेश्च गुण­मा­त्र­वि­धा­नस्य लघु­त्वा­द्द्वा­द­श­श­त­द­क्षि­णा­याश्च सहस्रदक्षिणया विक­ल्पा­त्प्र­कृ­ता­नु­वा­देन गुणा­न्त­र­वि­धि­रिति प्राप्ते सत्यां गतावेकस्य संज्ञि­नोऽ­ने­क­सं­ज्ञा­यो­गा­दे­क­त्रा­नु­प­पत्त्या लाक्षणिकः शब्द इत्येतावता ज्योतिः­श­ब्द­स्या­स­त्या­म­नु­प­पत्तौ ज्योति­ष्टो­म­ल­क्ष­क­त्वा­सि­द्धे­र­थ­श­ब्दाच्च प्रक­र­ण­वि­च्छे­दा­त्प्र­कृते गुण­वि­ध्य­यो­गा­द्गु­ण­वि­शि­ष्ट­क­र्मा­न्त­र­वि­धि­रिति द्वितीये स्थितम् । अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दिषु संज्ञाभेदेन संज्ञिभेदेन विप्र­ति­प­त्ति­रिति भावः ।

संज्ञा­न्त­रा­त्क­र्म­भे­देऽपि प्रकृत किं जात­मि­त्या­श­ङ्क्याह -
अस्ति चेति ।
तैत्ति­री­य­का­दि­श­ब्दानां शाखानामत्वे विज्ञाननामत्वं प्रयो­गा­वि­शे­षा­त्प्र­वृ­त्ति­नि­मि­त्तस्य च प्रवचनस्य ग्रन्थ­ज्ञा­न­यो­र­वि­शि­ष्ट­त्वान्न क्वचि­न्मु­ख्य­म­न्यत्र गौणं नामा­प्र­सि­द्ध­वि­भा­गा­यो­गा­दिति भावः ।

विद्याभेदं नामभेदादुक्त्वा रूपभेदादपि तमुदाहरति -
तथेति ।
आदि­प­दे­ना­ग्ने­या­ग्नी­षो­मी­या­दि­स­ङ्ग्रहः । ‘तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र पूर्वस्मिन्नेव वैश्वदेवे कर्मणि वाजिनवाक्येन वाजि­न­गु­ण­वि­धिर्वा द्रव्य­दे­व­ता­न्त­र­यु­क्त­क­र्मा­न्त­र­वि­धि­र्वेति सन्देहे विश्वेषामेव देवानां वाजे­ना­न्ने­ना­मि­क्षया युक्तानां वाजि­प­दे­नो­क्ते­र्वा­जिभ्य इति ताननूद्य वाजि­न­गु­ण­वि­धे­रा­मि­क्षा­व­द्वा­जि­न­मपि वैश्वदेवमेवेति न कर्मा­न्त­र­वि­धि­रिति प्राप्ते विश्वेषां देवानामामिक्षां प्रत्यु­प­स­र्ज­न­तया प्राधा­न्ये­ना­प्र­कृ­त­त्वा­द्वा­जि­प­देन परा­म­र्शा­यो­गा­द्वा­जि­न­गु­ण­स्या­प्र­कृ­त­दे­व­ता­भि­धा­नेन सम्ब­न्धा­त्क­र्मा­न्त­र­दृ­ष्टे­स्त­द्धि­त­श्रुत्या चामि­क्षा­व­रु­द्ध­तया वाजिनस्य तत्रा­न­व­का­शा­त्पू­र्व­स्मा­त्क­र्मणः स्वस­म्ब­न्धि­क­र्मणो भेद­क­त्वा­त्त­द्धि­त­श्रु­ति­वि­रोधे वाक्यस्य दौर्ब­ल्या­द्वा­जि­न­वा­क्येन द्रव्यदेवतान्त युक्त­क­र्मा­न्त­र­वि­धि­रिति तत्रैव स्थितम् । आग्नेयादिषु पुना रूपभेदाद्भेदेन विगानमिति भावः ।

अस्तु रूप­भे­दा­त्क­र्म­भेदः प्रस्तुते किं जातं तदाह -
अस्ति चेति ।
अत्रेति विद्योक्तिः ।

तदेव भिन्नं रूपमुदाहरति -
तद्यथेति ।
यथा यागस्य द्रव्यदेवते रूपमेवं वेद्यमेव विद्याया रूपम् । तथाच वेद्यभेदे विद्याभेदः स्यादित्यर्थः ।

धर्म­भे­दा­द्वि­द्या­भेदं वक्तुं तस्य कर्मभेदकत्वमाह -
तथेति ।
कारी­री­वा­क्या­न्य­धी­या­ना­स्तै­त्ति­रीया भूमौ भुञ्जते न तथान्ये । अग्निमधीयानाश्च केचि­दु­पा­ध्या­य­स्यो­द­कु­म्भ­मा­ह­रन्ति न त्वन्ये । नच तान्येव कर्माणि भूमि­भो­ज­ना­दि­ध­र्म­ज­न्यो­प­का­र­वन्ति तद्रहितानि चेति युक्तमतस्तत्र धर्म­भे­दा­द्भे­द­धी­रि­त्यर्थः ।

एवमपि प्रकृते किं स्यात्तदाह -
अस्ति चेति ।
अत्रेति पूर्व­व­द्वि­द्योक्तिः । अन्येषां तु शाखिनां नैव शिरस्यग्निधारणं व्रतमस्तीति धर्म­मे­दा­द्वि­द्या­भेद इत्यर्थः ।

भेद­का­न्त­रा­ण्य­ति­दि­शति -
एवमिति ।
आदि­ग्र­ह­णा­न्नि­न्दाऽ­श­क्ति­स­मा­प्ति­व­च­न­प्रा­य­श्चि­त्ता­न्या­र्थ­द­र्श­नानि शब्दान्तरं सङ्ख्या प्रक्रि­ये­त्ये­तानि च सङ्गृह्यन्ते । तत्र ‘समिधो यजति’ इत्यादौ पञ्च­कृ­त्वोऽ­भ्यस्ते यजतिशब्दे किमेकं कर्मापूर्वं किंवा पञ्चैवेति संशये धात्व­र्था­नु­ब­न्ध­भे­द­म­न्त­रे­णा­पू­र्व­भे­दा­यो­गा­त्प्र­कृते तदयोगादेकं कर्मापूर्वमिति प्राप्ते समि­दा­दि­वा­क्यानां स्वर­स­सि­द्ध­प्रा­प्त­क­र्म­वि­धि­प­र­त्वा­द­सति विशेषे पुनः श्रुते­रा­न­र्थ­क्या­त्प्र­त्य­भ्या­स­म­पू­र्व­भेद इति पुन­रु­क्ते­र्भे­द­कत्वं स्थितम् । एवं शाखान्तरोक्ता विद्याः शाखा­न्त­रो­क्त­वि­द्याभ्यो भिन्नाः पुनरुक्तेरिति पुनरुक्तितो विद्याभेदः । निन्दे­त्यु­दि­ता­नु­दि­त­हो­म­नि­न्दोक्ता ‘प्रातः प्रातरनृतं ते वदन्ति पुरो­द­या­ज्जु­ह्वति येऽग्निहोत्रम् । दिवा­की­र्त्य­म­दिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्’ इत्य­नु­दि­त­हो­म­निन्दा ‘यथाऽतिथये प्रद्रुतायान्नं हरे­यु­स्ता­दृ­क्त­द्य­दु­दिते जुह्वति’ इत्यु­दि­त­हो­म­निन्दा । तत­श्चै­क­स्यै­वो­दि­तेऽ­नु­दिते च क्रमे­णा­नु­ष्ठा­ना­यो­गा­द्भेदः । उदि­ता­नु­दि­त­हो­मा­ति­क्र­म­कृ­त­प्रा­य­श्चि­त्ता­दपि तद्भेदधीः । नच निन्दा­प्रा­य­श्चित्ते वेदान्तविद्यासु विद्येते इति नोदाह्रियेते । यत्त्वथ योऽन्यामित्यादि तद्भे­द­धी­वि­ष­य­त्वान्न विद्यां भिनत्ति । ततो भूय इवेत्यादि तु केव­ल­दे­व­ता­ज्ञा­न­नि­न्दया तस्य कर्मणा समुच्चयपरम् । अशक्तिश्च कर्म­व­द्वि­द्या­भे­दिका । नहि सर्वशाखाविहितं कर्म शक्य­मे­के­ना­नु­ष्ठातुं तथोपासनान्यपि नाना­शा­स्त्रो­क्तानि नैके­ना­नु­ष्ठी­ये­र­न्निति भेदः । समाप्तिरपि शाखिनां केषा­ञ्चि­त्क्व­चि­दिति कर्मणो भेदिका । तथा वेदान्तेष्वपि क्वचि­दो­ङ्का­र­स­र्वा­त्म­त्व­च­नेन समाप्तिरन्यत्र क्वचि­दि­त्यु­पा­स्ति­भेदः । अन्यार्थदर्शनं ‘वायुर्वै क्षेपिष्ठा देवता’ ‘सोऽरो­दी­द्य­द­रो­दीत्’ इत्या­द्य­र्थ­वा­द­रूपं कर्मभेदकं स्तुति­नि­न्द­यो­रे­क­त्रा­स­म­वा­यात् । एवं वेदान्तेष्वपि नाना­वि­धा­र्थ­वा­दस्य तत्र तत्र दृष्टे­र्वि­द्या­भेदः । शब्दान्तरादपि कर्मभेदः । ज्योतिष्टोमे - ‘सोमेन यजेत', ‘दाक्षिणानि जुहोति’ ‘हिर­ण्य­मा­त्रे­याय ददाति’ इत्यत्र यज­ति­द­दा­ति­जु­हो­तयः संहत्य वा कार्यं कुर्व­न्त्य­सं­हत्य वेति सन्देहे संह­ता­ना­मे­वा­पू­र्व­सा­ध­कत्वं लाघवादिति पूर्वपक्षे ‘शब्दान्तरे कर्मभेदः कृता­नु­ब­न्ध­त्वात्’ इत्यत्र शब्दभेदे भावा­र्था­नु­ब­न्ध­भे­दा­द्भा­व­ना­भेद इति स्थितम् । तथेहापि ‘ब्रह्म­वि­दा­प्नोति परम्’ ‘तरति शोकमात्मवित्’ इति शब्दा­न्त­रा­ज्ज्ञा­न­भेदः । सङ्ख्यापि कर्मणो भेदिका ‘सप्तदश प्राजा­प­त्या­न्प­शू­ना­ल­भेत’ इत्यत्र सप्तदशभिः पशुभिरेको वा यागो निर्वर्त्यः सप्तदश वेति संशये यो हि बहून्कल्पयति कल्प­य­त्य­सा­वे­क­मिति लाघवादेको यागः सप्त­द­श­प­शु­भि­र्नि­र्व­र्त्यत इति पूर्वपक्षे पशूनां पृथक्त्वे सप्त­द­श­स­ङ्ख्यायाः सम्भ­वा­त्त­त्पृ­थ­क्त्वस्य च याग­भे­दा­धी­न­त्वा­द्यागाः सप्तदशेति राद्धान्तितम् । तथात्रापि तौ वा एतौ द्वौ संवर्गाविति सङ्ख्यातो विद्याभेदः । प्रकियापि कर्मभेदिका कुण्डपायिनामयने ‘मासमग्निहोत्रं जुहोति’ ‘मासं दर्श­पू­र्ण­मा­साभ्यां यजेत’ इत्यत्र नित्येऽ­ग्नि­हो­त्रादौ मासगुणविधिर्वा कर्मा­न्त­र­वि­धि­र्वेति सन्देहे सत्य­ग्नि­हो­त्रा­दि­श­ब्दस्य प्रसि­द्धा­ग्नि­हो­त्रा­द्य­नु­वा­दि­त्वा­न्मा­स­मि­त्य­प्र­सि­द्ध­त्वा­त्प्र­सि­द्धा­नु­वा­दे­ना­प्र­सि­द्ध­गु­ण­वि­धि­स­म्भ­वा­त्प्र­क­र­णस्य वाक्या­द्दौ­र्ब­ल्या­द्गु­ण­वि­धि­रिति प्राप्ते यस्य प्रकरणे यद्वाक्यं श्रुतं न तत्तस्य बाध­क­मि­त्यु­त्स­र्गा­दु­प­स­द्भि­श्च­रि­त्वे­त्त्युक्त्वा मास­म­ग्नि­हो­त्र­मि­त्या­दि­श्रु­ते­र्नै­य­मि­का­ग्नि­हो­त्रादौ चोप­स­दा­म­भा­वा­त्त­द­नु­वा­देन गुण­वि­ध्य­सि­द्धे­रु­प­स­दा­मपि तत्रैव विधाने वाक्य­भे­दा­द­ग्नि­हो­त्रा­दि­श­ब्दस्य चाख्या­त­पा­र­त­न्त्र्या­त्त­द­र्थस्य चाधि­का­रा­लो­च­नायां वैल­क्ष­ण्या­त्प्र­सि­द्धा­ग्नि­हो­त्रा­द्य­प्र­त्य­भि­ज्ञा­प­क­त्वा­त्क­र्मा­न्त­र­मि­त्यु­क्तम् । तथात्रापि वैश्वा­न­रा­श्व­मे­धो­पा­स­ना­दिषु प्रक­र­ण­भे­दा­द्वि­द्या­भेद इत्यर्थः । वेदा­न्ता­न्त­रे­ष्विति प्रतिशाखं व्यव­स्थि­त­त­त्त­द्वे­दा­न्त­प्र­भे­दे­ष्विति यावत् ।

प्राच्यां मीमां­सा­या­मु­क्त­हे­तुभिः सिद्धं पूर्व­प­क्ष­मुु­प­सं­ह­रति -
तस्मादिति ।

पूर्वपक्षमनूद्य विद्यैक्यं सिद्धान्तमाह -
एवमिति ।
सर्ववेदान्तेषु प्रतीयन्त इति सर्व­वे­दा­न्त­प्र­त्य­यानि सर्व­वे­दा­न्त­प्र­मा­ण­कानि तत्र तत्र विहितानीत्यर्थः ।

यान्ये­क­स्मि­न्वे­दान्ते तान्येव वेदा­न्ता­न्त­रे­ष्वपि विहितानीत्याह -
तस्मिन्निति ।
सर्व­वे­दा­न्त­प्र­त्य­य­मि­त्ये­क­व­च­नेन कर्तव्यतया प्रती­य­मा­न­ज्ञा­न­स्यै­कत्वं ग्रहै­क­त्व­व­द­वि­व­क्षि­तम् ।

साधारणनिर्देशेन विधी­य­मा­न­स­र्वो­पा­स­न­ज्ञा­नानि विवक्षितानीति प्रतिज्ञां व्याख्या­या­का­ङ्क्षा­द्वारा हेतुमवतारयति -
कुत इति ।

चोद­ना­सा­ह­च­र्या­दा­दि­श­ब्दे­ना­र्थ­वा­द­ग्र­ह­ण­मा­शङ्क्य व्यावर्तयति -
आदीति ।

‘एकं वा संयो­ग­रू­प­चो­द­ना­ख्या­वि­शे­षात्’ इति शाखान्तराधिकरणे सिद्धान्तसूत्रं तत्रो­क्ता­न्क­र्मा­भे­द­हे­तू­न­त्रापि ज्ञाना­भे­द­हे­तु्त्वे­ना­कृ­ष्टा­ना­चष्टे -
संयोगेति ।

तत्र चोदनाया विधायकपदस्य चोद्यत इति वा पुरुषप्रयत्नस्य धात्व­र्था­व­च्छि­न्न­स्या­वि­शेषं सदृष्टान्तमाह -
यथेति ।
प्रतिशाखं होमा­द्य­व­च्छि­न्न­प्र­य­त्न­व­दि­हापि प्राण­ज्ये­ष्ठ­त्वा­दि­धी­वि­ष­य­प्र­य­त्न­स्या­वि­शेषः शाखा­द्व­येऽ­पी­त्यर्थः ।

संयोगाविशेषमाह -
प्रयोजनेति ।

रूपाविशेषमाह -
रूपमिति ।

कथं ज्ञानस्य प्राणतत्त्वं रूपं, तत्राह -
यथा चेति ।

द्रव्य­दे­व­ताभ्यां यागस्य रूप्य­मा­ण­त्वा­त्त­यो­स्त­द्रू­पत्वं प्रकृते तु कथ­मि­त्या­श­ङ्क्याह -
तेनेति ।

आख्याविशेषमाह -
समाख्येति ।

सर्व­शा­खा­स्थ­प्रा­ण­ज्ञा­नस्य समा­ख्या­द्य­वि­शे­षा­दैक्यं निगमयति -
तस्मादिति ।

उक्तं न्यायं पञ्चा­ग्नि­वि­द्या­दिषु सर्व­शा­खा­स्थे­ष्व­ति­दि­शति -
एवमिति ।

परोक्तमनूद्य प्रत्याह -
ये त्विति ।
अस्यार्थः - काठकं काला­प­क­मि­त्या­दि­ना­म­भे­दान्न कर्मभेदः । कस्मात् । अचो­द­ना­भि­धा­न­त्वात् । काठकादीनां ग्रन्थनामतया कर्म­ना­म­त्वा­भा­वात् । ग्रन्थयोगादेव कर्मणां तद्द्वारा तन्ना­म­त्वा­सिद्धौ तत्रापि शक्तिकल्पनायां गौर­वा­त्क­र्मै­क्त्वेऽपि तत्त­द्ग्र­न्थ­स­न्द­र्भ­सं­यो­गा­त्का­ठ­क­प्रा­य­श्चि­त्त­मि­त्या­दि­द­र्श­नान्न नाम्ना कर्ममेदः । तथापि नामभेदान्न विद्याभेदः । विद्यैक्येऽपि तत्त­द्ग्र­न्थ­सं­यो­गा­त्त­त्त­न्ना­म­त्व­सिद्धेः । नापि रूपभेदो भेद­कोऽ­ग्नी­षो­मी­य­स्यै­क­क­र्म­त्वेऽ­प्ये­का­द­श­क­पा­ल­त्व­व­द्द्वा­द­श­क­पा­ल­त्व­रू­प­भेदो वाचनिकः । तथाग्न्यादिषु रूपभेदेऽपि विद्यै­क्या­वि­रो­धात् । नच धर्मविशेषो भेदकः । तस्य विद्या­ग्र­ह­णा­र्थ­तया कर्मा­नु­प­का­रि­ण­स्त­द्भे­द­क­त्वा­भा­वात् । उक्तं हि - ‘विद्यायां कर्मशास्त्रम्’ इति । तथात्रापि धर्मविशेषो न विद्यार्थ इति वक्ष्यते नच पुन­रु­क्ति­र्भे­दिका । नह्ये­त­द्द्वि­र्व­चनं यदेकोऽर्थो बहुभिः शाखिभिरुच्यते । एकस्मिन्नपि वेदे बहुभिरुच्यमाने पुन­रु­क्ति­प्र­स­ङ्गात् । तस्मा­द­ध्ये­तृ­भे­देन पुन­रु­क्त्य­भा­वा­त्क­र्मै­क्यम् । तदुक्तम् - ‘अद्विर्वचनं श्रुति­सं­यो­गा­वि­शे­षात्’ इति । एवमत्रापि विद्यैक्यं प्रतिशाखं प्रत्येतव्यम् । अशक्तिरपि न भेदहेतुः । अस­म­र्था­ना­मे­क­स्मि­न्नपि वेदे सर्वा­ङ्गो­प­सं­हा­रा­न­र्ह­त्वात् । समर्थानां तु शाखाभेदे तदध्ययनाभावेऽपि तदध्येतृभ्यो विश्वस्य तत्त­द्रू­प­मु­प­सं­हर्तुं शक्यत्वात् । नच समाप्तिवचनं भेदकमेकत्वेऽपि कस्य­चि­द­न्या­ङ्गस्य समाप्तौ समा­प्ति­व­च­न­स­म्भ­वात् । न चान्या­र्थ­द­र्श­न­म­न्य­प­र­त्वा­त्क­र्मैक्यं विद्यैक्यं वा प्रमितं निषेद्धुमर्हति । शब्दा­न्त­र­स­ङ्ख्या­प्र­क्रि­या­णा­मपि प्रबलेनाभेदकेन भेद­क­त्व­म­पा­स्य­मतो न विद्या­भे­दा­श­ङ्केति ॥ १ ॥

तर्हि पूर्व­त­न्त्रो­क्त­न्या­ये­नैव प्रतिशाखं विद्यैक्यसिद्धौ किम­ने­ना­धि­क­र­णे­ने­त्य­श­ङ्क्याह -
इहापीति ।
शाखान्तराधिकरणे खल्वेकस्यां शाखा­या­म­ग्नी­षो­मी­य­स्यै­का­द­श­क­पा­ल­त्व­म­प­रस्यां द्वाद­श­क­पा­ल­त्व­मिति रूप­भे­दा­त्क­र्म­भेदं शङ्कित्वा सङ्ख्य­यो­र्वि­कल्प इत्युक्तम् । तद्युक्तम् । कपा­ल­स­ङ्ख्य­यो­रु­त्प­न्न­शि­ष्ट­यो­रु­त्प­त्ता­वै­क­रू­प्येण ज्ञात­क­र्म­प्र­त्य­भि­ज्ञा­ना­बा­ध­क­त्वेन कर्मा­भे­द­क­त्वा­द­ग्न्या­दि­ग­त­प­ञ्च­स­ङ्ख्या­दे­रु­त्प­त्ति­वि­शि­ष्ट­त्वा­द्वा­जि­न­व­द्भे­द­क­त्व­मिति शङ्कामुत्थाप्य परि­हा­रा­द­स्या­र्थ­व­त्ते­त्यर्थः ।

शङ्कां विभजते -
स्यादिति ।

गुणभेदं साधयति -
तथाहीति ।

छन्दोगाः षष्ठमग्निं नामनन्तीति कथं सिद्ध­मि­त्या­श­ङ्क्यो­प­सं­हा­र­व­शा­दि­त्या­श­ङ्क्याह -
पञ्चेति ।

गुणभेदमुक्त्वा तत्फलं विद्याभेदमाह -
येषां चेति ।

वाजसनेयकगतो योऽग्निः षष्ठोऽ­न्त्ये­ष्टि­नि­विष्टः प्रसि­द्ध­व­दु­क्त­स्तस्य च्छान्दो­ग्येऽ­प्यु­प­सं­हा­रान्न गुण­भे­दोऽ­स्ती­त्या­श­ङ्क्याह -
नचेति ।

पञ्चा­ग्नि­वि­द्यायां गुण­भे­दा­द्भे­द­मुक्त्वा प्राण­वि­द्या­या­मपि तद्भेदाद्भेदमाह -
तथेति ।

अस्तु प्रजननगुणवतो रेतसो वाज­स­ने­यि­ना­मा­वा­प­श्छ­न्दो­गानां चोद्धारस्तथापि कथं विद्याभेदः, तत्राह -
आवापेति ।

सूत्रावयवं परिहारत्वेन व्याचष्टे -
नेत्यादिना ।

ननु गुणभेदे वेद्य­भे­दा­द्वि­द्या­भेदो न च षष्ठ­स्या­ग्ने­रु­प­सं­हारः पञ्च­स­ङ्ख्या­वि­रो­धात् , तत्राह -
यद्यपीति ।

एकैव विद्या षष्ठाग्नियुक्ता तद्रहिता चेति विरु­द्ध­मि­त्या­श­ङ्क्याह -
नहीति ।

किञ्च वाजसनेयके षष्ठस्यापि ध्येय­त्व­म­ग्ने­रु­पे­त्योक्तं न तु तस्य ध्येयत्वं पञ्चै­वा­ग्न­य­स्त­थो­च्यन्ते । अनुपास्यत्वेन षष्ठो­क्ति­श्छा­न्दो­ग्येऽपि तुल्येत्याह -
पठ्यतेऽपीति ।
इतोऽ­स्मा­ल्लो­कात्तं दिष्टं परलोकं प्रेतं गतं पुत्रा ज्ञातयो वाग्नये नैधनविधिं विधातुं हरन्तीत्यर्थः ।

अनुपास्यत्वे किमिति पूर्वा­ग्नि­व­त्प­ठ्यते षष्ठोऽग्निः, तत्राह -
वाज­स­ने­यि­न­स्त्विति ।
तस्योपासकस्य मृतस्य दाहा­या­ग्नि­रे­वा­ग्नि­रिति प्रसिद्धानुवादो न तूपा­स्ति­वि­धि­रु­पा­स्या­स्तू­भ­य­त्रापि पञ्चैवाग्नयः । प्रसि­द्धा­नु­वा­दश्च कल्प­ना­नि­वृ­त्त्य­र्थ­त्वा­द­र्थ­त्वा­द­र्थ­वा­नि­त्यर्थः ।

उत्पत्तौ गुणा­न्त­र­वि­ध्य­भा­वान्न विद्याभेदो वैश्व­दे­व्या­स्तू­त्पत्तौ विशि­ष्ट­गु­णो­क्ते­र्भेद इत्युक्तम् । इदानीं वाजिनां षष्ठा­ग्नि­वि­धा­नेऽपि न विद्याभेद इत्याह -
अथापीति ।

पञ्चा­ग्नी­न्वे­देति श्रुत­स­ङ्ख्या­वि­रो­धान्न षष्ठ­स्या­ग्ने­रु­प­सं­हा­र­सि­द्धि­रि­त्या­शङ्क्य पञ्चसङ्ख्याया विधे­य­त्वा­भा­वा­त्सा­म्पा­दि­का­ग्न्य­व­च्छे­द­क­त्वे­नै­वा­नु­वा­दा­दु­त्प­त्त्य­शि­ष्ट­त्वा­दु­त्प­न्नानां च प्रत्य­भि­ज्ञा­नान्न विद्याभेद इत्याह -
नचेति ।

पञ्चा­ग्नि­वि­द्या­या­मु­क्ता­न्यायं प्राण­वि­द्या­दि­ष्व­ति­दि­शति -
एवमिति ।

यत्त्वा­वा­पो­द्वा­पाभ्यां वेद्य­भे­दा­द्वि­द्या­भेद इति, तत्राह -
नचेति ।
बहु­त­रां­शा­भे­द­प्र­त्य­भि­ज्ञा­ना­द­ल्प­त­रां­श­भे­देऽपि प्रत्य­भि­ज्ञा­वि­रो­धान्न विद्याभेद इत्यर्थः ।

रूप­भे­दा­द्वि­द्या­भेदं शङ्कितं निरस्योपसंहरति -
तस्मादिति ॥ २ ॥

रूपभेदस्य भेदकत्वं निराकृत्य धर्मभेदस्य भेदकत्वं प्रत्याह -
स्वाध्यायस्येति ।

व्यावर्त्यं चोद्यमनुद्रवति -
यदपीति ।

शिरोव्रतं शिर­स्य­ग्नि­धा­र­णम् । आदि­ग्र­ह­णा­दा­त­पा­व­स्था­नादि गृह्यते । चोद्योत्तरत्वेन सूत्रमवतार्य व्याचष्टे -
तदिति ।

स्वाध्या­या­ङ्ग­त्वेन श्रुत्या­दि­भि­र­वि­नि­योगे न तदङ्गतेति शङ्कते -
कथमिति ।

तथा­त्वे­ने­त्या­दि­नो­त्त­र­माह -
यत इति ।
गोदानादीनि वेदा­ध्य­य­ना­ङ्ग­त्वे­ना­नु­ष्ठे­यानि व्रतानि । शिरोव्रतमपि वेद­व्र­ते­ष्व­न्त­र्ग­त­त्वे­नोक्तं तेन यथा गोदा­ना­द्य­ध्य­य­नाङ्गं तथेदमपीत्यर्थः ।

अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एत­द्ग्र­न्थ­जा­त­म­ची­र्ण­व्र­तोऽ­न­नु­ष्ठि­त­शि­रो­व्रतः पुरुषो नाधीत इति प्रकृ­त­मु­ण्ड­क­प­रा­म­र्श­का­दे­त­च्छ­ब्दा­न्मु­ण्ड­का­ध्य­य­न­धर्म एवायं न विद्याधर्म इति प्रति­भा­ती­त्यर्थंः ।

अधि­का­रा­द­वि­कृ­त­वि­ष­या­दे­त­च्छ­ब्दा­च्च­का­रा­द­धीत इत्य­ध्य­य­न­श­ब्दा­च्चेति व्याख्यातम् । इदानीं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति -
नन्विति ।
सर्वत्र ब्रह्मविद्यैकैव चेत्तया शिरोव्रतस्य संयो­गा­द्ध­र्म­स­ङ्करः स्यात् , नच सोऽस्तीति विद्याभेद इत्यर्थः ।

एतां ब्रह्म­वि­द्या­मिति तत्प्रकाशकमिमं ग्रन्थमिति योज्यम् । अन्यथा प्रकृ­त­वि­ष­य­त­च्छ­ब्द­वि­रो­धा­दि­त्याह -
नेति ।

ब्रह्मविद्यैव प्रकृतेति सैव परा­मृ­श्य­ता­मि­त्या­शङ्क्य तस्याः सर्व­त्रै­क्या­द­थ­र्व­वि­हि­तै­वात्र परा­म्र­ष्ट­व्ये­त्याह -
प्रकृतत्वं चेति ।

सूत्रा­व­य­वा­न्त­र­म­व­ता­र­यति -
सववच्चेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शनमिति योजना । ततश्च शिरोव्रतस्य सङ्करो नेति चकारार्थः ।

तदेव विवृणोति -
यथेति ।
सवा होमाः । आथर्वणैरुदित एकोऽ­ग्नि­रे­क­ऋ­षि­सं­ज्ञया प्रसि­द्ध­स्ते­षा­मेव नियम्यन्ते तदीये तत्रैवाग्नौ क्रियन्ते । स्वाध्या­य­वि­शे­ष­स­म्ब­न्धा­दे­त­च्छ­ब्दा­द­धी­ति­श­ब्दाच्च मुण्ड­का­ध्य­य­न­स­म्ब­न्धा­धि­ग­ते­रिति यावत् ।

धर्मभेदस्य धर्म्यभेदकत्वे फलितमाह -
तस्मादिति ।
नामा­दि­व­द्ध­र्म­भे­द­स्यापि भेद­क­त्वा­यो­गा­दि­त्यर्थः ॥ ३ ॥

किञ्च वेद्यै­क­त्वोक्त्या ब्रह्म­वि­द्या­या­स्ता­व­दैक्यं सर्वत्र वेदो दर्शयति । तथान्यत्रापि वेद्याभेदेऽपि विद्यै­क्य­मि­त्याह -
दर्शयति चेति ।

सूत्रं व्याचष्टे -
दर्शयतीत्यादिना ।

वेदत्रयेऽपि विद्यै­क्य­वि­ष­य­मु­प­दे­शा­न्त­र­माह -
तथेति ।

किञ्च शाखा­न्त­रो­क्त­प­दा­र्थस्य शाखान्तरे सिद्ध­व­त्प­रा­म­र्शा­दपि विद्यै­क्य­धी­रि­त्याह -
तथेत्यादिना ।
एव पुरुषो यदा यस्या­म­वि­द्या­व­स्था­या­मे­त­स्मि­न्ना­त्म­न्य­द्व­य­त्वेन सर्व­वे­दा­न्त­प्र­सिद्धे स्वावि­द्या­व­शा­दे­वा­न्तरं भेद­द­र्श­न­मु­द­र­म­ल्प­मपि करोत्यथ तदा तस्यामवस्थायां तस्य भेददर्शनवतो भयमावश्यकं ‘द्वितीयाद्वै भयं भवति’ इति श्रुत्य­न्त­रा­दि­त्यर्थः ।

भेददर्शनवतो भयकारणमाह -
तत्त्वेवेति ।
भेददर्शनवतो विदु­ष­स्त­त्त्व­म­म­न्वा­नस्य तदेव ब्रह्म भयङ्करमित्यर्थः ।

निर्गु­ण­वि­द्यायां वेद्यै­क­त्वा­दे­क­त्वेऽपि कथं सगु­ण­वि­द्या­या­मे­कत्वं तत्राह -
तथेति ।

एवं ब्रह्म­वि­द्यै­क्येऽपि कथ­मु­क्था­द्यु­पा­स्ती­ना­मैक्यं, तत्राह -
तथेति ।
यथा निर्गुणं सगुणं च ब्रह्म सर्वत्रैकमिति तद्विद्या न भिद्यते तथोक्थादीनां सर्व­वे­दा­न्त­प्र­त्य­य­त्वा­दे­त­द्ग­म्यते । यद­न्य­त्रो­क्ता­ना­म­न्य­त्रो­पा­स्त्यर्थं तेषामादानमिति । तत­स्त­दु­पा­स्ती­ना­मपि सर्व­वे­दा­न्त­प्र­मा­ण­क­त्वे­नैक्यं प्राय­द­र्श­न­न्या­येन बाहुल्येन सिध्यतीत्यर्थः ॥ ४ ॥

सर्वशाखासु विद्यैक्ये गुण्या­कृ­ष्ट­गु­णानां तत्र तत्रो­प­सं­हा­र­म­न­न्त­र­वि­चा­र­फ­ल­माह -
उपसंहार इति ।

सङ्क्षे­प­तोऽ­धि­क­र­ण­ता­त्प­र्य­माह -
इदमिति ।
पूर्व­वि­चा­र­फ­ल­म­नेन सूत्रेणोच्यते तेन तद्वदेवास्य पादादिसङ्गतिः । पूर्वपक्षे पूर्वाधिकरणस्य विव­क्षि­त­फ­ला­सिद्धिः । सिद्धान्ते तस्य तत्सिद्धिः । तुल्यधीबद्धा गुणा विषयास्ते किं यथाश्रुति व्यव­ति­ष्ठे­र­न्नुत प्रत्यभिज्ञया ज्ञानो­पा­धा­वु­प­सं­ह्रि­ये­र­न्निति मीमां­सा­या­मि­च्छा­भे­दा­द­ति­रात्रे षोड­शि­ग्र­ह­व­दु­प­सं­हा­र­स्या­ना­व­श्य­क­त्वा­द्य­था­श्रुति व्यवस्थेति प्राप्ते सिद्धा­न्त­य­न्नु­प­सं­हारः ।

समाने चेति विभागं विभजते -
स्थिते चेति ।

तत्र हेतुमुक्त्वा व्याकरोति -
अर्थेति ।

कथं व्यवस्थया श्रुतानां गुणा­ना­मु­प­का­रैक्यं, तत्राह -
उभयत्रेति ।

गुणिद्वारा गुणानामपि प्रत्यभिज्ञाने फलितमाह -
तस्मादिति ।

अर्था­भे­दा­दु­प­सं­हारे दृष्टान्तमाह -
विधीति ।

प्रधा­न­प्र­त्य­भि­ज्ञायां सर्व­त­द्ध­र्म­प्र­त्य­भि­ज्ञा­ना­त्फ­ला­वि­शे­षाच्च व्यवस्थया श्रुतानामपि गुणा­ना­मे­क­ज्ञा­नो­पा­धा­वु­प­सं­हार इति दार्ष्टा­न्ति­क­माह -
एवमिति ।

उक्तमेव व्यतिरेकतः स्फोरयति -
यदीति ।

आग्ने­य­सौ­र्य­यो­र्भे­देऽ­प्या­ग्ने­य­ग­त­स्ये­ति­क­र्त­व्य­ता­जा­तस्य सौर्ये प्राप्ति­व­ज्ज्ञा­ना­न्त­र­स्था­ना­मपि गुणानां ज्ञानान्तरे प्राप्तिः स्यादि­त्य­श­ङ्क्याह -
प्रकृतीति ।
ज्ञानैक्येऽपि शाखा­न्त­रो­क्त­गु­णानां शाखा­न्त­रो­क्त­ज्ञाने नोपसंहारः । तत्रो­क्त­गु­ण­मा­त्रेण तज्ज्ञा­नो­प­का­र­सि­द्धे­र­धि­का­न­पे­क्ष­णात् । अन्यथा तत्रैव तद्वि­धि­प्र­स­ङ्गात् । तस्मा­द­क्ष्या­दि­त्य­स्था­न­भे­दे­नो­क्त­यो­र­ह­र­ह­मि­ति­गु­ण­यो­र्व्य­व­स्था­न­व­दु­पा­स्या­भे­देऽपि शाखा­भे­दे­नो­क्तानां व्यव­स्थै­वे­त्या­शङ्क्य शाखा­भे­द­स्यो­क्त­स्था­न­व­दु­पा­स्य­वि­शे­ष­ण­तया गुण­व्य­व­स्था­प­क­त्वा­भा­वा­द्ध­र्म्यु­पा­धा­वु­क्त­गु­णानां सर्वत्रापि श्रुतेन धर्मिणा नियमादनुमानतः सार्व­त्रि­क­त्व­सि­द्धे­र्वि­द्यैक्ये गुणोपसंहारो बलवद्बाधकाभावे वारयितुं न शक्यते ।

शाखान्तरे कतिपयगुणवादस्य तद्विध्यर्थतया गुणा­न्त­रा­वा­र­क­त्वा­दि­त्याह -
विज्ञानेति ।
एव­मि­त्यु­प­सं­हा­रा­भा­वोक्तिः । इतिशब्दः सिद्धा­न्त­स­मा­प्त्यर्थः ।

उत्तरसन्दर्भस्य पौनरुक्त्यं प्रत्याह -
अस्यैवेति ॥ ५ ॥

संज्ञा­भे­दा­ज्ज्ञा­नैक्यं तद्गुणानां चान्यत्रोपसंहार इत्युक्त उद्गी­थ­वि­द्य­यो­रपि च्छान्दो­ग्य­बृ­ह­दा­र­ण्य­को­क्तयोः संज्ञा­भे­द­मा­शङ्क्य प्रत्याह -
अन्यथात्वमिति ।

चोद­ना­द्य­वि­शे­षा­दि­त्य­स्या­प­वा­दा­र्थ­मि­द­म­धि­क­र­णम् । तस्य बृह­दा­र­ण्य­क­स्थ­मु­द्गी­थ­ब्रा­ह्मणं छान्दो­ग्य­स्थ­मु­द्गी­था­ध्यायं च विषयमाह -
वाजसनेयक इति ।
ते प्रकृता वागादयः प्राणा देवाः सात्त्वि­क­वृ­त्ति­प्र­धानाः सम्भू­या­न्यो­न्य­मु­क्त­वन्तो हन्त यदि संमतमस्माकं तदा­स्मि­न्ना­भि­चा­रिके यज्ञे वय­मु­द्गी­था­ख्य­भ­क्ति­ल­क्षि­ते­नौ­द्गा­त्रेण कर्मणा तमो­वृ­त्ति­प्र­धा­ना­न­सु­रा­न­तीत्य स्वम­ग्न्या­दि­भा­व­म­या­मेति । ते चैवं कृतसंवादा वाचमौद्गात्रे कर्मणि प्रधानां त्वम­स्म­द­र्थ­मौ­द्गात्रं निर्वर्तयेति नियु­क्त­व­न्त­स्त­थो­प­क्रम्य वागा­दी­न्वा­क्प्रा­ण­च­क्षुः­श्रो­त्र­म­नां­सि­पा­प्मना ह्येषा विद्धेत्यादिना पाप्मविद्धत्वेन निन्दित्वा तेषामध्येयत्वं निर्धार्य मुख्य­प्रा­ण­स्यो­पा­स्यत्वं च निश्चित्य तत्परिग्रहः श्रूयत इत्यर्थः । वागा­दी­ना­म­नु­पा­स्य­त्व­नि­श्च­या­न­न्त­र­मि­त्य­थ­श­ब्दार्थः । आसन्यमास्ये भवं मुखा­न्त­र्बि­लस्थं प्राणं मुख्य­प्रा­णा­भि­मा­निनीं देवतामिति यावत् ।

उद्गी­थ­ब्रा­ह्म­ण­मु­क्त्वो­द्गी­था­ध्यायं कथयति -
तथेति ।
तत्त­त्रा­न्यो­न्या­भि­भ­वा­त्मके सङ्ग्रामे देवाः पू्र्वव­दु­द्गी­थ­ल­क्षितं कर्मा­ज­ह्रु­रा­हृ­त­वन्तः । अनेन कर्म­णै­ना­न­सु­रा­न्स्वा­भा­वि­के­न्द्रि­य­वृ­त्ति­ल­क्ष­णा­न­भि­भ­वि­ष्याम इत्यभिप्रेत्य कर्मारब्धवन्त इत्यर्थः ।

तथै­वे­त्यु­द्गी­थ­ब्रा­ह्म­ण­व­दे­वे­त्यर्थः । अाख्यायिकैव श्रुता न विद्या­वि­धि­रि­त्या­शङ्क्य ब्राह्म­णा­ध्या­य­यो­र्वि­व­क्षि­त­म­र्थ­माह -
उभयत्रेति ।

शाखा­द्व­य­स्थो­द्गी­थ­विद्यां विषयमुक्त्वा विचारबीजं संशयमाह -
तत्रेति ।

भेदा­भे­द­मा­नाभ्यां तमेव विशदयति -
किमिति ।

विमृश्य पूर्वपक्षयति -
किं तावदिति ।
पूर्व­त्रा­ख्या­वि­शे­षा­द्वि­द्यै­क्य­मुक्तं तद­त्रा­प्यु­द्गी­थ­वि­द्ये­त्या­ख्या­वि­शे­षा­दै­क्य­मि­त्यर्थः । अत्र चोपा­स्ति­भे­दोक्त्या वाक्या­र्थ­धी­हे­तो­रेव निरू­प­णा­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे गुणोपसंहारः सिद्धान्ते तदसत्तेति फलभेदः ।

अन्य­था­त्व­मि­त्या­दि­सै­द्धा­न्तिकीं शङ्कां व्याकु­र्व­न्पू­र्व­प­क्ष­मा­क्षि­पति -
नन्विति ।

प्रक्र­म­भे­दा­दि­त्युक्तं व्यनक्ति -
अन्यथा हीति ।

कथमुभयत्र प्रक्र­म­स्या­न्य­थात्वं, तत्राह -
त्वमिति । उद्गीथस्येति ।
सर्वस्या भक्तेरिति यावत् ।

उद्गीथत्वेनेति ।
तदवयवो योऽय­मो­का­र­स्त­था­त्वे­ने­त्यर्थः । उद्गानकर्ता प्राणो वाजसनेयके ध्येय­त्वे­नो­च्यते । छान्दोग्ये त्वोङ्कारः प्राण­दृ­ष्ट्यो­पास्य इष्टः ।

तथाच कर्तृ­क­र्म­णो­र्भे­दान्न विद्यैक्यमिति फलितमाह -
तदिति ।

बहु­त­र­रू­प­प्र­त्य­भि­ज्ञा­ना­द­प्र­त्य­भि­ज्ञानं किञ्चिल्लक्षणया नेयमिति मत्वा समाधत्ते -
नेत्यादिना ।

अवि­शे­षा­दि­त्ये­त­द्व्या­चष्टे -
नहीति ।
एतावता क्वचि­त्क­र्म­रू­प­त्वे­नो­पा­स्यत्वं कर्तृ­त्वे­ना­न्य­त्रे­त्ये­ता­व­न्मा­त्रे­णे­त्यर्थः ।

बहु­त­रा­वि­शे­ष­प्र­ती­ति­मेव प्रकटयति -
तथाहीति ।

यथाश्मानं पाषाणं प्राप्य मृत्त्वा­ल्लोष्टो विध्वंसत एवं विध्वंसमाना विष्वञ्चो विनेशुरिति श्रूयत इत्याह -
तदिति ।

अविशेषधियं निगमयति -
इत्येवमिति ।

न केवलं शाखान्तरे रूपभेदो दृष्टः किं त्वेकस्यामपि । तथापि न तत्र विद्या­भे­द­स्त­थो­भ­यो­रपि स्यादित्याह -
वाजेति ।

प्राण­स्यो­द्गी­थ­त्व­म­त्रापि श्रुतं चेत्क­थ­मु­पास्तिः, तत्राह -
तस्मादिति ।
उद्गीथत्वेन श्रुते­रु­भ­य­त्रा­वि­शे­षा­द्य­दे­कत्र कर्तृत्वं तदितरत्रापि लक्ष्यं, तथाच प्राणस्य कर्तृत्वेन कर्मत्वेन च ध्यानं शास्त्रा­दि­त्यर्थः ।

उभयत्रापि वेद्यरूपाविशेषे फलितमाह -
तस्माच्चेति ॥ ६ ॥

विद्यैक्ये पूर्वपक्षे तद्भेदं सिद्धान्तमाह -
न वेति ।

वाश­ब्द­स्या­व­धा­र­णा­र्थ­त्व­मु­पेत्य प्रतिज्ञां विभजते -
नेति ।
अत्रेति प्रकृ­त­शा­खा­द्व­योक्तिः ।

उभयत्रापि प्राण­स्यो­द्गी­थ­त्व­त­त्क­र्तु­त्वा­वि­शे­ष­स्यो­क्त­त्वा­द्वे­द्या­भे­देन विद्याभेदे सम्भवति कुत­स्त­द्भे­दो­क्ति­रिति शङ्कते -
कस्मादिति ।

तत्र हेतुः -
प्रकरणेति ।

शाखाभेदादेव प्रक­र­ण­भे­द­सि­द्धेर्न तस्य धीभेदे प्रयो­ज­क­ते­त्या­श­ङ्क्या­भी­ष्ट­म­र्थ­माह -
प्रक्रमेति ।

शाखाद्वये तद्भेदं विवृणोति -
तथाहीति ।

छान्दो­ग्य­ग­त­मु­प­क्र­म­प्र­कारं दर्शयति -
छान्दोग्य इति ।

उप­क्र­म­वा­क्य­स्या­र्थ­माह -
उद्गीथेति ।

प्रक­र­ण­वि­च्छे­दा­भावं वक्तुं तदनुसन्धत्ते -
रसेति ।
भूत­पृ­थि­व्यौ­ष­धि­पु­रु­ष­वा­गृ­क्सा­मानां पूर्वस्य पूर्व­स्यो­त्त­र­मु­त्तरं सारतयोक्त्वा तेषामोंकारं रसतमत्वेन निर्दिश्य तमेव पुन­रा­प्ति­स­मृ­द्ध्या­दि­गु­ण­क­त्वे­नो­प­दिश्य ध्येय­मा­ख्या­यि­कया निर्धा­र्यो­द्गी­थो­पा­स्ति­र­व­ता­रि­ते­त्यर्थः ।

ननु वाजसनेयके यथो­द्गी­थे­ना­त्य­या­मे­त्य­त्रो­द्गी­थ­श­ब्देन सकला भक्तिरुक्ता त्वं न उद्गा­ये­त्य­ने­नापि प्राण­त्वे­नो­द्गा­तो­च्यते एव­मो­मि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सी­ते­त्यु­प­क्र­म­वा­क्य­स्थो­द्गी­थ­श­ब्देन सकला भक्तिस्तस्याश्च कर्तोद्गाता प्राण­त्वे­नो­च्यतां तथाच प्रक­मा­भे­दा­द्वि­द्यैक्यं, तत्राह -
तन्नेति ।
ऋत्वि­क्प्रा­ण­त्वेन निरुच्येतेति शेषः । तस्मिन्पक्षे यदु­द्गी­था­व­य­व­भू­त­मो­ङ्का­रा­ख्य­म­क्षरं तत्र प्राण­दृ­ष्टि­र­नु­ष्ठे­ये­त्यु­प­क्रमो बाध्येतेत्यर्थः । चकारो वक्ष्य­मा­ण­दो­ष­स­मु­च्चये ।

यदु­द्गी­था­व­य­व­भू­त­मो­ङ्का­रा­ख्य­म­क्षरं तद्वि­ष­यो­द्गी­थ­श­ब्द­स्यो­द्गा­तृ­वा­चि­त्वा­भा­वा­त्ते­नो­द्गा­तु­र्ल­क्ष्य­त्व­मपि ते स्यादित्याह -
लक्षणेति ।

अक्ताः शर्करा उपदधातीत्यस्य तेजो वै घृतमिति शेषा­न्नि­र्ण­य­व­त्प्रा­ण­मु­द्गी­थ­मु­पा­सा­ञ्च­क्रिर इति सक­ल­भ­क्ति­वि­ष­यो­प­सं­हा­रा­दु­प­क्रमो नीय­ता­मि­त्या­श­ङ्क्याह -
उपक्रमेति ।
तस्य सन्दि­ग्धा­र्थ­त्वा­त्स्या­दु­प­सं­हा­रा­पेक्षा । प्रकृते तूप­क्र­म­स्या­ति­स्प­ष्ट­त्वा­न्नै­व­मि­त्यर्थः ।

ओमि­त्ये­त­द­क्ष­र­मि­त्यादौ तर्हि कोऽर्थः । स्यादि­त्या­श­ङ्क्याह -
तस्मादिति ।

उद्गी­थे­ना­त्य­या­मे­त्य­त्रापि तद­व­य­व­स्यो­द्गी­थ­श­ब्द­त्वा­दु­द्गा­तु­श्चा­श्रु­तेर्न प्रक्र­म­भे­दोऽ­स्ती­त्या­श­ङ्क्याह -
वाजेति ।
ओमि­त्ये­त­द­क्ष­र­मि­त्यु­प­क्र­म­स्या­व­य­वा­र्थ­त्वा­त्त­दु­द्गी­थ­मि­त्यु­द्गी­थ­श­ब्दे­ना­व­यवो गृहीतः । उद्गी­थे­ना­त्य­या­मे­त्यत्र तु तथा हेत्वदृष्टेः सक­ल­भ­क्ति­वि­ष­य­त्व­मेव तस्येत्यर्थः ।

यदुक्तमिहापि नोद्गातुरस्ति धीरिति, तत्राह -
त्वमिति ।

कथं प्राण­स्यो­द्गी­थ­क­र्तृ­त्व­मु­द्गी­थेन सामा­ना­धि­क­र­ण्य­श्र­व­णा­त्ततो वेद्यै­क्या­द्वि­द्यैक्यं, तत्राह -
यदपीति ।

तत्रेति वाजसनेयकोक्तिः । इतश्च नेदं सामानाधिकरण्यं विद्यै­क्य­क्ष­म­मि­त्याह -
सकलेति ।
तत्रेति सामा­ना­धि­क­र­ण्य­वा­क्योक्तिः । अपि­रु­द्गी­थे­ना­त्य­या­मे­ति­वा­क्य­दृ­ष्टा­न्तार्थः । वैषम्यमुभयत्र विद्यानानात्वम् ।

प्राण­स्या­चे­त­न­त्वा­न्नो­द्गा­तृ­त्व­मि­त्या­श­ङ्क्याह -
नचेति ।

अस­म्भ­व­म­भ्यु­पेत्य वाच­नि­क­मु­द्गा­तृ­त्व­मि­त्युक्तं संप्र­त्य­स­म्भ­वोऽपि नास्तीत्याह -
प्राणेति ।