न्यायनिर्णयव्याख्या
३ परिच्छेदः
विषयाभावाच्च न नियोगोऽत्रेत्याह -
किमिति ।
नियोज्यावच्छिन्नो नियोगस्तस्य किं विषयेणेत्याशङ्क्याह -
पुरुषो हीति ।
विषयोऽपि तर्हि नियोगावच्छेदकत्वेन कश्चित्कल्प्यतामित्याशङ्क्य द्वैतलयो वा स स्याद्ब्रह्मज्ञानं वा तदविद्यानिवृत्तिर्वा तत्कार्यनिवृत्तिर्वेति विकल्प्याद्यमादत्ते -
नन्विति ।
तत्त्वावबोधकामिनस्तत्त्वावबोधफलके विषये तदुपकारके वा नियोगो युक्तस्तस्मात्कथं प्रपञ्चलये स्यादित्याशङ्क्य तदुपकारकत्वादित्याह -
अप्रविलापिते हीति ।
काम्यमानतत्त्वावबोधोपकारकत्वे फलितमाह -
अत इति ।
उक्तमर्थं वैदिकोदाहरणेन स्फुटयति -
यथेति ।
स्वर्गं प्रति यागस्य साधनत्वात्तत्र नियोगेऽपि प्रकृते काम्यमानोपायत्वाभावात्कुतो नियोगः स्यादित्याशङ्क्य प्रतिबन्धनिवृत्तितया प्रपञ्चलयस्यानुष्ठेयत्वं लौकिकदृष्टान्तेन दर्शयति -
यथा चेत्यादिना ।
तत्त्वज्ञानकामो द्वैतं प्रविलापयेदिति न नियोगो ब्रह्मणोऽपि तल्लये लयापातादित्याशङ्क्याह -
ब्रह्मेति ।
नहि लोके कार्यनाशेऽपि कारणं नश्यत्यारोपितस्याधिष्ठानान्तर्भावेऽपि तस्य तदनन्तर्भावादिति भावः ।
नैयोगिके द्वैतलये फलितमाह -
तेनेति ।
वेदान्तानां द्वैतत्ववियोगनिष्ठत्वेनैकवाक्यत्वं शङ्कितं प्रत्याह -
अत्रेति ।
प्रश्नमेव विशदयति -
कोऽयमिति ।
किंशब्दोपात्तं पक्षद्वयं दर्शयति -
किमित्यादिना ।
वास्तवस्यावास्तवस्य वा द्वैतस्य लयो नियोगविषयत्वेनेष्ट इति विकल्पार्थः ।
आद्यमनूद्य प्रत्याह -
यदीत्यादिना ।
वस्तुनो ज्ञानादध्वस्तेर्मुसलादिना च कृत्स्नद्वैतनिवृत्त्ययोगान्नभोग्रसननियोगवदयं नियोगः स्यादित्यर्थः ।
किञ्चानादौ संसारे कश्चित्प्रागितो मुक्तो न वा । तत्राद्येऽद्यतनपृथिव्याद्युपलब्धिर्विरुध्येत । द्वितीये शुकादिमुक्तिश्रुतिविरोधः । तस्याश्चार्थवादत्वेऽपि द्वारार्थे तात्पर्याविरोधादित्यनेकजीववादमुपेत्याह -
एकेनेति ।
द्वितीयमुत्थापयति -
अथेति ।
तर्हि द्वैतलये नियोगवैयर्थ्यमित्याह -
तत इति ।
ब्रह्मतत्त्वज्ञापनेनैव तदविद्याकृतद्वैतलयात्तदेव वेदान्तैर्ज्ञापनीयं कृतमत्र नियोगेनेत्यर्थः ।
कथं तदावेदनं तदाह -
एकमिति ।
मा तर्हि द्वैतलये नियोगो भूद्ब्रह्मज्ञाने तु स्यादिति द्वितीयमाशङ्क्याह -
तस्मिन्निति ।
शब्दोक्ते ब्रह्मणि नियोगापेक्षां विना शब्दशक्तेरेव ज्ञानोत्पत्तेर्न तद्विषयोऽपि नियोगोऽस्तीत्यर्थः ।
उत्पन्ने ज्ञाने नान्तरीयकत्वेनाज्ञाननिवृत्तेर्न नियोगस्तत्रापीति तृतीयं प्रत्याह -
तयेति ।
चतुर्थं निरस्यति -
ततश्चेति ।
कारणाविद्यानिवृत्तेरिति यावत् ।
किञ्च ब्रह्मज्ञानादौ नियोगो ब्रह्मण्यज्ञाते ज्ञाते वा । तत्राद्यं दूषयति -
अनावेदिते त्विति ।
द्वितीयमालम्बते -
नन्विति ।
ब्रह्मणि शाब्दे तद्वशादेव नियोगादृते ब्रह्मज्ञानादिसिद्धेर्नियोगवैयर्थ्यमित्याह -
नेत्यादिना ।
तदेव दृष्टान्तेन स्फुटयति -
रज्जिवति ।
ब्रह्मतत्त्वावेदनसिद्धमपि ब्रह्म ज्ञानादिनियोगेन पुनः साध्यमित्याशङ्क्याह -
नचेति ।
करणापर्यवसानादित्यर्थः ।
विषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावादपि वेदान्तेषु तदभावमाह -
नियोज्योऽपीति ।
प्रपञ्चान्तर्भावपक्षं प्रत्याह -
प्रथम इति ।
प्रपञ्चप्रविलयो ब्रह्मज्ञानादेरुपलक्षणम् ।
मुमुक्षोर्नियोज्यत्वमाशङ्क्योक्तम् -
कस्येति ।
ब्रह्मान्तर्भावे नियोज्यत्वं दुर्वचमित्याह -
द्वितीयेऽपीति ।
ब्रह्मणोऽनन्योऽपि जीवोऽविद्ययाऽन्यत्वान्नियोज्यः स्यादित्याशङ्क्य ब्रह्मण्यावेदिते भेदकाविद्यायोगान्नैवमित्याह -
जीवत्वमिति ।
ब्रह्मज्ञाने श्रूयमाणा विधयस्तर्केण कथं निरस्यन्ते, तत्राह -
द्रष्टव्यादीति ।
तेषामभिमुखीकरणार्थत्वं न क्वापि दृष्टमित्याशङ्क्याह -
लोकेऽपीति ।
ज्ञानमेव प्रकृत्यर्थतया श्रुतं किमिति लोके वेदे वा न विधेयमित्याशङ्क्यापुरुषतन्त्रत्वादित्याह -
ज्ञेयेति ।
किञ्च नियोगवादिनाऽपि वेदान्तानां वस्तुवादित्वमवश्यं वाच्यं नियोगमात्रात्तत्त्वज्ञानायोगात् । ततो वाक्यादेव तदुत्पत्तेर्नियोगानर्थक्यमित्याह -
तस्मादिति ।
ज्ञानस्यपुरुषतन्त्रतया विधेयत्वायोगस्तच्छब्दार्थः । तं ज्ञेयाभिमुखं पुरुषं प्रतीति यावत् ।
तथापि नियोगाभावे कथं तत्र धीरित्याशङ्क्याह -
तस्मिन्निति ।
किञ्च मानानपेक्षो विधिर्न सम्यग्ज्ञानं जनयति । नच मुमुक्षोर्मिथ्याज्ञानमुपयुक्तम् । नच प्रमाणबाधिते सम्यग्ज्ञानं जनयितुं शक्यम् । तथाच मानेनैव तत्सिद्धेर्व्यर्थो विधिरित्याह -
नचेति ।
योषिदादिष्वग्न्यादिधीवन्मानविरुद्धेऽपि विधेर्युक्तं ज्ञानमित्याशङ्क्याह -
यदीति ।
अन्यथाज्ञानमपि न मानसी क्रिया रज्जुभुजङ्गादिधीवदित्याशङ्क्याह -
स्वयमिति ।
शास्त्रीययत्नाद्यनपेक्षतया जातज्ञानस्याक्रियात्वेऽपि शास्त्रीयमन्यस्यान्यज्ञानं प्रयत्नादिकृतं मानसी क्रियैवेत्यर्थः ।
कथम्भूतं तर्हि सम्यग्ज्ञानं, तत्राह -
ज्ञानं त्विति ।
तदपि नियोगाधीनं किं न स्यात् , तत्राह -
नेति ।
नेक्षेतेत्यादिनिषेधविषयत्ववद्विधिविषयत्वमपि स्यादित्याशङ्क्याह -
नचेति ।
तत्रापि सङ्कल्पप्रयत्न एव विधीयत इति भावः ।
सम्यग्ज्ञानस्य विधिनिषेधाविषयत्वे हेतुमाह -
नहीति ।
प्रयत्नानधीनत्वे फलितमाह -
अत इति ।
मानवस्तुतन्त्रत्वमपेरर्थः ।
नियोगवादिनं प्रत्यन्यच्च किञ्चिदुच्यते दूषणमित्याह -
किञ्चेति ।
तदेव स्फोरयति -
नियोगेति ।
शास्त्रस्य नियोगनिष्ठत्वे पदार्थयोरैक्योपगमो भ्रान्तिमूलः स्यादित्यर्थः ।
शास्त्रसिद्धत्वादुभयमपि प्रामाणिकमित्याह -
अथेति ।
अनेकार्थतया वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति -
तत इति ।
उपक्रमोपसंहारैकरूप्यादिसिद्धा ब्रह्मपरतापि वेदान्तानां नियोगपरत्वे पीड्येतेत्याह -
नियोगेति ।
किञ्च धियो विधेयत्वे कर्मवदपूर्वावान्तरव्यापारात्फलसिद्धिरेष्टव्या ततश्चादृष्टफलत्वमनित्यत्वं सातिशयत्वं च स्वर्गादिवत्तत्फलस्य स्यादित्याह -
कर्मेति ।
वेदान्तानां नियोगपरत्वाभावे कथं प्रामाण्यं, तत्राह -
तस्मादिति ।
तेषामनियोगनिष्ठत्वे फलितमाह -
अतश्चेति ।
वेदान्तेषु नियोगाभावादेकनियोगविधिरसिद्ध इत्युक्तम् । सम्प्रति प्रौढवादितया नियोगमङ्गीकृत्य तदेकत्वं प्रत्याह -
अभ्युपगम्यमानेऽपीति ।
तत्र हेतुमाह -
नहीति ।
भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् । यथा यजतिददातिजुहोतयस्तथेहापि वेदोपासीतेति शब्दभेदः । अादिशब्देन रूपभेदः प्रकरणभेदः फलभेदश्च गृह्यते । एतैर्भेदे सिद्धे तदेकत्वासिद्धिरित्यर्थः ।
अनुबन्धभेदेऽपि प्रयाजदर्शपूर्णमासेष्विव नियोगैक्यमाशङ्क्याधिकारांशस्य तत्राभेदादिह तदभावान्नैवमित्याह -
प्रयाजेति ।
एकस्यैव स्वर्गकामस्य साङ्गप्रयोगाधिकारवदत्रापि मुमुक्षोरेकस्यैव द्वैतलयादावधिकारादुभयविधिवाक्येषु नियोगैक्यं स्यादित्याशङ्क्याह -
न त्विति ।
भिन्नाधिकारत्वादन्योन्योपकारायोगाच्चेति हेतुमाह -
नहीति ।
तर्हि भारूपत्वादीनां विशिष्टगुणवादित्वमन्येषां तस्मिन्नेव धर्मिणि द्वैतविलापनार्थतेत्येकवाक्यतेत्याशङ्क्याह -
नहि कृत्स्नेति ।
एकवाक्यत्वायोगे फलितमाह -
तस्मादिति ।
अनिर्वाच्यद्वैतालम्बनाः सविशेषश्रुतयः स्वाभाविकाद्वैतालम्बनाश्च निर्विशेषश्रुतय इत्यस्मदुक्तो विभागः । निष्प्रपञ्चमद्वयं चैतन्यैकरसंं ब्रह्मेति तत्पदलक्ष्यमुपसंहर्तुभितीत्युक्तम् ॥ २१ ॥
निषेधश्रुतिभिर्ब्रह्मणि निर्विशेषे निरूपिते तासां ब्रह्मनिषेधत्वमाशङ्क्योक्तम् -
प्रकृतेति ।
ब्रह्म सन्मात्रं तच्च सामान्यत्वाद्विशेषापेक्षं तेन तेषु निषिद्धेषु नास्ति ब्रह्मेति शङ्कायामधिकरणम् । तस्य विषयवाक्यं सोपक्रममाह -
द्वे वावेति ।
वावशब्दोऽवधारणे ।
रूपद्वयमेवावधृतं विशिनष्टि -
मूर्तं चेति ।
किं तन्मूर्तं किञ्च तदमूर्तमित्याकाङ्क्षायामुक्तम् -
पञ्चेति ।
पृथिव्यप्तेजोरूपं भूतत्रयं मूर्तरूपं वाय्वाकाशं चामूर्तरूपमिति द्विराशित्वेन पञ्चभूतानि विभागेनोक्तानीत्यर्थः ।
अमूर्तस्य भूतद्वयस्य रसः सारो हिरण्यगर्भः करणात्मा य एष एतस्मिन्मण्डले पुरुषो यश्चायमध्यात्मं दक्षिणेऽक्षन्पुरुष इत्युक्तस्तस्य वासनाभयानि रूपाणि तद्यथा माहारजनमित्यादिना विचित्राणि दर्शयित्वा रूपिणो ब्रह्मणः स्वरूपोक्त्यर्थमथेत्यादिवाक्यमित्याह -
अमूर्तेति ।
सत्यस्य सत्यमित्यत्र षष्ठ्यन्तसत्यशब्दार्थोक्त्यनन्तरमित्यथशब्दार्थः । प्रथमान्तसत्यशब्दार्थस्य वक्तव्यत्वेनावशेषादित्यातःशब्दार्थः । अवशिष्टार्थस्तु व्यक्तीभविष्यति ।
वाक्योक्तिद्वारा तदर्थनिषेधमधिकरणविषयमुक्त्वा विशेषानुपलम्भकृतं संशयमाह -
तत्रेति ।
जिज्ञासाहेतुमुक्तं व्यनक्ति -
नहीति ।
सामान्येन दृष्टस्यैव विशेषतो दृष्टौ स्थाण्वादौ संशयदृष्टेरत्र तदभावे कथमसौ स्यादित्याशङ्क्याह -
इतिशब्देनेति ।
अस्तु तर्हि तदर्थवत्त्वाय यत्किञ्चिदत्र निषेध्यमित्याशङ्क्योक्तम् -
इतिशब्दश्चेति ।
प्रत्यक्षादिसंनिहितघटाद्यालम्बनस्तर्हि निषेधः स्यादित्याशङ्क्य सजातीयमानार्पितस्य विजातीयमानसिद्धादन्तरङ्गत्वात्तदालम्बनतैव निषेधस्येत्याह -
संनिहितं चेति ।
प्रकृतत्वं विशेषासिद्धिश्चेति हेतुमुक्त्वा संशयं निगमयति -
तत्रेति ।
अन्यतरनिषेधेनापि निषेधसिद्ध्या पक्षान्तरमाह -
अाहोस्विदिति ।
द्वितीयेऽपि ब्रह्मणो वाङ्मनसातीतत्वात्प्रपञ्चस्य चाध्यक्षादिसिद्धत्वात्तस्य व्यावहारिकमानसिद्धत्वेऽपि कल्पितत्वात्तत्कल्पनाधिष्ठानत्वात्तन्निषेधावधित्वाच्च ब्रह्मणः परिशेषार्हत्वादिति पक्षद्वयं दर्शयति -
यदपीति ।
अत्र निषेधार्थोक्त्या तत्पदार्थस्यैव शोधनात्तस्यैव शद्धस्य वाक्यार्थान्वयित्वेन तद्धीहेुतुत्वात्पादादिसङ्गतिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे निषेधस्य शून्यतान्तत्वाद्ब्रह्मणः शून्यस्य प्रत्यक्त्वेन ज्ञानानर्हता । सिद्धान्ते व्यतिरिक्तस्यैव निषेधादप्रपञ्चस्य ब्रह्मणस्तत्वेन ज्ञानयोग्यता सति सम्भवे प्राप्तसर्वनिषेधकल्पनादेकदेशस्यैव तत्कल्पनं युक्तं लाघवात् ।
नेदं रजतमित्यादौ तथादर्शनादित्याशङ्क्य निषेधद्वयशक्त्या प्राप्तसर्वबाधकल्पनं युक्तमन्यत्र निषेधद्वयाभावादेकदेशस्यैव बाधेत्याह -
द्वौ चेति ।
निषेधयोर्द्वयोरपुनरुक्तमर्थमभिनयति -
तयोरिति ।
वस्त्वन्तराभावविशिष्टवस्त्वन्तरज्ञानस्यैव नेदं रजतमित्यादौ निषेधार्थत्वान्न सर्वनिषेधः सम्भवतीत्याशङ्क्याह -
अथवेति ।
तत्र हेतुः -
तद्धीति ।
प्रकृतत्वाविशेषात्प्रपञ्चस्यापि निषेधो ब्रह्मवदित्याशङ्क्याध्यक्षादिविरोधान्मैवमित्याह -
न त्विति ।
ब्रह्ममात्रनिषेधे निषेधद्वयवैयर्थ्यमेकेनैव कृतत्वादित्याशङ्क्याह -
अभ्यासस्त्विति ।
पक्षद्वयमनूद्य सिद्धान्तयति -
एवमिति ।
तत्र प्रथममुत्सूत्रमेव प्रथमं पक्षं प्रत्याह -
नेति ।
प्रसङ्गस्येष्टत्वं निराचष्टे -
किञ्चिद्धीति ।
वास्तवमधिष्ठानं ज्ञात्वारोप्यं निरस्यमित्यत्र दृष्टान्तमाह -
यथेति ।
अस्तु तर्हि शून्यमेव वस्तु तदधिगम्येतरन्निषेध्यं नेत्याह -
तच्चेति ।
निषेधनं तदर्थः । लोकसिद्धपदार्थान्वययोग्यतावशेन वाक्यार्थस्वीकारान्नेत्येव च निषेधादर्शनान्नायमयं नेदमिहेति धर्मिप्रतियोगिघटितस्यैव निषेधस्य दृष्टेर्विशेषणावशेषस्यावश्यकत्वादयुक्ता शून्यतेत्यर्थः ।
किञ्च लोके भ्रमस्य साधिष्ठानत्वोपलम्भात्तात्त्विकाधिष्ठानाभावे प्रत्यक्षादिसिद्धद्वैतस्यैव तात्त्विकत्वापातान्निषेधो निरवकाशः स्यादित्याह -
अपरीति ।
दृष्टसर्वनिषेधे तदेकदेशवस्तुधीरूपापवादाभावादुत्सर्गस्थितिरिति न्यायात्पूर्वदृष्टस्य वस्तुत्वप्रसङ्गादनवधिकनिषेधायोगादवस्तुतया च शून्यभानात्तद्दृष्ट्या पूर्वदृष्टनिषेधासम्भवान्न तत्पर्यन्तो निषेध इति भावः ।
पूर्वपक्षान्तरं प्रत्याह -
नापीति ।
प्राप्तिपूर्वकत्वान्निषेधस्य ब्रह्मणश्चाविद्यया प्रत्यक्षादिभिर्वा द्वैतवदप्राप्तेः शब्देन प्राप्तस्य तेनैव निषेधे पङ्कप्रक्षालनन्यान्न तन्निषेध इति भावः ।
ब्रह्मणो निषेध्यत्वाभावे हेत्वन्तरमाह -
ब्रह्मेति ।
आदिपदेन ब्रह्मविदाप्नोतीत्यादिरुपक्रमो गृह्यते ।
ब्रह्मणः सत्त्वासत्त्वधियोर्गुणदोषोक्तेरपि न तन्निषेध्यमित्याह -
असन्निति ।
ब्रह्मणः सन्मात्रत्वसिद्धेरपि न तन्निषेध्यमित्याह -
अस्तीति ।
किञ्च सर्वेषु वेदान्तेषु साक्षाद्वा परम्परया वा ब्रह्मैव प्रतिपाद्यते तेन तद्विरोधादपि न तन्निषेध्यमित्याह -
सर्वेति ।
यत्तु वाङ्मनसातीतत्वादसम्भावितसद्भावं निषेधार्थं ब्रह्मेति, तत्राह -
वागिति ।
तत्र हेतुः -
नहीति ।
केनाभिप्रायेण तर्हि वाङ्मनसातीतत्वमुक्तं, तत्राह -
प्रतिपादनेति ।
वागाद्यतीतत्वेनासत्त्वे ब्रह्मणोऽवगम्यमाने किमियं प्रतिपादनप्रक्रियेत्याशङ्क्याह -
एतदिति ।
पक्षद्वयायोगे फलितं निषेधार्थं निगमयति -
तस्मादिति ।
उक्तेऽर्थे सूत्रमवतार्य योजयति -
तदेतदित्यादिना ।
ब्रह्मणो रूपद्वयं निषेध्यमित्यत्र हेतुमाह -
तद्धीति ।
प्रकृतत्वमात्रेण निषेधे ब्रह्मणोऽपि निषेधः स्यादविशेषादित्याशङ्क्याह -
प्रपञ्चितं चेति ।
ब्रह्मणः षष्ठ्यन्तपदवाच्यतया प्रपञ्चावच्छेदेनाप्रधानत्वात्प्रपञ्च एव प्रधानतया निषेधेन सम्बध्यत इत्यर्थः ।
पुरुषशब्दश्रवणात्तस्य च ब्रह्मविषयत्वाद्ब्रह्मापि प्रपञ्चितमित्याशङ्क्य पुरुषशब्दस्यात्र लिङ्गात्मविषयत्वान्मैवमित्याह -
तदिति ।
वासनालक्षणमेव रूपं किमित्युपमाभिरुच्यते प्रसिद्धरूपत्वमेव पुरुषस्य कुतो नेष्टमित्याशङ्क्याह -
अमूर्तेति ।
रूपद्वयस्य प्राधान्येन प्रकृतत्वे फलमाह -
तदिति ।
अर्थतो ब्रह्मणोऽपि प्राधान्येन प्रकृतत्वाविशेषान्निषेध्यत्वमित्याशङ्क्याह -
ब्रह्म त्विति ।
अर्थतस्तस्य प्राधान्येऽपि राजपुरुषादाविव शब्दतः प्रधानतया प्रकृतं रूपद्वयमेव प्रकृतपरामर्शिनेतिशब्देनानूद्य निषेध्यमित्यर्थः ।
ब्रह्मणस्तर्हि प्राधान्येनाप्रकृतत्वादुत्तरत्रापि न प्रतिपाद्यतेत्याशङ्क्याह -
प्रपञ्चिते चेति ।
एवमुपक्रमेऽपि कथं वाक्यार्थो निर्णीयतामित्याशङ्क्याध्यारोपापवादन्यायं सूचयति -
तत्रेति ।
निर्घटं भूतलमित्युक्ते घटस्यान्यत्र सत्त्ववद्ब्रह्मणि रूपद्वयनिषेधेऽपि ततोऽन्यत्र तद्भवेदित्याशङ्क्याह -
तदास्पदमिति ।
उपादानादन्यत्र कार्यायोगात्तत्र निषिद्धस्य न क्वापि सत्तेति भावः,
यत्तु प्रत्यक्षादिसिद्धस्य द्वैतस्य न निषेधस्तद्विरोधादिति, तत्राह -
युक्तं चेति ।
तत्त्वावेदनमानासिद्धत्वाद्वाचारम्भणादिशब्दाच्च द्वैतस्य वस्तुसत्त्ववैधुर्याद्युक्ता निषेध्यतेति भावः ।
सत्त्वेन सिद्धं द्वैतं निषिध्यते चेद्ब्रह्मणोऽपि तथा सिद्ध्यविशेषान्निषेधतादवस्थ्यमित्याशङ्क्याह -
न त्विति ।
आरोपाधिष्ठानत्वेन निषेधावधित्वेन चावशेषान्न ब्रह्मणो निषेध्यतेत्यर्थः ।
द्वे वावेत्यादिनोक्तं रूपद्वयं निषिध्यते चेत्पङ्कप्रक्षालनन्यायात्प्रसज्यप्रतिषेधे गौरवं स्यादित्याशङ्क्याह -
नचेति ।
अत्रेति रूपद्वयनिषेधपक्षोक्तिः । शङ्का न कार्येत्यत्र हेतुमाह -
यत इति ।
अप्रतिपाद्यं चेदनुवाद्यत्वं नच प्राप्तिफले विनाऽनुवादः, तत्राह -
लोकेति ।
तथापि कथं पङ्कप्रक्षालनन्यायो न स्यादित्याशङ्क्य निषेधस्य फलवत्त्वादित्याह -
शुद्धेति ।
उक्तरीत्या निषेधस्य निर्दोषत्वमुक्तं निगमयति -
इति निरवद्यमिति ।
द्वौ निषेधौ तयोरवैयर्थ्यार्थं सर्वं निषेध्यमित्युक्तं प्रत्याह -
द्वौ चेति ।
सम्भावितं पक्षान्तरमाह -
यद्वेति ।
भावाभावविषयत्वेन वा निषेधद्वयं विवक्षितम् ।
पक्षान्तरमाह -
अथवेति ।
वीप्सापक्षे वाक्यार्थमाह -
इतीति ।
यावदिति पक्षान्तरेभ्यो विशेषार्थम् ।
तेषु निराकाङ्क्षो वाक्यार्थो न सिध्यतीत्याह -
परीति ।
वीप्सापक्षे निराकाङ्क्षा वाक्यार्थधीरिति विशेषमाह -
वीप्सायां त्विति ।
सूत्रावयवव्याख्यामुपसंहरति -
तस्मादिति ।
अवयवान्तरमादाय व्याकरोति -
इतश्चेति ।
कथं तावता निषेधस्य नाभावावसानत्वं, तत्राह -
अभावेति ।
नेति नेतीति निषेधात्परमस्तीति प्रतिपादकं किमित्यपेक्षायामादेशनिर्वचनवाक्यमेवेत्यक्षरयोजनया दर्शयति -
तत्रेति ।
निर्वचनप्रकारमेवाकाङ्क्षापूर्वकमाह -
नेत्याविना ।
हि यस्मान्नेति नेत्यादिष्टादेतस्माद्ब्रह्मणोऽन्यद्व्यतिरिक्तं नास्ति ब्रह्मैव परमस्ति तस्मान्नेति नेत्युच्यते न तु सर्वाभावधियेति निर्वचनस्यार्थः ।
एवंप्रकारमेतन्निर्वचनमनिषिद्धं ब्रह्म वदतीत्याह -
तच्चेति ।
निर्वचनमेवानिषिद्धं ब्रह्माहेति श्रुतियोजनयोक्तम् । इदानीं नामधेयमेव निषेधावशिष्टं ब्रह्माहेति विधान्तरेण श्रुतियोजनया दर्शयति -
यदेति ।
किं तन्नामधेयं तदाह -
अथेति ।
प्रकृतनिषेधस्याभावान्तत्वनिषेधार्थोऽथशब्दः ।
ननु नामधेयं निषेधस्याभावान्तत्वेऽपि तद्विषयं घटिष्यते । नेत्याह -
तच्चेति ।
द्वेधा सूत्रावयवव्याख्यामुपसंहरति -
तस्मादिति ॥ २२ ॥
अनिषेध्यत्वेन वस्तुसत्यं ब्रह्मोक्त्वा तस्याग्राह्यत्वेनासत्त्वमाशङ्क्य प्रत्याह -
तदव्यक्तमिति ।
सूत्रव्यावर्त्यमाह -
यत्तदिति ।
आत्मनि गृह्यमाणे तदभिन्नब्रह्मापि ग्राह्यमिति वापाद्यते भावत्वे घटवत्प्रत्यक्षग्राह्यता तस्या स्यादिति वा । नाद्यः । प्रत्यगभिन्नत्वेऽप्यविद्यावृतत्वात्तद्ग्रहेऽपि तदग्रहसिद्धेरित्याह -
उच्यत इति ।
न द्वितीय इत्याह -
तदिति ।
कथमिन्द्रियाग्राह्यत्वं ब्रह्मणः सिद्धं, तत्राह -
आह हीति ।
अन्यैर्देवैरिन्द्रियान्तरैरिति यावत् ।
श्रुत्युक्तिपरत्वेन सूत्रावयवं व्याख्याय विधान्तरेण व्याचष्टे -
स्मृतिरिति ॥ २३ ॥
आत्मैव ब्रह्माविद्यावृतं चेन्न कदाचिदपि गृह्येतेत्याशङ्क्याह -
अपीति ।
सूत्रं व्याकरोति -
अपिचेति ।
नास्य सदा ग्राह्यत्वमग्राह्यत्वं वा समाध्यवस्थायां प्रत्यक्त्वेन भानादित्यर्थः । भक्तिध्यानाभ्यां प्रकर्षेण स्वीये मनसि प्रतीचो निधानं भक्तिध्यानप्रणिधानम् । आदिपदेन तत्पूर्वकजपनमस्कारादिग्रहणम् ।
तत्र प्रश्नपूर्वकं प्रमाणमाह -
कथमिति ।
स्वयम्भूः स्रष्टा परमात्मा खानि छिद्रोपलक्षितानीन्द्रियाणि पराञ्च्यनात्मविषयाणि व्यतृणद्धिंसितवान् ।
सा हि तेषां हिंसा यदसदर्थविषयतया समर्पणमित्याह -
पराञ्चीति ।
तेषां तथासृष्टत्वे गमकमाह -
तस्मादिति ।
यदि पराञ्चमेवार्थमिन्द्रियैः पश्यति नान्तरात्मानं कथं तर्हि लोकस्य तत्र ज्ञानमित्याशङ्क्य साधनचतुष्टयवतः समाधिकाले शुद्धे मनसि प्रत्यक्त्वेन तद्दृष्टिरित्याह -
कश्चिदिति ।
ततो नित्याद्यनुष्ठानात्परिशुद्धबुद्धिर्ज्ञानस्य करणव्युत्पत्त्याऽन्तःकरणस्य प्रसादो नैर्मल्यं तेन निरवयवं निष्प्रपञ्चं प्रत्यञ्चं ध्यायन्नविषयत्वेन तत्साक्षात्करोतीत्याह -
ज्ञानेति ।
विगता निद्रा येभ्यस्ते तथेति स्वापाद्विवेकः । जितः श्वासो यैरिति प्राणायामनिष्ठतोक्तिः । सन्तुष्टा इति मनोव्याकुलताव्यावृत्त्या स्वप्नाद्विवेकः । संयतानीन्द्रियाणि येषामिति जागरिताद्भेदः । एतानि विशेषणानि यमनियमादिसर्वाङ्गोपसङ्ग्रहार्थानि योगात्मत्वं तज्जधीगम्यत्वम् ॥ २४ ॥
सूत्रान्तरव्यावर्त्यमाह -
नन्विति ।
व्यावर्तकं सूत्रमवतारयति -
नेतीति ।
प्रकाशादिवच्चेति भागं विभजते -
यथेति ।
यद्यपि दृष्टान्तादात्मा प्रकाशशब्दितोऽज्ञानतत्कार्ये कर्मण्युपाधौ सविशेषस्तथापि वस्तुतस्तस्यावैशेष्यमैकरस्यमेवेति दार्ष्टान्तिकमाह -
एवमिति ।
अभ्यासादिति व्याचष्टे -
तथाहीति ॥ २५ ॥
जीवस्य ब्रह्मात्मत्वाप्तिश्रुतिवशादपि वास्तवमैक्यमौपाधिकं नानात्वमित्याह -
अत इति ।
अतोऽनन्तेनेति व्याचष्टे -
अतश्चेति ।
अभेदस्य स्वाभाविकत्वे सूत्रावयवं व्याकुर्वाणो हेतुमाह -
तथाहीति ।
आदिपदेन ब्रह्मविदाप्रोति परमित्यादि ग्राह्यम् ॥ २६ ॥
जीवब्रह्मणोरात्यन्तिकमैक्यमुक्त्वा भेदाभेदवादमुत्थापयति -
उभयेति ।
सूत्रद्वयस्य सङ्गतिमाह -
तस्मिन्निति ।
तदुपन्यासफलमाह -
स्वमतेति ।
अस्तु तर्हि भेदव्यपदेशात्तयोर्भिन्नत्वमेव, तत्राह -
क्वचिदिति ।
अन्यतरव्यपदेशात्तदन्यस्य त्याज्यतामाशङ्क्याह -
तत्रेति ।
भेदो नियतो गृह्यते चेदभेदोक्तिरनालम्बना स्यादिति द्रष्टव्यम् ।
अन्यतरोक्तेरपि निरालम्बनत्वायोगे फलितमाह -
अत इति ।
अत्रेति ब्रह्मात्मोक्तिः ।
अहिकुण्डलवदित्युक्तं विवृणोति -
यथेति ॥ २७ ॥
अहिकुण्डलन्यायेन परस्य जीवः संस्थानभूतो दर्शितः । सम्प्रति तदेकदेशभूत इति विधान्तरमाह -
प्रकाशेति ।
तद्व्याकरोति -
अथवेति ।
ब्रह्मात्मतत्त्वमेतदित्युक्तम् । दृष्टान्तं व्याचष्टे -
यथेति ।
अभेद एव तर्हि तयोर्नेत्याह -
अथ चेति ।
इहापीति पूर्ववद्ब्रह्मात्मोक्तिः परमतमुपसंहर्तुमितिशब्दः ॥ २८ ॥
स्वसिद्धान्तमाह -
पूर्ववद्वेति ।
तत्प्रपञ्चयति -
यथेति ।
तर्हि भेदस्यैव प्रतिपाद्यता । मैवम् । प्रसिद्धानुवादेनाप्रसिद्धस्य तद्भावादित्याह -
अभेदमिति ।
परमतायोगे स्वमतमुपसंहरति -
तस्मादिति ॥ २९ ॥
स्वमतसम्भवे हेत्वन्तरमाह -
प्रतिषेधाच्चेति ।
चकारार्थमाह -
इतश्चेति ।
इतःशब्दार्थं विवृण्वन्नादौ चेतनभेदनिषेधमुदाहरति -
यदिति ।
अचेतनभेदनिषेधं दर्शयति -
अथेति ।
उक्तनिषेधद्वयात्मकशास्त्रतात्पर्यं सङ्गृह्णाति -
ब्रह्मेति ।
तदेवं निषेधवाक्यार्थालोचनया निष्प्रपञ्चं ब्रह्म वाक्यार्थान्वययोग्यं तत्पदलक्ष्यमिति ॥ ३० ॥
नेति नेतीति ब्रह्मातिरिक्तं सर्वं निषेध्यमित्युक्तं तदयुक्तं सेत्वादिव्यपदेशेभ्यो वस्त्वन्तरसत्त्वावगमात् । द्युभ्वाद्यधिकरणे सेतुव्यपदेशस्य प्रतिनीतत्वेऽपि भेदादिव्यपदेशानां गतिमजानन्नाशङ्कते -
परमिति ।
विषयोक्तिपूर्वकं सबीजं संशयमाह -
यदिति ।
सर्वश्रुतिविप्रतिपत्तिनिरासेनाद्वयं ब्रह्मैव वस्तु नान्यदिति स्थिते कथमयमारम्भः स्यादित्याशङ्क्याह -
कानिचिदिति ।
मन्दाशङ्कानिरासाय तत्पदलक्ष्यस्याद्वयत्वप्रपञ्चार्थोऽयमारम्भस्ततोऽस्य पादादिसङ्गतिसौलभ्यम् । पूर्वपक्षे सद्वितीयत्वाद्ब्रह्मणो द्वितीयनिषेधासिद्धिः । सिद्धान्ते तस्याद्वयत्वाद्द्वैतनिषेधोपपत्तिः ।
अन्यस्य निषेधाद्ब्रह्मणश्च श्रुतत्वात्तदस्ति चेद्ब्रह्मातिरिक्तस्यापि श्रुत्योक्तत्वादस्तितेति मत्वा पूर्वपक्षसूत्रं योजयति -
परमित्यादिना ।
इतिशब्दोऽक्षरयोजनासमाप्त्यर्थः । तत्राद्यं विवृणोति -
सेत्विति ।
ब्रह्मणः सेतुत्वेऽपि कथं सद्वितीयत्वमित्याशङ्क्य व्याप्तिमाह -
सेतुशब्दश्चेति ।
ब्रह्म सद्वितीयं सेतुत्वाल्लौकिकसेतुवदिति मत्वाह -
इह चेति ।
इतश्च ब्रह्मसेतोः सद्वितीयत्वमित्याह -
सेतुमिति ।
कथमेतावता वस्त्वन्तरास्तित्वं, तत्राह -
यथेति ।
जाङ्गलं वातभूयिष्ठमित्युक्तत्वाद्वातबहुलो देशो जाङ्गलम् । इह तु न्यायसाम्येन स्थलमात्रमुक्तम् ।
द्वितीयं हेतुं व्याकरोति -
उन्मानेति ।
प्राची प्रतीची दक्षिणोदीचीति चतस्रः कलाः प्रकाशवान्पादः । पृथिव्यन्तरिक्षं द्यौः समुद्र इत्युनन्तवान्पादः । अग्निः सूर्यश्चन्द्रमा विद्युदिति ज्योतिष्मान्पादः । चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्पादः । एते पादाश्चत्वारोऽस्येति चतुष्पाद्ब्रह्म पादानामर्धान्यष्टौ शफान्यस्येत्यष्टाशफं चतस्रश्चतस्रः कला एकैकस्य पादस्येति षोडशकलं षोडशावयवमित्यर्थः ।
एवमुन्मानेऽपि कथं वस्त्वन्तरास्तित्वं, तत्राह -
यच्चेति ।
कार्षापणशब्देन षोडशपणानां संज्ञोक्ता ।
ब्रह्म सद्वितीयमुन्मितत्वात्संंमतवदित्याह -
तथेति ।
तृतीयं हेतुं व्याचष्टे -
तथेति ।
तथापि कथं सद्वितीयत्वमित्याशङ्क्य व्याप्तिमाह -
मितानां चेति ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवानां चेति ।
विमतं सद्वितीयं, सम्बन्धवत्त्वात् , नगरवदित्याह -
अत इति ।
चतुर्थं हेतुं विवृणोति -
भेदेति ।
तत्राधारतो भेदव्यपदेशमुदाहरति -
तथाहीति ।
अतिदेशतस्तं दर्शयति -
अतिदेशं चेति ।
अस्येत्यक्षिस्थस्य पुरुषस्येत्यर्थः । अमुनेत्यादित्यमण्डलस्थेन पुरुषेण सहेति यावत् ।
अवधितोऽपि भेदोक्तिं साधयति -
सावधिकं चेति ।
एकस्येत्याधिदैविकस्य पुरुषस्येति यावत् । पुनरेकस्येत्याध्यात्मिकस्य पुरुषस्येत्यर्थः ।
ऐश्वर्यस्य सावधिकत्वे दृष्टान्तमाह -
यथेति ।
विमतं सद्वितीयं, भेदव्यपदेशभाक्त्वात् , घटवदित्यर्थः ॥ ३१ ॥
पूर्वपक्षमुपसंहरति -
एवमिति ।
ब्रह्मणः सद्वितीयत्वे ततोऽन्यस्य निषेध्यत्वोक्तिरयुक्तेति वक्तुमितीत्युक्तम् । पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं व्याचष्टे -
तुशब्देनेति ।
निरोधप्रकारमभिनयति -
नेति ।
तत्किं सादि किंवानादि । प्रथमं प्रत्याह -
प्रमाणेति ।
तदेव स्फुटयति -
नहीति ।
अभेदेऽपि मानादृष्टिस्तुल्येत्याशङ्क्य जन्मादिसूत्रमारभ्य तत्र तत्र सिद्धमर्थं स्मारयति -
सर्वस्येति ।
आरम्भणाधिकरणसिद्धमर्थं कथयति -
अनन्यत्वं चेति ।
द्वितीयं निराह -
नचेति ।
ब्रह्मातिरिक्तवस्त्वभावे श्रुतिवत्तदर्थापत्तिमाह -
एकेति ।
ब्रह्मणः सद्वितीयत्वे मानान्युक्तानीति शङ्कते -
नन्विति ।
तत्र सेतुव्यपदेशस्य द्वितीयवस्तुसाधकत्वं नास्तीत्याह -
नेतीति ।
स हि श्रुतितोऽर्थतो वा वस्त्वन्तरं साधयति, तत्राद्यं दूषयति -
सेत्विति ।
द्वितीयं शङ्कते -
तत्रेति ।
श्रौतार्थविरोधादार्थिकार्थो न युक्तो लिङ्गस्य श्रुतितो दुर्बलत्वादित्याह -
नचेति ।
इतश्च तस्य न वस्त्वन्तरसाधकत्वमित्याह -
अपिचेति ।
विवक्षितं सेतुसाम्यमुपेक्ष्य तद्व्याप्तमर्थान्तरं कल्पयतोऽतिप्रसक्तिः स्यादिति हेत्वन्तरमेव स्फुटयति -
सेत्विति ।
यावति स्वीकृते श्रुतिर्न विरुध्यते तावदेव स्वीकर्तव्यं तस्या निर्दोषत्वेन बलवत्तरत्वादित्याह -
नचेति ।
सेतुशब्दस्य तर्हि का गतिरित्याशङ्क्य सूत्रयोजनया दर्शयति -
सेतुसामान्यादिति ।
किं तत्प्रसिद्धेन सेतुना सामान्यमात्मनि सेतुशब्दप्रयोगे निमित्तं तदाह -
जगत इति ।
तस्य जगतो मर्यादास्तत्तन्नियतार्थक्रियासु व्यवस्थितत्वलक्षणास्तासां तदाश्रयस्य जगतश्चान्तर्यामितया यदात्मनो विधारकत्वं तत्तस्य सेतुसामान्यमित्यर्थः ।
तेनात्मनि सेतुशब्दप्रयोगे सति किं सिध्यति तदाह -
अत इति ।
यत्तु तरतिशब्दादात्मसेतोः सद्वितीयत्वं, तत्राह -
सेतुमिति ।
स्वस्यैव स्वातिक्रमायोगात्प्राप्नोत्यर्थस्तरतिरित्ययुक्तं प्राप्नोतेरपि स्वात्मन्ययोगात् ।
ब्रह्मविदाप्नोतीतिवदुपपत्तावपि नात्र तरतिस्तदर्थो वृद्धप्रयोगानुपलब्धेरित्याशङ्क्याह -
यथेति ॥ ३२ ॥
सेतुव्यपदेशवद्द्वितीयं हेतुं निरस्यति -
बुद्ध्यर्थ इति ।
व्यावर्त्यमनूद्य व्यावर्तकं सूत्रमादाय विभजते -
यदपीति ।
उन्मानव्यपदेशोऽपीत्यपिना सेतुव्यपदेशो दृष्टान्त्यते ।
उपासनार्थत्वमुन्मानव्यपदेशस्य विशदयति -
चतुष्पादिति ।
शुद्धं ब्रह्म हित्वा सोपाधिके किमिति तत्र बुद्धिः स्थिरीक्रियते, तत्राह -
नहीति ।
उत्तमबुद्धीनां झटित्यनौपाधिके ब्रह्मणि बुद्धिप्रवेशेऽपीतरेषां तदभावात्तेषामपि सङ्ग्रहार्थ सोपाधिके ब्रह्मणि स्थिरीक्रियते बुद्धिरिति फलितं वक्तुमितीत्युक्तम् । सूत्रभागमादाय वैदिकोदाहरणत्वेन व्याकरोति -
पादवदित्यादिना ।
वागादय इत्यादिशब्देन प्राणचक्षुःश्रोत्रमिति गृहीतम् । अग्न्यादय इत्यादिशब्देन वायुरादित्यो दिश इति त्रयमुक्तम् ।
इदानीं तमेव सूत्रावयवं लौकिकत्वेन योजयति -
अथवेति ।
पादविभागं विनापि व्यवहारबाहुल्यं स्यादित्याशङ्क्याह -
नहीति ।
उक्तदृष्टान्तेन मन्दमध्यमधियां ध्यानव्यवहाराय ब्रह्मण्युन्मानकल्पनेति दार्ष्टान्तिकमाह -
तद्वदिति ॥ ३३ ॥
अवशिष्टं हेतुद्वयं निराचष्टे -
स्थानेति ।
सूत्रतात्पर्यमाह -
इहेति ।
तमेव परिहारमुक्त्वानुवादद्वारा स्फोरयति -
यदपीति ।
तत्र सूत्रावयवं हेतुत्वेन योजयति -
यत इति ।
स्थानविशेषो बुद्धिः । आदित्यश्चक्षुरित्यादिः ।
द्वयोरपि परिहारं सङ्क्षिप्य विभज्य दर्शयन्नादौ सम्बन्धव्यपदेशं प्रत्याह -
सम्बन्धेति ।
भेदव्यपदेशेऽपि स्थानविशेषादिति पदं योजयति -
तथेति ।
व्यपदेशयोरौपाधिकत्वे प्रकाशदृष्टान्तं व्याचष्टे -
प्रकाशेत्यादिना ।
आदिशब्देनोक्तमुदाहरणान्तरमाह -
यथा वेति ।
एवमेकस्मिन्नपि ब्रह्मण्युपाध्यपेक्षावेतौ व्यपदेशावित्याह -
तद्वदिति ॥ ३४ ॥
मुख्ये व्यपदेशद्वये सम्भवति कुतस्तदौपचारिकमुच्यते, तत्राह -
उपपत्तेश्चेति ।
तत्र सम्बन्धव्यपदेशे सूत्रं योजयति -
उपपद्यते चेति ।
अत्रेति ब्रह्मात्मनोरुक्तिः ।
अौपचारिकस्यैव सम्बन्धस्योपपत्तिमुपपादयति -
स्वमिति ।
मुख्यसम्बन्धासम्भवं साधयति -
स्वरूपस्येति ।
सम्बन्धस्य द्विनिष्ठत्वादेकस्मिन्नयोगमाशङ्क्याह -
उपाधीति ।
इदानीमौपचारिकं भेदमादाय सूत्रं योजयति -
तथेति ।
श्रौतव्यपदेशस्य मुख्यत्वमेव न त्वौपचारिकत्वमन्यत्रादृष्टेरित्याशङ्क्याह -
तथाचेति ॥ ३५ ॥
स्वपक्षे हेत्वन्तरमाह -
तथेति ।
सूत्रतात्पर्यमाह -
एवमिति ।
ब्रह्मणोऽद्वितीयत्वं स्वपक्षः ।
हेत्वन्तरमेव सूत्रयोजनया विशदयति -
तथेति ।
यथा सेत्वादिव्यपदेशनिरासेभ्यो न वस्त्वन्तरधीस्तथेति यावत् ।
अन्यप्रतिषेधमुदाहरति -
तथाहीति ।
तस्य ताटस्थ्यं व्यासेधति -
अहमेवेति ।
अहङ्कारस्य सर्वात्मत्वप्राप्तिं प्रत्याह -
आत्मैवेति ।
निन्दानुपपत्त्या भेदनिषेधं दर्शयति -
सर्वमिति ।
बाधायां सामानाधिकरण्यादपि तत्सिद्धिरित्याह -
ब्रह्मैवेति ।
आर्थिकीं निषेधधियमुक्त्वा साक्षादेव तत्प्रतीतिमाह -
नेहेति ।
यस्मात्परमित्यत्र तेनेदं पूर्णं पुरुषेणेत्युत्तरेण सम्बन्धः ।
सेत्वादिव्यपदेशेभ्यो दर्शितवाक्यानां विशेषमाह -
स्वप्रकरणेति ।
ब्रह्मणोऽद्वयत्वे हेत्वन्तरमाह -
सर्वान्तरेति ॥ ३६ ॥
ब्रह्मणोऽद्वयत्वेऽपि सर्वगतत्वं सर्वात्मत्वं च कथं, तत्राह -
अनेनेति ।
सूत्रं व्याकरोति -
अनेनेत्यादिना ।
सेत्वादिव्यपदेशानामनिरासे परप्रतिषेधानाश्रयणे च सर्वगतत्वमाकाशस्येव ब्रह्मणः स्यादित्याशङ्क्याह -
अन्यथेति ।
तत्र सेत्वादिव्यपदेशानिरासे सर्वगतत्वासिद्धिं स्फुटयति -
सेत्वादीति ।
परनिषेधानाश्रयणेऽपि तदसिद्धि साधयति -
तथेति ।
परिच्छेदप्रसक्तिरिष्टैवेत्याशङ्क्यावशिष्टं व्याचष्टे -
सर्वेति ।
आदिशब्दः सूत्रे स्मृतिन्यायापेक्षया प्रयुक्तः । तत्र श्रुत्या सह स्मृतिरुक्ता । न्यायस्तु परिच्छिन्नत्वे सत्यनित्यत्वादिलक्षणो यावद्विकारः सूत्रोक्तः । नच सर्वमूर्तसंयोगित्वं सर्वगतत्वं सत्त्वे द्वैतस्य स्यादिति युक्तम् । तत्कल्पनाधिष्ठानतया ब्रह्मणः सर्वगतत्वोपगमादतोऽद्वितीयमनवच्छिन्नं ब्रह्मेति ॥ ३७ ॥
ब्रह्मातिरिक्तेऽर्थे निषिद्धे ब्रह्मणो निर्विशेषत्वान्न फलदातृत्वमित्याशङ्क्य व्यवहारतस्तदुपपादयितुमुपक्रमते -
फलमिति ।
पूर्वाधिकरणयोस्तत्पदलक्ष्यं ब्रह्मोक्तमिदानीं तत्पदवाच्यमीश्वरं दर्शयतीत्यधिकरणस्य तात्पर्यमाह -
तस्यैवेति ।
कुतो निर्विशेषत्वेनोक्तस्य फलहेतुतेत्याशङ्क्याह -
व्यावहारिक्यामिति ।
निर्विशेषसत्याद्वितीयपूर्णस्वभावादन्यत्वं फलेहेतुत्वाख्यं स्वभावः ।
तात्पर्यमुक्त्वा विचारविषयमाह -
यदिति ।
इष्टं देवत्वादि । अनिष्टं तिर्यक्त्वादि । व्यामिश्रं मनुष्यत्वम् ।
कर्मफलत्वं साधयितुं संसारावस्थागतत्वमाह -
संसारेति ।
त्रिविधकर्मफले लोकानुभवं प्रमाणयति -
प्रसिद्धमिति ।
उभयोरपि फलहेतुत्वश्रुतेरुक्ते विषये संशयमाह -
किमिति ।
सर्वगतत्वेन फलदातृत्वस्य सत्यपि समानन्यायत्वे कर्मपक्षं निराकरिष्यन्नादौ सिद्धान्तमुपक्रमते -
तत्रेति ।
वाच्यार्थोक्तेर्लक्ष्यार्थोक्तिविशेषत्वात्तस्य च वाक्यार्थधीहेतुत्वादस्य पादादिसङ्गतयः । पूर्वपक्षे कर्मण एव फलदानसामर्थ्यादीश्वरस्याकिञ्चित्करत्वम् । सिद्धान्ते स्वतन्त्रस्य कर्मणोऽसामर्थ्यात्तद्द्वारा परस्यैवतद्भावात्तस्यार्थवत्त्वम् ।
कटवेष्टनसंस्कारादिवत्पुण्यादिसंस्कारात्फलोत्पत्तौ न प्रदात्रपेक्षेति शङ्कते -
कुत इति ।
तत्र सौत्रं हेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
देशकालविशेषाभिज्ञत्वे योग्यत्वमाह -
सर्वेति ।
कर्मानुरूपफलदातृत्वे हेतुमाह -
सृष्टीति ।
विमतं विशिष्टज्ञानवद्दातृकं, कर्मफलत्वात् , सेवादिकर्मफलवदित्यर्थः ।
कर्मपक्षे क्रियातो वा तज्जन्यापूर्वाद्वा फलमाद्यं दूषयति -
कर्मणस्त्विति ।
क्रियारूपं कर्म क्षणिकं तच्च नष्टं वा फलमुत्पादयेदुत्पाद्य वा फलं नश्येत् ।
नाद्य इत्याह -
अभावादिति ।
द्वितीयं शङ्कते -
स्यादिति ।
तदैव तर्हि भोगः स्यादित्याशङ्क्य कर्मान्तरप्रतिबन्धात्तदा भोक्तुमयोग्यत्वाद्वा नैवमित्याह -
तदिति ।
स्वर्गादिभोगस्यैवार्थ्यमानत्वेन फलत्वादभुज्यमानमपि फलं स्वरूपेणास्तीत्ययुक्तमित्याह -
तदपीति ।
किञ्च स्वर्गनरकयोरतितीव्रसुखदुःखत्वादननुभूयमानयोरसिद्धेः स्वरूपेण फलसत्त्वोक्तिरयुक्तेत्याह -
यदिति ।
प्रसिद्धत्वमेव व्यतिरेकद्वारा स्फोरयति -
नहीति ।
कल्पान्तरमुत्थापयति -
अथेति ।
तस्य स्वतन्त्रस्य वा चेतनाधिष्ठितस्य वा फलदातृत्वं नाद्य इत्याह -
तदपीति ।
न द्वितीयस्तस्यैवाप्रामाणिकत्वादित्याह -
तदस्तित्वे चेति ।
आशुतरविनाशिनो यागस्य कालान्तरभाविफलहेतुत्वं, श्रुतं स्थायिवस्त्वतिरेकेणानुपपन्नमपूर्वं कल्पयतीत्यर्थापत्तिरत्र मानमिति शङ्कते -
अर्थापत्तिरिति ।
कर्मभिराराधितादीश्वरादेव स्थायिनो यथोक्तफलसिद्धेर्मैवमित्याह -
नेश्वरेति ॥ ३८ ॥
श्रुतिविरुद्धत्वाच्च न फलहेतुत्वेन नियोगकल्पनेत्याह -
श्रुतत्वाच्चेति ।
सूत्रं व्याचष्टे -
न केवलमिति ।
कर्मफलत्वादिलक्षण पूर्वोक्तोपपत्तिः ।
तामेव श्रुतिमुदाहरति -
तथाचेति ।
निरूपाधिकं रूपमुक्त्वा सोपाधिकमाह -
अन्नाद इति ।
अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः । वसु धनमर्थिभ्यो ददातीति वसुदानः । तदुभयमन्नं वसु च कर्मफलम् ॥ ३९ ॥
सम्प्रति पूर्वपक्षयति -
धर्ममिति ।
सूत्रं विभजते -
जैमिनिस्त्विति ।
श्रुतेरित्युक्तं व्यनक्ति -
श्रूयत इति ।
कथमेतावता फलहेतुत्वं कर्मणः सिद्धं, तत्राह -
तत्र चेति ।
विधिश्रुतिर्विध्यर्थस्तस्य लिङाद्यर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गस्य साधनमिति गम्यते पुरुषाभिलषितस्वर्गसाधनत्वाभावे यागस्य तत्र प्रेरणायोगादित्यर्थः ।
पुरुषप्रवृत्तेरर्थभावनाया भाव्याकाङ्क्षत्वादेकपदोपात्ततया यागस्य संनिहितत्वाद्भाव्यत्वेन सम्बन्धो न विषयत्वेनेत्याशङ्क्याह -
अन्यथेति ।
योग्यतायाः संनिधेः सकाशादन्तरङ्गत्वाद्यागस्य च क्लेशात्मकत्वेन फलार्थं प्रवृत्तभावनाभाव्यत्वायोगात्पुरुषविशेषणत्वेन श्रुतस्वर्गादेरेव भावनोद्देश्यरूपभाव्यत्वसिद्धेरपुरुषार्थे पुरुषस्याप्रवृत्तेः स्वर्गादेरेव भाव्यत्वं यागस्य तु करणतया साध्यतेत्यर्थः ।
कर्म न कालान्तरीयफलदं क्षणिकत्वादित्युक्तं स्मारयति -
नन्विति ।
श्रुत्यवष्टम्भेन निराचष्टे -
नेति ।
तदेव व्यनक्ति -
श्रुतिश्चेदिति ।
उपपत्तिमेव व्यतिरेकद्वारा दर्शयति -
नचेति ।
कर्मावान्तरव्यापारत्वमुपेत्य कर्मणो वेत्युक्तम् । फलोत्पत्त्यन्यथानुपपत्त्या कल्प्यमानत्वं गृहीत्वा फलस्य वेत्युक्तम् । उपपत्तेश्चेति द्वितीयहेतुं विवृणोति -
उपपद्यते चेति ।
तत्र विधिश्रुतेरित्यादिरुक्तः प्रकारः । श्रुत्युपपत्तिभ्यां स्वपक्षमुक्त्वा सिद्धान्तं प्रत्याह -
ईश्वरस्त्विति ।
एकरूपात्कारणान्नानेकरूपं कार्यं कार्यान्तराणामाकस्मिकत्वापातादित्यर्थः ।
शुभाशुभफलदातृत्वे रागद्वेषादिमत्त्वापत्तेश्च नेश्वरात्फलमित्याह -
वैषम्येति ।
ईश्वरस्य फलदातृत्वे कर्मानुष्ठानवैयर्थ्यं दोषान्तरमाह -
तदिति ।
उक्तदोषनिवृत्त्यर्थमपूर्वादेव फलं नेश्वरादित्युक्तमुपसंहरति -
तस्मादिति ॥ ४० ॥
ईश्वरात्फलमिति सिद्धान्तयति -
पूर्वं त्विति ।
उत्तरपक्षप्रतिज्ञां विभजते -
बादरायणस्त्विति ।
परपक्षनिषेधप्रतिज्ञां प्रकटयति -
केवलादिति ।
ईश्वरानपेक्षादिति यावत् ।
कथमीश्वरस्यापि केवलस्य फलहेतुत्वं, तत्राह -
कर्मेति ।
यथा परपक्षे कर्मापेक्षादपूर्वापेक्षाद्वा कर्मणो युक्तं फलमित्युपगतं तथा तदन्यतरापेक्षादीश्वरादेव फलमस्तु । तथाच न वैषम्यादीत्यर्थः ।
तत्र प्रश्नपूर्वकं प्रमाणमाह -
कुत इति ।
अपूर्वस्याचेतनस्य केवलस्याप्रवृत्तेस्तस्यैव फलदातृत्वकल्पनायां दृष्टविरोधाद्देवतापूजात्मकत्वाच्च यागस्य पूज्यमानदेवताप्रसादद्वारा फलवत्त्वादुक्तश्रुतार्थापत्तेरीश्वरेणोपक्षयादपूर्वमप्रमाणमिति मत्वा हेतुं व्याचष्टे -
धर्मेति ।
श्रौतं हेतुव्यपदेशमुक्त्वा स्मार्तं कथयति -
स्मर्यते चेति ।
तस्य तत्तद्देवतास्वभावस्य ममेति यावत् । ततस्तस्मादाराधितादनुष्ठितादित्यर्थः ।
हेतुव्यपदेशादित्यस्यार्थान्तरमाह -
सर्वेति ।
ईश्वरस्य सृष्ट्यादिहेतुत्वेऽपि कथं फलहेतुत्वं, तत्राह -
तदेवेति ।
यच्च विचित्रस्य कारणस्येत्यादि, तत्राह -
विचित्रेति ॥ ४१ ॥
तात्त्विकमतात्त्विकं च ब्रह्मणो रूपमुक्त्वा तद्धियां प्रतिवेदान्तं प्रतीतानां नामाद्यभेदादभेदमाह -
सर्ववेदान्तेति ।
पूर्वोत्तरपादयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -
व्याख्यातमिति ।
ज्ञेये ब्रह्मण्युक्ते तज्ज्ञानं किंरूपमित्यपेक्षायां तद्विचारायोत्तरपादप्रवृत्तिरित्याह -
इदानीमिति ।
पदार्थयोः शोधनानन्तरमपुनरुक्तापेक्षितपदपदार्थोपसंहारेण सगुणनिर्गुणवाक्यानामर्थो निर्धार्यते । तत्र सगुणविद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात्पदार्थोपसंहरेण वाक्यार्थज्ञानार्थत्वाच्च सगुणवाक्यार्थचिन्तार्थवती निर्गुणचिन्ता तु तद्धीद्वारा मुक्तिहेतुरित्यर्थः ।
निरुपाधिकं ब्रह्मज्ञानं विचार्यत्वेनोक्तमिति मत्वा पादारम्भमाक्षिपति -
नन्विति ।
अवयवभेदाभावात्तन्निमित्तो ज्ञानभेदो न सम्भवतीत्याह -
पूर्वेति ।
स्वभावभेदाभावात्तत्कृतोऽपि ज्ञानभेदो नास्तीत्याह -
एकरसमिति ।
ज्ञेयस्य ब्रह्मणः सर्वप्रकारभेदाभावे फलितमाह -
तत्रेति ।
वेदान्तानां शक्तितात्पर्यालोचनायामपि नेयं चिन्तेत्याह -
नहीति ।
एकस्यापि पिता पुत्रो भ्रातेत्यादावनेकविज्ञानविषयत्ववदिहापि स्यादित्याशङ्क्याह -
एकेति ।
एकस्मिन्नेकरूपे स्मृत्याद्यनेकज्ञानवदनेकज्ञानसिद्धिरित्याशङ्क्याह -
नचेति ।
दृष्टान्ते तु पूर्वकालविशिष्टादेतत्कालविशिष्टमन्यदिति ज्ञानभेदो युक्तो ब्रह्मणि तु निरुपाधिके नैवमित्यर्थः ।
अर्थस्यैकरूपत्वेऽपि ज्ञानमनेकरूपं तयोर्भेदादित्याशङ्क्याह -
नहीति ।
तदेव प्रपञ्चयति -
यदीति ।
पूर्वपक्षे ज्ञानभेदशङ्कायोगं निगमयति -
तस्मादिति ।
सिद्धान्तेऽपि चोदनाद्यभेदाज्ज्ञानाभेदो न सिध्यतीत्याह -
नापीति ।
तर्हि सूत्रविरोधः स्यादित्याशङ्क्य पूर्वापरविरोधात्त्याज्यमेतदित्यभिप्रेत्याह -
अविधीति ।
आक्षेपमुपसंहरति -
तदिति ।
तत्तदनेकोपाध्यवच्छिन्नब्रह्मविषयाणि प्राणादिविषयाणि चोपासनानि विचारयोग्यानीत्याह -
तदुच्यत इति ।
निरुपाधिब्रह्मज्ञाने ज्ञेयैक्यादैक्यं सिद्धमिति न भेदाभेदचिन्ता । तत्र पुनर्गुणोपसंहारो लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थं वाच्यार्थतद्वाचकपदोपसंहाररूपो वर्तिष्यते तेनोक्तविचारारम्भसिद्धिरित्याह -
इत्यदोष इति ।
सगुणमपि विचार्यमाणद्वयं ब्रह्मैवेति कथं तस्मिन्नुपास्तिभेदाभेदचिन्तेत्याशङ्क्याह -
अत्रेति ।
सोपाधिकं ब्रह्म सप्तम्यर्थः ।
न केवलं विषयभेदाद्भेदः किन्तु फलभेदादपीत्याह -
कर्मवदिति ।
विरक्तस्य मुमुक्षोरलमनेन विचारेणेत्याशङ्क्याह -
क्रमेति ।
तस्यापि यथोक्तो विचारो हेयोपादेयविवेकोपकारीत्यर्थः । निर्गुणविद्यायां क्वचिद्भेदभ्रमापोहेनाभेदो निरूप्यतेऽपुनरुक्तशब्दानां सत्यादिधर्माणां वा साधारणस्वरूपलक्षणार्थमुपसंहारो वर्ण्यते ।
सगुणविद्यासु पुनरभेदः क्वचित्क्वचिद्भेदः क्वचिद्गुणानामुपसंहारः क्वचिदनुपसंहार इत्युपसंहरति -
तेष्विति ।
एवं पादारम्भमुक्त्वा प्रतिशाखं प्रतीतज्ञानानि विषयीकृत्य नामादिभेदाच्चोदनाद्यविशेषाच्चाद्यधिकरणावयवं संशयमाह -
किमिति ।
अत्र चोत्सर्गतः सर्वशाखासु विद्यैक्ये सिद्धे पूर्वोक्तन्यायेन विद्यातो मुक्तिसम्भवात्पादादिसङ्गतिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे प्रतिवेदान्तं विद्याभेदाद्गुणानुपसंहारः । सिद्धन्ते सर्वत्र विद्यैक्यात्तदुपसंहार इति फलमुत्तराधिकरणे वक्ष्यति । शाखान्तराधिकरणे ‘नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनशब्दान्तरसङ्ख्याप्रक्रियातोऽपि कर्मभेदः स्यात्’ इति पूर्वपक्षसूत्रेण पूर्वपक्षे कर्मभेदे ये हेतवो नामादयो दर्शितास्ते विद्याभेदलक्षणपूर्वपक्षोपयोगित्वेनात्रानूद्यन्त इत्यर्थः ।
तत्र नाम्नो भेदकत्वमुदाहरति -
नाम्न इति ।
आदिपदादेकप्रकरणस्थाग्निहोत्रदर्शपूर्णमासादिग्रहणम् । ‘अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यत्र ज्योतिष्टोमानुवादेन सहस्रदक्षिणगुणविधिर्वा तद्गुणककर्मान्तरविधिर्वेति सन्देहे, प्रकृतज्योतिष्टोमस्य तदेकदेशवाचिना ज्योतिःशब्देन भीमादिशब्दवदभिधानात्कर्मान्तरविधेश्च गुणमात्रविधानस्य लघुत्वाद्द्वादशशतदक्षिणायाश्च सहस्रदक्षिणया विकल्पात्प्रकृतानुवादेन गुणान्तरविधिरिति प्राप्ते सत्यां गतावेकस्य संज्ञिनोऽनेकसंज्ञायोगादेकत्रानुपपत्त्या लाक्षणिकः शब्द इत्येतावता ज्योतिःशब्दस्यासत्यामनुपपत्तौ ज्योतिष्टोमलक्षकत्वासिद्धेरथशब्दाच्च प्रकरणविच्छेदात्प्रकृते गुणविध्ययोगाद्गुणविशिष्टकर्मान्तरविधिरिति द्वितीये स्थितम् । अग्निहोत्रदर्शपूर्णमासादिषु संज्ञाभेदेन संज्ञिभेदेन विप्रतिपत्तिरिति भावः ।
संज्ञान्तरात्कर्मभेदेऽपि प्रकृत किं जातमित्याशङ्क्याह -
अस्ति चेति ।
तैत्तिरीयकादिशब्दानां शाखानामत्वे विज्ञाननामत्वं प्रयोगाविशेषात्प्रवृत्तिनिमित्तस्य च प्रवचनस्य ग्रन्थज्ञानयोरविशिष्टत्वान्न क्वचिन्मुख्यमन्यत्र गौणं नामाप्रसिद्धविभागायोगादिति भावः ।
विद्याभेदं नामभेदादुक्त्वा रूपभेदादपि तमुदाहरति -
तथेति ।
आदिपदेनाग्नेयाग्नीषोमीयादिसङ्ग्रहः । ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र पूर्वस्मिन्नेव वैश्वदेवे कर्मणि वाजिनवाक्येन वाजिनगुणविधिर्वा द्रव्यदेवतान्तरयुक्तकर्मान्तरविधिर्वेति सन्देहे विश्वेषामेव देवानां वाजेनान्नेनामिक्षया युक्तानां वाजिपदेनोक्तेर्वाजिभ्य इति ताननूद्य वाजिनगुणविधेरामिक्षावद्वाजिनमपि वैश्वदेवमेवेति न कर्मान्तरविधिरिति प्राप्ते विश्वेषां देवानामामिक्षां प्रत्युपसर्जनतया प्राधान्येनाप्रकृतत्वाद्वाजिपदेन परामर्शायोगाद्वाजिनगुणस्याप्रकृतदेवताभिधानेन सम्बन्धात्कर्मान्तरदृष्टेस्तद्धितश्रुत्या चामिक्षावरुद्धतया वाजिनस्य तत्रानवकाशात्पूर्वस्मात्कर्मणः स्वसम्बन्धिकर्मणो भेदकत्वात्तद्धितश्रुतिविरोधे वाक्यस्य दौर्बल्याद्वाजिनवाक्येन द्रव्यदेवतान्त युक्तकर्मान्तरविधिरिति तत्रैव स्थितम् । आग्नेयादिषु पुना रूपभेदाद्भेदेन विगानमिति भावः ।
अस्तु रूपभेदात्कर्मभेदः प्रस्तुते किं जातं तदाह -
अस्ति चेति ।
अत्रेति विद्योक्तिः ।
तदेव भिन्नं रूपमुदाहरति -
तद्यथेति ।
यथा यागस्य द्रव्यदेवते रूपमेवं वेद्यमेव विद्याया रूपम् । तथाच वेद्यभेदे विद्याभेदः स्यादित्यर्थः ।
धर्मभेदाद्विद्याभेदं वक्तुं तस्य कर्मभेदकत्वमाह -
तथेति ।
कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भुञ्जते न तथान्ये । अग्निमधीयानाश्च केचिदुपाध्यायस्योदकुम्भमाहरन्ति न त्वन्ये । नच तान्येव कर्माणि भूमिभोजनादिधर्मजन्योपकारवन्ति तद्रहितानि चेति युक्तमतस्तत्र धर्मभेदाद्भेदधीरित्यर्थः ।
एवमपि प्रकृते किं स्यात्तदाह -
अस्ति चेति ।
अत्रेति पूर्ववद्विद्योक्तिः । अन्येषां तु शाखिनां नैव शिरस्यग्निधारणं व्रतमस्तीति धर्ममेदाद्विद्याभेद इत्यर्थः ।
भेदकान्तराण्यतिदिशति -
एवमिति ।
आदिग्रहणान्निन्दाऽशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनानि शब्दान्तरं सङ्ख्या प्रक्रियेत्येतानि च सङ्गृह्यन्ते । तत्र ‘समिधो यजति’ इत्यादौ पञ्चकृत्वोऽभ्यस्ते यजतिशब्दे किमेकं कर्मापूर्वं किंवा पञ्चैवेति संशये धात्वर्थानुबन्धभेदमन्तरेणापूर्वभेदायोगात्प्रकृते तदयोगादेकं कर्मापूर्वमिति प्राप्ते समिदादिवाक्यानां स्वरससिद्धप्राप्तकर्मविधिपरत्वादसति विशेषे पुनः श्रुतेरानर्थक्यात्प्रत्यभ्यासमपूर्वभेद इति पुनरुक्तेर्भेदकत्वं स्थितम् । एवं शाखान्तरोक्ता विद्याः शाखान्तरोक्तविद्याभ्यो भिन्नाः पुनरुक्तेरिति पुनरुक्तितो विद्याभेदः । निन्देत्युदितानुदितहोमनिन्दोक्ता ‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवाकीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्’ इत्यनुदितहोमनिन्दा ‘यथाऽतिथये प्रद्रुतायान्नं हरेयुस्तादृक्तद्यदुदिते जुह्वति’ इत्युदितहोमनिन्दा । ततश्चैकस्यैवोदितेऽनुदिते च क्रमेणानुष्ठानायोगाद्भेदः । उदितानुदितहोमातिक्रमकृतप्रायश्चित्तादपि तद्भेदधीः । नच निन्दाप्रायश्चित्ते वेदान्तविद्यासु विद्येते इति नोदाह्रियेते । यत्त्वथ योऽन्यामित्यादि तद्भेदधीविषयत्वान्न विद्यां भिनत्ति । ततो भूय इवेत्यादि तु केवलदेवताज्ञाननिन्दया तस्य कर्मणा समुच्चयपरम् । अशक्तिश्च कर्मवद्विद्याभेदिका । नहि सर्वशाखाविहितं कर्म शक्यमेकेनानुष्ठातुं तथोपासनान्यपि नानाशास्त्रोक्तानि नैकेनानुष्ठीयेरन्निति भेदः । समाप्तिरपि शाखिनां केषाञ्चित्क्वचिदिति कर्मणो भेदिका । तथा वेदान्तेष्वपि क्वचिदोङ्कारसर्वात्मत्वचनेन समाप्तिरन्यत्र क्वचिदित्युपास्तिभेदः । अन्यार्थदर्शनं ‘वायुर्वै क्षेपिष्ठा देवता’ ‘सोऽरोदीद्यदरोदीत्’ इत्याद्यर्थवादरूपं कर्मभेदकं स्तुतिनिन्दयोरेकत्रासमवायात् । एवं वेदान्तेष्वपि नानाविधार्थवादस्य तत्र तत्र दृष्टेर्विद्याभेदः । शब्दान्तरादपि कर्मभेदः । ज्योतिष्टोमे - ‘सोमेन यजेत', ‘दाक्षिणानि जुहोति’ ‘हिरण्यमात्रेयाय ददाति’ इत्यत्र यजतिददातिजुहोतयः संहत्य वा कार्यं कुर्वन्त्यसंहत्य वेति सन्देहे संहतानामेवापूर्वसाधकत्वं लाघवादिति पूर्वपक्षे ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ इत्यत्र शब्दभेदे भावार्थानुबन्धभेदाद्भावनाभेद इति स्थितम् । तथेहापि ‘ब्रह्मविदाप्नोति परम्’ ‘तरति शोकमात्मवित्’ इति शब्दान्तराज्ज्ञानभेदः । सङ्ख्यापि कर्मणो भेदिका ‘सप्तदश प्राजापत्यान्पशूनालभेत’ इत्यत्र सप्तदशभिः पशुभिरेको वा यागो निर्वर्त्यः सप्तदश वेति संशये यो हि बहून्कल्पयति कल्पयत्यसावेकमिति लाघवादेको यागः सप्तदशपशुभिर्निर्वर्त्यत इति पूर्वपक्षे पशूनां पृथक्त्वे सप्तदशसङ्ख्यायाः सम्भवात्तत्पृथक्त्वस्य च यागभेदाधीनत्वाद्यागाः सप्तदशेति राद्धान्तितम् । तथात्रापि तौ वा एतौ द्वौ संवर्गाविति सङ्ख्यातो विद्याभेदः । प्रकियापि कर्मभेदिका कुण्डपायिनामयने ‘मासमग्निहोत्रं जुहोति’ ‘मासं दर्शपूर्णमासाभ्यां यजेत’ इत्यत्र नित्येऽग्निहोत्रादौ मासगुणविधिर्वा कर्मान्तरविधिर्वेति सन्देहे सत्यग्निहोत्रादिशब्दस्य प्रसिद्धाग्निहोत्राद्यनुवादित्वान्मासमित्यप्रसिद्धत्वात्प्रसिद्धानुवादेनाप्रसिद्धगुणविधिसम्भवात्प्रकरणस्य वाक्याद्दौर्बल्याद्गुणविधिरिति प्राप्ते यस्य प्रकरणे यद्वाक्यं श्रुतं न तत्तस्य बाधकमित्युत्सर्गादुपसद्भिश्चरित्वेत्त्युक्त्वा मासमग्निहोत्रमित्यादिश्रुतेर्नैयमिकाग्निहोत्रादौ चोपसदामभावात्तदनुवादेन गुणविध्यसिद्धेरुपसदामपि तत्रैव विधाने वाक्यभेदादग्निहोत्रादिशब्दस्य चाख्यातपारतन्त्र्यात्तदर्थस्य चाधिकारालोचनायां वैलक्षण्यात्प्रसिद्धाग्निहोत्राद्यप्रत्यभिज्ञापकत्वात्कर्मान्तरमित्युक्तम् । तथात्रापि वैश्वानराश्वमेधोपासनादिषु प्रकरणभेदाद्विद्याभेद इत्यर्थः । वेदान्तान्तरेष्विति प्रतिशाखं व्यवस्थिततत्तद्वेदान्तप्रभेदेष्विति यावत् ।
प्राच्यां मीमांसायामुक्तहेतुभिः सिद्धं पूर्वपक्षमुुपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य विद्यैक्यं सिद्धान्तमाह -
एवमिति ।
सर्ववेदान्तेषु प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणकानि तत्र तत्र विहितानीत्यर्थः ।
यान्येकस्मिन्वेदान्ते तान्येव वेदान्तान्तरेष्वपि विहितानीत्याह -
तस्मिन्निति ।
सर्ववेदान्तप्रत्ययमित्येकवचनेन कर्तव्यतया प्रतीयमानज्ञानस्यैकत्वं ग्रहैकत्ववदविवक्षितम् ।
साधारणनिर्देशेन विधीयमानसर्वोपासनज्ञानानि विवक्षितानीति प्रतिज्ञां व्याख्यायाकाङ्क्षाद्वारा हेतुमवतारयति -
कुत इति ।
चोदनासाहचर्यादादिशब्देनार्थवादग्रहणमाशङ्क्य व्यावर्तयति -
आदीति ।
‘एकं वा संयोगरूपचोदनाख्याविशेषात्’ इति शाखान्तराधिकरणे सिद्धान्तसूत्रं तत्रोक्तान्कर्माभेदहेतूनत्रापि ज्ञानाभेदहेतु्त्वेनाकृष्टानाचष्टे -
संयोगेति ।
तत्र चोदनाया विधायकपदस्य चोद्यत इति वा पुरुषप्रयत्नस्य धात्वर्थावच्छिन्नस्याविशेषं सदृष्टान्तमाह -
यथेति ।
प्रतिशाखं होमाद्यवच्छिन्नप्रयत्नवदिहापि प्राणज्येष्ठत्वादिधीविषयप्रयत्नस्याविशेषः शाखाद्वयेऽपीत्यर्थः ।
संयोगाविशेषमाह -
प्रयोजनेति ।
रूपाविशेषमाह -
रूपमिति ।
कथं ज्ञानस्य प्राणतत्त्वं रूपं, तत्राह -
यथा चेति ।
द्रव्यदेवताभ्यां यागस्य रूप्यमाणत्वात्तयोस्तद्रूपत्वं प्रकृते तु कथमित्याशङ्क्याह -
तेनेति ।
आख्याविशेषमाह -
समाख्येति ।
सर्वशाखास्थप्राणज्ञानस्य समाख्याद्यविशेषादैक्यं निगमयति -
तस्मादिति ।
उक्तं न्यायं पञ्चाग्निविद्यादिषु सर्वशाखास्थेष्वतिदिशति -
एवमिति ।
परोक्तमनूद्य प्रत्याह -
ये त्विति ।
अस्यार्थः - काठकं कालापकमित्यादिनामभेदान्न कर्मभेदः । कस्मात् । अचोदनाभिधानत्वात् । काठकादीनां ग्रन्थनामतया कर्मनामत्वाभावात् । ग्रन्थयोगादेव कर्मणां तद्द्वारा तन्नामत्वासिद्धौ तत्रापि शक्तिकल्पनायां गौरवात्कर्मैक्त्वेऽपि तत्तद्ग्रन्थसन्दर्भसंयोगात्काठकप्रायश्चित्तमित्यादिदर्शनान्न नाम्ना कर्ममेदः । तथापि नामभेदान्न विद्याभेदः । विद्यैक्येऽपि तत्तद्ग्रन्थसंयोगात्तत्तन्नामत्वसिद्धेः । नापि रूपभेदो भेदकोऽग्नीषोमीयस्यैककर्मत्वेऽप्येकादशकपालत्ववद्द्वादशकपालत्वरूपभेदो वाचनिकः । तथाग्न्यादिषु रूपभेदेऽपि विद्यैक्याविरोधात् । नच धर्मविशेषो भेदकः । तस्य विद्याग्रहणार्थतया कर्मानुपकारिणस्तद्भेदकत्वाभावात् । उक्तं हि - ‘विद्यायां कर्मशास्त्रम्’ इति । तथात्रापि धर्मविशेषो न विद्यार्थ इति वक्ष्यते नच पुनरुक्तिर्भेदिका । नह्येतद्द्विर्वचनं यदेकोऽर्थो बहुभिः शाखिभिरुच्यते । एकस्मिन्नपि वेदे बहुभिरुच्यमाने पुनरुक्तिप्रसङ्गात् । तस्मादध्येतृभेदेन पुनरुक्त्यभावात्कर्मैक्यम् । तदुक्तम् - ‘अद्विर्वचनं श्रुतिसंयोगाविशेषात्’ इति । एवमत्रापि विद्यैक्यं प्रतिशाखं प्रत्येतव्यम् । अशक्तिरपि न भेदहेतुः । असमर्थानामेकस्मिन्नपि वेदे सर्वाङ्गोपसंहारानर्हत्वात् । समर्थानां तु शाखाभेदे तदध्ययनाभावेऽपि तदध्येतृभ्यो विश्वस्य तत्तद्रूपमुपसंहर्तुं शक्यत्वात् । नच समाप्तिवचनं भेदकमेकत्वेऽपि कस्यचिदन्याङ्गस्य समाप्तौ समाप्तिवचनसम्भवात् । न चान्यार्थदर्शनमन्यपरत्वात्कर्मैक्यं विद्यैक्यं वा प्रमितं निषेद्धुमर्हति । शब्दान्तरसङ्ख्याप्रक्रियाणामपि प्रबलेनाभेदकेन भेदकत्वमपास्यमतो न विद्याभेदाशङ्केति ॥ १ ॥
तर्हि पूर्वतन्त्रोक्तन्यायेनैव प्रतिशाखं विद्यैक्यसिद्धौ किमनेनाधिकरणेनेत्यशङ्क्याह -
इहापीति ।
शाखान्तराधिकरणे खल्वेकस्यां शाखायामग्नीषोमीयस्यैकादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात्कर्मभेदं शङ्कित्वा सङ्ख्ययोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपालसङ्ख्ययोरुत्पन्नशिष्टयोरुत्पत्तावैकरूप्येण ज्ञातकर्मप्रत्यभिज्ञानाबाधकत्वेन कर्माभेदकत्वादग्न्यादिगतपञ्चसङ्ख्यादेरुत्पत्तिविशिष्टत्वाद्वाजिनवद्भेदकत्वमिति शङ्कामुत्थाप्य परिहारादस्यार्थवत्तेत्यर्थः ।
शङ्कां विभजते -
स्यादिति ।
गुणभेदं साधयति -
तथाहीति ।
छन्दोगाः षष्ठमग्निं नामनन्तीति कथं सिद्धमित्याशङ्क्योपसंहारवशादित्याशङ्क्याह -
पञ्चेति ।
गुणभेदमुक्त्वा तत्फलं विद्याभेदमाह -
येषां चेति ।
वाजसनेयकगतो योऽग्निः षष्ठोऽन्त्येष्टिनिविष्टः प्रसिद्धवदुक्तस्तस्य च्छान्दोग्येऽप्युपसंहारान्न गुणभेदोऽस्तीत्याशङ्क्याह -
नचेति ।
पञ्चाग्निविद्यायां गुणभेदाद्भेदमुक्त्वा प्राणविद्यायामपि तद्भेदाद्भेदमाह -
तथेति ।
अस्तु प्रजननगुणवतो रेतसो वाजसनेयिनामावापश्छन्दोगानां चोद्धारस्तथापि कथं विद्याभेदः, तत्राह -
आवापेति ।
सूत्रावयवं परिहारत्वेन व्याचष्टे -
नेत्यादिना ।
ननु गुणभेदे वेद्यभेदाद्विद्याभेदो न च षष्ठस्याग्नेरुपसंहारः पञ्चसङ्ख्याविरोधात् , तत्राह -
यद्यपीति ।
एकैव विद्या षष्ठाग्नियुक्ता तद्रहिता चेति विरुद्धमित्याशङ्क्याह -
नहीति ।
किञ्च वाजसनेयके षष्ठस्यापि ध्येयत्वमग्नेरुपेत्योक्तं न तु तस्य ध्येयत्वं पञ्चैवाग्नयस्तथोच्यन्ते । अनुपास्यत्वेन षष्ठोक्तिश्छान्दोग्येऽपि तुल्येत्याह -
पठ्यतेऽपीति ।
इतोऽस्माल्लोकात्तं दिष्टं परलोकं प्रेतं गतं पुत्रा ज्ञातयो वाग्नये नैधनविधिं विधातुं हरन्तीत्यर्थः ।
अनुपास्यत्वे किमिति पूर्वाग्निवत्पठ्यते षष्ठोऽग्निः, तत्राह -
वाजसनेयिनस्त्विति ।
तस्योपासकस्य मृतस्य दाहायाग्निरेवाग्निरिति प्रसिद्धानुवादो न तूपास्तिविधिरुपास्यास्तूभयत्रापि पञ्चैवाग्नयः । प्रसिद्धानुवादश्च कल्पनानिवृत्त्यर्थत्वादर्थत्वादर्थवानित्यर्थः ।
उत्पत्तौ गुणान्तरविध्यभावान्न विद्याभेदो वैश्वदेव्यास्तूत्पत्तौ विशिष्टगुणोक्तेर्भेद इत्युक्तम् । इदानीं वाजिनां षष्ठाग्निविधानेऽपि न विद्याभेद इत्याह -
अथापीति ।
पञ्चाग्नीन्वेदेति श्रुतसङ्ख्याविरोधान्न षष्ठस्याग्नेरुपसंहारसिद्धिरित्याशङ्क्य पञ्चसङ्ख्याया विधेयत्वाभावात्साम्पादिकाग्न्यवच्छेदकत्वेनैवानुवादादुत्पत्त्यशिष्टत्वादुत्पन्नानां च प्रत्यभिज्ञानान्न विद्याभेद इत्याह -
नचेति ।
पञ्चाग्निविद्यायामुक्तान्यायं प्राणविद्यादिष्वतिदिशति -
एवमिति ।
यत्त्वावापोद्वापाभ्यां वेद्यभेदाद्विद्याभेद इति, तत्राह -
नचेति ।
बहुतरांशाभेदप्रत्यभिज्ञानादल्पतरांशभेदेऽपि प्रत्यभिज्ञाविरोधान्न विद्याभेद इत्यर्थः ।
रूपभेदाद्विद्याभेदं शङ्कितं निरस्योपसंहरति -
तस्मादिति ॥ २ ॥
रूपभेदस्य भेदकत्वं निराकृत्य धर्मभेदस्य भेदकत्वं प्रत्याह -
स्वाध्यायस्येति ।
व्यावर्त्यं चोद्यमनुद्रवति -
यदपीति ।
शिरोव्रतं शिरस्यग्निधारणम् । आदिग्रहणादातपावस्थानादि गृह्यते । चोद्योत्तरत्वेन सूत्रमवतार्य व्याचष्टे -
तदिति ।
स्वाध्यायाङ्गत्वेन श्रुत्यादिभिरविनियोगे न तदङ्गतेति शङ्कते -
कथमिति ।
तथात्वेनेत्यादिनोत्तरमाह -
यत इति ।
गोदानादीनि वेदाध्ययनाङ्गत्वेनानुष्ठेयानि व्रतानि । शिरोव्रतमपि वेदव्रतेष्वन्तर्गतत्वेनोक्तं तेन यथा गोदानाद्यध्ययनाङ्गं तथेदमपीत्यर्थः ।
अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एतद्ग्रन्थजातमचीर्णव्रतोऽननुष्ठितशिरोव्रतः पुरुषो नाधीत इति प्रकृतमुण्डकपरामर्शकादेतच्छब्दान्मुण्डकाध्ययनधर्म एवायं न विद्याधर्म इति प्रतिभातीत्यर्थंः ।
अधिकारादविकृतविषयादेतच्छब्दाच्चकारादधीत इत्यध्ययनशब्दाच्चेति व्याख्यातम् । इदानीं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति -
नन्विति ।
सर्वत्र ब्रह्मविद्यैकैव चेत्तया शिरोव्रतस्य संयोगाद्धर्मसङ्करः स्यात् , नच सोऽस्तीति विद्याभेद इत्यर्थः ।
एतां ब्रह्मविद्यामिति तत्प्रकाशकमिमं ग्रन्थमिति योज्यम् । अन्यथा प्रकृतविषयतच्छब्दविरोधादित्याह -
नेति ।
ब्रह्मविद्यैव प्रकृतेति सैव परामृश्यतामित्याशङ्क्य तस्याः सर्वत्रैक्यादथर्वविहितैवात्र पराम्रष्टव्येत्याह -
प्रकृतत्वं चेति ।
सूत्रावयवान्तरमवतारयति -
सववच्चेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शनमिति योजना । ततश्च शिरोव्रतस्य सङ्करो नेति चकारार्थः ।
तदेव विवृणोति -
यथेति ।
सवा होमाः । आथर्वणैरुदित एकोऽग्निरेकऋषिसंज्ञया प्रसिद्धस्तेषामेव नियम्यन्ते तदीये तत्रैवाग्नौ क्रियन्ते । स्वाध्यायविशेषसम्बन्धादेतच्छब्दादधीतिशब्दाच्च मुण्डकाध्ययनसम्बन्धाधिगतेरिति यावत् ।
धर्मभेदस्य धर्म्यभेदकत्वे फलितमाह -
तस्मादिति ।
नामादिवद्धर्मभेदस्यापि भेदकत्वायोगादित्यर्थः ॥ ३ ॥
किञ्च वेद्यैकत्वोक्त्या ब्रह्मविद्यायास्तावदैक्यं सर्वत्र वेदो दर्शयति । तथान्यत्रापि वेद्याभेदेऽपि विद्यैक्यमित्याह -
दर्शयति चेति ।
सूत्रं व्याचष्टे -
दर्शयतीत्यादिना ।
वेदत्रयेऽपि विद्यैक्यविषयमुपदेशान्तरमाह -
तथेति ।
किञ्च शाखान्तरोक्तपदार्थस्य शाखान्तरे सिद्धवत्परामर्शादपि विद्यैक्यधीरित्याह -
तथेत्यादिना ।
एव पुरुषो यदा यस्यामविद्यावस्थायामेतस्मिन्नात्मन्यद्वयत्वेन सर्ववेदान्तप्रसिद्धे स्वाविद्यावशादेवान्तरं भेददर्शनमुदरमल्पमपि करोत्यथ तदा तस्यामवस्थायां तस्य भेददर्शनवतो भयमावश्यकं ‘द्वितीयाद्वै भयं भवति’ इति श्रुत्यन्तरादित्यर्थः ।
भेददर्शनवतो भयकारणमाह -
तत्त्वेवेति ।
भेददर्शनवतो विदुषस्तत्त्वममन्वानस्य तदेव ब्रह्म भयङ्करमित्यर्थः ।
निर्गुणविद्यायां वेद्यैकत्वादेकत्वेऽपि कथं सगुणविद्यायामेकत्वं तत्राह -
तथेति ।
एवं ब्रह्मविद्यैक्येऽपि कथमुक्थाद्युपास्तीनामैक्यं, तत्राह -
तथेति ।
यथा निर्गुणं सगुणं च ब्रह्म सर्वत्रैकमिति तद्विद्या न भिद्यते तथोक्थादीनां सर्ववेदान्तप्रत्ययत्वादेतद्गम्यते । यदन्यत्रोक्तानामन्यत्रोपास्त्यर्थं तेषामादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं प्रायदर्शनन्यायेन बाहुल्येन सिध्यतीत्यर्थः ॥ ४ ॥
सर्वशाखासु विद्यैक्ये गुण्याकृष्टगुणानां तत्र तत्रोपसंहारमनन्तरविचारफलमाह -
उपसंहार इति ।
सङ्क्षेपतोऽधिकरणतात्पर्यमाह -
इदमिति ।
पूर्वविचारफलमनेन सूत्रेणोच्यते तेन तद्वदेवास्य पादादिसङ्गतिः । पूर्वपक्षे पूर्वाधिकरणस्य विवक्षितफलासिद्धिः । सिद्धान्ते तस्य तत्सिद्धिः । तुल्यधीबद्धा गुणा विषयास्ते किं यथाश्रुति व्यवतिष्ठेरन्नुत प्रत्यभिज्ञया ज्ञानोपाधावुपसंह्रियेरन्निति मीमांसायामिच्छाभेदादतिरात्रे षोडशिग्रहवदुपसंहारस्यानावश्यकत्वाद्यथाश्रुति व्यवस्थेति प्राप्ते सिद्धान्तयन्नुपसंहारः ।
समाने चेति विभागं विभजते -
स्थिते चेति ।
तत्र हेतुमुक्त्वा व्याकरोति -
अर्थेति ।
कथं व्यवस्थया श्रुतानां गुणानामुपकारैक्यं, तत्राह -
उभयत्रेति ।
गुणिद्वारा गुणानामपि प्रत्यभिज्ञाने फलितमाह -
तस्मादिति ।
अर्थाभेदादुपसंहारे दृष्टान्तमाह -
विधीति ।
प्रधानप्रत्यभिज्ञायां सर्वतद्धर्मप्रत्यभिज्ञानात्फलाविशेषाच्च व्यवस्थया श्रुतानामपि गुणानामेकज्ञानोपाधावुपसंहार इति दार्ष्टान्तिकमाह -
एवमिति ।
उक्तमेव व्यतिरेकतः स्फोरयति -
यदीति ।
आग्नेयसौर्ययोर्भेदेऽप्याग्नेयगतस्येतिकर्तव्यताजातस्य सौर्ये प्राप्तिवज्ज्ञानान्तरस्थानामपि गुणानां ज्ञानान्तरे प्राप्तिः स्यादित्यशङ्क्याह -
प्रकृतीति ।
ज्ञानैक्येऽपि शाखान्तरोक्तगुणानां शाखान्तरोक्तज्ञाने नोपसंहारः । तत्रोक्तगुणमात्रेण तज्ज्ञानोपकारसिद्धेरधिकानपेक्षणात् । अन्यथा तत्रैव तद्विधिप्रसङ्गात् । तस्मादक्ष्यादित्यस्थानभेदेनोक्तयोरहरहमितिगुणयोर्व्यवस्थानवदुपास्याभेदेऽपि शाखाभेदेनोक्तानां व्यवस्थैवेत्याशङ्क्य शाखाभेदस्योक्तस्थानवदुपास्यविशेषणतया गुणव्यवस्थापकत्वाभावाद्धर्म्युपाधावुक्तगुणानां सर्वत्रापि श्रुतेन धर्मिणा नियमादनुमानतः सार्वत्रिकत्वसिद्धेर्विद्यैक्ये गुणोपसंहारो बलवद्बाधकाभावे वारयितुं न शक्यते ।
शाखान्तरे कतिपयगुणवादस्य तद्विध्यर्थतया गुणान्तरावारकत्वादित्याह -
विज्ञानेति ।
एवमित्युपसंहाराभावोक्तिः । इतिशब्दः सिद्धान्तसमाप्त्यर्थः ।
उत्तरसन्दर्भस्य पौनरुक्त्यं प्रत्याह -
अस्यैवेति ॥ ५ ॥
संज्ञाभेदाज्ज्ञानैक्यं तद्गुणानां चान्यत्रोपसंहार इत्युक्त उद्गीथविद्ययोरपि च्छान्दोग्यबृहदारण्यकोक्तयोः संज्ञाभेदमाशङ्क्य प्रत्याह -
अन्यथात्वमिति ।
चोदनाद्यविशेषादित्यस्यापवादार्थमिदमधिकरणम् । तस्य बृहदारण्यकस्थमुद्गीथब्राह्मणं छान्दोग्यस्थमुद्गीथाध्यायं च विषयमाह -
वाजसनेयक इति ।
ते प्रकृता वागादयः प्राणा देवाः सात्त्विकवृत्तिप्रधानाः सम्भूयान्योन्यमुक्तवन्तो हन्त यदि संमतमस्माकं तदास्मिन्नाभिचारिके यज्ञे वयमुद्गीथाख्यभक्तिलक्षितेनौद्गात्रेण कर्मणा तमोवृत्तिप्रधानानसुरानतीत्य स्वमग्न्यादिभावमयामेति । ते चैवं कृतसंवादा वाचमौद्गात्रे कर्मणि प्रधानां त्वमस्मदर्थमौद्गात्रं निर्वर्तयेति नियुक्तवन्तस्तथोपक्रम्य वागादीन्वाक्प्राणचक्षुःश्रोत्रमनांसिपाप्मना ह्येषा विद्धेत्यादिना पाप्मविद्धत्वेन निन्दित्वा तेषामध्येयत्वं निर्धार्य मुख्यप्राणस्योपास्यत्वं च निश्चित्य तत्परिग्रहः श्रूयत इत्यर्थः । वागादीनामनुपास्यत्वनिश्चयानन्तरमित्यथशब्दार्थः । आसन्यमास्ये भवं मुखान्तर्बिलस्थं प्राणं मुख्यप्राणाभिमानिनीं देवतामिति यावत् ।
उद्गीथब्राह्मणमुक्त्वोद्गीथाध्यायं कथयति -
तथेति ।
तत्तत्रान्योन्याभिभवात्मके सङ्ग्रामे देवाः पू्र्ववदुद्गीथलक्षितं कर्माजह्रुराहृतवन्तः । अनेन कर्मणैनानसुरान्स्वाभाविकेन्द्रियवृत्तिलक्षणानभिभविष्याम इत्यभिप्रेत्य कर्मारब्धवन्त इत्यर्थः ।
तथैवेत्युद्गीथब्राह्मणवदेवेत्यर्थः । अाख्यायिकैव श्रुता न विद्याविधिरित्याशङ्क्य ब्राह्मणाध्याययोर्विवक्षितमर्थमाह -
उभयत्रेति ।
शाखाद्वयस्थोद्गीथविद्यां विषयमुक्त्वा विचारबीजं संशयमाह -
तत्रेति ।
भेदाभेदमानाभ्यां तमेव विशदयति -
किमिति ।
विमृश्य पूर्वपक्षयति -
किं तावदिति ।
पूर्वत्राख्याविशेषाद्विद्यैक्यमुक्तं तदत्राप्युद्गीथविद्येत्याख्याविशेषादैक्यमित्यर्थः । अत्र चोपास्तिभेदोक्त्या वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतयः । पूर्वपक्षे गुणोपसंहारः सिद्धान्ते तदसत्तेति फलभेदः ।
अन्यथात्वमित्यादिसैद्धान्तिकीं शङ्कां व्याकुर्वन्पूर्वपक्षमाक्षिपति -
नन्विति ।
प्रक्रमभेदादित्युक्तं व्यनक्ति -
अन्यथा हीति ।
कथमुभयत्र प्रक्रमस्यान्यथात्वं, तत्राह -
त्वमिति । उद्गीथस्येति ।
सर्वस्या भक्तेरिति यावत् ।
उद्गीथत्वेनेति ।
तदवयवो योऽयमोकारस्तथात्वेनेत्यर्थः । उद्गानकर्ता प्राणो वाजसनेयके ध्येयत्वेनोच्यते । छान्दोग्ये त्वोङ्कारः प्राणदृष्ट्योपास्य इष्टः ।
तथाच कर्तृकर्मणोर्भेदान्न विद्यैक्यमिति फलितमाह -
तदिति ।
बहुतररूपप्रत्यभिज्ञानादप्रत्यभिज्ञानं किञ्चिल्लक्षणया नेयमिति मत्वा समाधत्ते -
नेत्यादिना ।
अविशेषादित्येतद्व्याचष्टे -
नहीति ।
एतावता क्वचित्कर्मरूपत्वेनोपास्यत्वं कर्तृत्वेनान्यत्रेत्येतावन्मात्रेणेत्यर्थः ।
बहुतराविशेषप्रतीतिमेव प्रकटयति -
तथाहीति ।
यथाश्मानं पाषाणं प्राप्य मृत्त्वाल्लोष्टो विध्वंसत एवं विध्वंसमाना विष्वञ्चो विनेशुरिति श्रूयत इत्याह -
तदिति ।
अविशेषधियं निगमयति -
इत्येवमिति ।
न केवलं शाखान्तरे रूपभेदो दृष्टः किं त्वेकस्यामपि । तथापि न तत्र विद्याभेदस्तथोभयोरपि स्यादित्याह -
वाजेति ।
प्राणस्योद्गीथत्वमत्रापि श्रुतं चेत्कथमुपास्तिः, तत्राह -
तस्मादिति ।
उद्गीथत्वेन श्रुतेरुभयत्राविशेषाद्यदेकत्र कर्तृत्वं तदितरत्रापि लक्ष्यं, तथाच प्राणस्य कर्तृत्वेन कर्मत्वेन च ध्यानं शास्त्रादित्यर्थः ।
उभयत्रापि वेद्यरूपाविशेषे फलितमाह -
तस्माच्चेति ॥ ६ ॥
विद्यैक्ये पूर्वपक्षे तद्भेदं सिद्धान्तमाह -
न वेति ।
वाशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञां विभजते -
नेति ।
अत्रेति प्रकृतशाखाद्वयोक्तिः ।
उभयत्रापि प्राणस्योद्गीथत्वतत्कर्तुत्वाविशेषस्योक्तत्वाद्वेद्याभेदेन विद्याभेदे सम्भवति कुतस्तद्भेदोक्तिरिति शङ्कते -
कस्मादिति ।
तत्र हेतुः -
प्रकरणेति ।
शाखाभेदादेव प्रकरणभेदसिद्धेर्न तस्य धीभेदे प्रयोजकतेत्याशङ्क्याभीष्टमर्थमाह -
प्रक्रमेति ।
शाखाद्वये तद्भेदं विवृणोति -
तथाहीति ।
छान्दोग्यगतमुपक्रमप्रकारं दर्शयति -
छान्दोग्य इति ।
उपक्रमवाक्यस्यार्थमाह -
उद्गीथेति ।
प्रकरणविच्छेदाभावं वक्तुं तदनुसन्धत्ते -
रसेति ।
भूतपृथिव्यौषधिपुरुषवागृक्सामानां पूर्वस्य पूर्वस्योत्तरमुत्तरं सारतयोक्त्वा तेषामोंकारं रसतमत्वेन निर्दिश्य तमेव पुनराप्तिसमृद्ध्यादिगुणकत्वेनोपदिश्य ध्येयमाख्यायिकया निर्धार्योद्गीथोपास्तिरवतारितेत्यर्थः ।
ननु वाजसनेयके यथोद्गीथेनात्ययामेत्यत्रोद्गीथशब्देन सकला भक्तिरुक्ता त्वं न उद्गायेत्यनेनापि प्राणत्वेनोद्गातोच्यते एवमोमित्येतदक्षरमुद्गीथमुपासीतेत्युपक्रमवाक्यस्थोद्गीथशब्देन सकला भक्तिस्तस्याश्च कर्तोद्गाता प्राणत्वेनोच्यतां तथाच प्रकमाभेदाद्विद्यैक्यं, तत्राह -
तन्नेति ।
ऋत्विक्प्राणत्वेन निरुच्येतेति शेषः । तस्मिन्पक्षे यदुद्गीथावयवभूतमोङ्काराख्यमक्षरं तत्र प्राणदृष्टिरनुष्ठेयेत्युपक्रमो बाध्येतेत्यर्थः । चकारो वक्ष्यमाणदोषसमुच्चये ।
यदुद्गीथावयवभूतमोङ्काराख्यमक्षरं तद्विषयोद्गीथशब्दस्योद्गातृवाचित्वाभावात्तेनोद्गातुर्लक्ष्यत्वमपि ते स्यादित्याह -
लक्षणेति ।
अक्ताः शर्करा उपदधातीत्यस्य तेजो वै घृतमिति शेषान्निर्णयवत्प्राणमुद्गीथमुपासाञ्चक्रिर इति सकलभक्तिविषयोपसंहारादुपक्रमो नीयतामित्याशङ्क्याह -
उपक्रमेति ।
तस्य सन्दिग्धार्थत्वात्स्यादुपसंहारापेक्षा । प्रकृते तूपक्रमस्यातिस्पष्टत्वान्नैवमित्यर्थः ।
ओमित्येतदक्षरमित्यादौ तर्हि कोऽर्थः । स्यादित्याशङ्क्याह -
तस्मादिति ।
उद्गीथेनात्ययामेत्यत्रापि तदवयवस्योद्गीथशब्दत्वादुद्गातुश्चाश्रुतेर्न प्रक्रमभेदोऽस्तीत्याशङ्क्याह -
वाजेति ।
ओमित्येतदक्षरमित्युपक्रमस्यावयवार्थत्वात्तदुद्गीथमित्युद्गीथशब्देनावयवो गृहीतः । उद्गीथेनात्ययामेत्यत्र तु तथा हेत्वदृष्टेः सकलभक्तिविषयत्वमेव तस्येत्यर्थः ।
यदुक्तमिहापि नोद्गातुरस्ति धीरिति, तत्राह -
त्वमिति ।
कथं प्राणस्योद्गीथकर्तृत्वमुद्गीथेन सामानाधिकरण्यश्रवणात्ततो वेद्यैक्याद्विद्यैक्यं, तत्राह -
यदपीति ।
तत्रेति वाजसनेयकोक्तिः । इतश्च नेदं सामानाधिकरण्यं विद्यैक्यक्षममित्याह -
सकलेति ।
तत्रेति सामानाधिकरण्यवाक्योक्तिः । अपिरुद्गीथेनात्ययामेतिवाक्यदृष्टान्तार्थः । वैषम्यमुभयत्र विद्यानानात्वम् ।
प्राणस्याचेतनत्वान्नोद्गातृत्वमित्याशङ्क्याह -
नचेति ।
असम्भवमभ्युपेत्य वाचनिकमुद्गातृत्वमित्युक्तं संप्रत्यसम्भवोऽपि नास्तीत्याह -
प्राणेति ।