न्यायनिर्णयव्याख्या
३ परिच्छेदः
औद्गात्रमुद्गाता प्राणवीर्येण करोतीत्येतदेव कथं, तत्राह -
तथाचेति ।
तत्रैवेत्युद्गीथप्रकरणोक्तिः । उद्गाता प्राणप्रधानया वाचा कृतवानौद्गात्रमिति श्रुत्यर्थः ।
यत्तु बहुतरार्थाविशेषाद्विद्यैक्यमिति, तत्राह -
नचेति ।
वाजसनेयके तावदुद्गीथोद्गातारौ ध्येयत्वेनोच्येते छान्दोग्ये त्वोङ्कारस्तदवयवः प्राणदृष्ट्योपास्य उक्तः । एवं विवक्षितार्थस्यान्तरङ्गोपास्यस्वरूपस्य भेेेदे गम्यमाने बहिरङ्गादर्थवादाविशेषान्नैकार्थत्वेन विद्यैक्यमित्यर्थः ।
वाक्यसादृश्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह -
तथाहीति ।
चतुर्दश्यामेवामावास्याभ्रान्त्या दर्शार्थं प्रवृत्तस्य यजमानस्य चन्द्रमाः पश्चादभ्युदेति तद्विषयं वाक्यमभ्युदयवाक्यम् । तस्मिन्वाक्ये पशुकामस्येष्टिविधायके च वाक्ये यद्यपि त्रेधा तण्डुलान्विभजेदिति निर्देशस्तुल्यस्तथापि ‘वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति’ इति कालातिक्रमापराधेनोपक्रमादभ्युदयवाक्ये नित्ये दर्शकर्मण्येव पूर्वदेवताभ्यो हविषामपनयनेन दातृत्वादिगुणविशिष्टदेवतान्तराङ्गीकारः । पशुकामवाक्ये च ‘यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् ‘ इति नित्यं दर्शकर्म परिसमाप्य पुनर्दोहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्येष्ट्यन्तरविधानमुपगतम् । न तु वाक्यद्वये निर्देशस्य सादृश्यमात्रेणार्थैक्यं प्रक्रमभेदादर्थभेदनिश्चयात् । तथा प्रकृते शाखाद्वये बहुतरार्थवादिकसादृश्येऽपि पूर्वोक्तप्रक्रमभेदाद्विद्याभेद इत्यक्षरार्थः । एतदुक्तं भवति - ‘वि वा एतं प्रजया पशुभिरर्थयति वर्धयत्यस्य भ्रातृव्यं यस्य हर्विर्निरुप्त पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमास्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम् ‘ इत्यत्र यस्य यजमानस्य पुरस्तात्पूर्व हविर्निरुप्तं देवतार्यंं सङ्कल्पितं चन्द्रमाश्च पश्चादाभिमुख्येनोदेति तमेतं यजमानं निरुप्तं हविः प्रजादिना विनाशयति शत्रुं चास्य वर्धयति । तथाचासौ चतुर्दश्याममावास्याभ्रान्तिभागी मध्यमादिभावेन त्रेधाभूता ये तण्डुलास्तानग्न्यादिभ्यो दर्शदेवताभ्यो विभजेद्विभज्य च दातृत्वादिगुणकाग्न्यादिभ्यो देवताभ्यो निर्वपेदित्येवमर्थायां श्रुतौ किमभ्युदये नैमित्तिकं कर्मान्तरं दर्शाच्चोद्यते किंवा दर्शकर्मण्येव पूर्वदेवतात्यागेन देवतान्तरं विधीयत इति सन्देहे त्रेधा तण्डुलान्विभजेदिति हविषामेव मध्यमादिक्रमेण विभागश्रवणात्पूर्वदेवताभ्यो हवींषि विभजेदिति चाश्रुतेरपनीता हविःषु पूर्वदेवता इति तदवरुद्धेषु तेषु देवतान्तरमलब्धावकाशं श्रुतं कर्मान्तरमेव गोचरयेदिति देवतान्तरयुक्तकर्मान्तरे विधिरिति प्राप्ते त्रेधा तुण्डलान्विभजेदित्यत्र ये मध्यमाः स्युरित्यादिवाक्यान्तरप्राप्तं त्रेधात्वमनूद्य विभजेदित्यस्यैव विधानात्कस्मादित्यपेक्षायां मध्यमादिवाक्यैर्देवतान्तरेषूक्तेषु तत्प्रतियोगिनीनां देवतानामेव बुद्धिस्थानां विभागप्रतियोगित्वसिद्धेः । तण्डुलशब्दस्य च हविर्मात्रविषयत्वाद्दधिपयसोरपि पूर्वदेवतातो विभागलाभादपनीते पूर्वदेवताके हविषि देवतान्तरस्य सावकाशत्वात्पूर्वद्रव्यमुखेन प्रकृतकर्मप्रत्यभिज्ञानाद्देवतानन्तरसम्बन्धेऽपि कर्मान्तरकल्पानानवकाशान्नैमित्तिकाधिकारे समाप्ते नित्याधिकारार्थं तान्येव कर्माण्यनुष्ठेयानीति नास्ति कर्मभेद इति स्थितम् । ‘यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् ।
ये स्थविष्ठास्तानग्नये सनिमतेऽष्टाकपालं निर्वपेद्ये मध्यमास्तन्विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्’ इत्यत्र तुल्यश्रुत्या दर्शसमाप्त्यनन्तरं वत्सापाकरणेन गोदोहनं कृत्वा पूर्ववद्देवताभ्यो हविर्विभज्य देवतान्तरविशिष्टपशुकामेष्टिविधानात्पूर्वस्य कर्मणोऽननुवृत्तेरभ्युदयवाक्यसारूप्येऽपि यागान्तरविधिस्तथेहापि स्यादिति पूर्वतन्त्रसिद्धं दृष्टान्तं बहिरेवोक्त्वा सौत्रं दृष्टान्तमादाय व्याचष्टे -
परोवरीयस्त्वेति ।
परस्माद्वरप्राणादेः परोवराच्च तस्मादेव वरीयान्वरतरोऽयमुद्गीथः स च परमात्मदृष्टिसम्पत्तेरनन्तर इति द्रष्टव्यम् । आकाशे चादित्यादौ च परमात्मदृष्टेरारोपादुद्गीथोपास्तिसाम्येऽपि परोवरीयस्त्वादिगुणकोद्गीथोपास्तिरन्याय्या च हिरण्यश्मश्रुत्वादिगुणकोद्गीथोपास्तिस्तथेहापीत्यर्थः ।
दृष्टान्तेऽप्यधिकगुणानामन्योन्यत्रोपसंहाराद्विद्यैक्यमित्याशङ्क्याह -
नचेति ।
पुनरुक्त्या विद्याभेदस्यातिस्पष्टत्वं हेतुं मत्वोक्तम् -
एकस्यामिति ।
शाखाभेदाद्बोद्धृभेदेनापौनरुक्त्येऽपि तात्पर्यप्रमेयगुणभेदविशिष्टोपासनेषु नानात्वमित्याह -
तद्वदिति ॥ ७ ॥
पूर्वपक्षबीजमुद्भाव्य दूषयति -
संज्ञातश्चेति ।
अनुवादं व्याकरोति -
अथेति ।
अत्रेति शाखाद्वयमुक्तम् । संज्ञैकत्वं विवृणोति -
उद्गीथेति ।
पूर्वसूत्रगतं नञ्शब्दं तच्छब्देन संयोज्य परिहरति -
तदपीति ।
पूर्वसूत्रोक्तपरिहारस्य बाधकत्वाच्चोद्याभासोऽयमित्याह -
उक्तं हीति ।
समाख्याविशेषादभेदो गम्यते रूपभेदाच्च भेदस्तथा सति किमत्र युक्तं, तत्राह -
तदेवेति ।
रूपभेदस्यान्तरङ्गतया बलवत्तरत्वात्संज्ञायाश्च श्रुतिबाह्यतया बहिरङ्गत्वात्पौरुषेयतया च सापेक्षत्वेन दुर्बलत्वाद्रूपभेदादुक्तं विद्यानानात्वमेव युक्तमित्यर्थः ।
कथं संज्ञैक्यं श्रुत्यक्षरबाह्यं, तत्राह -
उद्गीथेति ।
संज्ञैक्याद्विद्यैक्ये स्यादतिप्रसक्तिरित्यस्तीत्यादिव्याकरोति -
अस्ति चेति ।
अपिशब्दोपात्तमुदाहरणान्तरमाह -
तथेति ।
संज्ञैक्येऽपि न चेत्तत्रैक्यं तर्हि संज्ञैक्यमुद्गीथज्ञानेऽप्यप्रयोजकमित्याह -
तथेहेति ।
कथं तर्हि संज्ञैक्यस्य व्यभिचारित्वे प्रथमसूत्रे तस्यैक्ये हेतुत्वमुक्तमित्याशङ्क्य तुशब्दसूचितमर्थमाह -
यत्रेति ।
एवंजातीयकः प्रक्रमभेदो वा तत्तुल्यो वेत्यर्थः ।
असति बलवति बाधके संज्ञैक्यमपि साधकमित्यत्र दृष्टान्तमाह -
यथेति ।
आदिपदेन पञ्चाग्निविद्या वैश्वानरविद्येत्यादि गृह्यते ॥ ८ ॥
ओमित्येतदक्षरमुद्गीथमुपासीतेत्यत्रोद्गीथविशेषितत्वमोङ्कारस्यापि सिद्धवत्कृत्य प्रक्रमभेदाद्विद्याभेदमुक्त्वा तमेव विशेषणविशेष्यभावं निरूपयति -
व्याप्तेश्चेति ।
ओमुद्गीथशब्दयोः सामानाधिकरण्यमधिकरणस्य विषयं दर्शयति -
ओमित्येतदिति ।
विशेषानवधारणकृतं सन्देहमाह -
अध्यासेति ।
अत्र च विशेषणविशेष्यभावनिरूपणेन विचारस्य वाक्यार्थधीसाधनसङ्क्रान्ततया पादादिसङ्गतयः । पूर्वपक्षे समानाधिकरणवाक्यस्यानध्यवसितार्थत्वादप्रामाण्यं सिद्धान्ते तस्यार्थनिश्चयात्प्रामाण्यम् ।
कथमेतेषां पक्षाणां प्रतिभानं भेदो वेति तत्राध्यासं व्युत्पादयति -
तत्रेति ।
तेषां मध्य योऽध्यासो नाम प्रसिद्धः स व्युत्पाद्यते ।
गौणी बुद्धिरसावित्युपेत्य व्युत्पादनमभिनयति -
द्वयोरिति ।
कथमन्यतरबुद्धावनिवर्तितायामन्यतरबुद्धेरध्यासः स्यात् , तत्राह -
यस्मिन्निति ।
अध्यस्तबुद्ध्येतरबुद्धेर्निवर्त्यत्वमाशङ्क्य दृष्टान्तमाह -
यथेति ।
वैदिकदृष्टान्तमुक्त्वा लोकिकमाह -
यथा वेेति ।
विशेषमनवधारयन्दार्ष्टान्तिकमाह -
एवमिति ।
अध्यासपक्षसमाप्तावितिशब्दः ।
अपवादव्युत्पादनं प्रतिज्ञाय व्युत्पादयति -
अपवाद इति । यत्रेति ।
यस्मिन्कस्मिंश्चिद्वस्तुनीत्यर्थः ।
तत्रापि लौकिकं वैदिकं चोदाहरणमाह -
यथेत्यादिना ।
पूर्ववद्दार्ष्टान्तिकमाह -
एवमिति ।
इतिशब्दोऽपि पूर्ववत् ।
एकत्वपक्षं सदृष्टान्तं स्पष्टयति -
एकत्वं त्विति ।
विशेषणपक्षं प्रकटयति -
विशेषणमिति ।
ग्रहणप्रसङ्गे ध्येयत्वेन स्वीकारप्रसक्ताविति यावत् ।
उक्तमेव दृष्टान्तेन स्पष्टयति -
यथेति ।
पक्षचतुष्टयं व्युत्पादितमुपसंहरति -
एवमिति ।
अध्यासादिषु दृष्टेष्वनध्यवसायपक्षं पूर्वपक्षयित्वा सिद्धान्तमाह -
तत्रेत्यादिना ।
सूत्रस्थचशब्दस्य समुच्चयाद्यर्थाभावादानर्थक्यमाशङ्क्य व्याचष्टे -
चशब्द इति ।
पक्षव्यावृत्तिमेव प्रकटयति -
तदिति ।
तत्तत्र सामानाधिकरण्यवाक्ये चतुष्टयपक्षेषु दृष्टेष्विति यावत् ।
व्यावर्त्ये पक्षत्रये विशेषणपक्षस्य प्रवेशं निषेधन्नादेयं पक्षमाह -
विशेषणेति ।
कथं त्रयाणां पक्षाणां सावद्यत्वं तत्राध्यासस्य सावद्यत्वं साधयति -
तत्रेति ।
उद्गीथबुद्धेरक्षरेऽध्यासेऽक्षरशब्दस्योद्गीथे तस्मिन्वाक्षरबुद्धेरध्यासे सत्युद्गीथशब्दस्याक्षरे लक्षणा स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या तेन नाध्यास इत्यर्थः ।
तत्रैव दोषान्तरमाह -
फलं चेति ।
तत्कल्पनाममृष्यन्नाह -
श्रूयत इति ।
तस्याध्यासफलत्वाभावान्मैवमित्याह -
तन्नेति ।
श्रुतस्य फलस्यान्यफलत्वमेव व्यनक्ति -
आप्त्यादीति ।
नच तस्योभयफलत्वमाप्त्यादिदृष्टिं विधातुमोमित्येतदक्षरमिति वाक्येन विशिष्टप्रणवार्थेन पृथगुपास्तिविध्यनुपगमादिति भावः ।
अपवादपक्षं प्रत्याह -
अपवादेऽपीति ।
अध्यासं दृष्टान्तयितुमपिशब्दः वाक्यशेषस्थं तु फलं नाध्यासस्य नापवादस्यापि स्याद्विशिष्टोपास्तिसम्बन्धादित्यर्थः ।
फलाभावासिद्धिं शङ्कते -
मिथ्येति ।
तन्निवृत्तावात्मनि कर्तृत्वाद्यनर्थनिवृत्तिरानन्दभिव्यक्तिश्च दृष्टा नैवमोङ्कारबुद्ध्योद्गीथबुद्धेस्तस्या वेतरस्या ध्वंसे कश्चित्पुरुषार्थो दृष्टः ।
तस्मान्नेदं फलमित्याह -
नेति ।
अपवादमुपेत्य वैफल्यं दोषमुक्त्वाङ्गीकारं त्यजति -
नचेति ।
उद्गीथबुद्धिरेङ्कारबुद्धेरपवादिका चेदोङ्कारबुद्धिः स्वविषयादोङ्कारान्निवर्तेत । ओङ्कारबुद्धेर्बाध्याया मिथ्याधीत्वेन स्वार्थव्यभिचारात् । यदोङ्कारधीरुद्गीथबुद्धेरपवादिका तदापि मिथ्याधीत्वादुद्गीथधीः स्वार्थान्निवर्तेत । नचैवं दृष्टमतो नापवाद इत्यर्थः ।
किञ्चापवादेनास्य वाक्यस्य तात्पर्यमुपास्तिपरत्वादित्याह -
नचेति ।
एकत्वपक्षं निराह -
नापीति ।
पिकशब्दस्य कोकिलशब्देन व्युत्पादनवदन्यतरशब्दस्यान्यतरशब्देन व्युत्पादनं फलवदेवेत्याशङ्क्य सन्दिग्धार्थतादेरसत्त्वान्मैवमित्याह -
एकेनेति ।
ओङ्कारोद्गीथशब्दयोरुद्गीथार्थत्वादन्यतरेण तत्सिद्धेर्न शब्दान्तरमर्थवदित्यर्थः ।
किञ्चैकत्वपक्षे किमुद्गीथस्याक्षरेऽन्तर्भावोऽक्षरस्य वेतरस्मिन्निति विकल्प्याद्यं निराह -
नचेति ।
द्वितीयं प्रत्याह -
नापीति ।
उद्गीथशब्दस्याक्षरे तच्छब्दस्य चोद्गीथे प्रसिद्ध्यभावे तयोरेकार्थत्वराहित्यं फलतीत्याह -
येनेति ।
पक्षत्रयं सावद्यत्वेनापोद्य निरवद्यं पक्षं गृह्णाति -
परिशेषादिति ।
तत्र सौत्रं पदमादाय विभजते -
व्याप्तेरिति ।
तथापि कथं विशेषणपक्षसिद्धिः, तत्राह -
सर्वेति ।
इहेत्युपासनोक्तिः । तत्प्रसङ्गे वाक्यशेषविरोधः स्यादिति मत्वा ब्रूते -
अत इति ।
सम्भवे व्यभिचारे च विशेषणमर्थवदित्युपगमादोङ्कारस्य विशेष्यस्य सर्ववेदव्यापित्वादुद्गीथेन विशेषणेन व्यभिचारवारणेऽपि सर्वस्या द्वितीयस्या भक्तेरुद्गीथशब्दितायास्तदवयवे सम्भवाभावादयुक्तमोङ्कारविशेषणमुद्गीथस्येत्याशङ्क्यावयवलक्षणार्थत्वमुद्गीथशब्दस्योपेत्याह -
कथमिति ।
इतिशब्दो वृत्तक्रियापदेन सम्बध्यते । न चोद्गीथस्यैवावयविनो लक्षणा स्यादोङ्कारेणावयवेनेति युक्तमोङ्कारस्योपरिष्टाद्विस्तरेण व्याख्यास्यमानतया प्रधानत्वात्तेन भक्तिलक्षणायामुद्गीथपदेन भक्तिविशेषस्यैवार्पणे व्यभिचाराभावाद्विशेषणवैयर्थ्यमिति भावः ।
लक्षणाप्रसङ्गेनाध्यासस्य निरस्तत्वादयमपि पक्षो दोषसाम्यान्नोपादेयः स्यादिति शङ्कते -
नन्विति ।
उद्गीथशब्दस्यावयवे लक्षणामङ्गीकरोति -
सत्यमिति ।
अध्यासपक्षवदयमपि तर्हि पक्षो नोपादेयः स्यादित्याशङ्क्याह -
लक्षणायामिति ।
पक्षद्वये तुल्यायामपि लक्षणायामध्यासपक्षमुपेक्ष्य विशेषणपक्षमाद्रियामहे तत्र लक्षणार्थस्य वाक्यार्थान्वयित्वेन लक्षणायाः संनिकृष्टविषयतया बलीयस्त्वात् । अध्यासे तु गौणी धीरसावित्युक्तत्वात् लक्ष्यमाणगुणवत्येकस्मिन्नितरशब्दस्यावसानाल्लक्षणाया विप्रकृष्टविषयत्वेन दौर्बल्यादित्यर्थः ।
अध्यासपक्षे लक्षणाया विप्रकृष्टविषयत्वं स्पष्टयति -
अध्यासेति ।
सिद्धान्ते लक्षणायाः संनिकृष्टविषयत्वेन प्रबलत्वं प्रकटयति -
विशेषणेति ।
अवयविवचनेन शब्देनावयवलक्षणाया लौकिकत्वाभावं प्रत्याह -
समुदायेष्विति ।
पटो दग्धो ग्रामो दग्ध इति तदेकदेशदाहेऽपि समुदायशब्दो लक्षणयावयवे प्रयुज्यते तथोद्गीथशब्दोऽपि द्वितीयभक्त्यवयवेऽक्षरे लक्षणया वर्तिष्यते, नचाक्षरस्योद्गीथावयवत्वं तदुपासनं च विधेयमिति वाक्यभेदः । विशिष्टाक्षरानुवादेनोपास्तेरेव तत्तद्गुणवत्यास्तत्तत्फलविशिष्टायाः समस्तेन वाक्येन विधानादिति भावः ।
उक्तहेत्वनुवादेनावशिष्टं सूत्रपदं व्याकुर्वन्विशेषणपक्षस्य निरवद्यत्वमुपसंहरति -
अतश्चेति ॥ ९ ॥
ओङ्कारस्योद्गीथगुणकस्यैवोपास्यतेत्युक्ते प्राणस्यापि तत्तदुक्तगुणमात्रस्यैव तत्र तत्रोपास्यतेत्याशङ्क्याह -
सर्वेति ।
विषयं वक्तुमविगीतमर्थमाह -
वाजिनामिति ।
शाखाद्वयेऽपि संमतमर्थान्तरमाह -
वागिति ।
सा हि वसिष्ठत्वगुणा वाक् । वाग्मिनो हि लोके सुखिनो वसन्ति । चक्षुश्च प्रतिष्ठागुणं चक्षुष्मतः पादप्रतिष्ठादर्शनात् । सम्पद्गुणं श्रोत्रम् । तद्वत एव श्रवणार्थावधारणकर्मसम्पत्तिदर्शनात् । आयतनगुणं मनः । भोग्यानां तत्र वृत्तिद्वारा निधानादित्युभयत्रापि श्रुतमित्यर्थः ।
तत्र तर्हि बहूनामुपास्यतेष्टेत्याशङ्क्याह -
ते चेति ।
अन्वयव्यतिरेकाभ्यां प्राणाधीनत्वसिद्धेर्वागादिस्थितेः । प्राणे स्वगुणा वागादिभिरर्पिता इत्यर्थः ।
शाखान्तरेऽपि संमतमर्थमाह -
अन्येषामिति ।
निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं तदन्तरेणोपास्तेरयोगात्तत्प्रस्तुतमधिकृतमित्याह -
अथेति ।
एता ह वै देवता वागाद्यभिमानिन्योऽहंश्रेयसे स्वकीयश्रेष्ठत्वायेति यावत् ।
अविगीतमर्थमुक्त्वा विगीतमर्थमाह -
न त्विति ।
एवंशब्दाज्ज्येष्ठत्वादिगुणकप्राणप्रत्यमिज्ञानाच्च वसिष्ठत्वादिगुणेषु संशयमाह -
तत्रेति ।
क्वचिदिति वाजसनेयकच्छान्दोग्योक्तिः । अन्यत्रेति कौषीतकिप्रभृतिशाखोच्यते । अत्र च वसिष्ठत्वादिगुणोपसंहारद्वारा वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथाश्रुति गुणव्यवस्था ।
सिद्धान्ते गुण्यनुरोधात्तदव्यवस्थेति मत्वा पूर्वपक्षयति -
तत्रेति ।
विद्यैक्यादनुमानादुपसंहारे कथमनुपसंहारः स्यादिति शङ्कते -
कुत इति ।
ओंकारस्य सर्वत्र प्राप्तावुद्गीथविशेषणादन्यव्यावृत्तिवदेवं विद्वानिति संनिहितालम्बनादेवंशब्दादसंनिहितस्य विद्यैक्यद्वाराऽनुमितस्य वसिष्ठत्वादेर्व्यावृत्तिर्युक्तेत्याह -
एवंशब्देति ।
यथा प्राणो वागादिभ्यः श्रेष्ठः सिद्धस्तथा प्राणं श्रैष्ठ्यगुणं विद्वान्यः कश्चिदधिकृतः सन्नुपास्ते सोऽपि प्राणे श्रैष्ठ्यं विदित्वोपास्यप्राणात्मकत्वप्राप्त्या श्रैष्ठ्याद्यन्वितो भवतीति श्रुत्यर्थः ।
एवंशब्दसंयोगेऽपि विद्याया वसिष्ठत्वादिगुणवत्त्वं किं न स्यात् , तत्राह -
तत्र तत्रेति ।
वीप्सया तत्तद्विद्याप्रकरणमुच्यते ।
एकत्वाद्विद्याया वेद्यार्पकेणैवंशब्देन शाखान्तरोक्तानामपि वसिष्ठत्वादीनां परामर्शः स्यादित्याशङ्क्याह -
एवमिति ।
शब्दस्य शाब्दमेवानुमानिकादपि संनिहितमिति कुतः शाखान्तरीयगुणधीरित्यर्थः ।
विद्याया निराकाङ्क्षत्वार्थं शाखान्तरीयमपि गुणजातमिह परामृष्टमित्याशङ्क्याह -
तस्मादिति ।
पूर्वपक्षमनुभाष्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -
एवमिति ।
क्वचिदुक्तानां गुणानां गुणानभिधायिशाखासूपसंहारे सर्वत्र तत्प्रसङ्गात्क्वचिदेवोपसंहारे निमित्तं पृच्छति -
कुत इति ।
तत्र सौत्रं हेतुमुक्त्वा व्याचष्टे -
सर्वेति ।
सर्वासु शाखासु प्राणज्ञानस्यैक्ये मानमाह -
अभिन्नमिति ।
प्रत्यभिज्ञापकं दर्शयति -
प्राणेति ।
आदिशब्दः श्रेष्ठत्वादिग्राही । ज्ञानैक्येऽपि यथाश्रुति गुणव्यवस्थामाशङ्क्योक्तम् -
अभेदे चेति ।
गुण्याकृष्टगुणानां व्यवस्थोक्तिरनुमानविरुद्धेत्यर्थः ।
पूर्वपक्षबीजमनुभाषते -
नन्विति ।
अनुमानस्य शब्दविरोधं परिहरन्नाह -
अत्रेति ।
असंनिहितत्वादेवंशब्देन वसिष्ठत्वादिग्रहायोगान्नानुमानश्रुत्यविरुद्धेत्याशङ्क्याह -
यद्यपीति ।
वाजसनेयिब्राह्मणस्थेन तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणधीसम्बन्धः सिद्धः सैव कौषीतकिब्राह्मणेऽपि प्रत्यभिज्ञाता तथाच तद्गतेनापि वसिष्ठत्वाद्येवंशब्देन शक्यं पराम्रष्टुमित्यर्थः ।
शब्दस्य शब्दोक्तमेव संनिहितं न विजातीयानुमासिद्धमित्याशङ्क्याह -
इति नेति ।
नहि शब्दस्य शाब्दमेव संनिहितं किन्तु शब्दोक्तार्थनान्तरीयकतया प्राप्तमपि बुद्धिस्थं शब्दस्य संनिहितमेव पर्णमयीत्वस्य जुहूपस्थापितक्रतुवदतः संनिध्यविशेषादेवंशब्देन तस्यापि सङ्ग्रहसिद्धिरिति भावः ।
अनुमानतः शाखान्तरीयगुणोपसंहारे परिगणितत्वं श्रुतं हीयेताश्रुतानामपि गुणान्तराणामत्रोपसंहारादित्याशङ्क्यानुमायाः श्रुत्यविरुद्धार्थत्वान्मैवमित्याह -
नचेति ।
तदेव व्यनक्ति -
एकस्यामिति ।
उक्तमर्थं दृष्टान्तेन समर्थयति -
नहीति ।
शब्दोक्तनान्तरीयकमपि संनिहितमेवेत्युक्तं दृष्टान्तेन स्पष्टयति -
यथाचेति ।
देवदत्तैक्यात्तस्मिन्बुद्धिस्थे तद्गुणानां बुद्धिस्थातावज्ज्ञानैक्यात्तस्मिन्बुद्धिसंनिहिते तद्गुणा अपि तथा भवन्तीत्याह -
एवमिति ।
अनुमानस्याविरोधे फलितमाह -
तस्मादिति ॥ १० ॥
प्राणस्य सविशेषत्वाद्युक्तशाखान्तरीयवसिष्ठत्वाद्युपसंहारो ब्रह्मणो निर्विशेषत्वात्तद्धर्मैः स्वशाखागतैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहारः स्यादित्याशङ्क्याह -
आनन्दादय इति ।
विषयं दर्शयति -
ब्रह्मेति ।
ब्रह्मैक्यनिर्विशेषत्वाभ्यां संशयमाह -
तेष्विति ।
वेद्यब्रह्मैक्यादेवंशब्दवदपवादकादृष्टेश्चौत्सर्गिको गुणोपसंहारः स्यादित्याशङ्क्य ब्रह्मैक्यादानन्दादीनां सर्वत्रोपसंहारे संयद्वामत्वादयोऽपि किमिति नोपसंह्रियेरन्नित्यभिप्रेत्य पूर्वपक्षयति -
तत्रेति ।
संयद्वामत्वादीनामुपासनार्थमुक्तानां यथाविधि व्यवस्था । सत्यादयस्तु वस्तुतत्त्वप्रमित्यर्थः यत्र यत्र वस्तुतत्त्वधीस्तत्र तत्रोपसंह्रियेरन्नित्युक्त्वा वाक्यार्थधीहेतोरेवात्र निरूपणात्पादादिसङ्गतिः । पूर्वपत्रे सत्याद्यनुपसंहारे तत्त्वाप्रमितिः ।
सिद्धान्ते तदुपसंहारे तत्प्रमितिसिद्धिरिति मत्वा सिद्धान्तमाह -
इदमिति ।
शाखाभेदेनोदितानुदितहोमकार्यताव्यवस्थावदिहापि शब्दभेदेन व्यवस्था स्यादिति शङ्कते -
कस्मादिति ।
पूर्वहेतुमिहाकृष्योदाहरति -
सर्वेति ।
हेतुमेव विवृणोति -
सर्वत्रेति ।
ब्रह्मणः सर्वत्रैक्ये फलितमाह -
तस्मादिति ।
धर्मिणः सार्वत्रिकत्वेऽपि धर्माणां यथाश्रुति व्यवस्था स्यादित्याशङ्क्याह -
तेनेति ।
सत्यज्ञानादयो मिथोविशेषणविशेष्यभूता विरुद्धानृतजडादिभ्रान्तिं निवर्तयन्तः सत्त्वादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति । न चैकस्मादेव पदादीदृशं ब्रह्म सिध्यति पदमात्रप्रयोगे विरोधाभावाल्लक्षणानुत्थानात्प्रयोक्तव्ये पदान्तरे सम्भावितसमस्तभ्रान्तिनिरासनसमर्थ पदजातं प्रयोक्तव्यमित्यारोपितभ्रान्तिनिवृत्त्यर्थं परशाखीयमपि पदवृन्दमत्रोपसंहर्तव्यमिति भावः ॥ ११ ॥
आनन्दमयस्य ब्रह्मणः सर्वत्राभेदात्तद्धर्मत्वेनानन्दादिवत्प्रियशिरस्त्वादयोऽपि तत्र तत्र प्रसज्येरन्नो चेदानन्दादयोऽपि सार्वत्रिका न स्युरिति शङ्कते -
नन्विति ।
ब्रह्मधर्माणां सर्वत्र सङ्करे सतीति यावत् ।
ब्रह्मधर्मतैव तेषामसिद्धेत्याशङ्क्याह -
तथाहीति ।
सूत्रेणोत्तरमाह -
अत इति ।
तत्र प्रतिज्ञां विभजते -
प्रियेति ।
हेतुं व्याकरोति -
तदिति ।
इष्टवस्तुसामान्याप्तिकृतं प्रीतिमात्रं प्रियम् । पुत्रादिविशेषलाभकृतो हर्षविशेषो मोदः । स एव प्रकृष्टः सन्प्रमोदः । सुखसामान्यमानन्द इत्येवमेते परस्परापेक्षयोपचयापचयरूपा भोक्तृभेदाच्च तथात्वभाजो जीवेषु सुखादिवैचित्र्यदृष्टेरित्यर्थः ।
तेषामेवंरूपत्वोपलम्भेऽपि किमायातमित्याशङ्क्याह -
उपचयेति ।
तर्हि ब्रह्मण्यपि भेदोऽस्तु नेत्याह -
निर्भेदं त्विति ।
अतो यत्र यत्र ब्रह्म प्रतिपाद्यं तत्र तत्र प्रियशिरस्त्वादीनां न प्राप्तिरिति शेषः ।
ब्रह्मधर्मत्वमेषामुपेत्योक्तं तदेव नास्तीत्याह -
नचेति ।
आनन्दमयस्य ब्रह्मत्वे कथं तद्धर्माणामेषामब्रह्मधर्मतेत्याशङ्क्यानन्दमयाधिकरणे वृत्तं स्मारयति -
कोशेति ।
इतश्च प्रियशिरस्त्वादीनां ब्रह्मवाक्ये न प्राप्तिरित्याह -
अपिचेति ।
अस्तु तर्हि चित्तावतारोपायत्वेनैव सर्वत्र ब्रह्मवाक्ये तत्प्राप्तिः, तत्राह -
एवमपीति ।
तेषां ब्रह्मणि चित्तावतारोपायत्वेऽपि न ब्रह्मवाक्ये सर्वत्र प्राप्तिर्द्रष्टव्यत्वेनानुपदेशात् । अब्रह्मधर्मत्वाच्च । चित्तावतारस्तु तत्र तत्रोक्तैरेव धर्मैः सम्भवान्नैषामुपसंहारं काङ्क्षतीत्यर्थः ।
अब्रह्मधर्मत्वेनैषामुपसंहारशङ्काभावादनर्थकमिदं सूत्रमित्याशङ्क्याह -
ब्रह्मेति ।
कृत्वाचिन्ताफलमाह -
स चेति ।
तत्रापि ब्रह्मैक्यात्किमित्यन्योन्यत्रोपसंहारो न स्यादित्याशङ्क्याह -
तेष्विति ।
तेषां ध्यानार्थमुक्तानां विधिपारतन्त्र्याद्यत्र यावद्गुणविशिष्टतयोपास्तिर्विधीयते तत्र तावतामेव ध्येयता नान्येषामित्यन्योन्यत्रानुपसंहार इत्यर्थः ।
उपास्यैक्ये कथमुपास्तिभेदो धर्मभेदो वेत्याशङ्क्याह -
यथाचेति ।
विध्यधीनेषु धर्मेषु विधिमतिक्रम्य सङ्करो नास्तीत्युपसंहर्तुमितिशब्दः ।
सगुणवन्निर्गुणेऽपि ब्रह्मत्वाविशेषादुपसंहारानुपसंहारव्यवस्था किं न स्यात् , तत्राह -
उपचितेति ।
सगुणनिर्गुणयोर्वैषम्यमुक्त्वा सूत्रे विवक्षितं वदन्नुपसंहरति -
अतो नेति ॥ १२ ॥
विधिपरतन्त्रेभ्यः सत्यकामत्वादिभ्यो वस्तुधर्माणामानन्दादीनां ब्रह्मतत्त्वमित्युपयोगितया यत्र यत्र ज्ञेयं ब्रह्मोच्यते तत्र तत्र प्राप्तिरिति विशेषमाह -
इतरेत्विति ।
सूत्रितं विशेषं विशदयति -
इतरे त्वित्यादिना ।
ब्रह्मस्वरूपसिद्ध्यर्थमुच्यमानत्वमेवानन्दादीनां वैषम्यार्थं कथयति -
प्रतिपत्तीति ।
सत्यत्वज्ञानत्वानन्दत्वात्मत्वपूर्णत्वलक्षणाः पञ्च पदार्था ज्ञानाधिकारे सर्वत्रोपसंहर्तव्या इति वक्तुमितिशब्दः ॥ १३ ॥
ब्रह्मस्वभावभूतोपसंहार्यधर्मोक्त्यनन्तरमस्वभावस्यानुपसंहार्यस्याप्यर्थादिपरत्वरूपधर्मस्य ब्रह्मप्रमित्युपायत्वं वदति -
आध्यानायेति ।
विषयवाक्यं पठति -
काठक इति ।
वाक्यभेदाभेदानिर्धारणेनार्थादीनधिकृत्य संशयमाह -
तत्रेति ।
विद्याभेदाभेदप्रसङ्गेन वाक्यभेदाभेदयोस्तन्निबन्धनविद्याभेदाभेदयोर्वा चिन्तया वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे वाक्यभेदाद्विद्याभेदः ।
सिद्धान्ते तदभेदात्तदभेद इत्यभिप्रेत्य पूर्वपक्षमाह -
तत्रेति ।
तत्र हेतुमाह -
तथाहीति ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
सम्भवत्येकवाक्यत्वे वाक्यभेदो दोषोऽत्र तु वाक्यभेद एवेति समाधत्ते -
नेति ।
उपपत्तिमेवाह -
बहूनीति ।
सर्वेषां प्रत्येकं परत्वोक्तिरफलेत्याशङ्क्य ‘दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः’ इत्यादिस्मृतेर्ध्यानद्वारा प्रत्येकं परत्वोक्तेः सफलत्वसिद्धेरपूर्वार्थतया च प्रामाणिकस्य वाक्यभेदस्येष्टत्वात्प्रत्येकमर्थादीनां परत्वं प्रतिपाद्यमित्युपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तं प्रतिजानीते -
एवमिति ।
पुरुषपरत्वस्य शक्तिविषयस्य तात्पर्यगम्यत्ववदर्थादिपरत्वानामपि शक्तिविषयत्वादपूर्वत्वाच्च तात्पर्यमेयत्वं किं न स्यादिति शङ्कते -
कस्मादिति ।
तात्पर्यमेयत्वनिमित्तफलाभावान्नार्थादिपरत्वानां तन्मेयतेति मत्वाह -
प्रयोजनेति ।
कथं प्रयोजनाभावोक्तिरित्याशङ्क्यान्वयव्यतिरेकसिद्धं शास्त्रसिद्धं वा फलमिति विकल्प्याद्यं निराह -
नहीति ।
द्वितीयं प्रत्याह -
श्रूयते चेति ।
प्रकरणस्यास्य वस्तुपरत्वदृष्टेरुपास्तिविधिपरत्वायोगात्परमपुरुषार्थहेतुतत्त्वधीपरत्वे च सम्भवतीन्द्रियाद्युपास्त्यधीनस्मृतिसिद्धावान्तरपुमर्थपरत्वायोगान्न प्रत्येकमर्थादिपरत्वसिद्धिरित्यर्थः ।
पुरुषस्य परत्वधीरपि न फलवती परत्वधीत्वादर्थादिपरत्वधीवदित्यनुमानात्कथं त्वन्मतेऽपि पुरुषार्थहेतुफलत्वमित्याशङ्क्यानर्थशून्यतोपलक्षितानवच्छिन्नचिद्धातुविषयत्वात्पुरुषपरत्वदृष्टेरनर्थध्वंसफलत्वमनुभवसिद्धमित्याह -
पुरुषे त्विति ।
अज्ञानमिथ्याधीशान्तेर्दृष्टफलत्वाद्दृष्टे सत्यदृष्टकल्पना न युक्तेति मत्वाह -
दृश्यते इति ।
विद्वदनुभवे विप्रतिपन्नं प्रति पुरुषपरत्वदृष्टेर्दृष्टफलत्वे श्रुतिमाह -
तथाचेति ।
इतश्चास्य सन्दर्भस्य सर्वस्मात्परत्वेन पुरुषप्रमितिपरतेत्याह -
अपिचेति ।
पुरुषान्न परमिति निषेधलिङ्गेन सा काष्ठेति काष्ठाशब्देन बाधावधित्वेन परत्वोक्तिलिङ्गेन च पुरुषविषयमादरं तात्पर्यं दर्शयन्वेद इति यावत् । पूर्वापरप्रवाहोक्तिः पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिः ।
ध्यानविधेरिहाभावात्परपुरुषमितेर्ध्यानार्थता कथं सूत्रितेत्याशङ्क्य सूत्रावयवं व्याचष्टे -
आध्यानेति ।
निर्गुणब्रह्मप्रमितिरपि ध्यानार्था ब्रह्ममितित्वात्सगुणब्रह्ममितिवदित्याशङ्क्य ततस्तु तमित्यादिश्रुतिविरोधमाह -
सम्यगिति ॥ १४ ॥
सर्वस्मात्परत्वेन पुरुषस्यैवात्र प्रतिपाद्यत्वे हेत्वन्तरमाह -
आत्मेति ।
सूत्रस्थं चशब्दं व्याकरोति -
इतश्चेति ।
तदेव स्फुटयन्नात्मशब्दं विभजते -
यदिति ।
आत्मनोऽप्रकाशमानत्वं स्वभाविकमिति शङ्कां वारयति -
दृश्यते त्विति ।
तस्यां श्रुतावेष आत्मेत्यस्यार्थमाह -
प्रकृतमिति ।
सूत्रगतपञ्चम्या विवक्षितमर्थमाह -
अतश्चेति ।
अवशिष्टपूर्वार्धस्यार्थमाह -
तस्येति ।
उत्तरार्धतात्पर्यमाह -
संस्कृतेति ।
चशब्दसूचितं हेत्वन्तरमाह -
तदिति ।
वागादिनियमनमात्रं मन्त्रे प्रतीतं न तु ध्यानविधिरित्याशङ्क्याह -
तद्व्याख्यातमिति ।
अज्ञातार्थज्ञापनस्वाभाव्यादागमस्यात्मनश्च श्रुत्यैव दुर्ज्ञानत्वोक्तेर्वस्तुतश्च तथात्वादर्थादीनां च सुगमत्वात्तेषां परत्वोक्तिरपि तत्परैवेत्यभिप्रेत्योपसंहरति -
एवमिति ।
उपक्रमोपसंहारयोरैकरूप्यादपि पुरुषपरत्वे तात्पर्यं सन्दर्भस्य सिद्धमित्याह -
अपिचेति ।
‘तद्विष्णोः परमं पदम', ‘पुरुषान्न परं किञ्चित् ‘ इत्युपक्रमोपसंहारयोरैकरूप्यात्फलवति सर्वस्मात्परत्वे पुरुषस्य प्रतिपाद्ये सत्यवान्तरवाक्यानां तदेकवाक्यतायोगे वाक्यभेदादिकल्पने गौरवात्परपुरुषपरत्वमेव सन्दर्भस्येति हेत्वन्तरमेव स्फोरयति -
स इति ।
प्रमित्सितत्वाच्च पुरुषस्यैव प्रमेयतेत्याह -
किमिति ।
अर्थानामिन्द्रियाकर्षकत्वेन परत्वपरस्मिन्नात्मनि सर्वनियम्याकर्षकत्वेन परत्वं निश्चितमिति मत्वाह -
इन्द्रियादीति ॥ १५ ॥
वाक्यभेदभयादर्थादीनां पृथक्प्रतिपाद्यत्वे प्रत्युक्ते देवादिकर्तृत्वेन प्रकृतापरब्रह्मणोऽन्यो लोकस्रष्टा परो नोपेयो वाक्यभेदप्रसङ्गादित्याशङ्क्याह -
आत्मेति ।
विषयवाक्यमुदाहरति -
ऐतरेयक इति ।
आत्मशब्दस्य परत्र सूत्रे च प्रयोगात्तं विषयीकृत्य संशयमाह -
तत्रेति ।
आत्मशब्दस्य वाक्यार्थज्ञानोपयुक्तस्य परमात्मविषयत्वोक्त्या सत्यात्वादीनां तत्प्रमित्युपयोगिनामुपसंहारसिद्धेरस्ति पादादिसङ्गतिः । आत्मशब्दस्यापरविषयत्वे तदर्थप्रमित्यर्थं पूर्वपक्षे सत्याद्यनुपसंहारः ।
सिद्धान्ते तस्य परविषयत्वे तत्प्रमित्यर्थं तदुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -
किमिति ।
परशब्दवाच्यत्ववदात्मशब्दवाच्यत्वमपि तस्यैव किं न स्यादित्याह -
कस्मादिति ।
आत्मविषयवाक्यस्य सूत्रे तात्पर्यात्तद्विद्याऽत्राभीष्टा तन्न गुणोपसंहारोऽस्तीत्याह -
वाक्येति ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
सुतरामित्युक्तमेव हेतुद्वयोक्त्या प्रकटयति -
प्रागिति ।
लोकस्रष्टृत्वलिङ्गाद्वाक्यान्वयः सूत्रविषयो न परात्मगामीत्याह -
नेतीति ।
परस्यापि लोकस्रष्टृत्वं सर्वकारणत्वादिति लिङ्गस्यान्यथासिद्धिमाशङ्क्याह -
परमात्मनीति ।
तत्कर्तृकसर्गस्याकाशादिमहाभूतादित्वादस्य चातथात्वदृष्टेः सूत्रस्य च लोककर्तृकतायाः श्रुतिस्मृतिसिद्धत्वान्नात्र परगृहीतिरित्यर्थः ।
लोकशब्देनात्र महाभूतानामेवोक्तेः सृष्टेरिहापि महाभूतादित्वमिष्टमित्याशङ्क्याह -
लोकाश्चेति ।
महाभूतसंनिवेशविशेषे लोकशब्दस्य रूढत्वेऽपि प्रकरणादिह महाभूतान्येव ते गृह्येरन्नित्याशङ्क्याह -
तथाचेति ।
अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्विवृणोति । अदस्तदम्भः परेण दिवं दिवः परस्ताद्द्यौर्द्युप्रतिष्ठो लोको दिवमारभ्योपरितनलोकाश्चान्द्रमसैरम्भोभिर्व्याप्तेरम्भःशब्दिता इत्यर्थः ।
अन्तरिक्षलोकः सवितृमरीचिव्याप्तेर्मरीचयः । स्थानभेदाद्बहूक्तिः । म्रियन्तेऽस्मिन्भूतानीति पृथिवीलोको मरम् । याः पृथिव्या अधस्तात्ता आपः पातालानि तेषामब्बाहुल्याद्विधेयापेक्षया स्त्रीलिङ्गत्वम् । एवमादिपदेन द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप इति गृहीतम् । तथापि परमात्मैव स्रष्टा किं न स्यात् , तत्राह -
लोकेति ।
आत्मा हिरण्यगर्भः पुरुषविधस्तत्प्रकारः शिरः पाण्यादिमान्भूतानां स्थूलभूतकार्याणां चराचराणामिति यावत् ।
प्रजापतिकर्तृकैव लोकसृष्टिरित्येतत्प्रकरणादपि भातीत्याह -
ऐतरेयिणोऽपीति ।
नियम्यसृष्ट्यानन्तर्यमथेत्युक्तम् । नियन्तृसृष्ट्यतिरेकेण तत्सृष्टेरकिञ्चित्करत्वमतःशब्दार्थः ।
किं तद्रेतो यस्य सृष्टिरिष्टेत्याशङ्क्याह -
प्रजेति ।
रेतो वीर्यं तत्कार्यत्वाद्देवास्तच्छब्दाः । वाक्यस्य तात्पर्यमाह -
इत्यत्रेति ।
उपक्रमोपसंहारस्थाभ्यामात्मब्रह्मश्रुतिभ्यां परस्मिन्गम्यमाने कुतो लोकस्रष्टृत्वलिङ्गेनापरब्रह्मसिद्धिः ।
श्रुतिभ्यां लिङ्गस्य दुर्बलत्वादित्याशङ्क्य लिङ्गस्यैव प्राधान्यमिति वक्तुं तयोरन्यथासिद्धिमाह -
आत्मेति ।
ब्रह्मलोक इत्यादौ ब्रह्मशब्दस्यापि तस्मिन्प्रयोगोऽस्तीति वक्तुमपीत्युक्तम् । एक एवेत्येेकत्वावधारणस्य प्रजापतावयोगात्परमात्मैवात्रात्मशब्दः स्यादित्याशङ्क्याह -
एकत्वेति ।
अवधारणस्यैवं सम्भवेऽपि तस्मिन्नीक्षितृत्वायोगात्परस्यैवात्रोक्तिरित्याशङ्क्याह -
ईक्षणमिति ।
परस्मिन्नसम्भावितविशेषदृष्टेरपि सूत्रस्यैवात्मशब्दतेत्याह -
अपिचेति ।
ईश्वरो हि करणाधिष्ठात्रीरग्न्यादिदेवता वागादिभिः सह सृष्टवांस्ताश्च तं प्रति भोगार्थं शरीरमयाचन्त स च ताभ्यो गां गोशरीरमश्वशरीरं पुरुषशरीरं च यथाकर्म यथाश्रुतमानीतवांस्ततस्ता देवताः सोऽब्रवीद्यथायतनं यथाचक्षुरादिस्थानमस्मिन्देहे प्रविशतेति, तदाह -
ताभ्य इति ।
उक्तश्रुत्यर्थं सङ्गृह्णाति -
एवमिति ।
इहेति स्रष्टुरात्मनो निर्देशः । लिङ्गप्रकरणसिद्धमुपसंहरति -
तस्मादिति ।
सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -
एवमिति ।
इहेत्युदाहरणोक्तिः दृष्टान्तमादाय व्याचष्टे -
इतरवदिति ।
तस्य व्याख्यान्तरमाह -
तथाचेति ।
परस्यैव विश्वस्रष्टृत्वं प्रागेकत्वमात्मत्वं च मुख्यं तदसत्यामनुपपत्तौ नान्यत्रानुमेयम् ।
लोकसृष्टिवचनेऽपि महाभूतसर्गस्य पूर्वसिद्धतया वक्तंु शक्यत्वादिति मत्वा दार्ष्टान्तिकमाह -
तथेति ।
आत्मब्रह्मशब्दयोरन्यथासिद्धिं प्रत्याह -
यत्रेति ।
सति बाधकेऽन्यार्थत्वेऽपि प्रकृते तदभावात्प्रत्युत साधकस्यैव सत्त्वात्परविषयत्वमेवेत्याह -
अत्रेति ।
ईक्षणपूर्वकसर्गस्य परस्मिन्प्रसिद्धत्वे फलितमाह -
तस्मादिति ॥ १६ ॥
पूर्वपक्षबीजमनूद्य दूषयति -
अन्वयादिति ।
अनुवादं विभजते -
वाक्येति ।
परिहारमवतारयति -
अत्रेति ।
स्यादिति पदं पूरयित्वा व्याकरोति -
भवेदिति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
अवधारणं विवृणोति -
परमात्मेति ।
सूत्रग्रहेऽपि स्वविकारापेक्षया तदुक्तमित्याशङ्क्याह -
आञ्जसमिति ।
तदेव व्यतिरेकतः स्फोरयति -
अन्यथेति ।
यच्च लोकस्रष्टृत्वलिङ्गादपरग्रहणं, तत्राह -
लोकेति ।
श्रुत्यन्तरं तैत्तिरीयादिश्रुतिः ।
तत्र दृष्टान्तमाह -
यथेति ।
इहापीत्यैतरेयकोक्तिः ।
श्रुत्यन्तरप्रसिद्धा महाभूतसृष्टिरत्रोपसंहर्तुमशक्या वाक्यभेदादित्याशङ्क्याह -
श्रुत्यन्तरेति ।
नहि तैत्तिरीयादिवाक्यमैतरेवाक्यं च भिन्नं सृष्ट्यनुवादेनाविकृतब्रह्मविषयत्वाविशेषादित्यर्थः ।
यत्तु व्यापारवत्स्वात्मसु प्रसिद्धव्यापारविशेषस्यात्रानुगमाद्विशेषवानेवायमात्मेति, तत्राह -
योऽपीति ।
किञ्चाफले भेदे वेदस्याप्राण्याद्ब्रह्मपरत्वे च फलसम्भवात्तदेव विवक्षितमित्याह -
नहीति ।
पौर्वापर्यालोचनयापि ब्रह्मपरत्वमेवास्य सन्दर्भस्येत्याह -
तथाहीति ।
स परमेश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य च्छिद्रं कृत्वैतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवानिति यावत् ।
इतश्च ब्रह्मपरत्वमेवास्येत्याह -
पुनश्चेति ।
स शरीरे प्रविष्टः परमात्मा तमेव शरीरान्तर्गतं परमात्मानं ब्रह्म ततममेकस्तकारो लुप्तो मन्तव्यस्तततमं व्याप्ततमं यद्ब्रह्म तद्रूपेणैतमात्मानमपश्यदित्यर्थः ।
इतोऽपि वाक्यस्यास्ति ब्रह्मपरतेत्याह -
तथेति ।
यः शरीरे प्रविष्टः परमेश्वर एष एव परब्रह्मपरमात्मा प्रजापतिः सूत्रात्माप्येष एव । प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितं लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् ।
तच्च प्रज्ञानं ब्रह्मैवमवधारणमनेकधा व्याख्याय प्रकृतमुपसंहरति -
तस्मादिति ।
पू्र्ववर्णके विद्यैक्यगुणोपसंहारनिरूपणास्पाष्ट्यान्न साक्षात्पादसङ्गतिरिति तदर्थं वर्णकान्तरमाह -
अपरेति ।
पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वं परित्यज्य विद्यैक्यमुक्तम् । इदानीं भिन्नार्थोपक्रमेण वाक्यभेदशङ्कायामाह -
आत्मेति ।
श्रुतिद्वयगतं वाक्यमुदाहरति -
वाजसनेयक इति ।
उदाहृतवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयतीत्यत्र गमकमाह -
तथाहीति ।
तदर्थं त्वमर्थान्तं लक्षयद्वाक्यान्तरमाह -
छान्दोग्ये त्विति ।
सच्छब्दस्यात्मानात्मार्थत्वानिर्णयेन वाक्यद्वये संशयमाह -
तत्रेति ।
अर्थाभेदाद्विद्याभेदोक्त्या वाक्यार्थधीहेतोरेवात्रोक्तिरिति पादादिसंहतिः ।
पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः । सिद्धान्ते तदभेदात्तदुपसंहार इति मत्वार्थभेदाद्विद्याभेदं पूर्वपक्षमाह -
अतुल्येति ।
आम्नानवैषम्येऽपि किमित्यर्थैक्याद्विद्यैक्यं न स्यात् , तत्राह -
नहीति ।
तदेव विशदयति -
वाजसनेयके चेति ।
छान्दोग्येऽपि वाक्यशेषादात्मार्थत्वसिद्धौ कथमाम्नानवैषम्यं कथन्तरामर्थभेदः कथन्तमां विद्यानानात्वमिति शङ्कते -
नन्विति ।
‘स आत्मा तत्त्वमसि’ इति तादात्म्योपदेशमङ्गीकरोति -
सत्यमिति ।
तर्हि तदनुसारेणोपक्रमोऽपि नीयतामित्याशङ्क्याह -
उपक्रमेति ।
स हि सन्दिग्धार्थोपसंहारेण नीयते । प्रकृते तु तस्यासन्दिग्धार्थत्वात्तदनुसारिण्युपसंहारे प्रतिमायां विष्णुदृष्टिवदात्मनि ब्रह्मदृष्टिरेष्टव्येत्यर्थः ।
वाजसनेयिवाक्यं ब्रह्मात्मविद्यार्थं छान्दोग्यवाक्यं त्वात्मनि ब्रह्मदृष्ट्यर्थमिति विद्याभेदमुपसंहरति -
इति मन्यत इति ।
अतुल्यार्थतया विद्याभेदमनूद्य सिद्धान्तमाह -
तथेति ।
तादात्म्योपदेशस्य गत्यन्तरमनूद्य दूषयति -
अन्वयादिति ।
तत्रानुवादं विभजते -
यदिति ।
उपक्रमान्वयात्तत्तन्त्रत्वादुपसंहारस्येति यावत् ।
उपक्रमोऽपि तर्हि सदेवेत्यवधारणादात्मानमेव गोचरयतीत्याशङ्क्याह -
उपक्रम इति ।
तस्मादुपसंहारेऽपि न परमात्मतादात्म्यमात्मनो गृह्यते । नहि सच्छब्देनोपक्रमस्थेनात्मोच्यते तस्य तस्मिन्नप्रसिद्धत्वात् ।
तथाच सतोऽनात्मनस्तादात्म्यसम्पत्तिरात्मनि तत्त्वमसीति विवक्षितेत्याह -
नात्मेति ।
परिहारमादत्ते -
स इति ।
तत्र प्रतिज्ञां व्याचष्टे -
भवेदिति ।
अवधारणादिति हेतुं विवृणोति -
तथाहीति ।
एकविज्ञानेन सर्वविज्ञानं सच्छब्देनानात्मग्रहेऽपि सतः सर्वात्मत्वादविरुद्धमित्याशङ्क्याह -
तच्चेति ।
उक्तमेव व्यतिरेकेण साधयति -
अन्यथेति ।
प्रकारान्तरेण हेतुं व्याचष्टे -
तथेति ।
एकमेवाद्वितीयमित्येकत्वावधारणम् , अनेन जीवेनात्मनेति जीवस्यात्मशब्देन परामर्शः, सति सम्पद्येत्यादि तत्स्वभावापत्तिवचनं, भूय एव मा भगवान्विज्ञापयत्विति परिचोदना ।
हेतुजातस्योक्तस्य फलमाह -
इति च सर्वमिति ।
यत्तूपक्रमतन्त्रेणोपसंहारेण भाव्यमिति, तत्राह -
नचेति ।
अत्र च्छान्दोग्ये स आत्मेत्यादेरुपसंहारस्येति यावत् ।
तत्र हेतुः -
नहीति ।
उपसंहारानुसारेणापि तर्हि नोपक्रमो नेयस्तयोर्भिन्नविषयत्वात् , तत्राह -
सामान्येति ।
सच्छब्दस्य सत्तासामान्यवाचित्वेनात्मानात्मसाधारण्याद्विशेषाकाङ्क्षायामुपसंहारानुसारेणात्मैव तदर्थो निर्णीयते । सन्दिग्धार्थेनोपक्रमेणोपसंहारस्यानिर्णयादुपक्रमानुरोधन्यायस्यासन्दिग्धोपक्रमविषयत्वादित्यर्थः ।
उपक्रमभेदमुपेत्य श्रुतिद्वयेऽपि वेद्यैक्येन विद्यैक्यमुक्तम् । संप्रत्युपक्रमभेदोऽपि नास्तीत्याह -
सच्छब्देति ।
आत्मातिरिक्तस्य सर्वस्यानिर्वाच्यत्वादनात्मनः सच्छब्दार्थासिद्धेरात्मन एव तदर्थत्वान्नोपक्रमभेदोऽस्तीत्यर्थः । यत्त्वाम्नानवैषम्ये सत्यर्थसाम्यमयुक्तमिति, तत्राह -
आम्नानेति ।
तद्वैषम्यास्यार्थभेदेनानवश्यम्भावे फलितमाह -
तस्मादिति ।
एवंजातीयकेषु योऽयं विज्ञानमयः सदेव सोम्येदमित्यादिषु प्रतिपादनप्रकारभेदः समाम्नानविशेषो वाजसनेयके वाक्यार्थान्वयित्वमर्थस्य तदर्थपर्यन्तस्य च्छान्दोग्ये तदर्थस्य त्वमर्थपर्यन्तस्य लक्ष्यतया वाक्यर्थभेदाभावादेकैवोभयत्रापि विद्येत्याह -
प्रतिपाद्येति ॥ १७ ॥
सन्दिग्धस्य सदुपक्रमस्य शेषान्निर्णयवदाचामन्तीति वर्तमानापदेशस्य विधित्वसन्देहे शेषादशिष्यन्नाचामेदित्यतो विधिपरत्वं निर्णेयमित्याशङ्क्याह -
कार्येति ।
विषयं वक्तुमविगीतमाम्नानं दर्शयति -
छन्दोगा इति ।
यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमित्युक्त्वा तस्यैव प्राणस्यापो वासो वदन्तीति यावत् ।
छान्दोगानामविशेषाम्नानमुक्त्वा विशेषमाम्नानमाह -
अनन्तरं चेति ।
तस्मादपां प्राणं प्रति वासोरूपत्वादिति यावत् । अशिष्यन्तः श्रोत्रियाः सन्तोऽशनं कुर्वन्तस्तावदेतत्कुर्वन्ति किं तद्भोजनात्पूर्वमूर्ध्वं चाऽद्भिः प्राणं परिदधति परिधापयन्त्याच्छादयन्तीत्यर्थः ।
शाखान्तरेऽपि विशेषाम्नानं कथयति -
वाजसनेयिनस्त्विति ।
यस्मात्प्राणस्यापो वासस्तस्मादित्यस्मिन्नर्थे तच्छब्दः । विद्वांसः प्राणविद्यावन्तस्तेषां यथेष्टचेष्टानिषेधार्थं श्रोत्रियपदम् । एतमेवानं प्राणं तत्तेनाचमनेनानग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते चिन्तयन्तीत्यर्थः ।
काण्वानामाम्नानविशेषमुक्त्वा माध्यन्दिनानामाह -
तस्मादिति ।
यस्मात्पूर्वे प्राणविदः स्वयमाचामन्तः प्राणमनग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते तस्मादिदानीन्तनोऽपि प्राणविदेवं कुर्यादित्यर्थः ।
पाठत्रयेऽप्यापातिकमर्थमाह -
तत्र चेति ।
उभयोरपूर्वत्वमुपेत्याह -
तदिति ।
किञ्च वाक्यभेदप्रसङ्गभयादन्यतरदेव विधेयमिति कल्पान्तरं द्रष्टव्यम् ।
द्वितीयमपि विशेषानवधारणाद्द्वेधा विकल्पयति -
उतेति ।
तत्रापि प्रथमश्रुतत्वमालोच्य प्रथमो विकल्पो दृष्टिविषयसम्पादनेनाचमनस्यानग्नताचिन्तनशेषत्वं मत्वा द्वितीय इति भेदः । अत्र पाठत्रयेऽपि प्राणविद्याङ्गमनग्नताचिन्तनमेकमेव विधेयमिति चिन्ताया वाक्यार्थज्ञानसाधनगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे द्वयोर्विधेयत्वाद्वाक्यभेदोऽन्यतरविधावप्याचमनस्यैत्र विधेयत्वाद्विशेषविषयस्य तस्यान्यत्रोपसंहारः ।
सिद्धान्ते त्वनग्नताचिन्तनस्यैव विधेयत्वाद्वाक्यैक्यादाचमनविशेषस्याविधेयस्य नोपसंहृतिरित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किमिति ।
गौरवादुभयविधानमयुक्तमिति शङ्कते -
कुत इति ।
कर्तव्यत्वेन द्वयोरपि तात्पर्यगम्यत्वान्न गौरवमित्याह -
उभयस्येति ।
गम्यमानत्वमात्रेण तात्पर्यगम्यतया विधेयत्वमतिप्रसक्तमित्याशङ्क्याह -
उभयमिति ।
नच स्मृत्याचारसिद्धत्वान्नापूर्वत्वं तयोरेतद्वाक्यमूलत्वात् । नच सामान्यविशेषतया श्रुतिस्मृत्याचाराणां न मूलमूलिता सामान्यसिद्धानृतवदननिषेधस्य क्रतुगामितया विधिवदाचमनस्यापि प्रसिद्धस्यैव प्राणविद्यायोगित्वेन विधानाद्वाक्यभेदप्रसङ्गस्य चोपरिधारणविधिवददोषत्वादिति भावः ।
न युक्तो वाक्यभेदः सत्यां गतावित्याशङ्क्य पक्षान्तरमाह -
अथवेति ।
तत्र हेतुः -
विस्पष्टेति ।
तर्हि किमर्थमनग्नताकीर्तनं, तत्राह -
तस्येति ।
महार्हं हीदमाचमनं यदनेन प्राणोऽनग्नः स्यादिति स्तुतिस्तस्माद्विधेयं विशेषविषयमाचमनमन्यत्र चोपसंहर्तव्यमित्यर्थः ।
सिद्धान्तयति -
एवमिति ।
तत्र हेतुमादाय व्याचष्टे -
कार्येति ।
प्रयतस्य प्रयत्नवतो भावः प्रायत्यं शुद्धत्वं तदर्थं स्मार्तमाचमनमनूद्यत इत्युक्तमाक्षिपति -
नन्विति ।
स्मृतेः श्रुतिमूलत्वेन प्रामाण्यादुक्तश्रुतिमूलैव सा । नच स्मृतिसिद्धोऽर्थः श्रुत्यानूद्यते वैपरीत्यापत्तेरित्यर्थः ।
भिन्नविषयत्वान्मूलमूलिभावो नानयोरित्याह -
नेति ।
विषयभेदं विशदयति -
सामान्येति ।
भिन्नविषयत्वे फलितमाह -
नचेति ।
अर्थैकत्वाभावेऽपि तद्भावेऽतिप्रसङ्गादित्यर्थः ।
आचमनान्तरविधानमुपेत्य मूलमूलिभावो निरस्तः, सम्प्रति तदपि नास्तीत्याह -
नचेति ।
नच स्मार्ताचमनस्य श्रुत्यानुवादे वैपरीत्यं त्रिराचामेदित्यादिश्रुतिसिद्धस्यैव सामान्याचमनस्यात्रानुवादादिति मत्वा हेतुमाह -
पूर्वस्येति ।
अनृतवादनिषेधस्य पुरुषार्थतया विहितस्यापि क्रत्वर्थेनाप्राप्तस्य विधानमविरुद्धमाचमनस्य तु सर्वकर्माङ्गतया विहितस्य प्राणोपास्त्यङ्गत्वमपि सिद्धमिति पुनर्विधानानर्थक्यमिति भावः ।
आचमनस्य प्रकृते विधानायोगं हेतूकृत्याद्यं पूर्वपक्षं प्रत्याह -
अतएवेति ।
युक्त्यन्तरमाह -
उभयेति ।
न चोपरिधारणवद्वाक्यनानात्वमदोषः सम्भवत्येकवाक्यत्वे तद्भेदस्यानिष्टत्वादिति भावः ।
तर्हि किमिति विधेयं तदाह -
तस्मादिति ।
अनुवादे हेतुमाह -
प्राप्तमिति ।
अनग्नताकृतिसङ्कल्पे विधित्सिते कृतमनुवादेनेत्याशङ्क्याह -
आचमनीयास्विति ।
प्राणविद्याधिकारे चेदनग्नतासङ्कल्पो विधीयते कथं वाक्यभेदो न स्यादित्याशङ्क्याह -
प्राणेति ।
तस्य विधियोग्यत्वं सूचयति -
अपूर्व इति ।
एतेनापूर्वमिति पदं व्याख्यातम् ।
यत्त्वनग्नतासङ्कीर्तनमाचमनस्तुत्यर्थमिति, तत्राह -
नचेति ।
स्तोतव्यविधेयाभावे स्तुतिरयुक्तेत्यर्थः ।
किञ्च विधेयमप्राप्तं प्राप्तेन स्तूयते न चानग्नतासङ्कल्पोऽन्येन प्राप्तो येन स्तावकः स्यान्न चान्यतोऽप्राप्तमाचमनं येन विधेयतया स्तोतव्यमित्याह -
स्वयं चेति ।
शुद्ध्यर्थं विनियुक्तस्यैवाचमनस्य प्राणपरिधानार्थत्वे विनियुक्तविनियोगविरोधः स्यादित्याशङ्क्याह -
न चेति ।
एकस्य कर्मणः स्यादेकार्थतेत्युत्सर्गादसति बाधके तदनेकार्थत्वासिद्धेः सङ्कल्पविधिपरत्वमेव वाक्यस्येत्याह -
क्रियेति ।
हेतुमेव साधयति -
क्रियान्तरमिति ।
वासःसङ्कल्पक्रियातो भेदादाचमनस्य क्रियान्तरत्वं सङ्कल्पस्यापि परिधानार्थस्याचमनादन्यत्वात्तथात्वमेवं क्रियाभेदे सत्युत्सर्गस्य भङ्गो नास्तीतत्याह -
इत्यनवद्यमिति ।
किञ्च दृष्टिचोदनासाहचर्यादिहापि सैव युक्ता नाचमनचोदनेत्याह -
अपिचेति ।
सर्वान्नभक्षणमेवात्रापि चोद्यते न दृष्टिरित्याश्ङ्क्याह -
अत्रेति ।
दृष्टिवाचकाभावं हेतुमाह -
अशब्दत्वादिति ।
अन्नशब्दवशादभ्यवहरणं भातीत्याशङ्क्याह -
अशक्य्त्वाच्चेति ।
नहि श्वादिमर्यादं सर्वमन्नमेकेनात्तुं शक्यं भक्ष्याभक्ष्यविधिविरोधात् । प्राणविद्यासामर्थ्यादसामर्थ्यविरोधसमाधानं तु सर्वान्नानुमत्यधिकरणे निरस्यमिति भावः ।
अशब्दत्वस्य दृष्टेरपि तुल्यत्वादभ्यवहरणवदविधेयत्वमाशङ्क्य नान्तरीयकतया दृष्टेः शब्देन क्रियमाणत्वादभ्यवहरणस्य तज्जन्यत्वज्ञाप्यत्वयोरभावादनुपपत्तिकज्ञानस्य दृष्टिविधेरेव तच्छान्तावनुत्थानात्तद्विधानमेवैतदित्याह -
सर्वं त्विति ।
तथापि प्रकृते सङ्कल्पविधौ किमायातं तदाह -
तदिति ।
प्रकरणविरोधाद्वाक्यस्य क्रियाविधिपरत्वाभावे किम्परत्वं तदाह -
प्रसिद्धास्विति ।
अस्तु सर्वान्नवाक्ये दृष्टिविधिराचमनवाक्ये तु क्रियैव चोद्यते, तत्राह -
नहीति ।
इतश्चाचमने विधिरत्र नास्तीत्याह -
अपिचेति ।
तर्हि चिन्तनमपि न विधेयं दोषसाम्यादित्याह -
नन्विति ।
आचमनचिन्तनयोर्वर्तमानापदेशमङ्गीकरोति -
सत्यमिति ।
तर्हि द्वयोरविधेयत्वमित्याशङ्क्यानुवादमात्रस्याकिञ्चित्करत्वादन्यतरविधेरावश्यकत्वे सङ्कल्पनमेव विधेयमिति विधान्तरेण सूत्रं योजयति -
अवश्येति ।
तत्र हेतुत्वेनाचमनस्यान्यतः प्राप्तिमुक्तां स्मारयति -
पूर्ववदिति ।
पूर्वपक्षबीजमनुभाष्य दूषयति -
यदपीति ।
पूर्ववत्त्वेनापूर्ववत्त्वाभावेनेति यावत् । तत्र श्रुता विधिविभक्तिरनग्नतासङ्कल्पेन नेया, जतिलयवाग्वा जुहुयादितिवदविवक्षितं वा विधित्वमिति भावः ।
आचमनस्याविधेयत्वे लिङ्गान्तरमाह -
अत इति ।
तर्हि पाठावैयर्थ्यार्थं माध्यन्दिनानामाचमने विधिरिष्यतामित्याशङ्क्य श्रुत्यन्तरानुसारेण तत्रापि चिन्तनमेव विधेयमित्याह -
तस्मादिति ।
एवंवित्त्वमेवेत्युक्तं व्यनक्ति -
प्रकृतेति ।
यदाचामेदित्यनूद्य तदेवंविदिति वेदनमेव विधीयत इत्यर्थः ।
शाखाभेेदेनोदितानुदितहोमवदुभयमपि विधेयमित्येकदेशिमतमाशङ्क्याह -
योऽप्ययमिति ।
एकीयव्यवस्थायोगे फलितमाह -
तस्मादिति ॥ १८ ॥
पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् ।
इह तु वाक्ययोः कस्य विधित्वं कस्य वानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमाशङ्क्याह -
समान इति ।
शाण्डिल्यविद्यामुदाहरति -
वाजसनेयीति ।
शाण्डिल्येन दृष्टेति तन्नाम्नाऽङ्क्िता चिह्निता विशेषिता विद्येति यावत् ।
एतस्यां शाखायां देशभेदेन कृतां विद्यां विषयीकृत्याभ्यासात्प्रत्यभिज्ञानाच्च संशयमाह -
तत्रेति ।
अत्र च विद्याभेदादिनिरूपणद्वारा वाक्यार्थधीसाधनस्यैव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे पौनरुक्त्यपरिहाराय विद्याभेदाद्गुणानुपसंहारः ।
सिद्धान्ते विद्यैक्येऽप्यपौनरुक्त्याद्गुणोपसंहार इति मत्वा विमृश्य पूर्वपक्षयति -
किं तावदिति ।
गौरवदुष्टं विद्यानानात्वमयुक्तमित्याह -
कुत इति ।
प्रामाणिकं गौरवमदूषणमिति मत्वाह -
पौनरुक्त्येति ।
विद्याभेदे पौनरुक्त्यमव्याप्तं भिन्नशाखासु विद्यैक्येऽपि पौनरुक्त्यदृष्टेरित्याशङ्क्याह -
भिन्नास्विति ।
अध्येतृभेदेन शब्दपौनरुक्त्यं वेदितृभेदेन चार्थपौनरुक्त्यं परिह्रियते ।
शाखाऽभेदेऽपि देशभेदोक्तविद्याफलार्थिनां प्रतिपत्तृत्वात्तत्तद्वाक्याध्येतृत्वाच्चापौनरुक्त्यमित्याशङ्क्यैकशाखाध्ययनस्य नित्यविधित्वेनैव प्राप्तत्वान्मैवमित्याह -
एकस्यामिति ।
अग्निहोत्रं जुहोतीत्यत्र सिद्धं जुहोत्यर्थमनूद्य दध्ना जुहोतीतिगुणविधिवदिहापि स्यादित्यपौनरुक्त्यमाशङ्क्याह -
नचेति ।
द्वयोरदृष्टविशेषतया विधित्वानुवादत्वानिश्चयात्तुल्यगुणोक्तिवैयर्थ्याच्च नेयं व्यवस्थेत्याह -
तदेति ।
अपौनरुक्त्याय विद्याभेदाद्गुणानुपसंहार इत्युपसंहरति -
तस्मान्नेति ।
उक्तमनूद्य सिद्धान्तयति -
एवमिति ।
क्रियापदेनेतिशब्दस्य सम्बन्धः ( ? ) ।
हेतुमादाय व्याकरोति -
उपास्येति ।
तदैक्ये गम्यमानेऽपि न विद्यैक्यं तदैक्ये हेत्वभावादित्याशङ्क्य रूपाभेदो हेतुरित्याशङ्क्याह -
उपास्यं चेति ।
तस्य हेतुत्वमेव स्फुटयति -
नचेति ।
प्रत्यभिज्ञाविरोधादित्यर्थः ।
विद्यैक्ये फलितमाह -
नापीति ।
गुणव्यवस्थानमध्यवसातुं शक्नुम इति सम्बन्धः ।
अध्येतृवेदितृभेदाभावात्पौनरुक्त्यमुक्तं स्मारयति -
नन्विति ।
अभेदसम्भवान्न पौनरुक्त्यमित्याह -
नेतीति ।
अदृश्यमानविशेषतया कस्य कोऽनुवाद इत्यनिश्चयान्नार्थविभागसिद्धिरित्याशङ्क्य यत्र भूयांसो गुणा विधीयन्ते तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति विभागमभिप्रेत्याह -
एकं हीति ।
तुल्यगुणोक्तिवैयर्थ्यमुक्तं स्मारयति -
नन्विति ।
बृहदारण्यके प्रधानविधिरग्निरहस्ये गुणविधिरित्येवं विभागे सतीति यावत् ।
प्रत्यभिज्ञादार्ढ्यार्थं तल्यगुणोक्तिरर्थवतीत्याह -
नेति ।
तदेव स्फुटयति -
समानेति ।
प्रत्यभिज्ञानस्याकिञ्चित्करत्वमाशङ्क्याह -
अन्यथेति ।
तस्यां बृहदारण्यके गुणविधानार्थमग्निरहस्योक्तायामिति यावत् । अयं गुणविधिरीशानत्वादिगुणकथनमित्यर्थः ।
अग्निरहस्योत्पन्नां विद्यामनूद्य विशिष्टगुणत्वेन बृहदारण्यके तस्यां गुणविधानमित्युक्तम् । इतश्च तुल्यगुणोक्तिप्राप्ता प्रत्यभिज्ञा नोपेक्षितव्येत्याह -
अपिचेति ।
तदेव कैमुतिकन्यायेन स्फोरयति -
अप्राप्तेति ।
नान्तरिक्षे न दिवीत्यादिषु निष्फलानुवादस्यापि निर्दोषत्वात्प्रकृते तुल्यगुणानुवादस्य प्रत्यभिज्ञानार्थत्वेनार्थवत्त्वात्तुल्यगुणोक्तिकृता प्रत्यभिज्ञा नोपेक्षितुं शक्या तेनेशानत्वादिगुणवद्विद्योक्त्या बृहदारण्यकवाक्ये समानार्थे मनोमयत्वादितुल्यगुणानुवादस्य यथाकथञ्चिद्योगेऽपि प्रधानप्रत्यभिज्ञापकत्वेन सफलत्वात्तदधीनप्रत्यभिज्ञायाश्च विशिष्टविधिशेषत्वाद्बृहदारण्यके गुणविधिरन्यत्र प्रधानविधिरित्यर्थः ।
सिद्धे पुनरुक्तिपरिहारे फलितमाह -
तस्मादिति ॥ १९ ॥
विद्यैक्ये गुणोपसंहारमुक्त्वा तदैक्येऽपि तदनुपसंहारस्थलं वदन्पूर्वपक्षयति -
सम्बन्धादिति ।
विषयमाह -
बृहदिति ।
आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्तेत्यत्र सत्यशब्दो हिरण्यगर्भवाची तच्च सत्यं हिरण्यगर्भाख्यं ब्रह्म महदित्युपक्रम्येति यावत् ।
तत्तत्रैवं सति यत्तत्सत्यं ब्रह्म सोऽसावादित्यो विधेयापेक्षया पुंलिङ्गप्रयोगः । किं मण्डलमेवादित्यो नेत्याह -
य इति ।
तस्य स्थानभेदेनादित्यचाक्षुषपुरुषात्मनावस्थानमुक्त्वा तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्प्रतिष्ठित इत्यन्योन्यव्यतिषङ्गमुक्त्वादित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरो भुव इति बाहू स्वरिति प्रतिष्ठेति व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं च योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादिना व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहमित्यहंनामत्वमुक्तम् । उपनिषदिति देवतामुपगमयतीति तत्प्रकाशकं रहस्यं नामोच्यते ।
अहःशब्दः प्रकाशवचनोऽहंशब्दः प्रत्यगात्मवाची तदाह -
तस्येत्यादिना ।
उपनिषद्द्वयं विषयीकृत्य सत्यब्रह्मैक्यस्थानभेदाभ्यां संशयमाह -
तत्रेति ।
अत्र च सत्यविद्यायामुपनिषद्व्यवस्थोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्याद्गुणोपसंहारनियमे सत्युपनिषदोः साङ्कर्यादतिदेशासिद्धिः ।
सिद्धान्ते विद्यैक्येऽपि स्थानभेदोपलब्धानां धर्माणामनुपसंहारादुपनिषदोरसङ्करादतिदेशः स्यादिति मत्वा पूर्वपक्षसूत्रमादत्ते -
तत्रेति ।
सूत्राक्षराणि योजयति -
यथेति ।
उपनिषदोर्विद्यैक्ये सङ्करः शङ्क्येत तदैक्यं कथमित्याशङ्क्याह -
एकेति ।
विद्यैक्ये हेतुमाह -
उपक्रमेति ।
सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावन्योन्यस्मिन्नित्यादिव्यतिषक्तपाठस्ताभ्यां विद्यैक्यं सिद्धमित्यर्थः ।
तदैक्येऽपि किं स्यात्तदाह -
कथमिति ।
विद्यैक्येऽपि स्थानभेदादुपनिषदोरसङ्करः स्यादित्याशङ्क्य दृष्टान्तेन परिहरति -
यो हीति ।
तस्योपनिषदिति प्रकृतस्त्यपरामर्शात्तस्य प्रधानस्याभेदाद्विशेषणतया स्थानस्योपसर्जनत्वाद्गुणप्रधानयोश्च प्रधाने संप्रत्ययात्तदविनाभावात्तदुपसंहारो गुणानामित्यर्थः ।
विद्यैक्ये गुणोपसंहारध्रौव्ये फलितमाह -
तस्मादिति ॥ २० ॥
सिद्धान्तयति -
एवमिति ।
वाशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञां विभजते -
न वेति ।
ध्येयाभेदे ध्यानभेदात्किमिति न प्राप्तिरित्याह -
कस्मादिति ।
हेतुं गृहीत्वा व्याचष्टे -
विशेषादिति ।
ध्यानध्येयोपसर्जनभूतौ स्थानविशेषौ ताभ्यामुपनिषदोर्योगाद्व्यवस्था तयोर्युक्तेत्यर्थः ।
तस्येतिपरामृष्टब्रह्मणो नामद्वयविधाने तस्य स्थानविशेषसङ्गतिरसिद्धेति शङ्कते -
कथमिति ।
उपनिषदोः स्थानविशेषयोगं साधयति -
उच्यत इति ।
निष्कृष्टं ब्रह्मैव प्रधानं तच्छब्दमुपनिषद्भ्यां सम्बद्धमित्याशङ्क्याह -
तस्येति ।
तस्योपनिषदित्युभयत्र तच्छब्देनाधिदैवादिविशिष्टस्यैव परामर्शात्तद्योगित्वादुपनिषदोः स्वरूपमात्रासम्बन्धात्तद्द्वयं व्यवस्थयानुसन्धेयम् । नहि सर्वनाम संनिहितं हित्वा व्यवहितं स्पृशतीत्यर्थः ।
तच्छब्दस्य विशिष्टार्थत्वे फलितमाह -
तस्मादिति ।
विशेषणभेदेऽपि विशेष्यभेदादुपसंहारः स्यादिति शङ्कते -
नन्विति ।
विशेष्यभेदमङ्गीकरोति -
सत्यमिति
तर्हि कथमुपनिषद्व्यवस्थेत्याशङ्क्य विशेष्टभेदात्तन्निष्ठत्वाच्च तयोरित्याह -
एकस्येति ।
उक्तेऽर्थे दृष्टान्तमाह -
अस्तीति ।
प्रतिदृष्टान्तोऽपि दर्शित इत्याशङ्क्याह -
ग्रामेति ।
तत्र स्वरूपोपाधावुक्तात्वाद्युक्तं तुल्यत्वमिह तु विशिष्टोपाधावुक्तेर्व्यवस्थेत्यर्थः ।
विशिष्टोपाध्युक्तिफलमाह -
तस्मादिति ॥ २१ ॥
उपनिषदोर्व्यवस्थितत्वे हेत्वन्तरमाह -
दर्शयति चेति ।
तदेव व्याकरोति -
अपिचेति ।
यथोक्तं वाक्यं धर्माणां सङ्करमेव दर्शयतीति शङ्कते -
कथमिति ।
अत्यन्तसङ्करे सत्यभेद एवेति नातिदेशस्तेन तद्वशाद्विद्यैक्येऽपि स्वतो नात्यन्तसङ्करो धर्माणामित्याह -
तदिति ।
उपनिषदोस्त्वतिदेशाभावाद्व्यवस्थैवेत्युपसंहरति -
तस्मादिति ॥ २२ ॥
आयतनभेदाद्गुणानुपसंहारमुक्त्वा तेनैव हेतुना सम्भृतिप्रभृतीनां गुणानां विद्यान्तरेष्वनुपसंहारमाह -
सम्भृतीति ।
पूर्वन्यायेनैव वाक्यान्तरं व्याख्यातुमुदाहरति -
ब्रह्मेति ।
वीर्या वीर्याणि पराक्रमभेदाः । अन्ये हि पुरुषाः सहायानपेक्ष्य विक्रमान्बिभ्रति तेन तत्पराक्रमाणां तत एव नियतपूर्वत्वरूपकारणत्वे न ज्येष्ठा भवन्ति किन्तु तत्सहक्रारिणोऽपि ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठं ब्रह्म ज्येष्ठं येषां तानि तथा । ब्रह्म खल्वनन्यापेक्षं जगज्जन्मादि करोति । किञ्चान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गः सम्भवति तेन ते स्ववीर्याणि न बिभ्रति । ब्रह्मवीर्याणि तु ब्रह्मणा सम्भृतान्यविघ्नेन सम्भृतानीत्यर्थः । तज्ज्येष्ठं ब्रह्माग्रे देवादिजन्मतः प्रागेव दिवं स्वर्गमाततान व्याप्तवन्नित्यमेव विश्वव्यापकमित्यर्थः । ‘ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः’ इत्युत्तरो भागः । खिलेषु विधिनिषेधहीनेषु परिशिष्टोपदेशेषु ग्रन्थेष्विति यावत् ।
विषयमुक्त्वा संशयं वक्तुं भूमिकां करोति -
तेषामिति ।
ब्रह्मसम्बन्धाद्विद्याभेददृष्ट्या च संशयमाह -
तास्विति ।
अत्र च विद्याभेदेन गुणानुपसंहारोक्त्या वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे विद्याभेदस्य गुणव्यवस्थापकत्वासिद्धिः । सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षयति -
ब्रह्मेति ।
न चाधिदैविकगुणानामाध्यात्मिकविद्यास्वनुपसंहारः । एष हि सर्वेषु लोकेषु भातीत्यादिषु व्यभिचारात् । अनुपसंहारे च पृथगुपासनं तत्फलं च कल्प्यमिति गौरवम् । अतो द्युनिवेशादीनां ब्रह्मसम्बन्धेन सर्वत्र प्रत्यभिज्ञानादुपसंहार इत्यर्थः ।
सिद्धान्तमवतार्य योजयति -
एवमिति ।
सम्भृतिश्च द्युव्याप्तिश्च सम्भृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव विशेषयोगव्यवस्थानादित्यर्थपरतया सूत्रं व्याख्यातमित्यर्थः ।
इदानीं चकारस्यावधारणार्थत्वं गृहीत्वा हेतुं विवृणोति -
तथाहीति ।
आयतनभेदयोगमुक्तमुपसंहरति -
एवमिति ।
कथं तावता सम्भृत्यादीनामेतासु विद्यास्वनुपसंहारः, तत्राह -
आधिदैविक्यस्त्विति ।
आध्यात्मिकविद्यास्वपि सम्भृत्याद्याधिदैविकगुणानामुपसंहारः स्यादिति लिङ्गेन शङ्कते -
नन्विति ।
ज्यायान्दिव इति शाण्डिल्यविद्यायामेष उ एवेत्याद्युपकोसलविद्यायां यावान्वा अयमाकाश इति दहरविद्यायामिति भेदः । अध्यात्माधिदैवभेदादनुपसंहारश्चेत्तर्हि तद्भेदशून्योपासनासूपंहारः स्यादित्याह -
सन्ति चेति ।
आध्यात्मिकविद्यास्वाधिदैविकविभूतीनामायतनभेदशून्यब्रह्मधियां चास्मिन्प्रकरणे सत्त्वमङ्गीकरोति -
सत्यमिति ।
तर्हि षोडशकलाद्यासु ब्रह्मविद्यासु सम्भृत्यादिगुणानां किमित्युपसंहारो न स्यादित्याशङ्क्याह -
तथापीति ।
विशेषहेतुमेव विवृणोति -
समानेति ।
प्रकृतेऽपि विद्याप्रत्यमिज्ञया गुणोपसंहारः स्यादित्याशङ्क्याह -
सम्भृत्यादयस्त्विति ।
तद्धर्मविशिष्टब्रह्मणः शाण्डिल्यादिविद्यासु श्रुतमनोमयत्वादिधर्मकब्रह्मणश्च भेदान्न प्रत्यभिज्ञेति नोपसंहार इत्यर्थः ।
विशिष्टभेदेऽपि स्वरूपाभेदात्प्रत्यभिज्ञयोपसंहारसिद्धिमाशङ्क्याह -
नचेति ।
कतिपयगुणविशिष्टतयोभयत्राम्नानं विना स्वरूपमात्रस्यैव प्रत्यभिज्ञानस्य ज्ञानाभेदकत्वे स्यादतिप्रसक्तिरित्यर्थः ।
तामेव व्यनक्ति -
एकमपीति ।
एकस्यानेकगुणवत्त्वेनानेकधोपास्यत्वे दृष्टान्तमाह -
परेति ।
यथोद्गीथस्यैव परोवरीयस्त्वादिगुणवत्त्वेन हिरण्यश्मश्रुत्वादिगुणवत्त्वेन च बहुधोपसनं दृष्टं तथा ब्रह्मणोऽपि तत्तद्गुणकत्वेनानेकधोपासनाद्ब्रह्मसम्बन्धमात्रेण प्रत्यभिज्ञाने स्यादतिप्रसक्तिरित्यर्थः ।
सम्भृत्यादीनां मनोमयत्वादीना च विद्याप्रत्यभिज्ञापकत्वायोगे फलिताह -
तस्मादिति ॥ २३ ॥
तत्तद्देशभेदसम्भिन्नविद्यासु गुणानुपसंहारोक्तिप्रसङ्गात्कालभेदवद्विद्यायां गुणानुपसंहारमाह -
पुरुषेति ।
विषयमाह -
अस्तीति ।
पुरुषो वाव यज्ञ इति सामानाधिकरण्यश्रुतेरर्थमाह -
तत्रेति ।
छान्दोग्यशाखाभेदः सप्तम्यर्थः ।
तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनमिति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितमित्याह -
तदीयमिति ।
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षा अथ यद्धसति यज्जक्षति तत्स्तुतशस्त्रे शब्दवत्त्वसाम्यादित्याह -
अशिशिषेति ।
तं चेदेतस्मिन्वयसि किञ्चिद्व्याध्याद्युपतपेत्स ब्रूयात्प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेत्यादिराशीः । सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रप्रयोगस्तदाह -
अन्ये चेति ।
संशयार्थं शाखान्तरीयपुरुषविद्यामुदाहरति -
तैत्तिरीयका इति ।
तद्गतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यवैयधिकरण्यानिश्चयात्पुरुषविद्यामधिकृत्य संशयमाह -
तत्रेति ।
इतरत्रेति च्छान्दोग्यभेदोक्तिः । अत्र च भेदानुपसंहारोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे विद्याभेदादुपसंहारः सिद्धान्ते तद्भेदादनुपसंहार इत्यभिप्रेत्योभयत्रापि मरणावभृथविशिष्टसाम्पादिकपुरुषयज्ञत्वलक्षणरूपैक्याद्विद्यैक्यं गुणोपसंहारश्चेति पूर्वपक्षयति -
पुरुषेति ।
निषादस्थपतिन्यायेन विदुषो यज्ञस्येति सामानाधिकरण्यात्पुरुषयज्ञस्योभयविशेषादभेदोपसंहारावित्यर्थः ।
सिद्धान्तयति -
आचक्ष्मह इति ।
पूर्वोक्तायतनविशेषयोगाभावादुपसंहारसिद्धिरिति शङ्कते -
कस्मादिति ।
विद्यैङ्क्यसाधकवेद्यैक्याभावात्तद्भेदे नोपसंहार इत्याह -
तदिति ।
उक्तेऽर्थे सूत्रं पातयति -
तदाहेति ।
तदक्षराणि व्याचष्टे -
यथेति ।
अतो विद्याभेदादनुपसंहार इति शेषः ।
यत्तु रूपैक्याद्विद्यैक्यं गुणोपसंहारश्चेति, तत्राह -
तेषां हीति ।
तत्र हेतुमाह -
पत्नीति ।
‘आत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत्’ इत्यादिबहुतरवैलक्षण्यान्न तद्रूपैक्यमित्यर्थः ।
वैलक्षण्यान्तरमाह -
यदपीति ।
छान्दोग्ये हि पुरुषस्यायुस्त्रेधा विभज्य सवनत्रयमुक्तम् । तैत्तिरीये तु सायं प्राप्तर्मध्यन्दिनमिति सवनसम्पादनमितरविलक्षणं लक्ष्यते, तेन विद्याभेद इत्यर्थः । ‘मरणमेवावभृथः’ इति छान्दोग्ये । ‘यन्मरणं तदवभृथः’ इति तैत्तिरीये । ‘यद्रमते तदुपसदः’ इति चोभयत्रापि तुल्यम् ।
अतो रूपैक्याद्विद्यैक्यमिति चोद्यमनुवदिति -
यदपीति ।
बहुतरवैलक्षण्ये सति किञ्चिन्मात्रसालक्षण्यान्न विद्यैक्यमतिप्रसङ्गादित्याह -
तदपीति ।
यत्तु पुरुषयज्ञत्वाविशेषादिति, तत्राह -
नचेति ।
निषादस्थपतिन्यायेन षष्ठ्योः सामानाधिकरण्यात्पुरुषस्य यज्ञत्वमुक्तमित्याशङ्क्याह -
विदुष इति ।
सामानाधिकरण्याभावे हेतुमाह -
नहीति ।
अर्थानुपपत्त्यभावे न्यायोऽवतरति । प्रकृते च पुरुषस्य कर्तृत्वाद्यज्ञस्य क्रियात्वादचैतन्याच्च पुरुषैक्यायोगान्न्यायाप्रवृत्तिरित्यर्थः ।
कथं तर्हि षष्ठ्योरन्वयः, तत्राह -
व्यधिकरणे त्विति ।
अर्थानुपपत्तिस्तत्रापि तुल्येत्याशङ्क्याह -
भवतीति ।
अन्यत्र तथाभावेऽपि प्रकृते पुरुषस्य यज्ञत्वमेवेत्याशङ्क्योक्तम् -
सत्यां चेति ।
यज्ञस्य ज्ञानवद्योगित्वं मानान्तरसिद्धमपूर्वसम्बन्धकल्पनया न त्याज्यं तदनुवादेन विद्याप्रशंसनार्थं पत्न्यादिसम्पादनसम्भवादित्यर्थः ।
यजमानतया पुरुषस्य यज्ञसम्बन्धितावचनादपि न यज्ञात्मतेत्याह -
आत्मेति ।
इतोऽपि तैत्तिरीयकेषु पुरुषयज्ञत्वं नेष्टमित्याह -
अपिचेति ।
यथा प्रमितेऽर्थे प्रवृत्तं प्रमाणमनुवादकं तथा यज्ञस्य प्रमाणान्तरसिद्धविद्वद्योगितानुवादेन विशेषणविधिश्रुतौ प्रमितविशेषणानामनूदितविशेष्यगामित्वेनैकवाक्यत्वसम्भवे विशेष्यस्य विशेषणानां च पृथक्प्रतिपादनेन वाक्यभेदः स्यादित्यर्थः ।
इतश्चोभयत्र भिन्ना पुरुषविद्येत्याह -
अपिचेति ।
संन्यासेनाङ्गेन सहितामङ्गितया स्थितामात्मविद्यां पुरस्तात्प्राजापत्यो हारुणिरित्यादावनुवाके न्यास इति ब्रह्मेत्यादिनोक्त्वा तस्यैवंविदुष इति पूर्वोक्तपरामर्शात्तच्छेषत्वमस्य भातीत्याह -
ससंन्यासामिति ।
इतश्च पूर्वशेषोऽयमाम्नायो न स्वतन्त्र इत्याह -
तथाचेति ।
तैत्तिरीयाणां पुरुषविद्याम्नायस्य पारतन्त्र्यमुक्त्वा पैङ्गिनां ताण्डिनां च तदाम्नायस्य स्वातन्त्रयमाह -
इतरेषां त्विति ।
तत्र हेतुमाह -
आयुरिति ।
षोडशाघिकं वर्षशतं प्रकर्षेण व्याध्याद्यनुपद्रुतो जीवत्युक्तप्रकारेणात्मानं यज्ञाद्यात्मकं विद्वानिति विद्यया सहायुरभिवृद्धिफलस्य सङ्कीर्तनात्तत्फलत्वेन स्वातन्त्र्यं पुरुषविद्यायाः सिद्धमित्यर्थः ।
स्वतन्त्रपरतन्त्रयोरैक्यायोगे फलितमाह -
तस्मादिति ॥ २४ ॥
पूर्वत्रात्मविद्यासंनिधौ श्रवणात्तैत्तिरीयगतपुरुषयज्ञो ज्ञानाङ्गमित्यङ्गीकृत्यायुरभिवृद्धिफलविद्यातो भेदोऽस्य दर्शितः । सम्प्रति प्रवर्ग्यादीनामपि विद्यासंनिध्यविशेषात्तदङ्गत्वमित्याशङ्क्यान्यत्रानुपसंहारार्थं तेषामङ्गत्वं निरस्यति -
वेधादीति ।
तत्तदुपनिषदारम्भे ते ते मन्त्रास्तानि तानि च कर्माणि श्रुतानि विषय इति वक्तुमारभते -
अस्तीति ।
अभिचारदेवतामभिचारकर्ता प्रार्थयते -
सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय । विशेषतश्च हृदयं प्रविध्य भिन्धि । धमनीः शिराः प्रवृज्य विभज त्रोटय । तदीयं शिरश्चाभितो विदारय । एवं मद्रिपुर्बहुधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । विश्वप्रकाशकत्वात्तत्प्रसवहेतुत्वाच्च देव सवितरित्यादित्यः सम्बोध्यते । स च यज्ञस्य यज्ञपतेश्च यजमानस्य निर्वर्तने नियुज्यते प्रसुवेति । उच्चैःश्रवाः श्वेतोऽश्वो यस्य तव स त्वं श्वेताश्वोऽसि हरित इन्द्रनीलस्तद्वन्नीलोऽसीतीन्द्रः सम्बोध्यते । मित्रो नामादित्यो नोऽस्माकं सुखकरो भूयादिति विद्यार्थी प्रार्थयते । एवं शं वरुण इत्यादि योज्यम् ।
इन्द्रादयो देवाः किल कस्मिंश्चित्पूर्वस्मिन्काले सत्रं निर्वर्तयितुं निविष्टवन्तः इत्युपक्रम्य प्रवर्ग्याख्यं कर्म श्रुतमित्याह -
देवा इति ।
अग्निष्टोमब्राह्मणमुपनिषदारम्भे पठ्यत इति सम्बन्धः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म, अतश्चैतदहरहर्निर्वर्त्यं कर्म ये केचिदुपयन्त्यनुतिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपङ्गच्छन्ति ते चामृतत्वं परं ब्रह्म क्रमेण प्राप्नुवन्तीत्यर्थः ।
विषयमुक्त्वोपकारभावाभावमानाभ्यां संशयमाह -
किमित्यादिना ।
अत्र च विद्यासांनिध्याम्नातानामपि मन्त्रादीनां तदुपकारकत्वाभावेनातच्छेषतया नान्यत्रोपसंहार्यतेत्युक्तिद्वारा विचारस्य ज्ञानहेतुयोगात्पादादिसङ्गतिः ।
पूर्वपक्षे मंन्त्रादीनां विद्योपाधावुपसंहारः । सिद्धान्ते त्वनुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -
किमिति ।
विनियोजकमानाभावे कथं विद्याशेषतेति शङ्कते -
कुत इति ।
‘फलवत्संनिधावफलं तदङ्गम्’ इतिन्यायात्फलवद्विद्यासंनिध्याम्नातानां तदङ्गतेत्याह -
विद्येति ।
श्रुत्यादीनां विनियोजकानामन्यतमस्याप्यनुपलम्भादारभ्य काञ्चन विद्यामनाम्नानादाम्नाताङ्गैरेव पूर्णाया नैराकाङ्क्ष्या्न्नैषां विद्याशेषतेति शङ्कते -
नन्विति ।
विद्याया नैराकाङ्क्ष्येऽपि मन्त्रादीनां फलवत्त्वाय फलवन्नियोगसाकाङ्क्षत्वात्फलवद्विद्यासंनिहितानां तच्छेषतया फलवत्त्वे फलान्तरकल्पनायोगादेकतराकाङ्क्षायां विद्याकाङ्गक्षामापाद्य प्रकरणाद्याक्षेपेण तच्छेषतेत्याह -
बाढमिति ।
संनिधेर्धर्मसाम्येऽपि सम्भवान्न विद्याशेषतेत्याशङ्क्याह -
नहीति ।
अकस्मात्फलं विनेति यावत् । अनुष्ठेयप्रकाशित्वान्मन्त्राणां विद्याशेषमर्थमप्रकाशयतां न तच्छेषतेति शङ्कते -
नन्विति ।
कर्मणां विद्याशेषत्वं संनिधेरुक्तं प्रत्याह -
कथं चेति ।
पुरस्तादुपसदां प्रवर्ग्यण प्रचरन्तीतिवाक्येन प्रवर्ग्यस्य क्रतुशेषत्वसिद्धेर्न संनिधेर्विद्याशेषत्वं तस्य वाक्याद्दौर्बल्यादग्निष्टोमादेश्च ज्योतिष्टोमादिवाक्येन स्वर्गादिफलत्वज्ञानान्न विद्याशेषतेत्यर्थः ।
मन्त्राणां कर्मणां च विद्याशेषत्वाभावं दूषयति -
नेति ।
तत्र मन्त्राणां विद्यासमवेतार्थप्रकाशनेन तच्छेषत्वं साधयति -
सामर्थ्यमिति ।
हृदयादीत्यादिपदेन नाडीनामादित्यादेश्च सङ्ग्रहः ।
तथापि कथं मन्त्राणां विद्यादिविषयं सामर्थ्यं, तत्राह -
हृदयेति ।
तदसम्बद्धान्यपि सन्ति कानिचिदुपासनानीति प्रायेणेत्युक्तम् ।
हृदयादिपदस्य विद्यासमवेतार्थत्वेऽपि कथमितरेषां मन्त्रपदानां विद्याशेषतेत्याशङ्क्य हृदयादिपदानुसारेण तदेकवाक्यतया पदान्तराणामपि यथाकथञ्चिदुपास्त्यर्थतेत्याह -
तदिति ।
उपास्तिषु मन्त्रविनियोगस्यादृष्टेरश्लिष्टा कल्पनेत्याशङ्क्याह -
दृष्टश्चेति ।
पुत्रस्य दीर्घायुष्ट्वार्थं छान्दोग्ये त्रैलोक्यं कोशत्वेन परिकल्प्योपास्तिरुक्ता । तत्र पितुरयं प्रार्थनामन्त्रो भूरित्यादि । अमुनेति पुत्रस्य त्रिर्नाम गृह्णात्यमुना देवदत्तनाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ।
यत्तु प्रवर्ग्यादीनामन्यत्र विनियोगातन्न विद्याशेषतेति, तत्राह -
तथेति ।
यद्यपि पुरस्तादुपसदामित्यादिवाक्यं प्रवर्ग्यादीनामन्यशेषत्ववादिविद्याशेषत्वसाधकसंनिधेर्बलीयस्तथाप्यविरोधान्न वाक्येन बाध्यः संनिधिर्वाक्येनान्यत्र विनियुक्तस्यापि प्रवर्ग्यादेः संनिधिना विद्यास्वपि विनियोगादित्यर्थः ।
तत्र दृष्टान्तमाह -
वाजपेय इति ।
‘ ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत’ इति ब्रह्मवर्चसफलोऽपि बृहस्पतिसवो ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति वाजपेयाङ्गत्वेन विधीयते क्त्वाप्रत्ययादेककर्तृकतासिद्धेरेकप्रयोगतामन्तरेण तदयोगादेकप्रयोगताया गुणप्रधानभावापेक्षत्वाद्वाजपेयप्रकरणाम्नानात्तस्याङ्गित्वं बृहस्पतिसवस्याङ्गत्वम् । नन्वेवं मीमांसकानां मुद्राभेदः कृतो यदि बृहस्पतिसववाक्यं प्रकरणान्तरस्थबृहस्पतिसवविपरिवृत्त्यर्थं कस्तर्हि वाजपेयाङ्गविधिः । अथैष विघिः कथं तर्हि प्रकरणान्तरस्थबृहस्पतिसवस्येह संनिधिः । न चैकमेव वाक्यं दूरस्थं कर्म संनिधापयत्यङ्गत्वेन च विदधाति । तस्मात्प्रकरणान्तरे कौण्डपायिनवत्कर्मान्तरं बृहस्पतिसवस्तन्नाम तु प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथाच कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयत इति मतद्वयेऽपि स्थिते कथं विनियुक्तविनियोगाशङ्केति सत्यमभ्युपेत्य वादोऽयं खादिरत्वादि चात्र व्यवस्थितमुदाहरणम् । नच साधिकारयोरपि कर्मणोरङ्गाङ्गित्वे दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेत्यत्रापि स्याद्दर्शपूर्णमासयोः सोमस्य वा प्रकरणे तद्वचनानाम्नानात्तयोरगृह्यमाणविशेषतया गुणप्रधानत्वासिद्धेर्भिन्नप्रयोगत्वेऽपि क्रिययोः कर्तृत्वाधिष्ठानपुरुषस्यैक्यात्प्रत्ययसिद्धेरङ्गाङ्गित्वप्रमापकाभावे चाधिष्ठानलक्षणाविरोधाद्दर्शपूर्णमासोत्तरकालता सोमानुष्ठानस्येति कालार्थोऽयं संयोगः । प्रकृते तु प्रकरणाध्ययनसिद्धये प्रत्ययप्रमि तमङ्गाङ्गित्वमतो बृहस्पतिसवस्यान्यत्र विनियुक्तस्यैव वाजपेये क्त्वाप्रत्ययेन विनियोगवत्प्रवर्ग्यादीनामपि विनियुक्तानामेवान्यत्र संनिधिना विद्यास्वपि विनियोग इति भावः ।
पूर्वपक्षमनूद्य सूत्राद्बहिरेवानुपसंहारं प्रतिजानीते -
एवमिति ।
मन्त्राणां कर्मणां च संनिधेरुपसंहारो विद्यासूक्तः स कस्मान्निषिध्यत इत्याह -
कस्मादिति ।
तत्र हेतुत्वेन सूत्रमवतारयति -
वेधादीति ।
आथर्वणिकानां मन्त्राम्नायस्य विद्याशेषत्वाभावपरत्वेनाक्षराणि योजयति -
हृदयमिति ।
भिन्नशब्दस्याभीष्टमर्थमाह -
अनभिसम्बद्धा इति ।
अनभिसम्बन्धमेवाभिव्यनक्ति -
नेति ।
हृदयपदस्योपास्तिसम्बन्धार्थत्वात्तद्द्वारा मन्त्रस्य तच्छेषतेत्युक्तं स्मारयति -
नन्विति ।
मन्त्रस्योपास्तिशेषत्वं प्रत्याह -
नेतीति ।
पदान्तरसमभिव्याहृतस्य तस्यापि नोपास्त्युपयोगो वस्तुतोऽस्तीति मत्वा कथञ्चिदित्युक्तम् ।
हृदयस्य विद्योपयोगे मन्त्रार्थस्य तद्भावान्मन्त्रस्य विद्याशेषतेत्याशङ्क्याह -
नचेति ।
अत्रेत्याथर्वणश्रुत्युक्तिः ।
हृदयातिरिक्तस्यापि मन्त्रार्थस्य विद्यायोगः स्यादित्याशङ्क्य साक्षात्परम्परया वेति विकल्प्याद्यं दूषयति -
हृदयमिति ।
तद्द्वाराऽन्येषामपि विद्यायोगः स्यादिति द्वितीयमाशङ्क्याह -
अभिचारेति ।
सर्वैरेव पदैरयं मन्त्रः स्वतोऽभिचारगतार्थप्रकाशको दृश्यते । तथाच सामर्थ्यलक्षणं लिङ्गं संनिधिं बाधित्वा कर्मशेषत्वमस्यापादयति । नच सर्वपदानामभिचारे समवेतार्थत्वे सत्येकपदसमवेतार्थत्वमात्रेण विद्याशेषत्वं हृदयपदस्याभिचारेऽपि समवेतार्थत्वादित्यर्थः ।
आथर्वणिकानामुपनिषदुपक्रमस्य लिङ्गवशात्कर्मसम्बन्धवत्ताण्डिनामपि तदुपक्रमस्य लिङ्गादेव कर्मसङ्गतिरित्याह -
तथेति ।
कर्ममात्रप्रयोगेऽपि केन कर्मणास्य सङ्गतिरिति लिङ्गान्न गम्यते तेन प्रमाणान्तरमन्वेष्यमित्याशङ्क्याह -
तदिति ।
‘सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात्सवने सवने जुहोति’ इति वाक्याद्वाजपेयसम्बन्धोऽस्य सिध्यतीत्यर्थः ।
उक्तन्यायं मन्त्रान्तरेष्वतिदिशति -
एवमिति ।
अन्यषां तु श्वेताश्वो हरितनीलोऽसीत्यादिना वचनं श्रुतिर्वाक्यं वा प्रमाणान्तरं प्रकरणं तेन कर्मसम्बन्धोऽत्र सर्वत्रानुसर्तव्य इति सम्बन्धः ।
लिङ्गादिभिरन्यत्र विनियोगे मन्त्राणां सिद्धे फलितमाह -
इत्येवमिति ।
किमिति लिङ्गादिभिः संनिधिर्बाध्यते, तत्राह -
दुर्बलो हीति ।