अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

औद्गा­त्र­मु­द्गाता प्राणवीर्येण करोतीत्येतदेव कथं, तत्राह -
तथाचेति ।
तत्रै­वे­त्यु­द्गी­थ­प्र­क­र­णोक्तिः । उद्गाता प्राणप्रधानया वाचा कृत­वा­नौ­द्गा­त्र­मिति श्रुत्यर्थः ।

यत्तु बहु­त­रा­र्था­वि­शे­षा­द्वि­द्यै­क्य­मिति, तत्राह -
नचेति ।
वाजसनेयके ताव­दु­द्गी­थो­द्गा­तारौ ध्येय­त्वे­नो­च्येते छान्दोग्ये त्वोङ्का­र­स्त­द­व­यवः प्राण­दृ­ष्ट्यो­पास्य उक्तः । एवं विव­क्षि­ता­र्थ­स्या­न्त­र­ङ्गो­पा­स्य­स्व­रू­पस्य भेेेदे गम्यमाने बहि­र­ङ्गा­द­र्थ­वा­दा­वि­शे­षा­न्नै­का­र्थ­त्वेन विद्यै­क्य­मि­त्यर्थः ।

वाक्य­सा­दृ­श्य­मा­त्रे­णा­र्थैक्यं नास्तीत्यत्र दृष्टान्तमाह -
तथाहीति ।
चतु­र्द­श्या­मे­वा­मा­वा­स्या­भ्रान्त्या दर्शार्थं प्रवृत्तस्य यजमानस्य चन्द्रमाः पश्चादभ्युदेति तद्विषयं वाक्य­म­भ्यु­द­य­वा­क्यम् । तस्मिन्वाक्ये पशु­का­म­स्ये­ष्टि­वि­धा­यके च वाक्ये यद्यपि त्रेधा तण्डु­ला­न्वि­भ­जे­दिति निर्दे­श­स्तु­ल्य­स्त­थापि ‘वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुर­स्ता­च्च­न्द्रमा अभ्युदेति’ इति काला­ति­क्र­मा­प­रा­धे­नो­प­क्र­मा­द­भ्यु­द­य­वाक्ये नित्ये दर्शकर्मण्येव पूर्वदेवताभ्यो हविषामपनयनेन दातृ­त्वा­दि­गु­ण­वि­शि­ष्ट­दे­व­ता­न्त­रा­ङ्गी­कारः । पशुकामवाक्ये च ‘यः पशुकामः स्यात्सोऽ­मा­वा­स्या­मिष्ट्वा वत्सा­न­पा­कु­र्यात् ‘ इति नित्यं दर्शकर्म परिसमाप्य पुनर्दोहार्थं वत्सा­पा­क­र­ण­वि­ध्यु­प­क्र­मा­त्प­शु­का­म­स्ये­ष्ट्य­न्त­र­वि­धा­न­मु­प­ग­तम् । न तु वाक्यद्वये निर्देशस्य सादृ­श्य­मा­त्रे­णा­र्थैक्यं प्रक्र­म­भे­दा­द­र्थ­भे­द­नि­श्च­यात् । तथा प्रकृते शाखाद्वये बहु­त­रा­र्थ­वा­दि­क­सा­दृ­श्येऽपि पूर्वो­क्त­प्र­क्र­म­भे­दा­द्वि­द्या­भेद इत्यक्षरार्थः । एतदुक्तं भवति - ‘वि वा एतं प्रजया पशुभिरर्थयति वर्धयत्यस्य भ्रातृव्यं यस्य हर्विर्निरुप्त पुर­स्ता­च्च­न्द्रमा अभ्युदेति त्रेधा तण्डु­ला­न्वि­भ­जेद्ये मध्य­मा­स्ता­न­ग्नये दात्रे पुरो­डा­श­म­ष्टा­क­पालं कुर्याद्ये स्थवि­ष्ठा­स्ता­नि­न्द्राय प्रदात्रे दधंश्चरुं येऽणि­ष्ठा­स्ता­न्वि­ष्णवे शिपिविष्टाय शृते चरुम् ‘ इत्यत्र यस्य यजमानस्य पुरस्तात्पूर्व हविर्निरुप्तं देवतार्यंं सङ्कल्पितं चन्द्रमाश्च पश्चा­दा­भि­मु­ख्ये­नो­देति तमेतं यजमानं निरुप्तं हविः प्रजादिना विनाशयति शत्रुं चास्य वर्धयति । तथाचासौ चतु­र्द­श्या­म­मा­वा­स्या­भ्रा­न्ति­भागी मध्यमादिभावेन त्रेधाभूता ये तण्डु­ला­स्ता­न­ग्न्या­दिभ्यो दर्शदेवताभ्यो विभजेद्विभज्य च दातृ­त्वा­दि­गु­ण­का­ग्न्या­दिभ्यो देवताभ्यो निर्व­पे­दि­त्ये­व­म­र्थायां श्रुतौ किमभ्युदये नैमित्तिकं कर्मान्तरं दर्शाच्चोद्यते किंवा दर्शकर्मण्येव पूर्व­दे­व­ता­त्या­गेन देवतान्तरं विधीयत इति सन्देहे त्रेधा तण्डु­ला­न्वि­भ­जे­दिति हविषामेव मध्यमादिक्रमेण विभा­ग­श्र­व­णा­त्पू­र्व­दे­व­ताभ्यो हवींषि विभजेदिति चाश्रुतेरपनीता हविःषु पूर्वदेवता इति तदवरुद्धेषु तेषु देव­ता­न्त­र­म­ल­ब्धा­व­काशं श्रुतं कर्मान्तरमेव गोचरयेदिति देव­ता­न्त­र­यु­क्त­क­र्मा­न्तरे विधिरिति प्राप्ते त्रेधा तुण्ड­ला­न्वि­भ­जे­दि­त्यत्र ये मध्यमाः स्युरि­त्या­दि­वा­क्या­न्त­र­प्राप्तं त्रेधात्वमनूद्य विभजेदित्यस्यैव विधा­ना­त्क­स्मा­दि­त्य­पे­क्षायां मध्य­मा­दि­वा­क्यै­र्दे­व­ता­न्त­रे­षू­क्तेषु तत्प्र­ति­यो­गि­नीनां देवतानामेव बुद्धिस्थानां विभा­ग­प्र­ति­यो­गि­त्व­सिद्धेः । तण्डुलशब्दस्य च हवि­र्मा­त्र­वि­ष­य­त्वा­द्द­धि­प­य­सो­रपि पूर्वदेवतातो विभागलाभादपनीते पूर्वदेवताके हविषि देवतान्तरस्य साव­का­श­त्वा­त्पू­र्व­द्र­व्य­मु­खेन प्रकृ­त­क­र्म­प्र­त्य­भि­ज्ञा­ना­द्दे­व­ता­न­न्त­र­स­म्ब­न्धेऽपि कर्मा­न्त­र­क­ल्पा­ना­न­व­का­शा­न्नै­मि­त्ति­का­धि­कारे समाप्ते नित्या­धि­का­रार्थं तान्येव कर्मा­ण्य­नु­ष्ठे­या­नीति नास्ति कर्मभेद इति स्थितम् । ‘यः पशुकामः स्यात्सोऽ­मा­वा­स्या­मिष्ट्वा वत्सा­न­पा­कु­र्यात् ।

ये स्थवि­ष्ठा­स्ता­न­ग्नये सनि­म­तेऽ­ष्टा­क­पालं निर्वपेद्ये मध्य­मा­स्त­न्वि­ष्णवे शिपिविष्टाय शृते चरुं ये क्षोदि­ष्ठा­स्ता­नि­न्द्राय प्रदात्रे दधंश्चरुम्’ इत्यत्र तुल्यश्रुत्या दर्श­स­मा­प्त्य­न­न्तरं वत्सापाकरणेन गोदोहनं कृत्वा पूर्व­व­द्दे­व­ताभ्यो हविर्विभज्य देव­ता­न्त­र­वि­शि­ष्ट­प­शु­का­मे­ष्टि­वि­धा­ना­त्पू­र्वस्य कर्म­णोऽ­न­नु­वृ­त्ते­र­भ्यु­द­य­वा­क्य­सा­रू­प्येऽपि यागा­न्त­र­वि­धि­स्त­थे­हापि स्यादिति पूर्व­त­न्त्र­सिद्धं दृष्टान्तं बहिरेवोक्त्वा सौत्रं दृष्टान्तमादाय व्याचष्टे -
परोवरीयस्त्वेति ।
पर­स्मा­द्व­र­प्रा­णादेः परोवराच्च तस्मादेव वरी­या­न्व­र­त­रोऽ­य­मु­द्गीथः स च पर­मा­त्म­दृ­ष्टि­स­म्प­त्ते­र­न­न्तर इति द्रष्टव्यम् । आकाशे चादित्यादौ च पर­मा­त्म­दृ­ष्टे­रा­रो­पा­दु­द्गी­थो­पा­स्ति­सा­म्येऽपि परो­व­री­य­स्त्वा­दि­गु­ण­को­द्गी­थो­पा­स्ति­र­न्याय्या च हिर­ण्य­श्म­श्रु­त्वा­दि­गु­ण­को­द्गी­थो­पा­स्ति­स्त­थे­हा­पी­त्यर्थः ।

दृष्टा­न्तेऽ­प्य­धि­क­गु­णा­ना­म­न्यो­न्य­त्रो­प­सं­हा­रा­द्वि­द्यै­क्य­मि­त्या­श­ङ्क्याह -
नचेति ।

पुनरुक्त्या विद्या­भे­द­स्या­ति­स्प­ष्टत्वं हेतुं मत्वोक्तम् -
एकस्यामिति ।

शाखा­भे­दा­द्बो­द्धृ­भे­दे­ना­पौ­न­रु­क्त्येऽपि तात्प­र्य­प्र­मे­य­गु­ण­भे­द­वि­शि­ष्टो­पा­स­नेषु नानात्वमित्याह -
तद्वदिति ॥ ७ ॥

पूर्व­प­क्ष­बी­ज­मु­द्भाव्य दूषयति -
संज्ञातश्चेति ।

अनुवादं व्याकरोति -
अथेति ।

अत्रेति शाखाद्वयमुक्तम् । संज्ञैकत्वं विवृणोति -
उद्गीथेति ।

पूर्वसूत्रगतं नञ्शब्दं तच्छब्देन संयोज्य परिहरति -
तदपीति ।

पूर्व­सू­त्रो­क्त­प­रि­हा­रस्य बाध­क­त्वा­च्चो­द्या­भा­सोऽ­य­मि­त्याह -
उक्तं हीति ।

समा­ख्या­वि­शे­षा­द­भेदो गम्यते रूपभेदाच्च भेदस्तथा सति किमत्र युक्तं, तत्राह -
तदेवेति ।
रूप­भे­द­स्या­न्त­र­ङ्ग­तया बल­व­त्त­र­त्वा­त्सं­ज्ञा­याश्च श्रुतिबाह्यतया बहि­र­ङ्ग­त्वा­त्पौ­रु­षे­य­तया च सापेक्षत्वेन दुर्ब­ल­त्वा­द्रू­प­भे­दा­दुक्तं विद्या­ना­ना­त्व­मेव युक्तमित्यर्थः ।

कथं संज्ञैक्यं श्रुत्य­क्ष­र­बाह्यं, तत्राह -
उद्गीथेति ।

संज्ञै­क्या­द्वि­द्यैक्ये स्याद­ति­प्र­स­क्ति­रि­त्य­स्ती­त्या­दि­व्या­क­रोति -
अस्ति चेति ।

अपि­श­ब्दो­पा­त्त­मु­दा­ह­र­णा­न्त­र­माह -
तथेति ।

संज्ञैक्येऽपि न चेत्तत्रैक्यं तर्हि संज्ञै­क्य­मु­द्गी­थ­ज्ञा­नेऽ­प्य­प्र­यो­ज­क­मि­त्याह -
तथेहेति ।

कथं तर्हि संज्ञैक्यस्य व्यभिचारित्वे प्रथमसूत्रे तस्यैक्ये हेतु­त्व­मु­क्त­मि­त्या­शङ्क्य तुश­ब्द­सू­चि­त­म­र्थ­माह -
यत्रेति ।
एवंजातीयकः प्रक्रमभेदो वा तत्तुल्यो वेत्यर्थः ।

असति बलवति बाधके संज्ञैक्यमपि साधकमित्यत्र दृष्टान्तमाह -
यथेति ।
आदिपदेन पञ्चाग्निविद्या वैश्वा­न­र­वि­द्ये­त्यादि गृह्यते ॥ ८ ॥

ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सी­ते­त्य­त्रो­द्गी­थ­वि­शे­षि­त­त्व­मो­ङ्का­र­स्यापि सिद्धवत्कृत्य प्रक्र­म­भे­दा­द्वि­द्या­भे­द­मुक्त्वा तमेव विशे­ष­ण­वि­शे­ष्य­भावं निरूपयति -
व्याप्तेश्चेति ।

ओमुद्गीथशब्दयोः सामा­ना­धि­क­र­ण्य­म­धि­क­र­णस्य विषयं दर्शयति -
ओमित्येतदिति ।

विशे­षा­न­व­धा­र­ण­कृतं सन्देहमाह -
अध्यासेति ।
अत्र च विशे­ष­ण­वि­शे­ष्य­भा­व­नि­रू­प­णेन विचारस्य वाक्या­र्थ­धी­सा­ध­न­स­ङ्क्रा­न्त­तया पादादिसङ्गतयः । पूर्वपक्षे समा­ना­धि­क­र­ण­वा­क्य­स्या­न­ध्य­व­सि­ता­र्थ­त्वा­द­प्रा­माण्यं सिद्धान्ते तस्या­र्थ­नि­श्च­या­त्प्रा­मा­ण्यम् ।

कथमेतेषां पक्षाणां प्रतिभानं भेदो वेति तत्राध्यासं व्युत्पादयति -
तत्रेति ।
तेषां मध्य योऽध्यासो नाम प्रसिद्धः स व्युत्पाद्यते ।

गौणी बुद्धि­र­सा­वि­त्यु­पेत्य व्युत्पा­द­न­म­भि­न­यति -
द्वयोरिति ।

कथ­म­न्य­त­र­बु­द्धा­व­नि­व­र्ति­ता­या­म­न्य­त­र­बु­द्धे­र­ध्यासः स्यात् , तत्राह -
यस्मिन्निति ।

अध्य­स्त­बु­द्ध्ये­त­र­बु­द्धे­र्नि­व­र्त्य­त्व­मा­शङ्क्य दृष्टान्तमाह -
यथेति ।

वैदि­क­दृ­ष्टा­न्त­मुक्त्वा लोकिकमाह -
यथा वेेति ।

विशे­ष­म­न­व­धा­र­य­न्दा­र्ष्टा­न्ति­क­माह -
एवमिति ।
अध्या­स­प­क्ष­स­मा­प्ता­वि­ति­शब्दः ।

अप­वा­द­व्यु­त्पा­दनं प्रतिज्ञाय व्युत्पादयति -
अपवाद इति । यत्रेति ।
यस्मि­न्क­स्मिं­श्चि­द्व­स्तु­नी­त्यर्थः ।

तत्रापि लौकिकं वैदिकं चोदाहरणमाह -
यथेत्यादिना ।

पूर्व­व­द्दा­र्ष्टा­न्ति­क­माह -
एवमिति ।
इतिशब्दोऽपि पूर्ववत् ।

एकत्वपक्षं सदृष्टान्तं स्पष्टयति -
एकत्वं त्विति ।

विशेषणपक्षं प्रकटयति -
विशेषणमिति ।
ग्रहणप्रसङ्गे ध्येयत्वेन स्वीका­र­प्र­स­क्ता­विति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -
यथेति ।

पक्षचतुष्टयं व्युत्पा­दि­त­मु­प­सं­ह­रति -
एवमिति ।

अध्यासादिषु दृष्टे­ष्व­न­ध्य­व­सा­य­पक्षं पूर्वपक्षयित्वा सिद्धान्तमाह -
तत्रेत्यादिना ।

सूत्र­स्थ­च­श­ब्दस्य समु­च्च­या­द्य­र्था­भा­वा­दा­न­र्थ­क्य­मा­शङ्क्य व्याचष्टे -
चशब्द इति ।

पक्ष­व्या­वृ­त्ति­मेव प्रकटयति -
तदिति ।
तत्तत्र सामा­ना­धि­क­र­ण्य­वाक्ये चतुष्टयपक्षेषु दृष्टेष्विति यावत् ।

व्यावर्त्ये पक्षत्रये विशेषणपक्षस्य प्रवेशं निषेधन्नादेयं पक्षमाह -
विशेषणेति ।

कथं त्रयाणां पक्षाणां सावद्यत्वं तत्राध्यासस्य सावद्यत्वं साधयति -
तत्रेति ।
उद्गी­थ­बु­द्धे­र­क्ष­रेऽ­ध्या­सेऽ­क्ष­र­श­ब्द­स्यो­द्गीथे तस्मि­न्वा­क्ष­र­बु­द्धे­र­ध्यासे सत्यु­द्गी­थ­श­ब्द­स्या­क्षरे लक्षणा स्यात् । श्रुति­ल­क्ष­णा­वि­शये च श्रुति­र्न्याय्या तेन नाध्यास इत्यर्थः ।

तत्रैव दोषान्तरमाह -
फलं चेति ।

तत्क­ल्प­ना­म­मृ­ष्य­न्नाह -
श्रूयत इति ।

तस्या­ध्या­स­फ­ल­त्वा­भा­वा­न्मै­व­मि­त्याह -
तन्नेति ।

श्रुतस्य फल­स्या­न्य­फ­ल­त्व­मेव व्यनक्ति -
आप्त्यादीति ।
नच तस्यो­भ­य­फ­ल­त्व­मा­प्त्या­दि­दृष्टिं विधा­तु­मो­मि­त्ये­त­द­क्ष­र­मिति वाक्येन विशि­ष्ट­प्र­ण­वा­र्थेन पृथ­गु­पा­स्ति­वि­ध्य­नु­प­ग­मा­दिति भावः ।

अपवादपक्षं प्रत्याह -
अपवादेऽपीति ।
अध्यासं दृष्टा­न्त­यि­तु­म­पि­शब्दः वाक्यशेषस्थं तु फलं नाध्यासस्य नापवादस्यापि स्याद्वि­शि­ष्टो­पा­स्ति­स­म्ब­न्धा­दि­त्यर्थः ।

फलाभावासिद्धिं शङ्कते -
मिथ्येति ।
तन्नि­वृ­त्ता­वा­त्मनि कर्तृ­त्वा­द्य­न­र्थ­नि­वृ­त्ति­रा­न­न्द­भि­व्य­क्तिश्च दृष्टा नैव­मो­ङ्का­र­बु­द्ध्यो­द्गी­थ­बु­द्धे­स्तस्या वेतरस्या ध्वंसे कश्चि­त्पु­रु­षार्थो दृष्टः ।

तस्मान्नेदं फलमित्याह -
नेति ।

अपवादमुपेत्य वैफल्यं दोष­मु­क्त्वा­ङ्गी­कारं त्यजति -
नचेति ।
उद्गी­थ­बु­द्धि­रे­ङ्का­र­बु­द्धे­र­प­वा­दिका चेदो­ङ्का­र­बुद्धिः स्ववि­ष­या­दो­ङ्का­रा­न्नि­व­र्तेत । ओङ्का­र­बु­द्धे­र्बा­ध्याया मिथ्याधीत्वेन स्वार्थ­व्य­भि­चा­रात् । यदो­ङ्का­र­धी­रु­द्गी­थ­बु­द्धे­र­प­वा­दिका तदापि मिथ्या­धी­त्वा­दु­द्गी­थधीः स्वार्था­न्नि­व­र्तेत । नचैवं दृष्टमतो नापवाद इत्यर्थः ।

किञ्चा­प­वा­दे­नास्य वाक्यस्य तात्प­र्य­मु­पा­स्ति­प­र­त्वा­दि­त्याह -
नचेति ।

एकत्वपक्षं निराह -
नापीति ।

पिकशब्दस्य कोकिलशब्देन व्युत्पा­द­न­व­द­न्य­त­र­श­ब्द­स्या­न्य­त­र­श­ब्देन व्युत्पादनं फल­व­दे­वे­त्या­शङ्क्य सन्दि­ग्धा­र्थ­ता­दे­र­स­त्त्वा­न्मै­व­मि­त्याह -
एकेनेति ।
ओङ्का­रो­द्गी­थ­श­ब्द­यो­रु­द्गी­था­र्थ­त्वा­द­न्य­त­रेण तत्सिद्धेर्न शब्दा­न्त­र­म­र्थ­व­दि­त्यर्थः ।

किञ्चैकत्वपक्षे किमु­द्गी­थ­स्या­क्ष­रेऽ­न्त­र्भा­वोऽ­क्ष­रस्य वेतरस्मिन्निति विकल्प्याद्यं निराह -
नचेति ।

द्वितीयं प्रत्याह -
नापीति ।

उद्गी­थ­श­ब्द­स्या­क्षरे तच्छब्दस्य चोद्गीथे प्रसिद्ध्यभावे तयो­रे­का­र्थ­त्व­रा­हित्यं फलतीत्याह -
येनेति ।

पक्षत्रयं साव­द्य­त्वे­ना­पोद्य निरवद्यं पक्षं गृह्णाति -
परिशेषादिति ।

तत्र सौत्रं पदमादाय विभजते -
व्याप्तेरिति ।

तथापि कथं विशे­ष­ण­प­क्ष­सिद्धिः, तत्राह -
सर्वेति ।

इहे­त्यु­पा­स­नोक्तिः । तत्प्रसङ्गे वाक्यशेषविरोधः स्यादिति मत्वा ब्रूते -
अत इति ।

सम्भवे व्यभिचारे च विशे­ष­ण­म­र्थ­व­दि­त्यु­प­ग­मा­दो­ङ्का­रस्य विशेष्यस्य सर्व­वे­द­व्या­पि­त्वा­दु­द्गी­थेन विशेषणेन व्यभि­चा­र­वा­र­णेऽपि सर्वस्या द्वितीयस्या भक्ते­रु­द्गी­थ­श­ब्दि­ता­या­स्त­द­व­यवे सम्भ­वा­भा­वा­द­यु­क्त­मो­ङ्का­र­वि­शे­ष­ण­मु­द्गी­थ­स्ये­त्या­श­ङ्क्या­व­य­व­ल­क्ष­णा­र्थ­त्व­मु­द्गी­थ­श­ब्द­स्यो­पे­त्याह -
कथमिति ।
इतिशब्दो वृत्तक्रियापदेन सम्बध्यते । न चोद्गी­थ­स्यै­वा­व­य­विनो लक्षणा स्यादो­ङ्का­रे­णा­व­य­वे­नेति युक्त­मो­ङ्का­र­स्यो­प­रि­ष्टा­द्वि­स्त­रेण व्याख्या­स्य­मा­न­तया प्रधानत्वात्तेन भक्ति­ल­क्ष­णा­या­मु­द्गी­थ­प­देन भक्ति­वि­शे­ष­स्यै­वा­र्पणे व्यभि­चा­रा­भा­वा­द्वि­शे­ष­ण­वै­य­र्थ्य­मिति भावः ।

लक्ष­णा­प्र­स­ङ्गे­ना­ध्या­सस्य निरस्तत्वादयमपि पक्षो दोष­सा­म्या­न्नो­पा­देयः स्यादिति शङ्कते -
नन्विति ।

उद्गी­थ­श­ब्द­स्या­व­यवे लक्ष­णा­म­ङ्गी­क­रोति -
सत्यमिति ।

अध्या­स­प­क्ष­व­द­य­मपि तर्हि पक्षो नोपादेयः स्यादि­त्या­श­ङ्क्याह -
लक्षणायामिति ।
पक्षद्वये तुल्यायामपि लक्ष­णा­या­म­ध्या­स­प­क्ष­मु­पेक्ष्य विशे­ष­ण­प­क्ष­मा­द्रि­या­महे तत्र लक्षणार्थस्य वाक्या­र्था­न्व­यि­त्वेन लक्षणायाः संनि­कृ­ष्ट­वि­ष­य­तया बलीयस्त्वात् । अध्यासे तु गौणी धीर­सा­वि­त्यु­क्त­त्वात् लक्ष्य­मा­ण­गु­ण­व­त्ये­क­स्मि­न्नि­त­र­श­ब्द­स्या­व­सा­ना­ल्ल­क्ष­णाया विप्र­कृ­ष्ट­वि­ष­य­त्वेन दौर्ब­ल्या­दि­त्यर्थः ।

अध्यासपक्षे लक्षणाया विप्र­कृ­ष्ट­वि­ष­यत्वं स्पष्टयति -
अध्यासेति ।

सिद्धान्ते लक्षणायाः संनि­कृ­ष्ट­वि­ष­य­त्वेन प्रबलत्वं प्रकटयति -
विशेषणेति ।

अवयविवचनेन शब्दे­ना­व­य­व­ल­क्ष­णाया लौकिकत्वाभावं प्रत्याह -
समुदायेष्विति ।
पटो दग्धो ग्रामो दग्ध इति तदेकदेशदाहेऽपि समुदायशब्दो लक्षणयावयवे प्रयुज्यते तथो­द्गी­थ­श­ब्दोऽपि द्विती­य­भ­क्त्य­व­य­वेऽ­क्षरे लक्षणया वर्तिष्यते, नचा­क्ष­र­स्यो­द्गी­था­व­य­वत्वं तदुपासनं च विधेयमिति वाक्यभेदः । विशि­ष्टा­क्ष­रा­नु­वा­दे­नो­पा­स्ते­रेव तत्त­द्गु­ण­व­त्या­स्त­त्त­त्फ­ल­वि­शि­ष्टायाः समस्तेन वाक्येन विधानादिति भावः ।

उक्त­हे­त्व­नु­वा­दे­ना­व­शिष्टं सूत्रपदं व्याकु­र्व­न्वि­शे­ष­ण­प­क्षस्य निर­व­द्य­त्व­मु­प­सं­ह­रति -
अतश्चेति ॥ ९ ॥

ओङ्का­र­स्यो­द्गी­थ­गु­ण­क­स्यै­वो­पा­स्य­ते­त्युक्ते प्राणस्यापि तत्त­दु­क्त­गु­ण­मा­त्र­स्यैव तत्र तत्रो­पा­स्य­ते­त्या­श­ङ्क्याह -
सर्वेति ।

विषयं वक्तु­म­वि­गी­त­म­र्थ­माह -
वाजिनामिति ।

शाखाद्वयेऽपि संम­त­म­र्था­न्त­र­माह -
वागिति ।
सा हि वसिष्ठत्वगुणा वाक् । वाग्मिनो हि लोके सुखिनो वसन्ति । चक्षुश्च प्रतिष्ठागुणं चक्षुष्मतः पाद­प्र­ति­ष्ठा­द­र्श­नात् । सम्पद्गुणं श्रोत्रम् । तद्वत एव श्रव­णा­र्था­व­धा­र­ण­क­र्म­स­म्प­त्ति­द­र्श­नात् । आयतनगुणं मनः । भोग्यानां तत्र वृत्तिद्वारा निधा­ना­दि­त्यु­भ­य­त्रापि श्रुतमित्यर्थः ।

तत्र तर्हि बहू­ना­मु­पा­स्य­ते­ष्टे­त्या­श­ङ्क्याह -
ते चेति ।
अन्व­य­व्य­ति­रे­काभ्यां प्राणा­धी­न­त्व­सि­द्धे­र्वा­गा­दि­स्थितेः । प्राणे स्वगुणा वागादिभिरर्पिता इत्यर्थः ।

शाखान्तरेऽपि संमतमर्थमाह -
अन्येषामिति ।

निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं तद­न्त­रे­णो­पा­स्ते­र­यो­गा­त्त­त्प्र­स्तु­त­म­धि­कृ­त­मि­त्याह -
अथेति ।
एता ह वै देवता वागा­द्य­भि­मा­नि­न्योऽ­हं­श्रे­यसे स्वकी­य­श्रे­ष्ठ­त्वा­येति यावत् ।

अवि­गी­त­म­र्थ­मुक्त्वा विगीतमर्थमाह -
न त्विति ।

एवं­श­ब्दा­ज्ज्ये­ष्ठ­त्वा­दि­गु­ण­क­प्रा­ण­प्र­त्य­मि­ज्ञा­नाच्च वसि­ष्ठ­त्वा­दि­गु­णेषु संशयमाह -
तत्रेति ।
क्वचिदिति वाज­स­ने­य­क­च्छा­न्दो­ग्योक्तिः । अन्यत्रेति कौषी­त­कि­प्र­भृ­ति­शा­खो­च्यते । अत्र च वसि­ष्ठ­त्वा­दि­गु­णो­प­सं­हा­र­द्वारा वाक्या­र्थ­धी­हे­तो­रेव निरू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे यथाश्रुति गुणव्यवस्था ।

सिद्धान्ते गुण्य­नु­रो­धा­त्त­द­व्य­व­स्थेति मत्वा पूर्वपक्षयति -
तत्रेति ।

विद्यै­क्या­द­नु­मा­ना­दु­प­सं­हारे कथमनुपसंहारः स्यादिति शङ्कते -
कुत इति ।

ओंकारस्य सर्वत्र प्राप्ता­वु­द्गी­थ­वि­शे­ष­णा­द­न्य­व्या­वृ­त्ति­व­देवं विद्वानिति संनि­हि­ता­ल­म्ब­ना­दे­वं­श­ब्दा­द­सं­नि­हि­तस्य विद्यै­क्य­द्वा­राऽ­नु­मि­तस्य वसि­ष्ठ­त्वा­दे­र्व्या­वृ­त्ति­र्यु­क्ते­त्याह -
एवंशब्देति ।
यथा प्राणो वागादिभ्यः श्रेष्ठः सिद्धस्तथा प्राणं श्रैष्ठ्यगुणं विद्वान्यः कश्चिदधिकृतः सन्नुपास्ते सोऽपि प्राणे श्रैष्ठ्यं विदि­त्वो­पा­स्य­प्रा­णा­त्म­क­त्व­प्राप्त्या श्रैष्ठ्या­द्य­न्वितो भवतीति श्रुत्यर्थः ।

एवं­श­ब्द­सं­यो­गेऽपि विद्याया वसि­ष्ठ­त्वा­दि­गु­ण­वत्त्वं किं न स्यात् , तत्राह -
तत्र तत्रेति ।
वीप्सया तत्त­द्वि­द्या­प्र­क­र­ण­मु­च्यते ।

एक­त्वा­द्वि­द्याया वेद्या­र्प­के­णै­वं­श­ब्देन शाखा­न्त­रो­क्ता­ना­मपि वसिष्ठत्वादीनां परामर्शः स्यादि­त्या­श­ङ्क्याह -
एवमिति ।
शब्दस्य शाब्द­मे­वा­नु­मा­नि­का­दपि संनिहितमिति कुतः शाखा­न्त­री­य­गु­ण­धी­रि­त्यर्थः ।

विद्याया निरा­का­ङ्क्ष­त्वार्थं शाखान्तरीयमपि गुणजातमिह परा­मृ­ष्ट­मि­त्या­श­ङ्क्याह -
तस्मादिति ।

पूर्व­प­क्ष­म­नु­भाष्य सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञां व्याकरोति -
एवमिति ।

क्वचिदुक्तानां गुणानां गुणा­न­भि­धा­यि­शा­खा­सू­प­सं­हारे सर्वत्र तत्प्र­स­ङ्गा­त्क्व­चि­दे­वो­प­सं­हारे निमित्तं पृच्छति -
कुत इति ।

तत्र सौत्रं हेतुमुक्त्वा व्याचष्टे -
सर्वेति ।

सर्वासु शाखासु प्राण­ज्ञा­न­स्यैक्ये मानमाह -
अभिन्नमिति ।

प्रत्यभिज्ञापकं दर्शयति -
प्राणेति ।

आदिशब्दः श्रेष्ठ­त्वा­दि­ग्राही । ज्ञानैक्येऽपि यथाश्रुति गुण­व्य­व­स्था­मा­श­ङ्क्यो­क्तम् -
अभेदे चेति ।
गुण्या­कृ­ष्ट­गु­णानां व्यव­स्थो­क्ति­र­नु­मा­न­वि­रु­द्धे­त्यर्थः ।

पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
नन्विति ।

अनुमानस्य शब्दविरोधं परिहरन्नाह -
अत्रेति ।

असं­नि­हि­त­त्वा­दे­वं­श­ब्देन वसि­ष्ठ­त्वा­दि­ग्र­हा­यो­गा­न्ना­नु­मा­न­श्रु­त्य­वि­रु­द्धे­त्या­श­ङ्क्याह -
यद्यपीति ।
वाज­स­ने­यि­ब्रा­ह्म­ण­स्थेन तावदेवंशब्देन वसि­ष्ठ­त्वा­दि­गु­ण­जा­तस्य प्राणधीसम्बन्धः सिद्धः सैव कौषी­त­कि­ब्रा­ह्म­णेऽपि प्रत्यभिज्ञाता तथाच तद्गतेनापि वसि­ष्ठ­त्वा­द्ये­वं­श­ब्देन शक्यं परा­म्र­ष्टु­मि­त्यर्थः ।

शब्दस्य शब्दोक्तमेव संनिहितं न विजा­ती­या­नु­मा­सि­द्ध­मि­त्या­श­ङ्क्याह -
इति नेति ।
नहि शब्दस्य शाब्दमेव संनिहितं किन्तु शब्दो­क्ता­र्थ­ना­न्त­री­य­क­तया प्राप्तमपि बुद्धिस्थं शब्दस्य संनिहितमेव पर्णमयीत्वस्य जुहू­प­स्था­पि­त­क्र­तु­व­दतः संनि­ध्य­वि­शे­षा­दे­वं­श­ब्देन तस्यापि सङ्ग्र­ह­सि­द्धि­रिति भावः ।

अनुमानतः शाखा­न्त­री­य­गु­णो­प­सं­हारे परिगणितत्वं श्रुतं हीये­ता­श्रु­ता­ना­मपि गुणा­न्त­रा­णा­म­त्रो­प­सं­हा­रा­दि­त्या­श­ङ्क्या­नु­मायाः श्रुत्य­वि­रु­द्धा­र्थ­त्वा­न्मै­व­मि­त्याह -
नचेति ।

तदेव व्यनक्ति -
एकस्यामिति ।

उक्तमर्थं दृष्टान्तेन समर्थयति -
नहीति ।

शब्दो­क्त­ना­न्त­री­य­क­मपि संनि­हि­त­मे­वे­त्युक्तं दृष्टान्तेन स्पष्टयति -
यथाचेति ।

देव­द­त्तै­क्या­त्त­स्मि­न्बु­द्धिस्थे तद्गुणानां बुद्धि­स्था­ता­व­ज्ज्ञा­नै­क्या­त्त­स्मि­न्बु­द्धि­सं­नि­हिते तद्गुणा अपि तथा भवन्तीत्याह -
एवमिति ।

अनु­मा­न­स्या­वि­रोधे फलितमाह -
तस्मादिति ॥ १० ॥

प्राणस्य सवि­शे­ष­त्वा­द्यु­क्त­शा­खा­न्त­री­य­व­सि­ष्ठ­त्वा­द्यु­प­सं­हारो ब्रह्मणो निर्वि­शे­ष­त्वा­त्त­द्धर्मैः स्वशाखागतैरेव प्रमि­ति­सि­द्धे­र्ना­न­न्दा­द्यु­प­सं­हारः स्यादि­त्या­श­ङ्क्याह -
आनन्दादय इति ।

विषयं दर्शयति -
ब्रह्मेति ।

ब्रह्मै­क्य­नि­र्वि­शे­ष­त्वाभ्यां संशयमाह -
तेष्विति ।

वेद्य­ब्र­ह्मै­क्या­दे­वं­श­ब्द­व­द­प­वा­द­का­दृ­ष्टे­श्चौ­त्स­र्गिको गुणोपसंहारः स्यादि­त्या­शङ्क्य ब्रह्मै­क्या­दा­न­न्दा­दीनां सर्वत्रोपसंहारे संय­द्वा­म­त्वा­द­योऽपि किमिति नोप­सं­ह्रि­ये­र­न्नि­त्य­भि­प्रेत्य पूर्वपक्षयति -
तत्रेति ।
संय­द्वा­म­त्वा­दी­ना­मु­पा­स­ना­र्थ­मु­क्तानां यथाविधि व्यवस्था । सत्यादयस्तु वस्तु­त­त्त्व­प्र­मि­त्यर्थः यत्र यत्र वस्तु­त­त्त्व­धी­स्तत्र तत्रो­प­सं­ह्रि­ये­र­न्नि­त्युक्त्वा वाक्या­र्थ­धी­हे­तो­रे­वात्र निरू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपत्रे सत्या­द्य­नु­प­सं­हारे तत्त्वाप्रमितिः ।

सिद्धान्ते तदुपसंहारे तत्प्र­मि­ति­सि­द्धि­रिति मत्वा सिद्धान्तमाह -
इदमिति ।

शाखा­भे­दे­नो­दि­ता­नु­दि­त­हो­म­का­र्य­ता­व्य­व­स्था­व­दि­हापि शब्दभेदेन व्यवस्था स्यादिति शङ्कते -
कस्मादिति ।

पूर्व­हे­तु­मि­हा­कृ­ष्यो­दा­ह­रति -
सर्वेति ।

हेतुमेव विवृणोति -
सर्वत्रेति ।

ब्रह्मणः सर्वत्रैक्ये फलितमाह -
तस्मादिति ।

धर्मिणः सार्व­त्रि­क­त्वेऽपि धर्माणां यथाश्रुति व्यवस्था स्यादि­त्या­श­ङ्क्याह -
तेनेति ।
सत्यज्ञानादयो मिथो­वि­शे­ष­ण­वि­शे­ष्य­भूता विरु­द्धा­नृ­त­ज­डा­दि­भ्रान्तिं निवर्तयन्तः सत्त्वा­दि­प­रा­प­र­सा­मा­न्या­धा­र­भू­ता­मे­का­मा­न­न्द­व्यक्तिं लक्षयन्ति । न चैकस्मादेव पदादीदृशं ब्रह्म सिध्यति पदमात्रप्रयोगे विरो­धा­भा­वा­ल्ल­क्ष­णा­नु­त्था­ना­त्प्र­यो­क्तव्ये पदान्तरे सम्भा­वि­त­स­म­स्त­भ्रा­न्ति­नि­रा­स­न­स­मर्थ पदजातं प्रयो­क्त­व्य­मि­त्या­रो­पि­त­भ्रा­न्ति­नि­वृ­त्त्यर्थं परशाखीयमपि पद­वृ­न्द­म­त्रो­प­सं­ह­र्त­व्य­मिति भावः ॥ ११ ॥

आनन्दमयस्य ब्रह्मणः सर्व­त्रा­भे­दा­त्त­द्ध­र्म­त्वे­ना­न­न्दा­दि­व­त्प्रि­य­शि­र­स्त्वा­द­योऽपि तत्र तत्र प्रसज्येरन्नो चेदानन्दादयोऽपि सार्वत्रिका न स्युरिति शङ्कते -
नन्विति ।
ब्रह्मधर्माणां सर्वत्र सङ्करे सतीति यावत् ।

ब्रह्मधर्मतैव तेषा­म­सि­द्धे­त्या­श­ङ्क्याह -
तथाहीति ।

सूत्रेणोत्तरमाह -
अत इति ।

तत्र प्रतिज्ञां विभजते -
प्रियेति ।

हेतुं व्याकरोति -
तदिति ।
इष्ट­व­स्तु­सा­मा­न्या­प्ति­कृतं प्रीतिमात्रं प्रियम् । पुत्रा­दि­वि­शे­ष­ला­भ­कृतो हर्षविशेषो मोदः । स एव प्रकृष्टः सन्प्रमोदः । सुख­सा­मा­न्य­मा­नन्द इत्येवमेते पर­स्प­रा­पे­क्ष­यो­प­च­या­प­च­य­रूपा भोक्तृभेदाच्च तथात्वभाजो जीवेषु सुखा­दि­वै­चि­त्र्य­दृ­ष्टे­रि­त्यर्थः ।

तेषा­मे­वं­रू­प­त्वो­प­ल­म्भेऽपि किमा­या­त­मि­त्या­श­ङ्क्याह -
उपचयेति ।

तर्हि ब्रह्मण्यपि भेदोऽस्तु नेत्याह -
निर्भेदं त्विति ।
अतो यत्र यत्र ब्रह्म प्रतिपाद्यं तत्र तत्र प्रिय­शि­र­स्त्वा­दीनां न प्राप्तिरिति शेषः ।

ब्रह्म­ध­र्म­त्व­मे­षा­मु­पे­त्योक्तं तदेव नास्तीत्याह -
नचेति ।

आनन्दमयस्य ब्रह्मत्वे कथं तद्ध­र्मा­णा­मे­षा­म­ब्र­ह्म­ध­र्म­ते­त्या­श­ङ्क्या­न­न्द­म­या­धि­क­रणे वृत्तं स्मारयति -
कोशेति ।

इतश्च प्रिय­शि­र­स्त्वा­दीनां ब्रह्मवाक्ये न प्राप्तिरित्याह -
अपिचेति ।

अस्तु तर्हि चित्ता­व­ता­रो­पा­य­त्वे­नैव सर्वत्र ब्रह्मवाक्ये तत्प्राप्तिः, तत्राह -
एवमपीति ।
तेषां ब्रह्मणि चित्ता­व­ता­रो­पा­य­त्वेऽपि न ब्रह्मवाक्ये सर्वत्र प्राप्ति­र्द्र­ष्ट­व्य­त्वे­ना­नु­प­दे­शात् । अब्र­ह्म­ध­र्म­त्वाच्च । चित्तावतारस्तु तत्र तत्रोक्तैरेव धर्मैः सम्भ­वा­न्नै­षा­मु­प­सं­हारं काङ्क्ष­ती­त्यर्थः ।

अब्र­ह्म­ध­र्म­त्वे­नै­षा­मु­प­सं­हा­र­श­ङ्का­भा­वा­द­न­र्थ­क­मिदं सूत्र­मि­त्या­श­ङ्क्याह -
ब्रह्मेति ।

कृत्वा­चि­न्ता­फ­ल­माह -
स चेति ।

तत्रापि ब्रह्मै­क्या­त्कि­मि­त्य­न्यो­न्य­त्रो­प­सं­हारो न स्यादि­त्या­श­ङ्क्याह -
तेष्विति ।
तेषां ध्याना­र्थ­मु­क्तानां विधि­पा­र­त­न्त्र्या­द्यत्र याव­द्गु­ण­वि­शि­ष्ट­त­यो­पा­स्ति­र्वि­धी­यते तत्र तावतामेव ध्येयता नान्ये­षा­मि­त्य­न्यो­न्य­त्रा­नु­प­सं­हार इत्यर्थः ।

उपास्यैक्ये कथमुपास्तिभेदो धर्मभेदो वेत्याशङ्क्याह -
यथाचेति ।
विध्यधीनेषु धर्मेषु विधिमतिक्रम्य सङ्करो नास्ती­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

सगु­ण­व­न्नि­र्गु­णेऽपि ब्रह्म­त्वा­वि­शे­षा­दु­प­सं­हा­रा­नु­प­सं­हा­र­व्य­वस्था किं न स्यात् , तत्राह -
उपचितेति ।

सगु­ण­नि­र्गु­ण­यो­र्वै­ष­म्य­मुक्त्वा सूत्रे विवक्षितं वदन्नुपसंहरति -
अतो नेति ॥ १२ ॥

विधि­प­र­त­न्त्रेभ्यः सत्य­का­म­त्वा­दिभ्यो वस्तु­ध­र्मा­णा­मा­न­न्दा­दीनां ब्रह्म­त­त्त्व­मि­त्यु­प­यो­गि­तया यत्र यत्र ज्ञेयं ब्रह्मोच्यते तत्र तत्र प्राप्तिरिति विशेषमाह -
इतरेत्विति ।

सूत्रितं विशेषं विशदयति -
इतरे त्वित्यादिना ।

ब्रह्म­स्व­रू­प­सि­द्ध्य­र्थ­मु­च्य­मा­न­त्व­मे­वा­न­न्दा­दीनां वैषम्यार्थं कथयति -
प्रतिपत्तीति ।
सत्य­त्व­ज्ञा­न­त्वा­न­न्द­त्वा­त्म­त्व­पू­र्ण­त्व­ल­क्षणाः पञ्च पदार्था ज्ञानाधिकारे सर्व­त्रो­प­सं­ह­र्तव्या इति वक्तुमितिशब्दः ॥ १३ ॥

ब्रह्म­स्व­भा­व­भू­तो­प­सं­हा­र्य­ध­र्मो­क्त्य­न­न्त­र­म­स्व­भा­व­स्या­नु­प­सं­हा­र्य­स्या­प्य­र्था­दि­प­र­त्व­रू­प­ध­र्मस्य ब्रह्म­प्र­मि­त्यु­पा­यत्वं वदति -
आध्यानायेति ।

विषयवाक्यं पठति -
काठक इति ।

वाक्य­भे­दा­भे­दा­नि­र्धा­र­णे­ना­र्था­दी­न­धि­कृत्य संशयमाह -
तत्रेति ।
विद्या­भे­दा­भे­द­प्र­स­ङ्गेन वाक्य­भे­दा­भे­द­यो­स्त­न्नि­ब­न्ध­न­वि­द्या­भे­दा­भे­द­योर्वा चिन्तया वाक्या­र्थ­धी­हे­तो­रेव चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे वाक्य­भे­दा­द्वि­द्या­भेदः ।

सिद्धान्ते तदभेदात्तदभेद इत्यभिप्रेत्य पूर्वपक्षमाह -
तत्रेति ।

तत्र हेतुमाह -
तथाहीति ।

पूर्व­प­क्ष­मा­क्षि­पति -
नन्विति ।

सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदो दोषोऽत्र तु वाक्यभेद एवेति समाधत्ते -
नेति ।

उपपत्तिमेवाह -
बहूनीति ।

सर्वेषां प्रत्येकं पर­त्वो­क्ति­र­फ­ले­त्या­शङ्क्य ‘दश मन्वन्तराणीह तिष्ठ­न्ती­न्द्रि­य­चि­न्तकाः’ इत्या­दि­स्मृ­ते­र्ध्या­न­द्वारा प्रत्येकं परत्वोक्तेः सफ­ल­त्व­सि­द्धे­र­पू­र्वा­र्थ­तया च प्रामाणिकस्य वाक्य­भे­द­स्ये­ष्ट­त्वा­त्प्र­त्ये­क­म­र्था­दीनां परत्वं प्रति­पा­द्य­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तं प्रतिजानीते -
एवमिति ।

पुरुषपरत्वस्य शक्तिविषयस्य तात्प­र्य­ग­म्य­त्व­व­द­र्था­दि­प­र­त्वा­ना­मपि शक्ति­वि­ष­य­त्वा­द­पू­र्व­त्वाच्च तात्पर्यमेयत्वं किं न स्यादिति शङ्कते -
कस्मादिति ।

तात्प­र्य­मे­य­त्व­नि­मि­त्त­फ­ला­भा­वा­न्ना­र्था­दि­प­र­त्वानां तन्मेयतेति मत्वाह -
प्रयोजनेति ।

कथं प्रयो­ज­ना­भा­वो­क्ति­रि­त्या­श­ङ्क्या­न्व­य­व्य­ति­रे­क­सिद्धं शास्त्रसिद्धं वा फलमिति विकल्प्याद्यं निराह -
नहीति ।

द्वितीयं प्रत्याह -
श्रूयते चेति ।
प्रकरणस्यास्य वस्तु­प­र­त्व­दृ­ष्टे­रु­पा­स्ति­वि­धि­प­र­त्वा­यो­गा­त्प­र­म­पु­रु­षा­र्थ­हे­तु­त­त्त्व­धी­प­रत्वे च सम्भ­व­ती­न्द्रि­या­द्यु­पा­स्त्य­धी­न­स्मृ­ति­सि­द्धा­वा­न्त­र­पु­म­र्थ­प­र­त्वा­यो­गान्न प्रत्ये­क­म­र्था­दि­प­र­त्व­सि­द्धि­रि­त्यर्थः ।

पुरुषस्य परत्वधीरपि न फलवती पर­त्व­धी­त्वा­द­र्था­दि­प­र­त्व­धी­व­दि­त्य­नु­मा­ना­त्कथं त्वन्मतेऽपि पुरु­षा­र्थ­हे­तु­फ­ल­त्व­मि­त्या­श­ङ्क्या­न­र्थ­शू­न्य­तो­प­ल­क्षि­ता­न­व­च्छि­न्न­चि­द्धा­तु­वि­ष­य­त्वा­त्पु­रु­ष­प­र­त्व­दृ­ष्टे­र­न­र्थ­ध्वं­स­फ­ल­त्व­म­नु­भ­व­सि­द्ध­मि­त्याह -
पुरुषे त्विति ।

अज्ञा­न­मि­थ्या­धी­शा­न्ते­र्दृ­ष्ट­फ­ल­त्वा­द्दृष्टे सत्यदृष्टकल्पना न युक्तेति मत्वाह -
दृश्यते इति ।

विद्वदनुभवे विप्रतिपन्नं प्रति पुरु­ष­प­र­त्व­दृ­ष्टे­र्दृ­ष्ट­फ­लत्वे श्रुतिमाह -
तथाचेति ।

इतश्चास्य सन्दर्भस्य सर्व­स्मा­त्प­र­त्वेन पुरु­ष­प्र­मि­ति­प­र­ते­त्याह -
अपिचेति ।
पुरुषान्न परमिति निषेधलिङ्गेन सा काष्ठेति काष्ठाशब्देन बाधावधित्वेन पर­त्वो­क्ति­लि­ङ्गेन च पुरुषविषयमादरं तात्पर्यं दर्शयन्वेद इति यावत् । पूर्वा­प­र­प्र­वा­होक्तिः पूर्व­स्मा­त्पू­र्व­स्मा­द­प­र­स्या­प­रस्य परत्वोक्तिः ।

ध्यान­वि­धे­रि­हा­भा­वा­त्प­र­पु­रु­ष­मि­ते­र्ध्या­ना­र्थता कथं सूत्रि­ते­त्या­शङ्क्य सूत्रावयवं व्याचष्टे -
आध्यानेति ।

निर्गु­ण­ब्र­ह्म­प्र­मि­ति­रपि ध्यानार्था ब्रह्म­मि­ति­त्वा­त्स­गु­ण­ब्र­ह्म­मि­ति­व­दि­त्या­शङ्क्य ततस्तु तमि­त्या­दि­श्रु­ति­वि­रो­ध­माह -
सम्यगिति ॥ १४ ॥

सर्व­स्मा­त्प­र­त्वेन पुरुषस्यैवात्र प्रतिपाद्यत्वे हेत्वन्तरमाह -
आत्मेति ।

सूत्रस्थं चशब्दं व्याकरोति -
इतश्चेति ।

तदेव स्फुट­य­न्ना­त्म­शब्दं विभजते -
यदिति ।

आत्म­नोऽ­प्र­का­श­मा­नत्वं स्वभाविकमिति शङ्कां वारयति -
दृश्यते त्विति ।

तस्यां श्रुतावेष आत्मे­त्य­स्या­र्थ­माह -
प्रकृतमिति ।

सूत्रगतपञ्चम्या विवक्षितमर्थमाह -
अतश्चेति ।

अव­शि­ष्ट­पू­र्वा­र्ध­स्या­र्थ­माह -
तस्येति ।

उत्त­रा­र्ध­ता­त्प­र्य­माह -
संस्कृतेति ।

चशब्दसूचितं हेत्वन्तरमाह -
तदिति ।

वागा­दि­नि­य­म­न­मात्रं मन्त्रे प्रतीतं न तु ध्यान­वि­धि­रि­त्या­श­ङ्क्याह -
तद्व्या­ख्या­त­मिति ।

अज्ञा­ता­र्थ­ज्ञा­प­न­स्वा­भा­व्या­दा­ग­म­स्या­त्म­नश्च श्रुत्यैव दुर्ज्ञा­न­त्वो­क्ते­र्व­स्तु­तश्च तथा­त्वा­द­र्था­दीनां च सुगमत्वात्तेषां परत्वोक्तिरपि तत्प­रै­वे­त्य­भि­प्रे­त्यो­प­सं­ह­रति -
एवमिति ।

उप­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्या­दपि पुरुषपरत्वे तात्पर्यं सन्दर्भस्य सिद्धमित्याह -
अपिचेति ।

‘तद्विष्णोः परमं पदम', ‘पुरुषान्न परं किञ्चित् ‘ इत्यु­प­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्या­त्फ­ल­वति सर्व­स्मा­त्प­रत्वे पुरुषस्य प्रतिपाद्ये सत्य­वा­न्त­र­वा­क्यानां तदेकवाक्यतायोगे वाक्य­भे­दा­दि­क­ल्पने गौर­वा­त्प­र­पु­रु­ष­प­र­त्व­मेव सन्दर्भस्येति हेत्वन्तरमेव स्फोरयति -
स इति ।

प्रमि­त्सि­त­त्वाच्च पुरुषस्यैव प्रमेयतेत्याह -
किमिति ।

अर्था­ना­मि­न्द्रि­या­क­र्ष­क­त्वेन पर­त्व­प­र­स्मि­न्ना­त्मनि सर्व­नि­य­म्या­क­र्ष­क­त्वेन परत्वं निश्चितमिति मत्वाह -
इन्द्रियादीति ॥ १५ ॥

वाक्य­भे­द­भ­या­द­र्था­दीनां पृथ­क्प्र­ति­पा­द्यत्वे प्रत्युक्ते देवा­दि­क­र्तृ­त्वेन प्रकृ­ता­प­र­ब्र­ह्म­णोऽन्यो लोकस्रष्टा परो नोपेयो वाक्य­भे­द­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह -
आत्मेति ।

विष­य­वा­क्य­मु­दा­ह­रति -
ऐतरेयक इति ।

आत्मशब्दस्य परत्र सूत्रे च प्रयोगात्तं विषयीकृत्य संशयमाह -
तत्रेति ।
आत्मशब्दस्य वाक्या­र्थ­ज्ञा­नो­प­यु­क्तस्य पर­मा­त्म­वि­ष­य­त्वोक्त्या सत्यात्वादीनां तत्प्र­मि­त्यु­प­यो­गि­ना­मु­प­सं­हा­र­सि­द्धे­रस्ति पादादिसङ्गतिः । आत्म­श­ब्द­स्या­प­र­वि­ष­यत्वे तद­र्थ­प्र­मि­त्यर्थं पूर्वपक्षे सत्या­द्य­नु­प­सं­हारः ।

सिद्धान्ते तस्य परविषयत्वे तत्प्रमित्यर्थं तदुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -
किमिति ।

पर­श­ब्द­वा­च्य­त्व­व­दा­त्म­श­ब्द­वा­च्य­त्व­मपि तस्यैव किं न स्यादित्याह -
कस्मादिति ।

आत्म­वि­ष­य­वा­क्यस्य सूत्रे तात्प­र्या­त्त­द्वि­द्याऽ­त्रा­भीष्टा तन्न गुणो­प­सं­हा­रोऽ­स्ती­त्याह -
वाक्येति ।

पूर्व­प­क्ष­मा­क्षि­पति -
नन्विति ।

सुत­रा­मि­त्यु­क्त­मेव हेतुद्वयोक्त्या प्रकटयति -
प्रागिति ।

लोक­स्र­ष्टृ­त्व­लि­ङ्गा­द्वा­क्या­न्वयः सूत्रविषयो न परात्मगामीत्याह -
नेतीति ।

परस्यापि लोकस्रष्टृत्वं सर्व­का­र­ण­त्वा­दिति लिङ्ग­स्या­न्य­था­सि­द्धि­मा­श­ङ्क्याह -
परमात्मनीति ।
तत्क­र्तृ­क­स­र्ग­स्या­का­शा­दि­म­हा­भू­ता­दि­त्वा­दस्य चातथात्वदृष्टेः सूत्रस्य च लोककर्तृकतायाः श्रुति­स्मृ­ति­सि­द्ध­त्वा­न्नात्र पर­गृ­ही­ति­रि­त्यर्थः ।

लोकशब्देनात्र महा­भू­ता­ना­मे­वोक्तेः सृष्टेरिहापि महा­भू­ता­दि­त्व­मि­ष्ट­मि­त्या­श­ङ्क्याह -
लोकाश्चेति ।

महा­भू­त­सं­नि­वे­श­वि­शेषे लोकशब्दस्य रूढत्वेऽपि प्रकरणादिह महाभूतान्येव ते गृह्ये­र­न्नि­त्या­श­ङ्क्याह -
तथाचेति ।
अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुति­र्वि­वृ­णोति । अदस्तदम्भः परेण दिवं दिवः पर­स्ता­द्द्यौ­र्द्यु­प्र­तिष्ठो लोको दिव­मा­र­भ्यो­प­रि­त­न­लो­का­श्चा­न्द्र­म­सै­र­म्भो­भि­र्व्या­प्ते­र­म्भः­श­ब्दिता इत्यर्थः ।

अन्तरिक्षलोकः सवि­तृ­म­री­चि­व्या­प्ते­र्म­री­चयः । स्थान­भे­दा­द्ब­हूक्तिः । म्रिय­न्तेऽ­स्मि­न्भू­ता­नीति पृथिवीलोको मरम् । याः पृथिव्या अधस्तात्ता आपः पातालानि तेषा­म­ब्बा­हु­ल्या­द्वि­धे­या­पे­क्षया स्त्रीलि­ङ्ग­त्वम् । एवमादिपदेन द्यौः प्रति­ष्ठा­न्त­रिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप इति गृहीतम् । तथापि परमात्मैव स्रष्टा किं न स्यात् , तत्राह -
लोकेति ।
आत्मा हिरण्यगर्भः पुरु­ष­वि­ध­स्त­त्प्र­कारः शिरः पाण्या­दि­मा­न्भू­तानां स्थूल­भू­त­का­र्याणां चराचराणामिति यावत् ।

प्रजा­प­ति­क­र्तृ­कैव लोक­सृ­ष्टि­रि­त्ये­त­त्प्र­क­र­णा­दपि भातीत्याह -
ऐतरेयिणोऽपीति ।
निय­म्य­सृ­ष्ट्या­न­न्त­र्य­म­थे­त्यु­क्तम् । निय­न्तृ­सृ­ष्ट्य­ति­रे­केण तत्सृ­ष्टे­र­कि­ञ्चि­त्क­र­त्व­म­तः­श­ब्दार्थः ।

किं तद्रेतो यस्य सृष्टि­रि­ष्टे­त्या­श­ङ्क्याह -
प्रजेति ।

रेतो वीर्यं तत्का­र्य­त्वा­द्दे­वा­स्त­च्छब्दाः । वाक्यस्य तात्पर्यमाह -
इत्यत्रेति ।
उप­क्र­मो­प­सं­हा­र­स्था­भ्या­मा­त्म­ब्र­ह्म­श्रु­तिभ्यां पर­स्मि­न्ग­म्य­माने कुतो लोक­स्र­ष्टृ­त्व­लि­ङ्गे­ना­प­र­ब्र­ह्म­सिद्धिः ।

श्रुतिभ्यां लिङ्गस्य दुर्ब­ल­त्वा­दि­त्या­शङ्क्य लिङ्गस्यैव प्राधान्यमिति वक्तुं तयो­र­न्य­था­सि­द्धि­माह -
आत्मेति ।

ब्रह्मलोक इत्यादौ ब्रह्म­श­ब्द­स्यापि तस्मि­न्प्र­यो­गोऽ­स्तीति वक्तु­म­पी­त्यु­क्तम् । एक एवे­त्येे­क­त्वा­व­धा­र­णस्य प्रजा­प­ता­व­यो­गा­त्प­र­मा­त्मै­वा­त्रा­त्म­शब्दः स्यादि­त्या­श­ङ्क्याह -
एकत्वेति ।

अवधारणस्यैवं सम्भवेऽपि तस्मि­न्नी­क्षि­तृ­त्वा­यो­गा­त्प­र­स्यै­वा­त्रो­क्ति­रि­त्या­श­ङ्क्याह -
ईक्षणमिति ।

पर­स्मि­न्न­स­म्भा­वि­त­वि­शे­ष­दृ­ष्टे­रपि सूत्र­स्यै­वा­त्म­श­ब्द­ते­त्याह -
अपिचेति ।

ईश्वरो हि कर­णा­धि­ष्ठा­त्री­र­ग्न्या­दि­दे­वता वागादिभिः सह सृष्टवांस्ताश्च तं प्रति भोगार्थं शरीरमयाचन्त स च ताभ्यो गां गोशरीरमश्वशरीरं पुरुषशरीरं च यथाकर्म यथा­श्रु­त­मा­नी­त­वां­स्त­तस्ता देवताः सोऽब्र­वी­द्य­था­य­तनं यथा­च­क्षु­रा­दि­स्था­न­म­स्मि­न्देहे प्रविशतेति, तदाह -
ताभ्य इति ।

उक्तश्रुत्यर्थं सङ्गृह्णाति -
एवमिति ।

इहेति स्रष्टुरात्मनो निर्देशः । लिङ्ग­प्र­क­र­ण­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ।

सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञां व्याकरोति -
एवमिति ।

इहे­त्यु­दा­ह­र­णोक्तिः दृष्टान्तमादाय व्याचष्टे -
इतरवदिति ।

तस्य व्याख्यान्तरमाह -
तथाचेति ।
परस्यैव विश्व­स्र­ष्टृत्वं प्रागे­क­त्व­मा­त्मत्वं च मुख्यं तद­स­त्या­म­नु­प­पत्तौ नान्य­त्रा­नु­मे­यम् ।

लोक­सृ­ष्टि­व­च­नेऽपि महाभूतसर्गस्य पूर्वसिद्धतया वक्तंु शक्यत्वादिति मत्वा दार्ष्टा­न्ति­क­माह -
तथेति ।

आत्म­ब्र­ह्म­श­ब्द­यो­र­न्य­था­सिद्धिं प्रत्याह -
यत्रेति ।

सति बाध­केऽ­न्या­र्थ­त्वेऽपि प्रकृते तद­भा­वा­त्प्र­त्युत साधकस्यैव सत्त्वा­त्प­र­वि­ष­य­त्व­मे­वे­त्याह -
अत्रेति ।

ईक्ष­ण­पू­र्व­क­स­र्गस्य पर­स्मि­न्प्र­सि­द्धत्वे फलितमाह -
तस्मादिति ॥ १६ ॥

पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति -
अन्वयादिति ।

अनुवादं विभजते -
वाक्येति ।

परिहारमवतारयति -
अत्रेति ।

स्यादिति पदं पूरयित्वा व्याकरोति -
भवेदिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।

अवधारणं विवृणोति -
परमात्मेति ।

सूत्रग्रहेऽपि स्ववि­का­रा­पे­क्षया तदु­क्त­मि­त्या­श­ङ्क्याह -
आञ्जसमिति ।

तदेव व्यतिरेकतः स्फोरयति -
अन्यथेति ।

यच्च लोक­स्र­ष्टृ­त्व­लि­ङ्गा­द­प­र­ग्र­हणं, तत्राह -
लोकेति ।
श्रुत्यन्तरं तैत्ति­री­या­दि­श्रुतिः ।

तत्र दृष्टान्तमाह -
यथेति ।
इहा­पी­त्यै­त­रे­य­कोक्तिः ।

श्रुत्य­न्त­र­प्र­सिद्धा महा­भू­त­सृ­ष्टि­र­त्रो­प­सं­ह­र्तु­म­शक्या वाक्य­भे­दा­दि­त्या­श­ङ्क्याह -
श्रुत्यन्तरेति ।
नहि तैत्ति­री­या­दि­वा­क्य­मै­त­रे­वाक्यं च भिन्नं सृष्ट्य­नु­वा­दे­ना­वि­कृ­त­ब्र­ह्म­वि­ष­य­त्वा­वि­शे­षा­दि­त्यर्थः ।

यत्तु व्यापा­र­व­त्स्वा­त्मसु प्रसि­द्ध­व्या­पा­र­वि­शे­ष­स्या­त्रा­नु­ग­मा­द्वि­शे­ष­वा­ने­वा­य­मा­त्मेति, तत्राह -
योऽपीति ।

किञ्चाफले भेदे वेद­स्या­प्रा­ण्या­द्ब्र­ह्म­प­रत्वे च फलसम्भवात्तदेव विवक्षितमित्याह -
नहीति ।

पौर्वा­प­र्या­लो­च­न­यापि ब्रह्म­प­र­त्व­मे­वास्य सन्द­र्भ­स्ये­त्याह -
तथाहीति ।
स परमेश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य च्छिद्रं कृत्वैतया द्वारा ब्रह्म­र­न्ध्र­सं­ज्ञया शरीरं प्रापद्यत प्राप्तवानिति यावत् ।

इतश्च ब्रह्म­प­र­त्व­मे­वा­स्ये­त्याह -
पुनश्चेति ।
स शरीरे प्रविष्टः परमात्मा तमेव शरीरान्तर्गतं परमात्मानं ब्रह्म ततममेकस्तकारो लुप्तो मन्तव्यस्तततमं व्याप्ततमं यद्ब्रह्म तद्रू­पे­णै­त­मा­त्मा­न­म­प­श्य­दि­त्यर्थः ।

इतोऽपि वाक्यस्यास्ति ब्रह्मपरतेत्याह -
तथेति ।
यः शरीरे प्रविष्टः परमेश्वर एष एव पर­ब्र­ह्म­प­र­मात्मा प्रजापतिः सूत्रात्माप्येष एव । प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्र­ज्ञा­ने­त्रम् । प्रज्ञाने तस्मि­न्ने­वा­धि­ष्ठाने प्रतिष्ठितं लोकोऽपि भूरा­दि­प्र­ज्ञा­नेत्रः प्रज्ञा­नि­य­न्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रति­ष्ठाऽ­धि­ष्ठा­नम् ।

तच्च प्रज्ञानं ब्रह्मै­व­म­व­धा­र­ण­म­ने­कधा व्याख्याय प्रकृतमुपसंहरति -
तस्मादिति ।

पू्र्ववर्णके विद्यै­क्य­गु­णो­प­सं­हा­र­नि­रू­प­णा­स्पा­ष्ट्यान्न साक्षा­त्पा­द­स­ङ्ग­ति­रिति तदर्थं वर्णकान्तरमाह -
अपरेति ।

पूर्वत्र वाक्यै­क्य­ब­ला­द­र्था­दि­प­रत्वं परित्यज्य विद्यै­क्य­मु­क्तम् । इदानीं भिन्ना­र्थो­प­क्र­मेण वाक्य­भे­द­श­ङ्का­या­माह -
आत्मेति ।

श्रुतिद्वयगतं वाक्यमुदाहरति -
वाजसनेयक इति ।

उदाहृतवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयतीत्यत्र गमकमाह -
तथाहीति ।

तदर्थं त्वमर्थान्तं लक्ष­य­द्वा­क्या­न्त­र­माह -
छान्दोग्ये त्विति ।

सच्छ­ब्द­स्या­त्मा­ना­त्मा­र्थ­त्वा­नि­र्ण­येन वाक्यद्वये संशयमाह -
तत्रेति ।
अर्था­भे­दा­द्वि­द्या­भे­दोक्त्या वाक्या­र्थ­धी­हे­तो­रे­वा­त्रो­क्ति­रिति पादादिसंहतिः ।

पूर्वपक्षे विद्या­भे­दा­द्गु­णा­नु­प­सं­हारः । सिद्धान्ते तद­भे­दा­त्त­दु­प­सं­हार इति मत्वा­र्थ­भे­दा­द्वि­द्या­भेदं पूर्वपक्षमाह -
अतुल्येति ।

आम्ना­न­वै­ष­म्येऽपि किमि­त्य­र्थै­क्या­द्वि­द्यैक्यं न स्यात् , तत्राह -
नहीति ।

तदेव विशदयति -
वाजसनेयके चेति ।

छान्दोग्येऽपि वाक्य­शे­षा­दा­त्मा­र्थ­त्व­सिद्धौ कथ­मा­म्ना­न­वै­षम्यं कथन्तरामर्थभेदः कथन्तमां विद्या­ना­ना­त्व­मिति शङ्कते -
नन्विति ।

‘स आत्मा तत्त्वमसि’ इति तादा­त्म्यो­प­दे­श­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि तद­नु­सा­रे­णो­प­क्र­मोऽपि नीय­ता­मि­त्या­श­ङ्क्याह -
उपक्रमेति ।
स हि सन्दि­ग्धा­र्थो­प­सं­हा­रेण नीयते । प्रकृते तु तस्या­स­न्दि­ग्धा­र्थ­त्वा­त्त­द­नु­सा­रि­ण्यु­प­सं­हारे प्रतिमायां विष्णु­दृ­ष्टि­व­दा­त्मनि ब्रह्म­दृ­ष्टि­रे­ष्ट­व्ये­त्यर्थः ।

वाजसनेयिवाक्यं ब्रह्मा­त्म­वि­द्यार्थं छान्दोग्यवाक्यं त्वात्मनि ब्रह्म­दृ­ष्ट्य­र्थ­मिति विद्या­भे­द­मु­प­सं­ह­रति -
इति मन्यत इति ।

अतुल्यार्थतया विद्याभेदमनूद्य सिद्धान्तमाह -
तथेति ।

तादा­त्म्यो­प­दे­शस्य गत्यन्तरमनूद्य दूषयति -
अन्वयादिति ।

तत्रानुवादं विभजते -
यदिति ।
उप­क्र­मा­न्व­या­त्त­त्त­न्त्र­त्वा­दु­प­सं­हा­र­स्येति यावत् ।

उपक्रमोऽपि तर्हि सदे­वे­त्य­व­धा­र­णा­दा­त्मा­न­मेव गोच­र­य­ती­त्या­श­ङ्क्याह -
उपक्रम इति ।
तस्मा­दु­प­सं­हा­रेऽपि न पर­मा­त्म­ता­दा­त्म्य­मा­त्मनो गृह्यते । नहि सच्छ­ब्दे­नो­प­क्र­म­स्थे­ना­त्मो­च्यते तस्य तस्मि­न्न­प्र­सि­द्ध­त्वात् ।

तथाच सतोऽ­ना­त्म­न­स्ता­दा­त्म्य­स­म्प­त्ति­रा­त्मनि तत्त्वमसीति विवक्षितेत्याह -
नात्मेति ।

परिहारमादत्ते -
स इति ।

तत्र प्रतिज्ञां व्याचष्टे -
भवेदिति ।

अवधारणादिति हेतुं विवृणोति -
तथाहीति ।

एकविज्ञानेन सर्वविज्ञानं सच्छ­ब्दे­ना­ना­त्म­ग्र­हेऽपि सतः सर्वा­त्म­त्वा­द­वि­रु­द्ध­मि­त्या­श­ङ्क्याह -
तच्चेति ।

उक्तमेव व्यतिरेकेण साधयति -
अन्यथेति ।

प्रकारान्तरेण हेतुं व्याचष्टे -
तथेति ।
एक­मे­वा­द्वि­ती­य­मि­त्ये­क­त्वा­व­धा­र­णम् , अनेन जीवेनात्मनेति जीव­स्या­त्म­श­ब्देन परामर्शः, सति सम्पद्येत्यादि तत्स्व­भा­वा­प­त्ति­व­चनं, भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति परिचोदना ।

हेतु­जा­त­स्यो­क्तस्य फलमाह -
इति च सर्वमिति ।

यत्तू­प­क्र­म­त­न्त्रे­णो­प­सं­हा­रेण भाव्यमिति, तत्राह -
नचेति ।
अत्र च्छान्दोग्ये स आत्मे­त्या­दे­रु­प­सं­हा­र­स्येति यावत् ।

तत्र हेतुः -
नहीति ।

उप­सं­हा­रा­नु­सा­रे­णापि तर्हि नोपक्रमो नेय­स्त­यो­र्भि­न्न­वि­ष­य­त्वात् , तत्राह -
सामान्येति ।
सच्छब्दस्य सत्ता­सा­मा­न्य­वा­चि­त्वे­ना­त्मा­ना­त्म­सा­धा­र­ण्या­द्वि­शे­षा­का­ङ्क्षा­या­मु­प­सं­हा­रा­नु­सा­रे­णा­त्मैव तदर्थो निर्णीयते । सन्दि­ग्धा­र्थे­नो­प­क्र­मे­णो­प­सं­हा­र­स्या­नि­र्ण­या­दु­प­क्र­मा­नु­रो­ध­न्या­य­स्या­स­न्दि­ग्धो­प­क्र­म­वि­ष­य­त्वा­दि­त्यर्थः ।

उप­क्र­म­भे­द­मु­पेत्य श्रुतिद्वयेऽपि वेद्यैक्येन विद्यै­क्य­मु­क्तम् । संप्र­त्यु­प­क्र­म­भे­दोऽपि नास्तीत्याह -
सच्छब्देति ।

आत्मातिरिक्तस्य सर्व­स्या­नि­र्वा­च्य­त्वा­द­ना­त्मनः सच्छ­ब्दा­र्था­सि­द्धे­रा­त्मन एव तद­र्थ­त्वा­न्नो­प­क्र­म­भे­दोऽ­स्ती­त्यर्थः । यत्त्वा­म्ना­न­वै­षम्ये सत्य­र्थ­सा­म्य­म­यु­क्त­मिति, तत्राह -
आम्नानेति ।

तद्वै­ष­म्या­स्या­र्थ­भे­दे­ना­न­व­श्य­म्भावे फलितमाह -
तस्मादिति ।

एवंजातीयकेषु योऽयं विज्ञानमयः सदेव सोम्ये­द­मि­त्या­दिषु प्रति­पा­द­न­प्र­का­र­भेदः समाम्नानविशेषो वाजसनेयके वाक्या­र्था­न्व­यि­त्व­म­र्थस्य तदर्थपर्यन्तस्य च्छान्दोग्ये तदर्थस्य त्वम­र्थ­प­र्य­न्तस्य लक्ष्यतया वाक्य­र्थ­भे­दा­भा­वा­दे­कै­वो­भ­य­त्रापि विद्येत्याह -
प्रतिपाद्येति ॥ १७ ॥

सन्दिग्धस्य सदुपक्रमस्य शेषा­न्नि­र्ण­य­व­दा­चा­म­न्तीति वर्तमानापदेशस्य विधित्वसन्देहे शेषा­द­शि­ष्य­न्ना­चा­मे­दि­त्यतो विधिपरत्वं निर्णे­य­मि­त्या­श­ङ्क्याह -
कार्येति ।

विषयं वक्तु­म­वि­गी­त­मा­म्नानं दर्शयति -
छन्दोगा इति ।
यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीट­प­त­ङ्गे­भ्य­स्त­त्तेऽ­न्न­मि­त्युक्त्वा तस्यैव प्राणस्यापो वासो वदन्तीति यावत् ।

छान्दो­गा­ना­म­वि­शे­षा­म्ना­न­मुक्त्वा विशेषमाम्नानमाह -
अनन्तरं चेति ।
तस्मादपां प्राणं प्रति वासोरूपत्वादिति यावत् । अशिष्यन्तः श्रोत्रियाः सन्तोऽशनं कुर्व­न्त­स्ता­व­दे­त­त्कु­र्वन्ति किं तद्भो­ज­ना­त्पू­र्व­मूर्ध्वं चाऽद्भिः प्राणं परिदधति परि­धा­प­य­न्त्या­च्छा­द­य­न्ती­त्यर्थः ।

शाखान्तरेऽपि विशेषाम्नानं कथयति -
वाज­स­ने­यि­न­स्त्विति ।
यस्मा­त्प्रा­ण­स्यापो वास­स्त­स्मा­दि­त्य­स्मि­न्नर्थे तच्छब्दः । विद्वांसः प्राण­वि­द्या­व­न्त­स्तेषां यथे­ष्ट­चे­ष्टा­नि­षे­धार्थं श्रोत्रियपदम् । एतमेवानं प्राणं तत्ते­ना­च­म­ने­ना­नग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते चिन्त­य­न्ती­त्यर्थः ।

काण्वा­ना­मा­म्ना­न­वि­शे­ष­मुक्त्वा माध्य­न्दि­ना­ना­माह -
तस्मादिति ।
यस्मात्पूर्वे प्राणविदः स्वयमाचामन्तः प्राणमनग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते तस्मा­दि­दा­नी­न्त­नोऽपि प्राणविदेवं कुर्यादित्यर्थः ।

पाठ­त्र­येऽ­प्या­पा­ति­क­म­र्थ­माह -
तत्र चेति ।

उभ­यो­र­पू­र्व­त्व­मु­पे­त्याह -
तदिति ।

किञ्च वाक्य­भे­द­प्र­स­ङ्ग­भ­या­द­न्य­त­र­देव विधेयमिति कल्पान्तरं द्रष्टव्यम् ।

द्वितीयमपि विशे­षा­न­व­धा­र­णा­द्द्वेधा विकल्पयति -
उतेति ।
तत्रापि प्रथ­म­श्रु­त­त्व­मा­लोच्य प्रथमो विकल्पो दृष्टि­वि­ष­य­स­म्पा­द­ने­ना­च­म­न­स्या­न­ग्न­ता­चि­न्त­न­शे­षत्वं मत्वा द्वितीय इति भेदः । अत्र पाठत्रयेऽपि प्राण­वि­द्या­ङ्ग­म­न­ग्न­ता­चि­न्त­न­मे­क­मेव विधेयमिति चिन्ताया वाक्या­र्थ­ज्ञा­न­सा­ध­न­गा­मि­त्वा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे द्वयो­र्वि­धे­य­त्वा­द्वा­क्य­भे­दोऽ­न्य­त­र­वि­धा­व­प्या­च­म­न­स्यैत्र विधे­य­त्वा­द्वि­शे­ष­वि­ष­यस्य तस्या­न्य­त्रो­प­सं­हारः ।

सिद्धान्ते त्वन­ग्न­ता­चि­न्त­न­स्यैव विधे­य­त्वा­द्वा­क्यै­क्या­दा­च­म­न­वि­शे­ष­स्या­वि­धे­यस्य नोप­सं­हृ­ति­रि­त्य­ङ्गी­कृत्य विमृश्य पूर्वपक्षमाह -
किमिति ।

गौर­वा­दु­भ­य­वि­धा­न­म­यु­क्त­मिति शङ्कते -
कुत इति ।

कर्तव्यत्वेन द्वयोरपि तात्प­र्य­ग­म्य­त्वान्न गौरवमित्याह -
उभयस्येति ।

गम्य­मा­न­त्व­मा­त्रेण तात्पर्यगम्यतया विधे­य­त्व­म­ति­प्र­स­क्त­मि­त्या­श­ङ्क्याह -
उभयमिति ।
नच स्मृत्या­चा­र­सि­द्ध­त्वा­न्ना­पू­र्वत्वं तयो­रे­त­द्वा­क्य­मू­ल­त्वात् । नच सामान्यविशेषतया श्रुति­स्मृ­त्या­चा­राणां न मूलमूलिता सामा­न्य­सि­द्धा­नृ­त­व­द­न­नि­षे­धस्य क्रतुगामितया विधि­व­दा­च­म­न­स्यापि प्रसिद्धस्यैव प्राण­वि­द्या­यो­गि­त्वेन विधा­ना­द्वा­क्य­भे­द­प्र­स­ङ्गस्य चोप­रि­धा­र­ण­वि­धि­व­द­दो­ष­त्वा­दिति भावः ।

न युक्तो वाक्यभेदः सत्यां गतावित्याशङ्क्य पक्षान्तरमाह -
अथवेति ।

तत्र हेतुः -
विस्पष्टेति ।

तर्हि किम­र्थ­म­न­ग्न­ता­की­र्तनं, तत्राह -
तस्येति ।
महार्हं हीदमाचमनं यदनेन प्राणोऽनग्नः स्यादिति स्तुति­स्त­स्मा­द्वि­धेयं विशे­ष­वि­ष­य­मा­च­म­न­म­न्यत्र चोप­सं­ह­र्त­व्य­मि­त्यर्थः ।

सिद्धान्तयति -
एवमिति ।

तत्र हेतुमादाय व्याचष्टे -
कार्येति ।

प्रयतस्य प्रयत्नवतो भावः प्रायत्यं शुद्धत्वं तदर्थं स्मार्त­मा­च­म­न­म­नू­द्यत इत्यु­क्त­मा­क्षि­पति -
नन्विति ।
स्मृतेः श्रुतिमूलत्वेन प्रामा­ण्या­दु­क्त­श्रु­ति­मू­लैव सा । नच स्मृति­सि­द्धोऽर्थः श्रुत्यानूद्यते वैप­री­त्या­प­त्ते­रि­त्यर्थः ।

भिन्न­वि­ष­य­त्वा­न्मू­ल­मू­लि­भावो नानयोरित्याह -
नेति ।

विषयभेदं विशदयति -
सामान्येति ।

भिन्नविषयत्वे फलितमाह -
नचेति ।
अर्थै­क­त्वा­भा­वेऽपि तद्भा­वेऽ­ति­प्र­स­ङ्गा­दि­त्यर्थः ।

आच­म­ना­न्त­र­वि­धा­न­मु­पेत्य मूलमूलिभावो निरस्तः, सम्प्रति तदपि नास्तीत्याह -
नचेति ।

नच स्मार्ताचमनस्य श्रुत्यानुवादे वैपरीत्यं त्रिरा­चा­मे­दि­त्या­दि­श्रु­ति­सि­द्ध­स्यैव सामा­न्या­च­म­न­स्या­त्रा­नु­वा­दा­दिति मत्वा हेतुमाह -
पूर्वस्येति ।
अनृतवादनिषेधस्य पुरुषार्थतया विहितस्यापि क्रत्व­र्थे­ना­प्रा­प्तस्य विधा­न­म­वि­रु­द्ध­मा­च­म­नस्य तु सर्वकर्माङ्गतया विहितस्य प्राणो­पा­स्त्य­ङ्ग­त्व­मपि सिद्धमिति पुन­र्वि­धा­ना­न­र्थ­क्य­मिति भावः ।

आचमनस्य प्रकृते विधानायोगं हेतूकृत्याद्यं पूर्वपक्षं प्रत्याह -
अतएवेति ।

युक्त्यन्तरमाह -
उभयेति ।
न चोप­रि­धा­र­ण­व­द्वा­क्य­ना­ना­त्व­म­दोषः सम्भ­व­त्ये­क­वा­क्यत्वे तद्भे­द­स्या­नि­ष्ट­त्वा­दिति भावः ।

तर्हि किमिति विधेयं तदाह -
तस्मादिति ।

अनुवादे हेतुमाह -
प्राप्तमिति ।

अन­ग्न­ता­कृ­ति­स­ङ्कल्पे विधित्सिते कृत­म­नु­वा­दे­ने­त्या­श­ङ्क्याह -
आचमनीयास्विति ।

प्राण­वि­द्या­धि­कारे चेद­न­ग्न­ता­स­ङ्कल्पो विधीयते कथं वाक्यभेदो न स्यादि­त्या­श­ङ्क्याह -
प्राणेति ।

तस्य विधियोग्यत्वं सूचयति -
अपूर्व इति ।
एतेनापूर्वमिति पदं व्याख्यातम् ।

यत्त्व­न­ग्न­ता­स­ङ्की­र्त­न­मा­च­म­न­स्तु­त्य­र्थ­मिति, तत्राह -
नचेति ।
स्तोत­व्य­वि­धे­या­भावे स्तुति­र­यु­क्ते­त्यर्थः ।

किञ्च विधेयमप्राप्तं प्राप्तेन स्तूयते न चान­ग्न­ता­स­ङ्क­ल्पोऽ­न्येन प्राप्तो येन स्तावकः स्यान्न चान्य­तोऽ­प्रा­प्त­मा­च­मनं येन विधेयतया स्तोतव्यमित्याह -
स्वयं चेति ।

शुद्ध्यर्थं विनि­यु­क्त­स्यै­वा­च­म­नस्य प्राण­प­रि­धा­ना­र्थत्वे विनि­यु­क्त­वि­नि­यो­ग­वि­रोधः स्यादि­त्या­श­ङ्क्याह -
न चेति ।

एकस्य कर्मणः स्यादे­का­र्थ­ते­त्यु­त्स­र्गा­द­सति बाधके तद­ने­का­र्थ­त्वा­सिद्धेः सङ्क­ल्प­वि­धि­प­र­त्व­मेव वाक्यस्येत्याह -
क्रियेति ।

हेतुमेव साधयति -
क्रियान्तरमिति ।

वासः­स­ङ्क­ल्प­क्रि­यातो भेदादाचमनस्य क्रियान्तरत्वं सङ्कल्पस्यापि परि­धा­ना­र्थ­स्या­च­म­ना­द­न्य­त्वा­त्त­था­त्व­मेवं क्रियाभेदे सत्युत्सर्गस्य भङ्गो नास्तीतत्याह -
इत्यनवद्यमिति ।

किञ्च दृष्टि­चो­द­ना­सा­ह­च­र्या­दि­हापि सैव युक्ता नाचमनचोदनेत्याह -
अपिचेति ।

सर्वा­न्न­भ­क्ष­ण­मे­वा­त्रापि चोद्यते न दृष्टि­रि­त्या­श्ङ्क्याह -
अत्रेति ।

दृष्टिवाचकाभावं हेतुमाह -
अशब्दत्वादिति ।

अन्न­श­ब्द­व­शा­द­भ्य­व­ह­रणं भाती­त्या­श­ङ्क्याह -
अश­क्य्त्वा­च्चेति ।
नहि श्वादिमर्यादं सर्व­म­न्न­मे­के­नात्तुं शक्यं भक्ष्या­भ­क्ष्य­वि­धि­वि­रो­धात् । प्राण­वि­द्या­सा­म­र्थ्या­द­सा­म­र्थ्य­वि­रो­ध­स­मा­धानं तु सर्वा­न्ना­नु­म­त्य­धि­क­रणे निरस्यमिति भावः ।

अशब्दत्वस्य दृष्टेरपि तुल्य­त्वा­द­भ्य­व­ह­र­ण­व­द­वि­धे­य­त्व­मा­शङ्क्य नान्तरीयकतया दृष्टेः शब्देन क्रिय­मा­ण­त्वा­द­भ्य­व­ह­र­णस्य तज्ज­न्य­त्व­ज्ञा­प्य­त्व­यो­र­भा­वा­द­नु­प­प­त्ति­क­ज्ञा­नस्य दृष्टिविधेरेव तच्छा­न्ता­व­नु­त्था­ना­त्त­द्वि­धा­न­मे­वै­त­दि­त्याह -
सर्वं त्विति ।

तथापि प्रकृते सङ्कल्पविधौ किमायातं तदाह -
तदिति ।

प्रक­र­ण­वि­रो­धा­द्वा­क्यस्य क्रिया­वि­धि­प­र­त्वा­भावे किम्परत्वं तदाह -
प्रसिद्धास्विति ।

अस्तु सर्वान्नवाक्ये दृष्टि­वि­धि­रा­च­म­न­वाक्ये तु क्रियैव चोद्यते, तत्राह -
नहीति ।

इतश्चाचमने विधिरत्र नास्तीत्याह -
अपिचेति ।

तर्हि चिन्तनमपि न विधेयं दोष­सा­म्या­दि­त्याह -
नन्विति ।

आच­म­न­चि­न्त­न­यो­र्व­र्त­मा­ना­प­दे­श­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि द्वयो­र­वि­धे­य­त्व­मि­त्या­श­ङ्क्या­नु­वा­द­मा­त्र­स्या­कि­ञ्चि­त्क­र­त्वा­द­न्य­त­र­वि­धे­रा­व­श्य­कत्वे सङ्कल्पनमेव विधेयमिति विधान्तरेण सूत्रं योजयति -
अवश्येति ।

तत्र हेतु­त्वे­ना­च­म­न­स्या­न्यतः प्राप्तिमुक्तां स्मारयति -
पूर्ववदिति ।

पूर्व­प­क्ष­बी­ज­म­नु­भाष्य दूषयति -
यदपीति ।
पूर्व­व­त्त्वे­ना­पू­र्व­व­त्त्वा­भा­वे­नेति यावत् । तत्र श्रुता विधि­वि­भ­क्ति­र­न­ग्न­ता­स­ङ्क­ल्पेन नेया, जतिलयवाग्वा जुहु­या­दि­ति­व­द­वि­व­क्षितं वा विधित्वमिति भावः ।

आच­म­न­स्या­वि­धे­यत्वे लिङ्गान्तरमाह -
अत इति ।

तर्हि पाठा­वै­य­र्थ्यार्थं माध्य­न्दि­ना­ना­मा­च­मने विधि­रि­ष्य­ता­मि­त्या­शङ्क्य श्रुत्य­न्त­रा­नु­सा­रेण तत्रापि चिन्तनमेव विधेयमित्याह -
तस्मादिति ।

एवं­वि­त्त्व­मे­वे­त्युक्तं व्यनक्ति -
प्रकृतेति ।
यदा­चा­मे­दि­त्य­नूद्य तदेवंविदिति वेदनमेव विधीयत इत्यर्थः ।

शाखा­भेे­दे­नो­दि­ता­नु­दि­त­हो­म­व­दु­भ­य­मपि विधे­य­मि­त्ये­क­दे­शि­म­त­मा­श­ङ्क्याह -
योऽप्ययमिति ।

एकी­य­व्य­व­स्था­योगे फलितमाह -
तस्मादिति ॥ १८ ॥
पूर्वत्र प्राप्ता­च­म­ना­नु­वा­दे­ना­न­ग्न­ता­चि­न्तनं विधे­य­मि­त्यु­क्तम् ।

इह तु वाक्ययोः कस्य विधित्वं कस्य वानु­वा­द­त्व­मि­त्य­नि­श्च­या­द्द्व­यो­रपि विद्या­वि­धि­त्व­मा­श­ङ्क्याह -
समान इति ।

शाण्डि­ल्य­वि­द्या­मु­दा­ह­रति -
वाजसनेयीति ।
शाण्डिल्येन दृष्टेति तन्ना­म्नाऽ­ङ्क्िता चिह्निता विशेषिता विद्येति यावत् ।

एतस्यां शाखायां देशभेदेन कृतां विद्यां विष­यी­कृ­त्या­भ्या­सा­त्प्र­त्य­भि­ज्ञा­नाच्च संशयमाह -
तत्रेति ।
अत्र च विद्या­भे­दा­दि­नि­रू­प­ण­द्वारा वाक्या­र्थ­धी­सा­ध­न­स्यैव निरू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे पौन­रु­क्त्य­प­रि­हा­राय विद्या­भे­दा­द्गु­णा­नु­प­सं­हारः ।

सिद्धान्ते विद्यै­क्येऽ­प्य­पौ­न­रु­क्त्या­द्गु­णो­प­सं­हार इति मत्वा विमृश्य पूर्वपक्षयति -
किं तावदिति ।

गौरवदुष्टं विद्या­ना­ना­त्व­म­यु­क्त­मि­त्याह -
कुत इति ।

प्रामाणिकं गौरवमदूषणमिति मत्वाह -
पौनरुक्त्येति ।

विद्याभेदे पौन­रु­क्त्य­म­व्याप्तं भिन्नशाखासु विद्यैक्येऽपि पौन­रु­क्त्य­दृ­ष्टे­रि­त्या­श­ङ्क्याह -
भिन्नास्विति ।
अध्येतृभेदेन शब्दपौनरुक्त्यं वेदितृभेदेन चार्थ­पौ­न­रुक्त्यं परिह्रियते ।

शाखाऽभेदेऽपि देश­भे­दो­क्त­वि­द्या­फ­ला­र्थिनां प्रति­प­त्तृ­त्वा­त्त­त्त­द्वा­क्या­ध्ये­तृ­त्वा­च्चा­पौ­न­रु­क्त्य­मि­त्या­श­ङ्क्यै­क­शा­खा­ध्य­य­नस्य नित्य­वि­धि­त्वे­नैव प्राप्त­त्वा­न्मै­व­मि­त्याह -
एकस्यामिति ।

अग्निहोत्रं जुहोतीत्यत्र सिद्धं जुहो­त्य­र्थ­म­नूद्य दध्ना जुहो­ती­ति­गु­ण­वि­धि­व­दि­हापि स्यादि­त्य­पौ­न­रु­क्त्य­मा­श­ङ्क्याह -
नचेति ।

द्वयो­र­दृ­ष्ट­वि­शे­ष­तया विधि­त्वा­नु­वा­द­त्वा­नि­श्च­या­त्तु­ल्य­गु­णो­क्ति­वै­य­र्थ्याच्च नेयं व्यवस्थेत्याह -
तदेति ।

अपौनरुक्त्याय विद्या­भे­दा­द्गु­णा­नु­प­सं­हार इत्युपसंहरति -
तस्मान्नेति ।

उक्तमनूद्य सिद्धान्तयति -
एवमिति ।
क्रिया­प­दे­ने­ति­श­ब्दस्य सम्बन्धः ( ? ) ।

हेतुमादाय व्याकरोति -
उपास्येति ।

तदैक्ये गम्यमानेऽपि न विद्यैक्यं तदैक्ये हेत्व­भा­वा­दि­त्या­शङ्क्य रूपाभेदो हेतु­रि­त्या­श­ङ्क्याह -
उपास्यं चेति ।

तस्य हेतुत्वमेव स्फुटयति -
नचेति ।
प्रत्य­भि­ज्ञा­वि­रो­धा­दि­त्यर्थः ।

विद्यैक्ये फलितमाह -
नापीति ।
गुण­व्य­व­स्था­न­म­ध्य­व­सातुं शक्नुम इति सम्बन्धः ।

अध्ये­तृ­वे­दि­तृ­भे­दा­भा­वा­त्पौ­न­रु­क्त्य­मुक्तं स्मारयति -
नन्विति ।

अभेदसम्भवान्न पौन­रु­क्त्य­मि­त्याह -
नेतीति ।

अदृ­श्य­मा­न­वि­शे­ष­तया कस्य कोऽनुवाद इत्य­नि­श्च­या­न्ना­र्थ­वि­भा­ग­सि­द्धि­रि­त्या­शङ्क्य यत्र भूयांसो गुणा विधीयन्ते तत्र प्रधा­न­वि­धि­र­न्यत्र तदनुवादेन गुणविधिरिति विभा­ग­म­भि­प्रे­त्याह -
एकं हीति ।

तुल्य­गु­णो­क्ति­वै­य­र्थ्य­मुक्तं स्मारयति -
नन्विति ।
बृहदारण्यके प्रधा­न­वि­धि­र­ग्नि­र­हस्ये गुणविधिरित्येवं विभागे सतीति यावत् ।

प्रत्य­भि­ज्ञा­दा­र्ढ्यार्थं तल्य­गु­णो­क्ति­र­र्थ­व­ती­त्याह -
नेति ।

तदेव स्फुटयति -
समानेति ।

प्रत्य­भि­ज्ञा­न­स्या­कि­ञ्चि­त्क­र­त्व­मा­श­ङ्क्याह -
अन्यथेति ।
तस्यां बृहदारण्यके गुण­वि­धा­ना­र्थ­म­ग्नि­र­ह­स्यो­क्ता­या­मिति यावत् । अयं गुण­वि­धि­री­शा­न­त्वा­दि­गु­ण­क­थ­न­मि­त्यर्थः ।

अग्नि­र­ह­स्यो­त्पन्नां विद्यामनूद्य विशिष्टगुणत्वेन बृहदारण्यके तस्यां गुण­वि­धा­न­मि­त्यु­क्तम् । इतश्च तुल्य­गु­णो­क्ति­प्राप्ता प्रत्यभिज्ञा नोपे­क्षि­त­व्ये­त्याह -
अपिचेति ।

तदेव कैमुतिकन्यायेन स्फोरयति -
अप्राप्तेति ।
नान्तरिक्षे न दिवीत्यादिषु निष्फ­ला­नु­वा­द­स्यापि निर्दो­ष­त्वा­त्प्र­कृते तुल्य­गु­णा­नु­वा­दस्य प्रत्य­भि­ज्ञा­ना­र्थ­त्वे­ना­र्थ­व­त्त्वा­त्तु­ल्य­गु­णो­क्ति­कृता प्रत्यभिज्ञा नोपेक्षितुं शक्या तेने­शा­न­त्वा­दि­गु­ण­व­द्वि­द्योक्त्या बृह­दा­र­ण्य­क­वाक्ये समानार्थे मनो­म­य­त्वा­दि­तु­ल्य­गु­णा­नु­वा­दस्य यथा­क­थ­ञ्चि­द्यो­गेऽपि प्रधा­न­प्र­त्य­भि­ज्ञा­प­क­त्वेन सफ­ल­त्वा­त्त­द­धी­न­प्र­त्य­भि­ज्ञा­याश्च विशि­ष्ट­वि­धि­शे­ष­त्वा­द्बृ­ह­दा­र­ण्यके गुणविधिरन्यत्र प्रधा­न­वि­धि­रि­त्यर्थः ।

सिद्धे पुन­रु­क्ति­प­रि­हारे फलितमाह -
तस्मादिति ॥ १९ ॥

विद्यैक्ये गुणो­प­सं­हा­र­मुक्त्वा तदैक्येऽपि तदनुपसंहारस्थलं वद­न्पू­र्व­प­क्ष­यति -
सम्बन्धादिति ।

विषयमाह -
बृहदिति ।
आप एवेदमग्र आसुस्ता आपः सत्य­म­सृ­ज­न्ते­त्यत्र सत्यशब्दो हिरण्यगर्भवाची तच्च सत्यं हिरण्यगर्भाख्यं ब्रह्म मह­दि­त्यु­प­क्र­म्येति यावत् ।

तत्तत्रैवं सति यत्तत्सत्यं ब्रह्म सोऽसावादित्यो विधेयापेक्षया पुंलिङ्गप्रयोगः । किं मण्डलमेवादित्यो नेत्याह -
य इति ।
तस्य स्थान­भे­दे­ना­दि­त्य­चा­क्षु­ष­पु­रु­षा­त्म­ना­व­स्था­न­मुक्त्वा तावे­ता­व­न्यो­न्य­स्मि­न्प्र­ति­ष्ठितौ रश्मि­भि­रे­षोऽ­स्मि­न्प्र­ति­ष्ठितः प्राणै­र­य­म­मु­ष्मि­न्प्र­ति­ष्ठित इत्य­न्यो­न्य­व्य­ति­ष­ङ्ग­मु­क्त्वा­दि­त्य­पु­रु­षस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरो भुव इति बाहू स्वरिति प्रतिष्ठेति व्याहृतिदेहत्वं सम्पाद्य तस्यो­प­नि­ष­द­ह­रि­त्या­दि­त्य­पु­रु­ष­स्या­ह­र्ना­म­त्व­मु­क्तम् । अनन्तरं च योऽयं दक्षि­णेऽ­क्ष­न्पु­रु­ष­स्तस्य भूरिति शिर इत्यादिना व्याहृतिदेहत्वं सम्पाद्य तस्यो­प­नि­ष­द­ह­मि­त्य­हं­ना­म­त्व­मु­क्तम् । उपनिषदिति देवतामुपगमयतीति तत्प्रकाशकं रहस्यं नामोच्यते ।

अहःशब्दः प्रका­श­व­च­नोऽ­हं­शब्दः प्रत्यगात्मवाची तदाह -
तस्येत्यादिना ।

उपनिषद्द्वयं विषयीकृत्य सत्य­ब्र­ह्मै­क्य­स्था­न­भे­दाभ्यां संशयमाह -
तत्रेति ।
अत्र च सत्य­वि­द्या­या­मु­प­नि­ष­द्व्य­व­स्थोक्त्या वाक्या­र्थ­धी­हे­तु­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे विद्यै­क्या­द्गु­णो­प­सं­हा­र­नि­यमे सत्युपनिषदोः साङ्क­र्या­द­ति­दे­शा­सिद्धिः ।

सिद्धान्ते विद्यैक्येऽपि स्थान­भे­दो­प­ल­ब्धानां धर्मा­णा­म­नु­प­सं­हा­रा­दु­प­नि­ष­दो­र­स­ङ्क­रा­द­ति­देशः स्यादिति मत्वा पूर्व­प­क्ष­सू­त्र­मा­दत्ते -
तत्रेति ।

सूत्राक्षराणि योजयति -
यथेति ।

उप­नि­ष­दो­र्वि­द्यैक्ये सङ्करः शङ्क्येत तदैक्यं कथ­मि­त्या­श­ङ्क्याह -
एकेति ।

विद्यैक्ये हेतुमाह -
उपक्रमेति ।
सत्यं ब्रह्मे­त्यु­प­क्र­मा­भे­द­स्ता­वे­ता­व­न्यो­न्य­स्मि­न्नि­त्या­दि­व्य­ति­ष­क्त­पा­ठ­स्ताभ्यां विद्यैक्यं सिद्धमित्यर्थः ।

तदैक्येऽपि किं स्यात्तदाह -
कथमिति ।

विद्यैक्येऽपि स्थान­भे­दा­दु­प­नि­ष­दो­र­स­ङ्करः स्यादि­त्या­शङ्क्य दृष्टान्तेन परिहरति -
यो हीति ।
तस्योपनिषदिति प्रकृ­त­स्त्य­प­रा­म­र्शा­त्तस्य प्रधा­न­स्या­भे­दा­द्वि­शे­ष­ण­तया स्थान­स्यो­प­स­र्ज­न­त्वा­द्गु­ण­प्र­धा­न­योश्च प्रधाने संप्र­त्य­या­त्त­द­वि­ना­भा­वा­त्त­दु­प­सं­हारो गुणानामित्यर्थः ।

विद्यैक्ये गुणो­प­सं­हा­र­ध्रौव्ये फलितमाह -
तस्मादिति ॥ २० ॥

सिद्धान्तयति -
एवमिति ।

वाश­ब्द­स्या­व­धा­र­णा­र्थ­त्व­मु­पेत्य प्रतिज्ञां विभजते -
न वेति ।

ध्येयाभेदे ध्यान­भे­दा­त्कि­मिति न प्राप्तिरित्याह -
कस्मादिति ।

हेतुं गृहीत्वा व्याचष्टे -
विशेषादिति ।
ध्यान­ध्ये­यो­प­स­र्ज­न­भूतौ स्थानविशेषौ ताभ्या­मु­प­नि­ष­दो­र्यो­गा­द्व्य­वस्था तयो­र्यु­क्ते­त्यर्थः ।

तस्ये­ति­प­रा­मृ­ष्ट­ब्र­ह्मणो नामद्वयविधाने तस्य स्थान­वि­शे­ष­स­ङ्ग­ति­र­सि­द्धेति शङ्कते -
कथमिति ।

उपनिषदोः स्थानविशेषयोगं साधयति -
उच्यत इति ।

निष्कृष्टं ब्रह्मैव प्रधानं तच्छ­ब्द­मु­प­नि­षद्भ्यां सम्ब­द्ध­मि­त्या­श­ङ्क्याह -
तस्येति ।
तस्यो­प­नि­ष­दि­त्यु­भ­यत्र तच्छ­ब्दे­ना­धि­दै­वा­दि­वि­शि­ष्ट­स्यैव परा­म­र्शा­त्त­द्यो­गि­त्वा­दु­प­नि­षदोः स्वरू­प­मा­त्रा­स­म्ब­न्धा­त्त­द्द्वयं व्यव­स्थ­या­नु­स­न्धे­यम् । नहि सर्वनाम संनिहितं हित्वा व्यवहितं स्पृशतीत्यर्थः ।

तच्छब्दस्य विशिष्टार्थत्वे फलितमाह -
तस्मादिति ।

विशेषणभेदेऽपि विशे­ष्य­भे­दा­दु­प­सं­हारः स्यादिति शङ्कते -
नन्विति ।

विशे­ष्य­भे­द­म­ङ्गी­क­रोति -
सत्यमिति

तर्हि कथ­मु­प­नि­ष­द्व्य­व­स्थे­त्या­शङ्क्य विशे­ष्ट­भे­दा­त्त­न्नि­ष्ठ­त्वाच्च तयोरित्याह -
एकस्येति ।

उक्तेऽर्थे दृष्टान्तमाह -
अस्तीति ।

प्रति­दृ­ष्टा­न्तोऽपि दर्शित इत्याशङ्क्याह -
ग्रामेति ।
तत्र स्वरू­पो­पा­धा­वु­क्ता­त्वा­द्युक्तं तुल्यत्वमिह तु विशि­ष्टो­पा­धा­वु­क्ते­र्व्य­व­स्थे­त्यर्थः ।

विशि­ष्टो­पा­ध्यु­क्ति­फ­ल­माह -
तस्मादिति ॥ २१ ॥

उप­नि­ष­दो­र्व्य­व­स्थि­तत्वे हेत्वन्तरमाह -
दर्शयति चेति ।

तदेव व्याकरोति -
अपिचेति ।

यथोक्तं वाक्यं धर्माणां सङ्करमेव दर्शयतीति शङ्कते -
कथमिति ।

अत्यन्तसङ्करे सत्यभेद एवेति नातिदेशस्तेन तद्व­शा­द्वि­द्यै­क्येऽपि स्वतो नात्यन्तसङ्करो धर्माणामित्याह -
तदिति ।

उप­नि­ष­दो­स्त्व­ति­दे­शा­भा­वा­द्व्य­व­स्थै­वे­त्यु­प­सं­ह­रति -
तस्मादिति ॥ २२ ॥

आय­त­न­भे­दा­द्गु­णा­नु­प­सं­हा­र­मुक्त्वा तेनैव हेतुना सम्भृ­ति­प्र­भृ­तीनां गुणानां विद्या­न्त­रे­ष्व­नु­प­सं­हा­र­माह -
सम्भृतीति ।

पूर्वन्यायेनैव वाक्यान्तरं व्याख्या­तु­मु­दा­ह­रति -
ब्रह्मेति ।
वीर्या वीर्याणि पराक्रमभेदाः । अन्ये हि पुरुषाः सहायानपेक्ष्य विक्र­मा­न्बि­भ्रति तेन तत्पराक्रमाणां तत एव निय­त­पू­र्व­त्व­रू­प­का­र­णत्वे न ज्येष्ठा भवन्ति किन्तु तत्स­ह­क्रा­रि­णोऽपि ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठं ब्रह्म ज्येष्ठं येषां तानि तथा । ब्रह्म खल्वनन्यापेक्षं जगज्जन्मादि करोति । किञ्चान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गः सम्भवति तेन ते स्ववीर्याणि न बिभ्रति । ब्रह्मवीर्याणि तु ब्रह्मणा सम्भृ­ता­न्य­वि­घ्नेन सम्भृ­ता­नी­त्यर्थः । तज्ज्येष्ठं ब्रह्माग्रे देवादिजन्मतः प्रागेव दिवं स्वर्गमाततान व्याप्त­व­न्नि­त्य­मेव विश्व­व्या­प­क­मि­त्यर्थः । ‘ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः’ इत्युत्तरो भागः । खिलेषु विधिनिषेधहीनेषु परि­शि­ष्टो­प­दे­शेषु ग्रन्थेष्विति यावत् ।

विषयमुक्त्वा संशयं वक्तुं भूमिकां करोति -
तेषामिति ।

ब्रह्म­स­म्ब­न्धा­द्वि­द्या­भे­द­दृष्ट्या च संशयमाह -
तास्विति ।
अत्र च विद्याभेदेन गुणा­नु­प­सं­हा­रोक्त्या वाक्या­र्थ­धी­हे­तो­रेव चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे विद्याभेदस्य गुण­व्य­व­स्था­प­क­त्वा­सिद्धिः । सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षयति -
ब्रह्मेति ।
न चाधि­दै­वि­क­गु­णा­ना­मा­ध्या­त्मि­क­वि­द्या­स्व­नु­प­सं­हारः । एष हि सर्वेषु लोकेषु भातीत्यादिषु व्यभिचारात् । अनुपसंहारे च पृथगुपासनं तत्फलं च कल्प्यमिति गौरवम् । अतो द्युनिवेशादीनां ब्रह्मसम्बन्धेन सर्वत्र प्रत्य­भि­ज्ञा­ना­दु­प­सं­हार इत्यर्थः ।

सिद्धा­न्त­म­व­तार्य योजयति -
एवमिति ।
सम्भृतिश्च द्युव्याप्तिश्च सम्भृ­ति­द्यु­व्याप्ति तदपि सर्वत्र नोप­सं­ह­र्त­व्य­मु­प­नि­ष­दो­रिव विशे­ष­यो­ग­व्य­व­स्था­ना­दि­त्य­र्थ­प­र­तया सूत्रं व्याख्या­त­मि­त्यर्थः ।

इदानीं चका­र­स्या­व­धा­र­णा­र्थत्वं गृहीत्वा हेतुं विवृणोति -
तथाहीति ।

आय­त­न­भे­द­यो­ग­मु­क्त­मु­प­सं­ह­रति -
एवमिति ।

कथं तावता सम्भृ­त्या­दी­ना­मे­तासु विद्या­स्व­नु­प­सं­हारः, तत्राह -
आधि­दै­वि­क्य­स्त्विति ।

आध्या­त्मि­क­वि­द्या­स्वपि सम्भृ­त्या­द्या­धि­दै­वि­क­गु­णा­ना­मु­प­सं­हारः स्यादिति लिङ्गेन शङ्कते -
नन्विति ।

ज्यायान्दिव इति शाण्डि­ल्य­वि­द्या­या­मेष उ एवे­त्या­द्यु­प­को­स­ल­वि­द्यायां यावान्वा अयमाकाश इति दहरविद्यायामिति भेदः । अध्या­त्मा­धि­दै­व­भे­दा­द­नु­प­सं­हा­र­श्चे­त्तर्हि तद्भे­द­शू­न्यो­पा­स­ना­सू­पं­हारः स्यादित्याह -
सन्ति चेति ।

आध्या­त्मि­क­वि­द्या­स्वा­धि­दै­वि­क­वि­भू­ती­ना­मा­य­त­न­भे­द­शू­न्य­ब्र­ह्म­धियां चास्मिन्प्रकरणे सत्त्व­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि षोडशकलाद्यासु ब्रह्मविद्यासु सम्भृ­त्या­दि­गु­णानां किमित्युपसंहारो न स्यादि­त्या­श­ङ्क्याह -
तथापीति ।

विशेषहेतुमेव विवृणोति -
समानेति ।

प्रकृतेऽपि विद्या­प्र­त्य­मि­ज्ञया गुणोपसंहारः स्यादि­त्या­श­ङ्क्याह -
सम्भृ­त्या­द­य­स्त्विति ।
तद्ध­र्म­वि­शि­ष्ट­ब्र­ह्मणः शाण्डि­ल्या­दि­वि­द्यासु श्रुत­म­नो­म­य­त्वा­दि­ध­र्म­क­ब्र­ह्म­णश्च भेदान्न प्रत्यभिज्ञेति नोपसंहार इत्यर्थः ।

विशिष्टभेदेऽपि स्वरू­पा­भे­दा­त्प्र­त्य­भि­ज्ञ­यो­प­सं­हा­र­सि­द्धि­मा­श­ङ्क्याह -
नचेति ।
कति­प­य­गु­ण­वि­शि­ष्ट­त­यो­भ­य­त्रा­म्नानं विना स्वरू­प­मा­त्र­स्यैव प्रत्य­भि­ज्ञा­नस्य ज्ञानाभेदकत्वे स्याद­ति­प्र­स­क्ति­रि­त्यर्थः ।

तामेव व्यनक्ति -
एकमपीति ।

एक­स्या­ने­क­गु­ण­व­त्त्वे­ना­ने­क­धो­पा­स्यत्वे दृष्टान्तमाह -
परेति ।
यथोद्गीथस्यैव परो­व­री­य­स्त्वा­दि­गु­ण­व­त्त्वेन हिर­ण्य­श्म­श्रु­त्वा­दि­गु­ण­व­त्त्वेन च बहुधोपसनं दृष्टं तथा ब्रह्मणोऽपि तत्त­द्गु­ण­क­त्वे­ना­ने­क­धो­पा­स­ना­द्ब्र­ह्म­स­म्ब­न्ध­मा­त्रेण प्रत्यभिज्ञाने स्याद­ति­प्र­स­क्ति­रि­त्यर्थः ।

सम्भृत्यादीनां मनोमयत्वादीना च विद्या­प्र­त्य­भि­ज्ञा­प­क­त्वा­योगे फलिताह -
तस्मादिति ॥ २३ ॥

तत्त­द्दे­श­भे­द­स­म्भि­न्न­वि­द्यासु गुणा­नु­प­सं­हा­रो­क्ति­प्र­स­ङ्गा­त्का­ल­भे­द­व­द्वि­द्यायां गुणानुपसंहारमाह -
पुरुषेति ।

विषयमाह -
अस्तीति ।

पुरुषो वाव यज्ञ इति सामा­ना­धि­क­र­ण्य­श्रु­ते­र­र्थ­माह -
तत्रेति ।
छान्दो­ग्य­शा­खा­भेदः सप्तम्यर्थः ।

तस्य यानि चतु­र्विं­श­ति­व­र्षाणि तत्प्रातःसवनमथ यानि चतु­श्च­त्वा­रिं­श­द्व­र्षाणि तन्माध्यन्दिनं सवनमथ यान्य­ष्टा­च­त्वा­रिं­श­द्व­र्षाणि तत्तृतीयं सवनमिति प्रसि­द्ध­य­ज्ञ­सा­म्यार्थं सवनत्रयं कल्पितमित्याह -
तदीयमिति ।

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षा अथ यद्धसति यज्जक्षति तत्स्तुतशस्त्रे शब्द­व­त्त्व­सा­म्या­दि­त्याह -
अशिशिषेति ।

तं चेदेतस्मिन्वयसि किञ्चि­द्व्या­ध्या­द्यु­प­त­पेत्स ब्रूयात्प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सव­न­म­नु­स­न्त­नु­ते­त्या­दि­राशीः । सोऽन्त­वे­ला­या­मे­त­त्त्रयं प्रति­प­द्ये­ता­क्षि­त­म­स्य­च्यु­त­मसि प्राणसंशितमसीति मन्त्र­प्र­यो­ग­स्त­दाह -
अन्ये चेति ।

संशयार्थं शाखा­न्त­री­य­पु­रु­ष­वि­द्या­मु­दा­ह­रति -
तैत्तिरीयका इति ।

तद्गतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामा­ना­धि­क­र­ण्य­वै­य­धि­क­र­ण्या­नि­श्च­या­त्पु­रु­ष­वि­द्या­म­धि­कृत्य संशयमाह -
तत्रेति ।
इतरत्रेति च्छान्दो­ग्य­भे­दोक्तिः । अत्र च भेदा­नु­प­सं­हा­रोक्त्या वाक्या­र्थ­धी­हे­तु­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे विद्या­भे­दा­दु­प­सं­हारः सिद्धान्ते तद्भे­दा­द­नु­प­सं­हार इत्य­भि­प्रे­त्यो­भ­य­त्रापि मर­णा­व­भृ­थ­वि­शि­ष्ट­सा­म्पा­दि­क­पु­रु­ष­य­ज्ञ­त्व­ल­क्ष­ण­रू­पै­क्या­द्वि­द्यैक्यं गुणो­प­सं­हा­र­श्चेति पूर्वपक्षयति -
पुरुषेति ।
निषा­द­स्थ­प­ति­न्या­येन विदुषो यज्ञस्येति सामा­ना­धि­क­र­ण्या­त्पु­रु­ष­य­ज्ञ­स्यो­भ­य­वि­शे­षा­द­भे­दो­प­सं­हा­रा­वि­त्यर्थः ।

सिद्धान्तयति -
आचक्ष्मह इति ।

पूर्वो­क्ता­य­त­न­वि­शे­ष­यो­गा­भा­वा­दु­प­सं­हा­र­सि­द्धि­रिति शङ्कते -
कस्मादिति ।

विद्यै­ङ्क्य­सा­ध­क­वे­द्यै­क्या­भा­वा­त्त­द्भेदे नोपसंहार इत्याह -
तदिति ।

उक्तेऽर्थे सूत्रं पातयति -
तदाहेति ।

तदक्षराणि व्याचष्टे -
यथेति ।
अतो विद्या­भे­दा­द­नु­प­सं­हार इति शेषः ।

यत्तु रूपै­क्या­द्वि­द्यैक्यं गुणो­प­सं­हा­र­श्चेति, तत्राह -
तेषां हीति ।

तत्र हेतुमाह -
पत्नीति ।
‘आत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशु­स्त­पोऽ­ग्नि­र्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षु­र­ध्व­र्यु­र्मनो ब्रह्मा श्रोत्रमग्नीत्’ इत्या­दि­ब­हु­त­र­वै­ल­क्ष­ण्यान्न तद्रू­पै­क्य­मि­त्यर्थः ।

वैल­क्ष­ण्या­न्त­र­माह -
यदपीति ।
छान्दोग्ये हि पुरु­ष­स्या­यु­स्त्रेधा विभज्य सवनत्रयमुक्तम् । तैत्तिरीये तु सायं प्राप्त­र्म­ध्य­न्दि­न­मिति सव­न­स­म्पा­द­न­मि­त­र­वि­ल­क्षणं लक्ष्यते, तेन विद्याभेद इत्यर्थः । ‘मरणमेवावभृथः’ इति छान्दोग्ये । ‘यन्मरणं तदवभृथः’ इति तैत्तिरीये । ‘यद्रमते तदुपसदः’ इति चोभयत्रापि तुल्यम् ।

अतो रूपै­क्या­द्वि­द्यै­क्य­मिति चोद्यमनुवदिति -
यदपीति ।

बहुतरवैलक्षण्ये सति किञ्चि­न्मा­त्र­सा­ल­क्ष­ण्यान्न विद्यै­क्य­म­ति­प्र­स­ङ्गा­दि­त्याह -
तदपीति ।

यत्तु पुरु­ष­य­ज्ञ­त्वा­वि­शे­षा­दिति, तत्राह -
नचेति ।

निषा­द­स्थ­प­ति­न्या­येन षष्ठ्योः सामा­ना­धि­क­र­ण्या­त्पु­रु­षस्य यज्ञ­त्व­मु­क्त­मि­त्या­श­ङ्क्याह -
विदुष इति ।

सामा­ना­धि­क­र­ण्या­भावे हेतुमाह -
नहीति ।
अर्था­नु­प­प­त्त्य­भावे न्यायोऽवतरति । प्रकृते च पुरुषस्य कर्तृ­त्वा­द्य­ज्ञस्य क्रिया­त्वा­द­चै­त­न्याच्च पुरु­षै­क्या­यो­गा­न्न्या­या­प्र­वृ­त्ति­रि­त्यर्थः ।

कथं तर्हि षष्ठ्योरन्वयः, तत्राह -
व्यधिकरणे त्विति ।

अर्था­नु­प­प­त्ति­स्त­त्रापि तुल्ये­त्या­श­ङ्क्याह -
भवतीति ।

अन्यत्र तथाभावेऽपि प्रकृते पुरुषस्य यज्ञ­त्व­मे­वे­त्या­श­ङ्क्यो­क्तम् -
सत्यां चेति ।
यज्ञस्य ज्ञान­व­द्यो­गित्वं माना­न्त­र­सि­द्ध­म­पू­र्व­स­म्ब­न्ध­क­ल्प­नया न त्याज्यं तदनुवादेन विद्या­प्र­शं­स­नार्थं पत्न्या­दि­स­म्पा­द­न­स­म्भ­वा­दि­त्यर्थः ।

यजमानतया पुरुषस्य यज्ञ­स­म्ब­न्धि­ता­व­च­ना­दपि न यज्ञात्मतेत्याह -
आत्मेति ।

इतोऽपि तैत्तिरीयकेषु पुरुषयज्ञत्वं नेष्टमित्याह -
अपिचेति ।
यथा प्रमितेऽर्थे प्रवृत्तं प्रमाणमनुवादकं तथा यज्ञस्य प्रमा­णा­न्त­र­सि­द्ध­वि­द्व­द्यो­गि­ता­नु­वा­देन विशे­ष­ण­वि­धि­श्रुतौ प्रमि­त­वि­शे­ष­णा­ना­म­नू­दि­त­वि­शे­ष्य­गा­मि­त्वे­नै­क­वा­क्य­त्व­स­म्भवे विशेष्यस्य विशेषणानां च पृथ­क्प्र­ति­पा­द­नेन वाक्यभेदः स्यादित्यर्थः ।

इतश्चोभयत्र भिन्ना पुरु­ष­वि­द्ये­त्याह -
अपिचेति ।

संन्यासेनाङ्गेन सहितामङ्गितया स्थिता­मा­त्म­विद्यां पुर­स्ता­त्प्रा­जा­पत्यो हारु­णि­रि­त्या­दा­व­नु­वाके न्यास इति ब्रह्मे­त्या­दि­नोक्त्वा तस्यैवंविदुष इति पूर्वो­क्त­प­रा­म­र्शा­त्त­च्छे­ष­त्व­मस्य भातीत्याह -
ससंन्यासामिति ।

इतश्च पूर्व­शे­षोऽ­य­मा­म्नायो न स्वतन्त्र इत्याह -
तथाचेति ।

तैत्तिरीयाणां पुरु­ष­वि­द्या­म्ना­यस्य पार­त­न्त्र्य­मुक्त्वा पैङ्गिनां ताण्डिनां च तदाम्नायस्य स्वातन्त्रयमाह -
इतरेषां त्विति ।

तत्र हेतुमाह -
आयुरिति ।
षोडशाघिकं वर्षशतं प्रकर्षेण व्याध्या­द्य­नु­प­द्रुतो जीव­त्यु­क्त­प्र­का­रे­णा­त्मानं यज्ञाद्यात्मकं विद्वानिति विद्यया सहा­यु­र­भि­वृ­द्धि­फ­लस्य सङ्की­र्त­ना­त्त­त्फ­ल­त्वेन स्वातन्त्र्यं पुरुषविद्यायाः सिद्धमित्यर्थः ।

स्वत­न्त्र­प­र­त­न्त्र­यो­रै­क्या­योगे फलितमाह -
तस्मादिति ॥ २४ ॥
पूर्व­त्रा­त्म­वि­द्या­सं­निधौ श्रव­णा­त्तै­त्ति­री­य­ग­त­पु­रु­ष­यज्ञो ज्ञाना­ङ्ग­मि­त्य­ङ्गी­कृ­त्या­यु­र­भि­वृ­द्धि­फ­ल­वि­द्यातो भेदोऽस्य दर्शितः । सम्प्रति प्रव­र्ग्या­दी­ना­मपि विद्या­सं­नि­ध्य­वि­शे­षा­त्त­द­ङ्ग­त्व­मि­त्या­श­ङ्क्या­न्य­त्रा­नु­प­सं­हा­रार्थं तेषामङ्गत्वं निरस्यति -
वेधादीति ।

तत्त­दु­प­नि­ष­दा­रम्भे ते ते मन्त्रास्तानि तानि च कर्माणि श्रुतानि विषय इति वक्तुमारभते -
अस्तीति ।

अभि­चा­र­दे­व­ता­म­भि­चा­र­कर्ता प्रार्थयते -
सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय । विशेषतश्च हृदयं प्रविध्य भिन्धि । धमनीः शिराः प्रवृज्य विभज त्रोटय । तदीयं शिरश्चाभितो विदारय । एवं मद्रिपुर्बहुधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । विश्व­प्र­का­श­क­त्वा­त्त­त्प्र­स­व­हे­तु­त्वाच्च देव सवि­त­रि­त्या­दित्यः सम्बोध्यते । स च यज्ञस्य यज्ञपतेश्च यजमानस्य निर्वर्तने नियुज्यते प्रसुवेति । उच्चैःश्रवाः श्वेतोऽश्वो यस्य तव स त्वं श्वेताश्वोऽसि हरित इन्द्र­नी­ल­स्त­द्व­न्नी­लोऽ­सी­तीन्द्रः सम्बोध्यते । मित्रो नामादित्यो नोऽस्माकं सुखकरो भूयादिति विद्यार्थी प्रार्थयते । एवं शं वरुण इत्यादि योज्यम् ।

इन्द्रादयो देवाः किल कस्मिं­श्चि­त्पू­र्व­स्मि­न्काले सत्रं निर्वर्तयितुं निविष्टवन्तः इत्युपक्रम्य प्रवर्ग्याख्यं कर्म श्रुतमित्याह -
देवा इति ।
अग्नि­ष्टो­म­ब्रा­ह्म­ण­मु­प­नि­ष­दा­रम्भे पठ्यत इति सम्बन्धः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म, अत­श्चै­त­द­ह­र­ह­र्नि­र्वर्त्यं कर्म ये केचि­दु­प­य­न्त्य­नु­ति­ष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मा­प­र­मु­प­ङ्ग­च्छन्ति ते चामृतत्वं परं ब्रह्म क्रमेण प्राप्नु­व­न्ती­त्यर्थः ।

विष­य­मु­क्त्वो­प­का­र­भा­वा­भा­व­मा­नाभ्यां संशयमाह -
किमित्यादिना ।
अत्र च विद्या­सां­नि­ध्या­म्ना­ता­ना­मपि मन्त्रादीनां तदु­प­का­र­क­त्वा­भा­वे­ना­त­च्छे­ष­तया नान्य­त्रो­प­सं­हा­र्य­ते­त्यु­क्ति­द्वारा विचारस्य ज्ञान­हे­तु­यो­गा­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे मंन्त्रादीनां विद्यो­पा­धा­वु­प­सं­हारः । सिद्धान्ते त्वनुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -
किमिति ।

विनि­यो­ज­क­मा­ना­भावे कथं विद्याशेषतेति शङ्कते -
कुत इति ।

‘फल­व­त्सं­नि­धा­व­फलं तदङ्गम्’ इति­न्या­या­त्फ­ल­व­द्वि­द्या­सं­नि­ध्या­म्ना­तानां तदङ्गतेत्याह -
विद्येति ।

श्रुत्यादीनां विनि­यो­ज­का­ना­म­न्य­त­म­स्या­प्य­नु­प­ल­म्भा­दा­रभ्य काञ्चन विद्या­म­ना­म्ना­ना­दा­म्ना­ता­ङ्गै­रेव पूर्णाया नैरा­का­ङ्क्ष्या्न्नैषां विद्याशेषतेति शङ्कते -
नन्विति ।

विद्याया नैरा­का­ङ्क्ष्येऽपि मन्त्रादीनां फलवत्त्वाय फल­व­न्नि­यो­ग­सा­का­ङ्क्ष­त्वा­त्फ­ल­व­द्वि­द्या­सं­नि­हि­तानां तच्छेषतया फलवत्त्वे फला­न्त­र­क­ल्प­ना­यो­गा­दे­क­त­रा­का­ङ्क्षायां विद्या­का­ङ्ग­क्षा­मा­पाद्य प्रक­र­णा­द्या­क्षे­पेण तच्छेषतेत्याह -
बाढमिति ।

संनि­धे­र्ध­र्म­सा­म्येऽपि सम्भवान्न विद्या­शे­ष­ते­त्या­श­ङ्क्याह -
नहीति ।

अकस्मात्फलं विनेति यावत् । अनु­ष्ठे­य­प्र­का­शि­त्वा­न्म­न्त्राणां विद्या­शे­ष­म­र्थ­म­प्र­का­श­यतां न तच्छेषतेति शङ्कते -
नन्विति ।

कर्मणां विद्याशेषत्वं संनिधेरुक्तं प्रत्याह -
कथं चेति ।
पुरस्तादुपसदां प्रवर्ग्यण प्रच­र­न्ती­ति­वा­क्येन प्रवर्ग्यस्य क्रतु­शे­ष­त्व­सि­द्धेर्न संनि­धे­र्वि­द्या­शे­षत्वं तस्य वाक्या­द्दौ­र्ब­ल्या­द­ग्नि­ष्टो­मा­देश्च ज्योति­ष्टो­मा­दि­वा­क्येन स्वर्गा­दि­फ­ल­त्व­ज्ञा­नान्न विद्या­शे­ष­ते­त्यर्थः ।

मन्त्राणां कर्मणां च विद्या­शे­ष­त्वा­भावं दूषयति -
नेति ।

तत्र मन्त्राणां विद्या­स­म­वे­ता­र्थ­प्र­का­श­नेन तच्छेषत्वं साधयति -
सामर्थ्यमिति ।
हृद­या­दी­त्या­दि­प­देन नाडी­ना­मा­दि­त्या­देश्च सङ्ग्रहः ।

तथापि कथं मन्त्राणां विद्यादिविषयं सामर्थ्यं, तत्राह -
हृदयेति ।
तदसम्बद्धान्यपि सन्ति कानि­चि­दु­पा­स­ना­नीति प्राये­णे­त्यु­क्तम् ।

हृदयादिपदस्य विद्या­स­म­वे­ता­र्थ­त्वेऽपि कथमितरेषां मन्त्रपदानां विद्या­शे­ष­ते­त्या­शङ्क्य हृद­या­दि­प­दा­नु­सा­रेण तदेकवाक्यतया पदान्तराणामपि यथा­क­थ­ञ्चि­दु­पा­स्त्य­र्थ­ते­त्याह -
तदिति ।

उपास्तिषु मन्त्र­वि­नि­यो­ग­स्या­दृ­ष्टे­र­श्लिष्टा कल्प­ने­त्या­श­ङ्क्याह -
दृष्टश्चेति ।
पुत्रस्य दीर्घा­यु­ष्ट्वार्थं छान्दोग्ये त्रैलोक्यं कोशत्वेन परि­क­ल्प्यो­पा­स्ति­रुक्ता । तत्र पितुरयं प्रार्थ­ना­मन्त्रो भूरित्यादि । अमुनेति पुत्रस्य त्रिर्नाम गृह्णात्यमुना देवदत्तनाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ।

यत्तु प्रव­र्ग्या­दी­ना­म­न्यत्र विनियोगातन्न विद्याशेषतेति, तत्राह -
तथेति ।
यद्यपि पुर­स्ता­दु­प­स­दा­मि­त्या­दि­वाक्यं प्रव­र्ग्या­दी­ना­म­न्य­शे­ष­त्व­वा­दि­वि­द्या­शे­ष­त्व­सा­ध­क­सं­नि­धे­र्ब­ली­य­स्त­था­प्य­वि­रो­धान्न वाक्येन बाध्यः संनि­धि­र्वा­क्ये­ना­न्यत्र विनियुक्तस्यापि प्रवर्ग्यादेः संनिधिना विद्यास्वपि विनि­यो­गा­दि­त्यर्थः ।

तत्र दृष्टान्तमाह -
वाजपेय इति ।
‘ ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत’ इति ब्रह्म­व­र्च­स­फ­लोऽपि बृहस्पतिसवो ‘वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेत’ इति वाजपेयाङ्गत्वेन विधीयते क्त्वाप्र­त्य­या­दे­क­क­र्तृ­क­ता­सि­द्धे­रे­क­प्र­यो­ग­ता­म­न्त­रेण तद­यो­गा­दे­क­प्र­यो­ग­ताया गुण­प्र­धा­न­भा­वा­पे­क्ष­त्वा­द्वा­ज­पे­य­प्र­क­र­णा­म्ना­ना­त्त­स्या­ङ्गित्वं बृह­स्प­ति­स­व­स्या­ङ्ग­त्वम् । नन्वेवं मीमांसकानां मुद्राभेदः कृतो यदि बृह­स्प­ति­स­व­वाक्यं प्रक­र­णा­न्त­र­स्थ­बृ­ह­स्प­ति­स­व­वि­प­रि­वृ­त्त्यर्थं कस्तर्हि वाजपेयाङ्गविधिः । अथैष विघिः कथं तर्हि प्रक­र­णा­न्त­र­स्थ­बृ­ह­स्प­ति­स­व­स्येह संनिधिः । न चैकमेव वाक्यं दूरस्थं कर्म संनि­धा­प­य­त्य­ङ्ग­त्वेन च विदधाति । तस्मा­त्प्र­क­र­णा­न्तरे कौण्ड­पा­यि­न­व­त्क­र्मा­न्तरं बृह­स्प­ति­स­व­स्त­न्नाम तु प्रसि­द्ध­बृ­ह­स्प­ति­स­व­ध­र्मा­ति­दे­शा­र्थम् । तथाच कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयत इति मतद्वयेऽपि स्थिते कथं विनि­यु­क्त­वि­नि­यो­गा­श­ङ्केति सत्यमभ्युपेत्य वादोऽयं खादिरत्वादि चात्र व्यव­स्थि­त­मु­दा­ह­र­णम् । नच साधिकारयोरपि कर्म­णो­र­ङ्गा­ङ्गित्वे दर्श­पू­र्ण­मा­सा­विष्ट्वा सोमेन यजेतेत्यत्रापि स्याद्द­र्श­पू­र्ण­मा­सयोः सोमस्य वा प्रकरणे तद्व­च­ना­ना­म्ना­ना­त्त­यो­र­गृ­ह्य­मा­ण­वि­शे­ष­तया गुण­प्र­धा­न­त्वा­सि­द्धे­र्भि­न्न­प्र­यो­ग­त्वेऽपि क्रिययोः कर्तृ­त्वा­धि­ष्ठा­न­पु­रु­ष­स्यै­क्या­त्प्र­त्य­य­सि­द्धे­र­ङ्गा­ङ्गि­त्व­प्र­मा­प­का­भावे चाधि­ष्ठा­न­ल­क्ष­णा­वि­रो­धा­द्द­र्श­पू­र्ण­मा­सो­त्त­र­का­लता सोमा­नु­ष्ठा­न­स्येति कालार्थोऽयं संयोगः । प्रकृते तु प्रक­र­णा­ध्य­य­न­सि­द्धये प्रत्ययप्रमि तम­ङ्गा­ङ्गि­त्व­मतो बृह­स्प­ति­स­व­स्या­न्यत्र विनियुक्तस्यैव वाजपेये क्त्वाप्रत्ययेन विनि­यो­ग­व­त्प्र­व­र्ग्या­दी­ना­मपि विनि­यु­क्ता­ना­मे­वा­न्यत्र संनिधिना विद्यास्वपि विनियोग इति भावः ।

पूर्वपक्षमनूद्य सूत्रा­द्ब­हि­रे­वा­नु­प­सं­हारं प्रतिजानीते -
एवमिति ।

मन्त्राणां कर्मणां च संनिधेरुपसंहारो विद्यासूक्तः स कस्मान्निषिध्यत इत्याह -
कस्मादिति ।

तत्र हेतुत्वेन सूत्रमवतारयति -
वेधादीति ।

आथर्वणिकानां मन्त्राम्नायस्य विद्या­शे­ष­त्वा­भा­व­प­र­त्वे­ना­क्ष­राणि योजयति -
हृदयमिति ।

भिन्न­श­ब्द­स्या­भी­ष्ट­म­र्थ­माह -
अनभिसम्बद्धा इति ।

अन­भि­स­म्ब­न्ध­मे­वा­भि­व्य­नक्ति -
नेति ।

हृद­य­प­द­स्यो­पा­स्ति­स­म्ब­न्धा­र्थ­त्वा­त्त­द्द्वारा मन्त्रस्य तच्छे­ष­ते­त्युक्तं स्मारयति -
नन्विति ।

मन्त्र­स्यो­पा­स्ति­शे­षत्वं प्रत्याह -
नेतीति ।
पदा­न्त­र­स­म­भि­व्या­हृ­तस्य तस्यापि नोपास्त्युपयोगो वस्तुतोऽस्तीति मत्वा कथ­ञ्चि­दि­त्यु­क्तम् ।

हृदयस्य विद्योपयोगे मन्त्रार्थस्य तद्भा­वा­न्म­न्त्रस्य विद्या­शे­ष­ते­त्या­श­ङ्क्याह -
नचेति ।
अत्रे­त्या­थ­र्व­ण­श्रु­त्युक्तिः ।

हृद­या­ति­रि­क्त­स्यापि मन्त्रार्थस्य विद्यायोगः स्यादि­त्या­शङ्क्य साक्षा­त्प­र­म्प­रया वेति विकल्प्याद्यं दूषयति -
हृदयमिति ।

तद्द्वा­राऽ­न्ये­षा­मपि विद्यायोगः स्यादिति द्विती­य­मा­श­ङ्क्याह -
अभिचारेति ।
सर्वैरेव पदैरयं मन्त्रः स्वतोऽ­भि­चा­र­ग­ता­र्थ­प्र­का­शको दृश्यते । तथाच सामर्थ्यलक्षणं लिङ्गं संनिधिं बाधित्वा कर्म­शे­ष­त्व­म­स्या­पा­द­यति । नच सर्व­प­दा­ना­म­भि­चारे समवेतार्थत्वे सत्ये­क­प­द­स­म­वे­ता­र्थ­त्व­मा­त्रेण विद्याशेषत्वं हृद­य­प­द­स्या­भि­चा­रेऽपि सम­वे­ता­र्थ­त्वा­दि­त्यर्थः ।

आथ­र्व­णि­का­ना­मु­प­नि­ष­दु­प­क्र­मस्य लिङ्ग­व­शा­त्क­र्म­स­म्ब­न्ध­व­त्ता­ण्डि­ना­मपि तदुपक्रमस्य लिङ्गादेव कर्म­स­ङ्ग­ति­रि­त्याह -
तथेति ।

कर्म­मा­त्र­प्र­यो­गेऽपि केन कर्मणास्य सङ्गतिरिति लिङ्गान्न गम्यते तेन प्रमा­णा­न्त­र­म­न्वे­ष्य­मि­त्या­श­ङ्क्याह -
तदिति ।
‘सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात्सवने सवने जुहोति’ इति वाक्या­द्वा­ज­पे­य­स­म्ब­न्धोऽस्य सिध्यतीत्यर्थः ।

उक्तन्यायं मन्त्रा­न्त­रे­ष्व­ति­दि­शति -
एवमिति ।
अन्यषां तु श्वेताश्वो हरि­त­नी­लोऽ­सी­त्या­दिना वचनं श्रुतिर्वाक्यं वा प्रमाणान्तरं प्रकरणं तेन कर्म­स­म्ब­न्धोऽत्र सर्व­त्रा­नु­स­र्तव्य इति सम्बन्धः ।

लिङ्गा­दि­भि­र­न्यत्र विनियोगे मन्त्राणां सिद्धे फलितमाह -
इत्येवमिति ।

किमिति लिङ्गादिभिः संनि­धि­र्बा­ध्यते, तत्राह -
दुर्बलो हीति ।