न्यायनिर्णयव्याख्या
३ परिच्छेदः
कथं दौर्बल्यं प्रमाणत्वाविशेषे, तत्राह -
इत्युक्तमिति ।
स्वार्थं वक्तुं पदान्तरानपेक्षं पदं श्रुतिः । श्रुतभावगता शक्तिर्लिङ्गम् । संहत्यार्थं वदत्पदवृन्दं वाक्यम् । प्रधानवाक्यमङ्गोक्त्याकाङ्क्षं प्रकरणम् । समानदेशत्वं स्थानम् । यौगिकः शब्दः समाख्येत्यक्तलक्षणानामेषां समवाये सामनविषयत्वविरोधे परस्योत्तरस्य दौर्बल्यम् ।
श्रुतिविरोधे लिङ्गस्य तद्विरोधे वाक्यस्य तद्विरोधे प्रकरणस्य तद्विरोधे स्थानस्य तद्विरोधे समाख्याया इत्यत्र हेतुमाह -
अर्थविप्रकर्षादिति ।
स्वार्थोक्तेः पूर्वपूर्वापेक्षतया लिङ्गादीनां विलम्बेनार्थधीहेतुत्वमित्यर्थः । तत्र श्रुतिलिङ्गयोर्विरोधोदाहरणमैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाऽतो गार्हपत्यस्य कर्मतया क्रियां प्रति शेषित्वं सिद्धमैन्द्र्येतितृतीयाश्रुतेरैन्द्र्याख्यर्चः ‘कदाचन स्तरीरसि ‘ इत्याद्यायाः करणत्वेन शेषता । तदयं श्रौतः शेषशेषिभावः कदाचनेत्यस्या ऋचश्चेन्द्रदेवतोक्तिसामर्थ्यलिङ्गेन विरुध्यते । तत्र लिङ्गानुगुण्येन गार्हपत्यमिति श्रुतिः सप्तम्यर्थे तत्समीप इन्द्र उपस्थेय इति व्याख्येया । श्रुत्यनुगुणतया वा लिङ्गमिन्द्र ईश्वरः स्वोचितक्रियाया गार्हपत्य इति व्याख्येयमिति सन्देहे श्रुतेर्विनियोगाय सामर्थ्यापेक्षत्वेऽपि तज्ज्ञानानपेक्षत्वादवगतश्रौतविनियोगनिर्वाहाय सामर्थ्यस्य तदन्यथानुपपत्त्या गम्यमानत्वात्पूर्वावगतश्रौतविनियोगानुरोधेनैव लिङ्गस्थितेस्तदेव श्रुत्यनुसारेण नेयमिति स्थितम् । लिङ्गवाक्ययोर्विरोधोदाहरणं ‘स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ इति किमुपस्तरणे पुरोडाशासादने च कृत्स्नो मन्त्रः प्रयोक्तव्यः किंवा कल्पयाम्यन्त उपस्तरणे शेषस्तु पुरोडाशासादन इति सन्देहे सार्थ्यस्यैकवाक्यताधीपूर्वत्वाभावात्सदनकरणपुरोडाशासादनयोरनुष्ठेययोर्विभागेनैव प्रकाशने मन्त्रयोः सामर्थ्यादेकवाक्यतावशेन सामर्थ्यानुमानात्प्रागेव प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयतीति वाक्याल्लिङ्गमेव बलवदिति सिद्धम् । वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकः । तत्र हि पौर्णमासीदेवताः अमावास्यादेवताश्चाम्नातास्ताश्च मिथो नैकवाक्यतां गच्छन्तीति लिङ्गसामर्थ्यात्पौर्णमासीप्रयोगादिन्द्राग्निशब्दोत्कर्षे समवेतार्थत्वादमावास्यायां च तत्प्रयोगे तदेकवाक्यताप्रतीतम् ‘अवीवृधेतां महो ज्यायोऽक्राताम्’ इत्येतदुत्कृष्य न प्रयोक्तव्यमुत यत्रेन्द्राग्निशब्द उत्कृष्य नीतस्तत्रैवैतदपि पौर्णमासीत उत्कृष्य प्रयोक्तव्यमिति संशये प्रकरणस्य विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्याविनियोजकत्वात्तद्रूपालोचनायां च प्रथमभाविनो विनियोजकत्वात्प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तस्यादौ विनियोजकत्वसम्भवात्प्रकृतस्य साकाङ्क्षत्वं ज्ञात्वा तेनेदमेकं वाक्यमित्यनुमानात्प्रागेवोक्तिसामर्थ्यात्पदानामेकवाक्यत्वस्य प्रात्यक्ष्यात्तद्विरोधेऽनुमानानुत्थानाद्देवतापनये तच्छेषाणां वाक्यादपकर्ष एवेति । क्रमप्रकरणयोर्विरोधोदाहरणं राजसूयसंनिधावभिषेचनीयसमीपे शौनःशेपोपाख्यानाद्याम्नातम् । नानेष्टिपशुसोमसमुदायो हि राजसूयस्तत्राभिषेचनीयः सोमयागस्तस्य संनिधौ शुनःशेपो नाम कश्चिदृषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थं पशुत्वेन क्रीतो वरुणाय स्वालम्भे कर्तुमारब्धे वरुणं तुष्टाव, स च तुष्टः सन्नेनं ररक्षेत्याख्यानमक्षद्यूतादि च श्रुतं तत्किं समस्तराजसूयाङ्गमुताभिषेचनीयस्यैवेति संशये प्रकरणस्य साकाङ्क्षतायाः प्रात्यक्ष्यात्संनिधिपाठेनाभिषेचनीयस्य स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्याप्याकाङ्क्षोत्थापनादुत्थिताकाङ्क्षं प्रकरणमेकवाक्यतादिकल्पनापरम्परया प्रागेव विनियोगं कल्पयतीति प्रकरणविरोधे संनिधिर्बाध्यते । क्रमसमाख्ययोर्विरोधोदाहरणं पुरोडाशिकाख्याने काण्डे कर्मणामाग्नेयादीनां क्रमेण मन्त्राः श्रुतास्तत्रामावास्यकसांनाय्यक्रमे ‘शुन्धध्वं दैव्याय कर्मण’ इति शुन्धनार्थो मन्त्रः समाम्नातस्तत्र पुरोडाशपात्राणां वा शुन्धने मन्त्रोऽयं प्रयोक्तव्यः सांनाय्यपात्राणां वेति सन्देहे समाख्या सम्बन्धनिबन्धना सती तदर्थं यावत्संनिधिं कल्पयति तावद्वैदिकेन प्रत्यक्षेण संनिधिनाकाङ्क्षाद्वारा परम्परया श्रुतिं परिकल्प्य विनियोगस्य कृतत्वात्पुरोडाशवादिमन्त्रबाहुल्याच्च तत्समाख्यासिद्धेः स्थानविरोधे न सा विनियोक्त्रीति स्थितम् । तदेवं लिङ्गस्यैकया श्रुत्या श्रुत्यर्थविनियोगं प्रति व्यवधानं वाक्यस्य द्वाभ्यां लिङ्गश्रुतिभ्यां प्रकरणस्य तिसृभिर्वाक्यलिङ्गश्रुतिभिः स्थानस्य चतसृभिः प्रकरणवाक्यलिङ्गश्रुतिभिः समाख्यायाः स्थानप्रकरणवाक्यलिङ्गश्रुतिभिः पञ्चभिरित्यवान्तरभेदान्मिथो विरोधे श्रुतेर्बाधकत्वमेव लिङ्गवाक्यप्रकरणस्थानानां पूर्वपूर्वापेक्षया बाध्यत्वमुत्तरोत्तरापेक्षया बाधकतेत्युभयथात्वम् । समाख्याया बाध्यतैवेति विवेकः ।
मन्त्राणां विद्याशेषत्वं निरस्य प्रवर्ग्यादिकर्मणां तच्छेषत्वं निरस्यति -
तथेति ।
तत्र हेतुः -
नहीति ।
अनुपकारकस्य शेषत्वाभावादुपकारकस्य च प्रवर्ग्यादिकृतस्य विद्यायामनिरूपणान्न तेषां तच्छेषतेत्यर्थः ।
यत्तु विनियुक्तविनियोगो न विरोधायेत्यत्रोपेत्यवादेनोदाहरणं, तत्राह -
वाजपेये त्विति ।
इष्ट्वेति क्त्वाश्रुतिः समानकर्तृकत्वे विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयत्यतो न तत्र श्रुत्योस्तुल्यबलयोर्मिथो बाध इत्युभयथात्वं बृहस्पतिसवस्येष्टमित्यर्थः ।
प्रकृते तुल्यबलत्वं विनियोजकयोर्नास्तीत्याह -
अपिचेति ।
तुल्यबलत्वशङ्क्षानिरासद्वारा विनियुक्तविनियोगायोगे हेत्वन्तरसमुच्चयार्थमपिचेत्युक्तम् । पुरस्तादुपसदामित्यादिवाक्यं बलीयः प्रमाणम् । अन्यत्रेति ज्योतिष्टोमाद्युक्तम् । दुर्बलं प्रमाणं संनिधिः । अन्यत्रापीति विद्योक्ता ।
विरोधाभावादसति विरोधे बाधाभावादुभयत्रापि प्रमाणाभ्यां विनियोगः स्यादित्याशङ्क्याह -
अगृह्यमाणेति ।
एतदुभयत्र विनियुक्तत्वमेवं द्वाभ्यां मानाभ्यामिति यावत् ।
वाक्यादेः संनिधेश्च विशेषो निश्चितो नास्तीत्याशङ्क्याह -
न त्विति ।
मानयोर्विशेषग्रहे फलितमाह -
तस्मादिति ।
प्रकरणपाठसिद्धये विनियोगो मन्त्रादीनां कल्प्यते । तथाच बलवत्प्रमाणेनान्यत्र विनियोगे प्रकरणपाठसिद्धौ न क्रमो विनियोजको दौर्बल्यादित्यर्थः ।
तर्हि संनिधिपाठस्य का गतिस्तामाह -
अरण्येति ॥ २५ ॥
विद्यासंनिधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारवत्क्वचिदेव हानसंनिधौ श्रुतस्योपायनस्य तदन्तरेणापि हानसम्भवेन तदुपपादनासामर्थ्यादनुपसंहार इत्याशङ्क्याह -
हानौ त्विति ।
विषयं वक्तुं तत्तच्छाखास्थवाक्यान्युदाहरति -
अस्तीत्यादिना ।
यथाऽश्वो जीर्णानि रोमाणि रजोभिः सह शातयित्वा स्वच्छो भवति तथाहमपि पापं सर्वं विधूय निर्मलः सन्ब्रह्मलोकमभिसम्भवामीति सम्बन्धः । यथा च चन्द्रो राहुग्रस्तो राहोर्मुखात्प्रमुच्य भास्वरो भवत्येवं शरीरमकृतमशुद्धं प्रवाहरूपेणानादिसिद्धं वा धूत्वा त्यक्त्वा स्वच्छो भूत्वा कृतः सिद्धो न पुनरपूर्वपुण्योपचयेन साध्यो यस्यात्मा सोऽहं कृतकृत्यः सन्ब्रह्मलक्षणं रूपमभिसम्भवामि प्रत्यक्त्वेन प्राप्नोमीत्यर्थः । तथा ताण्डिनामिवाथर्वणिकानामस्ति श्रुतिरिति सम्बन्धः ।
‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय’ इति दृष्टान्तं परामृशति -
तथेति ।
ताण्डिनश्चाथर्वणिकाश्च तथेत्युच्यन्ते -
तस्येति ।
विदुषो मृतस्येत्यर्थः । तथैवेति शाट्यायनिनो दृष्टान्तिताः । तत्तेन विद्याबलेन सुकृतं च दुष्कृतं च ते विधूनुते निरस्यति विद्वानित्यर्थः ।
त्यक्तयोस्तयोर्विनियोगं दर्शयति -
तस्येति ।
विषयपरिशेषार्थमापाततो वाक्यार्थमाह -
तदिति ।
तत्तत्र श्रुताविहोदाहृतेषु वाक्येष्विति यावत् । क्वचित्ताण्डिनामाथर्वणिकानां च श्रुतावित्यर्थः । क्वचित्तयोरेवेत्यत्र क्वचिदिति शाट्यायनिश्रुतिरुक्ता क्वचित्तूभयमित्यत्र क्वचिदिति कौषीतकिश्रुतिर्गृह्मते ।
तत्र कौषीतकिश्रुतिर्न विचारापेक्षेत्याह -
तदिति ।
शाट्यायनिश्रुतिरपि नापेक्षते विचारमित्याह -
यत्रेति ।
आर्थिकं हानसंनिपातं साधयति -
अन्यैरिति ।
परिशिष्टं विषयमाह -
यत्र त्विति ।
हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह -
तत्रेति ।
अत्र च विद्यास्तुतिप्रकर्षप्रयोजनस्योपायनोपसंहारस्योक्त्या वाक्यार्थधीहेतुवर्णनात्पादादिसङ्गतिः ।
पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षं गृह्णाति -
अश्रवणादिति ।
क्वचिदश्रवणेऽप्यन्यत्र श्रवणादिहोपसंहारमाशङ्क्याह -
विद्येति ।
विद्यैक्ये सत्युपसंहारः स्यान्न चेह तदस्ति कौषीतकिगतपर्यङ्कविद्यायाः सगुणत्वात्ताण्ड्याथर्वणिकश्रुत्योश्च पुण्यपापविधूननहेतुत्वेन श्रुतविद्याया निर्गुणत्वादिति यत्र हानमेव श्रुतं तत्र नोपायनं संनिपतेदित्यर्थः ।
न केवलमश्रवणादननुवृत्तिर्युक्तिविरोधादपीत्याह -
अपिचेति ।
यथा शाट्यायनिश्रुतावुपायने श्रुते हानानुवृत्तिस्तथा ताण्ड्यादिश्रुतावपि हाने श्रुते स्यादुपायनानुवृत्तिरित्याशङ्क्य तत्रानुपपत्त्या सम्बन्धेऽपि प्रकृते नैवमित्याह -
तयोरिति ।
अश्रवणादिफलमुपसंहरति -
तस्मादिति ।
अनुपसंहारे स्तुतिप्रकर्षासिद्धिरिति वक्तुमितीत्युक्तम् ।
सिद्धान्तयति -
अस्यामिति ।
अश्वरोमादिदृष्टान्ताद्विधूतयोः सुकृतदुष्कृतयोः परत्रावस्थानापेक्षत्वादत्र हानसंनिधौ श्रुतमुपायनं केवलहानश्रवणेऽप्यपेक्षितत्वादायातीति व्याचष्टे -
हानौ त्विति ।
तुशब्दार्थमाह -
केवलायामिति ।
तच्छेषत्वादित्युक्तं विवृणोति -
हानेति ।
हेतुफलमाह -
तस्मादिति ।
अन्यत्र ताण्ड्यादिश्रुतावित्यर्थः पूर्वपक्षबीजमनुभाषते -
यदिति ।
यत्रानुष्ठेयत्वेन श्रवणं तत्रोपसंहारे विद्यैक्यमपेक्षितम् । इह त्वनुष्ठेयतयोक्तस्य नोपसंहारः किन्तु सिद्धस्यैव स्तुत्यर्थतयोक्तस्य तेनासति बाधके तस्योपसंहारः स्तुतिप्रकर्षायेत्याह -
तदिति ।
व्यवस्थोक्तिर्विद्याभेदे गुणं प्रति नियमस्तदभेदे तदुपसंहार इति निर्देश इत्यर्थः ।
तर्हि किमर्थमनयोः सङ्कीर्तनं तदाह -
विद्येति ।
सङ्कीर्तनस्य स्तुत्यर्थत्वमभिनयति -
इत्थमिति ।
अस्तु स्तुत्यर्थं सङ्कीर्तनं तथापि किमर्था हानावुपायनानुवृत्तिः, तत्राह -
स्तुत्यर्थे चेति ।
हानावुपायनानुवृत्तिं सूत्रकारो मन्यते चेत्तर्हि कथं स्तुतिप्रकर्षस्योपायनोपसंहारकल्पत्वं, तत्राह -
स्तुतीति ।
स्तुतिर्हि विद्यायाः कार्या सा च केवलश्रुतहानेनापि लभ्या तदैव प्रकर्षोऽपेक्ष्येत यद्यप्रकर्षे न स्तुतिर्न चैवं तस्मात्प्रमाणसिद्धोपायनोपसंहारस्य फलं स्तुतिप्रकर्षसिद्धिरित्यर्थः ।
ननूपायनवादस्यार्थवादत्वे विधिशेषत्वं तस्य तच्छेषत्वान्न तु हानवादार्थवादशेषत्वं, तत्राह -
प्रसिद्धा चेति ।
इतोऽस्मात्पृथिवीरूपाल्लोकादिति यावत् ।
तत्रापि कथमर्थवादान्तरापेक्षा, तत्राह -
कथं हीति ।
इहेति पूर्वोक्तार्थवादोक्तिः । हेमन्तशिशिरयोरैक्यं मत्वा पञ्चर्तव इत्युक्तम् ।
अश्रुतमपि श्रुत्यन्तरानुसाराद्ग्राह्यमित्यत्र दृष्टान्तमाह -
तथेति ।
यज्ञस्य पुरुषाकारकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे । तत्र त्रिष्टुप्शब्देन च्छन्दोमात्राभिधानात्कथं सेन्द्रियत्वमित्युक्ते वाजसनेयके तथात्वेन त्रिष्टुभस्तत्त्वं गृहीतमित्यर्थः ।
ननु श्रुत्यन्तरश्रुतमप्युपायनं न हानावुपसंहर्तव्यं परकीयसुकृतदुष्कृतोपादानस्य परेण कर्तुमशक्यत्वात् , तत्राह -
विद्येति ।
विद्यासामर्थ्यादन्यत्र सुकृतदुष्कृतफलसञ्चारोक्त्या विद्यास्तुतेरिष्टत्वान्नाभिनिवेशावकाश इत्यर्थः ।
उपायनवादस्य स्तुत्यर्थत्वं कथमित्याशङ्क्य सूत्रकारोक्तिसामर्थ्यादित्याह -
उपायनेति ।
तदेवोपपादयति -
गुणेति ।
उपायनार्थशब्देन सुकृतादिस्वरूपोपायनमिष्टं फलत उपायनस्येष्टत्वात् । फलोपसंहारं विनाऽर्थोपसंहारोऽभीष्टश्चेदुपायनशेषत्वादिति स्यात्तच्छब्दशेषत्वादिति चाह तथाच वदन्नर्थस्योपसंहारं नेच्छतीत्यर्थः ।
विद्यागुणोपसंहारप्रस्तावे स्तुत्यर्थविचारो न युक्त इत्याशङ्क्य प्रासङ्गिकत्वादयमदोष इत्याह -
तस्मादिति ।
स्तुत्युपसंहारः स्तुत्युपयोगिनो गुणस्य सुकृतदुष्कृतयोरन्यत्र फलसञ्चारस्योपसंहारस्तत्प्रकारस्यानुपास्यस्यापि प्रदर्शनार्थं सूत्रमित्यर्थः ।
शाखान्तरस्थो विशेषः शाखान्तरेऽप्याश्रयणीय इत्यत्र दृष्टान्तमाह -
कुशेति ।
तदिदमुपमानं यथा तथा व्याख्येयमिति प्रतिज्ञाय कुशादृष्टान्तं व्याचष्टे -
भाल्लविनामिति ।
भोः कुशाः शङ्कवः, यूयं वानस्पत्या वनस्पतिप्रभावाः स्थ भवथ ता मा मां पात रक्षतेति यजमानस्य वचनम् । औदुम्बरा इति श्रुतेर्दर्भविषयकुशशब्दस्यास्त्रीत्वम् । अत एवास्त्री कुशमित्यमरसिंहेनानुशिष्टम् । औदुम्बर्य इति भाष्यात्कुशशब्दस्य शङ्कुविषयस्य स्त्रीत्वमपीति विवेक्तव्यम् ।
छन्दोदृष्टान्तं व्याचष्टे -
यथाचेति ।
दशाक्षरादीनि देवच्छन्दांसि नवाक्षराण्यासुराणि तेषां क्वचिच्छन्दोभिः स्तुवत इत्यादावविशेषेण पूर्वापरत्वप्रसङ्गे पैङ्गिश्रुतिवशाद्विशेषसिद्धिरित्यर्थः ।
स्तुतिदृष्टन्तं विवृणोति -
यथाचेति ।
अतिरात्रे षोडशिनः पात्रविशेषस्य ग्रहणे यदङ्गभूतं स्तोत्रं तत्कस्मिन्काले गेयमिति केषाञ्चिच्छन्दोगादीनां कालविशेषाश्रवणात्कालाविशेषप्राप्तौ सूर्ये समयाध्युषिते समीपाध्युषिते सूर्यस्योदयसंनिधौ षोडशिस्तोत्रमुपाकर्तव्यमिति विशेषधीरार्चादिश्रुतेर्भवत्यृचोऽधीयत इत्यार्चास्तदीयश्रुतेर्विेशेषधीः । यद्वा ‘समयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति’ इति तैत्तिरीयश्रुतेः षोडशिस्तोत्रेऽर्धास्तमितकालविशेषसिद्धिरित्यर्थः ।
उपगानं विभजते -
यथैवेति ।
ऋत्विज उपगायन्तीत्यविशेषेणोपगानाम्नानान्नाध्वर्युरुपगायतीत्यध्वर्युवर्जिता ऋत्विज उपगायन्तीति विशेषेणोपगानमिति शेषः ।
दृष्टान्तेष्वभीष्टमंशमनूद्य दार्ष्टान्तिकमाह -
यथेति ।
दृष्टान्तेऽपि श्रुत्यन्तरस्य श्रुत्यन्तरान्वयो मा भूद्भवन्त्वेतानि स्वतन्त्राण्येव वाक्यानीत्याशङ्क्याह -
श्रुत्यन्तरेति ।
विकल्पोऽपि व्रीहियववदस्तु नेत्याह -
स चेति ।
अगतिका हीयं गतिर्यद्विकल्पाश्रयणं तस्याष्टदोषदुष्टत्वात् । तथाहि - व्रीहिभिर्यवैर्वा यजेतेति वाक्यद्वयमपि मानं तत्र व्रीहिवाक्याश्रवणे यववाक्यमनाश्रयणीयं श्रुतनैरपेक्ष्यविरोधाद्युगपदुभयानुष्ठानायोगात् । अतो यववाक्यस्थं मानत्वं हेतुमृते त्याज्यं तस्य त्यक्तमानत्वस्यामानत्वमेष्टव्यम् । केनापि हेतुना प्रयोगाङ्गत्वेन यवाङ्गीकारे त्यक्तमानत्वस्य पुनराश्रयणं तन्निरासेन स्वीकृतामानत्वस्य पुनस्त्यागश्चेत्येकस्मिन्वाक्ये चत्वारो दोषाः । द्वितीयेऽपि वाक्ये प्राप्तत्यागाप्राप्ताश्रयणत्यक्तस्वीकारोपात्तत्त्यागा इति त एव दोषाः । तथापि तुल्यबलत्वाद्गत्यन्तराभावाच्च व्रीहियववाक्ययोर्विकल्पोऽङ्गीकृतः । यथाहुः - ‘एवमेषोऽष्टदोषोऽपि यद्ब्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते’ इति । इह तु सत्यां गतौ न तदाश्रयणमित्यर्थः ।
अष्टदोषविकल्पपरिहाराय वाक्यान्तरशेषत्वं वाक्यान्तरस्य जैमिनेरपि संमतमित्याह -
तदुक्तमिति ।
द्वादशाध्याय्यां मीमांसायां दाशमिकमुदाहरति -
अपि त्विति ।
दीक्षितो न ददाति न जुहोति न पचतीति ज्योतिष्टोमाधिकारे श्रुतं तत्र किं सर्वदानहोमपाकानां निषेधः किंवा तेषामक्रतुप्रयुक्तानामथ वा तत्प्रयुक्तानामपि चोदकप्राप्तानामाहो पर्युदास इति संशये सर्वहोमादिनिषेधे प्रत्यक्षविधिविरोधादक्रतुप्रयुक्तानां वा तत्प्रयुक्तानामपि चोदकप्राप्तानामानुमानिकतया निषेधस्य प्रत्यक्षाविरुद्धत्वेन निषेद्धुं शक्यत्वान्निषेध इति प्राप्ते सिद्धान्तसूत्रमपि त्वित्यादि ।
तुशब्दोऽवधारणार्थो नायं निषेधः किन्तु न दीक्षितोऽदीक्षित इत्युक्तानामितरेषामविशेषेण होमादीनां ज्योतिष्टोमे कस्य पर्युदासः स्यादित्यत्र हेतुमाह -
वाक्येति ।
अहरहर्दद्यादितिविशेषस्य सत्त्वादिति यावत् ।
पर्युदासमनाश्रित्य निषेधेऽभीष्टे ज्योतिष्टोमे दानादीनां विकल्पः स्यात्स चान्याय्य इत्याह -
प्रतिषेध इति ।
‘अपि तु वाक्यशेषः । स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात् ‘ इत्येतद्दाशमिकं वा सूत्रमर्थद्वारा पठति -
अपि त्विति ।
एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्त इत्युपक्रम्याश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरे वषट्कार इति सप्तदशाक्षरं मन्त्रगणं सप्तदशकलिङ्गदेहसमष्टिरूपप्राजपतित्वेन स्तुत्वा यज्ञे यज्ञेऽन्वायत्तोऽनुगत इत्यनारभ्यवादेन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र च यज्ञेषु येयजामहकरणमुक्त्वा नानुयाजेष्विति श्रुतम् । तत्र नानुयाजेष्वितिनिषेधाद्विधिनिषेधसंनिपाताद्विकल्पो वा स्यात्पर्युदासेनानुयाजं वर्जयित्वेतरेषु यजतिषु येयजामहः कर्तव्य इति वाक्यशेषः सन्विधिरेव वेति सन्देहे विधिनिषेधयोः शास्त्रीयतया तुल्यबलवत्त्वेन षोडशिग्रहणाग्रहणवद्विकल्पे प्राप्ते सिद्धान्तितमपि त्विति । नानुयाजेष्वित्ययं न निषेधोऽपि तु येयजामहकरणविधेर्वाक्यशेषः सन्पर्युदासः स्यान्निषेेधे तु विकल्पो भवेत्तस्यान्याय्यत्वाद्येयजामहकरणविधीनां नानुयाजेष्विति पर्युदासः सन्नेकदेशः स्यादतः षोडशिग्रहणाग्रहणयोरगत्या विकल्पेऽपि प्रकृते प्रर्युदासेनोपपत्तौ तदभावादनुयाजवर्जितेषु यजतिषु येयजामहः कर्तव्य इति विधिरेवायमित्यर्थः ।
वर्णकान्तरमाह -
अथवेति ।
सुकृतदुष्कृते विधूनुत इत्यादौ विधूननशब्दं विषयीकृत्य धात्वर्थमुख्यतोपायनशब्दसंनिधिभ्यां संशयमाह -
किमिति ।
अर्थान्तरं चालनम् ।
मन्त्रादीनां विद्यासंनिधेरकिञ्चित्करत्ववदत्रापि विधूननशब्दस्योपायनशब्दसम्भिधिरप्रयोजक इत्यमिप्रेत्य पूर्वपक्षमाह -
तत्रेति ।
पूर्वपक्षे विद्यावशान्न सुकृतादितिवृत्तिः । सिद्धान्ते ततस्तत्सिद्धिः ।
पाणिनिस्मरणं पूर्वपक्षे हेतूकरोति -
धूञिति ।
लोकप्रयोगसामर्थ्याच्च विधूननस्य चालनतेत्याह -
दोधूयन्त इति ।
स्मृत्या लोकतश्च सिद्धं निगमयति -
तस्मादिति ।
कम्पनस्य मूर्त्यनुविधानादमूर्तयोः सुकतदुष्कृतयोर्न तद्युक्तमित्याशङ्क्य विशिष्टार्थक्रियाकारित्वाभावस्तद्धर्मोऽत्र लक्षणीय इत्याह -
चालनं त्विति ।
चालनस्य विधूननत्वे विद्यया न सुकृतादिध्वस्तिरिति फलं वक्तमितीत्युक्तम् ।
पूर्वपक्षमनुमाष्य सूत्राक्षरैः सिद्धान्तयति -
एवमिति ।
उपायनशब्दशेषत्वादित्युपायनशब्दसंनिधौ विधूननशब्दस्य श्रुतत्वादित्यर्थः ।
तदेव प्रपञ्चयति -
नहीति ।
पूर्वपक्षेऽपि लक्षणाध्रौव्याद्विधूननशब्दसंनिहितोपायनशब्दानुसारेण हानमेव लक्ष्यमित्यर्थः ।
उपायनास्यापि मुख्यस्यायोगात्तच्छेषतया कथं हानमित्याशङ्क्याह -
यद्यपीति ।
उपायनशब्दस्य विधूननशब्दसंनिधौ क्वचिदेव भावात्कथं तद्वशान्निर्णयः, तत्राह -
क्वचिदपीति ।
यथा कुशादिषु क्वचिदुक्तेषु सन्दिग्धेषु श्रुत्यन्तरान्निर्णयोऽङ्गीकृतस्तथेदमुपायनं विधूननसंनिधौ क्वचिदेव श्रुतमपि यत्र यत्र विधूननं श्रूयते तत्र तत्र सर्वत्र तत्सन्दिग्धार्थनिर्णायकत्वेनापेक्षितं निर्णायकमित्यर्थः ।
यत्तु लौकिकप्रयोगाद्विधूननं कम्पनमेवेति, तत्राह -
नचेति ।
दृष्टान्ते कम्यनस्यैव दृष्टेर्दाष्टान्तिकेऽपि तदेव ग्राह्यमित्याशङ्क्याह -
अश्वश्चेति ।
हानमपि तत्र भातीत्यर्थः ।
तथापि दार्ष्टान्तिके विधूननं चालनमेवेत्याशङ्क्य तयोस्तुल्यत्वान्मैवमित्याह -
अश्व इवेति ।
यत्तु पाणिनिस्मरणाद्विधूननं कम्पनमेवेति, तत्राह -
अनेकेति ।
श्रुत्यन्तरस्थो विशेषः श्रुत्यन्तरेऽनाश्रितश्चेद्विकल्पः सर्वत्र स्यात् ।
स चायुक्तः सत्यां गताविति पर्युदासाधिकरणे व्युत्पादितमित्याह -
तदुक्तमिति ॥ २६ ॥
कर्मक्षयहेतुत्वं विद्यायाः सिद्धं कृत्वा हानसंनिधावुपायनोपसंहारो दर्शितः, सम्प्रति तदेवासिद्धं मार्गमध्ये श्रुतकर्मक्षयस्य विद्याहेतुकत्वाभावादित्याशङ्क्याह -
साम्पराय इति ।
यद्वा द्वितीयवर्णकोक्तविधूननशब्दस्य हानस्य कालोऽनेन निरूप्यते ।
विधूननं हानमित्युक्त्वा तदेव क्वचिद्व्यध्वन्यर्धपथे श्रुतं विचारयितुं विचारविषयमाह -
देवयानेनेति ।
उक्तं विभागवचनमधिकृत्य श्रुतिविप्रतिपत्त्या संशयमाह -
तदिति ।
अश्व इव रोमाणि विधूय पापमित्यारभ्य धूत्वा शरीरमित्युक्त्वा ब्रह्मलोकमभिसम्भवामीति श्रुत्या देहत्यागात्प्रागेव सुकृतादिहानोक्तेर्विद्यासामर्थ्याच्च जीवत एव तद्धानसिद्धेः सति पुष्कले हेतौ कार्यक्षेपायोगाद्विद्यायाश्च कर्मक्षये पुष्कलहेतुत्वात्सुकृतदुष्कृते विधूनुत इत्यत्र च पाठक्रमादर्धपथे सुकृतादित्यागानुगमात्पाठक्रमाच्चार्थक्रमस्य बलवत्त्वात्पूर्वपक्षाभावमाशङ्क्य तत्प्राप्तिमाह -
श्रुतीति ।
तत्सुकृतदुष्कृते विधूनुत इत्येतन्न पाठमात्रं किन्तु तच्छब्देन सर्वनाम्ना तस्मादिति हेत्वर्थेन विरजानद्यतिक्रमस्य विधूननं प्रति हेतुतां वदन्ती श्रुतिरियम् । नच श्रुत्यन्तरविरोधोऽर्धपथेऽपि कर्मक्षयस्य ब्रह्मलोकसम्भवनात्प्राक्कालत्वसिद्धेरिति भावः । विधूननशब्दवत्सुकृतादिहानस्य कालोक्तिद्वारा वाक्यार्थधीहेतुकथनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यासामर्थ्यानादरः ।
सिद्धान्ते तदादरणमित्यभिप्रेत्य पूर्वपक्षप्राप्तिमुक्त्वा सिद्धान्तसूत्रमवतार्य योजयति -
पठतीत्यादिना ।
किं फलवशादर्धपथे दुष्कृतादिहानं कल्प्यं किंवा तत्रैव हानहेतोः सत्त्वात् । तत्राद्यं प्रत्याह -
नहीति ।
सम्परेतस्य परलोकं प्रति प्रस्थितस्येत्यर्थः ।
द्वितीयं निराह -
विद्येति ।
अनपाकृतपापस्य देवयानेन पथा गमनायोगाज्जीवत एव विदुषो विद्यासामर्थ्यात्पापहानमित्यर्थः ।
का तर्हि कौषीतकिश्रुतेर्गतिः, तत्राह -
तस्मादिति ।
तदितिसर्वनामश्रुत्या प्रकरणपठितविद्यायाः प्राधान्यात्परामर्शाद्विरजानद्यतिक्रमस्यानन्तरप्रकृतस्याप्यप्राधान्यादपरामर्शात्पाठक्रमबाधेनार्थक्रमः स्वीकर्तव्य इत्यर्थः ।
किञ्च सति पुष्कलहेतौ कार्यं भवत्येवेतिन्यायानुगृहीतं श्रुत्यन्तरमेव बलवदिति मत्वा श्रुत्यन्तरमुदाहरति -
तथाहीति ।
नहि तस्याविरोधेन नयनं पूर्वपक्षे युक्तं विधूय पापमिति विधूनने पुंसः स्वातन्त्र्यदृष्टेरित्याशयेनाह -
अश्व इवेति ।
किञ्च प्रागवस्थायामेव सुकृताद्यादानस्य श्रुतत्वादृते च तत्त्यागात्तदादानायोगान्नार्धपथे कर्मनिवृत्तिरित्याह -
तस्येति ॥ २७ ॥
विद्याफलत्वाद्ब्रह्मलोकाप्तिवत्कर्मक्षयोऽपि देहत्यागादूर्ध्वं स्यादित्याशङ्क्याह -
छन्दत इति ।
सूत्रं व्याचष्टे -
यदि चेति ।
जीवतो ब्रह्मलोकाप्तेरयोगाद्देहपातापेक्षा कर्महानेस्तु देहवत एव सिद्धेर्नैवमित्यर्थः ।
छन्दतः स्वच्छन्दतः स्वेच्छयेति व्याकरोति -
इच्छात इति ।
अर्धपथे हेत्वनुष्ठानासिद्ध्या साध्यासिद्धौ फलितमाह -
तस्मादिति ।
उभयाविरोधादिति भागं व्याकरोति -
एवमिति ।
समर्थस्य क्षेपायोगात्पूर्णे हेतावनन्तरमेव कार्योत्पत्तिरन्यथा निमित्तनैमित्तिकत्वमेव तयोर्न स्यादित्यर्थः ।
सूत्रपदस्यार्थान्तरमाह -
ताण्डीति ।
इत्थं विद्यासामर्थ्यात्प्रागेव सुकृतादिनिवृत्तिरित्युपसंहर्तुमितीत्युक्तम् ॥ २८ ॥
सुकृतादिहानसंनिधानोक्तदेवयानगतेरुपायनवदेव सार्वत्रिकत्वप्राप्तावुक्तम् -
गतेरिति ।
विचारविषयमाह -
क्वचिदिति ।
संशयार्थं कोट्यन्तरमाह -
क्वचिन्नेति ।
हानसंनिधौ मार्गश्रुतेर्विशेषाज्ञानाच्च मार्गविषये संशयमाह -
तत्रेति ।
हानसंनिधौ क्वचिदेव श्रुतोपायनस्य सार्वत्रिकत्ववत्कचिदेव कर्मक्षयसंनिध्युक्तस्य पथो देवयानस्य केवलक्षयश्रवणेऽपि युक्ताऽनुवृत्तिरिति सङ्गतिगर्भं पूर्वपक्षमाह -
यथेति ।
निर्गुणब्रह्मविद्या गतिमती ब्रह्मविद्यात्वात्सगुणब्रह्मविद्यावदिति भावः । प्रासङ्गिकविधूननसमयोक्त्या प्रस्तुतगुणोपसंहारोक्तेरपवादोक्तिद्वारा विचारस्य वाक्यार्थज्ञानोपायगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे निर्गुणविदोऽपि गत्यपेक्षाया नियतिः ।
सिद्धान्ते सगुणविद्यावत एव तदपेक्षेति विवक्षित्वा सिद्धान्तयति -
अस्यामिति ।
प्रतिज्ञां व्याख्याय हेतुं व्याख्याति -
अन्यथेति ।
विरोधमेव साधयति -
कथं हीति ।
सर्वगतस्यासङ्गस्यात्मनो नोपाध्यतिरेकेण गत्युपपत्तिरित्यर्थः ।
गन्तृरूपालोचनया गतेरयोगमुक्त्वा गन्तव्यरूपालोचनयापि तदयोगमाह -
गन्तव्यं चेति ।
स्वतो भिन्नयोरैक्यायोगादाविद्ये भेदे विद्ययैव तन्निवृत्तेर्विद्यायाश्च स्वोत्पत्तौ स्वफले वा देशभेदापेक्षाभावादनर्थिका गतिरित्युपसंहरति -
इतीति ।
निर्गुणब्रह्मधीः सप्तम्यर्थः ॥ २९ ॥
निर्गुणविद्यायां गतिर्व्यर्थेति प्राधान्येनोक्त्वा पर्यङ्कविद्यादौ प्राधान्येन तदर्थवत्त्वमाह -
उपपन्न इति ।
तत्र प्रतिज्ञां व्याकरोति -
उपपन्नश्चेति ।
क्वचिदर्थवती गतिरित्यत्र हेतुमवतार्य लक्षणशब्दस्य लक्षणया कारणार्थत्वं गृहीत्वा व्याचष्टे -
तदिति ।
उपलब्धिमेवाभिनयति -
तत्रेति ।
देशाद्देशान्तरप्राप्त्यायत्ते फले श्रुते फलितमाह -
तत्रेति ।
पर्यङ्कविद्यासगुणोपास्तिः सप्तम्यर्थः ।
निर्गुणविद्यायामपि हेतुरस्तीत्याशङ्क्याह -
न त्विति ।
तदेवोपपादयति -
नहीति ।
तेषां प्राप्तपरानन्दत्वमाह -
आप्तेति ।
इहेति जीवदवस्थोक्तिः ।
निरस्तसमस्तानर्थत्वमाह -
दग्धेति ।
तर्हि सद्यो देहपातः स्यान्नेत्याह -
आरब्धेति ।
हेतोर्व्यभिचारं निरस्य क्वचिन्नेत्युक्तं निगमयति -
तत्रेति ।
सम्यग्धीः सप्तम्यर्थः । निर्गुणब्रह्मविन्नार्चिरादिगतिमान्मुक्तिफलभाक्त्वान्मुच्यमानहिरण्यगर्भवदिति भावः ।
क्वचिदर्थवती गतिः क्वचिन्नेत्युक्तं सौत्रेण दृष्टान्तेन स्पष्टयति -
लोकवच्चेति ।
इहेति सगुणनिर्गुणविद्योक्तिः । इतिशब्दः सूत्रव्याख्यासमाप्तौ ।
‘तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुतेर्देवयानेनाध्वना गतस्यैव मुक्तिरित्याशङ्क्याह -
भूयश्चेति ॥ ३० ॥
सगुणनिर्गुणविद्यासु गतिभाव भावव्यवस्थावत्सगुणविद्यास्वपि व्यवस्थामाशङ्क्याह -
अनियम इति ।
वृत्तं कीर्तयति -
सगुणास्विति ।
गतेर्द्विधार्थवत्त्वे स्थिते किमनेनाधिकरणेनेत्याशङ्क्य विषयमाह -
सगुणास्वपीति ।
विचारबीजं संशयं वक्तुं कोट्यन्तरमाह -
नेति ।
अर्चिरादिपर्वाणं पन्थानमधिकृत्य विद्याविशेषाधिकाराद्वाक्यादविशेषदृष्टेश्च संशयमाह -
तत्रेति ।
सगुणासु विद्यासु गतेः सार्वत्रिकत्वोक्त्या वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे नियताया गतेरुपसंहारासिद्धिः । सिद्धान्ते त्वनियतायाः सार्वत्रिकत्वमित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किमिति ।
नियमं व्याकरोति -
तत्रेति ।
तत्र हेतुः -
प्रकरणस्येति ।
हेतुं व्यतिरेकतो विवृणोति -
यदीति ।
प्राकरणिके सामान्यसम्बन्धे श्रुत्यादिभ्यो विशेषविनियोगधीः । यत्र श्रुत्यादय एव विनियोजका न प्रकरणं तत्रापि तन्निर्वाहाय प्रकरणं कल्प्यम् । तदभावे दर्शपूर्णमासज्योतिष्टोमादिधर्माणां सङ्करात् । तस्माद्विनियोगाय तन्निर्वाहाय च प्रकरणध्रौव्यम् । अन्यथा श्रुत्याद्यप्रामाण्यात्तेन प्राकरणिकी विशेषसङ्गतिरित्यर्थः ।
न केवलं नियमे प्रकरणमेव प्रमाणं किन्तु लिङ्गमपीत्याह -
अपिचेति ।
एकत्रोक्तस्य सर्वत्र सम्बन्धसिद्धौ पुनरुक्तिरनर्थिकेत्यर्थः ।
लिङ्गप्रकरणाभ्यां वाक्यबाधं मत्वोपसंहरति -
तस्मादिति ।
नियता गतिर्नोपसंहारार्हेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
अनियमं व्याचष्टे -
सर्वासामिति ।
कर्मसमृद्ध्यादिफलोपासनानि व्यवच्छिनत्ति -
अभ्युदयेति ।
अनियमे प्रकरणविरोधं स्मारयति -
नन्विति ।
सूत्रावयवेनोत्तरमाह -
नेति ।
गतेर्वाक्यीयान्वयस्य सार्वत्रिकत्वाद्दुर्बलं प्रकरणं बाध्यमित्यभिप्रेत्य श्रुतिमाह -
तथाहीति ।
तत्तत्राधिकृतानां मध्ये ये केचिद्द्युलोकादीनग्नित्वेन विदुस्तेऽर्चिषमभिसम्भवन्तीति सम्बन्धः । ये चेत्यत्रापि तथैवान्वयः ।
अविशेषेण विद्यान्तरशालिनां देवयानप्रापकवाक्येन प्रकरणं बाध्यमित्युक्तम् । इदानीं वाक्यं न विद्यान्तरशीलिनामपि देवयानप्रापकमिति शङ्कते -
कथमिति ।
वाक्यस्य तर्हि कोऽर्थः स्यादित्याशङ्क्याक्षेप्तैवाह -
नन्विति ।
श्रद्धातपोनुष्ठानमात्रस्य श्रुतत्वात्तन्निष्ठानामेव गतिर्वाक्येनोक्ता स्यादित्यर्थः ।
वाक्यान्यथासिद्धिं दूषयति -
नेति ।
अविदुषामेषा गतिर्नेत्यत्र श्रुतिं हेतुमाह -
विद्येति ।
तदित्युक्तं ब्रह्मलोकाख्यस्थानं विशिनष्टि -
यत्रेति ।
यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता व्यावृत्ताः कामक्रोधादिस्पर्शवर्जितं प्राप्यं ब्रह्मलोकस्थानमित्यर्थः । दक्षिणा दक्षिणमार्गगामिनः केवलकर्मिणस्तपस्विनोऽप्यविद्वांसो न तत्र गच्छन्तीत्यपिशब्दो ज्ञेयः ।
ये चेत्यादिवाक्यस्य तर्हि का गतिः, तत्राह -
तस्मादिति ।
उक्तच्छन्दोगवाक्यमिहेत्युक्तम् ।
उपलक्षणमन्तरेणापि विद्यान्तरशीलिनामियं गतिरवगतेत्याह -
वाजेति ।
तत्रापि सत्यशब्देन सत्यार्थोक्तेरेव सङ्ग्रहात्कुतो विद्यान्तरयुक्तानां गतिधीरित्याशङ्क्याह -
तत्रेति ।
तेऽर्चिषमभिसम्भवन्तीति सम्बन्धः ।
सत्यशब्देन ब्रह्मोक्तौ हेतुमाह -
सत्येति ।
‘सत्यं ज्ञानमनन्तं ब्रह्म', ‘तत्सत्यं स आत्मा', ‘सत्यस्य सत्यम्’ इत्येवमादावित्यर्थः ।
सत्यार्थवचनग्रहात्सत्यार्थग्रहो लघीयानित्युक्तम् । इदानीं पञ्चाग्निविद एव सत्यमुपासत इति कस्मान्न गृह्यन्त इत्याशङ्क्य तेषां पृथग्गृहीतत्वादित्याह -
पञ्चेति ।
इतश्च विद्यान्तरशीलिनां गतिरिति लिङ्गदर्शनं समुच्चिनोति -
अथेति ।
एनानिति विद्यान्तरपरा गृह्यन्ते तथापि कथं देवयानयोगस्तेषामित्याशङ्क्य योग्यतयेत्याह -
तत्रापीति ।
श्रुतिस्मृतिभ्यां प्रकरणविरोधसमाधिं प्रतिज्ञाय श्रुतिरुक्ता ।
सम्प्रति स्मृतिमाह -
स्मृतिरिति ।
जगतो ज्ञानकर्माधिकृतस्येत्यर्थः ।
परोक्तं लिङ्गमनूद्यान्यथासिद्धिमाह -
यदिति ।
लिङ्गवाक्याभ्यां प्रकरणं भङ्क्त्वा सगुणविद्यासु गतेः सार्वत्रिकत्वमुपसंहरति -
तस्मादिति ॥ ३१ ॥
सगुणविद्यासु व्यवहितफलासु सर्वास्वपि गतिरर्थवतीत्युक्तम् । इदानीं निर्गुणायामपि विद्यायां सद्योमुक्तिफलत्वानवगमात्कालान्तरभाविफलत्वाविशेषादविशिष्टा गतेरर्थवत्तेत्याशङ्क्याह -
यावदिति ।
विषयसंशयौ दर्शयति -
विदुष इति ।
अकारणकसंशयायोगं मन्वानो विचारमाक्षिपति -
नन्विति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।
सत्यां सामग्र्यामसति प्रतिबन्धे कार्यनिश्चयेऽपि कुतो विद्यया सद्योमुक्तिरित्याशङ्क्याह -
नापीति ।
संशयाभावादधिकरणानारम्भं परिहरति -
उपपन्नेति ।
विदुषामपि केषाञ्चिदमुक्तेः संशयसिद्धिरित्युपपत्तिमेव दर्शयति -
ब्रह्मेति ।
दर्शनमेव विशदयति -
तथाहीति ।
सर्वेषामेव तेषां कर्मनिष्ठत्वमाशङ्क्योक्तम् -
सनस्कुमारोऽपीति ।
उक्तन्यायमतिदिशति -
एवमिति ।
स्मृतेर्मूलाभावादप्रामाण्यमाशङ्क्याह -
श्रुताविति ।
उपलभ्यते पूर्वोक्ता कथेति शेषः ।
सनत्कुमारादीनां पूर्वदेहत्यागान्न देहान्तरोत्पत्तिरित्याशङ्क्याह -
ते चेति ।
एकस्यैव मायाविनो युगपदनेकदेहादानदृष्टान्तोऽनेकदेहादानन्यायः ।
तर्हि ते न ब्रह्मविदः, तत्राह -
सर्वे चेति ।
अनुपलब्धिहेतुकं संशयमुपसंहरन्विचारोपपत्तिं निगमयति -
तदेतेषामिति ।
निर्गुणविद्यायां गतिं प्रतिषिध्य सगुणविद्यायां तत्प्रयोजकैश्वर्यविशेषदर्शनादर्थवती सर्वत्र गतिरित्युक्ते निर्गुणविद्यायामपि मोक्षासिद्धेरैश्वर्यफलत्वे वाच्ये गतिरुपसंहर्तव्येति पूर्वपक्षमाह -
अहेतुत्वमिति ।
वाशब्दोऽवधारणे । ब्रह्मविद्या न संसारविरोधिनी ब्रह्मविद्यात्वाद्वसिष्ठादिनिष्ठब्रह्मविद्यावत् । नच तस्य तावदेव चिरमित्यादिश्रुतिविरोधः प्रशंसार्थतया तदुपपत्तेरिति भावः । निचाय्य तमित्यादिश्रुतेर्ब्रह्मविद्याया मोक्षहेतुत्वोक्तौ तात्पर्यसिद्धेः स्तुतिमात्रत्वानुपपत्तेर्वसिष्ठादीनां ब्रह्मविदामधिकारप्रतिबन्धान्मुक्त्यभावस्यान्यथासिद्धेरप्रतिबद्धाया विद्याया न मोक्षं प्रत्यहेतुतेति कुतो गत्युपसंहार इत्युक्त्या वाक्यार्थधीहेतुनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे धियो मोक्षहेतुत्वाद्गत्युपसंहारः ।
सिद्धान्ते तस्यास्तद्धेतुत्वध्रौव्यात्तदनुपसंहार इत्यभिप्रेत्य सिद्धान्तयति -
अत इति ।
ब्रह्मविद्याया मोक्षं प्रत्यहेतुत्वं निषेधति -
नेति ।
ब्रह्मवित्स्वेव केषुचिन्मोक्षादृष्टेरहेतुत्वं कथं निषिध्यत इत्याशङ्क्य प्रतिबन्धाभावमपेक्ष्य विद्या मोक्षहेतुरिति मत्वाह -
तेषामिति ।
यावदधिकारं तावदस्थितिरित्यत्र दृष्टान्तमाह -
तथेति ।
तत्र मानमाह -
अथेति ।
आधिकारिकैश्वर्यहेतुकर्मक्षयानन्तरं ततः पश्चादूर्ध्वो विलक्षणः सन्नुदेत्योद्गम्य पुनरादित्यो नैवोदेता नास्तमेता किं त्वेकल एवाद्वितीयो मध्ये स्वात्मनि स्थाता स्यादित्यर्थः ।
तत्रोदाहरणान्तरमाह -
यथा चेति ।
तत्रापि मानमाह -
तस्येति ।
दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
ब्रह्मविदोऽपि देहान्तरप्राप्तिः प्रारब्धकर्मातिरिक्तकर्मकृता देहान्तरप्राप्तित्वादविद्वद्देहान्तरप्राप्तिवदित्याह -
सकृदिति ।
देहान्तरं कर्मान्तरायत्तमिति न व्याप्तिरेकस्मादपि ब्रह्मवदादेः श्वसूकराद्यनेकदेहस्मरणादित्यर्थः ।
किं तर्हि तेषामस्मदादिभ्यो वैषम्यं, तत्राह -
स्वातन्त्र्येणेति ।
स्वतन्त्राश्चेत्किमिति देहान्तरं गृह्णन्तीत्याशङ्क्यारब्धाधिकारफलकर्मक्षयायेत्याह -
स्वाधिकारेति ।
देहान्तरग्रहे स्मृतिभ्रंशः स्यादित्याशङ्क्याह -
अपरिमुषितेति ।
तथापि देहादिपारतन्त्र्यमाशङ्क्याह -
देहेति ।
तथापि कथमनेकेषु देहेष्वधिष्ठातृत्वं, तत्राह -
निर्मायेति ।
उत्पद्यमानानामपरिमुषितस्मृतित्वेऽपि जातिस्मरत्वमेव न वसिष्ठादिनामत्वमित्याशङ्क्याह -
नचेति ।
ब्रह्मविदां स्वातन्त्र्येण देहान्तरसञ्चारे दृष्टान्तमाह -
यथेति ।
व्युद्य विवादं कृत्वा ।
कथमेतावता ज्ञानस्य नियतफलत्वमित्याशङ्क्य व्यतिरेकेणैतदुपपादयति -
यदीति ।
कर्मान्तरमारब्धकर्मातिरिक्तं कर्मेति यावत् ।
देहान्तरं वर्तमानदेहातिरिक्तो भाविदेहः ज्ञानस्यैकान्तिकफलत्वं व्यतिरेकतः श्रुतिस्मृतिभ्यामुक्त्वा क्रमेण श्रुतिस्मृती दर्शयति -
तथाहीत्यादिना ।
अनादिभवपरम्परासञ्चितस्यानियतकालविपाकस्य कर्मणोऽसङ्ख्यात्वात्कुतो निःशेषकर्मक्षयः, तत्राह -
नचेति ।
नाशपुष्कलहेतुयोगे नाश्यैकदेशस्यार्थक्रियाभावे दृष्टान्तमाह -
नहीति ।
तर्हि प्रारब्धमपि कर्म नाशहेतुसांनिध्यान्नश्येदिति कुतो वसिष्ठादेर्देहधारणेत्याशङ्क्याह -
प्रवृत्तेति ।
यथा मुक्तस्येषोर्बलवत्प्रतिबन्धकाभावे मध्ये न क्षयस्तथा प्रवृत्तफलस्यापि कर्मणो मध्ये नास्ति क्षयः । जातेऽपि ज्ञाने मोक्षस्य देहपातावधिकरणादारब्धकर्मोपादानाज्ञाननिवर्तने तस्यासामर्थ्यात् । अतः श्रुतिस्मृतिप्रामाण्यादनारब्धमेव कर्म नश्यति न त्वारब्धमित्यर्थः । अप्रवृत्तफलकर्मनिवृत्तावपि प्रवृत्तफलस्य कर्मणो न भोगादृते निवृत्तिरिति स्थिते ज्ञानिनोऽपि देहान्तरं ज्ञानस्यैकान्तिकफलत्वं चाविरुद्धमित्युक्तमुपसंहरति -
तस्मादिति ।
कर्मज्ञानाधिकृतानां मनुष्याणामेव तर्हि मोक्षो नान्येषां तदभावादित्याशङ्क्याह -
तथाचेति ।
किञ्चाधिकारिकेषु केषुचिदमुक्त्या ज्ञानस्यानैकान्तिकफलत्वं किंवा सर्वेषु तेष्विति विकल्प्याद्ये पूर्वोक्तसमाधिं सिद्धवत्कृत्य द्वितीयं प्रत्याह -
ज्ञानान्तरेष्विति ।
तेषां ज्ञानाभावादेवामुक्तिरित्यर्थः । ऐश्वर्यभेदस्त्वादिशब्दार्थः ।
तर्हि तेषामैश्वर्यासक्तानां न कदाचिन्मुक्तिः, तत्राह -
ते पश्चादिति ।
निर्विण्णा विरक्ताः ।
तेषां क्रममुक्तौ मानमाह -
ब्रह्मणेति ।
प्रसिसञ्चरो महाप्रलयः । कृतात्मानः संस्कृतान्तःकरणा ज्ञानिनः ।
ज्ञानस्य नियतफलत्वे हेत्वन्तरमाह -
प्रत्यक्षेति ।
भुजिवद्धियोऽन्वयव्यतिरेकसिद्धफलत्वान्न फलाभावशङ्केत्यर्थः ।
उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -
कर्मेति ।
ज्ञानफले तुल्यमनुभवानारूढत्वमित्याशङ्क्याह -
अनुभवेति ।
तत्कथमित्यपेक्षायां प्रत्यक्षवस्तुविषयत्वादित्याह -
यदिति ।
परिनिष्पन्नवस्तुविषयत्वाच्च ज्ञानस्य प्रत्यक्षफलतेत्याह -
तत्त्वमिति ।
उपास्तिसाध्यत्वाद्ब्रह्मभावस्यासिद्धं ज्ञानस्य परिनिष्पन्नविषयत्वमित्याशङ्क्याह -
नहीति ।
वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चायुक्त इत्यर्थः ।
इतश्च ज्ञानस्यैकान्तिकफलतेत्याह -
तद्धेति ।
अव्यवहिते क्रियाहेतौ शतुर्विधानात्पुष्कलहेतुत्वं सर्वात्मत्वं प्रति सम्यग्धियः सिद्धमित्यर्थः ।
श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ३२ ॥
आधिकारिकाणामारब्धकर्मवशोद्देहान्तरारम्भसिद्धेर्न कर्मान्तरनिमित्ततेत्युक्तम् । तथेहापि तत्तत्प्रकरणाधीतनिषेधैरेवोपलक्षणतया सर्वद्वैतनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुतेत्याशङ्क्याह -
अक्षरेति ।
विषयं वक्तुं वाक्यमुदाहरति -
वाजसनेयक इति ।
अन्यत्रापीत्यदृश्येनात्म्य इत्यादाविति यावत् ।
निषेधमुखेन ब्रह्मवादितत्तद्वाक्यस्थापुनरुक्तशब्दान्विषयत्वेन परिशिनष्टि -
तत्रेति ।
तानधिकृत्य न्यायसम्भवोपकारासम्भवाभ्यां संशयमाह -
तासामिति ।
बुद्धिग्रहणं तत्पूर्वकशब्दोपलक्षणार्थम् ।
विद्यैक्येऽपि शरीरानुपसंहारवदनुपसंहारो निषेधशब्दानामिति पूर्वपक्षयति -
श्रुतीति ।
तत्र श्रुतानामेव निषेधशब्दानामुपलक्षणत्वेनाशेषद्वैतनिषेधद्वारा निर्विशेषब्रह्मोक्तिसामर्थ्यादित्यर्थः । अपुनरुक्तनिषेधशब्दोपसंहारोक्तिद्वारा वाक्यार्थधीहेतुवादात्पादादिसङ्गतिः । पूर्वपक्षे श्रुतेरेव निषेधैरुपलक्षणतया सर्वनिषेधे निर्विशेषब्रह्मप्रमित्या लाघवम् ।
सिद्धान्ते लक्षणैकदेशपरिशेषौ परिहृत्य निर्विशेषब्रह्मप्रमितिनैराकाङ्क्ष्यमिति मत्वा सिद्धान्तयति -
उच्यत इति ।
अक्षरे धर्मिणि द्वैतनिषेधधियोऽक्षरस्य धिय इत्यर्थकं सूत्रपदं व्याचष्टे -
अक्षरेति ।
तत्र हेतुमवतार्य विभजते -
सामान्येति ।
आरोपितविशेषनिरासेन ब्रह्मोक्तेस्तत्र तत्र तुल्यत्वाद्ब्रह्मणश्च प्रतिपाद्यस्य सर्वत्रैक्येन प्रत्यभिज्ञानात्तद्योगिनां शब्दप्रत्ययानामुपसंहार इत्यर्थः ।
श्रुतकतिपयनिषेधैरेव सर्वनिषेधोपलक्षणात्किमुपसंहारेणेत्याशङ्क्याह -
तत्रेति ।
अन्यत्रेति शाखाभेदोक्तिः । अनुपसंहारश्चेदश्रुतद्वैतनिषेधाय तत्र तत्र कतिपयनिषेधशब्दानां लक्षणा द्वैतैकदेशशेषो वा स्यात्ततो वरं द्वैतनिषेधात्कृत्स्नशब्दोपसंहारेणैकवाक्यत्वमित्यर्थः ।
तत्रानुग्राहकन्यायं दर्शयति -
तथाचेति ।
तर्हि पुनरुक्तिरित्याशङ्क्य भावाभावधर्मविषयतया परिहरति -
तत्रेति ।
तथापि न्यायसाम्यात्तदवस्थं पौनरुक्त्यं, तत्राह -
प्रपञ्चेति ।
ब्रह्मस्वरूपत्वादानन्दाद्युपसंहारेऽपि निषेधानामनात्मत्वान्निषेध्यानन्त्येनानन्त्याच्चैकत्रोपसंहारायोगार्त्किचिन्निषेधेनान्यलक्षणायां च श्रुतेनैव सिद्धेरुपसंहारानर्थक्यान्न निषेधोपसंहारसिद्धिरित्याशङ्क्य निषेधानामनात्मत्वेऽप्यात्मलक्षणतया तत्प्रमित्यर्थं सार्वत्रिकत्वान्निषेध्यद्वैतस्य भूतभौतिकत्वादिरूपस्य मितत्वेन तत्रापि मितिसिद्धेरुपसंहारः स्यादित्यभिप्रेत्योक्तम् -
प्रपञ्चार्थश्चेति ।
शाख्यान्तरोक्तानामपि प्रधानयोगिनामुपसंहार इत्यत्र दृष्टान्तमाह -
औपसदवदिति ।
निदर्शनं विवृणोति -
यथेति ।
जमदग्निः पुष्टिकामश्चतूरात्रेणायजतेत्युत्पन्ने जामदग्न्येऽहीने पुरोडाशिन्य उपसदो भवन्तीति तैत्तिरीये पुरोडाशयुक्तासूपसत्स्विष्टिषूपदिष्टासु पुरोडाशप्रदानमन्त्राणामुद्गातृवेदोत्पन्नानामुद्गात्रा प्रयोगे प्राप्तेऽध्वर्युप्रदानके पुरोडाशे विनियोगात्तस्य चोत्पत्त्यपेक्षया प्राधान्यात्तदनुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेत्यर्थः ।
उक्तमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
अत्रैवोदाहरणान्तरविवक्षया तार्तीयं सूत्रमुदाहरति -
तदुक्तमिति ।
याजुर्वेदिकेऽग्न्याधाने य एवं विद्वानग्निमाधत्त इति श्रुतेस्तदङ्गत्वेन य एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतीति तत्रैव सामगानं श्रुतं तत्र किमेतानि वारवन्तीयादीनि सामवेदोत्पन्नत्वात्तत्रोत्पन्नोचैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यानि किंवा यत्र विनियुज्यन्ते तत्रोत्पन्नोपांशुत्वेनेति सन्देहे सत्युत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गानां तस्यैव प्राथम्यात्तन्निमित्तोच्चैःस्वरे प्राप्ते प्रत्याह -
गुणेति ।
उत्पत्तिविधिर्गुणो विनियोगविधिर्मुख्यस्तयोर्व्यतिक्रमो विरोध उत्पत्तिविध्यालचनयोच्चैस्त्वं विनियोगविध्यालोचनयोपांशुत्वमिति तस्मिन्व्यतिक्रमे सति मुख्येन प्रधानेन विनियुज्यमानेन रूपेण वारवन्तीयादेर्वेदस्य संयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेनेति प्रतिज्ञायां हेतुमाह -
तदर्थत्वादिति ।
उत्पद्यमानस्य विनियुज्यमानार्थत्वाद्यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरत्वं विनियोगस्य याजुर्वेदिकवाक्यैरेव प्राप्तेस्तत एव समीहितार्थप्रतिलम्भात्तदर्थान्येवोत्पत्तिवाक्यानीति तस्यैव स्वरस्यार्थसंस्पर्शिनो ग्रहणमित्यर्थः । उदाहरणान्तरं तु समानन्यायतया दर्शितमिति न शाबरविरोधः ॥ ३३ ॥
प्रतिरपाद्यब्रह्मप्रत्यभिज्ञानाज्ज्ञानैक्येऽक्षरधियामुपसंहारवत्प्रतिपाद्यभेदाद्विद्याभेदः स्यादित्याशङ्क्याह -
इयदिति ।
गुहां प्रविष्टावित्यत्र सिद्धार्थमपि वाक्यमुपसंहारानुपसंहारप्रसङ्गात्पुनरुदाहरति -
द्वा सुपर्णेति ।
तथाविधमेव काठकवाक्यमपि पठति -
तथेति ।
मन्त्रद्वयं विषयीकृत्य प्रतिपादनप्रकारभेदाद्विद्याभेदभानात्प्रतिपाद्यासंसार्यात्मदृष्टेस्तदैक्यदृष्टेश्च संशयमाह -
किमिति ।
मन्त्रद्वयेऽपि विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवोक्तत्वात्पादादिसङ्गतिः ।
पूर्वपक्षे गुणानुपसंहारः सिद्धान्ते तदुपसंहार इत्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किं तावदिति ।
अर्थैक्यदृष्टेर्न विद्यानानात्वमिति शङ्कते -
कुत इति ।
रूपभेददृष्टेरर्थैक्यधीरसिद्धेत्याह -
विशेषेति ।
तदेव विवृणोति -
द्वासुपर्णेति ।
भोक्त्रभोक्त्रोर्द्वा सुपर्णेत्यत्र वेद्यता भोक्त्रोरेवान्यत्रेति वेद्यभेदाद्विद्याभेदः । नच छत्रिन्यायेन पिबान्ताविति लक्षणा मुख्यसम्भवे तदयोगात् । नच वाक्यशेषाल्लक्षणोपक्रमस्य मुख्यलाक्षणिकग्रहणविषये तुल्यबलत्वाभावादेव संशयानुपपत्तेः ।
नच प्रकरणं लक्षणाबीजं वाक्येन बाधादिति मत्वोपसंहरति -
तदिति ।
मन्त्रयोर्विद्यानानात्वमनुपसंहारश्चेति पक्षमनूद्य बहिरेव सिद्धान्तमाह -
एवमिति ।
तत्र प्रश्नपूर्वकं हेतुत्वेन सूत्रं योजयति -
कुत इति ।
इयत्तापरिच्छिन्नमित्येतदेव व्याचष्टे -
द्वित्वेति ।
रूपमेदाद्विद्याभेदं स्मारयति -
नन्विति ।
रूपभेदासिद्ध्या प्रत्याह -
नेति ।
अर्थान्तरशब्देन जीवो गृह्यते ।
जीवानुवादेन तद्याथार्थ्यं परमात्मतत्त्वं प्रतिपाद्यमित्येतदाथर्वणादिमन्त्रे साधयति -
द्वा सुपर्णेति ।
तत्र वाक्यशेषमनुकूलयति -
वाक्येति ।
तमेव दर्शयति । तथापि काठके भोक्रोरेवोक्तेर्नेश्वरार्थतेत्याशङ्क्याह -
ऋतमिति ।
मन्त्रद्वयेऽपि द्वित्वसङ्ख्यादृष्टेरुभयोस्तुल्यतां विना च द्वित्वसङ्ख्यायोगाच्चेतनस्य जीवस्य परमात्मैव चेतनत्वात्तुल्य इति पिबन्तावित्यस्य लक्षणा बलादायातीत्यर्थः ।
किञ्च प्रकरणादपि परमात्मैवात्र भातीत्याह -
परमात्मेति ।
उपक्रमवदुपसंहारोऽपि तद्विषय एवेत्याह -
तदिति ।
अत्रापीत्यपिशब्दादाथर्वणिकादिवाक्यं दृष्टान्त्यते । उपक्रमोपसंहारैकरूप्यान्मध्यमपि तथा नेयमिति भावः ।
सिद्धार्थत्वाच्च मन्त्रद्वयस्य परविषयतेत्याह -
गुहामिति ।
मन्त्रद्वयस्य परमात्मैकार्थत्वाद्रूपाभेदाद्विद्याभेदो नेति निगमयति -
तस्मादिति ।
न केवलं मन्त्रद्वयमेव परविषयं किन्तु तत्संनिध्याम्नातं सर्वमपि मन्त्रजातमित्याह -
अपिचेति ।
आथर्वणिकश्वेताश्वतरकाठकविवक्षया त्रिष्वित्युक्तम् ।
किमिति तर्हि जीवोपादानं तदाह -
तादात्म्येति ।
ऐक्यं वक्तुं जीवोऽनूद्यत इत्यर्थः ।
तदनुवादेन परप्रतिपादनेऽपि कुतो विद्यैक्यं, तत्राह -
नचेति ।
प्रागेव मन्त्रद्वयस्य सिद्धार्थत्वे किमनेनाधिकरणेनेत्याशङ्क्याह -
तस्मादिति ।
गुणोपसंहारप्रस्तावे मन्त्रद्वयविवरणं कुत्रोपयुक्तं, तत्राह -
तस्माच्चेति ॥ ३४ ॥
मन्त्रयोरर्थाभेदोक्तिप्रसङ्गेन ब्राह्मणयोरपि तुल्यार्थतामाह -
अन्तरेति ।
बृहदारण्यके पाञ्चमिकं ब्राह्मणद्वयमुदाहरति -
यदिति ।
घटादि संवित्कर्मत्वेनापरोक्षं ब्रह्म तु साक्षादपरोक्षं तदेव प्रत्यगात्मेत्याह -
य इति ।
स च सर्वान्तरो ब्रह्मणि सिद्धस्य सर्वान्तरत्वस्यात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि सङ्कीर्तनादुभयोरैक्यमित्यर्थः । तन्मे व्याचक्ष्वेति शेषः ।
ब्राह्मणद्वयं विषयीकृत्याभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशयमाह -
तत्रेति ।
पिबन्तावित्यस्य लाक्षणिकत्वं गृहीत्वा मन्त्रयोर्भोक्त्रभोक्तृपरत्वेनात्मैक्याद्विद्यैक्यमुक्तम् ।
इह त्वर्थैक्येऽपि न विद्यैक्यमभ्यासादिति पूर्वपक्षमाह -
विद्येति ।
हेतुं व्यतिरेकतः स्फोरयति -
अन्यथेति ।
एकस्यैव पुनः श्रुतिरविशेषादनर्थकं हि स्यादितिन्यायाद्यजत्यभ्यासेऽपूर्वकर्मभेदवद्विद्याभेद इत्युपसंहरति -
तस्मादिति ।
ब्राह्मणयोरेकार्थत्वेन विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवात्र चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः ।
सिद्धान्ते तदैक्यात्तदुपसंहारसिद्धिरिति सिद्धवत्कृत्य सिद्धान्तयति -
एवमिति ।
पूर्वसूत्रस्थमामननादितिपदमिहानुषक्तमित्यङ्गीकृत्य स्वात्मनोऽन्तराम्नानाविशेषादित्युक्तं तदेव स्फुटयति -
सर्वेति ।
तथापि कथं ब्राह्मणयोरैकार्थ्यं, तत्राह -
नहीति ।
द्वयोः सर्वान्तरत्वायुक्ते रूपैक्यसिद्धेर्विद्यैक्यमित्यर्थः ।
कथं पुनर्द्वयोः सर्वान्तरत्वानुपपत्तिर्मनोमयत्वादिवदुपपत्तेः, तत्राह -
तदाहीति ।
भूतग्रामदृष्टान्तं व्याचष्टे -
यथेति ।
तमेवानूद्य विधान्तरेण व्याकरोति -
अथवेति ।
द्वयोः सर्वान्तरत्वायोगलभ्यर्थमुपसंहरति -
तस्मादिति ॥ ३५ ॥
पूर्वपक्षबीजमनूद्य दूषयति -
अन्यथेति ।
तत्रानुवादं व्याकरोति -
अथेति ।
परिहारमवतारयति -
अत्रेति ।
नञोऽर्थमुक्त्वा दृष्टान्तेनाम्नानभेदोपपत्तिं सूत्रावयवार्थमाह -
नेत्यादिना ।
तदेव विवृणोति -
यथेति ।
दृष्टान्तोऽपि संमतो नेति शङ्कते -
कथञ्चेति ।
दृष्टान्ते विद्यैक्यं साधयति -
उपक्रमेति ।
ऐकार्थ्यसिद्धौ हेत्वन्तरमाह -
भूय इति ।
एकस्यैव भूयःशब्दात्प्रतिपाद्यत्वे पौनरुक्त्यमित्याशङ्क्याह -
आशङ्क्यान्तरेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
इहेति ब्राह्मणद्वयोक्तिः । एवकारसामर्थ्यादपि विद्यैक्यमित्याह -
यदेवेति ।
यत्साक्षादपरोक्षादेव न कदाचिदपि परोक्षमित्येवमेवकारो योज्यतामित्याशङ्क्य व्यवहितान्वयान्मैवमिति मत्वाह -
पूर्वेति ।
कथं तर्हि पौनरुक्त्यादानर्थक्यापत्तिसमाधिः, तत्राह -
पूर्वस्मिन्निति ।
उषस्तप्रश्ने कार्यकरणविरहः साध्यते यः प्राणेन प्राणितीत्यादिनिर्देशात्कहोलप्रश्ने त्वशनायादिविरहो योऽशनायापिपासे शोकं मोहमित्यादिदर्शनात्तथा चैकस्यैवाकारभेदेनोक्तौ पौनरुक्त्यं कुतस्त्यमित्याह -
इत्येकार्थतेति ।
ऐकार्थ्ये फलितमाह -
तस्मादिति ॥ ३६ ॥
तत्त्वमसीत्येकत्वोपदेशस्योपदेशान्तरवदित्यनेेन सूत्रावयवेनोदाहृतत्वात्तत्प्रसङ्गेनैकत्ववादिवाक्यान्तराणां तात्पर्यमाह -
व्यतिहार इति ।
ऐतरेयकवाक्यं जाबालवाक्यं चोदाहरति -
तदिति ।
वाक्यद्वयमधिकृत्य व्यतिहारस्यान्योन्यं विशेषणविशेष्यत्वस्य दृष्टेरुत्कृष्टदृष्टिर्निकृष्टे फलवतीति न्यायाच्च संशयमाह -
तत्रेति ।
उषस्तकहोलयोर्विद्यैक्येऽपि यथादरार्थोऽभ्यासस्तथायमपीति मत्वा पूर्वपक्षयति -
एकेति ।
पदान्तराणामर्थान्तरपरत्वस्वारस्यात्कथं मतेरैकरूप्यमित्याशङ्क्याह -
नहीति ।
अन्योन्यात्मत्वमर्थान्तरमित्यशङ्क्याह -
यदीति ।
अन्योन्यात्मनानुचिन्तनस्यायुक्तत्वे फलितमाह -
तस्मादिति ।
तर्हि किमर्थं व्यतिहाराम्नानं तदाह -
व्यतिहारेति ।
व्यतिहारपाठे द्विरूपाया मतेरनुष्ठेयत्वोक्त्या विद्यैक्योक्तेर्वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे मतेरेकरूपत्वे लाघवम् ।
सिद्धान्ते तस्या द्वैरूप्ये दृढत्वमैक्यस्य सिध्यतीति मन्वानः सिद्धान्तयति -
एवमिति ।
व्यतिहारो मिथो विशेषणविशेष्यत्वमाध्यानमुभयरूपमतिकरणम् ।
प्रतिज्ञातमर्थं दृष्टान्तेन स्पष्टयति -
इतरवदिति ।
दृष्टान्तदार्ष्टान्तिकभागौ व्याख्याय हेतुं व्याख्याति -
तथा हीति ।
उभयरूपोच्चारणेऽपि कथं प्रतिज्ञासिद्धिः, तत्राह -
तच्चेति ।
तदेव व्यतिरेकमुखेनाह -
अन्यथेति ।
जीवे ब्रह्मधीरेकैव चेत्तदा त्वमहमित्येतावतैव सिद्धेरुभयोच्चारणमनर्थकं तस्मात्तदर्थवत्त्वानुपपत्त्या मतिरुभयरूपैव कार्येत्यर्थः ।
उक्तं स्मारयति -
नन्विति ।
निर्गुणस्य सगुणत्वोक्तिवदन्योन्यात्मतया ध्यानमात्रस्य विधानान्न वस्तुतो निकृष्टतेत्याह -
नेत्यादिना ।
ईश्वरे जीवतादात्म्यस्यारोप्योपास्यत्वान्नेश्वरस्योत्कर्षनिवृत्तिरित्यर्थः ।
वचनादुभयत्रोभयानुचिन्तने मदुक्तमेवायातमिति शङ्कते -
नन्विति ।
किमिह नान्तरीयत्वेनैकत्वमपि दृढीभवतीत्युच्यते किंवा तत्त्वमस्यादिवत्तदेवोपदिश्यत इति, तत्राद्यं प्रत्याह -
न वयमिति ।
न द्वितीयो ध्यानविधिपरत्वाद्वाक्यस्येत्याह -
किं तर्हीति ।
इहेत्युदाहरणोक्तिः । एकत्वज्ञानस्यापीह भानात्तत्परत्वं किं न स्यात् , तत्राह -
फलतस्त्विति ।
अर्थादित्यर्थः ।
कथमुपास्तिपरत्वेऽर्थादपि तद्दृढीकरणं, तत्राह -
यथेति ।
अन्यपरस्यापि मानान्तराविरुद्धेऽर्थे स्यान्मानत्वमित्यर्थः ।
उभयोच्चारणसामर्थ्यसिद्धमुपसंहरति -
तस्मादिति ।
व्यतिहारानुचिन्तनकार्यताकीर्तनस्य पादसङ्गतिं सूचयति -
समाने चेति ।
यत्र यत्राहङ्ग्रहेणोपास्तिस्तत्र तत्रेति यावत् । उभयरूपमतिकरणे सत्येकत्वमर्थतो दृढीभवतीति वक्तुमितीत्युक्तम् ॥ ३७ ॥
जीवब्रह्मणोरन्योन्यात्मत्वोक्तिभेदाद्द्विरूपा मतिरनुष्ठेयेत्युक्तम् । सम्प्रति जयतीमाँल्लोकान्हन्ति पाप्मानमिति च फलोक्तिभेदाद्विद्याभेदमाशङ्क्योक्तम् -
सैवेति ।
सत्यविद्यामुदाहरति -
स यो हेति ।
अविशेषेणाधिकारी सर्वनामभ्यामुक्तः । उपास्यप्रसिद्ध्यर्थो हशब्दः । एतदिति बुद्धिस्थमुपास्यं परामृश्यते । तस्य व्यापकत्वमाह -
महदिति ।
यक्षं पूज्यं प्रथमजं भौतिकानां मध्ये प्रथमं जातं सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः ।
तदेतदक्षरं सत्यमिति स इत्येकमक्षरमित्यादिना सत्यनामविशिष्टमुपासनमुक्तमित्याह -
सनामेति ।
तत्तत्र ब्रह्मणो हृदयात्मत्वे सिद्धे यत्तद्ब्रह्म सत्यं हृदयाख्यं सोऽसावादित्य इति योजना । विशेष्यादित्यवशेन स इत्युक्तम् । तस्य मण्डलमात्रत्वं व्यावर्तयति -
य एष इति ।
तस्यैवाध्यात्मिकत्वमाह -
यश्चेति ।
वाक्यद्वये श्रुतांं सत्यविद्यां विषयीकृत्य फलभेदात्प्रकृताकर्षणाच्च संशयमाह -
तत्रेति ।
विद्याभेदाभेदनिरूपण्द्वारा वाक्यार्थधीहेतूक्तेरत्र पादादिसङ्गतिः ।
पूर्वपक्षे गुणव्यवस्था सिद्धान्ते तदव्यवस्थेत्यभिप्रेत्य पूर्वपक्षयति -
द्वे इति ।
सत्यनामाक्षरत्रयविशिष्टादहरहङ्गुणविशिष्टस्य विलक्षणतया रूपभेदाद्विद्याभेद इत्यर्थः ।
तत्रैव फलसंयोगभेदं हेत्वन्तरमाह -
भेदेनेति ।
तद्यदितिप्रकृताकर्षणाद्ब्रह्मणः सत्यनामाक्षरविशिष्टस्योत्तरत्र स्थानगुणसम्बन्धकथनाद्रूपैक्ये कुतो विद्यानानात्वं, तत्राह -
प्रकृतेति ।
फलभेदस्योक्तत्वान्नित्यकाम्यदर्शपूर्णमासवदनुबन्धाभेदेऽपि विद्यानानात्वमिति भावः ।
विद्याभेदाद्गुणव्यवस्थेति पक्षमनूद्य सैवेति सूत्रावयवेन सिद्धान्तमाह -
एवमिति ।
तत्र हेतुं हिशब्दसूचितं प्रश्नपूर्वकमाह -
कुत इति ।
खल्वेतस्यैवाक्षरस्योपव्याख्यानमितिवद्विद्याभेदेऽपि प्रकृताकर्षणं स्यादिति शङ्कते -
नन्विति ।
तत्र कारणान्तरादपवादाद्विद्याभेदेऽपि प्रकृते तदभावात्तच्छब्देन प्रकृतग्रहादभेदेन प्रत्यभिज्ञानाद्विद्यैक्यमित्याह -
नैतदिति ।
खल्वेतस्येत्यादि यत्रेत्युक्तम् । कारणान्तरं फलभेदादि । एतदिति प्रकृताकर्षणमुक्तम् । एवमिति तस्य वियैक्यव्यभिचारित्वमिति भेदः । अत्रेति सत्यविद्योच्यते । उभयथा सम्भवो भेदाभेदाभ्यामुपपत्तिः ।
प्रकृते फलसंयोगभेदो भेदोपपादकोऽस्तीत्युक्तं तत्राह -
यत्पुनरिति ।
प्रशंसार्थवादकत्वेनास्य फलविधित्वाभावान्न फलसंयोगभेदसिद्धिरित्याह -
अत्रेति ।
इतश्च फलभेदाद्विद्याभेदो नात्रेत्याह -
अपिचेति ।
विध्युद्देशे फलान्तराश्रुते रात्रिसत्रवत्फले कल्प्ये सत्यगृहीतविशेषतया सर्वस्यापि फलस्य तत्सम्बन्धिताकल्पनान्न फलभेदाद्विद्याभेदाशङ्केत्याह -
अर्थेति ।
अपवादरहितं हेतुमुक्त्वा प्रतिज्ञातं विद्यैक्यमुपसंहरति -
तस्मादिति ।
अवशिष्टं सूत्रावयवं व्याकुर्वन्पूर्वापरवाक्यार्थविशेषणान्येकीकृत्य ध्यानं कार्यमित्याह -
इत्यत इति ।
परकीयव्याख्यामुत्थापयति -
केचिदिति ।
तद्दूषयति -
तन्नेति ।
कर्मसम्बन्धिनीत्यत्र कर्म ज्योतिष्टोमस्तदङ्गभूतोद्गीथव्यपाश्रयत्वमेव विद्याया विशदयति -
तत्रेति ।
उद्गीथशब्दवाच्यर्क्सामगेष्णत्वात्परमात्मोद्गीथशब्दवाच्य इत्याह -
तस्मादिति ।
अथ य एषोऽन्तरादित्य इत्यस्यादिमध्यावसान ऋक्सामयोः कर्माङ्गयोः पृथिव्यादिदृष्टिविशिष्टयोर्ध्येयत्वदृष्टेरादित्याक्षिपुरुषविशिष्टकर्माङ्गोद्गीथध्यानं छान्दोग्येऽभीष्टमित्यर्थः ।
वाजसनेयकेऽपि कर्माङ्गावबद्धमेव ध्यानमिष्टमिति न विद्यानानात्वमित्याशङ्क्याह -
नैवमिति ।
नित्यकाम्याग्निहोत्रयोर्धात्वर्थाभेदेऽपि साध्यभेदेन भेदवदुपास्यैक्येऽपि फलभेदेन विद्ययोर्भेदे गुणानुसंहार इत्युपसंहरति -
तत्रेति ॥ ३८ ॥
तद्यत्तत्सत्यमितिप्रकृताकर्षणाद्रूपाभेदाद्गुणोपसंहारश्चेत्क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति । रूपभेदाद्गुणानुपसंहारः स्यादित्याशङ्क्याह -
कामादीति ।
सगुणनिर्गुणविद्याविषयं वाक्यमुदाहरति -
अथेति ।
परावरविद्यागता वशित्वादयः सत्यकामादयश्च गुणा विषयास्ते किमन्योन्यत्र नोपसंहर्तंव्याः किंवोपसंहर्तव्या इत्युभयत्रोभयेषामुपयोगभावाभावाभ्यां संशये ध्यानस्तुत्युपयोगित्वेन गुणानामन्योन्यत्रोपसंहारोक्त्या वाक्यार्थधीतद्धेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे क्वचिदाकाशस्य ध्येयत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति विशेषसिद्धिः ।
सिद्धान्तेऽपि ब्रह्मण एवाकाशशब्दत्वादुक्तविशेषोपपत्तिरित्यङ्गीकृत्य सिद्धान्तमाह -
तत्रेति ।
अवयववाचकेनावयविग्रहे दृष्टान्तमाह -
यथेति ।
पदार्थमुक्त्वा वाक्यार्थमाह -
यदेतदिति ।
हेतुमुक्तं विवृणोति -
समानं हीति ।
आदिपदेनात्मत्वादि गृह्यते । बहुतरसाम्यदर्शनादितरेतरगुणोपसंहार इत्यर्थः ।
अस्याधिकरणस्य पूर्वपक्षमाह -
नन्विति ।
नायं विशेषस्तत्राप्याकाशस्य ब्रह्मत्वादित्याह -
नेत्यादिना ।
सगुणनिर्गुणतया विद्याभेदादपहतपाप्मत्वादीनां वशित्वादीनां चेतरेतरत्रानुपसंहार इत्याशङ्क्याह -
अयं त्विति ।
वाजसनेयकेऽपि वशित्वाद्युपदेशदर्शनाद्ब्रह्म सगुणमेवेत्याशङ्क्याह -
स्तुत्यर्थमिति ।
तत्र निर्णायकत्वेन वाक्यशेषं दर्शयति -
तथाचेति ।
कथं तर्हि गुणोपसंहारः सूत्रितः, तत्राह -
गुणवतस्त्विति ।
साम्यबाहुल्याद्ब्रह्मणो ध्येयस्य स्तूयमानस्येतरेतरत्र संनिधानाच्च क्वचिदुपास्यत्वाय क्वचिच्च स्तुतिपौष्कल्यायाकाङ्क्षितत्वात्तत्तद्गुणसंयोगयोग्यत्वाच्च ब्रह्मणो वशित्वादीनामपहतपाप्मत्वादीनां चेतरेतरत्रोपसंहारः । स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायां युक्तः स्तुत्यर्थत्वेनान्वयः । ध्येयत्वं त्वपूर्वविध्येकगम्यम् । यत्र वशित्वादयः श्रुता न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् । स्तुत्वर्थत्वं तु स्यात्तदपि न शब्दतस्तत्रैषां नयनमपेक्षते सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धिः । अतोऽन्तर्भावमात्रमुपसंहार इति भावः ॥ ३९ ॥
उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणालोपवत्पूर्वोऽतिथिभ्य इत्यादिश्रुत्युपपत्तये भोजनलोपेऽपि प्राणाग्निहोत्रालोप इति चोदयति -
आदरादिति ।
वैश्वानरविद्यागतं प्राणाग्निहोत्रं विषयत्वेनोपन्यस्यति -
छान्दोग्य इति ।
स इति वैश्वानरविद्याविदुक्तः । श्रुतितात्पर्यार्थं सङ्गृह्णाति -
तत्रेति ।
सन्देहार्थं शब्दान्तरप्रयोगं पूर्वपक्षबीजमाह -
तास्विति ।
न कश्चिदपि पाप्मा तं स्पृशतीति यच्छब्दस्य सम्बन्धः । प्राणाग्निहोत्रे यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह -
तत्रेति ।
उपास्तिविचारप्रस्तावेन तद्गतप्रथमभोजनाश्रितविचारद्वारा वाक्यार्थधीहेतुविचारसङ्क्रान्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे प्रतिनिधिन्यायेन प्राणाग्निहोत्रकार्यताध्रौव्यम् ।
सिद्धान्ते तदनवतारात्तदनावश्यकत्वमित्याशयेन पूर्वपक्षसूत्रव्यावर्त्यां सिद्धान्ताशङ्कामुत्थापयति -
तद्यदिति ।
भक्तागमनसम्बन्धात्प्राणाग्निहोत्रस्येति सम्बन्धः । नच होमस्य भक्तागमनप्रयोजकत्वं भोजनप्रयुक्तभक्तोपजीवित्वादतस्तल्लोपे लोपात्पूर्वपक्षाभावादधिकरणमनारभ्यमित्यर्थः ।
सूत्रेण पूर्वपक्षं समादधानोऽधिकरणारम्भमुपपादयति -
एवमिति ।
तावच्छब्दः सिद्धान्तशङ्कानिरासार्थः ।
पूर्वपक्षी प्रश्नपूर्वकं स्वं हेतुमवतारयति -
कस्मादिति ।
आदरमेव स्फोरयति -
तथाहीति ।
विध्यपेक्षितमर्थवादं दर्शयति -
यथेति ।
ननु स्वामिभोजनस्य प्राथम्याभावोऽत्र निन्द्यते कथमेतावता भोजनलोपेऽपि प्राणाग्निहोत्रं न लुप्यते, तत्राह -
या हीति ।
अतिथिभोजनोत्तरकालविहितमपि स्वामिभोजनमपोद्यातिथिभोजनात्प्रागेव प्राणआग्निहेत्रलक्षणं स्वामिभोजनं प्रतिपादयन्ती श्रुतिस्तस्य प्राथम्यधर्मलोपमपि न सहते तत्र धर्मिलोपसहनं तु दूरनिरस्तमित्यर्थः ।
पूर्वपक्षाक्षेपं स्मारयति -
नन्विति ।
तद्यद्भक्तमितिवाक्यस्यान्यार्थत्वाद्भोजनलोपेऽपि नास्ति लोपोऽग्निहोत्रस्येति दूषयति -
नेति ।
तदेव प्रपञ्चयति -
प्राकृते हीति ।
इहापीति प्राणाग्निहोत्रं सप्तम्यर्थः । -
कौण्डपायिनामयनवदिति ।
स्थितं भेदलक्षणे प्रकरणान्तरे प्रयोजनान्यत्वम् । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र नित्याग्निहोत्रे मासगुणो वा विधीयते कर्मान्तरं वेति सन्देहे प्रदेशभेदे सत्यपि नाम्ना नित्याग्निहोत्रस्य बुद्धिसंनिधापनात्तत्समभिव्याहृताख्यातस्य तत्संनिधापितार्थपरत्वान्नित्याग्निहोत्रानुवादेन मासविधिरिति प्राप्ते कालस्य पुरुषानिष्पाद्यत्वेनानुपादेयत्वाज्जुहोतीत्याख्यातेन होमानुवादेन मासविधेरयोगात्तदुद्देशेन नित्याग्निहोत्रविधेरपि तदसंनिधेरसम्भवान्नाम्ना च सिद्धार्थबोधिना पूर्वापरीभूततयाख्यातेनोक्तस्यानुपस्थापनात्प्रकरणभेदे प्रयोजनस्य विधेयभावनाख्यस्यान्यत्वमिति कर्मान्तरविधिरिति तद्धर्मप्राप्ताविति सप्तमे स्थितम् ‘उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात् ‘ । मासमग्निहोत्रं जुहोतीत्यत्रैवाग्निहोत्रशब्दो नित्याग्निहोत्रधर्मानिहातिदिशेन्न वेति सन्देहे गौणत्वाभावादग्निहोत्रशब्दस्य जुहोतिसामानाधिकरण्याविशेषादत्रापि नामधेयत्वान्नातिदिशेदिति प्राप्ते सिद्धे कर्मभेदेऽनेकार्थत्वस्यान्याय्यत्वादेकत्राग्निहोत्रशब्दस्य मुख्यत्वादन्यत्र गौणत्वान्नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तस्याग्निदेवतासम्बन्धस्य भावात्तत्रैव मुख्यत्वात्परशब्दस्य परत्र सादृश्यात्प्रवृत्तिरिति तत्सिद्ध्यर्थं नित्यधर्मानतिदिशति क्रियाया नित्याग्निहोत्रस्याभिधानं नामधेयमग्निहोत्रपदमुक्तं तत्प्रख्याधिकरणे । तस्यान्यत्र श्रवणे विधिप्रदेशो विधेयधर्मातिदेशः स्यादिति सूत्रार्थः । तथाच यथा कुण्डपायिनामयनगते कर्मणि प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्नत्वेन सिद्धे नैयमिकाग्निहोत्रवाचकाग्निहोत्रशब्दप्रयोगात्तद्धर्मातिदेशरूपधर्मान्तरप्राप्तिः । तथा नैयमिकाग्निहोत्रे पयोघृतादीनां प्रसिद्धत्वात्प्राणाग्निहोत्रे च नित्याग्निहोत्रवाचिशब्दात्तद्धर्माणां पयःप्रभृतीनां प्राप्तौ भोजनगतभक्तद्रव्यकृताभिधानार्थं तद्यद्भक्तमिति वाक्यमित्यर्थः ।
तथापि भोजनार्थभक्तोपजीवित्वात्प्राणाग्निहोत्रस्य भोजनलोपे लोपः स्यात् , तत्राह -
अत इति ।
अग्न्याधाने पवमानेष्टिष्वग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपतीत्याद्यासु प्रकृतावग्निहोत्रहवण्या हविर्निर्वपेदिति विहितो हविर्निर्वापोऽतिदेशेन प्राप्तो न चाधानकालेऽग्निहोत्रमिति कुतोऽग्निहोत्रहवणी येन तन्निर्वापस्य तल्लोपे लोपप्राप्तौ दाशमिकं सिद्धान्तमाह -
गुणेति ।
विकृतौ हि कार्यद्वारा पदार्थाः प्राप्नुवन्ति तेन हविःसंस्कारार्थो निर्वापः प्रथमं प्राप्तस्तद्द्वारा च तदङ्गमग्निहोत्रहवणी पश्चात्प्राप्नोति तेनाङ्गस्याग्निहोत्रहवण्या लोपेऽपि मुख्यस्य लोपो नास्तीति प्रकृते भोजनलोपेऽपि न लुप्यते प्राणाग्निहोत्रमित्यर्थः । प्रतिनिधिन्यायेनेत्यग्निहोत्रादिनित्यकर्मसु घृतव्रीह्याद्यलाभे कर्मोत्सर्गे प्राप्ते नित्यानामनित्यानां वारब्धानामवश्यकार्यत्वात्प्रतिनिहितैः श्रुतैश्च क्रियमाणप्रयोगस्यावशिष्टत्वेन प्रत्यभिज्ञानात्प्रतिनिधायापि कर्म कर्तव्यमित्यधिकारलक्षणे स्थितम् । तथाच भोजनलोपेऽपि जलादिना केनापि द्रव्येण प्राणाग्निहोत्रमनुष्ठेयमित्यर्थः ॥ ४० ॥
अङ्गलोपेऽपि प्रधानस्य न लोपोऽस्तीति प्राप्ते सिद्धान्तयति -
अत इति ।
तत्र प्रतिज्ञां विभजते -
उपेति ।
पूर्वोऽतिथिभ्योऽश्नीयादितिश्रुत्या विशिनष्टि -
प्रथमेति ।
भोजनाभावे तत्प्रयुक्तद्रव्याभावेऽपि स्वतन्त्रद्रव्येण प्राणाग्निहोत्रं निर्वर्त्यमिति शङ्कते -
कस्मादिति ।
सौत्रं हेतुमादत्ते -
तदिति ।
तद्धोमीयमिति तच्छब्देन प्रकृताकाङ्क्षेण स्वोक्तिपर्यवसानार्थं यद्भक्तं प्रथममागच्छेदिति संनिहितं भोजनार्थं भक्तं गमयितव्यमिति न स्वतन्त्रद्रव्यं प्रयोक्तव्यं तच्छब्दविरोधादिति व्याचष्टे -
तथाहीति ।
सिद्धस्य प्रमितस्यानन्तरप्रकृतस्यार्थस्य यथा तच्छब्देन परामर्शस्तथा भक्तस्य भोजनार्थमुपनिपातो नामागमनं तस्य यस्तच्छब्देन परामर्शस्तेन परार्थं भोजनार्थं यद्भक्तं द्रव्यं तेन साध्यतां निर्वर्त्यतामिति यावत् ।
भोजनार्थागतभक्तद्रव्योद्देशेन तद्धोमीयमित्याहुतिविधाने फलितमाह-
ता इति ।
अाहवनीयाभावे होमाभाववदामिक्षार्थदध्यानयनाभावे वाजिनाभाववच्चोद्देश्याभावे सत्युपादेयस्याप्रवृत्तेर्भोजनार्थद्रव्यलोप एव प्राणाग्निहोत्रस्येत्यर्थः ।
यत्त्वग्निहोत्रशब्दात्तद्धर्मप्राप्तौ भक्तद्रव्यकतागुणविधानार्थं तद्यद्भक्तमित्यादि वाक्यमिति, तत्राह -
नचेति ।
अर्थवादस्थाग्निहोत्रशब्दस्य किञ्चित्सादृश्यमादाय स्तावकत्वेनापि सम्भवान्न तद्वशात्प्राणाग्निहोत्रे नैयमिकाग्निहोत्रधर्मप्राप्तिरित्यर्थः ।
कौण्डपायिनवदित्युक्तं विघटयति -
कुण्डेति ।
दार्ष्टान्तिके प्रागुक्तमेव वैषम्यं विशदयति -
इहेति ।
प्राणाग्निहोत्रं सप्तम्यर्थः ।
विपक्षे दोषमाह -
तद्धर्मेति ।
तेषामपि प्राप्तौ का हानिः, तत्राह -
नचेति ।
असम्भवमेव तेषां साधयति -
अग्नीति ।
अग्न्याधारहोमाभावात्प्राणाग्निहोत्रे नाग्न्युद्धरणसिद्धिरित्यर्थः ।
अस्तु प्रस्तुतेऽपि तदर्थमेवाग्न्युद्धरणं नेत्याह -
नचेति ।
आहुतीनामग्न्याधारत्वाभावे युक्त्यन्तरमाह -
भोजनेति ।
तर्हि किमिहाहुतीनामधिकरणं तदाह -
आस्य इति ।
प्राणाग्निहोत्रे होमाधिकरणमास्यमेवेत्यत्र श्रुत्यन्तरमाह -
तथाचेति ।
आहुतीनामास्याधारत्वे प्राणाग्निहोत्रेऽग्निहोत्रशब्दान्नैयमिकाग्निहोत्रधर्माप्राप्तौ च गमकमाह -
अत इति ।
तद्धर्मप्राप्तौ मुख्यानामेव सम्भवात्सम्पादनवैयर्थ्यमित्यर्थः ।
उर एव वेदिरित्यत्रावान्तरविशेषमाह -
वेदीति ।
अत्रेति प्राणाग्निहोत्रोक्तिः । वेदिकरणस्यापि सम्पादनार्थमितराङ्गवदिह सङ्कीर्तनं किं न स्यात् , तत्राह -
मुख्येति ।
दर्शपूर्णमासवन्मुख्येऽग्निहोत्रे वेदिकरणाभावेऽपि प्रकृते ध्यानार्था वेदिरुच्यतामित्याशङ्क्याह -
तदङ्गानां चेति ।
अग्निहोत्रवदग्न्युद्धरणायोगमुक्त्वा कालद्वयावरोधोऽपि नास्तीत्याह -
भोजनेनेति ।
अग्न्युद्धरणादावुक्तान्यायमतिदिशति -
एवमिति ।
आदिशब्देन परिस्तरणादयो गृह्यन्ते ।
सिद्धान्तसूत्रार्थमुपसंहरति -
तस्मादिति ।
धर्मलोपमपि श्रुतिरसहमाना सुतरां न सहते धर्मिलोपमित्युक्तमनूद्य दूषयति -
यत्त्विति ।
धर्मिलोपाभावपक्षे धर्मोऽपि न लुप्यते न चैतावता धर्मिणो नित्यतेत्यर्थः ।
अतिथिभोजनोत्तरकालता स्वामिभोजनस्य श्रुतिस्मृतिसिद्धा तत्कथं प्राथम्यविधानं, तत्राह -
नहीति ।
प्राणाग्निहोत्रातिरिक्तविषयं स्वामिभोजनस्योत्तरकालत्वविधानमित्यर्थः ।
प्राणाग्निहोत्रस्य प्राथम्ये कथमागन्तुकत्वं, तत्राह -
न त्विति ।
अनेन प्राथम्यविधानेनेति यावत् । अस्य प्राणाग्निहोत्रस्येत्यर्थः । तस्य नित्यतां विना प्राथम्यसिद्धेरुक्तत्वादिति भावः ।
आदरोक्तेरन्यथासिद्धौ फलितमाह -
तस्मादिति ।
प्रतिनिधिन्यायो नावतरतीति फलितं वक्तुमितीत्युक्तम् ॥ ४१ ॥
वैश्वानरविद्याङ्गप्राणाहुतीनामनित्यत्वोक्तिप्रसक्त्या कर्माङ्गसङ्गिनामपि ज्ञानानामनित्यत्वमाह -
तन्निर्धारणेति ।
अङ्गावबद्धोपासनानि विषयत्वेनोपन्यस्यति -
सन्तीति ।
उभयविधदृष्टान्तदृष्ट्या संशयमाह -
किमिति ।
यथा द्रव्यसंस्कारकर्मसु क्रत्वर्थेषु फलश्रुतेरर्थवादत्वादगत्या रात्रिसत्राणां विपरिणामेऽपि प्रकृतेषु क्रतूपकारस्य सिद्धात्वाद्विपरिणामायोगात्क्रतूपकारद्वारा पर्णमयीत्वं प्रयाजादिवत्तत्र नित्यमिष्टं तथैतान्यङ्गसङ्गीन्युपासनानि कर्मसु नित्यान्येवेत्येको विकल्प्यः । यथा प्राकृताप्प्रणयनाश्रयो गोदोहनोपरागः पशुभ्यो विधीयते यथा च कांस्योपरागस्तदाश्रयो ब्रह्मवर्चसफलोऽभिलप्यते बैल्वश्चान्नाद्यफलो यूपाश्रयो दृश्यते तथैतान्युपासनानि कर्मस्वनित्यानीति विकल्पान्तरम् । अत्र चाङ्गाश्रितोपास्तीनां क्रतुषु नित्यत्वानित्यत्वनिरूपणद्वारा वाक्यार्थधीहेतुनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथोक्तोपास्तीनां क्रतुषु पर्णतादिवदावश्यकत्वम् ।
सिद्धान्ते तद्राहित्यमङ्गीकृत्य विमृशति -
किमिति ।
अनित्यभोजनाश्रितप्राणाग्निहोत्रानित्यत्ववन्नित्यकर्माङ्गाश्रितोपास्तीनां नित्यतेति पूर्वपक्षयति -
नित्यानीति ।
क्रतुप्रकरणापाठात्प्रयोगवचनापरिग्रहादुपास्तीनां नास्ति क्रतुषु नित्यतेति शङ्कते -
कुत इति ।
अव्यभिचरितक्रतुसम्बद्धजुहूद्वारा पर्णतावदुद्गीथादिद्वारेणोपास्तीनामपि क्रतुसम्बन्धात्प्रयोगवचनपरिग्रहादमूषां क्रतुषु नित्यतेत्याह -
प्रयोगेति ।
क्रत्वङ्गताप्रयोगवचनपरिग्रहयोरन्योन्याश्रयत्वात्प्रकरणान्तरत्वाच्च नोपास्तीनां तत्परिग्रहः स्यादित्यशङ्क्याह -
अनारभ्येति ।
अङ्गान्तरं पर्णमयीत्वादि ।
उपास्तीनां फलान्तरश्रुतेरस्ति स्वातन्त्र्यमित्याशङ्क्याह -
यत्विति ।
क्रतूपकारद्वारेण व्यवहितफलोपादानादव्यवहितश्रुतफलस्य साध्यत्वविपरिणामः श्रेयानित्यपापश्लोकश्रुतेरपि फलविधित्वमेवेत्याशङ्क्याह -
नेति ।
क्वचिदगत्या विपरिणामेऽपि प्रकृते कर्माङ्गत्वं गतिरिति न विपरिणामसिद्धिरित्यर्थः ।
अङ्गाश्रितोपासनानि प्रयोगवचनेन क्रत्वङ्गतयोपादेयानि साध्यफलोक्तिशून्यत्वे सति क्रत्वङ्गसङ्गितया विहितत्वात्पर्णमयीत्वादिवदिति मत्वोपसंहरति -
तस्मादिति ।
एवमादीनामित्यादिशब्देन यदाऽङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियत इत्यादि गृह्यते । जुह्वादिद्वारेणेत्यत्रादिपदेन कर्तृग्रहणम् ।
उद्गीथाद्युपासनानां कर्मसु नित्यत्वादविदुषो न कर्मेति प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।
प्रतिज्ञां विभजते -
यानीति ।
नित्यपर्णमयीत्वादिवदित्येतदनुमानतो नियमे निवेदिते नानियमप्रतिज्ञेति शङ्कते -
कुत इति ।
तत्र सूत्रपदमवतारयति -
तद्दृष्टेरिति ।
तस्यानियमस्य दृष्टेरिति व्याचक्षाणः श्रौतैर्लिङ्गैर्विद्यानामनङ्गत्वसाधनैरनुमानं बाध्यमित्याह -
तथाहीति ।
तेनेत्योङ्काराख्यमक्षरमुक्तम् । एतदक्षरमुद्गीथावयवभूतमेवं रसतमादिगुणकं यो वेद यश्च न तथा तावुभावपि ज्ञाज्ञौ कर्म कुरुत इति योजना ।
विद्यायाः कर्माङ्गत्वानियमे लिङ्गान्तरमाह -
प्रस्तावादीति ।
‘तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यति’ इति चाक्रायणेनाक्षेपकरणादविद्वत्ता प्रस्तोत्रादेः सिद्धेत्यर्थः ।
उद्गीथाद्युपास्तीनां पृथक्फलश्रवणादपि न कर्माङ्गतेत्यवशिष्टसूत्रावयवं व्याचष्टे -
अपिचेति ।
ज्ञानाभावे कर्मफलप्रतिबन्धे ज्ञानस्य कर्माङ्गता स्यादित्याशङ्क्याह -
तदिति ।
कर्मफलस्य वीर्यवत्तरत्वं ज्ञानफलं तदभावेऽपि वीर्यवदेव कर्मेत्यर्थः ।
फलभेदे मानमाह -
तेनेति ।
पूर्वपक्षमुपन्यस्य श्रुतिः स्वयमेव तुशब्देन निरस्यति -
नाना त्विति ।
भिन्नफलत्वं नानात्वम् । दृष्टं हि मणिविक्रये शबरवणिजोर्ज्ञानभावाभावाभ्यां फलवैलक्षण्यम् । तस्माद्यदेव कर्म विद्यया प्रकृतोद्गीथाद्यर्थया करोति श्रद्धयास्तिक्यबुद्ध्या तथोपनिषदा तत्तद्देवताध्यानेनेत्यर्थः ।
श्रुतेस्तात्पर्यमाह -
तत्रेति ।
किं तावता ते सिद्धं, तत्राह -
तच्चेति ।
विद्याहीनस्य कर्मणो वीर्यवत्त्वं कर्मणि तदनित्यत्वगमकमिति व्यतिरेकतः स्फुटयति -
नित्यत्वे त्विति ।
अङ्गिमात्रस्य फलं वीर्यवत्त्वमङ्गसहितस्य तु वीर्यवत्तरत्वमित्यनुज्ञोपपत्तिमाशङ्क्याह -
सर्वेति ।
कर्मसमृद्ध्यतिरिक्तमपि फलं विद्यायाः श्रुतं ततोऽपि तस्या न कर्माङ्गतेत्याह -
तथेति ।
लोकसामादिषु लोकदृष्ट्या सामाद्युपासनेष्विति यावत् । कल्पन्ते भोगाय समर्था भवन्त्यस्मै विदुषे लोका भोगभूमयो भूमेरुपरिष्टात्ततोऽधस्ताच्च व्यवस्थिता ऊर्ध्वा आवृत्ताश्चेत्युक्ताः ।
आपयिता ह वै कामानमित्यादेरर्थवादत्वान्न च फलप्रधानतेत्युद्गीथाद्युपास्तीनां कर्मसु नित्यत्वोक्तिरित्याशङ्क्याह -
नचेति ।
अर्थवादमात्रत्वे फलश्रुतेर्विधेयप्राशस्त्यलक्षणयात्यन्तपरोक्षा वृत्तिः स्यात् । फलपरत्वे तु वर्तमानापदेशिनोऽपि साक्षात्फलप्रतीतेर्मुख्यवादसिद्धिः ।
ततो मुख्ये सम्भवति लक्षणाश्रयणमयुक्तमित्याह -
तथाहीति ।
तर्हि प्रयाजादिष्वपि फलश्रुतेर्नार्थवादमात्रत्वं, तत्राह -
प्रयाजादिष्विति ।
दर्शपूर्णमासादिप्रकरणस्थत्वेन प्रयाजादीनां तदङ्गत्वान्न पृथक्फलवत्त्वमिति तत्फलश्रुतेरर्थवादतेत्यर्थः ।
तर्हि पर्णमयीत्वादिषु प्रकरणाभावात्पृथक्फलवत्त्वसिद्धेर्न फलश्रुतेरर्थवादमात्रत्वं, तत्राह -
तथेति ।
किं तेषां साक्षादेव फलवत्त्वं किंवा क्रतुद्वारेति विकल्प्याद्यं दुषयति -
नहीति ।
द्वितीये क्रतोर्द्रव्यसाकाङ्क्षत्वात्पर्णमयीत्वस्य च पुमर्थत्वाय तद्योगापेक्षत्वाज्जुहूप्रकृतिद्रव्यार्पकवाक्यात्क्रतुयोगे पृथक्फलवत्त्वायोगादुक्तफलश्रुतेरर्थवादतेति भावः ।
गोदोहनादीनामपि तर्हि द्रव्यत्वात्पर्णमयीत्वादिवत्क्रतुसम्बन्धान्न पृथक्फलवत्त्वं, तत्राह -
गोदोहनेति ।
तस्मिन्सीदेतिमन्त्रपदानां साकाङ्क्षत्वेऽपि स्योनं ते सदनमित्यादीनामाकाङ्क्षाभावान्मिथः सम्बन्धाभाववद्गोदोहनकांस्यादीनां साकाङ्क्षत्वेऽपि प्रणयनादेश्चमसयूपाद्याश्रयलाभादाकाङ्क्षाभावाद्वाक्यीयक्रतुसम्बन्धासिद्धेस्तादर्थ्येनाविधेयत्वाद्युक्तं पृथगेव फलमुद्दिश्य विधानमित्यर्थः ।
बैल्वमन्नाद्यकामस्य यूपं कुर्यात्खादिरं वीर्यकामस्येत्यादिषु फले विधानवत्पर्णमयीत्वादिष्वपि स्यादित्याशङ्क्याह -
तथेति ।
बैल्वखादिरदध्यादीनामुपपन्नः फले विधिरिति सम्बन्धः ।
तत्र हेतुमाह -
प्रकृतेति ।
तेषु प्रकृतक्रतुसम्बन्धियूपहोमादिराश्रयोऽस्ति प्रत्यक्षविधिश्रुतेः साक्षात्कर्मिवादयुक्तफलश्रुतेश्च युक्तस्तेषां फले विधिरित्यर्थः ।
पर्णमयीत्वादिषु वैषम्यमाह -
नत्विति ।
एवंविधो यूपादितुल्यस्तेषामनारभ्याधीतत्वादित्यर्थः ।
ननु पर्णमयीत्वादीनां विना प्रकरणं वाक्यादेव फले विधिः स्यान्नेत्याह -
वाक्येनेति ।
पर्णतादीनां जुह्वादिद्वारा क्रत्वाश्रयताया वाक्यीयत्वात्तत्र वाक्यतात्पर्यकल्पने फलसम्बन्धप्रतिपादने च तत्कल्पने तात्पर्यभेदाद्वाक्यभेदापातान्न युक्तस्तेषु फले विधिरित्यर्थः ।
पर्णमयीत्वादिषु फलश्रुतेरर्थवादत्वमुपपाद्योद्गीथाद्युपासनेषु तेभ्यो वैषम्यमाह -
उपासनानां त्विति ।
तासां व्यापाररूपत्वादव्यापारात्मकपर्णतादिभ्यो वैलक्षण्यात्फलवत्त्वेऽपि च विधानसिद्धेः स्वर्गकामो यजेतेत्यादिवद्वाक्यभेदाभावाद्युक्तं फलविधानमित्यर्थः ।
प्रस्तुतोपास्तीनां प्रकरणादिना क्रत्वर्थाश्रिततायाः सिद्धत्वात्तदाश्रयणेन गोदोहनादिवद्विशिष्टफलोद्देशेन विधानसम्भवे फलितमुपसंहरति -
तस्मादिति ।
उद्गीथादिविद्यानां पर्णतादिवत्कर्माङ्गत्वाभावे लिङ्गान्तरमाह -
अत इति ।
अङ्गत्वाभावादेवेति यावत् । तथाच विदुष इवाविदुषोऽपि कर्माधिकारोऽस्तीति भावः ॥ ४२ ॥
पृथगप्रतिबन्धः फलमिति फलपृथक्त्ववदुपगमनपृथक्त्वमाह -
प्रदानवदिति ।
बृहदारण्यके छान्दोग्ये चाधिदैवाध्यात्मभेदेनोक्तौ वायुप्राणावुदाहरति -
वाजसनेयक इत्यादिना ।
श्रेष्ठत्वमभग्नव्रतत्वेनोत्कृष्टत्वम् ।
तयोर्भेदाभेदवादिवाक्याभ्यां संशयमाह -
तत्रेति ।
अत्र वायुप्राणयोरुपगमनविद्योक्त्या वाक्यार्थधीहेतोरेव कथनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्यात्प्रवृत्तिभेदासिद्धिः ।
सिद्धान्ते तदैक्येऽपि गुणभेदात्तत्सिद्धिरिति सिद्धवत्कृत्य पूर्वपक्षयति -
अपृथगिति ।
फलभेदात्कर्माङ्गानां तद्युक्तोपास्तीनांं च नित्यत्वानित्यत्वरूपप्रयोगभेदवद्वायुप्राणयोस्तत्त्वाभेदात्तत्प्राप्तिफलैक्याच्चोपास्तिप्रयोगैक्यमिति भावः ।
तत्त्वाभेदेऽपि कथमपृथगनुचिन्तनं, तत्राह -
नेति ।
न खल्वेकस्मिन्नग्निहोत्रे प्रयोगभेदोऽस्तीत्यर्थः ।
तत्त्वाभेदे मानमाह -
दर्शयतीति ।
वायुः प्राणो भूत्वा नासिके प्राविशदिति श्रुतिरत्रोपयुक्ता । आध्यात्मिकप्राणस्याधिदैविकवाय्वभेदे लिङ्गमाह -
तथेति ।
अध्यात्ममधिदैवं च तयोस्तत्त्वाभेदे सर्वश्रुतिसंमतिमाह -
तथान्यत्रेति ।
वायुप्राणयोस्तत्त्वाभेदे वाक्यमपि मानमित्याह -
क्वचिच्चेति ।
अथेममेव नाप्नोन्मृत्युर्योऽयं मध्यमः प्राण इत्युपक्रम्य प्राणाद्वा एष सूर्य उदेतीत्युपसंहाराच्च तयोरैक्यमित्याह -
तथेति ।
यदि पृथगनुचिन्तनं तयोर्विधित्सितं तर्हि तदङ्गव्रतोपदेशोऽपि पृथगेव स्यात् । इह च प्राण्यादिति प्राणने प्राप्तेऽपान्यादित्यपाननमुक्त्वा तस्मिन्प्राप्ते प्राण्यादिति प्राणनवचनेन प्राणापाननिरोधं कुर्यादित्येकमेव व्रतं दर्शयति ।
ततश्चापृथगनुचिन्तनमित्याह -
तस्मादिति ।
छान्दोग्यालोचनायामपि तयोः स्वरूपाभेदधीरित्याह -
तथेति ।
वायुं प्राणं च संवर्गगुणकं भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गमेकमेव गमयतीति सम्बन्धः । महात्मन इति द्वितीयाबहुवचनम् । चतुरश्चतुःसङ्ख्याकाग्निसूर्योदकचन्द्रानन्यांश्च वाक्चक्षुःश्रोत्रमनोलक्षणानेको निरपेक्षः सन्को देवः प्रजापतिर्जगार गीर्णवानुपसंहृतवानिति यावत् ।
भेदे मानाभावादपि तयोरैक्यमित्याह -
नेति ।
बहुश्रुत्यालोचनया वायुप्राणैक्यसिद्धेस्तदुपास्तेरपि तदधीनत्वादभेदः । न चाध्यात्माधिदैवगुणभेदाद्भेदः, तदभेदोक्तेरुत्पन्नोपास्तिसंयोगाद्भेदकत्वायोगात् । नो खल्वग्निहोत्रं जुहोतीत्युत्पन्नाग्निहोत्रस्य दधितण्डुलादिभेदाद्भेद उत्पद्यमानकर्मयोगिगुणभेदस्यैव भेदकत्वात् ।
तस्मादुत्पन्नोपास्तियोगित्वाद्गुणभेदस्योपास्तिभेदाभावादपृथगनुचिन्तनमित्युपसंहरति -
तस्मादिति ।
उक्तनीत्या विद्यैक्येऽप्यध्यात्माधिदैवगुणभेदात्प्रवृत्तिभेदः सायम्प्रातःकालगुणभेदादेकस्मिन्नप्यग्निहोत्रो प्रवृत्तिभेदवदिति सिद्दान्तयति -
एवमिति ।
उपास्त्यैक्यात्प्रयोगैक्योक्तेर्न पृथगनुचिन्तनमिति शङ्कते -
कस्मादिति ।
अग्निहोत्रस्यैव दधितण्डुलादेर्ध्यानस्य प्रकृते भेदोपदेशात्पृथगनुचिन्तनसिद्धिरित्याह -
पृथगिति ।
तदेव विवृणोति -
आध्यानेति ।
तौ वा एतौ संवर्गाविति वाक्यस्योपास्यगुणविशिष्टभेदवाचिनो भेदेनानुचिन्तने तात्पर्याद्वाक्यप्रामाण्याद्भेदेनैव चिन्तनमित्यर्थः ।
पूर्वपक्षबीजमनुवदति -
नन्विति ।
उपास्यतया प्रधानभूतसंवर्गगुणकवायुप्राणधर्मिभेदविषयेण वाक्येन गुणभूतसमीकरणस्वभावैक्यविषयं वाक्यं बाध्यमित्यभिप्रेत्याह -
नेति ।
यतश्चोदेतीत्यादिश्लोकोक्तेर्वायुप्राणैक्यसिद्धेरुपास्तेरपि तथात्वादपृथगुपगतिरित्याशङ्क्याह -
श्लोकेति ।
सूर्योदयास्तमययोर्वाय्वधीनत्वात्तदभेदधिया प्राणात्सूर्योदयास्तमयावुक्तौ ततोऽध्यात्माधिदैवविभागोक्तस्य ध्येयभेदस्य निरासे श्लोकस्य न सामर्थ्यमित्यर्थः ।
इतोऽपि विशिष्टध्येयभेदोऽस्तीत्याह -
स यथेति ।
यत्तु प्राणव्रतेनोपसंहारादैक्ये सत्यपृथगुपगमनमिति, तत्राह -
एतेनेति ।
श्लोकस्य स्वरूपैक्याभिप्रायत्ववादेन व्रतवचनमपि तत्त्वाभेदाभिप्रायं युक्तमित्यर्थः ।
एवकारश्रुतेरपृथक्प्रवृत्तिरत्र भातीत्याशङ्क्याह -
एकमिति ।
किमिति वागादिव्रतनिवर्तनेन प्राणव्रतं साध्यते, तत्राह -
भग्नेति ।
वायुव्रतनिवृत्त्यर्थमेवावधारणं किं न स्यात् , तत्राह -
नेति ।
अथेममेव नाप्नोदित्याध्यात्मं मुख्यप्राणस्य मृत्युनाऽनाप्तत्वमधिदैवतं चाग्न्यादीनां ज्वलनादिव्रतभङ्गमुक्त्वा वायोरभग्नव्रतत्वमुक्तम् । निम्लोचन्त्यन्या देवता न वायुरिति न वायुव्रतनिवृत्तिरेवकारार्थ इत्यर्थः ।
फलोक्तिरपि वायुव्रतनिवृत्त्यभावं दर्शयतीत्याह -
एकमिति ।
तेन व्रतेन । अपिशब्देन समानार्थः सन्नुशब्दः स्यायुज्यं सलोकतामपीत्युपरि सम्बध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां वा सालोक्यं समानलोकतां चोपास्तेस्तारतम्याज्जयति प्राप्नोतीत्यर्थः ।