अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

कथं दौर्बल्यं प्रमा­ण­त्वा­वि­शेषे, तत्राह -
इत्युक्तमिति ।
स्वार्थं वक्तुं पदान्तरानपेक्षं पदं श्रुतिः । श्रुतभावगता शक्तिर्लिङ्गम् । संहत्यार्थं वदत्पदवृन्दं वाक्यम् । प्रधा­न­वा­क्य­म­ङ्गो­क्त्या­काङ्क्षं प्रकरणम् । समानदेशत्वं स्थानम् । यौगिकः शब्दः समा­ख्ये­त्य­क्त­ल­क्ष­णा­ना­मेषां समवाये साम­न­वि­ष­य­त्व­वि­रोधे परस्योत्तरस्य दौर्बल्यम् ।

श्रुतिविरोधे लिङ्गस्य तद्विरोधे वाक्यस्य तद्विरोधे प्रकरणस्य तद्विरोधे स्थानस्य तद्विरोधे समाख्याया इत्यत्र हेतुमाह -
अर्थ­वि­प्र­क­र्षा­दिति ।
स्वार्थोक्तेः पूर्व­पू­र्वा­पे­क्ष­तया लिङ्गादीनां विल­म्बे­ना­र्थ­धी­हे­तु­त्व­मि­त्यर्थः । तत्र श्रुति­लि­ङ्ग­यो­र्वि­रो­धो­दा­ह­र­ण­मैन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाऽतो गार्हपत्यस्य कर्मतया क्रियां प्रति शेषित्वं सिद्ध­मै­न्द्र्ये­ति­तृ­ती­या­श्रु­ते­रै­न्द्र्या­ख्यर्चः ‘कदाचन स्तरीरसि ‘ इत्याद्यायाः करणत्वेन शेषता । तदयं श्रौतः शेषशेषिभावः कदाचनेत्यस्या ऋच­श्चे­न्द्र­दे­व­तो­क्ति­सा­म­र्थ्य­लि­ङ्गेन विरुध्यते । तत्र लिङ्गानुगुण्येन गार्हपत्यमिति श्रुतिः सप्तम्यर्थे तत्समीप इन्द्र उपस्थेय इति व्याख्येया । श्रुत्यनुगुणतया वा लिङ्गमिन्द्र ईश्वरः स्वोचितक्रियाया गार्हपत्य इति व्याख्येयमिति सन्देहे श्रुते­र्वि­नि­यो­गाय साम­र्थ्या­पे­क्ष­त्वेऽपि तज्ज्ञा­ना­न­पे­क्ष­त्वा­द­व­ग­त­श्रौ­त­वि­नि­यो­ग­नि­र्वा­हाय सामर्थ्यस्य तद­न्य­था­नु­प­पत्त्या गम्य­मा­न­त्वा­त्पू­र्वा­व­ग­त­श्रौ­त­वि­नि­यो­गा­नु­रो­धे­नैव लिङ्ग­स्थि­ते­स्त­देव श्रुत्यनुसारेण नेयमिति स्थितम् । लिङ्ग­वा­क्य­यो­र्वि­रो­धो­दा­ह­रणं ‘स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ इति किमुपस्तरणे पुरोडाशासादने च कृत्स्नो मन्त्रः प्रयोक्तव्यः किंवा कल्पयाम्यन्त उपस्तरणे शेषस्तु पुरोडाशासादन इति सन्देहे सार्थ्य­स्यै­क­वा­क्य­ता­धी­पू­र्व­त्वा­भा­वा­त्स­द­न­क­र­ण­पु­रो­डा­शा­सा­द­न­यो­र­नु­ष्ठे­य­यो­र्वि­भा­गे­नैव प्रकाशने मन्त्रयोः साम­र्थ्या­दे­क­वा­क्य­ता­व­शेन साम­र्थ्या­नु­मा­ना­त्प्रा­गेव प्रतीतं साम­र्थ्य­मे­कै­कस्य भाग­स्यै­कै­क­स्मि­न्नर्थे विनियोजिकां श्रुतिं कल्पयतीति वाक्या­ल्लि­ङ्ग­मेव बलवदिति सिद्धम् । वाक्य­प्र­क­र­ण­यो­र्वि­रो­धो­दा­ह­रणं सूक्तवाकः । तत्र हि पौर्णमासीदेवताः अमा­वा­स्या­दे­व­ता­श्चा­म्ना­ता­स्ताश्च मिथो नैकवाक्यतां गच्छन्तीति लिङ्ग­सा­म­र्थ्या­त्पौ­र्ण­मा­सी­प्र­यो­गा­दि­न्द्रा­ग्नि­श­ब्दो­त्कर्षे सम­वे­ता­र्थ­त्वा­द­मा­वा­स्यायां च तत्प्रयोगे तदे­क­वा­क्य­ता­प्र­ती­तम् ‘अवीवृधेतां महो ज्यायोऽ­क्रा­ताम्’ इत्येतदुत्कृष्य न प्रयोक्तव्यमुत यत्रे­न्द्रा­ग्नि­शब्द उत्कृष्य नीत­स्त­त्रै­वै­त­दपि पौर्णमासीत उत्कृष्य प्रयोक्तव्यमिति संशये प्रकरणस्य विनि­यो­ज्य­स्व­रू­प­सा­म­र्थ्य­म­न­पे­क्ष्या­वि­नि­यो­ज­क­त्वा­त्त­द्रू­पा­लो­च­नायां च प्रथमभाविनो विनि­यो­ज­क­त्वा­त्प्र­क­र­णा­द्वा­क्यस्य शीघ्र­प्र­वृ­त्त­स्यादौ विनि­यो­ज­क­त्व­स­म्भ­वा­त्प्र­कृ­तस्य साकाङ्क्षत्वं ज्ञात्वा तेनेदमेकं वाक्य­मि­त्य­नु­मा­ना­त्प्रा­गे­वो­क्ति­सा­म­र्थ्या­त्प­दा­ना­मे­क­वा­क्य­त्वस्य प्रात्य­क्ष्या­त्त­द्वि­रो­धेऽ­नु­मा­ना­नु­त्था­ना­द्दे­व­ता­प­नये तच्छेषाणां वाक्यादपकर्ष एवेति । क्रम­प्र­क­र­ण­यो­र्वि­रो­धो­दा­ह­रणं राज­सू­य­सं­नि­धा­व­भि­षे­च­नी­य­स­मीपे शौनः­शे­पो­पा­ख्या­ना­द्या­म्ना­तम् । नाने­ष्टि­प­शु­सो­म­स­मु­दायो हि राज­सू­य­स्त­त्रा­भि­षे­च­नीयः सोमयागस्तस्य संनिधौ शुनःशेपो नाम कश्चिदृषिपुत्रो हरि­श्च­न्द्र­पु­त्रेण पुरुषमेधार्थं पशुत्वेन क्रीतो वरुणाय स्वालम्भे कर्तुमारब्धे वरुणं तुष्टाव, स च तुष्टः सन्नेनं रर­क्षे­त्या­ख्या­न­म­क्ष­द्यू­तादि च श्रुतं तत्किं सम­स्त­रा­ज­सू­या­ङ्ग­मु­ता­भि­षे­च­नी­य­स्यै­वेति संशये प्रकरणस्य साकाङ्क्षतायाः प्रात्य­क्ष्या­त्सं­नि­धि­पा­ठे­ना­भि­षे­च­नी­यस्य स्ववा­क्यो­पा­त्त­प­दा­र्थ­नि­रा­का­ङ्क्ष­स्या­प्या­का­ङ्क्षो­त्था­प­ना­दु­त्थि­ता­काङ्क्षं प्रक­र­ण­मे­क­वा­क्य­ता­दि­क­ल्प­ना­प­र­म्प­रया प्रागेव विनियोगं कल्पयतीति प्रकरणविरोधे संनिधिर्बाध्यते । क्रम­स­मा­ख्य­यो­र्वि­रो­धो­दा­ह­रणं पुरो­डा­शि­का­ख्याने काण्डे कर्म­णा­मा­ग्ने­या­दीनां क्रमेण मन्त्राः श्रुता­स्त­त्रा­मा­वा­स्य­क­सां­ना­य्य­क्रमे ‘शुन्धध्वं दैव्याय कर्मण’ इति शुन्धनार्थो मन्त्रः समाम्नातस्तत्र पुरो­डा­श­पा­त्राणां वा शुन्धने मन्त्रोऽयं प्रयोक्तव्यः सांना­य्य­पा­त्राणां वेति सन्देहे समाख्या सम्बन्धनिबन्धना सती तदर्थं यावत्संनिधिं कल्पयति तावद्वैदिकेन प्रत्यक्षेण संनि­धि­ना­का­ङ्क्षा­द्वारा परम्परया श्रुतिं परिकल्प्य विनियोगस्य कृत­त्वा­त्पु­रो­डा­श­वा­दि­म­न्त्र­बा­हु­ल्याच्च तत्स­मा­ख्या­सिद्धेः स्थानविरोधे न सा विनियोक्त्रीति स्थितम् । तदेवं लिङ्गस्यैकया श्रुत्या श्रुत्य­र्थ­वि­नि­योगं प्रति व्यवधानं वाक्यस्य द्वाभ्यां लिङ्ग­श्रु­तिभ्यां प्रकरणस्य तिसृ­भि­र्वा­क्य­लि­ङ्ग­श्रु­तिभिः स्थानस्य चतसृभिः प्रक­र­ण­वा­क्य­लि­ङ्ग­श्रु­तिभिः समाख्यायाः स्थान­प्र­क­र­ण­वा­क्य­लि­ङ्ग­श्रु­तिभिः पञ्च­भि­रि­त्य­वा­न्त­र­भे­दा­न्मिथो विरोधे श्रुते­र्बा­ध­क­त्व­मेव लिङ्ग­वा­क्य­प्र­क­र­ण­स्था­नानां पूर्व­पू­र्वा­पे­क्षया बाध्य­त्व­मु­त्त­रो­त्त­रा­पे­क्षया बाध­क­ते­त्यु­भ­य­था­त्वम् । समाख्याया बाध्यतैवेति विवेकः ।

मन्त्राणां विद्याशेषत्वं निरस्य प्रव­र्ग्या­दि­क­र्मणां तच्छेषत्वं निरस्यति -
तथेति ।

तत्र हेतुः -
नहीति ।
अनुपकारकस्य शेष­त्वा­भा­वा­दु­प­का­र­कस्य च प्रव­र्ग्या­दि­कृ­तस्य विद्या­या­म­नि­रू­प­णान्न तेषां तच्छेषतेत्यर्थः ।

यत्तु विनि­यु­क्त­वि­नि­योगो न विरो­धा­ये­त्य­त्रो­पे­त्य­वा­दे­नो­दा­ह­रणं, तत्राह -
वाजपेये त्विति ।
इष्ट्वेति क्त्वाश्रुतिः समानकर्तृकत्वे विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयत्यतो न तत्र श्रुत्यो­स्तु­ल्य­ब­ल­यो­र्मिथो बाध इत्युभयथात्वं बृह­स्प­ति­स­व­स्ये­ष्ट­मि­त्यर्थः ।

प्रकृते तुल्यबलत्वं विनि­यो­ज­क­यो­र्ना­स्ती­त्याह -
अपिचेति ।
तुल्य­ब­ल­त्व­श­ङ्क्षा­नि­रा­स­द्वारा विनि­यु­क्त­वि­नि­यो­गा­योगे हेत्व­न्त­र­स­मु­च्च­या­र्थ­म­पि­चे­त्यु­क्तम् । पुर­स्ता­दु­प­स­दा­मि­त्या­दि­वाक्यं बलीयः प्रमाणम् । अन्यत्रेति ज्योति­ष्टो­मा­द्यु­क्तम् । दुर्बलं प्रमाणं संनिधिः । अन्यत्रापीति विद्योक्ता ।

विरोधाभावादसति विरोधे बाधा­भा­वा­दु­भ­य­त्रापि प्रमाणाभ्यां विनियोगः स्यादि­त्या­श­ङ्क्याह -
अगृह्यमाणेति ।
एतदुभयत्र विनि­यु­क्त­त्व­मेवं द्वाभ्यां मानाभ्यामिति यावत् ।

वाक्यादेः संनिधेश्च विशेषो निश्चितो नास्ती­त्या­श­ङ्क्याह -
न त्विति ।

मान­यो­र्वि­शे­ष­ग्रहे फलितमाह -
तस्मादिति ।
प्रक­र­ण­पा­ठ­सि­द्धये विनियोगो मन्त्रादीनां कल्प्यते । तथाच बल­व­त्प्र­मा­णे­ना­न्यत्र विनियोगे प्रकरणपाठसिद्धौ न क्रमो विनियोजको दौर्ब­ल्या­दि­त्यर्थः ।

तर्हि संनिधिपाठस्य का गतिस्तामाह -
अरण्येति ॥ २५ ॥

विद्यासंनिधौ श्रुतस्यापि मन्त्रा­दे­र्वि­द्या­या­म­सा­म­र्थ्या­द­नु­प­सं­हा­र­व­त्क्व­चि­देव हानसंनिधौ श्रुत­स्यो­पा­य­नस्य तदन्तरेणापि हानसम्भवेन तदु­प­पा­द­ना­सा­म­र्थ्या­द­नु­प­सं­हार इत्याशङ्क्याह -
हानौ त्विति ।

विषयं वक्तुं तत्त­च्छा­खा­स्थ­वा­क्या­न्यु­दा­ह­रति -
अस्तीत्यादिना ।
यथाऽश्वो जीर्णानि रोमाणि रजोभिः सह शातयित्वा स्वच्छो भवति तथाहमपि पापं सर्वं विधूय निर्मलः सन्ब्र­ह्म­लो­क­म­भि­स­म्भ­वा­मीति सम्बन्धः । यथा च चन्द्रो राहुग्रस्तो राहो­र्मु­खा­त्प्र­मुच्य भास्वरो भवत्येवं शरीरमकृतमशुद्धं प्रवा­ह­रू­पे­णा­ना­दि­सिद्धं वा धूत्वा त्यक्त्वा स्वच्छो भूत्वा कृतः सिद्धो न पुन­र­पू­र्व­पु­ण्यो­प­च­येन साध्यो यस्यात्मा सोऽहं कृतकृत्यः सन्ब्रह्मलक्षणं रूपमभिसम्भवामि प्रत्यक्त्वेन प्राप्नो­मी­त्यर्थः । तथा ताण्डि­ना­मि­वा­थ­र्व­णि­का­ना­मस्ति श्रुतिरिति सम्बन्धः ।

‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय’ इति दृष्टान्तं परामृशति -
तथेति ।

ताण्डि­न­श्चा­थ­र्व­णि­काश्च तथेत्युच्यन्ते -
तस्येति ।
विदुषो मृतस्येत्यर्थः । तथैवेति शाट्यायनिनो दृष्टान्तिताः । तत्तेन विद्याबलेन सुकृतं च दुष्कृतं च ते विधूनुते निरस्यति विद्वानित्यर्थः ।

त्यक्त­यो­स्त­यो­र्वि­नि­योगं दर्शयति -
तस्येति ।

विष­य­प­रि­शे­षा­र्थ­मा­पा­ततो वाक्यार्थमाह -
तदिति ।
तत्तत्र श्रुता­वि­हो­दा­हृ­तेषु वाक्येष्विति यावत् । क्वचि­त्ता­ण्डि­ना­मा­थ­र्व­णि­कानां च श्रुतावित्यर्थः । क्वचि­त्त­यो­रे­वे­त्यत्र क्वचिदिति शाट्या­य­नि­श्रु­ति­रुक्ता क्वचि­त्तू­भ­य­मि­त्यत्र क्वचिदिति कौषी­त­कि­श्रु­ति­र्गृ­ह्मते ।

तत्र कौषी­त­कि­श्रु­तिर्न विचा­रा­पे­क्षे­त्याह -
तदिति ।

शाट्या­य­नि­श्रु­ति­रपि नापेक्षते विचारमित्याह -
यत्रेति ।

आर्थिकं हानसंनिपातं साधयति -
अन्यैरिति ।

परिशिष्टं विषयमाह -
यत्र त्विति ।

हानोपायनयोः सह­भा­व­स्या­व­श्य­क­त्वा­ना­व­श्य­क­त्वाभ्यां संशयमाह -
तत्रेति ।
अत्र च विद्या­स्तु­ति­प्र­क­र्ष­प्र­यो­ज­न­स्यो­पा­य­नो­प­सं­हा­र­स्योक्त्या वाक्या­र्थ­धी­हे­तु­व­र्ण­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे स्तुति­प्र­क­र्षा­सिद्धिः सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षं गृह्णाति -
अश्रवणादिति ।

क्वचि­द­श्र­व­णेऽ­प्य­न्यत्र श्रव­णा­दि­हो­प­सं­हा­र­मा­श­ङ्क्याह -
विद्येति ।
विद्यैक्ये सत्युपसंहारः स्यान्न चेह तदस्ति कौषी­त­कि­ग­त­प­र्य­ङ्क­वि­द्यायाः सगु­ण­त्वा­त्ता­ण्ड्या­थ­र्व­णि­क­श्रु­त्योश्च पुण्य­पा­प­वि­धू­न­न­हे­तु­त्वेन श्रुतविद्याया निर्गुणत्वादिति यत्र हानमेव श्रुतं तत्र नोपायनं संनि­प­ते­दि­त्यर्थः ।

न केव­ल­म­श्र­व­णा­द­न­नु­वृ­त्ति­र्यु­क्ति­वि­रो­धा­द­पी­त्याह -
अपिचेति ।

यथा शाट्या­य­नि­श्रु­ता­वु­पा­यने श्रुते हाना­नु­वृ­त्ति­स्तथा ताण्ड्या­दि­श्रु­ता­वपि हाने श्रुते स्यादु­पा­य­ना­नु­वृ­त्ति­रि­त्या­शङ्क्य तत्रानुपपत्त्या सम्बन्धेऽपि प्रकृते नैवमित्याह -
तयोरिति ।

अश्र­व­णा­दि­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।
अनुपसंहारे स्तुति­प्र­क­र्षा­सि­द्धि­रिति वक्तु­मि­ती­त्यु­क्तम् ।

सिद्धान्तयति -
अस्यामिति ।

अश्व­रो­मा­दि­दृ­ष्टा­न्ता­द्वि­धू­तयोः सुकृतदुष्कृतयोः पर­त्रा­व­स्था­ना­पे­क्ष­त्वा­दत्र हानसंनिधौ श्रुतमुपायनं केव­ल­हा­न­श्र­व­णेऽ­प्य­पे­क्षि­त­त्वा­दा­या­तीति व्याचष्टे -
हानौ त्विति ।

तुशब्दार्थमाह -
केवलायामिति ।

तच्छे­ष­त्वा­दि­त्युक्तं विवृणोति -
हानेति ।

हेतुफलमाह -
तस्मादिति ।

अन्यत्र ताण्ड्या­दि­श्रु­ता­वि­त्यर्थः पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
यदिति ।

यत्रा­नु­ष्ठे­य­त्वेन श्रवणं तत्रोपसंहारे विद्यै­क्य­म­पे­क्षि­तम् । इह त्वनु­ष्ठे­य­त­यो­क्तस्य नोपसंहारः किन्तु सिद्धस्यैव स्तुत्य­र्थ­त­यो­क्तस्य तेनासति बाधके तस्योपसंहारः स्तुति­प्र­क­र्षा­ये­त्याह -
तदिति ।
व्यव­स्थो­क्ति­र्वि­द्या­भेदे गुणं प्रति नियमस्तदभेदे तदुपसंहार इति निर्देश इत्यर्थः ।

तर्हि किमर्थमनयोः सङ्कीर्तनं तदाह -
विद्येति ।

सङ्कीर्तनस्य स्तुत्य­र्थ­त्व­म­भि­न­यति -
इत्थमिति ।

अस्तु स्तुत्यर्थं सङ्कीर्तनं तथापि किमर्था हाना­वु­पा­य­ना­नु­वृत्तिः, तत्राह -
स्तुत्यर्थे चेति ।

हाना­वु­पा­य­ना­नु­वृत्तिं सूत्रकारो मन्यते चेत्तर्हि कथं स्तुति­प्र­क­र्ष­स्यो­पा­य­नो­प­सं­हा­र­क­ल्पत्वं, तत्राह -
स्तुतीति ।
स्तुतिर्हि विद्यायाः कार्या सा च केव­ल­श्रु­त­हा­ने­नापि लभ्या तदैव प्रक­र्षोऽ­पे­क्ष्येत यद्यप्रकर्षे न स्तुतिर्न चैवं तस्मा­त्प्र­मा­ण­सि­द्धो­पा­य­नो­प­सं­हा­रस्य फलं स्तुति­प्र­क­र्ष­सि­द्धि­रि­त्यर्थः ।

ननू­पा­य­न­वा­द­स्या­र्थ­वा­दत्वे विधिशेषत्वं तस्य तच्छेषत्वान्न तु हान­वा­दा­र्थ­वा­द­शे­षत्वं, तत्राह -
प्रसिद्धा चेति ।
इतोऽ­स्मा­त्पृ­थि­वी­रू­पा­ल्लो­का­दिति यावत् ।

तत्रापि कथ­म­र्थ­वा­दा­न्त­रा­पेक्षा, तत्राह -
कथं हीति ।
इहेति पूर्वो­क्ता­र्थ­वा­दोक्तिः । हेम­न्त­शि­शि­र­यो­रैक्यं मत्वा पञ्चर्तव इत्युक्तम् ।

अश्रुतमपि श्रुत्य­न्त­रा­नु­सा­रा­द्ग्रा­ह्य­मि­त्यत्र दृष्टान्तमाह -
तथेति ।
यज्ञस्य पुरु­षा­का­र­क­ल्प­नायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे । तत्र त्रिष्टु­प्श­ब्देन च्छन्दो­मा­त्रा­भि­धा­ना­त्कथं सेन्द्रि­य­त्व­मि­त्युक्ते वाजसनेयके तथात्वेन त्रिष्टु­भ­स्तत्त्वं गृहीतमित्यर्थः ।

ननु श्रुत्य­न्त­र­श्रु­त­म­प्यु­पा­यनं न हाना­वु­प­सं­ह­र्तव्यं पर­की­य­सु­कृ­त­दु­ष्कृ­तो­पा­दा­नस्य परेण कर्तु­म­श­क्य­त्वात् , तत्राह -
विद्येति ।
विद्या­सा­म­र्थ्या­द­न्यत्र सुकृ­त­दु­ष्कृ­त­फ­ल­स­ञ्चा­रोक्त्या विद्या­स्तु­ते­रि­ष्ट­त्वा­न्ना­भि­नि­वे­शा­व­काश इत्यर्थः ।

उपायनवादस्य स्तुत्यर्थत्वं कथमित्याशङ्क्य सूत्र­का­रो­क्ति­सा­म­र्थ्या­दि­त्याह -
उपायनेति ।

तदेवोपपादयति -
गुणेति ।
उपायनार्थशब्देन सुकृ­ता­दि­स्व­रू­पो­पा­य­न­मिष्टं फलत उपा­य­न­स्ये­ष्ट­त्वात् । फलोपसंहारं विनाऽ­र्थो­प­सं­हा­रोऽ­भी­ष्ट­श्चे­दु­पा­य­न­शे­ष­त्वा­दिति स्यात्त­च्छ­ब्द­शे­ष­त्वा­दिति चाह तथाच वद­न्न­र्थ­स्यो­प­सं­हारं नेच्छतीत्यर्थः ।

विद्या­गु­णो­प­सं­हा­र­प्र­स्तावे स्तुत्य­र्थ­वि­चारो न युक्त इत्याशङ्क्य प्रास­ङ्गि­क­त्वा­द­य­म­दोष इत्याह -
तस्मादिति ।
स्तुत्युपसंहारः स्तुत्युपयोगिनो गुणस्य सुकृ­त­दु­ष्कृ­त­यो­र­न्यत्र फल­स­ञ्चा­र­स्यो­प­सं­हा­र­स्त­त्प्र­का­र­स्या­नु­पा­स्य­स्यापि प्रदर्शनार्थं सूत्रमित्यर्थः ।

शाखान्तरस्थो विशेषः शाखा­न्त­रेऽ­प्या­श्र­य­णीय इत्यत्र दृष्टान्तमाह -
कुशेति ।

तदिदमुपमानं यथा तथा व्याख्येयमिति प्रतिज्ञाय कुशादृष्टान्तं व्याचष्टे -
भाल्लविनामिति ।
भोः कुशाः शङ्कवः, यूयं वानस्पत्या वनस्पतिप्रभावाः स्थ भवथ ता मा मां पात रक्षतेति यजमानस्य वचनम् । औदुम्बरा इति श्रुते­र्द­र्भ­वि­ष­य­कु­श­श­ब्द­स्या­स्त्री­त्वम् । अत एवास्त्री कुश­मि­त्य­म­र­सिं­हे­ना­नु­शि­ष्टम् । औदुम्बर्य इति भाष्या­त्कु­श­श­ब्दस्य शङ्कुविषयस्य स्त्रीत्वमपीति विवेक्तव्यम् ।

छन्दोदृष्टान्तं व्याचष्टे -
यथाचेति ।
दशाक्षरादीनि देवच्छन्दांसि नवा­क्ष­रा­ण्या­सु­राणि तेषां क्वचिच्छन्दोभिः स्तुवत इत्यादावविशेषेण पूर्वा­प­र­त्व­प्र­सङ्गे पैङ्गि­श्रु­ति­व­शा­द्वि­शे­ष­सि­द्धि­रि­त्यर्थः ।

स्तुतिदृष्टन्तं विवृणोति -
यथाचेति ।
अतिरात्रे षोडशिनः पात्रविशेषस्य ग्रहणे यदङ्गभूतं स्तोत्रं तत्कस्मिन्काले गेयमिति केषा­ञ्चि­च्छ­न्दो­गा­दीनां काल­वि­शे­षा­श्र­व­णा­त्का­ला­वि­शे­ष­प्राप्तौ सूर्ये समयाध्युषिते समीपाध्युषिते सूर्य­स्यो­द­य­सं­निधौ षोड­शि­स्तो­त्र­मु­पा­क­र्त­व्य­मिति विशे­ष­धी­रा­र्चा­दि­श्रु­ते­र्भ­व­त्यृ­चोऽ­धी­यत इत्या­र्चा­स्त­दी­य­श्रु­ते­र्विे­शे­षधीः । यद्वा ‘समयाध्युषिते सूर्ये षोडशिनः स्तोत्र­मु­पा­क­रोति’ इति तैत्ति­री­य­श्रुतेः षोड­शि­स्तो­त्रेऽ­र्धा­स्त­मि­त­का­ल­वि­शे­ष­सि­द्धि­रि­त्यर्थः ।

उपगानं विभजते -
यथैवेति ।
ऋत्विज उप­गा­य­न्ती­त्य­वि­शे­षे­णो­प­गा­ना­म्ना­ना­न्ना­ध्व­र्यु­रु­प­गा­य­ती­त्य­ध्व­र्यु­व­र्जिता ऋत्विज उपगायन्तीति विशे­षे­णो­प­गा­न­मिति शेषः ।

दृष्टा­न्ते­ष्व­भी­ष्ट­मं­श­म­नूद्य दार्ष्टा­न्ति­क­माह -
यथेति ।

दृष्टान्तेऽपि श्रुत्यन्तरस्य श्रुत्य­न्त­रा­न्वयो मा भूद्भ­व­न्त्वे­तानि स्वतन्त्राण्येव वाक्या­नी­त्या­श­ङ्क्याह -
श्रुत्यन्तरेति ।

विकल्पोऽपि व्रीहियववदस्तु नेत्याह -
स चेति ।
अगतिका हीयं गति­र्य­द्वि­क­ल्पा­श्र­यणं तस्या­ष्ट­दो­ष­दु­ष्ट­त्वात् । तथाहि - व्रीहि­भि­र्य­वैर्वा यजेतेति वाक्यद्वयमपि मानं तत्र व्रीहि­वा­क्या­श्र­वणे यव­वा­क्य­म­ना­श्र­य­णीयं श्रुत­नै­र­पे­क्ष्य­वि­रो­धा­द्यु­ग­प­दु­भ­या­नु­ष्ठा­ना­यो­गात् । अतो यववाक्यस्थं मानत्वं हेतुमृते त्याज्यं तस्य त्यक्त­मा­न­त्व­स्या­मा­न­त्व­मे­ष्ट­व्यम् । केनापि हेतुना प्रयोगाङ्गत्वेन यवाङ्गीकारे त्यक्तमानत्वस्य पुनराश्रयणं तन्निरासेन स्वीकृ­ता­मा­न­त्वस्य पुन­स्त्या­ग­श्चे­त्ये­क­स्मि­न्वाक्ये चत्वारो दोषाः । द्वितीयेऽपि वाक्ये प्राप्त­त्या­गा­प्रा­प्ता­श्र­य­ण­त्य­क्त­स्वी­का­रो­पा­त्त­त्त्यागा इति त एव दोषाः । तथापि तुल्य­ब­ल­त्वा­द्ग­त्य­न्त­रा­भा­वाच्च व्रीहि­य­व­वा­क्य­यो­र्वि­क­ल्पोऽ­ङ्गी­कृतः । यथाहुः - ‘एव­मे­षोऽ­ष्ट­दो­षोऽपि यद्ब्री­हि­य­व­वा­क्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते’ इति । इह तु सत्यां गतौ न तदा­श्र­य­ण­मि­त्यर्थः ।

अष्ट­दो­ष­वि­क­ल्प­प­रि­हा­राय वाक्या­न्त­र­शे­षत्वं वाक्यान्तरस्य जैमिनेरपि संमतमित्याह -
तदुक्तमिति ।

द्वाद­शा­ध्याय्यां मीमांसायां दाशमिकमुदाहरति -
अपि त्विति ।
दीक्षितो न ददाति न जुहोति न पचतीति ज्योति­ष्टो­मा­धि­कारे श्रुतं तत्र किं सर्व­दा­न­हो­म­पा­कानां निषेधः किंवा तेषा­म­क्र­तु­प्र­यु­क्ता­ना­मथ वा तत्प्र­यु­क्ता­ना­मपि चोद­क­प्रा­प्ता­ना­माहो पर्युदास इति संशये सर्व­हो­मा­दि­नि­षेधे प्रत्य­क्ष­वि­धि­वि­रो­धा­द­क्र­तु­प्र­यु­क्तानां वा तत्प्र­यु­क्ता­ना­मपि चोद­क­प्रा­प्ता­ना­मा­नु­मा­नि­क­तया निषेधस्य प्रत्य­क्षा­वि­रु­द्ध­त्वेन निषेद्धुं शक्यत्वान्निषेध इति प्राप्ते सिद्धा­न्त­सू­त्र­मपि त्वित्यादि ।

तुश­ब्दोऽ­व­धा­र­णार्थो नायं निषेधः किन्तु न दीक्षि­तोऽ­दी­क्षित इत्यु­क्ता­ना­मि­त­रे­षा­म­वि­शे­षेण होमादीनां ज्योतिष्टोमे कस्य पर्युदासः स्यादित्यत्र हेतुमाह -
वाक्येति ।
अह­र­ह­र्द­द्या­दि­ति­वि­शे­षस्य सत्त्वादिति यावत् ।

पर्यु­दा­स­म­ना­श्रित्य निषेधेऽभीष्टे ज्योतिष्टोमे दानादीनां विकल्पः स्यात्स चान्याय्य इत्याह -
प्रतिषेध इति ।

‘अपि तु वाक्यशेषः । स्याद­न्या­य्य­त्वा­द्वि­क­ल्पस्य विधीनामेकदेशः स्यात् ‘ इत्येतद्दाशमिकं वा सूत्रमर्थद्वारा पठति -
अपि त्विति ।
एष वै सप्तदशः प्रजा­प­ति­र्य­ज्ञ­म­न्वा­यत्त इत्यु­प­क्र­म्या­श्रा­व­येति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरे वषट्कार इति सप्तदशाक्षरं मन्त्रगणं सप्त­द­श­क­लि­ङ्ग­दे­ह­स­म­ष्टि­रू­प­प्रा­ज­प­ति­त्वेन स्तुत्वा यज्ञे यज्ञेऽ­न्वा­य­त्तोऽ­नु­गत इत्यनारभ्यवादेन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र च यज्ञेषु येय­जा­म­ह­क­र­ण­मुक्त्वा नानुयाजेष्विति श्रुतम् । तत्र नानु­या­जे­ष्वि­ति­नि­षे­धा­द्वि­धि­नि­षे­ध­सं­नि­पा­ता­द्वि­कल्पो वा स्यात्प­र्यु­दा­से­ना­नु­याजं वर्जयित्वेतरेषु यजतिषु येयजामहः कर्तव्य इति वाक्यशेषः सन्विधिरेव वेति सन्देहे विधिनिषेधयोः शास्त्रीयतया तुल्यबलवत्त्वेन षोड­शि­ग्र­ह­णा­ग्र­ह­ण­व­द्वि­कल्पे प्राप्ते सिद्धान्तितमपि त्विति । नानु­या­जे­ष्वि­त्ययं न निषेधोऽपि तु येय­जा­म­ह­क­र­ण­वि­धे­र्वा­क्य­शेषः सन्पर्युदासः स्यान्निषेेधे तु विकल्पो भवे­त्त­स्या­न्या­य्य­त्वा­द्ये­य­जा­म­ह­क­र­ण­वि­धीनां नानुयाजेष्विति पर्युदासः सन्नेकदेशः स्यादतः षोड­शि­ग्र­ह­णा­ग्र­ह­ण­यो­र­गत्या विकल्पेऽपि प्रकृते प्रर्यु­दा­से­नो­प­पत्तौ तद­भा­वा­द­नु­या­ज­व­र्जि­तेषु यजतिषु येयजामहः कर्तव्य इति विधि­रे­वा­य­मि­त्यर्थः ।

वर्णकान्तरमाह -
अथवेति ।

सुकृतदुष्कृते विधूनुत इत्यादौ विधूननशब्दं विषयीकृत्य धात्व­र्थ­मु­ख्य­तो­पा­य­न­श­ब्द­सं­नि­धिभ्यां संशयमाह -
किमिति ।
अर्थान्तरं चालनम् ।

मन्त्रादीनां विद्या­सं­नि­धे­र­कि­ञ्चि­त्क­र­त्व­व­द­त्रापि विधू­न­न­श­ब्द­स्यो­पा­य­न­श­ब्द­स­म्भि­धि­र­प्र­यो­जक इत्यमिप्रेत्य पूर्वपक्षमाह -
तत्रेति ।
पूर्वपक्षे विद्यावशान्न सुकृ­ता­दि­ति­वृत्तिः । सिद्धान्ते ततस्तत्सिद्धिः ।

पाणिनिस्मरणं पूर्वपक्षे हेतूकरोति -
धूञिति ।

लोक­प्र­यो­ग­सा­म­र्थ्याच्च विधूननस्य चालनतेत्याह -
दोधूयन्त इति ।

स्मृत्या लोकतश्च सिद्धं निगमयति -
तस्मादिति ।

कम्पनस्य मूर्त्य­नु­वि­धा­ना­द­मू­र्तयोः सुक­त­दु­ष्कृ­त­योर्न तद्यु­क्त­मि­त्या­शङ्क्य विशि­ष्टा­र्थ­क्रि­या­का­रि­त्वा­भा­व­स्त­द्ध­र्मोऽत्र लक्षणीय इत्याह -
चालनं त्विति ।
चालनस्य विधूननत्वे विद्यया न सुकृ­ता­दि­ध्व­स्ति­रिति फलं वक्त­मि­ती­त्यु­क्तम् ।

पूर्व­प­क्ष­म­नु­माष्य सूत्राक्षरैः सिद्धान्तयति -
एवमिति ।
उपा­य­न­श­ब्द­शे­ष­त्वा­दि­त्यु­पा­य­न­श­ब्द­सं­निधौ विधूननशब्दस्य श्रुत­त्वा­दि­त्यर्थः ।

तदेव प्रपञ्चयति -
नहीति ।
पूर्वपक्षेऽपि लक्ष­णा­ध्रौ­व्या­द्वि­धू­न­न­श­ब्द­सं­नि­हि­तो­पा­य­न­श­ब्दा­नु­सा­रेण हानमेव लक्ष्यमित्यर्थः ।

उपायनास्यापि मुख्य­स्या­यो­गा­त्त­च्छे­ष­तया कथं हान­मि­त्या­श­ङ्क्याह -
यद्यपीति ।

उपायनशब्दस्य विधू­न­न­श­ब्द­सं­निधौ क्वचिदेव भावात्कथं तद्व­शा­न्नि­र्णयः, तत्राह -
क्वचिदपीति ।
यथा कुशादिषु क्वचिदुक्तेषु सन्दिग्धेषु श्रुत्य­न्त­रा­न्नि­र्ण­योऽ­ङ्गी­कृ­त­स्त­थे­द­मु­पा­यनं विधूननसंनिधौ क्वचिदेव श्रुतमपि यत्र यत्र विधूननं श्रूयते तत्र तत्र सर्वत्र तत्स­न्दि­ग्धा­र्थ­नि­र्णा­य­क­त्वे­ना­पे­क्षितं निर्णा­य­क­मि­त्यर्थः ।

यत्तु लौकि­क­प्र­यो­गा­द्वि­धू­ननं कम्पनमेवेति, तत्राह -
नचेति ।

दृष्टान्ते कम्यनस्यैव दृष्टे­र्दा­ष्टा­न्ति­केऽपि तदेव ग्राह्य­मि­त्या­श­ङ्क्याह -
अश्वश्चेति ।
हानमपि तत्र भातीत्यर्थः ।

तथापि दार्ष्टान्तिके विधूननं चाल­न­मे­वे­त्या­शङ्क्य तयो­स्तु­ल्य­त्वा­न्मै­व­मि­त्याह -
अश्व इवेति ।

यत्तु पाणि­नि­स्म­र­णा­द्वि­धू­ननं कम्पनमेवेति, तत्राह -
अनेकेति ।
श्रुत्यन्तरस्थो विशेषः श्रुत्य­न्त­रेऽ­ना­श्रि­त­श्चे­द्वि­कल्पः सर्वत्र स्यात् ।

स चायुक्तः सत्यां गताविति पर्युदासाधिकरणे व्युत्पा­दि­त­मि­त्याह -
तदुक्तमिति ॥ २६ ॥

कर्म­क्ष­य­हे­तुत्वं विद्यायाः सिद्धं कृत्वा हान­सं­नि­धा­वु­पा­य­नो­प­सं­हारो दर्शितः, सम्प्रति तदेवासिद्धं मार्गमध्ये श्रुत­क­र्म­क्ष­यस्य विद्या­हे­तु­क­त्वा­भा­वा­दि­त्या­श­ङ्क्याह -
साम्पराय इति ।
यद्वा द्विती­य­व­र्ण­को­क्त­वि­धू­न­न­श­ब्दस्य हानस्य कालोऽनेन निरूप्यते ।

विधूननं हानमित्युक्त्वा तदेव क्वचि­द्व्य­ध्व­न्य­र्ध­पथे श्रुतं विचारयितुं विचारविषयमाह -
देवयानेनेति ।

उक्तं विभा­ग­व­च­न­म­धि­कृत्य श्रुति­वि­प्र­ति­पत्त्या संशयमाह -
तदिति ।

अश्व इव रोमाणि विधूय पापमित्यारभ्य धूत्वा शरी­र­मि­त्युक्त्वा ब्रह्म­लो­क­म­भि­स­म्भ­वा­मीति श्रुत्या देह­त्या­गा­त्प्रा­गेव सुकृ­ता­दि­हा­नो­क्ते­र्वि­द्या­सा­म­र्थ्याच्च जीवत एव तद्धानसिद्धेः सति पुष्कले हेतौ कार्य­क्षे­पा­यो­गा­द्वि­द्या­याश्च कर्मक्षये पुष्क­ल­हे­तु­त्वा­त्सु­कृ­त­दु­ष्कृते विधूनुत इत्यत्र च पाठक्रमादर्धपथे सुकृ­ता­दि­त्या­गा­नु­ग­मा­त्पा­ठ­क्र­मा­च्चा­र्थ­क्र­मस्य बल­व­त्त्वा­त्पू­र्व­प­क्षा­भा­व­मा­शङ्क्य तत्प्राप्तिमाह -
श्रुतीति ।
तत्सु­कृ­त­दु­ष्कृते विधूनुत इत्येतन्न पाठमात्रं किन्तु तच्छब्देन सर्वनाम्ना तस्मादिति हेत्वर्थेन विर­जा­न­द्य­ति­क्र­मस्य विधूननं प्रति हेतुतां वदन्ती श्रुतिरियम् । नच श्रुत्य­न्त­र­वि­रो­धोऽ­र्ध­प­थेऽपि कर्मक्षयस्य ब्रह्म­लो­क­स­म्भ­व­ना­त्प्रा­क्का­ल­त्व­सि­द्धे­रिति भावः । विधू­न­न­श­ब्द­व­त्सु­कृ­ता­दि­हा­नस्य कालोक्तिद्वारा वाक्या­र्थ­धी­हे­तु­क­थ­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे विद्या­सा­म­र्थ्या­ना­दरः ।

सिद्धान्ते तदा­द­र­ण­मि­त्य­भि­प्रेत्य पूर्व­प­क्ष­प्रा­प्ति­मुक्त्वा सिद्धा­न्त­सू­त्र­म­व­तार्य योजयति -
पठतीत्यादिना ।

किं फलवशादर्धपथे दुष्कृतादिहानं कल्प्यं किंवा तत्रैव हानहेतोः सत्त्वात् । तत्राद्यं प्रत्याह -
नहीति ।
सम्परेतस्य परलोकं प्रति प्रस्थि­त­स्ये­त्यर्थः ।

द्वितीयं निराह -
विद्येति ।
अनपाकृतपापस्य देवयानेन पथा गमनायोगाज्जीवत एव विदुषो विद्या­सा­म­र्थ्या­त्पा­प­हा­न­मि­त्यर्थः ।

का तर्हि कौषी­त­कि­श्रु­ते­र्गतिः, तत्राह -
तस्मादिति ।
तदि­ति­स­र्व­ना­म­श्रुत्या प्रक­र­ण­प­ठि­त­वि­द्यायाः प्राधा­न्या­त्प­रा­म­र्शा­द्वि­र­जा­न­द्य­ति­क्र­म­स्या­न­न्त­र­प्र­कृ­त­स्या­प्य­प्रा­धा­न्या­द­प­रा­म­र्शा­त्पा­ठ­क्र­म­बा­धे­ना­र्थ­क्रमः स्वीकर्तव्य इत्यर्थः ।

किञ्च सति पुष्कलहेतौ कार्यं भव­त्ये­वे­ति­न्या­या­नु­गृ­हीतं श्रुत्यन्तरमेव बलवदिति मत्वा श्रुत्य­न्त­र­मु­दा­ह­रति -
तथाहीति ।

नहि तस्याविरोधेन नयनं पूर्वपक्षे युक्तं विधूय पापमिति विधूनने पुंसः स्वात­न्त्र्य­दृ­ष्टे­रि­त्या­श­ये­नाह -
अश्व इवेति ।

किञ्च प्रागवस्थायामेव सुकृ­ता­द्या­दा­नस्य श्रुतत्वादृते च तत्त्या­गा­त्त­दा­दा­ना­यो­गा­न्ना­र्ध­पथे कर्म­नि­वृ­त्ति­रि­त्याह -
तस्येति ॥ २७ ॥

विद्या­फ­ल­त्वा­द्ब्र­ह्म­लो­का­प्ति­व­त्क­र्म­क्ष­योऽपि देह­त्या­गा­दूर्ध्वं स्यादि­त्या­श­ङ्क्याह -
छन्दत इति ।

सूत्रं व्याचष्टे -
यदि चेति ।
जीवतो ब्रह्म­लो­का­प्ते­र­यो­गा­द्दे­ह­पा­ता­पेक्षा कर्महानेस्तु देहवत एव सिद्धे­र्नै­व­मि­त्यर्थः ।

छन्दतः स्वच्छन्दतः स्वेच्छयेति व्याकरोति -
इच्छात इति ।

अर्धपथे हेत्व­नु­ष्ठा­ना­सिद्ध्या साध्यासिद्धौ फलितमाह -
तस्मादिति ।

उभयाविरोधादिति भागं व्याकरोति -
एवमिति ।
समर्थस्य क्षेपा­यो­गा­त्पूर्णे हेतावनन्तरमेव कार्यो­त्प­त्ति­र­न्यथा निमि­त्त­नै­मि­त्ति­क­त्व­मेव तयोर्न स्यादित्यर्थः ।

सूत्र­प­द­स्या­र्था­न्त­र­माह -
ताण्डीति ।
इत्थं विद्या­सा­म­र्थ्या­त्प्रा­गेव सुकृ­ता­दि­नि­वृ­त्ति­रि­त्यु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ २८ ॥

सुकृ­ता­दि­हा­न­सं­नि­धा­नो­क्त­दे­व­या­न­ग­ते­रु­पा­य­न­व­देव सार्व­त्रि­क­त्व­प्रा­प्ता­वु­क्तम् -
गतेरिति ।

विचारविषयमाह -
क्वचिदिति ।

संशयार्थं कोट्यन्तरमाह -
क्वचिन्नेति ।

हानसंनिधौ मार्ग­श्रु­ते­र्वि­शे­षा­ज्ञा­नाच्च मार्गविषये संशयमाह -
तत्रेति ।

हानसंनिधौ क्वचिदेव श्रुतोपायनस्य सार्व­त्रि­क­त्व­व­त्क­चि­देव कर्म­क्ष­य­सं­नि­ध्यु­क्तस्य पथो देवयानस्य केव­ल­क्ष­य­श्र­व­णेऽपि युक्ताऽ­नु­वृ­त्ति­रिति सङ्गतिगर्भं पूर्वपक्षमाह -
यथेति ।
निर्गु­ण­ब्र­ह्म­विद्या गतिमती ब्रह्म­वि­द्या­त्वा­त्स­गु­ण­ब्र­ह्म­वि­द्या­व­दिति भावः । प्रास­ङ्गि­क­वि­धू­न­न­स­म­योक्त्या प्रस्तु­त­गु­णो­प­सं­हा­रो­क्ते­र­प­वा­दो­क्ति­द्वारा विचारस्य वाक्या­र्थ­ज्ञा­नो­पा­य­गा­मि­त्वा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे निर्गुणविदोऽपि गत्यपेक्षाया नियतिः ।

सिद्धान्ते सगुणविद्यावत एव तदपेक्षेति विवक्षित्वा सिद्धान्तयति -
अस्यामिति ।

प्रतिज्ञां व्याख्याय हेतुं व्याख्याति -
अन्यथेति ।

विरोधमेव साधयति -
कथं हीति ।
सर्व­ग­त­स्या­स­ङ्ग­स्या­त्मनो नोपाध्यतिरेकेण गत्यु­प­प­त्ति­रि­त्यर्थः ।

गन्तृरूपालोचनया गतेरयोगमुक्त्वा गन्त­व्य­रू­पा­लो­च­न­यापि तदयोगमाह -
गन्तव्यं चेति ।

स्वतो भिन्न­यो­रै­क्या­यो­गा­दा­विद्ये भेदे विद्ययैव तन्नि­वृ­त्ते­र्वि­द्या­याश्च स्वोत्पत्तौ स्वफले वा देश­भे­दा­पे­क्षा­भा­वा­द­न­र्थिका गति­रि­त्यु­प­सं­ह­रति -
इतीति ।
निर्गु­ण­ब्र­ह्मधीः सप्तम्यर्थः ॥ २९ ॥

निर्गु­ण­वि­द्यायां गतिर्व्यर्थेति प्राधा­न्ये­नोक्त्वा पर्यङ्कविद्यादौ प्राधान्येन तदर्थवत्त्वमाह -
उपपन्न इति ।

तत्र प्रतिज्ञां व्याकरोति -
उपपन्नश्चेति ।

क्वचिदर्थवती गतिरित्यत्र हेतुमवतार्य लक्षणशब्दस्य लक्षणया कारणार्थत्वं गृहीत्वा व्याचष्टे -
तदिति ।

उप­ल­ब्धि­मे­वा­भि­न­यति -
तत्रेति ।

देशा­द्दे­शा­न्त­र­प्रा­प्त्या­यत्ते फले श्रुते फलितमाह -
तत्रेति ।
पर्य­ङ्क­वि­द्या­स­गु­णो­पास्तिः सप्तम्यर्थः ।

निर्गु­ण­वि­द्या­या­मपि हेतु­र­स्ती­त्या­श­ङ्क्याह -
न त्विति ।

तदेवोपपादयति -
नहीति ।

तेषां प्राप्त­प­रा­न­न्द­त्व­माह -
आप्तेति ।
इहेति जीवदवस्थोक्तिः ।

निर­स्त­स­म­स्ता­न­र्थ­त्व­माह -
दग्धेति ।

तर्हि सद्यो देहपातः स्यान्नेत्याह -
आरब्धेति ।

हेतोर्व्यभिचारं निरस्य क्वचि­न्ने­त्युक्तं निगमयति -
तत्रेति ।
सम्यग्धीः सप्तम्यर्थः । निर्गु­ण­ब्र­ह्म­वि­न्ना­र्चि­रा­दि­ग­ति­मा­न्मु­क्ति­फ­ल­भा­क्त्वा­न्मु­च्य­मा­न­हि­र­ण्य­ग­र्भ­व­दिति भावः ।

क्वचिदर्थवती गतिः क्वचि­न्ने­त्युक्तं सौत्रेण दृष्टान्तेन स्पष्टयति -
लोकवच्चेति ।
इहेति सगु­ण­नि­र्गु­ण­वि­द्योक्तिः । इतिशब्दः सूत्र­व्या­ख्या­स­माप्तौ ।

‘तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’ इति श्रुते­र्दे­व­या­ने­ना­ध्वना गतस्यैव मुक्ति­रि­त्या­श­ङ्क्याह -
भूयश्चेति ॥ ३० ॥

सगु­ण­नि­र्गु­ण­वि­द्यासु गतिभाव भाव­व्य­व­स्था­व­त्स­गु­ण­वि­द्या­स्वपि व्यव­स्था­मा­श­ङ्क्याह -
अनियम इति ।

वृत्तं कीर्तयति -
सगुणास्विति ।

गते­र्द्वि­धा­र्थ­वत्त्वे स्थिते किम­ने­ना­धि­क­र­णे­ने­त्या­शङ्क्य विषयमाह -
सगुणास्वपीति ।

विचारबीजं संशयं वक्तुं कोट्यन्तरमाह -
नेति ।

अर्चि­रा­दि­प­र्वाणं पन्थानमधिकृत्य विद्या­वि­शे­षा­धि­का­रा­द्वा­क्या­द­वि­शे­ष­दृ­ष्टेश्च संशयमाह -
तत्रेति ।

सगुणासु विद्यासु गतेः सार्व­त्रि­क­त्वोक्त्या वाक्या­र्थ­धी­हे­तो­रेव चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे नियताया गते­रु­प­सं­हा­रा­सिद्धिः । सिद्धान्ते त्वनियतायाः सार्व­त्रि­क­त्व­मि­त्य­ङ्गी­कृत्य विमृश्य पूर्वपक्षमाह -
किमिति ।

नियमं व्याकरोति -
तत्रेति ।

तत्र हेतुः -
प्रकरणस्येति ।

हेतुं व्यतिरेकतो विवृणोति -
यदीति ।
प्राकरणिके सामान्यसम्बन्धे श्रुत्यादिभ्यो विशेषविनियोगधीः । यत्र श्रुत्यादय एव विनियोजका न प्रकरणं तत्रापि तन्निर्वाहाय प्रकरणं कल्प्यम् । तदभावे दर्श­पू­र्ण­मा­स­ज्यो­ति­ष्टो­मा­दि­ध­र्माणां सङ्करात् । तस्मा­द्वि­नि­यो­गाय तन्निर्वाहाय च प्रकरणध्रौव्यम् । अन्यथा श्रुत्या­द्य­प्रा­मा­ण्या­त्तेन प्राकरणिकी विशे­ष­स­ङ्ग­ति­रि­त्यर्थः ।

न केवलं नियमे प्रकरणमेव प्रमाणं किन्तु लिङ्गमपीत्याह -
अपिचेति ।
एकत्रोक्तस्य सर्वत्र सम्बन्धसिद्धौ पुन­रु­क्ति­र­न­र्थि­के­त्यर्थः ।

लिङ्ग­प्र­क­र­णाभ्यां वाक्यबाधं मत्वोपसंहरति -
तस्मादिति ।

नियता गति­र्नो­प­सं­हा­रा­र्हेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

अनियमं व्याचष्टे -
सर्वासामिति ।

कर्म­स­मृ­द्ध्या­दि­फ­लो­पा­स­नानि व्यवच्छिनत्ति -
अभ्युदयेति ।

अनियमे प्रकरणविरोधं स्मारयति -
नन्विति ।

सूत्रा­व­य­वे­नो­त्त­र­माह -
नेति ।

गते­र्वा­क्यी­या­न्व­यस्य सार्व­त्रि­क­त्वा­द्दु­र्बलं प्रकरणं बाध्य­मि­त्य­भि­प्रेत्य श्रुतिमाह -
तथाहीति ।
तत्त­त्रा­धि­कृ­तानां मध्ये ये केचि­द्द्यु­लो­का­दी­न­ग्नि­त्वेन विदु­स्तेऽ­र्चि­ष­म­भि­स­म्भ­व­न्तीति सम्बन्धः । ये चेत्यत्रापि तथैवान्वयः ।

अविशेषेण विद्या­न्त­र­शा­लिनां देव­या­न­प्रा­प­क­वा­क्येन प्रकरणं बाध्य­मि­त्यु­क्तम् । इदानीं वाक्यं न विद्या­न्त­र­शी­लि­ना­मपि देव­या­न­प्रा­प­क­मिति शङ्कते -
कथमिति ।

वाक्यस्य तर्हि कोऽर्थः स्यादि­त्या­श­ङ्क्या­क्षे­प्तै­वाह -
नन्विति ।
श्रद्धा­त­पो­नु­ष्ठा­न­मा­त्रस्य श्रुत­त्वा­त्त­न्नि­ष्ठा­ना­मेव गति­र्वा­क्ये­नोक्ता स्यादित्यर्थः ।

वाक्या­न्य­था­सिद्धिं दूषयति -
नेति ।

अविदुषामेषा गतिर्नेत्यत्र श्रुतिं हेतुमाह -
विद्येति ।

तदित्युक्तं ब्रह्म­लो­का­ख्य­स्थानं विशिनष्टि -
यत्रेति ।
यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता व्यावृत्ताः काम­क्रो­धा­दि­स्प­र्श­व­र्जितं प्राप्यं ब्रह्म­लो­क­स्था­न­मि­त्यर्थः । दक्षिणा दक्षि­ण­मा­र्ग­गा­मिनः केव­ल­क­र्मि­ण­स्त­प­स्वि­नोऽ­प्य­वि­द्वांसो न तत्र गच्छ­न्ती­त्य­पि­शब्दो ज्ञेयः ।

ये चेत्या­दि­वा­क्यस्य तर्हि का गतिः, तत्राह -
तस्मादिति ।
उक्त­च्छ­न्दो­ग­वा­क्य­मि­हे­त्यु­क्तम् ।

उप­ल­क्ष­ण­म­न्त­रे­णापि विद्या­न्त­र­शी­लि­ना­मियं गतिरवगतेत्याह -
वाजेति ।

तत्रापि सत्यशब्देन सत्या­र्थो­क्ते­रेव सङ्ग्रहात्कुतो विद्या­न्त­र­यु­क्तानां गति­धी­रि­त्या­श­ङ्क्याह -
तत्रेति ।
तेऽर्चि­ष­म­भि­स­म्भ­व­न्तीति सम्बन्धः ।

सत्यशब्देन ब्रह्मोक्तौ हेतुमाह -
सत्येति ।
‘सत्यं ज्ञानमनन्तं ब्रह्म', ‘तत्सत्यं स आत्मा', ‘सत्यस्य सत्यम्’ इत्ये­व­मा­दा­वि­त्यर्थः ।

सत्या­र्थ­व­च­न­ग्र­हा­त्स­त्या­र्थ­ग्रहो लघी­या­नि­त्यु­क्तम् । इदानीं पञ्चाग्निविद एव सत्यमुपासत इति कस्मान्न गृह्यन्त इत्याशङ्क्य तेषां पृथ­ग्गृ­ही­त­त्वा­दि­त्याह -
पञ्चेति ।

इतश्च विद्या­न्त­र­शी­लिनां गतिरिति लिङ्गदर्शनं समुच्चिनोति -
अथेति ।

एनानिति विद्यान्तरपरा गृह्यन्ते तथापि कथं देव­या­न­यो­ग­स्ते­षा­मि­त्या­शङ्क्य योग्यतयेत्याह -
तत्रापीति ।
श्रुति­स्मृ­तिभ्यां प्रक­र­ण­वि­रो­ध­स­माधिं प्रतिज्ञाय श्रुतिरुक्ता ।

सम्प्रति स्मृतिमाह -
स्मृतिरिति ।
जगतो ज्ञान­क­र्मा­धि­कृ­त­स्ये­त्यर्थः ।

परोक्तं लिङ्ग­म­नू­द्या­न्य­था­सि­द्धि­माह -
यदिति ।

लिङ्ग­वा­क्याभ्यां प्रकरणं भङ्क्त्वा सगुणविद्यासु गतेः सार्व­त्रि­क­त्व­मु­प­सं­ह­रति -
तस्मादिति ॥ ३१ ॥

सगुणविद्यासु व्यवहितफलासु सर्वास्वपि गति­र­र्थ­व­ती­त्यु­क्तम् । इदानीं निर्गुणायामपि विद्यायां सद्यो­मु­क्ति­फ­ल­त्वा­न­व­ग­मा­त्का­ला­न्त­र­भा­वि­फ­ल­त्वा­वि­शे­षा­द­वि­शिष्टा गते­र­र्थ­व­त्ते­त्या­श­ङ्क्याह -
यावदिति ।

विषयसंशयौ दर्शयति -
विदुष इति ।

अकारणकसंशयायोगं मन्वानो विचारमाक्षिपति -
नन्विति ।

तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।

सत्यां सामग्र्यामसति प्रतिबन्धे कार्यनिश्चयेऽपि कुतो विद्यया सद्यो­मु­क्ति­रि­त्या­श­ङ्क्याह -
नापीति ।

संश­या­भा­वा­द­धि­क­र­णा­ना­रम्भं परिहरति -
उपपन्नेति ।

विदुषामपि केषा­ञ्चि­द­मुक्तेः संश­य­सि­द्धि­रि­त्यु­प­प­त्ति­मेव दर्शयति -
ब्रह्मेति ।

दर्शनमेव विशदयति -
तथाहीति ।

सर्वेषामेव तेषां कर्म­नि­ष्ठ­त्व­मा­श­ङ्क्यो­क्तम् -
सनस्कुमारोऽपीति ।

उक्त­न्या­य­म­ति­दि­शति -
एवमिति ।

स्मृते­र्मू­ला­भा­वा­द­प्रा­मा­ण्य­मा­श­ङ्क्याह -
श्रुताविति ।
उपलभ्यते पूर्वोक्ता कथेति शेषः ।

सनत्कुमारादीनां पूर्व­दे­ह­त्या­गान्न देहा­न्त­रो­त्प­त्ति­रि­त्या­श­ङ्क्याह -
ते चेति ।
एकस्यैव मायाविनो युग­प­द­ने­क­दे­हा­दा­न­दृ­ष्टा­न्तोऽ­ने­क­दे­हा­दा­न­न्यायः ।

तर्हि ते न ब्रह्मविदः, तत्राह -
सर्वे चेति ।

अनुपलब्धिहेतुकं संश­य­मु­प­सं­ह­र­न्वि­चा­रो­प­पत्तिं निगमयति -
तदेतेषामिति ।

निर्गु­ण­वि­द्यायां गतिं प्रतिषिध्य सगुणविद्यायां तत्प्र­यो­ज­कै­श्व­र्य­वि­शे­ष­द­र्श­ना­द­र्थ­वती सर्वत्र गतिरित्युक्ते निर्गु­ण­वि­द्या­या­मपि मोक्षा­सि­द्धे­रै­श्व­र्य­फ­लत्वे वाच्ये गति­रु­प­सं­ह­र्त­व्येति पूर्वपक्षमाह -
अहेतुत्वमिति ।
वाशब्दोऽवधारणे । ब्रह्मविद्या न संसारविरोधिनी ब्रह्म­वि­द्या­त्वा­द्व­सि­ष्ठा­दि­नि­ष्ठ­ब्र­ह्म­वि­द्या­वत् । नच तस्य तावदेव चिर­मि­त्या­दि­श्रु­ति­वि­रोधः प्रशंसार्थतया तदुपपत्तेरिति भावः । निचाय्य तमि­त्या­दि­श्रु­ते­र्ब्र­ह्म­वि­द्याया मोक्ष­हे­तु­त्वोक्तौ तात्पर्यसिद्धेः स्तुति­मा­त्र­त्वा­नु­प­प­त्ते­र्व­सि­ष्ठा­दीनां ब्रह्म­वि­दा­म­धि­का­र­प्र­ति­ब­न्धा­न्मु­क्त्य­भा­व­स्या­न्य­था­सि­द्धे­र­प्र­ति­ब­द्धाया विद्याया न मोक्षं प्रत्यहेतुतेति कुतो गत्युपसंहार इत्युक्त्या वाक्या­र्थ­धी­हे­तु­नि­रू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे धियो मोक्ष­हे­तु­त्वा­द्ग­त्यु­प­सं­हारः ।

सिद्धान्ते तस्या­स्त­द्धे­तु­त्व­ध्रौ­व्या­त्त­द­नु­प­सं­हार इत्यभिप्रेत्य सिद्धान्तयति -
अत इति ।

ब्रह्मविद्याया मोक्षं प्रत्यहेतुत्वं निषेधति -
नेति ।

ब्रह्मवित्स्वेव केषु­चि­न्मो­क्षा­दृ­ष्टे­र­हे­तुत्वं कथं निषिध्यत इत्याशङ्क्य प्रति­ब­न्धा­भा­व­म­पेक्ष्य विद्या मोक्षहेतुरिति मत्वाह -
तेषामिति ।

यावदधिकारं ताव­द­स्थि­ति­रि­त्यत्र दृष्टान्तमाह -
तथेति ।

तत्र मानमाह -
अथेति ।
आधि­का­रि­कै­श्व­र्य­हे­तु­क­र्म­क्ष­या­न­न्तरं ततः पश्चादूर्ध्वो विलक्षणः सन्नु­दे­त्यो­द्गम्य पुनरादित्यो नैवोदेता नास्तमेता किं त्वेकल एवाद्वितीयो मध्ये स्वात्मनि स्थाता स्यादित्यर्थः ।

तत्रो­दा­ह­र­णा­न्त­र­माह -
यथा चेति ।

तत्रापि मानमाह -
तस्येति ।

दृष्टा­न्त­यो­रर्थं दार्ष्टान्तिके योजयति -
एवमिति ।

ब्रह्मविदोऽपि देहा­न्त­र­प्राप्तिः प्रार­ब्ध­क­र्मा­ति­रि­क्त­क­र्म­कृता देहा­न्त­र­प्रा­प्ति­त्वा­द­वि­द्व­द्दे­हा­न्त­र­प्रा­प्ति­व­दि­त्याह -
सकृदिति ।
देहान्तरं कर्मा­न्त­रा­य­त्त­मिति न व्याप्ति­रे­क­स्मा­दपि ब्रह्मवदादेः श्वसू­क­रा­द्य­ने­क­दे­ह­स्म­र­णा­दि­त्यर्थः ।

किं तर्हि तेषा­म­स्म­दा­दिभ्यो वैषम्यं, तत्राह -
स्वात­न्त्र्ये­णेति ।

स्वत­न्त्रा­श्चे­त्कि­मिति देहान्तरं गृह्ण­न्ती­त्या­श­ङ्क्या­र­ब्धा­धि­का­र­फ­ल­क­र्म­क्ष­या­ये­त्याह -
स्वाधिकारेति ।

देहान्तरग्रहे स्मृतिभ्रंशः स्यादि­त्या­श­ङ्क्याह -
अपरिमुषितेति ।

तथापि देहा­दि­पा­र­त­न्त्र्य­मा­श­ङ्क्याह -
देहेति ।

तथापि कथमनेकेषु देहे­ष्व­धि­ष्ठा­तृत्वं, तत्राह -
निर्मायेति ।

उत्प­द्य­मा­ना­ना­म­प­रि­मु­षि­त­स्मृ­ति­त्वेऽपि जातिस्मरत्वमेव न वसि­ष्ठा­दि­ना­म­त्व­मि­त्या­श­ङ्क्याह -
नचेति ।

ब्रह्मविदां स्वातन्त्र्येण देहान्तरसञ्चारे दृष्टान्तमाह -
यथेति ।
व्युद्य विवादं कृत्वा ।

कथमेतावता ज्ञानस्य निय­त­फ­ल­त्व­मि­त्या­शङ्क्य व्यति­रे­के­णै­त­दु­प­पा­द­यति -
यदीति ।
कर्मा­न्त­र­मा­र­ब्ध­क­र्मा­ति­रिक्तं कर्मेति यावत् ।

देहान्तरं वर्त­मा­न­दे­हा­ति­रिक्तो भाविदेहः ज्ञान­स्यै­का­न्ति­क­फ­लत्वं व्यतिरेकतः श्रुति­स्मृ­ति­भ्या­मुक्त्वा क्रमेण श्रुतिस्मृती दर्शयति -
तथाहीत्यादिना ।

अना­दि­भ­व­प­र­म्प­रा­स­ञ्चि­त­स्या­नि­य­त­का­ल­वि­पा­कस्य कर्म­णोऽ­स­ङ्ख्या­त्वा­त्कुतो निःशे­ष­क­र्म­क्षयः, तत्राह -
नचेति ।

नाश­पु­ष्क­ल­हे­तु­योगे नाश्यै­क­दे­श­स्या­र्थ­क्रि­या­भावे दृष्टान्तमाह -
नहीति ।

तर्हि प्रारब्धमपि कर्म नाश­हे­तु­सां­नि­ध्या­न्न­श्ये­दिति कुतो वसि­ष्ठा­दे­र्दे­ह­धा­र­णे­त्या­श­ङ्क्याह -
प्रवृत्तेति ।

यथा मुक्त­स्ये­षो­र्ब­ल­व­त्प्र­ति­ब­न्ध­का­भावे मध्ये न क्षयस्तथा प्रवृ­त्त­फ­ल­स्यापि कर्मणो मध्ये नास्ति क्षयः । जातेऽपि ज्ञाने मोक्षस्य देह­पा­ता­व­धि­क­र­णा­दा­र­ब्ध­क­र्मो­पा­दा­ना­ज्ञा­न­नि­व­र्तने तस्या­सा­म­र्थ्यात् । अतः श्रुति­स्मृ­ति­प्रा­मा­ण्या­द­ना­र­ब्ध­मेव कर्म नश्यति न त्वार­ब्ध­मि­त्यर्थः । अप्र­वृ­त्त­फ­ल­क­र्म­नि­वृ­त्ता­वपि प्रवृत्तफलस्य कर्मणो न भोगादृते निवृत्तिरिति स्थिते ज्ञानिनोऽपि देहान्तरं ज्ञान­स्यै­का­न्ति­क­फ­लत्वं चावि­रु­द्ध­मि­त्यु­क्त­मु­प­सं­ह­रति -
तस्मादिति ।

कर्म­ज्ञा­ना­धि­कृ­तानां मनुष्याणामेव तर्हि मोक्षो नान्येषां तद­भा­वा­दि­त्या­श­ङ्क्याह -
तथाचेति ।

किञ्चा­धि­का­रि­केषु केषुचिदमुक्त्या ज्ञान­स्या­नै­का­न्ति­क­फ­लत्वं किंवा सर्वेषु तेष्विति विकल्प्याद्ये पूर्वोक्तसमाधिं सिद्धवत्कृत्य द्वितीयं प्रत्याह -
ज्ञाना­न्त­रे­ष्विति ।
तेषां ज्ञाना­भा­वा­दे­वा­मु­क्ति­रि­त्यर्थः । ऐश्व­र्य­भे­द­स्त्वा­दि­श­ब्दार्थः ।

तर्हि तेषा­मै­श्व­र्या­स­क्तानां न कदाचिन्मुक्तिः, तत्राह -
ते पश्चादिति ।
निर्विण्णा विरक्ताः ।

तेषां क्रममुक्तौ मानमाह -
ब्रह्मणेति ।
प्रसिसञ्चरो महाप्रलयः । कृतात्मानः संस्कृ­ता­न्तः­क­रणा ज्ञानिनः ।

ज्ञानस्य नियतफलत्वे हेत्वन्तरमाह -
प्रत्यक्षेति ।
भुजि­व­द्धि­योऽ­न्व­य­व्य­ति­रे­क­सि­द्ध­फ­ल­त्वान्न फला­भा­व­श­ङ्के­त्यर्थः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -
कर्मेति ।

ज्ञानफले तुल्य­म­नु­भ­वा­ना­रू­ढ­त्व­मि­त्या­श­ङ्क्याह -
अनुभवेति ।

तत्क­थ­मि­त्य­पे­क्षायां प्रत्य­क्ष­व­स्तु­वि­ष­य­त्वा­दि­त्याह -
यदिति ।

परि­नि­ष्प­न्न­व­स्तु­वि­ष­य­त्वाच्च ज्ञानस्य प्रत्य­क्ष­फ­ल­ते­त्याह -
तत्त्वमिति ।

उपा­स्ति­सा­ध्य­त्वा­द्ब्र­ह्म­भा­व­स्या­सिद्धं ज्ञानस्य परि­नि­ष्प­न्न­वि­ष­य­त्व­मि­त्या­श­ङ्क्याह -
नहीति ।
वर्तमानापदेशस्य भविष्यदर्थता मृत­श­ब्दा­ध्या­हा­र­श्चा­युक्त इत्यर्थः ।

इतश्च ज्ञान­स्यै­का­न्ति­क­फ­ल­ते­त्याह -
तद्धेति ।
अव्यवहिते क्रियाहेतौ शतु­र्वि­धा­ना­त्पु­ष्क­ल­हे­तुत्वं सर्वात्मत्वं प्रति सम्यग्धियः सिद्धमित्यर्थः ।

श्रुति­स्मृ­ति­न्या­य­सि­द्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ३२ ॥

आधि­का­रि­का­णा­मा­र­ब्ध­क­र्म­व­शो­द्दे­हा­न्त­रा­र­म्भ­सि­द्धेर्न कर्मा­न्त­र­नि­मि­त्त­ते­त्यु­क्तम् । तथेहापि तत्त­त्प्र­क­र­णा­धी­त­नि­षे­धै­रे­वो­प­ल­क्ष­ण­तया सर्व­द्वै­त­नि­षे­ध­सि­द्धेर्न शाखा­न्त­री­य­नि­षे­धानां तत्र ब्रह्म­प्र­मि­ति­हे­तु­ते­त्या­श­ङ्क्याह -
अक्षरेति ।

विषयं वक्तुं वाक्यमुदाहरति -
वाजसनेयक इति ।
अन्य­त्रा­पी­त्य­दृ­श्ये­नात्म्य इत्यादाविति यावत् ।

निषेधमुखेन ब्रह्म­वा­दि­त­त्त­द्वा­क्य­स्था­पु­न­रु­क्त­श­ब्दा­न्वि­ष­य­त्वेन परिशिनष्टि -
तत्रेति ।

तानधिकृत्य न्याय­स­म्भ­वो­प­का­रा­स­म्भ­वाभ्यां संशयमाह -
तासामिति ।
बुद्धिग्रहणं तत्पू­र्व­क­श­ब्दो­प­ल­क्ष­णा­र्थम् ।

विद्यैक्येऽपि शरी­रा­नु­प­सं­हा­र­व­द­नु­प­सं­हारो निषे­ध­श­ब्दा­ना­मिति पूर्वपक्षयति -
श्रुतीति ।
तत्र श्रुतानामेव निषे­ध­श­ब्दा­ना­मु­प­ल­क्ष­ण­त्वे­ना­शे­ष­द्वै­त­नि­षे­ध­द्वारा निर्वि­शे­ष­ब्र­ह्मो­क्ति­सा­म­र्थ्या­दि­त्यर्थः । अपु­न­रु­क्त­नि­षे­ध­श­ब्दो­प­सं­हा­रो­क्ति­द्वारा वाक्या­र्थ­धी­हे­तु­वा­दा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे श्रुतेरेव निषे­धै­रु­प­ल­क्ष­ण­तया सर्वनिषेधे निर्वि­शे­ष­ब्र­ह्म­प्र­मित्या लाघवम् ।

सिद्धान्ते लक्ष­णै­क­दे­श­प­रि­शेषौ परिहृत्य निर्वि­शे­ष­ब्र­ह्म­प्र­मि­ति­नै­रा­का­ङ्क्ष्य­मिति मत्वा सिद्धान्तयति -
उच्यत इति ।

अक्षरे धर्मिणि द्वैत­नि­षे­ध­धि­योऽ­क्ष­रस्य धिय इत्यर्थकं सूत्रपदं व्याचष्टे -
अक्षरेति ।

तत्र हेतुमवतार्य विभजते -
सामान्येति ।
आरो­पि­त­वि­शे­ष­नि­रा­सेन ब्रह्मो­क्ते­स्तत्र तत्र तुल्य­त्वा­द्ब्र­ह्म­णश्च प्रतिपाद्यस्य सर्वत्रैक्येन प्रत्य­भि­ज्ञा­ना­त्त­द्यो­गिनां शब्द­प्र­त्य­या­ना­मु­प­सं­हार इत्यर्थः ।

श्रुत­क­ति­प­य­नि­षे­धै­रेव सर्व­नि­षे­धो­प­ल­क्ष­णा­त्कि­मु­प­सं­हा­रे­णे­त्या­श­ङ्क्याह -
तत्रेति ।
अन्यत्रेति शाखाभेदोक्तिः । अनु­प­सं­हा­र­श्चे­द­श्रु­त­द्वै­त­नि­षे­धाय तत्र तत्र कति­प­य­नि­षे­ध­श­ब्दानां लक्षणा द्वैतैकदेशशेषो वा स्यात्ततो वरं द्वैत­नि­षे­धा­त्कृ­त्स्न­श­ब्दो­प­सं­हा­रे­णै­क­वा­क्य­त्व­मि­त्यर्थः ।

तत्रा­नु­ग्रा­ह­क­न्यायं दर्शयति -
तथाचेति ।

तर्हि पुन­रु­क्ति­रि­त्या­शङ्क्य भावा­भा­व­ध­र्म­वि­ष­य­तया परिहरति -
तत्रेति ।

तथापि न्याय­सा­म्या­त्त­द­वस्थं पौनरुक्त्यं, तत्राह -
प्रपञ्चेति ।

ब्रह्म­स्व­रू­प­त्वा­दा­न­न्दा­द्यु­प­सं­हा­रेऽपि निषे­धा­ना­म­ना­त्म­त्वा­न्नि­षे­ध्या­न­न्त्ये­ना­न­न्त्या­च्चै­क­त्रो­प­सं­हा­रा­यो­गा­र्त्कि­चि­न्नि­षे­धे­ना­न्य­ल­क्ष­णायां च श्रुतेनैव सिद्धे­रु­प­सं­हा­रा­न­र्थ­क्यान्न निषे­धो­प­सं­हा­र­सि­द्धि­रि­त्या­शङ्क्य निषे­धा­ना­म­ना­त्म­त्वेऽ­प्या­त्म­ल­क्ष­ण­तया तत्प्रमित्यर्थं सार्व­त्रि­क­त्वा­न्नि­षे­ध्य­द्वै­तस्य भूत­भौ­ति­क­त्वा­दि­रू­पस्य मितत्वेन तत्रापि मिति­सि­द्धे­रु­प­सं­हारः स्यादि­त्य­भि­प्रे­त्यो­क्तम् -
प्रप­ञ्चा­र्थ­श्चेति ।

शाख्या­न्त­रो­क्ता­ना­मपि प्रधा­न­यो­गि­ना­मु­प­सं­हार इत्यत्र दृष्टान्तमाह -
औपसदवदिति ।

निदर्शनं विवृणोति -
यथेति ।
जमदग्निः पुष्टि­का­म­श्च­तू­रा­त्रे­णा­य­ज­ते­त्यु­त्पन्ने जामदग्न्येऽहीने पुरोडाशिन्य उपसदो भवन्तीति तैत्तिरीये पुरो­डा­श­यु­क्ता­सू­प­स­त्स्वि­ष्टि­षू­प­दि­ष्टासु पुरो­डा­श­प्र­दा­न­म­न्त्रा­णा­मु­द्गा­तृ­वे­दो­त्प­न्ना­ना­मु­द्गात्रा प्रयोगे प्राप्तेऽ­ध्व­र्यु­प्र­दा­नके पुरोडाशे विनियोगात्तस्य चोत्प­त्त्य­पे­क्षया प्राधा­न्या­त्त­द­नु­रो­धे­ना­ध्व­र्यु­णैव तेषां प्रयोगो नोद्गा­त्रे­त्यर्थः ।

उक्तमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।

अत्रै­वो­दा­ह­र­णा­न्त­र­वि­व­क्षया तार्तीयं सूत्रमुदाहरति -
तदुक्तमिति ।

याजु­र्वे­दि­केऽ­ग्न्या­धाने य एवं विद्वा­न­ग्नि­मा­धत्त इति श्रुते­स्त­द­ङ्ग­त्वेन य एवं विद्वा­न्वा­र­व­न्तीयं गायति य एवं विद्वा­न्य­ज्ञा­य­ज्ञीयं गायति य एवं विद्वा­न्वा­म­देव्यं गायतीति तत्रैव सामगानं श्रुतं तत्र किमेतानि वारवन्तीयादीनि साम­वे­दो­त्प­न्न­त्वा­त्त­त्रो­त्प­न्नो­चै­ष्ट्वेन स्वरेणाधाने प्रयोक्तव्यानि किंवा यत्र विनियुज्यन्ते तत्रो­त्प­न्नो­पां­शु­त्वे­नेति सन्देहे सत्यु­त्प­त्ति­वि­धि­नै­वा­पे­क्षि­तो­पा­य­त्वा­त्मना विहि­त­त्वा­द­ङ्गानां तस्यैव प्राथ­म्या­त्त­न्नि­मि­त्तो­च्चैः­स्वरे प्राप्ते प्रत्याह -
गुणेति ।

उत्प­त्ति­वि­धि­र्गुणो विनि­यो­ग­वि­धि­र्मु­ख्य­स्त­यो­र्व्य­ति­क्रमो विरोध उत्प­त्ति­वि­ध्या­ल­च­न­यो­च्चैस्त्वं विनि­यो­ग­वि­ध्या­लो­च­न­यो­पां­शु­त्व­मिति तस्मि­न्व्य­ति­क्रमे सति मुख्येन प्रधानेन विनियुज्यमानेन रूपेण वार­व­न्ती­या­दे­र्वे­दस्य संयोगो ग्राह्यो नोत्प­द्य­मा­न­त्वेन गुणेनेति प्रतिज्ञायां हेतुमाह -
तदर्थत्वादिति ।
उत्पद्यमानस्य विनि­यु­ज्य­मा­ना­र्थ­त्वा­द्य­द्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदु­त्प­त्ति­मा­त्र­प­रत्वं विनियोगस्य याजु­र्वे­दि­क­वा­क्यै­रेव प्राप्तेस्तत एव समी­हि­ता­र्थ­प्र­ति­ल­म्भा­त्त­द­र्था­न्ये­वो­त्प­त्ति­वा­क्या­नीति तस्यैव स्वर­स्या­र्थ­सं­स्प­र्शिनो ग्रहणमित्यर्थः । उदाहरणान्तरं तु समानन्यायतया दर्शितमिति न शाबरविरोधः ॥ ३३ ॥

प्रति­र­पा­द्य­ब्र­ह्म­प्र­त्य­भि­ज्ञा­ना­ज्ज्ञा­नै­क्येऽ­क्ष­र­धि­या­मु­प­सं­हा­र­व­त्प्र­ति­पा­द्य­भे­दा­द्वि­द्या­भेदः स्यादि­त्या­श­ङ्क्याह -
इयदिति ।

गुहां प्रवि­ष्टा­वि­त्यत्र सिद्धार्थमपि वाक्य­मु­प­सं­हा­रा­नु­प­सं­हा­र­प्र­स­ङ्गा­त्पु­न­रु­दा­ह­रति -
द्वा सुपर्णेति ।

तथाविधमेव काठकवाक्यमपि पठति -
तथेति ।

मन्त्रद्वयं विषयीकृत्य प्रति­पा­द­न­प्र­का­र­भे­दा­द्वि­द्या­भे­द­भा­ना­त्प्र­ति­पा­द्या­सं­सा­र्या­त्म­दृ­ष्टे­स्त­दै­क्य­दृ­ष्टेश्च संशयमाह -
किमिति ।
मन्त्रद्वयेऽपि विद्यै­क्योक्त्या वाक्या­र्थ­धी­हे­तो­रे­वो­क्त­त्वा­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे गुणानुपसंहारः सिद्धान्ते तदुपसंहार इत्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किं तावदिति ।

अर्थै­क्य­दृ­ष्टेर्न विद्या­ना­ना­त्व­मिति शङ्कते -
कुत इति ।

रूप­भे­द­दृ­ष्टे­र­र्थै­क्य­धी­र­सि­द्धे­त्याह -
विशेषेति ।

तदेव विवृणोति -
द्वासुपर्णेति ।
भोक्त्र­भो­क्त्रोर्द्वा सुपर्णेत्यत्र वेद्यता भोक्त्रो­रे­वा­न्य­त्रेति वेद्य­भे­दा­द्वि­द्या­भेदः । नच छत्रिन्यायेन पिबान्ताविति लक्षणा मुख्यसम्भवे तदयोगात् । नच वाक्य­शे­षा­ल्ल­क्ष­णो­प­क्र­मस्य मुख्य­ला­क्ष­णि­क­ग्र­ह­ण­वि­षये तुल्य­ब­ल­त्वा­भा­वा­देव संशयानुपपत्तेः ।

नच प्रकरणं लक्षणाबीजं वाक्येन बाधादिति मत्वोपसंहरति -
तदिति ।

मन्त्र­यो­र्वि­द्या­ना­ना­त्व­म­नु­प­सं­हा­र­श्चेति पक्षमनूद्य बहिरेव सिद्धान्तमाह -
एवमिति ।

तत्र प्रश्नपूर्वकं हेतुत्वेन सूत्रं योजयति -
कुत इति ।

इय­त्ता­प­रि­च्छि­न्न­मि­त्ये­त­देव व्याचष्टे -
द्वित्वेति ।

रूप­मे­दा­द्वि­द्या­भेदं स्मारयति -
नन्विति ।

रूपभेदासिद्ध्या प्रत्याह -
नेति ।
अर्थान्तरशब्देन जीवो गृह्यते ।

जीवानुवादेन तद्याथार्थ्यं परमात्मतत्त्वं प्रति­पा­द्य­मि­त्ये­त­दा­थ­र्व­णा­दि­मन्त्रे साधयति -
द्वा सुपर्णेति ।

तत्र वाक्य­शे­ष­म­नु­कू­ल­यति -
वाक्येति ।

तमेव दर्शयति । तथापि काठके भोक्रो­रे­वो­क्ते­र्ने­श्व­रा­र्थ­ते­त्या­श­ङ्क्याह -
ऋतमिति ।
मन्त्रद्वयेऽपि द्वित्व­स­ङ्ख्या­दृ­ष्टे­रु­भ­यो­स्तु­ल्यतां विना च द्वित्व­स­ङ्ख्या­यो­गा­च्चे­त­नस्य जीवस्य परमात्मैव चेतनत्वात्तुल्य इति पिबन्तावित्यस्य लक्षणा बला­दा­या­ती­त्यर्थः ।

किञ्च प्रकरणादपि परमात्मैवात्र भातीत्याह -
परमात्मेति ।

उप­क्र­म­व­दु­प­सं­हा­रोऽपि तद्विषय एवेत्याह -
तदिति ।
अत्रा­पी­त्य­पि­श­ब्दा­दा­थ­र्व­णि­का­दि­वाक्यं दृष्टान्त्यते । उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­न्म­ध्य­मपि तथा नेयमिति भावः ।

सिद्धा­र्थ­त्वाच्च मन्त्रद्वयस्य परविषयतेत्याह -
गुहामिति ।

मन्त्रद्वयस्य पर­मा­त्मै­का­र्थ­त्वा­द्रू­पा­भे­दा­द्वि­द्या­भेदो नेति निगमयति -
तस्मादिति ।

न केवलं मन्त्रद्वयमेव परविषयं किन्तु तत्सं­नि­ध्या­म्नातं सर्वमपि मन्त्र­जा­त­मि­त्याह -
अपिचेति ।
आथ­र्व­णि­क­श्वे­ता­श्व­त­र­का­ठ­क­वि­व­क्षया त्रिष्वि­त्यु­क्तम् ।

किमिति तर्हि जीवोपादानं तदाह -
तादात्म्येति ।
ऐक्यं वक्तुं जीवोऽनूद्यत इत्यर्थः ।

तदनुवादेन परप्रतिपादनेऽपि कुतो विद्यैक्यं, तत्राह -
नचेति ।

प्रागेव मन्त्रद्वयस्य सिद्धार्थत्वे किम­ने­ना­धि­क­र­णे­ने­त्या­श­ङ्क्याह -
तस्मादिति ।

गुणो­प­सं­हा­र­प्र­स्तावे मन्त्र­द्व­य­वि­व­रणं कुत्रोपयुक्तं, तत्राह -
तस्माच्चेति ॥ ३४ ॥

मन्त्र­यो­र­र्था­भे­दो­क्ति­प्र­स­ङ्गेन ब्राह्मणयोरपि तुल्यार्थतामाह -
अन्तरेति ।

बृहदारण्यके पाञ्चमिकं ब्राह्म­ण­द्व­य­मु­दा­ह­रति -
यदिति ।

घटादि संवि­त्क­र्म­त्वे­ना­प­रोक्षं ब्रह्म तु साक्षादपरोक्षं तदेव प्रत्य­गा­त्मे­त्याह -
य इति ।
स च सर्वान्तरो ब्रह्मणि सिद्धस्य सर्वा­न्त­र­त्व­स्या­त्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि सङ्की­र्त­ना­दु­भ­यो­रै­क्य­मि­त्यर्थः । तन्मे व्याचक्ष्वेति शेषः ।

ब्राह्मणद्वयं विष­यी­कृ­त्या­भ्या­सा­त्स­र्वा­न्त­र­त्व­प्र­त्य­भि­ज्ञा­नाच्च संशयमाह -
तत्रेति ।
पिबन्तावित्यस्य लाक्षणिकत्वं गृहीत्वा मन्त्र­यो­र्भो­क्त्र­भो­क्तृ­प­र­त्वे­ना­त्मै­क्या­द्वि­द्यै­क्य­मु­क्तम् ।

इह त्वर्थैक्येऽपि न विद्यै­क्य­म­भ्या­सा­दिति पूर्वपक्षमाह -
विद्येति ।

हेतुं व्यतिरेकतः स्फोरयति -
अन्यथेति ।

एकस्यैव पुनः श्रुति­र­वि­शे­षा­द­न­र्थकं हि स्यादि­ति­न्या­या­द्य­ज­त्य­भ्या­सेऽ­पू­र्व­क­र्म­भे­द­व­द्वि­द्या­भेद इत्युपसंहरति -
तस्मादिति ।
ब्राह्म­ण­यो­रे­का­र्थ­त्वेन विद्यै­क्योक्त्या वाक्या­र्थ­धी­हे­तो­रे­वात्र चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे विद्या­भे­दा­द्गु­णा­नु­प­सं­हारः ।

सिद्धान्ते तदै­क्या­त्त­दु­प­सं­हा­र­सि­द्धि­रिति सिद्धवत्कृत्य सिद्धान्तयति -
एवमिति ।

पूर्व­सू­त्र­स्थ­मा­म­न­ना­दि­ति­प­द­मि­हा­नु­ष­क्त­मि­त्य­ङ्गी­कृत्य स्वात्म­नोऽ­न्त­रा­म्ना­ना­वि­शे­षा­दि­त्युक्तं तदेव स्फुटयति -
सर्वेति ।

तथापि कथं ब्राह्म­ण­यो­रै­कार्थ्यं, तत्राह -
नहीति ।
द्वयोः सर्वा­न्त­र­त्वा­युक्ते रूपै­क्य­सि­द्धे­र्वि­द्यै­क्य­मि­त्यर्थः ।

कथं पुनर्द्वयोः सर्वा­न्त­र­त्वा­नु­प­प­त्ति­र्म­नो­म­य­त्वा­दि­व­दु­प­पत्तेः, तत्राह -
तदाहीति ।

भूत­ग्रा­म­दृ­ष्टान्तं व्याचष्टे -
यथेति ।

तमेवानूद्य विधान्तरेण व्याकरोति -
अथवेति ।

द्वयोः सर्वा­न्त­र­त्वा­यो­ग­ल­भ्य­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ३५ ॥

पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति -
अन्यथेति ।

तत्रानुवादं व्याकरोति -
अथेति ।

परिहारमवतारयति -
अत्रेति ।

नञोऽर्थमुक्त्वा दृष्टा­न्ते­ना­म्ना­न­भे­दो­प­पत्तिं सूत्रा­व­य­वा­र्थ­माह -
नेत्यादिना ।

तदेव विवृणोति -
यथेति ।

दृष्टान्तोऽपि संमतो नेति शङ्कते -
कथञ्चेति ।

दृष्टान्ते विद्यैक्यं साधयति -
उपक्रमेति ।

ऐकार्थ्यसिद्धौ हेत्वन्तरमाह -
भूय इति ।

एकस्यैव भूयः­श­ब्दा­त्प्र­ति­पा­द्यत्वे पौन­रु­क्त्य­मि­त्या­श­ङ्क्याह -
आशङ्क्यान्तरेति ।

दार्ष्टा­न्ति­क­माह -
एवमिति ।

इहेति ब्राह्म­ण­द्व­योक्तिः । एव­का­र­सा­म­र्थ्या­दपि विद्यै­क्य­मि­त्याह -
यदेवेति ।

यत्सा­क्षा­द­प­रो­क्षा­देव न कदाचिदपि परो­क्ष­मि­त्ये­व­मे­व­कारो योज्य­ता­मि­त्या­शङ्क्य व्यव­हि­ता­न्व­या­न्मै­व­मिति मत्वाह -
पूर्वेति ।

कथं तर्हि पौन­रु­क्त्या­दा­न­र्थ­क्या­प­त्ति­स­माधिः, तत्राह -
पूर्वस्मिन्निति ।

उषस्तप्रश्ने कार्यकरणविरहः साध्यते यः प्राणेन प्राणि­ती­त्या­दि­नि­र्दे­शा­त्क­हो­ल­प्रश्ने त्वशनायादिविरहो योऽशनायापिपासे शोकं मोह­मि­त्या­दि­द­र्श­ना­त्तथा चैक­स्यै­वा­का­र­भे­दे­नोक्तौ पौनरुक्त्यं कुतस्त्यमित्याह -
इत्येकार्थतेति ।

ऐकार्थ्ये फलितमाह -
तस्मादिति ॥ ३६ ॥

तत्त्व­म­सी­त्ये­क­त्वो­प­दे­श­स्यो­प­दे­शा­न्त­र­व­दि­त्य­नेेन सूत्रा­व­य­वे­नो­दा­हृ­त­त्वा­त्त­त्प्र­स­ङ्गे­नै­क­त्व­वा­दि­वा­क्या­न्त­राणां तात्पर्यमाह -
व्यतिहार इति ।

ऐतरेयकवाक्यं जाबालवाक्यं चोदाहरति -
तदिति ।

वाक्य­द्व­य­म­धि­कृत्य व्यति­हा­र­स्या­न्योन्यं विशे­ष­ण­वि­शे­ष्य­त्वस्य दृष्टे­रु­त्कृ­ष्ट­दृ­ष्टि­र्नि­कृष्टे फलवतीति न्यायाच्च संशयमाह -
तत्रेति ।

उष­स्त­क­हो­ल­यो­र्वि­द्यै­क्येऽपि यथा­द­रा­र्थोऽ­भ्या­स­स्त­था­य­म­पीति मत्वा पूर्वपक्षयति -
एकेति ।

पदा­न्त­रा­णा­म­र्था­न्त­र­प­र­त्व­स्वा­र­स्या­त्कथं मते­रै­क­रू­प्य­मि­त्या­श­ङ्क्याह -
नहीति ।

अन्यो­न्या­त्म­त्व­म­र्था­न्त­र­मि­त्य­श­ङ्क्याह -
यदीति ।

अन्यो­न्या­त्म­ना­नु­चि­न्त­न­स्या­यु­क्तत्वे फलितमाह -
तस्मादिति ।

तर्हि किमर्थं व्यतिहाराम्नानं तदाह -
व्यतिहारेति ।
व्यतिहारपाठे द्विरूपाया मते­र­नु­ष्ठे­य­त्वोक्त्या विद्यै­क्यो­क्ते­र्वा­क्या­र्थ­धी­हे­तो­रेव चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे मतेरेकरूपत्वे लाघवम् ।

सिद्धान्ते तस्या द्वैरूप्ये दृढत्वमैक्यस्य सिध्यतीति मन्वानः सिद्धान्तयति -
एवमिति ।
व्यतिहारो मिथो विशे­ष­ण­वि­शे­ष्य­त्व­मा­ध्या­न­मु­भ­य­रू­प­म­ति­क­र­णम् ।

प्रतिज्ञातमर्थं दृष्टान्तेन स्पष्टयति -
इतरवदिति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भागौ व्याख्याय हेतुं व्याख्याति -
तथा हीति ।

उभ­य­रू­पो­च्चा­र­णेऽपि कथं प्रति­ज्ञा­सिद्धिः, तत्राह -
तच्चेति ।

तदेव व्यतिरेकमुखेनाह -
अन्यथेति ।
जीवे ब्रह्मधीरेकैव चेत्तदा त्वम­ह­मि­त्ये­ता­व­तैव सिद्धे­रु­भ­यो­च्चा­र­ण­म­न­र्थकं तस्मा­त्त­द­र्थ­व­त्त्वा­नु­प­पत्त्या मतिरुभयरूपैव कार्येत्यर्थः ।

उक्तं स्मारयति -
नन्विति ।

निर्गुणस्य सगु­ण­त्वो­क्ति­व­द­न्यो­न्या­त्म­तया ध्यानमात्रस्य विधानान्न वस्तुतो निकृष्टतेत्याह -
नेत्यादिना ।
ईश्वरे जीव­ता­दा­त्म्य­स्या­रो­प्यो­पा­स्य­त्वा­न्ने­श्व­र­स्यो­त्क­र्ष­नि­वृ­त्ति­रि­त्यर्थः ।

वच­ना­दु­भ­य­त्रो­भ­या­नु­चि­न्तने मदु­क्त­मे­वा­या­त­मिति शङ्कते -
नन्विति ।

किमिह नान्त­री­य­त्वे­नै­क­त्व­मपि दृढी­भ­व­ती­त्यु­च्यते किंवा तत्त्व­म­स्या­दि­व­त्त­दे­वो­प­दि­श्यत इति, तत्राद्यं प्रत्याह -
न वयमिति ।

न द्वितीयो ध्यान­वि­धि­प­र­त्वा­द्वा­क्य­स्ये­त्याह -
किं तर्हीति ।

इहे­त्यु­दा­ह­र­णोक्तिः । एक­त्व­ज्ञा­न­स्या­पीह भानात्तत्परत्वं किं न स्यात् , तत्राह -
फलतस्त्विति ।
अर्थादित्यर्थः ।

कथ­मु­पा­स्ति­प­र­त्वेऽ­र्था­दपि तद्दृढीकरणं, तत्राह -
यथेति ।
अन्यपरस्यापि माना­न्त­रा­वि­रु­द्धेऽर्थे स्यान्मा­न­त्व­मि­त्यर्थः ।

उभ­यो­च्चा­र­ण­सा­म­र्थ्य­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ।

व्यति­हा­रा­नु­चि­न्त­न­का­र्य­ता­की­र्त­नस्य पादसङ्गतिं सूचयति -
समाने चेति ।
यत्र यत्रा­ह­ङ्ग्र­हे­णो­पा­स्ति­स्तत्र तत्रेति यावत् । उभयरूपमतिकरणे सत्येकत्वमर्थतो दृढीभवतीति वक्तु­मि­ती­त्यु­क्तम् ॥ ३७ ॥

जीव­ब्र­ह्म­णो­र­न्यो­न्या­त्म­त्वो­क्ति­भे­दा­द्द्वि­रूपा मति­र­नु­ष्ठे­ये­त्यु­क्तम् । सम्प्रति जय­ती­माँ­ल्लो­का­न्हन्ति पाप्मानमिति च फलो­क्ति­भे­दा­द्वि­द्या­भे­द­मा­श­ङ्क्यो­क्तम् -
सैवेति ।

सत्य­वि­द्या­मु­दा­ह­रति -
स यो हेति ।

अविशेषेणाधिकारी सर्व­ना­म­भ्या­मुक्तः । उपा­स्य­प्र­सि­द्ध्यर्थो हशब्दः । एतदिति बुद्धि­स्थ­मु­पास्यं परामृश्यते । तस्य व्यापकत्वमाह -
महदिति ।

यक्षं पूज्यं प्रथमजं भौतिकानां मध्ये प्रथमं जातं सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः ।

तदेतदक्षरं सत्यमिति स इत्ये­क­म­क्ष­र­मि­त्या­दिना सत्य­ना­म­वि­शि­ष्ट­मु­पा­स­न­मु­क्त­मि­त्याह -
सनामेति ।

तत्तत्र ब्रह्मणो हृदयात्मत्वे सिद्धे यत्तद्ब्रह्म सत्यं हृदयाख्यं सोऽसावादित्य इति योजना । विशे­ष्या­दि­त्य­व­शेन स इत्युक्तम् । तस्य मण्डलमात्रत्वं व्यावर्तयति -
य एष इति ।

तस्यै­वा­ध्या­त्मि­क­त्व­माह -
यश्चेति ।

वाक्यद्वये श्रुतांं सत्यविद्यां विषयीकृत्य फल­भे­दा­त्प्र­कृ­ता­क­र्ष­णाच्च संशयमाह -
तत्रेति ।
विद्या­भे­दा­भे­द­नि­रू­प­ण्द्वारा वाक्या­र्थ­धी­हे­तू­क्ते­रत्र पादादिसङ्गतिः ।

पूर्वपक्षे गुणव्यवस्था सिद्धान्ते तद­व्य­व­स्थे­त्य­भि­प्रेत्य पूर्वपक्षयति -
द्वे इति ।
सत्य­ना­मा­क्ष­र­त्र­य­वि­शि­ष्टा­द­ह­र­ह­ङ्गु­ण­वि­शि­ष्टस्य विलक्षणतया रूप­भे­दा­द्वि­द्या­भेद इत्यर्थः ।

तत्रैव फलसंयोगभेदं हेत्वन्तरमाह -
भेदेनेति ।

तद्य­दि­ति­प्र­कृ­ता­क­र्ष­णा­द्ब्र­ह्मणः सत्य­ना­मा­क्ष­र­वि­शि­ष्ट­स्यो­त्त­रत्र स्थान­गु­ण­स­म्ब­न्ध­क­थ­ना­द्रू­पैक्ये कुतो विद्यानानात्वं, तत्राह -
प्रकृतेति ।
फल­भे­द­स्यो­क्त­त्वा­न्नि­त्य­का­म्य­द­र्श­पू­र्ण­मा­स­व­द­नु­ब­न्धा­भे­देऽपि विद्या­ना­ना­त्व­मिति भावः ।

विद्या­भे­दा­द्गु­ण­व्य­व­स्थेति पक्षमनूद्य सैवेति सूत्रावयवेन सिद्धान्तमाह -
एवमिति ।

तत्र हेतुं हिशब्दसूचितं प्रश्नपूर्वकमाह -
कुत इति ।

खल्वे­त­स्यै­वा­क्ष­र­स्यो­प­व्या­ख्या­न­मि­ति­व­द्वि­द्या­भे­देऽपि प्रकृताकर्षणं स्यादिति शङ्कते -
नन्विति ।

तत्र कार­णा­न्त­रा­द­प­वा­दा­द्वि­द्या­भे­देऽपि प्रकृते तद­भा­वा­त्त­च्छ­ब्देन प्रकृ­त­ग्र­हा­द­भे­देन प्रत्य­भि­ज्ञा­ना­द्वि­द्यै­क्य­मि­त्याह -
नैतदिति ।
खल्वे­त­स्ये­त्यादि यत्रेत्युक्तम् । कारणान्तरं फलभेदादि । एतदिति प्रकृ­ता­क­र्ष­ण­मु­क्तम् । एवमिति तस्य वियै­क्य­व्य­भि­चा­रि­त्व­मिति भेदः । अत्रेति सत्यविद्योच्यते । उभयथा सम्भवो भेदा­भे­दा­भ्या­मु­प­पत्तिः ।

प्रकृते फलसंयोगभेदो भेदो­प­पा­द­कोऽ­स्ती­त्युक्तं तत्राह -
यत्पुनरिति ।

प्रशं­सा­र्थ­वा­द­क­त्वे­नास्य फल­वि­धि­त्वा­भा­वान्न फल­सं­यो­ग­भे­द­सि­द्धि­रि­त्याह -
अत्रेति ।

इतश्च फल­भे­दा­द्वि­द्या­भेदो नात्रेत्याह -
अपिचेति ।

विध्युद्देशे फलान्तराश्रुते रात्रि­स­त्र­व­त्फले कल्प्ये सत्य­गृ­ही­त­वि­शे­ष­तया सर्वस्यापि फलस्य तत्स­म्ब­न्धि­ता­क­ल्प­नान्न फल­भे­दा­द्वि­द्या­भे­दा­श­ङ्के­त्याह -
अर्थेति ।

अपवादरहितं हेतुमुक्त्वा प्रतिज्ञातं विद्यै­क्य­मु­प­सं­ह­रति -
तस्मादिति ।

अवशिष्टं सूत्रावयवं व्याकु­र्व­न्पू­र्वा­प­र­वा­क्या­र्थ­वि­शे­ष­णा­न्ये­की­कृत्य ध्यानं कार्यमित्याह -
इत्यत इति ।

पर­की­य­व्या­ख्या­मु­त्था­प­यति -
केचिदिति ।

तद्दूषयति -
तन्नेति ।

कर्म­स­म्ब­न्धि­नी­त्यत्र कर्म ज्योति­ष्टो­म­स्त­द­ङ्ग­भू­तो­द्गी­थ­व्य­पा­श्र­य­त्व­मेव विद्याया विशदयति -
तत्रेति ।

उद्गी­थ­श­ब्द­वा­च्य­र्क्सा­म­गे­ष्ण­त्वा­त्प­र­मा­त्मो­द्गी­थ­श­ब्द­वाच्य इत्याह -
तस्मादिति ।
अथ य एषोऽन्तरादित्य इत्य­स्या­दि­म­ध्या­व­सान ऋक्सामयोः कर्माङ्गयोः पृथि­व्या­दि­दृ­ष्टि­वि­शि­ष्ट­यो­र्ध्ये­य­त्व­दृ­ष्टे­रा­दि­त्या­क्षि­पु­रु­ष­वि­शि­ष्ट­क­र्मा­ङ्गो­द्गी­थ­ध्यानं छान्दो­ग्येऽ­भी­ष्ट­मि­त्यर्थः ।

वाजसनेयकेऽपि कर्मा­ङ्गा­व­ब­द्ध­मेव ध्यानमिष्टमिति न विद्या­ना­ना­त्व­मि­त्या­श­ङ्क्याह -
नैवमिति ।

नित्य­का­म्या­ग्नि­हो­त्र­यो­र्धा­त्व­र्था­भे­देऽपि साध्यभेदेन भेद­व­दु­पा­स्यै­क्येऽपि फलभेदेन विद्ययोर्भेदे गुणानुसंहार इत्युपसंहरति -
तत्रेति ॥ ३८ ॥

तद्य­त्त­त्स­त्य­मि­ति­प्र­कृ­ता­क­र्ष­णा­द्रू­पा­भे­दा­द्गु­णो­प­सं­हा­र­श्चे­त्क्व­चि­दा­का­श­स्यो­पा­स्यत्वं क्वचि­त्त­दा­श्र­यस्य ज्ञेयतेति । रूप­भे­दा­द्गु­णा­नु­प­सं­हारः स्यादि­त्या­श­ङ्क्याह -
कामादीति ।

सगु­ण­नि­र्गु­ण­वि­द्या­वि­षयं वाक्यमुदाहरति -
अथेति ।
परावरविद्यागता वशित्वादयः सत्यकामादयश्च गुणा विषयास्ते किमन्योन्यत्र नोपसंहर्तंव्याः किंवो­प­सं­ह­र्तव्या इत्यु­भ­य­त्रो­भ­ये­षा­मु­प­यो­ग­भा­वा­भा­वाभ्यां संशये ध्यान­स्तु­त्यु­प­यो­गि­त्वेन गुणा­ना­म­न्यो­न्य­त्रो­प­सं­हा­रोक्त्या वाक्या­र्थ­धी­त­द्धे­तु­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे क्वचिदाकाशस्य ध्येयत्वं क्वचि­त्त­दा­श्र­यस्य ज्ञेयतेति विशेषसिद्धिः ।

सिद्धान्तेऽपि ब्रह्मण एवा­का­श­श­ब्द­त्वा­दु­क्त­वि­शे­षो­प­प­त्ति­रि­त्य­ङ्गी­कृत्य सिद्धान्तमाह -
तत्रेति ।

अव­य­व­वा­च­के­ना­व­य­वि­ग्रहे दृष्टान्तमाह -
यथेति ।

पदार्थमुक्त्वा वाक्यार्थमाह -
यदेतदिति ।

हेतुमुक्तं विवृणोति -
समानं हीति ।
आदि­प­दे­ना­त्म­त्वादि गृह्यते । बहु­त­र­सा­म्य­द­र्श­ना­दि­त­रे­त­र­गु­णो­प­सं­हार इत्यर्थः ।

अस्याधिकरणस्य पूर्वपक्षमाह -
नन्विति ।

नायं विशे­ष­स्त­त्रा­प्या­का­शस्य ब्रह्म­त्वा­दि­त्याह -
नेत्यादिना ।

सगुणनिर्गुणतया विद्या­भे­दा­द­प­ह­त­पा­प्म­त्वा­दीनां वशित्वादीनां चेत­रे­त­र­त्रा­नु­प­सं­हार इत्याशङ्क्याह -
अयं त्विति ।

वाजसनेयकेऽपि वशि­त्वा­द्यु­प­दे­श­द­र्श­ना­द्ब्रह्म सगु­ण­मे­वे­त्या­श­ङ्क्याह -
स्तुत्यर्थमिति ।

तत्र निर्णायकत्वेन वाक्यशेषं दर्शयति -
तथाचेति ।

कथं तर्हि गुणोपसंहारः सूत्रितः, तत्राह -
गुणवतस्त्विति ।
साम्य­बा­हु­ल्या­द्ब्र­ह्मणो ध्येयस्य स्तूय­मा­न­स्ये­त­रे­त­रत्र संनिधानाच्च क्वचि­दु­पा­स्य­त्वाय क्वचिच्च स्तुति­पौ­ष्क­ल्या­या­का­ङ्क्षि­त­त्वा­त्त­त्त­द्गु­ण­सं­यो­ग­यो­ग्य­त्वाच्च ब्रह्मणो वशि­त्वा­दी­ना­म­प­ह­त­पा­प्म­त्वा­दीनां चेत­रे­त­र­त्रो­प­सं­हारः । स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येय­त्वे­नो­क्ता­ना­मपि गुणानां निर्गु­ण­वि­द्यायां युक्तः स्तुत्य­र्थ­त्वे­ना­न्वयः । ध्येयत्वं त्वपू­र्व­वि­ध्ये­क­ग­म्यम् । यत्र वशित्वादयः श्रुता न तत्रैषां ध्येयत्वेन विधा­न­मि­त्य­न्यत्र गतानामपि न ध्येयत्वम् । स्तुत्वर्थत्वं तु स्यात्तदपि न शब्दतस्तत्रैषां नयनमपेक्षते सत्य­का­म­त्वा­दि­सा­म­र्थ्या­देव सर्वे­श्व­र­त्वा­दि­सिद्धिः । अतोऽ­न्त­र्भा­व­मा­त्र­मु­प­सं­हार इति भावः ॥ ३९ ॥

उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणा­लो­प­व­त्पू­र्वोऽ­ति­थिभ्य इत्या­दि­श्रु­त्यु­प­प­त्तये भोजनलोपेऽपि प्राणा­ग्नि­हो­त्रा­लोप इति चोदयति -
आदरादिति ।

वैश्वा­न­र­वि­द्या­गतं प्राणा­ग्नि­होत्रं विष­य­त्वे­नो­प­न्य­स्यति -
छान्दोग्य इति ।

स इति वैश्वा­न­र­वि­द्या­वि­दुक्तः । श्रुति­ता­त्प­र्यार्थं सङ्गृह्णाति -
तत्रेति ।

सन्देहार्थं शब्दा­न्त­र­प्र­योगं पूर्वपक्षबीजमाह -
तास्विति ।

न कश्चिदपि पाप्मा तं स्पृशतीति यच्छब्दस्य सम्बन्धः । प्राणा­ग्नि­होत्रे यच्छ­ब्दा­ग्नि­हो­त्र­श­ब्दाभ्यां संशयमाह -
तत्रेति ।
उपा­स्ति­वि­चा­र­प्र­स्ता­वेन तद्ग­त­प्र­थ­म­भो­ज­ना­श्रि­त­वि­चा­र­द्वारा वाक्या­र्थ­धी­हे­तु­वि­चा­र­स­ङ्क्रा­न्ते­रस्ति पादादिसङ्गतिः । पूर्वपक्षे प्रति­नि­धि­न्या­येन प्राणा­ग्नि­हो­त्र­का­र्य­ता­ध्रौ­व्यम् ।

सिद्धान्ते तद­न­व­ता­रा­त्त­द­ना­व­श्य­क­त्व­मि­त्या­श­येन पूर्व­प­क्ष­सू­त्र­व्या­वर्त्यां सिद्धा­न्ता­श­ङ्का­मु­त्था­प­यति -
तद्यदिति ।
भक्ता­ग­म­न­स­म्ब­न्धा­त्प्रा­णा­ग्नि­हो­त्र­स्येति सम्बन्धः । नच होमस्य भक्ता­ग­म­न­प्र­यो­ज­कत्वं भोज­न­प्र­यु­क्त­भ­क्तो­प­जी­वि­त्वा­द­त­स्त­ल्लोपे लोपा­त्पू­र्व­प­क्षा­भा­वा­द­धि­क­र­ण­म­ना­र­भ्य­मि­त्यर्थः ।

सूत्रेण पूर्वपक्षं समा­द­धा­नोऽ­धि­क­र­णा­र­म्भ­मु­प­पा­द­यति -
एवमिति ।
तावच्छब्दः सिद्धा­न्त­श­ङ्का­नि­रा­सार्थः ।

पूर्वपक्षी प्रश्नपूर्वकं स्वं हेतुमवतारयति -
कस्मादिति ।

आदरमेव स्फोरयति -
तथाहीति ।

विध्य­पे­क्षि­त­म­र्थ­वादं दर्शयति -
यथेति ।

ननु स्वामिभोजनस्य प्राथ­म्या­भा­वोऽत्र निन्द्यते कथमेतावता भोजनलोपेऽपि प्राणा­ग्नि­होत्रं न लुप्यते, तत्राह -
या हीति ।
अति­थि­भो­ज­नो­त्त­र­का­ल­वि­हि­त­मपि स्वामि­भो­ज­न­म­पो­द्या­ति­थि­भो­ज­ना­त्प्रा­गेव प्राण­आ­ग्नि­हे­त्र­ल­क्षणं स्वामिभोजनं प्रतिपादयन्ती श्रुतिस्तस्य प्राथ­म्य­ध­र्म­लो­प­मपि न सहते तत्र धर्मिलोपसहनं तु दूर­नि­र­स्त­मि­त्यर्थः ।

पूर्व­प­क्षा­क्षेपं स्मारयति -
नन्विति ।

तद्य­द्भ­क्त­मि­ति­वा­क्य­स्या­न्या­र्थ­त्वा­द्भो­ज­न­लो­पेऽपि नास्ति लोपोऽ­ग्नि­हो­त्र­स्येति दूषयति -
नेति ।

तदेव प्रपञ्चयति -
प्राकृते हीति ।

इहापीति प्राणा­ग्नि­होत्रं सप्तम्यर्थः । -
कौण्ड­पा­यि­ना­म­य­न­व­दिति ।
स्थितं भेदलक्षणे प्रकरणान्तरे प्रयो­ज­ना­न्य­त्वम् । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र नित्या­ग्नि­होत्रे मासगुणो वा विधीयते कर्मान्तरं वेति सन्देहे प्रदेशभेदे सत्यपि नाम्ना नित्या­ग्नि­हो­त्रस्य बुद्धि­सं­नि­धा­प­ना­त्त­त्स­म­भि­व्या­हृ­ता­ख्या­तस्य तत्सं­नि­धा­पि­ता­र्थ­प­र­त्वा­न्नि­त्या­ग्नि­हो­त्रा­नु­वा­देन मासविधिरिति प्राप्ते कालस्य पुरु­षा­नि­ष्पा­द्य­त्वे­ना­नु­पा­दे­य­त्वा­ज्जु­हो­ती­त्या­ख्या­तेन होमानुवादेन मास­वि­धे­र­यो­गा­त्त­दु­द्दे­शेन नित्या­ग्नि­हो­त्र­वि­धे­रपि तद­सं­नि­धे­र­स­म्भ­वा­न्नाम्ना च सिद्धार्थबोधिना पूर्वा­प­री­भू­त­त­या­ख्या­ते­नो­क्त­स्या­नु­प­स्था­प­ना­त्प्र­क­र­ण­भेदे प्रयोजनस्य विधे­य­भा­व­ना­ख्य­स्या­न्य­त्व­मिति कर्मा­न्त­र­वि­धि­रिति तद्ध­र्म­प्रा­प्ता­विति सप्तमे स्थितम् ‘उक्तं क्रियाभिधानं तच्छ्रु­ता­व­न्यत्र विधिप्रदेशः स्यात् ‘ । मासमग्निहोत्रं जुहो­ती­त्य­त्रै­वा­ग्नि­हो­त्र­शब्दो नित्या­ग्नि­हो­त्र­ध­र्मा­नि­हा­ति­दि­शेन्न वेति सन्देहे गौण­त्वा­भा­वा­द­ग्नि­हो­त्र­श­ब्दस्य जुहो­ति­सा­मा­ना­धि­क­र­ण्या­वि­शे­षा­द­त्रापि नाम­धे­य­त्वा­न्ना­ति­दि­शे­दिति प्राप्ते सिद्धे कर्म­भे­देऽ­ने­का­र्थ­त्व­स्या­न्या­य्य­त्वा­दे­क­त्रा­ग्नि­हो­त्र­श­ब्दस्य मुख्य­त्वा­द­न्यत्र गौण­त्वा­न्नि­त्या­ग्नि­होत्रे च नाम­प्र­वृ­त्ति­नि­मि­त्त­स्या­ग्नि­दे­व­ता­स­म्ब­न्धस्य भावात्तत्रैव मुख्य­त्वा­त्प­र­श­ब्दस्य परत्र सादृ­श्या­त्प्र­वृ­त्ति­रिति तत्सिद्ध्यर्थं नित्य­ध­र्मा­न­ति­दि­शति क्रियाया नित्या­ग्नि­हो­त्र­स्या­भि­धानं नाम­धे­य­म­ग्नि­हो­त्र­प­द­मुक्तं तत्प्र­ख्या­धि­क­रणे । तस्यान्यत्र श्रवणे विधिप्रदेशो विधे­य­ध­र्मा­ति­देशः स्यादिति सूत्रार्थः । तथाच यथा कुण्ड­पा­यि­ना­म­य­न­गते कर्मणि प्रक­र­णा­न्त­रा­न्नै­य­मि­का­ग्नि­हो­त्रा­द्भि­न्न­त्वेन सिद्धे नैय­मि­का­ग्नि­हो­त्र­वा­च­का­ग्नि­हो­त्र­श­ब्द­प्र­यो­गा­त्त­द्ध­र्मा­ति­दे­श­रू­प­ध­र्मा­न्त­र­प्राप्तिः । तथा नैय­मि­का­ग्नि­होत्रे पयोघृतादीनां प्रसि­द्ध­त्वा­त्प्रा­णा­ग्नि­होत्रे च नित्या­ग्नि­हो­त्र­वा­चि­श­ब्दा­त्त­द्ध­र्माणां पयःप्रभृतीनां प्राप्तौ भोज­न­ग­त­भ­क्त­द्र­व्य­कृ­ता­भि­धा­नार्थं तद्यद्भक्तमिति वाक्यमित्यर्थः ।

तथापि भोज­ना­र्थ­भ­क्तो­प­जी­वि­त्वा­त्प्रा­णा­ग्नि­हो­त्रस्य भोजनलोपे लोपः स्यात् , तत्राह -
अत इति ।

अग्न्याधाने पव­मा­ने­ष्टि­ष्व­ग्नये पवमानाय पुरो­डा­श­म­ष्टा­क­पालं निर्व­प­ती­त्या­द्यासु प्रकृ­ता­व­ग्नि­हो­त्र­ह­वण्या हवि­र्नि­र्व­पे­दिति विहितो हवि­र्नि­र्वा­पोऽ­ति­दे­शेन प्राप्तो न चाधा­न­का­लेऽ­ग्नि­हो­त्र­मिति कुतोऽ­ग्नि­हो­त्र­ह­वणी येन तन्निर्वापस्य तल्लोपे लोपप्राप्तौ दाशमिकं सिद्धान्तमाह -
गुणेति ।
विकृतौ हि कार्यद्वारा पदार्थाः प्राप्नुवन्ति तेन हविः­सं­स्का­रार्थो निर्वापः प्रथमं प्राप्त­स्त­द्द्वारा च तद­ङ्ग­म­ग्नि­हो­त्र­ह­वणी पश्चा­त्प्रा­प्नोति तेना­ङ्ग­स्या­ग्नि­हो­त्र­ह­वण्या लोपेऽपि मुख्यस्य लोपो नास्तीति प्रकृते भोजनलोपेऽपि न लुप्यते प्राणा­ग्नि­हो­त्र­मि­त्यर्थः । प्रति­नि­धि­न्या­ये­ने­त्य­ग्नि­हो­त्रा­दि­नि­त्य­क­र्मसु घृत­व्री­ह्या­द्य­लाभे कर्मोत्सर्गे प्राप्ते नित्या­ना­म­नि­त्यानां वार­ब्धा­ना­म­व­श्य­का­र्य­त्वा­त्प्र­ति­नि­हितैः श्रुतैश्च क्रिय­मा­ण­प्र­यो­ग­स्या­व­शि­ष्ट­त्वेन प्रत्य­भि­ज्ञा­ना­त्प्र­ति­नि­धा­यापि कर्म कर्त­व्य­मि­त्य­धि­का­र­ल­क्षणे स्थितम् । तथाच भोजनलोपेऽपि जलादिना केनापि द्रव्येण प्राणा­ग्नि­हो­त्र­म­नु­ष्ठे­य­मि­त्यर्थः ॥ ४० ॥

अङ्गलोपेऽपि प्रधानस्य न लोपोऽस्तीति प्राप्ते सिद्धान्तयति -
अत इति ।

तत्र प्रतिज्ञां विभजते -
उपेति ।

पूर्वोऽ­ति­थि­भ्योऽ­श्नी­या­दि­ति­श्रुत्या विशिनष्टि -
प्रथमेति ।

भोजनाभावे तत्प्र­यु­क्त­द्र­व्या­भा­वेऽपि स्वत­न्त्र­द्र­व्येण प्राणा­ग्नि­होत्रं निर्वर्त्यमिति शङ्कते -
कस्मादिति ।

सौत्रं हेतुमादत्ते -
तदिति ।

तद्धोमीयमिति तच्छब्देन प्रकृ­ता­का­ङ्क्षेण स्वोक्ति­प­र्य­व­सा­नार्थं यद्भक्तं प्रथ­म­मा­ग­च्छे­दिति संनिहितं भोजनार्थं भक्तं गमयितव्यमिति न स्वत­न्त्र­द्रव्यं प्रयोक्तव्यं तच्छ­ब्द­वि­रो­धा­दिति व्याचष्टे -
तथाहीति ।
सिद्धस्य प्रमि­त­स्या­न­न्त­र­प्र­कृ­त­स्या­र्थस्य यथा तच्छब्देन परामर्शस्तथा भक्तस्य भोज­ना­र्थ­मु­प­नि­पातो नामागमनं तस्य यस्तच्छब्देन परामर्शस्तेन परार्थं भोजनार्थं यद्भक्तं द्रव्यं तेन साध्यतां निर्व­र्त्य­ता­मिति यावत् ।

भोज­ना­र्था­ग­त­भ­क्त­द्र­व्यो­द्दे­शेन तद्धो­मी­य­मि­त्या­हु­ति­वि­धाने फलितमाह-
ता इति ।
अाहवनीयाभावे होमा­भा­व­व­दा­मि­क्षा­र्थ­द­ध्या­न­य­ना­भावे वाजि­ना­भा­व­व­च्चो­द्दे­श्या­भावे सत्यु­पा­दे­य­स्या­प्र­वृ­त्ते­र्भो­ज­ना­र्थ­द्र­व्य­लोप एव प्राणा­ग्नि­हो­त्र­स्ये­त्यर्थः ।

यत्त्व­ग्नि­हो­त्र­श­ब्दा­त्त­द्ध­र्म­प्राप्तौ भक्त­द्र­व्य­क­ता­गु­ण­वि­धा­नार्थं तद्य­द्भ­क्त­मि­त्यादि वाक्यमिति, तत्राह -
नचेति ।
अर्थ­वा­द­स्था­ग्नि­हो­त्र­श­ब्दस्य किञ्चि­त्सा­दृ­श्य­मा­दाय स्तावकत्वेनापि सम्भवान्न तद्व­शा­त्प्रा­णा­ग्नि­होत्रे नैय­मि­का­ग्नि­हो­त्र­ध­र्म­प्रा­प्ति­रि­त्यर्थः ।

कौण्ड­पा­यि­न­व­दि­त्युक्तं विघटयति -
कुण्डेति ।

दार्ष्टान्तिके प्रागुक्तमेव वैषम्यं विशदयति -
इहेति ।
प्राणा­ग्नि­होत्रं सप्तम्यर्थः ।

विपक्षे दोषमाह -
तद्धर्मेति ।

तेषामपि प्राप्तौ का हानिः, तत्राह -
नचेति ।

असम्भवमेव तेषां साधयति -
अग्नीति ।
अग्न्या­धा­र­हो­मा­भा­वा­त्प्रा­णा­ग्नि­होत्रे नाग्न्यु­द्ध­र­ण­सि­द्धि­रि­त्यर्थः ।

अस्तु प्रस्तुतेऽपि तद­र्थ­मे­वा­ग्न्यु­द्ध­रणं नेत्याह -
नचेति ।

आहु­ती­ना­म­ग्न्या­धा­र­त्वा­भावे युक्त्यन्तरमाह -
भोजनेति ।

तर्हि किमि­हा­हु­ती­ना­म­धि­क­रणं तदाह -
आस्य इति ।

प्राणा­ग्नि­होत्रे होमा­धि­क­र­ण­मा­स्य­मे­वे­त्यत्र श्रुत्यन्तरमाह -
तथाचेति ।

आहु­ती­ना­मा­स्या­धा­रत्वे प्राणा­ग्नि­हो­त्रेऽ­ग्नि­हो­त्र­श­ब्दा­न्नै­य­मि­का­ग्नि­हो­त्र­ध­र्मा­प्राप्तौ च गमकमाह -
अत इति ।
तद्धर्मप्राप्तौ मुख्यानामेव सम्भ­वा­त्स­म्पा­द­न­वै­य­र्थ्य­मि­त्यर्थः ।

उर एव वेदि­रि­त्य­त्रा­वा­न्त­र­वि­शे­ष­माह -
वेदीति ।

अत्रेति प्राणा­ग्नि­हो­त्रोक्तिः । वेदिकरणस्यापि सम्पा­द­ना­र्थ­मि­त­रा­ङ्ग­व­दिह सङ्कीर्तनं किं न स्यात् , तत्राह -
मुख्येति ।

दर्श­पू­र्ण­मा­स­व­न्मु­ख्येऽ­ग्नि­होत्रे वेदिकरणाभावेऽपि प्रकृते ध्यानार्था वेदि­रु­च्य­ता­मि­त्या­श­ङ्क्याह -
तदङ्गानां चेति ।

अग्नि­हो­त्र­व­द­ग्न्यु­द्ध­र­णा­यो­ग­मुक्त्वा काल­द्व­या­व­रो­धोऽपि नास्तीत्याह -
भोजनेनेति ।

अग्न्यु­द्ध­र­णा­दा­वु­क्ता­न्या­य­म­ति­दि­शति -
एवमिति ।
आदिशब्देन परिस्तरणादयो गृह्यन्ते ।

सिद्धा­न्त­सू­त्रा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

धर्मलोपमपि श्रुतिरसहमाना सुतरां न सहते धर्मि­लो­प­मि­त्यु­क्त­म­नूद्य दूषयति -
यत्त्विति ।
धर्मि­लो­पा­भा­व­पक्षे धर्मोऽपि न लुप्यते न चैतावता धर्मिणो नित्यतेत्यर्थः ।

अति­थि­भो­ज­नो­त्त­र­का­लता स्वामिभोजनस्य श्रुति­स्मृ­ति­सिद्धा तत्कथं प्राथम्यविधानं, तत्राह -
नहीति ।
प्राणा­ग्नि­हो­त्रा­ति­रि­क्त­वि­षयं स्वामि­भो­ज­न­स्यो­त्त­र­का­ल­त्व­वि­धा­न­मि­त्यर्थः ।

प्राणा­ग्नि­हो­त्रस्य प्राथम्ये कथमागन्तुकत्वं, तत्राह -
न त्विति ।
अनेन प्राथ­म्य­वि­धा­ने­नेति यावत् । अस्य प्राणा­ग्नि­हो­त्र­स्ये­त्यर्थः । तस्य नित्यतां विना प्राथ­म्य­सि­द्धे­रु­क्त­त्वा­दिति भावः ।

आद­रो­क्ते­र­न्य­था­सिद्धौ फलितमाह -
तस्मादिति ।
प्रतिनिधिन्यायो नावतरतीति फलितं वक्तु­मि­ती­त्यु­क्तम् ॥ ४१ ॥

वैश्वा­न­र­वि­द्या­ङ्ग­प्रा­णा­हु­ती­ना­म­नि­त्य­त्वो­क्ति­प्र­सक्त्या कर्मा­ङ्ग­स­ङ्गि­ना­मपि ज्ञाना­ना­म­नि­त्य­त्व­माह -
तन्निर्धारणेति ।

अङ्गा­व­ब­द्धो­पा­स­नानि विष­य­त्वे­नो­प­न्य­स्यति -
सन्तीति ।

उभ­य­वि­ध­दृ­ष्टा­न्त­दृष्ट्या संशयमाह -
किमिति ।
यथा द्रव्य­सं­स्का­र­क­र्मसु क्रत्वर्थेषु फल­श्रु­ते­र­र्थ­वा­द­त्वा­द­गत्या रात्रिसत्राणां विपरिणामेऽपि प्रकृतेषु क्रतूपकारस्य सिद्धा­त्वा­द्वि­प­रि­णा­मा­यो­गा­त्क्र­तू­प­का­र­द्वारा पर्णमयीत्वं प्रया­जा­दि­व­त्तत्र नित्यमिष्टं तथै­ता­न्य­ङ्ग­स­ङ्गी­न्यु­पा­स­नानि कर्मसु नित्या­न्ये­वे­त्येको विकल्प्यः । यथा प्राकृ­ता­प्प्र­ण­य­ना­श्रयो गोदोहनोपरागः पशुभ्यो विधीयते यथा च कांस्यो­प­रा­ग­स्त­दा­श्रयो ब्रह्म­व­र्च­स­फ­लोऽ­भि­ल­प्यते बैल्व­श्चा­न्ना­द्य­फलो यूपाश्रयो दृश्यते तथै­ता­न्यु­पा­स­नानि कर्म­स्व­नि­त्या­नीति विकल्पान्तरम् । अत्र चाङ्गा­श्रि­तो­पा­स्तीनां क्रतुषु नित्य­त्वा­नि­त्य­त्व­नि­रू­प­ण­द्वारा वाक्या­र्थ­धी­हे­तु­नि­रू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे यथो­क्तो­पा­स्तीनां क्रतुषु पर्ण­ता­दि­व­दा­व­श्य­क­त्वम् ।

सिद्धान्ते तद्रा­हि­त्य­म­ङ्गी­कृत्य विमृशति -
किमिति ।

अनि­त्य­भो­ज­ना­श्रि­त­प्रा­णा­ग्नि­हो­त्रा­नि­त्य­त्व­व­न्नि­त्य­क­र्मा­ङ्गा­श्रि­तो­पा­स्तीनां नित्यतेति पूर्वपक्षयति -
नित्यानीति ।

क्रतु­प्र­क­र­णा­पा­ठा­त्प्र­यो­ग­व­च­ना­प­रि­ग्र­हा­दु­पा­स्तीनां नास्ति क्रतुषु नित्यतेति शङ्कते -
कुत इति ।

अव्य­भि­च­रि­त­क्र­तु­स­म्ब­द्ध­जु­हू­द्वारा पर्ण­ता­व­दु­द्गी­था­दि­द्वा­रे­णो­पा­स्ती­ना­मपि क्रतु­स­म्ब­न्धा­त्प्र­यो­ग­व­च­न­प­रि­ग्र­हा­द­मूषां क्रतुषु नित्यतेत्याह -
प्रयोगेति ।

क्रत्व­ङ्ग­ता­प्र­यो­ग­व­च­न­प­रि­ग्र­ह­यो­र­न्यो­न्या­श्र­य­त्वा­त्प्र­क­र­णा­न्त­र­त्वाच्च नोपास्तीनां तत्परिग्रहः स्यादि­त्य­श­ङ्क्याह -
अनारभ्येति ।
अङ्गान्तरं पर्णमयीत्वादि ।

उपास्तीनां फला­न्त­र­श्रु­ते­रस्ति स्वात­न्त्र्य­मि­त्या­श­ङ्क्याह -
यत्विति ।

क्रतू­प­का­र­द्वा­रेण व्यव­हि­त­फ­लो­पा­दा­ना­द­व्य­व­हि­त­श्रु­त­फ­लस्य साध्य­त्व­वि­प­रि­णामः श्रेया­नि­त्य­पा­प­श्लो­क­श्रु­ते­रपि फल­वि­धि­त्व­मे­वे­त्या­श­ङ्क्याह -
नेति ।
क्वचिदगत्या विपरिणामेऽपि प्रकृते कर्माङ्गत्वं गतिरिति न विप­रि­णा­म­सि­द्धि­रि­त्यर्थः ।

अङ्गा­श्रि­तो­पा­स­नानि प्रयोगवचनेन क्रत्व­ङ्ग­त­यो­पा­दे­यानि साध्य­फ­लो­क्ति­शू­न्यत्वे सति क्रत्व­ङ्ग­स­ङ्गि­तया विहि­त­त्वा­त्प­र्ण­म­यी­त्वा­दि­व­दिति मत्वोपसंहरति -
तस्मादिति ।
एव­मा­दी­ना­मि­त्या­दि­श­ब्देन यदाऽङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्र­या­जा­नु­याजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियत इत्यादि गृह्यते । जुह्वा­दि­द्वा­रे­णे­त्य­त्रा­दि­प­देन कर्तृग्रहणम् ।

उद्गी­था­द्यु­पा­स­नानां कर्मसु नित्य­त्वा­द­वि­दुषो न कर्मेति प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।

प्रतिज्ञां विभजते -
यानीति ।

नित्य­प­र्ण­म­यी­त्वा­दि­व­दि­त्ये­त­द­नु­मा­नतो नियमे निवेदिते नानि­य­म­प्र­ति­ज्ञेति शङ्कते -
कुत इति ।

तत्र सूत्रपदमवतारयति -
तद्दृष्टेरिति ।

तस्यानियमस्य दृष्टेरिति व्याचक्षाणः श्रौतै­र्लि­ङ्गै­र्वि­द्या­ना­म­न­ङ्ग­त्व­सा­ध­नै­र­नु­मानं बाध्यमित्याह -
तथाहीति ।
तेने­त्यो­ङ्का­रा­ख्य­म­क्ष­र­मु­क्तम् । एत­द­क्ष­र­मु­द्गी­था­व­य­व­भू­त­मेवं रसतमादिगुणकं यो वेद यश्च न तथा तावुभावपि ज्ञाज्ञौ कर्म कुरुत इति योजना ।

विद्यायाः कर्मा­ङ्ग­त्वा­नि­यमे लिङ्गान्तरमाह -
प्रस्तावादीति ।
‘तां चेद­वि­द्वा­न्प्र­स्तो­ष्यसि मूर्धा ते विपतिष्यति’ इति चाक्रा­य­णे­ना­क्षे­प­क­र­णा­द­वि­द्वत्ता प्रस्तोत्रादेः सिद्धेत्यर्थः ।

उद्गी­था­द्यु­पा­स्तीनां पृथ­क्फ­ल­श्र­व­णा­दपि न कर्मा­ङ्ग­ते­त्य­व­शि­ष्ट­सू­त्रा­व­यवं व्याचष्टे -
अपिचेति ।

ज्ञानाभावे कर्म­फ­ल­प्र­ति­बन्धे ज्ञानस्य कर्माङ्गता स्यादि­त्या­श­ङ्क्याह -
तदिति ।
कर्मफलस्य वीर्यवत्तरत्वं ज्ञानफलं तदभावेऽपि वीर्यवदेव कर्मेत्यर्थः ।

फलभेदे मानमाह -
तेनेति ।

पूर्व­प­क्ष­मु­प­न्यस्य श्रुतिः स्वयमेव तुशब्देन निरस्यति -
नाना त्विति ।
भिन्नफलत्वं नानात्वम् । दृष्टं हि मणिविक्रये शब­र­व­णि­जो­र्ज्ञा­न­भा­वा­भा­वाभ्यां फलवैलक्षण्यम् । तस्माद्यदेव कर्म विद्यया प्रकृ­तो­द्गी­था­द्य­र्थया करोति श्रद्ध­या­स्ति­क्य­बुद्ध्या तथोपनिषदा तत्त­द्दे­व­ता­ध्या­ने­ने­त्यर्थः ।

श्रुते­स्ता­त्प­र्य­माह -
तत्रेति ।

किं तावता ते सिद्धं, तत्राह -
तच्चेति ।

विद्याहीनस्य कर्मणो वीर्यवत्त्वं कर्मणि तद­नि­त्य­त्व­ग­म­क­मिति व्यतिरेकतः स्फुटयति -
नित्यत्वे त्विति ।

अङ्गिमात्रस्य फलं वीर्य­व­त्त्व­म­ङ्ग­स­हि­तस्य तु वीर्य­व­त्त­र­त्व­मि­त्य­नु­ज्ञो­प­प­त्ति­मा­श­ङ्क्याह -
सर्वेति ।

कर्म­स­मृ­द्ध्य­ति­रि­क्त­मपि फलं विद्यायाः श्रुतं ततोऽपि तस्या न कर्माङ्गतेत्याह -
तथेति ।
लोकसामादिषु लोकदृष्ट्या सामा­द्यु­पा­स­ने­ष्विति यावत् । कल्पन्ते भोगाय समर्था भवन्त्यस्मै विदुषे लोका भोगभूमयो भूमे­रु­प­रि­ष्टा­त्त­तोऽ­ध­स्ताच्च व्यवस्थिता ऊर्ध्वा आवृ­त्ता­श्चे­त्युक्ताः ।

आपयिता ह वै कामा­न­मि­त्या­दे­र­र्थ­वा­द­त्वान्न च फल­प्र­धा­न­ते­त्यु­द्गी­था­द्यु­पा­स्तीनां कर्मसु नित्य­त्वो­क्ति­रि­त्या­श­ङ्क्याह -
नचेति ।
अर्थ­वा­द­मा­त्रत्वे फल­श्रु­ते­र्वि­धे­य­प्रा­श­स्त्य­ल­क्ष­ण­या­त्य­न्त­प­रोक्षा वृत्तिः स्यात् । फलपरत्वे तु वर्त­मा­ना­प­दे­शि­नोऽपि साक्षा­त्फ­ल­प्र­ती­ते­र्मु­ख्य­वा­द­सिद्धिः ।

ततो मुख्ये सम्भवति लक्ष­णा­श्र­य­ण­म­यु­क्त­मि­त्याह -
तथाहीति ।

तर्हि प्रयाजादिष्वपि फल­श्रु­ते­र्ना­र्थ­वा­द­मा­त्रत्वं, तत्राह -
प्रयाजादिष्विति ।
दर्श­पू­र्ण­मा­सा­दि­प्र­क­र­ण­स्थ­त्वेन प्रयाजादीनां तदङ्गत्वान्न पृथ­क्फ­ल­व­त्त्व­मिति तत्फ­ल­श्रु­ते­र­र्थ­वा­द­ते­त्यर्थः ।

तर्हि पर्णमयीत्वादिषु प्रक­र­णा­भा­वा­त्पृ­थ­क्फ­ल­व­त्त्व­सि­द्धेर्न फल­श्रु­ते­र­र्थ­वा­द­मा­त्रत्वं, तत्राह -
तथेति ।

किं तेषां साक्षादेव फलवत्त्वं किंवा क्रतुद्वारेति विकल्प्याद्यं दुषयति -
नहीति ।
द्वितीये क्रतो­र्द्र­व्य­सा­का­ङ्क्ष­त्वा­त्प­र्ण­म­यी­त्वस्य च पुमर्थत्वाय तद्यो­गा­पे­क्ष­त्वा­ज्जु­हू­प्र­कृ­ति­द्र­व्या­र्प­क­वा­क्या­त्क्र­तु­योगे पृथ­क्फ­ल­व­त्त्वा­यो­गा­दु­क्त­फ­ल­श्रु­ते­र­र्थ­वा­द­तेति भावः ।

गोदोहनादीनामपि तर्हि द्रव्य­त्वा­त्प­र्ण­म­यी­त्वा­दि­व­त्क्र­तु­स­म्ब­न्धान्न पृथक्फलवत्त्वं, तत्राह -
गोदोहनेति ।
तस्मि­न्सी­दे­ति­म­न्त्र­प­दानां साका­ङ्क्ष­त्वेऽपि स्योनं ते सद­न­मि­त्या­दी­ना­मा­का­ङ्क्षा­भा­वा­न्मिथः सम्ब­न्धा­भा­व­व­द्गो­दो­ह­न­कां­स्या­दीनां साका­ङ्क्ष­त्वेऽपि प्रण­य­ना­दे­श्च­म­स­यू­पा­द्या­श्र­य­ला­भा­दा­का­ङ्क्षा­भा­वा­द्वा­क्यी­य­क्र­तु­स­म्ब­न्धा­सि­द्धे­स्ता­द­र्थ्ये­ना­वि­धे­य­त्वा­द्युक्तं पृथगेव फलमुद्दिश्य विधानमित्यर्थः ।

बैल्व­म­न्ना­द्य­का­मस्य यूपं कुर्यात्खादिरं वीर्य­का­म­स्ये­त्या­दिषु फले विधा­न­व­त्प­र्ण­म­यी­त्वा­दि­ष्वपि स्यादि­त्या­श­ङ्क्याह -
तथेति ।
बैल्व­खा­दि­र­द­ध्या­दी­ना­मु­प­पन्नः फले विधिरिति सम्बन्धः ।

तत्र हेतुमाह -
प्रकृतेति ।
तेषु प्रकृ­त­क्र­तु­स­म्ब­न्धि­यू­प­हो­मा­दि­रा­श्र­योऽस्ति प्रत्य­क्ष­वि­धि­श्रुतेः साक्षा­त्क­र्मि­वा­द­यु­क्त­फ­ल­श्रु­तेश्च युक्तस्तेषां फले विधिरित्यर्थः ।

पर्णमयीत्वादिषु वैषम्यमाह -
नत्विति ।
एवंविधो यूपा­दि­तु­ल्य­स्ते­षा­म­ना­र­भ्या­धी­त­त्वा­दि­त्यर्थः ।

ननु पर्ण­म­यी­त्वा­दीनां विना प्रकरणं वाक्यादेव फले विधिः स्यान्नेत्याह -
वाक्येनेति ।
पर्णतादीनां जुह्वादिद्वारा क्रत्वाश्रयताया वाक्यी­य­त्वा­त्तत्र वाक्य­ता­त्प­र्य­क­ल्पने फल­स­म्ब­न्ध­प्र­ति­पा­दने च तत्कल्पने तात्प­र्य­भे­दा­द्वा­क्य­भे­दा­पा­तान्न युक्तस्तेषु फले विधिरित्यर्थः ।

पर्णमयीत्वादिषु फल­श्रु­ते­र­र्थ­वा­द­त्व­मु­प­पा­द्यो­द्गी­था­द्यु­पा­स­नेषु तेभ्यो वैषम्यमाह -
उपासनानां त्विति ।
तासां व्यापा­र­रू­प­त्वा­द­व्या­पा­रा­त्म­क­प­र्ण­ता­दिभ्यो वैल­क्ष­ण्या­त्फ­ल­व­त्त्वेऽपि च विधानसिद्धेः स्वर्गकामो यजे­ते­त्या­दि­व­द्वा­क्य­भे­दा­भा­वा­द्युक्तं फल­वि­धा­न­मि­त्यर्थः ।

प्रस्तु­तो­पा­स्तीनां प्रकरणादिना क्रत्व­र्था­श्रि­त­तायाः सिद्ध­त्वा­त्त­दा­श्र­य­णेन गोदो­ह­ना­दि­व­द्वि­शि­ष्ट­फ­लो­द्दे­शेन विधानसम्भवे फलितमुपसंहरति -
तस्मादिति ।

उद्गी­था­दि­वि­द्यानां पर्ण­ता­दि­व­त्क­र्मा­ङ्ग­त्वा­भावे लिङ्गान्तरमाह -
अत इति ।
अङ्ग­त्वा­भा­वा­दे­वेति यावत् । तथाच विदुष इवाविदुषोऽपि कर्मा­धि­का­रोऽ­स्तीति भावः ॥ ४२ ॥

पृथगप्रतिबन्धः फलमिति फल­पृ­थ­क्त्व­व­दु­प­ग­म­न­पृ­थ­क्त्व­माह -
प्रदानवदिति ।

बृहदारण्यके छान्दोग्ये चाधि­दै­वा­ध्या­त्म­भे­दे­नोक्तौ वायु­प्रा­णा­वु­दा­ह­रति -
वाजसनेयक इत्यादिना ।
श्रेष्ठ­त्व­म­भ­ग्न­व्र­त­त्वे­नो­त्कृ­ष्ट­त्वम् ।

तयो­र्भे­दा­भे­द­वा­दि­वा­क्याभ्यां संशयमाह -
तत्रेति ।
अत्र वायु­प्रा­ण­यो­रु­प­ग­म­न­वि­द्योक्त्या वाक्या­र्थ­धी­हे­तो­रेव कथ­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे विद्यै­क्या­त्प्र­वृ­त्ति­भे­दा­सिद्धिः ।

सिद्धान्ते तदैक्येऽपि गुण­भे­दा­त्त­त्सि­द्धि­रिति सिद्धवत्कृत्य पूर्वपक्षयति -
अपृथगिति ।
फल­भे­दा­त्क­र्मा­ङ्गानां तद्यु­क्तो­पा­स्तीनांं च नित्य­त्वा­नि­त्य­त्व­रू­प­प्र­यो­ग­भे­द­व­द्वा­यु­प्रा­ण­यो­स्त­त्त्वा­भे­दा­त्त­त्प्रा­प्ति­फ­लै­क्या­च्चो­पा­स्ति­प्र­यो­गै­क्य­मिति भावः ।

तत्त्वाभेदेऽपि कथ­म­पृ­थ­ग­नु­चि­न्तनं, तत्राह -
नेति ।
न खल्वे­क­स्मि­न्न­ग्नि­होत्रे प्रयो­ग­भे­दोऽ­स्ती­त्यर्थः ।

तत्त्वाभेदे मानमाह -
दर्शयतीति ।

वायुः प्राणो भूत्वा नासिके प्राविशदिति श्रुति­र­त्रो­प­युक्ता । आध्या­त्मि­क­प्रा­ण­स्या­धि­दै­वि­क­वा­य्व­भेदे लिङ्गमाह -
तथेति ।

अध्यात्ममधिदैवं च तयो­स्त­त्त्वा­भेदे सर्व­श्रु­ति­सं­म­ति­माह -
तथान्यत्रेति ।

वायु­प्रा­ण­यो­स्त­त्त्वा­भेदे वाक्यमपि मानमित्याह -
क्वचिच्चेति ।

अथेममेव नाप्नो­न्मृ­त्यु­र्योऽयं मध्यमः प्राण इत्युपक्रम्य प्राणाद्वा एष सूर्य उदे­ती­त्यु­प­सं­हा­राच्च तयोरैक्यमित्याह -
तथेति ।
यदि पृथगनुचिन्तनं तयोर्विधित्सितं तर्हि तद­ङ्ग­व्र­तो­प­दे­शोऽपि पृथगेव स्यात् । इह च प्राण्यादिति प्राणने प्राप्तेऽ­पा­न्या­दि­त्य­पा­न­न­मुक्त्वा तस्मिन्प्राप्ते प्राण्यादिति प्राणनवचनेन प्राणापाननिरोधं कुर्या­दि­त्ये­क­मेव व्रतं दर्शयति ।

तत­श्चा­पृ­थ­ग­नु­चि­न्त­न­मि­त्याह -
तस्मादिति ।

छान्दो­ग्या­लो­च­ना­या­मपि तयोः स्वरू­पा­भे­द­धी­रि­त्याह -
तथेति ।
वायुं प्राणं च संवर्गगुणकं भेदेनोपक्रम्य पर­स्ता­द्वा­क्य­शेषे संवर्गमेकमेव गमयतीति सम्बन्धः । महात्मन इति द्विती­या­ब­हु­व­च­नम् । चतु­र­श्च­तुः­स­ङ्ख्या­का­ग्नि­सू­र्यो­द­क­च­न्द्रा­न­न्यांश्च वाक्च­क्षुः­श्रो­त्र­म­नो­ल­क्ष­णा­नेको निरपेक्षः सन्को देवः प्रजापतिर्जगार गीर्ण­वा­नु­प­सं­हृ­त­वा­निति यावत् ।

भेदे मानाभावादपि तयोरैक्यमित्याह -
नेति ।
बहु­श्रु­त्या­लो­च­नया वायु­प्रा­णै­क्य­सि­द्धे­स्त­दु­पा­स्ते­रपि तदधीनत्वादभेदः । न चाध्या­त्मा­धि­दै­व­गु­ण­भे­दा­द्भेदः, तद­भे­दो­क्ते­रु­त्प­न्नो­पा­स्ति­सं­यो­गा­द्भे­द­क­त्वा­यो­गात् । नो खल्वग्निहोत्रं जुहो­ती­त्यु­त्प­न्ना­ग्नि­हो­त्रस्य दधि­त­ण्डु­ला­दि­भे­दा­द्भेद उत्प­द्य­मा­न­क­र्म­यो­गि­गु­ण­भे­द­स्यैव भेदकत्वात् ।

तस्मा­दु­त्प­न्नो­पा­स्ति­यो­गि­त्वा­द्गु­ण­भे­द­स्यो­पा­स्ति­भे­दा­भा­वा­द­पृ­थ­ग­नु­चि­न्त­न­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।

उक्तनीत्या विद्यै­क्येऽ­प्य­ध्या­त्मा­धि­दै­व­गु­ण­भे­दा­त्प्र­वृ­त्ति­भेदः साय­म्प्रा­तः­का­ल­गु­ण­भे­दा­दे­क­स्मि­न्न­प्य­ग्नि­होत्रो प्रवृ­त्ति­भे­द­व­दिति सिद्दान्तयति -
एवमिति ।

उपा­स्त्यै­क्या­त्प्र­यो­गै­क्यो­क्तेर्न पृथ­ग­नु­चि­न्त­न­मिति शङ्कते -
कस्मादिति ।

अग्निहोत्रस्यैव दधि­त­ण्डु­ला­दे­र्ध्या­नस्य प्रकृते भेदो­प­दे­शा­त्पृ­थ­ग­नु­चि­न्त­न­सि­द्धि­रि­त्याह -
पृथगिति ।

तदेव विवृणोति -
आध्यानेति ।
तौ वा एतौ संवर्गाविति वाक्य­स्यो­पा­स्य­गु­ण­वि­शि­ष्ट­भे­द­वा­चिनो भेदेनानुचिन्तने तात्प­र्या­द्वा­क्य­प्रा­मा­ण्या­द्भे­दे­नैव चिन्तनमित्यर्थः ।

पूर्व­प­क्ष­बी­ज­म­नु­व­दति -
नन्विति ।

उपास्यतया प्रधा­न­भू­त­सं­व­र्ग­गु­ण­क­वा­यु­प्रा­ण­ध­र्मि­भे­द­वि­ष­येण वाक्येन गुण­भू­त­स­मी­क­र­ण­स्व­भा­वै­क्य­वि­षयं वाक्यं बाध्य­मि­त्य­भि­प्रे­त्याह -
नेति ।

यत­श्चो­दे­ती­त्या­दि­श्लो­को­क्ते­र्वा­यु­प्रा­णै­क्य­सि­द्धे­रु­पा­स्ते­रपि तथा­त्वा­द­पृ­थ­गु­प­ग­ति­रि­त्या­श­ङ्क्याह -
श्लोकेति ।
सूर्यो­द­या­स्त­म­य­यो­र्वा­य्व­धी­न­त्वा­त्त­द­भे­द­धिया प्राणा­त्सू­र्यो­द­या­स्त­म­या­वुक्तौ ततोऽ­ध्या­त्मा­धि­दै­व­वि­भा­गो­क्तस्य ध्येयभेदस्य निरासे श्लोकस्य न साम­र्थ्य­मि­त्यर्थः ।

इतोऽपि विशि­ष्ट­ध्ये­य­भे­दोऽ­स्ती­त्याह -
स यथेति ।

यत्तु प्राण­व्र­ते­नो­प­सं­हा­रा­दैक्ये सत्य­पृ­थ­गु­प­ग­म­न­मिति, तत्राह -
एतेनेति ।
श्लोकस्य स्वरू­पै­क्या­भि­प्रा­य­त्व­वा­देन व्रतवचनमपि तत्त्वा­भे­दा­भि­प्रायं युक्तमित्यर्थः ।

एव­का­र­श्रु­ते­र­पृ­थ­क्प्र­वृ­त्ति­रत्र भाती­त्या­श­ङ्क्याह -
एकमिति ।

किमिति वागा­दि­व्र­त­नि­व­र्त­नेन प्राणव्रतं साध्यते, तत्राह -
भग्नेति ।

वायु­व्र­त­नि­वृ­त्त्य­र्थ­मे­वा­व­धा­रणं किं न स्यात् , तत्राह -
नेति ।
अथेममेव नाप्नो­दि­त्या­ध्यात्मं मुख्यप्राणस्य मृत्यु­नाऽ­ना­प्त­त्व­म­धि­दै­वतं चाग्न्यादीनां ज्वल­ना­दि­व्र­त­भ­ङ्ग­मुक्त्वा वायो­र­भ­ग्न­व्र­त­त्व­मु­क्तम् । निम्लो­च­न्त्यन्या देवता न वायुरिति न वायु­व्र­त­नि­वृ­त्ति­रे­व­का­रार्थ इत्यर्थः ।

फलोक्तिरपि वायु­व्र­त­नि­वृ­त्त्य­भावं दर्शयतीत्याह -
एकमिति ।
तेन व्रतेन । अपिशब्देन समानार्थः सन्नुशब्दः स्यायुज्यं सलो­क­ता­म­पी­त्यु­परि सम्बध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां वा सालोक्यं समानलोकतां चोपा­स्ते­स्ता­र­त­म्या­ज्ज­यति प्राप्नो­ती­त्यर्थः ।