न्यायनिर्णयव्याख्या
३ परिच्छेदः
अन्यव्रतानुष्ठानादन्याप्राप्तेरत्र च वायुप्राप्तिनिर्देशान्न तद्व्रतनिवृत्तिरिति श्रुतितात्पर्यमाह -
वाय्विति ।
देवताप्राप्तिरेवात्र श्रुता न वायुप्राप्तिरित्याशङ्क्याह -
देवतेति ।
अग्न्यादीनपेक्ष्यानवच्छिन्नो देवो वायुस्ते तु तेनैवावच्छिन्ना इति संवर्गगुणो वायुरनवच्छिन्ना देवता तदात्मत्वमत्राप्तुमिष्टमतो देवताप्तिर्वायुप्राप्तिरित्यर्थः ।
न केवलं प्रकरणालोचनया देवता वायुः किन्तु साक्षादेव श्रुतेरित्याह -
पुरस्तादिति ।
यत्तु पृथगुपदेशात्पृथगुपनयनमुक्तं तदिदानीं विवृणोति -
तथेति ।
संवर्गभेदेनोपक्रमवद्भेदेनोपसंहारादपि पृथगनुचिन्तनमित्याह -
ते वा इति ।
उपक्रमोपसंहारैकरूप्यफलमुपसंहरति -
तस्मादिति ।
तत्रोदाहरणमवतार्य व्याचष्टे -
प्रादनवदिति ।
त्रयः पुरोडाशा यस्यां सा त्रिपुरोडाशिनी तस्यामुत्पत्तिवाक्यमुदाहरति -
इन्द्रायेति ।
किं तस्यां सह प्रदानं किंवा भेदेनेति सन्देहे पूर्वपक्षमाह -
सर्वेषामिति ।
याज्ञिकाः खल्वस्यामिष्टौ युगपदेवावदानं कुर्वन्ति तेन सर्वेषां देवताविशेषाणामभिगमयन्प्रापयन्नपर्यायेणैव पुरोडाशानवद्यति तत्तद्भागं गृह्णातीत्यत्र हेतुमाह -
अछंवट्कारमिति ।
अव्यर्थत्वायेति यावत् । एकार्थं सर्वतोऽवदाने शेषो यागानर्हः स्याद्युगपत्सर्वार्थमवदाने त्ववैयर्थ्यमित्यर्थः ।
उक्ताद्वाक्यात्सर्वार्थं सहावदानश्रुतेर्देवतायां भेदाभावाच्च त्रयाणां पुरोडाशानां सहप्रदानं प्राप्तमित्याह -
अत इति ।
सिद्धान्तमाह -
राजादीति ।
उत्पत्तिवाक्यएव राजाधिराजस्वराजगुणभेदाद्यथान्यासं यथावचनं तत्तद्गुणविशिष्टदेवताभेदात्प्रदानस्य प्रक्षेपस्य पृथक्त्वमित्यर्थः ।
किञ्च त्रिपुरोडाशिन्यामिष्टौ प्रथमपुरोडाशप्रदाने या याज्या सा पुनःप्रयोगेऽनुवाक्या या च पूर्वमनुवाक्या सा पश्चाद्याज्येति व्यत्यासमन्वाहेत्यनेन विहितं तत्प्रयोगभेदे युज्यत एकस्या ऋच एकस्मिन्प्रयोगे याज्यानुवाक्यात्वविरोधादित्याह -
याज्येति ।
अध्वर्युणा यजेति प्रैषे कृते होत्रा प्रयुज्यमानो मन्त्रो याज्यानुब्रूहीति प्रैषानन्तरं प्रयुज्यमानस्तु मन्त्रोऽनुवाक्येति भेदः ।
पूर्वोत्तरपक्षाभ्यां दृष्टान्तं व्याख्याय दार्ष्टान्तिकमाह -
एवमिति ।
उक्तेऽर्थे देवताकाण्डस्थमधिकरणं प्रदानभेदविषयमुदाहरति -
तदुक्तमिति ।
सङ्कृष्यते कर्मकाण्डस्थमेवावशिष्टं कर्म सङ्क्षिप्योच्यत इति सङ्कर्षो देवताकाण्डं तस्मिन्निति यावत् ।
वाशब्दो देवतैकत्वाशङ्काव्यावृत्त्यर्थः । नाना देवतेत्यत्र हेतुमाह -
पृथगिति ।
उत्पत्तिवाक्य एव राजाधिराजादिगुणानां पृथग्ज्ञानात्तत्तद्गुणविशिष्टदेवतानामपि पृथक्त्वस्य युक्तत्वादित्यर्थः ।
दृष्टान्ते देवताद्रव्यभेदात्कर्मभेदवदिहापि वायुः प्राणः इतिशब्दादादित्यं चरुं सौर्यं चरुमित्यादिष्वादित्यसूर्यादिशब्दभेदादिव देवताभेदेन विद्याभेदः स्यादित्याशङ्क्याह -
तत्रेति ।
यत्रोत्पत्तिवाक्यादेव नानाद्रव्यदैवतं कर्म दृष्टं तत्र तद्भेदो वैश्वदेव्यामिक्षेत्यादिवत् । यत्र तूत्पत्तित एव कर्मैक्यं तत्र देवतादिभेदेऽपि न कर्मभेदोऽग्निहोत्रादिवदेव विद्यैक्यमित्यर्थः ।
तर्हि केन साम्येन प्रदानवदित्युक्तं, तत्राह -
विद्येति ।
अग्निहोत्रे हि सायमग्निः प्रजापतिश्च देवता सूर्यः प्रजापतिश्च प्रातरनुष्ठानं चोभयत्रान्यादृशं तथेहापि ध्यानभेदसिद्धिरित्यर्थः ॥ ४३ ॥
वायुविद्योक्त्यनन्तरं साम्पादिकाग्निविद्याचिन्तामारभते -
लिङ्गेति ।
साम्पादिकानग्नीन्क्रियान्नकरणस्थान्मनश्चिदादीन्विषयत्वेनोपन्यस्यति -
वाजसनेयिन इति ।
उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनसः प्रादुर्भावमुक्त्वा तदात्मानमैक्षतेतीक्षणपूर्वकं तन्मन आत्मनोऽग्नीनपश्यदिति मनोऽधिकृत्य पठन्तीत्यर्थः ।
पुरुषस्यायुष्ट्वेन क्लृप्तशतवर्षान्तर्गतषट्त्रिंशत्सहस्राहोत्रावच्छिन्नैर्मनोवाक्प्राणचक्षुःश्रोत्रत्वक्कायवृत्तिनिचयैरिष्टकात्वेन भाव्यमानैश्चीयमानान्साम्पादिकानग्नीन्वदन्तीत्याह -
तदिति ।
अर्कानर्चनीयान्मनोमयान्मनोवृत्तिभावितत्वाद्वागादिवृत्तिभिरिष्टकात्वेन भाविताभिश्चीयन्त इति वाक्चिदादीनग्नीनात्मनो वागादयोऽप्यपश्यन्नित्याह -
तथैवेति ।
क्रत्वर्थत्वपुरुषार्थत्वविनियोजकमानदृष्ट्या संशयमाह -
तेष्विति ।
केवलविद्यात्मत्वेन पुरुषार्थत्वसमर्थनद्वारा वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे क्रियार्थानामग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केवलविद्यात्मत्वेन पुरुषार्थत्वसमर्थनद्वारा वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः ।
पूर्वपक्षे क्रियार्थानामग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केवलविद्यामयत्वमित्यङ्गीकृत्य सिद्धान्तमुपक्रमते -
स्वातन्त्र्यमिति ।
सूत्राक्षराणि योजयति -
भूयांसीति ।
सर्वाण्यपीमानि भूतानि यत्किमपि मनसा सङ्कल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येतत् प्रकृताग्नीनां स्वातन्त्र्येण भावनामयत्वे लिङ्गम् ।
नहि क्रियाङ्गं यत्किञ्चित्करणे सिध्यति चोदनैकलभ्यत्वादित्याह -
तद्यदिति ।
एवंविदे स्वपते जाग्रतेऽपि तानेतानग्नीन्भूतानि सर्वाणि सर्वदा चिन्वन्तीति लिङ्गान्तरं नहि कर्माङ्गं सर्वदा सर्वैरनुष्ठीयते प्रतिनियतदेशकालनिमित्तेषु चोदितत्वादित्याह -
तानिति ।
कार्यकरणव्यापारैः षट्त्रिंशत्सहस्राहोरात्रावच्छिन्नैरिष्टकात्वेन भावितैरेतैः सम्पाद्यन्ते । तत्रेष्टकास्वग्निषु च सङ्ख्याधिक्यमग्नीनां केवलविद्यात्वे लिङ्गम् ।
नहि क्रियाङ्गत्वे प्रसिद्धसङ्ख्यातिरेकसिद्धिरिति मत्वाह -
एवमिति ।
प्रकरणादेषां क्रियाङ्गत्वं सिद्धं लिङ्गाच्च स्वातन्त्र्यं तेन संशयः स्यादित्याशङ्क्याह -
तद्धीति ।
प्रमाणत्वाविशेषे कुतो बलाबलव्यवस्थेत्याशङ्क्याह -
तदपीति ॥ ४४ ॥
सिद्धान्तेनोपक्रम्याधुना पूर्वपक्षयति -
पूर्वेति ।
पूर्वपक्षं विवृण्वन्नुक्तसिद्धान्तप्रतिज्ञां निषेधति -
नैतदिति ।
सम्प्रति सहेतुकं पूर्वपक्षं प्रतिजानीते -
पूर्वस्येति ।
इष्टकाभिरग्नींश्चिनुत इत्युक्तक्रियामयाग्न्यधिकारे श्रवणादयमपि साम्पादिकाग्न्युपदेशस्तद्विषयो विकल्पोपदेशस्तथाच यथा क्रियाङ्गं क्रियामयोऽग्निस्तथा साम्पादिकाग्निरपि तदङ्गं स्यादित्यर्थः । विकल्पविशेषः प्रकारभेदः ।
उक्तं सैद्धान्तिकं मतमनुवदति -
नन्विति ।
तेन प्राकरणिकं क्रियाशेषत्वं हित्वा लैङ्गिकं पुमर्थत्वमेष्टव्यमिति शेषः । विध्युद्देशस्थमर्थवादस्थं वा लिङ्गं प्रकरणाद्बलवदिति विकल्प्याद्यमङ्गीकरोति -
सत्यमिति ।
द्वितीयं दूषयति -
लिङ्गमिति ।
एवंञ्जातीयकं सर्वदा सर्वाणि भूतानि चिन्वन्तीत्याद्यर्थवादस्थमिति यावत् ।
तदेव साधयति -
अन्यार्थेति ।
न हीदं साधनात्मकं लिङ्गं विध्युद्देशकवाक्यतया तत्परत्वादतो नेदं स्वातन्त्र्येण प्रमापकं स्तुतिमात्रत्वादित्यर्थः ।
अन्यार्थदर्शनानामपि प्रमापकत्वमाशङ्क्य मूलप्रमाणभावे तथाभावेऽपि प्रकृते तदभावान्मैवमित्याह -
अन्येति ।
प्रकृतलिङ्गस्य प्रकरणाबाधकत्वे फलितमाह -
तस्मादिति ।
एतेन क्रियेति पदं व्याख्यातम् । कथमक्रियारूपाणामेतेषां क्रियाशेषत्वं, तत्राह -
मानसवदिति ।
द्वादशाहे श्रूयतेऽनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातीति । तत्र किं मानसं द्वादशाहादहरन्तरं किंवा तन्मध्यपातिनो दशमस्याङ्गमिति सन्देहे वाग्वै द्वादशाहो मनो मानसमिति भेदोक्त्या मानसस्य द्वादशाहाद्भेदसिद्धेर्द्वादशाहस्य गतरसान्यङ्गानि मानसेनैवाप्यायन्तीति च मानसेन द्वादशाहस्य स्तुतेः स्तुतिस्तुत्यभावस्य भेदाकाङ्क्षत्वात्पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्त इत्युक्त्वा द्वादशाहान्तर्गतानामह्नां पत्नीसंयाजान्तत्वदृष्टेर्मानसस्य च पत्नीः संयाज्य मानसाय प्रसर्पन्तीति पत्नीसंयाजादुपरिष्टादेव श्रुतेर्द्वादशाहसंज्ञायाश्च त्रयोदशाहेऽपि द्वादशाहसत्त्वेन कथञ्चिदुपपत्तेर्द्वादशाहादहरन्तरं मानसमिति प्राप्ते मानसस्य त्रयोदशाहत्वे मानाभावाद्द्वादशाहसंज्ञाया गुणवृत्त्या नेतुमयुक्तत्वादङ्गाङ्गिभेदेनोक्तिभेदस्य स्तुतिस्तुत्यभावस्य च सिद्धेरह्नां पत्नीसंयाजान्ततायाश्चौत्सर्गिकत्वाद्विशेषोक्त्या दशमस्याह्नो ग्रहणादीनां मानसानां पत्नीसंयाजात्परत्वाविरोधादेष वै दशमस्याह्नो विसर्गो यन्मानसमिति चोक्तेर्विसर्गस्यान्तस्यान्तवतो धर्मत्वाद्दशमाहरङ्गतावगतेर्दशमेऽहनि मानसाय प्रसर्पन्तीति चाधारत्वोक्तेस्तदङ्गमेव मानसं नाहरन्तरमिति राद्धान्तितम् ।
तदेवं द्वादशाहयोगिनो दशमस्याह्नो मानसमङ्गमिति कर्ममीमांसायामुक्तं तथापि दशरात्रस्य द्वादशाहविकृतित्वात्क्रमेणाहर्धर्मेष्वेतिदिष्टेषु दशरात्रगतदशमाहन्यपि द्वादशाहान्तर्गतदशमाहरङ्गस्य मानसस्यास्ति प्राप्तिरित्यभिप्रेत्य व्याचष्टे -
यथेति ।
अविवाक्यमिति दशमस्याह्नो नामधेयं विविधानि वाक्यानि यत्र मानसत्वादृत्विजां न सन्ति तत्तथेति व्युत्पत्तेः । तत्रेदं श्रुतमनया त्वा पात्रेणेत्यादि त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयं ग्रहमापाद्याध्वर्युर्गृह्णातीति वाक्यार्थः ।
तमिमं सोपस्करमुपन्यस्यति -
पृथिव्येति ।
ग्रहणं सोमाधारपात्रस्योपादानमासादनं गृहीतस्य स्वस्थाने स्थापनं ततः सोमस्य होमो हवनं हुतशेषादानमाहरणं पश्चादृत्विजां तद्भक्षणाय मिथोऽनुज्ञाकरणमुपह्वानं ततोऽवशिष्टस्य सोमस्य भक्षणमित्येतानि मानसान्येवेत्यर्थः ।
कथमन्यग्रहयोगिनो मानसस्य कल्पनाभेदस्य क्रियानुप्रवेशित्वं, तत्राह -
स चेति ।
उक्तदृष्टान्तादग्निसम्बन्धिकल्पनाभेदोऽपि क्रियाधिकारात्क्रियानुप्रवेशीति दार्ष्टान्तिकमाह -
एवमिति ॥ ४५ ॥
मनश्चिदाद्यग्नीनां क्रियानुप्रवेशे लिङ्गान्तरमाह -
अतिदेशाच्चेति ।
सूत्रं व्याकरोति -
अतिदेशश्चेति ।
तमेव दर्शयति -
षडिति ।
कथं तावता क्रत्वङ्गत्वं तदाह -
सतीति ।
क्रियानुप्रवेशमन्तरेणान्यदेव सादृश्यमतिदेशकृतमित्याशङ्क्य तस्य योग्यानुपलम्भान्मैवमित्याह -
ततश्चेति ॥ ४६ ॥
सिद्धान्तमाह -
विद्यैवेति ।
परपक्षनिषेधं प्रतिजानीते -
तुशब्द इति ।
सिद्धान्तप्रतिज्ञामाह -
विद्येति ।
हेतुं व्याचष्टे -
तथाहीति ।
एवकारश्रुत्या प्रकरणं बाध्यमिति भावः ।
मनश्चिदाद्यग्नीनां विद्यात्मत्वे श्रुतितात्पर्यं वक्तुं श्रुत्याभासं दर्शयन्वाक्यमपि समुच्चिनोति -
विद्ययेति ॥ ४७ ॥
न श्रुत्यैव प्रकरणं बाध्यं लिङ्गादपीत्याह -
दर्शनाच्चेति ।
तद्विभजते -
दृश्यते चेति ।
किं तदित्यपेक्षायामाह -
तत्पुरस्तादिति ॥ ४८ ॥
उत्तरसूत्रव्यावर्त्यं पूर्वोक्तं चोद्यमनुस्मारयति -
नन्विति ।
तदुत्तरं सूत्रमवतारयति -
अत इति ।
न बाध इत्येतद्व्याचष्टे -
नैवमिति ।
हेतुमवतार्य व्याचष्टे -
श्रुत्यादीति ।
तेषां प्रकरणाद्बलीयस्त्वेऽपि प्रकृते किं जातं, तत्राह -
तानि चेति ।
स्वातन्त्र्यसाधकश्रुत्यादिदृष्टिमेव प्रश्नद्वारा स्फुटयति -
कथमित्यादिना ।
तत्र श्रुतिं विवृणोति -
विद्येति ।
अवधारणश्रुतेरन्यथासिद्धिं शङ्कते -
नन्विति ।
दूषयति -
नेत्युच्यत इति ।
कृतत्वादभिप्रेतस्याबाह्यसाधनत्वस्य ज्ञातत्वादिति यावत् ।
स्वरूपसङ्कीर्तनेन कृतत्वमेव स्फुटयति -
स्वरूपमिति ।
विद्याशब्देनैव बाह्यसाधनत्वं व्यावर्त्यते चेत्त्वन्मतेऽपि किमर्थमवधारणमित्याशङ्क्याह -
अबाह्येति ।
संप्रत्यवधारणश्रुतिवदेव लिङ्गं व्यनक्ति -
तथेति ।
सातत्यं सर्वकालसर्वपुरुषव्यापित्वं तेन हेतुना क्रियानुप्रवेशाभावे दृष्टान्तमाह -
यथेति ।
तदेति सम्पादनावस्थोक्तिः ।
आहुत्योरनन्तत्वमक्षयफलत्वादित्याह -
अमृते इति ।
तयोरपि क्रियाङ्गत्वशङ्कां प्रत्याह -
जाग्रच्चेति ।
उक्तदृष्टान्तात्प्रकृताग्नीनां सात्यदृष्टेर्न क्रियाप्रवेशितेति दार्ष्टान्तिकमाह -
तद्वदिति ।
सातत्यप्रयोगेऽपि किमित्यग्नीनां क्रियाप्रवेशो न स्यात् , तत्राह -
क्रियेति ।
यत्पुनरर्थवादस्थं लिङ्गं न प्रकरणबाधकमिति, तत्राह -
नचेति ।
अन्येषां श्रुतिविध्युद्देशानामन्यार्थदर्शनानामप्रापकत्वेऽपि प्रकृतेषु वचनानि त्वपूर्वत्वादिति न्यायेन सर्वदा सर्वाणि भूतानि मदर्थमग्निं चिन्वन्तीति मन्वीतेति विधिः कल्प्यते ।
अपूर्वार्थवादितया भासमानानां द्योतकत्वमात्राङ्गीकारेण गुणवादाश्रयणायोगादिति मत्वाह -
यत्रेति ।
उक्तन्यायं वाक्यान्तरेऽपि सञ्चारयति -
एतेनेति ।
श्रुतिलिङ्गे विविच्य वाक्यं विविनक्ति -
तथेति ।
श्रुतिलिङ्गवाक्येभ्यो भग्ने प्रकरणे फलितमाह -
तस्मादिति ॥ ४९ ॥
स्वातन्त्र्ये हेत्वन्तराण्याह -
अनुबन्धादिभ्य इति ।
सूत्रस्य हेत्वन्तरोक्तौ तात्पर्यमाह -
इतश्चेति ।
तत्रानुबन्धं हेतुं विवृृणोति -
यदिति ।
क्रियाङ्गानां मनआदिव्यापारेषु संयोजनान्यथानुपपत्त्याऽपि न क्रियाशेषत्वं मनश्चिदादीनामित्यर्थः । तेऽग्नयो विदुषा मनसैवाधीयन्ताधियन्ते छन्दसि कालानियमात् । मनसाचीयन्त इष्टकाश्चीयन्ते । मानसेषु मनश्चित्स्वग्निषु ग्रहाः पात्राणि विदुषाऽगृह्यन्त गृह्यन्ते । मनसैवास्तुवन्नुद्गातृप्रभृतयः स्तुवन्ति । मनसैवाऽशंसन्होत्रादयः शंसन्ति । अन्यदपि यत्किञ्चिद्यज्ञेषु पुरुषार्थं क्रियते यच्च यज्ञार्हं क्रत्वर्थं तत्रानुष्ठीयते तत्सर्वमेव मनोमयं भावनामयं विदुषा मनसैवाक्रियत क्रियत इत्यर्थः ।
किमर्थमिदमनुबन्धकरणं तदाह -
सम्पदिति ।
उपास्त्यर्थो ह्यनुबन्धस्तथापि मनश्चिदादीनामक्रियाङ्गत्वे किमायातं तदाह -
नचेति ।
तेषां क्रियाङ्गत्वे साक्षादेवाधानादिप्रसिद्धेरनर्थिका सम्पदित्यर्थः ।
तर्हि कर्माङ्गयोगादुद्गीथाद्युपासनावदिदमपि क्रियागतमुपासनं स्यान्नेत्याह -
नचेति ।
उपासनं सप्तम्यर्थः ।
उद्गीथाद्युपास्तिवृत्तिश्रुतिविधिवैपरीत्यमेव प्रस्ततोपास्तिविधौ दर्शयति -
नहीति ।
कथं तर्हीह विधानं तदाह -
षडिति ।
मनोवृत्तिभेदेष्वग्नित्वादिरहितेषु तत्कल्पनायां दृष्टान्तमाह -
पुरुषेति ।
कथं मनोवृत्तिषु सङ्ख्याभेदोपादानं तदाह -
सङ्ख्या चेति ।
अनुबन्धसामर्थ्यसिद्धमर्थमुपसंहरति -
एवमिति ।
सौत्रमादिशब्दं योजयति -
आदीति ।
तत्र मनश्चिदादीनां स्वातन्त्र्यप्रापकमतिदेशं विशदयति -
तथाहीति ।
वाक्यतात्पर्यमाह -
क्रियेति ।
ननु पूर्वेणेष्टकाचितेनाग्निना मनश्चिदादीनां विकल्पः स्यादित्युक्तं तेन विकल्पार्थोऽतिदेशो नानादरार्थ इति, तत्राह -
नचेति ।
व्रीहिभिर्यावत्क्रियते यवैरपि तावदिति युक्तो विकल्पः । प्रकृते तु मनश्चिदादीना तदभावान्नेष्टकाचितेन विकल्पः स्यादित्याह -
नहीति ।
अतिदेशस्य पूर्वपक्षानुगुण्यात्कथमादिशब्देन ग्रहणमित्याशङ्क्यानुवदति -
यत्त्विति ।
अग्नित्वसाम्येनाप्यतिदेशसिद्धेर्न पारिशेष्यमिति दूषयति -
तदिति ।
अग्नित्वसाम्यसम्भवमेव स्फुटयति -
अस्तीति ।
वहुवचनं घटयति -
श्रुत्यादीनीति ।
उक्तहेतुफलं निगमयति -
एवमिति ।
दृष्टान्तमवतार्य व्याचष्टे -
प्रज्ञान्तरेति ।
उक्तदृष्टान्तानुसारादनुबन्धाद्युक्तहेतुभ्यो मनश्चिदादीनामपि स्वातन्त्र्यमिति दार्ष्टान्तिकमाह -
एवमिति ।
सूत्रविभागव्याख्यासमाप्तावितिशब्दः ।
मनश्चिदादीनां स्वातन्त्र्ये क्रियाप्रकरणपाठासिद्धिरित्याशङ्क्याह -
दृष्टश्चेति ।
उत्कर्षे हेतुमाह -
वर्णेति ।
तथापि राजसूयाङ्गत्वयोगादुत्कर्षासिद्धिः, तत्राह -
राजेति ।
राजा स्वाराज्यकामो राजसूयेन यजेतेत्यारभ्याग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्यादिनाऽवेष्टिर्नामेष्टिराम्नाता । तत्र यदि ब्राह्मणो यजेत वार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाऽभिघारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्यस्तदैन्द्रमिति श्रूयते । तत्र किं ब्राह्मणादीनां राजसूये प्राप्तानां निमित्तार्थेन श्रवणमुत तेषामेव यागो विधीयत इति सन्देहे प्रजापालनकण्टकोद्धरणादि राज्यं तस्य कर्ता राजेत्यार्यप्रसिद्धेस्त्रैवर्णिकानामपि तत्कर्तृत्वप्रसिद्ध्या राजशब्दवत्त्वेन राजसूयाधिकारित्वाद्यदि ब्राह्मणो यजेतेत्याद्याः श्रुतयो निमित्तार्था इति नास्ति प्रकरणादुत्कर्षोऽवेष्टेरिति प्राप्ते ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति पाणिनिना गुणवचनेभ्यः शुक्लादिशब्देभ्यो ब्राह्मणादिशब्देभ्यश्च कर्मणि ष्यञ्प्रत्ययस्मरणाद्राज्ञः कर्म राज्यमिति राजकर्तृयोगाद्राज्यमित्यवगमात्कोऽसौ राजेत्यपेक्षायामार्येषु तत्प्रसिद्ध्यभावेऽपि म्लेच्छानां क्षत्रियमात्रे राजशब्दप्रयोगान्म्लेच्छप्रसिद्ध्या राजशब्दार्थनिर्णयाद्ब्राह्मणादौ च पालनादिकर्तरि राजशब्दस्य गौणत्वात्क्षत्रियस्यैव राजसूयेऽधिकाराद्ब्राह्मणवैश्ययोस्तत्राप्राप्ते राजसूयप्रकरणं हित्वा ब्राह्मणादिकर्तृकाणि कर्मान्तराणि विधीयन्त इति राजसूयप्रकरणादुत्कर्षोऽवेष्टेरिति द्वितीये स्थितम् । तत्र यथा क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेष्टे राजसूयप्रकरणादुत्कर्षस्तथा मनश्चिदादीनामपि क्रियाप्रकरणादुत्कर्षो लिङ्गादिभिरिति भावः ।
एकादशेऽपि चिन्तितमेतदित्याह -
तदुक्तमिति ।
राजसूयप्रक्रियायामवेष्टिर्नामेष्टिराम्नाता आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणेति ।
तत्राग्नेयादिहविःष्वङ्गानां तन्त्रेण प्रयोगः किं वावृत्त्येति संशये पूर्वपक्षसूत्रम् ‘अवेष्टौ त्वेकतन्त्रं स्याल्लिङ्गदर्शनात् ‘ इति बार्हस्पत्यं मध्ये निधायेति लिङ्गोपलम्भात्प्रयोगभेदे च मध्ये निधानायोगादेतयाऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमवेष्टावेकस्मिन्प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वाऽन्नाद्यकामप्रयोगेऽवेष्टेरिदं लिङ्गदर्शनादि न क्रत्वर्थप्रयोगे, तस्य तु दक्षिणा भेदाद्भेद इत्यङ्गावृत्तिरेवेति राद्धान्तिते क्रत्वर्थायामपीष्टाविदं लिङ्गदर्शनाद्यस्तीत्यङ्गानावृत्तिरित्याशङ्कामनूद्य दूषयति -
क्रत्वर्थायामिति चेदिति ।
काम्यायामिष्टौ ‘यदि ब्राह्मणः’ इत्यादिना वर्णत्रयसंयोगात्तस्यां च मध्यनिधानादिसिद्धेर्न राजकर्तृकक्रत्वर्थेष्टौ तत्प्राप्तिरतोऽङ्गावृत्तिरित्यर्थः । अत्र चैकप्रयोगत्वलिङ्गस्य क्रत्वर्थेष्टावसम्भवं काम्येष्टौ च सम्भवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिवैलक्षण्यसूचनाद्वारेणार्थात्प्रकरणादुत्कर्षोऽपि सिध्यतीति क्रियाप्रकरणान्मनश्चिदादीनामुत्कर्षो भवत्येतदनुगुणमुदाहरणमिति द्रष्टव्यम् ॥ ५० ॥
परोदीरितमुदाहरणं विघटयति -
नेति ।
परोक्तमनूद्य तदुत्तरत्वेन सूत्राक्षराणि व्याचष्टे -
यदित्यादिना ।
मानसेन ग्रहेण सह मनश्चिदादीनां च भावनामयत्वे तुल्ये कथं श्रुत्यादिभिः स्वातन्त्र्यं, तत्राह -
नहीति ।
सत्यपि सादृश्ये यथास्वं वैषम्यमव्यावृत्तमित्यत्र दृष्टान्तमादाय व्याचष्टे -
मृत्युवदिति
नहीत्यादि विभजते -
यथाचेति ।
उक्तदृष्टान्तानुरोधान्मानसग्रहस्य मनश्चिदादीनां च भावनामयत्वाविशेषेऽपि पारतन्त्र्यस्वातन्त्र्ययोः सिद्धिरित्याह -
तद्वदिति ॥ ५१ ॥
पूर्वोत्तरब्रह्माणयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽस्यापि तत्प्राधान्यमित्याह -
परेण चेति ।
सन्दिग्धस्य निर्णयो वाक्यशेषादितिन्यायेन सूत्रावयवं व्याकुर्वन्वाक्यशेषमनुसन्धत्ते -
परस्तादिति ।
उत्तरब्राह्मणस्य विद्याप्राधान्ये गमकमाह -
तत्रेति ।
ब्राह्मणस्य विद्याप्राधान्यमेतदित्युक्तम् । उपक्रमतन्त्रेणोपसंहारेणैकस्मिन्वाक्ये भवितव्यमितिन्यायेन चकारं व्याकुर्वन्पूर्वमपि ब्राह्मणमनुसन्धत्ते -
तथेति ।
तस्य विद्याप्राधान्ये लिङ्गमाह -
सोऽमृत इति ।
पूर्वोत्तरब्राह्मणयोर्विद्याप्राधान्येऽपि प्रकृतब्राह्मणस्य कर्मप्राधान्ये का हानिः, तत्राह -
तदिति ।
कथं तर्हि विद्यायाः स्वातन्त्र्ये कर्माधिकारे समाम्नानमित्याशङ्क्य भूयस्त्वादित्यादि व्याचष्टे -
भूयांसस्त्विति ।
श्रुतिलिङ्गादिभिः सिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ५२ ॥
मनश्चिदादीनां न पुरुषार्थत्वं पुरुषस्यैव देहातिरिक्तस्याभावदित्याक्षिपति -
एक इति ।
अधिकरणस्य तात्पर्यमाह -
इहेति ।
तत्समर्थनफलमाह -
बन्धेति ।
साधनानुष्ठानसामर्थ्याद्देहस्यैव स्वर्गापवर्गाधिकारित्वसिद्धौ कृतं व्यतिरेकचिन्तयेत्याशङ्क्याह -
नहीति ।
व्यतिरेकविचारस्य पूर्वतन्त्रेण पौनरुक्त्यं शङ्कते -
नन्विति ।
सूत्रकृता तत्रातिरिक्तात्मानुक्तेर्न पौनरुक्त्यमित्याह -
सत्यमिति ।
प्रकृते पूर्वमीमांसातो विशेषमाह -
इह त्विति ।
कथं तर्हि प्रथमे पादे दर्शितमात्मास्तित्वं नहि मूलभूतं सूत्रं विना भाष्यं युक्तं, तत्राह -
इत इति ।
यज्ञायुधी यजमानः स्वर्गं लोकं यातीतिवाक्यस्यातिरिक्तात्माभावादप्रामाण्यप्राप्तौ तत्परिहारेण प्रथमाध्यायोपयोगितया तदस्तित्वमिदभेवाधिकरणमवष्टभ्योक्तमिति सूचयति -
प्रमाणेति ।
एतस्मादेवाकृष्य तत्रात्मास्तित्वमुक्तमित्यत्र वृत्तिकारवचनं गमकमित्याह -
अत इति ।
यस्मादत्र सूत्रकारो निरूपयति तस्मादेवेति यावत् । आत्मास्तित्वस्यास्मात्पूर्वकाण्डं प्रति नयनमपकर्षस्तस्योद्धारो निवृत्तिरित्यर्थः ।
अथात्रापि प्रथमसूत्रेऽथशब्दोपात्तोऽधिकारी विचारितस्तत्कथमिह पुनस्तन्निरूपणं, तत्राह -
इह चेति ।
तत्र लोकसिद्धात्मादानेनाधिकारी दर्शितो न तद्विशेषश्चिन्तितः । प्रकृते तु विधिप्रमाणकेषूपासनेषु विचार्यमाणेषु विचार्यते विशेषतस्तदस्तितेत्यस्ति भेद इत्यर्थः ।
प्रासङ्गिकीमध्यायपादसङ्गतिमधिकरणस्योकत्वा श्रुतिशास्त्रसङ्गर्ति सूचयति -
कृत्स्नेति ।
सर्वस्यैवाम्नायस्य तदर्थविचारात्मनश्च शास्त्रस्य शेषभूतमधिकरणमतिरिक्तात्माविचारे सर्वास्यास्य दुर्घटत्वादतोऽतिरिक्तस्यात्मनः शेषत्वं दर्शयितुमेष विचार इत्यर्थः ।
सङ्गतिचतुष्टयमित्थमुक्त्वा पुर्वोत्तराधिकरणसङ्गतिमाह -
अपिचेति ।
इतश्चेदमिह सङ्गतमित्यर्थः ।
अनेन सूत्रेण तन्नोच्यत इत्याशङ्क्याद्यसूत्रस्यावान्तरसङ्गतिमाह -
तदस्तित्वेति ।
अतिरिक्तात्मास्तित्वे साध्ये किं तदाक्षेपेणेत्याशङ्क्याह -
आक्षेपेति ।
इत्याक्षेपस्योपयुक्ततेति शेषः ।
मनश्चिदादयोऽग्नयो यदर्थाः स पुरुषो विषयः स किं देहस्तदतिरिक्तो वेति विप्रतिपत्तेः संशये पूर्वपक्षयति -
अत्रेति ।
पूर्वपक्षे देहात्मवादसिद्धिः सिद्धान्ते वैदिकात्मसिद्धिरिति फलभेदः । परीक्षकव्यवहारभूमिः सप्तम्यर्थः ।
स्वतन्त्रमन्याधारं वा चैतन्यमात्रं वा व्यावर्तते मनुष्योऽहमिति देहस्याहंप्रत्ययालम्बनत्ववदतिरिक्तात्मसत्त्वे मानाभावं गृहीत्वाह -
देहेति ।
चैतन्याधारस्यात्मत्वाद्भौतिकत्वेनाचेतनस्य कथमात्मत्वमित्याशङ्क्याह -
समस्तेति ।
एकैकस्मिन्नविद्यमानं कथं सङ्घाते स्यात् , तत्राह -
तेभ्य इति ।
चैतन्यं सम्भावयन्त इति सम्बन्धः ।
सङ्घातविशेषे कार्यविशेषसत्त्वे दृष्टान्तमाह -
मदेति ।
यथैकैकस्मात्ताम्बूलादेरदृष्टापि मदशक्तिः सङ्घाते दृश्यते तथेदं ज्ञानमेकैकस्मिन्नदृष्टमपि देहाकारपरिणतभूतेषु संहतेषु भवतीति चाहुरिति योजना ।
देहस्यैव भोक्तृत्वे मृतदेहेऽपि भोगः स्यादित्याशङ्क्याह -
चैतन्येति ।
अग्निसंनिधानादयःपिण्डस्यौष्ण्यमिवात्मसंनिधेर्देहचैतन्यमित्यतिरिक्तस्यात्मनः स्वर्गापवर्गान्वयिनोऽभावान्न देहस्य चैतन्यवैशिष्ट्यमित्याशङ्क्याह -
नेत्यादिना ।
आत्मा तर्हि कः स्यादित्यपेक्षायामाह -
देहेति ।
सूत्रभागेन प्रतिज्ञातेऽर्थे हेतुमवतार्यं व्याचष्टे -
यद्धीति ।
अन्वयव्यतिरेकाभ्यां चैतन्यस्य देहधर्मतैवेति नातिरिक्तात्मसिद्धिरित्यर्थः ।
प्राणचेष्टादयः साश्रयाः, कार्यत्वात्संमतवत् , इत्यनुमानात्प्राणाद्याश्रयस्यातिरिक्तात्मनः सिद्धिरित्याशङ्क्यानुमानाप्रामाण्यात्प्रामाण्येऽपि सिद्धसाध्यत्वान्मैवमित्वाह -
प्राणेति ।
चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः । आदिपदेनेच्छाद्वेषादय उक्ताः ।
तेषां देहधर्मत्वेनादृष्टानां कथं तद्धर्मतेत्याशङ्क्याह -
असिद्ध इति ।
प्रत्यक्षेणातिरिक्तात्मनोऽदृष्टेर्मानान्तरे चासंमतेर्गौरोऽहं स्थूलोऽहमिति च देहस्यैवात्मत्वेनाध्यक्षत्वात्तदाधारत्वमेव प्राणादीनामित्यर्थः ।
देहात्मवादी प्रत्यक्षफलमुपसंहरति -
तस्मादिति ॥ ५३ ॥
सिद्धान्तसूत्रमवतारयति -
एवमिति ।
तत्र न त्विति पूर्वपक्षनिषेधप्रतिज्ञां विभजते -
न त्विति ।
उत्तरपक्षप्रतिज्ञां व्याकरोति -
व्यतिरेकेति ।
तत्र हेतुमवतार्य व्याचष्टे -
तदिति ।
देहभावेऽपि प्राणादीनामभावो मृतावस्थायामास्थेयः । चैतन्यादयो न देहस्य विशेषगुणास्तद्भावाभावित्वात् ।
ये तद्विगुणास्ते न तद्भावाभाविनो यथा रूपादय इत्याह -
देहेति ।
वैलक्षण्यं स्पष्टयन्दृष्टान्तस्य साधनाव्यावृत्तिं वारयति -
ये हीति ।
हेत्वसिद्धिं प्रत्याह -
प्राणेति ।
तेषां विशेषगुणत्वाभावेऽपि न देहमात्रप्रभवत्वं मृतावस्थायामदर्शनात् । अतो देहातिरिक्तस्तदधिष्ठातेति भावः ।
चैतन्यादीनां देहधर्मत्वाभावे हेत्वन्तरमाह -
देहेति ।
विमता न देहधर्माः परैरनुपलभ्यमानत्वाद्ये तद्धर्मास्ते परैरुपलभ्यन्ते यथा रूपादय इत्यर्थः ।
इतश्च तेषां न देहधर्मतेत्याह -
अपिचेति ।
नहि धर्मधर्मित्वमन्वयमात्राद्युक्तमतिप्रसङ्गादतो व्यतिरेकोऽपि वाच्यः सोऽत्र सन्दिग्ध इति न धर्मधर्मितेत्याह -
सतीति ।
व्यतिरेकसन्देहे हेतुमाह -
पतितेऽपीति ।
तत्रापि न प्रमाणमित्याशङ्क्याह -
संशयेति ।
न तावत्तवादर्शनमभावनिश्चायकं प्रत्यक्षस्यैव प्रामाण्यान्मम त्वात्मनो देहान्तरसञ्चारात्तद्धर्मदृष्टिरिति सन्दिह्यते तावन्मात्रेण चैतन्यादीनां देहधर्मत्वासिद्धिरावयोरुभयोरपि निश्चितान्वयादेरेव साधकत्वाविवादादिति भावः ।
उपलब्धिवदिति पदं चोद्यमुखेन व्याख्यातुं पृच्छति -
किमात्मकमिति ।
तत्किं भूतचतुष्टयातिरिक्तं न वेति विमर्शार्थः ।
अप्रकृतेऽर्थे कथं प्रश्नः स्यात् , तत्राह -
यस्येति ।
आद्ये सिद्धान्तविरोधमाह -
नहीति ।
धर्मधर्मिणस्तादात्म्याभेदपक्षमालम्बते -
यदिति ।
भूतपरिणामत्वाच्चैतन्यस्य रूपादिवद्भूतेभ्योऽर्थान्तरत्वाभावान्न व्यतिरेकापत्तिरिति भावः ।
भूतपरिणामत्वं चैतन्यस्य रूपादिवैषम्योक्त्या प्रत्युक्तमिति मन्वानो दोषान्तरमाह -
तदिति ।
उक्तरूपं चेच्चैतन्यं तर्हि स्वात्मानं प्रति भूतभौतिकानां विषयत्वान्न तद्धर्मत्वेन तदभेदं प्रतिपद्येतेत्यत्र हेतुमाह -
स्वात्मनीति ।
असिधारा स्वात्मानं छिनत्तीतिवदेकत्र विषयविषयित्वायोगादिति हेत्वर्थः । किंच यो यस्य धर्मः स न तत्साधको यथा रूपादिः ।
तथाच चैतन्यस्य भूतभौतिकसाधकत्वादेव तदतिरेकसिद्धिरित्याह -
नहीति ।
रूपादिदृष्टान्तं स्पष्टयति -
नहीति ।
तर्हि चैतन्यस्यापि साधकत्वं मा भूत् , तत्राह -
विषयीति ।
सूत्रावयवं फलितपरत्वेन योजयति -
अतश्चेति ।
भवतु तर्हि भूतेभ्योऽतिरिक्ता स्वतन्त्रोपलब्धिस्तथापि कथमात्मसिद्धिः, तत्राह -
उपलब्धीति ।
क्षणिकत्वात्तस्या नित्यात्मरूपत्वमयुक्तमित्याशङ्क्याजानतस्तद्भेदाभावाद्विषयोपरागात्तद्भानादसावेवानित्यो नोपलब्धिरित्याह -
नित्यत्वं चेति ।
किञ्च स्थूलदेहाभिमानहीनस्य स्वप्ने प्रत्यभिज्ञानादतिरिक्तात्मसिद्धिरित्याह -
अहमिति ।
स्वप्नेऽपि स्थूलदेहान्तरस्यैवोपलब्धृत्वमित्याशङ्क्याह -
स्मृत्यादीति ।
उपलब्धृस्मर्त्रोर्भेदे सत्यन्योपलब्धेऽन्यस्य स्मृतिरिच्छादयश्च नेति न तयोरन्यतेत्यर्थः ।
दूषितमपि दोषान्तरं वक्तुमनुभाषते -
यत्त्विति ।
तद्भावाभावित्वव्याख्यानेन प्रत्याख्यातमेतदित्युक्तं स्मारयति -
तदिति ।
अधिकं दोषं दर्शयति -
अपिचेति ।
अनन्यथासिद्धावन्वयव्यतिरेकौ वाच्यौ देहस्य च चैतन्यान्वयव्यतिरेकावधिष्ठानविषयतयाऽन्यथासिद्धाविति सदृष्टान्तं साधयति -
सत्स्विति ।
उपकरणत्वमपि देहस्योपलब्धौ न सिध्यतीत्याह -
नचेति ।
उपलब्धिर्न देहजन्या तस्मिन्नव्याप्रियमाणेऽपि सत्त्वादर्थान्तरवत् । जागरे तु व्यञ्जकजनकतया कथञ्चिदुपयोगमङ्गीकृत्यात्यन्तमित्युक्तम् । स्वप्ने द्रष्टर्यहं पश्यामीत्याद्यबाधिताध्यक्षस्य स्थूलदेहाकारहीनस्य देहातिरिक्तात्मविषयत्वान्न देहात्मवादसिद्धिरिति भावः ।
अनुमानाद्यप्रामाण्यं तु प्रतिज्ञामात्रमिति मत्वोपसंहरति -
तस्मादिति ॥ ५४ ॥
देहभावे भवतश्चैतन्यस्य तद्भावेऽप्यभाववदुद्गीथादिभावे भवत उपासनस्य तद्भावेऽप्यभावमाशङ्क्याह -
अङ्गेति ।
अवान्तरसङ्गतिमाह -
समाप्तेति ।
उद्गीथाद्यङ्गाश्रितोपासनानि विषय इति तत्तद्वाक्योक्त्या दर्शयति -
ओमित्येतदिति ।
इदं वाक्यं व्याप्तेश्चेत्येतदधिकरणे व्याख्यातम् । लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथिव्यादिदृष्ट्या पञ्चविधं सामोपासीतेत्यर्थः । ‘पृथिवी हिङ्कारोऽग्निः स्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम्’ इति । उक्थं कर्माङ्गं शस्त्रमिति वीप्सया यत्प्रजा वदन्ति तदिदमेव येयं पृथिवीत्युक्थे पृथिवीदृष्टिविधिः । चितोऽग्निः कर्माङ्गभूतस्तत्रायं लोक इति दृष्टिरित्यर्थः ।
उद्गीथादिप्रत्ययानुक्तानधिकृत्य प्रकरणादुद्गूथादिशब्दसाधारण्याच्च संशयमाह -
त इति ।
उद्गीथादीनां सर्वशाखास्वैक्यादुपास्तिव्यवस्थाशङ्काभावादनारभ्यमिदमधिकरणमित्याशङ्क्याह -
प्रतीति ।
नीचैष्ट्वादिस्वरभेदादध्ययनधर्मभेदाच्चोद्गीथादेरपि भेदमङ्गीकृत्य विद्याविचार इत्यर्थः । अत्र हि श्रौतेन सामान्येन प्राकरणिकस्य विशेषनियमस्य बाधात्सर्वशाखाविहितप्रधानकर्माङ्गत्वेन प्रयुक्तसर्वोद्गीथादिविशेषेषु तदालम्बनोपास्तीनामुपसंहारोक्त्या सर्वशाखाभिरनुष्ठेयत्वोक्तेर्वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षेऽनुष्ठानव्यवस्थासिद्धिः सिद्धान्ते तदव्यवस्थेत्यास्थाय पूर्वपक्षयितुं विमृशति -
किमिति ।
यथा देहात्मनोर्भेदादात्मधर्मा देहे न भवन्त्येवमेकशाखागतोद्गीथधर्माणां भिन्नशाखोद्गीथादौ न प्राप्तिरिति पूर्वपक्षमाह -
स्वशाखेति ।
विद्याचित एवेत्येवश्रुत्या मनश्चिदादीनां क्रियाप्रकरणभङ्गेन पुरुषार्थत्ववदिहाप्युद्गीथादिश्रुतेर्बलीयस्त्वात्तया प्रकरणभङ्गान्नास्त्युपास्तीनां व्यवस्थेत्याह -
कुत इति ।
उद्गीथादिसामान्यश्रुतेः प्रकरणोपनीतविशेषाकाङ्क्षत्वेनाबाधकत्वादुपास्तिव्यवस्था युक्तेति मत्वाह -
संनिधानादिति ।
प्रकरणं विवृणोति -
उद्गीथमिति ।
उद्गीथोक्तचित्याग्नीनां प्रत्ययालम्बनानां वेदत्रयोक्तप्रधानकर्मस्वङ्गत्वेन प्रयुक्तानां प्रतिशाखं स्वारादिभेदेन भेदादुद्गीथादिश्रुतिभिः प्रत्ययालम्बनानामुद्गीथादीनां सामान्येनोपात्तानां विशेषाकाङ्क्षायां तत्तच्छाखास्थप्रधानकर्माङ्गत्वेन प्रयुक्तोद्गीथादिविशेषेषूद्गीथमुपासीतेत्यादिप्रत्ययाः प्रकरणान्नियम्यन्त इत्यर्थः ।
प्रकरणाद्व्यवस्थायां यच्छाखास्थं यदुपासनं ततच्छाखिभिरेवानुष्ठेयमित्युपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्राक्षराणि योजयति -
तुशब्द इति ।
हिशब्दोपात्तं हेतुं प्रश्नपूर्वकमाह -
कुत इति ।
सामान्यप्रवृत्तश्रुतेर्विशेषाकाङ्क्षायां प्रकरणाद्विशेषनियमो युक्तः ।
प्रकृते तूद्गीथादिसामान्येषूपास्तिसम्भवेन विशेषाकाङ्क्षाभावे श्रौतसामान्येन प्राकरणिकविशेषनियमबाधात्सर्वशाखास्थप्रधानकर्माङ्गत्वेन विनियुक्तोद्गीथादिविशेषु तदालम्बनधियामुपसंहारः स्यादिति हेतुं विवृणोति -
स्वेति ।
प्रकरणेन विशेषार्थे सामान्यश्रुत्यबाधेऽपि सङ्कोचे मानाभावात्सामान्यद्वारा सर्वविशेषगामिश्रुतेरेकस्मिन्विशेषे नियमनं पीडैवेति मत्वोक्तम् -
पीडितेति ।
त्वत्पक्षे श्रुत्या प्रकरणबाधवन्मत्पक्षेऽपि तेन श्रुतिर्बाध्यतामविशेषादित्याशङ्क्याह -
संनिधानादिति ।
सामान्यस्योपास्यत्वायोगाद्विशेषाकाङ्क्षायां तदर्थकं प्रकरणं कथं श्रुत्या बाध्यमित्याशङ्क्याह -
नचेति ।
तथापि प्रतिवेदं स्वरादिभेदेनोद्गीथादिभेदादुपास्तिव्यवस्योक्तेत्याशङ्क्याह -
तस्मादिति ।
श्रुतिप्राबल्यं तच्छब्दार्थः ॥ ५५ ॥
उद्गीथादिश्रुत्यवष्टम्भेन यत्र यत्रोद्गोथादिरुक्तस्तत्र तत्र सर्वत्रैव क्वाचित्कस्यापि प्रत्ययस्यानुवृत्तिरित्युक्तम् । इदानीमुदाहरणेनापीममर्थं समर्थयति -
मन्त्रादिवदिति ।
वाशब्दार्थं कथयति -
अथवेत्यादिना ।
हेतुमवतार्याक्षरार्थमाह -
मन्त्रेति ।
तत्र मन्त्रोदाहरणं दर्शयति -
येषामिति ।
तण्डुलपेषणार्थं कुटरुरसीत्यश्मादानमन्त्रो येषां शाखिनां नाम्नातः कुक्कुटोऽसि मधुजिह्व इत्ययमेव मन्त्रः समाम्नायते तथापि तेषां प्रयोगसूत्रेण विनियोगे सोऽपि मन्त्रो दृश्यते तेन शाखान्तरोत्पन्नस्य मन्त्रस्य शाखान्तरे सङ्ग्रहोऽस्तीत्यर्थः ।
कर्मणामुदाहरणमाह -
येषामपीति ।
मैत्रायणीयानां समिधो यजति तनूनपातं यजतीडो यजति बर्हिर्यजति स्वाहाकारं यजतीति समिदादयः प्रयाजा नाम्नातास्तथापि तेषु सङ्ख्यादिगुणविधिराम्नायते । द्वादश मासाः पञ्चर्तव इत्यत्र हेमन्तशिशिरयोरेकीकरणेन पञ्चर्तवः प्रसिद्धाः । तथा चर्तुवत्पञ्चसङ्ख्याकाः प्रयाजाः समानत्र समानदेशे होतव्या इति यावत् । तत्र शाखान्तरोत्पन्नकर्मणां शाखान्तरे सङ्ग्रहो दृष्टोऽन्यथा तत्र गुणविध्ययोगादित्यर्थः ।
गुणोदाहरणमाह -
तथेति ।
‘अग्नीषोमीयं पशुमालभेत’ इति यजुर्वेदिनामग्नीषोमीयः पशुराम्नायते नाज इति जातिविशेषस्तेन विशेषाश्रवणाद्यः कश्चित्पशुरालम्भनीय इति प्राप्ते ‘छागो वा मन्त्रवर्णात् ‘ इतिसूत्रेण च्छागादेर्होमार्थमनुवाक्यं पठ होत्ररित्यध्वर्युप्रैषार्थं लिङ्गस्य नियमकारणस्य भावाच्छागोऽग्नीपोमीयः पशुरिति स्थितम् । अतश्च गुणस्यापि प्रैषमन्त्रलिङ्गादुपसङ्ग्रहो दृष्ट इत्यर्थः ।
मन्त्राणामुदाहरणान्तरमाह -
तथेति ।
वेदान्तरशब्दाभ्यामुद्गात्रध्वर्युवेदावुच्येते ।
तत्रैवोदाहरणान्तरमाह -
तथेति ।
यो जातो बाल एव सन्प्रथमो गुणैः श्रेष्ठो मनस्वान्विवेकवान्स जनास इन्द्र इति शेषः । जनासो जनास्ते सम्बोध्यन्ते स इन्द्र एवंविध इति यावत् । अध्वर्यवे तत्कर्तृकप्रयोगार्थं सजनीयं ‘स जनासः’ इत्येतेनोपलक्षितं सूक्तं शस्यं शंसनीयमित्यर्थः ।
दृष्टान्तानुवादेन दार्ष्टान्तिकं निगमयति -
तस्मादिति ।
शाखान्तरोत्पन्नस्य शाखान्तरे सङ्ग्रहबाहुल्यं तच्छब्दार्थः ॥ ५६ ॥
उद्गीथाद्युपासनं तत्तदङ्गविशेषालम्बनं नेत्युक्तिप्रसङ्गेन वैश्वानरोपास्तिरपि तत्तदङ्गविशेषालम्बना नेति साधयति -
भूम्न इति ।
सैव हीत्यत्र तद्यत्तत्सत्यमिति तच्छब्देन प्रकृतपरामर्शाद्विद्यैक्यमुक्तम् ।
अत्र तु तद्वदभेदे हेत्वभावादगतार्थतेति मत्वा व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रौतमुदाहरति -
प्राचीनेति ।
तत्र प्रश्नप्रतिवचनरूपवाक्येन व्यस्तोपास्तिमुपन्यस्यति -
व्यस्तेति ।
वैश्वानराधिकरणे व्याख्यातं वाक्यमनुस्मृत्य समस्तोपास्तिं दर्शयति -
तथेति ।
द्विविधामुपास्तिमधिकृत्योभयत्र विधिफलश्रुतिभ्यामेकवाक्यत्वोपपत्तेश्च संशयमाह -
तत्रेति ।
एकवाक्यतालाभेन समस्तस्यैव वैश्वानरस्योपास्तिरित्युक्त्या वाक्यार्थधीहेतोरेवात्रापि चिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे वाक्यभेदः सिद्धान्ते तदैक्यमित्यङ्गीकृत्य पूर्वपक्षार्थं विमृशति -
किमिति ।
उद्गीथादिश्रुत्या संनिधिं बाधित्वोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारोक्तिवदत्रापि व्यस्तोपासनस्य विधिफलयोः श्रुतेः समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा विधेयतेति पूर्वपक्षमाह -
प्रतीति ।
सुतमित्यभिषवस्य कण्डनस्य कर्मतापन्नं सोमरूपम् । प्रसुतमासुतमित्यवस्थाविशेषापेक्षं तस्यैव विशेषणम् । सोमयागकरणसम्पत्तिस्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्येत्यादिवाक्यप्रकरणाभ्यां समस्तोपासनाङ्गत्वेन तदन्तर्भावेऽपि व्यस्तोपासनानामत्त्यन्नं पश्यति प्रियमित्यादिना प्रत्यवयवं विधिफलश्रुतेः स्वातन्त्र्येणापि विधानं कल्प्यं तेनोभयथोपासनं कार्यमिति भिन्नान्येवैतानि वाक्यानीत्यर्थः ।
सिद्धान्तसूत्रमवतार्य भूम्नो ज्यायस्त्वमिति प्रतिज्ञां व्याचष्टे -
तत इति ।
समस्तोपासनवद्व्यस्तोपासनमपीष्यतां, तत्राह -
नेति ।
तत्र दृष्टान्तमादाय विभजते -
क्रतुवदिति ।
सामस्त्येनेत्यौत्सर्गिकोक्तिः ।
प्रयाजादीनां प्रत्येकमप्रयोगेऽपि नित्यादीनां किञ्चिद्गुणवतामपि प्रयोगोऽस्तीत्याशङ्क्य काम्येषु नैवमित्याह -
नापीति ।
सर्वाङ्गोपेतकाम्यक्रतोरिष्टत्ववद्वैश्वानरोपासनस्यापि समस्तस्यैव प्राधान्येष्टतेत्याह -
तद्वदिति ।
हेतुं प्रश्नपूर्वकमेव व्याकरोति -
कुत इति ।
साक्षाज्ज्यायत्त्वोक्तिरदृष्टेत्याशङ्क्याह -
एकेति ।
वाक्यप्रकरणाभ्यामेकवाक्यत्वं साधयति -
एकं हीति ।
विहितानामपि व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावान्न पृथक्कार्यतेति मत्वाह -
तथाहीति ।
व्यस्तोपास्त्यपवादश्रुतेश्च समस्तस्यैवोपासनस्य ज्यायस्त्वमित्याह -
मूर्धेति ।
समस्तोपासने वैफल्यान्न तस्य ज्यायस्त्वमित्याशङ्क्याह -
पुनश्चेति ।
व्यस्तोपासनेऽपि फलश्रवणमस्तीत्युक्तं, तत्राह -
यत्त्विति ।
व्यस्तोपास्तीनां प्रकरणवाक्याभ्यां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शपूर्णमासवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकीकरणेन समस्तोपास्तिरेव ज्यायसीत्याह -
तदिति ।
प्रत्यवयवमुपास्तिविधिश्रुतेर्व्यस्तोपास्तिर्भातीत्युक्तमित्याशङ्क्याह -
तथेति ।
औपमन्यवाद्यवगतरूपानुवादेन समस्तोपास्तिरेवात्र विधित्सितेत्यर्थः ।
स्वपक्षमुपसंहरति -
तस्मादिति ।
एकदेशिव्याख्यामनूद्य दूषयति -
केचित्त्विति ।
किलकारोऽनिच्छायाम् ।
एकावाक्यताभङ्गेन वाक्यभेदं कृत्वा व्यस्तोपासनान्यपि पृथग्विधीयन्तामित्याशङ्क्याह -
मूर्धेति ।
यदोभयथोपास्तिः सिद्धान्तस्तदा व्यस्तोपास्तिरेवात्र समस्तोपास्तिरेव वा पूर्वपक्षः स्यान्नाद्य इत्याह -
स्पष्टे चेति ।
द्वितीयश्च तवायुक्तो वाक्योपक्रमस्थव्यस्तोपास्तिधीविरोधात्समस्तोपास्तिविध्यर्थं पराभिप्रायानुवादे सिद्धान्तादविशेषादिति भावः ।
समस्तोपास्तिरेव कार्या न व्यास्तोपास्तिरित्यत्र किमपेक्ष्य सौत्रं ज्यायस्त्ववचनं, तत्राह -
सौत्रस्येति ।
समस्तोपास्तेर्मानवत्त्वोक्त्या व्यस्तोपास्तेर्वाक्यतात्पर्याविषयत्वेनाप्रामाणिकत्वं द्योतयितुं सूत्रे भूम्नो ज्यायस्त्वमुक्तम् । अतः समस्तोपास्तिरेव कार्येत्येकवाक्यता सिद्धेत्यर्थः ॥ ५७ ॥
भिन्नश्रुतीनामपि सुतेजस्त्वप्रभृतीनां समस्तोपासनं ज्यायश्चेत्तर्हि सर्वोपास्तीनामपि भिन्नश्रुतीनां समस्तोपासनं ज्यायः स्यादित्याशङ्क्याह -
नानेति ।
दहरविद्यादिब्रह्मोपासनानि प्राणोपासनानि च विद्याभेदादभिन्नानि वा शब्दादिभेदाद्भिन्नानि वेति सन्देहे पूर्वन्यायेन पृर्वपक्षयति -
पूर्वस्मिन्निति ।
शाण्डिल्यविद्यादीनामभेदे हेत्वन्तरमाह -
अपिचेति ।
तत्र सदृष्टान्तं हेतुमाह -
वेद्यं हीति ।
तत्र तत्र श्रुतिषु सत्यसङ्कल्पत्वादिगुणविशिष्टब्रह्मभेदाद्विद्याभेदोऽपि नास्तीत्याशङ्क्य ब्रह्मणः सिद्धत्वात्तदुपाधौ तद्गुणानामपि व्यवस्थानाद्युक्तं वेद्यैक्यमित्याह -
वेद्यश्चेति ।
श्रुतिनानात्वेऽपि तत्तदाध्येयगुणश्रुतिभेदेऽपीति यावत् ।
ब्रह्मोपासनेपु वेद्याभेदेऽपि कथमब्रह्मोपासनेष्वित्याशङ्क्याह -
तयेति ।
तदेकत्वेऽपि विद्यानानात्वं किं न स्यादित्याशङ्क्य रूपाभेदान्मैवमित्याह -
वेद्येति ।
विद्यैक्यं चेदेकत्र विहितायास्तस्या नान्यत्र विधानमर्थवदित्याशङ्क्याह -
श्रुतीति ।
ब्रह्मप्राप्तिफलसंयोगस्योपास्यब्रह्मरूपप्रकृत्यर्थोपासनाभ्यामविच्छिन्नप्रत्ययार्थप्रयत्नचोदनायाश्च ब्रह्मविद्यासमाख्यायाश्चैक्याद्विद्यैक्ये फलितमाह -
तस्मादिति ।
शब्दादिभेदाद्विद्याभेदोक्त्या वाक्यार्थधीहेतोरेवात्रापि चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे पूर्ववद्विद्यैक्यम् ।
सिद्धान्ते तदयोगात्तन्नानात्वमिति सिद्धवत्कृत्य सिद्धान्तयति -
एवमिति ।
सूत्राक्षराणि योजयति -
वेद्येति ।
रूपाभेदादभेदोक्तेर्न विद्यानानात्वमित्याह -
कुत इति ।
सौत्रहेतुमुक्त्वा शब्दभेदं विभजते -
शब्दादीति ।
तद्भेदेऽपि मा भूदुपास्तिनानात्वमित्याशङ्क्याह -
शब्देति ।
पुरस्तादिति पूर्वतन्त्रोक्तिः । भिन्नभावार्थविषयः शब्दः शब्दान्तरम् । यथा यजति ददाति जुहोतीति । तस्मिन्सति कर्मभेदः कृतानुबन्धत्वाद्धात्वर्थावच्छेदे भिन्नधात्वर्थावच्छिन्नतया विधेर्भेदादित्यर्थः । शब्दान्तराधिकरणं तु सर्ववेदान्तप्रत्ययाधिकरणेऽनुक्रान्तम् ।
सौत्रमादिशब्दं व्याकरोति -
अादीति ।
गुणादयोऽपीत्यादिग्रहणेन संयोगरूपसमाख्यादयो गृह्यन्ते । तत्तत्प्रकरणोक्तगुणजातविशिष्टोपास्यरूपभेदात्प्रतिविद्यं फलभेदान्नामधेयभेदात्कौण्डपायिवत्कृत्स्नोपसंहारस्याशक्यानुष्ठानत्वाच्च विद्यानानात्वमित्यर्थः ।
सत्यपि शब्दभेदेऽनुबन्धभेदाभावान्न विद्या भिन्नेति शब्दभेदमाक्षिपति -
नन्विति ।
वेदोपासीतेत्यादिशब्दानां क्वचिज्ज्ञानं क्वचिद्ध्यानमित्यर्थभेदमाशङ्क्य ज्ञानस्याविधेयत्वाद्विधीयमानमुपासनभेवेत्याह -
अर्थान्तरेति ।
अनुबन्धभेदाभावे फलितमाह -
तदिति ।
क्रियात्वाविशेषेऽपि यागदानहोमानामवान्तरभेदवद्वेदोपासीतेत्यादीनां मनोवृत्तित्वाविशेषेऽपि तत्तत्प्रकरणेषूत्पत्तिशिष्टतत्तद्गुणविशिष्टवेद्यरूपभेदाद्विशिष्टोपास्त्यनुबन्धो भिद्यत इत्याह -
नेत्यादिना ।
गुणानामपि ब्रह्मोपाधौ व्यवस्थानान्नानुबन्धभेद इत्याशङ्क्य वस्तुनिष्ठत्वाभावादुपास्तिवाक्यानां तत्तत्फलाय क्वचित्केनचिद्गुणेन विशिष्टब्रह्मोपास्तिविधेरनुबन्धभेदः स्यादित्यभिप्रेत्याह -
एकस्यापीति ।
ब्रह्मण्युक्तं न्यायं प्राणेऽपि दर्शयति -
तथेति ।
प्रतिप्रकरणं गुणभेदोक्तौ फलितमाह -
एवमिति ।
यत्तु श्रुतिनानात्वं गुणान्तरपरमिति तद्दूषयति -
नचेति ।
गुणान्तरविधिपरत्वे वाऽप्राप्तानेकगुणपरतया वाक्यभेदान्न युक्तेयं व्यवस्थेति दोषान्तरमाह -
अनेकत्वाच्चेति ।
विद्यैक्ये सत्येकत्रोक्तानां गुणानामन्यत्रोक्तिरयुक्ता पौनरुक्त्यात् । विद्याभेदे तु नैवं विद्यान्तरस्यापि तद्गुणत्वाय पुनरुक्तिसम्भवादतोऽपि विद्यानानात्वमित्याह -
नचेति ।
तत्रैव हेत्वन्तरमाह -
प्रतीति ।
सर्वेषु लोकेषु कामचारो भवति सर्वेष्वात्मस्वन्नमत्ति जयतीमाँल्लोकानित्यादिफलसंयोगभेदादाकाङ्क्षाभावादेकवाक्यत्वायोगाद्विद्यानानात्वमित्यर्थः । यत्तु पूर्वन्यायेन समस्तेपास्तेर्ज्यायस्त्वमुक्तं तत्प्रत्याह -
नचेति ।
अत्रेति शाण्डिल्यादिविद्योक्तिः । यत्तु वेद्यैक्याद्विद्यैक्यमिति, तत्राह -
वेद्येति ।
सर्वगुणानुपसंहृत्य प्रत्ययकर्तुरधिकारिणोऽसम्भवान्न विद्यैक्यमित्यर्थः ।
शब्दादिभेदकृतं विद्याभेदमुपसंहरति -
तस्मादिति ।
शब्दादिभेदाद्विद्याभेदे सति कथं सर्ववेदान्तप्रत्यायाधिकरणे विद्यैक्यमुक्तं, तत्राह -
स्थिते चेति ।
शब्दादिभेदाद्विद्याभेदे सिद्धे सति सर्वशाखागततत्तद्ब्रह्मज्ञानं प्राणदानं च भिन्नमेवेति शङ्किते सर्ववेदान्तर्गतं तद्विज्ञानमेकमित्युक्तमतोऽस्याधिकरणस्य पादादावेवार्थिकी सङ्गतिरत्र तु प्रसङ्गादुक्तमित्यर्थः ॥ ५८ ॥
विद्याभेदमुक्त्वा तदनुष्ठानभेदं वदन्नादावहङ्ग्रहोपास्तीनामनुष्ठानप्रकारमाह -
विकल्प इति ।
अहङ्ग्रहोपासनान्यधिकृत्य यथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यादधिकरणसङ्गतिगर्भं संशयमाह -
स्थित इति ।
अहङ्ग्रहोपास्तीनां विकल्पेनानुष्ठानोक्त्या वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे स्वेच्छया प्रवृत्तेरनुष्ठानानियमः ।
सिद्धान्ते व्रीह्यादिष्विव तन्नियतिरिति मत्वा याथाकाम्येनानुष्ठानमिति पूर्वपक्षयिष्यन्नादौ समुच्चयनियमं निरस्यति -
तत्रेति ।
उपासनानां भिन्नत्वेऽपि समुच्चयनियमे नियमो युक्तो नित्याग्निहोत्रदर्शपूर्णमासादिवदिति शङ्कते -
नन्विति ।
उपास्तीनां काम्यत्वान्मैवमित्याह -
नेत्यादिना ।
अग्निहोत्रादिषु समुच्चयस्तत्रेत्युक्तः । तर्हि किमिति विकल्पनियमो नाश्रीयते, तत्राह -
नापीति ।
समुच्चयविकल्पयोर्नियमायोगादिच्छयान्यतरोऽङ्गीकर्तव्य इत्याह -
पारिशेष्यादिति ।
यथा व्रीहिभिरेव पुरोडाशे सिद्धे यवा न समुच्चीयन्ते कृतकरणत्वप्रसङ्गात् ।
तथात्रापि ब्रह्मप्राप्तिफलमविशिष्टं तदेकेनैवोपासनेन कृतं चेन्नावकाशः समुच्चयस्येति शङ्कते -
नन्विति ।
तदेवाविशिष्टफलत्वं स्पष्टयति -
तथाहीति ।
काम्यदर्शपूर्णमासज्योतिष्टोमादिवत्फलभूमार्थिनः समुच्चयः स्यादित्याह -
नेत्यादिना ।
विकल्पसमुच्चयनियमनिवृत्तिफलमुपसंहृत्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते -
तस्मादित्यादिना ।
उक्तेऽर्थे प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -
कस्मादित्यादिना ।
ध्येयसाक्षात्कारार्थमेव समुच्चयाङ्गीकारे का क्षतिः, तत्राह -
एकेनेति ।
अभीष्टफलघातित्वाच्च समुच्चयोऽत्र नास्तीत्याह -
अपिचेति ।
उपास्तेरदृष्टद्वारा यागादिवत्फलोपायत्वोपपत्तेरुपास्यसाक्षात्कारापेक्षैव नास्तीत्याशङ्क्याहङ्ग्रहोपास्तीनां साक्षात्कारसाध्यफलं तथाश्रुतेरित्याह -
साक्षादिति ।
यस्योपासकस्याद्धा साक्षादुपास्यं स्यान्न विचिकित्सा संशयोऽस्ति प्राप्नुयामहं फलं न वेति तस्य ब्रह्माप्तिः स्यादित्यर्थः । देवो भूत्वा जीवन्नेव साक्षात्कारेण देवभावमनुभूय पतिते देहे देवानप्येति प्राप्नोतीत्यर्थः ।
ऩ चाविशिष्टफलत्वे फलभूमार्थिनः समुच्चयानुष्ठानमुपास्यसाक्षात्कारे तन्निमित्तं तत्प्राप्तौ च विशेषाभावादित्याशयेनोपसंहरति -
तस्मादिति ॥ ५९ ॥
अहङ्ग्रहोपास्तीनामनुष्ठानप्रकारमुक्त्वा प्रतीकोपास्तीनां तत्प्रकारमाह -
काम्यास्त्विति ।
अनहङ्ग्रहाण्यकर्माङ्गावबद्धानि च मनो ब्रह्मेत्युपासीतेत्येवमादीन्यभ्युदयफलान्युपासनानि विषयस्तेषु किं विकल्पनियमो याथाकाम्यं वेत्युभयोपपत्त्या संशये प्रतीकोपास्तीनामुपास्तित्वादहङ्ग्रहोपास्तिवद्विकल्पनियमे प्राप्ते तद्वैपरीत्यमाह -
अविशिष्टेति ।
अत्र प्रतीकोपास्तिषु पूर्ववैरीत्येनानुष्ठानस्य याथाकाम्योक्त्या वाक्यार्थधीहेतोरेव कथनात्पादादिसङ्गतिः । पूर्वपक्षे व्रीह्यादिष्विवानुष्ठाननियमसिद्धिः ।
सिद्धान्ते फलवशादतन्नियतिरित्यङ्गीकृत्य सूत्राक्षराणि योजयति -
यास्विति ।
स यः कश्चिदेतं वायुं दिशां गोत्वेन कल्पितानां वत्सं वेद नासौ पुत्रमरणनिमित्तं रोदं रोदनं रोदिति लभते किन्तु नित्यमवियुक्तवत्सादिगुणोपासनाज्जीवत्पुत्रो भवतीत्यर्थः ।
अहङ्ग्रहोपास्तिपु साक्षात्कारसाधनत्वमुपाधिरिति मत्वा विशिनष्टि -
साक्षादिति ।
विमतान्युपासनानि यथाकाम्येनानुष्ठेयान्यविरुद्धभिन्नफलत्वाच्चित्राज्योतिष्टोमादिवदिति भावः ॥ ६० ॥
प्रतीकोपास्तीनामनुष्ठानक्रममुक्त्वाऽङ्गावबद्धोपास्तीनां क्रमं निरूपयिष्यन्पूर्वपक्षमाह -
अङ्गेष्विति ।
अधिकरणस्य विषयं वक्तुमङ्गेष्विति पदं व्याचष्टे -
कर्मेति ।
तदाश्रितोपासनानि विषयत्वेन दर्शयति -
य इति ।
अङ्गद्वारा क्रतुसम्बन्धात्फलसंनिकर्षाच्च संशय इत्याह -
किं त इति ।
तन्निर्धारणानियमाधिकरणे पुरुषार्थत्वमङ्गोपास्तीनामुक्तमिह सत्यपि पुरुपार्थत्वे समुच्चये मानं नेत्युच्यते ।
अङ्गोपास्तीनामङ्गवत्समुच्चयनियमः किंवा प्रतीकदृष्टिवद्याथाकाम्यमिति संशयमनूद्य पूर्वाधिकरणवद्यथारुच्यनुष्ठानं नेति पूर्वपक्षयति -
इति संशय इति ।
अत्र चाङ्गोपास्तिषु यथारुच्यनुष्ठानोक्त्या वाक्यार्थधीसाधनस्यैव चिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे समुच्चयानुष्ठानात्फलबाहुल्यसिद्धिः । सिद्धान्ते समुच्चयस्याप्रामाणिकत्वात्तथानुष्ठाने फलबाहुल्यायोगाद्यथारुच्यनुष्ठाने प्रवृत्तिसौकर्यमित्युपेत्य पूर्वपक्षसूत्रं योजयति -
यथेति ।
अङ्गाश्रितोपासनानि नियमेन क्रतौ समुच्चित्यानुष्ठेयानि नियमेन समुच्चीयमानाङ्गाश्रितत्वात्तदाश्रितोपाङ्गवदित्यर्थः ॥ ६१ ॥
इतश्चाङ्गोपास्तीनां समुच्चित्यानुष्ठानमित्याह -
शिष्टेश्चेति ।
शिष्टिः शासनं विधानं तस्या विशेषाभावादङ्गानां प्रत्ययानां च समुच्चयनियम इत्यर्थः ।
सूत्रस्याक्षरोत्थमर्थमाह -
यथा वेति ।
तस्यैव तात्पर्यार्थमाह -
नेत्यादिना ॥ ६२ ॥
इतश्चोपासनानि समुच्चित्यानुष्ठीयेरन्नित्याह -
समाहारादिति ।
समाहरणं समताकरणं क्षतस्य सन्धानं समाहारस्तस्माल्लिङ्गात्समुच्चयो गम्यते प्रत्यायानामिति योजना । यः प्रणवो बह्वृचानां स च्छन्दोगानामुद्गीथः ।
यश्च तेषामुद्गीथः स प्रणवोऽन्येषामिति प्रणवोद्गीथयोरेकत्वेन यदुपासनमुद्गात्रा कृतं तत्फलवादिवाक्यं सूत्रं व्याकर्तुमनुवदति -
होतृषदनादिति ।
होतुः सदनं स्थानं होता यत्रस्थः शंसति तद्धोतृषदनं तेन च हौत्रं कर्म लक्ष्यते । ततः सम्यगनुष्ठिताद्दुरुद्गीथं दुष्टं यदुद्गानं स्वरव्यञ्चनादिप्रमादादुद्गात्रा कृतं तदप्युद्गाता तेनैक्यविज्ञानेनानुसमाहरति प्रतिसन्दधात्येव क्षतमिव वैद्य इत्यर्थः ।
वाक्यस्याभीष्टमर्थं कथयति -
प्रणवेति ।
तथापि प्रकृते किमायातं तदाह -
इति ब्रुवन्निति ।
वेदद्वययुक्तप्रणवोद्गीथयोरैक्यज्ञानस्येदृशं फलं ब्रुवाणः सर्ववेदस्थानां प्रत्ययानां सर्वत्रोपसंहारं समुच्चयं सूचयति । सर्वोपासनेषु वेदान्तरोक्तप्रत्ययस्य वेदान्तरोक्तपदार्थेन सम्बन्धस्य समानत्वादिति योजना ॥ ६३ ॥
ओंकारस्योपास्यस्य साधारण्यादप्युपासनानां साधारण्यं समुच्चित्यानुष्ठानमिति हेत्वन्तरमाह -
गुणेति ।
विद्यागुणमित्यस्य व्याख्या विद्याश्रयमिति । विद्योद्गीथविद्या । तेनेत्योङ्कारोक्तिः । त्रयी विद्या वेदत्रयविहितं कर्मेत्यर्थः ।
अन्वयमुखेन व्याख्यामुपसंहरति -
ततश्चेति ।
आश्रयसाधारण्ये सात्यश्रितसाधारण्यमन्वयस्तमेवाश्रयसाधारण्याभावे सत्याश्रितसाधारण्याभावरूपव्यतिरेकव्याख्यया द्रढयितुं सूत्रमादत्ते -
अथवेति ।
व्यतिरेकेण सूत्रं योजयति -
यदीति ।
उद्गीथादीनामपि तर्हि साधारण्यं मा भूत् , तत्राह -
ते त्विति ।
गुणेन सहैव गुणिनः प्रत्ययस्यागमनं सूच्यत इति फलितमाह -
ततश्चेति ॥ ६४ ॥
यस्मिन्नुपासने यस्याभिरुचिः स तदनुतिष्ठति सर्वोपासनसमुच्चये तु न मानमिति सिद्धान्तयति -
न वेति ।
तत्र वाकारार्थमाह -
नेत्यादिना ।
नञ्पदं व्याचष्टे -
न यथेति ।
प्रश्नपूर्वकमवशिष्टमादाय व्याकरोति -
कुत इति ।
नियमेन समुच्चीयमानाङ्गाश्रयत्वादित्युक्त्वाऽनुमानधिया शङ्कते -
नन्विति ।
विमतोपासनानि न क्रतौ समुच्चित्यानुष्ठेयानि, अङ्गाश्रितत्वे सति भिन्नफलत्वाद्गोदोहनादिवदिति मत्वाह -
नेतीति ।
उक्तमेव व्यक्तीकरोति -
प्रयोगेति ।
शिष्टेश्चेत्युक्तं विघटयति -
अयमेवेति ।
समाहाराद्गुणसाधारण्यश्रुतेश्चेत्येतद्दूषयति -
परं चेति ।
यदर्थवादसामर्थ्यं तदन्यतः प्राप्तस्यावद्योतकं न चेहोपासनानां समुच्चये प्रापकमस्तीत्यर्थः ।
गुणसाधारण्येत्यादौ व्यतिरेकव्याख्यानं प्रत्याह -
नचेति ।
उपासनानामाश्रयभावेऽपि सत्त्वाभावे कथमाश्रयतन्त्रत्वं, तत्राह -
आश्रयेति ।
इदमेवाश्रितानामाश्रयतन्त्रत्वं यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति कामानामनित्यत्वात्तदुपबन्धोपास्तीनामपि तथात्वान्नित्यसंयोगविरोधादित्यर्थः ।
अङ्गोपास्तीनामङ्गवदसमुच्चये प्रतीकदृष्टिवद्यथारुच्यनुष्ठानमित्युपसंहरति -
तस्मादिति ॥ ६५ ॥
किञ्च विदुषा ब्रह्मणाऽन्येषामृत्विजां पाल्यत्वोक्तेरपि न सर्वविज्ञानोपसंहारधीरित्याह -
दर्शनाच्चेति ।
सूत्रं त्रिभजते -
दर्शयतीति ।
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मणोऽमीष्टं कथं तावता विवक्षितानुपसंहारः, तत्राह -
सर्वेति ।
अस्ति च तेनेतरेषामृत्विजां पाल्यत्वकीर्तनं तेन प्रत्ययानुपसंहारधीरिति शेषः ।
अनुमानाल्लिङ्गाच्च सिद्धमर्थमुपसंहरति -
तस्मादिति ।
याथाकाम्यं व्याचष्टे -
समुच्चयो विकल्पो वेतीति ॥ ६६ ॥
कर्माङ्गसङ्गिविद्योक्तिप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्य परिहरति -
पुरुषार्थ इति ।
परापरब्रह्मविद्यानां गुणोपसंहारोक्त्या परिमाणमवधार्य तासां कर्मानपेक्षाणामेव पुरुषार्थसाधनत्वमवसरप्राप्तौ निरूप्यते ।
तत्र कर्मानपेक्षाणाममूषां का नामेतिकर्तव्यता, नहि तां विना कारणतेत्याशङ्क्य यज्ञादयः श्रवणादयः शमदमादयश्च विद्योत्पत्त्युपयोगिन्य इतिकर्तव्यता निरूप्यन्ते तदभिप्रेत्याह -
अथेति ।
फलभेदाभेदौ विना न विद्याभेदाभेदौ नच तौ विना गुणोपसंहारानुपसंहारौ तेन प्रागेव विद्यानां पुमर्थहेतुत्वे स्थिते प्रथममौपनिषदमात्मज्ञानमधिकृत्य वादिविप्रतिपत्त्या संशयमाह -
औपनिषदमिति ।
अनेन चात्मज्ञानविशेषणेन शास्त्रश्रुतिसङ्गतिरुच्यते । सिद्धे फलवत्त्वे स्वतन्त्रमेवेदं फलवदिति साधनादध्यायपादसङ्गती । पूर्वपक्षे समुच्चयपक्षमिद्धिः ।
सिद्धान्ते केवलस्य ज्ञानस्य कैवल्यसाधनतेति मत्वा पूर्वपक्षमग्रे दर्शयिष्यन्नादौ सिद्धान्तमाह -
सिद्धान्तेनेति ।
सूत्रस्थां प्रतिज्ञां योजयति -
अस्मादिति ।
तत्र प्रमाणं पृच्छति -
कुत इति ।
सूत्रावयवेनोत्तरमाह -
शब्दादित्याहेति ।
प्रमाणं विवृणोति -
तथा हीत्यादिना ।
सगुणब्रह्मज्ञानस्यापि स्वातन्त्र्येण पुमर्थहेतुतेति वक्तुं तद्विषयां श्रुतिमाह -
य आत्मेति ।
निर्गुणविद्याविषयं वाक्यान्तरमाह -
आत्मेति ।
उक्तश्रुतिषु विद्याफलयोः साध्यसाधनत्वं न भातीत्याशङ्क्य तयोरेकपुरुषसम्बन्धसामर्थ्यादेव तद्धीरित्याशयेनाह -
केवलाया इति ॥ १ ॥
पूर्वपक्षमवतारयति -
अथेति ।
सिद्धान्तोक्त्यनन्तरमात्मज्ञाने विषये फलश्रुतिमधिकृत्य मीमांसकश्चोदयतीत्यर्थः । पुरुषार्थवाद इत्यत्रार्थग्रहणं तन्त्रेणोपात्तं तेन पुरुषार्थार्थवाद इति द्रष्टव्यम् ।
तत्त्वज्ञानं कर्माङ्गकर्तृद्वारा प्रयोगविधिनादेयमादीयमानकर्माङ्गकर्त्राश्रयेण शास्त्रसिद्धत्वाद्यजमानसंस्काराञ्जनादिवदिति मत्वा शेषत्वादित्येतद्व्याचष्टे -
कर्तृत्वेनेति ।
तत्त्वज्ञानं प्रयोगविधिनादेयं साध्यफलोक्तिशून्यत्वे सति कर्माङ्गाश्रयत्वात्पर्णमयीत्वादिवदिति प्रयोगः ।
स्वतन्त्रफलस्य कथं प्रोक्षणादिवत्कर्माङ्गतेत्याशङ्क्य पुरुषार्थवाद इत्यस्यार्थमाह -
इत्यत इति ।
वेदार्थजिज्ञासायां तत्त्वनिर्णयार्थं संशयादिप्रतिभासो गुरोरग्रे शिष्येण दर्शनीयो गुरुणा च तन्निरासेन तत्त्वमाविष्करणीयमिति शिष्टाचारं दर्शयितुं जैमिनिग्रहणं न प्रतिपक्षतया शिष्यस्य तदयोगात् ।
फलश्रुतेरर्थवादत्वे सूत्रितं दृष्टान्तं व्याचष्टे -
यथेति ।
पर्णमयीद्रव्ये यजमानस्याञ्जनादिसंस्कारे प्रयाजादिकर्मसु च क्रमेण फलश्रुतीराह -
यस्येत्यादिना ।
सा च फलश्रुतिर्न फलपरा फलवत्क्रत्वर्थत्वात्पर्णतादेः फलशेषत्वायोगात् । अतः साऽर्थवाद एवेति पर्णमयीत्वाधिकरणे समर्थितम् ।
तथात्मज्ञानेऽपि फलश्रुतिरर्थवाद एव स्यादित्याह -
तद्वदिति ।
विनियोजकमानाभावादात्मधियोऽङ्गत्वात्तत्र फलश्रुतिर्नार्थवाद इति शङ्कते -
कथमिति ।
प्रकरणादिना क्रत्वसम्बन्धेऽपि जुहूद्वारा पर्णमयीत्वस्य वाक्यात्क्रतुसम्बन्धवदात्मधियोऽपि कर्तृद्वारा वेदान्तवाक्यात्क्रतुसङ्गतिरिति पूर्ववाद्याह -
कर्त्रिति ।
सिद्धान्ती दूषयति -
नेति ।
तदेव विवृणोति
अव्यभिचारिणेति ।
जुहूवदात्मज्ञाने कर्तैवाव्यभिचारि द्वारमित्याशङ्क्याह -
कर्तेति ।
तस्य व्यभिचारित्वे फलितमाह -
तस्मादिति ।
किं देहातिरिक्तात्मज्ञानस्य कर्माङ्गत्वं विनियोजकाभावान्निरस्यते किं वाऽपहतपाप्मत्वादिविशेषितासंसार्यात्मविषयौपनिषदज्ञानस्येति विकल्प्याद्यं पूर्ववादी दूषयति -
नेति ।
तस्य विषयद्वारा तेष्वनुप्रवेशान्न कर्माङ्गत्वं निषेद्धुं शक्यमित्यर्थः ।
लौकिककर्मणोऽपि कर्मत्वाद्वैदिककर्मवत्कर्तृदारेणातिरिक्तज्ञानापेक्षेति कर्तुः साधारण्यमित्याशङ्क्याह -
नहीति ।
सर्वथेति व्यतिरेकज्ञानाज्ञानयोरित्यर्थः ।
तर्हि वैदिकान्यपि कर्माणि कर्मत्वादितरवन्न व्यतिरेकएनापेक्षापीत्याहङ्क्याह -
वैदिकेष्विति ।
कारीर्यादिनिवृत्त्यर्थं देहपातेत्यादिविशेषणम् ।
द्वितीयमाशङ्कते -
नन्विति ।
अनुपयोगित्वाद्विरोधित्वाच्च तस्य न कत्वङ्गतेति भावः ।
क्रत्वपेक्षितं रूपं हित्वान्यदविवक्षितमित्याह -
नेत्यादिना ।
जायादीनामात्मार्थत्वेन प्रियत्वमुक्त्वात्मा द्रष्टव्य इति वदता जायादिना भोग्येन सूचितस्य संसारिणो भोक्तुरेव द्रष्टव्यत्वमिष्टं भोक्तृज्ञानं च कर्मसूपयुक्तमतो भोक्रतिरिक्तमात्मरूपं न श्रौतमित्यर्थः ।
अपतपाप्मत्वादिविशेषणस्य भोक्तर्ययुक्तत्वादतिरिक्तमात्मरूपमेष्टव्यमित्याशङ्क्याह -
अपहतेति ।
जन्मादिसूत्रमारभ्य तत्र तत्राप्रपञ्चब्रह्मात्मपरता वेदान्तानामुक्ता तत्कथमपहतपाप्मत्वादिकीर्तनस्य स्तुत्यर्थतेति शङ्कते -
नन्विति ।
अधिकमितिविशेषणादाशङ्कितं द्वैतंवारयति -
तदेवेति ।
संसारिणोऽसंसारीश्वरो रूपमिति व्याहतिं प्रत्याह -
पारमार्थिकमिति ।
एेक्वे प्रमाणं पूर्वोक्तं सूचयति -
उपनिषत्स्विति ।
पूर्वपक्षाक्षेपं समाधत्ते -
सत्यमित्यादिना ।
फलद्वारेणेत्यात्मज्ञानं वेदान्तानां फलं तत्क्रत्वर्थं पुरुषार्थं वेति विचारद्वारेणेत्यर्थः ।
साधितस्यैवाक्षेपसमाधिभ्यां साधनस्य फलमाह -
दार्ढ्यायेति ॥ २ ॥
किञ्च जनकादीनां विद्यया सह कर्मा चरणदर्शनान्न केवलैव विद्या मोक्षहेतुरतः महानुष्ठानं विद्यायाः स्वातन्त्र्याभावेन कर्माङ्गत्वे लिङ्गमित्याह -
आचारेति ।
सूत्रं व्याचष्टे -
जनको हेति ।
विदेहानामधिपतिर्जनको नाम राजा बहुदक्षिणसंज्ञेन यज्ञेनाश्वमेधेन वा बहुदक्षिणायुक्तेन पुरा कदाचिदीजे यागं कृत्वान् ।
कैकेयस्य राज्ञो ब्रह्मविदो वाक्यमाह -
यक्ष्यमाण इति ।
विद्यार्थिनः समागतान्प्राचीनशालादीन्भगवन्त इति सम्बोध्याहं यक्ष्यमाणोऽस्मि ततश्च कतिचिद्दिनान्याध्वमिति राजोक्तवानित्यर्थः ।
उक्तवाक्यानि विद्यार्थानि न कर्मार्थानीत्याशङ्क्याह -
अन्येति ।
इतश्च ब्रह्मविदामस्ति कर्मसङ्गतिरित्याह -
तथेति ।
आदिपदेन व्यासयाज्ञवल्क्यादिसङ्ग्रहः । द्वितीयेन भार्यानु शासनादि गृह्यते ।
कर्म कृतं विद्वद्भिरेव कैश्चिदित्येतावता विद्याशक्तेरपह्नवायोगात्केबलैव सा मुक्तिहेतुरित्याशङ्क्याह -
केवलादिति ।
अल्पायासमुपायं हित्वा न कोऽपि महायासं तमाद्रियत इत्यत्र लौकिकन्यायमाह -
अर्के चेदिति ।
समीपवचनोऽर्कशब्दः ॥ ३ ॥
न केवलं विद्याया लिङ्गादेव कर्माङ्गत्वं किन्तु तृतीयाश्रुतेरपीत्याह -
तदिति ।
सूत्रार्थं विवृणोति -
यदेवेति ॥ ४ ॥
इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -
समन्वारम्भणादिति ।
सूत्रं विवृणोति -
तमित्यादिना ।
तं परलोकं व्रजन्तं विद्यकर्मणी समनुगच्छत इति यावत् ॥ ५ ॥
तदस्वातन्त्र्ये लिङ्गान्तरमाह -
तद्वत इति ।
तद्व्याकरोति -
आचार्येति ।
तस्य कुलं गृहमुपनयनं कृत्वा तत्प्राप्त्यनन्तरं गुरोः शुश्रूषारूपं कर्म विधायातिशेषेण शिष्टेन कालेन यथाविधानं पवित्रपाणित्वप्रास्मुखत्वादिविधानमनतिक्रम्य वेदमधीत्यानन्तरमभिसमावृत्य व्रतविसर्गं कृत्वा दारानाहृत्य कुटुम्बे गार्हस्थ्ये स्थितः शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्कर्मान्तराणि च विहितानि यथाशक्ति कुर्वाणो ब्रह्मलोकमभिसम्पद्यत इत्यर्थः ।
अध्ययनशब्दस्य यथाश्रुतमर्थं गृहीत्वा शङ्कते -
नन्विति ।
अध्ययनविधेरवघातादिविधिवद्दृष्टार्थत्वादर्थावबोधान्तो व्यापारोऽस्तीति प्रथमे तन्त्रे समर्थितमित्याह -
नेत्यादिना ॥ ६ ॥
इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -
नियमाच्चेति ।
नियमं विभजते -
कुर्वन्निति ।
इह देहे शतं समाः शतसङ्ख्याकान्संवत्सरान्यज्जिजीविषेत्तत्कर्माणि कुर्वन्नेवेति नियमविधिः । एवं त्वयि नरे वर्तमाने सत्यशुभं कर्म न लिप्यते तेन त्वं न लिप्यस इति यावत् । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः ।
नियमान्तरमाह -
तथेति ।
जरामर्थं जरामरणावधिकम् ।
तदेव विशदयति -
जरयेति ।
श्रुत्यादिभिरात्मधियः सिद्धे कर्माङ्गत्वे तत्फलेनैव फलवत्त्वमित्युपसंहर्तुमितीत्युक्तम् ॥ ७ ॥
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं योजयति -
तुशब्दादिति ।
पक्षविपस्विर्तमानमेव पक्षमनूद्य दर्शयति -
यदिति ।
अनुपपत्तिहेतुं प्रश्नपूर्वकमाह -
कस्मादिति ।
अधिकोपदेशं व्यतिरेकतो दर्शयति -
यदीति ।
यः कर्ता कर्माङ्गं नासौ वेदान्तवेद्यो यच्च ब्रह्म तद्वेद्यं न तत्कर्माङ्गमतस्तज्ज्ञानस्य कुतः शेषता कुतस्तरां फलश्रुतेरर्थवादतेत्यर्थः ।
ब्रह्मात्मधीर्न क्रतुप्रयोगविधिनोपादेया तद्विरोधित्वादादीयमानोदितहोमविरोध्यनुदितहोमवदिति मत्वाह -
प्रत्युतेति ।
बागरायणस्येत्यादि व्याचष्टे -
तस्मादिति ।
उक्तात्मज्ञानस्य क्रतुशेषत्वायोगस्तच्छब्दार्थः ।
अधिकोपदेशासिद्धिमाशङ्क्य तद्दर्शनादित्यनेन प्रत्याह -
तथाहीति ।
क्रत्वपेक्षितं रूपं हित्वाऽन्यदात्मरूपमनिष्टमित्युक्तं, तत्राह -
यत्त्विति ।
आत्मनस्तु कामायेत्युपक्रम्यात्मा वा अरे द्रष्टव्य इति वाक्यं ब्रह्मोपदिदिक्षायां सत्याभेव ब्रह्मात्मैक्याभिप्रायमित्यत्र वाक्यशेषमाह -
अस्येति ।
यः प्राणेनेत्यादि वाक्यमप्यैक्यपरमित्यत्र वाक्यशेषं दर्शयति -
योऽशनायेति ।
य एषोऽक्षिणीत्यादिवाक्यमपि तथेत्यस्मिन्नर्थे शेषानुगुण्यमाह -
परमिति ।
उक्तैः शेषैः संसारिणो यदधिकं ब्रह्म तस्योपदिदिक्षायां सत्यामेव ब्रह्मणो जीवस्यात्यन्तभेदाभावधिया द्रष्टव्यादिवाक्यमिति क्रत्वनपेक्षितमात्मरूपं वेदान्तेषु विवक्षितमित्युपगमे न कश्चिद्विरोधोऽस्तीति योजना ।
कुतो जीवब्रह्मैक्य मिथो विरोधादित्याशङ्क्य तात्त्विको विरोधो नास्तीत्याह -
पारमेश्वरमिति ।
प्रातिभासिकस्तु विरोधस्तात्त्विकाभेदाविरोधीति मत्वाह -
उपाधीति ।
जीवस्य तात्त्विकं रूपं ब्रह्मैवेत्यत्र श्रुतिसंवादमाह -
तत्त्वमिति ।
सम्पदादिविषयं तत्त्वमादिवाक्यं न वस्तुविषयमित्याशङ्क्याह -
सर्वं चेति ॥ ८ ॥
परोक्तं लिङ्गदर्शनं प्रत्याह -
तुल्यं त्विति ।
उक्तमनूद्य सूत्रमुत्तरत्वेन योजयति -
यदित्यादिना ।
इतश्च विद्याया न शेषतेत्याह -
याज्ञवल्क्येति ।
आदिशब्देन शुकादयो गृह्यन्ते ।
कथं तेषामकर्मनिष्ठत्वं तदाह -
एतावदिति ।
उभयथालिङ्गदर्शने संशयमाशङ्क्य परकीयलिङ्गानामन्यथासिद्धिं वक्तुमारभते -
अपिचेति ।
तत्र यक्ष्यमाण इत्यादिलिङ्गदर्शनस्यान्यथासिद्धिमाह -
यक्ष्यमाण इति ।
तत्रापि विद्यात्वान्न कर्मसाहित्यमन्यथा ब्रह्मविद्यायामपि तत्प्रसङ्गादित्याशङ्क्याह -
सम्भवतीति ।
तर्हि वैश्वानरविद्याया न स्वातन्त्र्येण फलवत्त्वं कर्माङ्गत्वाङ्गीकारात् , तत्राह -
न त्विति ।
येषां च ब्रह्मविदामपि कर्म दृश्यते न तत्तेषां कर्म तद्धि चोदनालक्षणं तेषां चाहंममाभिमानाभावेन चोदनाभावात्कथञ्चिदनुवर्तमानमपि तदाभासमात्रमिति भावः ॥ ९ ॥
परोक्तां श्रुतिमनूद्य तदुत्तरत्वेन सूत्रमवतारयति -
यदिति ।
तद्विभजते -
यदेवेति ।
विद्याशब्दस्य सामान्यविषयस्य विशेषाकाङ्क्षस्य प्राकरणिकविशेषेण चरितार्थत्वादिति हेतुमाह -
प्रकृतेति ।
आत्मधियस्तथात्वशङ्कां प्रत्याह -
प्रकृता चेति ॥ १० ॥
परकीयं लिङ्गान्तरं दूषयति -
विभाग इति ।
चोद्यमनूद्योत्तरत्वेन सूत्रं व्याचष्टे -
यदपीत्यादिना ।
सामान्यश्रुतौ कथं विभागः स्यात्तत्र सदृष्टान्तमाह -
शतवदिति ।
समन्वारम्भवचनस्य मुमुक्षुविषयत्वमुपेत्य कर्मसाहित्येन तल्लिङ्गं विभागादित्युक्तम् ।
इदानीममुमुक्षुविषयत्वादविभागेऽपि न दूषणमित्याह -
नचेति ।
तस्यामुमुक्षुविषयत्वे हेत्वन्तरमाह -
अथेति ।
संसारिविषये तं विद्येत्यादिवाक्ये विद्याशब्दार्थमाह -
तत्रेति ।
उद्गीथादिविषया विद्या प्रतिषिद्धा च नग्नस्त्रीदर्शनादिरूपा ।
तथाभूतकर्मसाहचर्यादपि तथाविधैव विद्येत्याह -
कर्मापीति ।
प्रकृते वाक्येऽपि विद्याकर्मणोरविशेषोपादाने हेतुमाह -
यथेति ।
उक्तार्थवाक्यस्य संसारिविषयत्वे फलितमाह -
एवमिति ॥ ११ ॥
लिङ्गान्तरमनूद्य सूत्रमादत्ते -
यच्चेति ।
यच्चैतदुक्तमित्यर्थः । सूत्रं विवृणोति -
आचार्येति ।
मात्रग्रहणेनार्थज्ञानमात्रं व्यवच्छिन्नमिति मन्वानः शङ्कते -
नन्विति ।
अविद्यत्वाद्विद्याहीनात्वादिति यावत् ।
मात्रग्नहणमात्मज्ञानापेक्षं न कर्मावबोधापेक्षमित्याह -
नेत्यादिना ।
वेदार्थत्वादात्मनस्तज्ज्ञानमपि कर्मबोधवदधिकारेऽपेक्षितव्यमित्याशङ्क्याह -
यथेति ।
पूर्वसूुत्रव्याख्यासमाप्तावितिशब्दः ॥ १२ ॥
लिङ्गान्तरमनूद्य सूत्रान्तरमादत्ते -
यदपीति ।
अविद्वद्विषयं नियमविधानमिति व्याचष्टे -
कुर्वन्निति ॥ १३ ॥
विद्वद्विषयत्वमुपेत्य परिहारान्तरमाह -
स्तुतय इति ।
एवं तर्हि प्रकरणमभग्नमिति मत्वा सूत्रं विभजते -
कुर्वन्नेवेति ।
विशेषमेव विशदयति -
यद्यपीति ।
स्तुत्यर्थं कर्मानुज्ञानमित्यत्र वाक्यशेषमनुकूलयति -
नेति ।
तथापि कथं स्तुतिः, तत्राह -
एतदिति ।
एवं कर्म कुर्वत्यपि त्वयि नेतो ब्रह्मभावाद्विद्यागम्यादन्यथा संसारापत्तिरस्ति यतो न कर्म लिप्यत इति योजनां गृहीत्वोपसंहरति -
तदेवमिति ॥ १४ ॥
पूर्वपक्षहेतूनेवमुन्मथ्य स्वपक्षे हेत्वन्तरमाह -
कामेति ।
इतश्च विद्याया न कर्माङ्गतेति चकारार्थमाह -
अपिचेति ।
स्वेच्छातः । कर्मसाधनप्रजादित्यागलिङ्गादपि विद्यायाः स्वातन्त्र्यमिति हेत्वन्तरमेव स्फोरयति -
एक इति ।
येषां नोऽस्माकमयमपरोक्षः सन्नात्मायं लोकः प्रत्यक्षं फलं ते वयं किं प्रजया करिष्याम इति निश्चित्याग्निहोत्रादि न हुतवन्त इत्यर्थः ।
मोक्षस्यादृष्टफलत्वात्कथं मुक्तत्वनिश्चयात्प्रजादित्यागसिद्धिः, तत्राह -
अनुभवेति ।
ब्रह्मधीर्न क्रतुप्रयोगविधिनादेया क्रत्वङ्गसम्बन्धित्वेऽपि फलान्तरयोगित्वाद्गोदोहनवदिति मत्वाह -
अतोऽपीति ॥ १५ ॥
अधिकोपदेशादित्यत्रात्मनोऽशनायाद्यत्ययात्तद्धीर्न कर्माङ्गमित्युक्तम् । इदानीमशेषक्रियादिविभागोपमर्दकत्वादपि न कर्माङ्गमित्याह -
उपमर्दं चेति ।
इतश्चात्मधीर्न कर्माङ्गमिति चकारार्थमाह -
अपिचेति ।
हेत्वन्तरं स्फोरयति -
कर्मेति ।
विद्यासामर्थ्यात्प्रपञ्चोपमर्दे फलितमाह -
वेदान्तेति ।
आत्मज्ञानस्यादीयमानक्रत्वङ्गविरोधित्वे फलितं निगमयति -
तस्मादिति ॥ १६ ॥
विद्यास्वातन्त्र्ये हेत्वन्तरमाह -
ऊर्ध्वरेतःस्विति ।
विद्याकर्मणी नाङ्गाङ्गिभूते मिथो व्यतिरेकित्वादृतुगमननैष्ठिकव्रतवदिति मत्वा योजयति -
ऊर्ध्वेत्यादिना ।
तथापि कथं कर्माङ्गत्वं विद्याया व्यासेध्यते, तत्राह -
नचेति ।
तेषामपि स्नानादि कर्मास्तीत्याशङ्क्याह -
नहीति ।
घावितानुवृत्त्या तत्सद्भावेऽपि वैदिकाग्निहोत्राद्यभावान्न क्रत्वङ्गता ज्ञानस्येत्यर्थः ।
शब्दे हीतिसूत्रावयवव्यावर्त्यामाशङ्कामाह -
स्यादिति ।
सूत्रावयवेनोत्तरमाह -
तदपीति ।