अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

अन्य­व्र­ता­नु­ष्ठा­ना­द­न्या­प्रा­प्ते­रत्र च वायु­प्रा­प्ति­नि­र्दे­शान्न तद्व्र­त­नि­वृ­त्ति­रिति श्रुति­ता­त्प­र्य­माह -
वाय्विति ।

देव­ता­प्रा­प्ति­रे­वात्र श्रुता न वायु­प्रा­प्ति­रि­त्या­श­ङ्क्याह -
देवतेति ।
अग्न्या­दी­न­पे­क्ष्या­न­व­च्छिन्नो देवो वायुस्ते तु तेनैवावच्छिन्ना इति संवर्गगुणो वायुरनवच्छिन्ना देवता तदा­त्म­त्व­म­त्रा­प्तु­मि­ष्ट­मतो देव­ता­प्ति­र्वा­यु­प्रा­प्ति­रि­त्यर्थः ।

न केवलं प्रकरणालोचनया देवता वायुः किन्तु साक्षादेव श्रुतेरित्याह -
पुरस्तादिति ।

यत्तु पृथ­गु­प­दे­शा­त्पृ­थ­गु­प­न­य­न­मुक्तं तदिदानीं विवृणोति -
तथेति ।

संव­र्ग­भे­दे­नो­प­क्र­म­व­द्भे­दे­नो­प­सं­हा­रा­दपि पृथ­ग­नु­चि­न्त­न­मि­त्याह -
ते वा इति ।

उप­क्र­मो­प­सं­हा­रै­क­रू­प्य­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।

तत्रो­दा­ह­र­ण­म­व­तार्य व्याचष्टे -
प्रादनवदिति ।

त्रयः पुरोडाशा यस्यां सा त्रिपुरोडाशिनी तस्या­मु­त्प­त्ति­वा­क्य­मु­दा­ह­रति -
इन्द्रायेति ।

किं तस्यां सह प्रदानं किंवा भेदेनेति सन्देहे पूर्वपक्षमाह -
सर्वेषामिति ।

याज्ञिकाः खल्वस्यामिष्टौ युगपदेवावदानं कुर्वन्ति तेन सर्वेषां देव­ता­वि­शे­षा­णा­म­भि­ग­म­य­न्प्रा­प­य­न्न­प­र्या­ये­णैव पुरोडाशानवद्यति तत्तद्भागं गृह्णातीत्यत्र हेतुमाह -
अछंवट्कारमिति ।
अव्यर्थत्वायेति यावत् । एकार्थं सर्वतोऽवदाने शेषो यागानर्हः स्याद्यु­ग­प­त्स­र्वा­र्थ­म­व­दाने त्ववै­य­र्थ्य­मि­त्यर्थः ।

उक्ता­द्वा­क्या­त्स­र्वार्थं सहा­व­दा­न­श्रु­ते­र्दे­व­तायां भेदाभावाच्च त्रयाणां पुरोडाशानां सहप्रदानं प्राप्तमित्याह -
अत इति ।

सिद्धान्तमाह -
राजादीति ।
उत्पत्तिवाक्यएव राजा­धि­रा­ज­स्व­रा­ज­गु­ण­भे­दा­द्य­था­न्यासं यथावचनं तत्त­द्गु­ण­वि­शि­ष्ट­दे­व­ता­भे­दा­त्प्र­दा­नस्य प्रक्षेपस्य पृथ­क्त्व­मि­त्यर्थः ।

किञ्च त्रिपु­रो­डा­शि­न्या­मिष्टौ प्रथ­म­पु­रो­डा­श­प्र­दाने या याज्या सा पुनः­प्र­यो­गेऽ­नु­वाक्या या च पूर्वमनुवाक्या सा पश्चाद्याज्येति व्यत्या­स­म­न्वा­हे­त्य­नेन विहितं तत्प्रयोगभेदे युज्यत एकस्या ऋच एकस्मिन्प्रयोगे याज्या­नु­वा­क्या­त्व­वि­रो­धा­दि­त्याह -
याज्येति ।
अध्वर्युणा यजेति प्रैषे कृते होत्रा प्रयुज्यमानो मन्त्रो याज्या­नु­ब्रू­हीति प्रैषानन्तरं प्रयुज्यमानस्तु मन्त्रोऽ­नु­वा­क्येति भेदः ।

पूर्वो­त्त­र­प­क्षाभ्यां दृष्टान्तं व्याख्याय दार्ष्टा­न्ति­क­माह -
एवमिति ।

उक्तेऽर्थे देव­ता­का­ण्ड­स्थ­म­धि­क­रणं प्रदा­न­भे­द­वि­ष­य­मु­दा­ह­रति -
तदुक्तमिति ।
सङ्कृष्यते कर्म­का­ण्ड­स्थ­मे­वा­व­शिष्टं कर्म सङ्क्षिप्योच्यत इति सङ्कर्षो देवताकाण्डं तस्मिन्निति यावत् ।

वाशब्दो देव­तै­क­त्वा­श­ङ्का­व्या­वृ­त्त्यर्थः । नाना देवतेत्यत्र हेतुमाह -
पृथगिति ।
उत्पत्तिवाक्य एव राजा­धि­रा­जा­दि­गु­णानां पृथ­ग्ज्ञा­ना­त्त­त्त­द्गु­ण­वि­शि­ष्ट­दे­व­ता­ना­मपि पृथक्त्वस्य युक्त­त्वा­दि­त्यर्थः ।

दृष्टान्ते देव­ता­द्र­व्य­भे­दा­त्क­र्म­भे­द­व­दि­हापि वायुः प्राणः इति­श­ब्दा­दा­दित्यं चरुं सौर्यं चरु­मि­त्या­दि­ष्वा­दि­त्य­सू­र्या­दि­श­ब्द­भे­दा­दिव देवताभेदेन विद्याभेदः स्यादि­त्या­श­ङ्क्याह -
तत्रेति ।
यत्रो­त्प­त्ति­वा­क्या­देव नानाद्रव्यदैवतं कर्म दृष्टं तत्र तद्भेदो वैश्व­दे­व्या­मि­क्षे­त्या­दि­वत् । यत्र तूत्पत्तित एव कर्मैक्यं तत्र देवतादिभेदेऽपि न कर्म­भे­दोऽ­ग्नि­हो­त्रा­दि­व­देव विद्यै­क्य­मि­त्यर्थः ।

तर्हि केन साम्येन प्रदा­न­व­दि­त्युक्तं, तत्राह -
विद्येति ।
अग्निहोत्रे हि सायमग्निः प्रजापतिश्च देवता सूर्यः प्रजापतिश्च प्रातरनुष्ठानं चोभ­य­त्रा­न्या­दृशं तथेहापि ध्यान­भे­द­सि­द्धि­रि­त्यर्थः ॥ ४३ ॥

वायु­वि­द्यो­क्त्य­न­न्तरं साम्पा­दि­का­ग्नि­वि­द्या­चि­न्ता­मा­र­भते -
लिङ्गेति ।

साम्पा­दि­का­न­ग्नी­न्क्रि­या­न्न­क­र­ण­स्था­न्म­न­श्चि­दा­दी­न्वि­ष­य­त्वे­नो­प­न्य­स्यति -
वाजसनेयिन इति ।
उत्पत्तेः प्रागिदं सर्वं नैव सदा­सी­न्ना­प्य­स­दि­त्यु­प­क्रम्य मनसः प्रादु­र्भा­व­मुक्त्वा तदा­त्मा­न­मै­क्ष­ते­ती­क्ष­ण­पू­र्वकं तन्मन आत्म­नोऽ­ग्नी­न­प­श्य­दिति मनोऽधिकृत्य पठन्तीत्यर्थः ।

पुरु­ष­स्या­यु­ष्ट्वेन क्लृप्त­श­त­व­र्षा­न्त­र्ग­त­ष­ट्त्रिं­श­त्स­ह­स्रा­हो­त्रा­व­च्छि­न्नै­र्म­नो­वा­क्प्रा­ण­च­क्षुः­श्रो­त्र­त्व­क्का­य­वृ­त्ति­नि­च­यै­रि­ष्ट­का­त्वेन भाव्य­मा­नै­श्ची­य­मा­ना­न्सा­म्पा­दि­का­न­ग्नी­न्व­द­न्ती­त्याह -
तदिति ।

अर्का­न­र्च­नी­या­न्म­नो­म­या­न्म­नो­वृ­त्ति­भा­वि­त­त्वा­द्वा­गा­दि­वृ­त्ति­भि­रि­ष्ट­का­त्वेन भावि­ता­भि­श्ची­यन्त इति वाक्चि­दा­दी­न­ग्नी­ना­त्मनो वागा­द­योऽ­प्य­प­श्य­न्नि­त्याह -
तथैवेति ।

क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­वि­नि­यो­ज­क­मा­न­दृष्ट्या संशयमाह -
तेष्विति ।
केव­ल­वि­द्या­त्म­त्वेन पुरु­षा­र्थ­त्व­स­म­र्थ­न­द्वारा वाक्या­र्थ­धी­हे­तो­रे­वो­क्ते­रत्र पादादिसङ्गतिः । पूर्वपक्षे क्रिया­र्था­ना­म­ग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केव­ल­वि­द्या­त्म­त्वेन पुरु­षा­र्थ­त्व­स­म­र्थ­न­द्वारा वाक्या­र्थ­धी­हे­तो­रे­वो­क्ते­रत्र पादादिसङ्गतिः ।

पूर्वपक्षे क्रिया­र्था­ना­म­ग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केव­ल­वि­द्या­म­य­त्व­मि­त्य­ङ्गी­कृत्य सिद्धा­न्त­मु­प­क्र­मते -
स्वात­न्त्र्य­मिति ।

सूत्राक्षराणि योजयति -
भूयांसीति ।
सर्वाण्यपीमानि भूतानि यत्किमपि मनसा सङ्कल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येतत् प्रकृताग्नीनां स्वातन्त्र्येण भावनामयत्वे लिङ्गम् ।

नहि क्रियाङ्गं यत्किञ्चित्करणे सिध्यति चोद­नै­क­ल­भ्य­त्वा­दि­त्याह -
तद्यदिति ।

एवंविदे स्वपते जाग्रतेऽपि ताने­ता­न­ग्नी­न्भू­तानि सर्वाणि सर्वदा चिन्वन्तीति लिङ्गान्तरं नहि कर्माङ्गं सर्वदा सर्वैरनुष्ठीयते प्रति­नि­य­त­दे­श­का­ल­नि­मि­त्तेषु चोदि­त­त्वा­दि­त्याह -
तानिति ।
कार्य­क­र­ण­व्या­पारैः षट्त्रिं­श­त्स­ह­स्रा­हो­रा­त्रा­व­च्छि­न्नै­रि­ष्ट­का­त्वेन भावितैरेतैः सम्पाद्यन्ते । तत्रे­ष्ट­का­स्व­ग्निषु च सङ्ख्या­धि­क्य­म­ग्नीनां केवलविद्यात्वे लिङ्गम् ।

नहि क्रियाङ्गत्वे प्रसि­द्ध­स­ङ्ख्या­ति­रे­क­सि­द्धि­रिति मत्वाह -
एवमिति ।

प्रकरणादेषां क्रियाङ्गत्वं सिद्धं लिङ्गाच्च स्वातन्त्र्यं तेन संशयः स्यादि­त्या­श­ङ्क्याह -
तद्धीति ।

प्रमा­ण­त्वा­वि­शेषे कुतो बला­ब­ल­व्य­व­स्थे­त्या­श­ङ्क्याह -
तदपीति ॥ ४४ ॥

सिद्धा­न्ते­नो­प­क्र­म्या­धुना पूर्वपक्षयति -
पूर्वेति ।

पूर्वपक्षं विवृ­ण्व­न्नु­क्त­सि­द्धा­न्त­प्र­तिज्ञां निषेधति -
नैतदिति ।

सम्प्रति सहेतुकं पूर्वपक्षं प्रतिजानीते -
पूर्वस्येति ।
इष्ट­का­भि­र­ग्नीं­श्चि­नुत इत्यु­क्त­क्रि­या­म­या­ग्न्य­धि­कारे श्रवणादयमपि साम्पा­दि­का­ग्न्यु­प­दे­श­स्त­द्वि­षयो विक­ल्पो­प­दे­श­स्त­थाच यथा क्रियाङ्गं क्रिया­म­योऽ­ग्नि­स्तथा साम्पा­दि­का­ग्नि­रपि तदङ्गं स्यादित्यर्थः । विकल्पविशेषः प्रकारभेदः ।

उक्तं सैद्धान्तिकं मतमनुवदति -
नन्विति ।

तेन प्राकरणिकं क्रियाशेषत्वं हित्वा लैङ्गिकं पुम­र्थ­त्व­मे­ष्ट­व्य­मिति शेषः । विध्यु­द्दे­श­स्थ­म­र्थ­वा­दस्थं वा लिङ्गं प्रक­र­णा­द्ब­ल­व­दिति विक­ल्प्या­द्य­म­ङ्गी­क­रोति -
सत्यमिति ।

द्वितीयं दूषयति -
लिङ्गमिति ।
एवंञ्जातीयकं सर्वदा सर्वाणि भूतानि चिन्व­न्ती­त्या­द्य­र्थ­वा­द­स्थ­मिति यावत् ।

तदेव साधयति -
अन्यार्थेति ।
न हीदं साधनात्मकं लिङ्गं विध्यु­द्दे­श­क­वा­क्य­तया तत्परत्वादतो नेदं स्वातन्त्र्येण प्रमापकं स्तुति­मा­त्र­त्वा­दि­त्यर्थः ।

अन्या­र्थ­द­र्श­ना­ना­मपि प्रमा­प­क­त्व­मा­शङ्क्य मूलप्रमाणभावे तथाभावेऽपि प्रकृते तद­भा­वा­न्मै­व­मि­त्याह -
अन्येति ।

प्रकृतलिङ्गस्य प्रकरणाबाधकत्वे फलितमाह -
तस्मादिति ।

एतेन क्रियेति पदं व्याख्यातम् । कथ­म­क्रि­या­रू­पा­णा­मे­तेषां क्रियाशेषत्वं, तत्राह -
मानसवदिति ।
द्वादशाहे श्रूयतेऽनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातीति । तत्र किं मानसं द्वाद­शा­हा­द­ह­र­न्तरं किंवा तन्मध्यपातिनो दशमस्याङ्गमिति सन्देहे वाग्वै द्वादशाहो मनो मानसमिति भेदोक्त्या मानसस्य द्वाद­शा­हा­द्भे­द­सि­द्धे­र्द्वा­द­शा­हस्य गतरसान्यङ्गानि मान­से­नै­वा­प्या­य­न्तीति च मानसेन द्वादशाहस्य स्तुतेः स्तुति­स्तु­त्य­भा­वस्य भेदा­का­ङ्क्ष­त्वा­त्प­त्नी­सं­या­जा­न्ता­न्य­हानि सन्तिष्ठन्त इत्युक्त्वा द्वाद­शा­हा­न्त­र्ग­ता­ना­मह्नां पत्नी­सं­या­जा­न्त­त्व­दृ­ष्टे­र्मा­न­सस्य च पत्नीः संयाज्य मानसाय प्रसर्पन्तीति पत्नी­सं­या­जा­दु­प­रि­ष्टा­देव श्रुते­र्द्वा­द­शा­ह­सं­ज्ञा­याश्च त्रयोदशाहेऽपि द्वाद­शा­ह­स­त्त्वेन कथ­ञ्चि­दु­प­प­त्ते­र्द्वा­द­शा­हा­द­ह­र­न्तरं मानसमिति प्राप्ते मानसस्य त्रयोदशाहत्वे माना­भा­वा­द्द्वा­द­शा­ह­सं­ज्ञाया गुणवृत्त्या नेतु­म­यु­क्त­त्वा­द­ङ्गा­ङ्गि­भे­दे­नो­क्ति­भे­दस्य स्तुति­स्तु­त्य­भा­वस्य च सिद्धेरह्नां पत्नी­सं­या­जा­न्त­ता­या­श्चौ­त्स­र्गि­क­त्वा­द्वि­शे­षोक्त्या दशमस्याह्नो ग्रहणादीनां मानसानां पत्नी­सं­या­जा­त्प­र­त्वा­वि­रो­धा­देष वै दशमस्याह्नो विसर्गो यन्मानसमिति चोक्ते­र्वि­स­र्ग­स्या­न्त­स्या­न्त­वतो धर्म­त्वा­द्द­श­मा­ह­र­ङ्ग­ता­व­ग­ते­र्द­श­मेऽ­हनि मानसाय प्रसर्पन्तीति चाधा­र­त्वो­क्ते­स्त­द­ङ्ग­मेव मानसं नाहरन्तरमिति राद्धान्तितम् ।

तदेवं द्वादशाहयोगिनो दशमस्याह्नो मानसमङ्गमिति कर्म­मी­मां­सा­या­मुक्तं तथापि दशरात्रस्य द्वाद­शा­ह­वि­कृ­ति­त्वा­त्क्र­मे­णा­ह­र्ध­र्मे­ष्वे­ति­दि­ष्टेषु दश­रा­त्र­ग­त­द­श­मा­ह­न्यपि द्वाद­शा­हा­न्त­र्ग­त­द­श­मा­ह­र­ङ्गस्य मानसस्यास्ति प्राप्ति­रि­त्य­भि­प्रेत्य व्याचष्टे -
यथेति ।
अविवाक्यमिति दशमस्याह्नो नामधेयं विविधानि वाक्यानि यत्र मान­स­त्वा­दृ­त्विजां न सन्ति तत्तथेति व्युत्पत्तेः । तत्रेदं श्रुतमनया त्वा पात्रेणेत्यादि त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयं ग्रह­मा­पा­द्या­ध्व­र्यु­र्गृ­ह्णा­तीति वाक्यार्थः ।

तमिमं सोप­स्क­र­मु­प­न्य­स्यति -
पृथिव्येति ।
ग्रहणं सोमा­धा­र­पा­त्र­स्यो­पा­दा­न­मा­सा­दनं गृहीतस्य स्वस्थाने स्थापनं ततः सोमस्य होमो हवनं हुत­शे­षा­दा­न­मा­ह­रणं पश्चादृत्विजां तद्भक्षणाय मिथोऽ­नु­ज्ञा­क­र­ण­मु­प­ह्वानं ततोऽवशिष्टस्य सोमस्य भक्षणमित्येतानि मान­सा­न्ये­वे­त्यर्थः ।

कथ­म­न्य­ग्र­ह­यो­गिनो मानसस्य कल्पनाभेदस्य क्रिया­नु­प्र­वे­शित्वं, तत्राह -
स चेति ।

उक्त­दृ­ष्टा­न्ता­द­ग्नि­स­म्ब­न्धि­क­ल्प­ना­भे­दोऽपि क्रिया­धि­का­रा­त्क्रि­या­नु­प्र­वे­शीति दार्ष्टा­न्ति­क­माह -
एवमिति ॥ ४५ ॥

मन­श्चि­दा­द्य­ग्नीनां क्रियानुप्रवेशे लिङ्गान्तरमाह -
अतिदेशाच्चेति ।

सूत्रं व्याकरोति -
अतिदेशश्चेति ।

तमेव दर्शयति -
षडिति ।

कथं तावता क्रत्वङ्गत्वं तदाह -
सतीति ।

क्रिया­नु­प्र­वे­श­म­न्त­रे­णा­न्य­देव सादृ­श्य­म­ति­दे­श­कृ­त­मि­त्या­शङ्क्य तस्य योग्या­नु­प­ल­म्भा­न्मै­व­मि­त्याह -
ततश्चेति ॥ ४६ ॥

सिद्धान्तमाह -
विद्यैवेति ।

परपक्षनिषेधं प्रतिजानीते -
तुशब्द इति ।

सिद्धा­न्त­प्र­ति­ज्ञा­माह -
विद्येति ।

हेतुं व्याचष्टे -
तथाहीति ।
एवकारश्रुत्या प्रकरणं बाध्यमिति भावः ।

मन­श्चि­दा­द्य­ग्नीनां विद्यात्मत्वे श्रुतितात्पर्यं वक्तुं श्रुत्याभासं दर्शयन्वाक्यमपि समुच्चिनोति -
विद्ययेति ॥ ४७ ॥

न श्रुत्यैव प्रकरणं बाध्यं लिङ्गादपीत्याह -
दर्शनाच्चेति ।

तद्विभजते -
दृश्यते चेति ।

किं तदि­त्य­पे­क्षा­या­माह -
तत्पुरस्तादिति ॥ ४८ ॥

उत्त­र­सू­त्र­व्या­वर्त्यं पूर्वोक्तं चोद्य­म­नु­स्मा­र­यति -
नन्विति ।

तदुत्तरं सूत्रमवतारयति -
अत इति ।

न बाध इत्ये­त­द्व्या­चष्टे -
नैवमिति ।

हेतुमवतार्य व्याचष्टे -
श्रुत्यादीति ।

तेषां प्रक­र­णा­द्ब­ली­य­स्त्वेऽपि प्रकृते किं जातं, तत्राह -
तानि चेति ।

स्वात­न्त्र्य­सा­ध­क­श्रु­त्या­दि­दृ­ष्टि­मेव प्रश्नद्वारा स्फुटयति -
कथमित्यादिना ।

तत्र श्रुतिं विवृणोति -
विद्येति ।

अव­धा­र­ण­श्रु­ते­र­न्य­था­सिद्धिं शङ्कते -
नन्विति ।

दूषयति -
नेत्युच्यत इति ।
कृत­त्वा­द­भि­प्रे­त­स्या­बा­ह्य­सा­ध­न­त्वस्य ज्ञातत्वादिति यावत् ।

स्वरू­प­स­ङ्की­र्त­नेन कृतत्वमेव स्फुटयति -
स्वरूपमिति ।

विद्याशब्देनैव बाह्यसाधनत्वं व्यावर्त्यते चेत्त्वन्मतेऽपि किम­र्थ­म­व­धा­र­ण­मि­त्या­श­ङ्क्याह -
अबाह्येति ।

संप्र­त्य­व­धा­र­ण­श्रु­ति­व­देव लिङ्गं व्यनक्ति -
तथेति ।

सातत्यं सर्व­का­ल­स­र्व­पु­रु­ष­व्या­पित्वं तेन हेतुना क्रिया­नु­प्र­वे­शा­भावे दृष्टान्तमाह -
यथेति ।
तदेति सम्पा­द­ना­व­स्थोक्तिः ।

आहु­त्यो­र­न­न्त­त्व­म­क्ष­य­फ­ल­त्वा­दि­त्याह -
अमृते इति ।

तयोरपि क्रिया­ङ्ग­त्व­शङ्कां प्रत्याह -
जाग्रच्चेति ।

उक्त­दृ­ष्टा­न्ता­त्प्र­कृ­ता­ग्नीनां सात्यदृष्टेर्न क्रिया­प्र­वे­शि­तेति दार्ष्टा­न्ति­क­माह -
तद्वदिति ।

सात­त्य­प्र­यो­गेऽपि किमित्यग्नीनां क्रियाप्रवेशो न स्यात् , तत्राह -
क्रियेति ।

यत्पु­न­र­र्थ­वा­दस्थं लिङ्गं न प्रकरणबाधकमिति, तत्राह -
नचेति ।
अन्येषां श्रुति­वि­ध्यु­द्दे­शा­ना­म­न्या­र्थ­द­र्श­ना­ना­म­प्रा­प­क­त्वेऽपि प्रकृतेषु वचनानि त्वपू­र्व­त्वा­दिति न्यायेन सर्वदा सर्वाणि भूतानि मदर्थमग्निं चिन्वन्तीति मन्वीतेति विधिः कल्प्यते ।

अपू­र्वा­र्थ­वा­दि­तया भासमानानां द्योत­क­त्व­मा­त्रा­ङ्गी­का­रेण गुण­वा­दा­श्र­य­णा­यो­गा­दिति मत्वाह -
यत्रेति ।

उक्तन्यायं वाक्यान्तरेऽपि सञ्चारयति -
एतेनेति ।

श्रुतिलिङ्गे विविच्य वाक्यं विविनक्ति -
तथेति ।

श्रुति­लि­ङ्ग­वा­क्येभ्यो भग्ने प्रकरणे फलितमाह -
तस्मादिति ॥ ४९ ॥

स्वातन्त्र्ये हेत्वन्तराण्याह -
अनुबन्धादिभ्य इति ।

सूत्रस्य हेत्वन्तरोक्तौ तात्पर्यमाह -
इतश्चेति ।

तत्रानुबन्धं हेतुं विवृृणोति -
यदिति ।
क्रियाङ्गानां मनआदिव्यापारेषु संयो­ज­ना­न्य­था­नु­प­प­त्त्याऽपि न क्रियाशेषत्वं मन­श्चि­दा­दी­ना­मि­त्यर्थः । तेऽग्नयो विदुषा मन­सै­वा­धी­य­न्ता­धि­यन्ते छन्दसि कालानियमात् । मनसाचीयन्त इष्टकाश्चीयन्ते । मानसेषु मन­श्चि­त्स्व­ग्निषु ग्रहाः पात्राणि विदुषाऽगृह्यन्त गृह्यन्ते । मन­सै­वा­स्तु­व­न्नु­द्गा­तृ­प्र­भृ­तयः स्तुवन्ति । मन­सै­वाऽ­शं­स­न्हो­त्रा­दयः शंसन्ति । अन्यदपि यत्कि­ञ्चि­द्य­ज्ञेषु पुरुषार्थं क्रियते यच्च यज्ञार्हं क्रत्वर्थं तत्रानुष्ठीयते तत्सर्वमेव मनोमयं भावनामयं विदुषा मनसैवाक्रियत क्रियत इत्यर्थः ।

किम­र्थ­मि­द­म­नु­ब­न्ध­क­रणं तदाह -
सम्पदिति ।

उपास्त्यर्थो ह्यनु­ब­न्ध­स्त­थापि मन­श्चि­दा­दी­ना­म­क्रि­या­ङ्गत्वे किमायातं तदाह -
नचेति ।
तेषां क्रियाङ्गत्वे साक्षा­दे­वा­धा­ना­दि­प्र­सि­द्धे­र­न­र्थिका सम्पदित्यर्थः ।

तर्हि कर्मा­ङ्ग­यो­गा­दु­द्गी­था­द्यु­पा­स­ना­व­दि­द­मपि क्रियागतमुपासनं स्यान्नेत्याह -
नचेति ।
उपासनं सप्तम्यर्थः ।

उद्गी­था­द्यु­पा­स्ति­वृ­त्ति­श्रु­ति­वि­धि­वै­प­री­त्य­मेव प्रस्त­तो­पा­स्ति­विधौ दर्शयति -
नहीति ।

कथं तर्हीह विधानं तदाह -
षडिति ।

मनो­वृ­त्ति­भे­दे­ष्व­ग्नि­त्वा­दि­र­हि­तेषु तत्कल्पनायां दृष्टान्तमाह -
पुरुषेति ।

कथं मनोवृत्तिषु सङ्ख्या­भे­दो­पा­दानं तदाह -
सङ्ख्या चेति ।

अनु­ब­न्ध­सा­म­र्थ्य­सि­द्ध­म­र्थ­मु­प­सं­ह­रति -
एवमिति ।

सौत्रमादिशब्दं योजयति -
आदीति ।

तत्र मनश्चिदादीनां स्वात­न्त्र्य­प्रा­प­क­म­ति­देशं विशदयति -
तथाहीति ।

वाक्य­ता­त्प­र्य­माह -
क्रियेति ।

ननु पूर्वे­णे­ष्ट­का­चि­ते­ना­ग्निना मनश्चिदादीनां विकल्पः स्यादित्युक्तं तेन विक­ल्पा­र्थोऽ­ति­देशो नानादरार्थ इति, तत्राह -
नचेति ।

व्रीहि­भि­र्या­व­त्क्रि­यते यवैरपि तावदिति युक्तो विकल्पः । प्रकृते तु मनश्चिदादीना तद­भा­वा­न्ने­ष्ट­का­चि­तेन विकल्पः स्यादित्याह -
नहीति ।

अतिदेशस्य पूर्व­प­क्षा­नु­गु­ण्या­त्क­थ­मा­दि­श­ब्देन ग्रह­ण­मि­त्या­श­ङ्क्या­नु­व­दति -
यत्त्विति ।

अग्नि­त्व­सा­म्ये­ना­प्य­ति­दे­श­सि­द्धेर्न पारिशेष्यमिति दूषयति -
तदिति ।

अग्नि­त्व­सा­म्य­स­म्भ­व­मेव स्फुटयति -
अस्तीति ।

वहुवचनं घटयति -
श्रुत्यादीनीति ।

उक्तहेतुफलं निगमयति -
एवमिति ।

दृष्टा­न्त­म­व­तार्य व्याचष्टे -
प्रज्ञान्तरेति ।

उक्त­दृ­ष्टा­न्ता­नु­सा­रा­द­नु­ब­न्धा­द्यु­क्त­हे­तुभ्यो मनश्चिदादीनामपि स्वात­न्त्र्य­मिति दार्ष्टा­न्ति­क­माह -
एवमिति ।
सूत्र­वि­भा­ग­व्या­ख्या­स­मा­प्ता­वि­ति­शब्दः ।

मनश्चिदादीनां स्वातन्त्र्ये क्रिया­प्र­क­र­ण­पा­ठा­सि­द्धि­रि­त्या­श­ङ्क्याह -
दृष्टश्चेति ।

उत्कर्षे हेतुमाह -
वर्णेति ।

तथापि राज­सू­या­ङ्ग­त्व­यो­गा­दु­त्क­र्षा­सिद्धिः, तत्राह -
राजेति ।
राजा स्वाराज्यकामो राजसूयेन यजे­ते­त्या­र­भ्या­ग्ने­योऽ­ष्टा­क­पालो हिरण्यं दक्षि­णे­त्या­दि­नाऽ­वे­ष्टि­र्ना­मे­ष्टि­रा­म्नाता । तत्र यदि ब्राह्मणो यजेत वार्हस्पत्यं मध्ये निधा­या­हु­ति­मा­हुतिं हुत्वाऽ­भि­घा­र­ये­द्यदि वैश्यो वैश्वदेवं यदि राज­न्य­स्त­दै­न्द्र­मिति श्रूयते । तत्र किं ब्राह्मणादीनां राजसूये प्राप्तानां निमित्तार्थेन श्रवणमुत तेषामेव यागो विधीयत इति सन्देहे प्रजा­पा­ल­न­क­ण्ट­को­द्ध­र­णादि राज्यं तस्य कर्ता राजे­त्या­र्य­प्र­सि­द्धे­स्त्रै­व­र्णि­का­ना­मपि तत्क­र्तृ­त्व­प्र­सिद्ध्या राजशब्दवत्त्वेन राज­सू­या­धि­का­रि­त्वा­द्यदि ब्राह्मणो यजेतेत्याद्याः श्रुतयो निमित्तार्था इति नास्ति प्रक­र­णा­दु­त्क­र्षोऽ­वे­ष्टे­रिति प्राप्ते ‘गुण­व­च­न­ब्रा­ह्म­णा­दिभ्यः कर्मणि च’ इति पाणिनिना गुणवचनेभ्यः शुक्ला­दि­श­ब्देभ्यो ब्राह्म­णा­दि­श­ब्दे­भ्यश्च कर्मणि ष्यञ्प्र­त्य­य­स्म­र­णा­द्राज्ञः कर्म राज्यमिति राज­क­र्तृ­यो­गा­द्रा­ज्य­मि­त्य­व­ग­मा­त्कोऽसौ राजे­त्य­पे­क्षा­या­मा­र्येषु तत्प्र­सि­द्ध्य­भा­वेऽपि म्लेच्छानां क्षत्रियमात्रे राज­श­ब्द­प्र­यो­गा­न्म्ले­च्छ­प्र­सिद्ध्या राज­श­ब्दा­र्थ­नि­र्ण­या­द्ब्रा­ह्म­णादौ च पालनादिकर्तरि राजशब्दस्य गौण­त्वा­त्क्ष­त्रि­य­स्यैव राज­सू­येऽ­धि­का­रा­द्ब्रा­ह्म­ण­वै­श्य­यो­स्त­त्रा­प्राप्ते राजसूयप्रकरणं हित्वा ब्राह्म­णा­दि­क­र्तृ­काणि कर्मान्तराणि विधीयन्त इति राज­सू­य­प्र­क­र­णा­दु­त्क­र्षोऽ­वे­ष्टे­रिति द्वितीये स्थितम् । तत्र यथा क्षत्रियकर्तृके राजसूये ब्राह्म­णा­दे­र­न­धि­का­रा­द­वेष्टे राज­सू­य­प्र­क­र­णा­दु­त्क­र्ष­स्तथा मनश्चिदादीनामपि क्रिया­प्र­क­र­णा­दु­त्कर्षो लिङ्गादिभिरिति भावः ।

एकादशेऽपि चिन्ति­त­मे­त­दि­त्याह -
तदुक्तमिति ।
राज­सू­य­प्र­क्रि­या­या­म­वे­ष्टि­र्ना­मे­ष्टि­रा­म्नाता आग्ने­योऽ­ष्टा­क­पालो हिरण्यं दक्षिणा बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणेति ।

तत्रा­ग्ने­या­दि­ह­विः­ष्व­ङ्गानां तन्त्रेण प्रयोगः किं वावृत्त्येति संशये पूर्व­प­क्ष­सू­त्रम् ‘अवेष्टौ त्वेकतन्त्रं स्याल्लि­ङ्ग­द­र्श­नात् ‘ इति बार्हस्पत्यं मध्ये निधायेति लिङ्गो­प­ल­म्भा­त्प्र­यो­ग­भेदे च मध्ये निधा­ना­यो­गा­दे­त­याऽ­न्ना­द्य­का­म­मि­त्ये­क­व­च­ना­च्चै­क­त­न्त्र्य­म­वे­ष्टा­वे­क­स्मि­न्प्र­यो­गेऽ­ङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वाऽ­न्ना­द्य­का­म­प्र­यो­गेऽ­वे­ष्टे­रिदं लिङ्गदर्शनादि न क्रत्व­र्थ­प्र­योगे, तस्य तु दक्षिणा भेदाद्भेद इत्य­ङ्गा­वृ­त्ति­रे­वेति राद्धान्तिते क्रत्व­र्था­या­म­पी­ष्टा­विदं लिङ्ग­द­र्श­ना­द्य­स्ती­त्य­ङ्गा­ना­वृ­त्ति­रि­त्या­श­ङ्का­म­नूद्य दूषयति -
क्रत्व­र्था­या­मिति चेदिति ।
काम्यायामिष्टौ ‘यदि ब्राह्मणः’ इत्यादिना वर्ण­त्र­य­सं­यो­गा­त्तस्यां च मध्य­नि­धा­ना­दि­सि­द्धेर्न राज­क­र्तृ­क­क्र­त्व­र्थेष्टौ तत्प्रा­प्ति­र­तोऽ­ङ्गा­वृ­त्ति­रि­त्यर्थः । अत्र चैक­प्र­यो­ग­त्व­लि­ङ्गस्य क्रत्व­र्थे­ष्टा­व­स­म्भवं काम्येष्टौ च सम्भवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्व­र्थे­ष्टि­वै­ल­क्ष­ण्य­सू­च­ना­द्वा­रे­णा­र्था­त्प्र­क­र­णा­दु­त्क­र्षोऽपि सिध्यतीति क्रिया­प्र­क­र­णा­न्म­न­श्चि­दा­दी­ना­मु­त्कर्षो भव­त्ये­त­द­नु­गु­ण­मु­दा­ह­र­ण­मिति द्रष्टव्यम् ॥ ५० ॥

परो­दी­रि­त­मु­दा­ह­रणं विघटयति -
नेति ।

परोक्तमनूद्य तदुत्तरत्वेन सूत्राक्षराणि व्याचष्टे -
यदित्यादिना ।

मानसेन ग्रहेण सह मनश्चिदादीनां च भावनामयत्वे तुल्ये कथं श्रुत्यादिभिः स्वातन्त्र्यं, तत्राह -
नहीति ।

सत्यपि सादृश्ये यथास्वं वैष­म्य­म­व्या­वृ­त्त­मि­त्यत्र दृष्टान्तमादाय व्याचष्टे -
मृत्युवदिति

नहीत्यादि विभजते -
यथाचेति ।

उक्त­दृ­ष्टा­न्ता­नु­रो­धा­न्मा­न­स­ग्र­हस्य मनश्चिदादीनां च भाव­ना­म­य­त्वा­वि­शे­षेऽपि पार­त­न्त्र्य­स्वा­त­न्त्र्ययोः सिद्धिरित्याह -
तद्वदिति ॥ ५१ ॥

पूर्वो­त्त­र­ब्र­ह्मा­ण­यो­र्वि­द्या­प्रा­धा­न्य­द­र्श­ना­त्त­न्म­ध्य­पा­ति­नोऽ­स्यापि तत्प्रा­धा­न्य­मि­त्याह -
परेण चेति ।

सन्दिग्धस्य निर्णयो वाक्य­शे­षा­दि­ति­न्या­येन सूत्रावयवं व्याकु­र्व­न्वा­क्य­शे­ष­म­नु­स­न्धत्ते -
परस्तादिति ।

उत्त­र­ब्रा­ह्म­णस्य विद्या­प्रा­धान्ये गमकमाह -
तत्रेति ।

ब्राह्मणस्य विद्या­प्रा­धा­न्य­मे­त­दि­त्यु­क्तम् । उप­क्र­म­त­न्त्रे­णो­प­सं­हा­रे­णै­क­स्मि­न्वाक्ये भवि­त­व्य­मि­ति­न्या­येन चकारं व्याकु­र्व­न्पू­र्व­मपि ब्राह्म­ण­म­नु­स­न्धत्ते -
तथेति ।

तस्य विद्या­प्रा­धान्ये लिङ्गमाह -
सोऽमृत इति ।

पूर्वो­त्त­र­ब्रा­ह्म­ण­यो­र्वि­द्या­प्रा­धा­न्येऽपि प्रकृ­त­ब्रा­ह्म­णस्य कर्मप्राधान्ये का हानिः, तत्राह -
तदिति ।

कथं तर्हि विद्यायाः स्वातन्त्र्ये कर्माधिकारे समा­म्ना­न­मि­त्या­शङ्क्य भूय­स्त्वा­दि­त्यादि व्याचष्टे -
भूयांसस्त्विति ।

श्रुति­लि­ङ्गा­दिभिः सिद्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ५२ ॥

मनश्चिदादीनां न पुरुषार्थत्वं पुरुषस्यैव देहा­ति­रि­क्त­स्या­भा­व­दि­त्या­क्षि­पति -
एक इति ।

अधिकरणस्य तात्पर्यमाह -
इहेति ।

तत्समर्थनफलमाह -
बन्धेति ।

साध­ना­नु­ष्ठा­न­सा­म­र्थ्या­द्दे­ह­स्यैव स्वर्गा­प­व­र्गा­धि­का­रि­त्व­सिद्धौ कृतं व्यति­रे­क­चि­न्त­ये­त्या­श­ङ्क्याह -
नहीति ।

व्यति­रे­क­वि­चा­रस्य पूर्वतन्त्रेण पौनरुक्त्यं शङ्कते -
नन्विति ।

सूत्रकृता तत्रा­ति­रि­क्ता­त्मा­नु­क्तेर्न पौन­रु­क्त्य­मि­त्याह -
सत्यमिति ।

प्रकृते पूर्वमीमांसातो विशेषमाह -
इह त्विति ।

कथं तर्हि प्रथमे पादे दर्शि­त­मा­त्मा­स्तित्वं नहि मूलभूतं सूत्रं विना भाष्यं युक्तं, तत्राह -
इत इति ।

यज्ञायुधी यजमानः स्वर्गं लोकं याती­ति­वा­क्य­स्या­ति­रि­क्ता­त्मा­भा­वा­द­प्रा­मा­ण्य­प्राप्तौ तत्परिहारेण प्रथ­मा­ध्या­यो­प­यो­गि­तया तद­स्ति­त्व­मि­द­भे­वा­धि­क­र­ण­म­व­ष्ट­भ्यो­क्त­मिति सूचयति -
प्रमाणेति ।

एतस्मादेवाकृष्य तत्रा­त्मा­स्ति­त्व­मु­क्त­मि­त्यत्र वृत्तिकारवचनं गमकमित्याह -
अत इति ।
यस्मादत्र सूत्रकारो निरूपयति तस्मादेवेति यावत् । आत्मा­स्ति­त्व­स्या­स्मा­त्पू­र्व­काण्डं प्रति नय­न­म­प­क­र्ष­स्त­स्यो­द्धारो निवृ­त्ति­रि­त्यर्थः ।

अथात्रापि प्रथ­म­सू­त्रेऽ­थ­श­ब्दो­पा­त्तोऽ­धि­कारी विचा­रि­त­स्त­त्क­थ­मिह पुन­स्त­न्नि­रू­पणं, तत्राह -
इह चेति ।
तत्र लोक­सि­द्धा­त्मा­दा­ने­ना­धि­कारी दर्शितो न तद्वि­शे­ष­श्चि­न्तितः । प्रकृते तु विधि­प्र­मा­ण­के­षू­पा­स­नेषु विचार्यमाणेषु विचार्यते विशे­ष­त­स्त­द­स्ति­ते­त्यस्ति भेद इत्यर्थः ।

प्रास­ङ्गि­की­म­ध्या­य­पा­द­स­ङ्ग­ति­म­धि­क­र­ण­स्यो­कत्वा श्रुति­शा­स्त्र­स­ङ्गर्ति सूचयति -
कृत्स्नेति ।
सर्व­स्यै­वा­म्ना­यस्य तद­र्थ­वि­चा­रा­त्म­नश्च शास्त्रस्य शेष­भू­त­म­धि­क­र­ण­म­ति­रि­क्ता­त्मा­वि­चारे सर्वास्यास्य दुर्घ­ट­त्वा­द­तोऽ­ति­रि­क्त­स्या­त्मनः शेषत्वं दर्शयितुमेष विचार इत्यर्थः ।

सङ्ग­ति­च­तु­ष्ट­य­मि­त्थ­मुक्त्वा पुर्वो­त्त­रा­धि­क­र­ण­स­ङ्ग­ति­माह -
अपिचेति ।
इतश्चेदमिह सङ्गतमित्यर्थः ।

अनेन सूत्रेण तन्नोच्यत इत्या­श­ङ्क्या­द्य­सू­त्र­स्या­वा­न्त­र­स­ङ्ग­ति­माह -
तदस्तित्वेति ।

अति­रि­क्ता­त्मा­स्तित्वे साध्ये किं तदा­क्षे­पे­णे­त्या­श­ङ्क्याह -
आक्षेपेति ।
इत्या­क्षे­प­स्यो­प­यु­क्त­तेति शेषः ।

मन­श्चि­दा­द­योऽ­ग्नयो यदर्थाः स पुरुषो विषयः स किं देहस्तदतिरिक्तो वेति विप्रतिपत्तेः संशये पूर्वपक्षयति -
अत्रेति ।
पूर्वपक्षे देहा­त्म­वा­द­सिद्धिः सिद्धान्ते वैदि­का­त्म­सि­द्धि­रिति फलभेदः । परी­क्ष­क­व्य­व­हा­र­भूमिः सप्तम्यर्थः ।

स्वत­न्त्र­म­न्या­धारं वा चैतन्यमात्रं वा व्यावर्तते मनुष्योऽहमिति देह­स्या­हं­प्र­त्य­या­ल­म्ब­न­त्व­व­द­ति­रि­क्ता­त्म­सत्त्वे मानाभावं गृहीत्वाह -
देहेति ।

चैत­न्या­धा­र­स्या­त्म­त्वा­द्भौ­ति­क­त्वे­ना­चे­त­नस्य कथ­मा­त्म­त्व­मि­त्या­श­ङ्क्याह -
समस्तेति ।

एकै­क­स्मि­न्न­वि­द्य­मानं कथं सङ्घाते स्यात् , तत्राह -
तेभ्य इति ।
चैतन्यं सम्भावयन्त इति सम्बन्धः ।

सङ्घातविशेषे कार्य­वि­शे­ष­सत्त्वे दृष्टान्तमाह -
मदेति ।
यथै­कै­क­स्मा­त्ता­म्बू­ला­दे­र­दृ­ष्टापि मदशक्तिः सङ्घाते दृश्यते तथेदं ज्ञान­मे­कै­क­स्मि­न्न­दृ­ष्ट­मपि देहा­का­र­प­रि­ण­त­भू­तेषु संहतेषु भवतीति चाहुरिति योजना ।

देहस्यैव भोक्तृत्वे मृतदेहेऽपि भोगः स्यादि­त्या­श­ङ्क्याह -
चैतन्येति ।

अग्नि­सं­नि­धा­ना­द­यः­पि­ण्ड­स्यौ­ष्ण्य­मि­वा­त्म­सं­नि­धे­र्दे­ह­चै­त­न्य­मि­त्य­ति­रि­क्त­स्या­त्मनः स्वर्गा­प­व­र्गा­न्व­यि­नोऽ­भा­वान्न देहस्य चैत­न्य­वै­शि­ष्ट्य­मि­त्या­श­ङ्क्याह -
नेत्यादिना ।

आत्मा तर्हि कः स्यादि­त्य­पे­क्षा­या­माह -
देहेति ।

सूत्रभागेन प्रति­ज्ञा­तेऽर्थे हेतुमवतार्यं व्याचष्टे -
यद्धीति ।
अन्व­य­व्य­ति­रे­काभ्यां चैतन्यस्य देहधर्मतैवेति नाति­रि­क्ता­त्म­सि­द्धि­रि­त्यर्थः ।

प्राणचेष्टादयः साश्रयाः, कार्य­त्वा­त्सं­म­त­वत् , इत्य­नु­मा­ना­त्प्रा­णा­द्या­श्र­य­स्या­ति­रि­क्ता­त्मनः सिद्धि­रि­त्या­श­ङ्क्या­नु­मा­ना­प्रा­मा­ण्या­त्प्रा­मा­ण्येऽपि सिद्ध­सा­ध्य­त्वा­न्मै­व­मि­त्वाह -
प्राणेति ।
चेष्टा हिता­हि­त­प्रा­प्ति­प­रि­हा­रार्थो व्यापारः । आदि­प­दे­ने­च्छा­द्वे­षा­दय उक्ताः ।

तेषां देह­ध­र्म­त्वे­ना­दृ­ष्टानां कथं तद्ध­र्म­ते­त्या­श­ङ्क्याह -
असिद्ध इति ।
प्रत्य­क्षे­णा­ति­रि­क्ता­त्म­नोऽ­दृ­ष्टे­र्मा­ना­न्तरे चासं­म­ते­र्गौ­रोऽहं स्थूलोऽहमिति च देह­स्यै­वा­त्म­त्वे­ना­ध्य­क्ष­त्वा­त्त­दा­धा­र­त्व­मेव प्राणा­दी­ना­मि­त्यर्थः ।

देहात्मवादी प्रत्य­क्ष­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ॥ ५३ ॥

सिद्धा­न्त­सू­त्र­म­व­ता­र­यति -
एवमिति ।

तत्र न त्विति पूर्व­प­क्ष­नि­षे­ध­प्र­तिज्ञां विभजते -
न त्विति ।

उत्त­र­प­क्ष­प्र­तिज्ञां व्याकरोति -
व्यतिरेकेति ।

तत्र हेतुमवतार्य व्याचष्टे -
तदिति ।
देहभावेऽपि प्राणादीनामभावो मृता­व­स्था­या­मा­स्थेयः । चैतन्यादयो न देहस्य विशे­ष­गु­णा­स्त­द्भा­वा­भा­वि­त्वात् ।

ये तद्विगुणास्ते न तद्भावाभाविनो यथा रूपादय इत्याह -
देहेति ।

वैलक्षण्यं स्पष्ट­य­न्दृ­ष्टा­न्तस्य साध­ना­व्या­वृत्तिं वारयति -
ये हीति ।

हेत्वसिद्धिं प्रत्याह -
प्राणेति ।
तेषां विशे­ष­गु­ण­त्वा­भा­वेऽपि न देह­मा­त्र­प्र­भ­वत्वं मृता­व­स्था­या­म­द­र्श­नात् । अतो देहा­ति­रि­क्त­स्त­द­धि­ष्ठा­तेति भावः ।

चैतन्यादीनां देहधर्मत्वाभावे हेत्वन्तरमाह -
देहेति ।
विमता न देहधर्माः परै­र­नु­प­ल­भ्य­मा­न­त्वाद्ये तद्धर्मास्ते परैरुपलभ्यन्ते यथा रूपादय इत्यर्थः ।

इतश्च तेषां न देहधर्मतेत्याह -
अपिचेति ।

नहि धर्म­ध­र्मि­त्व­म­न्व­य­मा­त्रा­द्यु­क्त­म­ति­प्र­स­ङ्गा­दतो व्यतिरेकोऽपि वाच्यः सोऽत्र सन्दिग्ध इति न धर्म­ध­र्मि­ते­त्याह -
सतीति ।

व्यतिरेकसन्देहे हेतुमाह -
पतितेऽपीति ।

तत्रापि न प्रमा­ण­मि­त्या­श­ङ्क्याह -
संशयेति ।
न ताव­त्त­वा­द­र्श­न­म­भा­व­नि­श्चा­यकं प्रत्यक्षस्यैव प्रामाण्यान्मम त्वात्मनो देहा­न्त­र­स­ञ्चा­रा­त्त­द्ध­र्म­दृ­ष्टि­रिति सन्दिह्यते तावन्मात्रेण चैतन्यादीनां देह­ध­र्म­त्वा­सि­द्धि­रा­व­यो­रु­भ­यो­रपि निश्चि­ता­न्व­या­दे­रेव साध­क­त्वा­वि­वा­दा­दिति भावः ।

उपलब्धिवदिति पदं चोद्यमुखेन व्याख्यातुं पृच्छति -
किमात्मकमिति ।
तत्किं भूत­च­तु­ष्ट­या­ति­रिक्तं न वेति विमर्शार्थः ।

अप्रकृतेऽर्थे कथं प्रश्नः स्यात् , तत्राह -
यस्येति ।

आद्ये सिद्धा­न्त­वि­रो­ध­माह -
नहीति ।

धर्म­ध­र्मि­ण­स्ता­दा­त्म्या­भे­द­प­क्ष­मा­ल­म्बते -
यदिति ।
भूत­प­रि­णा­म­त्वा­च्चै­त­न्यस्य रूपा­दि­व­द्भू­ते­भ्योऽ­र्था­न्त­र­त्वा­भा­वान्न व्यति­रे­का­प­त्ति­रिति भावः ।

भूतपरिणामत्वं चैतन्यस्य रूपा­दि­वै­ष­म्योक्त्या प्रत्युक्तमिति मन्वानो दोषान्तरमाह -
तदिति ।

उक्तरूपं चेच्चैतन्यं तर्हि स्वात्मानं प्रति भूतभौतिकानां विषयत्वान्न तद्धर्मत्वेन तदभेदं प्रति­प­द्ये­ते­त्यत्र हेतुमाह -
स्वात्मनीति ।
असिधारा स्वात्मानं छिन­त्ती­ति­व­दे­कत्र विष­य­वि­ष­यि­त्वा­यो­गा­दिति हेत्वर्थः । किंच यो यस्य धर्मः स न तत्साधको यथा रूपादिः ।

तथाच चैतन्यस्य भूत­भौ­ति­क­सा­ध­क­त्वा­देव तद­ति­रे­क­सि­द्धि­रि­त्याह -
नहीति ।

रूपा­दि­दृ­ष्टान्तं स्पष्टयति -
नहीति ।

तर्हि चैतन्यस्यापि साधकत्वं मा भूत् , तत्राह -
विषयीति ।

सूत्रावयवं फलितपरत्वेन योजयति -
अतश्चेति ।

भवतु तर्हि भूते­भ्योऽ­ति­रिक्ता स्वत­न्त्रो­प­ल­ब्धि­स्त­थापि कथमात्मसिद्धिः, तत्राह -
उपलब्धीति ।

क्षणि­क­त्वा­त्तस्या नित्या­त्म­रू­प­त्व­म­यु­क्त­मि­त्या­श­ङ्क्या­जा­न­त­स्त­द्भे­दा­भा­वा­द्वि­ष­यो­प­रा­गा­त्त­द्भा­ना­द­सा­वे­वा­नित्यो नोपलब्धिरित्याह -
नित्यत्वं चेति ।

किञ्च स्थूल­दे­हा­भि­मा­न­ही­नस्य स्वप्ने प्रत्य­भि­ज्ञा­ना­द­ति­रि­क्ता­त्म­सि­द्धि­रि­त्याह -
अहमिति ।

स्वप्नेऽपि स्थूल­दे­हा­न्त­र­स्यै­वो­प­ल­ब्धृ­त्व­मि­त्या­श­ङ्क्याह -
स्मृत्यादीति ।
उप­ल­ब्धृ­स्म­र्त्रो­र्भेदे सत्य­न्यो­प­ल­ब्धेऽ­न्यस्य स्मृति­रि­च्छा­द­यश्च नेति न तयो­र­न्य­ते­त्यर्थः ।

दूषितमपि दोषान्तरं वक्तुमनुभाषते -
यत्त्विति ।

तद्भा­वा­भा­वि­त्व­व्या­ख्या­नेन प्रत्या­ख्या­त­मे­त­दि­त्युक्तं स्मारयति -
तदिति ।

अधिकं दोषं दर्शयति -
अपिचेति ।

अन­न्य­था­सि­द्धा­व­न्व­य­व्य­ति­रेकौ वाच्यौ देहस्य च चैत­न्या­न्व­य­व्य­ति­रे­का­व­धि­ष्ठा­न­वि­ष­य­त­याऽ­न्य­था­सि­द्धा­विति सदृष्टान्तं साधयति -
सत्स्विति ।

उपकरणत्वमपि देहस्योपलब्धौ न सिध्यतीत्याह -
नचेति ।
उपलब्धिर्न देहजन्या तस्मि­न्न­व्या­प्रि­य­मा­णेऽपि सत्त्वा­द­र्था­न्त­र­वत् । जागरे तु व्यञ्जकजनकतया कथ­ञ्चि­दु­प­यो­ग­म­ङ्गी­कृ­त्या­त्य­न्त­मि­त्यु­क्तम् । स्वप्ने द्रष्टर्यहं पश्या­मी­त्या­द्य­बा­धि­ता­ध्य­क्षस्य स्थूल­दे­हा­का­र­ही­नस्य देहा­ति­रि­क्ता­त्म­वि­ष­य­त्वान्न देहा­त्म­वा­द­सि­द्धि­रिति भावः ।

अनु­मा­ना­द्य­प्रा­माण्यं तु प्रति­ज्ञा­मा­त्र­मिति मत्वोपसंहरति -
तस्मादिति ॥ ५४ ॥

देहभावे भवतश्चैतन्यस्य तद्भा­वेऽ­प्य­भा­व­व­दु­द्गी­था­दि­भावे भवत उपासनस्य तद्भा­वेऽ­प्य­भा­व­मा­श­ङ्क्याह -
अङ्गेति ।

अवा­न्त­र­स­ङ्ग­ति­माह -
समाप्तेति ।

उद्गी­था­द्य­ङ्गा­श्रि­तो­पा­स­नानि विषय इति तत्त­द्वा­क्योक्त्या दर्शयति -
ओमित्येतदिति ।
इदं वाक्यं व्याप्ते­श्चे­त्ये­त­द­धि­क­रणे व्याख्यातम् । लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथि­व्या­दि­दृष्ट्या पञ्चविधं सामो­पा­सी­ते­त्यर्थः । ‘पृथिवी हिङ्कारोऽग्निः स्तावोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्निधनम्’ इति । उक्थं कर्माङ्गं शस्त्रमिति वीप्सया यत्प्रजा वदन्ति तदिदमेव येयं पृथिवीत्युक्थे पृथि­वी­दृ­ष्टि­विधिः । चितोऽग्निः कर्मा­ङ्ग­भू­त­स्त­त्रायं लोक इति दृष्टिरित्यर्थः ।

उद्गी­था­दि­प्र­त्य­या­नु­क्ता­न­धि­कृत्य प्रक­र­णा­दु­द्गू­था­दि­श­ब्द­सा­धा­र­ण्याच्च संशयमाह -
त इति ।

उद्गीथादीनां सर्व­शा­खा­स्वै­क्या­दु­पा­स्ति­व्य­व­स्था­श­ङ्का­भा­वा­द­ना­र­भ्य­मि­द­म­धि­क­र­ण­मि­त्या­श­ङ्क्याह -
प्रतीति ।
नीचै­ष्ट्वा­दि­स्व­र­भे­दा­द­ध्य­य­न­ध­र्म­भे­दा­च्चो­द्गी­था­दे­रपि भेदमङ्गीकृत्य विद्याविचार इत्यर्थः । अत्र हि श्रौतेन सामान्येन प्राकरणिकस्य विशेषनियमस्य बाधा­त्स­र्व­शा­खा­वि­हि­त­प्र­धा­न­क­र्मा­ङ्ग­त्वेन प्रयु­क्त­स­र्वो­द्गी­था­दि­वि­शे­षेषु तदा­ल­म्ब­नो­पा­स्ती­ना­मु­प­सं­हा­रोक्त्या सर्व­शा­खा­भि­र­नु­ष्ठे­य­त्वो­क्ते­र्वा­क्या­र्थ­धी­हे­तो­रेव चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्व­प­क्षेऽ­नु­ष्ठा­न­व्य­व­स्था­सिद्धिः सिद्धान्ते तद­व्य­व­स्थे­त्या­स्थाय पूर्वपक्षयितुं विमृशति -
किमिति ।

यथा देहा­त्म­नो­र्भे­दा­दा­त्म­धर्मा देहे न भव­न्त्ये­व­मे­क­शा­खा­ग­तो­द्गी­थ­ध­र्माणां भिन्न­शा­खो­द्गी­थादौ न प्राप्तिरिति पूर्वपक्षमाह -
स्वशाखेति ।

विद्याचित एवे­त्ये­व­श्रुत्या मनश्चिदादीनां क्रिया­प्र­क­र­ण­भ­ङ्गेन पुरु­षा­र्थ­त्व­व­दि­हा­प्यु­द्गी­था­दि­श्रु­ते­र्ब­ली­य­स्त्वा­त्तया प्रक­र­ण­भ­ङ्गा­न्ना­स्त्यु­पा­स्तीनां व्यवस्थेत्याह -
कुत इति ।

उद्गी­था­दि­सा­मा­न्य­श्रुतेः प्रक­र­णो­प­नी­त­वि­शे­षा­का­ङ्क्ष­त्वे­ना­बा­ध­क­त्वा­दु­पा­स्ति­व्य­वस्था युक्तेति मत्वाह -
संनिधानादिति ।

प्रकरणं विवृणोति -
उद्गीथमिति ।
उद्गी­थो­क्त­चि­त्या­ग्नीनां प्रत्य­या­ल­म्ब­नानां वेद­त्र­यो­क्त­प्र­धा­न­क­र्म­स्व­ङ्ग­त्वेन प्रयुक्तानां प्रतिशाखं स्वारादिभेदेन भेदा­दु­द्गी­था­दि­श्रु­तिभिः प्रत्य­या­ल­म्ब­ना­ना­मु­द्गी­था­दीनां सामा­न्ये­नो­पा­त्तानां विशे­षा­का­ङ्क्षायां तत्त­च्छा­खा­स्थ­प्र­धा­न­क­र्मा­ङ्ग­त्वेन प्रयु­क्तो­द्गी­था­दि­वि­शे­षे­षू­द्गी­थ­मु­पा­सी­ते­त्या­दि­प्र­त्ययाः प्रक­र­णा­न्नि­य­म्यन्त इत्यर्थः ।

प्रक­र­णा­द्व्य­व­स्थायां यच्छाखास्थं यदुपासनं तत­च्छा­खि­भि­रे­वा­नु­ष्ठे­य­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्राक्षराणि योजयति -
तुशब्द इति ।

हिशब्दोपात्तं हेतुं प्रश्नपूर्वकमाह -
कुत इति ।
सामा­न्य­प्र­वृ­त्त­श्रु­ते­र्वि­शे­षा­का­ङ्क्षायां प्रक­र­णा­द्वि­शे­ष­नि­यमो युक्तः ।

प्रकृते तूद्गी­था­दि­सा­मा­न्ये­षू­पा­स्ति­स­म्भ­वेन विशे­षा­का­ङ्क्षा­भावे श्रौतसामान्येन प्राक­र­णि­क­वि­शे­ष­नि­य­म­बा­धा­त्स­र्व­शा­खा­स्थ­प्र­धा­न­क­र्मा­ङ्ग­त्वेन विनि­यु­क्तो­द्गी­था­दि­वि­शेषु तदा­ल­म्ब­न­धि­या­मु­प­सं­हारः स्यादिति हेतुं विवृणोति -
स्वेति ।

प्रकरणेन विशेषार्थे सामा­न्य­श्रु­त्य­बा­धेऽपि सङ्कोचे माना­भा­वा­त्सा­मा­न्य­द्वारा सर्व­वि­शे­ष­गा­मि­श्रु­ते­रे­क­स्मि­न्वि­शेषे नियमनं पीडैवेति मत्वोक्तम् -
पीडितेति ।

त्वत्पक्षे श्रुत्या प्रक­र­ण­बा­ध­व­न्म­त्प­क्षेऽपि तेन श्रुति­र्बा­ध्य­ता­म­वि­शे­षा­दि­त्या­श­ङ्क्याह -
संनिधानादिति ।

सामा­न्य­स्यो­पा­स्य­त्वा­यो­गा­द्वि­शे­षा­का­ङ्क्षायां तदर्थकं प्रकरणं कथं श्रुत्या बाध्य­मि­त्या­श­ङ्क्याह -
नचेति ।

तथापि प्रतिवेदं स्वरा­दि­भे­दे­नो­द्गी­था­दि­भे­दा­दु­पा­स्ति­व्य­व­स्यो­क्ते­त्या­श­ङ्क्याह -
तस्मादिति ।
श्रुतिप्राबल्यं तच्छब्दार्थः ॥ ५५ ॥

उद्गी­था­दि­श्रु­त्य­व­ष्ट­म्भेन यत्र यत्रो­द्गो­था­दि­रु­क्त­स्तत्र तत्र सर्वत्रैव क्वाचित्कस्यापि प्रत्य­य­स्या­नु­वृ­त्ति­रि­त्यु­क्तम् । इदा­नी­मु­दा­ह­र­णे­ना­पी­म­मर्थं समर्थयति -
मन्त्रादिवदिति ।

वाशब्दार्थं कथयति -
अथवेत्यादिना ।

हेतु­म­व­ता­र्या­क्ष­रा­र्थ­माह -
मन्त्रेति ।

तत्र मन्त्रोदाहरणं दर्शयति -
येषामिति ।
तण्डुलपेषणार्थं कुट­रु­र­सी­त्य­श्मा­दा­न­मन्त्रो येषां शाखिनां नाम्नातः कुक्कुटोऽसि मधुजिह्व इत्ययमेव मन्त्रः समाम्नायते तथापि तेषां प्रयोगसूत्रेण विनियोगे सोऽपि मन्त्रो दृश्यते तेन शाखा­न्त­रो­त्प­न्नस्य मन्त्रस्य शाखान्तरे सङ्ग्र­होऽ­स्ती­त्यर्थः ।

कर्म­णा­मु­दा­ह­र­ण­माह -
येषामपीति ।
मैत्रायणीयानां समिधो यजति तनूनपातं यजतीडो यजति बर्हिर्यजति स्वाहाकारं यजतीति समिदादयः प्रयाजा नाम्नातास्तथापि तेषु सङ्ख्या­दि­गु­ण­वि­धि­रा­म्ना­यते । द्वादश मासाः पञ्चर्तव इत्यत्र हेम­न्त­शि­शि­र­यो­रे­की­क­र­णेन पञ्चर्तवः प्रसिद्धाः । तथा चर्तु­व­त्प­ञ्च­स­ङ्ख्याकाः प्रयाजाः समानत्र समानदेशे होतव्या इति यावत् । तत्र शाखा­न्त­रो­त्प­न्न­क­र्मणां शाखान्तरे सङ्ग्रहो दृष्टोऽन्यथा तत्र गुण­वि­ध्य­यो­गा­दि­त्यर्थः ।

गुणोदाहरणमाह -
तथेति ।
‘अग्नीषोमीयं पशुमालभेत’ इति यजु­र्वे­दि­ना­म­ग्नी­षो­मीयः पशुराम्नायते नाज इति जातिविशेषस्तेन विशे­षा­श्र­व­णाद्यः कश्चि­त्प­शु­रा­ल­म्भ­नीय इति प्राप्ते ‘छागो वा मन्त्रवर्णात् ‘ इतिसूत्रेण च्छागा­दे­र्हो­मा­र्थ­म­नु­वाक्यं पठ होत्र­रि­त्य­ध्व­र्यु­प्रै­षार्थं लिङ्गस्य नियमकारणस्य भावा­च्छा­गोऽ­ग्नी­पो­मीयः पशुरिति स्थितम् । अतश्च गुणस्यापि प्रैष­म­न्त्र­लि­ङ्गा­दु­प­स­ङ्ग्रहो दृष्ट इत्यर्थः ।

मन्त्रा­णा­मु­दा­ह­र­णा­न्त­र­माह -
तथेति ।
वेदा­न्त­र­श­ब्दा­भ्या­मु­द्गा­त्र­ध्व­र्यु­वे­दा­वु­च्येते ।

तत्रै­वो­दा­ह­र­णा­न्त­र­माह -
तथेति ।
यो जातो बाल एव सन्प्रथमो गुणैः श्रेष्ठो मन­स्वा­न्वि­वे­क­वान्स जनास इन्द्र इति शेषः । जनासो जनास्ते सम्बोध्यन्ते स इन्द्र एवंविध इति यावत् । अध्वर्यवे तत्क­र्तृ­क­प्र­यो­गार्थं सजनीयं ‘स जनासः’ इत्ये­ते­नो­प­ल­क्षितं सूक्तं शस्यं शंसनीयमित्यर्थः ।

दृष्टा­न्ता­नु­वा­देन दार्ष्टान्तिकं निगमयति -
तस्मादिति ।
शाखा­न्त­रो­त्प­न्नस्य शाखान्तरे सङ्ग्रहबाहुल्यं तच्छब्दार्थः ॥ ५६ ॥

उद्गी­था­द्यु­पा­सनं तत्त­द­ङ्ग­वि­शे­षा­ल­म्बनं नेत्यु­क्ति­प्र­स­ङ्गेन वैश्वा­न­रो­पा­स्ति­रपि तत्त­द­ङ्ग­वि­शे­षा­ल­म्बना नेति साधयति -
भूम्न इति ।
सैव हीत्यत्र तद्य­त्त­त्स­त्य­मिति तच्छब्देन प्रकृ­त­प­रा­म­र्शा­द्वि­द्यै­क्य­मु­क्तम् ।

अत्र तु तद्वदभेदे हेत्व­भा­वा­द­ग­ता­र्थ­तेति मत्वा व्यस्तस्य समस्तस्य च वैश्वा­न­र­स्यो­पा­सनं श्रौतमुदाहरति -
प्राचीनेति ।

तत्र प्रश्न­प्र­ति­व­च­न­रू­प­वा­क्येन व्यस्तो­पा­स्ति­मु­प­न्य­स्यति -
व्यस्तेति ।

वैश्वानराधिकरणे व्याख्यातं वाक्यमनुस्मृत्य समस्तोपास्तिं दर्शयति -
तथेति ।

द्विवि­धा­मु­पा­स्ति­म­धि­कृ­त्यो­भ­यत्र विधि­फ­ल­श्रु­ति­भ्या­मे­क­वा­क्य­त्वो­प­प­त्तेश्च संशयमाह -
तत्रेति ।
एकवाक्यतालाभेन समस्तस्यैव वैश्वा­न­र­स्यो­पा­स्ति­रि­त्युक्त्या वाक्या­र्थ­धी­हे­तो­रे­वा­त्रापि चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे वाक्यभेदः सिद्धान्ते तदै­क्य­मि­त्य­ङ्गी­कृत्य पूर्वपक्षार्थं विमृशति -
किमिति ।

उद्गी­था­दि­श्रुत्या संनिधिं बाधि­त्वो­द्गी­था­द्यु­पा­स्तीनां सर्व­शा­खा­सू­प­सं­हा­रो­क्ति­व­द­त्रापि व्यस्तोपासनस्य विधिफलयोः श्रुतेः सम­स्तो­पा­स्ति­सं­नि­धि­प्राप्तं स्तुत्यर्थत्वं बाधित्वा विधेयतेति पूर्वपक्षमाह -
प्रतीति ।
सुतमित्यभिषवस्य कण्डनस्य कर्मतापन्नं सोमरूपम् । प्रसु­त­मा­सु­त­मि­त्य­व­स्था­वि­शे­षा­पेक्षं तस्यैव विशेषणम् । सोम­या­ग­क­र­ण­स­म्प­त्ति­स्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वा­न­र­स्ये­त्या­दि­वा­क्य­प्र­क­र­णाभ्यां सम­स्तो­पा­स­ना­ङ्ग­त्वेन तदन्तर्भावेऽपि व्यस्तो­पा­स­ना­ना­म­त्त्यन्नं पश्यति प्रियमित्यादिना प्रत्यवयवं विधिफलश्रुतेः स्वात­न्त्र्ये­णापि विधानं कल्प्यं तेनोभयथोपासनं कार्यमिति भिन्ना­न्ये­वै­तानि वाक्यानीत्यर्थः ।

सिद्धा­न्त­सू­त्र­म­व­तार्य भूम्नो ज्यायस्त्वमिति प्रतिज्ञां व्याचष्टे -
तत इति ।

सम­स्तो­पा­स­न­व­द्व्य­स्तो­पा­स­न­म­पी­ष्यतां, तत्राह -
नेति ।

तत्र दृष्टान्तमादाय विभजते -
क्रतुवदिति ।
साम­स्त्ये­ने­त्यौ­त्स­र्गि­कोक्तिः ।

प्रयाजादीनां प्रत्ये­क­म­प्र­यो­गेऽपि नित्यादीनां किञ्चि­द्गु­ण­व­ता­मपि प्रयो­गोऽ­स्ती­त्या­शङ्क्य काम्येषु नैवमित्याह -
नापीति ।

सर्वा­ङ्गो­पे­त­का­म्य­क्र­तो­रि­ष्ट­त्व­व­द्वै­श्वा­न­रो­पा­स­न­स्यापि समस्तस्यैव प्राधा­न्ये­ष्ट­ते­त्याह -
तद्वदिति ।

हेतुं प्रश्नपूर्वकमेव व्याकरोति -
कुत इति ।

साक्षा­ज्ज्या­य­त्त्वो­क्ति­र­दृ­ष्टे­त्या­श­ङ्क्याह -
एकेति ।

वाक्य­प्र­क­र­णा­भ्या­मे­क­वा­क्यत्वं साधयति -
एकं हीति ।

विहितानामपि व्यस्तो­पा­स्तीनां सम­स्तो­पा­स्त्य­न्त­र्भा­वान्न पृथक्कार्यतेति मत्वाह -
तथाहीति ।

व्यस्तो­पा­स्त्य­प­वा­द­श्रु­तेश्च सम­स्त­स्यै­वो­पा­स­नस्य ज्याय­स्त्व­मि­त्याह -
मूर्धेति ।

समस्तोपासने वैफल्यान्न तस्य ज्याय­स्त्व­मि­त्या­श­ङ्क्याह -
पुनश्चेति ।

व्यस्तोपासनेऽपि फल­श्र­व­ण­म­स्ती­त्युक्तं, तत्राह -
यत्त्विति ।

व्यस्तो­पा­स्तीनां प्रक­र­ण­वा­क्याभ्यां सम­स्तो­पा­स्त्य­न्त­र्भा­वेन प्रया­ज­द­र्श­पू­र्ण­मा­स­व­दे­क­प्र­यो­गत्वे सिद्धे प्रधा­न­त­द­ङ्ग­फ­ला­ना­म­र्थ­वा­द­ग­ता­ना­मे­की­क­र­णेन समस्तोपास्तिरेव ज्यायसीत्याह -
तदिति ।

प्रत्य­व­य­व­मु­पा­स्ति­वि­धि­श्रु­ते­र्व्य­स्तो­पा­स्ति­र्भा­ती­त्यु­क्त­मि­त्या­श­ङ्क्याह -
तथेति ।
औप­म­न्य­वा­द्य­व­ग­त­रू­पा­नु­वा­देन सम­स्तो­पा­स्ति­रे­वात्र विधि­त्सि­ते­त्यर्थः ।

स्वप­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।

एक­दे­शि­व्या­ख्या­म­नूद्य दूषयति -
केचित्त्विति ।
किल­का­रोऽ­नि­च्छा­याम् ।

एका­वा­क्य­ता­भ­ङ्गेन वाक्यभेदं कृत्वा व्यस्तो­पा­स­ना­न्यपि पृथ­ग्वि­धी­य­न्ता­मि­त्या­श­ङ्क्याह -
मूर्धेति ।

यदोभयथोपास्तिः सिद्धान्तस्तदा व्यस्तो­पा­स्ति­रे­वात्र समस्तोपास्तिरेव वा पूर्वपक्षः स्यान्नाद्य इत्याह -
स्पष्टे चेति ।
द्वितीयश्च तवायुक्तो वाक्यो­प­क्र­म­स्थ­व्य­स्तो­पा­स्ति­धी­वि­रो­धा­त्स­म­स्तो­पा­स्ति­वि­ध्यर्थं परा­भि­प्रा­या­नु­वादे सिद्धा­न्ता­द­वि­शे­षा­दिति भावः ।

समस्तोपास्तिरेव कार्या न व्यास्तो­पा­स्ति­रि­त्यत्र किमपेक्ष्य सौत्रं ज्यायस्त्ववचनं, तत्राह -
सौत्रस्येति ।
सम­स्तो­पा­स्ते­र्मा­न­व­त्त्वोक्त्या व्यस्तो­पा­स्ते­र्वा­क्य­ता­त्प­र्या­वि­ष­य­त्वे­ना­प्रा­मा­णि­कत्वं द्योतयितुं सूत्रे भूम्नो ज्याय­स्त्व­मु­क्तम् । अतः समस्तोपास्तिरेव कार्ये­त्ये­क­वा­क्यता सिद्धेत्यर्थः ॥ ५७ ॥

भिन्न­श्रु­ती­ना­मपि सुते­ज­स्त्व­प्र­भृ­तीनां समस्तोपासनं ज्याय­श्चे­त्तर्हि सर्वो­पा­स्ती­ना­मपि भिन्नश्रुतीनां समस्तोपासनं ज्यायः स्यादि­त्या­श­ङ्क्याह -
नानेति ।

दह­र­वि­द्या­दि­ब्र­ह्मो­पा­स­नानि प्राणोपासनानि च विद्या­भे­दा­द­भि­न्नानि वा शब्दा­दि­भे­दा­द्भि­न्नानि वेति सन्देहे पूर्वन्यायेन पृर्वपक्षयति -
पूर्वस्मिन्निति ।

शाण्डि­ल्य­वि­द्या­दी­ना­म­भेदे हेत्वन्तरमाह -
अपिचेति ।

तत्र सदृष्टान्तं हेतुमाह -
वेद्यं हीति ।

तत्र तत्र श्रुतिषु सत्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­वि­शि­ष्ट­ब्र­ह्म­भे­दा­द्वि­द्या­भे­दोऽपि नास्ती­त्या­शङ्क्य ब्रह्मणः सिद्ध­त्वा­त्त­दु­पाधौ तद्गुणानामपि व्यव­स्था­ना­द्युक्तं वेद्यै­क्य­मि­त्याह -
वेद्यश्चेति ।
श्रुति­ना­ना­त्वेऽपि तत्त­दा­ध्ये­य­गु­ण­श्रु­ति­भे­देऽ­पीति यावत् ।

ब्रह्मोपासनेपु वेद्याभेदेऽपि कथ­म­ब्र­ह्मो­पा­स­ने­ष्वि­त्या­श­ङ्क्याह -
तयेति ।

तदेकत्वेऽपि विद्यानानात्वं किं न स्यादि­त्या­शङ्क्य रूपा­भे­दा­न्मै­व­मि­त्याह -
वेद्येति ।

विद्यैक्यं चेदेकत्र विहितायास्तस्या नान्यत्र विधा­न­म­र्थ­व­दि­त्या­श­ङ्क्याह -
श्रुतीति ।

ब्रह्म­प्रा­प्ति­फ­ल­सं­यो­ग­स्यो­पा­स्य­ब्र­ह्म­रू­प­प्र­कृ­त्य­र्थो­पा­स­ना­भ्या­म­वि­च्छि­न्न­प्र­त्य­या­र्थ­प्र­य­त्न­चो­द­ना­याश्च ब्रह्म­वि­द्या­स­मा­ख्या­या­श्चै­क्या­द्वि­द्यैक्ये फलितमाह -
तस्मादिति ।
शब्दा­दि­भे­दा­द्वि­द्या­भे­दोक्त्या वाक्या­र्थ­धी­हे­तो­रे­वा­त्रापि चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे पूर्व­व­द्वि­द्यै­क्यम् ।

सिद्धान्ते तद­यो­गा­त्त­न्ना­ना­त्व­मिति सिद्धवत्कृत्य सिद्धान्तयति -
एवमिति ।

सूत्राक्षराणि योजयति -
वेद्येति ।

रूपा­भे­दा­द­भे­दो­क्तेर्न विद्या­ना­ना­त्व­मि­त्याह -
कुत इति ।

सौत्र­हे­तु­मुक्त्वा शब्दभेदं विभजते -
शब्दादीति ।

तद्भेदेऽपि मा भूदु­पा­स्ति­ना­ना­त्व­मि­त्या­श­ङ्क्याह -
शब्देति ।
पुरस्तादिति पूर्व­त­न्त्रोक्तिः । भिन्न­भा­वा­र्थ­वि­षयः शब्दः शब्दान्तरम् । यथा यजति ददाति जुहोतीति । तस्मिन्सति कर्मभेदः कृता­नु­ब­न्ध­त्वा­द्धा­त्व­र्था­व­च्छेदे भिन्न­धा­त्व­र्था­व­च्छि­न्न­तया विधे­र्भे­दा­दि­त्यर्थः । शब्दा­न्त­रा­धि­क­रणं तु सर्व­वे­दा­न्त­प्र­त्य­या­धि­क­र­णेऽ­नु­क्रा­न्तम् ।

सौत्रमादिशब्दं व्याकरोति -
अादीति ।
गुणा­द­योऽ­पी­त्या­दि­ग्र­ह­णेन संयो­ग­रू­प­स­मा­ख्या­दयो गृह्यन्ते । तत्त­त्प्र­क­र­णो­क्त­गु­ण­जा­त­वि­शि­ष्टो­पा­स्य­रू­प­भे­दा­त्प्र­ति­विद्यं फल­भे­दा­न्ना­म­धे­य­भे­दा­त्कौ­ण्ड­पा­यि­व­त्कृ­त्स्नो­प­सं­हा­र­स्या­श­क्या­नु­ष्ठा­न­त्वाच्च विद्या­ना­ना­त्व­मि­त्यर्थः ।

सत्यपि शब्द­भे­देऽ­नु­ब­न्ध­भे­दा­भा­वान्न विद्या भिन्नेति शब्द­भे­द­मा­क्षि­पति -
नन्विति ।

वेदो­पा­सी­ते­त्या­दि­श­ब्दानां क्वचिज्ज्ञानं क्वचि­द्ध्या­न­मि­त्य­र्थ­भे­द­मा­शङ्क्य ज्ञान­स्या­वि­धे­य­त्वा­द्वि­धी­य­मा­न­मु­पा­स­न­भे­वे­त्याह -
अर्थान्तरेति ।

अनुबन्धभेदाभावे फलितमाह -
तदिति ।

क्रिया­त्वा­वि­शे­षेऽपि याग­दा­न­हो­मा­ना­म­वा­न्त­र­भे­द­व­द्वे­दो­पा­सी­ते­त्या­दीनां मनो­वृ­त्ति­त्वा­वि­शे­षेऽपि तत्त­त्प्र­क­र­णे­षू­त्प­त्ति­शि­ष्ट­त­त्त­द्गु­ण­वि­शि­ष्ट­वे­द्य­रू­प­भे­दा­द्वि­शि­ष्टो­पा­स्त्य­नु­बन्धो भिद्यत इत्याह -
नेत्यादिना ।

गुणानामपि ब्रह्मोपाधौ व्यव­स्था­ना­न्ना­नु­ब­न्ध­भेद इत्याशङ्क्य वस्तु­नि­ष्ठ­त्वा­भा­वा­दु­पा­स्ति­वा­क्यानां तत्तत्फलाय क्वचि­त्के­न­चि­द्गु­णेन विशि­ष्ट­ब्र­ह्मो­पा­स्ति­वि­धे­र­नु­ब­न्ध­भेदः स्यादि­त्य­भि­प्रे­त्याह -
एकस्यापीति ।

ब्रह्मण्युक्तं न्यायं प्राणेऽपि दर्शयति -
तथेति ।

प्रतिप्रकरणं गुणभेदोक्तौ फलितमाह -
एवमिति ।

यत्तु श्रुतिनानात्वं गुणान्तरपरमिति तद्दूषयति -
नचेति ।

गुणा­न्त­र­वि­धि­प­रत्वे वाऽप्रा­प्ता­ने­क­गु­ण­प­र­तया वाक्यभेदान्न युक्तेयं व्यवस्थेति दोषान्तरमाह -
अनेकत्वाच्चेति ।

विद्यैक्ये सत्ये­क­त्रो­क्तानां गुणा­ना­म­न्य­त्रो­क्ति­र­युक्ता पौनरुक्त्यात् । विद्याभेदे तु नैवं विद्या­न्त­र­स्यापि तद्गुणत्वाय पुन­रु­क्ति­स­म्भ­वा­द­तोऽपि विद्या­ना­ना­त्व­मि­त्याह -
नचेति ।

तत्रैव हेत्वन्तरमाह -
प्रतीति ।

सर्वेषु लोकेषु कामचारो भवति सर्वे­ष्वा­त्म­स्व­न्न­मत्ति जय­ती­माँ­ल्लो­का­नि­त्या­दि­फ­ल­सं­यो­ग­भे­दा­दा­का­ङ्क्षा­भा­वा­दे­क­वा­क्य­त्वा­यो­गा­द्वि­द्या­ना­ना­त्व­मि­त्यर्थः । यत्तु पूर्वन्यायेन सम­स्ते­पा­स्ते­र्ज्या­य­स्त्व­मुक्तं तत्प्रत्याह -
नचेति ।

अत्रेति शाण्डि­ल्या­दि­वि­द्योक्तिः । यत्तु वेद्यै­क्या­द्वि­द्यै­क्य­मिति, तत्राह -
वेद्येति ।
सर्व­गु­णा­नु­प­सं­हृत्य प्रत्य­य­क­र्तु­र­धि­का­रि­णोऽ­स­म्भ­वान्न विद्यै­क्य­मि­त्यर्थः ।

शब्दादिभेदकृतं विद्या­भे­द­मु­प­सं­ह­रति -
तस्मादिति ।

शब्दा­दि­भे­दा­द्वि­द्या­भेदे सति कथं सर्व­वे­दा­न्त­प्र­त्या­या­धि­क­रणे विद्यै­क्य­मुक्तं, तत्राह -
स्थिते चेति ।
शब्दा­दि­भे­दा­द्वि­द्या­भेदे सिद्धे सति सर्व­शा­खा­ग­त­त­त्त­द्ब्र­ह्म­ज्ञानं प्राणदानं च भिन्नमेवेति शङ्किते सर्व­वे­दा­न्त­र्गतं तद्वि­ज्ञा­न­मे­क­मि­त्यु­क्त­म­तोऽ­स्या­धि­क­र­णस्य पादा­दा­वे­वा­र्थिकी सङ्गतिरत्र तु प्रस­ङ्गा­दु­क्त­मि­त्यर्थः ॥ ५८ ॥

विद्या­भे­द­मुक्त्वा तदनुष्ठानभेदं वद­न्ना­दा­व­ह­ङ्ग्र­हो­पा­स्ती­ना­म­नु­ष्ठा­न­प्र­का­र­माह -
विकल्प इति ।

अह­ङ्ग्र­हो­पा­स­ना­न्य­धि­कृत्य यथा­का­म्य­वि­क­ल्प­यो­र्वि­द्या­ना­ना­त्व­सा­म्या­द­धि­क­र­ण­स­ङ्ग­ति­गर्भं संशयमाह -
स्थित इति ।
अह­ङ्ग्र­हो­पा­स्तीनां विक­ल्पे­ना­नु­ष्ठा­नोक्त्या वाक्या­र्थ­धी­हे­तो­रे­वो­क्ते­रत्र पादादिसङ्गतिः । पूर्वपक्षे स्वेच्छया प्रवृ­त्ते­र­नु­ष्ठा­ना­नि­यमः ।

सिद्धान्ते व्रीह्यादिष्विव तन्नियतिरिति मत्वा याथा­का­म्ये­ना­नु­ष्ठा­न­मिति पूर्व­प­क्ष­यि­ष्य­न्नादौ समुच्चयनियमं निरस्यति -
तत्रेति ।

उपासनानां भिन्नत्वेऽपि समुच्चयनियमे नियमो युक्तो नित्या­ग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दि­व­दिति शङ्कते -
नन्विति ।

उपास्तीनां काम्य­त्वा­न्मै­व­मि­त्याह -
नेत्यादिना ।

अग्निहोत्रादिषु समु­च्च­य­स्त­त्रे­त्युक्तः । तर्हि किमिति विकल्पनियमो नाश्रीयते, तत्राह -
नापीति ।

समु­च्च­य­वि­क­ल्प­यो­र्नि­य­मा­यो­गा­दि­च्छ­या­न्य­त­रोऽ­ङ्गी­क­र्तव्य इत्याह -
पारिशेष्यादिति ।
यथा व्रीहिभिरेव पुरोडाशे सिद्धे यवा न समुच्चीयन्ते कृत­क­र­ण­त्व­प्र­स­ङ्गात् ।

तथात्रापि ब्रह्म­प्रा­प्ति­फ­ल­म­वि­शिष्टं तदेकेनैवोपासनेन कृतं चेन्नावकाशः समुच्चयस्येति शङ्कते -
नन्विति ।

तदे­वा­वि­शि­ष्ट­फ­लत्वं स्पष्टयति -
तथाहीति ।

काम्य­द­र्श­पू­र्ण­मा­स­ज्यो­ति­ष्टो­मा­दि­व­त्फ­ल­भू­मा­र्थिनः समुच्चयः स्यादित्याह -
नेत्यादिना ।

विक­ल्प­स­मु­च्च­य­नि­य­म­नि­वृ­त्ति­फ­ल­मु­प­सं­हृत्य सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञां विभजते -
तस्मादित्यादिना ।

उक्तेऽर्थे प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -
कस्मादित्यादिना ।

ध्येय­सा­क्षा­त्का­रा­र्थ­मेव समु­च्च­या­ङ्गी­कारे का क्षतिः, तत्राह -
एकेनेति ।

अभी­ष्ट­फ­ल­घा­ति­त्वाच्च समुच्चयोऽत्र नास्तीत्याह -
अपिचेति ।

उपा­स्ते­र­दृ­ष्ट­द्वारा यागा­दि­व­त्फ­लो­पा­य­त्वो­प­प­त्ते­रु­पा­स्य­सा­क्षा­त्का­रा­पे­क्षैव नास्ती­त्या­श­ङ्क्या­ह­ङ्ग्र­हो­पा­स्तीनां साक्षा­त्का­र­सा­ध्य­फलं तथा­श्रु­ते­रि­त्याह -
साक्षादिति ।
यस्यो­पा­स­क­स्याद्धा साक्षादुपास्यं स्यान्न विचिकित्सा संशयोऽस्ति प्राप्नुयामहं फलं न वेति तस्य ब्रह्माप्तिः स्यादित्यर्थः । देवो भूत्वा जीवन्नेव साक्षात्कारेण देवभावमनुभूय पतिते देहे देवानप्येति प्राप्नो­ती­त्यर्थः ।

ऩ चाविशिष्टफलत्वे फलभूमार्थिनः समु­च्च­या­नु­ष्ठा­न­मु­पा­स्य­सा­क्षा­त्कारे तन्निमित्तं तत्प्राप्तौ च विशे­षा­भा­वा­दि­त्या­श­ये­नो­प­सं­ह­रति -
तस्मादिति ॥ ५९ ॥

अह­ङ्ग्र­हो­पा­स्ती­ना­म­नु­ष्ठा­न­प्र­का­र­मुक्त्वा प्रती­को­पा­स्तीनां तत्प्रकारमाह -
काम्यास्त्विति ।

अन­ह­ङ्ग्र­हा­ण्य­क­र्मा­ङ्गा­व­ब­द्धानि च मनो ब्रह्मे­त्यु­पा­सी­ते­त्ये­व­मा­दी­न्य­भ्यु­द­य­फ­ला­न्यु­पा­स­नानि विषयस्तेषु किं विकल्पनियमो याथाकाम्यं वेत्यु­भ­यो­प­पत्त्या संशये प्रती­को­पा­स्ती­ना­मु­पा­स्ति­त्वा­द­ह­ङ्ग्र­हो­पा­स्ति­व­द्वि­क­ल्प­नि­यमे प्राप्ते तद्वैपरीत्यमाह -
अविशिष्टेति ।
अत्र प्रतीकोपास्तिषु पूर्व­वै­री­त्ये­ना­नु­ष्ठा­नस्य याथा­का­म्योक्त्या वाक्या­र्थ­धी­हे­तो­रेव कथ­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे व्रीह्या­दि­ष्वि­वा­नु­ष्ठा­न­नि­य­म­सिद्धिः ।

सिद्धान्ते फल­व­शा­द­त­न्नि­य­ति­रि­त्य­ङ्गी­कृत्य सूत्राक्षराणि योजयति -
यास्विति ।
स यः कश्चिदेतं वायुं दिशां गोत्वेन कल्पितानां वत्सं वेद नासौ पुत्र­म­र­ण­नि­मित्तं रोदं रोदनं रोदिति लभते किन्तु नित्य­म­वि­यु­क्त­व­त्सा­दि­गु­णो­पा­स­ना­ज्जी­व­त्पुत्रो भवतीत्यर्थः ।

अह­ङ्ग्र­हो­पा­स्तिपु साक्षा­त्का­र­सा­ध­न­त्व­मु­पा­धि­रिति मत्वा विशिनष्टि -
साक्षादिति ।
विम­ता­न्यु­पा­स­नानि यथा­का­म्ये­ना­नु­ष्ठे­या­न्य­वि­रु­द्ध­भि­न्न­फ­ल­त्वा­च्चि­त्रा­ज्यो­ति­ष्टो­मा­दि­व­दिति भावः ॥ ६० ॥

प्रती­को­पा­स्ती­ना­म­नु­ष्ठा­न­क्र­म­मु­क्त्वाऽ­ङ्गा­व­ब­द्धो­पा­स्तीनां क्रमं निरू­प­यि­ष्य­न्पू­र्व­प­क्ष­माह -
अङ्गेष्विति ।

अधिकरणस्य विषयं वक्तु­म­ङ्गे­ष्विति पदं व्याचष्टे -
कर्मेति ।

तदा­श्रि­तो­पा­स­नानि विषयत्वेन दर्शयति -
य इति ।

अङ्गद्वारा क्रतु­स­म्ब­न्धा­त्फ­ल­सं­नि­क­र्षाच्च संशय इत्याह -
किं त इति ।
तन्नि­र्धा­र­णा­नि­य­मा­धि­क­रणे पुरु­षा­र्थ­त्व­म­ङ्गो­पा­स्ती­ना­मु­क्त­मिह सत्यपि पुरुपार्थत्वे समुच्चये मानं नेत्युच्यते ।

अङ्गो­पा­स्ती­ना­म­ङ्ग­व­त्स­मु­च्च­य­नि­यमः किंवा प्रती­क­दृ­ष्टि­व­द्या­था­का­म्य­मिति संशयमनूद्य पूर्वा­धि­क­र­ण­व­द्य­था­रु­च्य­नु­ष्ठानं नेति पूर्वपक्षयति -
इति संशय इति ।
अत्र चाङ्गोपास्तिषु यथा­रु­च्य­नु­ष्ठा­नोक्त्या वाक्या­र्थ­धी­सा­ध­न­स्यैव चिन्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे समु­च्च­या­नु­ष्ठा­ना­त्फ­ल­बा­हु­ल्य­सिद्धिः । सिद्धान्ते समु­च्च­य­स्या­प्रा­मा­णि­क­त्वा­त्त­था­नु­ष्ठाने फल­बा­हु­ल्या­यो­गा­द्य­था­रु­च्य­नु­ष्ठाने प्रवृ­त्ति­सौ­क­र्य­मि­त्यु­पेत्य पूर्वपक्षसूत्रं योजयति -
यथेति ।
अङ्गा­श्रि­तो­पा­स­नानि नियमेन क्रतौ समु­च्चि­त्या­नु­ष्ठे­यानि नियमेन समु­च्ची­य­मा­ना­ङ्गा­श्रि­त­त्वा­त्त­दा­श्रि­तो­पा­ङ्ग­व­दि­त्यर्थः ॥ ६१ ॥

इत­श्चा­ङ्गो­पा­स्तीनां समु­च्चि­त्या­नु­ष्ठा­न­मि­त्याह -
शिष्टेश्चेति ।
शिष्टिः शासनं विधानं तस्या विशे­षा­भा­वा­द­ङ्गानां प्रत्ययानां च समुच्चयनियम इत्यर्थः ।

सूत्र­स्या­क्ष­रो­त्थ­म­र्थ­माह -
यथा वेति ।

तस्यैव तात्पर्यार्थमाह -
नेत्यादिना ॥ ६२ ॥

इतश्चोपासनानि समु­च्चि­त्या­नु­ष्ठी­ये­र­न्नि­त्याह -
समाहारादिति ।
समाहरणं समताकरणं क्षतस्य सन्धानं समा­हा­र­स्त­स्मा­ल्लि­ङ्गा­त्स­मु­च्चयो गम्यते प्रत्यायानामिति योजना । यः प्रणवो बह्वृचानां स च्छन्दो­गा­ना­मु­द्गीथः ।

यश्च तेषामुद्गीथः स प्रण­वोऽ­न्ये­षा­मिति प्रण­वो­द्गी­थ­यो­रे­क­त्वेन यदु­पा­स­न­मु­द्गात्रा कृतं तत्फलवादिवाक्यं सूत्रं व्याक­र्तु­म­नु­व­दति -
होतृषदनादिति ।
होतुः सदनं स्थानं होता यत्रस्थः शंसति तद्धोतृषदनं तेन च हौत्रं कर्म लक्ष्यते । ततः सम्य­ग­नु­ष्ठि­ता­द्दु­रु­द्गीथं दुष्टं यदुद्गानं स्वर­व्य­ञ्च­ना­दि­प्र­मा­दा­दु­द्गात्रा कृतं तदप्युद्गाता तेनै­क्य­वि­ज्ञा­ने­ना­नु­स­मा­ह­रति प्रति­स­न्द­धा­त्येव क्षतमिव वैद्य इत्यर्थः ।

वाक्य­स्या­भी­ष्ट­मर्थं कथयति -
प्रणवेति ।

तथापि प्रकृते किमायातं तदाह -
इति ब्रुवन्निति ।
वेद­द्व­य­यु­क्त­प्र­ण­वो­द्गी­थ­यो­रै­क्य­ज्ञा­न­स्ये­दृशं फलं ब्रुवाणः सर्ववेदस्थानां प्रत्ययानां सर्वत्रोपसंहारं समुच्चयं सूचयति । सर्वोपासनेषु वेदा­न्त­रो­क्त­प्र­त्य­यस्य वेदा­न्त­रो­क्त­प­दा­र्थेन सम्बन्धस्य समानत्वादिति योजना ॥ ६३ ॥

ओंका­र­स्यो­पा­स्यस्य साधा­र­ण्या­द­प्यु­पा­स­नानां साधारण्यं समु­च्चि­त्या­नु­ष्ठा­न­मिति हेत्वन्तरमाह -
गुणेति ।
विद्या­गु­ण­मि­त्यस्य व्याख्या विद्याश्रयमिति । विद्यो­द्गी­थ­विद्या । तेने­त्यो­ङ्का­रोक्तिः । त्रयी विद्या वेदत्रयविहितं कर्मेत्यर्थः ।

अन्वयमुखेन व्याख्या­मु­प­सं­ह­रति -
ततश्चेति ।

आश्रयसाधारण्ये सात्य­श्रि­त­सा­धा­र­ण्य­म­न्व­य­स्त­मे­वा­श्र­य­सा­धा­र­ण्या­भावे सत्या­श्रि­त­सा­धा­र­ण्या­भा­व­रू­प­व्य­ति­रे­क­व्या­ख्यया द्रढयितुं सूत्रमादत्ते -
अथवेति ।

व्यतिरेकेण सूत्रं योजयति -
यदीति ।

उद्गीथादीनामपि तर्हि साधारण्यं मा भूत् , तत्राह -
ते त्विति ।

गुणेन सहैव गुणिनः प्रत्ययस्यागमनं सूच्यत इति फलितमाह -
ततश्चेति ॥ ६४ ॥

यस्मिन्नुपासने यस्याभिरुचिः स तदनुतिष्ठति सर्वो­पा­स­न­स­मु­च्चये तु न मानमिति सिद्धान्तयति -
न वेति ।

तत्र वाकारार्थमाह -
नेत्यादिना ।

नञ्पदं व्याचष्टे -
न यथेति ।

प्रश्न­पू­र्व­क­म­व­शि­ष्ट­मा­दाय व्याकरोति -
कुत इति ।

नियमेन समु­च्ची­य­मा­ना­ङ्गा­श्र­य­त्वा­दि­त्यु­क्त्वाऽ­नु­मा­न­धिया शङ्कते -
नन्विति ।

विमतोपासनानि न क्रतौ समु­च्चि­त्या­नु­ष्ठे­यानि, अङ्गाश्रितत्वे सति भिन्न­फ­ल­त्वा­द्गो­दो­ह­ना­दि­व­दिति मत्वाह -
नेतीति ।

उक्तमेव व्यक्तीकरोति -
प्रयोगेति ।

शिष्टे­श्चे­त्युक्तं विघटयति -
अयमेवेति ।

समा­हा­रा­द्गु­ण­सा­धा­र­ण्य­श्रु­ते­श्चे­त्ये­त­द्दू­ष­यति -
परं चेति ।
यद­र्थ­वा­द­सा­मर्थ्यं तदन्यतः प्राप्त­स्या­व­द्यो­तकं न चेहोपासनानां समुच्चये प्राप­क­म­स्ती­त्यर्थः ।

गुण­सा­धा­र­ण्ये­त्यादौ व्यति­रे­क­व्या­ख्यानं प्रत्याह -
नचेति ।

उपा­स­ना­ना­मा­श्र­य­भा­वेऽपि सत्त्वाभावे कथ­मा­श्र­य­त­न्त्रत्वं, तत्राह -
आश्रयेति ।
इद­मे­वा­श्रि­ता­ना­मा­श्र­य­त­न्त्रत्वं यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति कामा­ना­म­नि­त्य­त्वा­त्त­दु­प­ब­न्धो­पा­स्ती­ना­मपि तथा­त्वा­न्नि­त्य­सं­यो­ग­वि­रो­धा­दि­त्यर्थः ।

अङ्गो­पा­स्ती­ना­म­ङ्ग­व­द­स­मु­च्चये प्रती­क­दृ­ष्टि­व­द्य­था­रु­च्य­नु­ष्ठा­न­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ६५ ॥

किञ्च विदुषा ब्रह्म­णाऽ­न्ये­षा­मृ­त्विजां पाल्य­त्वो­क्ते­रपि न सर्व­वि­ज्ञा­नो­प­सं­हा­र­धी­रि­त्याह -
दर्शनाच्चेति ।

सूत्रं त्रिभजते -
दर्शयतीति ।

ऋग्वे­दा­दि­वि­हि­ता­ङ्ग­लोपे व्याहृ­ति­हो­म­प्रा­य­श्चि­त्ता­दि­वि­ज्ञा­न­व­त्त्व­मे­वं­वित्त्वं ब्रह्मणोऽमीष्टं कथं तावता विव­क्षि­ता­नु­प­सं­हारः, तत्राह -
सर्वेति ।
अस्ति च तेने­त­रे­षा­मृ­त्विजां पाल्यत्वकीर्तनं तेन प्रत्य­या­नु­प­सं­हा­र­धी­रिति शेषः ।

अनु­मा­ना­ल्लि­ङ्गाच्च सिद्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

याथाकाम्यं व्याचष्टे -
समुच्चयो विकल्पो वेतीति ॥ ६६ ॥

कर्मा­ङ्ग­स­ङ्गि­वि­द्यो­क्ति­प्र­स­ङ्गा­द्ब्र­ह्म­ज्ञा­नस्य कर्मा­ङ्ग­त्व­मा­शङ्क्य परिहरति -
पुरुषार्थ इति ।
परा­प­र­ब्र­ह्म­वि­द्यानां गुणो­प­सं­हा­रोक्त्या परिमाणमवधार्य तासां कर्मा­न­पे­क्षा­णा­मेव पुरु­षा­र्थ­सा­ध­न­त्व­म­व­स­र­प्राप्तौ निरूप्यते ।

तत्र कर्मा­न­पे­क्षा­णा­म­मूषां का नामे­ति­क­र्त­व्यता, नहि तां विना कार­ण­ते­त्या­शङ्क्य यज्ञादयः श्रवणादयः शमदमादयश्च विद्यो­त्प­त्त्यु­प­यो­गिन्य इतिकर्तव्यता निरूप्यन्ते तदभिप्रेत्याह -
अथेति ।

फलभेदाभेदौ विना न विद्याभेदाभेदौ नच तौ विना गुणो­प­सं­हा­रा­नु­प­सं­हारौ तेन प्रागेव विद्यानां पुमर्थहेतुत्वे स्थिते प्रथ­म­मौ­प­नि­ष­द­मा­त्म­ज्ञा­न­म­धि­कृत्य वादि­वि­प्र­ति­पत्त्या संशयमाह -
औपनिषदमिति ।
अनेन चात्म­ज्ञा­न­वि­शे­ष­णेन शास्त्र­श्रु­ति­स­ङ्ग­ति­रु­च्यते । सिद्धे फलवत्त्वे स्वतन्त्रमेवेदं फलवदिति साध­ना­द­ध्या­य­पा­द­स­ङ्गती । पूर्वपक्षे समु­च्च­य­प­क्ष­मिद्धिः ।

सिद्धान्ते केवलस्य ज्ञानस्य कैवल्यसाधनतेति मत्वा पूर्वपक्षमग्रे दर्शयिष्यन्नादौ सिद्धान्तमाह -
सिद्धान्तेनेति ।

सूत्रस्थां प्रतिज्ञां योजयति -
अस्मादिति ।

तत्र प्रमाणं पृच्छति -
कुत इति ।

सूत्रा­व­य­वे­नो­त्त­र­माह -
शब्दादित्याहेति ।

प्रमाणं विवृणोति -
तथा हीत्यादिना ।

सगु­ण­ब्र­ह्म­ज्ञा­न­स्यापि स्वातन्त्र्येण पुमर्थहेतुतेति वक्तुं तद्विषयां श्रुतिमाह -
य आत्मेति ।

निर्गु­ण­वि­द्या­वि­षयं वाक्यान्तरमाह -
आत्मेति ।

उक्तश्रुतिषु विद्याफलयोः साध्यसाधनत्वं न भातीत्याशङ्क्य तयो­रे­क­पु­रु­ष­स­म्ब­न्ध­सा­म­र्थ्या­देव तद्धी­रि­त्या­श­ये­नाह -
केवलाया इति ॥ १ ॥

पूर्व­प­क्ष­म­व­ता­र­यति -
अथेति ।
सिद्धा­न्तो­क्त्य­न­न्त­र­मा­त्म­ज्ञाने विषये फल­श्रु­ति­म­धि­कृत्य मीमां­स­क­श्चो­द­य­ती­त्यर्थः । पुरुषार्थवाद इत्य­त्रा­र्थ­ग्र­हणं तन्त्रेणोपात्तं तेन पुरु­षा­र्था­र्थ­वाद इति द्रष्टव्यम् ।

तत्त्वज्ञानं कर्मा­ङ्ग­क­र्तृ­द्वारा प्रयो­ग­वि­धि­ना­दे­य­मा­दी­य­मा­न­क­र्मा­ङ्ग­क­र्त्रा­श्र­येण शास्त्र­सि­द्ध­त्वा­द्य­ज­मा­न­सं­स्का­रा­ञ्ज­ना­दि­व­दिति मत्वा शेष­त्वा­दि­त्ये­त­द्व्या­चष्टे -
कर्तृत्वेनेति ।
तत्त्वज्ञानं प्रयो­ग­वि­धि­ना­देयं साध्य­फ­लो­क्ति­शू­न्यत्वे सति कर्मा­ङ्गा­श्र­य­त्वा­त्प­र्ण­म­यी­त्वा­दि­व­दिति प्रयोगः ।

स्वतन्त्रफलस्य कथं प्रोक्ष­णा­दि­व­त्क­र्मा­ङ्ग­ते­त्या­शङ्क्य पुरुषार्थवाद इत्यस्यार्थमाह -
इत्यत इति ।
वेदा­र्थ­जि­ज्ञा­सायां तत्त्व­नि­र्ण­यार्थं संश­या­दि­प्र­ति­भासो गुरोरग्रे शिष्येण दर्शनीयो गुरुणा च तन्निरासेन तत्त्व­मा­वि­ष्क­र­णी­य­मिति शिष्टाचारं दर्शयितुं जैमिनिग्रहणं न प्रतिपक्षतया शिष्यस्य तदयोगात् ।

फल­श्रु­ते­र­र्थ­वा­दत्वे सूत्रितं दृष्टान्तं व्याचष्टे -
यथेति ।

पर्णमयीद्रव्ये यज­मा­न­स्या­ञ्ज­ना­दि­सं­स्कारे प्रयाजादिकर्मसु च क्रमेण फलश्रुतीराह -
यस्येत्यादिना ।
सा च फलश्रुतिर्न फलपरा फल­व­त्क्र­त्व­र्थ­त्वा­त्प­र्ण­तादेः फलशेषत्वायोगात् । अतः साऽर्थवाद एवेति पर्ण­म­यी­त्वा­धि­क­रणे समर्थितम् ।

तथात्मज्ञानेऽपि फलश्रुतिरर्थवाद एव स्यादित्याह -
तद्वदिति ।

विनि­यो­ज­क­मा­ना­भा­वा­दा­त्म­धि­योऽ­ङ्ग­त्वा­त्तत्र फल­श्रु­ति­र्ना­र्थ­वाद इति शङ्कते -
कथमिति ।

प्रकरणादिना क्रत्व­स­म्ब­न्धेऽपि जुहूद्वारा पर्णमयीत्वस्य वाक्या­त्क्र­तु­स­म्ब­न्ध­व­दा­त्म­धि­योऽपि कर्तृद्वारा वेदा­न्त­वा­क्या­त्क्र­तु­स­ङ्ग­ति­रिति पूर्ववाद्याह -
कर्त्रिति ।

सिद्धान्ती दूषयति -
नेति ।

तदेव विवृणोति
अव्यभिचारिणेति ।

जुहू­व­दा­त्म­ज्ञाने कर्तै­वा­व्य­भि­चारि द्वार­मि­त्या­श­ङ्क्याह -
कर्तेति ।

तस्य व्यभिचारित्वे फलितमाह -
तस्मादिति ।

किं देहा­ति­रि­क्ता­त्म­ज्ञा­नस्य कर्माङ्गत्वं विनि­यो­ज­का­भा­वा­न्नि­र­स्यते किं वाऽप­ह­त­पा­प्म­त्वा­दि­वि­शे­षि­ता­सं­सा­र्या­त्म­वि­ष­यौ­प­नि­ष­द­ज्ञा­न­स्येति विकल्प्याद्यं पूर्ववादी दूषयति -
नेति ।
तस्य विषयद्वारा तेष्व­नु­प्र­वे­शान्न कर्माङ्गत्वं निषेद्धुं शक्यमित्यर्थः ।

लौकिककर्मणोऽपि कर्म­त्वा­द्वै­दि­क­क­र्म­व­त्क­र्तृ­दा­रे­णा­ति­रि­क्त­ज्ञा­ना­पे­क्षेति कर्तुः साधा­र­ण्य­मि­त्या­श­ङ्क्याह -
नहीति ।
सर्वथेति व्यति­रे­क­ज्ञा­ना­ज्ञा­न­यो­रि­त्यर्थः ।

तर्हि वैदिकान्यपि कर्माणि कर्म­त्वा­दि­त­र­वन्न व्यति­रे­क­ए­ना­पे­क्षा­पी­त्या­ह­ङ्क्याह -
वैदिकेष्विति ।
कारी­र्या­दि­नि­वृ­त्त्यर्थं देह­पा­ते­त्या­दि­वि­शे­ष­णम् ।

द्वितीयमाशङ्कते -
नन्विति ।
अनु­प­यो­गि­त्वा­द्वि­रो­धि­त्वाच्च तस्य न कत्वङ्गतेति भावः ।

क्रत्वपेक्षितं रूपं हित्वा­न्य­द­वि­व­क्षि­त­मि­त्याह -
नेत्यादिना ।
जाया­दी­ना­मा­त्मा­र्थ­त्वेन प्रिय­त्व­मु­क्त्वात्मा द्रष्टव्य इति वदता जायादिना भोग्येन सूचितस्य संसारिणो भोक्तुरेव द्रष्ट­व्य­त्व­मिष्टं भोक्तृज्ञानं च कर्मसूपयुक्तमतो भोक्र­ति­रि­क्त­मा­त्म­रूपं न श्रौतमित्यर्थः ।

अप­त­पा­प्म­त्वा­दि­वि­शे­ष­णस्य भोक्त­र्य­यु­क्त­त्वा­द­ति­रि­क्त­मा­त्म­रू­प­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याह -
अपहतेति ।

जन्मा­दि­सू­त्र­मा­रभ्य तत्र तत्रा­प्र­प­ञ्च­ब्र­ह्मा­त्म­प­रता वेदा­न्ता­ना­मुक्ता तत्क­थ­म­प­ह­त­पा­प्म­त्वा­दि­की­र्त­नस्य स्तुत्यर्थतेति शङ्कते -
नन्विति ।

अधि­क­मि­ति­वि­शे­ष­णा­दा­श­ङ्कितं द्वैतंवारयति -
तदेवेति ।

संसा­रि­णोऽ­सं­सा­री­श्वरो रूपमिति व्याहतिं प्रत्याह -
पारमार्थिकमिति ।

एेक्वे प्रमाणं पूर्वोक्तं सूचयति -
उपनिषत्स्विति ।

पूर्व­प­क्षा­क्षेपं समाधत्ते -
सत्यमित्यादिना ।
फल­द्वा­रे­णे­त्या­त्म­ज्ञानं वेदान्तानां फलं तत्क्रत्वर्थं पुरुषार्थं वेति विचा­र­द्वा­रे­णे­त्यर्थः ।

साधि­त­स्यै­वा­क्षे­प­स­मा­धिभ्यां साधनस्य फलमाह -
दार्ढ्यायेति ॥ २ ॥

किञ्च जनकादीनां विद्यया सह कर्मा चरणदर्शनान्न केवलैव विद्या मोक्षहेतुरतः महानुष्ठानं विद्यायाः स्वात­न्त्र्या­भा­वेन कर्माङ्गत्वे लिङ्गमित्याह -
आचारेति ।

सूत्रं व्याचष्टे -
जनको हेति ।
विदे­हा­ना­म­धि­प­ति­र्ज­नको नाम राजा बहु­द­क्षि­ण­सं­ज्ञेन यज्ञेनाश्वमेधेन वा बहु­द­क्षि­णा­यु­क्तेन पुरा कदाचिदीजे यागं कृत्वान् ।

कैकेयस्य राज्ञो ब्रह्मविदो वाक्यमाह -
यक्ष्यमाण इति ।
विद्यार्थिनः समा­ग­ता­न्प्रा­ची­न­शा­ला­दी­न्भ­ग­वन्त इति सम्बोध्याहं यक्ष्यमाणोऽस्मि ततश्च कति­चि­द्दि­ना­न्या­ध्व­मिति राजो­क्त­वा­नि­त्यर्थः ।

उक्तवाक्यानि विद्यार्थानि न कर्मा­र्था­नी­त्या­श­ङ्क्याह -
अन्येति ।

इतश्च ब्रह्मविदामस्ति कर्म­स­ङ्ग­ति­रि­त्याह -
तथेति ।
आदिपदेन व्यास­या­ज्ञ­व­ल्क्या­दि­स­ङ्ग्रहः । द्वितीयेन भार्यानु शासनादि गृह्यते ।

कर्म कृतं विद्वद्भिरेव कैश्चि­दि­त्ये­ता­वता विद्या­श­क्ते­र­प­ह्न­वा­यो­गा­त्के­ब­लैव सा मुक्ति­हे­तु­रि­त्या­श­ङ्क्याह -
केवलादिति ।

अल्पायासमुपायं हित्वा न कोऽपि महायासं तमाद्रियत इत्यत्र लौकिकन्यायमाह -
अर्के चेदिति ।
समी­प­व­च­नोऽ­र्क­शब्दः ॥ ३ ॥

न केवलं विद्याया लिङ्गादेव कर्माङ्गत्वं किन्तु तृती­या­श्रु­ते­र­पी­त्याह -
तदिति ।

सूत्रार्थं विवृणोति -
यदेवेति ॥ ४ ॥

इतश्च न स्वतन्त्रा विद्या पुम­र्थ­हे­तु­रि­त्याह -
सम­न्वा­र­म्भ­णा­दिति ।

सूत्रं विवृणोति -
तमित्यादिना ।
तं परलोकं व्रजन्तं विद्यकर्मणी समनुगच्छत इति यावत् ॥ ५ ॥

तदस्वातन्त्र्ये लिङ्गान्तरमाह -
तद्वत इति ।

तद्व्याकरोति -
आचार्येति ।
तस्य कुलं गृहमुपनयनं कृत्वा तत्प्रा­प्त्य­न­न्तरं गुरोः शुश्रूषारूपं कर्म विधायातिशेषेण शिष्टेन कालेन यथाविधानं पवि­त्र­पा­णि­त्व­प्रा­स्मु­ख­त्वा­दि­वि­धा­न­म­न­ति­क्रम्य वेद­म­धी­त्या­न­न्त­र­म­भि­स­मा­वृत्य व्रतविसर्गं कृत्वा दारानाहृत्य कुटुम्बे गार्हस्थ्ये स्थितः शुचौ देशे स्वाध्या­या­ध्य­यनं कुर्व­न्क­र्मा­न्त­राणि च विहितानि यथाशक्ति कुर्वाणो ब्रह्म­लो­क­म­भि­स­म्प­द्यत इत्यर्थः ।

अध्ययनशब्दस्य यथाश्रुतमर्थं गृहीत्वा शङ्कते -
नन्विति ।

अध्य­य­न­वि­धे­र­व­घा­ता­दि­वि­धि­व­द्दृ­ष्टा­र्थ­त्वा­द­र्था­व­बो­धान्तो व्यापारोऽस्तीति प्रथमे तन्त्रे समर्थितमित्याह -
नेत्यादिना ॥ ६ ॥

इतश्च न स्वतन्त्रा विद्या पुम­र्थ­हे­तु­रि­त्याह -
नियमाच्चेति ।

नियमं विभजते -
कुर्वन्निति ।
इह देहे शतं समाः शत­स­ङ्ख्या­का­न्सं­व­त्स­रा­न्य­ज्जि­जी­वि­षे­त्त­त्क­र्माणि कुर्वन्नेवेति नियमविधिः । एवं त्वयि नरे वर्तमाने सत्यशुभं कर्म न लिप्यते तेन त्वं न लिप्यस इति यावत् । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः ।

नियमान्तरमाह -
तथेति ।
जरामर्थं जरामरणावधिकम् ।

तदेव विशदयति -
जरयेति ।
श्रुत्या­दि­भि­रा­त्म­धियः सिद्धे कर्माङ्गत्वे तत्फलेनैव फल­व­त्त्व­मि­त्यु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ ७ ॥

पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्रं योजयति -
तुशब्दादिति ।

पक्ष­वि­प­स्वि­र्त­मा­न­मेव पक्षमनूद्य दर्शयति -
यदिति ।

अनुपपत्तिहेतुं प्रश्नपूर्वकमाह -
कस्मादिति ।

अधिकोपदेशं व्यतिरेकतो दर्शयति -
यदीति ।
यः कर्ता कर्माङ्गं नासौ वेदान्तवेद्यो यच्च ब्रह्म तद्वेद्यं न तत्क­र्मा­ङ्ग­म­त­स्त­ज्ज्ञा­नस्य कुतः शेषता कुतस्तरां फल­श्रु­ते­र­र्थ­वा­द­ते­त्यर्थः ।

ब्रह्मात्मधीर्न क्रतु­प्र­यो­ग­वि­धि­नो­पा­देया तद्वि­रो­धि­त्वा­दा­दी­य­मा­नो­दि­त­हो­म­वि­रो­ध्य­नु­दि­त­हो­म­व­दिति मत्वाह -
प्रत्युतेति ।

बाग­रा­य­ण­स्ये­त्यादि व्याचष्टे -
तस्मादिति ।
उक्ता­त्म­ज्ञा­नस्य क्रतु­शे­ष­त्वा­यो­ग­स्त­च्छ­ब्दार्थः ।

अधि­को­प­दे­शा­सि­द्धि­मा­शङ्क्य तद्द­र्श­ना­दि­त्य­नेन प्रत्याह -
तथाहीति ।

क्रत्वपेक्षितं रूपं हित्वाऽ­न्य­दा­त्म­रू­प­म­नि­ष्ट­मि­त्युक्तं, तत्राह -
यत्त्विति ।

आत्मनस्तु कामा­ये­त्यु­प­क्र­म्यात्मा वा अरे द्रष्टव्य इति वाक्यं ब्रह्मो­प­दि­दि­क्षायां सत्याभेव ब्रह्मा­त्मै­क्या­भि­प्रा­य­मि­त्यत्र वाक्यशेषमाह -
अस्येति ।

यः प्राणेनेत्यादि वाक्य­म­प्यै­क्य­प­र­मि­त्यत्र वाक्यशेषं दर्शयति -
योऽशनायेति ।

य एषोऽ­क्षि­णी­त्या­दि­वा­क्य­मपि तथे­त्य­स्मि­न्नर्थे शेषानुगुण्यमाह -
परमिति ।
उक्तैः शेषैः संसारिणो यदधिकं ब्रह्म तस्यो­प­दि­दि­क्षायां सत्यामेव ब्रह्मणो जीव­स्या­त्य­न्त­भे­दा­भा­व­धिया द्रष्ट­व्या­दि­वा­क्य­मिति क्रत्व­न­पे­क्षि­त­मा­त्म­रूपं वेदान्तेषु विव­क्षि­त­मि­त्यु­प­गमे न कश्चि­द्वि­रो­धोऽ­स्तीति योजना ।

कुतो जीवब्रह्मैक्य मिथो विरो­धा­दि­त्या­शङ्क्य तात्त्विको विरोधो नास्तीत्याह -
पारमेश्वरमिति ।

प्रातिभासिकस्तु विरो­ध­स्ता­त्त्वि­का­भे­दा­वि­रो­धीति मत्वाह -
उपाधीति ।

जीवस्य तात्त्विकं रूपं ब्रह्मैवेत्यत्र श्रुतिसंवादमाह -
तत्त्वमिति ।

सम्पदादिविषयं तत्त्व­मा­दि­वाक्यं न वस्तु­वि­ष­य­मि­त्या­श­ङ्क्याह -
सर्वं चेति ॥ ८ ॥

परोक्तं लिङ्गदर्शनं प्रत्याह -
तुल्यं त्विति ।

उक्तमनूद्य सूत्र­मु­त्त­र­त्वेन योजयति -
यदित्यादिना ।

इतश्च विद्याया न शेषतेत्याह -
याज्ञवल्क्येति ।
आदिशब्देन शुकादयो गृह्यन्ते ।

कथं तेषा­म­क­र्म­नि­ष्ठत्वं तदाह -
एतावदिति ।

उभ­य­था­लि­ङ्ग­द­र्शने संशयमाशङ्क्य पर­की­य­लि­ङ्गा­ना­म­न्य­था­सिद्धिं वक्तुमारभते -
अपिचेति ।

तत्र यक्ष्यमाण इत्या­दि­लि­ङ्ग­द­र्श­न­स्या­न्य­था­सि­द्धि­माह -
यक्ष्यमाण इति ।

तत्रापि विद्यात्वान्न कर्म­सा­हि­त्य­म­न्यथा ब्रह्म­वि­द्या­या­मपि तत्प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह -
सम्भवतीति ।

तर्हि वैश्वा­न­र­वि­द्याया न स्वातन्त्र्येण फलवत्त्वं कर्मा­ङ्ग­त्वा­ङ्गी­का­रात् , तत्राह -
न त्विति ।
येषां च ब्रह्मविदामपि कर्म दृश्यते न तत्तेषां कर्म तद्धि चोदनालक्षणं तेषां चाहं­म­मा­भि­मा­ना­भा­वेन चोद­ना­भा­वा­त्क­थ­ञ्चि­द­नु­व­र्त­मा­न­मपि तदाभासमात्रमिति भावः ॥ ९ ॥

परोक्तां श्रुतिमनूद्य तदुत्तरत्वेन सूत्रमवतारयति -
यदिति ।

तद्विभजते -
यदेवेति ।

विद्याशब्दस्य सामान्यविषयस्य विशे­षा­का­ङ्क्षस्य प्राक­र­णि­क­वि­शे­षेण चरि­ता­र्थ­त्वा­दिति हेतुमाह -
प्रकृतेति ।

आत्म­धि­य­स्त­था­त्व­शङ्कां प्रत्याह -
प्रकृता चेति ॥ १० ॥

परकीयं लिङ्गान्तरं दूषयति -
विभाग इति ।

चोद्य­म­नू­द्यो­त्त­र­त्वेन सूत्रं व्याचष्टे -
यदपीत्यादिना ।

सामान्यश्रुतौ कथं विभागः स्यात्तत्र सदृष्टान्तमाह -
शतवदिति ।
सम­न्वा­र­म्भ­व­च­नस्य मुमु­क्षु­वि­ष­य­त्व­मु­पेत्य कर्मसाहित्येन तल्लिङ्गं विभा­गा­दि­त्यु­क्तम् ।

इदा­नी­म­मु­मु­क्षु­वि­ष­य­त्वा­द­वि­भा­गेऽपि न दूषणमित्याह -
नचेति ।

तस्या­मु­मु­क्षु­वि­ष­यत्वे हेत्वन्तरमाह -
अथेति ।

संसारिविषये तं विद्ये­त्या­दि­वाक्ये विद्या­श­ब्दा­र्थ­माह -
तत्रेति ।
उद्गीथादिविषया विद्या प्रतिषिद्धा च नग्न­स्त्री­द­र्श­ना­दि­रूपा ।

तथा­भू­त­क­र्म­सा­ह­च­र्या­दपि तथाविधैव विद्येत्याह -
कर्मापीति ।

प्रकृते वाक्येऽपि विद्या­क­र्म­णो­र­वि­शे­षो­पा­दाने हेतुमाह -
यथेति ।

उक्ता­र्थ­वा­क्यस्य संसारिविषयत्वे फलितमाह -
एवमिति ॥ ११ ॥

लिङ्गा­न्त­र­म­नूद्य सूत्रमादत्ते -
यच्चेति ।

यच्चै­त­दु­क्त­मि­त्यर्थः । सूत्रं विवृणोति -
आचार्येति ।

मात्र­ग्र­ह­णे­ना­र्थ­ज्ञा­न­मात्रं व्यवच्छिन्नमिति मन्वानः शङ्कते -
नन्विति ।
अवि­द्य­त्वा­द्वि­द्या­ही­ना­त्वा­दिति यावत् ।

मात्र­ग्न­ह­ण­मा­त्म­ज्ञा­ना­पेक्षं न कर्मा­व­बो­धा­पे­क्ष­मि­त्याह -
नेत्यादिना ।

वेदा­र्थ­त्वा­दा­त्म­न­स्त­ज्ज्ञा­न­मपि कर्म­बो­ध­व­द­धि­का­रेऽ­पे­क्षि­त­व्य­मि­त्या­श­ङ्क्याह -
यथेति ।
पूर्व­सूु­त्र­व्या­ख्या­स­मा­प्ता­वि­ति­शब्दः ॥ १२ ॥

लिङ्गा­न्त­र­म­नूद्य सूत्रा­न्त­र­मा­दत्ते -
यदपीति ।

अविद्वद्विषयं नियमविधानमिति व्याचष्टे -
कुर्वन्निति ॥ १३ ॥

विद्व­द्वि­ष­य­त्व­मु­पेत्य परिहारान्तरमाह -
स्तुतय इति ।

एवं तर्हि प्रकरणमभग्नमिति मत्वा सूत्रं विभजते -
कुर्वन्नेवेति ।

विशेषमेव विशदयति -
यद्यपीति ।

स्तुत्यर्थं कर्मा­नु­ज्ञा­न­मि­त्यत्र वाक्य­शे­ष­म­नु­कू­ल­यति -
नेति ।

तथापि कथं स्तुतिः, तत्राह -
एतदिति ।

एवं कर्म कुर्वत्यपि त्वयि नेतो ब्रह्म­भा­वा­द्वि­द्या­ग­म्या­द­न्यथा संसा­रा­प­त्ति­रस्ति यतो न कर्म लिप्यत इति योजनां गृहीत्वोपसंहरति -
तदेवमिति ॥ १४ ॥

पूर्व­प­क्ष­हे­तू­ने­व­मु­न्मथ्य स्वपक्षे हेत्वन्तरमाह -
कामेति ।

इतश्च विद्याया न कर्माङ्गतेति चकारार्थमाह -
अपिचेति ।

स्वेच्छातः । कर्म­सा­ध­न­प्र­जा­दि­त्या­ग­लि­ङ्गा­दपि विद्यायाः स्वात­न्त्र्य­मिति हेत्वन्तरमेव स्फोरयति -
एक इति ।
येषां नोऽस्मा­क­म­य­म­प­रोक्षः सन्नात्मायं लोकः प्रत्यक्षं फलं ते वयं किं प्रजया करिष्याम इति निश्चि­त्या­ग्नि­हो­त्रादि न हुतवन्त इत्यर्थः ।

मोक्ष­स्या­दृ­ष्ट­फ­ल­त्वा­त्कथं मुक्त­त्व­नि­श्च­या­त्प्र­जा­दि­त्या­ग­सिद्धिः, तत्राह -
अनुभवेति ।

ब्रह्मधीर्न क्रतु­प्र­यो­ग­वि­धि­ना­देया क्रत्व­ङ्ग­स­म्ब­न्धि­त्वेऽपि फला­न्त­र­यो­गि­त्वा­द्गो­दो­ह­न­व­दिति मत्वाह -
अतोऽपीति ॥ १५ ॥

अधि­को­प­दे­शा­दि­त्य­त्रा­त्म­नोऽ­श­ना­या­द्य­त्य­या­त्त­द्धीर्न कर्मा­ङ्ग­मि­त्यु­क्तम् । इदा­नी­म­शे­ष­क्रि­या­दि­वि­भा­गो­प­म­र्द­क­त्वा­दपि न कर्माङ्गमित्याह -
उपमर्दं चेति ।

इतश्चात्मधीर्न कर्माङ्गमिति चकारार्थमाह -
अपिचेति ।

हेत्वन्तरं स्फोरयति -
कर्मेति ।

विद्या­सा­म­र्थ्या­त्प्र­प­ञ्चो­प­मर्दे फलितमाह -
वेदान्तेति ।

आत्म­ज्ञा­न­स्या­दी­य­मा­न­क्र­त्व­ङ्ग­वि­रो­धित्वे फलितं निगमयति -
तस्मादिति ॥ १६ ॥

विद्या­स्वा­तन्त्र्ये हेत्वन्तरमाह -
ऊर्ध्व­रे­तः­स्विति ।

विद्याकर्मणी नाङ्गाङ्गिभूते मिथो व्यति­रे­कि­त्वा­दृ­तु­ग­म­न­नै­ष्ठि­क­व्र­त­व­दिति मत्वा योजयति -
ऊर्ध्वेत्यादिना ।

तथापि कथं कर्माङ्गत्वं विद्याया व्यासेध्यते, तत्राह -
नचेति ।

तेषामपि स्नानादि कर्मा­स्ती­त्या­श­ङ्क्याह -
नहीति ।
घावि­ता­नु­वृत्त्या तत्सद्भावेऽपि वैदि­का­ग्नि­हो­त्रा­द्य­भा­वान्न क्रत्वङ्गता ज्ञान­स्ये­त्यर्थः ।

शब्दे हीति­सू­त्रा­व­य­व­व्या­व­र्त्या­मा­श­ङ्का­माह -
स्यादिति ।

सूत्रा­व­य­वे­नो­त्त­र­माह -
तदपीति ।