अद्वैतशारदा

न्यायनिर्णयव्याख्या

३ परिच्छेदः

कर्मा­न­धि­कृ­ता­न्धा­दि­वि­षयं पारि­व्रा­ज्य­मि­त्या­श­ङ्क्याह -
प्रतिपन्नेति ।

ऋणापाकरणे श्रुति­स्मृ­तिभ्यां गृह­स्थ­स्यै­वा­पा­कृ­त­र्ण­त्र­य­स्यै­वो­र्ध्व­रे­तः­श­ब्दि­त­मै­थु­ना­स­मा­चा­रो­प­ल­क्षितं पारि­व्रा­ज्य­मि­त्या­श­ङ्क्याह -
अपाकृतेति ।

साक्षा­द्वि­धि­श्रु­ति­वि­रो­धेऽ­वा­द­श्रु­ति­स्मृ­त्यो­र­ब­वा­ध्य­ते­त्य­भि­प्रे­त्यो­क्तम् -
श्रुतीति ।
श्रुति­र्व्र­ह्म­च­र्या­देव प्रव्र­जे­दि­त्याद्या दर्शिता । स्मृतिस्तु तस्या­श्र­म­वि­क­ल्प­मेके ब्रुवते यमि­च्छे­त्त­मा­व­से­दि­त्या­द्यो­दा­हार्या ।

ऊर्ध्व­रे­तः­स्वा­श्र­मेषु विद्यायाः सिद्धौ फलितमाह -
तस्मादिति ।
तस्याः स्वातन्त्रये केवलायाः सिद्धा मुक्तिफलतेति वक्तु­मि­ती­त्यु­क्तम् ॥ १७ ॥

पूर्वा­धि­क­र­णा­वा­न्त­र­सू­त्रे­णा­क्षे­प­ल­क्षणां सङ्गतिं विव­क्ष­न्ना­क्षि­पति -
परामर्शमिति ।

ऊर्ध्व­रे­तः­श­ब्दितं पारिव्राज्यं नानु­ष्ठे­य­म­नु­ष्ठेयं वेति भ्रान्ति­प्र­मा­ण­मू­ल­त्वाभ्यां सन्देहे पूर्वपक्षयति -
त्रय इति ।
अत्र शास्त्री­य­स­म्य­ग्ज्ञा­न­स्या­न्त­र­ङ्ग­सा­ध­न­प्र­स­ङ्गा­द­नु­ष्ठे­य­मु­च्यत इति स्फुटा पादादिसङ्गतिः । पूर्वपक्षे पारिव्राजके विद्या­प्र­सि­द्धे­र्वि­भ्र­म­त्वा­त्तस्या न स्वात­न्त्र्य­सिद्धिः ।

सिद्धान्ते तस्यास्तत्र प्रामा­णि­क­त्वा­त्त­त्सि­द्धि­रिति स्वीकृत्य परामर्शं जैमिनिरिति व्याख्याय हेत्वा­का­ङ्क्षा­या­म­चो­द­नेति हेतुत्वेन व्याचष्टे -
कुत इति ।

पूपा प्रपिष्टभाग इतिवत्कल्प्यतां विधि­रि­त्या­शङ्क्य ब्रह्म­सं­स्थ­ता­दि­वि­धि­प­र­त्वा­द्वा­क्य­जा­तस्य नैवमिति चशब्दार्थमाह -
अर्थान्तरेति ।

तत्र ब्रह्म­सं­स्थ­ता­दि­वि­धि­प­रत्वं त्रय इत्यादिवाक्यस्य साधयति -
त्रय इत्यादिना ।

अन्यत्र विहितस्यान्यत्र परामर्शादन्यत्र विधिकल्पनादिहैव कल्पना लघ्वीत्याशङ्कते -
नन्विति ।

परा­म­र्श­स्या­नु­वा­दा­ख्यस्य पुरो­वा­दा­पे­क्ष­त्वा­त्त­द्व­शा­दा­श्र­म­प्र­ती­ति­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि तद्वि­ष­य­श्रु­ते­र­न्य­त्रा­श्रि­त­त्वा­द्गौ­र­व­मि­त्या­श­ङ्क्याह -
स्मृतीति ।

तयोरपि श्रुति­मू­ल­त्वा­द्वि­धि­यु­क्त­श्रु­ति­क­ल्प­ना­दि­हैव तत्कल्पने लाघ­व­मि­त्या­श­ङ्क्याह -
अतश्चेति ।
प्रत्य­क्ष­श्रु­ति­या­व­ज्जी­वा­दि­श्रुतिः ।

निरा­ल­म्ब­न­त्वा­त्क­थ­मपि सालम्बनत्वं युक्तमिति कल्पान्तरमाह -
अनधिकृतेति ।
येऽन्धादयो नित्या­दि­क­र्म­स्व­न­धि­कृ­ता­स्त­द्वि­षया आश्र­मा­न्त­र­स्मृ­त­य­स्त­दा­चा­रा­श्चे­त्यर्थः ।

आश्रमान्तराणां परामर्शेऽपि गार्ह­स्थ्य­व­त्प्रा­मा­णि­क­त्व­सि­द्धे­र­नु­ष्ठे­य­तेति शङ्कते -
नन्विति ।

परा­म­र्श­सा­म्य­म­ङ्गी­क­रोति -
सत्यमिति ।
तर्हि प्रामा­णि­क­त्वे­ना­नु­ष्ठे­य­त्व­मपि तुल्यं स्यादि­त्या­शङ्क्य न परा­म­र्श­मा­त्रा­द्गा­र्ह­स्थ्य­सिद्धिः ।

अपि तु प्रत्य­क्ष­श्रु­ति­वि­धा­ना­दिति विशेषमाह -
तथापीति ।

गार्हस्थ्यमेव श्रौतमिति स्थिते ब्रह्म­सं­स्थ­ता­स्तु­त्य­र्थ­मेव त्रय इत्या­द्या­श्र­मा­न्त­र­व­च­न­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।

निन्द्य­मा­न­त्वा­च्चा­श्र­मा­न्त­र­म­न­नु­ष्ठे­य­मि­त्याह -
अपिचेति ।

तत्र सूत्रावयवं योजयति -
अपवदतीति ।

तत्र त्रय इत्या­दि­वा­क्य­स्या­र्थ­त्व­मुक्त्वा वाक्यान्तरमपि तद्व­दे­वा­र्था­न्त­र­प­र­त्व­माह -
तथेति ।
तेऽर्चि­ष­म­भि­स­म्भ­वन्ति सूर्यद्वारेण ते विरजाः प्रया­न्ती­ति­वा­क्य­शे­षा­द्दे­व­या­नो­क्ति­परं तदित्यर्थः ।

आश्र­म­वा­च­क­श­ब्दा­भा­वा­च्चा­र्था­न्त­र­प­र­त्व­मि­त्याह -
सन्दिग्धं चेति ।

प्रव्र­ज­न्ती­त्या­श्र­म­वा­चि­श­ब्द­दृ­ष्टे­र­नु­ष्ठेयं पारि­व्रा­ज्य­मि­त्या­श­ङ्क्याह -
तथेति ।
एवं­वि­शि­ष्टोऽ­य­मा­त्म­लोको यदेनं साक्षा­त्क­र्तु­मि­च्छन्तो दुरनुष्ठेयामपि प्रवज्यां कुर्वन्तीति स्तुतिर्न तद्विषयो विधि­र्व­र्त­मा­ना­प­दे­शा­दि­त्यर्तः ।

पूर्व­प­क्ष­मा­क्षि­पति -
नन्विति ।

प्रत्य­क्ष­वि­धा­न­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि पूर्व­प­क्ष­सि­द्धि­रि­त्या­शङ्क्य नास्तीदं विधानमितिकृत्वा चिन्तेयमित्याह -
अनपेक्ष्येति ॥ १८ ॥

सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
अनुष्ठेयमिति ।

पूर्व­प­क्ष­म­नु­भाष्य तन्नि­रा­स­प्र­तिज्ञां विवृणोति -
वेद इति ।

तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

तस्या­क्ष­रा­र्थ­माह -
समा हीति ।

तस्यैव तात्पर्यार्थमाह -
यथेति ।
त्रयो धर्मस्कन्धा इत्य­त्रो­र्ध्व­रे­तस आश्रमाः श्रुत्य­न्त­र­प्र­सिद्धा एव परामृश्यन्त एत­द्वा­क्य­प­रा­मृ­ष्ट­त्वा­द्गा­र्ह­स्थ्य­व­दि­त्यर्थः ।

परामर्शस्य विधिपूर्वकत्वे दृष्टान्तमाह -
यथेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्य­त्रो­प­वी­त­वि­धि­परे वाक्ये विध्य­न्त­र­सि­द्ध­यो­रेव निवी­त­प्रा­ची­ना­वी­त­यो­र्यथा परा­म­र्श­स्त­था­त्रा­पी­त्य­क्ष­रार्थः । निवीतं मनु­ष्या­णा­मि­त्यादिः दर्शपूर्णमासयोः श्रुतं तत्रोपवीतं विधीयत एवेतरयोस्तु विधिरर्थवादो वेति संशये सत्य­पू­र्वा­र्थ­ला­भा­न्म­नु­ष्य­श­ब्दस्य च मनु­ष्य­प्रा­धा­न्य­वा­चि­त्वा­दा­तिथ्ये कर्मणि निवीतं पित्र्ये च प्राचीनावीतमिति प्राप्ते मनुष्याणां क्रियासु सौकर्याय कण्ठ­ल­म्बि­व­स्त्र­धा­र­णस्य वा देहार्धबन्धनस्य वा निवीतस्य प्राप्त­त्वा­त्प्रा­ची­ना­वी­तस्य च पितृयज्ञे वाक्यान्तरेण प्राप्ते­स्त­द­नु­वा­देन निवी­त­मि­त्या­दि­रु­प­वीतं स्तोतुमर्थवाद इति प्राच्यां मीमांसायां स्थितम् । तस्यैव परा­म­र्श­श्रु­ता­वपि त्रय इत्याद्यायां गार्ह­स्थ्य­व­दा­श्र­मा­न्त­र­मपि विहितमेवान्यत्र परामृश्यते तस्य विध्य­पे­क्ष­त्वा­दि­त्यर्थः ।

साम्य­श्रु­ति­फ­ल­माह -
तस्मादिति ।

त्रय इत्य­त्रा­श्र­मा­न्त­रस्य गार्हस्थ्येन साम्य­श्रु­ति­रुक्ता, सम्प्रति पारि­व्रा­ज्य­वा­क्येऽपि साम्यश्रुतिमाह -
तथेति ।
अस्येति पारि­व्रा­ज्योक्तिः । विधे­य­सा­हि­त्या­द­स्यापि विधेयतेत्यर्थः ।

वाक्यान्तरेऽपि साम्यश्रुतिमाह -
ये चेति ।

अस्येति वानप्रस्थोक्तिः विधे­य­प­ञ्चा­ग्नि­वि­द्यया

तस्य सहोक्तिरस्ति तेन तद्वदेव वान­प्र­स्थ­म­नु­ष्ठे­य­मि­त्यर्थः । परो­क्ति­मु­द्भाव्य प्रत्याह -
यत्त्वित्यादिना ।

किं तन्निश्चयकारणं तदाह -
त्रय इति ।

स्कन्धशब्दस्य समूहवाचित्वेऽपि त्रित्व­प्र­तिज्ञा स्यादि­त्या­श­ङ्क्याह -
नचेति ।

यजेत दद्या­दि­त्या­द्यु­त्प­त्ति­वि­धि­भिन्नाः सन्तो बहवो धर्मा नाश्र­म­स­म्ब­न्ध­म­न्त­रेण त्रित्वेऽ­न्त­र्भा­व­यितुं शक्यन्ते । यद्याश्रमपरः स्कन्धशब्दो न स्यान्न स्यात्ततो यज्ञादीनां त्रित्वं तेषा­म­धि­कृ­त­त्वा­दतः स्कन्धशब्दस्य समू­हा­र्थ­त्वा­यो­गा­त्त्रि­त्व­मेव स्कन्धा­ना­मा­श्र­म­त्व­नि­श्चा­य­क­मि­त्यर्थः । कथं तर्हि तेषामाश्रमाणां विभागः, तत्राह -
तत्रेति ।

वाक्यान्तरेऽपि निश्चायकं दर्शयति -
ये चेति ।

परोक्तं निरस्य स्वमतमुपसंहरति -
तस्मादिति ॥ १९ ॥

परा­म­र्श­मु­पे­त्या­नु­ष्ठे­य­त्व­मु­क्त­मि­दानीं विधि­रे­वा­य­मि­त्याह -
विधिर्वेति ।

प्रतिज्ञां विभजते -
विधिरिति ।

स्मृत्या­चा­र­यो­रा­श्र­म­च­तु­ष्ट­य­नि­वि­ष्ट­यो­र्भ्रा­न्ति­त्वा­यो­गा­न्मू­ल­क­ल्प­नायां विधि­यु­क्त­वा­क्य­क­ल्प­ना­ल्ल­घी­य­स्त्रय इत्या­दि­ष्वा­श्र­म­वि­धि­क­ल्प­मिति भावः । अल्प­फ­ल­त्वे­ना­श्र­म­त्र­य­नि­न्दया ब्रह्म­सं­स्थ­ता­स्तु­ते­रे­क­वा­क्य­त्व­नि­श्च­या­त्त­द्भ­ङ्गे­ना­त्रा­श्र­म­वि­धि­क­ल्प­न­म­यु­क्त­मिति शङ्कते -
नन्विति ।

एकवाक्यताधीरेव कथं, तत्राह -
प्रतीयते चेति ।

एक­वा­क्य­त्व­स­म्भवे तद्भेदो न युक्ति­मा­नि­त्य­ङ्गी­क­रोति -
सत्यमिति ।

आश्रमाणां पूर्व­सि­द्धे­र­भा­वा­त्त­त्प­रा­म­र्शेन स्तुते­र­यो­गा­दे­क­वा­क्य­तै­वा­त्रा­यु­क्ते­त्याह -
सतीमिति ।

किञ्च विधि­यु­क्त­वा­क्या­न्त­र­क­ल्प­ना­या­मा­श्र­मा­न्त­राणां विहि­त­त्वो­प­ग­म­प्र­सक्त्या स्वप­क्ष­हा­ना­त्त­त्क­ल्प­ना­दि­है­वा­भीष्टे वाक्ये विधिमात्रकल्पना युक्तेत्याह -
विध्यन्तरस्येति ।

किञ्च मुख्य­मा­श्र­मा­न्त­र­प्र­त्ययं त्यक्त्वा स्तुति­ल­क्ष­ण­यै­क­वा­क्य­त्व­क­ल्प­ना­यो­गा­द्वा­क्य­भे­देन विधि­रे­वा­य­मि­त्याह -
विस्पष्टाच्चेति ।

एक­वा­क्य­ता­ज्ञा­नेऽपि तत्त्या­गे­ना­पू­र्वा­र्थ­विधौ दृष्टान्तमाह -
धारणवदिति ।

महापितृयज्ञे दिष्ट­ङ्ग­ता­ग्नि­होत्रे च श्रुतं वाक्यमुदाहरति -
अधस्तादिति ।

उदा­ह­र­ण­व्या­ख्यो­प­यो­गि­त्वेन वाक्य­स्या­भी­ष्ट­म­र्थ­माह -
अत्रेति ।
प्रकृते कर्मविशेषे स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तदा पित्र्ये होमे तस्य हवि­षोऽ­ध­स्ता­त्स­मिधं धार­य­न्न­नु­द्र­वे­दि­त्य­धो­धा­र­णस्य विहितत्वादुपरि हीति तच्छेषानुवादतया तदे­क­वा­क्य­त्व­सि­द्धा­वु­प­रि­ष्टा­त्स­मि­द्धा­र­ण­स्या­पू­र्व­त्वा­द्दैवे होमे वाक्यभेदं कृत्वा तद्विधीयत इत्यर्थः ।

उक्तेऽर्थे तार्तीयं सूत्रमुदाहरति -
तथेति ।

उपरि हि देवेभ्यो धार­य­ती­त्य­त्रो­प­रि­धा­रणं विधीयते न वेति सन्देहे धारयतीति वर्त­मा­नो­प­दे­शा­दु­परि हीति हिश­ब्द­श्रु­ते­श्चो­परि समिधः प्राप्ते­र्ह­वि­ष­श्चा­भ्य­र्हि­त­द्र­व्य­त्वेन येन केना­च्छा­द­न­प्राप्तौ स्रुग्दण्डे समि­ध­मु­प­स­ङ्गृ­ह्या­नु­द्र­व­ती­ति­वा­क्या­न्त­र­प्रा­प्त­स­मि­न्नि­य­म­ना­द­य­म­नु­वादो न विधिरिति प्राप्ते स्रुग्दण्डे समि­ध­मु­प­स­ङ्गृ­ह्येति हविषः प्राग्देशे समिद्धारणस्य प्राप्तत्वेऽपि तस्मादुपरि तद्धा­र­ण­स्या­प्रा­प्ते­र्भङ्क्त्वा हिशब्दं पञ्चमलकारेण विधि­रे­वा­य­मि­त्याह -
विधिस्त्विति ।

दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह -
तद्वदिति ।

परा­म­र्श­प­क्ष­मे­वा­व­ल­म्ब्या­श्र­माणां परामर्शेऽपि पारिव्राज्यस्य विधि­रे­ष्ट­व्योऽ­न्यथा स्तुत्य­यो­गा­दि­त्याह -
यदेति ।

ब्रह्मसंस्थतया यत्स्तूयते तद्विधीयत इति न्याया­द्वि­धे­य­त्वेऽपि पारिव्राज्यस्य किं स्यादि­त्या­शङ्क्य तदर्थं विचारमवतारयति -
सा चेति ।

पक्षद्वयस्य निर्बी­ज­त्वा­न्नेदं विचा­र्य­मि­त्या­शङ्क्य परामर्शश्रुतौ परिव्राजकोऽपि परामृष्टो न वेति विक­ल्प्या­द्य­म­नूद्य प्रथ­म­प­क्ष­प्रा­प्ति­माह -
यदीति ।
परा­मृ­ष्ट­त्वा­वि­शे­षा­च्च­तु­र्ष्वा­श्र­मेषु यः कश्चि­द्ब्र­ह्म­संस्थो भविष्यतीति सम्बन्धः ।

ब्रह्म­सं­स्थोऽ­ना­श्रमी कस्मान्न स्यादि­त्या­श­ङ्क्या­ना­श्र­मि­त्वस्य निन्द्य­मा­न­त्वा­दि­त्याह -
अनाश्रमित्वेति ।

द्वितीयमनूद्य द्विती­य­प­क्ष­प्रा­प्ति­माह -
अथेति ।

पक्षयोः सम्भावनया विचा­रा­र­म्भ­मुक्त्वा पूर्वपक्षमाह -
तत्रेति ।
परिव्राजकस्यापि यम­नि­य­मा­दि­त­पः­स­म्भ­वा­दि­त्यर्थः ।

आश्र­मा­णा­मे­कै­क­शोऽ­सा­धा­र­ण­ध­र्म­रू­प­द­र्श­ना­यो­प­क्र­मा­त्त­द­नु­सा­रेण चोपसंहारस्य युक्त­त्वा­त्त­पः­श­ब्देन नोभयग्रहणमिति दूषयति -
तदिति ।

किं तर्हि युक्तं तदाह -
यथेति ।

कस्तर्हि तपःशब्दार्थः, तत्राह -
तपश्चेति ।

तेषां तत्प्र­धा­न­त्वेऽपि तपःशब्दस्य साधारण्यं किंं न स्यात् , तत्राह -
तपःशब्दस्येति ।
तस्य कृच्छ्रादौ रूढेरन्यत्र तदभावात्तेन वानप्रस्थ एव परामृश्यत इत्यर्थः ।

कथं तर्हि परि­व्रा­ज­क­ध­र्मेऽपि तपःशब्दप्रयोगः, तत्राह -
भिक्षोस्त्विति ।

इतश्च पूर्वं परिव्राजको नोक्त इत्याह -
चतुष्ट्वेनेति ।
नहि प्रसि­द्ध­स­ङ्ख्या­भे­देषु सङ्ख्या­न्त­रो­क्ति­र्यु­क्ते­त्यर्थः ।

पृथ­गु­क्ति­सा­म­र्थ्या­दपि प्रकृ­ता­श्र­म­त्र­या­ति­रिक्तो ब्रह्मसंस्थ इत्याह -
अपिचेति ।

भेदव्यपदेशेऽपि कथं पृथक्त्वं, तत्राह -
पृथक्त्वे चेति ।
सर्व एते पुण्यलोका इत्यत्र भिक्षुरपि परा­मृ­ष्ट­श्चे­त्त­स्या­ब्र­ह्म­सं­स्थ­त्वा­भा­वा­द­मृ­त­त्व­मे­वेति न पुण्यलोकत्वं विरोधात् । नच तपःशब्देन भिक्षोरपि ग्रहे तद्वर्जनं युक्तमेत इति प्रकृतानां कार्त्स्न्येन परामर्शात् । तस्मा­द्भे­दोक्त्या पृथ­क्त्व­मे­वे­त्यर्थः ।

अपृथक्त्वे भेदो­क्ति­र­यु­क्ते­त्यत्र दृष्टान्तमाह -
नहीति ।

पृथक्त्वे तु तदु­क्ति­र्यु­क्ते­त्याह -
भवतीति ।
न चाव­स्था­भे­दा­पे­क्षया दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः सिद्धि­र­पृ­थ­क्त्वेऽ­पीति वाच्यम् ।

सति कर्मित्वे मन्दप्रज्ञत्वे च ब्रह्मसंस्थताया महाप्रज्ञत्वस्य चायो­गा­त्पृ­थ­क्त्व­ध्रौ­व्या­दिति मत्वोपसंहरति -
तस्मादिति ।

किमेष ब्रह्म­सं­स्थ­शब्दो यौगिको रूढो वेति विकल्प्याद्ये न परि­व्रा­ज­क­मा­त्र­वि­ष­य­तेति शङ्कते -
कथमिति ।

द्वितीयं निराह -
रूढीति ।

यौगिकत्वमुपेत्य परिहरति -
अत्रेति ।

यथोक्तं ब्रह्म­सं­स्थ­त्व­म­न्ये­षा­मपि सिध्य­ती­त्या­श­ङ्क्याह -
तच्चेति ।

तुल्यं संन्यासिनोऽपि स्वाश्र­म­क­र्मा­न­नु­ष्ठाने प्रत्यावायित्वं तत्कुतोऽस्य ब्रह्म­सं­स्थत्वं, तत्राह -
परिव्राजकस्येति ।

तस्यापि शम­द­मा­द्य­नु­ष्ठे­य­मिति कुतो ब्रह्म­सं­स्थ­ते­त्या­श­ङ्क्याह -
शमेति ।

तत्र हेतुः -
ब्रह्मेति ।
शमा­दे­र्ब्र­ह्म­सं­स्थ­ता­ङ्ग­त्वान्न तद्वि­रो­धि­ते­त्यर्थः ।

गृहस्थादीनामपि ब्रह्म­सं­स्थि­त­त्वा­वि­रो­ध्येव स्वाश्रमविहितं कर्मे­त्या­श­ङ्क्याह -
यज्ञेति ।
तानि हि रागा­द्या­क्षि­प्तानि न च रागादिमतां ब्रह्मसंस्थतेति भावः ।

शमदमाद्युपेतं ब्रह्म­नि­ष्ठ­त्व­मेव संन्यासिनः स्वाश्र­म­क­र्मे­त्युक्तं तदकरणे तस्य प्रत्यवायित्वं त्वम्प­दा­र्थ­वि­वे­का­यै­वेति स्मृतेरित्याह -
तदिति ।
चकारादितरेषामपि तत्त­दा­श्र­म­क­र्मा­ति­क्रमे प्रत्य­वा­यि­त्व­म­कु­र्व­न्वि­हितं कर्मे­त्या­दि­स्मृ­ति­रपि सूच्यते ।

संन्यासिनः सर्वकर्मत्यागेन ब्रह्म­सं­स्थ­त्व­मेव स्वाश्र­म­क­र्मे­त्यत्र मानमाह -
तथाचेति ।
न्यासः संन्यासो ब्रह्मेति स्तूयते ।

तत्र हेतुमाह -
ब्रह्मा हीति ।

हिरण्यगर्भो हि श्रुतिस्मृतिषु परोऽ­भी­ष्ट­स्त­थापि कथं सन्या­स­स्त­दा­त्मकः, तत्राह -
परो हीति ।

तस्य परत्वे हेतुः -
ब्रह्मेति ।
तद्धी­हे­तु­त्वा­त्परो यस्मादेष संन्या­स­स्त­स्मा­द्ब्र­ह्मे­त्यर्थः ।

तस्य परत्वं स्फोरयति -
तानीति ।
पूर्वोक्तानि सत्यादीनि प्रसिद्धानि तानि ज्ञान­ही­ना­न्य­व­रा­ण्ये­तानि तपांसि निकृ­ष्ट­त्व­हे­तु­त्वा­न्न्यास एवै­भ्योऽ­ति­रिक्तः श्रेष्ठो ब्रह्म­सं­स्थ­ता­द्वा­राऽ­मृ­त­त्व­हे­तु­त्वा­दि­त्यर्थः ।

तस्य कर्मान्तराभावे वाक्यान्तरमाह -
वेदान्तेति ।
शुद्धबुद्ध्या विरक्ताः संन्या­स­यो­गा­द्वे­दा­न्त­वि­ज्ञा­नेन सुनिश्चितार्था मुच्यन्त इति वच­ना­त्क­र्मा­न्त­रा­भावः संन्यासिनां भातीत्यर्थः । न कर्मणा न प्रजयेत्याद्या भूयस्यः श्रुतयोऽत्र सन्तीति वक्तुमादिपदम् । तस्मिन्ब्रह्मणि बुद्धिर्मनो येषां ते तथा तदेव ब्रह्मात्मा स्वरूपं येषां ते तदात्मानः ।

तत्रैव निश्चयेन स्थितिमाह -
तन्निष्टा इति ।

विष­या­न्त­र­पा­र­वश्यं व्यावर्तयति -
तदिति ।
यथोक्तान्यपि कर्माणि परि­हा­ये­त्या­दि­स्मृ­ति­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

उक्त­श्रु­ति­ता­त्प­र्य­माह -
ब्रह्मेति ।

ब्रह्म­सं­स्थ­श­ब्दस्य परिव्राजके रूढि­मु­पे­त्यो­प­सं­ह­रति -
तस्मादिति ।
यथा गृहस्थशब्दस्य यौगिकत्वे सत्य­ति­प्र­स­ङ्ग­प­रि­हा­रा­श्र­म­वि­शेषे रूढत्वेऽपि न गार्ह­स्थ्य­मा­त्रा­त्पु­ण्य­लो­काप्तिः किन्तु यथो­क्ता­ग्नि­हो­त्रा­दि­क­र­णात् । तथा परिव्राजकस्यापि ब्रह्मसंस्थस्य वाक्या­र्थ­सा­क्षा­त्का­र­द्वा­रैव मुख्य­म­मृ­त­त्व­मिति । कुतो ज्ञाना­न­र्थ­क्य­मि­त्यर्थः ।

एवमेकदेशिमतं प्रत्याख्याय ब्रह्म­सं­स्थ­श­ब्दस्य परि­व्रा­ज­क­वि­ष­यत्वे स्थिते संस्त­व­सा­म­र्थ्या­द्ब्र­ह्म­सं­स्थत्वं पारि­व्रा­ज्य­मि­त­र­प­रा­म­र्शेऽपि विधेयमिति पर­म­प्र­कृ­त­मु­प­सं­ह­रति -
तदेवमिति ।

शिष्य­बु­द्धि­वि­का­सार्थं परा­म­र्श­श्रु­ति­मा­श्रित्य कृत्वाचिन्तया विचारं कृत्वा कृत्वा­चि­न्ता­मु­द्धा­ट­यति -
अनपेक्ष्येति ।
यदि वेतरथेति ब्रह्मचर्ये स्थितस्यैव पारि­व्रा­ज्येच्छा गार्हस्थ्ये च वैराग्यं दैवयोगाद्यदि स्यादित्यर्थः ।

यत्त्व­न­धि­कृ­ता­न्धा­दि­वि­षयः संन्यासः स्यादिति, तत्राह -
नचेति ।
अवि­शे­ष­श्रु­ति­र­सति बाधके न विशेषे सङ्को­च­म­र्ह­ती­त्यर्थः ।

इतश्चेदं वाक्यं नान­धि­कृ­त­वि­ष­य­मि­त्याह -
पृथगिति ।
अनधिकृतानां संन्यासस्येति शेषः । व्रती गोदा­ना­दि­वे­द­व्र­त­वान् । अव्रती तद्विपरीतः । स्नातको गुरु­कु­ल­नि­वृ­त्ति­रू­प­स्ना­ना­न­न्त­र­मपि गुरुशुश्रूषापरः । तद्वि­प­री­तोऽ­स्ना­तकः । उत्स­न्ना­ग्नि­र्मृ­त­भार्यः पूर्व­भे­वा­ग्नि­प­रि­ग्र­ह­र­हितो वा । परिव्रजेदिति कर्मा­धि­का­र­प्र­ति­प­त्ति­ही­ना­ना­मपि संन्यासस्य पृथगुक्तेर्न वाक्य­म­न­धि­कृ­त­वि­ष­य­मि­त्यर्थः ।

संन्या­स­वि­धे­र­न­धि­कृ­ता­वि­ष­यत्वे हेत्वन्तरमाह -
ब्रह्मेति ।
श्रवणादिद्वारा संन्यासस्य ब्रह्म­ज्ञा­न­दा­र्ढ्या­र्थत्वं प्रकरणादिसिद्धं तेन सम­र्थ­स्यै­वा­धि­का­र­स्त­स्मि­न्नि­त्यर्थः ।

पारिव्राज्यस्य ब्रह्म­धी­दा­र्ढ्या­र्थत्वे श्रुतिं प्रमाणयति -
तच्चेति ।
ब्रह्मभूयाय ब्रह्मभावाय तत्सा­क्षा­त्का­रा­ये­त्यर्थः ।

अन्त­र्ग­र्भि­ता­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
प्रामाणिकत्वं तच्छब्दार्थः ।

तेषां प्रमि­त­त्वे­ना­नु­ष्ठी­य­मा­न­त्वेऽपि प्रकृते किं जातमित्याशङ्क्य प्रथ­मा­धि­क­र­णार्थं निगमयति -
सिद्धं चेति ॥ २० ॥

अनु­ष्ठे­य­सा­म्य­श्रु­ते­रा­श्र­मा­न्त­र­म­नु­ष्ठे­य­तया विधे­व­मि­त्यु­क्तम् । सम्प्रति रस­त­म­त्वा­दी­ना­म­ङ्गा­श्रि­त­त्वे­ने­य­मेव जुहू­रि­त्या­दि­श्रु­ति­तु­ल्य­तया स्तुत्य­र्थ­त्व­मि­त्या­शङ्क्य प्रत्याह -
स्तुतीति ।

अधिकरणस्य विषयं वदन्वाक्यानि पठति -
स इति ।

एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग्वाच ऋगृचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां सामान्यानां भूते­षू­त्त­रो­त्तरं सार­त्वे­नो­क्ता­ना­म­ति­श­येन सारो रसतमः परमः पर­मा­त्म­प्र­ती­क­त्वा­त्प­रस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः पर­ब्र­ह्म­व­दु­पास्य इत्यर्थः । पृथि­व्या­द्य­पे­क्ष­या­ष्टमः कोऽसौ यदुद्गीथो य उद्गीथ ओङ्कार इत्यर्थः । उद्गी­था­द्य­ङ्गा­व­ब­द्ध­श्रु­ती­र­धि­कृत्य पर्ण­म­यि­त्वा­दा­व­ङ्ग­स­म्बन्धे विध्यु­प­ल­ब्धे­स्त­था­वि­धेऽपि स्वर्गो लोक इत्यादौ स्तुत्यु­प­ल­ब्धेश्च संशयमाह -
किमिति ।
अङ्गा­व­ब­द्धा­ना­मपि बुद्धीनां स्तुति­त्वा­भा­वा­द्वि­धे­य­तया स्वातन्त्र्येण पुरु­षा­र्थ­हे­तुत्वे सत्य­न­ङ्गा­त्म­धियः स्वतन्त्रतया फल­व­त्त्व­मु­प­नि­ष­दु­त्प­न्नायाः किं वक्त­व्य­मि­त्यु­क्ते­रत्र पादादिसङ्गतिः । पूर्वपक्षे स्तुति­त्वा­द­ङ्ग­धी­ष्व­नु­ष्ठा­ना­सिद्धिः ।

सिद्धान्ते तासां विधे­य­त्वा­त्त­त्सि­द्धि­रि­त्य­ङ्गी­कृत्य संशयमनूद्य पूर्वपक्षयति -
इत्यस्मिन्निति ।
विमताः प्रत्ययाः स्तुतयः कर्मा­ङ्गे­षू­त्कृ­ष्ट­प­दा­र्था­ध्या­स­प्र­त्य­य­रू­प­त्वा­त्स्वर्गो लोक आहवनीय इत्या­दि­प्र­त्य­य­व­दि­त्यर्थः । जुहूरियमेव पृथिवीति स्तूयते कूर्मश्चयनगतः सन्नादित्य इत्या­ह­व­नी­योऽग्निः स्वर्गो लोक इति­व­त्स्तु­ति­रे­वे­त्यर्थः ।

स्तुति­क­ल्प­ना­द्वि­धि­क­ल्प­न­मेव युक्त­म­नु­ष्ठा­न­फ­ला­भा­वा­दिति परिहरति -
नेत्यादिना ।

विमताः प्रत्यया न कर्मा­ङ्ग­स्तु­त­योऽ­पू­र्वा­र्थ­त्वा­त्क्र­त्व­न्त­र­व­दि­त्याह -
नेति ।

विमता धियो न कर्माङ्गस्तुतयो विशि­ष्ट­फ­ल­स­म्ब­न्धि­त्वा­त्सं­म­त­व­दि­त्याह -
विधीति ।

वायुर्वै क्षेपि­ष्ठे­त्या­दि­व­दु­द्गी­था­दि­श्रु­तीनां स्तुत्य­र्थ­त्वेऽपि कस्मा­द­र्थ­वत्त्वं न स्यादि­त्या­श­ङ्क्याह -
विधायकस्येति ।
अस्तु तर्हि विधा­य­क­श­ब्द­शे­ष­त्वे­नै­वो­द्गी­था­दि­श्रु­ती­ना­मपि स्ताव­क­त­या­र्थ­वा­द­त्वम् ।

तत्र वाच्यं किमु­द्गी­था­दि­प्र­त्य­यै­रु­द्गी­था­दि­विधिः स्तूयते किंवा तदु­पा­स्ति­वि­धि­रिति विकल्प्याद्यं दूषयति -
प्रदेशान्तरेति ।
उद्गीथादिविधेः कर्म­प्र­क­र­ण­स्थ­त्वेन व्यवधानान्न तेनो­द्गी­था­दि­श्रु­ती­ना­मे­क­वा­क्यता । विमता धियो न कर्मा­ङ्ग­स्तु­त­योऽ­त­त्प्र­क­र­ण­स्थ­त्वा­त्क्र­त्व­न्त­र­व­दिति भावः ।

परोक्तं दृष्टान्तं विघटयति -
इयमेवेति ।

अनुमानत्रयफलं निगमयति -
तस्मादिति ॥ २१ ॥

न द्वितीय उपा­स्य­वि­ष­या­र्प­णेन विध्यन्वययोगे लक्षणया स्तुत्य­र्थ­त्वा­यो­गा­दि­त्याह -
भावेति ।
संनि­हि­त­वि­धे­र्वेि­ष­या­र्प­णे­ना­र्थ­वत्त्वे रसतमादिवादानां सम्भवति तदी­स्तु­ति­प­र­त्व­मपि तत्रायुक्तं स्तुत्यपेक्षया विष­या­र्प­ण­स्या­न्त­र­ङ्ग­त्वात् ।

तत्र कर्मा­ङ्ग­स्तु­ति­प­रत्वं नेति किमु वक्तव्यमिति मन्वानो व्याचष्टे -
उद्गीथमिति ।

निम­न्त्र­णा­दि­ष्वपि लिङा­दि­स्म­र­णा­त्क­थ­मु­पा­सी­ते­त्या­दि­श­ब्दस्य विधि­प­र­ते­त्या­श­ङ्क्याह -
तथाचेति ।

धातू­ना­म­ने­क­त्वेऽपि ‘डुकृञ् करणे’ ‘भू सत्तायाम्’ ‘अस भुवि’ इति त्रीनेव धातू­न्भा­व­ना­सा­मा­न्य­वा­चिनः सर्व­व्या­प्त्य­र्थ­मु­दा­ह­रति -
कुर्यादिति ।
आक्षिप्तकर्तृका भावना कुर्या­दि­त्युक्ता सैवा­क्षि­प्त­क­र्मिका क्रिये­ते­त्यु­दा­हृता । सैव कर्तव्यमिति धात्व­र्थो­प­स­र्ज­न­भू­ताऽ­भि­हि­तेति भेदः । भवेदित्यत्रापि भूयेत भवि­त­व्य­मि­त्यु­दा­हा­र्यम् ।

भव­ते­र­स्ते­श्चै­का­र्थ्येऽपि प्राप्त्या­द्यर्थं भवति दृष्ट्वा पृथ­ग­स्ति­मु­दा­ह­रति -
स्यादितीति ।
यथा­पू­र्व­मु­दा­ह­र­ण­मि­हापि द्रष्टव्यम् । पाठक्रममनुसृत्य पञ्च­म­मि­त्यु­क्तम् ।

एत­द्धा­त्व­नु­ग­त­प्र­त्ययैः सर्व­भा­व­ना­नु­ग­त­श्रे­यः­सा­ध­न­त्व­रूपो विधिरुच्यते न तु प्रति­धा­तु­प्र­त्ययं च भाव­ना­भे­दोऽ­स्तीति मत्वाह -
एतदिति ।

कथं तर्हि निमन्त्रणादिषु लिङादिस्मरणं मिथो­वि­रो­धा­दि­त्या­श­ङ्क्यो­त्स­र्गतो वेदे विधिपरा लिङा­द­योऽ­प­वा­दा­द­न्य­था­त्व­मि­त्य­भि­प्रे­त्याह -
लिङादीति ।

उद्गी­था­दि­श्रु­तीनां स्तुत्य­र्थ­त्वा­भावे हेत्वन्तरं चकारसूचितमाह -
प्रतीति ।

फल­भे­द­श्र­व­ण­मु­प­सं­ह­रति -
तस्मादिति ।
पूर्वो­क्ता­पू­र्व­त्वा­दि­स­मु­च्च­या­र्थ­म­पी­त्यु­क्तम् ॥ २२ ॥

उद्गी­था­दि­श्रु­ते­रु­पा­स्ति­वि­ष­या­र्प­कत्वं ज्यायो रस­त­म­त्वा­दे­रि­त्यु­क्तम् । अधु­ना­ख्या­ना­ना­मपि विद्यास्तुतेः सका­शा­त्पा­रि­प्ल­व­शे­षत्वं ज्यायोऽ­नु­ष्ठा­ना­व­सा­न­यो­गा­दि­त्य­शङ्क्य परिहरति -
पारिप्लवेति ।

विष­यो­क्ति­पू­र्व­क­मा­ख्या­न­त्व­सा­म्या­द्वि­द्या­सं­नि­धेश्च संशयमाह -
अथेत्यादिना ।
पारिप्लवप्रयोगो नानाश्वमेधे पुत्रा­मा­त्य­प­रि­वृ­ताय राज्ञे पारि­प्ल­व­मा­च­क्षी­ते­त्या­दिना नाना­वि­धा­ख्या­न­क­थनं विहितम् । अत्र चोप­नि­ष­द्ग­ता­ख्या­नानां तादर्थ्यनिरासेन तत्र तत्र संनि­हि­त­स्व­त­न्त्र­पु­रु­षा­र्थ­हे­तु­वि­द्या­र्थ­त्व­स­म­र्थ­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे प्रयो­ग­शे­ष­त्वा­दा­ख्या­नानां वेदान्तगतानामपि तद्भा­वा­द्वि­द्या­प्रा­धा­न्या­सिद्धिः ।

सिद्धान्ते विशे­ष­णा­दु­प­नि­ष­दा­ख्या­नानां व्यव­च्छे­दा­त्ते­षा­म­प्र­यो­ग­शे­ष­त्वा­द्वि­द्या­प्र­धा­न­त्व­सि­द्धि­रिति स्वीकृत्य पूर्वपक्षयति -
पारिप्लवेति ।

गुरु­शि­ष्य­स­मा­चा­र­प्र­द­र्श­नेन बुद्धि­सौ­क­र्य­द्वारा च विद्याशेषत्वं साम­र्थ्य­लि­ङ्गा­दासां सिद्ध­मि­त्या­शङ्क्य पारि­प्ल­व­श्रु­ति­वि­रोधे लिङ्ग­म­प्र­यो­ज­क­मि­त्याह -
आख्यानेति ।

यस्याश्विने शस्यमाने सूर्योऽ­भ्यु­दि­या­दपि सर्वा दाश­त­यी­र­नु­ब्रू­या­दिति सर्वा­सा­मृ­चा­मा­श्वि­न­ग्र­ह­श­सने सर्वश्रुत्या विनियुक्तानामपि प्राति­स्वि­क­वि­नि­यो­ग­व­दा­ख्या­नानां पारिप्लवे पारि­प्ल­व­मा­च­क्षी­तेति चोदितानामेतेन लिङ्गेन संनिधेर्वा विद्यायां विनियोगः स्यादि­त्या­शङ्क्य प्राति­स्वि­क­वि­नि­यो­गस्य समु­दा­य­वि­नि­यो­गस्य च श्रौतत्वेन तुल्य­त्वा­त्प्र­कृते च तद­भा­वा­न्मै­व­मि­त्याह -
ततश्चेति ।

आख्यानानां प्रयो­ग­शे­ष­त्वेऽपि सर्वेषां वेदा­न्ता­ना­म­त­च्छे­ष­त्वा­द्युक्तं विद्या­प्र­धा­न­त्व­मि­त्या­श­ङ्क्याह -
मन्त्रवदिति ।
देवस्य त्वेत्या­दि­मन्त्रे कस्यचिदेव पदस्य समवेतार्थतया प्रयोगशेषत्वे सिद्धे तदेकवाक्यतया पदान्तराणामपि तच्छे­ष­त्व­मि­ष्टम् । तथाख्यानानां प्रयोगशेषत्वे तदेकवाक्यत्वेन सर्वोपनिषदां तच्छेषत्वान्न विद्या­प्र­धा­न­ते­त्यर्थः ।

सामा­न्य­श्रु­ते­र्वि­शे­षो­क्त्याऽ­त­त्प­र­त्वान्न तया लिङ्गा­दि­बा­धोऽ­स्तीति सिद्धान्तयति -
तन्नेत्यादिना ।
अश्वमेधे प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह । द्वितीयेऽहनि यमो वैवस्वत इति । तृतीयेऽहनि वरुण आदित्य इत्या­द्या­ख्या­न­वि­शेषा वाक्यशेषे श्रुता­स्त­द्ब­ला­दु­प­क्र­मस्य सङ्कोचो युक्तः । न चोप­क्र­म­स्थ­स­र्व­श­ब्दा­दु­प­सं­हा­रस्था विशे­षो­क्ति­रु­प­ल­क्ष­णा­र्थेति वाच्यम् । आदौ सर्वा­ण्या­ख्या­नानि पारिप्लवे शंसतीत्युक्त्वा पारि­प्ल­व­मा­च­क्षी­तेति च विधाय मनुर्वैवस्वत इत्यादि पठ्यते । तत्र पुनर्विधानं वाक्य­शे­ष­स्था­ख्या­न­नि­य­मा­र्थ­म­न्यथा वैयर्थ्यात् ।

सर्वशब्दोऽपि वाक्य­शे­ष­स्थो­पा­ख्या­न­म­ध्य­स्थ­क­ति­प­य­प्र­यो­ग­मा­त्रे­णो­प­रमं व्याव­र्त­यि­तु­मि­त्य­र्थ­वा­निति मत्वा सिद्धान्तं विवृणोति -
पारिप्लवमिति ।

यत्त्वा­ख्या­न­सा­मा­न्या­त्पा­रि­प्ल­वार्था इमाः श्रुतय इति, तत्राह -
आख्यानेति ।

विशेषणफलं निगमयति -
तस्मादिति ॥ २३ ॥

तर्हि कुत आख्या­ना­न्यु­प­यु­क्ता­नी­त्या­शङ्क्य विशेषणश्रुत्या सर्वश्रुतौ भग्नायां निर्बाधः संनि­धि­र्वि­द्या­स्वे­वो­प­नि­ष­दा­ख्या­नानि नियुञ्जीतेत्याह -
तथाचेति ।

सूत्रार्थं विवृणोति -
असतीति ।

एक­वा­क्य­तो­प­स­म्बन्धं विभजते -
तथाहीति ।
प्ररो­च­न­म­नु­रा­ग­ज­न­नम् ।

संनि­हि­त­वि­द्या­भि­रा­ख्या­ना­ना­मे­क­वा­क्य­ता­प्र­ती­ति­मु­दा­ह­रति -
मैत्रेयीति ।

आख्यानत्वेऽपि पारि­प्ल­वा­र्थ­त्वा­द­र्श­नाच्च न तादर्थ्यं प्रकृ­ता­ख्या­ना­ना­मि­त्याह -
यथेति ।
उद­खि­द­दु­द्धृ­त­वा­न्हो­मा­येति यावत् ।

श्रुति­लि­ङ्ग­सं­नि­धि­भि­र्वि­द्या­र्थत्वे सिद्धे फलितमुपसंहरति -
तस्मादिति ॥ २४ ॥

कथानां विद्याशेषत्वे दर्शिते कर्मणामपि तर्हि तच्छेषत्वं तच्छे­ष­त्वा­भा­वेऽपि स्यादि­त्या­शङ्क्य प्रसङ्गागतं विचारं परिसमाप्य पुरु­षा­र्था­धि­क­र­णस्य फलमाह -
अत इति ।
ब्रह्मविद्या मोक्षे कर्मा­णी­ति­क­र्त­व्य­त्वे­ना­पे­क्षते न वेति वादि­वि­प्र­ति­पत्तेः सन्देहे यज्ञेनेति विविदिषायां विनि­यु­क्त­य­ज्ञा­दीनां विष­य­सौ­न्द­र्य­ल­भ्यायां तस्या­म­न­न्व­या­त्त­द्वि­ष­य­ज्ञा­न­सा­ध्य­मो­क्षा­न्व­यस्य युक्त­त्वा­द­पे­क्षत इति पूर्वपक्षे काष्ठैः पचतीत्यत्र पाक­सा­ध­न­ज्वा­ला­ज­न­क­का­ष्ठानां पाक­हे­तु­त्वा­द­र्श­ना­ज्ज्ञा­ने­च्छा­ज­न­का­न्तः­क­र­ण­शु­द्धि­हे­तु­त्वेन यज्ञादीनां ज्ञाने­च्छा­हे­तु­त्व­सिद्धेः साक्षादेव मोक्षान्वये च यज्ञे­ने­त्या­दि­क­र­ण­वि­भ­क्ति­भ­ङ्गा­त्पा­र­म्प­र्य­स्यै­वो­पे­य­त्वा­न्ना­पे­क्षत इति सिद्धान्तः ।

एतदभिप्रेत्य संनि­हि­त­स्या­तः­श­ब्द­प­रा­म­र्श­यो­ग्य­स्या­भा­वा­द­तः­प­दा­नु­प­प­त्ति­मा­शङ्क्य सूत्राक्षराणि योजयति -
पुरुषार्थ इति ।
आद्याधिकरणे यथा विद्यायाः स्वातन्त्र्येण पुम­र्थ­हे­तु­त्व­मुक्तं तच्च तथैवानूद्यते । तथा चाग्ने­या­दि­ष्व­द­र्श­नान्न पुरु­षा­र्थ­हे­तुत्वं कर्मा­पे­क्षा­वि­रो­धीति निरस्तम् ।

नचात्र पादा­दि­स­ङ्ग­ति­र्व­क्तव्या प्रथ­मा­धि­का­र­ण­स्यैव तत्फ­ल­वि­ष­य­स्यास्य तस्याः सुगमत्वात्फलमपि पूर्वो­त्त­र­प­क्ष­यो­स्त­द्व­दे­वे­त्य­भि­प्रे­त्याह -
आद्यस्येति ।

स्वार्थ­सि­द्धा­वे­वा­न­पेक्षा न तु स्वसिद्धौ तत्र तद­पे­क्षा­स्ती­त्य­न­न्त­रा­धि­क­रणे निर्दे­ष्टु­मु­प­सं­हार इति तत्फलमाह -
अधिकेति ॥ २५ ॥
ब्रह्मविद्या स्वफले न कर्मापेक्षा प्रमा­त्वा­त्सं­म­त­व­दि­त्यु­क्तम् ।

तर्हि न स्वोत्पत्तावपि तदपेक्षा प्रमा­त्वा­त्त­द्व­दे­वे­त्या­श­ङ्क्याह -
सर्वेति ।

अधि­क­वि­व­क्ष­ये­त्युक्तं व्यक्ती­कु­र्व­न्ब्र­ह्म­वि­द्या­म­धि­कृत्य पूर्वा­धि­क­र­ण­न्या­या­द्वि­वि­दि­षा­श्रु­तेश्च संशयमाह -
इदमिति ।
अत्र च स्वत­न्त्र­पु­रु­षा­र्थ­हे­त्वौ­प­नि­ष­दा­त्म­ज्ञा­नो­त्पत्तौ यज्ञादीनां शमादीनां च विवि­दि­षा­वा­क्यी­य­वि­नि­यो­गो­क्ते­रस्ति पादादिसङ्गतिः । पूर्वपक्षे यज्ञादीनां विज्ञानान्वये तत्फलेऽपि तत्प्रसक्त्या समुच्चयसिद्धिः ।

सिद्धान्ते परम्परया तेषां ज्ञानान्वयेऽपि तत्फलान्वये हेत्व­भा­वा­त्त­द­सिद्ध्या ज्ञानस्यैव तद्धे­तु­ता­सि­द्धि­रि­त्य­ङ्गी­कृत्य पूर्वपक्षयति -
तत्रेति ।
अपरोक्षधियो मान­मा­त्रा­य­त्त­त्वा­त्प्रा­मा­णि­क­ज्ञा­नस्य मानहेतुषु सत्सु कर्मा­द्य­भा­वे­ना­नु­द­या­द­र्श­ना­त्के­व­ल­व्य­ति­रे­का­भावे च यज्ञादीनां हेतु­त्व­क­ल्प­ना­यो­गा­द्वि­वि­दि­षा­श्रु­तेश्च वर्त­मा­ना­प­दे­शि­त्वा­द्वि­नि­यो­ज­क­त्वा­यो­गा­ज्ज्ञा­नस्य फलवदुत्पत्तावपि नान्व­य­स्ते­षा­मिति भावः ।

विविदिषावाक्ये वर्त­मा­ना­प­दे­शेऽपि यस्य पर्ण­म­यी­त्या­दा­वि­वा­पू­र्व­त्वा­त्प­ञ्च­म­ल­का­रेण ब्रह्मानुभवकामो यज्ञादीनि कुर्यादिति विध्यु­प­ग­मा­दा­ग­मस्य केव­ल­व्य­ति­रे­का­न­पे­क्ष­त्वा­द्वि­ष­य­सौ­न्द­र्य­ल­भ्या­या­मि­च्छायां साक्षा­द­न्व­या­यो­गा­त्त­त्फले ज्ञाने यज्ञा­द्य­न्व­य­सि­द्धे­र्य­ज्ञे­ने­त्या­दि­क­र­ण­श्रुत्या च तेषा­मि­ष्य­मा­णा­प­रो­क्ष­धी­सा­ध­न­त्व­दृ­ष्टे­र्ज्ञा­नस्य च मानायत्ततया साक्षा­द्य­ज्ञा­द्य­सा­ध­न­त्वेऽपि तेषां चित्तशुद्ध्या प्रत्य­क्प्र­व­ण­ता­मु­त्पा­द्या­प­रो­क्ष­ज्ञाने पर्य­व­सा­ना­त्पा­र­म्प­र्येऽपि पचति काष्ठै­रि­ति­व­त्क­र­ण­वि­भ­क्ति­स­म्भ­वा­दु­त्पत्तौ ज्ञानस्य कर्मा­पे­क्षा­स्तीति सिद्धान्तयति -
इदमिति ।

आपातेन पूर्वा­प­र­वि­रो­ध­प्र­तीतिं शङ्कते -
नन्विति ।

विभागोक्त्या प्रत्याह -
नेतीति ।

उक्तव्यवस्थायां प्रश्नपूर्वकं हेतुमाह -
कुत इति ।

हेतुं विवृणोति -
तथाहीति ।

नन्वत्र विविदिषासंयोगो यज्ञादीनां ज्ञायते यदि तस्यां विष­य­सौ­न्द­र्य­ल­भ्यायां तेषा­म­न्व­या­यो­गा­दि­ष्य­माणे ज्ञानेऽ­न्व­योऽ­भ्यु­प­ग­म्यते तर्हि ज्ञानस्य माना­धी­न­त्वा­त्क­र्मणां तत्रा­न्व­या­सिद्धेः श्रुतत्यागेन तत्फले मोक्षे किमित्यन्वयो नेष्यते, तत्राह -
विविदिषेति ।
मोक्ष­हे­तु­त्व­क­ल्प­नायां नास्त्यकृतः कृते­ने­त्या­दि­वि­रो­धा­त्प­र­म्प­र­यापि हेतुत्वे बाधा­भा­वा­द्बु­द्धि­शुद्ध्या तदु­त्प­त्ता­वे­वा­न्वयो यज्ञा­दी­ना­मि­त्यर्थः ।

यज्ञा­दि­श्रु­ते­रिति वाक्यान्तरमपि ग्रही­त­व्य­मि­त्याह -
अथेति ।

तत्र यज्ञादीनां ज्ञानसाधनत्वे विज्ञातं लिङ्गमाह -
अत्रेति ।

तत्रैव लिङ्गान्तरमाह -
सर्व इति ।

परम्परया कर्मणां धीहेतुत्वे स्मृतिमपि दर्शयति -
स्मृतिरिति ।

उत्पत्ताविव फलेऽपि ज्ञानस्य कर्मापेक्षा किं न स्यादि­त्या­शङ्क्य दृष्टान्तमादाय व्याकरोति -
अश्ववदित्यादिना ॥ २६ ॥

ज्ञानोत्पत्तौ बहिरङ्गमुक्त्वा तत्रै­वा­न्त­र­ङ्ग­मु­प­दि­शति -
शमदमादीति ।

अत्र व्यावर्त्यां शङ्कामाह -
यदीति ।
विद्या­स्ता­व­क­त्वे­नापि सम्भ­व­त्य­र्थ­वत्त्वे वर्तमानताभङ्गेन विधि­क­ल्प­न­म­युक्तं वाक्य­भे­द­प्र­स­ङ्गात् । अतः शब्दमात्रलभ्या विद्येति भावः ।

एवं तवाभिप्रायेऽपि हेत्व­न्त­र­म­व­श्य­म­नु­ष्ठेयं न शब्दमात्रलभ्या विद्येति सूत्रयोजनया परिहरति -
तथापीति ।

विवि­दि­षा­वा­क्य­तु­ल्य­तया शमादिवाक्यस्य नास्ति विधिपरतेति शङ्कते -
नन्विति ।

यस्मा­दे­व­मा­त्मानं विदित्वा पापेन कर्मणा न लिप्यते तस्मादेवं विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति गम्यते विधिरित्याह -
नेतीति ।
विध्यभावे तत्प्र­शं­सा­वै­य­र्थ्या­दु­क्त­वि­धि­सि­द्धि­रि­त्यर्थः ।

काण्वपाठे विधिमुक्त्वा माध्यन्दिनपाठे विध्यभावशङ्कापि नास्तीत्याह -
पश्येदिति चेति ।

विधिफलमाह -
तस्मादिति ।
यज्ञा­दी­ना­म­सा­ध­न­त्व­श­ङ्का­मा­पा­त­तोऽ­भ्यु­पेत्य साध­ना­न्त­रा­पे­क्षोक्ता ।

इदानीं तद­सा­ध­न­त्व­श­ङ्कापि न युक्तेत्याह -
यज्ञादीनीति ।

उक्तं स्मारयित्वा परिहरति -
नन्वित्यादिना ।

संयो­ग­स्या­पू­र्व­त्व­मेव स्पष्टयति -
नहीति ।

सत्यपि महा­वा­क्यै­क्येऽ­नु­ष्ठा­न­यो­ग्या­पू­र्वा­र्थ­वि­धि­र­वा­न्त­र­वा­क्येन क्रियते न तत्र वाक्यभेदो दोष इत्यत्र पूर्व­त­न्त्र­सं­म­ति­माह -
तस्मादिति ।
दर्शपूर्णमासयोः श्रुतं तस्मा­त्पू­षे­त्यादि । तत्र पूष्णः पिष्ट­द्र­व्य­सं­वन्धः सामासिकः । नच पूषा देवता पिष्टभागो द्रव्यं दर्श­पू­र्ण­मा­स­यो­रस्ति तेन तदे­क­वा­क्य­ता­यो­गा­त्का­ल­त्र­या­स्पृ­ष्ट­द्र­व्य­दे­व­ता­स­म्ब­न्ध­स्या­वि­ना­भा­वेन याग­वि­ध्यु­प­स्था­प­क­त्वा­द्व्य­व­हा­र­सि­द्धये विधि­प­द­म­ध्या­हृत्य प्रक­र­णा­दु­त्क­र्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ सम्बन्धः ‘पौष्णं पेषणं विकृतौ प्रती­ये­ता­चो­द­ना­त्प्र­कृतौ’ इत्यत्र विचारित इत्यर्थः ।

अवा­न्त­र­वा­क्य­भेे­देन सूत्रकृतापि स्वीकृतो विधिरित्याह -
तथाचेति ।

स्मृत्य­नु­सा­रे­णा­प्य­वा­न्त­र­वा­क्यस्य विधायकत्वं वाच्यमित्याह -
स्मृतिष्विति ।

कर्मणां ज्ञानो­त्प­त्ति­हे­तुत्वे श्रुति­स्मृ­ति­न्या­य­सिद्धे फलितमाह -
तस्मादिति ।

यज्ञादीनामपि श्रुति­स्मृ­ति­न्या­ये­भ्योऽ­नु­ष्ठे­यत्वे शमादीनां तेभ्यो विशे­षा­भा­वा­द्या­व­द्वि­द्यो­द­य­म­वि­शे­षे­णा­नु­ष्ठानं स्यादि­त्या­श­ङ्क्याह -
तत्रापीति ॥ २७ ॥

यज्ञादीनां शमादीनां च विद्या­सं­नि­हि­तानां तच्छेषतोक्ता तत्प्र­स­ङ्गा­द्वि­द्या­सं­नि­ध्यु­क्त­स­र्वा­न्ना­भ्य­नु­ज्ञा­न­स्यापि विद्या­शे­ष­ता­मा­शङ्क्य प्रत्याह -
सर्वान्नेति ।

प्राणविदः सर्वा­न्ना­नु­ज्ञानं विषयं वक्तुं शाखाद्वायस्थां श्रुतिमाह -
प्राणेति ।

जग्धं भक्षितम् । विषयवाक्यार्थं सङ्गृह्णाति -
सर्वमिति ।

अपू­र्व­त्वा­द्वि­ध्य­श्रु­तेश्च संशयमाह -
किमिति ।
अत्र प्राणविद्यायाः स्वत­न्त्र­पु­म­र्थ­हे­तो­र्वा­क्या­र्थ­ज्ञा­नो­प­यु­क्तायाः स्तुत्यर्थं सर्वा­न्ना­नु­ज्ञा­न­की­र्त­न­मिति कथ­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे प्राणविदो भक्ष्या­भ­क्ष्य­वि­भा­गा­सिद्धिः ।

सिद्धान्ते विदु­षोऽ­वि­दु­ष­श्चा­ना­पदि तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षयति -
विधिरितीति ।

विधि­प­क्षेऽ­नु­ष्ठा­न­वि­शे­ष­लाभं हेतुमाह -
तथाहीति ।

सर्वा­न्ना­नु­ज्ञानं स्वतन्त्रमेव विधी­य­ता­मि­त्या­शङ्क्य संनि­धि­वि­रो­धा­न्मै­व­मि­त्याह -
अत इति ।

सर्वा­न्ना­त्तृत्वं प्राणविद्याङ्गं चेत्तर्हि न कलञ्जं भक्षयेदित्यादि शास्त्रं विरुध्येेतेति शङ्कते -
नन्विति ।

प्राण­वि­द­ति­रि­क्त­वि­षयं तदिति विरोधं परिहरति -
नेत्यादिना ।

उपपत्तिमेव कर्म­वि­ष­य­दृ­ष्टा­न्ते­नो­दा­ह­रति -
यथेति ।

तत्रैव विद्याविषयं दृष्टान्तमाह -
यथाचेति ।
यदुपमन्त्रयते स हिंकार इत्यादिना ग्राम्य­व्या­पा­र­ग­त­चे­ष्टासु हिंका­रा­दि­दृ­ष्टि­र्वि­हिता सा वामदेव्यविद्या तत्रोपमन्त्रणं सङ्केतकरणम् ।

दृष्टा­न्त­यो­रर्थं दार्ष्टान्तिके योजयति -
एवमिति ।

विविदिषावाक्ये वर्त­मा­ना­प­दे­शेऽ­प्य­पू­र्व­त्वा­त्प­ञ्च­म­ल­का­रा­ङ्गी­का­रेण विधिकल्पनवन्न हेत्यादौ वर्त­मा­ना­प­दे­शेऽ­प्य­पू­र्व­त्वा­द्वि­धि­रिति मतमनूद्य सूत्राद्बहिरेव सिद्धान्तमाह -
एवमिति ।

तत्र हेतुमाह -
नहीति ।

यस्य पर्ण­म­यी­त्या­दा­विव वर्त­मा­ना­प­दे­शेऽपि कल्प्यो विधि­रि­त्या­श­ङ्क्याह -
नचेति ।
सामा­न्य­वि­धि­बा­ध­कत्वं श्रुत­वि­शे­ष­वि­धे­रिष्टं विशेषकल्पना तु सामान्यविधिना बाध्या कल्पनाया विरो­धा­भा­वा­पे­क्ष­त्वा­दि­त्यर्थः ।

इतश्च स्तुत्य­र्थ­मे­वेदं वचो न विधिरित्याह -
अपिचेति ।

आ श्वभ्य आ शकुनिभ्य आ कीट­प­त­ङ्गे­भ्य­स्त­त्तेऽ­न्न­मिति श्रव­णा­द­श­क्य­वि­षयो विधिर्न सम्भवतीत्याह -
नचेति ।

तर्हि वच­न­वै­य­र्थ्य­मि­त्या­शङ्क्य - सर्वं प्राण­स्या­न्न­मिति धीस्तु­त्य­र्थ­त्वा­न्मै­व­मि­त्याह -
शक्यने त्विति ।

उक्तेऽर्थे सूत्रमादत्ते -
तदिति ।

तदक्षराणि व्याकरोति -
एतदिति ।
मटच्योऽशनयः पाषाणवृष्टयो रक्तवर्णाः क्षुद्र­प­क्षि­वि­शेषा वा तैर्हतेषु कुरुषु तद्दे­श­स्थ­स­स्ये­ष्विति यावत् ।

आख्यायिकार्थमाह -
चाक्रायण इति ।
स हि दुर्भिक्षे जाते जाय­याऽ­नु­प­जा­त­प­यो­ध­रा­दि­स्त्री­व्य­ञ्ज­नया सह देशान्तरं प्रतिचक्रमे । स कदा­चि­दि­भ्य­ग्रामे निवसन्निभ्येन सह हस्त्यारोहेण सामि­भो­जि­ता­न­र्थ­भ­क्षि­ता­न्कु­ल्मा­षा­न्कु­त्सि­त­मा­षा­न्भ­क्षि­त­वा­नि­त्यर्थः ।

अनुपानं गृहाणेत्युक्ते सत्युच्छिष्टं मे पीतं स्यादिति प्रतिषिध्य किमे­तेऽ­प्यु­च्छिष्टा नेति परेणोक्ते कारणं चानुपाननिषेधे कथितवानित्याह -
अनुपानं त्विति ।
कुल्माषाश्चेन्न भक्ष्यन्ते जीवनमेव मे न स्यात्कामः स्वेच्छातो मे तडागादिषूदकपानं भविष्यतीत्यर्थः ।

स्वयं खादित्वा शिष्टा­ञ्जा­या­र्थ­मा­ज­हार । तया च भर्तृ­स्व­भा­व­ज्ञया निहि­ता­नु­त्त­र­दिने प्रातरेव भक्षितवानित्याह -
पुनश्चेति ।

कुल्मा­ष­भ­क्ष­ण­श्रु­ते­र­भि­प्रा­य­माह -
तदिति ।

अनु­पा­न­नि­षे­ध­श्रु­ते­स्ता­त्प­र्य­माह -
स्वस्थेति ।

सर्वा­न्न­भ­क्ष­णस्य निर­ङ्कु­श­त्वा­भावे फलितमाह -
तस्मादिति ॥ २८ ॥

तस्यार्थवादत्वे हेत्वन्तरमाह -
अबाधाच्चेति ।
सामा­न्य­शा­स्त्र­वि­रो­धान्न कल्प्यो विशे­ष­वि­धि­रि­त्यु­क्तम् ।

अधुना सामान्यशास्त्रं दर्शयन्सूत्रं योजयति -
एवंचेति ।
स्वस्थावस्थायां भक्ष्या­भ­क्ष्य­भेदे सतीति यावत् ॥ २९ ॥

आप­द­व­स्था­या­म­भ­क्ष्य­भ­क्ष­णा­नु­ज्ञाने स्मृति संवादयति -
अपीति ।

स्मृतिरपि विद्व­द्वि­ष­ये­त्या­श­ङ्क्याह -
अपिचेति ।

सुरा­पा­न­म­व­स्था­द्व­येऽपि न कार्यमित्याह -
तथेति ।
ब्राह्मणो वर्जयेदिति शेषः ।

जीवि­ता­त्य­य­स्मृत्या सुरापि तदत्यये पात­व्ये­त्या­श­ङ्क्याह -
सुरापस्येति ।
उष्णां सुरामिति शेषः । उष्णामग्निना तप्तामिति यावत् । मर­णा­न्ति­क­प्रा­य­श्चि­त्त­दृ­ष्टे­स्त­त्प्र­स­ङ्गेऽपि सा न पातव्येत्यर्थः ।

इतश्च सा सदा न पेयेत्याह -
सुरापा इति ।

तत्र हेतुः -
अभक्ष्येति ।

मद्यमित्यादि स्मृते­स्ता­त्प­र्य­माह -
वर्जनमिति ॥ ३० ॥

स्मृति­प्रा­मा­ण्यार्थं तन्मूलश्रुतिमाह -
शब्दश्चेति ।
तस्मा­द्ब्र­ह्म­णस्य सुरापस्य मर­णा­न्ति­क­प्रा­य­श्चि­त्त­द­र्श­ना­दिति यावत् ।

श्रौतनिषेधस्य प्रकृतोपयोगमाह -
सोऽपीति ।

श्रुति­स्मृ­ति­सि­द्ध­म­र्थ­मु­प­सं­ह­र­न्न­तः­शब्दं व्याचष्टे -
तस्मादिति ॥ ३१ ॥
सर्वा­न्न­त्वोक्तिः शास्त्रा­न्त­र­वि­रोधे स्तुति­रि­त्यु­क्तम् ।

एवं विद्या­र्थ­त्वो­क्ति­र्य­ज्ञानां स्तुति­र्नि­त्य­त्व­श्रु­ति­वि­रो­धा­दि­त्या­श­ङ्क्याह -
विहितत्वाच्चेति ।

व्यवहितेन सम्बन्धमाह -
सर्वापेक्षेति

अग्नि­हो­त्रा­दि­क­र्मा­ण्य­धि­कृत्य विहि­त­त्वा­द्वि­नि­यु­क्त­वि­नि­यो­गा­यो­गाच्च संशयमाह -
इदानीं त्विति ।
अत्रा­ग्नि­हो­त्रा­दी­ना­मु­भ­य­था­त्वोक्त्या स्वत­न्त्र­पु­म­र्थ­हे­तु­शा­स्त्रो­त्था­त्म­वि­द्यो­पा­यो­प­व­र्ण­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे विद्या­हे­तु­त्वोक्तेः स्तुति­त्वा­द्वि­वि­दि­षा­वा­क्यस्य विव­क्षि­ता­र्थ­त्वा­सिद्धिः ।

सिद्धान्ते संयो­ग­पृ­थ­क्त्व­न्या­या­त्क­र्म­णा­मु­भ­य­त्व­स­म्भ­वा­त्त­त्सि­द्धि­रि­त्य­भि­प्रेत्य पूर्वपक्षमाह -
तत्रेति ।

याव­ज्जी­व­श्रु­ते­र­मु­मु­क्षो­रपि तान्य­नु­ष्ठे­या­नी­त्या­श­ङ्क्याह -
अथेति ।

विवि­दि­षा­श्रु­ते­र्वि­द्या­सं­यो­गोऽपि तेषा­म­व­श्य­म्भा­वी­त्या­श­ङ्क्याह -
नित्येति ।
आव­श्य­क­त्वा­भा­वा­द्वि­द्या­का­म­नायाः काम्यतया कर्म­णा­म­ना­व­श्य­कत्वं नित्यतया चाव­श्य­क­त्व­मि­त्ये­क­त्रै­वा­व­श्य­क­त्वा­ना­व­श्य­कत्वे विरुद्धे स्याताम् । अतो विद्यो­पा­य­त्वोक्तिः स्तुति­रे­वे­त्यर्थः ।

सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
अस्यामिति ।

नित्यतया विहितानां विद्यार्थतया विधानं गौर­वा­द­यु­क्त­मि­त्या­श­ङ्क्याह -
नहीति ॥ ३२ ॥

उक्त­म­नू­द्यो­त्त­र­त्वेन सूत्रमवतारयति -
अथेत्यादिना ।

नित्यत्वेऽपि विद्या­सं­यु­क्त­त्व­म­ग्नि­हो­त्रा­दीनां विधि­व­शा­दे­ष्ट­व्य­मिति व्याचष्टे -
विद्येति ।

विवि­दि­षा­सं­यो­ग­मा­त्र­मत्र श्रुतं कुतो विद्या­सं­यु­क्तत्वं, तत्राह -
तदुक्तमिति ।

सह­का­रि­त्वोक्त्या फलं प्रत्ये­वो­प­का­रि­त्व­मा­चा­र्या­भीष्टं कर्म­णा­मि­त्या­श­ङ्क्याह -
नचेति ।
शास्त्री­य­म­न्व­य­व्य­ति­रे­क­सिद्धं चोपकारकत्वम् ।

न चात्रो­भ­य­म­स्ती­त्याह -
अविधीति ।
ब्रह्मधीः स्वकार्ये न चोदि­ता­पे­क्षाऽ­चो­दि­त­त्वा­न्म­र्द­न­व­दि­त्यर्थः ।

ब्रह्मधीः स्वफले नेति­क­र्त­व्य­ता­पेक्षा स्वतोऽ­सा­ध्य­फ­ल­त्वा­त्कू­प­ख­न­न­व्या­पा­र­व­दि­त्याह -
असाध्यत्वादिति ।

अविधिलक्षणत्वं व्यति­रे­को­दा­ह­र­णेन प्रपञ्चयति -
विधीति ।
अङ्गभावस्य ग्राह­क­ग्र­ह­ण­पू­र्व­क­त्वा­द्वि­धे­र्ग्रा­ह­क­त्वा­द्वि­हितं दर्शपूर्णमासादि प्रया­जा­दि­भि­र्ग्रा­ह­क­गृ­ही­तै­र­ङ्गै­र्यु­ज्यते नाविहिता विद्येत्यर्थः ।

तथापि कथमसाध्यफलत्वेन विद्यायां कर्म­णा­म­न्व­य­रा­हित्यं तदाह -
तथाचेति ।

कथं तर्हि सहकारित्ववचनं तदाह -
तस्मादिति ।
सह पुत्रैर्भारं वहति गर्द­भी­ति­व­त्क­र्मसु सत्स्वेव विद्या स्वकार्याय व्याप्रियत इत्यभिप्रेत्य सह­का­रि­त्वो­क्ति­रि­त्यर्थः ।

परोक्तमुद्भाव्य प्रत्याह -
नचेति ।

संयोगभेदं विशदयति -
नित्यो हीति ।
तुल्य­ब­ल­श्रु­ति­द्व­येन पृथगेव सम्बन्धविधिः संयो­ग­मे­द­स्त­स्मा­दु­भ­य­था­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

‘एकस्य तूभयत्वे संयो­ग­पृ­थ­क्त्वम्’ इत्य­त्रै­त­च्चि­न्ति­त­मि­त्यु­दा­ह­र­णेन दर्शयति -
यथेति ।
बैल्वो वा खादिरो वा पालाशो वेत्येको नित्यः संयोगस्तेन क्रत्वर्थस्य खादिरत्वस्य वीर्य­का­म­स्ये­त्य­परः संयो­गोऽ­नि­त्य­स्तेन पुरु­षा­र्थ­ते­त्ये­कस्य खादि­र­त्व­स्यो­भ­या­र्थत्वे संयोगपृथक्त्वं हेतुस्तथा कर्मस्वभेदेऽपि संयो­ग­भे­दा­दु­भ­य­था­त्व­मि­त्यर्थः ॥ ३३ ॥

ननु प्रक­र­णा­न्त­र­स्थेभ्यो नित्यकर्मभ्यो भिन्नान्येव कर्माणि विविदिषावाक्ये विद्या­सं­यु­क्त­तया विधीयन्ते प्रकरणभेदस्य भेद­क­त्वा­त्त­त्कथं तस्योभयत्वं, तत्राह -
सर्वथेति ।

प्रतिहां व्याचष्टे -
सर्वथापीति ।

एव­का­र­व्या­वर्त्यं शङ्कया दर्शयति -
त एवेतीति ।

भेद­श­ङ्का­नि­वृत्ति व्यति­रे­क­दृ­ष्टा­न्तेन स्पष्टयति -
यथेति ।
कुण्ड­पा­यि­ना­म­य­न­ग­ता­ग्नि­हो­त्रस्य प्रक­र­ण­भे­दा­त्प्र­सि­द्धा­ग्नि­हो­त्रा­त्क­र्मा­न्त­र­त्व­व­द्वि­वि­दि­ष­न्तीति विद्या­सं­यु­क्त­तया विहितानामपि कर्मणां प्रकरणभेदादेव कर्मा­न्त­र­त्व­श­ङ्कायां दृष्टान्ते जुह्व­ती­ति­हो­म­वि­धि­श्रु­ते­र्मा­सा­ख्य­का­लस्य चानु­पा­दे­य­त्वे­ना­वि­धे­य­त्वा­द­ग्नि­हो­त्र­श­ब्दस्य चाख्या­त­पा­र­त­त्र्या­दा­ख्या­तस्य च जुहोतेः संनि­हि­त­रू­प­व­त्कर्म हित्वा व्यव­हि­त­नै­य­मि­का­ग्नि­हो­त्र­प­रा­म­र्शि­त्वा­यो­गा­दा­ख्या­ता­र्थ­वा­चि­नोऽ­ग्नि­हो­त्र­श­ब्द­स्यापि कर्मा­न्त­र­वि­ष­य­त्व­मे­वेति युक्तम् । विविदिषावाक्ये तु विविदिषायामेव विधि­श्र­व­णा­त्प्र­सि­द्धा­ना­मेव यज्ञादीनां यज्ञा­दि­श­ब्दै­र­नु­वा­दा­द्वि­द्या­सं­यो­ग­मात्रं विधीयते तेषामिति न कर्मा­न्त­र­ते­त्यर्थः ।

उक्तमेवार्थं प्रश्नद्वारा हेतुमवतार्य स्फोरयति -
कुत इत्यादिना ।

प्रसिद्धकर्मसु संस्का­र­त्व­प्र­सि­द्धि­रपि तेषां चित्तमलनिरासेन ज्ञानो­त्प­त्ता­वु­प­का­र­क­त्व­मा­वे­द­यन्ती कर्माभेदं सूचयतीत्याह -
अष्टेति ।
गर्भाधानादयः सह­ध­र्म­चा­रि­णी­सं­यो­गा­न्ता­श्च­तु­र्दश पञ्चमहायज्ञाः सप्त सोमसंस्थाः सप्त हविःसंस्थाः सप्त पाकसंस्था इति चत्वा­रि­श­त्सं­स्काराः । अन­श्न­न्सं­हि­ता­ध्य­यनं प्रायणं कर्म जप उत्क्रमणं दैहिकं भस्म­स­मू­ह­न­म­स्थि­स­ञ्च­यनं श्राद्धा­नी­त्ये­व­म­ष्टा­च­त्वा­रि­श­त्सं­स्काराः ।

कर्म­भे­दा­श­ङ्का­योगे फलितमाह -
तस्मादिति ॥ ३४ ॥

नित्यानि कर्माणि स्वतः पुण्य­लो­का­वा­प्ति­फ­ला­न्यपि ज्ञान­का­मे­ना­नु­ष्ठि­तानि ज्ञाना­र्था­नी­त्यु­क्तम् । इदानीं ब्रह्म­च­र्या­दी­ना­मा­श्र­म­क­र्मणां क्लेशतनूकरणेन विद्योदये हेतुतेत्यत्र लिङ्गमाह -
अनभिभवं चेति ।

सूत्रस्य तात्प­र्यो­क्ति­पू­र्व­क­म­क्ष­रार्थं कथयति -
सहकारित्वस्येति ।

उभ­य­वि­ध्य­धी­न­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ३५ ॥

आश्रमकर्मणां विद्योपायत्वे सत्य­ना­श्र­म­क­र्मणां नैवमिति मन्वानं प्रत्याह -
अन्तरेति ।

अनाश्रमिणो विधु­रा­दी­न्वि­ष­यी­कृत्य तेषां कर्मि­त्व­प्र­सि­द्धे­र्नि­न्दा­प्र­सि­द्धेश्च संशयमाह -
विधुरेति ।
अत्रा­ना­श्र­म­क­र्म­णा­मु­क्त­वि­द्या­हे­तु­त्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे यथा विधुरकर्मणां विद्या­हे­तु­त्वा­सि­द्धि­स्त­थै­वा­श्र­म­क­र्म­णा­मपि विद्या­हे­तु­त्वा­सिद्धिः ।

सिद्धन्ते त्वाश्रमित्वस्य ज्याय­स्त्वा­त्त­त्क­र्मणां सुतरां तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षमाह -
नास्तीत्यादिना ।

विविदिषावाक्ये यज्ञादिषु प्रत्येकं कर­ण­वि­भ­क्ति­श्रु­ते­रा­श्र­म­क­र्मा­भा­वेऽपि वर्ण­मा­त्र­ध­र्माणां दानादीनां सम्भ­वा­द्वि­धु­रा­दी­ना­मपि विद्याधिकारः स्यादि­त्या­शङ्क्य केव­ल­व­र्ण­ध­र्माणां विद्यासाधनत्वे सत्या­श्र­म­क­र्मणां वैय­र्थ्या­द­ना­श्र­मि­णा­म­न­धि­कारो विद्यायामित्याह -
आश्रमेति ।

अनाश्रमकर्मणां न विद्याहेतुतेति पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

प्रतिज्ञां व्याकरोति -
अना­श्र­मि­त्वे­नेति ।

तद्दृष्टेरिति व्याचष्टे -
रैक्वेति ॥ ३६ ॥

श्रौतीं दृष्टिं शिष्ट्वा स्मार्तीमपि दर्शयति -
अपीति ॥ ३७ ॥

श्रुति­स्मृ­तिभ्यां सिद्धे सिद्धा­न्तेऽ­न­न्त­र­सू­त्र­नि­रस्यं चोद्यमाह -
नन्विति ।
जन्मा­न्त­र­कृ­ता­दपि कर्मणो रैक्वादीनां विद्या­स­म्भ­वा­द्व­र्णो­पा­धा­वु­क्ता­त्क­र्मणो विद्येत्यत्र श्रुति­स्मृ­त्यो­र­नि­या­म­क­त्वा­न्नि­या­म­का­न्तरं वक्त­व्य­मि­त्यर्थः ।

आश्र­म­ध­र्मा­भा­वेऽपि वर्ण­ध­र्म­वि­शे­षै­र­नु­गृ­हीता विद्योदेष्यतीति सूत्रेण समाधत्ते -
सेति ।
अवि­रु­द्धै­र­ना­श्र­मि­त्वा­वि­रो­थि­भि­रिति यावत् । अत एव पुरु­ष­मा­त्र­स­म्ब­न्धि­भि­रि­त्यु­क्तम् ।

आश्र­म­ध­र्म­शू­न्यानां जपादिष्वपि शूद्रा­दि­व­न्ना­धि­का­रोऽ­स्ती­त्या­श­ङ्क्याह -
तथाचेति ।
मैत्रो मित्रे भवः सर्वभूताहिंसको दयावानित्यर्थः ।

किञ्च नैयोगिकफलेषु कर्म­स्वा­न­न्त­र्य­स्या­चो­दि­त­त्वा­द­नि­य­त­का­लत्वे नैयो­गि­क­क­र्मा­भा­वेऽ­प्या­मु­ष्मि­कै­रेव कर्मभिर्विद्या भविष्यतीति सूत्रस्य व्याख्यान्तरमाह -
जन्मान्तरेति ।

जन्मा­न्त­र­स­ञ्चि­त­क­र्मणां विद्या­नु­ग्रा­ह­कत्वे मानमाह -
तथाचेति ।
अनेकेषु जन्मसु सञ्चितसंस्कारैः सिद्धः सम्य­ग्धी­प­रि­पा­क­वा­नि­त्यर्थः ।

यथा­स्मि­ञ्ज­न्म­न्य­धी­त­वेदो धर्म­जि­ज्ञा­सा­धि­कारी तथास्मिन्नेव जन्म­न्या­श्र­म­ध­र्मै­रु­त्पा­दि­त­वि­वि­दिषो विद्याधिकारी स्यादि­त्या­श­ङ्क्याह -
दृष्टार्थेति ।
अवि­द्या­नि­वृ­त्ते­र्दृ­ष्ट­फ­ल­त्वा­न्नि­य­मा­पे­क्षा­भा­वा­द्वि­घा­त­क­नि­षे­ध­स्या­भा­व­मा­त्रेण तत्र पुरुषस्य प्रवृ­त्ति­रि­त्यर्थः ।

श्रुति­स्मृ­ति­न्या­य­सि­द्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ३८ ॥

वर्णो­पा­धा­वु­क्त­ध­र्म­मा­त्रा­दपि विद्योत्पद्यते चेदा­श्र­मि­त्व­म­न­र्थ­क­मि­त्या­श­ङ्क्याह -
अतस्त्विति ।

विद्या­या­श्चि­रा­चि­र­व्य­क्ति­हे­तु­त­या­श्र­मि­त्वा­ना­श्र­मि­त्व­यो­र्वि­शे­षान्न वैयर्थ्यमिति मत्वा व्याचष्टे -
अत इति ।
साधनोपचयादचिरेण विद्याहेतुत्वं ज्यायस्त्वम् ।

आश्रमित्वस्य ज्यायस्त्वे श्रुति­स्मृ­त्य­नु­गृ­ही­तत्वं हेतुमाह -
श्रुतीति ।

श्रुतौ पुण्य­कृ­त्त्व­वि­शे­ष­णा­ल्लि­ङ्गाच्च श्रेष्ठ­मा­श्र­मि­त्व­मि­त्याह -
श्रुतीति ।
तेन ज्ञानमार्गेण ब्रह्मविदेति गच्छति ब्रह्म प्राप्नोति । स च पुण्यं स्वाश्रमोक्तं कर्म करोतीति पुण्यकृदुच्यते । तेजसि पर­मा­त्म­न्या­त्म­त्वेन वर्तत इति तैजसः । तत्र पुण्य­कृ­त्त्व­वि­शे­प­णा­दा­श्र­मित्वं ब्रह्म­प्रा­प्ति­हे­तु­तया श्रेष्ठं सिद्धमित्यर्थः ।

आश्रमित्वस्य श्रेष्ठत्वे स्मार्तमपि लिङ्गमनुकूलयति -
अनाश्रमीति ॥ ३९ ॥

अनाश्रमिणां कर्मापि विद्या­हे­तु­श्चे­दा­रू­ढ­प­ति­तस्य पूर्वाश्रमं प्राप्तस्य धीपूर्वकं प्रच्युतस्य कर्म किमु वाच्य­मि­त्या­श­ङ्क्याह -
तद्भूतस्येति ।

वृत्तानुवादेन विषयं सूचयति -
सन्तीति ।

ताना­श्र­मा­न्प्रा­प्तस्य धीपूर्वं प्रच्युतस्य कर्म विषयस्तत्किं विद्याहेतुर्न वेति संशयं सिद्धवत्कृत्य तद्धेतुमाह -
तांस्त्विति ।
कथ­ञ्चि­द्रा­गा­द्यु­द्रे­का­दि­त्यर्थः । सा मानवती न वेति संशयार्थः । ऊर्ध्वरेतसां बुद्धिपूर्वं प्रच्युतानां कर्म यथो­क्त­वि­द्या­हे­तु­र्ने­त्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे पूर्वो­क्ता­श्र­मि­त्व­श्रै­ष्ठ्या­सिद्धिः ।

सिद्धान्ते प्रच्यु­ते­र­प्रा­मा­णि­क­त्वा­त्त­त्सि­द्धि­रिति स्वीकृत्य पूर्वपक्षयति -
पूर्वेति ।
पूर्वाश्रमोक्तो यागादिधर्मः सुखेन शक्योऽ­नु­ष्ठा­तु­मिति तच्चिकीर्षया रागद्वेषवशेन च प्रत्यवरोहोऽपि प्रामाणिकः स्यात्त­था­चा­ना­श्र­मि­कर्म निन्दितमपि यथा विद्या­सा­ध­न­मुक्तं तथा प्रत्य­व­रू­ढ­स्यापि कर्म विद्या­हे­तु­रा­श्र­मा­व­रो­होऽ­नु­ष्ठे­य­स्त­दा­रो­हा­व­रो­ह­यो­र­न्य­त­र­त्वा­त्त­दा­रो­ह­व­दि­त्य­व­रो­हस्य प्रामा­णि­क­त्वा­दि­त्यर्थः ।

सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
एवमिति ।

उत्तराश्रमं प्राप्तस्य पूर्वा­श्र­म­प्रा­प्ति­र­प्रा­मा­णि­की­त्यत्र प्रश्नपूर्वकं हेतुत्रयमाह -
कुत इति ।

तत्र नियमं व्याचष्टे -
तथाहीति ।
अर­ण्य­मि­त्ये­का­न्तो­प­ल­क्षि­त­मू­र्ध्व­रे­तस्त्वं तदि­या­द्ग­च्छे­दिति पदं शास्त्र­मा­र्ग­स्त­त­स्त­स्मा­द­र­ण्यान्न पुन­रे­या­त्पु­न­र्ना­ग­च्छेन्न प्रत्य­व­रो­हे­दि­त्यु­प­नि­ष­द्र­ह­स्य­मि­त्यर्थः ।

स्मार्तमपि नियमं कथयति -
आचार्येणेति ।

उक्त­नि­य­म­ता­त्प­र्य­माह -
एवमिति ।

अत­द्रू­प­म­प्र­त्य­व­रोहं व्याकरोति -
यथाचेति ।

अभावं शिष्टाचाराभावं व्याचष्टे -
नचेति ।

परो­क्त­म­नु­मा­न­म­नूद्य स्मृतिविरोधेन दूषयति -
यत्त्विति ।

इत­श्चा­नु­मा­न­म­यु­क्त­मि­त्याह -
न्यायाच्चेति ।

यत्तु रागा­दि­व­शा­त्प्र­त्य­व­रो­ह­ण­मिति, तत्राह -
नचेति ।

ततो न पुनरित्यादि नियमशास्त्रम् । अवशिष्टं सूत्रावयवं व्याचष्टे -
जैमिनेरिति ।

अत्रेति प्रामा­णि­क­प्र­च्यु­त्य­भा­वोक्तिः । उभ­य­स­म्प्र­ति­प­त्ति­फ­ल­माह -
प्रतिपत्तीति ॥ ४० ॥
प्रत्य­व­रो­ह­ण­म­शा­स्त्री­य­मि­त्यु­क्तम् ।

सम्प्रति प्रमा­दा­त्प्र­त्य­व­रोहे प्राय­श्चि­त्त­म­स्तीति वक्तुं पूर्वपक्षमाह -
नचेति ।

ऊर्ध्व­रे­त­सोऽ­धी­पू­र्व­च्यु­त­ब्र­ह्म­चर्यं विषयस्तेषां किं नास्ति प्राय­श्चि­त्त­मु­ता­स्तीति प्राय­श्चि­त्ता­भा­व­स्मृ­ते­र्म­हा­पा­त­के­ष्व­नु­क्तेश्च संशयमाह -
यदीति ।
प्रमा­दा­दि­त्य­धी­पू­र्व­च्यु­त­ब्र­ह्म­च­र्या­णा­मे­वो­र्ध्व­रे­तसां प्राय­श्चि­त्त­चि­न्ते­य­मिति द्योतयति । अवकीर्येत योनौ रेतः सिञ्चेत् । अवकीर्णं योनौ क्षिप्तं रेतोऽ­स्या­स्ती­त्य­व­कीर्णी । प्रमा­दा­च्च्यु­त­ब्र­ह्म­च­र्या­णा­मू­र्ध्व­रे­तसां कृत­प्रा­य­श्चि­त्तानां कर्म विद्या­हे­तु­रि­त्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रमा­दि­ना­मू­र्ध्व­रे­त­सा­मा­त्य­न्ति­का­द­धः­पा­ता­त्पु­म­र्था­सिद्धिः ।

सिद्धान्ते तेषामपि प्रायश्चित्तेन पत­न­स­मा­धा­ना­त्त­त्सि­द्धि­रि­त्यु­पेत्य पूर्व­प­क्ष­सू­त्र­म­व­तार्य योजयति -
उच्यत इति ।

तदेव षष्ठाध्याये निर्धारितं प्राय­श्चि­त्त­मु­दा­ह­रति -
अवकीर्णीति ।
ब्रह्म­चा­र्य­व­की­र्णी­त्यत्र पशु­हो­मा­र्थ­मा­धानं कर्तव्यं किंवा लौकि­के­ष्वे­वा­ग्निषु तत्कर्मेति सन्देहे पूर्वाधिकरणे ‘यदाहवनीये जुहोति तेन सूर्योऽ­स्या­भीष्टः प्रीतो भवति’ इत्याहवनीयस्य सर्व­हो­मा­र्थ­त्वा­दा­ह­व­नीये तावदुपनयनहोमाः कार्या इति प्रापय्य जात­पु­त्रोऽ­ग्नी­ना­द­धी­तेति कृत­दा­र­स्या­ग्न्या­धा­न­वि­धा­ना­दु­प­न­य­न­काले दारा­भा­वा­दा­धा­न­स्या­प्रा­प्त­का­ल­त्वा­दा­ह­व­नी­या­भा­वा­ल्लौ­कि­का­ग्नि­षू­प­न­य­न­होमा इति राद्धान्तिते ब्रह्मचारी ययाऽवकीर्णी सैव तस्य भार्या स्यात्त­तोऽ­ग्न्या­धा­न­मि­त्य­धिकां शङ्कां निरा­क­र्तु­म­ति­दे­शा­धि­क­र­ण­म­व­की­र्णि­प­शु­श्चेति यथोपयनकाले लौकिकाग्नौ होम­स्त­था­व­की­र्णि­प­शुश्च तत्रैव होतव्यः । आधानस्य पत्नी­प­रि­ग्र­हो­त्त­र­का­ल­तया पूर्वं प्राप्त्य­भा­वा­दि­त­र­स्याश्च परपरिग्रहभूताया भार्या­त्व­क­ल्प­ना­या­धाने माना­भा­वा­दि­त्यर्थः । यदधिकारलक्षणे निर्णी­त­मा­धि­का­रिकं प्रायश्चित्तं तदपि नैष्ठिकस्य भवितुं नार्हतीति सम्बन्धः ।

प्रश्नपूर्वकं हेतुमाह -
किमित्यादिना ।

किंविषयं तर्हि प्राय­श्चि­त्त­व­चनं ब्रह्म­चा­रि­त्वा­वि­शे­षा­दु­प­कु­र्वा­ण­स्यापि तदयोगात् , तत्राह -
उपेति ।
तादृ­गि­त्य­प्र­ति­स­मा­धे­य­त्वोक्तिः ॥ ४१ ॥

सिद्धान्तयति -
उपपूर्वमिति ।

उपपदं पूर्वं यस्य पतनस्य तदुपपूर्वमिति व्याकरोति -
अपि त्विति ।
प्राय­श्चि­त्ता­भावं व्याव­र्त­यि­तु­म­पीति प्रयुक्तम् ।

एवकारार्थमाह -
नेति ।

नैष्ठि­क­व्र­त­लो­प­स्यो­प­पा­त­क­त्वेऽपि प्राय­श्चि­त्त­सत्त्वे किं जात­मि­त्या­श­ङ्क्यो­प­पा­त­क­सा­मा­न्य­प्रा­य­श्चित्तं स्यादिति सूत्रावयवं व्याकुर्वन्नाह -
तस्मादिति ।

उक्तमर्थं दृष्टा­न्त­म­व­तार्य स्पष्टयति -
अशनवदिति ।

प्रायश्चित्तं न पश्यामीति स्मरणात्कथं तद्भा­व­धी­रि­त्या­श­ङ्क्याह -
ये हीति ।
प्रायश्चित्तं नास्तीति स्मरणाभावान्न पश्यामीति दर्श­ना­भा­व­मा­त्र­स्म­र­णा­दि­त्यर्थः ।

भाववादिनामपि तुल्या मूला­नु­प­ल­ब्धि­रि­त्य­श­ङ्क्याह -
ये त्विति ।

ननु न पश्यामीति स्मरणस्य प्राय­श्चि­त्त­नि­षे­धा­र्थ­त्व­म­नु­माय तद­र्थ­श्रु­ति­क­ल्प­ना­त्त­द्वि­रोधे सामान्यश्रुत्या प्राय­श्चि­त्त­सत्ता नाभ्युपगम्यते, तत्राह -
तस्मादिति ।
याव­द्द­र्श­ना­भा­व­स्म­र­णस्य प्राय­श्चि­त्त­नि­षे­धा­र्थ­त्व­क­ल्प­नया तदर्था श्रुतिरनुमीयते ताव­द­वि­शे­ष­प्र­वृत्ता प्रायश्चित्तं श्रुतिर्गमयतीति न स्मृत्या प्राय­श्चि­त्ता­भा­व­धी­रिति भावः ।

उक्तेऽर्थे यव­व­रा­हा­धि­क­र­ण­सं­म­ति­माह -
तदुक्तमिति ।

यव­म­य­श्च­रु­र्वा­राही उपानहावित्यत्र यव­व­रा­ह­श­ब्दाभ्यां प्रिय­ङ्गु­कृ­ष्ण­श­कु­नि­ग्रहो वा दीर्घ­शू­क­सू­क­र­ग्रहो वेति सन्देहे पूर्वपक्षमाह -
समेति ।
केचिद्दीर्घशूके यवशब्दं प्रयुञ्जते प्रियङ्गुषु चापरे वराहशब्दमपि सूकरे केचिदाहुः कृष्णशकुनौ चान्ये तेन प्रयो­ग­सा­म्या­त्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादित्यर्थः ।

सिद्धान्तमाह -
शास्त्रस्था वेति ।
वाशब्दः पक्ष­व्या­वृ­त्त्यर्थः । या शास्त्रमूला धीः सैव ग्राह्या शास्त्र­नि­मि­त्त­त्वा­त्त­द्ध­र्मा­दि­ज्ञा­नस्य । शास्त्रं च यदा वान्या ओषधयो म्लायन्त्यथैते मोद­मा­ना­स्ति­ष्ठन्ति वराहं गावोऽ­नु­धा­व­न्तीति च यव­व­रा­ह­श­ब्द­यो­र्दी­र्घ­शू­क­सू­क­र­वि­ष­यम् । तस्मा­द्धी­सा­म्या­भा­वा­द्वि­क­ल्पा­सि­द्धेर्या शास्त्रमूला प्रसिद्धिः सैव ग्राह्येति प्रथमे सिद्धम् । तथात्रापि शास्त्र­मू­ल­त्वा­त्प्रा­य­श्चि­त्त­भा­व­प्र­सि­द्धे­स्त­त्स­त्त्व­मु­क्त­मि­त्यर्थः ।

प्रायश्चित्तं न पश्यामीति स्मृतेस्तर्हि का गतिः, तत्राह -
प्रायश्चित्तेति ।
एवं सति सामान्यश्रुत्या प्राय­श्चि­त्त­सत्त्वे निश्चिते सतीत्यर्थः । यदि कथ­ञ्चि­न्नै­ष्ठि­कस्य ब्रह्मचर्यं लुप्येत तदा न प्रायश्चित्तं दृश्यते तेन नैष्ठिकेन ब्रह्मचर्ये यत्नवता भाव्यमिति तद्वि­ष­य­य­त्न­स्या­प्र­मा­देन सदाकार्यतारूपं गौर­व­मु­त्पा­द­यितुं प्राय­श्चि­त्ता­भा­व­स्म­र­ण­मि­त्यर्थः ।

नैष्ठिके हि दर्शि­त­न्या­य­मि­त­र­यो­र­ति­दि­शति -
एवमिति ।

विशेषतोऽपि प्राय­श्चि­त्त­वि­धे­स्त­यो­रस्ति प्रामादिके व्रतलोपे प्राय­श्चि­त्त­मि­त्याह -
वानप्रस्थ इति ।
दीक्षाभेदे व्रतलोपे प्रमादतो ब्रह्मचर्यभङ्गे कृच्छ्रं चरित्वा महाकक्षं बहुतृणकाष्ठं देशं वर्धयेदिति सम्बन्धः ।

कृच्छ्रं विशिनष्टि -
द्वादशेति ।
दिन­त्र­य­मे­क­वा­र­भो­जनं दिनत्रयं रात्रिभोजनं दिनत्रयमयाचितं दिन­त्र­य­मु­प­वा­स­क­र­ण­मि­त्ये­वं­रू­प­मि­त्यर्थः ।

परिव्राजकेऽपि प्रमादतो व्रतलोपे तुल्यं कृच्छ्रा­नु­ष्ठा­न­मि­त्याह -
भिक्षुरिति ।

सोमस्य यज्ञा­ङ्ग­त्वा­त्त­द­भि­वृ­द्धि­म­ना­दृत्य महाकक्षं वर्धयेदित्याह -
सोमेति ।

‘सर्व­पा­प­प्र­स­क्तोऽपि ध्याय­न्नि­मि­ष­म­च्यु­तम् । पुनः स पूतो भवति पङ्क्तिपावन एव च ॥ मनो­वा­क्का­य­जा­न्दो­षां­ज्ञा­नो­त्थांश्च प्रमादजान् । सर्वान्दहति योगा­ग्नि­स्तू­ल­रा­शि­मि­वा­नलः ॥ उपपातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासा­त्पु­न­न्त्य­ह­र­हः­कृताः’ इत्यादि परिव्राजकविषयं शास्त्रं तेनाभिहितः संस्कारो ध्यानादिः स च कर्तव्यो भिक्षुणेत्याह -
स्वशास्त्रेति ।
ऊर्ध्वरेतसां प्रमा­द­च्यु­त­ब्र­ह्म­च­र्याणां कृत­प्रा­य­श्चि­त्ता­ना­म­धि­का­रोऽस्ति विद्यायामिति भावः ॥ ४२ ॥

कृत­प्रा­य­श्चि­त्ता­ना­मपि तेषां शिष्टा­व्य­व­हा­र्य­त्व­माह -
बहिस्त्विति ।

कृत­प्रा­य­श्चित्तैः सह शिष्टाचाररूपं कर्म विषयस्तत्किं विद्याङ्गं किंवा नेति संशये प्रागु­क्त­प्रा­य­श्चि­त्ते­नैव तेषां व्यव­हा­र्य­ता­सि­द्धे­र­ङ्ग­मिति प्राप्ते सिद्धान्तमाह -
यदीति ।

प्रति­ज्ञा­र्थ­मुक्त्वा हेतुद्वयं व्याकरोति -
आरूढ इत्यादिना ।
दुश्च­रि­ता­च­र­ण­कृ­त­मेनो लोकद्वयेऽपि कर्तु­र­शु­द्धि­मा­द­धाति । तत्र प्रायश्चित्तेन लोकद्वयेऽपि कस्य­चि­द­शु­द्धि­र­प­नी­यते कस्यचित्तु पार­लौ­कि­का­शु­द्धि­र­पा­क्रि­यते ऐहि­का­शु­द्धि­र­नु­व­र्तते । उक्तं हि - ‘बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृॄश्च स्त्रीहन्तॄंश्च न संवदेत्’ इति । तथेहापि ‘आरूढो नैष्ठिकम्’ इत्या­दि­स्मृ­ति­लि­ङ्गा­दा­चा­राच्च पर­लो­का­शु­द्धे­र­प­नी­त­त्वेऽ­प्य­व्य­व­हा­र्य­त्वा­व­ग­मान्न तैर्व्य­व­हा­र­रू­पा­चा­रस्य विद्याङ्गत्वम् । तदे­व­मु­क्ता­चा­र­स्यो­क्त­वि­द्या­न­ङ्ग­त्वा­भि­धा­ना­त्प्रा­स­ङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे ‘बालघ्नान्’ इत्या­दि­स्मृ­ति­वि­रोधः । सिद्धन्ते तदानुगुण्यमिति भावः ॥ ४३ ॥

अन्य­स्मि­न्पा­प­का­रिणि तेन व्यवहारादन्यस्य त्वप­का­र­व­द­न्य­स्मि­न्नु­पा­स्ति­क­र्तरि तेन व्यव­हा­रा­त्फ­ल­ल­क्ष­णो­प­का­र­म­न्य­य­ज­मा­नस्य दर्श­य­न्पू­र्व­प­क्ष­यति -
स्वामिन इति ।

कर्मा­ङ्ग­स­ङ्गी­न्यु­पा­स­नानि विष­य­स्ते­षू­भ­य­क­र्तृ­क­त्व­धिया संशयमाह -
अङ्गेष्विति ।
शास्त्री­या­ङ्गा­श्रि­तो­पा­स्तीनां स्वत­न्त्र­फ­ला­ना­मृ­त्वि­क्क­र्तृ­क­त्वेऽपि यज­मा­न­गा­मि­फ­ल­त्वो­क्ते­रस्ति पादादिसङ्गतिः । पूर्वपक्षे कर्तृ­त्व­भो­क्तृ­त्व­यो­रै­का­धि­क­र­ण्या­सिद्धिः ।

सिद्धान्ते प्रकृतस्य कर्तु­र­स्वा­त­न्त्र्या­त्तस्य यज­मा­ना­धी­न­त्वा­त्त­त्क­र्तृ­त्व­मपि तद­धी­न­मि­त्यै­का­धि­क­र­ण्य­स्या­वि­रु­द्ध­तेति सिद्धवत्कृत्य प्रश्नपूर्वकं पूर्वपक्षमाह -
किमिति ।

तत्र हेतुं प्रश्नद्वारा दर्शयति -
कुत इति ।

फलश्रुतिमेव विशदयति -
फलं हीति ।

श्रुतमपि फलमृत्विग्गतं किं न स्यात् , तत्राह -
तच्चेति ।

तत्र हेतुः -
तस्येति ।

उद्गी­था­द्यु­पा­स्ति­वि­धीनां प्राप्तो­द्दे­श­न­त्वा­त्क्र­त्व­धि­का­रिण एव प्राप्ते­स्त­स्यै­वो­द्दे­श­न­यो­गा­त्त­दा­श्रि­तो­पा­स्तीनां गोदो­ह­न­व­द­थि­कृ­ता­धि­का­र­त्वा­त्क्र­त्व­धि­का­रिण एव गोदो­ह­न­फ­ल­व­द्वि­द्या­फ­लेन सङ्गतिरित्याह -
अधिकृतेति ।

तथापि कथमुपास्तीनां याजमानत्वं, तत्राह -
फलं चेति ।
अकर्तृत्वे फलित्वमपि यजमानस्य न स्यात्क­र्तृ­त्व­भो­क्तृ­त्व­यो­रै­का­धि­क­र­ण्या­दि­त्यर्थः ।

यजमानगामि फलमित्यत्र व्यभिचारं शङ्कते -
नन्विति ।

उत्सर्गतो याजमानं फलं वच­ना­त्क्व­चि­द­प­वादः स्यादित्याह -
न तस्येति ।

वाच­नि­का­प­वा­दा­भावे तूत्स­र्ग­स्थि­ति­रि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ४४ ॥

अङ्गोपास्तीनां याजमानत्वान्न स्वतन्त्रफलतेति प्राप्ते सिद्धान्तयति -
आर्त्विज्यमिति ।

तत्र प्रतिज्ञांं विभजते
नैतदिति ।

अन्यकर्तृकत्वे कथमन्यस्य फलमिति शङ्कते -
किं कारणमिति ।

सूत्रा­व­य­वे­नो­त्त­र­माह -
तस्मै हीति ।
ऋत्विजो यजमानेन स्वगामिने फलाय क्रीत­त्वा­न्ना­नु­प­प­त्ति­रि­त्यर्थः ।

साङ्गकर्मार्थं क्रीतत्वेऽपि ध्याना­र्थ­म­क्री­त­त्वा­त्क­थ­मु­पा­स्ती­ना­मृ­त्वि­क्क­र्मत्वं, तत्राह -
तदिति ।

अङ्गो­पा­स्ती­ना­म­धि­कृ­ता­धि­का­रत्वे फलितमाह -
तस्मादिति ।

तासा­मृ­त्वि­क्क­र्तृ­कत्वे श्रौतं लिङ्गमाह -
तथाचेति ।
तमुद्गीथाख्यं प्रणवं प्राणा­दि­दृ­ष्टि­वि­शिष्टं बको नामतो दल्भस्यापत्यं दाल्भ्यो विदाञ्चकार विदितवान् । विदित्वा च नैमिशीयानां सत्रि­णा­मु­द्गा­ता­सी­दि­त्यर्थः ।

पूर्व­प­क्ष­बी­ज­म­नु­व­दति -
यत्त्विति ।

उत्सर्गतो याजमानत्वेऽपि फलस्य वचनादपवादो यत्र नैवं तत्रो­त्स­र्ग­स्थि­ति­रि­त्यु­क्त­मि­त्याह -
नेत्यादिना ॥ ४५ ॥

इत­श्चो­पा­स्ती­ना­मृ­त्वि­क्क­र्तृ­कत्वं यजमानगामिफलत्वं चेत्याह -
श्रुतेश्चेति ।

उत्सर्गतः श्रुतिलिङ्गैश्च सिद्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
सिद्धे चोपा­स्ती­ना­मृ­त्वि­क्क­र्तृ­कत्वे तन्नि­र्धा­र­णा­नि­य­म­न्या­येन स्वतं­त्र­फ­ल­त्व­सि­द्धि­रिति भावः ॥ ४६ ॥

विधुरप्रभृतीनां मन्दाधिकारिणां धीसा­ध­नो­क्ति­प्र­स­ङ्गे­ना­ङ्गो­पा­स­न­म­ध­म­धी­सा­ध­न­मेव निर्धार्य पुनरुक्तमेव धीसाधनं वक्तुमारभते -
सहकार्यन्तरेति ।

विष­य­वा­क्य­मु­दा­ह­रति -
तस्मादिति ।
यस्मात्पूर्वे ब्राह्मणा विदि­त्वा­त्मा­न­मे­ष­णाभ्यो व्युत्थाय भिक्षाचर्यं चरन्ति स्म तस्मा­द­धु­ना­त­नोऽपि ब्राह्मणः पाण्डित्यं पण्डाऽध्ययनजा ब्रह्म­बु­द्धि­स्त­द्वा­न्प­ण्डि­त­स्तस्य कृत्यं पाण्डित्वं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन ज्ञानबलभावेन युक्ति­तोऽ­स­म्भा­व­ना­नि­रा­स­रू­प­म­न­नेन शुद्धधीत्वेन वा तिष्ठा­से­त्स्था­तु­मि­च्छेत् । उक्त­दा­र्ढ्यार्थं बाल्यं चेत्यादिरनुवादः । श्रवणमननानन्तरं मुनिर्मननशीलो निदिध्यासनपरः स्यात् । मौना­द­न्य­द्बाल्यं पाण्डित्यं चामौनं मौनं च निदिध्यासनं निश्चयेन लब्ध्वो­क्त­हे­तु­त्र­यस्य ब्रह्म­धी­हेु­त्वा­द्ब्र­ह्मा­ह­मि­त्य­व­ग­च्छ­तीति ब्राह्मणः साक्षा­त्कृ­त­ब्रह्मा भवतीत्यर्थः ।

तत्र श्रुतं मौनं विषयीकृत्य मौनशब्दस्य सिद्धे पारिव्राज्ये साध्ये च ज्ञानाभ्यासे प्रयोगसिद्धेः संशयमाह -
तत्रेति ।
निरु­पा­धि­वि­द्या­न्त­र­ङ्ग­सा­ध­न­मौ­न­वि­धि­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे मौन­स्या­नु­ष्ठे­य­त्वा­सिद्धिः ।

सिद्धान्ते तस्या­नु­ष्टे­य­त्व­सि­द्धि­रिति मत्वा तं हेत्वा­दि­वा­क्य­शे­षा­द­ङ्गो­पा­स­न­मृ­त्वि­क्क­र्मेति वदथ ब्राह्मण इति विधि­ही­न­वा­क्य­शे­षा­दथ मुनिरित्येषोऽपि न विधिरिति पूर्वपक्षयति -
नेत्यादिना ।

ननु बाल्ये­ने­त्यु­प­क्रमे विधि­श्रु­ते­र्मौ­नेऽपि विधिस्तु नेत्याह -
बाल्येनेति ।

तदेवोपपादयति -
नहीति ।
यद्यत्रापि विधेयत्वं तर्हि विधिः श्रूयेत बाल्यवन्न च श्रूयतेऽतः श्रोतव्यत्वे सत्य­श्र­व­णा­द्वि­ध्य­भा­व­सि­द्धि­रि­त्यर्थः ।

तर्हि मौनवाक्यस्य का गतिः, तत्राह -
तस्मादिति ।

अन­धि­ग­त­स्या­नु­वा­दा­यो­गा­द­न्यत्र विध्य­नु­प­ल­ब्धे­र्वि­धि­रे­वा­य­मिति शङ्कते -
कुत इति ।

पाण्डि­त्य­वि­धा­ना­देव मौनमपि सिद्धं तस्यैव मौनत्वादित्याह -
मुनीति ।

मुनिशब्दस्य भिक्षु­व­च­न­त्वेऽपि तस्यान्यत्र विधा­ना­द­त्रा­नु­वाद एवेति मत्वा मौन­स्या­वि­धे­यत्वे हेत्वन्तरमाह -
अपिचेति ।
एक­वा­क्य­ता­नु­रो­धा­न्मौ­न­वा­क्येऽपि न विधिरित्यर्थः । यदा पाण्डित्येन मौनस्य प्राप्तिस्तदा विधी­य­मा­न­बा­ल्य­स्येत्थं प्रशंसा । नहि पाण्डित्यं स्वरूपेण ज्ञानं किन्तु बाल्येऽ­नु­ष्ठि­तेऽ­न­न्तरं मननापरपर्यायं पाण्डित्यं कृतं स्यात्त्स्मा­द्बाल्यं प्रशस्तम् ।

यदा मौन­स्यो­त्त­मा­श्र­मस्य विध्य­न्त­र­प्रा­प्त­स्या­नु­वा­द­स्तदा बाल्य­मा­त्रा­नु­ष्ठा­न­वा­नु­त्त­मा­श्र­मि­त्वेन स्तूयत इति व्यक्ता स्तुतिरिति मत्वाह -
तस्मादिति ।

बाल्य­पा­ण्डि­त्या­ति­रि­क्तस्य मौन­स्या­वि­धे­य­त्वान्न तन्मु­मु­क्षो­र­नु­ष्ठे­य­मिति प्राप्तं पक्षमनूद्य सिद्धान्तमाह -
एवमिति ।

अपू­र्व­त्व­म­सि­द्ध­मिति शङ्कते -
नन्विति ।

पण्डितशब्दस्य ज्ञान­मा­त्रा­र्थ­त्वा­न्मु­नि­श­ब्दस्य तद­ति­श­य­गा­मि­त्वा­द­र्थ­भे­दान्न पण्डितशब्देन मुनिशब्दस्य प्राप्ता­र्थ­ते­त्याह -
नेत्यादिना ।

वृद्ध­प्र­यो­गा­भावे कथं तदर्थत्वं, तत्राह -
मुनीनामिति ।

आश्रमेऽपि प्रयो­ग­द­र्श­ना­द­नि­यतं ज्ञाना­ति­श­य­वा­चित्वं तस्य चान्यत्र विधा­ना­द­नु­वा­द्य­त्व­मे­विति शङ्कते -
नन्विति ।

उत्तमाश्रमे मुनि­श­ब्दोऽ­सा­धा­रणः साधारणो वेति विकल्प्याद्यं प्रत्याह -
नेति ।

साधारणत्वं त्वेक­स्या­ने­का­र्थ­त्वा­यो­गा­द­यु­क्त­मि­त्य­भि­प्रेत्य प्रयो­ग­स्या­न्य­था­सि­द्धि­माह -
इतरेति ।

मौन­स्या­पू­र्व­त्व­मु­प­पाद्य तृतीयमिति पदं व्याकु­र्व­न्फ­लि­त­माह -
तस्मादिति ।

वाक्य­भे­द­प्र­स­ङ्गा­दे­क­त्रैव विधिरित्युक्तं, तत्राह -
यत्त्विति ।

उपरिधारणवन्मौनं वाक्यभेदेन विधेयमित्यत्रैव हेत्वन्तरमाह -
निर्वे­द­नी­य­त्वेति ।

कस्येदं मौनं विद्यासहकारितया विधीयते, तत्राह -
तद्वत इति ।

विशेषणप्रापकं पृच्छति -
कथमिति ।

प्रकरणं तथेत्याह -
तदिति ।

पक्षेणेति पदं शङ्को­त्त­र­त्वे­ना­व­ता­र­यति -
नन्वित्यादिना ।
ब्रह्मैव प्रत्यगद्वयं वस्तु द्वैतं सर्व­म­वि­द्या­म­य­मिति शास्त्र­यु­क्तिभ्यां सिद्धे तत्सा­क्षा­त्का­र­सा­ध­ना­भ्यासे स्वयमेव पुरु­ष­स्यौ­न्मु­ख्या­द­न­र्थको विधिरिति चोदिते सन्या­स­प्र­क­र­णा­त्त­द्ध­र्मस्य श्रवणादेः साक्षा­त्का­र­हे­तु­भा­व­स्या­पू­र्व­त्वा­दे­ष्ट­व्य­स्त­द्वि­धि­रिति समाधिः ।

विद्या­व­न्त­म­धि­का­रि­वि­शेषं प्रति विधे­रा­न­र्थ­क्य­मु­क्त­मि­त्या­शङ्क्य विद्यावत इति विद्या­ति­श­य­युक्तो नोच्यते किन्तु विद्योदयाय तदुपायाभ्यासे प्रवृ­त्त­स्ते­नास्य पक्षे कदा­चि­द्भे­द­द­र्शनं प्राप्नोत्यतो विधेरर्थवत्तेति सूत्रपदार्थं विवृणोति -
एतदिति ।

अत­न्नि­ष्ठ­वा­क्यस्य तद्विधायकत्वे दृष्टान्तमाह -
विध्यादिवदिति ।

तदेव व्याचष्टे -
यथेति ।
आदिर्मुख्यं प्रधानं विधे­रा­दि­र्वि­ध्या­दि­र्द­र्श­पू­र्ण­मा­स­विधिः समिदादिस्तु विध्य­न्त­स्त­त्रा­श्रु­त­वि­धिकेऽ विधिरास्थेय इत्यर्थः ।

दृष्टा­न्त­स्थ­मर्थं दार्ष्टान्तिके योजयति -
एवमिति ॥ ४७ ॥

बाल्यादिप्रधानः संन्यासो यद्य­नु­ष्ठे­य­स्तर्हि कस्मा­द्गा­र्ह­स्थ्ये­नो­प­सं­ह­रति श्रुति­रि­त्य­न­न्त­र­सू­त्र­व्या­व­र्त्य­माह -
एवमिति ।

गृहि­णो­प­सं­हा­रेऽपि कैवल्याश्रमस्य किं जात­मि­त्या­श­ङ्क्या­ना­स्था­वि­ष­यत्वं प्राप्तमित्याह -
तेनेति ।

बहु­ला­या­स­सा­ध्य­ध­र्म­बा­हु­ल्या­त्ते­नो­प­सं­हारो न तेनैव समापनादित्याह -
अत इति ।

सूत्रं व्याचष्टे -
तुशब्द इति ।

ननु यथा गृहिणो यज्ञादीनि कर्त­व्य­त्वे­नो­क्तानि तथा­श्र­मा­न्त­रा­णा­मपि कर­ण­सं­य­मा­दि­क­र्मा­न्त­रा­ण्यु­च्यन्ते तथाच कोऽस्य विशेषः, तत्राह -
आश्रमान्तरेति ।

गृहमेधिनि विशेषे सिद्धे फलितमाह -
तस्मादिति ॥ ४८ ॥

मौनं गार्ह­स्थ्य­मि­त्या­श्र­म­द्व­यो­क्ते­रि­त­रा­श्र­मा­भा­वा­शङ्का कस्य­चि­द्भ­वे­त्त­न्नि­रा­सा­र्थ­माह -
मौनवदिति ।

कथं तयोः श्रुतिमत्त्वं, तत्राह -
दर्शितेति ।

श्रुति­म­त्त्वा­वि­शेषे फलितमाह -
तस्मादिति ।

इतरेषामिति बहूक्त्या गार्ह­स्थ्य­स्यापि परामर्शो न तु सिद्धवदुपन्यास इत्याशङ्क्याह -
इतरेषामितीति ।
गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारी चतुर्विधः । गृहस्थोऽपि वार्तावृत्तिः शाली­न­वृ­त्ति­र्या­या­वरो घोरसंन्यासीति चतुर्विधः । वानप्रस्थश्च वैख्या­न­सौ­दु­म्ब­र­वा­ल­खि­ल्य­फे­न­प­प्र­भे­दै­श्च­तु­र्विधः । तथा परिव्राडपि कुटी­च­क­ब­हू­द­क­हं­स­प­र­म­हं­स­भे­दै­श्च­तु­र्विध इति षोड­श­प्र­भे­दा­स्ता­व­दा­श्र­मा­स्त­त्त­द्ध­र्म­वि­शे­ष­युक्ताः श्रुति­स्मृ­ति­प्र­सिद्धाः । ततो ब्रह्मचारिणि वानप्रस्थे चानु­ष्ठा­तृ­भे­द­म­नु­ष्ठा­न­भेदं वाऽपेक्ष्य बहूक्तिर्न गार्ह­स्थ्य­म­पेक्ष्य तस्य प्रागे­वा­स­न्दि­ग्ध­त्वे­नो­क्त­त्वा­दि­त्यर्थः ॥ ४९ ॥

बाल्यस्य विधे­य­त्व­मु­पे­त्या­वा­न्त­र­वा­क्य­भे­देन मौनमपि विधे­य­त्वा­न्मु­मु­क्षुणा कार्य­मि­त्यु­क्तम् । इदानीं किंं तद्बाल्यमिति वीक्षायामाह -
अना­वि­ष्कु­र्व­न्निति ।

अनुष्ठेयत्वेन श्रुतं बाल्यं विष­य­त्वे­नो­दा­ह­रति -
तस्मादिति ।
तत्र बाल्ये विषये संशय इति संबन्धः ।

संशयकारणमाह -
बालस्येति ।

तर्हि बालभावो वयोविशेषोऽपि कल्प्य­ता­मि­त्या­शङ्क्य तदग्रहे हेतुमाह -
बालेति ।

तद्धितश्रुत्या परिशिष्टं बाल्यमाश्रित्य संशयमभिनयति -
यथेति ।
बाल्य­श­ब्दा­र्थ­वि­वे­च­नेन स्वत­न्त्र­पु­म­र्थ­हे­तु­वि­द्या­न्त­र­ङ्ग­स्यै­वा­त्रापि निरू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे तिष्ठ­न्मू­त्र­त्वा­द्यपि विदुषोऽनुष्ठेयं सिध्यति ।

सिद्धान्ते बाल्य­स्या­प्र­रू­ढे­न्द्रि­य­त्वा­दि­रू­प­भा­व­शु­द्धे­र­नु­ष्ठे­य­त्वान्न विदुषो यथेे­ष्ट­चे­ष्टा­सि­द्धि­रिति मत्वा प्रश्नपूर्वकं पूर्वपक्षमाह -
किं तावदिति ।
चरणं चारो वदनं वादो भक्षणं भक्षस्ते कामतो यस्य स तथा तस्य भावस्तत्ता । यथोपपादं यथासम्भवं यत्र क्वापि मूत्रं च पुरीषं चास्येति तथोक्तस्तस्य भावस्तत्त्वम् ।

तत्र लोकप्रसिद्धं हेतुमाह -
प्रसिद्धेति ।

शास्त्रा­न्त­र­वि­रो­धा­द­यु­क्त­मु­क्त­वि­ध­बा­ल्यस्य विधेयत्वमिति शङ्कते -
नन्विति ।
आदिशब्देन शिष्टगर्हा गृह्यते ।

सामा­न्य­शा­स्त्र­स­ङ्कोचो विशेषविधेः स्यादित्याह -
नेत्यादिना ।

सामा­न्य­वि­धे­र्वि­शे­ष­वि­धिना सङ्कोचे दृष्टान्तमाह -
पश्विति ।

विदुषो यथे­ष्ट­चे­ष्टा­या­मपि न दोषोऽस्तीति प्राप्तमनूद्य सिद्धान्तमाह -
एवमिति ।

विदुषो यथेष्टचेष्टा न विधेया शास्त्रा­न्त­र­वि­रो­धा­दिति प्रतिजानीते -
नेति ।

सामा­न्य­शा­स्त्र­स्योक्तः सङ्कोचो बाल्येन तिष्ठा­से­दि­ति­व­च­ना­दि­त्या­श­ङ्‌क्याह -
वचनस्येति ।

सामा­न्य­प्र­वृ­त्त­वि­धि­शा­स्त्र­वि­रु­द्धेऽर्थे सम्भवति तद्वि­रु­द्धा­र्थ­क­ल्प­ना­यो­गान्न कामचारादि विधे­य­मि­त्यु­क्त­मेव व्यनक्ति -
अविरुद्धे हीति ।

इतश्च कामचारादि न विधेयमित्याह -
प्रधानेति ।

किं तत्प्रधानं यदङ्गत्वेन बाल्यादि विधीयते तदाह -
ज्ञानेति ।

उक्त­प्र­धा­नो­प­का­रि­त्वा­भा­वान्न कामचारादि विधे­य­मि­त्यु­क्तम् । तद्वि­रो­धि­त्वाच्च तदविधेयमित्याह -
नचेति ।

किं तर्हि विधेयं बाल्यं तदाह -
तस्मादिति ।
इहेति प्रकृ­त­वा­क्योक्तिः ।

उक्तेऽर्थे सूत्रमादाय योजयति -
तदाहेति ।

कथं यथोक्तेऽर्थे बाल्यशब्दः प्रयुज्यते, तत्राह -
यथेति ।

अन्वयादिति पदं व्याकरोति -
एवं हीति ।

अप्र­रू­ढे­न्द्रि­य­त्वा­दि­रू­प­भा­व­शु­द्धि­ल­क्ष­ण­बा­ल्यस्य प्रधा­नो­प­का­रित्वे मानमाह -
तथाचेति ।
कुलीनत्वप्रकटनं सत्त्वं तद्वै­प­री­त्य­म­स­त्त्वम् । शास्त्रा­र्थ­ज्ञा­न­रा­हि­त्य­म­श्रु­तत्वं तद्वैपरीत्यं बहुश्रुतत्वम् । सदाचारनिरतत्वं सुवृत्तत्वं दुरा­चा­र­नि­ष्ठत्वं दुर्वृ­त्त­त्व­मिति भेदः ।

तत्किमिदानीं ब्रह्म­धी­यो­ग्यस्य मुमु­क्षो­र्ना­स्त्येव किञ्चि­द­नु­ष्ठेयं, तत्राह -
गूढेति ।
चक्षु­रि­न्द्रि­य­पा­र­वश्यं निर­सि­तु­म­न्ध­व­दि­त्यु­क्तम् ।

रसनादिपारवश्यं निरस्यति -
जडवदिति ।

ज्ञाने­न्द्रि­य­पा­र­वश्यं परिहृत्य कर्मे­न्द्रि­य­पा­र­वश्यं परिहरति -
मूकवदिति ।
धर्म­ध्व­जि­त्वा­प्र­क­ट­न­म­व्य­क्त­लि­ङ्ग­त्वम् । तदेवं मुमु­क्षो­रु­प­र­त­स­र्वे­न्द्रि­यस्य श्रवणादिपरस्य मोक्षसाधनं तत्त्व­ज्ञा­न­म­व­श्य­म्भा­वीति भावः ॥ ५० ॥

बाल्या­न्त­मु­च्चा­वचं विद्या­हे­तु­मुक्त्वा तत्फलं विद्याजन्मकालं निरूपयति
ऐहिकमिति ।

उक्त­हे­त्व­धी­न­धी­ज­न्म­वि­षये कारीर्यादिफले चित्रादिफले चोभ­यो­प­ल­ब्धे­र्वृ­त्ता­नु­वा­द­पू­र्वकं संशयमाह -
सर्वेति ।
श्रव­णा­दि­सा­म­ग्री­प्र­ति­ब­न्ध­शून्या विशि­ष्ट­धी­प्र­स­व­भू­मि­रि­त्यु­क्ते­रत्र पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनां विद्यो­पा­य­त्व­नि­य­मा­सिद्धिः ।

सिद्धान्ते प्रति­ब­न्धा­भा­वा­पे­क्षया तेषां तन्नि­य­म­सि­द्धि­रि­त्यु­पेत्य प्रश्न­पू­र्व­क­मै­हि­क­त्व­नि­यमं पूर्वपक्षमाह -
किमिति ।

फल­द्वै­वि­ध्यो­प­लब्धौ तन्नियमे नास्ति हेतुरिति शङ्कते -
किमिति ।

तत्र कारणमाह -
श्रवणादीति ।

चित्रा­दि­व­द­मु­त्रापि धीहेतुत्वं श्रवणादेः स्यादि­त्या­श­ङ्क्याह -
नचेति ।

कथं तर्हि तेषु प्रवृ­त्ति­रि­त्या­शङ्क्य तेषां कारी­र्या­दि­तु­ल्य­त्व­माह -
समान इति ।
श्रवणादीनां चक्षु­रा­दि­व­द्धी­सा­ध­न­त्वा­त्का­ला­न्त­री­य­कु­म्भो­प­ल­म्भाय चक्षु­रु­न्मी­ल­ना­भा­व­व­ज्ज­न्मा­न्त­री­य­वि­द्यायै श्रवणादिषु प्रवृ­त्त्य­यो­गा­दु­प­ल­भ्य­मा­न­सं­सा­र­दुः­ख­नि­वृ­त्तये च विद्या­सा­धा­ना­दा­ना­ज्ज्ञा­ना­त्का­री­र्या­दि­व­त्तु­ल्य­ज­न्म­न्येव विद्या­ज­न्ये­त्यर्थः ।

यज्ञादीनां जन्मा­न्त­री­य­फ­लानां धीहेतुत्वस्य विवि­दि­षा­वा­क्यी­य­त्वा­ज्ज­न्मा­न्तरे धीज­न्मे­त्या­श­ङ्क्याह -
यज्ञेति ।
तेषां धीशुद्ध्या श्रव­णा­दि­घ­ट­क­त्वा­द्ध­टि­तेषु तेषु धिया­व­श्य­म्भा­व्य­मि­त्यै­हि­क­त्व­नि­यम इत्यर्थः ।

श्रवणादीनां कारी­र्या­दि­तु­ल्यत्वे फलितमाह -
तस्मादिति ।

श्रवणादिषु कृतेष्वपि न चेदत्र धीः स्यात्ते­षा­म­त­दु­पा­य­तै­वेति प्राप्तमनूद्य चित्रा­व­द­नि­य­त­फ­ल­धी­सा­ध­न­मिति सिद्धान्तमाह -
एवमिति ।

कृतेष्वपि श्रवणादिषु कदाचिद्विद्या नोत्पद्यते चेत्तर्हि तेषां तदुपायत्वमनियतं स्यादि­त्या­श­ङ्क्याह -
एतदिति ।
कृतेष्वपि श्रवणादिष्वत्र विद्यानुदये कारीर्यादाविव प्रतिबन्धो वा पौष्कल्याभावो वा तेषां कल्पनीयः प्रतिबन्धहीना हि सामग्री कार्यहेतुर्न चैतावता तद्धे­तु­त्व­ह­ति­रि­त्यर्थः ।

उप­स्थि­त­वि­पा­क­श्र­व­णा­दि­वि­रो­धा­त्क­र्मण एव प्रति­ब­न्ध­मा­श­ङ्क्याह -
उपस्थितेति ।

तैरेव देशा­दि­भि­र्वि­द्या­र्थ­मेव श्रवणादि कर्म किमिति न विपच्यते, तत्राह -
यानीति ।

भोगार्थस्य कर्मणो ज्ञानार्थस्य च श्रव­णा­दे­र्दे­श­का­ल­नि­मि­त्तै­क­रू­प्या­भावे हेतुमाह -
यत इति ।

कर्मणा श्रवणादीनां प्रतिबन्धे तेभ्यो, विद्यो­त्प­त्ति­वादि शास्त्रं व्याह­न्ये­ते­त्या­श­ङ्क्याह -
शास्त्रमिति ।

तथापि कर्मण एव प्रतिबन्धकत्वं न श्रवणादीनामिति कुतो नियमः, तत्राह -
साधनेति ।

यत्त्विह विद्याभावे कारी­र्या­दि­व­त्प्र­ति­ब­न्धा­दि­स­त्त्व­क­ल्प­नेन धिय आमु­ष्मि­क­त्व­क­ल्प­न­म­यु­क्त­मि­हैव मे विद्या स्यादि­त्य­भि­स­न्धि­दृ­ष्टे­रिति, तत्राह -
नचेति ।

दृश्य­मा­न­सं­सा­र­दुः­ख­स्या­ने­क­ज­न्म­गा­मित्वं जानतो यदा कदा­चि­द­न­र्थ­नि­वृत्तिः स्यादि­त्य­भि­सन्धेः साध­न­सा­म­र्थ्या­नु­सा­रेण सम्भा­वि­त­त्वा­दि­त्याह -
अभिसन्धेरिति ।

यत्तु श्रवणादीनां चक्षु­रा­दि­व­द्दृ­ष्ट­फ­ल­त्व­मिति, तत्राह -
श्रवणादीति ।
तेषां विधा­ना­द­दृ­ष्ट­द्वा­रापि साध­न­त्व­म­व­घा­त­व­द­व­गतं यज्ञा­दी­ना­म­नि­य­त­का­ल­फ­लानां ज्ञान­सा­ध­न­त्व­वि­धेश्च विद्यो­त्प­त्ते­र­नि­य­त­त्व­मि­त्यर्थः ।

यत्तु यज्ञादीनां घट­क­त्वा­द्ध­टि­तेषु श्रवणादिषु विद्याऽ­व­श्य­म्भा­वि­नीति तत्र प्रति­ब­न्ध­स­त्त्वस्य श्रौत­लि­ङ्ग­सि­द्ध­त्वा­न्मै­व­मि­त्याह -
तथाचेति ।

आत्मनः श्रवणमपि दुष्करं बहूनामित्याह -
श्रवणायेति ।

कथञ्चन श्रवणेऽपि तत्फलं ज्ञानं दुर्लभमित्याह -
शृण्वन्तोऽपीति ।

तत्र हेतुः -
आश्चर्य इति ।
यथावदस्यात्मनो वक्ता­श्च­र्योऽ­द्भु­त­व­त्क­श्चि­देव सम्भवति । सम्य­गा­चा­र्य­सि­द्धा­वपि तच्छ्रुत्वा लब्धा साक्षा­त्का­र्ताऽ­स्या­श्चर्यः । तिष्ठतु साक्षात्कारः कुश­ले­ना­चा­र्ये­णा­नु­शि­ष्टोऽपि शास्त्रा­त्प­रो­क्षतो ज्ञाता­प्या­श्चर्य एवेत्यर्थः ।

संप्र­त्या­मु­ष्मि­कत्वे धियो लिङ्गमाह -
गर्भस्य इति ।

कयानुपपत्त्या श्रुतिरिममर्थं दर्शयति, तत्राह -
नहीति ।

जन्मा­न्त­र­स­ञ्चितं साधनं जन्मान्तरेऽपि धियं साधयतीत्यत्र स्मृतिमाह -
स्मृताविति ।

श्रवणादीनां पौष्कल्येऽपि श्रुति­स्मृ­ति­लि­ङ्गा­त्प­श्वा­दि­फ­ल­चि­त्रा­दि­व­द­नि­य­त­का­ल­त्व­सि­द्धे­र्ना­नै­का­न्ति­क­फ­लत्वं तेष­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ५१ ॥
विद्यारूपे फले कालो­त्क­र्षा­प­क­र्ष­कृतो विशेषनियमो दर्शितः ।

सम्प्रति विद्याफले मोक्षे कस्यचिदपि विशे­ष­नि­य­म­स्या­भावं दर्शयति -
एवमिति ।
विद्याफलं मुक्तिर्विषयः सा किं विद्या­व­दु­त्क­र्षा­प­क­र्ष­कृ­त­वि­शे­ष­वती किंवा नेति फल­स्यो­भ­य­था­दृष्टे संशये प्रकृ­त­वि­द्या­फ­लस्य प्रसङ्गतो निर­ति­श­य­त्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य कर्मसाध्यतया पुरु­षा­र्था­धि­क­र­णा­सिद्धिः ।

सिद्धान्ते तस्य ज्ञानै­क­सा­ध्य­त्वा­त्त­त्सि­द्धि­रि­त्य­भि­प्रेत्य पूर्वपक्षमाह -
यथेति ।

मुक्ति­रु­प­च­या­प­च­य­वती फल­त्वा­द्वि­द्या­व­दि­त्य­नु­मा­ना­त्तस्याः कर्म­सा­ध्य­त्वा­धि­ग­मा­त्पु­रु­षा­र्था­धि­क­र­ण­म­यु­क्त­मि­त्या­शङ्क्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञां विभजते -
न खल्विति ।

उक्तेऽनुमाने जाग्रति कथमाशङ्का निरवकाशेति शङ्कते -
कुत इति ।

मुक्ति­स्व­रू­प­ब्र­ह्मै­क­रू­प्या­व­धा­र­ण­शा­स्त्र­वि­रो­धा­न्ना­नु­मेति मत्वा सूत्रावयवमादाय व्याचष्टे -
तदवस्थेति ।

मुक्तिर्नाम काचिदवस्था विद्यते चेद­द्वि­ती­य­त्व­वि­रो­धा­द­व­स्था­त्वा­ज्जा­ग्र­द­व­स्था­व­द­सा­वपि निवृत्तिमती स्यादि­त्या­श­ङ्क्याह -
ब्रह्मैवेति ।

कथमेतावता मुक्ते­रु­त्क­र्ष­नि­क­र्ष­कृ­त­वि­शे­ष­रा­हि­त्य­मि­त्या­श­ङ्क्याह -
नचेति ।

न स्थान­तोऽ­पी­त्य­धि­क­रणे निर्वि­शे­ष­त्व­म­स्थू­ला­दि­श्रुत्या ब्रह्मणो निरूपितमिति स्मारयति -
एकेति ।

इतश्च मुक्ते­र्नि­र­ति­श­य­त्व­मि­त्याह -
अपिचेति ।

काष्ठो­प­च­या­प­च­याभ्यां ज्वालो­प­च­या­प­च­य­दृ­ष्टे­र­न्त­र­ङ्ग­ब­हि­र­ङ्ग­त­द­भ्या­सा­दि­सा­ध­नो­प­च­या­प­च­याभ्यां विद्या­या­मु­प­च­या­प­च­य­स­म्भ­वा­त्त­त्फले मुक्तावपि तौ स्याता­मि­त्या­शङ्क्य हेत्वन्तरं स्फोरयति -
न विद्येति ।

विद्यैव सातिशया स्वसाध्येऽपि कथ­ञ्चि­द­ति­श­य­मा­द­ध्या­दि­त्या­श­ङ्क्याह -
तद्धीति ।

तर्हि मुमुक्षूणां विद्यार्थिनां प्रवृ­त्त्या­न­र्थक्यं, तत्राह -
विद्ययेति ।
तस्या­म­ति­श­य­मा­श्रित्य मुक्तौ नाति­श­योऽ­स्ती­त्यु­क्तम् ।

इदानीं विद्यापि मोक्ष­हे­तु­त­त्त्व­सा­क्षा­त्का­र­ल­क्षणा नातिशयवतीत्याह -
नचेति ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेषो दर्शितः, तत्राह -
तस्मादिति ।

मुक्तावपि तर्हि तादृशोऽतिशयो भविष्यति, तत्राह -
न त्विति ।
विद्यो­त्प­त्ति­ना­न्त­री­य­क­त्वे­ना­वि­द्या­नि­वृ­त्ति­रू­पाया मुक्ते­रा­व­श्य­क­त्वा­दि­त्यर्थः ।

मुक्ते­र्नि­र्वि­शे­षत्वे हेत्वन्तरमाह -
विद्येति ।
एक­रू­प­त्वा­दा­त्म­न­स्त­दा­का­र­वि­द्यायां विशे­षा­भा­वा­द­ने­क­रू­प­फ­लो­त्पा­द­क­त्वा­यो­गा­त्त­त्फले विशे­षा­सि­द्धि­रि­त्यर्थः ।

विद्यायां भेदाभावं प्रयोजयति -
नहीति ।

सगु­ण­वि­द्या­व­दा­त्म­वि­द्याया भेदः स्यादि­त्या­शङ्क्य विषयभेदात्तत्र भेदेऽपि नात्र विष­य­भे­दोऽ­स्ती­त्याह -
सगुणास्विति ।

तत्र फलभेदे मानमाह -
तथाचेति ।

दार्ष्टान्तिके विशेषमाह -
नैवमिति ।

तत्त्व­वि­द्या­वि­शेषे गुणाभावे स्मृतिमाह -
तथाचेति ।
कस्यचित् निर्गु­ण­वि­द्या­वतः पुरुषस्य गतिः फलमिति यावत् ।

तत्र न्यूना­धि­क­भा­वा­भावे हेतुमाह -
सति हीति ।

पुन­रु­क्ते­र­र्थ­व­त्त्व­माह -
तदवस्थेति ।

तदेवं मुक्ते­र्नि­र­ति­श­य­त्वान्न कर्मसाध्यतेति युक्तं पुरु­षा­र्था­धि­क­र­ण­मिति भावः ॥ ५२ ॥