न्यायनिर्णयव्याख्या
३ परिच्छेदः
कर्मानधिकृतान्धादिविषयं पारिव्राज्यमित्याशङ्क्याह -
प्रतिपन्नेति ।
ऋणापाकरणे श्रुतिस्मृतिभ्यां गृहस्थस्यैवापाकृतर्णत्रयस्यैवोर्ध्वरेतःशब्दितमैथुनासमाचारोपलक्षितं पारिव्राज्यमित्याशङ्क्याह -
अपाकृतेति ।
साक्षाद्विधिश्रुतिविरोधेऽवादश्रुतिस्मृत्योरबवाध्यतेत्यभिप्रेत्योक्तम् -
श्रुतीति ।
श्रुतिर्व्रह्मचर्यादेव प्रव्रजेदित्याद्या दर्शिता । स्मृतिस्तु तस्याश्रमविकल्पमेके ब्रुवते यमिच्छेत्तमावसेदित्याद्योदाहार्या ।
ऊर्ध्वरेतःस्वाश्रमेषु विद्यायाः सिद्धौ फलितमाह -
तस्मादिति ।
तस्याः स्वातन्त्रये केवलायाः सिद्धा मुक्तिफलतेति वक्तुमितीत्युक्तम् ॥ १७ ॥
पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणां सङ्गतिं विवक्षन्नाक्षिपति -
परामर्शमिति ।
ऊर्ध्वरेतःशब्दितं पारिव्राज्यं नानुष्ठेयमनुष्ठेयं वेति भ्रान्तिप्रमाणमूलत्वाभ्यां सन्देहे पूर्वपक्षयति -
त्रय इति ।
अत्र शास्त्रीयसम्यग्ज्ञानस्यान्तरङ्गसाधनप्रसङ्गादनुष्ठेयमुच्यत इति स्फुटा पादादिसङ्गतिः । पूर्वपक्षे पारिव्राजके विद्याप्रसिद्धेर्विभ्रमत्वात्तस्या न स्वातन्त्र्यसिद्धिः ।
सिद्धान्ते तस्यास्तत्र प्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य परामर्शं जैमिनिरिति व्याख्याय हेत्वाकाङ्क्षायामचोदनेति हेतुत्वेन व्याचष्टे -
कुत इति ।
पूपा प्रपिष्टभाग इतिवत्कल्प्यतां विधिरित्याशङ्क्य ब्रह्मसंस्थतादिविधिपरत्वाद्वाक्यजातस्य नैवमिति चशब्दार्थमाह -
अर्थान्तरेति ।
तत्र ब्रह्मसंस्थतादिविधिपरत्वं त्रय इत्यादिवाक्यस्य साधयति -
त्रय इत्यादिना ।
अन्यत्र विहितस्यान्यत्र परामर्शादन्यत्र विधिकल्पनादिहैव कल्पना लघ्वीत्याशङ्कते -
नन्विति ।
परामर्शस्यानुवादाख्यस्य पुरोवादापेक्षत्वात्तद्वशादाश्रमप्रतीतिमङ्गीकरोति -
सत्यमिति ।
तर्हि तद्विषयश्रुतेरन्यत्राश्रितत्वाद्गौरवमित्याशङ्क्याह -
स्मृतीति ।
तयोरपि श्रुतिमूलत्वाद्विधियुक्तश्रुतिकल्पनादिहैव तत्कल्पने लाघवमित्याशङ्क्याह -
अतश्चेति ।
प्रत्यक्षश्रुतियावज्जीवादिश्रुतिः ।
निरालम्बनत्वात्कथमपि सालम्बनत्वं युक्तमिति कल्पान्तरमाह -
अनधिकृतेति ।
येऽन्धादयो नित्यादिकर्मस्वनधिकृतास्तद्विषया आश्रमान्तरस्मृतयस्तदाचाराश्चेत्यर्थः ।
आश्रमान्तराणां परामर्शेऽपि गार्हस्थ्यवत्प्रामाणिकत्वसिद्धेरनुष्ठेयतेति शङ्कते -
नन्विति ।
परामर्शसाम्यमङ्गीकरोति -
सत्यमिति ।
तर्हि प्रामाणिकत्वेनानुष्ठेयत्वमपि तुल्यं स्यादित्याशङ्क्य न परामर्शमात्राद्गार्हस्थ्यसिद्धिः ।
अपि तु प्रत्यक्षश्रुतिविधानादिति विशेषमाह -
तथापीति ।
गार्हस्थ्यमेव श्रौतमिति स्थिते ब्रह्मसंस्थतास्तुत्यर्थमेव त्रय इत्याद्याश्रमान्तरवचनमित्युपसंहरति -
तस्मादिति ।
निन्द्यमानत्वाच्चाश्रमान्तरमननुष्ठेयमित्याह -
अपिचेति ।
तत्र सूत्रावयवं योजयति -
अपवदतीति ।
तत्र त्रय इत्यादिवाक्यस्यार्थत्वमुक्त्वा वाक्यान्तरमपि तद्वदेवार्थान्तरपरत्वमाह -
तथेति ।
तेऽर्चिषमभिसम्भवन्ति सूर्यद्वारेण ते विरजाः प्रयान्तीतिवाक्यशेषाद्देवयानोक्तिपरं तदित्यर्थः ।
आश्रमवाचकशब्दाभावाच्चार्थान्तरपरत्वमित्याह -
सन्दिग्धं चेति ।
प्रव्रजन्तीत्याश्रमवाचिशब्ददृष्टेरनुष्ठेयं पारिव्राज्यमित्याशङ्क्याह -
तथेति ।
एवंविशिष्टोऽयमात्मलोको यदेनं साक्षात्कर्तुमिच्छन्तो दुरनुष्ठेयामपि प्रवज्यां कुर्वन्तीति स्तुतिर्न तद्विषयो विधिर्वर्तमानापदेशादित्यर्तः ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
प्रत्यक्षविधानमङ्गीकरोति -
सत्यमिति ।
तर्हि पूर्वपक्षसिद्धिरित्याशङ्क्य नास्तीदं विधानमितिकृत्वा चिन्तेयमित्याह -
अनपेक्ष्येति ॥ १८ ॥
सिद्धान्तसूत्रमवतार्य व्याकरोति -
अनुष्ठेयमिति ।
पूर्वपक्षमनुभाष्य तन्निरासप्रतिज्ञां विवृणोति -
वेद इति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
तस्याक्षरार्थमाह -
समा हीति ।
तस्यैव तात्पर्यार्थमाह -
यथेति ।
त्रयो धर्मस्कन्धा इत्यत्रोर्ध्वरेतस आश्रमाः श्रुत्यन्तरप्रसिद्धा एव परामृश्यन्त एतद्वाक्यपरामृष्टत्वाद्गार्हस्थ्यवदित्यर्थः ।
परामर्शस्य विधिपूर्वकत्वे दृष्टान्तमाह -
यथेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्यत्रोपवीतविधिपरे वाक्ये विध्यन्तरसिद्धयोरेव निवीतप्राचीनावीतयोर्यथा परामर्शस्तथात्रापीत्यक्षरार्थः । निवीतं मनुष्याणामित्यादिः दर्शपूर्णमासयोः श्रुतं तत्रोपवीतं विधीयत एवेतरयोस्तु विधिरर्थवादो वेति संशये सत्यपूर्वार्थलाभान्मनुष्यशब्दस्य च मनुष्यप्राधान्यवाचित्वादातिथ्ये कर्मणि निवीतं पित्र्ये च प्राचीनावीतमिति प्राप्ते मनुष्याणां क्रियासु सौकर्याय कण्ठलम्बिवस्त्रधारणस्य वा देहार्धबन्धनस्य वा निवीतस्य प्राप्तत्वात्प्राचीनावीतस्य च पितृयज्ञे वाक्यान्तरेण प्राप्तेस्तदनुवादेन निवीतमित्यादिरुपवीतं स्तोतुमर्थवाद इति प्राच्यां मीमांसायां स्थितम् । तस्यैव परामर्शश्रुतावपि त्रय इत्याद्यायां गार्हस्थ्यवदाश्रमान्तरमपि विहितमेवान्यत्र परामृश्यते तस्य विध्यपेक्षत्वादित्यर्थः ।
साम्यश्रुतिफलमाह -
तस्मादिति ।
त्रय इत्यत्राश्रमान्तरस्य गार्हस्थ्येन साम्यश्रुतिरुक्ता, सम्प्रति पारिव्राज्यवाक्येऽपि साम्यश्रुतिमाह -
तथेति ।
अस्येति पारिव्राज्योक्तिः । विधेयसाहित्यादस्यापि विधेयतेत्यर्थः ।
वाक्यान्तरेऽपि साम्यश्रुतिमाह -
ये चेति ।
अस्येति वानप्रस्थोक्तिः विधेयपञ्चाग्निविद्यया
तस्य सहोक्तिरस्ति तेन तद्वदेव वानप्रस्थमनुष्ठेयमित्यर्थः । परोक्तिमुद्भाव्य प्रत्याह -
यत्त्वित्यादिना ।
किं तन्निश्चयकारणं तदाह -
त्रय इति ।
स्कन्धशब्दस्य समूहवाचित्वेऽपि त्रित्वप्रतिज्ञा स्यादित्याशङ्क्याह -
नचेति ।
यजेत दद्यादित्याद्युत्पत्तिविधिभिन्नाः सन्तो बहवो धर्मा नाश्रमसम्बन्धमन्तरेण त्रित्वेऽन्तर्भावयितुं शक्यन्ते । यद्याश्रमपरः स्कन्धशब्दो न स्यान्न स्यात्ततो यज्ञादीनां त्रित्वं तेषामधिकृतत्वादतः स्कन्धशब्दस्य समूहार्थत्वायोगात्त्रित्वमेव स्कन्धानामाश्रमत्वनिश्चायकमित्यर्थः । कथं तर्हि तेषामाश्रमाणां विभागः, तत्राह -
तत्रेति ।
वाक्यान्तरेऽपि निश्चायकं दर्शयति -
ये चेति ।
परोक्तं निरस्य स्वमतमुपसंहरति -
तस्मादिति ॥ १९ ॥
परामर्शमुपेत्यानुष्ठेयत्वमुक्तमिदानीं विधिरेवायमित्याह -
विधिर्वेति ।
प्रतिज्ञां विभजते -
विधिरिति ।
स्मृत्याचारयोराश्रमचतुष्टयनिविष्टयोर्भ्रान्तित्वायोगान्मूलकल्पनायां विधियुक्तवाक्यकल्पनाल्लघीयस्त्रय इत्यादिष्वाश्रमविधिकल्पमिति भावः । अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतेरेकवाक्यत्वनिश्चयात्तद्भङ्गेनात्राश्रमविधिकल्पनमयुक्तमिति शङ्कते -
नन्विति ।
एकवाक्यताधीरेव कथं, तत्राह -
प्रतीयते चेति ।
एकवाक्यत्वसम्भवे तद्भेदो न युक्तिमानित्यङ्गीकरोति -
सत्यमिति ।
आश्रमाणां पूर्वसिद्धेरभावात्तत्परामर्शेन स्तुतेरयोगादेकवाक्यतैवात्रायुक्तेत्याह -
सतीमिति ।
किञ्च विधियुक्तवाक्यान्तरकल्पनायामाश्रमान्तराणां विहितत्वोपगमप्रसक्त्या स्वपक्षहानात्तत्कल्पनादिहैवाभीष्टे वाक्ये विधिमात्रकल्पना युक्तेत्याह -
विध्यन्तरस्येति ।
किञ्च मुख्यमाश्रमान्तरप्रत्ययं त्यक्त्वा स्तुतिलक्षणयैकवाक्यत्वकल्पनायोगाद्वाक्यभेदेन विधिरेवायमित्याह -
विस्पष्टाच्चेति ।
एकवाक्यताज्ञानेऽपि तत्त्यागेनापूर्वार्थविधौ दृष्टान्तमाह -
धारणवदिति ।
महापितृयज्ञे दिष्टङ्गताग्निहोत्रे च श्रुतं वाक्यमुदाहरति -
अधस्तादिति ।
उदाहरणव्याख्योपयोगित्वेन वाक्यस्याभीष्टमर्थमाह -
अत्रेति ।
प्रकृते कर्मविशेषे स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तदा पित्र्ये होमे तस्य हविषोऽधस्तात्समिधं धारयन्ननुद्रवेदित्यधोधारणस्य विहितत्वादुपरि हीति तच्छेषानुवादतया तदेकवाक्यत्वसिद्धावुपरिष्टात्समिद्धारणस्यापूर्वत्वाद्दैवे होमे वाक्यभेदं कृत्वा तद्विधीयत इत्यर्थः ।
उक्तेऽर्थे तार्तीयं सूत्रमुदाहरति -
तथेति ।
उपरि हि देवेभ्यो धारयतीत्यत्रोपरिधारणं विधीयते न वेति सन्देहे धारयतीति वर्तमानोपदेशादुपरि हीति हिशब्दश्रुतेश्चोपरि समिधः प्राप्तेर्हविषश्चाभ्यर्हितद्रव्यत्वेन येन केनाच्छादनप्राप्तौ स्रुग्दण्डे समिधमुपसङ्गृह्यानुद्रवतीतिवाक्यान्तरप्राप्तसमिन्नियमनादयमनुवादो न विधिरिति प्राप्ते स्रुग्दण्डे समिधमुपसङ्गृह्येति हविषः प्राग्देशे समिद्धारणस्य प्राप्तत्वेऽपि तस्मादुपरि तद्धारणस्याप्राप्तेर्भङ्क्त्वा हिशब्दं पञ्चमलकारेण विधिरेवायमित्याह -
विधिस्त्विति ।
दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह -
तद्वदिति ।
परामर्शपक्षमेवावलम्ब्याश्रमाणां परामर्शेऽपि पारिव्राज्यस्य विधिरेष्टव्योऽन्यथा स्तुत्ययोगादित्याह -
यदेति ।
ब्रह्मसंस्थतया यत्स्तूयते तद्विधीयत इति न्यायाद्विधेयत्वेऽपि पारिव्राज्यस्य किं स्यादित्याशङ्क्य तदर्थं विचारमवतारयति -
सा चेति ।
पक्षद्वयस्य निर्बीजत्वान्नेदं विचार्यमित्याशङ्क्य परामर्शश्रुतौ परिव्राजकोऽपि परामृष्टो न वेति विकल्प्याद्यमनूद्य प्रथमपक्षप्राप्तिमाह -
यदीति ।
परामृष्टत्वाविशेषाच्चतुर्ष्वाश्रमेषु यः कश्चिद्ब्रह्मसंस्थो भविष्यतीति सम्बन्धः ।
ब्रह्मसंस्थोऽनाश्रमी कस्मान्न स्यादित्याशङ्क्यानाश्रमित्वस्य निन्द्यमानत्वादित्याह -
अनाश्रमित्वेति ।
द्वितीयमनूद्य द्वितीयपक्षप्राप्तिमाह -
अथेति ।
पक्षयोः सम्भावनया विचारारम्भमुक्त्वा पूर्वपक्षमाह -
तत्रेति ।
परिव्राजकस्यापि यमनियमादितपःसम्भवादित्यर्थः ।
आश्रमाणामेकैकशोऽसाधारणधर्मरूपदर्शनायोपक्रमात्तदनुसारेण चोपसंहारस्य युक्तत्वात्तपःशब्देन नोभयग्रहणमिति दूषयति -
तदिति ।
किं तर्हि युक्तं तदाह -
यथेति ।
कस्तर्हि तपःशब्दार्थः, तत्राह -
तपश्चेति ।
तेषां तत्प्रधानत्वेऽपि तपःशब्दस्य साधारण्यं किंं न स्यात् , तत्राह -
तपःशब्दस्येति ।
तस्य कृच्छ्रादौ रूढेरन्यत्र तदभावात्तेन वानप्रस्थ एव परामृश्यत इत्यर्थः ।
कथं तर्हि परिव्राजकधर्मेऽपि तपःशब्दप्रयोगः, तत्राह -
भिक्षोस्त्विति ।
इतश्च पूर्वं परिव्राजको नोक्त इत्याह -
चतुष्ट्वेनेति ।
नहि प्रसिद्धसङ्ख्याभेदेषु सङ्ख्यान्तरोक्तिर्युक्तेत्यर्थः ।
पृथगुक्तिसामर्थ्यादपि प्रकृताश्रमत्रयातिरिक्तो ब्रह्मसंस्थ इत्याह -
अपिचेति ।
भेदव्यपदेशेऽपि कथं पृथक्त्वं, तत्राह -
पृथक्त्वे चेति ।
सर्व एते पुण्यलोका इत्यत्र भिक्षुरपि परामृष्टश्चेत्तस्याब्रह्मसंस्थत्वाभावादमृतत्वमेवेति न पुण्यलोकत्वं विरोधात् । नच तपःशब्देन भिक्षोरपि ग्रहे तद्वर्जनं युक्तमेत इति प्रकृतानां कार्त्स्न्येन परामर्शात् । तस्माद्भेदोक्त्या पृथक्त्वमेवेत्यर्थः ।
अपृथक्त्वे भेदोक्तिरयुक्तेत्यत्र दृष्टान्तमाह -
नहीति ।
पृथक्त्वे तु तदुक्तिर्युक्तेत्याह -
भवतीति ।
न चावस्थाभेदापेक्षया दृष्टान्तदार्ष्टान्तिकयोः सिद्धिरपृथक्त्वेऽपीति वाच्यम् ।
सति कर्मित्वे मन्दप्रज्ञत्वे च ब्रह्मसंस्थताया महाप्रज्ञत्वस्य चायोगात्पृथक्त्वध्रौव्यादिति मत्वोपसंहरति -
तस्मादिति ।
किमेष ब्रह्मसंस्थशब्दो यौगिको रूढो वेति विकल्प्याद्ये न परिव्राजकमात्रविषयतेति शङ्कते -
कथमिति ।
द्वितीयं निराह -
रूढीति ।
यौगिकत्वमुपेत्य परिहरति -
अत्रेति ।
यथोक्तं ब्रह्मसंस्थत्वमन्येषामपि सिध्यतीत्याशङ्क्याह -
तच्चेति ।
तुल्यं संन्यासिनोऽपि स्वाश्रमकर्माननुष्ठाने प्रत्यावायित्वं तत्कुतोऽस्य ब्रह्मसंस्थत्वं, तत्राह -
परिव्राजकस्येति ।
तस्यापि शमदमाद्यनुष्ठेयमिति कुतो ब्रह्मसंस्थतेत्याशङ्क्याह -
शमेति ।
तत्र हेतुः -
ब्रह्मेति ।
शमादेर्ब्रह्मसंस्थताङ्गत्वान्न तद्विरोधितेत्यर्थः ।
गृहस्थादीनामपि ब्रह्मसंस्थितत्वाविरोध्येव स्वाश्रमविहितं कर्मेत्याशङ्क्याह -
यज्ञेति ।
तानि हि रागाद्याक्षिप्तानि न च रागादिमतां ब्रह्मसंस्थतेति भावः ।
शमदमाद्युपेतं ब्रह्मनिष्ठत्वमेव संन्यासिनः स्वाश्रमकर्मेत्युक्तं तदकरणे तस्य प्रत्यवायित्वं त्वम्पदार्थविवेकायैवेति स्मृतेरित्याह -
तदिति ।
चकारादितरेषामपि तत्तदाश्रमकर्मातिक्रमे प्रत्यवायित्वमकुर्वन्विहितं कर्मेत्यादिस्मृतिरपि सूच्यते ।
संन्यासिनः सर्वकर्मत्यागेन ब्रह्मसंस्थत्वमेव स्वाश्रमकर्मेत्यत्र मानमाह -
तथाचेति ।
न्यासः संन्यासो ब्रह्मेति स्तूयते ।
तत्र हेतुमाह -
ब्रह्मा हीति ।
हिरण्यगर्भो हि श्रुतिस्मृतिषु परोऽभीष्टस्तथापि कथं सन्यासस्तदात्मकः, तत्राह -
परो हीति ।
तस्य परत्वे हेतुः -
ब्रह्मेति ।
तद्धीहेतुत्वात्परो यस्मादेष संन्यासस्तस्माद्ब्रह्मेत्यर्थः ।
तस्य परत्वं स्फोरयति -
तानीति ।
पूर्वोक्तानि सत्यादीनि प्रसिद्धानि तानि ज्ञानहीनान्यवराण्येतानि तपांसि निकृष्टत्वहेतुत्वान्न्यास एवैभ्योऽतिरिक्तः श्रेष्ठो ब्रह्मसंस्थताद्वाराऽमृतत्वहेतुत्वादित्यर्थः ।
तस्य कर्मान्तराभावे वाक्यान्तरमाह -
वेदान्तेति ।
शुद्धबुद्ध्या विरक्ताः संन्यासयोगाद्वेदान्तविज्ञानेन सुनिश्चितार्था मुच्यन्त इति वचनात्कर्मान्तराभावः संन्यासिनां भातीत्यर्थः । न कर्मणा न प्रजयेत्याद्या भूयस्यः श्रुतयोऽत्र सन्तीति वक्तुमादिपदम् । तस्मिन्ब्रह्मणि बुद्धिर्मनो येषां ते तथा तदेव ब्रह्मात्मा स्वरूपं येषां ते तदात्मानः ।
तत्रैव निश्चयेन स्थितिमाह -
तन्निष्टा इति ।
विषयान्तरपारवश्यं व्यावर्तयति -
तदिति ।
यथोक्तान्यपि कर्माणि परिहायेत्यादिस्मृतिसङ्ग्रहार्थमादिपदम् ।
उक्तश्रुतितात्पर्यमाह -
ब्रह्मेति ।
ब्रह्मसंस्थशब्दस्य परिव्राजके रूढिमुपेत्योपसंहरति -
तस्मादिति ।
यथा गृहस्थशब्दस्य यौगिकत्वे सत्यतिप्रसङ्गपरिहाराश्रमविशेषे रूढत्वेऽपि न गार्हस्थ्यमात्रात्पुण्यलोकाप्तिः किन्तु यथोक्ताग्निहोत्रादिकरणात् । तथा परिव्राजकस्यापि ब्रह्मसंस्थस्य वाक्यार्थसाक्षात्कारद्वारैव मुख्यममृतत्वमिति । कुतो ज्ञानानर्थक्यमित्यर्थः ।
एवमेकदेशिमतं प्रत्याख्याय ब्रह्मसंस्थशब्दस्य परिव्राजकविषयत्वे स्थिते संस्तवसामर्थ्याद्ब्रह्मसंस्थत्वं पारिव्राज्यमितरपरामर्शेऽपि विधेयमिति परमप्रकृतमुपसंहरति -
तदेवमिति ।
शिष्यबुद्धिविकासार्थं परामर्शश्रुतिमाश्रित्य कृत्वाचिन्तया विचारं कृत्वा कृत्वाचिन्तामुद्धाटयति -
अनपेक्ष्येति ।
यदि वेतरथेति ब्रह्मचर्ये स्थितस्यैव पारिव्राज्येच्छा गार्हस्थ्ये च वैराग्यं दैवयोगाद्यदि स्यादित्यर्थः ।
यत्त्वनधिकृतान्धादिविषयः संन्यासः स्यादिति, तत्राह -
नचेति ।
अविशेषश्रुतिरसति बाधके न विशेषे सङ्कोचमर्हतीत्यर्थः ।
इतश्चेदं वाक्यं नानधिकृतविषयमित्याह -
पृथगिति ।
अनधिकृतानां संन्यासस्येति शेषः । व्रती गोदानादिवेदव्रतवान् । अव्रती तद्विपरीतः । स्नातको गुरुकुलनिवृत्तिरूपस्नानानन्तरमपि गुरुशुश्रूषापरः । तद्विपरीतोऽस्नातकः । उत्सन्नाग्निर्मृतभार्यः पूर्वभेवाग्निपरिग्रहरहितो वा । परिव्रजेदिति कर्माधिकारप्रतिपत्तिहीनानामपि संन्यासस्य पृथगुक्तेर्न वाक्यमनधिकृतविषयमित्यर्थः ।
संन्यासविधेरनधिकृताविषयत्वे हेत्वन्तरमाह -
ब्रह्मेति ।
श्रवणादिद्वारा संन्यासस्य ब्रह्मज्ञानदार्ढ्यार्थत्वं प्रकरणादिसिद्धं तेन समर्थस्यैवाधिकारस्तस्मिन्नित्यर्थः ।
पारिव्राज्यस्य ब्रह्मधीदार्ढ्यार्थत्वे श्रुतिं प्रमाणयति -
तच्चेति ।
ब्रह्मभूयाय ब्रह्मभावाय तत्साक्षात्कारायेत्यर्थः ।
अन्तर्गर्भिताधिकरणार्थमुपसंहरति -
तस्मादिति ।
प्रामाणिकत्वं तच्छब्दार्थः ।
तेषां प्रमितत्वेनानुष्ठीयमानत्वेऽपि प्रकृते किं जातमित्याशङ्क्य प्रथमाधिकरणार्थं निगमयति -
सिद्धं चेति ॥ २० ॥
अनुष्ठेयसाम्यश्रुतेराश्रमान्तरमनुष्ठेयतया विधेवमित्युक्तम् । सम्प्रति रसतमत्वादीनामङ्गाश्रितत्वेनेयमेव जुहूरित्यादिश्रुतितुल्यतया स्तुत्यर्थत्वमित्याशङ्क्य प्रत्याह -
स्तुतीति ।
अधिकरणस्य विषयं वदन्वाक्यानि पठति -
स इति ।
एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग्वाच ऋगृचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां सामान्यानां भूतेषूत्तरोत्तरं सारत्वेनोक्तानामतिशयेन सारो रसतमः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः परब्रह्मवदुपास्य इत्यर्थः । पृथिव्याद्यपेक्षयाष्टमः कोऽसौ यदुद्गीथो य उद्गीथ ओङ्कार इत्यर्थः । उद्गीथाद्यङ्गावबद्धश्रुतीरधिकृत्य पर्णमयित्वादावङ्गसम्बन्धे विध्युपलब्धेस्तथाविधेऽपि स्वर्गो लोक इत्यादौ स्तुत्युपलब्धेश्च संशयमाह -
किमिति ।
अङ्गावबद्धानामपि बुद्धीनां स्तुतित्वाभावाद्विधेयतया स्वातन्त्र्येण पुरुषार्थहेतुत्वे सत्यनङ्गात्मधियः स्वतन्त्रतया फलवत्त्वमुपनिषदुत्पन्नायाः किं वक्तव्यमित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे स्तुतित्वादङ्गधीष्वनुष्ठानासिद्धिः ।
सिद्धान्ते तासां विधेयत्वात्तत्सिद्धिरित्यङ्गीकृत्य संशयमनूद्य पूर्वपक्षयति -
इत्यस्मिन्निति ।
विमताः प्रत्ययाः स्तुतयः कर्माङ्गेषूत्कृष्टपदार्थाध्यासप्रत्ययरूपत्वात्स्वर्गो लोक आहवनीय इत्यादिप्रत्ययवदित्यर्थः । जुहूरियमेव पृथिवीति स्तूयते कूर्मश्चयनगतः सन्नादित्य इत्याहवनीयोऽग्निः स्वर्गो लोक इतिवत्स्तुतिरेवेत्यर्थः ।
स्तुतिकल्पनाद्विधिकल्पनमेव युक्तमनुष्ठानफलाभावादिति परिहरति -
नेत्यादिना ।
विमताः प्रत्यया न कर्माङ्गस्तुतयोऽपूर्वार्थत्वात्क्रत्वन्तरवदित्याह -
नेति ।
विमता धियो न कर्माङ्गस्तुतयो विशिष्टफलसम्बन्धित्वात्संमतवदित्याह -
विधीति ।
वायुर्वै क्षेपिष्ठेत्यादिवदुद्गीथादिश्रुतीनां स्तुत्यर्थत्वेऽपि कस्मादर्थवत्त्वं न स्यादित्याशङ्क्याह -
विधायकस्येति ।
अस्तु तर्हि विधायकशब्दशेषत्वेनैवोद्गीथादिश्रुतीनामपि स्तावकतयार्थवादत्वम् ।
तत्र वाच्यं किमुद्गीथादिप्रत्ययैरुद्गीथादिविधिः स्तूयते किंवा तदुपास्तिविधिरिति विकल्प्याद्यं दूषयति -
प्रदेशान्तरेति ।
उद्गीथादिविधेः कर्मप्रकरणस्थत्वेन व्यवधानान्न तेनोद्गीथादिश्रुतीनामेकवाक्यता । विमता धियो न कर्माङ्गस्तुतयोऽतत्प्रकरणस्थत्वात्क्रत्वन्तरवदिति भावः ।
परोक्तं दृष्टान्तं विघटयति -
इयमेवेति ।
अनुमानत्रयफलं निगमयति -
तस्मादिति ॥ २१ ॥
न द्वितीय उपास्यविषयार्पणेन विध्यन्वययोगे लक्षणया स्तुत्यर्थत्वायोगादित्याह -
भावेति ।
संनिहितविधेर्वेिषयार्पणेनार्थवत्त्वे रसतमादिवादानां सम्भवति तदीस्तुतिपरत्वमपि तत्रायुक्तं स्तुत्यपेक्षया विषयार्पणस्यान्तरङ्गत्वात् ।
तत्र कर्माङ्गस्तुतिपरत्वं नेति किमु वक्तव्यमिति मन्वानो व्याचष्टे -
उद्गीथमिति ।
निमन्त्रणादिष्वपि लिङादिस्मरणात्कथमुपासीतेत्यादिशब्दस्य विधिपरतेत्याशङ्क्याह -
तथाचेति ।
धातूनामनेकत्वेऽपि ‘डुकृञ् करणे’ ‘भू सत्तायाम्’ ‘अस भुवि’ इति त्रीनेव धातून्भावनासामान्यवाचिनः सर्वव्याप्त्यर्थमुदाहरति -
कुर्यादिति ।
आक्षिप्तकर्तृका भावना कुर्यादित्युक्ता सैवाक्षिप्तकर्मिका क्रियेतेत्युदाहृता । सैव कर्तव्यमिति धात्वर्थोपसर्जनभूताऽभिहितेति भेदः । भवेदित्यत्रापि भूयेत भवितव्यमित्युदाहार्यम् ।
भवतेरस्तेश्चैकार्थ्येऽपि प्राप्त्याद्यर्थं भवति दृष्ट्वा पृथगस्तिमुदाहरति -
स्यादितीति ।
यथापूर्वमुदाहरणमिहापि द्रष्टव्यम् । पाठक्रममनुसृत्य पञ्चममित्युक्तम् ।
एतद्धात्वनुगतप्रत्ययैः सर्वभावनानुगतश्रेयःसाधनत्वरूपो विधिरुच्यते न तु प्रतिधातुप्रत्ययं च भावनाभेदोऽस्तीति मत्वाह -
एतदिति ।
कथं तर्हि निमन्त्रणादिषु लिङादिस्मरणं मिथोविरोधादित्याशङ्क्योत्सर्गतो वेदे विधिपरा लिङादयोऽपवादादन्यथात्वमित्यभिप्रेत्याह -
लिङादीति ।
उद्गीथादिश्रुतीनां स्तुत्यर्थत्वाभावे हेत्वन्तरं चकारसूचितमाह -
प्रतीति ।
फलभेदश्रवणमुपसंहरति -
तस्मादिति ।
पूर्वोक्तापूर्वत्वादिसमुच्चयार्थमपीत्युक्तम् ॥ २२ ॥
उद्गीथादिश्रुतेरुपास्तिविषयार्पकत्वं ज्यायो रसतमत्वादेरित्युक्तम् । अधुनाख्यानानामपि विद्यास्तुतेः सकाशात्पारिप्लवशेषत्वं ज्यायोऽनुष्ठानावसानयोगादित्यशङ्क्य परिहरति -
पारिप्लवेति ।
विषयोक्तिपूर्वकमाख्यानत्वसाम्याद्विद्यासंनिधेश्च संशयमाह -
अथेत्यादिना ।
पारिप्लवप्रयोगो नानाश्वमेधे पुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीतेत्यादिना नानाविधाख्यानकथनं विहितम् । अत्र चोपनिषद्गताख्यानानां तादर्थ्यनिरासेन तत्र तत्र संनिहितस्वतन्त्रपुरुषार्थहेतुविद्यार्थत्वसमर्थनात्पादादिसङ्गतिः । पूर्वपक्षे प्रयोगशेषत्वादाख्यानानां वेदान्तगतानामपि तद्भावाद्विद्याप्राधान्यासिद्धिः ।
सिद्धान्ते विशेषणादुपनिषदाख्यानानां व्यवच्छेदात्तेषामप्रयोगशेषत्वाद्विद्याप्रधानत्वसिद्धिरिति स्वीकृत्य पूर्वपक्षयति -
पारिप्लवेति ।
गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा च विद्याशेषत्वं सामर्थ्यलिङ्गादासां सिद्धमित्याशङ्क्य पारिप्लवश्रुतिविरोधे लिङ्गमप्रयोजकमित्याह -
आख्यानेति ।
यस्याश्विने शस्यमाने सूर्योऽभ्युदियादपि सर्वा दाशतयीरनुब्रूयादिति सर्वासामृचामाश्विनग्रहशसने सर्वश्रुत्या विनियुक्तानामपि प्रातिस्विकविनियोगवदाख्यानानां पारिप्लवे पारिप्लवमाचक्षीतेति चोदितानामेतेन लिङ्गेन संनिधेर्वा विद्यायां विनियोगः स्यादित्याशङ्क्य प्रातिस्विकविनियोगस्य समुदायविनियोगस्य च श्रौतत्वेन तुल्यत्वात्प्रकृते च तदभावान्मैवमित्याह -
ततश्चेति ।
आख्यानानां प्रयोगशेषत्वेऽपि सर्वेषां वेदान्तानामतच्छेषत्वाद्युक्तं विद्याप्रधानत्वमित्याशङ्क्याह -
मन्त्रवदिति ।
देवस्य त्वेत्यादिमन्त्रे कस्यचिदेव पदस्य समवेतार्थतया प्रयोगशेषत्वे सिद्धे तदेकवाक्यतया पदान्तराणामपि तच्छेषत्वमिष्टम् । तथाख्यानानां प्रयोगशेषत्वे तदेकवाक्यत्वेन सर्वोपनिषदां तच्छेषत्वान्न विद्याप्रधानतेत्यर्थः ।
सामान्यश्रुतेर्विशेषोक्त्याऽतत्परत्वान्न तया लिङ्गादिबाधोऽस्तीति सिद्धान्तयति -
तन्नेत्यादिना ।
अश्वमेधे प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह । द्वितीयेऽहनि यमो वैवस्वत इति । तृतीयेऽहनि वरुण आदित्य इत्याद्याख्यानविशेषा वाक्यशेषे श्रुतास्तद्बलादुपक्रमस्य सङ्कोचो युक्तः । न चोपक्रमस्थसर्वशब्दादुपसंहारस्था विशेषोक्तिरुपलक्षणार्थेति वाच्यम् । आदौ सर्वाण्याख्यानानि पारिप्लवे शंसतीत्युक्त्वा पारिप्लवमाचक्षीतेति च विधाय मनुर्वैवस्वत इत्यादि पठ्यते । तत्र पुनर्विधानं वाक्यशेषस्थाख्याननियमार्थमन्यथा वैयर्थ्यात् ।
सर्वशब्दोऽपि वाक्यशेषस्थोपाख्यानमध्यस्थकतिपयप्रयोगमात्रेणोपरमं व्यावर्तयितुमित्यर्थवानिति मत्वा सिद्धान्तं विवृणोति -
पारिप्लवमिति ।
यत्त्वाख्यानसामान्यात्पारिप्लवार्था इमाः श्रुतय इति, तत्राह -
आख्यानेति ।
विशेषणफलं निगमयति -
तस्मादिति ॥ २३ ॥
तर्हि कुत आख्यानान्युपयुक्तानीत्याशङ्क्य विशेषणश्रुत्या सर्वश्रुतौ भग्नायां निर्बाधः संनिधिर्विद्यास्वेवोपनिषदाख्यानानि नियुञ्जीतेत्याह -
तथाचेति ।
सूत्रार्थं विवृणोति -
असतीति ।
एकवाक्यतोपसम्बन्धं विभजते -
तथाहीति ।
प्ररोचनमनुरागजननम् ।
संनिहितविद्याभिराख्यानानामेकवाक्यताप्रतीतिमुदाहरति -
मैत्रेयीति ।
आख्यानत्वेऽपि पारिप्लवार्थत्वादर्शनाच्च न तादर्थ्यं प्रकृताख्यानानामित्याह -
यथेति ।
उदखिददुद्धृतवान्होमायेति यावत् ।
श्रुतिलिङ्गसंनिधिभिर्विद्यार्थत्वे सिद्धे फलितमुपसंहरति -
तस्मादिति ॥ २४ ॥
कथानां विद्याशेषत्वे दर्शिते कर्मणामपि तर्हि तच्छेषत्वं तच्छेषत्वाभावेऽपि स्यादित्याशङ्क्य प्रसङ्गागतं विचारं परिसमाप्य पुरुषार्थाधिकरणस्य फलमाह -
अत इति ।
ब्रह्मविद्या मोक्षे कर्माणीतिकर्तव्यत्वेनापेक्षते न वेति वादिविप्रतिपत्तेः सन्देहे यज्ञेनेति विविदिषायां विनियुक्तयज्ञादीनां विषयसौन्दर्यलभ्यायां तस्यामनन्वयात्तद्विषयज्ञानसाध्यमोक्षान्वयस्य युक्तत्वादपेक्षत इति पूर्वपक्षे काष्ठैः पचतीत्यत्र पाकसाधनज्वालाजनककाष्ठानां पाकहेतुत्वादर्शनाज्ज्ञानेच्छाजनकान्तःकरणशुद्धिहेतुत्वेन यज्ञादीनां ज्ञानेच्छाहेतुत्वसिद्धेः साक्षादेव मोक्षान्वये च यज्ञेनेत्यादिकरणविभक्तिभङ्गात्पारम्पर्यस्यैवोपेयत्वान्नापेक्षत इति सिद्धान्तः ।
एतदभिप्रेत्य संनिहितस्यातःशब्दपरामर्शयोग्यस्याभावादतःपदानुपपत्तिमाशङ्क्य सूत्राक्षराणि योजयति -
पुरुषार्थ इति ।
आद्याधिकरणे यथा विद्यायाः स्वातन्त्र्येण पुमर्थहेतुत्वमुक्तं तच्च तथैवानूद्यते । तथा चाग्नेयादिष्वदर्शनान्न पुरुषार्थहेतुत्वं कर्मापेक्षाविरोधीति निरस्तम् ।
नचात्र पादादिसङ्गतिर्वक्तव्या प्रथमाधिकारणस्यैव तत्फलविषयस्यास्य तस्याः सुगमत्वात्फलमपि पूर्वोत्तरपक्षयोस्तद्वदेवेत्यभिप्रेत्याह -
आद्यस्येति ।
स्वार्थसिद्धावेवानपेक्षा न तु स्वसिद्धौ तत्र तदपेक्षास्तीत्यनन्तराधिकरणे निर्देष्टुमुपसंहार इति तत्फलमाह -
अधिकेति ॥ २५ ॥
ब्रह्मविद्या स्वफले न कर्मापेक्षा प्रमात्वात्संमतवदित्युक्तम् ।
तर्हि न स्वोत्पत्तावपि तदपेक्षा प्रमात्वात्तद्वदेवेत्याशङ्क्याह -
सर्वेति ।
अधिकविवक्षयेत्युक्तं व्यक्तीकुर्वन्ब्रह्मविद्यामधिकृत्य पूर्वाधिकरणन्यायाद्विविदिषाश्रुतेश्च संशयमाह -
इदमिति ।
अत्र च स्वतन्त्रपुरुषार्थहेत्वौपनिषदात्मज्ञानोत्पत्तौ यज्ञादीनां शमादीनां च विविदिषावाक्यीयविनियोगोक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे यज्ञादीनां विज्ञानान्वये तत्फलेऽपि तत्प्रसक्त्या समुच्चयसिद्धिः ।
सिद्धान्ते परम्परया तेषां ज्ञानान्वयेऽपि तत्फलान्वये हेत्वभावात्तदसिद्ध्या ज्ञानस्यैव तद्धेतुतासिद्धिरित्यङ्गीकृत्य पूर्वपक्षयति -
तत्रेति ।
अपरोक्षधियो मानमात्रायत्तत्वात्प्रामाणिकज्ञानस्य मानहेतुषु सत्सु कर्माद्यभावेनानुदयादर्शनात्केवलव्यतिरेकाभावे च यज्ञादीनां हेतुत्वकल्पनायोगाद्विविदिषाश्रुतेश्च वर्तमानापदेशित्वाद्विनियोजकत्वायोगाज्ज्ञानस्य फलवदुत्पत्तावपि नान्वयस्तेषामिति भावः ।
विविदिषावाक्ये वर्तमानापदेशेऽपि यस्य पर्णमयीत्यादाविवापूर्वत्वात्पञ्चमलकारेण ब्रह्मानुभवकामो यज्ञादीनि कुर्यादिति विध्युपगमादागमस्य केवलव्यतिरेकानपेक्षत्वाद्विषयसौन्दर्यलभ्यायामिच्छायां साक्षादन्वयायोगात्तत्फले ज्ञाने यज्ञाद्यन्वयसिद्धेर्यज्ञेनेत्यादिकरणश्रुत्या च तेषामिष्यमाणापरोक्षधीसाधनत्वदृष्टेर्ज्ञानस्य च मानायत्ततया साक्षाद्यज्ञाद्यसाधनत्वेऽपि तेषां चित्तशुद्ध्या प्रत्यक्प्रवणतामुत्पाद्यापरोक्षज्ञाने पर्यवसानात्पारम्पर्येऽपि पचति काष्ठैरितिवत्करणविभक्तिसम्भवादुत्पत्तौ ज्ञानस्य कर्मापेक्षास्तीति सिद्धान्तयति -
इदमिति ।
आपातेन पूर्वापरविरोधप्रतीतिं शङ्कते -
नन्विति ।
विभागोक्त्या प्रत्याह -
नेतीति ।
उक्तव्यवस्थायां प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
हेतुं विवृणोति -
तथाहीति ।
नन्वत्र विविदिषासंयोगो यज्ञादीनां ज्ञायते यदि तस्यां विषयसौन्दर्यलभ्यायां तेषामन्वयायोगादिष्यमाणे ज्ञानेऽन्वयोऽभ्युपगम्यते तर्हि ज्ञानस्य मानाधीनत्वात्कर्मणां तत्रान्वयासिद्धेः श्रुतत्यागेन तत्फले मोक्षे किमित्यन्वयो नेष्यते, तत्राह -
विविदिषेति ।
मोक्षहेतुत्वकल्पनायां नास्त्यकृतः कृतेनेत्यादिविरोधात्परम्परयापि हेतुत्वे बाधाभावाद्बुद्धिशुद्ध्या तदुत्पत्तावेवान्वयो यज्ञादीनामित्यर्थः ।
यज्ञादिश्रुतेरिति वाक्यान्तरमपि ग्रहीतव्यमित्याह -
अथेति ।
तत्र यज्ञादीनां ज्ञानसाधनत्वे विज्ञातं लिङ्गमाह -
अत्रेति ।
तत्रैव लिङ्गान्तरमाह -
सर्व इति ।
परम्परया कर्मणां धीहेतुत्वे स्मृतिमपि दर्शयति -
स्मृतिरिति ।
उत्पत्ताविव फलेऽपि ज्ञानस्य कर्मापेक्षा किं न स्यादित्याशङ्क्य दृष्टान्तमादाय व्याकरोति -
अश्ववदित्यादिना ॥ २६ ॥
ज्ञानोत्पत्तौ बहिरङ्गमुक्त्वा तत्रैवान्तरङ्गमुपदिशति -
शमदमादीति ।
अत्र व्यावर्त्यां शङ्कामाह -
यदीति ।
विद्यास्तावकत्वेनापि सम्भवत्यर्थवत्त्वे वर्तमानताभङ्गेन विधिकल्पनमयुक्तं वाक्यभेदप्रसङ्गात् । अतः शब्दमात्रलभ्या विद्येति भावः ।
एवं तवाभिप्रायेऽपि हेत्वन्तरमवश्यमनुष्ठेयं न शब्दमात्रलभ्या विद्येति सूत्रयोजनया परिहरति -
तथापीति ।
विविदिषावाक्यतुल्यतया शमादिवाक्यस्य नास्ति विधिपरतेति शङ्कते -
नन्विति ।
यस्मादेवमात्मानं विदित्वा पापेन कर्मणा न लिप्यते तस्मादेवं विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति गम्यते विधिरित्याह -
नेतीति ।
विध्यभावे तत्प्रशंसावैयर्थ्यादुक्तविधिसिद्धिरित्यर्थः ।
काण्वपाठे विधिमुक्त्वा माध्यन्दिनपाठे विध्यभावशङ्कापि नास्तीत्याह -
पश्येदिति चेति ।
विधिफलमाह -
तस्मादिति ।
यज्ञादीनामसाधनत्वशङ्कामापाततोऽभ्युपेत्य साधनान्तरापेक्षोक्ता ।
इदानीं तदसाधनत्वशङ्कापि न युक्तेत्याह -
यज्ञादीनीति ।
उक्तं स्मारयित्वा परिहरति -
नन्वित्यादिना ।
संयोगस्यापूर्वत्वमेव स्पष्टयति -
नहीति ।
सत्यपि महावाक्यैक्येऽनुष्ठानयोग्यापूर्वार्थविधिरवान्तरवाक्येन क्रियते न तत्र वाक्यभेदो दोष इत्यत्र पूर्वतन्त्रसंमतिमाह -
तस्मादिति ।
दर्शपूर्णमासयोः श्रुतं तस्मात्पूषेत्यादि । तत्र पूष्णः पिष्टद्रव्यसंवन्धः सामासिकः । नच पूषा देवता पिष्टभागो द्रव्यं दर्शपूर्णमासयोरस्ति तेन तदेकवाक्यतायोगात्कालत्रयास्पृष्टद्रव्यदेवतासम्बन्धस्याविनाभावेन यागविध्युपस्थापकत्वाद्व्यवहारसिद्धये विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ सम्बन्धः ‘पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ’ इत्यत्र विचारित इत्यर्थः ।
अवान्तरवाक्यभेेदेन सूत्रकृतापि स्वीकृतो विधिरित्याह -
तथाचेति ।
स्मृत्यनुसारेणाप्यवान्तरवाक्यस्य विधायकत्वं वाच्यमित्याह -
स्मृतिष्विति ।
कर्मणां ज्ञानोत्पत्तिहेतुत्वे श्रुतिस्मृतिन्यायसिद्धे फलितमाह -
तस्मादिति ।
यज्ञादीनामपि श्रुतिस्मृतिन्यायेभ्योऽनुष्ठेयत्वे शमादीनां तेभ्यो विशेषाभावाद्यावद्विद्योदयमविशेषेणानुष्ठानं स्यादित्याशङ्क्याह -
तत्रापीति ॥ २७ ॥
यज्ञादीनां शमादीनां च विद्यासंनिहितानां तच्छेषतोक्ता तत्प्रसङ्गाद्विद्यासंनिध्युक्तसर्वान्नाभ्यनुज्ञानस्यापि विद्याशेषतामाशङ्क्य प्रत्याह -
सर्वान्नेति ।
प्राणविदः सर्वान्नानुज्ञानं विषयं वक्तुं शाखाद्वायस्थां श्रुतिमाह -
प्राणेति ।
जग्धं भक्षितम् । विषयवाक्यार्थं सङ्गृह्णाति -
सर्वमिति ।
अपूर्वत्वाद्विध्यश्रुतेश्च संशयमाह -
किमिति ।
अत्र प्राणविद्यायाः स्वतन्त्रपुमर्थहेतोर्वाक्यार्थज्ञानोपयुक्तायाः स्तुत्यर्थं सर्वान्नानुज्ञानकीर्तनमिति कथनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणविदो भक्ष्याभक्ष्यविभागासिद्धिः ।
सिद्धान्ते विदुषोऽविदुषश्चानापदि तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षयति -
विधिरितीति ।
विधिपक्षेऽनुष्ठानविशेषलाभं हेतुमाह -
तथाहीति ।
सर्वान्नानुज्ञानं स्वतन्त्रमेव विधीयतामित्याशङ्क्य संनिधिविरोधान्मैवमित्याह -
अत इति ।
सर्वान्नात्तृत्वं प्राणविद्याङ्गं चेत्तर्हि न कलञ्जं भक्षयेदित्यादि शास्त्रं विरुध्येेतेति शङ्कते -
नन्विति ।
प्राणविदतिरिक्तविषयं तदिति विरोधं परिहरति -
नेत्यादिना ।
उपपत्तिमेव कर्मविषयदृष्टान्तेनोदाहरति -
यथेति ।
तत्रैव विद्याविषयं दृष्टान्तमाह -
यथाचेति ।
यदुपमन्त्रयते स हिंकार इत्यादिना ग्राम्यव्यापारगतचेष्टासु हिंकारादिदृष्टिर्विहिता सा वामदेव्यविद्या तत्रोपमन्त्रणं सङ्केतकरणम् ।
दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
विविदिषावाक्ये वर्तमानापदेशेऽप्यपूर्वत्वात्पञ्चमलकाराङ्गीकारेण विधिकल्पनवन्न हेत्यादौ वर्तमानापदेशेऽप्यपूर्वत्वाद्विधिरिति मतमनूद्य सूत्राद्बहिरेव सिद्धान्तमाह -
एवमिति ।
तत्र हेतुमाह -
नहीति ।
यस्य पर्णमयीत्यादाविव वर्तमानापदेशेऽपि कल्प्यो विधिरित्याशङ्क्याह -
नचेति ।
सामान्यविधिबाधकत्वं श्रुतविशेषविधेरिष्टं विशेषकल्पना तु सामान्यविधिना बाध्या कल्पनाया विरोधाभावापेक्षत्वादित्यर्थः ।
इतश्च स्तुत्यर्थमेवेदं वचो न विधिरित्याह -
अपिचेति ।
आ श्वभ्य आ शकुनिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमिति श्रवणादशक्यविषयो विधिर्न सम्भवतीत्याह -
नचेति ।
तर्हि वचनवैयर्थ्यमित्याशङ्क्य - सर्वं प्राणस्यान्नमिति धीस्तुत्यर्थत्वान्मैवमित्याह -
शक्यने त्विति ।
उक्तेऽर्थे सूत्रमादत्ते -
तदिति ।
तदक्षराणि व्याकरोति -
एतदिति ।
मटच्योऽशनयः पाषाणवृष्टयो रक्तवर्णाः क्षुद्रपक्षिविशेषा वा तैर्हतेषु कुरुषु तद्देशस्थसस्येष्विति यावत् ।
आख्यायिकार्थमाह -
चाक्रायण इति ।
स हि दुर्भिक्षे जाते जाययाऽनुपजातपयोधरादिस्त्रीव्यञ्जनया सह देशान्तरं प्रतिचक्रमे । स कदाचिदिभ्यग्रामे निवसन्निभ्येन सह हस्त्यारोहेण सामिभोजितानर्थभक्षितान्कुल्माषान्कुत्सितमाषान्भक्षितवानित्यर्थः ।
अनुपानं गृहाणेत्युक्ते सत्युच्छिष्टं मे पीतं स्यादिति प्रतिषिध्य किमेतेऽप्युच्छिष्टा नेति परेणोक्ते कारणं चानुपाननिषेधे कथितवानित्याह -
अनुपानं त्विति ।
कुल्माषाश्चेन्न भक्ष्यन्ते जीवनमेव मे न स्यात्कामः स्वेच्छातो मे तडागादिषूदकपानं भविष्यतीत्यर्थः ।
स्वयं खादित्वा शिष्टाञ्जायार्थमाजहार । तया च भर्तृस्वभावज्ञया निहितानुत्तरदिने प्रातरेव भक्षितवानित्याह -
पुनश्चेति ।
कुल्माषभक्षणश्रुतेरभिप्रायमाह -
तदिति ।
अनुपाननिषेधश्रुतेस्तात्पर्यमाह -
स्वस्थेति ।
सर्वान्नभक्षणस्य निरङ्कुशत्वाभावे फलितमाह -
तस्मादिति ॥ २८ ॥
तस्यार्थवादत्वे हेत्वन्तरमाह -
अबाधाच्चेति ।
सामान्यशास्त्रविरोधान्न कल्प्यो विशेषविधिरित्युक्तम् ।
अधुना सामान्यशास्त्रं दर्शयन्सूत्रं योजयति -
एवंचेति ।
स्वस्थावस्थायां भक्ष्याभक्ष्यभेदे सतीति यावत् ॥ २९ ॥
आपदवस्थायामभक्ष्यभक्षणानुज्ञाने स्मृति संवादयति -
अपीति ।
स्मृतिरपि विद्वद्विषयेत्याशङ्क्याह -
अपिचेति ।
सुरापानमवस्थाद्वयेऽपि न कार्यमित्याह -
तथेति ।
ब्राह्मणो वर्जयेदिति शेषः ।
जीवितात्ययस्मृत्या सुरापि तदत्यये पातव्येत्याशङ्क्याह -
सुरापस्येति ।
उष्णां सुरामिति शेषः । उष्णामग्निना तप्तामिति यावत् । मरणान्तिकप्रायश्चित्तदृष्टेस्तत्प्रसङ्गेऽपि सा न पातव्येत्यर्थः ।
इतश्च सा सदा न पेयेत्याह -
सुरापा इति ।
तत्र हेतुः -
अभक्ष्येति ।
मद्यमित्यादि स्मृतेस्तात्पर्यमाह -
वर्जनमिति ॥ ३० ॥
स्मृतिप्रामाण्यार्थं तन्मूलश्रुतिमाह -
शब्दश्चेति ।
तस्माद्ब्रह्मणस्य सुरापस्य मरणान्तिकप्रायश्चित्तदर्शनादिति यावत् ।
श्रौतनिषेधस्य प्रकृतोपयोगमाह -
सोऽपीति ।
श्रुतिस्मृतिसिद्धमर्थमुपसंहरन्नतःशब्दं व्याचष्टे -
तस्मादिति ॥ ३१ ॥
सर्वान्नत्वोक्तिः शास्त्रान्तरविरोधे स्तुतिरित्युक्तम् ।
एवं विद्यार्थत्वोक्तिर्यज्ञानां स्तुतिर्नित्यत्वश्रुतिविरोधादित्याशङ्क्याह -
विहितत्वाच्चेति ।
व्यवहितेन सम्बन्धमाह -
सर्वापेक्षेति
अग्निहोत्रादिकर्माण्यधिकृत्य विहितत्वाद्विनियुक्तविनियोगायोगाच्च संशयमाह -
इदानीं त्विति ।
अत्राग्निहोत्रादीनामुभयथात्वोक्त्या स्वतन्त्रपुमर्थहेतुशास्त्रोत्थात्मविद्योपायोपवर्णनात्पादादिसङ्गतिः । पूर्वपक्षे विद्याहेतुत्वोक्तेः स्तुतित्वाद्विविदिषावाक्यस्य विवक्षितार्थत्वासिद्धिः ।
सिद्धान्ते संयोगपृथक्त्वन्यायात्कर्मणामुभयत्वसम्भवात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -
तत्रेति ।
यावज्जीवश्रुतेरमुमुक्षोरपि तान्यनुष्ठेयानीत्याशङ्क्याह -
अथेति ।
विविदिषाश्रुतेर्विद्यासंयोगोऽपि तेषामवश्यम्भावीत्याशङ्क्याह -
नित्येति ।
आवश्यकत्वाभावाद्विद्याकामनायाः काम्यतया कर्मणामनावश्यकत्वं नित्यतया चावश्यकत्वमित्येकत्रैवावश्यकत्वानावश्यकत्वे विरुद्धे स्याताम् । अतो विद्योपायत्वोक्तिः स्तुतिरेवेत्यर्थः ।
सिद्धान्तसूत्रमवतार्य व्याकरोति -
अस्यामिति ।
नित्यतया विहितानां विद्यार्थतया विधानं गौरवादयुक्तमित्याशङ्क्याह -
नहीति ॥ ३२ ॥
उक्तमनूद्योत्तरत्वेन सूत्रमवतारयति -
अथेत्यादिना ।
नित्यत्वेऽपि विद्यासंयुक्तत्वमग्निहोत्रादीनां विधिवशादेष्टव्यमिति व्याचष्टे -
विद्येति ।
विविदिषासंयोगमात्रमत्र श्रुतं कुतो विद्यासंयुक्तत्वं, तत्राह -
तदुक्तमिति ।
सहकारित्वोक्त्या फलं प्रत्येवोपकारित्वमाचार्याभीष्टं कर्मणामित्याशङ्क्याह -
नचेति ।
शास्त्रीयमन्वयव्यतिरेकसिद्धं चोपकारकत्वम् ।
न चात्रोभयमस्तीत्याह -
अविधीति ।
ब्रह्मधीः स्वकार्ये न चोदितापेक्षाऽचोदितत्वान्मर्दनवदित्यर्थः ।
ब्रह्मधीः स्वफले नेतिकर्तव्यतापेक्षा स्वतोऽसाध्यफलत्वात्कूपखननव्यापारवदित्याह -
असाध्यत्वादिति ।
अविधिलक्षणत्वं व्यतिरेकोदाहरणेन प्रपञ्चयति -
विधीति ।
अङ्गभावस्य ग्राहकग्रहणपूर्वकत्वाद्विधेर्ग्राहकत्वाद्विहितं दर्शपूर्णमासादि प्रयाजादिभिर्ग्राहकगृहीतैरङ्गैर्युज्यते नाविहिता विद्येत्यर्थः ।
तथापि कथमसाध्यफलत्वेन विद्यायां कर्मणामन्वयराहित्यं तदाह -
तथाचेति ।
कथं तर्हि सहकारित्ववचनं तदाह -
तस्मादिति ।
सह पुत्रैर्भारं वहति गर्दभीतिवत्कर्मसु सत्स्वेव विद्या स्वकार्याय व्याप्रियत इत्यभिप्रेत्य सहकारित्वोक्तिरित्यर्थः ।
परोक्तमुद्भाव्य प्रत्याह -
नचेति ।
संयोगभेदं विशदयति -
नित्यो हीति ।
तुल्यबलश्रुतिद्वयेन पृथगेव सम्बन्धविधिः संयोगमेदस्तस्मादुभयथात्वमविरुद्धमित्यर्थः ।
‘एकस्य तूभयत्वे संयोगपृथक्त्वम्’ इत्यत्रैतच्चिन्तितमित्युदाहरणेन दर्शयति -
यथेति ।
बैल्वो वा खादिरो वा पालाशो वेत्येको नित्यः संयोगस्तेन क्रत्वर्थस्य खादिरत्वस्य वीर्यकामस्येत्यपरः संयोगोऽनित्यस्तेन पुरुषार्थतेत्येकस्य खादिरत्वस्योभयार्थत्वे संयोगपृथक्त्वं हेतुस्तथा कर्मस्वभेदेऽपि संयोगभेदादुभयथात्वमित्यर्थः ॥ ३३ ॥
ननु प्रकरणान्तरस्थेभ्यो नित्यकर्मभ्यो भिन्नान्येव कर्माणि विविदिषावाक्ये विद्यासंयुक्ततया विधीयन्ते प्रकरणभेदस्य भेदकत्वात्तत्कथं तस्योभयत्वं, तत्राह -
सर्वथेति ।
प्रतिहां व्याचष्टे -
सर्वथापीति ।
एवकारव्यावर्त्यं शङ्कया दर्शयति -
त एवेतीति ।
भेदशङ्कानिवृत्ति व्यतिरेकदृष्टान्तेन स्पष्टयति -
यथेति ।
कुण्डपायिनामयनगताग्निहोत्रस्य प्रकरणभेदात्प्रसिद्धाग्निहोत्रात्कर्मान्तरत्ववद्विविदिषन्तीति विद्यासंयुक्ततया विहितानामपि कर्मणां प्रकरणभेदादेव कर्मान्तरत्वशङ्कायां दृष्टान्ते जुह्वतीतिहोमविधिश्रुतेर्मासाख्यकालस्य चानुपादेयत्वेनाविधेयत्वादग्निहोत्रशब्दस्य चाख्यातपारतत्र्यादाख्यातस्य च जुहोतेः संनिहितरूपवत्कर्म हित्वा व्यवहितनैयमिकाग्निहोत्रपरामर्शित्वायोगादाख्यातार्थवाचिनोऽग्निहोत्रशब्दस्यापि कर्मान्तरविषयत्वमेवेति युक्तम् । विविदिषावाक्ये तु विविदिषायामेव विधिश्रवणात्प्रसिद्धानामेव यज्ञादीनां यज्ञादिशब्दैरनुवादाद्विद्यासंयोगमात्रं विधीयते तेषामिति न कर्मान्तरतेत्यर्थः ।
उक्तमेवार्थं प्रश्नद्वारा हेतुमवतार्य स्फोरयति -
कुत इत्यादिना ।
प्रसिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि तेषां चित्तमलनिरासेन ज्ञानोत्पत्तावुपकारकत्वमावेदयन्ती कर्माभेदं सूचयतीत्याह -
अष्टेति ।
गर्भाधानादयः सहधर्मचारिणीसंयोगान्ताश्चतुर्दश पञ्चमहायज्ञाः सप्त सोमसंस्थाः सप्त हविःसंस्थाः सप्त पाकसंस्था इति चत्वारिशत्संस्काराः । अनश्नन्संहिताध्ययनं प्रायणं कर्म जप उत्क्रमणं दैहिकं भस्मसमूहनमस्थिसञ्चयनं श्राद्धानीत्येवमष्टाचत्वारिशत्संस्काराः ।
कर्मभेदाशङ्कायोगे फलितमाह -
तस्मादिति ॥ ३४ ॥
नित्यानि कर्माणि स्वतः पुण्यलोकावाप्तिफलान्यपि ज्ञानकामेनानुष्ठितानि ज्ञानार्थानीत्युक्तम् । इदानीं ब्रह्मचर्यादीनामाश्रमकर्मणां क्लेशतनूकरणेन विद्योदये हेतुतेत्यत्र लिङ्गमाह -
अनभिभवं चेति ।
सूत्रस्य तात्पर्योक्तिपूर्वकमक्षरार्थं कथयति -
सहकारित्वस्येति ।
उभयविध्यधीनमर्थमुपसंहरति -
तस्मादिति ॥ ३५ ॥
आश्रमकर्मणां विद्योपायत्वे सत्यनाश्रमकर्मणां नैवमिति मन्वानं प्रत्याह -
अन्तरेति ।
अनाश्रमिणो विधुरादीन्विषयीकृत्य तेषां कर्मित्वप्रसिद्धेर्निन्दाप्रसिद्धेश्च संशयमाह -
विधुरेति ।
अत्रानाश्रमकर्मणामुक्तविद्याहेतुत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे यथा विधुरकर्मणां विद्याहेतुत्वासिद्धिस्तथैवाश्रमकर्मणामपि विद्याहेतुत्वासिद्धिः ।
सिद्धन्ते त्वाश्रमित्वस्य ज्यायस्त्वात्तत्कर्मणां सुतरां तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षमाह -
नास्तीत्यादिना ।
विविदिषावाक्ये यज्ञादिषु प्रत्येकं करणविभक्तिश्रुतेराश्रमकर्माभावेऽपि वर्णमात्रधर्माणां दानादीनां सम्भवाद्विधुरादीनामपि विद्याधिकारः स्यादित्याशङ्क्य केवलवर्णधर्माणां विद्यासाधनत्वे सत्याश्रमकर्मणां वैयर्थ्यादनाश्रमिणामनधिकारो विद्यायामित्याह -
आश्रमेति ।
अनाश्रमकर्मणां न विद्याहेतुतेति पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
प्रतिज्ञां व्याकरोति -
अनाश्रमित्वेनेति ।
तद्दृष्टेरिति व्याचष्टे -
रैक्वेति ॥ ३६ ॥
श्रौतीं दृष्टिं शिष्ट्वा स्मार्तीमपि दर्शयति -
अपीति ॥ ३७ ॥
श्रुतिस्मृतिभ्यां सिद्धे सिद्धान्तेऽनन्तरसूत्रनिरस्यं चोद्यमाह -
नन्विति ।
जन्मान्तरकृतादपि कर्मणो रैक्वादीनां विद्यासम्भवाद्वर्णोपाधावुक्तात्कर्मणो विद्येत्यत्र श्रुतिस्मृत्योरनियामकत्वान्नियामकान्तरं वक्तव्यमित्यर्थः ।
आश्रमधर्माभावेऽपि वर्णधर्मविशेषैरनुगृहीता विद्योदेष्यतीति सूत्रेण समाधत्ते -
सेति ।
अविरुद्धैरनाश्रमित्वाविरोथिभिरिति यावत् । अत एव पुरुषमात्रसम्बन्धिभिरित्युक्तम् ।
आश्रमधर्मशून्यानां जपादिष्वपि शूद्रादिवन्नाधिकारोऽस्तीत्याशङ्क्याह -
तथाचेति ।
मैत्रो मित्रे भवः सर्वभूताहिंसको दयावानित्यर्थः ।
किञ्च नैयोगिकफलेषु कर्मस्वानन्तर्यस्याचोदितत्वादनियतकालत्वे नैयोगिककर्माभावेऽप्यामुष्मिकैरेव कर्मभिर्विद्या भविष्यतीति सूत्रस्य व्याख्यान्तरमाह -
जन्मान्तरेति ।
जन्मान्तरसञ्चितकर्मणां विद्यानुग्राहकत्वे मानमाह -
तथाचेति ।
अनेकेषु जन्मसु सञ्चितसंस्कारैः सिद्धः सम्यग्धीपरिपाकवानित्यर्थः ।
यथास्मिञ्जन्मन्यधीतवेदो धर्मजिज्ञासाधिकारी तथास्मिन्नेव जन्मन्याश्रमधर्मैरुत्पादितविविदिषो विद्याधिकारी स्यादित्याशङ्क्याह -
दृष्टार्थेति ।
अविद्यानिवृत्तेर्दृष्टफलत्वान्नियमापेक्षाभावाद्विघातकनिषेधस्याभावमात्रेण तत्र पुरुषस्य प्रवृत्तिरित्यर्थः ।
श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ३८ ॥
वर्णोपाधावुक्तधर्ममात्रादपि विद्योत्पद्यते चेदाश्रमित्वमनर्थकमित्याशङ्क्याह -
अतस्त्विति ।
विद्यायाश्चिराचिरव्यक्तिहेतुतयाश्रमित्वानाश्रमित्वयोर्विशेषान्न वैयर्थ्यमिति मत्वा व्याचष्टे -
अत इति ।
साधनोपचयादचिरेण विद्याहेतुत्वं ज्यायस्त्वम् ।
आश्रमित्वस्य ज्यायस्त्वे श्रुतिस्मृत्यनुगृहीतत्वं हेतुमाह -
श्रुतीति ।
श्रुतौ पुण्यकृत्त्वविशेषणाल्लिङ्गाच्च श्रेष्ठमाश्रमित्वमित्याह -
श्रुतीति ।
तेन ज्ञानमार्गेण ब्रह्मविदेति गच्छति ब्रह्म प्राप्नोति । स च पुण्यं स्वाश्रमोक्तं कर्म करोतीति पुण्यकृदुच्यते । तेजसि परमात्मन्यात्मत्वेन वर्तत इति तैजसः । तत्र पुण्यकृत्त्वविशेपणादाश्रमित्वं ब्रह्मप्राप्तिहेतुतया श्रेष्ठं सिद्धमित्यर्थः ।
आश्रमित्वस्य श्रेष्ठत्वे स्मार्तमपि लिङ्गमनुकूलयति -
अनाश्रमीति ॥ ३९ ॥
अनाश्रमिणां कर्मापि विद्याहेतुश्चेदारूढपतितस्य पूर्वाश्रमं प्राप्तस्य धीपूर्वकं प्रच्युतस्य कर्म किमु वाच्यमित्याशङ्क्याह -
तद्भूतस्येति ।
वृत्तानुवादेन विषयं सूचयति -
सन्तीति ।
तानाश्रमान्प्राप्तस्य धीपूर्वं प्रच्युतस्य कर्म विषयस्तत्किं विद्याहेतुर्न वेति संशयं सिद्धवत्कृत्य तद्धेतुमाह -
तांस्त्विति ।
कथञ्चिद्रागाद्युद्रेकादित्यर्थः । सा मानवती न वेति संशयार्थः । ऊर्ध्वरेतसां बुद्धिपूर्वं प्रच्युतानां कर्म यथोक्तविद्याहेतुर्नेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे पूर्वोक्ताश्रमित्वश्रैष्ठ्यासिद्धिः ।
सिद्धान्ते प्रच्युतेरप्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य पूर्वपक्षयति -
पूर्वेति ।
पूर्वाश्रमोक्तो यागादिधर्मः सुखेन शक्योऽनुष्ठातुमिति तच्चिकीर्षया रागद्वेषवशेन च प्रत्यवरोहोऽपि प्रामाणिकः स्यात्तथाचानाश्रमिकर्म निन्दितमपि यथा विद्यासाधनमुक्तं तथा प्रत्यवरूढस्यापि कर्म विद्याहेतुराश्रमावरोहोऽनुष्ठेयस्तदारोहावरोहयोरन्यतरत्वात्तदारोहवदित्यवरोहस्य प्रामाणिकत्वादित्यर्थः ।
सिद्धान्तसूत्रमवतार्य व्याकरोति -
एवमिति ।
उत्तराश्रमं प्राप्तस्य पूर्वाश्रमप्राप्तिरप्रामाणिकीत्यत्र प्रश्नपूर्वकं हेतुत्रयमाह -
कुत इति ।
तत्र नियमं व्याचष्टे -
तथाहीति ।
अरण्यमित्येकान्तोपलक्षितमूर्ध्वरेतस्त्वं तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मादरण्यान्न पुनरेयात्पुनर्नागच्छेन्न प्रत्यवरोहेदित्युपनिषद्रहस्यमित्यर्थः ।
स्मार्तमपि नियमं कथयति -
आचार्येणेति ।
उक्तनियमतात्पर्यमाह -
एवमिति ।
अतद्रूपमप्रत्यवरोहं व्याकरोति -
यथाचेति ।
अभावं शिष्टाचाराभावं व्याचष्टे -
नचेति ।
परोक्तमनुमानमनूद्य स्मृतिविरोधेन दूषयति -
यत्त्विति ।
इतश्चानुमानमयुक्तमित्याह -
न्यायाच्चेति ।
यत्तु रागादिवशात्प्रत्यवरोहणमिति, तत्राह -
नचेति ।
ततो न पुनरित्यादि नियमशास्त्रम् । अवशिष्टं सूत्रावयवं व्याचष्टे -
जैमिनेरिति ।
अत्रेति प्रामाणिकप्रच्युत्यभावोक्तिः । उभयसम्प्रतिपत्तिफलमाह -
प्रतिपत्तीति ॥ ४० ॥
प्रत्यवरोहणमशास्त्रीयमित्युक्तम् ।
सम्प्रति प्रमादात्प्रत्यवरोहे प्रायश्चित्तमस्तीति वक्तुं पूर्वपक्षमाह -
नचेति ।
ऊर्ध्वरेतसोऽधीपूर्वच्युतब्रह्मचर्यं विषयस्तेषां किं नास्ति प्रायश्चित्तमुतास्तीति प्रायश्चित्ताभावस्मृतेर्महापातकेष्वनुक्तेश्च संशयमाह -
यदीति ।
प्रमादादित्यधीपूर्वच्युतब्रह्मचर्याणामेवोर्ध्वरेतसां प्रायश्चित्तचिन्तेयमिति द्योतयति । अवकीर्येत योनौ रेतः सिञ्चेत् । अवकीर्णं योनौ क्षिप्तं रेतोऽस्यास्तीत्यवकीर्णी । प्रमादाच्च्युतब्रह्मचर्याणामूर्ध्वरेतसां कृतप्रायश्चित्तानां कर्म विद्याहेतुरित्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रमादिनामूर्ध्वरेतसामात्यन्तिकादधःपातात्पुमर्थासिद्धिः ।
सिद्धान्ते तेषामपि प्रायश्चित्तेन पतनसमाधानात्तत्सिद्धिरित्युपेत्य पूर्वपक्षसूत्रमवतार्य योजयति -
उच्यत इति ।
तदेव षष्ठाध्याये निर्धारितं प्रायश्चित्तमुदाहरति -
अवकीर्णीति ।
ब्रह्मचार्यवकीर्णीत्यत्र पशुहोमार्थमाधानं कर्तव्यं किंवा लौकिकेष्वेवाग्निषु तत्कर्मेति सन्देहे पूर्वाधिकरणे ‘यदाहवनीये जुहोति तेन सूर्योऽस्याभीष्टः प्रीतो भवति’ इत्याहवनीयस्य सर्वहोमार्थत्वादाहवनीये तावदुपनयनहोमाः कार्या इति प्रापय्य जातपुत्रोऽग्नीनादधीतेति कृतदारस्याग्न्याधानविधानादुपनयनकाले दाराभावादाधानस्याप्राप्तकालत्वादाहवनीयाभावाल्लौकिकाग्निषूपनयनहोमा इति राद्धान्तिते ब्रह्मचारी ययाऽवकीर्णी सैव तस्य भार्या स्यात्ततोऽग्न्याधानमित्यधिकां शङ्कां निराकर्तुमतिदेशाधिकरणमवकीर्णिपशुश्चेति यथोपयनकाले लौकिकाग्नौ होमस्तथावकीर्णिपशुश्च तत्रैव होतव्यः । आधानस्य पत्नीपरिग्रहोत्तरकालतया पूर्वं प्राप्त्यभावादितरस्याश्च परपरिग्रहभूताया भार्यात्वकल्पनायाधाने मानाभावादित्यर्थः । यदधिकारलक्षणे निर्णीतमाधिकारिकं प्रायश्चित्तं तदपि नैष्ठिकस्य भवितुं नार्हतीति सम्बन्धः ।
प्रश्नपूर्वकं हेतुमाह -
किमित्यादिना ।
किंविषयं तर्हि प्रायश्चित्तवचनं ब्रह्मचारित्वाविशेषादुपकुर्वाणस्यापि तदयोगात् , तत्राह -
उपेति ।
तादृगित्यप्रतिसमाधेयत्वोक्तिः ॥ ४१ ॥
सिद्धान्तयति -
उपपूर्वमिति ।
उपपदं पूर्वं यस्य पतनस्य तदुपपूर्वमिति व्याकरोति -
अपि त्विति ।
प्रायश्चित्ताभावं व्यावर्तयितुमपीति प्रयुक्तम् ।
एवकारार्थमाह -
नेति ।
नैष्ठिकव्रतलोपस्योपपातकत्वेऽपि प्रायश्चित्तसत्त्वे किं जातमित्याशङ्क्योपपातकसामान्यप्रायश्चित्तं स्यादिति सूत्रावयवं व्याकुर्वन्नाह -
तस्मादिति ।
उक्तमर्थं दृष्टान्तमवतार्य स्पष्टयति -
अशनवदिति ।
प्रायश्चित्तं न पश्यामीति स्मरणात्कथं तद्भावधीरित्याशङ्क्याह -
ये हीति ।
प्रायश्चित्तं नास्तीति स्मरणाभावान्न पश्यामीति दर्शनाभावमात्रस्मरणादित्यर्थः ।
भाववादिनामपि तुल्या मूलानुपलब्धिरित्यशङ्क्याह -
ये त्विति ।
ननु न पश्यामीति स्मरणस्य प्रायश्चित्तनिषेधार्थत्वमनुमाय तदर्थश्रुतिकल्पनात्तद्विरोधे सामान्यश्रुत्या प्रायश्चित्तसत्ता नाभ्युपगम्यते, तत्राह -
तस्मादिति ।
यावद्दर्शनाभावस्मरणस्य प्रायश्चित्तनिषेधार्थत्वकल्पनया तदर्था श्रुतिरनुमीयते तावदविशेषप्रवृत्ता प्रायश्चित्तं श्रुतिर्गमयतीति न स्मृत्या प्रायश्चित्ताभावधीरिति भावः ।
उक्तेऽर्थे यववराहाधिकरणसंमतिमाह -
तदुक्तमिति ।
यवमयश्चरुर्वाराही उपानहावित्यत्र यववराहशब्दाभ्यां प्रियङ्गुकृष्णशकुनिग्रहो वा दीर्घशूकसूकरग्रहो वेति सन्देहे पूर्वपक्षमाह -
समेति ।
केचिद्दीर्घशूके यवशब्दं प्रयुञ्जते प्रियङ्गुषु चापरे वराहशब्दमपि सूकरे केचिदाहुः कृष्णशकुनौ चान्ये तेन प्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादित्यर्थः ।
सिद्धान्तमाह -
शास्त्रस्था वेति ।
वाशब्दः पक्षव्यावृत्त्यर्थः । या शास्त्रमूला धीः सैव ग्राह्या शास्त्रनिमित्तत्वात्तद्धर्मादिज्ञानस्य । शास्त्रं च यदा वान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ति वराहं गावोऽनुधावन्तीति च यववराहशब्दयोर्दीर्घशूकसूकरविषयम् । तस्माद्धीसाम्याभावाद्विकल्पासिद्धेर्या शास्त्रमूला प्रसिद्धिः सैव ग्राह्येति प्रथमे सिद्धम् । तथात्रापि शास्त्रमूलत्वात्प्रायश्चित्तभावप्रसिद्धेस्तत्सत्त्वमुक्तमित्यर्थः ।
प्रायश्चित्तं न पश्यामीति स्मृतेस्तर्हि का गतिः, तत्राह -
प्रायश्चित्तेति ।
एवं सति सामान्यश्रुत्या प्रायश्चित्तसत्त्वे निश्चिते सतीत्यर्थः । यदि कथञ्चिन्नैष्ठिकस्य ब्रह्मचर्यं लुप्येत तदा न प्रायश्चित्तं दृश्यते तेन नैष्ठिकेन ब्रह्मचर्ये यत्नवता भाव्यमिति तद्विषययत्नस्याप्रमादेन सदाकार्यतारूपं गौरवमुत्पादयितुं प्रायश्चित्ताभावस्मरणमित्यर्थः ।
नैष्ठिके हि दर्शितन्यायमितरयोरतिदिशति -
एवमिति ।
विशेषतोऽपि प्रायश्चित्तविधेस्तयोरस्ति प्रामादिके व्रतलोपे प्रायश्चित्तमित्याह -
वानप्रस्थ इति ।
दीक्षाभेदे व्रतलोपे प्रमादतो ब्रह्मचर्यभङ्गे कृच्छ्रं चरित्वा महाकक्षं बहुतृणकाष्ठं देशं वर्धयेदिति सम्बन्धः ।
कृच्छ्रं विशिनष्टि -
द्वादशेति ।
दिनत्रयमेकवारभोजनं दिनत्रयं रात्रिभोजनं दिनत्रयमयाचितं दिनत्रयमुपवासकरणमित्येवंरूपमित्यर्थः ।
परिव्राजकेऽपि प्रमादतो व्रतलोपे तुल्यं कृच्छ्रानुष्ठानमित्याह -
भिक्षुरिति ।
सोमस्य यज्ञाङ्गत्वात्तदभिवृद्धिमनादृत्य महाकक्षं वर्धयेदित्याह -
सोमेति ।
‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । पुनः स पूतो भवति पङ्क्तिपावन एव च ॥ मनोवाक्कायजान्दोषांज्ञानोत्थांश्च प्रमादजान् । सर्वान्दहति योगाग्निस्तूलराशिमिवानलः ॥ उपपातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः’ इत्यादि परिव्राजकविषयं शास्त्रं तेनाभिहितः संस्कारो ध्यानादिः स च कर्तव्यो भिक्षुणेत्याह -
स्वशास्त्रेति ।
ऊर्ध्वरेतसां प्रमादच्युतब्रह्मचर्याणां कृतप्रायश्चित्तानामधिकारोऽस्ति विद्यायामिति भावः ॥ ४२ ॥
कृतप्रायश्चित्तानामपि तेषां शिष्टाव्यवहार्यत्वमाह -
बहिस्त्विति ।
कृतप्रायश्चित्तैः सह शिष्टाचाररूपं कर्म विषयस्तत्किं विद्याङ्गं किंवा नेति संशये प्रागुक्तप्रायश्चित्तेनैव तेषां व्यवहार्यतासिद्धेरङ्गमिति प्राप्ते सिद्धान्तमाह -
यदीति ।
प्रतिज्ञार्थमुक्त्वा हेतुद्वयं व्याकरोति -
आरूढ इत्यादिना ।
दुश्चरिताचरणकृतमेनो लोकद्वयेऽपि कर्तुरशुद्धिमादधाति । तत्र प्रायश्चित्तेन लोकद्वयेऽपि कस्यचिदशुद्धिरपनीयते कस्यचित्तु पारलौकिकाशुद्धिरपाक्रियते ऐहिकाशुद्धिरनुवर्तते । उक्तं हि - ‘बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृॄश्च स्त्रीहन्तॄंश्च न संवदेत्’ इति । तथेहापि ‘आरूढो नैष्ठिकम्’ इत्यादिस्मृतिलिङ्गादाचाराच्च परलोकाशुद्धेरपनीतत्वेऽप्यव्यवहार्यत्वावगमान्न तैर्व्यवहाररूपाचारस्य विद्याङ्गत्वम् । तदेवमुक्ताचारस्योक्तविद्यानङ्गत्वाभिधानात्प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे ‘बालघ्नान्’ इत्यादिस्मृतिविरोधः । सिद्धन्ते तदानुगुण्यमिति भावः ॥ ४३ ॥
अन्यस्मिन्पापकारिणि तेन व्यवहारादन्यस्य त्वपकारवदन्यस्मिन्नुपास्तिकर्तरि तेन व्यवहारात्फललक्षणोपकारमन्ययजमानस्य दर्शयन्पूर्वपक्षयति -
स्वामिन इति ।
कर्माङ्गसङ्गीन्युपासनानि विषयस्तेषूभयकर्तृकत्वधिया संशयमाह -
अङ्गेष्विति ।
शास्त्रीयाङ्गाश्रितोपास्तीनां स्वतन्त्रफलानामृत्विक्कर्तृकत्वेऽपि यजमानगामिफलत्वोक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यासिद्धिः ।
सिद्धान्ते प्रकृतस्य कर्तुरस्वातन्त्र्यात्तस्य यजमानाधीनत्वात्तत्कर्तृत्वमपि तदधीनमित्यैकाधिकरण्यस्याविरुद्धतेति सिद्धवत्कृत्य प्रश्नपूर्वकं पूर्वपक्षमाह -
किमिति ।
तत्र हेतुं प्रश्नद्वारा दर्शयति -
कुत इति ।
फलश्रुतिमेव विशदयति -
फलं हीति ।
श्रुतमपि फलमृत्विग्गतं किं न स्यात् , तत्राह -
तच्चेति ।
तत्र हेतुः -
तस्येति ।
उद्गीथाद्युपास्तिविधीनां प्राप्तोद्देशनत्वात्क्रत्वधिकारिण एव प्राप्तेस्तस्यैवोद्देशनयोगात्तदाश्रितोपास्तीनां गोदोहनवदथिकृताधिकारत्वात्क्रत्वधिकारिण एव गोदोहनफलवद्विद्याफलेन सङ्गतिरित्याह -
अधिकृतेति ।
तथापि कथमुपास्तीनां याजमानत्वं, तत्राह -
फलं चेति ।
अकर्तृत्वे फलित्वमपि यजमानस्य न स्यात्कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यादित्यर्थः ।
यजमानगामि फलमित्यत्र व्यभिचारं शङ्कते -
नन्विति ।
उत्सर्गतो याजमानं फलं वचनात्क्वचिदपवादः स्यादित्याह -
न तस्येति ।
वाचनिकापवादाभावे तूत्सर्गस्थितिरित्युपसंहरति -
तस्मादिति ॥ ४४ ॥
अङ्गोपास्तीनां याजमानत्वान्न स्वतन्त्रफलतेति प्राप्ते सिद्धान्तयति -
आर्त्विज्यमिति ।
तत्र प्रतिज्ञांं विभजते
नैतदिति ।
अन्यकर्तृकत्वे कथमन्यस्य फलमिति शङ्कते -
किं कारणमिति ।
सूत्रावयवेनोत्तरमाह -
तस्मै हीति ।
ऋत्विजो यजमानेन स्वगामिने फलाय क्रीतत्वान्नानुपपत्तिरित्यर्थः ।
साङ्गकर्मार्थं क्रीतत्वेऽपि ध्यानार्थमक्रीतत्वात्कथमुपास्तीनामृत्विक्कर्मत्वं, तत्राह -
तदिति ।
अङ्गोपास्तीनामधिकृताधिकारत्वे फलितमाह -
तस्मादिति ।
तासामृत्विक्कर्तृकत्वे श्रौतं लिङ्गमाह -
तथाचेति ।
तमुद्गीथाख्यं प्रणवं प्राणादिदृष्टिविशिष्टं बको नामतो दल्भस्यापत्यं दाल्भ्यो विदाञ्चकार विदितवान् । विदित्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः ।
पूर्वपक्षबीजमनुवदति -
यत्त्विति ।
उत्सर्गतो याजमानत्वेऽपि फलस्य वचनादपवादो यत्र नैवं तत्रोत्सर्गस्थितिरित्युक्तमित्याह -
नेत्यादिना ॥ ४५ ॥
इतश्चोपास्तीनामृत्विक्कर्तृकत्वं यजमानगामिफलत्वं चेत्याह -
श्रुतेश्चेति ।
उत्सर्गतः श्रुतिलिङ्गैश्च सिद्धमर्थमुपसंहरति -
तस्मादिति ।
सिद्धे चोपास्तीनामृत्विक्कर्तृकत्वे तन्निर्धारणानियमन्यायेन स्वतंत्रफलत्वसिद्धिरिति भावः ॥ ४६ ॥
विधुरप्रभृतीनां मन्दाधिकारिणां धीसाधनोक्तिप्रसङ्गेनाङ्गोपासनमधमधीसाधनमेव निर्धार्य पुनरुक्तमेव धीसाधनं वक्तुमारभते -
सहकार्यन्तरेति ।
विषयवाक्यमुदाहरति -
तस्मादिति ।
यस्मात्पूर्वे ब्राह्मणा विदित्वात्मानमेषणाभ्यो व्युत्थाय भिक्षाचर्यं चरन्ति स्म तस्मादधुनातनोऽपि ब्राह्मणः पाण्डित्यं पण्डाऽध्ययनजा ब्रह्मबुद्धिस्तद्वान्पण्डितस्तस्य कृत्यं पाण्डित्वं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन ज्ञानबलभावेन युक्तितोऽसम्भावनानिरासरूपमननेन शुद्धधीत्वेन वा तिष्ठासेत्स्थातुमिच्छेत् । उक्तदार्ढ्यार्थं बाल्यं चेत्यादिरनुवादः । श्रवणमननानन्तरं मुनिर्मननशीलो निदिध्यासनपरः स्यात् । मौनादन्यद्बाल्यं पाण्डित्यं चामौनं मौनं च निदिध्यासनं निश्चयेन लब्ध्वोक्तहेतुत्रयस्य ब्रह्मधीहेुत्वाद्ब्रह्माहमित्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः ।
तत्र श्रुतं मौनं विषयीकृत्य मौनशब्दस्य सिद्धे पारिव्राज्ये साध्ये च ज्ञानाभ्यासे प्रयोगसिद्धेः संशयमाह -
तत्रेति ।
निरुपाधिविद्यान्तरङ्गसाधनमौनविधिसाधनात्पादादिसङ्गतिः । पूर्वपक्षे मौनस्यानुष्ठेयत्वासिद्धिः ।
सिद्धान्ते तस्यानुष्टेयत्वसिद्धिरिति मत्वा तं हेत्वादिवाक्यशेषादङ्गोपासनमृत्विक्कर्मेति वदथ ब्राह्मण इति विधिहीनवाक्यशेषादथ मुनिरित्येषोऽपि न विधिरिति पूर्वपक्षयति -
नेत्यादिना ।
ननु बाल्येनेत्युपक्रमे विधिश्रुतेर्मौनेऽपि विधिस्तु नेत्याह -
बाल्येनेति ।
तदेवोपपादयति -
नहीति ।
यद्यत्रापि विधेयत्वं तर्हि विधिः श्रूयेत बाल्यवन्न च श्रूयतेऽतः श्रोतव्यत्वे सत्यश्रवणाद्विध्यभावसिद्धिरित्यर्थः ।
तर्हि मौनवाक्यस्य का गतिः, तत्राह -
तस्मादिति ।
अनधिगतस्यानुवादायोगादन्यत्र विध्यनुपलब्धेर्विधिरेवायमिति शङ्कते -
कुत इति ।
पाण्डित्यविधानादेव मौनमपि सिद्धं तस्यैव मौनत्वादित्याह -
मुनीति ।
मुनिशब्दस्य भिक्षुवचनत्वेऽपि तस्यान्यत्र विधानादत्रानुवाद एवेति मत्वा मौनस्याविधेयत्वे हेत्वन्तरमाह -
अपिचेति ।
एकवाक्यतानुरोधान्मौनवाक्येऽपि न विधिरित्यर्थः । यदा पाण्डित्येन मौनस्य प्राप्तिस्तदा विधीयमानबाल्यस्येत्थं प्रशंसा । नहि पाण्डित्यं स्वरूपेण ज्ञानं किन्तु बाल्येऽनुष्ठितेऽनन्तरं मननापरपर्यायं पाण्डित्यं कृतं स्यात्त्स्माद्बाल्यं प्रशस्तम् ।
यदा मौनस्योत्तमाश्रमस्य विध्यन्तरप्राप्तस्यानुवादस्तदा बाल्यमात्रानुष्ठानवानुत्तमाश्रमित्वेन स्तूयत इति व्यक्ता स्तुतिरिति मत्वाह -
तस्मादिति ।
बाल्यपाण्डित्यातिरिक्तस्य मौनस्याविधेयत्वान्न तन्मुमुक्षोरनुष्ठेयमिति प्राप्तं पक्षमनूद्य सिद्धान्तमाह -
एवमिति ।
अपूर्वत्वमसिद्धमिति शङ्कते -
नन्विति ।
पण्डितशब्दस्य ज्ञानमात्रार्थत्वान्मुनिशब्दस्य तदतिशयगामित्वादर्थभेदान्न पण्डितशब्देन मुनिशब्दस्य प्राप्तार्थतेत्याह -
नेत्यादिना ।
वृद्धप्रयोगाभावे कथं तदर्थत्वं, तत्राह -
मुनीनामिति ।
आश्रमेऽपि प्रयोगदर्शनादनियतं ज्ञानातिशयवाचित्वं तस्य चान्यत्र विधानादनुवाद्यत्वमेविति शङ्कते -
नन्विति ।
उत्तमाश्रमे मुनिशब्दोऽसाधारणः साधारणो वेति विकल्प्याद्यं प्रत्याह -
नेति ।
साधारणत्वं त्वेकस्यानेकार्थत्वायोगादयुक्तमित्यभिप्रेत्य प्रयोगस्यान्यथासिद्धिमाह -
इतरेति ।
मौनस्यापूर्वत्वमुपपाद्य तृतीयमिति पदं व्याकुर्वन्फलितमाह -
तस्मादिति ।
वाक्यभेदप्रसङ्गादेकत्रैव विधिरित्युक्तं, तत्राह -
यत्त्विति ।
उपरिधारणवन्मौनं वाक्यभेदेन विधेयमित्यत्रैव हेत्वन्तरमाह -
निर्वेदनीयत्वेति ।
कस्येदं मौनं विद्यासहकारितया विधीयते, तत्राह -
तद्वत इति ।
विशेषणप्रापकं पृच्छति -
कथमिति ।
प्रकरणं तथेत्याह -
तदिति ।
पक्षेणेति पदं शङ्कोत्तरत्वेनावतारयति -
नन्वित्यादिना ।
ब्रह्मैव प्रत्यगद्वयं वस्तु द्वैतं सर्वमविद्यामयमिति शास्त्रयुक्तिभ्यां सिद्धे तत्साक्षात्कारसाधनाभ्यासे स्वयमेव पुरुषस्यौन्मुख्यादनर्थको विधिरिति चोदिते सन्यासप्रकरणात्तद्धर्मस्य श्रवणादेः साक्षात्कारहेतुभावस्यापूर्वत्वादेष्टव्यस्तद्विधिरिति समाधिः ।
विद्यावन्तमधिकारिविशेषं प्रति विधेरानर्थक्यमुक्तमित्याशङ्क्य विद्यावत इति विद्यातिशययुक्तो नोच्यते किन्तु विद्योदयाय तदुपायाभ्यासे प्रवृत्तस्तेनास्य पक्षे कदाचिद्भेददर्शनं प्राप्नोत्यतो विधेरर्थवत्तेति सूत्रपदार्थं विवृणोति -
एतदिति ।
अतन्निष्ठवाक्यस्य तद्विधायकत्वे दृष्टान्तमाह -
विध्यादिवदिति ।
तदेव व्याचष्टे -
यथेति ।
आदिर्मुख्यं प्रधानं विधेरादिर्विध्यादिर्दर्शपूर्णमासविधिः समिदादिस्तु विध्यन्तस्तत्राश्रुतविधिकेऽ विधिरास्थेय इत्यर्थः ।
दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति -
एवमिति ॥ ४७ ॥
बाल्यादिप्रधानः संन्यासो यद्यनुष्ठेयस्तर्हि कस्माद्गार्हस्थ्येनोपसंहरति श्रुतिरित्यनन्तरसूत्रव्यावर्त्यमाह -
एवमिति ।
गृहिणोपसंहारेऽपि कैवल्याश्रमस्य किं जातमित्याशङ्क्यानास्थाविषयत्वं प्राप्तमित्याह -
तेनेति ।
बहुलायाससाध्यधर्मबाहुल्यात्तेनोपसंहारो न तेनैव समापनादित्याह -
अत इति ।
सूत्रं व्याचष्टे -
तुशब्द इति ।
ननु यथा गृहिणो यज्ञादीनि कर्तव्यत्वेनोक्तानि तथाश्रमान्तराणामपि करणसंयमादिकर्मान्तराण्युच्यन्ते तथाच कोऽस्य विशेषः, तत्राह -
आश्रमान्तरेति ।
गृहमेधिनि विशेषे सिद्धे फलितमाह -
तस्मादिति ॥ ४८ ॥
मौनं गार्हस्थ्यमित्याश्रमद्वयोक्तेरितराश्रमाभावाशङ्का कस्यचिद्भवेत्तन्निरासार्थमाह -
मौनवदिति ।
कथं तयोः श्रुतिमत्त्वं, तत्राह -
दर्शितेति ।
श्रुतिमत्त्वाविशेषे फलितमाह -
तस्मादिति ।
इतरेषामिति बहूक्त्या गार्हस्थ्यस्यापि परामर्शो न तु सिद्धवदुपन्यास इत्याशङ्क्याह -
इतरेषामितीति ।
गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारी चतुर्विधः । गृहस्थोऽपि वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोरसंन्यासीति चतुर्विधः । वानप्रस्थश्च वैख्यानसौदुम्बरवालखिल्यफेनपप्रभेदैश्चतुर्विधः । तथा परिव्राडपि कुटीचकबहूदकहंसपरमहंसभेदैश्चतुर्विध इति षोडशप्रभेदास्तावदाश्रमास्तत्तद्धर्मविशेषयुक्ताः श्रुतिस्मृतिप्रसिद्धाः । ततो ब्रह्मचारिणि वानप्रस्थे चानुष्ठातृभेदमनुष्ठानभेदं वाऽपेक्ष्य बहूक्तिर्न गार्हस्थ्यमपेक्ष्य तस्य प्रागेवासन्दिग्धत्वेनोक्तत्वादित्यर्थः ॥ ४९ ॥
बाल्यस्य विधेयत्वमुपेत्यावान्तरवाक्यभेदेन मौनमपि विधेयत्वान्मुमुक्षुणा कार्यमित्युक्तम् । इदानीं किंं तद्बाल्यमिति वीक्षायामाह -
अनाविष्कुर्वन्निति ।
अनुष्ठेयत्वेन श्रुतं बाल्यं विषयत्वेनोदाहरति -
तस्मादिति ।
तत्र बाल्ये विषये संशय इति संबन्धः ।
संशयकारणमाह -
बालस्येति ।
तर्हि बालभावो वयोविशेषोऽपि कल्प्यतामित्याशङ्क्य तदग्रहे हेतुमाह -
बालेति ।
तद्धितश्रुत्या परिशिष्टं बाल्यमाश्रित्य संशयमभिनयति -
यथेति ।
बाल्यशब्दार्थविवेचनेन स्वतन्त्रपुमर्थहेतुविद्यान्तरङ्गस्यैवात्रापि निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे तिष्ठन्मूत्रत्वाद्यपि विदुषोऽनुष्ठेयं सिध्यति ।
सिद्धान्ते बाल्यस्याप्ररूढेन्द्रियत्वादिरूपभावशुद्धेरनुष्ठेयत्वान्न विदुषो यथेेष्टचेष्टासिद्धिरिति मत्वा प्रश्नपूर्वकं पूर्वपक्षमाह -
किं तावदिति ।
चरणं चारो वदनं वादो भक्षणं भक्षस्ते कामतो यस्य स तथा तस्य भावस्तत्ता । यथोपपादं यथासम्भवं यत्र क्वापि मूत्रं च पुरीषं चास्येति तथोक्तस्तस्य भावस्तत्त्वम् ।
तत्र लोकप्रसिद्धं हेतुमाह -
प्रसिद्धेति ।
शास्त्रान्तरविरोधादयुक्तमुक्तविधबाल्यस्य विधेयत्वमिति शङ्कते -
नन्विति ।
आदिशब्देन शिष्टगर्हा गृह्यते ।
सामान्यशास्त्रसङ्कोचो विशेषविधेः स्यादित्याह -
नेत्यादिना ।
सामान्यविधेर्विशेषविधिना सङ्कोचे दृष्टान्तमाह -
पश्विति ।
विदुषो यथेष्टचेष्टायामपि न दोषोऽस्तीति प्राप्तमनूद्य सिद्धान्तमाह -
एवमिति ।
विदुषो यथेष्टचेष्टा न विधेया शास्त्रान्तरविरोधादिति प्रतिजानीते -
नेति ।
सामान्यशास्त्रस्योक्तः सङ्कोचो बाल्येन तिष्ठासेदितिवचनादित्याशङ्क्याह -
वचनस्येति ।
सामान्यप्रवृत्तविधिशास्त्रविरुद्धेऽर्थे सम्भवति तद्विरुद्धार्थकल्पनायोगान्न कामचारादि विधेयमित्युक्तमेव व्यनक्ति -
अविरुद्धे हीति ।
इतश्च कामचारादि न विधेयमित्याह -
प्रधानेति ।
किं तत्प्रधानं यदङ्गत्वेन बाल्यादि विधीयते तदाह -
ज्ञानेति ।
उक्तप्रधानोपकारित्वाभावान्न कामचारादि विधेयमित्युक्तम् । तद्विरोधित्वाच्च तदविधेयमित्याह -
नचेति ।
किं तर्हि विधेयं बाल्यं तदाह -
तस्मादिति ।
इहेति प्रकृतवाक्योक्तिः ।
उक्तेऽर्थे सूत्रमादाय योजयति -
तदाहेति ।
कथं यथोक्तेऽर्थे बाल्यशब्दः प्रयुज्यते, तत्राह -
यथेति ।
अन्वयादिति पदं व्याकरोति -
एवं हीति ।
अप्ररूढेन्द्रियत्वादिरूपभावशुद्धिलक्षणबाल्यस्य प्रधानोपकारित्वे मानमाह -
तथाचेति ।
कुलीनत्वप्रकटनं सत्त्वं तद्वैपरीत्यमसत्त्वम् । शास्त्रार्थज्ञानराहित्यमश्रुतत्वं तद्वैपरीत्यं बहुश्रुतत्वम् । सदाचारनिरतत्वं सुवृत्तत्वं दुराचारनिष्ठत्वं दुर्वृत्तत्वमिति भेदः ।
तत्किमिदानीं ब्रह्मधीयोग्यस्य मुमुक्षोर्नास्त्येव किञ्चिदनुष्ठेयं, तत्राह -
गूढेति ।
चक्षुरिन्द्रियपारवश्यं निरसितुमन्धवदित्युक्तम् ।
रसनादिपारवश्यं निरस्यति -
जडवदिति ।
ज्ञानेन्द्रियपारवश्यं परिहृत्य कर्मेन्द्रियपारवश्यं परिहरति -
मूकवदिति ।
धर्मध्वजित्वाप्रकटनमव्यक्तलिङ्गत्वम् । तदेवं मुमुक्षोरुपरतसर्वेन्द्रियस्य श्रवणादिपरस्य मोक्षसाधनं तत्त्वज्ञानमवश्यम्भावीति भावः ॥ ५० ॥
बाल्यान्तमुच्चावचं विद्याहेतुमुक्त्वा तत्फलं विद्याजन्मकालं निरूपयति
ऐहिकमिति ।
उक्तहेत्वधीनधीजन्मविषये कारीर्यादिफले चित्रादिफले चोभयोपलब्धेर्वृत्तानुवादपूर्वकं संशयमाह -
सर्वेति ।
श्रवणादिसामग्रीप्रतिबन्धशून्या विशिष्टधीप्रसवभूमिरित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनां विद्योपायत्वनियमासिद्धिः ।
सिद्धान्ते प्रतिबन्धाभावापेक्षया तेषां तन्नियमसिद्धिरित्युपेत्य प्रश्नपूर्वकमैहिकत्वनियमं पूर्वपक्षमाह -
किमिति ।
फलद्वैविध्योपलब्धौ तन्नियमे नास्ति हेतुरिति शङ्कते -
किमिति ।
तत्र कारणमाह -
श्रवणादीति ।
चित्रादिवदमुत्रापि धीहेतुत्वं श्रवणादेः स्यादित्याशङ्क्याह -
नचेति ।
कथं तर्हि तेषु प्रवृत्तिरित्याशङ्क्य तेषां कारीर्यादितुल्यत्वमाह -
समान इति ।
श्रवणादीनां चक्षुरादिवद्धीसाधनत्वात्कालान्तरीयकुम्भोपलम्भाय चक्षुरुन्मीलनाभाववज्जन्मान्तरीयविद्यायै श्रवणादिषु प्रवृत्त्ययोगादुपलभ्यमानसंसारदुःखनिवृत्तये च विद्यासाधानादानाज्ज्ञानात्कारीर्यादिवत्तुल्यजन्मन्येव विद्याजन्येत्यर्थः ।
यज्ञादीनां जन्मान्तरीयफलानां धीहेतुत्वस्य विविदिषावाक्यीयत्वाज्जन्मान्तरे धीजन्मेत्याशङ्क्याह -
यज्ञेति ।
तेषां धीशुद्ध्या श्रवणादिघटकत्वाद्धटितेषु तेषु धियावश्यम्भाव्यमित्यैहिकत्वनियम इत्यर्थः ।
श्रवणादीनां कारीर्यादितुल्यत्वे फलितमाह -
तस्मादिति ।
श्रवणादिषु कृतेष्वपि न चेदत्र धीः स्यात्तेषामतदुपायतैवेति प्राप्तमनूद्य चित्रावदनियतफलधीसाधनमिति सिद्धान्तमाह -
एवमिति ।
कृतेष्वपि श्रवणादिषु कदाचिद्विद्या नोत्पद्यते चेत्तर्हि तेषां तदुपायत्वमनियतं स्यादित्याशङ्क्याह -
एतदिति ।
कृतेष्वपि श्रवणादिष्वत्र विद्यानुदये कारीर्यादाविव प्रतिबन्धो वा पौष्कल्याभावो वा तेषां कल्पनीयः प्रतिबन्धहीना हि सामग्री कार्यहेतुर्न चैतावता तद्धेतुत्वहतिरित्यर्थः ।
उपस्थितविपाकश्रवणादिविरोधात्कर्मण एव प्रतिबन्धमाशङ्क्याह -
उपस्थितेति ।
तैरेव देशादिभिर्विद्यार्थमेव श्रवणादि कर्म किमिति न विपच्यते, तत्राह -
यानीति ।
भोगार्थस्य कर्मणो ज्ञानार्थस्य च श्रवणादेर्देशकालनिमित्तैकरूप्याभावे हेतुमाह -
यत इति ।
कर्मणा श्रवणादीनां प्रतिबन्धे तेभ्यो, विद्योत्पत्तिवादि शास्त्रं व्याहन्येतेत्याशङ्क्याह -
शास्त्रमिति ।
तथापि कर्मण एव प्रतिबन्धकत्वं न श्रवणादीनामिति कुतो नियमः, तत्राह -
साधनेति ।
यत्त्विह विद्याभावे कारीर्यादिवत्प्रतिबन्धादिसत्त्वकल्पनेन धिय आमुष्मिकत्वकल्पनमयुक्तमिहैव मे विद्या स्यादित्यभिसन्धिदृष्टेरिति, तत्राह -
नचेति ।
दृश्यमानसंसारदुःखस्यानेकजन्मगामित्वं जानतो यदा कदाचिदनर्थनिवृत्तिः स्यादित्यभिसन्धेः साधनसामर्थ्यानुसारेण सम्भावितत्वादित्याह -
अभिसन्धेरिति ।
यत्तु श्रवणादीनां चक्षुरादिवद्दृष्टफलत्वमिति, तत्राह -
श्रवणादीति ।
तेषां विधानाददृष्टद्वारापि साधनत्वमवघातवदवगतं यज्ञादीनामनियतकालफलानां ज्ञानसाधनत्वविधेश्च विद्योत्पत्तेरनियतत्वमित्यर्थः ।
यत्तु यज्ञादीनां घटकत्वाद्धटितेषु श्रवणादिषु विद्याऽवश्यम्भाविनीति तत्र प्रतिबन्धसत्त्वस्य श्रौतलिङ्गसिद्धत्वान्मैवमित्याह -
तथाचेति ।
आत्मनः श्रवणमपि दुष्करं बहूनामित्याह -
श्रवणायेति ।
कथञ्चन श्रवणेऽपि तत्फलं ज्ञानं दुर्लभमित्याह -
शृण्वन्तोऽपीति ।
तत्र हेतुः -
आश्चर्य इति ।
यथावदस्यात्मनो वक्ताश्चर्योऽद्भुतवत्कश्चिदेव सम्भवति । सम्यगाचार्यसिद्धावपि तच्छ्रुत्वा लब्धा साक्षात्कार्ताऽस्याश्चर्यः । तिष्ठतु साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रात्परोक्षतो ज्ञाताप्याश्चर्य एवेत्यर्थः ।
संप्रत्यामुष्मिकत्वे धियो लिङ्गमाह -
गर्भस्य इति ।
कयानुपपत्त्या श्रुतिरिममर्थं दर्शयति, तत्राह -
नहीति ।
जन्मान्तरसञ्चितं साधनं जन्मान्तरेऽपि धियं साधयतीत्यत्र स्मृतिमाह -
स्मृताविति ।
श्रवणादीनां पौष्कल्येऽपि श्रुतिस्मृतिलिङ्गात्पश्वादिफलचित्रादिवदनियतकालत्वसिद्धेर्नानैकान्तिकफलत्वं तेषमित्युपसंहरति -
तस्मादिति ॥ ५१ ॥
विद्यारूपे फले कालोत्कर्षापकर्षकृतो विशेषनियमो दर्शितः ।
सम्प्रति विद्याफले मोक्षे कस्यचिदपि विशेषनियमस्याभावं दर्शयति -
एवमिति ।
विद्याफलं मुक्तिर्विषयः सा किं विद्यावदुत्कर्षापकर्षकृतविशेषवती किंवा नेति फलस्योभयथादृष्टे संशये प्रकृतविद्याफलस्य प्रसङ्गतो निरतिशयत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य कर्मसाध्यतया पुरुषार्थाधिकरणासिद्धिः ।
सिद्धान्ते तस्य ज्ञानैकसाध्यत्वात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -
यथेति ।
मुक्तिरुपचयापचयवती फलत्वाद्विद्यावदित्यनुमानात्तस्याः कर्मसाध्यत्वाधिगमात्पुरुषार्थाधिकरणमयुक्तमित्याशङ्क्य सिद्धान्तमवतार्य प्रतिज्ञां विभजते -
न खल्विति ।
उक्तेऽनुमाने जाग्रति कथमाशङ्का निरवकाशेति शङ्कते -
कुत इति ।
मुक्तिस्वरूपब्रह्मैकरूप्यावधारणशास्त्रविरोधान्नानुमेति मत्वा सूत्रावयवमादाय व्याचष्टे -
तदवस्थेति ।
मुक्तिर्नाम काचिदवस्था विद्यते चेदद्वितीयत्वविरोधादवस्थात्वाज्जाग्रदवस्थावदसावपि निवृत्तिमती स्यादित्याशङ्क्याह -
ब्रह्मैवेति ।
कथमेतावता मुक्तेरुत्कर्षनिकर्षकृतविशेषराहित्यमित्याशङ्क्याह -
नचेति ।
न स्थानतोऽपीत्यधिकरणे निर्विशेषत्वमस्थूलादिश्रुत्या ब्रह्मणो निरूपितमिति स्मारयति -
एकेति ।
इतश्च मुक्तेर्निरतिशयत्वमित्याह -
अपिचेति ।
काष्ठोपचयापचयाभ्यां ज्वालोपचयापचयदृष्टेरन्तरङ्गबहिरङ्गतदभ्यासादिसाधनोपचयापचयाभ्यां विद्यायामुपचयापचयसम्भवात्तत्फले मुक्तावपि तौ स्यातामित्याशङ्क्य हेत्वन्तरं स्फोरयति -
न विद्येति ।
विद्यैव सातिशया स्वसाध्येऽपि कथञ्चिदतिशयमादध्यादित्याशङ्क्याह -
तद्धीति ।
तर्हि मुमुक्षूणां विद्यार्थिनां प्रवृत्त्यानर्थक्यं, तत्राह -
विद्ययेति ।
तस्यामतिशयमाश्रित्य मुक्तौ नातिशयोऽस्तीत्युक्तम् ।
इदानीं विद्यापि मोक्षहेतुतत्त्वसाक्षात्कारलक्षणा नातिशयवतीत्याह -
नचेति ।
कथं तर्हि पूर्वाधिकरणे विद्याया विशेषो दर्शितः, तत्राह -
तस्मादिति ।
मुक्तावपि तर्हि तादृशोऽतिशयो भविष्यति, तत्राह -
न त्विति ।
विद्योत्पत्तिनान्तरीयकत्वेनाविद्यानिवृत्तिरूपाया मुक्तेरावश्यकत्वादित्यर्थः ।
मुक्तेर्निर्विशेषत्वे हेत्वन्तरमाह -
विद्येति ।
एकरूपत्वादात्मनस्तदाकारविद्यायां विशेषाभावादनेकरूपफलोत्पादकत्वायोगात्तत्फले विशेषासिद्धिरित्यर्थः ।
विद्यायां भेदाभावं प्रयोजयति -
नहीति ।
सगुणविद्यावदात्मविद्याया भेदः स्यादित्याशङ्क्य विषयभेदात्तत्र भेदेऽपि नात्र विषयभेदोऽस्तीत्याह -
सगुणास्विति ।
तत्र फलभेदे मानमाह -
तथाचेति ।
दार्ष्टान्तिके विशेषमाह -
नैवमिति ।
तत्त्वविद्याविशेषे गुणाभावे स्मृतिमाह -
तथाचेति ।
कस्यचित् निर्गुणविद्यावतः पुरुषस्य गतिः फलमिति यावत् ।
तत्र न्यूनाधिकभावाभावे हेतुमाह -
सति हीति ।
पुनरुक्तेरर्थवत्त्वमाह -
तदवस्थेति ।
तदेवं मुक्तेर्निरतिशयत्वान्न कर्मसाध्यतेति युक्तं पुरुषार्थाधिकरणमिति भावः ॥ ५२ ॥