न्यायनिर्णयव्याख्या
४ परिच्छेदः
पूर्वाध्यायान्तिमाधिकरणे मोक्षे प्रतिनियमाभावो दर्शितः । सम्प्रति मोक्षौपयिकविद्यासाधनेषु श्रवणादिष्वावृत्त्यानुष्ठानप्रतिनियमं दर्शयति -
आवृत्तीति ।
पूर्वोत्तराध्याययोः सम्बन्धं हेतुहेतुमद्भावं वक्तुं तार्तीयमर्थमनुद्रवति -
तृतीय इति ।
साधनविचारशेषद्योतनाय प्रायेणेत्युक्तम् । साधनाधीनत्वात्फलिद्धेस्तद्विचारयोरपि युक्तं पौर्वापर्यमित्याशयवानाह -
अथेति ।
कथं तर्हीहार्चिरादिवचनमित्याशङ्क्य फलोक्तिप्रसङ्गेन तदुक्तिरपि भविष्यतीत्याह -
प्रसङ्गेति ।
अध्यायसम्बन्धमुक्त्वा तदधिगमाधिकरणात्प्राक्तनाधिकरणानां तात्पर्यं दर्शयन्नवान्तरसम्बन्धमाह -
प्रथममिति ।
साक्षादेव श्रुत्युक्तं साधनं चिन्तितम् । अधुना फलार्थापत्तिलब्धमावृत्त्यादि चिन्त्यते तदर्थापत्त्यायत्ता च तच्चिन्ता फलाध्याये सङ्गतैवेति भावः ।
प्रथमाधिकरणस्य विषयमनूद्य संशयमाह -
आत्मेति ।
साधनेषूभयथात्वदृष्टेः श्रवणादिसाधनेषु संशयमुक्त्वा मुक्तिहेतुश्रौतात्मधीसा धनश्रवणादिष्वावृत्त्याऽनुष्ठानसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनामदृष्टार्थत्वम् ।
सिद्धान्ते दृष्टार्थतैव तेषां फलतीत्यङ्गीकृत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
यथा प्रयाजादयः सकृदनुष्ठिता दर्शपूर्णमासफलोपकारिणस्तथा श्रवणादिप्रत्ययोऽपि सकृदनुष्ठितः सम्यग्धीहेतुरित्यानर्थक्यमित्यर्थः ।
अवघातादिवत्फलपर्यन्तमावृत्त्यनुष्ठानमाशङ्क्याह -
तावतेति ।
शास्त्रस्य सकृदनुष्ठानेन कृतार्थत्वेऽपि तत्पर्यन्तमनुष्ठानं किं न स्यात् , तत्राह -
अश्रूयमाणायामिति ।
दर्शनक्रियायाः साधनाकाङ्क्षायां सकृदेव साधनोपदेशेन नैराकाङ्क्ष्ये सम्भवत्यसकृदुपदेशानुपपत्त्या तात्पर्यमावृत्तौ कल्प्यते तथाच नाशास्त्रार्थः कृतः स्यादिति शङ्कते -
नन्विति ।
समुच्चितानां श्रवणादीनां साधनत्वधियाप्यसकृदुपदेशोपपत्तेरविरोधान्नावृत्तौ तात्पर्यमित्याह -
एवमिति ।
निर्विशेषब्रह्मसाक्षात्कारफलेषु श्रवणादिष्वावृत्तिमपाकृत्य सविशेषब्रह्मसाक्षात्कारफलेष्वहङ्ग्रहोपासनेष्वावृत्तिमपाकरोति -
सकृदिति ।
श्रवणादीनामहङ्ग्रहोपास्तीनां च प्रयाजादिवदनुष्ठानाददृष्टार्थतेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
आवृत्तौ हेत्वभावमाशङ्क्य हेतुमवतार्य व्याचष्टे -
कुत इत्यादिना ।
पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।
अविद्योच्छेदेनात्मनः स्वरूपावस्थानरूपाया मुक्तेः श्रुत्यनुभवसिद्धत्वादविद्यायाश्च विद्यानान्तरीयकतयोच्छेदस्य रञ्जुतत्त्वसाक्षात्कारादौ दृष्टत्वेन श्रवणादीनां दृष्टफलत्वाद्यावत्फलमवघातादिवदावर्तनीयनि तानीत्याह -
नेत्यादिना ।
उक्तमेव स्फोरयति -
दर्शनेति ।
यत्त्वहङ्ग्रहोपासनेषु सकृदुक्तेष्वावृत्तिशङ्कैव नास्तीति, तत्राह -
अपिचेति ।
यस्य स्यादद्धा न विचिकित्साऽस्ति देवो भूत्वा देवानप्येतीति लिङ्गादहङ्ग्रहोपास्तीनामुपास्यसाक्षात्कारद्वारा दृष्टार्थत्वस्य वकव्यत्वाद्यावत्फलमावृत्तिस्तास्वपि गम्यते शब्दसामर्थ्याच्च तास्वावृत्तिरित्यर्थः ।
अन्तर्णीतावृत्तिगुणमुपासनमित्यत्र लोकसंमतिमाह -
तथाहीति ।
ध्यानमपि तथाविधमित्यत्र तामेव दर्शयति -
तथेति ।
उपासनशब्दश्रुतावावृत्तिसिद्धावपि वेदेत्यादिप्रयोगे कथं तत्सिद्धिरित्याशङ्क्याह -
विदीति ।
विदिनोपक्रम्योपासिनोपसंहारे संवर्गविद्यामुदाहरति -
यथेति ।
स रैक्वो यद्वेद तत्प्राणतत्वं सर्वं धर्मफलमभिसङ्गच्छते । एवं रैक्ववदन्योऽपि यद्रैक्ववेद्यं वेद तस्यापि सर्वसाधुफलावाप्तिर्भवति स तथाभूतो रैक्वो मयोक्तः । एतदिति क्रियाविशेषणम् । रैक्वमिव जानश्रुतिमल्पकं किमात्थेति हंसान्तरं प्रति हंसवचनम् । हे भगवो रैक्व, यां देवतामुपास्से तामेतां मामनुशाधि शिक्षय ज्ञापयेति जानश्रुतेरुक्तिः । अत्रोपक्रमोपसंहारयोरैकरूप्यसिद्धये विद्युपास्त्योरैकार्थ्यं वाच्यम् ।
उपासिनोपक्रम्य विदिनोपसंहारे दृष्टान्तमाह -
यथेति ।
विद्युपास्त्योरैक्यमुपास्तिश्चावृत्तिगुणेति स्थिते फलितमाह -
तस्मादिति ।
श्रवणादिष्वावृत्तेः शब्दसामर्थ्यलभ्यत्वाभावात्कथं तेषु तत्सिद्धिः, तत्राह -
असकृदिति ॥ १ ॥
विषयमाक्षात्कारफलेषु प्रत्ययेष्वावृत्तौ हेत्वन्तरमाह -
लिङ्गाच्चेति ।
न केवलमसकृदुक्तेरावृत्तिसिद्धिरपि तु लिङ्गादपीत्यर्थः ।
तदेव विवृणोति -
लिङ्गमपीति ।
हे पुत्र, त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयादिति तकारमन्तर्भाव्य पर्यावर्तयतादिति मध्यमैकवचनं त्वंयोगात् । पर्यावर्तयोपास्वेत्यर्थः । आदित्यस्यैकस्यैवोद्गीथे सम्पाद्योपासनात्त्वमेको मे पुत्रोऽसि त्वं तु रश्मीनुद्गीथे सम्पाद्य पर्यावर्तयतात्ततो बहवस्ते पुत्रा भविष्यन्तीत्यत्र सिद्धवत्प्रत्ययावृत्तिर्दर्शितेत्येतल्लिङ्गमित्यर्थः ।
उद्गीथप्रत्ययावृत्तावपि कथं प्रत्ययान्तरेषु तत्सिद्धिः, तत्राह -
तदिति ।
तेन प्रकृतेनोद्गीथप्रत्ययेन साक्षात्कारफलतया ध्यानत्वेन वा सादृश्यादिति यावत् । सर्वप्रत्ययेष्वहङ्ग्रहोपासनादिषु श्रवणादिषु चेत्यर्थः ।
अधिकरणार्थमुक्त्वा तस्य निर्गुणब्रह्मविषयत्वमाक्षिपति -
अत्रेति ।
अहङ्ग्रहोपास्तयः श्रवणादयश्च सविशेषनिर्विशेषब्रह्मसाक्षात्कारफलास्तावदिहोदाहरणं तत्राहङ्ग्रहोपास्तिष्वावृत्तिमङ्गीकरोति -
भवत्विति ।
श्रवणादिषु तां निराचष्टे -
यस्त्विति ।
निर्गुणब्रह्मण्यापरोक्ष्यातिशयः साध्यो नास्ति तस्य नित्यापरोक्षत्वात्तेन तत्र श्रवणाद्यावृत्तिरनर्थिकेत्यर्थः ।
ब्रह्मणो नित्यापरोक्षत्वेऽपि तावताऽविद्याध्वस्तेरभावात्तदर्थमागन्तुकः साक्षात्कारः श्रवणाद्यावृत्तिसाध्योऽस्तीति शङ्कते -
सकृदिति ।
पूर्ववाद्याह -
न । आवृत्ताविति ।
अनुपपत्तिमेव प्रकटयति -
यदीति ।
ज्योतिष्टोमादिवाक्यवदावृत्तिमदपि तत्त्वमादिवाक्यं न स्वार्थे साक्षात्कारक्षममित्यर्थः ।
युक्तिप्रसङ्ख्यानसहितं वाक्यं स्वार्थे साक्षात्कारं जनयेदित्याह -
अथेति ।
युक्तिसाहित्यमुपेत्यावृत्तिं प्रत्याह -
तथापीति ।
आवृत्तेरर्थवत्त्वं समर्थयमानः स्वयूथ्यश्चोदयति -
अथापीति ।
तदेव दृष्टान्तेन स्पष्टयति -
यथेति ।
शूलविशेषस्यानुभवायोग्यत्वादेवमित्याशङ्क्याह -
यथेति ।
अस्तु प्रस्तुतेऽपि सामान्यधीरेव किं विशेषधियेत्याशङ्क्याह -
विशेषेति ।
स तर्हि भावनाजन्यो वा शास्त्रयुक्तिजन्यो वा । नाद्यस्तस्यामानजन्यत्वेनाविद्याध्वंसित्वायोगादिति मत्वा द्वितीयं प्रत्याह -
नेति ।
प्रत्यक्षातिरिक्तस्य न साक्षात्कारहेतुतेत्यर्थः ।
किञ्च युक्तिवाक्ये साक्षात्कारक्षमे तदक्षमे वा समर्थे चेदावृत्त्यानर्थक्यम् । द्वीतीयं निराह -
नहीति ।
सामर्थ्यासामर्थ्ययोरावृत्त्यानर्थक्यमुपसंहरति -
तस्मादिति ।
शास्त्रयुक्त्योः साक्षात्कारहेतुत्वोपगमेऽपि व्यर्थावृत्तिरित्याह -
नचेति ।
मेयस्वभावानुसारेणावृत्त्यानर्थक्यमुक्त्वा मेयस्वभावालोचनयापि तदानर्थक्यमाह -
अपिचेति ।
यं कञ्चिदधिकारिणं प्रति श्रवणाद्यावृत्त्यानर्थक्यं चोद्यते सर्वानेव वा प्रतीति विक्ल्पयति -
अत्रेति ।
आद्यमङ्गीकरोति -
भवेदिति ।
ब्रह्मणोऽपरोक्षत्वाद्वाक्यस्य परोक्षबोधित्वे प्रामाण्यायोगादसति चित्तविक्षेपादिप्रतिबन्धे तस्यापरोक्षबोधित्वमेवेत्यर्थः ।
द्वितीयं दूषयति -
यस्त्विति ।
असम्भावनादिप्रतिबन्धे तन्निवृत्त्यर्थमावृत्तिरर्थवतीत्यर्थः ।
तत्र श्रौतं लिङ्गमाह -
तथाहीति ।
सूत्रकृतापि लिङ्गमङ्गीकृतमित्याह -
तथाचेति ।
पूर्ववादी स्वोक्तं स्मारयति -
नन्विति ।
अनुभवानुसारेण परिहरति -
नेत्यादिना ।
कथमावृत्तेरर्थवत्त्वं दृष्टं येन नानुपपत्तिः, तत्राह -
दृश्यन्ते हीति ।
वाक्यार्थज्ञानस्य पदार्थधीपूर्वकत्वात्पदार्थयोश्च दुर्ज्ञानत्वादावृत्त्या क्रमेणैव धीरिति हेत्वन्तरमाह -
अपिचेति ।
तत्र तत्पदवाच्यमर्थमाह -
तदिति ।
तस्यैव लक्ष्यमर्थमाह -
सत्यमिति ।
अजमित्यादिवाक्यस्यार्थमाह -
तत्रेति ।
अस्थूलादिवाक्यस्यार्थमाह -
अस्थूलादीति ।
सत्यज्ञानादिवाक्यस्यापुनरुक्तमर्थमाह -
विज्ञानादीति ।
श्रौते तदर्थे विद्वदनुभवमपि प्रमाणयति -
एष इति ।
तत्पदार्थं वाच्यं लक्ष्यं च सप्रमाणमुक्त्वा त्वम्पदार्थमपि विभज्य दर्शयति -
तथेति ।
अवधारितो योऽयं विज्ञानमयः प्राणेषु यः प्राणेन प्राणितीत्यादिनेति शेषः ।
स्यातामेतौ पदार्थौ तथापि कथमावृत्तेरर्थवत्त्वं, तत्राह -
तत्रेति ।
यत्तु मेयस्यानंशत्वादावृत्त्यानर्थक्यमिति, तत्राह -
यद्यपीति ।
आरोपितव्यावर्त्यांशबाहुल्यात्क्रमवत्त्वं प्रतिपत्तेरर्थवदित्यर्थः ।
तत्त्वमसिवाक्यादहम्ब्रह्मेतिवाक्यार्थज्ञाने सति कथं क्रमापेक्षेत्याशङ्क्याह -
तत्त्विति ।
क्रमेण जातं पूर्वज्ञानमात्मसाक्षात्कारात्पूर्वकालमेव ततोऽसम्भावनादिनिराससहिवाक्योत्थतत्त्वसाक्षात्कारे नास्त्येवावृत्त्यपेक्षेत्यर्थः ।
मन्दमध्यमौ प्रति साक्षात्कारात्पूर्वं श्रवणाद्यावृत्तेरर्थवत्त्वमुक्तम् । इदानीमुत्तमं प्रत्यावृत्त्यानर्थक्यमुक्तं विवृणोति -
येषामिति ।
उत्पन्नाऽपि धीरावृत्तिमपेक्षते फलायेत्याशङ्क्याह -
सकृदिति ।
उत्पन्ने ज्ञाने यदावृत्त्यानर्थक्यं तदङ्गीकुर्वन्नाह -
सत्यमिति ।
वाक्यादीदृशी धीः स्यादित्याशङ्क्याध्यक्षादिविरोधान्मैवमित्याह -
बलवतीति ।
सा वाक्यीयविद्योच्छेयत्वाद्भ्रान्तिरित्याशङ्क्याह -
अत इति ।
दुःखित्वादिप्रत्ययस्य सर्वदा सर्वेषामुत्पद्यमानस्य बलवत्त्वादेव विद्योच्छेद्यत्वायोगान्न भ्रान्तितेत्यर्थः ।
तथाविधस्यापि देहात्माभिमानस्य भ्रान्तित्वाद्दुःखित्वाद्यभिमानस्यापि युक्तिबाधितस्य भ्रान्तित्वसिद्धेर्नैवमित्याह -
नेत्यादिना ।
उक्तं दृष्टान्तं प्रत्यक्षदृष्टान्ताभ्यां स्पष्टयति -
प्रत्यक्षं हीति ।
दुःखादयस्तत्त्वतो नात्मधर्मा वेद्यात्वात्संमतवदिति दार्ष्टान्तिकमाह -
तथेति ।
व्यभिचारित्वाच्च दुःखादीनां रूपादिवत्तत्त्वतो नात्मधर्मतेत्याह -
सुषुप्तेति ।
तर्हि चैतन्यमपि न स्वरूपमननुवृत्तत्वाद्दुःखादिवदित्याशङ्क्याह -
चैतन्यस्येति ।
दुःखित्वादिधीर्मिथ्याभिमानश्चैतन्यमेवाव्यभिचारिस्वरूपमिति स्थिते फलितमाह -
तस्मादिति ।
यथोक्तानुभवे वाक्यादविरुद्धेऽपि किमित्यावृत्तिर्नेष्यते, तत्राह -
नचेति ।
तस्मादेवानुभवात्कृतकृत्यतेत्यत्र मानमाह -
तथाचेति ।
रतिरासक्तिस्तत्फलं तृप्तिस्तृप्तेरपि फलं सन्तोष इति भेदः ।
यत्तु साक्षात्कारात्पूर्वमावृत्तेरर्थवत्त्वमुक्तं तदधिकविवक्षया निगमयति -
यस्येति ।
द्रागिति झटिति ।
नियोगबलादावृत्तौ प्रवृत्तेर्नियोगार्थावृत्तिर्नानुभवार्थेत्याशङ्क्याह -
तत्रापीति ।
अहं ब्रह्मास्मीतिप्रत्ययात्प्रच्याव्य नावृत्तौ पुरुषं प्रवर्तयेत्प्रधानविरोधात् । अकर्त्रात्मानुभवाय हि श्रवणादिविधिर्न नियोगायेत्यर्थः ।
प्रधानविरोधायोगे दृष्टान्तमाह -
नहीति ।
नियोगार्थमावृत्त्युपगमेऽपि तस्मादेवाकर्त्रात्मधीसिद्धेर्न तद्व्याहतिरित्याशङ्क्याह -
नियुक्तस्येति ।
नियोगानङ्गीकारे कुतः श्रोतव्यादिवाक्यैः श्रवणाद्यावृत्तिसिद्धिः, तत्राह -
यस्त्विति ।
अप्रतिभानादसम्भावनादिप्रतिबन्धादिति यावत् । स्थिरीकारोऽसम्भावनाद्यपोहेनावगमदार्ढ्यं वेदोपासीतेत्यावृत्तिर्वाचोयुक्तिः । आदिशब्देन श्रोतव्यादिवाक्यं गृह्यते ।
अहङ्ग्रहोपासनेषु श्रवणादिषु च सगुणनिर्गुणसाक्षात्कारफलेष्वावृत्त्याऽनुष्ठानमित्यधिकरणार्थमुपसंहरति -
तस्मादिति ।
अपरब्रह्मविषयप्रत्यये स्वरूपावृत्तिवदित्यपेरर्थः ॥ २ ॥
श्रवणमनननिदिध्यासनादिसाधनान्यावृत्त्याऽनुष्ठेयानीत्युक्तम् । तत्र निदिध्यासनकाले कथं प्रत्ययावृत्तिः, तत्राह -
आत्मेतित्विति ।
यद्यपि शब्दादेव प्रमित इत्यादिषु जीवब्रह्मैक्यं श्रुतिभिरुक्तं तथापि तासामेव विरुद्धार्थत्वादुपचरितविषयत्वमाशङ्क्यात्र समाधीयते । विरोधसमाधेरविरोधाध्यायसङ्गतत्वेऽपि महावाक्यार्थविरोधसमाधेः समाधावन्तरङ्गत्वादिह सङ्गतिरिति मत्वा विषयोक्तिपूर्वकमुभयथाप्रसिद्धेः संशयमाह -
य इति ।
संशयाभावादधिकरणमाक्षिपति -
कथमिति ।
आत्मशब्दस्य मुख्यार्थत्वे सत्यभेदसिद्धिस्तत्सिद्धौ च तस्य मुख्यार्थत्वसिद्धिरित्यन्योन्याश्रयान्मानान्तरविरोधाच्च तन्मुख्यार्थत्वासिद्धेस्तदालम्बनेन संशयानाक्षेपादधिकरणमारभ्यमित्याह -
उच्यत इति ।
अत्र च विरोधपरिहारफले समाध्युपयोगितया प्रासङ्गिके । ध्यानावस्थायां प्रत्यक्त्वेन ब्रह्मप्रतिपत्त्यनुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुतीनामैक्यगोचराणामुपचरितार्थत्वम् ।
सिद्धान्ते तासां मुख्यार्थत्वं फलतीत्याशयवान्विमृश्य पूर्वपक्षं गृह्णाति -
किमिति ।
द्वा सुपर्णेत्यादिभेदश्रुतेरुपास्योपासकादिभावभेदलिङ्गश्च भेद इत्यर्थः ।
युक्तितो भेदमाह -
नहीति ।
तयोर्विरुद्धगुणत्वमसिद्धमित्याशङ्क्याह -
अपहतेति ।
किं चाभेदेऽपि किमीश्वरस्य जीवात्मता किं वा जीवस्येश्वरात्मतेति विकल्प्याद्यं दूषयति -
ईश्वरस्येति ।
द्वितीयं प्रत्याह -
संसारिणोऽपीति ।
अहं सुखीत्याद्यनुभवेन विरुद्धस्वभावत्वाद्भेदो दहनतुहिनवदित्यनुमानेन च विरोधान्न तयोरैक्यमित्याह -
प्रत्यक्षादीति ।
एकत्वोपदेशानां तर्हि का गतिरित्याशङ्क्य व्याजेन तद्गतिमाह -
अन्यत्वेऽपीत्यादिना ।
तादात्म्यदर्शनाङ्गीकारे नास्ति विप्रतिपत्तिरित्याशङ्क्याह -
न त्विति ।
एकत्वश्रुतीनां प्राप्तमुपचरितार्थत्वमनूद्य सिद्धान्तयति -
एवमिति ।
सिद्धान्तसूत्रं योजयति -
आत्मेत्येवेति ।
तत्र मानमाह -
तथाहीति ।
आत्मत्वोपगमान्तराणि दर्शयति -
तथेति ।
आदिशब्देन तद्योऽहं सोऽसौ योऽसौ सोऽहमित्यादयो गृह्यन्ते ।
सूत्रावयवमवशिष्टं व्याचष्टे -
ग्राहयन्तीति ।
परोक्तमनूद्य दूषयति -
यदुक्तमित्यादिना ।
एकत्वश्रुतीनामपूर्वार्थत्वफलवत्त्वाभ्यां तात्पर्यसिद्धेर्मुख्यवृत्तिसम्भवे गौणत्वायोगाद्द्वैतश्रुतीनां तल्लिङ्गानां च तद्वैपरीत्यात्कल्पितभेदालम्बनत्वान्मुख्यमेव जीवब्रह्मणोरैक्यमित्यर्थः ।
इतश्च नेदं प्रतीकदर्शनमित्याह -
वाक्येति ।
भेदस्य निन्द्यमानत्वाच्चाभेदस्यैव प्रतिपाद्यतेत्याह -
भेदेति ।
विरुद्धस्वभावत्वाद्भेदो जीवब्रह्मणोरित्युक्तमनूद्य प्रत्याह -
यत्त्विति ।
बिम्बप्रतिबिम्बवदुपाधिकृतो विरुद्धधर्माध्यासो न वास्तवस्तथा च तात्त्विकमैक्यमित्यर्थः ।
अभेदेऽपि संसार्यात्मत्वमीश्वरस्य संसारिणो वा तदात्मत्वमिति विकल्प्याद्ये यद्दूषणं तदनुभाष्य दूषयति -
यत्पुनरिति ।
अनभ्युपगमं विवृणोति -
नहीति ।
द्वितीयं प्रश्नपूर्वकमङ्गीकरोति -
किमिति ।
विरुद्धांशहान्या जीवस्य ब्रह्मत्वे प्रतिपाद्ये विरुद्धधर्मत्वमुक्तमसिद्धमेवेति फलितमाह -
एवं चेति ।
संसारिणः संसारित्वापोहेन ब्रह्मत्वे साध्ये परोक्तमनूद्य निरस्यति -
यदपीति ।
अधिकार्यभावादिरेकत्वज्ञानात्पूर्वमूर्ध्वं वेति विकल्प्याद्यं निराह -
प्रागिति ।
द्वितीयमङ्गीकरोति -
यत्रेति ।
श्रुतिश्रद्धालुतया शङ्कते -
प्रत्यक्षादीति ।
तत्त्वज्ञानादूर्ध्वं श्रुत्यभावस्येष्टत्वान्नानिष्टापत्तिरित्याह -
नेष्टत्वादिति ।
तदेव स्पष्टयति -
अत्रेति ।
गूढाभिप्रायः सन्पृच्छति -
कस्येति ।
यस्य भ्रान्तिस्तस्याज्ञानमित्याह -
यस्त्वामिति ।
स्वाभिप्रायं पूर्ववादी प्रकटयति -
नन्विति ।
अविद्यातज्जभ्रान्त्योरनिर्वाच्यत्वाद्बोधे सति तयोरसत्त्वान्नाश्रयापेक्षेत्याह -
यद्येवमिति ।
अनिर्वाच्यत्वादविद्यायाश्चोद्यान्तरमपि निरस्तमित्याह -
योऽपीति ।
अभेदश्रुतीनां सिद्धे मुख्यार्थत्वे फलितमुपसंहरति -
तस्मादिति ॥ ३ ॥
आत्मत्वमतिरीश्वरे कार्येत्युक्तम् । इदानीं प्रतीकविशेषणस्यापीश्वरस्यात्मत्वात्तद्द्वारा प्रतीकेष्वात्मत्वधीरिति प्राप्ते प्रत्याह -
न प्रतीक इति ।
प्रतीकोपासनान्युदाहृत्योपास्तिषूभयथादृष्टेः संशयमाह -
मन इत्यादिना ।
जीवब्रह्माभेदं पूर्वोक्तमुपजीव्य ब्रह्मदृष्टिभाक्षु प्रतीकेषु ब्रह्माभिन्नजीवदृष्टिरहमिति कार्येति प्रश्नपूर्वकं पूर्वपक्षमाह -
किं तावदिति ।
अत्र प्रासङ्गिकाहंमतिनिरासेन प्रतीकोपास्तिषु प्रयोगभेदोक्त्या पादादिसङ्गतिः ।
पूर्वपक्षे प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः, सिद्धान्ते विशेषः सिध्यतीत्यङ्गीकृत्य पूर्वपक्षे हेतुं पृच्छति -
कस्मादिति ।
प्रतीकेष्वात्मत्वग्रहे तेषामात्मत्वोपपत्तिहेतुमाह -
ब्रह्मण इति ।
तस्यात्मत्वेऽपि तेषां कथमात्मत्वं, तत्राह -
प्रतीकानामिति ।
ब्रह्मधीयुक्तानि प्रतीकान्यहमिति ग्राह्याणि ब्रह्माभिन्नत्वात्तद्वदित्यर्थः ।
द्विविधोपास्तिष्वविशेषे प्राप्ते सिद्धान्तमाह -
एवमिति ।
न प्रतीकेष्वात्ममतिं कुर्यादैक्यचोदनाभावे सति स्वतो भिन्नत्वादुद्गीथादिवदित्याह -
नेत्यादिना ।
यत्तु ब्रह्मरूपत्वादहमिति ग्राह्यणीति तत्र किमात्मत्वानुभवादात्मत्वेन ग्राह्माणि किं वा मानान्तरसिद्धत्वात् । नाद्य इत्याह -
नहीति ।
द्वितीयमनूद्य दूषयति -
यदिति ।
प्रसङ्गभेव प्रकटयति -
विकारेति ।
तथापि को दोषः, तत्राह -
स्वरूपेति ।
वस्तुवृत्तेन विकाररूपेण नामादीनां ब्रह्मत्वायोगाज्जीवत्वलयेन जीवस्य ब्रह्मत्वोक्तिवत्प्रतीकत्वलयेन तेषामपि ब्रह्मत्वोक्तावालम्बनाभावादुपास्तिविधिर्न स्यादित्यर्थः ।
यत्तु ब्रह्मत्वे सत्यात्मत्वमिति, तत्राह -
नचेति ।
प्रतीकोपदेशेषु कथं कर्तृत्वाद्यनिराकरणं तदाह -
कर्तृत्वादीति ।
तन्निराकरणे तद्विधिरेव न स्यादिति भावः । प्रतीकानां जीवस्व च परिच्छिन्नतया साम्यं गृहीत्वा फलितमाह -
अतश्चेति ।
सत्यपि तुल्यत्वे किमिति जीवस्य तेषु विधिवशादहङ्ग्रहो न स्यात् , तत्राह -
नहीति ।
स्वरूपेणैक्याभावेऽपि रुचकस्वस्तिकयोः सुवर्णात्मनैक्यवदिहापि ब्रह्मात्मनैक्यादहङ्ग्रहः स्यादित्याशङ्क्याह -
सुवर्णेति ।
विकाररूपतिरस्कारेणैक्ये न प्रतीकतेत्युक्तमित्यर्थः ।
रुचकस्वस्तिकयोरपि मिथोव्यावृत्तयोर्नानुवृत्तसुवर्णाद्यात्मत्वकल्पनामृते सिध्यतीति सिद्धवत्कृत्योपसंहरति -
अत इति ॥ ४ ॥
अहङ्ग्रहोपासनेष्विव प्रतीकोपासनेष्वहङ्ग्रहेणानुष्ठानं नेत्युक्तम् । इदानीं प्रतीकोपासनेष्वेव क्व किन्दृष्टिरध्यस्यतामिति सन्दिहानं प्रत्याह -
ब्रह्मदृष्टिरिति ।
एकविषयत्वेनाधिकरणयोः सङ्गति मन्वानो विषयसंशयौ दर्शयति -
तेष्वेवेति ।
प्रश्नपूर्वकं संशयबीजमाह -
कुत इति ।
उक्तमेव व्यक्तीकर्तुं सामानाधिकरण्यधियं तावद्दर्शयति -
अत्रेति ।
तथापि यथाकथञ्चिदस्य सामानाधिकरण्यस्य सम्भवे कुतः संशयसिद्धिरित्याशङ्क्य सोऽयमितिवदेकत्वनिमित्तं वा प्रकृतिविकारत्वनिमित्तं वा समारोपकृतं वा तदिति विकल्प्याद्यं दूषयति -
नचेति ।
भिन्नार्थशब्देषु तदभावमुदाहरति -
नहीति ।
द्वितीयमादत्ते -
नन्विति ।
उपास्तिविरोधान्मैवमित्याह -
नेतीति ।
प्रविलयपरमेव वाक्यं नोपास्तिपरमित्याशङ्क्योपासीतेतिश्रुतिविरोधान्मैवमित्याह -
परमात्मेति ।
प्रपञ्चप्रविलयद्वारा परमात्मपरत्वे वाक्यस्य कतिपयादित्यादिग्रहणमनर्थकम् । नच सर्वोपलक्षणार्थं तद्ग्रहणं मुख्यसम्भवे लक्षणायोगादित्याह -
परिमितेति ।
पक्षद्वयायोगात्परिशिष्टे तृतीये पूर्वोक्तः संशयः स्यादित्युपसंहरति -
तस्मादिति ।
प्रासङ्गिकप्रकृतप्रतीकोपासनेषु स्वतन्त्रपुमर्थहेतुषु ब्रह्मदृष्ट्यानुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे लौकिकन्यायविरोधः ।
सिद्धान्ते तदविरोधः सिध्यतीत्यमिप्रेत्य पूर्वपक्षयति -
तत्रेति ।
यथात्यन्तिकभेदो नामादिष्वहङ्ग्रहाभावे हेतुरुक्तस्तथा तेष्वेव ब्रह्मधीनियामकं न किञ्चिद्दृष्टं तस्मादनियम इत्यर्थः ।
उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषवत्त्वाद्राजादिवदित्याशङ्क्य साक्षात्पूर्वपक्षमाह -
अथवेति ।
आदित्यादिशब्दानां प्रथमश्रुतानामनुरोधेन चरमश्रुतं ब्रह्मपदं नेतव्यमिति चेन्न । तथा सति फलाभावापातादित्याह -
ब्रह्मेति ।
पक्षद्वयेऽपि फलितमाह -
तस्मादिति ।
आदित्यादिदृष्ट्या ब्रह्मोपास्यमिति प्राप्ते सिद्धान्तयति -
एवमिति ।
नियमहेतुं प्रश्नपूर्वकमाह -
कस्मादिति ।
हेत्वर्थं विवृणोति -
एवमिति ।
उत्कृष्टनिकृष्टयोरुत्कृष्टस्य द्रष्टव्यत्वादादित्यादिदृष्ट्या ब्रह्मैवोपास्यमित्युक्तमाशङ्क्याह -
तथाचेति ।
किं तदनुसरणेनेत्याशङ्क्याह -
स चेति ।
प्रसङ्गमेव दृष्टान्तेन स्पष्टयति -
नहीति ।
ब्रह्मण एव फलमत इतिन्यायात्फलदातृत्वात्तस्यैवादित्यादिधीभिरुपास्येतेति शङ्कते -
नन्विति ।
किञ्च शास्त्रस्य स्वत एव प्रामाण्यान्न लौकिकन्यायापेक्षेत्याह -
नचेति ।
ब्रह्मण एव फलदातृत्वेऽपि शास्त्रमादित्यादौ प्रतीके ब्रह्मधिया ध्येये तत्फलदमिति वा ब्रवीत्यादित्यादिधिया ब्रह्मण्युपास्ये वेति शास्त्रार्थसन्देहे लोकानुसारेण निर्धारणमित्याह -
अत्रेति ।
लौकिकन्यायस्य निश्चयहेतुत्वे विपक्षे दोषमाह -
तेनेति ।
न केवलं लौकिकन्यायो निश्चायकः किं त्वादित्यादिशब्दानां प्रथमश्रुतत्वेन मुख्यार्थत्वमपीत्याह -
प्राथम्यादिति ।
ब्रह्मशब्दस्य धीपरत्वे युक्त्यन्तरमाह -
इतिपरत्वादिति ।
तस्येतिपरत्वमेव स्फोरयति -
तथाहीति ।
आदित्यादिशब्देषु वैलक्षण्यमाह -
शुद्धानिति ।
अस्तु ब्रह्मशब्दस्येतिपरत्वमादित्यादिशब्दानां च शुद्धत्वं तथापि कथं दृष्टिपरत्वार्थपरत्वव्यवस्थेत्याशङ्क्याह -
ततश्चेति ।
रजतशब्दस्यापि शुक्तिशब्दवदर्थपरत्वं चेदितिशब्दयोगो व्यर्थः स्यादित्यर्थः ।
प्रतीतिश्चेत्तस्या निरालम्बनत्वायोगादस्त्येव रजतमपीत्याशङ्क्याह -
प्रत्येत्येवेति ।
प्रतीतेराभासत्वान्न योग्यमालम्बनमस्तीत्यर्थः ।
लोकसिद्धमर्थं प्रकृते योजयति -
एवमिति ।
किं चादित्यादीनां द्वितीयाश्रुत्योपास्तिकर्मत्वेन प्राधान्यसिद्धेर्ब्रह्मशब्दस्य धीपरत्वमेवेत्याह -
वाक्येति ।
उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषपरत्वाद्राजादिवदित्युक्तमनुवदति -
यत्त्विति ।
आदित्यादीनामेवोपास्यत्वार्पकद्वितीयाश्रुतिविरुद्धमनुमानमित्याह -
तदिति ।
कथं तर्हि फलसिद्धिरित्याशङ्क्य हेतोरन्यथासिद्धिमाह -
फलं त्विति ।
धर्मस्यैव फलदत्वात्कुतो ब्रह्मणस्तथात्वं, तत्राह -
वर्णितं चेति ।
द्वितीयेतिशब्दश्रुतिभ्यामुत्कृष्टदृष्ट्या निकृष्टमुपास्यमितिन्यायानुगृहीताभ्यामुक्तानुमानभङ्गादसञ्जातविरोधित्वेन प्रथमश्रुता आदित्यादय एव चरमश्रुततया सञ्जातविरोधात्प्रत्ययमात्रपरब्रह्मशब्देनार्पितब्रह्मदृष्टिविशिष्टा विशेषणतयोपास्यब्रह्मसामर्थ्यलब्धफलविशेषा ध्येया भवन्तीति भावः ।
कथं तर्हीदं ब्रह्मोपासनमिति प्रसिद्धिः, तत्राह -
ईदृशं चेति ॥ ५ ॥
पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमेन वा गीतित्वेन क्रियारूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिकरणे प्रथमनिर्दिष्टानामादित्यादिषु ब्रह्मदृष्टिवत्प्राथमिकादित्यादिषूद्गीथादिदृष्टिकरणे वा प्राप्ते प्रत्याह -
आदित्यादीति ।
अङ्गाश्रितोपासनान्युदाहृत्य विशेषानुपलब्ध्या संशयमाह -
य एवेत्यादिना ।
पृथिव्याग्न्यन्तरिक्षादित्यद्युसंज्ञकेषु लोकेषु हिंकारप्रस्तावोद्गीथप्रतिहारनिधनरूपं पञ्चप्रकारं सामोपास्यं लोकदृष्ट्या तदुपास्यमित्यर्थः । वाचि सप्तविधमिति हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनरूपं सप्तप्रकारं साम वाच्युपास्यं वाग्दृष्ट्या सामोपास्यमित्यर्थः । प्रासङ्गिकाङ्गावबद्धोपासनेषु स्वतन्त्रफलेष्वनङ्गदृष्ट्यानुष्ठाननिरूपणात्पादादिसङ्गतिः ।
पू्र्वपक्षे दृष्टिकरणस्य फलवत्त्वम् । सिद्धान्तेऽपि तदविरुद्धं सिध्यतीति । स्वीकृत्य पूर्वपक्षमाह -
तत्रेति ।
नियमकारिणः शास्त्रस्याभावादित्युक्तं व्यनक्ति -
नहीति ।
वैधर्म्यदृष्टान्तं स्पष्टयति -
ब्रह्मेति ।
अङ्गानङ्गयोरपि कस्यचिद्विशेषो गम्यतामित्याशङ्क्याह -
न त्विति ।
कर्मरूपाणामुद्गीथादीनामुत्कर्षभानमुपेत्य साक्षात्पूर्वपक्षमाह -
अथवेति ।
नियमहेतुं पृच्छति -
कस्मादिति ।
उद्गीथादिकर्माङ्गानां क्रियासमवायात्फलसाधनतयोत्कृष्टत्वादिति हेतुमाह -
कर्मेति ।
किञ्च सिद्धरूपादित्याद्यात्मना चेदुद्गीथादयो दृष्टास्तदा न फलहेतवः । यदा तूद्गीथादिदृष्ट्यादित्यादयो दृष्टास्तदा तेषामपि फलहेतुत्वं स्यादित्याह -
उद्गीथादीति ।
अनङ्गेष्वेवाङ्गमतिकर्तव्यत्वं पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगादपि भातीत्याह -
तथाचेति ।
तदेतदग्न्याख्यं सामैतस्यां पृथ्वीलक्षणायामृच्यध्यूढमुपरिश्रितमिति यावत् ।
उक्तमेव दृष्टान्तेन स्पष्टयति -
क्षत्तरीति ।
ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरिष्टा चेत्तदा प्रयोगवैपरीत्यं स्यात्तस्मात्पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या तत्र कर्मङ्गभूतर्क्सामाध्याससिद्धिरित्यर्थः ।
ततश्चानङ्गेष्वङ्गमतिः कर्तव्येत्याह -
अपिचेति ।
सप्तम्या लोकानां सामधीविषयत्वनिर्देशादित्याह -
अधिकरणेति ।
अन्यत्रापि सप्तमीश्रुतेरनङ्गेष्वद्गधीर्भातीत्याह -
एतदिति ।
पूर्वाधिकरणसिद्धान्तन्योयेनाप्यनङ्गेष्वङ्गदृष्टिः शिष्टेत्याह -
प्रथमेति ।
आदित्यादावुद्गीथादीधीकरणात्तस्य फलवत्त्वसिद्धिरिति प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।
अनङ्गेष्वङ्गमतिरुक्ता तथा चान्यथा नियमो निर्बीजत्वादयुक्त इति शङ्कते -
कुत इति ।
नियमहेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
यथा प्रोक्षणादिना व्रीह्यादिषु संस्कृतेषु कर्मापूर्वमुत्पद्यते तथा प्रकृतकर्मापूर्वसंनिधानादुद्गीथादीनामादित्यादिमतिभिस्तेषु संस्क्रियमाणेषु कर्मसमृद्धिरुपपद्यते, तथाच कर्मसमृद्धिफलोपपत्तेरङ्गेष्वनङ्गमतिक्षेप इत्यर्थः ।
कर्मसमृद्धिरुपास्तिफलमित्येतदेवासिद्धमित्याशङ्क्याह -
यदेवेति ।
यत्र कर्मसमृद्धिः फलं श्रूयते तत्राङ्गेष्वनङ्गमतिक्षेपोऽस्त्वादित्यादिमतिसंस्कृतानामङ्गानां कर्मातिशयहेतुत्वात्स्वतन्त्रफलेषु पुनरुपासनेषु कथं मतिक्षेपः स्यादिति विवेको नास्तीति शङ्कते -
भवत्विति ।
स्वतन्त्रफलेष्वपि तेषु प्रकृतकर्माङ्गव्यपाश्रयेणाङ्गेष्वेव मतिकरणात्फलकल्पना युक्ता कर्माधिकृतस्यैव तदङ्गसम्बन्धेषूपासनेष्वधिकारात् । यथाधिकृताधिकारेषु गोदोहनादिषु स्वतन्त्रफलेष्वपि प्रकृतकर्माङ्गावष्टम्भेनैव फलमिष्टं तथेहापीति परिहरति -
तेष्वपीति ।
यत्त्वादित्यादीनामुद्गीथादीनां चोत्कर्षविशेषानवधारणमिति, तत्राह -
फलेति ।
तदेव स्फुटयति -
आदित्यादीति ।
उपक्रमानुसारादप्यादित्यादिधीरुद्गीथादिषु कार्येत्याह -
अपिचेति ।
द्वितीयां पूर्वपक्षोपपत्तिमनुभाष्य दूषयति -
यदित्यादिना ।
कर्मभूयं भूत्वा कर्मभावमनुभूयेति यावत् ।
सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यरूपत्वं कर्मणोऽभिभूयेतेत्याशङ्क्याह -
आदित्यादीति ।
माणवकेऽग्निधीवदुद्गीथादिष्वादित्यादिधियां गौणत्वादनभिभवादङ्गेष्वनङ्गधीरविरुद्धेत्यर्थः ।
यत्तु पथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या पृथिव्यादावृगादिधीरिति, तत्राह -
तदेतदिति ।
तद्दृष्टिमन्तरेणापि लक्षणोपपत्तौ पृथिव्यादावृगाद्यध्यासो न कल्पनीय इत्यर्थः ।
सम्बन्धाभावे कथं लक्षणेत्याशङ्क्याह -
लक्षणा चेति ।
शोणो धावतीत्यत्र गुणवाचिशोणशब्देन गुणी लक्ष्यत इति संनिकृष्टा लक्षणा अग्निरधीतेऽनुवाकमित्यत्राग्निशब्दस्तीव्रत्वादिगुणं लक्षयित्वा माणवकं लक्षयतीति विप्रकृष्टा । नहि साक्षादेवाग्निशब्दार्थस्य माण्वकसम्बन्धोऽस्तीत्यर्थः ।
लक्षणाद्वैविध्येऽपि प्रकृते किं जातं तदाह -
तत्रेति ।
ऋक्सामयोः पृथिव्यग्न्योश्च संनिकृष्टवास्तवसम्बन्धाभावेऽपि विप्रकृष्टेन पृथिव्याग्निबुद्धिसम्बन्धेन तयोः सम्बन्धात्तच्छब्दाभ्यां तल्लक्षणा युक्तेत्यर्थः । तथापि तयोरेव पृथिव्यग्न्योरेष तदेतदस्यामृच्यध्यूढं सामेत्यृक्सामशब्दप्रयोग इति योजना ।
मुख्यासम्भवे हेतुमाह -
प्रसिद्धयोरिति ।
ऋच्यध्यूढं हि सामेति प्रसिद्धयोः पृथगुक्तेस्तदेतदेतस्यामित्यत्रापि तयोरेवोक्तौ पौनरुक्त्यात्पृथिव्यग्न्योश्चाध्यस्तऋक्सामसंनिधानादृक्तसामशब्दयोर्लक्षणया पृथिव्यग्न्यर्थतेत्यर्थः ।
ऋचि पृथिवीधीः साम्नि चाग्निधीरित्येतावता सम्बन्धेन पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगो लाक्षणिको नोपपद्यते क्षत्तरि राजधीकरणेऽपि राजनि क्षत्तृशब्दप्रयोगादर्शनादित्युक्तमित्याशङ्क्याह -
क्षत्रिति ।
यदा राजापि क्षत्तुः सूतस्य रथनयनादि कर्माचरति तदा तत्र क्षत्तृशब्दो लक्षणया प्रयुज्यत एव । नच सति निमित्ते प्रयोगस्यावश्यकत्वं पङ्कजादिशब्दे व्यभिचारादिति भावः ।
ऋगादावेव पृथिव्यादिधीरित्यत्र हेत्वन्तरमाह -
इयमेवेति ।
एतदेव व्यतिरेकद्वारा स्फोरयति -
पृथिव्येति ।
ऋगनुवादेन पृथिवीत्वं विधेयमित्यवधारणासामर्थ्यादधिगतमित्यर्थः ।
इतश्चाङ्गेष्वनङ्गधीरित्याह -
य एवमिति ।
यत्त्वधिकरणनिर्देशादुपास्तिविषयत्वं लोकानामिति, तत्राह -
तथेति ।
यदि सामधीर्लोकेष्वारोप्येत तदा साम्नेतितृतीयार्थे द्वितीयाश्रुतिः परिणेया लोकेष्विति च सप्तमी द्वितीयार्थे कथञ्चिन्नेया, तथा सत्युभयथापि सप्तम्याः कल्प्यार्थत्वात्कल्पनालाघवाद्यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्येया । तेन पृथिव्यादिलोकबुद्ध्या हिङ्कारादिसामोपास्यम् । ततः सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया । पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः ।
पृथिव्याद्यात्मना हिङ्कारादेरुपास्यत्वोपदेशेन गायत्रस्यापि प्राणात्मनोपास्यत्वमुक्तमित्यतिदिशति -
एतेनेति ।
यत्र द्वितीयासप्तम्यौ तत्रास्तु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गधीः । यत्र तूभयत्र द्वितीया तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात्कथं नियमसिद्धिरित्याशङ्क्याह -
यत्रापीति ।
छान्दोग्ये हि समस्तस्य सप्तविधस्य पञ्चविधस्य च साम्नो ध्यानं साधुगुणकमित्युपक्रम्य लोकेषु पञ्चविथं सामोपासीतेति पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यादिना पञ्चविधस्य साम्नो ध्यानमुक्त्वेति तु पञ्चविधस्येत्युपसंहृत्याथ तु सप्तविधस्येत्युपक्रम्य वाचि सप्तविधं सामोपासीतेत्यादिना सप्तविधस्याप्युपासनमुक्तम् । एवं च समस्तस्य साम्न उपासनं साध्विति साम्न एवोपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति पञ्चविधस्यापि तस्योपास्यत्वश्रुतेः साम्न्येवादित्याद्यध्यासः सिध्यतीत्यर्थः ।
यत्तु पूर्वाधिकरणन्यायेन प्रथमश्रुते चरमश्रुतमध्यस्यत इति, तत्राह -
एतस्मादिति ।
हिङ्कारोद्देशेन पृथिवीत्वविधाने हिङ्कारःपृथिवीति निर्देशो युक्तस्तस्य वैपरीत्येऽपि साम्नोऽधिकाराद्ध्येयत्वावगमादङ्गेषु हिङ्कारादिष्वेवानङ्गपृथिव्यादिदृष्टिः कार्येत्यर्थः ।
प्रथमश्रुत्यनुसाराच्चरमश्रुतं नेयमिति न्यायोऽपि द्वितीयाश्रुत्या बाध्यो दुर्बलत्वादिति मत्वोपसंहरति -
तस्मादिति ॥ ६ ॥
अङ्गाश्रितोपासनेष्वासीनकर्मतानियमाभाववदितरोपासनास्वपि तन्नियमाभावमाशङ्क्याह -
आसीन इति ।
विषयं परिशिनष्टि -
कर्मेति ।
आदिपदेन स्थितिशयने गृह्येते । सम्यग्दर्शनशब्देन श्रवणाद्यभ्यासवासितमनःसहकृतवाक्यकृतसाक्षात्कारो निरुच्यते । अङ्गोपासनेभ्यः सम्यग्दर्शनाच्चातिरिक्तान्युपासनानि विषयीकृत्यानेकधानुष्ठानदृष्टेः संशयमाह -
इतरेष्विति ।
शास्त्रीयेषु प्रस्तुतोपासनेष्वनुष्ठानविशेषचिन्तया पादादिसङ्गतिः । पूर्वपक्षे कर्माङ्गानाश्रितोपासनेषु दैहिकनियमासिद्धिः ।
सिद्धान्ते ध्यानस्य मनोव्यापारत्वेऽपि देहानवस्थाने मनोनवस्थानात्तेषु तन्नियमसिद्धिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
मनोदेहयोर्भिन्नत्वान्मनोव्यापारमुपासनं प्रति देहव्यापारस्यानुपकारित्वादासीनेन तिष्ठता वा यथाकथञ्चिदनुष्ठेयानि प्रकृतान्युपासनानीत्यर्थः ।
अनङ्गाश्रितोपासनानां यथाकथञ्चिदनुष्ठानमिति पक्षमनूद्य सिद्धान्तयति -
एवमिति ।
प्रश्नपूर्वकं नियामकमाह -
कुत इति ।
सम्भवं बक्तुमुपासनशब्दार्थमाह -
उपासनमिति ।
तथापि कथं तदासीनस्यैवेति नियम्यते, तत्राह -
नचेति ।
तर्हि तिष्ठतो भविष्यति विक्षेपाभावात् , तत्राह -
तिष्ठतोऽपीति ।
तर्हि शयानस्य देहधारणव्यापाराभावादुपासनं स्यान्नेत्याह -
शयानस्येति ।
देहेऽनवस्थिते मनोनवस्थितेरध्वक्षत्वादासीनस्यैवोपासनमनुष्ठेयमिति परिशेषसिद्धमर्थमाह -
आसीनस्य त्विति ॥ ७ ॥
इतश्चोपासनमासीनकर्मेत्याह -
ध्यानाच्चेति ।
सूत्रं विवृणोति -
अपिचेति ।
उपास्तिध्यायत्योरेकार्थत्वेऽपि प्रकृते किं जातं तदाह -
ध्यायतिश्चेति ।
अथ ध्यायतिर्यस्यां प्रयुज्यते सावस्था तिष्ठतोऽपि सम्भवति नेत्याह -
आसीनश्चेति ।
लौकिकं लिङ्गमुपसंहरति -
तस्मादिति ॥ ८ ॥
तत्रैव वैदिकं लिङ्गमाह -
अचलत्वं चेति ।
सूत्रं विभजते -
अपिचेति ॥ ९ ॥
आसनविधानानुपपत्त्याऽप्युपासनस्यासीनकर्मतेत्याह -
स्मारन्तीति ।
बाह्यासनविषयत्वेन सूत्रं योजयति -
स्मरन्त्यपीति ।
शारीरासनविधानविषयत्वेनापि तदेव योजयति -
अत इति
उपासनस्यासीनकर्मत्वादेवेत्यर्थः ॥ १० ॥
अनङ्गाश्रितोपासनेष्वासननियमवद्दिगादिनियमोऽपि स्यादित्याशङ्क्याह -
यत्रेति ।
अनङ्गाश्रितोपासनानि विषयस्तेषु दिगादिनियमोऽस्त्युत नेति विहितेषु द्विधादृष्ट्या संशयमाह -
दिगिति ।
अङ्गोपास्त्यतिरिक्तोपास्तिषु शास्त्रीयास्वेव दिगादिनियमं विनाऽनुष्ठानक्रमचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे दिगादिनियमादेतेषु चित्तैकाग्र्यमन्तरेणानुष्ठानम् ।
सिद्धान्ते दिगादिष्वास्थाभावेऽपि प्रधानानुगुण्यादनुष्ठानमित्यङ्गीकृत्यानङ्गोपासनानि नियतदिग्देशकालानि चोदनालक्षणत्वाद्वैश्वदेववदित्याशयेन पूर्वपक्षयति -
प्रायेणेति ।
प्रदोषादिकाले प्राच्यादिदिशि तीर्थादिदेशे प्रकृतोपासनानुष्ठानमिति प्राप्ते सिद्धान्तयति -
तमिति ।
चोदनादिवशेनोक्तोपासनेषु न देशादिनियमः किन्तूपास्ये चित्तैकाग्र्यलक्षणार्थाक्षिप्त एव तन्नियम इत्युक्तं विवृणोति -
यत्रेति ।
यत्तु चोदनालक्षणत्वादित्यनुमानं तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन्नविशेषादिति व्याचष्टे -
प्राचीनेति ।
प्राचीनप्रवणे प्राग्देशनिम्ने देशे वैश्वदेवेन यागविशेषेण यजेतेत्यादिवदत्र विशेषो न श्रूयते । ऐकाग्र्यं हि ध्यानं प्रत्यन्तरङ्गं तस्मिन्मध्याह्नादावपि सम्भवति प्रदोषाद्यपेक्षायां शेषिबाधादनियम इत्यर्थः ।
ध्यानान्तरङ्गमैकग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -
एकाग्रताया इति ।
विशेपेक्षायां शेषिबाधादनियम इत्यर्थः ।
ध्यानान्तरङ्गमैकाग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -
एकाग्रताया इति ।
विशेषाश्रवणमसिद्धमिति शङ्कते -
नन्विति ।
शर्कराः सूक्ष्मपाषाणाः । जलाशयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । यथा श्रुतिसिद्धो विशेषस्तथान्योऽपि कालादिविशेषो ध्याने स्यादित्यर्थः ।
वाचनिके नियमे सत्येव दिगादिनियमनिरसनमित्याह -
उच्यत इति ।
तद्गतेष्विति ।
तच्छब्देन श्रौतो विशिष्टो देशो गृह्यते तस्मिन्गता विशेषास्तु प्राचीनप्रवणादयस्तन्नियमे कदाचिदेकाग्रतायोगेनोपासनायोगात्प्रधानविरोधात्तदनियमः श्रेयानित्यर्थः ।
नियमादनियमो युक्तः शेष्यानुगुण्यादित्यत्र सूत्रकारसंमतिमाह -
इति सुहृदिति ।
उक्ताऽपि हि श्रुतिरस्माकमनुकूलैवेत्याह -
मन इति ॥ ११ ॥
देशाद्यविधानात्तदपेक्षावदहङ्ग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेत्याशङ्क्याह -
आ प्रायणादिति ।
व्यवहितेन सम्बन्धार्थं वृत्तं कीर्तयति -
आवृत्तिरिति ।
सम्प्रति सम्बन्धं वदन्विषयं विवेचयति -
तत्रेति ।
सम्यग्ज्ञाने जातेऽपि मुक्त्यर्थमावृत्तिरामरणात्कार्येत्याशङ्क्याह -
नहीति ।
नियोज्यस्याधिकारिणोऽभावान्मुक्तेश्च सम्यग्धीनान्तरीयकत्वादावृत्तिरनर्थिकेत्यर्थः ।
उक्तहेत्वभावादनुष्ठानस्योभयथादृष्टेरहङ्ग्रहोपास्तिषु संशयमाह -
यानीति ।
शास्त्रीयाहङ्ग्रहोपासनेषु स्वतन्त्रफलहेतुषु यावज्जीवमनुष्ठानमितिचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे सर्वोपासनेष्वावृत्तेरविशेषः ।
सिद्धान्ते प्रकृतेषु विशेष इत्युपेत्य विमृश्य पूर्वपक्षयति -
किं तावदिति ।
सर्वोपासनेष्वावृत्तौ विशेषो नेति प्राप्ते प्रकृतोपासनेष्वामरणादावृत्तिः कार्येति सिद्धान्तमाह -
एवमिति ।
उपास्यापरोक्ष्ये दृष्टफले सिद्धे तद्द्वारा दृष्टफलस्यापि सिद्धेरवघातादिवदामरणादनुष्ठानमित्याह -
अन्त्येति ।
अन्त्यप्रत्ययातिरेकेणैवोपासनानां फलप्राप्तियोगान्न तादर्थ्येनावृत्तिरित्याशङ्क्याह -
कर्मणीति ।
किमत्र प्रमाणं तदाह -
सविज्ञान इति ।
विज्ञानेन भोक्तव्यफलविषयभावनामयेन सहितो म्रियमाणो भोक्ता सविज्ञानः । सविज्ञानं विज्ञानेन सहितं फलम् । यस्मिन्वषये चित्तमस्य स यच्चित्तस्तेन विषयेण हृद्यभिव्यक्तेन सह तेज उदानस्तेजोदेवताकत्वादात्मा भोक्ता ।
म्रियमाणस्य भोक्तुर्ज्ञानवत्त्वे दृष्टान्तश्रुतिरपि प्रमाणमित्याह -
तृणेति ।
यत्राप्रत्ययात्मकानामपि कर्मणामन्त्यप्रत्ययाक्षेपेण फलजनकत्वं तत्र प्रत्ययात्मकानामुपासनानां किं वक्तव्यमित्यर्थः ।
तर्हि कर्मवददृष्टद्वाराऽन्त्यप्रत्यायापेक्षोपासनानां स्यान्नेत्याह -
प्रत्ययास्त्विति ।
तेषां धारावाहिकतया दृष्टदारेणाक्षेपकत्वसम्भवे नादृष्टकल्पनेति भावः ।
सर्वभावनानां स्वावान्तरजातीयनिरपेक्षतया भावनात्मकोपासनानां न भावनान्तरापेक्षकत्वं स्वरूपसन्निधानेनैव चादृष्टफलोपयोगितेति मत्वोपसंहरति -
तस्मादिति ।
तत्रापि दृष्टमित्येतद्व्याचष्टे -
तथाचेति ।
उपासकः सर्वनामार्थः । क्रतुः सङ्कल्पविशेषः । अस्माल्लोकादभिमानतो गृहीताद्देहादिति यावत् ।
स्मार्तदर्शनमाश्रित्यापि सूत्रावयवं योजयति -
स्मृतिरिति ।
तत्रैव श्रौतदर्शनान्तरमाह -
सोऽन्तेति ।
पूर्ववदुपासकः सर्वनाम्नोक्तः । अक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं स्मरेदित्यनुष्ठेयं मरणकालेऽपि दर्शयन्ती श्रुतिर्विज्ञानावृत्तिं सूचयतीत्यर्थः ॥ १२ ॥
यथोपास्तावन्तकाले कर्तव्यमस्ति न तथा ब्रह्मविद्यायां कर्तव्यं किचिदप्यस्ति तदुत्पत्तिमात्रेणाशेषपापक्षयादित्याह -
तदधिगम इति ।
साधनानुष्ठाने यत्नाधिक्यार्थं फलाध्यायेऽपि साधनसम्बद्धमनुष्ठानक्रमं विचार्य फलाध्यायस्थां फलचिन्तामेवावतारयति -
गत इति ।
दुरितमधिकृत्य तस्य फलावसानत्वप्रतीतेर्ज्ञानात्क्षयप्रतीतेश्च संशयमाह -
ब्रह्मेति ।
तद्विपरीतफलं बन्धनसाधनमित्यर्थः । अत्र साक्षादेव श्रौतब्रह्मात्मधियो दुरितक्षयफलोक्त्या पादादिसङ्गतिः । पूर्वपक्षे दुरितफलभोगमपेक्ष्य ब्रह्मधियो मोक्षहेतुत्वम् ।
सिद्धान्ते स्वोत्पत्तिनान्तरीयकत्वेन तस्यास्तद्धेतुत्वमित्युपेत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
फलनाश्यत्वाददृष्टस्य फलदानं विना नाशो नास्तीत्यर्थः ।
फलार्थत्वं कथमस्य सिद्धं, तत्राह -
फलेति ।
‘ब्राह्मणो न हन्तव्यः', ‘न कलञ्जं भक्षयेत्’ इत्यादिनिषेधानुपपत्त्या दुरितस्यानिष्टफलत्वं सिद्धमित्यर्थः ।
उक्तमेव स्फोरयति -
यदीति ।
तदित्यनिष्टकर्मोक्तिः ।
‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इतिस्मृतेरपि फलभोगं विना न नाशो दुरितस्येत्याह -
स्मरन्तीति ।
भोगादृते कर्म न क्षीयते चेत्प्रायश्चित्तविध्यानर्थक्यमिति शङ्कते -
नन्विति ।
तद्विधीनां दोषनिर्हरणार्थत्वाभावान्मैवमित्याह -
नेति ।
यथा यस्याहिताग्नेरग्निर्गृहान्दहेदिति प्राप्ते गृहदाहवत्याहिताग्नावधिकारिणि ‘अग्नयेक्षामवते पुरोडाशमष्टाकपालं निर्वपेत्’ इति क्षामवतीष्टिर्विधीयते तथा पापसम्बन्धिनि नरे प्राप्ते ‘ब्रह्महा द्वादशवार्षिकं चरेत्’ इत्यादिप्रायश्चित्तानि विधीयन्ते । तस्माद्ब्रह्महेत्यादिविशेषणमधिकारिव्यावृत्तिपरं न फलपरमित्यर्थः ।
गृहदाहेष्ट्यादिवदित्यत्रादिपदेन भिन्ने जुहोति स्कन्ने जुहोतीत्यादिनैमित्तिकग्रहणं युक्तम् । गृहदाहादेर्निष्पन्नत्वेन निष्पादयितुमशक्यत्वादधिकारिव्यावृत्त्यर्थत्वं दुरितनिवृत्तेस्तु कर्तुं योग्यत्वादिष्टसाधनत्वबोधी प्रायश्चित्तविधिस्तत्फलः स्यादित्याशङ्क्य प्रायश्चित्तानां दोषनिवृत्तिफलत्वमुपेत्य प्रकृते वैषम्यमाह -
अपिचेति ।
मोक्षशास्त्रप्रामाण्यानुपपत्त्या विद्यया दुरितनिवृत्तिरेष्टव्येति शङ्कते -
नन्विति ।
दुरितफलभोगानन्तरं शास्रप्रामाण्यादेव मोक्षसिद्धेर्न तच्छास्त्रविरोधोऽस्तीत्याह -
नेतीति ।
ब्रह्मज्ञानस्य प्रायश्चित्तेभ्यो वैषम्ये दुरितानिवर्तकत्वेऽपि मोक्षशास्त्राविरोधे च फलितमाह -
तस्मान्नेति ।
न ब्रह्मविद्या दुरितनिबर्हणहेतुरिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -
एवमिति ।
विभागहेतुं प्रश्नपूर्वकमादत्ते -
कस्मादिति ।
उत्तराश्लेषविषयत्वेन हेतुं व्याचष्टे -
तथाहीति ।
निषिद्धानाचरणाद्व्यर्थं दुरिताश्लेषवचनमितिशङ्कानिरासार्थं विशिनष्टि -
सम्भाव्यमानेति ।
पूर्वस्य कर्मणोे नाशेऽपि हेतुं योजयति -
तथेति ।
सगुणविद्यायामश्लेषविनाशवचनमुदाहृत्य निर्गुणविद्यायामुदाहरति -
अयमिति ।
कर्माश्लेषस्यापि तत्क्षयवचनमुपलक्षणम् । एवं सिद्धान्तमुपपाद्य परोक्तमनुवदति -
यदुक्तमिति ।
ज्ञानात्कर्मदाहादिपक्षे शास्त्रविरोधं प्रत्याह -
नेत्यादिना ।
कर्मणो नास्ति फलदाने शक्तिरिति साधने वा शास्त्रविरोधः सत्यामेव तस्यां भोगं विना तन्निवृत्तिसाधने वेति विकल्प्याद्यं दूषयति -
नहीति ।
द्वितीयं प्रत्याह -
सा त्विति ।
कथं तर्हि शास्रविरोधसमाधिः, तत्राह -
शक्तीति ।
यत्तु ‘नाभुक्तं क्षीयते कर्म’ इत्यादिस्मृतेर्न भोगादृते कर्मक्षयोऽस्तीति, तत्राह -
नहीति ।
अपवादस्तर्हि केनोत्सर्गस्य स्यादिति, तत्राह -
इष्यत इति ।
आदिशब्देन पूर्वत्र प्रावश्चित्तवदत्र विद्योच्यते । ‘ज्ञानिनः सर्वपापानि शीर्यन्ते नात्र संशयः । क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि’ इत्याद्याः स्मृतयः ।
प्रायश्चित्तानां न पापक्षयहेतुत्वं गृहदाहेष्ट्यादिवन्नैमित्तिकत्वेन फलान्तरयोगादित्युक्तमनुवदति -
यत्त्विति ।
यथा मलिनः स्नायादित्युक्ते स्नानफलं मलनिवृत्तिर्गम्यते तथा ब्रह्महा द्वादशवर्षिकं व्रतं चरेदित्युक्ते ब्रह्महत्यानिवृत्तिर्व्रतफलं प्रतीयते तेन दृष्टत्यागेनादृष्टकल्पना न युक्तेत्याह -
तदसदिति ।
प्रायश्चित्तानां पापनिवृत्तिफलत्वेऽविद्याया न तथात्वं तद्वत्तन्निवृत्त्युद्देशेन तस्या विध्यभावादित्युक्तमनुद्रवति -
यदिति ।
दोषक्षयोद्देशेन सगुणविद्यासु वा विध्यभावो निर्गुणविद्यायां वेति विकल्प्यति -
अत्रेति ।
प्रथमं प्राह -
सगुणास्त्विति ।
तासामैश्वर्यफलत्वान्न पापक्षयोद्देशेन विधिरित्याशङ्क्याह -
तास्विति ।
विधित्सितविद्यास्तुरेव पाप्मादिनिवृत्तिश्रुतिरित्याशङ्क्याह -
तयोश्चेति ।
उभयसंयोगित्वेन विद्याविधिसम्भवादित्यर्थः ।
पाप्मदाहादिश्रुतेः स्तुत्यर्थत्वाभावे फलितमाह -
अत इति ।
द्वितीये विध्यभावमुपेत्य विद्यास्वभावादेव पापक्षयफलत्वमाह -
निर्गुणायां त्विति ।
विमतमात्मन्यशेषदुरितनिवर्तकं दुरितकर्तृत्वादिबाधकत्वात्स्वप्नदुरितकर्तृत्वादिबाधकतया तत्कालीनदुरितबाधकजाग्रद्बोधवदिति भावः ।
सर्वत्रापि दुरितनिवर्तकस्य तुल्यत्वाद्दाहाश्लेषविभागोक्तिरयुक्तेत्याशङ्क्याश्लेषोक्तेर्गतिमाह -
अश्लेष इति चेति ।
सर्वमपि व्यापारं कार्यकरणसङ्घाताश्रयं पश्यन्नविक्रियब्रह्मात्मदर्शी कर्तृत्वमेव स्वस्य न मन्यते । नच परकर्तृकेण पापेन लिप्यते स्वयमित्यर्थः ।
विद्योत्पत्तेरूर्ध्वं कर्तृत्वाभिमानाभावेऽपि प्राग्भावात्कथं कर्मनिवृत्तिरित्याशङ्क्य दाहोक्तिमुपपादयति -
अतिक्रान्तेष्विति ।
विद्याधीनं कर्मनाशं विद्यावदनुभवानुसारेण विवृणोति -
पूर्वेति ।
मोक्षशास्त्रानुपपत्त्यापि विद्याधीना पापहानिरित्याह -
एवमेवेति ।
योगप्रभावाद्युगपदनेकदेहनिर्माणेनापर्यायेण सर्वकर्मफलोपभोगे मुक्तिर्युक्तेत्याशङ्क्याह -
अन्यथेति ।
कर्मणां नियतकालविपाकत्वाद्युगपदुपभोगायोगादुपभोगस्यापि कर्मान्तरसञ्चयमन्तरेणासम्भवात्कल्पशतातिक्रमकालभोग्यानामधुना भोक्तुमयुक्तत्वाद्दीर्घकालानां च परिमितकालभोगानुपपत्तेर्न विद्यातिरेकेण निःशेषकर्मनिवृत्तिरित्यर्थः ।
सत्स्वपि कर्मान्तरेषु मोक्षहेतुकर्मवशान्मोक्षमनुभूय कर्मान्तरफलानि पश्चाद्भोक्ष्यन्त इत्याशङ्क्याह -
नचेति ।
दृष्टफलत्वाच्च विद्याया न तत्फलस्य कालान्तरापेक्षा येनोत्पन्नविद्योऽपि कर्मफलान्यनुभूय पश्चान्मुच्येतेत्याह -
परोक्षेति ।
श्रुतिस्मृतिन्यायसिद्धमुपसंहरति -
तस्मादिति ॥ १३ ॥
ज्ञानात्पापनिवृत्तिमुक्त्वा तस्मादेव पुण्यनिवृत्तिमतिदिशति -
इतरस्यापीति ।
अधिकरणस्यापूर्वविषयतां वक्तुं वृत्तं कीर्तयति -
पूर्वस्मिन्निति ।
पुण्यं कर्म विषयस्तत्किं ब्रह्मधिया न क्षीयते क्षीयते वेति पू्र्ववत्कर्मणां फलान्तत्वप्रतीतेर्ज्ञानाद्दाहप्रतीतेश्च संशये पादादिसङ्गतिरतिदेशे पृथङ्न वाच्येति मन्वानोऽधिकां शङ्कामाह -
धर्मस्येति ।
न सुकृतज्ञाने बाध्यबाधकभूते चोदनालक्षणत्वादग्निहोत्रदर्शपूर्णमासवत् । नच क्षीयन्ते चेत्यादिविरोधस्तस्य सामान्योपाधौ प्रवृत्तस्य सर्वे पाप्मान इति विशेषानुसारेण पापकर्मणि सङ्कोचात्पूण्यपापे विधूयेति पुण्यं फलोपभोगेन पापं ज्ञानेन विधूयेति नियमतो विद्यावतः सुकृताधीनः संसारः स्यादिति भावः ।
अधिकाशङ्क्यामनूद्य सिद्धन्तयति -
इत्याशङ्क्येति ।
अतिदेशसूत्रपदानि व्याकरोति । -
इतरस्यापीति ।
शास्त्रीयत्वेन तयोर्विरोधो नास्तीत्युक्तमिति शङ्कते -
कुत इति ।
अग्निहोत्रदर्शपूर्णमासयोरविरुद्धफलत्वान्न निवर्त्यनिवर्तकभावो न शास्त्रीयत्वादित्यभिप्रेत्य हेतोरप्रयोजकत्वमाह -
तस्यापीति ।
पापं दृष्टान्तयितुमपिशब्दः ।
कालात्ययापदिष्टत्वाच्च नानुमानमित्याह -
उभे इति ।
विमतं तत्त्वधीनिवर्त्यं तद्विरुद्धत्वाद्दुरितवदितिप्रत्यनुमानविरोधाच्चायुक्तमनुमानमित्याह -
अकर्त्रात्मेति ।
सामान्यश्रुतिविरोधाच्चानुमानासिद्धिरित्याह -
क्षीयन्ते चेति ।
यत्तु सामान्यशास्त्रस्य सर्वे पाप्मान इति विशेषश्रुत्या पाप्मकर्मणि सङ्कोचः स्यादिति, तत्राह -
यत्रेति ।
पाप्मशब्दस्य निकृष्टफलकर्मविषयत्वादुत्कुष्टफलं कर्म कथं तेन गृह्यते, तत्राह -
ज्ञानेति ।
वृद्धप्रयोगाभावे कथमुपचारेणापि पाप्मशब्दः सुकृते स्यात् , तत्राह -
अस्तीति ।
तत्रापि पाप्मशब्दस्य सुकृतविषयत्वमसिद्धमित्याशङ्क्य प्रक्रममनुसृत्याह -
सहेति ।
यत्तु पुण्यपापे विधूयेत्यत्र पुण्यं फलभोगेन पापं विज्ञानेन विधूयेति विभजनं तन्नाश्रुतकल्पनाहेत्वभावादिति मत्वा ज्ञानसामर्थ्यादशेषकर्मक्षये तदश्लेषे च फलितमर्थं सूत्रावयवमवतार्य व्याकुर्वन्नाह -
पाते त्वितीति ।
एतेन फलमधिकरणयोरुक्तम् ॥ १४ ॥
तत्त्वज्ञानेन सर्वकर्मणामौत्सर्गिको लयो व्याख्यातः । संप्रत्यारब्धकर्मविषये तदपवादं दर्शयति -
अनारब्धेति ।
वृत्तं कीर्तयन्नधिकरणस्य विषयमाह -
पूर्वयोरिति ।
ज्ञानाधीनं कर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -
स किमिति ।
श्रौती ब्रह्मधीरप्रतिबद्धैव फलदेत्यभिधानात्पादादिसङ्गतिः । पूर्वपक्षे क्षेमप्राप्तेरवधिकरणासिद्धिः ।
सिद्धान्ते विदुषोऽपि प्रारब्धकर्मणा कञ्चित्कालमवस्थानात्तत्सिद्धिरित्यङ्गीकृत्य पूर्वाधिकरणन्यायेनपूर्वपक्षयति -
तत्रेति ।
सिद्धान्तसूत्रमवतार्य व्याकरोति -
एवमिति ।
सौत्रावधारणार्थमाह -
न त्विति ।
अर्धभुक्तफले कर्मणी कार्यद्वारा विशिनष्टि -
याभ्यामिति ।
विद्याशङ्क्त्यनुगृहीताविशेषश्रुतेर्विद्वद्देहारम्भकयोरपि कर्मणोर्नाशः स्यादित्याक्षिपति -
कुत इति ।
श्रुत्योत्तरमाह -
तस्येति ।
कथमेतावता कर्मशेषसिद्धिः, तत्राह -
इतरथेति ।
ज्ञानसमकालमेव सर्वकर्मक्षयान्मोक्षे ज्ञानमेव क्षेमप्राप्तेरवधिरिति न देहपातं तदवधिमभिदधीत । तथाच श्रुताववध्यन्तरकरणलिङ्गाज्ज्ञानादूर्ध्वमपि शरीरमनुवर्तमानं कर्मशेषं गमयति तदभावे तदनुवृत्तेरनुपपत्तेरित्यर्थः ।
विद्याया दृष्टसामर्थ्येन कर्मक्षयहेतुत्वान्न शास्त्रेण तन्निराकरणं दृष्टविरोधिनस्तस्य ग्रावप्लवनश्रुतिवदप्रामाण्यदिति शङ्कते -
नन्विति ।
दाहकसंनिध्यविशेषे दाहव्यवस्थासिद्धिरित्यत्र दृष्टान्तमाह -
नहीति ।
तस्य तावदेव चिरमिति विदुषो देहपातावधिकरणलिङ्गम् ।
उद्दालकादीनां तत्त्वविदामेव देहधारणविषयैः श्रुतिस्मृतिलिङ्गैस्तत्त्वविद्भिरपि गुरुभिः शिष्याणां सम्बन्धान्यथानुपपत्त्या चानुगृहीतं मन्त्रादिप्रतिबद्धस्याग्नेरदाहकत्ववज्ज्ञानस्य सर्वकर्मक्षये शक्तस्याप्यारब्धकर्मनिवृत्तौ प्रतिबन्धं कल्पयतीत्याह -
उच्यत इति ।
किञ्च ज्ञानार्थं कर्म स्वयमेव देहमारभ्य ज्ञानं तस्मिन्करोति कर्मान्तरारब्धे वेति विकल्प्याद्यं दूषयति -
नेति ।
नहि ज्ञानार्थस्य कर्मणो देहारम्भकत्वं कल्प्यं गौरवात्तेन कर्मान्तरारब्धे देहे ज्ञानोत्पत्तिरित्यर्थः ।
न द्वितीयः । तथा सति ज्ञानस्योपजीव्यकर्मबाधकत्वानुपपत्तेरित्याह -
आश्रिते चेति ।
अकर्त्रात्मज्ञानं कर्मनिदानमज्ञानं निवर्तयत्युपादानाभावे च कथं कर्मानुवृत्तिः, तत्राह -
अकर्त्रात्मेति ।
कर्माण्यपीति सम्बन्धः । सोपादानानि कर्माण्युच्छिन्नानि चेत्कथमारब्धकर्मानुवृत्तिः, तत्राह -
बाधितमिति ।
स्मृतिहेतुत्वेऽपि संस्कारस्याविद्यावच्चैतन्यदोषत्वादपरोक्षभ्रमहेतुतेत्यभिप्रेत्य संस्कारवशादित्युक्तम् । विप्रतिपन्नान्प्रति जीवन्मुक्तिमुक्त्वा शिष्यान्प्रत्याह -
अपिचेति ।
जीवन्मुक्तिः सप्तम्यर्थः ।
विवादायोगे हेतुमाह -
कथं हीति ।
प्रमाणवत्त्वादपि जीवन्मुक्तिः स्वीकार्येत्याह -
श्रुतीति ।
उक्तमुत्सर्गापवादमुपसंहरति -
तस्मादिति ॥ १५ ॥
विद्याजन्यकर्मक्षयस्यारब्धकर्मस्वपवादमुक्त्वाऽनारब्धकर्मस्वपि केषुचित्तदपवादं दर्शयति -
अग्निहोत्रादीति ।
वृत्तसङ्कीर्तनपूर्वकमधिकरणस्य तात्पर्यमाह -
पुण्यस्येति ।
अग्निहोत्रादिनित्यनैमित्तिककर्माणि विषयः । तेषामितरवज्ज्ञानेनाश्लेषविनाशौ स्यातां न वेति साधारणश्रुतेर्विविदिषाश्रुतेश्च संशये सुकृतशब्दस्य सर्वपुण्यविषयत्वादग्निहोत्रादीनामपि पुण्यान्तरवद्विनाश्यत्वात्पङ्कक्षालनन्यायापातादारुरुक्षुणापि तानि नानुष्ठेयानीति प्रापय्य सिद्धान्तयति -
इत्याशङ्क्येति ।
अत्र च ब्रह्मविद्यासामर्थ्यान्न नित्यनैमित्तिकनिवृत्तिस्तेषां तदुत्पत्त्यर्थत्वादित्यापवादिकी पादादिसङ्गतिः पूर्वपक्षे लौकिकन्यायादारुरुक्षोरपि नित्याद्यननुष्ठानम् ।
सिद्धान्ते तदनवतारात्पूर्वं ज्ञानोत्पत्तेस्तदनुष्ठाध्रौव्यमित्यभिप्रेत्य सूत्रं व्याचष्टे -
तुशब्द इति ।
धीनाश्यानामपि कर्मणामनुष्ठानस्य विद्योत्पत्त्यर्थतया पङ्कप्रक्षालनन्यायानवकाशात्पूर्वं ज्ञानादनुष्ठेयान्यग्निहोत्रादीनीति सिद्धान्तप्रतिज्ञां विवृणोति -
यदिति ।
अग्निहोत्राद्यनुष्ठानस्य विद्योत्पत्त्यर्थत्वे प्रमाणं पृच्छति -
कुत इति ।
तत्र विविदिषावाक्यं प्रमाणयति -
तमेतमिति ।
कर्मणां विद्योत्पत्त्यर्थत्वेऽपि न तयैककार्यतेति शङ्कते -
नन्विति ।
परमतेन परिहरति -
नेत्यादिना ।
स्वमतं दर्शयितुं शङ्कयति -
नन्विति ।
स्वमतेन समाधत्ते -
नेत्यादिना ।
आरादुपकारकत्वं स्फोरयति -
ज्ञानस्येति ।
किंविषयमिदं कार्यैकत्ववचनं तदाह -
अत इति ।
यतो विद्याकाले परस्ताद्वा कर्म नास्ति प्रागेव तदस्तित्वमत एवेति यावत् ।