अद्वैतशारदा

न्यायनिर्णयव्याख्या

४ परिच्छेदः

पूर्वा­ध्या­या­न्ति­मा­धि­क­रणे मोक्षे प्रतिनियमाभावो दर्शितः । सम्प्रति मोक्षौ­प­यि­क­वि­द्या­सा­ध­नेषु श्रव­णा­दि­ष्वा­वृ­त्त्या­नु­ष्ठा­न­प्र­ति­नि­यमं दर्शयति -
आवृत्तीति ।

पूर्वो­त्त­रा­ध्या­ययोः सम्बन्धं हेतुहेतुमद्भावं वक्तुं तार्ती­य­म­र्थ­म­नु­द्र­वति -
तृतीय इति ।

साध­न­वि­चा­र­शे­ष­द्यो­त­नाय प्राये­णे­त्यु­क्तम् । साध­ना­धी­न­त्वा­त्फ­लि­द्धे­स्त­द्वि­चा­र­यो­रपि युक्तं पौर्वा­प­र्य­मि­त्या­श­य­वा­नाह -
अथेति ।

कथं तर्ही­हा­र्चि­रा­दि­व­च­न­मि­त्या­शङ्क्य फलो­क्ति­प्र­स­ङ्गेन तदुक्तिरपि भविष्यतीत्याह -
प्रसङ्गेति ।

अध्या­य­स­म्ब­न्ध­मुक्त्वा तद­धि­ग­मा­धि­क­र­णा­त्प्रा­क्त­ना­धि­क­र­णानां तात्पर्यं दर्श­य­न्न­वा­न्त­र­स­म्ब­न्ध­माह -
प्रथममिति ।
साक्षादेव श्रुत्युक्तं साधनं चिन्तितम् । अधुना फला­र्था­प­त्ति­ल­ब्ध­मा­वृ­त्त्यादि चिन्त्यते तद­र्था­प­त्त्या­यत्ता च तच्चिन्ता फलाध्याये सङ्गतैवेति भावः ।

प्रथमाधिकरणस्य विषयमनूद्य संशयमाह -
आत्मेति ।
साध­ने­षू­भ­य­था­त्व­दृष्टेः श्रवणादिसाधनेषु संशयमुक्त्वा मुक्ति­हे­तु­श्रौ­ता­त्म­धीसा धन­श्र­व­णा­दि­ष्वा­वृ­त्त्याऽ­नु­ष्ठा­न­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे श्रव­णा­दी­ना­म­दृ­ष्टा­र्थ­त्वम् ।

सिद्धान्ते दृष्टार्थतैव तेषां फल­ती­त्य­ङ्गी­कृत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
यथा प्रयाजादयः सकृदनुष्ठिता दर्श­पू­र्ण­मा­स­फ­लो­प­का­रि­ण­स्तथा श्रव­णा­दि­प्र­त्य­योऽपि सकृदनुष्ठितः सम्य­ग्धी­हे­तु­रि­त्या­न­र्थ­क्य­मि­त्यर्थः ।

अव­घा­ता­दि­व­त्फ­ल­प­र्य­न्त­मा­वृ­त्त्य­नु­ष्ठा­न­मा­श­ङ्क्याह -
तावतेति ।

शास्त्रस्य सकृदनुष्ठानेन कृतार्थत्वेऽपि तत्प­र्य­न्त­म­नु­ष्ठानं किं न स्यात् , तत्राह -
अश्रू­य­मा­णा­या­मिति ।

दर्शनक्रियायाः साध­ना­का­ङ्क्षायां सकृदेव साधनोपदेशेन नैराकाङ्क्ष्ये सम्भ­व­त्य­स­कृ­दु­प­दे­शा­नु­प­पत्त्या तात्प­र्य­मा­वृत्तौ कल्प्यते तथाच नाशास्त्रार्थः कृतः स्यादिति शङ्कते -
नन्विति ।

समुच्चितानां श्रवणादीनां साध­न­त्व­धि­या­प्य­स­कृ­दु­प­दे­शो­प­प­त्ते­र­वि­रो­धा­न्ना­वृत्तौ तात्पर्यमित्याह -
एवमिति ।

निर्वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­र­फ­लेषु श्रव­णा­दि­ष्वा­वृ­त्ति­म­पा­कृत्य सवि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­र­फ­ले­ष्व­ह­ङ्ग्र­हो­पा­स­ने­ष्वा­वृ­त्ति­म­पा­क­रोति -
सकृदिति ।

श्रव­णा­दी­ना­म­ह­ङ्ग्र­हो­पा­स्तीनां च प्रया­जा­दि­व­द­नु­ष्ठा­ना­द­दृ­ष्टा­र्थ­तेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।

आवृत्तौ हेत्व­भा­व­मा­शङ्क्य हेतुमवतार्य व्याचष्टे -
कुत इत्यादिना ।

पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।

अवि­द्यो­च्छे­दे­ना­त्मनः स्वरू­पा­व­स्था­न­रू­पाया मुक्तेः श्रुत्य­नु­भ­व­सि­द्ध­त्वा­द­वि­द्या­याश्च विद्या­ना­न्त­री­य­क­त­यो­च्छे­दस्य रञ्जु­त­त्त्व­सा­क्षा­त्का­रादौ दृष्टत्वेन श्रवणादीनां दृष्ट­फ­ल­त्वा­द्या­व­त्फ­ल­म­व­घा­ता­दि­व­दा­व­र्त­नी­यनि तानीत्याह -
नेत्यादिना ।

उक्तमेव स्फोरयति -
दर्शनेति ।

यत्त्व­ह­ङ्ग्र­हो­पा­स­नेषु सकृ­दु­क्ते­ष्वा­वृ­त्ति­श­ङ्कैव नास्तीति, तत्राह -
अपिचेति ।
यस्य स्यादद्धा न विचिकित्साऽस्ति देवो भूत्वा देवानप्येतीति लिङ्गा­द­ह­ङ्ग्र­हो­पा­स्ती­ना­मु­पा­स्य­सा­क्षा­त्का­र­द्वारा दृष्टार्थत्वस्य वक­व्य­त्वा­द्या­व­त्फ­ल­मा­वृ­त्ति­स्ता­स्वपि गम्यते शब्द­सा­म­र्थ्याच्च तास्वा­वृ­त्ति­रि­त्यर्थः ।

अन्त­र्णी­ता­वृ­त्ति­गु­ण­मु­पा­स­न­मि­त्यत्र लोकसंमतिमाह -
तथाहीति ।

ध्यानमपि तथाविधमित्यत्र तामेव दर्शयति -
तथेति ।

उपा­स­न­श­ब्द­श्रु­ता­वा­वृ­त्ति­सि­द्धा­वपि वेदे­त्या­दि­प्र­योगे कथं तत्सि­द्धि­रि­त्या­श­ङ्क्याह -
विदीति ।

विदि­नो­प­क्र­म्यो­पा­सि­नो­प­सं­हारे संव­र्ग­वि­द्या­मु­दा­ह­रति -
यथेति ।
स रैक्वो यद्वेद तत्प्राणतत्वं सर्वं धर्म­फ­ल­म­भि­स­ङ्ग­च्छते । एवं रैक्ववदन्योऽपि यद्रैक्ववेद्यं वेद तस्यापि सर्व­सा­धु­फ­ला­वा­प्ति­र्भ­वति स तथाभूतो रैक्वो मयोक्तः । एतदिति क्रियाविशेषणम् । रैक्वमिव जानश्रुतिमल्पकं किमात्थेति हंसान्तरं प्रति हंसवचनम् । हे भगवो रैक्व, यां देवतामुपास्से तामेतां मामनुशाधि शिक्षय ज्ञापयेति जान­श्रु­ते­रुक्तिः । अत्रो­प­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्य­सि­द्धये विद्यु­पा­स्त्यो­रै­कार्थ्यं वाच्यम् ।

उपासिनोपक्रम्य विदिनोपसंहारे दृष्टान्तमाह -
यथेति ।

विद्यु­पा­स्त्यो­रै­क्य­मु­पा­स्ति­श्चा­वृ­त्ति­गु­णेति स्थिते फलितमाह -
तस्मादिति ।

श्रव­णा­दि­ष्वा­वृत्तेः शब्द­सा­म­र्थ्य­ल­भ्य­त्वा­भा­वा­त्कथं तेषु तत्सिद्धिः, तत्राह -
असकृदिति ॥ १ ॥

विष­य­मा­क्षा­त्का­र­फ­लेषु प्रत्य­ये­ष्वा­वृत्तौ हेत्वन्तरमाह -
लिङ्गाच्चेति ।
न केव­ल­म­स­कृ­दु­क्ते­रा­वृ­त्ति­सि­द्धि­रपि तु लिङ्गा­द­पी­त्यर्थः ।

तदेव विवृणोति -
लिङ्गमपीति ।
हे पुत्र, त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयादिति तकारमन्तर्भाव्य पर्या­व­र्त­य­ता­दिति मध्यमैकवचनं त्वंयोगात् । पर्या­व­र्त­यो­पा­स्वे­त्यर्थः । आदि­त्य­स्यै­क­स्यै­वो­द्गीथे सम्पा­द्यो­पा­स­ना­त्त्व­मेको मे पुत्रोऽसि त्वं तु रश्मीनुद्गीथे सम्पाद्य पर्या­व­र्त­य­ता­त्ततो बहवस्ते पुत्रा भवि­ष्य­न्ती­त्यत्र सिद्ध­व­त्प्र­त्य­या­वृ­त्ति­र्द­र्शि­ते­त्ये­त­ल्लि­ङ्ग­मि­त्यर्थः ।

उद्गी­थ­प्र­त्य­या­वृ­त्ता­वपि कथं प्रत्ययान्तरेषु तत्सिद्धिः, तत्राह -
तदिति ।
तेन प्रकृ­ते­नो­द्गी­थ­प्र­त्य­येन साक्षा­त्का­र­फ­ल­तया ध्यानत्वेन वा सादृश्यादिति यावत् । सर्व­प्र­त्य­ये­ष्व­ह­ङ्ग्र­हो­पा­स­ना­दिषु श्रवणादिषु चेत्यर्थः ।

अधि­क­र­णा­र्थ­मुक्त्वा तस्य निर्गु­ण­ब्र­ह्म­वि­ष­य­त्व­मा­क्षि­पति -
अत्रेति ।

अह­ङ्ग्र­हो­पा­स्तयः श्रवणादयश्च सवि­शे­ष­नि­र्वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­र­फ­ला­स्ता­व­दि­हो­दा­ह­रणं तत्रा­ह­ङ्ग्र­हो­पा­स्ति­ष्वा­वृ­त्ति­म­ङ्गी­क­रोति -
भवत्विति ।

श्रवणादिषु तां निराचष्टे -
यस्त्विति ।
निर्गु­ण­ब्र­ह्म­ण्या­प­रो­क्ष्या­ति­शयः साध्यो नास्ति तस्य नित्या­प­रो­क्ष­त्वा­त्तेन तत्र श्रव­णा­द्या­वृ­त्ति­र­न­र्थि­के­त्यर्थः ।

ब्रह्मणो नित्या­प­रो­क्ष­त्वेऽपि ताव­ताऽ­वि­द्या­ध्व­स्ते­र­भा­वा­त्त­द­र्थ­मा­ग­न्तुकः साक्षात्कारः श्रव­णा­द्या­वृ­त्ति­सा­ध्योऽ­स्तीति शङ्कते -
सकृदिति ।

पूर्ववाद्याह -
न । आवृत्ताविति ।

अनुपपत्तिमेव प्रकटयति -
यदीति ।
ज्योति­ष्टो­मा­दि­वा­क्य­व­दा­वृ­त्ति­म­दपि तत्त्व­मा­दि­वाक्यं न स्वार्थे साक्षा­त्का­र­क्ष­म­मि­त्यर्थः ।

युक्ति­प्र­स­ङ्ख्या­न­स­हितं वाक्यं स्वार्थे साक्षात्कारं जनयेदित्याह -
अथेति ।

युक्ति­सा­हि­त्य­मु­पे­त्या­वृत्तिं प्रत्याह -
तथापीति ।

आवृ­त्ते­र­र्थ­वत्त्वं समर्थयमानः स्वयू­थ्य­श्चो­द­यति -
अथापीति ।

तदेव दृष्टान्तेन स्पष्टयति -
यथेति ।

शूल­वि­शे­ष­स्या­नु­भ­वा­यो­ग्य­त्वा­दे­व­मि­त्या­श­ङ्क्याह -
यथेति ।

अस्तु प्रस्तुतेऽपि सामान्यधीरेव किं विशे­ष­धि­ये­त्या­श­ङ्क्याह -
विशेषेति ।

स तर्हि भावनाजन्यो वा शास्त्र­यु­क्ति­जन्यो वा । नाद्य­स्त­स्या­मा­न­ज­न्य­त्वे­ना­वि­द्या­ध्वं­सि­त्वा­यो­गा­दिति मत्वा द्वितीयं प्रत्याह -
नेति ।
प्रत्य­क्षा­ति­रि­क्तस्य न साक्षा­त्का­र­हे­तु­ते­त्यर्थः ।

किञ्च युक्तिवाक्ये साक्षा­त्का­र­क्षमे तदक्षमे वा समर्थे चेदा­वृ­त्त्या­न­र्थ­क्यम् । द्वीतीयं निराह -
नहीति ।

साम­र्थ्या­सा­म­र्थ्य­यो­रा­वृ­त्त्या­न­र्थ­क्य­मु­प­सं­ह­रति -
तस्मादिति ।

शास्त्र­युक्त्योः साक्षा­त्का­र­हे­तु­त्वो­प­ग­मेऽपि व्यर्था­वृ­त्ति­रि­त्याह -
नचेति ।

मेय­स्व­भा­वा­नु­सा­रे­णा­वृ­त्त्या­न­र्थ­क्य­मुक्त्वा मेय­स्व­भा­वा­लो­च­न­यापि तदानर्थक्यमाह -
अपिचेति ।

यं कञ्चिदधिकारिणं प्रति श्रव­णा­द्या­वृ­त्त्या­न­र्थक्यं चोद्यते सर्वानेव वा प्रतीति विक्ल्पयति -
अत्रेति ।

आद्यमङ्गीकरोति -
भवेदिति ।
ब्रह्म­णोऽ­प­रो­क्ष­त्वा­द्वा­क्यस्य परोक्षबोधित्वे प्रामा­ण्या­यो­गा­द­सति चित्त­वि­क्षे­पा­दि­प्र­ति­बन्धे तस्या­प­रो­क्ष­बो­धि­त्व­मे­वे­त्यर्थः ।

द्वितीयं दूषयति -
यस्त्विति ।
अस­म्भा­व­ना­दि­प्र­ति­बन्धे तन्नि­वृ­त्त्य­र्थ­मा­वृ­त्ति­र­र्थ­व­ती­त्यर्थः ।

तत्र श्रौतं लिङ्गमाह -
तथाहीति ।

सूत्रकृतापि लिङ्ग­म­ङ्गी­कृ­त­मि­त्याह -
तथाचेति ।

पूर्ववादी स्वोक्तं स्मारयति -
नन्विति ।

अनुभवानुसारेण परिहरति -
नेत्यादिना ।

कथ­मा­वृ­त्ते­र­र्थ­वत्त्वं दृष्टं येन नानुपपत्तिः, तत्राह -
दृश्यन्ते हीति ।

वाक्या­र्थ­ज्ञा­नस्य पदा­र्थ­धी­पू­र्व­क­त्वा­त्प­दा­र्थ­योश्च दुर्ज्ञा­न­त्वा­दा­वृत्त्या क्रमेणैव धीरिति हेत्वन्तरमाह -
अपिचेति ।

तत्र तत्प­द­वा­च्य­म­र्थ­माह -
तदिति ।

तस्यैव लक्ष्यमर्थमाह -
सत्यमिति ।

अज­मि­त्या­दि­वा­क्य­स्या­र्थ­माह -
तत्रेति ।

अस्थू­ला­दि­वा­क्य­स्या­र्थ­माह -
अस्थूलादीति ।

सत्य­ज्ञा­ना­दि­वा­क्य­स्या­पु­न­रु­क्त­म­र्थ­माह -
विज्ञानादीति ।

श्रौते तदर्थे विद्वदनुभवमपि प्रमाणयति -
एष इति ।

तत्पदार्थं वाच्यं लक्ष्यं च सप्रमाणमुक्त्वा त्वम्पदार्थमपि विभज्य दर्शयति -
तथेति ।
अवधारितो योऽयं विज्ञानमयः प्राणेषु यः प्राणेन प्राणि­ती­त्या­दि­नेति शेषः ।

स्यातामेतौ पदार्थौ तथापि कथ­मा­वृ­त्ते­र­र्थ­वत्त्वं, तत्राह -
तत्रेति ।

यत्तु मेय­स्या­नं­श­त्वा­दा­वृ­त्त्या­न­र्थ­क्य­मिति, तत्राह -
यद्यपीति ।
आरो­पि­त­व्या­व­र्त्यां­श­बा­हु­ल्या­त्क्र­म­वत्त्वं प्रति­प­त्ते­र­र्थ­व­दि­त्यर्थः ।

तत्त्व­म­सि­वा­क्या­द­ह­म्ब्र­ह्मे­ति­वा­क्या­र्थ­ज्ञाने सति कथं क्रमा­पे­क्षे­त्या­श­ङ्क्याह -
तत्त्विति ।
क्रमेण जातं पूर्व­ज्ञा­न­मा­त्म­सा­क्षा­त्का­रा­त्पू­र्व­का­ल­मेव ततोऽ­स­म्भा­व­ना­दि­नि­रा­स­स­हि­वा­क्यो­त्थ­त­त्त्व­सा­क्षा­त्कारे नास्त्ये­वा­वृ­त्त्य­पे­क्षे­त्यर्थः ।

मन्दमध्यमौ प्रति साक्षा­त्का­रा­त्पूर्वं श्रव­णा­द्या­वृ­त्ते­र­र्थ­व­त्त्व­मु­क्तम् । इदानीमुत्तमं प्रत्या­वृ­त्त्या­न­र्थ­क्य­मुक्तं विवृणोति -
येषामिति ।

उत्पन्नाऽपि धीरा­वृ­त्ति­म­पे­क्षते फला­ये­त्या­श­ङ्क्याह -
सकृदिति ।

उत्पन्ने ज्ञाने यदा­वृ­त्त्या­न­र्थक्यं तद­ङ्गी­कु­र्व­न्नाह -
सत्यमिति ।

वाक्यादीदृशी धीः स्यादि­त्या­श­ङ्क्या­ध्य­क्षा­दि­वि­रो­धा­न्मै­व­मि­त्याह -
बलवतीति ।

सा वाक्यी­य­वि­द्यो­च्छे­य­त्वा­द्भ्रा­न्ति­रि­त्या­श­ङ्क्याह -
अत इति ।
दुःखि­त्वा­दि­प्र­त्य­यस्य सर्वदा सर्वे­षा­मु­त्प­द्य­मा­नस्य बलवत्त्वादेव विद्यो­च्छे­द्य­त्वा­यो­गान्न भ्रान्ति­ते­त्यर्थः ।

तथाविधस्यापि देहा­त्मा­भि­मा­नस्य भ्रान्ति­त्वा­द्दुः­खि­त्वा­द्य­भि­मा­न­स्यापि युक्तिबाधितस्य भ्रान्ति­त्व­सि­द्धे­र्नै­व­मि­त्याह -
नेत्यादिना ।

उक्तं दृष्टान्तं प्रत्य­क्ष­दृ­ष्टा­न्ताभ्यां स्पष्टयति -
प्रत्यक्षं हीति ।

दुःखा­द­य­स्त­त्त्वतो नात्मधर्मा वेद्या­त्वा­त्सं­म­त­व­दिति दार्ष्टा­न्ति­क­माह -
तथेति ।

व्यभि­चा­रि­त्वाच्च दुःखादीनां रूपा­दि­व­त्त­त्त्वतो नात्म­ध­र्म­ते­त्याह -
सुषुप्तेति ।

तर्हि चैतन्यमपि न स्वरू­प­म­न­नु­वृ­त्त­त्वा­द्दुः­खा­दि­व­दि­त्या­श­ङ्क्याह -
चैतन्यस्येति ।

दुःखि­त्वा­दि­धी­र्मि­थ्या­भि­मा­न­श्चै­त­न्य­मे­वा­व्य­भि­चा­रि­स्व­रू­प­मिति स्थिते फलितमाह -
तस्मादिति ।

यथोक्तानुभवे वाक्या­द­वि­रु­द्धेऽपि किमि­त्या­वृ­त्ति­र्ने­ष्यते, तत्राह -
नचेति ।

तस्मा­दे­वा­नु­भ­वा­त्कृ­त­कृ­त्य­ते­त्यत्र मानमाह -
तथाचेति ।
रति­रा­स­क्ति­स्त­त्फलं तृप्ति­स्तृ­प्ते­रपि फलं सन्तोष इति भेदः ।

यत्तु साक्षा­त्का­रा­त्पू­र्व­मा­वृ­त्ते­र­र्थ­व­त्त्व­मुक्तं तदधिकविवक्षया निगमयति -
यस्येति ।
द्रागिति झटिति ।

नियो­ग­ब­ला­दा­वृत्तौ प्रवृ­त्ते­र्नि­यो­गा­र्था­वृ­त्ति­र्ना­नु­भ­वा­र्थे­त्या­श­ङ्क्याह -
तत्रापीति ।
अहं ब्रह्मा­स्मी­ति­प्र­त्य­या­त्प्र­च्याव्य नावृत्तौ पुरुषं प्रव­र्त­ये­त्प्र­धा­न­वि­रो­धात् । अक­र्त्रा­त्मा­नु­भ­वाय हि श्रवणादिविधिर्न नियोगायेत्यर्थः ।

प्रधा­न­वि­रो­धा­योगे दृष्टान्तमाह -
नहीति ।

नियो­गा­र्थ­मा­वृ­त्त्यु­प­ग­मेऽपि तस्मा­दे­वा­क­र्त्रा­त्म­धी­सि­द्धेर्न तद्व्या­ह­ति­रि­त्या­श­ङ्क्याह -
नियुक्तस्येति ।

नियोगानङ्गीकारे कुतः श्रोत­व्या­दि­वाक्यैः श्रव­णा­द्या­वृ­त्ति­सिद्धिः, तत्राह -
यस्त्विति ।
अप्र­ति­भा­ना­द­स­म्भा­व­ना­दि­प्र­ति­ब­न्धा­दिति यावत् । स्थिरी­का­रोऽ­स­म्भा­व­ना­द्य­पो­हे­ना­व­ग­म­दार्ढ्यं वेदो­पा­सी­ते­त्या­वृ­त्ति­र्वा­चो­युक्तिः । आदिशब्देन श्रोत­व्या­दि­वाक्यं गृह्यते ।

अह­ङ्ग्र­हो­पा­स­नेषु श्रवणादिषु च सगु­ण­नि­र्गु­ण­सा­क्षा­त्का­र­फ­ले­ष्वा­वृ­त्त्याऽ­नु­ष्ठा­न­मि­त्य­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
अप­र­ब्र­ह्म­वि­ष­य­प्र­त्यये स्वरू­पा­वृ­त्ति­व­दि­त्य­पे­रर्थः ॥ २ ॥

श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­दि­सा­ध­ना­न्या­वृ­त्त्याऽ­नु­ष्ठे­या­नी­त्यु­क्तम् । तत्र निदिध्यासनकाले कथं प्रत्य­या­वृत्तिः, तत्राह -
आत्मेतित्विति ।

यद्यपि शब्दादेव प्रमित इत्यादिषु जीवब्रह्मैक्यं श्रुतिभिरुक्तं तथापि तासामेव विरु­द्धा­र्थ­त्वा­दु­प­च­रि­त­वि­ष­य­त्व­मा­श­ङ्क्यात्र समाधीयते । विरो­ध­स­मा­धे­र­वि­रो­धा­ध्या­य­स­ङ्ग­त­त्वेऽपि महा­वा­क्या­र्थ­वि­रो­ध­स­माधेः समा­धा­व­न्त­र­ङ्ग­त्वा­दिह सङ्गतिरिति मत्वा विष­यो­क्ति­पू­र्व­क­मु­भ­य­था­प्र­सिद्धेः संशयमाह -
य इति ।

संश­या­भा­वा­द­धि­क­र­ण­मा­क्षि­पति -
कथमिति ।

आत्मशब्दस्य मुख्यार्थत्वे सत्य­भे­द­सि­द्धि­स्त­त्सिद्धौ च तस्य मुख्या­र्थ­त्व­सि­द्धि­रि­त्य­न्यो­न्या­श्र­या­न्मा­ना­न्त­र­वि­रो­धाच्च तन्मु­ख्या­र्थ­त्वा­सि­द्धे­स्त­दा­ल­म्ब­नेन संश­या­ना­क्षे­पा­द­धि­क­र­ण­मा­र­भ्य­मि­त्याह -
उच्यत इति ।
अत्र च विरोधपरिहारफले समाध्युपयोगितया प्रासङ्गिके । ध्यानावस्थायां प्रत्यक्त्वेन ब्रह्म­प्र­ति­प­त्त्य­नु­ष्ठा­नोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुती­ना­मै­क्य­गो­च­रा­णा­मु­प­च­रि­ता­र्थ­त्वम् ।

सिद्धान्ते तासां मुख्यार्थत्वं फल­ती­त्या­श­य­वा­न्वि­मृश्य पूर्वपक्षं गृह्णाति -
किमिति ।
द्वा सुप­र्णे­त्या­दि­भे­द­श्रु­ते­रु­पा­स्यो­पा­स­का­दि­भा­व­भे­द­लि­ङ्गश्च भेद इत्यर्थः ।

युक्तितो भेदमाह -
नहीति ।

तयो­र्वि­रु­द्ध­गु­ण­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह -
अपहतेति ।

किं चाभेदेऽपि किमीश्वरस्य जीवात्मता किं वा जीव­स्ये­श्व­रा­त्म­तेति विकल्प्याद्यं दूषयति -
ईश्वरस्येति ।

द्वितीयं प्रत्याह -
संसारिणोऽपीति ।

अहं सुखी­त्या­द्य­नु­भ­वेन विरु­द्ध­स्व­भा­व­त्वा­द्भेदो दह­न­तु­हि­न­व­दि­त्य­नु­मा­नेन च विरोधान्न तयोरैक्यमित्याह -
प्रत्यक्षादीति ।

एकत्वोपदेशानां तर्हि का गतिरित्याशङ्क्य व्याजेन तद्गतिमाह -
अन्य­त्वेऽ­पी­त्या­दिना ।

तादा­त्म्य­द­र्श­ना­ङ्गी­कारे नास्ति विप्र­ति­प­त्ति­रि­त्या­श­ङ्क्याह -
न त्विति ।

एकत्वश्रुतीनां प्राप्त­मु­प­च­रि­ता­र्थ­त्व­म­नूद्य सिद्धान्तयति -
एवमिति ।

सिद्धान्तसूत्रं योजयति -
आत्मेत्येवेति ।

तत्र मानमाह -
तथाहीति ।

आत्म­त्वो­प­ग­मा­न्त­राणि दर्शयति -
तथेति ।
आदिशब्देन तद्योऽहं सोऽसौ योऽसौ सोऽहमित्यादयो गृह्यन्ते ।

सूत्रा­व­य­व­म­व­शिष्टं व्याचष्टे -
ग्राहयन्तीति ।

परोक्तमनूद्य दूषयति -
यदु­क्त­मि­त्या­दिना ।
एक­त्व­श्रु­ती­ना­म­पू­र्वा­र्थ­त्व­फ­ल­व­त्त्वाभ्यां तात्प­र्य­सि­द्धे­र्मु­ख्य­वृ­त्ति­स­म्भवे गौण­त्वा­यो­गा­द्द्वै­त­श्रु­तीनां तल्लिङ्गानां च तद्वै­प­री­त्या­त्क­ल्पि­त­भे­दा­ल­म्ब­न­त्वा­न्मु­ख्य­मेव जीव­ब्र­ह्म­णो­रै­क्य­मि­त्यर्थः ।

इतश्च नेदं प्रती­क­द­र्श­न­मि­त्याह -
वाक्येति ।

भेदस्य निन्द्य­मा­न­त्वा­च्चा­भे­द­स्यैव प्रति­पा­द्य­ते­त्याह -
भेदेति ।

विरु­द्ध­स्व­भा­व­त्वा­द्भेदो जीव­ब्र­ह्म­णो­रि­त्यु­क्त­म­नूद्य प्रत्याह -
यत्त्विति ।
बिम्ब­प्र­ति­बि­म्ब­व­दु­पा­धि­कृतो विरु­द्ध­ध­र्मा­ध्यासो न वास्तवस्तथा च तात्त्वि­क­मै­क्य­मि­त्यर्थः ।

अभेदेऽपि संसा­र्या­त्म­त्व­मी­श्व­रस्य संसारिणो वा तदात्मत्वमिति विकल्प्याद्ये यद्दूषणं तदनुभाष्य दूषयति -
यत्पुनरिति ।

अनभ्युपगमं विवृणोति -
नहीति ।

द्वितीयं प्रश्न­पू­र्व­क­म­ङ्गी­क­रोति -
किमिति ।

विरु­द्धां­श­हान्या जीवस्य ब्रह्मत्वे प्रतिपाद्ये विरु­द्ध­ध­र्म­त्व­मु­क्त­म­सि­द्ध­मे­वेति फलितमाह -
एवं चेति ।

संसारिणः संसारित्वापोहेन ब्रह्मत्वे साध्ये परोक्तमनूद्य निरस्यति -
यदपीति ।

अधि­का­र्य­भा­वा­दि­रे­क­त्व­ज्ञा­ना­त्पू­र्व­मूर्ध्वं वेति विकल्प्याद्यं निराह -
प्रागिति ।

द्विती­य­म­ङ्गी­क­रोति -
यत्रेति ।

श्रुति­श्र­द्धा­लु­तया शङ्कते -
प्रत्यक्षादीति ।

तत्त्व­ज्ञा­ना­दूर्ध्वं श्रुत्य­भा­व­स्ये­ष्ट­त्वा­न्ना­नि­ष्टा­प­त्ति­रि­त्याह -
नेष्टत्वादिति ।

तदेव स्पष्टयति -
अत्रेति ।

गूढाभिप्रायः सन्पृच्छति -
कस्येति ।

यस्य भ्रान्ति­स्त­स्या­ज्ञा­न­मि­त्याह -
यस्त्वामिति ।

स्वाभिप्रायं पूर्ववादी प्रकटयति -
नन्विति ।

अवि­द्या­त­ज्ज­भ्रा­न्त्यो­र­नि­र्वा­च्य­त्वा­द्बोधे सति तयो­र­स­त्त्वा­न्ना­श्र­या­पे­क्षे­त्याह -
यद्येवमिति ।

अनि­र्वा­च्य­त्वा­द­वि­द्या­या­श्चो­द्या­न्त­र­मपि निरस्तमित्याह -
योऽपीति ।

अभेदश्रुतीनां सिद्धे मुख्यार्थत्वे फलितमुपसंहरति -
तस्मादिति ॥ ३ ॥

आत्म­त्व­म­ति­री­श्वरे कार्येत्युक्तम् । इदानीं प्रती­क­वि­शे­ष­ण­स्या­पी­श्व­र­स्या­त्म­त्वा­त्त­द्द्वारा प्रती­के­ष्वा­त्म­त्व­धी­रिति प्राप्ते प्रत्याह -
न प्रतीक इति ।

प्रती­को­पा­स­ना­न्यु­दा­हृ­त्यो­पा­स्ति­षू­भ­य­था­दृष्टेः संशयमाह -
मन इत्यादिना ।

जीवब्रह्माभेदं पूर्वो­क्त­मु­प­जीव्य ब्रह्म­दृ­ष्टि­भाक्षु प्रतीकेषु ब्रह्मा­भि­न्न­जी­व­दृ­ष्टि­र­ह­मिति कार्येति प्रश्नपूर्वकं पूर्वपक्षमाह -
किं तावदिति ।
अत्र प्रास­ङ्गि­का­हं­म­ति­नि­रा­सेन प्रतीकोपास्तिषु प्रयो­ग­भे­दोक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे प्रती­को­पा­स्ती­ना­म­ह­ङ्ग्र­हो­पा­स्ति­भि­र­वि­शेषः, सिद्धान्ते विशेषः सिध्य­ती­त्य­ङ्गी­कृत्य पूर्वपक्षे हेतुं पृच्छति -
कस्मादिति ।

प्रती­के­ष्वा­त्म­त्व­ग्रहे तेषा­मा­त्म­त्वो­प­प­त्ति­हे­तु­माह -
ब्रह्मण इति ।

तस्यात्मत्वेऽपि तेषां कथमात्मत्वं, तत्राह -
प्रतीकानामिति ।
ब्रह्म­धी­यु­क्तानि प्रतीकान्यहमिति ग्राह्याणि ब्रह्मा­भि­न्न­त्वा­त्त­द्व­दि­त्यर्थः ।

द्विवि­धो­पा­स्ति­ष्व­वि­शेषे प्राप्ते सिद्धान्तमाह -
एवमिति ।

न प्रती­के­ष्वा­त्म­मतिं कुर्या­दै­क्य­चो­द­ना­भावे सति स्वतो भिन्न­त्वा­दु­द्गी­था­दि­व­दि­त्याह -
नेत्यादिना ।

यत्तु ब्रह्म­रू­प­त्वा­द­ह­मिति ग्राह्यणीति तत्र किमा­त्म­त्वा­नु­भ­वा­दा­त्म­त्वेन ग्राह्माणि किं वा माना­न्त­र­सि­द्ध­त्वात् । नाद्य इत्याह -
नहीति ।

द्वितीयमनूद्य दूषयति -
यदिति ।

प्रसङ्गभेव प्रकटयति -
विकारेति ।

तथापि को दोषः, तत्राह -
स्वरूपेति ।
वस्तुवृत्तेन विकाररूपेण नामादीनां ब्रह्म­त्वा­यो­गा­ज्जी­व­त्व­ल­येन जीवस्य ब्रह्म­त्वो­क्ति­व­त्प्र­ती­क­त्व­ल­येन तेषामपि ब्रह्म­त्वो­क्ता­वा­ल­म्ब­ना­भा­वा­दु­पा­स्ति­वि­धिर्न स्यादित्यर्थः ।

यत्तु ब्रह्मत्वे सत्या­त्म­त्व­मिति, तत्राह -
नचेति ।

प्रतीकोपदेशेषु कथं कर्तृ­त्वा­द्य­नि­रा­क­रणं तदाह -
कर्तृत्वादीति ।

तन्निराकरणे तद्विधिरेव न स्यादिति भावः । प्रतीकानां जीवस्व च परिच्छिन्नतया साम्यं गृहीत्वा फलितमाह -
अतश्चेति ।

सत्यपि तुल्यत्वे किमिति जीवस्य तेषु विधि­व­शा­द­ह­ङ्ग्रहो न स्यात् , तत्राह -
नहीति ।

स्वरू­पे­णै­क्या­भा­वेऽपि रुचकस्वस्तिकयोः सुव­र्णा­त्म­नै­क्य­व­दि­हापि ब्रह्मा­त्म­नै­क्या­द­ह­ङ्ग्रहः स्यादि­त्या­श­ङ्क्याह -
सुवर्णेति ।
विका­र­रू­प­ति­र­स्का­रे­णैक्ये न प्रती­क­ते­त्यु­क्त­मि­त्यर्थः ।

रुच­क­स्व­स्ति­क­यो­रपि मिथो­व्या­वृ­त्त­यो­र्ना­नु­वृ­त्त­सु­व­र्णा­द्या­त्म­त्व­क­ल्प­ना­मृते सिध्यतीति सिद्ध­व­त्कृ­त्यो­प­सं­ह­रति -
अत इति ॥ ४ ॥

अह­ङ्ग्र­हो­पा­स­ने­ष्विव प्रती­को­पा­स­ने­ष्व­ह­ङ्ग्र­हे­णा­नु­ष्ठानं नेत्युक्तम् । इदानीं प्रती­को­पा­स­ने­ष्वेव क्व किन्दृ­ष्टि­र­ध्य­स्य­ता­मिति सन्दिहानं प्रत्याह -
ब्रह्म­दृ­ष्टि­रिति ।

एक­वि­ष­य­त्वे­ना­धि­क­र­णयोः सङ्गति मन्वानो विषयसंशयौ दर्शयति -
तेष्वेवेति ।

प्रश्नपूर्वकं संशयबीजमाह -
कुत इति ।

उक्तमेव व्यक्तीकर्तुं सामा­ना­धि­क­र­ण्य­धियं तावद्दर्शयति -
अत्रेति ।

तथापि यथाकथञ्चिदस्य सामा­ना­धि­क­र­ण्यस्य सम्भवे कुतः संश­य­सि­द्धि­रि­त्या­शङ्क्य सोऽय­मि­ति­व­दे­क­त्व­नि­मित्तं वा प्रकृ­ति­वि­का­र­त्व­नि­मित्तं वा समारोपकृतं वा तदिति विकल्प्याद्यं दूषयति -
नचेति ।

भिन्ना­र्थ­श­ब्देषु तदभावमुदाहरति -
नहीति ।

द्वितीयमादत्ते -
नन्विति ।

उपा­स्ति­वि­रो­धा­न्मै­व­मि­त्याह -
नेतीति ।

प्रविलयपरमेव वाक्यं नोपा­स्ति­प­र­मि­त्या­श­ङ्क्यो­पा­सी­ते­ति­श्रु­ति­वि­रो­धा­न्मै­व­मि­त्याह -
परमात्मेति ।

प्रप­ञ्च­प्र­वि­ल­य­द्वारा परमात्मपरत्वे वाक्यस्य कति­प­या­दि­त्या­दि­ग्र­ह­ण­म­न­र्थ­कम् । नच सर्वो­प­ल­क्ष­णार्थं तद्ग्रहणं मुख्यसम्भवे लक्ष­णा­यो­गा­दि­त्याह -
परिमितेति ।

पक्ष­द्व­या­यो­गा­त्प­रि­शिष्टे तृतीये पूर्वोक्तः संशयः स्यादि­त्यु­प­सं­ह­रति -
तस्मादिति ।
प्रास­ङ्गि­क­प्र­कृ­त­प्र­ती­को­पा­स­नेषु स्वत­न्त्र­पु­म­र्थ­हे­तुषु ब्रह्म­दृ­ष्ट्या­नु­ष्ठा­नोक्त्या पादादिसङ्गतिः । पूर्वपक्षे लौकि­क­न्या­य­वि­रोधः ।

सिद्धान्ते तदविरोधः सिध्य­ती­त्य­मि­प्रेत्य पूर्वपक्षयति -
तत्रेति ।
यथात्यन्तिकभेदो नामा­दि­ष्व­ह­ङ्ग्र­हा­भावे हेतुरुक्तस्तथा तेष्वेव ब्रह्मधीनियामकं न किञ्चिद्दृष्टं तस्मादनियम इत्यर्थः ।

उत्कृ­ष्ट­नि­कृ­ष्ट­यो­रु­त्कृ­ष्ट­मे­वो­पास्यं फल­वि­शे­ष­व­त्त्वा­द्रा­जा­दि­व­दि­त्या­शङ्क्य साक्षा­त्पू­र्व­प­क्ष­माह -
अथवेति ।

आदि­त्या­दि­श­ब्दानां प्रथ­म­श्रु­ता­ना­म­नु­रो­धेन चरमश्रुतं ब्रह्मपदं नेतव्यमिति चेन्न । तथा सति फला­भा­वा­पा­ता­दि­त्याह -
ब्रह्मेति ।

पक्षद्वयेऽपि फलितमाह -
तस्मादिति ।

आदि­त्या­दि­दृष्ट्या ब्रह्मो­पा­स्य­मिति प्राप्ते सिद्धान्तयति -
एवमिति ।

नियमहेतुं प्रश्नपूर्वकमाह -
कस्मादिति ।

हेत्वर्थं विवृणोति -
एवमिति ।

उत्कृ­ष्ट­नि­कृ­ष्ट­यो­रु­त्कृ­ष्टस्य द्रष्ट­व्य­त्वा­दा­दि­त्या­दि­दृष्ट्या ब्रह्मै­वो­पा­स्य­मि­त्यु­क्त­मा­श­ङ्क्याह -
तथाचेति ।

किं तद­नु­स­र­णे­ने­त्या­श­ङ्क्याह -
स चेति ।

प्रसङ्गमेव दृष्टान्तेन स्पष्टयति -
नहीति ।

ब्रह्मण एव फलमत इति­न्या­या­त्फ­ल­दा­तृ­त्वा­त्त­स्यै­वा­दि­त्या­दि­धी­भि­रु­पा­स्ये­तेति शङ्कते -
नन्विति ।

किञ्च शास्त्रस्य स्वत एव प्रामाण्यान्न लौकि­क­न्या­या­पे­क्षे­त्याह -
नचेति ।

ब्रह्मण एव फलदातृत्वेऽपि शास्त्र­मा­दि­त्यादौ प्रतीके ब्रह्मधिया ध्येये तत्फलदमिति वा ब्रवी­त्या­दि­त्या­दि­धिया ब्रह्म­ण्यु­पास्ये वेति शास्त्रा­र्थ­स­न्देहे लोकानुसारेण निर्धारणमित्याह -
अत्रेति ।

लौकिकन्यायस्य निश्चयहेतुत्वे विपक्षे दोषमाह -
तेनेति ।

न केवलं लौकिकन्यायो निश्चायकः किं त्वादि­त्या­दि­श­ब्दानां प्रथमश्रुतत्वेन मुख्या­र्थ­त्व­म­पी­त्याह -
प्राथम्यादिति ।

ब्रह्मशब्दस्य धीपरत्वे युक्त्यन्तरमाह -
इतिपरत्वादिति ।

तस्येतिपरत्वमेव स्फोरयति -
तथाहीति ।

आदि­त्या­दि­श­ब्देषु वैलक्षण्यमाह -
शुद्धानिति ।

अस्तु ब्रह्म­श­ब्द­स्ये­ति­प­र­त्व­मा­दि­त्या­दि­श­ब्दानां च शुद्धत्वं तथापि कथं दृष्टि­प­र­त्वा­र्थ­प­र­त्व­व्य­व­स्थे­त्या­श­ङ्क्याह -
ततश्चेति ।
रजतशब्दस्यापि शुक्ति­श­ब्द­व­द­र्थ­प­रत्वं चेदितिशब्दयोगो व्यर्थः स्यादित्यर्थः ।

प्रती­ति­श्चे­त्तस्या निरा­ल­म्ब­न­त्वा­यो­गा­द­स्त्येव रज­त­म­पी­त्या­श­ङ्क्याह -
प्रत्येत्येवेति ।
प्रती­ते­रा­भा­स­त्वान्न योग्य­मा­ल­म्ब­न­म­स्ती­त्यर्थः ।

लोकसिद्धमर्थं प्रकृते योजयति -
एवमिति ।

किं चादित्यादीनां द्विती­या­श्रु­त्यो­पा­स्ति­क­र्म­त्वेन प्राधा­न्य­सि­द्धे­र्ब्र­ह्म­श­ब्दस्य धीप­र­त्व­मे­वे­त्याह -
वाक्येति ।

उत्कृ­ष्ट­नि­कृ­ष्ट­यो­रु­त्कृ­ष्ट­मे­वो­पास्यं फल­वि­शे­ष­प­र­त्वा­द्रा­जा­दि­व­दि­त्यु­क्त­म­नु­व­दति -
यत्त्विति ।

आदि­त्या­दी­ना­मे­वो­पा­स्य­त्वा­र्प­क­द्वि­ती­या­श्रु­ति­वि­रु­द्ध­म­नु­मा­न­मि­त्याह -
तदिति ।

कथं तर्हि फल­सि­द्धि­रि­त्या­शङ्क्य हेतो­र­न्य­था­सि­द्धि­माह -
फलं त्विति ।

धर्मस्यैव फलदत्वात्कुतो ब्रह्म­ण­स्त­थात्वं, तत्राह -
वर्णितं चेति ।
द्विती­ये­ति­श­ब्द­श्रु­ति­भ्या­मु­त्कृ­ष्ट­दृष्ट्या निकृ­ष्ट­मु­पा­स्य­मि­ति­न्या­या­नु­गृ­ही­ता­भ्या­मु­क्ता­नु­मा­न­भ­ङ्गा­द­स­ञ्जा­त­वि­रो­धि­त्वेन प्रथमश्रुता आदित्यादय एव चरमश्रुततया सञ्जा­त­वि­रो­धा­त्प्र­त्य­य­मा­त्र­प­र­ब्र­ह्म­श­ब्दे­ना­र्पि­त­ब्र­ह्म­दृ­ष्टि­वि­शिष्टा विशे­ष­ण­त­यो­पा­स्य­ब्र­ह्म­सा­म­र्थ्य­ल­ब्ध­फ­ल­वि­शेषा ध्येया भवन्तीति भावः ।

कथं तर्हीदं ब्रह्मोपासनमिति प्रसिद्धिः, तत्राह -
ईदृशं चेति ॥ ५ ॥

पूर्व­व­दु­त्क­र्ष­रू­प­वि­शे­षा­न­व­धा­र­णा­द­नि­य­मेन वा गीतित्वेन क्रिया­रू­पो­द्गी­था­दीनां फल­सं­नि­क­र्षे­णो­त्क­र्षा­दा­दि­त्या­दिषु तद्दृष्टिकरणे प्रथ­म­नि­र्दि­ष्टा­ना­मा­दि­त्या­दिषु ब्रह्म­दृ­ष्टि­व­त्प्रा­थ­मि­का­दि­त्या­दि­षू­द्गी­था­दि­दृ­ष्टि­क­रणे वा प्राप्ते प्रत्याह -
आदित्यादीति ।

अङ्गा­श्रि­तो­पा­स­ना­न्यु­दा­हृत्य विशे­षा­नु­प­लब्ध्या संशयमाह -
य एवेत्यादिना ।
पृथि­व्या­ग्न्य­न्त­रि­क्षा­दि­त्य­द्यु­सं­ज्ञ­केषु लोकेषु हिंका­र­प्र­स्ता­वो­द्गी­थ­प्र­ति­हा­र­नि­ध­न­रूपं पञ्चप्रकारं सामोपास्यं लोकदृष्ट्या तदु­पा­स्य­मि­त्यर्थः । वाचि सप्तविधमिति हिङ्का­र­प्र­स्ता­वा­द्यु­द्गी­थ­प्र­ति­हा­रो­प­द्र­व­नि­ध­न­रूपं सप्तप्रकारं साम वाच्युपास्यं वाग्दृष्ट्या सामो­पा­स्य­मि­त्यर्थः । प्रास­ङ्गि­का­ङ्गा­व­ब­द्धो­पा­स­नेषु स्वत­न्त्र­फ­ले­ष्व­न­ङ्ग­दृ­ष्ट्या­नु­ष्ठा­न­नि­रू­प­णा­त्पा­दा­दि­स­ङ्गतिः ।

पू्र्वपक्षे दृष्टिकरणस्य फलवत्त्वम् । सिद्धान्तेऽपि तदविरुद्धं सिध्यतीति । स्वीकृत्य पूर्वपक्षमाह -
तत्रेति ।

नियमकारिणः शास्त्र­स्या­भा­वा­दि­त्युक्तं व्यनक्ति -
नहीति ।

वैध­र्म्य­दृ­ष्टान्तं स्पष्टयति -
ब्रह्मेति ।

अङ्गानङ्गयोरपि कस्यचिद्विशेषो गम्य­ता­मि­त्या­श­ङ्क्याह -
न त्विति ।

कर्म­रू­पा­णा­मु­द्गी­था­दी­ना­मु­त्क­र्ष­भा­न­मु­पेत्य साक्षा­त्पू­र्व­प­क्ष­माह -
अथवेति ।

नियमहेतुं पृच्छति -
कस्मादिति ।

उद्गी­था­दि­क­र्मा­ङ्गानां क्रिया­स­म­वा­या­त्फ­ल­सा­ध­न­त­यो­त्कृ­ष्ट­त्वा­दिति हेतुमाह -
कर्मेति ।

किञ्च सिद्ध­रू­पा­दि­त्या­द्या­त्मना चेदुद्गीथादयो दृष्टास्तदा न फलहेतवः । यदा तूद्गी­था­दि­दृ­ष्ट्या­दि­त्या­दयो दृष्टास्तदा तेषामपि फलहेतुत्वं स्यादित्याह -
उद्गीथादीति ।

अन­ङ्गे­ष्वे­वा­ङ्ग­म­ति­क­र्त­व्यत्वं पृथि­व्य­ग्न्यो­र्ऋ­क्सा­म­श­ब्द­प्र­यो­गा­दपि भातीत्याह -
तथाचेति ।
तदेतदग्न्याख्यं सामैतस्यां पृथ्वी­ल­क्ष­णा­या­मृ­च्य­ध्यू­ढ­मु­प­रि­श्रि­त­मिति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -
क्षत्तरीति ।
ऋचि पृथिवीदृष्टिः साम्नि चाग्नि­दृ­ष्टि­रिष्टा चेत्तदा प्रयोगवैपरीत्यं स्यात्त­स्मा­त्पृ­थि­व्य­ग्न्यो­र्ऋ­क्सा­म­श­ब्द­प्र­यो­गा­नु­प­पत्त्या तत्र कर्म­ङ्ग­भू­त­र्क्सा­मा­ध्या­स­सि­द्धि­रि­त्यर्थः ।

तत­श्चा­न­ङ्गे­ष्व­ङ्ग­मतिः कर्तव्येत्याह -
अपिचेति ।

सप्तम्या लोकानां साम­धी­वि­ष­य­त्व­नि­र्दे­शा­दि­त्याह -
अधिकरणेति ।

अन्यत्रापि सप्त­मी­श्रु­ते­र­न­ङ्गे­ष्व­द्ग­धी­र्भा­ती­त्याह -
एतदिति ।

पूर्वा­धि­क­र­ण­सि­द्धा­न्त­न्यो­ये­ना­प्य­न­ङ्गे­ष्व­ङ्ग­दृष्टिः शिष्टेत्याह -
प्रथमेति ।

आदि­त्या­दा­वु­द्गी­था­दी­धी­क­र­णा­त्तस्य फल­व­त्त्व­सि­द्धि­रिति प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।

अन­ङ्गे­ष्व­ङ्ग­म­ति­रुक्ता तथा चान्यथा नियमो निर्बी­ज­त्वा­द­युक्त इति शङ्कते -
कुत इति ।

नियमहेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
यथा प्रोक्षणादिना व्रीह्यादिषु संस्कृतेषु कर्मा­पू­र्व­मु­त्प­द्यते तथा प्रकृ­त­क­र्मा­पू­र्व­सं­नि­धा­ना­दु­द्गी­था­दी­ना­मा­दि­त्या­दि­म­ति­भि­स्तेषु संस्क्रियमाणेषु कर्म­स­मृ­द्धि­रु­प­प­द्यते, तथाच कर्म­स­मृ­द्धि­फ­लो­प­प­त्ते­र­ङ्गे­ष्व­न­ङ्ग­म­ति­क्षेप इत्यर्थः ।

कर्म­स­मृ­द्धि­रु­पा­स्ति­फ­ल­मि­त्ये­त­दे­वा­सि­द्ध­मि­त्या­श­ङ्क्याह -
यदेवेति ।

यत्र कर्मसमृद्धिः फलं श्रूयते तत्रा­ङ्गे­ष्व­न­ङ्ग­म­ति­क्षे­पोऽ­स्त्वा­दि­त्या­दि­म­ति­सं­स्कृ­ता­ना­म­ङ्गानां कर्मा­ति­श­य­हे­तु­त्वा­त्स्व­त­न्त्र­फ­लेषु पुनरुपासनेषु कथं मतिक्षेपः स्यादिति विवेको नास्तीति शङ्कते -
भवत्विति ।

स्वत­न्त्र­फ­ले­ष्वपि तेषु प्रकृ­त­क­र्मा­ङ्ग­व्य­पा­श्र­ये­णा­ङ्गे­ष्वेव मति­क­र­णा­त्फ­ल­क­ल्पना युक्ता कर्माधिकृतस्यैव तद­ङ्ग­स­म्ब­न्धे­षू­पा­स­ने­ष्व­धि­का­रात् । यथा­धि­कृ­ता­धि­का­रेषु गोदोहनादिषु स्वत­न्त्र­फ­ले­ष्वपि प्रकृ­त­क­र्मा­ङ्गा­व­ष्ट­म्भे­नैव फलमिष्टं तथेहापीति परिहरति -
तेष्वपीति ।

यत्त्वा­दि­त्या­दी­ना­मु­द्गी­था­दीनां चोत्क­र्ष­वि­शे­षा­न­व­धा­र­ण­मिति, तत्राह -
फलेति ।

तदेव स्फुटयति -
आदित्यादीति ।

उप­क्र­मा­नु­सा­रा­द­प्या­दि­त्या­दि­धी­रु­द्गी­था­दिषु कार्येत्याह -
अपिचेति ।

द्वितीयां पूर्व­प­क्षो­प­प­त्ति­म­नु­भाष्य दूषयति -
यदित्यादिना ।
कर्मभूयं भूत्वा कर्म­भा­व­म­नु­भू­येति यावत् ।

सिद्ध­रू­पै­रा­दि­त्या­दि­भि­र­ध्यस्तैः साध्यरूपत्वं कर्म­णोऽ­भि­भू­ये­ते­त्या­श­ङ्क्याह -
आदित्यादीति ।
माण­व­केऽ­ग्नि­धी­व­दु­द्गी­था­दि­ष्वा­दि­त्या­दि­धियां गौण­त्वा­द­न­भि­भ­वा­द­ङ्गे­ष्व­न­ङ्ग­धी­र­वि­रु­द्धे­त्यर्थः ।

यत्तु पथि­व्य­ग्न्यो­र्ऋ­क्सा­म­श­ब्द­प्र­यो­गा­नु­प­पत्त्या पृथि­व्या­दा­वृ­गा­दि­धी­रिति, तत्राह -
तदेतदिति ।
तद्दृ­ष्टि­म­न्त­रे­णापि लक्षणोपपत्तौ पृथि­व्या­दा­वृ­गा­द्य­ध्यासो न कल्पनीय इत्यर्थः ।

सम्बन्धाभावे कथं लक्ष­णे­त्या­श­ङ्क्याह -
लक्षणा चेति ।
शोणो धावतीत्यत्र गुण­वा­चि­शो­ण­श­ब्देन गुणी लक्ष्यत इति संनिकृष्टा लक्षणा अग्नि­र­धी­तेऽ­नु­वा­क­मि­त्य­त्रा­ग्नि­श­ब्द­स्ती­व्र­त्वा­दि­गुणं लक्षयित्वा माणवकं लक्षयतीति विप्रकृष्टा । नहि साक्षा­दे­वा­ग्नि­श­ब्दा­र्थस्य माण्व­क­स­म्ब­न्धोऽ­स्ती­त्यर्थः ।

लक्ष­णा­द्वै­वि­ध्येऽपि प्रकृते किं जातं तदाह -
तत्रेति ।
ऋक्सामयोः पृथि­व्य­ग्न्योश्च संनि­कृ­ष्ट­वा­स्त­व­स­म्ब­न्धा­भा­वेऽपि विप्रकृष्टेन पृथि­व्या­ग्नि­बु­द्धि­स­म्ब­न्धेन तयोः सम्ब­न्धा­त्त­च्छ­ब्दाभ्यां तल्लक्षणा युक्तेत्यर्थः । तथापि तयोरेव पृथि­व्य­ग्न्यो­रेष तदे­त­द­स्या­मृ­च्य­ध्यूढं सामे­त्यृ­क्सा­म­श­ब्द­प्र­योग इति योजना ।

मुख्यासम्भवे हेतुमाह -
प्रसिद्धयोरिति ।
ऋच्यध्यूढं हि सामेति प्रसिद्धयोः पृथ­गु­क्ते­स्त­दे­त­दे­त­स्या­मि­त्य­त्रापि तयोरेवोक्तौ पौन­रु­क्त्या­त्पृ­थि­व्य­ग्न्यो­श्चा­ध्य­स्त­ऋ­क्सा­म­सं­नि­धा­ना­दृ­क्त­सा­म­श­ब्द­यो­र्ल­क्ष­णया पृथि­व्य­ग्न्य­र्थ­ते­त्यर्थः ।

ऋचि पृथिवीधीः साम्नि चाग्नि­धी­रि­त्ये­ता­वता सम्बन्धेन पृथि­व्य­ग्न्यो­र्ऋ­क्सा­म­श­ब्द­प्र­योगो लाक्षणिको नोपपद्यते क्षत्तरि राजधीकरणेऽपि राजनि क्षत्तृ­श­ब्द­प्र­यो­गा­द­र्श­ना­दि­त्यु­क्त­मि­त्या­श­ङ्क्याह -
क्षत्रिति ।
यदा राजापि क्षत्तुः सूतस्य रथनयनादि कर्माचरति तदा तत्र क्षत्तृशब्दो लक्षणया प्रयुज्यत एव । नच सति निमित्ते प्रयो­ग­स्या­व­श्य­कत्वं पङ्कजादिशब्दे व्यभिचारादिति भावः ।

ऋगादावेव पृथि­व्या­दि­धी­रि­त्यत्र हेत्वन्तरमाह -
इयमेवेति ।

एतदेव व्यतिरेकद्वारा स्फोरयति -
पृथिव्येति ।
ऋगनुवादेन पृथिवीत्वं विधे­य­मि­त्य­व­धा­र­णा­सा­म­र्थ्या­द­धि­ग­त­मि­त्यर्थः ।

इत­श्चा­ङ्गे­ष्व­न­ङ्ग­धी­रि­त्याह -
य एवमिति ।

यत्त्व­धि­क­र­ण­नि­र्दे­शा­दु­पा­स्ति­वि­ष­यत्वं लोकानामिति, तत्राह -
तथेति ।
यदि साम­धी­र्लो­के­ष्वा­रो­प्येत तदा साम्ने­ति­तृ­ती­यार्थे द्वितीयाश्रुतिः परिणेया लोकेष्विति च सप्तमी द्वितीयार्थे कथञ्चिन्नेया, तथा सत्युभयथापि सप्तम्याः कल्प्या­र्थ­त्वा­त्क­ल्प­ना­ला­घ­वा­द्य­था­श्रु­त­द्वि­ती­या­र्था­नु­रो­धाय तृतीयार्थे सप्तमी व्याख्येया । तेन पृथि­व्या­दि­लो­क­बुद्ध्या हिङ्का­रा­दि­सा­मो­पा­स्यम् । ततः सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृती­या­र्थे­त्यु­भ­यथा भञ्जनीया । पूर्वपक्षे तु साम­ग­त­द्वि­ती­या­भ­ङ्गोऽ­धिक इत्यर्थः ।

पृथि­व्या­द्या­त्मना हिङ्का­रा­दे­रु­पा­स्य­त्वो­प­दे­शेन गायत्रस्यापि प्राणा­त्म­नो­पा­स्य­त्व­मु­क्त­मि­त्य­ति­दि­शति -
एतेनेति ।

यत्र द्विती­या­स­प्तम्यौ तत्रास्तु श्रुति­द्व­य­भ­ङ्ग­गौ­र­व­प­रि­हा­रा­र्थ­म­ङ्गे­ष्व­न­ङ्गधीः । यत्र तूभयत्र द्वितीया तत्रा­न्य­त­र­श्रु­ति­मा­त्र­भ­ङ्गस्य पूर्व­प­क्ष­सि­द्धा­न्त­यो­स्तु­ल्य­त्वा­त्कथं निय­म­सि­द्धि­रि­त्या­श­ङ्क्याह -
यत्रापीति ।
छान्दोग्ये हि समस्तस्य सप्तविधस्य पञ्चविधस्य च साम्नो ध्यानं साधु­गु­ण­क­मि­त्यु­प­क्रम्य लोकेषु पञ्चविथं सामोपासीतेति पृथिवी हिङ्कारोऽग्निः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्नि­ध­न­मि­त्या­दिना पञ्चविधस्य साम्नो ध्यानमुक्त्वेति तु पञ्च­वि­ध­स्ये­त्यु­प­सं­हृ­त्याथ तु सप्त­वि­ध­स्ये­त्यु­प­क्रम्य वाचि सप्तविधं सामो­पा­सी­ते­त्या­दिना सप्त­वि­ध­स्या­प्यु­पा­स­न­मु­क्तम् । एवं च समस्तस्य साम्न उपासनं साध्विति साम्न एवो­पा­स्य­त्व­श्रु­ते­रिति तु पञ्चविधस्य साम्न उपासनं साध्विति पञ्चविधस्यापि तस्यो­पा­स्य­त्व­श्रुतेः साम्न्ये­वा­दि­त्या­द्य­ध्यासः सिध्यतीत्यर्थः ।

यत्तु पूर्वा­धि­क­र­ण­न्या­येन प्रथमश्रुते चर­म­श्रु­त­म­ध्य­स्यत इति, तत्राह -
एतस्मादिति ।
हिङ्कारोद्देशेन पृथिवीत्वविधाने हिङ्का­रः­पृ­थि­वीति निर्देशो युक्तस्तस्य वैपरीत्येऽपि साम्नोऽ­धि­का­रा­द्ध्ये­य­त्वा­व­ग­मा­द­ङ्गेषु हिङ्का­रा­दि­ष्वे­वा­न­ङ्ग­पृ­थि­व्या­दि­दृष्टिः कार्येत्यर्थः ।

प्रथ­म­श्रु­त्य­नु­सा­रा­च्च­र­म­श्रुतं नेयमिति न्यायोऽपि द्विती­या­श्रुत्या बाध्यो दुर्बलत्वादिति मत्वोपसंहरति -
तस्मादिति ॥ ६ ॥

अङ्गा­श्रि­तो­पा­स­ने­ष्वा­सी­न­क­र्म­ता­नि­य­मा­भा­व­व­दि­त­रो­पा­स­ना­स्वपि तन्नि­य­मा­भा­व­मा­श­ङ्क्याह -
आसीन इति ।

विषयं परिशिनष्टि -
कर्मेति ।

आदिपदेन स्थितिशयने गृह्येते । सम्य­ग्द­र्श­न­श­ब्देन श्रव­णा­द्य­भ्या­स­वा­सि­त­म­नः­स­ह­कृ­त­वा­क्य­कृ­त­सा­क्षा­त्कारो निरुच्यते । अङ्गोपासनेभ्यः सम्य­ग्द­र्श­ना­च्चा­ति­रि­क्ता­न्यु­पा­स­नानि विष­यी­कृ­त्या­ने­क­धा­नु­ष्ठा­न­दृष्टेः संशयमाह -
इतरेष्विति ।
शास्त्रीयेषु प्रस्तु­तो­पा­स­ने­ष्व­नु­ष्ठा­न­वि­शे­ष­चि­न्तया पादादिसङ्गतिः । पूर्वपक्षे कर्मा­ङ्गा­ना­श्रि­तो­पा­स­नेषु दैहि­क­नि­य­मा­सिद्धिः ।

सिद्धान्ते ध्यानस्य मनो­व्या­पा­र­त्वेऽपि देहानवस्थाने मनो­न­व­स्था­ना­त्तेषु तन्नि­य­म­सि­द्धि­रिति मत्वा पूर्वपक्षयति -
तत्रेति ।
मनो­दे­ह­यो­र्भि­न्न­त्वा­न्म­नो­व्या­पा­र­मु­पा­सनं प्रति देह­व्या­पा­र­स्या­नु­प­का­रि­त्वा­दा­सी­नेन तिष्ठता वा यथा­क­थ­ञ्चि­द­नु­ष्ठे­यानि प्रकृ­ता­न्यु­पा­स­ना­नी­त्यर्थः ।

अन­ङ्गा­श्रि­तो­पा­स­नानां यथा­क­थ­ञ्चि­द­नु­ष्ठा­न­मिति पक्षमनूद्य सिद्धान्तयति -
एवमिति ।

प्रश्नपूर्वकं नियामकमाह -
कुत इति ।

सम्भवं बक्तु­मु­पा­स­न­श­ब्दा­र्थ­माह -
उपासनमिति ।

तथापि कथं तदासीनस्यैवेति नियम्यते, तत्राह -
नचेति ।

तर्हि तिष्ठतो भविष्यति विक्षेपाभावात् , तत्राह -
तिष्ठतोऽपीति ।

तर्हि शयानस्य देह­धा­र­ण­व्या­पा­रा­भा­वा­दु­पा­सनं स्यान्नेत्याह -
शयानस्येति ।

देहेऽनवस्थिते मनो­न­व­स्थि­ते­र­ध्व­क्ष­त्वा­दा­सी­न­स्यै­वो­पा­स­न­म­नु­ष्ठे­य­मिति परि­शे­ष­सि­द्ध­म­र्थ­माह -
आसीनस्य त्विति ॥ ७ ॥

इत­श्चो­पा­स­न­मा­सी­न­क­र्मे­त्याह -
ध्यानाच्चेति ।

सूत्रं विवृणोति -
अपिचेति ।

उपा­स्ति­ध्या­य­त्यो­रे­का­र्थ­त्वेऽपि प्रकृते किं जातं तदाह -
ध्यायतिश्चेति ।

अथ ध्यायतिर्यस्यां प्रयुज्यते सावस्था तिष्ठतोऽपि सम्भवति नेत्याह -
आसीनश्चेति ।

लौकिकं लिङ्गमुपसंहरति -
तस्मादिति ॥ ८ ॥

तत्रैव वैदिकं लिङ्गमाह -
अचलत्वं चेति ।

सूत्रं विभजते -
अपिचेति ॥ ९ ॥

आस­न­वि­धा­ना­नु­प­प­त्त्याऽ­प्यु­पा­स­न­स्या­सी­न­क­र्म­ते­त्याह -
स्मारन्तीति ।

बाह्या­स­न­वि­ष­य­त्वेन सूत्रं योजयति -
स्मरन्त्यपीति ।

शारी­रा­स­न­वि­धा­न­वि­ष­य­त्वे­नापि तदेव योजयति -
अत इति
उपा­स­न­स्या­सी­न­क­र्म­त्वा­दे­वे­त्यर्थः ॥ १० ॥

अन­ङ्गा­श्रि­तो­पा­स­ने­ष्वा­स­न­नि­य­म­व­द्दि­गा­दि­नि­य­मोऽपि स्यादि­त्या­श­ङ्क्याह -
यत्रेति ।

अन­ङ्गा­श्रि­तो­पा­स­नानि विषयस्तेषु दिगा­दि­नि­य­मोऽ­स्त्युत नेति विहितेषु द्विधादृष्ट्या संशयमाह -
दिगिति ।
अङ्गो­पा­स्त्य­ति­रि­क्तो­पा­स्तिषु शास्त्रीयास्वेव दिगादिनियमं विनाऽ­नु­ष्ठा­न­क्र­म­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे दिगा­दि­नि­य­मा­दे­तेषु चित्तै­का­ग्र्य­म­न्त­रे­णा­नु­ष्ठा­नम् ।

सिद्धान्ते दिगा­दि­ष्वा­स्था­भा­वेऽपि प्रधा­ना­नु­गु­ण्या­द­नु­ष्ठा­न­मि­त्य­ङ्गी­कृ­त्या­न­ङ्गो­पा­स­नानि निय­त­दि­ग्दे­श­का­लानि चोद­ना­ल­क्ष­ण­त्वा­द्वै­श्व­दे­व­व­दि­त्या­श­येन पूर्वपक्षयति -
प्रायेणेति ।

प्रदोषादिकाले प्राच्यादिदिशि तीर्थादिदेशे प्रकृ­तो­पा­स­ना­नु­ष्ठा­न­मिति प्राप्ते सिद्धान्तयति -
तमिति ।

चोद­ना­दि­व­शे­नो­क्तो­पा­स­नेषु न देशादिनियमः किन्तूपास्ये चित्तै­का­ग्र्य­ल­क्ष­णा­र्था­क्षिप्त एव तन्नियम इत्युक्तं विवृणोति -
यत्रेति ।

यत्तु चोद­ना­ल­क्ष­ण­त्वा­दि­त्य­नु­मानं तत्र श्रुत­दे­शा­दि­म­त्त्व­मु­पा­धि­रिति वदन्नविशेषादिति व्याचष्टे -
प्राचीनेति ।
प्राचीनप्रवणे प्राग्देशनिम्ने देशे वैश्वदेवेन यागविशेषेण यजे­ते­त्या­दि­व­दत्र विशेषो न श्रूयते । ऐकाग्र्यं हि ध्यानं प्रत्यन्तरङ्गं तस्मि­न्म­ध्या­ह्ना­दा­वपि सम्भवति प्रदो­षा­द्य­पे­क्षायां शेषिबाधादनियम इत्यर्थः ।

ध्याना­न्त­र­ङ्ग­मै­क­ग्र्य­मपि निय­त­दि­गा­द्य­पे­क्ष­मि­त्या­शङ्क्य हेतो­र­र्था­न्त­र­माह -
एकाग्रताया इति ।
विशेपेक्षायां शेषिबाधादनियम इत्यर्थः ।

ध्याना­न्त­र­ङ्ग­मै­का­ग्र्य­मपि निय­त­दि­गा­द्य­पे­क्ष­मि­त्या­शङ्क्य हेतो­र­र्था­न्त­र­माह -
एकाग्रताया इति ।

विशे­षा­श्र­व­ण­म­सि­द्ध­मिति शङ्कते -
नन्विति ।
शर्कराः सूक्ष्मपाषाणाः । जलाशयवर्जनं शीत­नि­वृ­त्त्य­र्थम् । चक्षुःपीडनो मशकः । यथा श्रुतिसिद्धो विशे­ष­स्त­था­न्योऽपि कालादिविशेषो ध्याने स्यादित्यर्थः ।

वाचनिके नियमे सत्येव दिगा­दि­नि­य­म­नि­र­स­न­मि­त्याह -
उच्यत इति ।

तद्गतेष्विति ।
तच्छब्देन श्रौतो विशिष्टो देशो गृह्यते तस्मिन्गता विशेषास्तु प्राची­न­प्र­व­णा­द­य­स्त­न्नि­यमे कदा­चि­दे­का­ग्र­ता­यो­गे­नो­पा­स­ना­यो­गा­त्प्र­धा­न­वि­रो­धा­त्त­द­नि­यमः श्रेयानित्यर्थः ।

नियमादनियमो युक्तः शेष्या­नु­गु­ण्या­दि­त्यत्र सूत्र­का­र­सं­म­ति­माह -
इति सुहृदिति ।

उक्ताऽपि हि श्रुति­र­स्मा­क­म­नु­कू­लै­वे­त्याह -
मन इति ॥ ११ ॥

देशा­द्य­वि­धा­ना­त्त­द­पे­क्षा­व­द­ह­ङ्ग्र­हो­पा­स्ति­ष्वा­दे­ह­पा­ता­दा­वृ­त्ते­र­वि­धा­ना­त्त­द­न­पे­क्षे­त्या­श­ङ्क्याह -
आ प्रायणादिति ।

व्यवहितेन सम्बन्धार्थं वृत्तं कीर्तयति -
आवृत्तिरिति ।

सम्प्रति सम्बन्धं वदन्विषयं विवेचयति -
तत्रेति ।

सम्यग्ज्ञाने जातेऽपि मुक्त्य­र्थ­मा­वृ­त्ति­रा­म­र­णा­त्का­र्ये­त्या­श­ङ्क्याह -
नहीति ।
नियो­ज्य­स्या­धि­का­रि­णोऽ­भा­वा­न्मु­क्तेश्च सम्य­ग्धी­ना­न्त­री­य­क­त्वा­दा­वृ­त्ति­र­न­र्थि­के­त्यर्थः ।

उक्त­हे­त्व­भा­वा­द­नु­ष्ठा­न­स्यो­भ­य­था­दृ­ष्टे­र­ह­ङ्ग्र­हो­पा­स्तिषु संशयमाह -
यानीति ।
शास्त्री­या­ह­ङ्ग्र­हो­पा­स­नेषु स्वत­न्त्र­फ­ल­हे­तुषु याव­ज्जी­व­म­नु­ष्ठा­न­मि­ति­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे सर्वो­पा­स­ने­ष्वा­वृ­त्ते­र­वि­शेषः ।

सिद्धान्ते प्रकृतेषु विशेष इत्युपेत्य विमृश्य पूर्वपक्षयति -
किं तावदिति ।

सर्वो­पा­स­ने­ष्वा­वृत्तौ विशेषो नेति प्राप्ते प्रकृ­तो­पा­स­ने­ष्वा­म­र­णा­दा­वृत्तिः कार्येति सिद्धान्तमाह -
एवमिति ।

उपा­स्या­प­रोक्ष्ये दृष्टफले सिद्धे तद्द्वारा दृष्टफलस्यापि सिद्धे­र­व­घा­ता­दि­व­दा­म­र­णा­द­नु­ष्ठा­न­मि­त्याह -
अन्त्येति ।

अन्त्य­प्र­त्य­या­ति­रे­के­णै­वो­पा­स­नानां फल­प्रा­प्ति­यो­गान्न ताद­र्थ्ये­ना­वृ­त्ति­रि­त्या­श­ङ्क्याह -
कर्मणीति ।

किमत्र प्रमाणं तदाह -
सविज्ञान इति ।
विज्ञानेन भोक्त­व्य­फ­ल­वि­ष­य­भा­व­ना­म­येन सहितो म्रियमाणो भोक्ता सविज्ञानः । सविज्ञानं विज्ञानेन सहितं फलम् । यस्मिन्वषये चित्तमस्य स यच्चित्तस्तेन विषयेण हृद्यभिव्यक्तेन सह तेज उदा­न­स्ते­जो­दे­व­ता­क­त्वा­दात्मा भोक्ता ।

म्रियमाणस्य भोक्तु­र्ज्ञा­न­वत्त्वे दृष्टा­न्त­श्रु­ति­रपि प्रमाणमित्याह -
तृणेति ।
यत्रा­प्र­त्य­या­त्म­का­ना­मपि कर्म­णा­म­न्त्य­प्र­त्य­या­क्षे­पेण फलजनकत्वं तत्र प्रत्य­या­त्म­का­ना­मु­पा­स­नानां किं वक्त­व्य­मि­त्यर्थः ।

तर्हि कर्म­व­द­दृ­ष्ट­द्वा­राऽ­न्त्य­प्र­त्या­या­पे­क्षो­पा­स­नानां स्यान्नेत्याह -
प्रत्य­या­स्त्विति ।
तेषां धारावाहिकतया दृष्ट­दा­रे­णा­क्षे­प­क­त्व­स­म्भवे नादृष्टकल्पनेति भावः ।

सर्वभावनानां स्वावा­न्त­र­जा­ती­य­नि­र­पे­क्ष­तया भाव­ना­त्म­को­पा­स­नानां न भाव­ना­न्त­रा­पे­क्ष­कत्वं स्वरू­प­स­न्नि­धा­ने­नैव चादृ­ष्ट­फ­लो­प­यो­गि­तेति मत्वोपसंहरति -
तस्मादिति ।

तत्रापि दृष्ट­मि­त्ये­त­द्व्या­चष्टे -
तथाचेति ।
उपासकः सर्वनामार्थः । क्रतुः सङ्कल्पविशेषः । अस्मा­ल्लो­का­द­भि­मा­नतो गृही­ता­द्दे­हा­दिति यावत् ।

स्मार्त­द­र्श­न­मा­श्रि­त्यापि सूत्रावयवं योजयति -
स्मृतिरिति ।

तत्रैव श्रौत­द­र्श­ना­न्त­र­माह -
सोऽन्तेति ।
पूर्ववदुपासकः सर्वनाम्नोक्तः । अक्षि­त­म­स्य­च्यु­त­मसि प्राणसंशितमसीति मन्त्रत्रयं स्मरे­दि­त्य­नु­ष्ठेयं मरणकालेऽपि दर्शयन्ती श्रुति­र्वि­ज्ञा­ना­वृत्तिं सूचयतीत्यर्थः ॥ १२ ॥

यथो­पा­स्ता­व­न्त­काले कर्तव्यमस्ति न तथा ब्रह्मविद्यायां कर्तव्यं किचिदप्यस्ति तदु­त्प­त्ति­मा­त्रे­णा­शे­ष­पा­प­क्ष­या­दि­त्याह -
तदधिगम इति ।

साधनानुष्ठाने यत्नाधिक्यार्थं फलाध्यायेऽपि साध­न­स­म्ब­द्ध­म­नु­ष्ठा­न­क्रमं विचार्य फलाध्यायस्थां फल­चि­न्ता­मे­वा­व­ता­र­यति -
गत इति ।

दुरितमधिकृत्य तस्य फला­व­सा­न­त्व­प्र­ती­ते­र्ज्ञा­ना­त्क्ष­य­प्र­ती­तेश्च संशयमाह -
ब्रह्मेति ।
तद्विपरीतफलं बन्ध­न­सा­ध­न­मि­त्यर्थः । अत्र साक्षादेव श्रौत­ब्र­ह्मा­त्म­धियो दुरि­त­क्ष­य­फ­लोक्त्या पादादिसङ्गतिः । पूर्वपक्षे दुरि­त­फ­ल­भो­ग­म­पेक्ष्य ब्रह्मधियो मोक्षहेतुत्वम् ।

सिद्धान्ते स्वोत्प­त्ति­ना­न्त­री­य­क­त्वेन तस्या­स्त­द्धे­तु­त्व­मि­त्यु­पेत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
फल­ना­श्य­त्वा­द­दृ­ष्टस्य फलदानं विना नाशो नास्तीत्यर्थः ।

फलार्थत्वं कथमस्य सिद्धं, तत्राह -
फलेति ।
‘ब्राह्मणो न हन्तव्यः', ‘न कलञ्जं भक्षयेत्’ इत्या­दि­नि­षे­धा­नु­प­पत्त्या दुरि­त­स्या­नि­ष्ट­फ­लत्वं सिद्धमित्यर्थः ।

उक्तमेव स्फोरयति -
यदीति ।
तदि­त्य­नि­ष्ट­क­र्मोक्तिः ।

‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इतिस्मृतेरपि फलभोगं विना न नाशो दुरितस्येत्याह -
स्मरन्तीति ।

भोगादृते कर्म न क्षीयते चेत्प्रा­य­श्चि­त्त­वि­ध्या­न­र्थ­क्य­मिति शङ्कते -
नन्विति ।

तद्विधीनां दोष­नि­र्ह­र­णा­र्थ­त्वा­भा­वा­न्मै­व­मि­त्याह -
नेति ।
यथा यस्या­हि­ता­ग्ने­र­ग्नि­र्गृ­हा­न्द­हे­दिति प्राप्ते गृह­दा­ह­व­त्या­हि­ता­ग्ना­व­धि­का­रिणि ‘अग्नयेक्षामवते पुरो­डा­श­म­ष्टा­क­पालं निर्वपेत्’ इति क्षाम­व­ती­ष्टि­र्वि­धी­यते तथा पापसम्बन्धिनि नरे प्राप्ते ‘ब्रह्महा द्वादशवार्षिकं चरेत्’ इत्या­दि­प्रा­य­श्चि­त्तानि विधीयन्ते । तस्मा­द्ब्र­ह्म­हे­त्या­दि­वि­शे­ष­ण­म­धि­का­रि­व्या­वृ­त्ति­परं न फलपरमित्यर्थः ।

गृह­दा­हे­ष्ट्या­दि­व­दि­त्य­त्रा­दि­प­देन भिन्ने जुहोति स्कन्ने जुहो­ती­त्या­दि­नै­मि­त्ति­क­ग्र­हणं युक्तम् । गृह­दा­हा­दे­र्नि­ष्प­न्न­त्वेन निष्पा­द­यि­तु­म­श­क्य­त्वा­द­धि­का­रि­व्या­वृ­त्त्य­र्थत्वं दुरि­त­नि­वृ­त्तेस्तु कर्तुं योग्य­त्वा­दि­ष्ट­सा­ध­न­त्व­बोधी प्राय­श्चि­त्त­वि­धि­स्त­त्फलः स्यादि­त्या­शङ्क्य प्राय­श्चि­त्तानां दोष­नि­वृ­त्ति­फ­ल­त्व­मु­पेत्य प्रकृते वैषम्यमाह -
अपिचेति ।

मोक्ष­शा­स्त्र­प्रा­मा­ण्या­नु­प­पत्त्या विद्यया दुरि­त­नि­वृ­त्ति­रे­ष्ट­व्येति शङ्कते -
नन्विति ।

दुरि­त­फ­ल­भो­गा­न­न्तरं शास्र­प्रा­मा­ण्या­देव मोक्षसिद्धेर्न तच्छा­स्त्र­वि­रो­धोऽ­स्ती­त्याह -
नेतीति ।

ब्रह्मज्ञानस्य प्राय­श्चि­त्तेभ्यो वैषम्ये दुरि­ता­नि­व­र्त­क­त्वेऽपि मोक्ष­शा­स्त्रा­वि­रोधे च फलितमाह -
तस्मान्नेति ।

न ब्रह्मविद्या दुरि­त­नि­ब­र्ह­ण­हे­तु­रिति प्राप्तमनूद्य सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञां व्याकरोति -
एवमिति ।

विभागहेतुं प्रश्न­पू­र्व­क­मा­दत्ते -
कस्मादिति ।

उत्त­रा­श्ले­ष­वि­ष­य­त्वेन हेतुं व्याचष्टे -
तथाहीति ।

निषि­द्धा­ना­च­र­णा­द्व्यर्थं दुरि­ता­श्ले­ष­व­च­न­मि­ति­श­ङ्का­नि­रा­सार्थं विशिनष्टि -
सम्भाव्यमानेति ।

पूर्वस्य कर्मणोे नाशेऽपि हेतुं योजयति -
तथेति ।

सगु­ण­वि­द्या­या­म­श्ले­ष­वि­ना­श­व­च­न­मु­दा­हृत्य निर्गु­ण­वि­द्या­या­मु­दा­ह­रति -
अयमिति ।

कर्मा­श्ले­ष­स्यापि तत्क्ष­य­व­च­न­मु­प­ल­क्ष­णम् । एवं सिद्धा­न्त­मु­प­पाद्य परोक्तमनुवदति -
यदुक्तमिति ।

ज्ञाना­त्क­र्म­दा­हा­दि­पक्षे शास्त्रविरोधं प्रत्याह -
नेत्यादिना ।

कर्मणो नास्ति फलदाने शक्तिरिति साधने वा शास्त्रविरोधः सत्यामेव तस्यां भोगं विना तन्नि­वृ­त्ति­सा­धने वेति विकल्प्याद्यं दूषयति -
नहीति ।

द्वितीयं प्रत्याह -
सा त्विति ।

कथं तर्हि शास्र­वि­रो­ध­स­माधिः, तत्राह -
शक्तीति ।

यत्तु ‘नाभुक्तं क्षीयते कर्म’ इत्या­दि­स्मृ­तेर्न भोगादृते कर्म­क्ष­योऽ­स्तीति, तत्राह -
नहीति ।

अपवादस्तर्हि केनोत्सर्गस्य स्यादिति, तत्राह -
इष्यत इति ।
आदिशब्देन पूर्वत्र प्राव­श्चि­त्त­व­दत्र विद्योच्यते । ‘ज्ञानिनः सर्वपापानि शीर्यन्ते नात्र संशयः । क्रीडन्नपि न लिप्येत पापै­र्ना­ना­वि­धै­रपि’ इत्याद्याः स्मृतयः ।

प्राय­श्चि­त्तानां न पापक्षयहेतुत्वं गृह­दा­हे­ष्ट्या­दि­व­न्नै­मि­त्ति­क­त्वेन फला­न्त­र­यो­गा­दि­त्यु­क्त­म­नु­व­दति -
यत्त्विति ।

यथा मलिनः स्नाया­दि­त्युक्ते स्नानफलं मल­नि­वृ­त्ति­र्ग­म्यते तथा ब्रह्महा द्वादशवर्षिकं व्रतं चरेदित्युक्ते ब्रह्म­ह­त्या­नि­वृ­त्ति­र्व्र­त­फलं प्रतीयते तेन दृष्ट­त्या­गे­ना­दृ­ष्ट­क­ल्पना न युक्तेत्याह -
तदसदिति ।

प्राय­श्चि­त्तानां पाप­नि­वृ­त्ति­फ­ल­त्वेऽ­वि­द्याया न तथात्वं तद्व­त्त­न्नि­वृ­त्त्यु­द्दे­शेन तस्या विध्य­भा­वा­दि­त्यु­क्त­म­नु­द्र­वति -
यदिति ।

दोषक्षयोद्देशेन सगुणविद्यासु वा विध्यभावो निर्गु­ण­वि­द्यायां वेति विकल्प्यति -
अत्रेति ।

प्रथमं प्राह -
सगुणास्त्विति ।

तासा­मै­श्व­र्य­फ­ल­त्वान्न पापक्षयोद्देशेन विधि­रि­त्या­श­ङ्क्याह -
तास्विति ।

विधि­त्सि­त­वि­द्या­स्तु­रेव पाप्मा­दि­नि­वृ­त्ति­श्रु­ति­रि­त्या­श­ङ्क्याह -
तयोश्चेति ।
उभयसंयोगित्वेन विद्या­वि­धि­स­म्भ­वा­दि­त्यर्थः ।

पाप्म­दा­हा­दि­श्रुतेः स्तुत्य­र्थ­त्वा­भावे फलितमाह -
अत इति ।

द्वितीये विध्यभावमुपेत्य विद्या­स्व­भा­वा­देव पापक्षयफलत्वमाह -
निर्गुणायां त्विति ।
विम­त­मा­त्म­न्य­शे­ष­दु­रि­त­नि­व­र्तकं दुरि­त­क­र्तृ­त्वा­दि­बा­ध­क­त्वा­त्स्व­प्न­दु­रि­त­क­र्तृ­त्वा­दि­बा­ध­क­तया तत्का­ली­न­दु­रि­त­बा­ध­क­जा­ग्र­द्बो­ध­व­दिति भावः ।

सर्वत्रापि दुरितनिवर्तकस्य तुल्य­त्वा­द्दा­हा­श्ले­ष­वि­भा­गो­क्ति­र­यु­क्ते­त्या­श­ङ्क्या­श्ले­षो­क्ते­र्ग­ति­माह -
अश्लेष इति चेति ।
सर्वमपि व्यापारं कार्य­क­र­ण­स­ङ्घा­ता­श्रयं पश्य­न्न­वि­क्रि­य­ब्र­ह्मा­त्म­दर्शी कर्तृत्वमेव स्वस्य न मन्यते । नच परकर्तृकेण पापेन लिप्यते स्वयमित्यर्थः ।

विद्यो­त्प­त्ते­रूर्ध्वं कर्तृ­त्वा­भि­मा­ना­भा­वेऽपि प्राग्भावात्कथं कर्म­नि­वृ­त्ति­रि­त्या­शङ्क्य दाहो­क्ति­मु­प­पा­द­यति -
अति­क्रा­न्ते­ष्विति ।

विद्याधीनं कर्मनाशं विद्या­व­द­नु­भ­वा­नु­सा­रेण विवृणोति -
पूर्वेति ।

मोक्ष­शा­स्त्रा­नु­प­प­त्त्यापि विद्याधीना पापहानिरित्याह -
एवमेवेति ।

योग­प्र­भा­वा­द्यु­ग­प­द­ने­क­दे­ह­नि­र्मा­णे­ना­प­र्या­येण सर्व­क­र्म­फ­लो­प­भोगे मुक्ति­र्यु­क्ते­त्या­श­ङ्क्याह -
अन्यथेति ।
कर्मणां निय­त­का­ल­वि­पा­क­त्वा­द्यु­ग­प­दु­प­भो­गा­यो­गा­दु­प­भो­ग­स्यापि कर्मा­न्त­र­स­ञ्च­य­म­न्त­रे­णा­स­म्भ­वा­त्क­ल्प­श­ता­ति­क्र­म­का­ल­भो­ग्या­ना­म­धुना भोक्तु­म­यु­क्त­त्वा­द्दी­र्घ­का­लानां च परि­मि­त­का­ल­भो­गा­नु­प­प­त्तेर्न विद्यातिरेकेण निःशे­ष­क­र्म­नि­वृ­त्ति­रि­त्यर्थः ।

सत्स्वपि कर्मान्तरेषु मोक्ष­हे­तु­क­र्म­व­शा­न्मो­क्ष­म­नु­भूय कर्मान्तरफलानि पश्चा­द्भो­क्ष्यन्त इत्याशङ्क्याह -
नचेति ।

दृष्टफलत्वाच्च विद्याया न तत्फलस्य कालान्तरापेक्षा येनो­त्प­न्न­वि­द्योऽपि कर्मफलान्यनुभूय पश्चा­न्मु­च्ये­ते­त्याह -
परोक्षेति ।

श्रुति­स्मृ­ति­न्या­य­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ॥ १३ ॥

ज्ञाना­त्पा­प­नि­वृ­त्ति­मुक्त्वा तस्मादेव पुण्य­नि­वृ­त्ति­म­ति­दि­शति -
इतरस्यापीति ।

अधि­क­र­ण­स्या­पू­र्व­वि­ष­यतां वक्तुं वृत्तं कीर्तयति -
पूर्वस्मिन्निति ।

पुण्यं कर्म विषयस्तत्किं ब्रह्मधिया न क्षीयते क्षीयते वेति पू्र्वव­त्क­र्मणां फला­न्त­त्व­प्र­ती­ते­र्ज्ञा­ना­द्दा­ह­प्र­ती­तेश्च संशये पादा­दि­स­ङ्ग­ति­र­ति­देशे पृथङ्न वाच्येति मन्वानोऽधिकां शङ्कामाह -
धर्मस्येति ।
न सुकृतज्ञाने बाध्यबाधकभूते चोद­ना­ल­क्ष­ण­त्वा­द­ग्नि­हो­त्र­द­र्श­पू­र्ण­मा­स­वत् । नच क्षीयन्ते चेत्या­दि­वि­रो­ध­स्तस्य सामान्योपाधौ प्रवृत्तस्य सर्वे पाप्मान इति विशेषानुसारेण पापकर्मणि सङ्को­चा­त्पू­ण्य­पापे विधूयेति पुण्यं फलोपभोगेन पापं ज्ञानेन विधूयेति नियमतो विद्यावतः सुकृताधीनः संसारः स्यादिति भावः ।

अधि­का­श­ङ्क्या­म­नूद्य सिद्धन्तयति -
इत्याशङ्क्येति ।

अति­दे­श­सू­त्र­प­दानि व्याकरोति । -
इतरस्यापीति ।

शास्त्रीयत्वेन तयोर्विरोधो नास्ती­त्यु­क्त­मिति शङ्कते -
कुत इति ।

अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­स­यो­र­वि­रु­द्ध­फ­ल­त्वान्न निव­र्त्य­नि­व­र्त­क­भावो न शास्त्री­य­त्वा­दि­त्य­भि­प्रेत्य हेतो­र­प्र­यो­ज­क­त्व­माह -
तस्यापीति ।
पापं दृष्टा­न्त­यि­तु­म­पि­शब्दः ।

काला­त्य­या­प­दि­ष्ट­त्वाच्च नानुमानमित्याह -
उभे इति ।

विमतं तत्त्व­धी­नि­वर्त्यं तद्वि­रु­द्ध­त्वा­द्दु­रि­त­व­दि­ति­प्र­त्य­नु­मा­न­वि­रो­धा­च्चा­यु­क्त­म­नु­मा­न­मि­त्याह -
अकर्त्रात्मेति ।

सामा­न्य­श्रु­ति­वि­रो­धा­च्चा­नु­मा­ना­सि­द्धि­रि­त्याह -
क्षीयन्ते चेति ।

यत्तु सामा­न्य­शा­स्त्रस्य सर्वे पाप्मान इति विशेषश्रुत्या पाप्मकर्मणि सङ्कोचः स्यादिति, तत्राह -
यत्रेति ।

पाप्मशब्दस्य निकृ­ष्ट­फ­ल­क­र्म­वि­ष­य­त्वा­दु­त्कु­ष्ट­फलं कर्म कथं तेन गृह्यते, तत्राह -
ज्ञानेति ।

वृद्ध­प्र­यो­गा­भावे कथमुपचारेणापि पाप्मशब्दः सुकृते स्यात् , तत्राह -
अस्तीति ।

तत्रापि पाप्मशब्दस्य सुकृ­त­वि­ष­य­त्व­म­सि­द्ध­मि­त्या­शङ्क्य प्रक्र­म­म­नु­सृ­त्याह -
सहेति ।

यत्तु पुण्यपापे विधूयेत्यत्र पुण्यं फलभोगेन पापं विज्ञानेन विधूयेति विभजनं तन्ना­श्रु­त­क­ल्प­ना­हे­त्व­भा­वा­दिति मत्वा ज्ञान­सा­म­र्थ्या­द­शे­ष­क­र्म­क्षये तदश्लेषे च फलितमर्थं सूत्रा­व­य­व­म­व­तार्य व्याकुर्वन्नाह -
पाते त्वितीति ।
एतेन फल­म­धि­क­र­ण­यो­रु­क्तम् ॥ १४ ॥

तत्त्वज्ञानेन सर्व­क­र्म­णा­मौ­त्स­र्गिको लयो व्याख्यातः । संप्र­त्या­र­ब्ध­क­र्म­वि­षये तदपवादं दर्शयति -
अनारब्धेति ।

वृत्तं कीर्त­य­न्न­धि­क­र­णस्य विषयमाह -
पूर्वयोरिति ।

ज्ञानाधीनं कर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्य­वि­शे­ष­श्रु­ते­स्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -
स किमिति ।
श्रौती ब्रह्म­धी­र­प्र­ति­ब­द्धैव फल­दे­त्य­भि­धा­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे क्षेम­प्रा­प्ते­र­व­धि­क­र­णा­सिद्धिः ।

सिद्धान्ते विदुषोऽपि प्रारब्धकर्मणा कञ्चि­त्का­ल­म­व­स्था­ना­त्त­त्सि­द्धि­रि­त्य­ङ्गी­कृत्य पूर्वा­धि­क­र­ण­न्या­ये­न­पू­र्व­प­क्ष­यति -
तत्रेति ।

सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
एवमिति ।

सौत्रा­व­धा­र­णा­र्थ­माह -
न त्विति ।

अर्धभुक्तफले कर्मणी कार्यद्वारा विशिनष्टि -
याभ्यामिति ।

विद्या­श­ङ्क्त्य­नु­गृ­ही­ता­वि­शे­ष­श्रु­ते­र्वि­द्व­द्दे­हा­र­म्भ­क­यो­रपि कर्मणोर्नाशः स्यादि­त्या­क्षि­पति -
कुत इति ।

श्रुत्योत्तरमाह -
तस्येति ।

कथमेतावता कर्मशेषसिद्धिः, तत्राह -
इतरथेति ।
ज्ञानसमकालमेव सर्व­क­र्म­क्ष­या­न्मोक्षे ज्ञानमेव क्षेम­प्रा­प्ते­र­व­धि­रिति न देहपातं तदवधिमभिदधीत । तथाच श्रुता­व­व­ध्य­न्त­र­क­र­ण­लि­ङ्गा­ज्ज्ञा­ना­दू­र्ध्व­मपि शरीरमनुवर्तमानं कर्मशेषं गमयति तदभावे तद­नु­वृ­त्ते­र­नु­प­प­त्ते­रि­त्यर्थः ।

विद्याया दृष्टसामर्थ्येन कर्म­क्ष­य­हे­तु­त्वान्न शास्त्रेण तन्निराकरणं दृष्ट­वि­रो­धि­न­स्तस्य ग्राव­प्ल­व­न­श्रु­ति­व­द­प्रा­मा­ण्य­दिति शङ्कते -
नन्विति ।

दाह­क­सं­नि­ध्य­वि­शेषे दाह­व्य­व­स्था­सि­द्धि­रि­त्यत्र दृष्टान्तमाह -
नहीति ।
तस्य तावदेव चिरमिति विदुषो देह­पा­ता­व­धि­क­र­ण­लि­ङ्गम् ।

उद्दालकादीनां तत्त्वविदामेव देहधारणविषयैः श्रुति­स्मृ­ति­लि­ङ्गै­स्त­त्त्व­वि­द्भि­रपि गुरुभिः शिष्याणां सम्ब­न्धा­न्य­था­नु­प­पत्त्या चानुगृहीतं मन्त्रा­दि­प्र­ति­ब­द्ध­स्या­ग्ने­र­दा­ह­क­त्व­व­ज्ज्ञा­नस्य सर्वकर्मक्षये शक्त­स्या­प्या­र­ब्ध­क­र्म­नि­वृत्तौ प्रतिबन्धं कल्पयतीत्याह -
उच्यत इति ।

किञ्च ज्ञानार्थं कर्म स्वयमेव देहमारभ्य ज्ञानं तस्मिन्करोति कर्मान्तरारब्धे वेति विकल्प्याद्यं दूषयति -
नेति ।
नहि ज्ञानार्थस्य कर्मणो देहारम्भकत्वं कल्प्यं गौरवात्तेन कर्मान्तरारब्धे देहे ज्ञानो­त्प­त्ति­रि­त्यर्थः ।

न द्वितीयः । तथा सति ज्ञान­स्यो­प­जी­व्य­क­र्म­बा­ध­क­त्वा­नु­प­प­त्ते­रि­त्याह -
आश्रिते चेति ।

अक­र्त्रा­त्म­ज्ञानं कर्म­नि­दा­न­म­ज्ञानं निव­र्त­य­त्यु­पा­दा­ना­भावे च कथं कर्मानुवृत्तिः, तत्राह -
अकर्त्रात्मेति ।

कर्माण्यपीति सम्बन्धः । सोपादानानि कर्मा­ण्यु­च्छि­न्नानि चेत्क­थ­मा­र­ब्ध­क­र्मा­नु­वृत्तिः, तत्राह -
बाधितमिति ।

स्मृति­हे­तु­त्वेऽपि संस्का­र­स्या­वि­द्या­व­च्चै­त­न्य­दो­ष­त्वा­द­प­रो­क्ष­भ्र­म­हे­तु­ते­त्य­भि­प्रेत्य संस्का­र­व­शा­दि­त्यु­क्तम् । विप्र­ति­प­न्ना­न्प्रति जीव­न्मु­क्ति­मुक्त्वा शिष्या­न्प्र­त्याह -
अपिचेति ।
जीवन्मुक्तिः सप्तम्यर्थः ।

विवादायोगे हेतुमाह -
कथं हीति ।

प्रमा­ण­व­त्त्वा­दपि जीवन्मुक्तिः स्वीकार्येत्याह -
श्रुतीति ।

उक्त­मु­त्स­र्गा­प­वा­द­मु­प­सं­ह­रति -
तस्मादिति ॥ १५ ॥

विद्या­ज­न्य­क­र्म­क्ष­य­स्या­र­ब्ध­क­र्म­स्व­प­वा­द­मु­क्त्वाऽ­ना­र­ब्ध­क­र्म­स्वपि केषुचित्तदपवादं दर्शयति -
अग्निहोत्रादीति ।

वृत्त­स­ङ्की­र्त­न­पू­र्व­क­म­धि­क­र­णस्य तात्पर्यमाह -
पुण्यस्येति ।

अग्नि­हो­त्रा­दि­नि­त्य­नै­मि­त्ति­क­क­र्माणि विषयः । तेषा­मि­त­र­व­ज्ज्ञा­ने­ना­श्ले­ष­वि­नाशौ स्यातां न वेति साधा­र­ण­श्रु­ते­र्वि­वि­दि­षा­श्रु­तेश्च संशये सुकृतशब्दस्य सर्व­पु­ण्य­वि­ष­य­त्वा­द­ग्नि­हो­त्रा­दी­ना­मपि पुण्या­न्त­र­व­द्वि­ना­श्य­त्वा­त्प­ङ्क­क्षा­ल­न­न्या­या­पा­ता­दा­रु­रु­क्षु­णापि तानि नानुष्ठेयानीति प्रापय्य सिद्धान्तयति -
इत्याशङ्क्येति ।
अत्र च ब्रह्म­वि­द्या­सा­म­र्थ्यान्न नित्य­नै­मि­त्ति­क­नि­वृ­त्ति­स्तेषां तदु­त्प­त्त्य­र्थ­त्वा­दि­त्या­प­वा­दिकी पादादिसङ्गतिः पूर्वपक्षे लौकि­क­न्या­या­दा­रु­रु­क्षो­रपि नित्या­द्य­न­नु­ष्ठा­नम् ।

सिद्धान्ते तद­न­व­ता­रा­त्पूर्वं ज्ञानो­त्प­त्ते­स्त­द­नु­ष्ठा­ध्रौ­व्य­मि­त्य­भि­प्रेत्य सूत्रं व्याचष्टे -
तुशब्द इति ।

धीनाश्यानामपि कर्म­णा­म­नु­ष्ठा­नस्य विद्यो­त्प­त्त्य­र्थ­तया पङ्क­प्र­क्षा­ल­न­न्या­या­न­व­का­शा­त्पूर्वं ज्ञाना­द­नु­ष्ठे­या­न्य­ग्नि­हो­त्रा­दी­नीति सिद्धा­न्त­प्र­तिज्ञां विवृणोति -
यदिति ।

अग्नि­हो­त्रा­द्य­नु­ष्ठा­नस्य विद्यो­त्प­त्त्य­र्थत्वे प्रमाणं पृच्छति -
कुत इति ।

तत्र विविदिषावाक्यं प्रमाणयति -
तमेतमिति ।

कर्मणां विद्यो­त्प­त्त्य­र्थ­त्वेऽपि न तयैककार्यतेति शङ्कते -
नन्विति ।

परमतेन परिहरति -
नेत्यादिना ।

स्वमतं दर्शयितुं शङ्कयति -
नन्विति ।

स्वमतेन समाधत्ते -
नेत्यादिना ।

आरादुपकारकत्वं स्फोरयति -
ज्ञानस्येति ।

किंविषयमिदं कार्यैकत्ववचनं तदाह -
अत इति ।
यतो विद्याकाले परस्ताद्वा कर्म नास्ति प्रागेव तदस्तित्वमत एवेति यावत् ।