अद्वैतशारदा

न्यायनिर्णयव्याख्या

४ परिच्छेदः

धीकाले परस्ताद्वा कर्मासत्त्वं स्फुटयति -
नहीति ।

निर्गु­ण­वि­द्या­वि­ष­यत्वं सूत्रस्योपेत्य लाङ्ग­ल­भो­ज­न­यो­र्जी­व­न­हे­तु­ता­व­द्धी­क­र्मणोः साक्षा­त्पा­र­म्प­र्याभ्यां मोक्ष­हे­तु­त्व­मु­क्तम् । सम्प्रति सगु­ण­वि­द्या­वि­ष­यत्वे सूत्रस्य साम­ञ्ज­स्य­म­भि­प्रे­त्याह -
सगुणास्विति ।

तथापि तस्य कुतो विद्यासङ्गतिः, तत्राह -
तस्यापीति ।
सगुणविद्याफले नित्यकर्मणां साक्षा­दु­प­यो­गा­भि­प्रा­य­मिदं सूत्रमित्यर्थः ॥ १६ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं पृच्छति -
किमिति ।

काम्यकर्मविषयं वचनद्वयमिति सूत्रमवतारयति -
अत इति ।

तदक्षरणि व्याकरोति -
अत इत्यादिना ।

उक्तेऽर्थे दार्ढ्या­र्थ­मा­चा­र्या­न्त­र­सं­वादं दर्शयति -
तथेति ॥ १७ ॥

पूर्वो­क्ता­ग्नि­हो­त्रा­दि­ष्वे­वा­ङ्गा­व­ब­द्धो­पा­स्ति­सा­हि­त्या­नि­यमं निरूपयति -
यदेवेति ।

वृत्तं कीर्तयति -
समधिगतमिति ।

विचारविषयं दर्शयति -
तत्रेति ।

अङ्ग­स­ङ्गि­वि­द्या­सं­यु­क्तत्वे प्रमाणमाह -
य एवमिति ।

नित्य­म­ग्नि­हो­त्रा­दि­कर्म विषयीकृत्य संशयमाह -
तत्रेदमिति ।

प्रश्नपूर्वकं संशयकारणमाह -
कुत इति ।
श्रौत­ब्र­ह्म­धी­हे­तु­तया प्रकृ­त­नि­त्य­क­र्म­स्व­ङ्गा­श्रि­त­वि­द्या­सं­यो­गा­नि­य­म­वा­दा­दत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे केवलकर्मणो मोक्षा­न्व­या­सिद्धिः ।

सिद्धान्ते तस्यापि पार­म्प­र्या­त्त­त्सि­द्धि­रिति मत्वा विमृश्य पूर्वपक्षमाह -
किं तावदिति ।

अविशेषतो यज्ञे­ने­त्या­दि­श्रु­ते­रु­भ­य­स्यापि कर्मणो विद्या­ङ्ग­ते­त्या­शङ्क्य ब्राह्मणाय दद्यादित्युक्ते विदुषे न तद्धीनायेति विशे­ष­ला­भ­व­दि­हा­पी­त्याह -
नेत्यादिना ।

विद्यासहितस्य कर्मणो वैशिष्ट्ये मानमाह -
यदहरिति ।

श्रौतेऽर्थे स्मृतिमनुकूलयति -
बुद्ध्येति ।

केव­ल­स्या­ग्नि­हो­त्रा­दे­र्धी­हे­तु­त्वा­भा­वा­न्मो­क्षा­न्वयो नेति प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।

किं विद्यायुक्तस्य कर्मणो विद्या­ही­ना­द­न्त­र­ङ्ग­त्व­मु­च्यते किंवा केवलं कर्म विद्याहेतुरेव नेति । तत्रा­द्य­म­ङ्गी­क­रोति -
सत्यमिति ।

द्वितीयं दूषयति -
तथापीति ।

तत्र प्रश्नपूर्वकं श्रुतिविरोथं हेतुमाह -
कस्मादिति ।

उक्त­म­र्थ­मा­क्षे­प­स­मा­धिभ्यां साधयति -
नन्वित्यादिना ।

केवलस्य कर्मणो विद्यां प्रत्य­न­ङ्ग­त्व­मेव किं न स्यात् , तत्राह -
न त्विति ।

विविदिषन्ति यज्ञे­ने­त्य­वि­शे­ष­श्रु­त­मपि विद्यासहिते यज्ञा­दा­वु­प­सं­ह­र्त­व्य­मि­त्या­शङ्क्य श्रुत्या केवलस्यापि कर्मणो वीर्य­व­त्त्वा­भ्य­नु­ज्ञा­ना­न्मै­व­मिति सूत्र­व्या­ख्या­पू­र्व­क­माह -
तथाहीति ।

वीर्य­व­त्त्व­प्र­ती­ता­वपि कुतो विद्या­सा­ध­न­त्व­मि­त्या­श­ङ्क्या­कि­ञ्चि­त्क­रस्य वीर्य­व­त्त्वा­यो­गा­दि­त्याह -
कर्मणश्चेति ।

कर्मणां पारम्पर्येण मोक्षान्वयं दर्श­यि­तु­मु­प­सं­ह­रति -
तस्मादिति ।
विधु­रा­दे­रा­श्र­म­क­र्म­स्व­न­धि­का­रा­त्त­दीयं जप्यादि विद्या­सा­ध­न­मि­त्य­न्तरा चापी­त्य­त्रो­क्तम् । इह तु विद्योपेतेषु कर्मसु शक्तस्य तत्त्यागेन केवलकर्मकारिणो न विद्या सेत्स्य­ती­त्या­शङ्क्य समाहितमिति द्रष्टव्यम् ॥ १८ ॥

अना­र­ब्ध­का­र्य­म­ग्नि­हो­त्रादि विद्यायुक्तं केवलं च तद्धेतुस्वान्न क्षीयते ज्ञाने­ने­त्यु­क्तम् । इदा­नी­मा­र­ब्ध­का­र्ययोः शुभा­शु­भ­यो­र्ज्ञा­ना­द­नि­वृ­त्त­यो­र्नि­वृ­त्ति­प्र­का­र­माह -
भोगेनेति ।

निर्गु­ण­ब्र­ह्म­वि­द्वि­षयः । स किं देह­पा­ता­दू­र्ध्व­मपि संसारवान्नवेति तन्नि­मि­त्त­भा­वा­भा­वाभ्यां सन्देहे पू्र्वपक्षमग्रे दर्शयिष्यन्नादौ वृत्तानुवादेन सूत्र­ता­त्प­र्य­माह -
अनारब्धेति ।
अत्र श्रौत्र­ब्र­ह्म­वि­द्या­वतो भोगे­ना­र­ब्ध­क­र्म­नि­वृत्तौ ब्रह्म­भा­व­स्या­व­श्य­म्भा­वेक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे ब्रह्मविदोऽपि न मुक्तिः । सिद्धान्ते तस्य साऽवश्यम्भाविनी सत्यां सामग्र्यां कार्यध्रौव्यात् । अनारब्धकार्य एवेत्यत्र नञारब्धकर्म निवृ­त्ते­र्व्या­व­र्तितं तस्य फलं भोगेन क्षयलक्षणमधुना दर्श­य­ती­त्यु­क्तम् । इदानीं निर्गु­ण­ब्र­ह्म­वि­द्वा­ना­र­ब्ध­क­र्म­क्ष­या­न­न्त­र­मपि संसारी संसा­र­स­म्ब­न्ध­यो­ग्य­त्वा­त्पू­र्व­का­ली­न­ब्र­ह्म­वि­द्वा­नि­वे­त्य­नु­मा­नेन पूर्वपक्षमाह -
नन्विति ।

भोग­नि­मि­त्त­क­र्म­व­त्त्व­मु­पा­धि­रिति परिहरति -
नेत्यादिना ।

तदेव स्फुटयति -
उपभोगेति ।
तत्रेति प्राक्का­ली­न­ब्र­ह्म­वि­दुक्तिः ।

देह­पा­तो­त्त­र­का­ली­नेऽपि ब्रह्मविदि भोगनिमित्तं किञ्चि­द्भ­वि­ष्य­तीति साध­न­व्या­प्ति­मा­श­ङ्क्याह -
नचेति ।

अनारब्धं कर्म जन्मा­न्त­रा­र­म्भ­क­मिति कुतः साध­ना­व्या­प्ति­रिति शङ्कते -
नन्विति ।

तस्य ज्ञानेन प्रति­ब­द्ध­श­क्ति­त्वा­न्मै­व­मि­त्याह -
न तस्येति ।

किं तस्य बीजं तदाह -
मिथ्येति ।

केन तर्हि तस्य दाहः स्यात्त­द्द­र्श­यति -
तच्चेति ।
अथ सम्पत्स्य इत्या­दि­श्रु­ति­बा­ध­ना­द्बी­जा­भा­वस्य च विद्व­द­नु­भ­व­सि­द्ध­त्वान्न पूर्वं कर्मानुमेयमिति भावः ।

प्रार­ब्ध­क­र्म­फ­ल­भो­गा­दूर्ध्वं मोक्षेऽपि तत्क­र्म­ज­न्या­ने­क­दे­ह­स­म्भ­वा­त्तत्र च विद्या­प्र­मो­षो­प­प­त्ते­स्त­त्कृ­त­क­र्म­णा­म­श्ले­षा­भा­वेन मुक्त्य­भा­व­मा­श­ङ्क्या­धि­का­रिणा देहान्तरे ज्ञाना­प्र­मो­ष­स्या­ग­मि­क­त्वा­द­स्म­दा­दी­ना­मथ सम्पत्स्य इति श्रुति­सि­द्ध­त्वा­दा­र­ब्ध­भो­गा­न­न्तरं मुक्ति­र­व­श्य­म्भा­वि­नी­त्य­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
इत्यत इति ।
साध­ना­नु­ष्ठा­न­क्रमो निर्गु­ण­वि­द्या­फलं चोक्तमिति पादा­र्थ­भु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ १९ ॥

पूर्व­पा­दा­न्ति­मा­धि­क­रणे निर्गु­ण­ब्र­ह्म­स­म्प­त्ति­रुक्ता सम्प्रति सगु­ण­ब्र­ह्म­स­म्पत्तिं निरू­प­यि­ष्य­न्नु­त्क्रान्तौ वागादीनां मनसि वृत्तिलयं दर्शयति -
वागिति ।

सगुणविद्याफलस्य ब्रह्मा­लौ­कि­क­स्या­र्चि­रा­दि­गा­ति­प्रा­प्य­स्या­नु­त्क्रम्य प्राप्त्य­यो­गा­त्त­द­र्थ­मु­त्क्रा­न्ति­नि­रू­पणं व्यापि­ब्र­ह्मा­त्म­भावे निर्गु­ण­वि­द्या­फले तन्निषेधार्थं चेत्यभिप्रेत्य पाद­स्या­ध्या­य­स­ङ्ग­ति­माह -
अथेति ।
निर्गु­ण­धी­फ­लो­क्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः ।

विदुषो नोत्क्रा­न्ति­र­त्रैव समवनीयन्त इति श्रुते­स्त­त्कि­मु­त्क्रा­न्ति­चि­न्त­ये­त्या­श­ङ्क्याह -
समानेति ।

विद्वा­न­प­र­ब्र­ह्म­वि­दुक्तः । पादार्थं सङ्क्षि­प्या­द्या­धि­क­र­णस्य विषयमाह -
अस्तीति ।
प्रत्ययः प्रयाणं कुर्वत उच्चि­क्र­मि­षो­रिति यावत् ।

वाङ्मनसि सम्पद्यत इत्यत्र वाचमधिकृत्व कर­ण­व्यु­त्पत्त्या स्वरू­प­स­म्प­त्ति­प्र­ती­ते­र्भा­व­व्यु­त्पत्त्या च स्ववृ­त्ति­स­म्प­त्ति­वित्तेः संशयमाह -
किमिहेति ।
श्रौत­स­गु­ण­ब्र­ह्म­धी­फ­ला­र्थ­ग­त्यु­प्र­य­क्तो­त्क्रा­न्त्ये­क­दे­श­नि­रू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे कारणे कार्य­ल­य­नि­य­मा­सिद्धिः ।

सिद्धान्ते लौकि­क­प­री­क्ष­का­भी­ष्ट­नि­य­म­सि­द्धि­रिति मत्वा पूर्वपक्षयति -
तत्रेति ।

तत्र वाक्शब्दश्रुतिं हेतुं करोति -
तथाहीति ।

वृत्ति­म­द्वा­च­क­श­ब्दस्य वृत्ति­मा­त्र­प­रत्वे दोषमाह -
इतरथेति ।

लक्षणापि शब्द­वृ­त्ति­त्वा­द­वि­रु­द्धे­त्या­श­ङ्क्याह -
श्रुतीति ।

श्रुत्य­नु­सा­रि­ण­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

प्रकृतावेव विकारलय इति नियमाभावं प्राप्तमनूद्य सिद्धान्तसूत्रं पूरयित्वा पठति -
एवमिति ।

अध्याहारमसहमानः शङ्कते -
कथमिति ।

उत्त­रा­धि­क­र­णा­लो­च­नया विव­क्षि­त­म­ध्या­हारं साधयति -
सत्यमिति ।

वृत्तिमल्लयस्य वक्ष्य­मा­ण­त्वेऽपि प्रकृते किं जातं तदाह -
तस्मादिति ।

विपक्षे दोषमाह -
तत्त्वेति ।
तत्त्वस्य धर्मिणो वाचः प्रल­य­वि­व­क्षा­या­मिह तत्र चावि­भा­ग­सा­म्या­त्प­र­त्रै­वा­वि­भा­ग­वि­शे­ष­ण­म­यु­क्त­मि­त्यर्थः ।

विशे­ष­ण­सा­म­र्थ्य­सि­द्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।

सूत्र­स्या­भी­ष्ट­मर्थं सङ्क्षिपति -
वागिति ।

सिद्धान्तहेतुं प्रश्न­पू­र्व­क­म­व­तार्य व्याचष्टे -
कस्मादिति ।

वृत्ति­म­दु­प­सं­हा­रेऽपि तुल्यं दर्श­न­मि­त्या­शङ्क्य लौकिकमागमिकं वा तदिति विकल्प्याद्यं प्रत्याह -
न त्विति ।

द्वितीयमालम्बते
नन्विति ।

आगमस्यापि दृष्टा­नु­सा­रा­त्प्र­कृतौ विका­र­ल­यो­क्ति­प­र­त्वा­द्वा­चश्च मनो­वि­का­र­त्वा­भा­वा­त्तत्र लया­यो­गा­द्वृ­त्ति­वृ­त्ति­म­तो­र­भे­द­धिया वाक्शब्दो वृत्तावेवेत्याह -
नेत्याहेति ।

तदेव विवृणोति -
यस्येति ।

वागपि तर्हि मनसो विकारोऽस्तु न मानाभावादित्याह -
नचेति ।

वृत्ते­र­प्य­त­त्प्र­कृ­ति­त्वा­त्कुतो मनसि लयः, तत्राह -
वृत्तीति ।

दर्शनं विशदयति -
पार्थिवेभ्य इति ।

श्रुति­ल­क्ष­णा­वि­शये श्रुति­र्न्या­य्ये­त्युक्तं स्मारयति -
कथमिति ।

मुख्या­र्था­यो­गा­दु­प­चा­र­सि­द्धि­रिति सूत्रावयवमादाय व्याकरोति -
अत इति ॥ १ ॥

वाचि दर्शितं न्यायं चक्षु­रा­दि­ष्व­ति­दि­शति -
अत एवेति ।
यतः प्रकृ­ति­वि­का­र­भा­वा­भा­वान्न स्वरूपलयो वाचोऽपि तु वृत्तिलयोऽत एव सवृत्तिके मनसि सत्येव सर्वा­णी­न्द्रि­याणि तदनुवर्तन्ते न तु तत्र स्वरूपेण लीयन्त इत्यर्थः ।

सूत्राक्षराणि व्याचष्टे -
तस्मादिति ।
उत्क्र­म­णा­दू­र्ध्व­मिति यावत् । उप­शा­न्त­मौ­ष्ण्य­लि­ङ्गकं तेजोऽस्येति तथोक्तः । पुनर्भवं प्रतिपद्यत इति शेषः । तत्रापि सर्वा­णी­न्द्रि­याणि वृत्तिद्वारेणैव मनोऽनुवर्तन्त इति सम्बन्धः ।

अत एवेत्युक्तं हेतुं सदृष्टान्तं स्पष्टयति -
वाच इवेति ।

यद्यत्राविशेषेण सर्वे­न्द्रि­याणां मनसि वृत्त्युपसंहारो विवक्षितस्तर्हि किमित्याद्ये सूत्रे वाचः पृथग्ग्रहणं, तत्राह -
सर्वेषामिति ॥ २ ॥

इन्द्रि­य­वृ­त्ति­ल­या­धा­रस्य मनसो वृत्तिलयाधारं निरूपयति -
तन्मन इति ।

वृत्त­म­नू­द्या­धि­क­र­णस्य विषयमाह -
समधिगतमिति ।

तस्मिन्नपि वाक्येन सवृत्तिकं मनोऽधिकृत्य व्युत्प­त्ति­द्वै­वि­ध्य­सिद्ध्या संशयमाह -
किमिति ।
पूर्ववाक्यं दृष्टा­न्त­यि­तु­म­पि­शब्दः । अत्रापि पूर्व­व­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे श्रुत्य­र्थ­सिद्धिः ।

सिद्धान्ते तद­यो­गा­ल्ल­क्ष­णा­स्वी­क­र­ण­मिति मन्वानो मनःशब्दश्रुत्या पूर्वपक्षयति -
वृत्तीति ।

वाक्श­ब्द­व­न्म­नः­श­ब्द­स्यौ­प­चा­रि­क­त्व­मा­शङ्क्य बाधकाभावादत्र मुख्या­र्थ­त्व­मे­वे­त्याह -
तदिति ।

प्राण­प्र­कृ­ति­कत्वे मनसो न मान­मि­त्या­श­ङ्क्याह -
तथाहीति ।

अन्न­म­न­सो­र­प्प्रा­ण­योश्च प्रकृ­ति­वि­कृ­ति­भा­वेऽपि कथं प्राण­म­न­सो­स्त­थात्वं, तत्राह -
अपश्चेति ।

अबन्नयोः प्रकृ­ति­वि­कृ­ति­भा­वा­त्त­त्का­र्य­यो­रपि प्राणमनसोः प्रकृ­ति­ता­दा­त्म्य­द्वारा प्रकृ­ति­वि­कृ­ति­त्व­सिद्ध्या प्राणे वृत्तिमतो मनसो लय इति फलितमाह -
अतश्चेति ।

प्राणे लीयते मनः सवृत्तिकमिति प्राप्तमनूद्य सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
एवमिति ।

आगृहीताः सर्वतः स्वात्म­न्यु­प­सं­हृता बाह्ये­न्द्रि­याणां वृत्तयो येन तन्मनस्तथा । दर्शनादिति पूर्वो­क्त­यु­क्ति­मत्र हेतुत्वेन सङ्गृह्णाति -
तथाहीति ।

मनःशब्दश्रुत्या स्वरू­प­स­म्प­त्ति­रे­वेति किं न स्यादि­त्या­श­ङ्क्याह -
नचेति ।

उक्तं स्मारयित्वा निरस्यति -
नन्वित्यादिना ।

स्वकारणद्वारा विका­र­यो­र­न्योन्यं प्रकृ­ति­वि­का­रत्वे घटादेरपि शरा­वा­दि­प्र­कृ­ति­त्व­प्र­स­क्ति­रि­त्य­सा­र­त्व­मेव साधयति -
नहीति ।

प्राणा­डि­क­का­र्य­का­र­ण­तो­प­ग­मेऽपि यो यस्य साक्षा­द्वि­का­र­स्त­त्रैव तस्य लयो युक्त इत्याह -
एवमपीति ।

प्राणा­का­र­प­रि­ण­ता­ना­मपां मनः­सं­स्थि­ता­न्ना­का­रेण परि­णा­मा­त्प्रा­ण­म­न­सो­रपि साक्षा­त्प्र­कृ­ति­वि­कृ­ति­त्व­म­स्ती­त्या­श­ङ्क्याह -
नहीति ।

तयोः साक्षा­द­प्र­कृ­ति­वि­कृ­तित्वे फलितमाह -
तस्मादिति ।

कथं तर्हि मनः­श­ब्दो­प­पत्तिः, तत्राह -
वृत्तीति ॥ ३ ॥

यस्मिन्प्राणे मनसो वृत्ति­ल­य­स्त­स्यापि वृत्तिलयाधारं निरूपयति
सोऽध्यक्ष इति ।

वक्ष्य­मा­ण­पू­र्व­प­क्षो­प­यो­गि­त्वेन वृत्तं कीर्तयति -
स्थितमिति ।

सम्प्रति विष­यो­क्ति­पू­र्व­क­मु­भ­य­श्रु­त्यु­प­लब्धेः संशयमाह -
इदमिति ।
पादा­दि­स­ङ्ग­त­यस्तु पूर्ववत् ।

फलभेदोऽपि तथेति स्वीकृत्य पूर्वपक्षयति -
तत्रेति ।
प्राणस्य तेजः­प्र­कृ­ति­क­त्वा­भा­वेऽपि तेजसि वृत्ति­ल­य­स्यो­क्त­न्या­येन शक्य­श­ङ्क्य­त्वा­त्ते­जः­श­ब्दस्य च भूतविशेषवाचिनो जीवे प्रसि­द्ध्य­भा­वा­त्प्रा­णस्य जीवा­त्म­न्यु­प­ग­म­ना­नु­ग­म­ना­व­स्था­न­श्रु­तीनां च तेजोद्वाराऽपि तस्मि­न्नु­प­ग­म­ना­दि­यो­गा­दु­प­प­त्ते­स्ते­ज­स्येव प्राणवृत्तिलय इत्यर्थः ।

सिद्धा­न्त­सू­त्र­मा­दाय योजयति -
एवमिति ।

परिशुद्धं चिद्धातुं व्यावर्तयति -
अविद्येति ।

पूर्वो­क्त­न्या­येन स्वरूपलयं व्यवच्छिनत्ति -
तदिति ।

प्रश्नपूर्वकं हेतूनवतारयति -
कुत इति ।

तत्रोपगमनं श्रुतितो व्याकरोति -
एवमिति ।
यथा राज्ञः प्रया­णा­भि­प्रा­य­मा­त्रेण सर्वे भृत्याः समा­ग­च्छ­न्त्ये­व­मिति योजना । एतदिति क्रियाविशेषणम् ।

आदि­श­ब्द­गृ­ती­त­म­नु­ग­मनं श्रुत्या विशदयति -
विशेषेणेति ।

आदि­श­ब्दो­पा­त्त­म­व­स्था­न­मपि श्रुत्या व्याचष्टे -
सविज्ञान इति ।
विज्ञा­य­तेऽ­ने­नेति विज्ञानं करणजातं तेन पञ्च­वृ­त्ति­प्रा­ण­स­हि­तेन सह तिष्ठतीति यावत् ।

अव्यवधानेन तेजः­प्रा­प्ति­श्रुत्या विरोधं शङ्कते -
नन्विति ।

उभ­य­श्रु­त्य­नु­ग्र­हाय जीवे प्रलीयते तेन सह प्राणस्य तेजसि लयः स्यादित्याह -
नेत्यादिना ॥ ४ ॥

सूत्रा­न्त­र­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति -
कथमिति ।

प्राणस्य जीवद्वारा तेजः­स­म्प­त्ति­रिति सूत्रयोजनया दर्शयति -
स इति ।

नच प्राणस्य तेजोद्वारा जीव­स­म्प­त्ति­स्ते­जसो भूतद्वयद्वारा परस्मिन्नेव सम्प­त्ते­रि­ष्ट­त्वात् । तेजो­ग्र­ह­णे­नो­प­ल­क्षि­तेषु भूतेषु जीवस्य प्राणेन सह लयः स्यादि­त्य­भि­प्रे­त्याह -
तेज इति ।

तेजःशब्देन भूता­न्यु­प­ल­क्ष­यितुं शक्यन्ते साहचर्यान्न जीवस्तदभावादतो न प्राणस्य जीवे लय इति शङ्कते -
नन्विति ।

मानान्तरालोचनया जीव­स्यो­प­स­ङ्ग्रहो न तेजःशब्देनेति परिहरति -
नेत्यादिना ।

यदापि प्राणोऽन्तराले जीवं प्राप्य पुनस्तेजः सम्पद्यते तदापि प्राणस्तेजसीति श्रुति­रु­प­प­न्ने­त्ये­त­द्दृ­ष्टा­न्तेन साधयति -
योऽपि हीति ।

श्रुत्य­र्थ­मु­क्त­मु­प­सं­ह­रति -
तस्मादिति ॥ ५ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं पृच्छति -
कथमिति ।
लक्षणया भूता­न्त­रा­श्र­य­ण­म­युक्तं युक्त्यभावादिति भावः ।

युक्तिपरं सूत्रमवतारयति -
अत इति ।

तत्र प्रतिज्ञां विभजते -
नैकस्मिन्निति ।

स्थूलदेहस्य पञ्चा­त्म­त्व­दृ­ष्टे­स्त­क­त्का­रणं सूक्ष्मशरीरमपि पञ्चा­त्म­क­म­नु­मे­य­मि­त्यु­क्तेऽर्थे युक्तिमाह -
कार्यस्येति ।

सूक्ष्मस्य पञ्चात्मकत्वे मानं ब्रुवाणः सूत्रावयवं व्याचष्टे -
दर्शयतश्चेति ।

ननु देहा­न्त­र­प्रे­प्सा­वे­ला­या­म­द्भि­रेव परिवेष्टितत्वं प्रश्न­प्र­ति­व­च­ना­भ्या­म­धि­ग­म्यते न भूत­सू­क्ष्म­प­ञ्च­क­प­रि­वे­ष्टि­तत्वं, तत्राह -
तदिति ।

सूत्रा­व­य­व­स्या­र्था­न्त­र­माह -
श्रुतीति ।
अण्व्यः सूक्ष्मा मीयन्त इति मात्राः प्राङ्मो­क्षा­द­वि­ना­शिन्यो दशार्धानां पञ्चानां भूतानामित्यर्थः ।

जीवस्य भूताश्रयत्वं श्रुत्य­न्त­र­वि­रु­द्ध­मिति शङ्कते -
नन्विति ।

तौ याज्ञ­व­ल्क्या­र्त­भागौ । जीवा­धा­र­भू­त­क­र्मणां बन्ध­प्र­यो­ज­क­त्वे­ना­श्र­यत्वं भूतानां देहो­पा­दा­न­त्वे­ने­त्य­वि­रो­ध­माह -
अत्रेति ।

कर्म हैवे­त्य­व­धा­र­ण­श्रुत्या वारि­त­मा­श्र­या­न्त­र­मि­त्या­श­ङ्क्याह -
प्रशंसेति ।
सोऽपि कर्मणां प्रकृ­ष्टा­श्र­यत्वं वद­न्नि­कृ­ष्टा­श्र­या­न्त­र­सत्त्वं सूचयतीत्यर्थः ।

कर्मणां भूतानां चाश्रयत्वसम्भवे फलितमाह -
तस्मादिति ॥ ६ ॥

उक्तो­त्क्रा­न्ते­र­प­र­वि­द्या­न्व­य­म­न्वा­चष्टे -
समाना चेति ।

उत्क्रा­न्ति­र्वि­ष­य­स्तत्र ‘विद्य­याऽ­मृ­त­म­श्नुते’ इति श्रुतेरस्य सोम्य पुरु­ष­स्ये­त्य­वि­शे­ष­श्रु­तेश्च संशयमाह -
सेयमिति ।
विशयानानां सन्दि­हा­ना­ना­मि­त्यर्थः । श्रौता­प­र­वि­द्यासु फल­प्रा­प्त्यु­प­यो­गि­त्वे­नो­त्क्रा­न्त्य­न्व­योक्त्या पादादिसङ्गतिः । पूर्वपक्षे विदुषो देहा­द­नु­त्क्रा­न्तस्य मोक्षसिद्धिः ।

सिद्धान्ते तस्या­पी­त­र­व­त्त­स्मा­दु­त्क्रा­न्ते­र­प्र­ति­ब­न्धेन तत्सि­द्धि­रि­त्य­ङ्गी­कृत्य विद्य­या­मृ­त­म­श्नुत इति सगु­णो­पा­स­का­ना­म­प्य­मृ­त­त्व­फ­ला­व­ग­मा­त्स­गु­ण­ब्र­ह्म­विदो नैवो­त्क्रा­न्ति­रिति पूर्वपक्षयति -
विशेषेति ।

अविदुष एवो­त्क्रा­न्ति­रिति विशेषवत्त्वमेव दर्शयति -
भूतेति ।

पूर्व­प­क्ष­मा­क्षि­पति -
नन्विति ।

वस्तु­त­त्त्व­प्र­ति­पा­द­नाय लोक­सि­द्ध­ध­र्मा­णा­म­नू­द्य­मा­न­न्त्वान्न प्रकरणं विद्वद्विषयमिति समाधत्ते -
नेत्यादिना ।

दृष्टान्तं विवृणोति -
यथेति ।

दार्ष्टान्तिकं विभजते -
एवमिति ।

उत्क्रा­न्ते­र्वि­द्व­द्वि­ष­य­त्वा­भावे हेत्वन्तरमाह -
प्रतिषिद्धेति ।

विशे­ष­व­त्त्व­मु­त्क्रा­न्ते­रु­क्त­मु­प­सं­ह­रति -
तस्मादिति ।

सृते­र्मा­र्ग­स्यो­प­क्र­मा­द­र्वा­क्क­र्मिणां सगुणोपासकानां च तुल्यै­वो­त्क्रा­न्ति­रिति सिद्धान्तयति -
एवमिति ।

अस्य सोम्ये­त्या­द्य­वि­शे­ष­श्रु­ते­र्वि­द्व­द­वि­दुषोः साधारणी चेदु­त्क्रा­न्ति­स्तर्हि तयो­र्वि­शे­षा­भा­वा­द्वि­द्या­वै­यर्थ्यं, तत्राह -
अविद्वानिति ।
अवा­ङ्ना­डी­भि­र­वि­द्वा­न्पि­तृ­लोकं लोकान्तरं वा स्वकर्मानुसारेण प्रतिपद्यते विद्वा­न्पु­न­र्मू­र्ध­न्यया नाड्या ब्रह्मलोकमिति विशे­ष­स्त­यो­रि­त्यर्थः ।

सृतिः सरणं देवयानो मार्ग­स्त­दु­प­क्र­मा­त्तु­ल्यो­त्क्रा­न्ति­रि­त्यु­क्तेऽर्थे सूत्रावयवं पातयति -
तदेतदिति ।

अव­शि­ष्ट­सू­त्रा­व­य­व­व्या­वर्त्यां शङ्कामाह -
नन्विति ।

सूत्रा­व­य­व­मु­त्त­र­त्वे­ना­व­तार्य व्याकरोति -
अत्रेति ।

मन­सै­ता­न्का­मा­न्प­श्य­न्र­मते स एकधा भव­ती­त्या­दि­श्रु­ते­र­र्चि­रा­दि­मा­र्ग­ग­म­नेन सेन्द्रियस्य फल­भो­ग­प्र­ति­पा­द­ना­दि­न्द्रि­याणां च निराश्रयाणां गम­ना­यो­गा­ज्जी­व­स्यापि तदा­श्र­य­भू­ता­श्र­यस्य गतिरवगतेत्याह -
नहीति ।

अप­र­वि­द्या­स्व­मृ­त­त्व­मा­पे­क्षि­क­मिति स्थिते तत्रो­त्क्रा­न्त्य­न्वयो युक्त इत्युपसंहरति -
तस्मादिति ॥ ७ ॥

उक्तो­त्क्रा­न्ति­काले या सत्स­म्प­त्ति­स्त­त्स्व­रूपं निरूपयति -
तदाऽपीतेरिति ।

उदा­ह­र­ण­वा­क्य­स्या­र्थो­क्ति­पू­र्व­क­म­धि­क­र­णस्य विषयं दर्शयति -
तेज इति ।

बीजभावावशेषां सत्सम्पत्तिं सिद्धवत्कृत्य विदु­षोऽ­प्यु­त्क्रा­न्ति­रुक्ता, सम्प्रति सम्प­त्ते­रु­भ­य­था­दृ­ष्टे­रा­त्य­न्तिकी सत्स­म्प­त्ति­र­ना­त्य­न्तिकी वेति संशयमाह -
कीदृशीति ।
उत्क्रा­न्ति­का­ली­न­स­त्स­म्पत्तेः श्रुतायाः साव­शे­ष­त्व­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे देहा­दु­त्क्रा­न्त­स्या­पु­न­रा­वृत्तिः ।

सिद्धान्ते तस्यापि ज्ञानहीनस्य पुनरावृत्तिरिति विवक्षित्वा पू्र्वपक्षयति -
तत्रेति ।

पूर्वो­क्ता­त­त्प्र­कृ­ति­त्व­हे­तो­र­भा­वा­दिति हेतुमाह -
तत्प्र­कृ­ति­त्वेति ।

उपपत्तिमेव दर्शयति -
सर्वस्येति ।

विमता तत्स­म्प­त्ति­रा­त्या­न्ति­क्य­न्त­का­ली­न­स­त्स­म्प­त्ति­त्वा­द्ब्र­ह्म­विदः सत्सं­प­त्ति­व­दि­त्यु­प­सं­ह­रति -
तस्मादिति ।

सिद्धा­न्त­सू­त्र­मा­दाय व्याकृ­र्व­न्नु­क्ता­नु­मा­नस्य श्रुतिविरोधमाह -
एवमिति ।

उत्क्रा­न्ति­का­ली­न­स­त्स­म्प­त्ते­रा­त्य­न्ति­कत्वे दोषान्तरमाह -
अन्यथेति ।

इष्टा­प­त्ति­मा­शङ्क्य देहान्तरभोगाय कर्म­वि­ध्य­नु­प­प­त्ति­रि­त्य­नु­मा­नस्य बाधकान्तरमाह -
तत्रेति ।

ज्ञान­वि­ध्य­नु­प­प­त्त्यापि बाधितमनुमानमिति मत्वा ब्रूते -
विद्येति ।

युक्तितोऽपि बाधितं तदित्याह -
मिथ्येति ।
निदा­न­ना­शा­ति­रे­केण निदानिनाशो नात्यन्तिको युक्त इत्यर्थः ।

यत्तु तत्प्र­कृ­ति­त्वो­प­प­त्ते­रिति, तत्राह -
तस्मादिति ।
श्रुता­र्था­प­त्ति­यु­क्ति­वि­रो­ध­स्त­च्छ­ब्दार्थः ॥ ८ ॥

ननु यद्या­सं­सा­र­वि­मो­क्षा­त्ते­ज­आ­दि­भू­त­सू­क्ष्म­मु­क्त­ल­क्ष­ण­म­वि­ष्ठते किमिति तर्हि देहा­न्नि­र्ग­च्छ­द­स्मा­भि­र्नो­प­ल­भ्यते किमिति वा मूर्तान्तरैर्न प्रतिहन्यते तत्राह -
सूक्ष्ममिति ।

स्वरू­प­सौ­क्ष्म्य­स­मु­च्च­या­र्थ­श्च­कार इत्यङ्गीकृत्य व्याचष्टे -
तच्चेति ।

उप­ल­ब्धे­रि­त्ये­त­द्व्या­क­रोति -
तथाहीति ।

परिमाणतः सौक्ष­म्या­ङ्गी­कारे लाभं दर्शयति -
तत्रेति ।

स्वरू­प­त­स्त­द­ङ्गी­कारे लाभमाह -
स्वच्छत्वादिति ।

उभ­य­वि­ध­त्वा­दे­वा­नु­प­ल­ब्धि­रपि सिद्धेत्याह -
अत इति ॥ ९ ॥

सौक्ष्म्यकृतं लाभान्तरमाह -
नोपमर्देनेति ।

तदेव विवृणोति -
अत एवेति ॥ १० ॥

सूक्ष्म­दे­ह­स­द्भावे मान­मौ­ष्ण्य­लि­ङ्ग­क­म­नु­मा­न­म­पी­त्याह -
अस्यैवेति ।

सूत्रं विवृ­ण्व­न्न­नु­मा­न­मेव स्फोरयति -
अस्येति ।

औष्ण्यस्य सूक्ष्मदेहे व्यभि­चा­र­मा­श­ङ्क्यो­प­प­त्ते­रिति योजयति -
तथाहीति ।

अन्व­य­व्य­ति­रे­काभ्यां स्थूल­श­री­रा­द­ति­रिक्तं स्वाश्रयमूष्मा गमयतीत्युक्तम् । इदानीमागमोऽपि सूक्ष्म­दे­ह­ध­र्म­त्व­मस्य सूचयतीत्याह -
तथाचेति ॥ ११ ॥

उत्क्रा­न्ति­का­ली­न­स­त्स­म्पत्तेः साव­शे­ष­त्व­मु­क्तम् । संप्र­त्यु­त्क्रा­न्ते­र्नि­र्गु­ण­ब्र­ह्म­वे­दि­ष्व­भा­व­माह -
प्रतिषेधादिति ।

व्यवहितेन सम्बन्धं दर्श­य­न्न­धि­क­र­णस्य तात्पर्यमाह -
अमृतत्वं चेति ।

परब्रह्मविदं विष­य­त्वे­नो­दा­ह­रति -
अथेति ।
मुक्ति­प्र­क­र­णो­प­क्र­मा­र्थोऽ­थ­शब्दः । बाह्य­वि­ष­य­वै­तृ­ष्ण्य­म­का­म­त्वम् । आन्त­र­का­म­वा­स­ना­रा­हित्यं निष्कामत्वम् । प्राप्त­प­र­मा­न­न्द­त्व­मा­प्त­का­म­त्वम् । सर्वा­त्मै­क­द­र्शि­त्व­मा­त्म­का­म­त्वम् । उत्तरमुत्तरं पूर्वस्य पूर्वस्य निमि­त्त­मे­व­म­का­म­य­मानो ब्रह्मविदत्र श्रुतोऽ­स्ती­त्यर्थः । तस्य किमु­त्क्रा­न्ति­रस्ति किंवा नास्तीति पञ्च­मी­ष­ष्ठी­श्रु­तिभ्यां सन्देहे परब्रह्मविदो मुख्यामृत्वे गत्यु­त्क्रा­न्त्यो­र­भा­वो­क्ते­रत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे निषे­ध­स्या­न्य­वि­ष­य­त्वा­द्वि­दु­षोऽ­वि­दु­ष­श्चा­वि­शेषः ।

सिद्धान्ते शाखाद्वयेऽपि देहा­पा­दा­नो­त्क्रा­न्ति­नि­षे­धा­द्वि­शे­ष­सि­द्धि­रि­त्य­भि­प्रेत्य सिद्धान्तिनो मतनिराकरणेन पूर्वपक्षी स्वमतमाह -
नेत्यादिना ।

न तस्य प्राणा उत्क्रामन्तीति विदुषो देहा­दे­वो­त्क्रा­न्ति­र्नि­षि­ध्यते न शारीरादिति शङ्कते -
कथमिति ।

माध्य­न्दि­न­श्रुत्या प्रत्याह -
न तस्मादिति ।

शारी­रा­दु्त्क्रा­न्ति­नि­षेधे का गतिः षष्ठी­श्रु­ते­रि­त्या­शङ्क्य पञ्च­म्य­न्त­मा­ध्य­न्दि­न­श्रुत्या षष्ठ्य­न्त­का­ण्व­श्रुतिः सम्ब­न्ध­सा­मा­न्य­वि­ष­या­पा­दा­न­रू­प­स­म्ब­न्ध­वि­शेषे व्यव­स्था­प­नी­ये­त्याह -
सम्बन्धेति ।

माध्य­न्दि­न­श्रु­ता­वपि तस्मादिति शरीरमेव परा­मृ­श्य­ता­मि­त्या­श­ङ्क्याह -
तस्मादिति चेति ।
कस्तर्हि वाक्यार्थः ।

स्यादि­त्य­पे­क्षा­या­माह -
न तस्मादिति ॥ १२ ॥

तथापि प्रकृते किमा­या­त­मि­त्या­शङ्क्य सप्राणस्य क्षेत्रज्ञस्य शरी­रा­दु­त्क्रान्तिः सिद्धेत्याह -
सप्राणस्येति ।

परब्रह्मविदोऽपि गत्युत्क्रान्ती स्तामिति । प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।

सूत्रं हेतुत्वेन व्याख्यातुं बहिरेव प्रतिज्ञामाह -
नैतदिति ।

तत्र हेतुतया सूत्रं योजयति -
यत इति ।

उपलम्भमभिनयति -
तथाहीति ।
उदस्मात्प्राणा उत्क्रा­म­न्ती­त्य­त्रो­त्क्रा­न्त्य­व­धि­म­त्त्व­म­स्मा­दि­त्युक्तं सशब्देन परा­मृ­श्यो­च्छ्व­य­ना­दि­ध­र्मो­क्ते­र्य­स्यो­च्छ्व­य­ना­ध्माने तस्यै­वो­त्क्रा­न्त्य­व­धित्वं देहस्येत्यर्थः ।

अथो­च्छ्व­य­ना­दि­ध­र्म­जातं देहिनोऽस्तु तेन तस्यै­वो­त्क्रा­न्त्य­व­धित्वं नेत्याह -
देहस्येति ।

काण्वश्रुतौ निषि­ध्य­मा­नो­त्क्रा­न्ते­र्दे­हा­पा­दा­न­त्वेऽपि माध्य­न्दि­न­श्रुतौ देहिन एव तदपादानत्वं तस्यैव प्राध­न्या­दि­त्या­श­ङ्क्याह -
तदिति ।
विद्या­प्र­क­र­ण­त्व­सा­मा­न्या­द्ब्र­ह्म­विदो देहा­पा­दा­नो­त्क्रा­न्ति­नि­षेधः शाखाद्वयेऽपि तुल्य इत्यर्थः ।

तच्छब्देन सर्वनाम्ना देहिनः प्रधानतया परा­मृ­ष्ट­त्वा­त्कु­तोऽत्र देह­धी­रि­त्या­श­ङ्क्याह -
अभेदेति ।
प्राधा­न्या­द्दे­हि­न­स्त­च्छ­ब्दा­र्ह­त्वेऽपि देह­देि­नो­र­भे­दो­प­चा­रा­द्दे­हि­प­रा­म­र्शि­स­र्व­नाम्ना देहस्यैव परा­म­र्शा­त्त­स्मा­दे­वो­त्क्रा­न्ति­रत्र निषिद्धेति पञ्चमीपाठे व्याख्ये­य­मि­त्यर्थः ।

माध्य­न्दि­न­पा­ठस्य सिद्धा­न्ता­नु­गु­ण्य­मुक्त्वा काण्वपाठस्यापि तदानुगुण्यमाह -
येषां त्विति ।
न तस्ये­त्या­दा­व­पा­दा­ना­पे­क्षायां चक्षुष्टो वा मूर्ध्नो वेति देहां­शा­ना­मु­त्क्रा­न्त्य­पा­दा­न­त्वेन प्रकृतानामिह सम्ब­न्धा­त्क्रा­न्ति­नि­षे­ध­प­र­त्वाच्च वाक्यस्य न तस्य प्राणा देहांशेभ्यः सका­शा­दु­त्क्रा­म­न्तीति वाक्य­वि­प­रि­णा­मा­द­न्यथा वा प्राप्त­नि­षे­धा­पा­ता­त्स­म्ब­न्ध­सा­मा­न्या­र्थ­ष­ष्ठा्याश्च प्राणेन रक्षन्प्राणमय इत्या­दि­क­र्तृ­क­र­णो­पा­ध्यु­प­हि­त­त्व­प्र­कृ­त­स­म्ब­न्ध­वि­शे­ष­प­र्य­व­सा­ना­द­न्य­शा­खा­स्था­पा­दा­न­स­म्ब­न्ध­वि­शे­षा­पे­क्षा­भा­वा­त्तस्य करणोपाधिभूताः प्राणा देहावयवेभ्यो नोत्क्रामन्तीति वाक्यार्थः स्यादित्यर्थः ।

इतश्च विद्व­दु­त्क्रा­न्ति­नि­षे­ध­परं वाक्यमित्याह -
अपिचेति ।

व्यप­दे­श­सा­म­र्थ्य­सि­द्ध­मु­प­सं­ह­रति -
तस्मादिति ।

न केवलं मानाभावादेव गत्यु­त्क्रा­न्त्य­भावः किन्तु युक्त्य­भा­वा­द­पी­त्याह -
नचेति ।

उपपत्त्यभावे हेतुमाह -
निमित्तेति ।
गमनस्य कर्म­क­र­णा­दि­का­र­का­स­म्भ­वा­दि­त्यर्थः ।

तयोः सत्त्वे मानं नास्तीत्युक्तं तदसत्त्वे मानमस्तीत्याह -
अत्रेति ॥ १३ ॥

‘नोत्क्रामन्ति मुनेः प्राणा व्यापी सर्वगतो हि सः । तेन व्याप्तिमिदं सर्वं कुत उत्क्रम्य यास्यति’ इति स्मृतेरपि ब्रह्मविदो नोत्क्रा­न्ति­र्ग­ति­र्वे­त्याह -
स्मर्यते चेति ।

सूत्रं व्याचष्टे -
स्मर्यतेऽपीति ।
अपदस्य प्राप्य­प­द­शू­न्यस्य ब्रह्मविदः पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति । तदभावादिति योजना ।

स्मृत्य­न्त­र­वि­रोधं शङ्कते -
नन्विति ।

अप­र­वि­द्या­ब­ले­नैषा गतिरित्याह -
नेति ।

तत्र नियामकमाह -
सर्वेति ।

आदि­श­ब्दे­ना­नु­ग­म­नादि गृह्यते । तथापि कथं सशरीरस्य गतिः, तत्राह -
नहीति ।

उक्तेऽर्थे वाक्य­शे­ष­म­नु­कू­ल­यति -
तथाचेति ।

स्मृत्य­नु­ग्र­ह­ल­ब्ध­म­र्थ­मु­प­सं­ह­रति
तस्मादिति ।

तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति स एनान्ब्रह्म गम­य­ती­त्या­दि­ग­ति­श्रु­तीनां तर्हि का गतिः, तत्राह -
गतीति ॥ १४ ॥

परब्रह्मविदो ब्रह्मणि पर­स्मि­न्प्रा­णानां प्रलयो दर्शि­त­स्त­द­युक्तं तेषां पृथिव्यादिषु लय­श्र­व­णा­दि­त्या­श­ङ्क्याह -
तानीति ।
विद्व­त्क­ला­प्र­वि­लयो विषयः स किं पृथिव्यादिषु किंवा पर­स्मि­न्ना­त्म­नीति श्रुति­द्व­यो­प­लब्धेः सन्देहे श्रौत­वि­द्या­फ­ल­भू­त­क­ला­वि­लयो ब्रह्म­ण्ये­वे­त्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रकृतावेव विकृतिलयसिद्धिः ।

सिद्धान्ते व्यव­हा­र­त­स्त­था­त्वेऽपि तत्त्वतो ब्रह्मणि कला­वि­ल­यो­प­प­त्ति­रिति मन्वानः सिद्धान्तमाह -
तानीति ।

उक्तार्थे प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
यथा नद्यः समुद्रं प्राप्य प्रलीयन्त एवमेवास्य जीवस्य परितः सम­न्ता­त्स­र्व­तोऽ­न­व­च्छि­न्न­प्र­त्य­ग्ब्र­ह्म­द्र­ष्टु­रिमाः स्वानुभवगम्याः प्राण­श्र­द्धाद्या षोडशसङ्ख्याकाः कला पुरु­षा­य­णा­स्त­दा­श्र­या­स्त­मेव पुरुषं प्राप्य बाह्य­वि­ष­य­स­ङ्ग­त्या­गेन तस्मिन्निष्ठाय विल­य­मा­सा­द­य­न्तीति श्रुत्यर्थः ।

अस्याधिकरणस्य पूर्वपक्षमाह -
नन्विति ।
मनः प्राण­यो­रे­की­क­र­णेन कलानां पञ्चदशत्वं, प्रतिष्ठाशब्देन पृथिव्यादीनि तत्त्वानि कला­का­र­णा­न्यु­च्यन्ते । तथाच प्रकृतावेव विकारलय इति­न्या­या­नु­गृ­ही­त­श्रुत्या भूतेषु विद्वत्कलाविलय इत्यर्थः ।

वस्तुस्थित्या परस्मिन्नात्मनि कलालयेऽपि व्यवहारदृष्ट्या पृथिव्यादिषु तदु­क्ति­र­वि­रुद्धा तेषु विलीय तैः सह परस्मिन्नात्मनि कलानां विलयसिद्धेश्च श्रुति­द्व­य­म­वि­रु­द्ध­मि­त्याह -
न सा खल्विति ।

विद्व­द­वि­द्व­द्दृष्ट्या श्रुतिद्वये प्रवृत्ते फलितमाह -
तस्मादिति ॥ १५ ॥

पृथि­व्या­दि­द्वारा ब्रह्म­ण्यु­क्तस्य विद्व­त्क­ला­वि­ल­यस्य निरवशेषत्वमाह -
अविभाग इति ।

प्रकृतमेव विद्व­त्क­ला­वि­ल­य­म­धि­कृत्य लय­स्यो­भ­य­था­दृष्ट्या संशयमाह -
स पुनरिति ।
अत्र श्रौत­धी­फ­ल­भू­त­वि­द्व­त्क­ला­वि­ल­यस्य निर­व­शे­ष­त्व­नि­रू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे मोक्षासिद्धिः ।

सिद्धान्ते तत्सि­द्धि­रि­त्यु­पेत्य पूर्वपक्षयति -
तत्रेति ।
विदुषो ब्रह्मणि कलाविलयः सावशेषः, ब्रह्मणि कला­वि­ल­य­त्वा­दु­त्क्रा­न्ति­का­ली­न­क­ला­वि­ल­य­व­दि­त्यर्थः ।

श्रुति­यु­क्ति­वि­रु­द्ध­म­नु­मा­न­मिति सिद्धान्तयति -
ब्रवीतीति ।

तत्र श्रुतिविरोधं प्रश्नद्वारा दर्शयति -
कुत इति ।
नदी­स­मु­द्र­न्या­येन पुरुषे कला विलीयन्ते तासां च कलानां नामरूपे शक्त्यात्मके अपि भिद्येते विदीर्यन्ते पुरु­ष­मा­त्र­म­व­शि­ष्यते स च विद्वानकलः कलाविरहितः सन्नमृतो भवति, पूर्णरूपेण तिष्ठतीत्यर्थः ।

श्रुति­वि­रो­ध­म­नु­मा­न­स्योक्त्वा युक्तिविरोधमाह -
अविद्येति ।

अनु­मा­न­नि­रा­स­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ॥ १६ ॥

विद्वत्कलानां वच­ना­द­वि­भा­गा­प­त्ति­व­द­प­र­ब्र­ह्म­वि­दा­मपि चक्षुष्टो वा मूर्ध्नो वेत्य­वि­शे­ष­व­च­ना­द्यया कयाचिन्नाड्या प्राण­नि­ष्क्र­म­ण­मिति प्राप्ते प्रत्याह -
तदो­को­ग्र­ज्व­ल­न­मिति ।

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­धि­क­र­णानां तात्पर्यमाह -
समाप्तेति ।

संप्र­त्य­स्या­धि­क­र­णस्य वत्तमनूद्य तात्पर्यमाह -
समाना चेति ।

सूत्र­भा­ग­व्या­ख्या­द्वा­रा­धि­क­र­णस्य विषयमाह -
तस्येति ।

हृद­य­मा­य­त­न­मि­त्यत्र मानमाह -
स इति ।

अस्तु हृदयं जीवस्यालम्बनं तथापि किं स्यादि­त्या­श­ङ्क्यो­क्तम् -
तदग्रेति ।

अदृष्टाक्षिप्तं प्रति­प­त्त­व्य­ज्ञानं प्रद्योतः । चक्षुष्टो वेति द्वारा­नि­य­म­श्रु­ते­स्त­यो­र्ध्व­मा­य­न्न­मृ­त­त्व­मे­ती­ति­वि­शे­ष­श्रु­तेश्च संशयमाह -
सा किमिति ।
उपा­स­का­नु­पा­स­क­यो­र­नि­य­मेन येन केन­चि­द्द्वा­रे­णो­त्क्रा­न्ति­र­थ­वो­पा­स­का­ना­मस्ति द्वारनियम इति विमर्शार्थः । अत्र चापरब्रह्मविदां फला­र्थो­त्क्रा­न्ते­र्द्वा­र­नि­य­मोक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे ध्यान­कृ­ता­ति­श­य­शू­न्यत्वं सिद्धान्ते तत्कृ­ता­ति­श­य­सि­द्धि­रिति सिद्धवत्कृत्य पूर्वपक्षमाह -
श्रुतीति ।

चक्षुष्टो वेत्या­द्य­वि­शे­ष­श्रु­ते­र्यतः कुत­श्चि­द­ङ्गा­दु­त्क्रा­म­तीति प्राप्तमनूद्य सिद्धान्तमाह -
आचष्ट इति ।
तेन प्रद्योतेन प्रका­शि­त­द्वा­र­वत्त्वे चोत्क्रा­न्ते­रिति शेषः ।

तस्य विदु­षोऽ­वि­दु­ष­श्चो­च्चि­क्र­मि­षो­रेको हृदयमायतनं तस्याग्रज्वलनं प्रद्यो­त­सं­ज्ञि­त­मादौ भवति तेन प्रकाशितद्वारो विद्वा­न­वि­द्वां­श्चो­त्क्रान्तो यद्यपीष्यते तथापि तयो­रु­त्क्रा­न्त्य­पा­दा­न­व्य­व­स्थायां हेतुं पृच्छति -
कुत इति ।

तत्र सौत्रं हेतुमवतार्य व्यतिरेकद्वारा विवृणोति -
विद्येति ।

स्थाना­न्त­रे­भ्योऽपि निष्क्रा­म­न्नु­त्कृष्टं फल­मा­प्नु­या­दि­त्या­शङ्क्य सूत्रावयवं व्याचष्टे -
तच्छेषेति ।
स्थानान्तरेभ्यो निर्गच्छतामपि विशिष्टलोकाप्तौ विशि­ष्ट­ग­ति­चि­न्त­न­वि­धा­न­वै­यर्थ्यं स्यादित्यर्थः ।

फलि­तो­क्ति­प­र­त्वे­ना­व­शिष्टं सूत्रभागं व्याचष्टे -
तस्मादिति ।

उक्तव्यवस्थायां श्रुतिमाह -
तथाहीति ॥ १७ ॥

नाडीद्वारा निष्क्रान्तस्य यदिदं रश्म्य­नु­सा­रित्वं तन्निशायामपि तुल्यमित्याह -
रश्मीति ।

प्रक­र­ण­शो­ध­न­पू­र्वकं विषयमाह -
अस्तीति ।
प्रथमोऽथशब्दो दह­र­वि­द्यो­प­क्र­मार्थो द्वितीयो रश्मि­ना­डी­स­म्ब­न्ध­प्र­द­र्श­न­प्रा­र­म्भा­र्थ­स्तृ­ती­य­स्त्वा­र­ब्ध­क­र्म­वा­स­ना­न­न्त­र्यार्थः । एतदिति क्रियाविशेषणम् । चतु­र्थोऽ­थ­श­ब्द­स्त­दे­त्यर्थः ।

यत्रेति काल­स्यो­क्त­त्वा­त्प्र­क­र­ण­शु­द्धि­लब्धं निगमयति -
तस्मादिति ।

मूर्धन्यनाड्या निर्गच्छतः सगुणब्रह्मविदो रश्म्य­नु­सा­रित्वं किमहन्येव किं वाहनि रात्रौ चेति रश्मिनाडीयोगस्य कालविशेषाश्रुते रात्रौ रश्म्य­भा­वा­व­ग­माच्च संशयमाह -
तदिति ।
अत्र चापरब्रह्मविदां फलाप्तये ब्रह्मनाड्या गच्छतां रश्म्य­नु­सा­रि­त्व­स्या­वि­शे­ष­वा­दा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे रात्रौ प्रेता­ना­म­ह­रा­ग­म­न­म­पेक्ष्य फलप्राप्तिः ।

सिद्धान्ते स याव­त्क्षि­प्ये­दि­त्या­दि­श्रु­ते­स्त­दैव तत्प्रा­प्ति­रि­त्यु­पेत्य सिद्धान्तं प्रतिजानीते -
अविशेषेति ॥ १८ ॥

सूत्रावयवेन पूर्वपक्षयित्वा तदवयवेन परिहरति -
निशीति ।

तत्र पूर्वपक्षं विवृणोति -
अस्तीति ।

सिद्धा­न्त­म­व­तार्य व्याचष्टे -
नेत्यादिना ।
शिरा नाड्यः ।

नाडी­र­श्मि­स­म्ब­न्धस्य याव­द्दे­ह­भा­वित्वे प्रमाणोक्तिपरं सूत्रभागमादाय विभजते -
दर्शयतीति ।

प्रतायन्ते विस्तीर्यन्ते सृप्ता गताः नाडी­र­श्मि­स­म्ब­न्धस्य श्रौतत्वेऽपि कुतो याव­द्दे­ह­भा­वि­त्व­मि­त्या­शङ्क्य युक्तिं दर्शयति -
निदाघेति ।

चन्द्र­ग­त­प्र­का­शा­न्य­था­नु­प­पत्त्या रात्रावस्ति सूर्य­र­श्मि­रि­ति­व­क्तु­मा­दि­प­दम् । नहि चन्द्रमस एव प्रका­श­स्त­स्या­म्म­य­त्वा­त्त­द­यो­गात् । तर्हि शिशिरादिष्वपि रात्रिषु किर­णा­नु­वृ­त्ति­रु­प­ल­भ्ये­ते­त्या­श­ङ्क्याह -
स्तोकेति ।

यद्रात्रौ तापो दृश्यते तदहरेव रात्रौ सविता दधातीति धारणाभिधानं स्तोक­र­श्म्य­नु­वृ­त्त्य­भि­प्रा­य­मि­त्यु­क्तेऽर्थे श्रुत्यन्तरमाह -
अहरेवेति ।

स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छतीति नैर­पे­क्ष्य­श्रुते रात्रौ प्रेतस्य न रश्म्य­पे­क्षे­त्या­श­ङ्क्याह -
यदीति ।

दिवा­म­र­ण­वि­ष­य­मे­त­दि­त्या­श­ङ्क्याह -
नहीति ।

तर्हि रश्म्य­नु­सा­रि­त्व­श्रु­ते­र­र्थ­व­त्त्वाय विदुषो रात्रौ प्रेतस्य फलसम्बन्धो नास्ति, तत्राह -
अथ त्विति ।
नित्य­व­त्फ­ल­स­म्ब­न्धि­तया विद्याया विधानान्न पाक्षि­क­फ­ल­ते­त्यर्थः ।

तर्हि विदुषो मरणमहन्येवेति निय­मा­दु­क्त­दो­ष­नि­वृत्तिः तत्राह -
मृत्युकालेति ।

रात्रौ मृतस्यापि तर्हि सूर्या­द­य­प­र्य­न्त­प्र­तीक्षा स्यात् , तत्राह -
अथापीति ।
आदिशब्देन गर्तादि गृह्यते ।

याव­त्ता­व­दु­प­ब­न्धेन नैर­पे­क्ष्य­श्रु­ति­वि­रो­धाच्च न प्रती­क्षा­क­ल्प­ने­त्याह -
स यावदिति ।

अपरविद्याविदो रश्म्य­नु­सा­रि­त्व­स्या­वि­शे­ष­मु­प­सं­ह­रति -
तस्मादिति ॥ १९ ॥

पूर्वाभिरेव युक्तिभी रात्राविव दक्षिणायनेऽपि मृतस्य फल­प्रा­प्ति­र­वि­शि­ष्टे­त्याह -
अतश्चेति ।
दक्षिणायने मृतो विद्वान्विषयः स किं विद्याफलं नाप्नो­त्यु­ता­प्नो­ती­त्यु­त्त­रा­य­ण­म­र­ण­प्रा­श­स्त्य­प्र­सि­द्धे­र्नि­त्य­व­त्फ­ल­सं­ब­न्धेन विद्याया विधानाच्च सन्देहे दक्षिणायनेऽपि मृतस्य ब्रह्मविदो विद्या­फ­ल­म­व­श्य­म्भा­वीति साध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे दक्षिणायने मृतस्य फला­भा­वा­दु­त्त­रा­य­ण­म­र­णार्थं प्रयतितव्यम् ।

सिद्धान्ते हेतु­सि­द्धे­स्ता­दृ­क्प्र­यत्नो नातीव फल­वा­नि­त्य­भि­प्रेत्य सिद्धान्तमाह -
अत इति ।

पूर्वा­धि­क­र­ण­न्या­येन सिद्धा­न्त­मुक्त्वा पूर्वपक्षमाह -
उत्तरायणेति ।

श्रुति­स्मृ­ति­प्र­सि­द्धिभ्यो दक्षिणायने मृतस्य विदुषो नास्ति फलाप्तिरिति पूर्वपक्षमनूद्य सिद्धान्तमाह -
इतीमामिति ।

अपनोदप्रकारमाह -
प्राशस्त्येति ।

यत्तु भीष्मस्य प्रती­क्षा­द­र्श­ना­दिति, तत्राह -
भीष्मस्येति ।
उत्तरायणमरणं प्रश­स्त­मि­त्य­वि­दु­षा­म­भि­ज्ञा­भि­व­च­न­रूपो व्यव­हा­र­स्त­त्पा­ल­न­द्वारा सदाचारे तान्प्र­व­र्त­यितुं तस्य काल­प्र­ती­क्ष­ण­मि­त्यर्थः ।

तत्प्रतिपालनस्य गत्यन्तरमाह -
पित्रिति ।

उत्तरायणस्य मार्ग­प­र्व­त्वे­ना­पे­क्षे­णी­यत्वं श्रुतमित्युक्तं तत्कुतो दक्षिणायने मृतो विद्वा­न्वि­द्या­फ­ल­मा­प्नु­या­दि­त्या­श­ङ्क्याह -
श्रुतेस्त्विति ।
नहि कालवादिनी श्रुतिः किं त्वाति­वा­हि­क­दे­व­ता­र्थे­त्यर्थः ॥ २० ॥

काल एवात्र प्राधा­न्ये­नो­च्यते नातिवाहिकी देवतेति स्मृतिमाश्रित्य शङ्कते -
नन्विति ।

तदुत्तरत्वेन सूत्रमवतारयति -
अत्रेति ।

स्मार्तमुपासनं प्रत्ययं कालभेदविनियोगः स्मार्तोऽ­भ्यु­प­ग­म्यते प्रत्या­स­त्ते­रिति व्याचष्टे -
योगिन इति ।

योगी दहराद्युपासक एव किं न स्यात् , तत्राह -
स्मार्ते चेति ।
नित्य­म­ग्नि­हो­त्रा­दी­श्व­रा­रा­ध­न­रू­पेण यदनुष्ठीयते स योगः ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतेः । इन्द्रि­या­णी­न्द्रि­या­र्थेषु वर्तन्त इति धार­णा­पू­र्व­कोऽ­क­र्तृ­त्वा­नु­भवः साङ्ख्यमिति भेदः ।

श्रौत­द­ह­रा­द्यु­पा­स्तीनां स्मृत्यविषयत्वे फलितमाह -
अत इति ।

श्रुति­स्मृ­त्यो­र्भि­न्ना­र्थत्वं प्रत्य­भि­ज्ञा­वि­रु­द्ध­मिति शङ्कते -
नन्विति ।

काल­भे­द­वि­धि­प­र­त्व­म­ङ्गी­कृत्य विष­य­व्य­व­स्थोक्ता प्रत्यभिज्ञानेन कालाभिधानद्वारा देवतोक्तौ श्रुति­स्मृ­त्यो­रे­का­र्थ­त्व­मे­वेति कुतो विरोधशङ्केत्याह -
उच्यत इति ।
तदेवं दक्षिणायने मृतस्यापि विदुषो विद्या­फ­ल­म­व­श्य­म्भा­वी­त्य­धि­क­र­णा­र्थ­मु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ २१ ॥

अपरविद्याफलाय देवयानं पन्था­न­म­व­ता­र­यितुं तद­ङ्ग­भू­तो­त्क्रा­न्ति­श्चि­न्तिता । संप्रत्यङ्गिनं पन्थानमेव वक्तुं पादा­न्त­र­मा­र­भ्यते । तत्र पूर्वाधिकरणे प्राय­ण­का­ला­नि­य­मा­द्वि­द्या­फ­लस्य चाव­श्य­क­त्वा­त्प्र­ती­क्ष­णस्य चायु­क्ते­र्द­क्षि­णा­य­नेऽपि मृतस्य विदुषो विद्या­फ­ला­प्ति­र­स्ती­त्यु­क्तम् । प्राय­ण­का­ल­व­त्प्र­यतो गति­र­नि­य­ते­त्या­शङ्क्य परिहरति -
अर्चिरादिनेति ।

वृत्तमनूद्य प्रकृ­तो­त्त­र­मा­र्ग­म­धि­क­र­णस्य विष­य­त्वे­नो­दा­ह­रति -
आसृतीति ।
श्रुत्यन्तरेषु भिन्नासु सृतिष्विति यावत् । संशयहेतुं श्रुति­वि­प्र­ति­पत्तिं वक्तु­म­ने­क­धे­त्यु­क्तम् । अथे­त्यु­त्क्रा­न्त्या­न­न्त­र्योक्तिः । विरजा विरजसो रजः­श­ब्दि­त­ब्र­ह्म­लो­का­प्ति­वि­रो­धि­वि­धुरा इति यावत् ।

उक्तं देवयानं पन्थानमधिकृत्य श्रुति­वि­प्र­ति­पत्तिं सूचितां हेतूकृत्य संशयमाह -
तत्रेति ।
अत्रा­प­र­वि­द्या­फ­ला­प्ति­हे­तु­मा­र्गै­क्योक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे मार्गबहुत्वे विकल्पः सिद्धान्ते तदैक्ये विकल्पशङ्कैव नेत्यङ्गीकृत्य पूर्वपक्षयति -
तत्रेति ।

सृतीनां मिथो भिन्नत्वे हेतुमाह -
भिन्नेति ।

नाना­प्र­क­र­ण­स्थ­त्वेऽपि विद्यावदेकत्वं किं न स्यात् , तत्राह -
भिन्नेति ।
प्रतिप्रकरणं विद्या­भे­दा­द्ग­ति­भे­दा­ना­मपि तद्गुणत्वेन चिन्त्यानां गुणिभेदाद्भेदः स्यादित्यर्थः ।

गतिभेदे हेत्वन्तरमाह -
अपिचेति ।

किञ्च वक्राध्वना गति­म­पे­क्ष्या­व­क्रेण गतिस्त्वरावती कल्प्यत एकत्वे तु किमपेक्ष्य त्वरा स्यात्त­स्मा­द्ग­ति­भे­द­सि­द्धि­रि­त्याह -
त्वरेति ।

मार्गभेदे केनाध्वना ब्रह्म­लो­का­प्ति­रि­त्या­शङ्क्य समु­च्च­या­यो­गा­द्व्री­ह्या­दि­व­द्वि­कल्पः स्यादिति मत्वाह -
तस्मादिति ।

उपा­स्ति­भे­दे­षू­पा­स्य­ब्र­ह्मै­क्य­व­द्गु­ण­भू­त­ग­त्यै­क्य­सि­द्धे­र­र्चि­रा­दि­रे­कैव गतिरित्याह -
एवमिति ।

तत्र प्रतिज्ञां विभजते -
सर्व इति ।

नानाविधाध्वसु श्रुतेषु कारणमवधारणे वक्तव्यमिति पृच्छति -
कुत इति ।

हेतुमवतार्य व्याचष्टे -
तदिति ।

पञ्चा­ग्नि­वि­दा­मेव तेऽर्चि­ष­म­भि­स­म्भ­व­न्ती­त्य­र्चि­रा­दि­गतेः श्रुतत्वात्कुतः सर्वेषामिति विशेषणं, तत्राह -
तथाहीति ।

साधा­र­ण­श्रु­ते­र­श्रु­त­ग­ति­क­धी­वि­ष­य­त्वा­द्वि­द्या­न्त­राणां स्वाधि­का­र­स्थ­ग­ति­नि­र­पे­क्षाणां नार्चि­रा­दि­ग­ति­स­ङ्ग­ति­रिति शङ्कते -
स्यादिति ।

एकत्वेऽपि पथोऽ­ने­क­प­र्व­यु­क्त­त्व­यो­गा­द्ग­ते­रेव न भेदो गौरवादित्याह -
अत्रेति ।

एक­दे­श­प्र­त्य­भि­ज्ञा­ना­दपि गतेरैक्यं सर्वत्रेत्याह -
सर्वत्रेति ।

यत्तु भिन्न­प्र­क­र­ण­त्वा­द्भिन्ना गतय इति तत्र प्रक­र­ण­भे­द­मा­त्रा­देव गतिभेदो विद्याभेदाद्वा, नाद्य इत्याह -
प्रकरणेति ।

नहि द्वितीय इत्याह -
विद्येति ।
तद्भेदेऽपि वेद्य­ब्र­ह्मै­क्य­व­द्गु­ण­भू­त­ग­त्यै­क्य­म­वि­रु­द्ध­मि­त्यर्थः ।

गन्तव्याभेदं विवृणोति -
तथाहीति ।
ते ब्रह्मविदो नानाभोगदेशभाजि ब्रह्मलोके परावतो ब्रह्मणो हिरण्यगर्भस्य पराः समाः प्रकृ­ष्टा­न्सं­व­त्स­रा­न्व­सन्ति, याव­दा­यु­र्ब्र­ह्म­ण­स्ता­व­त्तत्र तिष्ठ­न्ती­त्यर्थः । तस्मिन्निति ब्रह्मलोको गृह्यते । शाश्वतीः समा नित्या­न्सं­व­त्स­रा­न्व­स­न्तीति पूर्ववत् । ब्रह्मणो हिरण्यगर्भस्य या जितिः सर्वलोकजयो या च व्युष्टि­र्व्या­प्तिस्तां लभते समानदेहतां प्राप्तः सन्नित्यर्थः ।

कस्यैतत्फलं, तत्राह -
तद्य इति ।
तत्त­त्रा­धि­कृ­तानां मध्ये ये केचि­द्ब्र­ह्म­च­र्या­दि­सा­ध­नेन ब्रह्मोपासते ते पुनरेतं ब्रह्मलोकं ब्रह्म­णा­धि­ष्ठितं लभन्त इत्यर्थः ।

उक्तश्रुतीनां तात्पर्यमाह -
तत्र तत्रेति ।

परोक्तमनूद्य प्रत्याह -
यत्त्विति ।
रात्रौ स्पष्ट­र­श्म्य­दृ­ष्टे­स्त­द­नु­सा­रि­त्वा­भावे तत्र मृतस्य प्राप्ते सोऽप्येतैरेव रश्मि­भि­रि­त्य­यो­ग­व्य­व­च्छे­दा­र्थ­म­व­धा­रणं नान्य­यो­ग­व्य­व­च्छे­दा­ये­त्यर्थः ।

अन्य­यो­ग­व्य­व­च्छे­द­क­त्व­मपि वचनस्य किं न स्यादि­त्या­श­ङ्क्याह -
नहीति ।
एकस्य वाक्य­स्या­प्रा­प्त­मा­र्ग­प्रा­प­कत्वं तस्य निर­पे­क्ष­त्व­प्र­ति­पा­द­कत्वं चायुक्तं वाक्य­भे­द­प्र­स­ङ्गा­दि­त्यर्थः ।

उभ­य­था­र्थ­त्वा­योगे फलितमाह -
तस्मादिति ।
विधि­सा­म­र्थ्य­प्रा­प्त­म­यो­ग­व्य­व­च्छे­द­मे­व­का­रोऽ­नु­व­द­ती­त्यर्थः ।

यत्तु त्वरावचनं पीडितं स्यादिति, तत्राह -
त्वरेति ।
अर्चि­रा­दि­मा­र्ग­स्यै­क्येऽपि कुतश्चिदन्यतो गन्त­व्या­द­ने­नो­पा­येन सत्यलोकं झटिति गच्छतीति गन्त­व्य­भे­दा­पे­क्षया वचनं युक्तमित्यर्थः ।

देव­या­न­मा­र्गैक्ये हेत्वन्तरमाह -
अपिचेति ।
मार्गभेदे स्थाना­न्त­र­स्यापि योगा­त्तृ­ती­य­स्था­नो­क्तिर्न स्यादित्यर्थः ।

पितृ­या­णा­ति­रि­क्त­मा­र्गै­क्येऽपि किमि­त्य­र्चि­रा­दि­नेति विशे­ष­ण­मि­त्या­श­ङ्क्याह -
भूयांसीति ।
अल्पपर्वणा मार्गेण गन्त­व्य­प्रा­प्ति­स­म्भवे बहु­प­र्व­मा­र्गो­प­देशो व्यर्थः स्यात्प्रे­क्षा­व­त­स्त­त्रा­प्र­वृत्तेः । अतो भूयसां पर्व­णा­म­नु­रो­धे­ना­ल्पी­यसां तदनुप्रवेश एव युक्तो बहूनामनुग्रहस्य न्याय्य­त्वा­दि­त्यर्थः । मार्गैक्ये जघ­न्य­वि­क­ल्प­श­ङ्कापि नेति वक्तु­म­पी­त्यु­क्तम् ॥ १ ॥

सर्वा­त्रा­र्चि­रा­दि­मा­र्ग­प­र्व­प्र­त्य­भि­ज्ञा­ना­द्ग­त्यै­क्य­मु­क्तम् । संप्रत्येतं देवयानं पन्था­न­मा­प­द्या­ग्नि­लो­क­मा­ग­च्छति स वायु­लो­क­मि­त्य­त्रा­र्चि­रा­त्म­का­ग्न्या­न­न्त­र्य­प्र­त्य­भि­ज्ञा­ना­द­र्चि­षोऽ­न­न्तरं निवेशनीयो वायु­रि­त्या­श­ङ्क्याह -
वायुमिति ।

इत­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­त्वे­नो­प­सं­हा­रोऽ­र्चि­रा­दी­ना­मुक्तः स कीदृश इति विचारयति -
केनेति ।

मार्गपर्वणां विशे­ष­ण­वि­शे­ष्यत्वे सिद्धे योग्यतया स्वयमेव संनि­वे­श­वि­शे­ष­सि­द्धे­र­न­र्थकं तन्नि­रू­प­ण­मि­त्या­श­ङ्क्याह -
सुहृदिति ।

संनि­वे­श­वि­शे­ष­ण­वि­शिष्टं विशे­ष­ण­वि­शे­ष्यत्वं तदेतदित्युक्तम् । सङ्क्षे­प­तोऽ­धि­क­र­णस्य तात्प­र्य­मुक्त्वा विषयमाह -
स इति ।

तत्र प्रथ­म­श्रु­त­म­ग्नि­लो­क­म­ति­क्रम्य किमिति वायोः संनिवेशो विचार्यते, तत्राह -
तत्रेति ।

अस­न्दि­ग्ध­मं­श­मुक्त्वा सन्दिग्धमंशमाह -
वायुस्त्विति ।
अर्चि­षोऽ­न­न्त­र­म­ग्नि­लोकं वायुलोकमिति पाठ­क्र­म­ब­ला­द्बा­यु­र्नि­वे­श­यि­तव्यः किंवा वक्ष्य­मा­ण­न्या­येन संव­त्स­र­दे­व­लो­कयोः पर­स्ता­दा­दि­त्यस्य चार्वागिति संशयात्स एव विचारविषय इत्यर्थः । अत्र चाप­र­वि­द्या­फ­लार्थं मार्गपर्वणां संनि­वे­श­वि­शे­ष­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे पाठा­नु­क्र­म­स्या­नु­स­रणं सिद्धान्ते त्वर्थ­क्र­मा­त्तस्य बाध्यतेति मन्वानो वायो­रा­दि­त्या­द­व्य­व­हि­त­पू­र्व­त्वेन संनिवेशं सिद्धान्तमाह -
उच्यत इति ।

पाठ­क्र­मा­द­ग्ने­र­न­न्तरं निवेशनीयो वायुरिति शङ्कते -
कस्मादिति ।

सूत्र­प­दे­नो­त्त­र­माह -
अविशेषेति ।

विशेषदर्शनस्यैव स्थान­वि­शे­ष­सं­नि­वे­श­हे­तु­त्वेऽपि वायोरचिरादिके पथि सामा­न्य­प्रा­प्ता­व­वि­शे­षो­क्ति­रपि हेतुरिति मत्वा व्याचष्टे -
तथाहीति ।
कौषी­त­कि­श्रु­ते­र्वा­ज­स­ने­यि­श्रुतिः श्रुत्यन्तरम् । पुरुषो ध्याता । लोको देहः । प्रैतीत्यत्र तदेति द्रष्टव्यं यदेत्युपक्रमात् । तस्मै प्राप्ता­यो­पा­स­काय वायुस्तत्र स्वात्मनि विजिहीते द्वारं प्रयच्छतीति यावत् ।

वायु­प्र­त्त­द्वा­र­प­रि­माणं दृष्टान्तेन स्पष्टयति -
यथेति ।

विशेषोक्तिफलं निगमयति -
एतस्मादिति ।

सिद्धा­न्ते­नो­प­क्रम्य पूर्वपक्षमाह -
कस्मादिति ।
पाठ­क्र­मा­द­र्चि­षोऽ­न­न्तरं निवेशनीयो वायुरित्यर्थः ।

वायु­प्र­त्त­मा­र्गे­णै­वो­र्ध्व­मा­दि­त्य­मा­क्र­मत इत्यू­र्ध्व­त्व­श्रु­ते­र्दि­ग्व­च­न­त्वेऽ­प्य­र्थ­क्र­म­द्यो­ति­त्वा­त्ते­नेति च वायु­प्र­त्त­र­थ­च­क्र­प­रि­मि­ता­व­का­श­स्यो­र्ध्व­क्र­मणं प्रति हेतु­त्व­सि­द्धे­र्वा­यो­रपि तन्नि­मि­त्त­त्व­दृ­ष्टे­रू­र्ध्व­श­ब्द­श्रु­ति­सि­द्धा­र्थ­क्र­मेण पाठक्रमो बाध्यत इत्याह -
नेत्यादिना ।

उक्तमेवार्थं विवृ­ण्व­न्ना­श­ङ्कते -
नन्विति ।

तत्र सिद्धान्ती स्वाभिप्रायमाह -
उच्यत इति ।

तर्हि वाक्यस्य वैयर्थ्यं नेत्याह -
पदार्थेति ।
स्वर­प­वि­धि­प­र­मे­त­द्व­चनं न क्रमपरमित्यर्थः ।

वाज­स­ने­यि­श्रु­ता­वपि क्रमवाचिशब्दो नास्ती­त्या­श­ङ्क्याह -
इतरत्रेति ।

कौषी­त­कि­वा­क्यो­क्तस्य वायो­श्छा­न्दो­ग्यो­प­दि­ष्टा­र्चि­रा­दि­मार्गे निवे­श­न­मु­क्त­मु­प­सं­ह­रति -
तस्मादिति ।

वाजसनेयिनां संव­त्स­रा­श्र­व­णा­त्कथं वायुमब्दादिति सूत्रं, तत्राह -
वाज­स­ने­यि­न­स्त्विति ।

तर्हि देव­लो­का­द्वा­यु­लो­क­मिति वक्त­व्य­मि­त्या­शङ्क्य छान्दो­ग्या­भि­प्रा­ये­णै­त­दु­क्त­मि­त्याह -
वायुमिति ।

क्रमस्तर्हि कः स्यादि­त्या­श­ङ्क्यो­भ­य­श्रु­त्या­लो­च­नया क्रमं दर्शयति -
छान्दोग्येति ।

तर्हि कथमेकवाक्यत्वं, तत्राह -
तत्रेति ।

तर्हि देवलोकस्य प्राथम्यं संवत्सरस्य पाश्चात्यं किं न स्यात् , तत्राह -
तत्रापीति ।
संवत्सरस्य मासा­र­भ्य­त्वा­न्मा­सा­न­न्तर्ये स्थिते देवलोकः संवत्सरस्य पर­स्ता­द्भ­व­त्या­दि­त्या­न­न्त­र्याय देवलोकादपि वायु­रु­प­रि­ष्टा­द्द्र­ष्टव्यः । सूत्रे तु संव­त्स­रा­द्दे­व­लोकं प्राप्य वायु­म­भि­स­म्भ­व­तीति विवक्षितं वायुशब्दस्य देव­लो­को­प­ल­क्ष­णा­र्थ­त्वात् । अतः श्रुति­त्र­य­व­शा­द्दे­व­लो­क­स­हि­त­वायोः संव­त्स­रा­दि­त्या­न्त­रा­ल­व­र्ति­त्व­मि­त्यर्थः ॥ २ ॥

वायोः संनिवेशे दर्शिते तद­न­न्त­र­प­ठि­त­व­रु­णा­दि­सं­नि­वेशं दर्शयति -
तडितोऽधि वरुण इति ।

स वरु­ण­लो­क­मि­त्या­दिना श्रुतो वरुणादिर्विषयः स किम­र्चि­रा­दि­मा­र्ग­प­र्व­त्वेन न सम्बध्यते किंवा सम्बध्यत इति तस्य तत्र संनि­वे­श­स्था­ना­स­म्भ­व­स­म्भ­वाभ्यां सन्देहे स वायुलोकं स वरुणलोकमिति वरुणादीनां पाठक्रमेण वायो­रू­र्ध्व­मा­दि­त्या­त्प्रा­गू­र्ध्व­श्रु­ति­सि­द्धा­र्थ­क्र­म­वि­रो­धेन निवे­शा­सि­द्धे­र्वि­द्यु­त­श्चो­प­रि­ष्टा­द­मा­न­व­पु­रु­ष­स्यैव नेतृ­त्व­श्र­व­णा­द्व­रु­णा­दी­ना­म­नु­प­यो­गा­न्नि­वे­श­स्था­ना­न्त­रा­दृ­ष्टेश्च तेषां मार्गपर्वत्वेन सम्बन्धो नास्तीति प्राप्ते सिद्धान्तमाह -
आदित्यादिति ।

विद्युतोऽनन्तरं वरुणसंनिवेशे सूत्रोक्तं हेतुमाह -
अस्तीति ।

तत्र लोक­प्र­सि­द्धि­म­नु­कू­ल­यति -
यदेति ।
विद्यु­दु­द्भ­वा­न­न्तरं वृष्टे­र्दृ­ष्ट­त्वा­त्का­र्य­का­र­ण­भा­व­स्त­यो­र­स्ती­त्यर्थः ।

तत्रैव श्रुतिं संवादयति -
विद्योतत इति ।

अपां विद्युद्योगेऽपि वरुणस्य किमायातं तदाह -
अपां चेति ।

वायो­र­न­न्त­र­म­धी­त­स्यापि वरुणस्य विद्यु­दा­न­न्त­र्य­व­दि­न्द्र­प्र­जा­प­त्यो­र्व­रु­णा­न­न्त­र­म­धी­त­यो­रपि स्थानान्तरं वाच्य­मि­त्या­श­ङ्क्याह -
वरुणाच्चेति ।

तर्हि तयो­र्मा­र्ग­प­र्व­त्वेन सङ्गतिरेव मा भूदि­त्या­श­ङ्क्याह -
पाठेति ।

आगन्तूनामन्ते निवेश इति­न्या­या­च्चा­सा­धा­र­ण­स्था­न­ही­नानां वरुणादीनां तडि­दा­न­न्त­र्य­मु­क्त­मि­त्याह -
आगन्तुकत्वादिति ।
यथा दर्श­पू­र्ण­मा­सि­क­वि­कृतौ नक्षत्रेष्टौ सोऽत्र जुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहे­त्या­दी­ना­मु­प­हो­मानां प्रधा­न­श­ब्द­गृ­ही­त­प्र­कृ­त­ना­रि­ष्ट­हो­मान्ते प्रयोगो निरू­पि­त­स्त­था­र्चि­रा­दि­मा­र्गेऽपि स्थाना­भा­वे­ना­ग­न्तू­ना­मन्ते निवेशः स्यादिति भावः ।

कथं विद्यु­तोऽ­न्त्यत्वं नहि तदन्त्यत्ववाची शब्दोऽ­स्ती­त्या­शङ्क्य विद्युदनन्तरं पर्वा­न्त­र­स्या­नु­क्ते­स्त­द­न्त्य­त्व­मि­त्याह -
विद्युच्चेति ।
वरु­णा­दी­ना­मु­प­यो­ग­स्त्व­मा­न­वेन सह नेतृ­त्व­स­म्भ­वा­दिति वक्ष्यते । अत्र च विद्याफलार्थे पथि वरुणादीनां संनिवेशोक्त्या पादादिसङ्गतिः । पूर्वपक्षे वरु­णा­दि­पा­ठ­स्या­दृ­ष्टा­र्थत्वं सिद्धान्ते वरुणादीनां स्थाना­न्त­रा­भा­वेऽ­प्या­ग­न्तू­ना­मन्ते निवेशात्पाठस्य दृष्टार्थतेवेति द्रष्टव्यम् ॥ ३ ॥

अर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आतिवाहिका इति ।

विष­यो­क्ति­पू­र्व­क­मु­क्ति­सा­म्या­ल्लो­क­श­ब्दा­द­ति­ने­तृ­त्व­लि­ङ्गाच्च संशयमाह -
तेष्वेवेति ।
अत्र च विद्या­फ­ल­प्रा­प्त्य­र्थ­म­र्चि­रा­दा­व­ध्वनि प्रवृत्तस्य विदुषो गम­यि­तृ­त्व­चि­न्त­ना­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे निर्देशस्य लोकश्रुतेर्वा मुख्यत्वं सिद्धान्ते न्याय­व­ल्लि­ङ्ग­स्ये­त्य­ङ्गी­कृत्य पूर्वपक्षमाह -
तत्रेति ।

उक्तेऽर्थे निर्देशसाम्यं हेतुमाह -
तदिति ।

उक्तमेव हेतुुं दृष्टान्तेन स्पष्टयति -
यथेति ।

पूर्व­प­क्षा­न्त­र­माह -
अथवेति ।

कथं लोक­श­ब्द­प्र­यो­गेऽ­प्य­र्चि­रा­दीनां भोगभूमित्वं, तत्राह -
लोकेति ।

मार्गपर्वणां भोगभूमित्वे श्रुतिमपि दर्शयति -
तथाचेति ।
अहो­रा­त्र­प्र­भृ­तिषु लोकशब्दितेषु भोगायतनेषु ते कर्मिणो ज्ञानिनश्च सक्तिं भोगमनुभवन्तीति यावत् ।

पक्षद्वयेऽपि फलितमाह -
तस्मादिति ।

अर्चि­रा­दि­श­ब्दा­ना­म­चे­त­ने­ष्व­ग्न्या­दिषु रूढत्वादपि न तेषा­मा­ति­वा­हि­क­ते­त्याह -
अचेतनत्वादिति ।

तदेव व्यति­रे­क­दृ­ष्टा­न्तेन स्फोरयति
चेतना हीति ।

सिद्धा­न्त­सू­त्र­मा­दाय प्रतिज्ञां विभजते -
एवमिति ।

तत्र हेतुं प्रश्न­पू­र्व­क­मा­दाय व्याचष्टे -
कुत इति ।
अमानवपुरुषस्य विद्यु­दा­दा­वा­ति­वा­हि­क­त्व­दृ­ष्टे­र­र्चि­रा­दी­ना­मपि तदु­न्ने­य­मि­त्यर्थः ।

यावद्वचनं वाचनिकमिति न्यायान्न तेषा­मा­ति­वा­हि­क­त्व­सा­ध­क­मे­त­दिति शङ्कते -
तदिति ।
उभयपरत्वे वाक्यभेदः स्यादिति भावः ।

प्राप्त­ग­म­यि­तृ­मा­न­व­पु­रु­षा­नु­वा­दे­ना­प्रा­प्ता­मा­न­व­त्व­वा­दि­त्वा­द्वा­क्य­स्यो­भ­य­प­र­त्वेन वाक्य­भे­द­प्र­स­ङ्गा­त्पू­र्वे­षा­मपि मानवपुरुषतया गमययितृत्वं ग्राह्यमित्याह -
नेति ।

उक्तमेव प्रपञ्चयति -
यदीति ॥ ४ ॥

लिङ्ग­स्या­नु­ग्रा­ह­क­न्या­या­भावे गम­क­त्वा­सि­द्धि­रिति शङ्कते -
नन्विति ।

न्यायोक्तिपरं सूत्रमवतारयति -
नेति ।

चेतनस्य यत्न­ही­न­स्यो­र्ध्व­ग­ति­श्चे­त­ना­न्त­रा­धी­नेति लौकिकन्यायेन यत्नहीनानां गन्तॄणां गम­यि­ता­रोऽ­र्चि­रा­द­य­श्चे­तनाः स्युरिति सूत्रयोजनया ब्रूते -
ये तावदिति ।

उभ­यो­र्मा­र्ग­त­द्ग­न्त्रो­र्व्या­मो­हा­द­ज्ञ­त्वा­त्त­त्सि­द्धे­र्ग­म­यि­तृ­सि­द्धेर्न न्यायहीनं लिङ्ग­मि­त्युक्त्वा न्यायमेव स्फुटयति -
लोकेऽपीति ।

पूर्व­प­क्ष­द्व­या­योगे हेत्वन्तरमाह -
अन­व­स्थि­त­त्वा­दिति ।

अहः­शु­क्ल­प­क्षो­त्त­रा­य­णानां कालान्तरेषु मार्ग­चि­ह्न­त्व­भो­ग­भू­मित्वे न सम्भाव्येते तदा तेषामभावादिति हेतुं साधयति -
नहीति ।

तर्हि तदागमनं प्रतीक्ष्य रात्र्यादौ प्रेतो गमिष्यति नेत्याह -
नचेति ।

अन­व­स्थि­त­त्वा­वि­शे­षा­दा­ति­वा­हि­क­त्व­मपि कुत­स्ते­षा­मि­त्या­श­ङ्क्याह -
ध्रुवत्वादिति ।

अर्चि­रा­दि­श­ब्दा­ना­म­चे­त­नेषु रूढेर्न तेषां देव­ता­वा­चि­ते­त्या­श­ङ्क्याह -
अर्चिरादीति ।
न चाभि­म­त­व्या­हा­रा­दि­दे­हा­भावे तद्दे­व­ता­ना­म­न­व­स्था­न­मिति वाच्यम् । ऐश्व­र्य­यो­गा­त्ता­सा­म­ने­क­वि­ग्र­ह­ग्र­ह­ण­यो­गात् । अतो देव­द­त्ता­दि­श­ब्द­व­द­र्थ­त­श्चे­त­नेषु मुख्यतेत्यर्थः ।

जाड्याद्बद्ध इत्यादौ गुणवचनेषु जाड्यादिषु पञ्च­मी­द­र्श­ना­द­र्चि­रा­दीनां च गुण­व­च­न­त्वा­भा­वा­द्व­हनं प्रत्य­र्चि­रा­दीनां हेतु­त्वा­न­व­ग­मा­द­र्चिष इत्य­स्मा­द­पा­दा­न­त्व­प्र­ती­ते­र्ना­ति­वा­हि­क­त्व­सि­द्धि­रि­त्या­श­ङ्‌क्याह -
अर्चिष इति ।
तार्कि­क­प्र­क्रि­या­सि­द्ध­गु­ण­त्वा­भा­वेऽ­प्या­श्रि­त­त्वेन तत्सि­द्धे­र्हे­ता­वेषा पञ्चमीत्यार्थः ।

उक्तेऽर्थे लौकिकव्यपदेशं दर्शयति -
तथाचेति ।

इत­श्चा­र्चि­रा­दि­श­ब्दानां गम­यि­तृ­वि­ष­य­ते­त्याह -
अपिचेति ।

सामान्यवचने शब्दे विशेषापेक्षिणि दृष्टे विशेषशब्देन तत्सामान्यं निय­न्त­व्य­मि­ति­न्या­या­द­ति­वा­ह्या­ति­वा­ह­क­स­म्ब­न्ध­सि­द्धि­रिति हेत्वन्तरमेव स्फुटयति -
उपक्रमेऽपीति ।

यत्तु भोग­भू­मि­त्व­म­र्चि­रा­दी­ना­मुक्तं तद्दूषयति -
सम्पिण्डितेति ।

लोक­श­ब्दा­द्भो­ग­भू­मि­त्व­मुक्तं प्रत्याह -
लोकेति ।

गन्तॄणां भोक्तृ­त्वा­भा­वेऽपि वाक्यं शक्यं नेतुमिति फलितमाह -
अत इति ॥ ५ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं शङ्कते -
कथमिति ।

का पुनरनुपपत्तिः तत्राह -
विद्युतो हीति ।

आतिवाहिकत्वमपि नियतं नेत्युक्ते प्रत्याह -
अत इति ।

वरुणादिषु वच­ना­द­प­वा­द­म­ङ्गी­कृत्य विभजते -
तत इति ।

किं तर्हि तैरि­त्या­श­ङ्क्याह -
वरुणादयस्त्विति ।

तेषां स्वय­म­वा­ह­क­त्वेऽपि तत्साहाय्यकरणेन तथा­त्वा­द्यु­क्त­म­र्चि­रा­दि­श­ब्दानां गम­यि­तृ­वि­ष­य­त्व­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ ६ ॥

गति­नि­रू­प­णा­न­न्तरं गन्तव्यं निरूपयति -
कार्यमिति ।

ब्रह्म विषयीकृत्य संशयमाह -
स इति ।

प्रश्नपूर्वकं तद्देतुमाह -
कुत इति ।
पूर्व­प­क्ष­स्याद्यो द्विती­य­स्तू­त्त­र­प­क्ष­स्या­नु­गुणो हेतुः । प्रकृतया गत्या गन्तव्यस्य विद्याफलभूतस्य ब्रह्मणो निरू­प­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे परविदोऽपि गत्युत्क्रान्ती सिध्यतः ।

सिद्धान्ते ततोऽन्यस्यैव ते नियते स्यातामिति मन्वानः सूत्रं योजयन्नादौ सिद्धान्तमाह -
तत्रेति ।

साधारणे ब्रह्मशब्दे कार्यविषयत्वं गतेरहेतुकमिति शङ्कते -
कुत इति ।

हेतुमवतार्य व्याचष्टे -
गतिरिति ।

सर्वगतत्वेऽपि प्रदे­शा­न्त­र­व­र्ति­न­स्त­स्या­का­श­स्येव गन्त­व्य­त्व­मा­श­ङ्क्याह -
प्रत्यगिति ॥ ७ ॥