न्यायनिर्णयव्याख्या
४ परिच्छेदः
धीकाले परस्ताद्वा कर्मासत्त्वं स्फुटयति -
नहीति ।
निर्गुणविद्याविषयत्वं सूत्रस्योपेत्य लाङ्गलभोजनयोर्जीवनहेतुतावद्धीकर्मणोः साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वमुक्तम् । सम्प्रति सगुणविद्याविषयत्वे सूत्रस्य सामञ्जस्यमभिप्रेत्याह -
सगुणास्विति ।
तथापि तस्य कुतो विद्यासङ्गतिः, तत्राह -
तस्यापीति ।
सगुणविद्याफले नित्यकर्मणां साक्षादुपयोगाभिप्रायमिदं सूत्रमित्यर्थः ॥ १६ ॥
सूत्रान्तरमवतारयितुं पृच्छति -
किमिति ।
काम्यकर्मविषयं वचनद्वयमिति सूत्रमवतारयति -
अत इति ।
तदक्षरणि व्याकरोति -
अत इत्यादिना ।
उक्तेऽर्थे दार्ढ्यार्थमाचार्यान्तरसंवादं दर्शयति -
तथेति ॥ १७ ॥
पूर्वोक्ताग्निहोत्रादिष्वेवाङ्गावबद्धोपास्तिसाहित्यानियमं निरूपयति -
यदेवेति ।
वृत्तं कीर्तयति -
समधिगतमिति ।
विचारविषयं दर्शयति -
तत्रेति ।
अङ्गसङ्गिविद्यासंयुक्तत्वे प्रमाणमाह -
य एवमिति ।
नित्यमग्निहोत्रादिकर्म विषयीकृत्य संशयमाह -
तत्रेदमिति ।
प्रश्नपूर्वकं संशयकारणमाह -
कुत इति ।
श्रौतब्रह्मधीहेतुतया प्रकृतनित्यकर्मस्वङ्गाश्रितविद्यासंयोगानियमवादादत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे केवलकर्मणो मोक्षान्वयासिद्धिः ।
सिद्धान्ते तस्यापि पारम्पर्यात्तत्सिद्धिरिति मत्वा विमृश्य पूर्वपक्षमाह -
किं तावदिति ।
अविशेषतो यज्ञेनेत्यादिश्रुतेरुभयस्यापि कर्मणो विद्याङ्गतेत्याशङ्क्य ब्राह्मणाय दद्यादित्युक्ते विदुषे न तद्धीनायेति विशेषलाभवदिहापीत्याह -
नेत्यादिना ।
विद्यासहितस्य कर्मणो वैशिष्ट्ये मानमाह -
यदहरिति ।
श्रौतेऽर्थे स्मृतिमनुकूलयति -
बुद्ध्येति ।
केवलस्याग्निहोत्रादेर्धीहेतुत्वाभावान्मोक्षान्वयो नेति प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।
किं विद्यायुक्तस्य कर्मणो विद्याहीनादन्तरङ्गत्वमुच्यते किंवा केवलं कर्म विद्याहेतुरेव नेति । तत्राद्यमङ्गीकरोति -
सत्यमिति ।
द्वितीयं दूषयति -
तथापीति ।
तत्र प्रश्नपूर्वकं श्रुतिविरोथं हेतुमाह -
कस्मादिति ।
उक्तमर्थमाक्षेपसमाधिभ्यां साधयति -
नन्वित्यादिना ।
केवलस्य कर्मणो विद्यां प्रत्यनङ्गत्वमेव किं न स्यात् , तत्राह -
न त्विति ।
विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमित्याशङ्क्य श्रुत्या केवलस्यापि कर्मणो वीर्यवत्त्वाभ्यनुज्ञानान्मैवमिति सूत्रव्याख्यापूर्वकमाह -
तथाहीति ।
वीर्यवत्त्वप्रतीतावपि कुतो विद्यासाधनत्वमित्याशङ्क्याकिञ्चित्करस्य वीर्यवत्त्वायोगादित्याह -
कर्मणश्चेति ।
कर्मणां पारम्पर्येण मोक्षान्वयं दर्शयितुमुपसंहरति -
तस्मादिति ।
विधुरादेराश्रमकर्मस्वनधिकारात्तदीयं जप्यादि विद्यासाधनमित्यन्तरा चापीत्यत्रोक्तम् । इह तु विद्योपेतेषु कर्मसु शक्तस्य तत्त्यागेन केवलकर्मकारिणो न विद्या सेत्स्यतीत्याशङ्क्य समाहितमिति द्रष्टव्यम् ॥ १८ ॥
अनारब्धकार्यमग्निहोत्रादि विद्यायुक्तं केवलं च तद्धेतुस्वान्न क्षीयते ज्ञानेनेत्युक्तम् । इदानीमारब्धकार्ययोः शुभाशुभयोर्ज्ञानादनिवृत्तयोर्निवृत्तिप्रकारमाह -
भोगेनेति ।
निर्गुणब्रह्मविद्विषयः । स किं देहपातादूर्ध्वमपि संसारवान्नवेति तन्निमित्तभावाभावाभ्यां सन्देहे पू्र्वपक्षमग्रे दर्शयिष्यन्नादौ वृत्तानुवादेन सूत्रतात्पर्यमाह -
अनारब्धेति ।
अत्र श्रौत्रब्रह्मविद्यावतो भोगेनारब्धकर्मनिवृत्तौ ब्रह्मभावस्यावश्यम्भावेक्त्या पादादिसङ्गतिः ।
पूर्वपक्षे ब्रह्मविदोऽपि न मुक्तिः । सिद्धान्ते तस्य साऽवश्यम्भाविनी सत्यां सामग्र्यां कार्यध्रौव्यात् । अनारब्धकार्य एवेत्यत्र नञारब्धकर्म निवृत्तेर्व्यावर्तितं तस्य फलं भोगेन क्षयलक्षणमधुना दर्शयतीत्युक्तम् । इदानीं निर्गुणब्रह्मविद्वानारब्धकर्मक्षयानन्तरमपि संसारी संसारसम्बन्धयोग्यत्वात्पूर्वकालीनब्रह्मविद्वानिवेत्यनुमानेन पूर्वपक्षमाह -
नन्विति ।
भोगनिमित्तकर्मवत्त्वमुपाधिरिति परिहरति -
नेत्यादिना ।
तदेव स्फुटयति -
उपभोगेति ।
तत्रेति प्राक्कालीनब्रह्मविदुक्तिः ।
देहपातोत्तरकालीनेऽपि ब्रह्मविदि भोगनिमित्तं किञ्चिद्भविष्यतीति साधनव्याप्तिमाशङ्क्याह -
नचेति ।
अनारब्धं कर्म जन्मान्तरारम्भकमिति कुतः साधनाव्याप्तिरिति शङ्कते -
नन्विति ।
तस्य ज्ञानेन प्रतिबद्धशक्तित्वान्मैवमित्याह -
न तस्येति ।
किं तस्य बीजं तदाह -
मिथ्येति ।
केन तर्हि तस्य दाहः स्यात्तद्दर्शयति -
तच्चेति ।
अथ सम्पत्स्य इत्यादिश्रुतिबाधनाद्बीजाभावस्य च विद्वदनुभवसिद्धत्वान्न पूर्वं कर्मानुमेयमिति भावः ।
प्रारब्धकर्मफलभोगादूर्ध्वं मोक्षेऽपि तत्कर्मजन्यानेकदेहसम्भवात्तत्र च विद्याप्रमोषोपपत्तेस्तत्कृतकर्मणामश्लेषाभावेन मुक्त्यभावमाशङ्क्याधिकारिणा देहान्तरे ज्ञानाप्रमोषस्यागमिकत्वादस्मदादीनामथ सम्पत्स्य इति श्रुतिसिद्धत्वादारब्धभोगानन्तरं मुक्तिरवश्यम्भाविनीत्यधिकरणार्थमुपसंहरति -
इत्यत इति ।
साधनानुष्ठानक्रमो निर्गुणविद्याफलं चोक्तमिति पादार्थभुपसंहर्तुमितीत्युक्तम् ॥ १९ ॥
पूर्वपादान्तिमाधिकरणे निर्गुणब्रह्मसम्पत्तिरुक्ता सम्प्रति सगुणब्रह्मसम्पत्तिं निरूपयिष्यन्नुत्क्रान्तौ वागादीनां मनसि वृत्तिलयं दर्शयति -
वागिति ।
सगुणविद्याफलस्य ब्रह्मालौकिकस्यार्चिरादिगातिप्राप्यस्यानुत्क्रम्य प्राप्त्ययोगात्तदर्थमुत्क्रान्तिनिरूपणं व्यापिब्रह्मात्मभावे निर्गुणविद्याफले तन्निषेधार्थं चेत्यभिप्रेत्य पादस्याध्यायसङ्गतिमाह -
अथेति ।
निर्गुणधीफलोक्त्यानन्तर्यमथशब्दार्थः ।
विदुषो नोत्क्रान्तिरत्रैव समवनीयन्त इति श्रुतेस्तत्किमुत्क्रान्तिचिन्तयेत्याशङ्क्याह -
समानेति ।
विद्वानपरब्रह्मविदुक्तः । पादार्थं सङ्क्षिप्याद्याधिकरणस्य विषयमाह -
अस्तीति ।
प्रत्ययः प्रयाणं कुर्वत उच्चिक्रमिषोरिति यावत् ।
वाङ्मनसि सम्पद्यत इत्यत्र वाचमधिकृत्व करणव्युत्पत्त्या स्वरूपसम्पत्तिप्रतीतेर्भावव्युत्पत्त्या च स्ववृत्तिसम्पत्तिवित्तेः संशयमाह -
किमिहेति ।
श्रौतसगुणब्रह्मधीफलार्थगत्युप्रयक्तोत्क्रान्त्येकदेशनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे कारणे कार्यलयनियमासिद्धिः ।
सिद्धान्ते लौकिकपरीक्षकाभीष्टनियमसिद्धिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
तत्र वाक्शब्दश्रुतिं हेतुं करोति -
तथाहीति ।
वृत्तिमद्वाचकशब्दस्य वृत्तिमात्रपरत्वे दोषमाह -
इतरथेति ।
लक्षणापि शब्दवृत्तित्वादविरुद्धेत्याशङ्क्याह -
श्रुतीति ।
श्रुत्यनुसारिणमर्थमुपसंहरति -
तस्मादिति ।
प्रकृतावेव विकारलय इति नियमाभावं प्राप्तमनूद्य सिद्धान्तसूत्रं पूरयित्वा पठति -
एवमिति ।
अध्याहारमसहमानः शङ्कते -
कथमिति ।
उत्तराधिकरणालोचनया विवक्षितमध्याहारं साधयति -
सत्यमिति ।
वृत्तिमल्लयस्य वक्ष्यमाणत्वेऽपि प्रकृते किं जातं तदाह -
तस्मादिति ।
विपक्षे दोषमाह -
तत्त्वेति ।
तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायामिह तत्र चाविभागसाम्यात्परत्रैवाविभागविशेषणमयुक्तमित्यर्थः ।
विशेषणसामर्थ्यसिद्धमर्थमुपसंहरति -
तस्मादिति ।
सूत्रस्याभीष्टमर्थं सङ्क्षिपति -
वागिति ।
सिद्धान्तहेतुं प्रश्नपूर्वकमवतार्य व्याचष्टे -
कस्मादिति ।
वृत्तिमदुपसंहारेऽपि तुल्यं दर्शनमित्याशङ्क्य लौकिकमागमिकं वा तदिति विकल्प्याद्यं प्रत्याह -
न त्विति ।
द्वितीयमालम्बते
नन्विति ।
आगमस्यापि दृष्टानुसारात्प्रकृतौ विकारलयोक्तिपरत्वाद्वाचश्च मनोविकारत्वाभावात्तत्र लयायोगाद्वृत्तिवृत्तिमतोरभेदधिया वाक्शब्दो वृत्तावेवेत्याह -
नेत्याहेति ।
तदेव विवृणोति -
यस्येति ।
वागपि तर्हि मनसो विकारोऽस्तु न मानाभावादित्याह -
नचेति ।
वृत्तेरप्यतत्प्रकृतित्वात्कुतो मनसि लयः, तत्राह -
वृत्तीति ।
दर्शनं विशदयति -
पार्थिवेभ्य इति ।
श्रुतिलक्षणाविशये श्रुतिर्न्याय्येत्युक्तं स्मारयति -
कथमिति ।
मुख्यार्थायोगादुपचारसिद्धिरिति सूत्रावयवमादाय व्याकरोति -
अत इति ॥ १ ॥
वाचि दर्शितं न्यायं चक्षुरादिष्वतिदिशति -
अत एवेति ।
यतः प्रकृतिविकारभावाभावान्न स्वरूपलयो वाचोऽपि तु वृत्तिलयोऽत एव सवृत्तिके मनसि सत्येव सर्वाणीन्द्रियाणि तदनुवर्तन्ते न तु तत्र स्वरूपेण लीयन्त इत्यर्थः ।
सूत्राक्षराणि व्याचष्टे -
तस्मादिति ।
उत्क्रमणादूर्ध्वमिति यावत् । उपशान्तमौष्ण्यलिङ्गकं तेजोऽस्येति तथोक्तः । पुनर्भवं प्रतिपद्यत इति शेषः । तत्रापि सर्वाणीन्द्रियाणि वृत्तिद्वारेणैव मनोऽनुवर्तन्त इति सम्बन्धः ।
अत एवेत्युक्तं हेतुं सदृष्टान्तं स्पष्टयति -
वाच इवेति ।
यद्यत्राविशेषेण सर्वेन्द्रियाणां मनसि वृत्त्युपसंहारो विवक्षितस्तर्हि किमित्याद्ये सूत्रे वाचः पृथग्ग्रहणं, तत्राह -
सर्वेषामिति ॥ २ ॥
इन्द्रियवृत्तिलयाधारस्य मनसो वृत्तिलयाधारं निरूपयति -
तन्मन इति ।
वृत्तमनूद्याधिकरणस्य विषयमाह -
समधिगतमिति ।
तस्मिन्नपि वाक्येन सवृत्तिकं मनोऽधिकृत्य व्युत्पत्तिद्वैविध्यसिद्ध्या संशयमाह -
किमिति ।
पूर्ववाक्यं दृष्टान्तयितुमपिशब्दः । अत्रापि पूर्ववत्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्यर्थसिद्धिः ।
सिद्धान्ते तदयोगाल्लक्षणास्वीकरणमिति मन्वानो मनःशब्दश्रुत्या पूर्वपक्षयति -
वृत्तीति ।
वाक्शब्दवन्मनःशब्दस्यौपचारिकत्वमाशङ्क्य बाधकाभावादत्र मुख्यार्थत्वमेवेत्याह -
तदिति ।
प्राणप्रकृतिकत्वे मनसो न मानमित्याशङ्क्याह -
तथाहीति ।
अन्नमनसोरप्प्राणयोश्च प्रकृतिविकृतिभावेऽपि कथं प्राणमनसोस्तथात्वं, तत्राह -
अपश्चेति ।
अबन्नयोः प्रकृतिविकृतिभावात्तत्कार्ययोरपि प्राणमनसोः प्रकृतितादात्म्यद्वारा प्रकृतिविकृतित्वसिद्ध्या प्राणे वृत्तिमतो मनसो लय इति फलितमाह -
अतश्चेति ।
प्राणे लीयते मनः सवृत्तिकमिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -
एवमिति ।
आगृहीताः सर्वतः स्वात्मन्युपसंहृता बाह्येन्द्रियाणां वृत्तयो येन तन्मनस्तथा । दर्शनादिति पूर्वोक्तयुक्तिमत्र हेतुत्वेन सङ्गृह्णाति -
तथाहीति ।
मनःशब्दश्रुत्या स्वरूपसम्पत्तिरेवेति किं न स्यादित्याशङ्क्याह -
नचेति ।
उक्तं स्मारयित्वा निरस्यति -
नन्वित्यादिना ।
स्वकारणद्वारा विकारयोरन्योन्यं प्रकृतिविकारत्वे घटादेरपि शरावादिप्रकृतित्वप्रसक्तिरित्यसारत्वमेव साधयति -
नहीति ।
प्राणाडिककार्यकारणतोपगमेऽपि यो यस्य साक्षाद्विकारस्तत्रैव तस्य लयो युक्त इत्याह -
एवमपीति ।
प्राणाकारपरिणतानामपां मनःसंस्थितान्नाकारेण परिणामात्प्राणमनसोरपि साक्षात्प्रकृतिविकृतित्वमस्तीत्याशङ्क्याह -
नहीति ।
तयोः साक्षादप्रकृतिविकृतित्वे फलितमाह -
तस्मादिति ।
कथं तर्हि मनःशब्दोपपत्तिः, तत्राह -
वृत्तीति ॥ ३ ॥
यस्मिन्प्राणे मनसो वृत्तिलयस्तस्यापि वृत्तिलयाधारं निरूपयति
सोऽध्यक्ष इति ।
वक्ष्यमाणपूर्वपक्षोपयोगित्वेन वृत्तं कीर्तयति -
स्थितमिति ।
सम्प्रति विषयोक्तिपूर्वकमुभयश्रुत्युपलब्धेः संशयमाह -
इदमिति ।
पादादिसङ्गतयस्तु पूर्ववत् ।
फलभेदोऽपि तथेति स्वीकृत्य पूर्वपक्षयति -
तत्रेति ।
प्राणस्य तेजःप्रकृतिकत्वाभावेऽपि तेजसि वृत्तिलयस्योक्तन्यायेन शक्यशङ्क्यत्वात्तेजःशब्दस्य च भूतविशेषवाचिनो जीवे प्रसिद्ध्यभावात्प्राणस्य जीवात्मन्युपगमनानुगमनावस्थानश्रुतीनां च तेजोद्वाराऽपि तस्मिन्नुपगमनादियोगादुपपत्तेस्तेजस्येव प्राणवृत्तिलय इत्यर्थः ।
सिद्धान्तसूत्रमादाय योजयति -
एवमिति ।
परिशुद्धं चिद्धातुं व्यावर्तयति -
अविद्येति ।
पूर्वोक्तन्यायेन स्वरूपलयं व्यवच्छिनत्ति -
तदिति ।
प्रश्नपूर्वकं हेतूनवतारयति -
कुत इति ।
तत्रोपगमनं श्रुतितो व्याकरोति -
एवमिति ।
यथा राज्ञः प्रयाणाभिप्रायमात्रेण सर्वे भृत्याः समागच्छन्त्येवमिति योजना । एतदिति क्रियाविशेषणम् ।
आदिशब्दगृतीतमनुगमनं श्रुत्या विशदयति -
विशेषेणेति ।
आदिशब्दोपात्तमवस्थानमपि श्रुत्या व्याचष्टे -
सविज्ञान इति ।
विज्ञायतेऽनेनेति विज्ञानं करणजातं तेन पञ्चवृत्तिप्राणसहितेन सह तिष्ठतीति यावत् ।
अव्यवधानेन तेजःप्राप्तिश्रुत्या विरोधं शङ्कते -
नन्विति ।
उभयश्रुत्यनुग्रहाय जीवे प्रलीयते तेन सह प्राणस्य तेजसि लयः स्यादित्याह -
नेत्यादिना ॥ ४ ॥
सूत्रान्तरमाकाङ्क्षापूर्वकमुत्थापयति -
कथमिति ।
प्राणस्य जीवद्वारा तेजःसम्पत्तिरिति सूत्रयोजनया दर्शयति -
स इति ।
नच प्राणस्य तेजोद्वारा जीवसम्पत्तिस्तेजसो भूतद्वयद्वारा परस्मिन्नेव सम्पत्तेरिष्टत्वात् । तेजोग्रहणेनोपलक्षितेषु भूतेषु जीवस्य प्राणेन सह लयः स्यादित्यभिप्रेत्याह -
तेज इति ।
तेजःशब्देन भूतान्युपलक्षयितुं शक्यन्ते साहचर्यान्न जीवस्तदभावादतो न प्राणस्य जीवे लय इति शङ्कते -
नन्विति ।
मानान्तरालोचनया जीवस्योपसङ्ग्रहो न तेजःशब्देनेति परिहरति -
नेत्यादिना ।
यदापि प्राणोऽन्तराले जीवं प्राप्य पुनस्तेजः सम्पद्यते तदापि प्राणस्तेजसीति श्रुतिरुपपन्नेत्येतद्दृष्टान्तेन साधयति -
योऽपि हीति ।
श्रुत्यर्थमुक्तमुपसंहरति -
तस्मादिति ॥ ५ ॥
सूत्रान्तरमवतारयितुं पृच्छति -
कथमिति ।
लक्षणया भूतान्तराश्रयणमयुक्तं युक्त्यभावादिति भावः ।
युक्तिपरं सूत्रमवतारयति -
अत इति ।
तत्र प्रतिज्ञां विभजते -
नैकस्मिन्निति ।
स्थूलदेहस्य पञ्चात्मत्वदृष्टेस्तकत्कारणं सूक्ष्मशरीरमपि पञ्चात्मकमनुमेयमित्युक्तेऽर्थे युक्तिमाह -
कार्यस्येति ।
सूक्ष्मस्य पञ्चात्मकत्वे मानं ब्रुवाणः सूत्रावयवं व्याचष्टे -
दर्शयतश्चेति ।
ननु देहान्तरप्रेप्सावेलायामद्भिरेव परिवेष्टितत्वं प्रश्नप्रतिवचनाभ्यामधिगम्यते न भूतसूक्ष्मपञ्चकपरिवेष्टितत्वं, तत्राह -
तदिति ।
सूत्रावयवस्यार्थान्तरमाह -
श्रुतीति ।
अण्व्यः सूक्ष्मा मीयन्त इति मात्राः प्राङ्मोक्षादविनाशिन्यो दशार्धानां पञ्चानां भूतानामित्यर्थः ।
जीवस्य भूताश्रयत्वं श्रुत्यन्तरविरुद्धमिति शङ्कते -
नन्विति ।
तौ याज्ञवल्क्यार्तभागौ । जीवाधारभूतकर्मणां बन्धप्रयोजकत्वेनाश्रयत्वं भूतानां देहोपादानत्वेनेत्यविरोधमाह -
अत्रेति ।
कर्म हैवेत्यवधारणश्रुत्या वारितमाश्रयान्तरमित्याशङ्क्याह -
प्रशंसेति ।
सोऽपि कर्मणां प्रकृष्टाश्रयत्वं वदन्निकृष्टाश्रयान्तरसत्त्वं सूचयतीत्यर्थः ।
कर्मणां भूतानां चाश्रयत्वसम्भवे फलितमाह -
तस्मादिति ॥ ६ ॥
उक्तोत्क्रान्तेरपरविद्यान्वयमन्वाचष्टे -
समाना चेति ।
उत्क्रान्तिर्विषयस्तत्र ‘विद्ययाऽमृतमश्नुते’ इति श्रुतेरस्य सोम्य पुरुषस्येत्यविशेषश्रुतेश्च संशयमाह -
सेयमिति ।
विशयानानां सन्दिहानानामित्यर्थः । श्रौतापरविद्यासु फलप्राप्त्युपयोगित्वेनोत्क्रान्त्यन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे विदुषो देहादनुत्क्रान्तस्य मोक्षसिद्धिः ।
सिद्धान्ते तस्यापीतरवत्तस्मादुत्क्रान्तेरप्रतिबन्धेन तत्सिद्धिरित्यङ्गीकृत्य विद्ययामृतमश्नुत इति सगुणोपासकानामप्यमृतत्वफलावगमात्सगुणब्रह्मविदो नैवोत्क्रान्तिरिति पूर्वपक्षयति -
विशेषेति ।
अविदुष एवोत्क्रान्तिरिति विशेषवत्त्वमेव दर्शयति -
भूतेति ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
वस्तुतत्त्वप्रतिपादनाय लोकसिद्धधर्माणामनूद्यमानन्त्वान्न प्रकरणं विद्वद्विषयमिति समाधत्ते -
नेत्यादिना ।
दृष्टान्तं विवृणोति -
यथेति ।
दार्ष्टान्तिकं विभजते -
एवमिति ।
उत्क्रान्तेर्विद्वद्विषयत्वाभावे हेत्वन्तरमाह -
प्रतिषिद्धेति ।
विशेषवत्त्वमुत्क्रान्तेरुक्तमुपसंहरति -
तस्मादिति ।
सृतेर्मार्गस्योपक्रमादर्वाक्कर्मिणां सगुणोपासकानां च तुल्यैवोत्क्रान्तिरिति सिद्धान्तयति -
एवमिति ।
अस्य सोम्येत्याद्यविशेषश्रुतेर्विद्वदविदुषोः साधारणी चेदुत्क्रान्तिस्तर्हि तयोर्विशेषाभावाद्विद्यावैयर्थ्यं, तत्राह -
अविद्वानिति ।
अवाङ्नाडीभिरविद्वान्पितृलोकं लोकान्तरं वा स्वकर्मानुसारेण प्रतिपद्यते विद्वान्पुनर्मूर्धन्यया नाड्या ब्रह्मलोकमिति विशेषस्तयोरित्यर्थः ।
सृतिः सरणं देवयानो मार्गस्तदुपक्रमात्तुल्योत्क्रान्तिरित्युक्तेऽर्थे सूत्रावयवं पातयति -
तदेतदिति ।
अवशिष्टसूत्रावयवव्यावर्त्यां शङ्कामाह -
नन्विति ।
सूत्रावयवमुत्तरत्वेनावतार्य व्याकरोति -
अत्रेति ।
मनसैतान्कामान्पश्यन्रमते स एकधा भवतीत्यादिश्रुतेरर्चिरादिमार्गगमनेन सेन्द्रियस्य फलभोगप्रतिपादनादिन्द्रियाणां च निराश्रयाणां गमनायोगाज्जीवस्यापि तदाश्रयभूताश्रयस्य गतिरवगतेत्याह -
नहीति ।
अपरविद्यास्वमृतत्वमापेक्षिकमिति स्थिते तत्रोत्क्रान्त्यन्वयो युक्त इत्युपसंहरति -
तस्मादिति ॥ ७ ॥
उक्तोत्क्रान्तिकाले या सत्सम्पत्तिस्तत्स्वरूपं निरूपयति -
तदाऽपीतेरिति ।
उदाहरणवाक्यस्यार्थोक्तिपूर्वकमधिकरणस्य विषयं दर्शयति -
तेज इति ।
बीजभावावशेषां सत्सम्पत्तिं सिद्धवत्कृत्य विदुषोऽप्युत्क्रान्तिरुक्ता, सम्प्रति सम्पत्तेरुभयथादृष्टेरात्यन्तिकी सत्सम्पत्तिरनात्यन्तिकी वेति संशयमाह -
कीदृशीति ।
उत्क्रान्तिकालीनसत्सम्पत्तेः श्रुतायाः सावशेषत्वसाधनात्पादादिसङ्गतिः । पूर्वपक्षे देहादुत्क्रान्तस्यापुनरावृत्तिः ।
सिद्धान्ते तस्यापि ज्ञानहीनस्य पुनरावृत्तिरिति विवक्षित्वा पू्र्वपक्षयति -
तत्रेति ।
पूर्वोक्तातत्प्रकृतित्वहेतोरभावादिति हेतुमाह -
तत्प्रकृतित्वेति ।
उपपत्तिमेव दर्शयति -
सर्वस्येति ।
विमता तत्सम्पत्तिरात्यान्तिक्यन्तकालीनसत्सम्पत्तित्वाद्ब्रह्मविदः सत्संपत्तिवदित्युपसंहरति -
तस्मादिति ।
सिद्धान्तसूत्रमादाय व्याकृर्वन्नुक्तानुमानस्य श्रुतिविरोधमाह -
एवमिति ।
उत्क्रान्तिकालीनसत्सम्पत्तेरात्यन्तिकत्वे दोषान्तरमाह -
अन्यथेति ।
इष्टापत्तिमाशङ्क्य देहान्तरभोगाय कर्मविध्यनुपपत्तिरित्यनुमानस्य बाधकान्तरमाह -
तत्रेति ।
ज्ञानविध्यनुपपत्त्यापि बाधितमनुमानमिति मत्वा ब्रूते -
विद्येति ।
युक्तितोऽपि बाधितं तदित्याह -
मिथ्येति ।
निदाननाशातिरेकेण निदानिनाशो नात्यन्तिको युक्त इत्यर्थः ।
यत्तु तत्प्रकृतित्वोपपत्तेरिति, तत्राह -
तस्मादिति ।
श्रुतार्थापत्तियुक्तिविरोधस्तच्छब्दार्थः ॥ ८ ॥
ननु यद्यासंसारविमोक्षात्तेजआदिभूतसूक्ष्ममुक्तलक्षणमविष्ठते किमिति तर्हि देहान्निर्गच्छदस्माभिर्नोपलभ्यते किमिति वा मूर्तान्तरैर्न प्रतिहन्यते तत्राह -
सूक्ष्ममिति ।
स्वरूपसौक्ष्म्यसमुच्चयार्थश्चकार इत्यङ्गीकृत्य व्याचष्टे -
तच्चेति ।
उपलब्धेरित्येतद्व्याकरोति -
तथाहीति ।
परिमाणतः सौक्षम्याङ्गीकारे लाभं दर्शयति -
तत्रेति ।
स्वरूपतस्तदङ्गीकारे लाभमाह -
स्वच्छत्वादिति ।
उभयविधत्वादेवानुपलब्धिरपि सिद्धेत्याह -
अत इति ॥ ९ ॥
सौक्ष्म्यकृतं लाभान्तरमाह -
नोपमर्देनेति ।
तदेव विवृणोति -
अत एवेति ॥ १० ॥
सूक्ष्मदेहसद्भावे मानमौष्ण्यलिङ्गकमनुमानमपीत्याह -
अस्यैवेति ।
सूत्रं विवृण्वन्ननुमानमेव स्फोरयति -
अस्येति ।
औष्ण्यस्य सूक्ष्मदेहे व्यभिचारमाशङ्क्योपपत्तेरिति योजयति -
तथाहीति ।
अन्वयव्यतिरेकाभ्यां स्थूलशरीरादतिरिक्तं स्वाश्रयमूष्मा गमयतीत्युक्तम् । इदानीमागमोऽपि सूक्ष्मदेहधर्मत्वमस्य सूचयतीत्याह -
तथाचेति ॥ ११ ॥
उत्क्रान्तिकालीनसत्सम्पत्तेः सावशेषत्वमुक्तम् । संप्रत्युत्क्रान्तेर्निर्गुणब्रह्मवेदिष्वभावमाह -
प्रतिषेधादिति ।
व्यवहितेन सम्बन्धं दर्शयन्नधिकरणस्य तात्पर्यमाह -
अमृतत्वं चेति ।
परब्रह्मविदं विषयत्वेनोदाहरति -
अथेति ।
मुक्तिप्रकरणोपक्रमार्थोऽथशब्दः । बाह्यविषयवैतृष्ण्यमकामत्वम् । आन्तरकामवासनाराहित्यं निष्कामत्वम् । प्राप्तपरमानन्दत्वमाप्तकामत्वम् । सर्वात्मैकदर्शित्वमात्मकामत्वम् । उत्तरमुत्तरं पूर्वस्य पूर्वस्य निमित्तमेवमकामयमानो ब्रह्मविदत्र श्रुतोऽस्तीत्यर्थः । तस्य किमुत्क्रान्तिरस्ति किंवा नास्तीति पञ्चमीषष्ठीश्रुतिभ्यां सन्देहे परब्रह्मविदो मुख्यामृत्वे गत्युत्क्रान्त्योरभावोक्तेरत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे निषेधस्यान्यविषयत्वाद्विदुषोऽविदुषश्चाविशेषः ।
सिद्धान्ते शाखाद्वयेऽपि देहापादानोत्क्रान्तिनिषेधाद्विशेषसिद्धिरित्यभिप्रेत्य सिद्धान्तिनो मतनिराकरणेन पूर्वपक्षी स्वमतमाह -
नेत्यादिना ।
न तस्य प्राणा उत्क्रामन्तीति विदुषो देहादेवोत्क्रान्तिर्निषिध्यते न शारीरादिति शङ्कते -
कथमिति ।
माध्यन्दिनश्रुत्या प्रत्याह -
न तस्मादिति ।
शारीरादु्त्क्रान्तिनिषेधे का गतिः षष्ठीश्रुतेरित्याशङ्क्य पञ्चम्यन्तमाध्यन्दिनश्रुत्या षष्ठ्यन्तकाण्वश्रुतिः सम्बन्धसामान्यविषयापादानरूपसम्बन्धविशेषे व्यवस्थापनीयेत्याह -
सम्बन्धेति ।
माध्यन्दिनश्रुतावपि तस्मादिति शरीरमेव परामृश्यतामित्याशङ्क्याह -
तस्मादिति चेति ।
कस्तर्हि वाक्यार्थः ।
स्यादित्यपेक्षायामाह -
न तस्मादिति ॥ १२ ॥
तथापि प्रकृते किमायातमित्याशङ्क्य सप्राणस्य क्षेत्रज्ञस्य शरीरादुत्क्रान्तिः सिद्धेत्याह -
सप्राणस्येति ।
परब्रह्मविदोऽपि गत्युत्क्रान्ती स्तामिति । प्राप्तमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं हेतुत्वेन व्याख्यातुं बहिरेव प्रतिज्ञामाह -
नैतदिति ।
तत्र हेतुतया सूत्रं योजयति -
यत इति ।
उपलम्भमभिनयति -
तथाहीति ।
उदस्मात्प्राणा उत्क्रामन्तीत्यत्रोत्क्रान्त्यवधिमत्त्वमस्मादित्युक्तं सशब्देन परामृश्योच्छ्वयनादिधर्मोक्तेर्यस्योच्छ्वयनाध्माने तस्यैवोत्क्रान्त्यवधित्वं देहस्येत्यर्थः ।
अथोच्छ्वयनादिधर्मजातं देहिनोऽस्तु तेन तस्यैवोत्क्रान्त्यवधित्वं नेत्याह -
देहस्येति ।
काण्वश्रुतौ निषिध्यमानोत्क्रान्तेर्देहापादानत्वेऽपि माध्यन्दिनश्रुतौ देहिन एव तदपादानत्वं तस्यैव प्राधन्यादित्याशङ्क्याह -
तदिति ।
विद्याप्रकरणत्वसामान्याद्ब्रह्मविदो देहापादानोत्क्रान्तिनिषेधः शाखाद्वयेऽपि तुल्य इत्यर्थः ।
तच्छब्देन सर्वनाम्ना देहिनः प्रधानतया परामृष्टत्वात्कुतोऽत्र देहधीरित्याशङ्क्याह -
अभेदेति ।
प्राधान्याद्देहिनस्तच्छब्दार्हत्वेऽपि देहदेिनोरभेदोपचाराद्देहिपरामर्शिसर्वनाम्ना देहस्यैव परामर्शात्तस्मादेवोत्क्रान्तिरत्र निषिद्धेति पञ्चमीपाठे व्याख्येयमित्यर्थः ।
माध्यन्दिनपाठस्य सिद्धान्तानुगुण्यमुक्त्वा काण्वपाठस्यापि तदानुगुण्यमाह -
येषां त्विति ।
न तस्येत्यादावपादानापेक्षायां चक्षुष्टो वा मूर्ध्नो वेति देहांशानामुत्क्रान्त्यपादानत्वेन प्रकृतानामिह सम्बन्धात्क्रान्तिनिषेधपरत्वाच्च वाक्यस्य न तस्य प्राणा देहांशेभ्यः सकाशादुत्क्रामन्तीति वाक्यविपरिणामादन्यथा वा प्राप्तनिषेधापातात्सम्बन्धसामान्यार्थषष्ठा्याश्च प्राणेन रक्षन्प्राणमय इत्यादिकर्तृकरणोपाध्युपहितत्वप्रकृतसम्बन्धविशेषपर्यवसानादन्यशाखास्थापादानसम्बन्धविशेषापेक्षाभावात्तस्य करणोपाधिभूताः प्राणा देहावयवेभ्यो नोत्क्रामन्तीति वाक्यार्थः स्यादित्यर्थः ।
इतश्च विद्वदुत्क्रान्तिनिषेधपरं वाक्यमित्याह -
अपिचेति ।
व्यपदेशसामर्थ्यसिद्धमुपसंहरति -
तस्मादिति ।
न केवलं मानाभावादेव गत्युत्क्रान्त्यभावः किन्तु युक्त्यभावादपीत्याह -
नचेति ।
उपपत्त्यभावे हेतुमाह -
निमित्तेति ।
गमनस्य कर्मकरणादिकारकासम्भवादित्यर्थः ।
तयोः सत्त्वे मानं नास्तीत्युक्तं तदसत्त्वे मानमस्तीत्याह -
अत्रेति ॥ १३ ॥
‘नोत्क्रामन्ति मुनेः प्राणा व्यापी सर्वगतो हि सः । तेन व्याप्तिमिदं सर्वं कुत उत्क्रम्य यास्यति’ इति स्मृतेरपि ब्रह्मविदो नोत्क्रान्तिर्गतिर्वेत्याह -
स्मर्यते चेति ।
सूत्रं व्याचष्टे -
स्मर्यतेऽपीति ।
अपदस्य प्राप्यपदशून्यस्य ब्रह्मविदः पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति । तदभावादिति योजना ।
स्मृत्यन्तरविरोधं शङ्कते -
नन्विति ।
अपरविद्याबलेनैषा गतिरित्याह -
नेति ।
तत्र नियामकमाह -
सर्वेति ।
आदिशब्देनानुगमनादि गृह्यते । तथापि कथं सशरीरस्य गतिः, तत्राह -
नहीति ।
उक्तेऽर्थे वाक्यशेषमनुकूलयति -
तथाचेति ।
स्मृत्यनुग्रहलब्धमर्थमुपसंहरति
तस्मादिति ।
तयोर्ध्वमायन्नमृतत्वमेति स एनान्ब्रह्म गमयतीत्यादिगतिश्रुतीनां तर्हि का गतिः, तत्राह -
गतीति ॥ १४ ॥
परब्रह्मविदो ब्रह्मणि परस्मिन्प्राणानां प्रलयो दर्शितस्तदयुक्तं तेषां पृथिव्यादिषु लयश्रवणादित्याशङ्क्याह -
तानीति ।
विद्वत्कलाप्रविलयो विषयः स किं पृथिव्यादिषु किंवा परस्मिन्नात्मनीति श्रुतिद्वयोपलब्धेः सन्देहे श्रौतविद्याफलभूतकलाविलयो ब्रह्मण्येवेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रकृतावेव विकृतिलयसिद्धिः ।
सिद्धान्ते व्यवहारतस्तथात्वेऽपि तत्त्वतो ब्रह्मणि कलाविलयोपपत्तिरिति मन्वानः सिद्धान्तमाह -
तानीति ।
उक्तार्थे प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
यथा नद्यः समुद्रं प्राप्य प्रलीयन्त एवमेवास्य जीवस्य परितः समन्तात्सर्वतोऽनवच्छिन्नप्रत्यग्ब्रह्मद्रष्टुरिमाः स्वानुभवगम्याः प्राणश्रद्धाद्या षोडशसङ्ख्याकाः कला पुरुषायणास्तदाश्रयास्तमेव पुरुषं प्राप्य बाह्यविषयसङ्गत्यागेन तस्मिन्निष्ठाय विलयमासादयन्तीति श्रुत्यर्थः ।
अस्याधिकरणस्य पूर्वपक्षमाह -
नन्विति ।
मनः प्राणयोरेकीकरणेन कलानां पञ्चदशत्वं, प्रतिष्ठाशब्देन पृथिव्यादीनि तत्त्वानि कलाकारणान्युच्यन्ते । तथाच प्रकृतावेव विकारलय इतिन्यायानुगृहीतश्रुत्या भूतेषु विद्वत्कलाविलय इत्यर्थः ।
वस्तुस्थित्या परस्मिन्नात्मनि कलालयेऽपि व्यवहारदृष्ट्या पृथिव्यादिषु तदुक्तिरविरुद्धा तेषु विलीय तैः सह परस्मिन्नात्मनि कलानां विलयसिद्धेश्च श्रुतिद्वयमविरुद्धमित्याह -
न सा खल्विति ।
विद्वदविद्वद्दृष्ट्या श्रुतिद्वये प्रवृत्ते फलितमाह -
तस्मादिति ॥ १५ ॥
पृथिव्यादिद्वारा ब्रह्मण्युक्तस्य विद्वत्कलाविलयस्य निरवशेषत्वमाह -
अविभाग इति ।
प्रकृतमेव विद्वत्कलाविलयमधिकृत्य लयस्योभयथादृष्ट्या संशयमाह -
स पुनरिति ।
अत्र श्रौतधीफलभूतविद्वत्कलाविलयस्य निरवशेषत्वनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे मोक्षासिद्धिः ।
सिद्धान्ते तत्सिद्धिरित्युपेत्य पूर्वपक्षयति -
तत्रेति ।
विदुषो ब्रह्मणि कलाविलयः सावशेषः, ब्रह्मणि कलाविलयत्वादुत्क्रान्तिकालीनकलाविलयवदित्यर्थः ।
श्रुतियुक्तिविरुद्धमनुमानमिति सिद्धान्तयति -
ब्रवीतीति ।
तत्र श्रुतिविरोधं प्रश्नद्वारा दर्शयति -
कुत इति ।
नदीसमुद्रन्यायेन पुरुषे कला विलीयन्ते तासां च कलानां नामरूपे शक्त्यात्मके अपि भिद्येते विदीर्यन्ते पुरुषमात्रमवशिष्यते स च विद्वानकलः कलाविरहितः सन्नमृतो भवति, पूर्णरूपेण तिष्ठतीत्यर्थः ।
श्रुतिविरोधमनुमानस्योक्त्वा युक्तिविरोधमाह -
अविद्येति ।
अनुमाननिरासफलमुपसंहरति -
तस्मादिति ॥ १६ ॥
विद्वत्कलानां वचनादविभागापत्तिवदपरब्रह्मविदामपि चक्षुष्टो वा मूर्ध्नो वेत्यविशेषवचनाद्यया कयाचिन्नाड्या प्राणनिष्क्रमणमिति प्राप्ते प्रत्याह -
तदोकोग्रज्वलनमिति ।
वृत्तानुवादपूर्वकमुत्तराधिकरणानां तात्पर्यमाह -
समाप्तेति ।
संप्रत्यस्याधिकरणस्य वत्तमनूद्य तात्पर्यमाह -
समाना चेति ।
सूत्रभागव्याख्याद्वाराधिकरणस्य विषयमाह -
तस्येति ।
हृदयमायतनमित्यत्र मानमाह -
स इति ।
अस्तु हृदयं जीवस्यालम्बनं तथापि किं स्यादित्याशङ्क्योक्तम् -
तदग्रेति ।
अदृष्टाक्षिप्तं प्रतिपत्तव्यज्ञानं प्रद्योतः । चक्षुष्टो वेति द्वारानियमश्रुतेस्तयोर्ध्वमायन्नमृतत्वमेतीतिविशेषश्रुतेश्च संशयमाह -
सा किमिति ।
उपासकानुपासकयोरनियमेन येन केनचिद्द्वारेणोत्क्रान्तिरथवोपासकानामस्ति द्वारनियम इति विमर्शार्थः । अत्र चापरब्रह्मविदां फलार्थोत्क्रान्तेर्द्वारनियमोक्त्या पादादिसङ्गतिः ।
पूर्वपक्षे ध्यानकृतातिशयशून्यत्वं सिद्धान्ते तत्कृतातिशयसिद्धिरिति सिद्धवत्कृत्य पूर्वपक्षमाह -
श्रुतीति ।
चक्षुष्टो वेत्याद्यविशेषश्रुतेर्यतः कुतश्चिदङ्गादुत्क्रामतीति प्राप्तमनूद्य सिद्धान्तमाह -
आचष्ट इति ।
तेन प्रद्योतेन प्रकाशितद्वारवत्त्वे चोत्क्रान्तेरिति शेषः ।
तस्य विदुषोऽविदुषश्चोच्चिक्रमिषोरेको हृदयमायतनं तस्याग्रज्वलनं प्रद्योतसंज्ञितमादौ भवति तेन प्रकाशितद्वारो विद्वानविद्वांश्चोत्क्रान्तो यद्यपीष्यते तथापि तयोरुत्क्रान्त्यपादानव्यवस्थायां हेतुं पृच्छति -
कुत इति ।
तत्र सौत्रं हेतुमवतार्य व्यतिरेकद्वारा विवृणोति -
विद्येति ।
स्थानान्तरेभ्योऽपि निष्क्रामन्नुत्कृष्टं फलमाप्नुयादित्याशङ्क्य सूत्रावयवं व्याचष्टे -
तच्छेषेति ।
स्थानान्तरेभ्यो निर्गच्छतामपि विशिष्टलोकाप्तौ विशिष्टगतिचिन्तनविधानवैयर्थ्यं स्यादित्यर्थः ।
फलितोक्तिपरत्वेनावशिष्टं सूत्रभागं व्याचष्टे -
तस्मादिति ।
उक्तव्यवस्थायां श्रुतिमाह -
तथाहीति ॥ १७ ॥
नाडीद्वारा निष्क्रान्तस्य यदिदं रश्म्यनुसारित्वं तन्निशायामपि तुल्यमित्याह -
रश्मीति ।
प्रकरणशोधनपूर्वकं विषयमाह -
अस्तीति ।
प्रथमोऽथशब्दो दहरविद्योपक्रमार्थो द्वितीयो रश्मिनाडीसम्बन्धप्रदर्शनप्रारम्भार्थस्तृतीयस्त्वारब्धकर्मवासनानन्तर्यार्थः । एतदिति क्रियाविशेषणम् । चतुर्थोऽथशब्दस्तदेत्यर्थः ।
यत्रेति कालस्योक्तत्वात्प्रकरणशुद्धिलब्धं निगमयति -
तस्मादिति ।
मूर्धन्यनाड्या निर्गच्छतः सगुणब्रह्मविदो रश्म्यनुसारित्वं किमहन्येव किं वाहनि रात्रौ चेति रश्मिनाडीयोगस्य कालविशेषाश्रुते रात्रौ रश्म्यभावावगमाच्च संशयमाह -
तदिति ।
अत्र चापरब्रह्मविदां फलाप्तये ब्रह्मनाड्या गच्छतां रश्म्यनुसारित्वस्याविशेषवादात्पादादिसङ्गतिः । पूर्वपक्षे रात्रौ प्रेतानामहरागमनमपेक्ष्य फलप्राप्तिः ।
सिद्धान्ते स यावत्क्षिप्येदित्यादिश्रुतेस्तदैव तत्प्राप्तिरित्युपेत्य सिद्धान्तं प्रतिजानीते -
अविशेषेति ॥ १८ ॥
सूत्रावयवेन पूर्वपक्षयित्वा तदवयवेन परिहरति -
निशीति ।
तत्र पूर्वपक्षं विवृणोति -
अस्तीति ।
सिद्धान्तमवतार्य व्याचष्टे -
नेत्यादिना ।
शिरा नाड्यः ।
नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वे प्रमाणोक्तिपरं सूत्रभागमादाय विभजते -
दर्शयतीति ।
प्रतायन्ते विस्तीर्यन्ते सृप्ता गताः नाडीरश्मिसम्बन्धस्य श्रौतत्वेऽपि कुतो यावद्देहभावित्वमित्याशङ्क्य युक्तिं दर्शयति -
निदाघेति ।
चन्द्रगतप्रकाशान्यथानुपपत्त्या रात्रावस्ति सूर्यरश्मिरितिवक्तुमादिपदम् । नहि चन्द्रमस एव प्रकाशस्तस्याम्मयत्वात्तदयोगात् । तर्हि शिशिरादिष्वपि रात्रिषु किरणानुवृत्तिरुपलभ्येतेत्याशङ्क्याह -
स्तोकेति ।
यद्रात्रौ तापो दृश्यते तदहरेव रात्रौ सविता दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमित्युक्तेऽर्थे श्रुत्यन्तरमाह -
अहरेवेति ।
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति नैरपेक्ष्यश्रुते रात्रौ प्रेतस्य न रश्म्यपेक्षेत्याशङ्क्याह -
यदीति ।
दिवामरणविषयमेतदित्याशङ्क्याह -
नहीति ।
तर्हि रश्म्यनुसारित्वश्रुतेरर्थवत्त्वाय विदुषो रात्रौ प्रेतस्य फलसम्बन्धो नास्ति, तत्राह -
अथ त्विति ।
नित्यवत्फलसम्बन्धितया विद्याया विधानान्न पाक्षिकफलतेत्यर्थः ।
तर्हि विदुषो मरणमहन्येवेति नियमादुक्तदोषनिवृत्तिः तत्राह -
मृत्युकालेति ।
रात्रौ मृतस्यापि तर्हि सूर्यादयपर्यन्तप्रतीक्षा स्यात् , तत्राह -
अथापीति ।
आदिशब्देन गर्तादि गृह्यते ।
यावत्तावदुपबन्धेन नैरपेक्ष्यश्रुतिविरोधाच्च न प्रतीक्षाकल्पनेत्याह -
स यावदिति ।
अपरविद्याविदो रश्म्यनुसारित्वस्याविशेषमुपसंहरति -
तस्मादिति ॥ १९ ॥
पूर्वाभिरेव युक्तिभी रात्राविव दक्षिणायनेऽपि मृतस्य फलप्राप्तिरविशिष्टेत्याह -
अतश्चेति ।
दक्षिणायने मृतो विद्वान्विषयः स किं विद्याफलं नाप्नोत्युताप्नोतीत्युत्तरायणमरणप्राशस्त्यप्रसिद्धेर्नित्यवत्फलसंबन्धेन विद्याया विधानाच्च सन्देहे दक्षिणायनेऽपि मृतस्य ब्रह्मविदो विद्याफलमवश्यम्भावीति साधनात्पादादिसङ्गतिः । पूर्वपक्षे दक्षिणायने मृतस्य फलाभावादुत्तरायणमरणार्थं प्रयतितव्यम् ।
सिद्धान्ते हेतुसिद्धेस्तादृक्प्रयत्नो नातीव फलवानित्यभिप्रेत्य सिद्धान्तमाह -
अत इति ।
पूर्वाधिकरणन्यायेन सिद्धान्तमुक्त्वा पूर्वपक्षमाह -
उत्तरायणेति ।
श्रुतिस्मृतिप्रसिद्धिभ्यो दक्षिणायने मृतस्य विदुषो नास्ति फलाप्तिरिति पूर्वपक्षमनूद्य सिद्धान्तमाह -
इतीमामिति ।
अपनोदप्रकारमाह -
प्राशस्त्येति ।
यत्तु भीष्मस्य प्रतीक्षादर्शनादिति, तत्राह -
भीष्मस्येति ।
उत्तरायणमरणं प्रशस्तमित्यविदुषामभिज्ञाभिवचनरूपो व्यवहारस्तत्पालनद्वारा सदाचारे तान्प्रवर्तयितुं तस्य कालप्रतीक्षणमित्यर्थः ।
तत्प्रतिपालनस्य गत्यन्तरमाह -
पित्रिति ।
उत्तरायणस्य मार्गपर्वत्वेनापेक्षेणीयत्वं श्रुतमित्युक्तं तत्कुतो दक्षिणायने मृतो विद्वान्विद्याफलमाप्नुयादित्याशङ्क्याह -
श्रुतेस्त्विति ।
नहि कालवादिनी श्रुतिः किं त्वातिवाहिकदेवतार्थेत्यर्थः ॥ २० ॥
काल एवात्र प्राधान्येनोच्यते नातिवाहिकी देवतेति स्मृतिमाश्रित्य शङ्कते -
नन्विति ।
तदुत्तरत्वेन सूत्रमवतारयति -
अत्रेति ।
स्मार्तमुपासनं प्रत्ययं कालभेदविनियोगः स्मार्तोऽभ्युपगम्यते प्रत्यासत्तेरिति व्याचष्टे -
योगिन इति ।
योगी दहराद्युपासक एव किं न स्यात् , तत्राह -
स्मार्ते चेति ।
नित्यमग्निहोत्रादीश्वराराधनरूपेण यदनुष्ठीयते स योगः ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतेः । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारणापूर्वकोऽकर्तृत्वानुभवः साङ्ख्यमिति भेदः ।
श्रौतदहराद्युपास्तीनां स्मृत्यविषयत्वे फलितमाह -
अत इति ।
श्रुतिस्मृत्योर्भिन्नार्थत्वं प्रत्यभिज्ञाविरुद्धमिति शङ्कते -
नन्विति ।
कालभेदविधिपरत्वमङ्गीकृत्य विषयव्यवस्थोक्ता प्रत्यभिज्ञानेन कालाभिधानद्वारा देवतोक्तौ श्रुतिस्मृत्योरेकार्थत्वमेवेति कुतो विरोधशङ्केत्याह -
उच्यत इति ।
तदेवं दक्षिणायने मृतस्यापि विदुषो विद्याफलमवश्यम्भावीत्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् ॥ २१ ॥
अपरविद्याफलाय देवयानं पन्थानमवतारयितुं तदङ्गभूतोत्क्रान्तिश्चिन्तिता । संप्रत्यङ्गिनं पन्थानमेव वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे प्रायणकालानियमाद्विद्याफलस्य चावश्यकत्वात्प्रतीक्षणस्य चायुक्तेर्दक्षिणायनेऽपि मृतस्य विदुषो विद्याफलाप्तिरस्तीत्युक्तम् । प्रायणकालवत्प्रयतो गतिरनियतेत्याशङ्क्य परिहरति -
अर्चिरादिनेति ।
वृत्तमनूद्य प्रकृतोत्तरमार्गमधिकरणस्य विषयत्वेनोदाहरति -
आसृतीति ।
श्रुत्यन्तरेषु भिन्नासु सृतिष्विति यावत् । संशयहेतुं श्रुतिविप्रतिपत्तिं वक्तुमनेकधेत्युक्तम् । अथेत्युत्क्रान्त्यानन्तर्योक्तिः । विरजा विरजसो रजःशब्दितब्रह्मलोकाप्तिविरोधिविधुरा इति यावत् ।
उक्तं देवयानं पन्थानमधिकृत्य श्रुतिविप्रतिपत्तिं सूचितां हेतूकृत्य संशयमाह -
तत्रेति ।
अत्रापरविद्याफलाप्तिहेतुमार्गैक्योक्त्या पादादिसङ्गतिः ।
पूर्वपक्षे मार्गबहुत्वे विकल्पः सिद्धान्ते तदैक्ये विकल्पशङ्कैव नेत्यङ्गीकृत्य पूर्वपक्षयति -
तत्रेति ।
सृतीनां मिथो भिन्नत्वे हेतुमाह -
भिन्नेति ।
नानाप्रकरणस्थत्वेऽपि विद्यावदेकत्वं किं न स्यात् , तत्राह -
भिन्नेति ।
प्रतिप्रकरणं विद्याभेदाद्गतिभेदानामपि तद्गुणत्वेन चिन्त्यानां गुणिभेदाद्भेदः स्यादित्यर्थः ।
गतिभेदे हेत्वन्तरमाह -
अपिचेति ।
किञ्च वक्राध्वना गतिमपेक्ष्यावक्रेण गतिस्त्वरावती कल्प्यत एकत्वे तु किमपेक्ष्य त्वरा स्यात्तस्माद्गतिभेदसिद्धिरित्याह -
त्वरेति ।
मार्गभेदे केनाध्वना ब्रह्मलोकाप्तिरित्याशङ्क्य समुच्चयायोगाद्व्रीह्यादिवद्विकल्पः स्यादिति मत्वाह -
तस्मादिति ।
उपास्तिभेदेषूपास्यब्रह्मैक्यवद्गुणभूतगत्यैक्यसिद्धेरर्चिरादिरेकैव गतिरित्याह -
एवमिति ।
तत्र प्रतिज्ञां विभजते -
सर्व इति ।
नानाविधाध्वसु श्रुतेषु कारणमवधारणे वक्तव्यमिति पृच्छति -
कुत इति ।
हेतुमवतार्य व्याचष्टे -
तदिति ।
पञ्चाग्निविदामेव तेऽर्चिषमभिसम्भवन्तीत्यर्चिरादिगतेः श्रुतत्वात्कुतः सर्वेषामिति विशेषणं, तत्राह -
तथाहीति ।
साधारणश्रुतेरश्रुतगतिकधीविषयत्वाद्विद्यान्तराणां स्वाधिकारस्थगतिनिरपेक्षाणां नार्चिरादिगतिसङ्गतिरिति शङ्कते -
स्यादिति ।
एकत्वेऽपि पथोऽनेकपर्वयुक्तत्वयोगाद्गतेरेव न भेदो गौरवादित्याह -
अत्रेति ।
एकदेशप्रत्यभिज्ञानादपि गतेरैक्यं सर्वत्रेत्याह -
सर्वत्रेति ।
यत्तु भिन्नप्रकरणत्वाद्भिन्ना गतय इति तत्र प्रकरणभेदमात्रादेव गतिभेदो विद्याभेदाद्वा, नाद्य इत्याह -
प्रकरणेति ।
नहि द्वितीय इत्याह -
विद्येति ।
तद्भेदेऽपि वेद्यब्रह्मैक्यवद्गुणभूतगत्यैक्यमविरुद्धमित्यर्थः ।
गन्तव्याभेदं विवृणोति -
तथाहीति ।
ते ब्रह्मविदो नानाभोगदेशभाजि ब्रह्मलोके परावतो ब्रह्मणो हिरण्यगर्भस्य पराः समाः प्रकृष्टान्संवत्सरान्वसन्ति, यावदायुर्ब्रह्मणस्तावत्तत्र तिष्ठन्तीत्यर्थः । तस्मिन्निति ब्रह्मलोको गृह्यते । शाश्वतीः समा नित्यान्संवत्सरान्वसन्तीति पूर्ववत् । ब्रह्मणो हिरण्यगर्भस्य या जितिः सर्वलोकजयो या च व्युष्टिर्व्याप्तिस्तां लभते समानदेहतां प्राप्तः सन्नित्यर्थः ।
कस्यैतत्फलं, तत्राह -
तद्य इति ।
तत्तत्राधिकृतानां मध्ये ये केचिद्ब्रह्मचर्यादिसाधनेन ब्रह्मोपासते ते पुनरेतं ब्रह्मलोकं ब्रह्मणाधिष्ठितं लभन्त इत्यर्थः ।
उक्तश्रुतीनां तात्पर्यमाह -
तत्र तत्रेति ।
परोक्तमनूद्य प्रत्याह -
यत्त्विति ।
रात्रौ स्पष्टरश्म्यदृष्टेस्तदनुसारित्वाभावे तत्र मृतस्य प्राप्ते सोऽप्येतैरेव रश्मिभिरित्ययोगव्यवच्छेदार्थमवधारणं नान्ययोगव्यवच्छेदायेत्यर्थः ।
अन्ययोगव्यवच्छेदकत्वमपि वचनस्य किं न स्यादित्याशङ्क्याह -
नहीति ।
एकस्य वाक्यस्याप्राप्तमार्गप्रापकत्वं तस्य निरपेक्षत्वप्रतिपादकत्वं चायुक्तं वाक्यभेदप्रसङ्गादित्यर्थः ।
उभयथार्थत्वायोगे फलितमाह -
तस्मादिति ।
विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीत्यर्थः ।
यत्तु त्वरावचनं पीडितं स्यादिति, तत्राह -
त्वरेति ।
अर्चिरादिमार्गस्यैक्येऽपि कुतश्चिदन्यतो गन्तव्यादनेनोपायेन सत्यलोकं झटिति गच्छतीति गन्तव्यभेदापेक्षया वचनं युक्तमित्यर्थः ।
देवयानमार्गैक्ये हेत्वन्तरमाह -
अपिचेति ।
मार्गभेदे स्थानान्तरस्यापि योगात्तृतीयस्थानोक्तिर्न स्यादित्यर्थः ।
पितृयाणातिरिक्तमार्गैक्येऽपि किमित्यर्चिरादिनेति विशेषणमित्याशङ्क्याह -
भूयांसीति ।
अल्पपर्वणा मार्गेण गन्तव्यप्राप्तिसम्भवे बहुपर्वमार्गोपदेशो व्यर्थः स्यात्प्रेक्षावतस्तत्राप्रवृत्तेः । अतो भूयसां पर्वणामनुरोधेनाल्पीयसां तदनुप्रवेश एव युक्तो बहूनामनुग्रहस्य न्याय्यत्वादित्यर्थः । मार्गैक्ये जघन्यविकल्पशङ्कापि नेति वक्तुमपीत्युक्तम् ॥ १ ॥
सर्वात्रार्चिरादिमार्गपर्वप्रत्यभिज्ञानाद्गत्यैक्यमुक्तम् । संप्रत्येतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकमित्यत्रार्चिरात्मकाग्न्यानन्तर्यप्रत्यभिज्ञानादर्चिषोऽनन्तरं निवेशनीयो वायुरित्याशङ्क्याह -
वायुमिति ।
इतरेतरविशेषणविशेष्यत्वेनोपसंहारोऽर्चिरादीनामुक्तः स कीदृश इति विचारयति -
केनेति ।
मार्गपर्वणां विशेषणविशेष्यत्वे सिद्धे योग्यतया स्वयमेव संनिवेशविशेषसिद्धेरनर्थकं तन्निरूपणमित्याशङ्क्याह -
सुहृदिति ।
संनिवेशविशेषणविशिष्टं विशेषणविशेष्यत्वं तदेतदित्युक्तम् । सङ्क्षेपतोऽधिकरणस्य तात्पर्यमुक्त्वा विषयमाह -
स इति ।
तत्र प्रथमश्रुतमग्निलोकमतिक्रम्य किमिति वायोः संनिवेशो विचार्यते, तत्राह -
तत्रेति ।
असन्दिग्धमंशमुक्त्वा सन्दिग्धमंशमाह -
वायुस्त्विति ।
अर्चिषोऽनन्तरमग्निलोकं वायुलोकमिति पाठक्रमबलाद्बायुर्निवेशयितव्यः किंवा वक्ष्यमाणन्यायेन संवत्सरदेवलोकयोः परस्तादादित्यस्य चार्वागिति संशयात्स एव विचारविषय इत्यर्थः । अत्र चापरविद्याफलार्थं मार्गपर्वणां संनिवेशविशेषचिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे पाठानुक्रमस्यानुसरणं सिद्धान्ते त्वर्थक्रमात्तस्य बाध्यतेति मन्वानो वायोरादित्यादव्यवहितपूर्वत्वेन संनिवेशं सिद्धान्तमाह -
उच्यत इति ।
पाठक्रमादग्नेरनन्तरं निवेशनीयो वायुरिति शङ्कते -
कस्मादिति ।
सूत्रपदेनोत्तरमाह -
अविशेषेति ।
विशेषदर्शनस्यैव स्थानविशेषसंनिवेशहेतुत्वेऽपि वायोरचिरादिके पथि सामान्यप्राप्तावविशेषोक्तिरपि हेतुरिति मत्वा व्याचष्टे -
तथाहीति ।
कौषीतकिश्रुतेर्वाजसनेयिश्रुतिः श्रुत्यन्तरम् । पुरुषो ध्याता । लोको देहः । प्रैतीत्यत्र तदेति द्रष्टव्यं यदेत्युपक्रमात् । तस्मै प्राप्तायोपासकाय वायुस्तत्र स्वात्मनि विजिहीते द्वारं प्रयच्छतीति यावत् ।
वायुप्रत्तद्वारपरिमाणं दृष्टान्तेन स्पष्टयति -
यथेति ।
विशेषोक्तिफलं निगमयति -
एतस्मादिति ।
सिद्धान्तेनोपक्रम्य पूर्वपक्षमाह -
कस्मादिति ।
पाठक्रमादर्चिषोऽनन्तरं निवेशनीयो वायुरित्यर्थः ।
वायुप्रत्तमार्गेणैवोर्ध्वमादित्यमाक्रमत इत्यूर्ध्वत्वश्रुतेर्दिग्वचनत्वेऽप्यर्थक्रमद्योतित्वात्तेनेति च वायुप्रत्तरथचक्रपरिमितावकाशस्योर्ध्वक्रमणं प्रति हेतुत्वसिद्धेर्वायोरपि तन्निमित्तत्वदृष्टेरूर्ध्वशब्दश्रुतिसिद्धार्थक्रमेण पाठक्रमो बाध्यत इत्याह -
नेत्यादिना ।
उक्तमेवार्थं विवृण्वन्नाशङ्कते -
नन्विति ।
तत्र सिद्धान्ती स्वाभिप्रायमाह -
उच्यत इति ।
तर्हि वाक्यस्य वैयर्थ्यं नेत्याह -
पदार्थेति ।
स्वरपविधिपरमेतद्वचनं न क्रमपरमित्यर्थः ।
वाजसनेयिश्रुतावपि क्रमवाचिशब्दो नास्तीत्याशङ्क्याह -
इतरत्रेति ।
कौषीतकिवाक्योक्तस्य वायोश्छान्दोग्योपदिष्टार्चिरादिमार्गे निवेशनमुक्तमुपसंहरति -
तस्मादिति ।
वाजसनेयिनां संवत्सराश्रवणात्कथं वायुमब्दादिति सूत्रं, तत्राह -
वाजसनेयिनस्त्विति ।
तर्हि देवलोकाद्वायुलोकमिति वक्तव्यमित्याशङ्क्य छान्दोग्याभिप्रायेणैतदुक्तमित्याह -
वायुमिति ।
क्रमस्तर्हि कः स्यादित्याशङ्क्योभयश्रुत्यालोचनया क्रमं दर्शयति -
छान्दोग्येति ।
तर्हि कथमेकवाक्यत्वं, तत्राह -
तत्रेति ।
तर्हि देवलोकस्य प्राथम्यं संवत्सरस्य पाश्चात्यं किं न स्यात् , तत्राह -
तत्रापीति ।
संवत्सरस्य मासारभ्यत्वान्मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवत्यादित्यानन्तर्याय देवलोकादपि वायुरुपरिष्टाद्द्रष्टव्यः । सूत्रे तु संवत्सराद्देवलोकं प्राप्य वायुमभिसम्भवतीति विवक्षितं वायुशब्दस्य देवलोकोपलक्षणार्थत्वात् । अतः श्रुतित्रयवशाद्देवलोकसहितवायोः संवत्सरादित्यान्तरालवर्तित्वमित्यर्थः ॥ २ ॥
वायोः संनिवेशे दर्शिते तदनन्तरपठितवरुणादिसंनिवेशं दर्शयति -
तडितोऽधि वरुण इति ।
स वरुणलोकमित्यादिना श्रुतो वरुणादिर्विषयः स किमर्चिरादिमार्गपर्वत्वेन न सम्बध्यते किंवा सम्बध्यत इति तस्य तत्र संनिवेशस्थानासम्भवसम्भवाभ्यां सन्देहे स वायुलोकं स वरुणलोकमिति वरुणादीनां पाठक्रमेण वायोरूर्ध्वमादित्यात्प्रागूर्ध्वश्रुतिसिद्धार्थक्रमविरोधेन निवेशासिद्धेर्विद्युतश्चोपरिष्टादमानवपुरुषस्यैव नेतृत्वश्रवणाद्वरुणादीनामनुपयोगान्निवेशस्थानान्तरादृष्टेश्च तेषां मार्गपर्वत्वेन सम्बन्धो नास्तीति प्राप्ते सिद्धान्तमाह -
आदित्यादिति ।
विद्युतोऽनन्तरं वरुणसंनिवेशे सूत्रोक्तं हेतुमाह -
अस्तीति ।
तत्र लोकप्रसिद्धिमनुकूलयति -
यदेति ।
विद्युदुद्भवानन्तरं वृष्टेर्दृष्टत्वात्कार्यकारणभावस्तयोरस्तीत्यर्थः ।
तत्रैव श्रुतिं संवादयति -
विद्योतत इति ।
अपां विद्युद्योगेऽपि वरुणस्य किमायातं तदाह -
अपां चेति ।
वायोरनन्तरमधीतस्यापि वरुणस्य विद्युदानन्तर्यवदिन्द्रप्रजापत्योर्वरुणानन्तरमधीतयोरपि स्थानान्तरं वाच्यमित्याशङ्क्याह -
वरुणाच्चेति ।
तर्हि तयोर्मार्गपर्वत्वेन सङ्गतिरेव मा भूदित्याशङ्क्याह -
पाठेति ।
आगन्तूनामन्ते निवेश इतिन्यायाच्चासाधारणस्थानहीनानां वरुणादीनां तडिदानन्तर्यमुक्तमित्याह -
आगन्तुकत्वादिति ।
यथा दर्शपूर्णमासिकविकृतौ नक्षत्रेष्टौ सोऽत्र जुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्यादीनामुपहोमानां प्रधानशब्दगृहीतप्रकृतनारिष्टहोमान्ते प्रयोगो निरूपितस्तथार्चिरादिमार्गेऽपि स्थानाभावेनागन्तूनामन्ते निवेशः स्यादिति भावः ।
कथं विद्युतोऽन्त्यत्वं नहि तदन्त्यत्ववाची शब्दोऽस्तीत्याशङ्क्य विद्युदनन्तरं पर्वान्तरस्यानुक्तेस्तदन्त्यत्वमित्याह -
विद्युच्चेति ।
वरुणादीनामुपयोगस्त्वमानवेन सह नेतृत्वसम्भवादिति वक्ष्यते । अत्र च विद्याफलार्थे पथि वरुणादीनां संनिवेशोक्त्या पादादिसङ्गतिः । पूर्वपक्षे वरुणादिपाठस्यादृष्टार्थत्वं सिद्धान्ते वरुणादीनां स्थानान्तराभावेऽप्यागन्तूनामन्ते निवेशात्पाठस्य दृष्टार्थतेवेति द्रष्टव्यम् ॥ ३ ॥
अर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आतिवाहिका इति ।
विषयोक्तिपूर्वकमुक्तिसाम्याल्लोकशब्दादतिनेतृत्वलिङ्गाच्च संशयमाह -
तेष्वेवेति ।
अत्र च विद्याफलप्राप्त्यर्थमर्चिरादावध्वनि प्रवृत्तस्य विदुषो गमयितृत्वचिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे निर्देशस्य लोकश्रुतेर्वा मुख्यत्वं सिद्धान्ते न्यायवल्लिङ्गस्येत्यङ्गीकृत्य पूर्वपक्षमाह -
तत्रेति ।
उक्तेऽर्थे निर्देशसाम्यं हेतुमाह -
तदिति ।
उक्तमेव हेतुुं दृष्टान्तेन स्पष्टयति -
यथेति ।
पूर्वपक्षान्तरमाह -
अथवेति ।
कथं लोकशब्दप्रयोगेऽप्यर्चिरादीनां भोगभूमित्वं, तत्राह -
लोकेति ।
मार्गपर्वणां भोगभूमित्वे श्रुतिमपि दर्शयति -
तथाचेति ।
अहोरात्रप्रभृतिषु लोकशब्दितेषु भोगायतनेषु ते कर्मिणो ज्ञानिनश्च सक्तिं भोगमनुभवन्तीति यावत् ।
पक्षद्वयेऽपि फलितमाह -
तस्मादिति ।
अर्चिरादिशब्दानामचेतनेष्वग्न्यादिषु रूढत्वादपि न तेषामातिवाहिकतेत्याह -
अचेतनत्वादिति ।
तदेव व्यतिरेकदृष्टान्तेन स्फोरयति
चेतना हीति ।
सिद्धान्तसूत्रमादाय प्रतिज्ञां विभजते -
एवमिति ।
तत्र हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -
कुत इति ।
अमानवपुरुषस्य विद्युदादावातिवाहिकत्वदृष्टेरर्चिरादीनामपि तदुन्नेयमित्यर्थः ।
यावद्वचनं वाचनिकमिति न्यायान्न तेषामातिवाहिकत्वसाधकमेतदिति शङ्कते -
तदिति ।
उभयपरत्वे वाक्यभेदः स्यादिति भावः ।
प्राप्तगमयितृमानवपुरुषानुवादेनाप्राप्तामानवत्ववादित्वाद्वाक्यस्योभयपरत्वेन वाक्यभेदप्रसङ्गात्पूर्वेषामपि मानवपुरुषतया गमययितृत्वं ग्राह्यमित्याह -
नेति ।
उक्तमेव प्रपञ्चयति -
यदीति ॥ ४ ॥
लिङ्गस्यानुग्राहकन्यायाभावे गमकत्वासिद्धिरिति शङ्कते -
नन्विति ।
न्यायोक्तिपरं सूत्रमवतारयति -
नेति ।
चेतनस्य यत्नहीनस्योर्ध्वगतिश्चेतनान्तराधीनेति लौकिकन्यायेन यत्नहीनानां गन्तॄणां गमयितारोऽर्चिरादयश्चेतनाः स्युरिति सूत्रयोजनया ब्रूते -
ये तावदिति ।
उभयोर्मार्गतद्गन्त्रोर्व्यामोहादज्ञत्वात्तत्सिद्धेर्गमयितृसिद्धेर्न न्यायहीनं लिङ्गमित्युक्त्वा न्यायमेव स्फुटयति -
लोकेऽपीति ।
पूर्वपक्षद्वयायोगे हेत्वन्तरमाह -
अनवस्थितत्वादिति ।
अहःशुक्लपक्षोत्तरायणानां कालान्तरेषु मार्गचिह्नत्वभोगभूमित्वे न सम्भाव्येते तदा तेषामभावादिति हेतुं साधयति -
नहीति ।
तर्हि तदागमनं प्रतीक्ष्य रात्र्यादौ प्रेतो गमिष्यति नेत्याह -
नचेति ।
अनवस्थितत्वाविशेषादातिवाहिकत्वमपि कुतस्तेषामित्याशङ्क्याह -
ध्रुवत्वादिति ।
अर्चिरादिशब्दानामचेतनेषु रूढेर्न तेषां देवतावाचितेत्याशङ्क्याह -
अर्चिरादीति ।
न चाभिमतव्याहारादिदेहाभावे तद्देवतानामनवस्थानमिति वाच्यम् । ऐश्वर्ययोगात्तासामनेकविग्रहग्रहणयोगात् । अतो देवदत्तादिशब्दवदर्थतश्चेतनेषु मुख्यतेत्यर्थः ।
जाड्याद्बद्ध इत्यादौ गुणवचनेषु जाड्यादिषु पञ्चमीदर्शनादर्चिरादीनां च गुणवचनत्वाभावाद्वहनं प्रत्यर्चिरादीनां हेतुत्वानवगमादर्चिष इत्यस्मादपादानत्वप्रतीतेर्नातिवाहिकत्वसिद्धिरित्याशङ्क्याह -
अर्चिष इति ।
तार्किकप्रक्रियासिद्धगुणत्वाभावेऽप्याश्रितत्वेन तत्सिद्धेर्हेतावेषा पञ्चमीत्यार्थः ।
उक्तेऽर्थे लौकिकव्यपदेशं दर्शयति -
तथाचेति ।
इतश्चार्चिरादिशब्दानां गमयितृविषयतेत्याह -
अपिचेति ।
सामान्यवचने शब्दे विशेषापेक्षिणि दृष्टे विशेषशब्देन तत्सामान्यं नियन्तव्यमितिन्यायादतिवाह्यातिवाहकसम्बन्धसिद्धिरिति हेत्वन्तरमेव स्फुटयति -
उपक्रमेऽपीति ।
यत्तु भोगभूमित्वमर्चिरादीनामुक्तं तद्दूषयति -
सम्पिण्डितेति ।
लोकशब्दाद्भोगभूमित्वमुक्तं प्रत्याह -
लोकेति ।
गन्तॄणां भोक्तृत्वाभावेऽपि वाक्यं शक्यं नेतुमिति फलितमाह -
अत इति ॥ ५ ॥
सूत्रान्तरमवतारयितुं शङ्कते -
कथमिति ।
का पुनरनुपपत्तिः तत्राह -
विद्युतो हीति ।
आतिवाहिकत्वमपि नियतं नेत्युक्ते प्रत्याह -
अत इति ।
वरुणादिषु वचनादपवादमङ्गीकृत्य विभजते -
तत इति ।
किं तर्हि तैरित्याशङ्क्याह -
वरुणादयस्त्विति ।
तेषां स्वयमवाहकत्वेऽपि तत्साहाय्यकरणेन तथात्वाद्युक्तमर्चिरादिशब्दानां गमयितृविषयत्वमित्युपसंहरति -
तस्मादिति ॥ ६ ॥
गतिनिरूपणानन्तरं गन्तव्यं निरूपयति -
कार्यमिति ।
ब्रह्म विषयीकृत्य संशयमाह -
स इति ।
प्रश्नपूर्वकं तद्देतुमाह -
कुत इति ।
पूर्वपक्षस्याद्यो द्वितीयस्तूत्तरपक्षस्यानुगुणो हेतुः । प्रकृतया गत्या गन्तव्यस्य विद्याफलभूतस्य ब्रह्मणो निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे परविदोऽपि गत्युत्क्रान्ती सिध्यतः ।
सिद्धान्ते ततोऽन्यस्यैव ते नियते स्यातामिति मन्वानः सूत्रं योजयन्नादौ सिद्धान्तमाह -
तत्रेति ।
साधारणे ब्रह्मशब्दे कार्यविषयत्वं गतेरहेतुकमिति शङ्कते -
कुत इति ।
हेतुमवतार्य व्याचष्टे -
गतिरिति ।
सर्वगतत्वेऽपि प्रदेशान्तरवर्तिनस्तस्याकाशस्येव गन्तव्यत्वमाशङ्क्याह -
प्रत्यगिति ॥ ७ ॥