अद्वैतशारदा

न्यायनिर्णयव्याख्या

४ परिच्छेदः

कार्यब्रह्म गन्तव्यमित्यत्र हेत्वन्तरमाह -
विशेषितेति ।

सूत्रं व्याचष्टे -
ब्रह्मेति ।

बहूक्त्या गन्तव्यस्य विशेषितत्वेऽपि कथं परस्य गन्त­व्य­त्व­नि­र­सनं, तत्राह -
नहीति ।

ऐक्या­त्का­र्य­स्यापि ब्रह्मणो बहू­क्ति­र­यु­क्ते­त्या­श­ङ्क्याह -
कार्ये त्विति ।

चशब्दसूचितं युक्त्यन्तरमाह -
लोकेति ।

परस्मिन्नपि क्वचिद्दृष्टा लोक­श्रु­ति­रि­त्या­श­ङ्क्याह -
गौणीति ।

ब्रह्म­लो­के­ष्वि­त्य­धि­क­र­ण­स­प्तम्या ब्रह्म­ण्य­यो­गा­दपि कार्यविषयैव गतिरिति हेत्वन्तरमाह -
अधिकरणेति ।

सूत्रो­क्त­हे­तूनां फलितं गिगमयति -
तस्मादिति ॥ ८ ॥

ब्रह्म­श­ब्द­श्रु­ति­वि­रोधं शङ्कते -
नन्विति ।

वृद्धव्यवहारे प्रयो­ग­प्र­त्य­याभ्यां ब्रह्मशब्दस्य परापरब्रह्मणोः शाब्दं मुख्यत्वं तुल्य­मि­त्या­श­ङ्क्या­न­व­च्छि­न्न­त­या­र्थतो मुख्यत्वं परस्यैवेत्याह -
समस्तस्येति ।

सूत्रेण परिहरति -
अत्रेति ।

मुख्यार्थायोगे यौगिकतयापि ब्रह्मपदं नेयमिति मत्वा व्याचष्टे -
तुशब्द इति ।

अविरोधं साधयति -
परमेवेति ।
विशु­द्धो­पा­धि­स­म्बन्धं सात्त्वि­को­पा­धि­वि­शि­ष्ट­मिति यावत् ॥ ९ ॥

ब्रह्मशब्दस्य मुख्यार्थग्रहे बहु­त­र­का­र्य­लि­ङ्ग­भ­ङ्ग­व­त्का­र्य­ग्र­हेऽपि तुल्या­ना­वृ­त्ति­श्रु­त्य­नु­प­प­त्ति­रिति शङ्कते -
नन्विति ।

तत्र हेतुः -
नहीति ।

मा भूदर्चिरादिना गच्छ­ता­म­ना­वृ­त्ति­र्ब्र­ह्म­लो­क­प्रा­प्ति­मा­त्रस्य श्रुत­त्वा­दि­त्या­श­ङ्क्याह -
दर्शयतीति ।

क्रम­मु­क्त्य­भि­प्रा­य­म­ना­वृ­त्ति­श्र­व­ण­मिति सूत्रेण प्रत्याह -
अत्रेति ।

सूत्राक्षराणि योजयति -
कार्येति ।

साक्षादेव ब्रह्म­प्रा­प्त्या­ना­वृ­त्ति­सिद्धौ किमिति परम्पराश्रयणं, तत्राह -
नहीति ॥ १० ॥

क्रममुक्तौ स्मृतिं प्रमाणयति -
स्मृतेश्चेति ।

तामेवोदाहरति -
स्मृतिरिति ।
प्रतिसञ्चरो महा­प्र­ल­य­स्त­स्मि­न्प्राप्ते परस्य हिर­ण्य­ग­र्भ­स्या­न्तोऽ­धि­का­रा­व­सानं तदा कृतात्मानः शुद्धधियो ब्रह्म­लो­क­नि­वा­सि­न­स्त­त्रो­त्प­न्न­स­म्य­ग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना ।

सिद्धा­न्त­मु­प­सं­ह­रति -
तस्मादिति ॥ ११ ॥

उत्त­र­सू­त्रा­ण्या­का­ङ्क्षा­पू­र्व­क­म­व­ता­र­यति -
कमिति ।

ब्रह्मशब्दस्य मुख्या­र्थ­त्व­मा­श्रित्य परस्यैव ब्रह्मणो गन्तव्यत्वमाह -
परमिति ।

तत्र प्रतिज्ञांं विभजते -
जैमिनिस्त्विति ।

युक्ति­यु­क्त­स्यैव ग्राह्य­त्वा­द्व­क्तृ­गौ­र­व­म­कि­ञ्चि­त्क­र­मिति शङ्कते -
कुत इति ।

सौत्रं हेतुमाह -
मुख्यत्वादिति ।

गौणस्यापि मुख्य­व­द्ब्र­ह्म­श­ब्दा­ल­म्ब­न­त्व­मि­ष्ट­म­वि­शे­षा­दि­त्या­श­ङ्क्याह -
मुख्येति ॥ १२ ॥

इतश्च मुख्यमेव ब्रह्म गन्तव्यमित्याह -
दर्शनाच्चेति ।

दर्शनं विभजते -
तयेति ।

आपेक्षिकं तत्प­क्षा­न्त­रेऽपि स्यादि­त्या­शङ्क्य मुख्यसम्भवे नैवमित्याह -
अमृतत्वं चेति ।

कार्यस्य नाशित्वे मानमाह -
अथेति ।

परस्मिन्न युक्ता गति­रि­त्यु­क्त­मि­त्या­श­ङ्क्याह -
परेति ।

कथ­मे­त­ज्ज्ञा­त­मि­त्या­शङ्क्य प्रक­र­ण­सा­म­र्थ्या­दि­त्याह -
नहीति ॥ १३ ॥

ब्रह्म­श्रु­ते­र­मृ­त­त्व­श्रु­ति­लि­ङ्गा­त्त­यो­र्ध्व­मा­य­न्नि­ति­प्र­क­र­णाच्च परविषया गतिरित्युक्तम् । सम्प्रति प्रजापतेः सभां वेश्म प्रपद्ये प्राप्नुयामिति मरणकाले यः प्रति­प­त्त्य­भि­सन्धिः प्राप्ति­स­ङ्कल्पः स कार्यगोचर इति तस्यैव गन्त­व्य­ते­त्या­श­ङ्क्याह -
नचेति ।

तद्विवृणोति -
अपिचेति ।

परस्यैव गन्तव्यत्वे हेत्वन्तरमाह -
यशोऽहमिति ।
आत्मा यशःशब्दार्थः । ब्राह्म­णा­ना­म­ह­मात्मा भवामि यशो राज्ञां यशो विशामिति सर्वा­त्म­त्वो­क्ते­रपि न परि­च्छि­न्न­का­र्या­प­त्ति­रि­त्यर्थः ।

यशःशब्देन विश्रु­त­त्व­मुक्तं नात्मे­त्या­श­ङ्क्याह -
नेति ।

अस्त्व­धि­का­रा­द्ब्र­ह्म­वि­ष­यैव वेश्म­प्र­ति­प­त्त­या­दि­सं­क­ल्पना तथापि कथं सा गतिपूर्विका वेश्म­प्र­ति­पत्तेः स्तुति­मा­त्र­त्वा­दि­त्या­श­ङ्क्याह -
सा चेति ।
तत्तत्र ब्रह्मलोके केनापि ब्रह्म­च­र्या­दि­ही­नेन न परा­जि­ते­त्य­प­रा­जिता पूरस्य ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणा निर्मितं हिरण्मयं वेश्म चास्ति तत्प्रपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्म­प्र­ति­प­त्ति­रुक्ता तेन परब्रह्मण्यपि वेश्म­प्र­ति­प­त्ति­सा­म्या­द्ग­ति­पू­र्व­कत्वं तस्याः सिध्यतीत्यर्थः ।

किञ्च पद गताविति स्मृतेरपि वेश्म­प्र­ति­प­त्ते­र्मा­र्गा­पेक्षा भातीत्याह -
पदेरिति ।

पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।

परं जैमि­नि­रि­त्या­दि­सि­द्धा­न्त­सू­त्रा­ण्यु­त्त­र­सू­त्र­त्वा­त्पू­र्वाणि पूर्व­प­क्ष­सू­त्रा­णी­त्या­शङ्क्य व्यवस्थार्थं पातनिकां करोति -
ताविति ।

तथापि कथं व्यव­स्थे­त्या­श­ङ्क्याह -
तत्रेति ।

द्वितीये पक्षे ब्रह्मशब्दस्य मुख्या­र्थ­ला­भा­त्त­स्यै­वो­त्त­र­प­क्ष­त्व­मि­त्या­श­ङ्क्याह -
नहीति ।

यत्तु प्रक­र­ण­सा­म­र्थ्या­त्प­र­वि­ष­यत्वं गतेरिति, तत्राह -
परेति ।
यथा ब्रह्म­ना­डी­ग­ति­प्र­शं­सार्थं नाड्यन्तराणि विद्या­सं­स­र्ग­शू­न्या­न्येव तत्प्र­क­र­णेऽ­नु­की­र्त्यन्ते तथा दह­रा­दि­वि­द्या­श्र­य­ग­ति­नि­मि­त्त­फ­ला­नु­की­र्तनं पर­वि­द्या­धि­का­रेऽपि युज्यते तस्या गतिराहित्येऽपि तत्पूर्वकफलस्य तयैव सिद्धेर्महतीयं विद्या निर­ति­श­यै­श्व­र्य­हे­तु­त्वा­दिति स्तुति­प्र­क­र्ष­स­म्भ­वा­दि­त्यर्थः ।

यत्तु कार्ये प्रति­प­त्त्य­भि­स­न्धि­र्ना­स्तीति, तत्राह -
प्रजेति ।
श्रुति­वा­क्याभ्यां प्रकरणं हेयमिति भावः ।

यत्तु सर्वा­त्म­त्वा­नु­क्र­म­णा­त्प­र­वि­ष­यत्वं प्रति­प­त्त्य­भि­स­न्धे­रिति, तत्राह -
सगुणेऽपीति ।
प्रशं­सा­र्थ­मु­पा­स्त्यर्थं वा तद­नु­क्र­म­ण­मि­त्यर्थः ।

परविषयगत्ययोगे फलितमाह -
तस्मादिति ।

पक्षा­न्त­र­म­नु­भाष्य दूषयति -
केचिदित्यादिना ।

ब्रह्मणो गन्त­व्य­त्वा­नु­प­प­त्ति­मु­प­पा­द­यति -
यदिति ।

यदुक्तविशेषणं परब्रह्म तस्य कदाचिदपि न गन्तव्यतेति सम्बन्धः । तस्य सर्वगतत्वे मानमाह -
आकाशवदिति ।

सर्वा­न्त­र­त्वेऽपि श्रुतिमाह -
यदिति ।

सर्वा­त्म­क­त्वेऽपि श्रुतिमाह -
आत्मैवेति ।

अनुपपत्तिमेव स्फोरयति -
नहीति ।
गते­र­कि­ञ्चि­त्क­र­त्वा­दि­त्यर्थः ।

प्राप्ते प्राप्तिफला गति­र­यु­क्ते­त्ये­त­द्व्य­ति­रे­केण स्फुटयति -
अन्यो हीति ।

स्वरूपेण प्राप्तस्यापि ब्रह्मणो विकारापत्तितया गन्त­व्य­ता­सि­द्धि­रिति दृष्टान्तेन शङ्कते -
नन्विति ।

सर्व­ग­त­स्या­युक्ता गन्त­व्य­ते­त्युक्तं प्रत्याह -
तथेति ।
अनन्यत्वं साधनसाध्यत्वं विना प्राप्तत्वम् ।

यत्तु प्रत्य­गा­त्म­त्वा­द्ब्र­ह्मणो न गन्तव्यतेति तत्राह -
स्वात्मेति ।

एकस्यैव ब्रह्मणो गन्तृगन्तव्यता सिध्यतीत्यत्र हेतुमाह -
सर्वेति ।

तथापि ग्रामादिवन्न गन्त­व्य­ते­त्या­श­ङ्क्याह -
कथञ्चिदिति ।

वैषम्यं दर्शयन्नाह -
नेत्यादिना ।

ब्रह्मणो निर्विशेषत्वे मानमाह -
निष्क­ल­मि­त्या­दिना ।
‘अनादिमत्परं ब्रह्म’ इत्याद्या स्मृतिः । न्यायस्तु विशेषाणां तद्द्र­ष्टृ­नि­वि­ष्ट­त्वेन दृश्य­त्वा­सि­द्धि­रं­शतः स्वदृ­श्य­त्वा­पा­तान्न च तद्दृश्यत्वं विना तत्सि­द्धि­र्ज­ड­त्वा­त्स्व­तः­सि­द्धत्वे चात्मा­न­ति­रे­का­त्त­स्मा­त्तस्य निर्विशेषतेति । देश­का­ला­दी­त्या­दि­ब्दे­ना­व­स्था­व­य­वादि गृह्यते ।

निर्विशेषत्वे फलितमाह -
येनेति ।
येन सविशेषत्वेन भूप्र­दे­शा­दि­दृ­ष्टा­न्तेन ब्रह्मणो गन्तव्यता न तथा तस्य सविशेषतेति योजना ।

दृष्टान्तेऽपि कथं गतस्यैव गन्त­व्य­ते­त्या­श­ङ्क्याह -
भूवयसोस्त्विति ।
अव­स्था­दी­त्या­दि­श­ब्दे­ना­व­य­व­प­रि­णा­मा­दि­ग्रहः ।

सर्व­श­क्ति­त्वा­द्युक्तं ब्रह्मणो विशेषवत्त्वेन गन्त­व्य­त्व­मि­त्युक्तं स्मारयति -
जगदिति ।
अप­रि­णा­मि­नोऽ­का­र­क­त्वा­त्त­त्का­र­ण­त्वाय परिणामित्वं कार्य­प्र­ति­यो­गि­श­क्ति­मत्त्वं चास्तीति कुतो गन्त­व्य­त्वा­सि­द्धि­रि­त्यर्थः ।

विशेषनिराकरणस्य निःशे­ष­शो­का­दि­नि­रा­स­फ­ल­त्वा­दु­त्प­त्त्या­दि­वि­धा­नस्य चाफ­ल­त्वा­त्फ­ल­व­त्सं­नि­धा­व­फलं तद­ङ्ग­मि­ति­न्या­यान्न ब्रह्मणः सविशेषतेति दूषयति -
नेत्यादिना ।

उक्तमेवार्थं चोद्यसमाधिभ्यां विवृण्वन्नादौ चौद्यं दर्शयति -
उत्पत्त्यादीति ।

तासा­म­न­न्या­र्थ­त्व­म­सि­द्ध­मि­त्याह -
नेति ।

एक­त्व­प­र­त्व­मु­प­पा­द­यति -
मृदादीति ।

शेषशेषित्वे नियामकाभावमादाय शङ्कते -
कस्मादिति ।

नियामकं दर्शयति -
उच्यत इति ।

फलवत्तया नैराकाङ्क्ष्यं स्फोरयति -
नहीति ।

एकत्वज्ञाने सर्वा­का­ङ्क्षा­शा­न्ति­रि­त्यत्र श्रुतीराह -
तत्रेत्यादिना ।

श्रौते विद्याफले विद्व­द­नु­भ­व­म­नु­कू­ल­यति -
तथैवेति ।

द्वैतस्य निन्द्य­मा­न­त्वा­दपि न प्रति­पा­द्य­ते­त्याह -
विकारेति ।

विशे­ष­नि­षे­ध­श्रु­तीनां निरा­का­ङ्क्ष­ज्ञा­नो­त्पा­द­कत्वे फलितमाह -
अतो नेति ।

तुल्य­मु­त्प­त्त्या­दि­श्रु­ती­ना­मपि तथा­वि­ध­धी­ज­न­क­त्व­मि­त्या­श­ङ्क्याह -
नैवमिति ।

न केवलं युक्ति­मा­त्रे­णो­त्प­त्त्या­दि­श्रु­ती­ना­म­न्या­र्थत्वं किन्तु श्रुति­सा­म­र्थ्या­द­पी­त्याह -
प्रत्यक्षं त्विति ।

तत्र छन्दोगश्रुत्या तासा­म­न्या­र्थत्वं स्फुटयति -
तथाहीति ।
तत्रेति मूलकारणोक्तिः । एतच्छुङ्गं जगदात्मकं कार्य­मु­त्प­ति­त­मु­त्प­न्न­मिति यावत् । तेजसा सोम्यशुङ्गेन सन्मू­ल­म­न्वि­च्छेति सत एवोत्तरत्र कार्यलिङ्गेन ज्ञेय­त्वो­क्ते­स्त­त्ते­जोऽ­सृ­ज­ते­त्या­दि­श्रु­तीनां तच्छेषत्वं सिद्धमित्यर्थः ।

तैत्ति­री­य­श्रु­त्यापि जन्मा­दि­श्रु­ती­ना­मै­क्य­धी­शे­ष­त्व­माह -
यत इति ।

तासामन्यपरत्वे फलितमाह -
एवमिति ।

ब्रह्म­णोऽ­ने­क­श­क्ति­म­त्त्वा­भा­वेऽपि न परविषया गतिरित्यत्र किमायातं तदाह -
अतश्चेति ।

इतश्च परविषये न गतिरित्याह -
न तस्येति ।

न तस्मादिति माध्य­न्दि­न­श्रुत्या निषे­ध­श्रु­ते­र­न्या­र्थ­त्व­मा­श­ङ्क्योक्तं स्मारयति -
तदिति ।

गन्त­व्य­रू­पा­लो­च­नया गति­र­यु­क्ते­त्यु­क्तम् । अधुना गन्तृ­रू­पा­लो­च­न­यापि सा न युक्तेति वक्तुं विकल्पयति -
गतीति ।
अन्या­न­न्य­त्व­मा­श्रि­त्याद्यौ विक­ल्पा­व­त्य­न्त­भे­द­मा­श्रि­त्यान्त्य इति भेदः ।

आत्य­न्ति­क­म­न­न्यत्वं किमिति न विकल्प्यते, तत्राह -
अत्यन्तेति ।

कल्पत्रयेऽपि दोषजिज्ञासया पृच्छति -
यदीति ।

पक्षत्रयेऽपि दोषमाह -
उच्यत इति ।

आद्यमनूद्य प्रत्याह -
यदीति ।

प्रथ­म­प­क्ष­स्यो­त्था­न­मेव नास्तीत्याह -
एकदेेशेति ।

उक्त­दो­ष­सा­म्या­द्द्वि­तयं निराह -
विकारेति ।

नित्य­प्रा­प्तत्वं दृष्टान्तेन स्पष्टयति -
नहीति ।

विपक्षे दोषमाह -
परित्यागे वेति ।

पक्षद्वयेऽपि दोषान्तरमाह -
विकारेति ।
ब्रह्म सविकारं सावयवं चेष्टं तस्य सह विकारैरवयवैश्च निश्च­ल­त्वा­त्कुतो जीवानां संसारगमनरूपं चलनं न हि स्थिरा­त्म­ना­म­स्थि­रत्वं युक्त­म­न्या­न­न्यत्वं च विरु­द्ध­त्वा­न्नो­प­गन्तुं शक्यमित्यर्थः ।

तृतीयमनुवदति -
अथेति ।

तं त्रेधा विकल्प्य दूषयति -
सोऽणुरित्यादिना ।
अनि­त्य­त्व­प्र­सङ्गो घटादिषु तथादृष्टेरिति शेषः ।

पक्ष­द्व­या­नु­प­पत्तिं तर्कपादे वियत्पादे चोक्तां स्मारयति -
प्रतिषिद्धे चेति ।

अन्यत्वपक्षे श्रुतिविरोधं दोषान्तरमाह -
परस्माच्चेति ।

पूर्वोक्तेऽपि पक्षद्वये श्रुतिविरोधस्य तुल्यत्वमाह -
विकारेति ।

तयो­स्त­द्व­तोऽ­न्य­त्व­व­द­न­न्य­त्व­स्यापि भावान्नेति शङ्कते -
विकारेति ।

भेदा­भे­दा­यो­र्वि­रो­धि­नो­रे­क­त्रा­यो­गा­द्बु­द्धि­व्य­प­दे­श­भे­दा­द्वि­का­रा­व­य­व­यो­स्त­द्वतो भेदे सत्य­यु­त­सि­द्ध­त्वा­दु­प­चा­रे­णा­भे­दो­क्ति­रि­त्य­मुख्यं जीवस्य ब्रह्मैक्यं स्यादित्याह -
नेति ।

किञ्च पक्षत्रयेऽपि संसारित्वस्य तात्त्वि­क­त्वा­त्त­स्या­त्य­न्ति­क­नाशे जीव­रू­प­ना­शा­द­युक्तं पक्ष­त्र­य­म­पी­त्याह -
सर्वेष्विति ।

संसारित्वे निवृत्तेऽपि सिद्धान्तवन्न जीव­रू­प­ना­श­प्र­स­क्ति­रि­त्या­श­ङ्क्याह -
ब्रह्मेति ।

संसारस्य कर्म­नि­मि­त्त­त्वा­त्त­द­भा­वेऽ­भा­वा­न्मु­क्ति­र­ना­या­स­सि­द्धेति मतं दर्शयति -
यत्त्विति ।
देहा­न्त­र­प्र­ति­स­न्धानं तेन सम्ब­न्ध­स्त­द्ग्र­ह­ण­मिति यावत् । एवंवृत्तस्य नित्या­द्य­नु­ष्ठा­न­वतो वर्णितचरितस्य मुमु­क्षो­रि­त्यर्थः ।

किं शास्त्रादेव मुच्यते किंवा तर्कादिति विकल्प्याद्यं प्रत्याह -
तदसदिति ।

प्रमाणाभावं प्रकटयति -
नहीति ।

द्वितीयमनुवदति -
स्वेति ।

स्वोत्प्रे­क्षि­त­मपि युक्त­त्वा­दे­ष्ट­व्य­मिति पक्षं प्रत्याह -
नचेति ।

निमित्ताभावस्य दुर्ज्ञानत्वं प्रपञ्चयति -
बहूनीति ।

सर्वाण्येव तानि मुमुक्षुदेहे भोगेन क्षपि­ता­नी­त्या­श­ङ्क्याह -
तेषामिति ।

अनु­प­भु­क्त­क­र्मणां देहा­न्त­र­स­म्भ­वा­न्नि­त्या­द्य­नु­ष्ठा­न­व­तोऽपि तत्त्वज्ञानं विना नास्ति मोक्षाशेति फलितमाह -
इत्यत इति ।

ऐक­भ­वि­क­त्वा­त्क­र्मा­श­यस्य वर्तमानभोगेन क्षप­ण­स­म्भ­वा­न्मो­क्ष­सि­द्धि­रि­त्या­शङ्क्य कृता­त्य­येऽ­नु­श­य­वा­नि­त्य­त्रै­क­भ­वि­कत्वं दूषितमिति मत्वाह -
कर्मेति ।

अनारब्धफलानामपि कर्मणां नित्य­नै­मि­त्ति­केभ्यो निवृ­त्ते­रु­क्त­च­रि­तस्य मुक्तिरिति शङ्कते -
स्यादेतदिति ।

किं तानि सुकृतानामपि क्षेपकाण्याहो दुंरितानामेवेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।

तेषां सुकृतविरोधित्वे काम्य­क­र्मो­प­दे­श­वै­यर्थ्यं तेषामपि तैर्विनाशादिति मन्वानो विरोधं विवृणोति -
सतीति ।

द्विती­य­म­ङ्गी­क­रोति -
दुरितानां त्विति ।

तर्हि तन्निबर्हणे तावतैव देहा­न्त­रा­भा­वा­न्मु­क्ते­रै­क्य­धी­वै­यर्थ्यं नेत्याह -
न त्विति ।

केवलसुकृतारब्धं शरीरं नास्त्य­प्रि­य­स्यापि दुरितफलस्य तत्र दर्श­ना­दि­त्या­श­ङ्क्याह -
दुश्चरितस्येति ।

किञ्च मुमु­क्षु­भि­र­नु­ष्ठि­त­नि­त्य­नै­मि­त्ति­क­व­शा­दपि देहा­न्त­र­स­म्भ­वा­न्नो­क्त­च­रि­तस्य मुक्त्या­शा­स्ती­त्याह -
नचेति ।

तेषा­मा­नु­ष­ङ्गि­क­फ­लत्वं सम्भावितमपि न प्रमि­त­मि­त्या­श­ङ्क्याह -
स्मरतीति ।
निर्मिते आरोपिते सतीति यावत् ।

किञ्च काम्य­नि­षि­द्ध­क­र्म­शे­ष­व­शा­दपि देहा­न्त­र­सि­द्धे­र्नो­क्त­च­रि­तस्य मुक्तिरित्याह -
नचेति ।

अस्मदादीनां स्थूलधियां सम्यग्धियं विना सर्वात्मना काम्या­द्य­व­र्ज­नेऽपि ज्ञाना­द­शे­ष­का­म्या­दि­व­र्ज­न­सि­द्धि­रि­त्या­श­ङ्क्याह -
सुनिपुणानामिति ।

प्रमादो भव­त्ये­वे­त्य­नि­य­मान्नो जन्मा­न्त­र­मि­त्या­श­ङ्क्याह -
संशयितव्यमिति ।

निमि­त्त­स­द्भा­वेऽपि निश्चयाभावे जन्मा­न्त­र­म­नि­श्चि­त­म­सि­द्ध­मेव स्यादि­त्या­श­ङ्क्याह -
तथापीति ।
तस्य दुर्ज्ञानत्वे जन्मा­न्त­रा­भा­व­स्यापि तथा­त्वा­त्त्व­त्प­क्षा­सि­द्धि­रि­त्यर्थः ।

किं चात्मनि कर्तृत्वादि स्वाभा­वि­क­मा­रो­पितं वाद्येऽपि तत्कार्यं तच्छक्तिर्वा स्वभावः । प्रथमे तस्मिन्निवृत्ते स्थिते वा मुक्तिः । नाद्यः । स्वभावस्य निव­र्त­यि­तु­म­श­क्य­त्वात् । न द्वितीयो व्याघातादित्याह -
नचेति ।

द्वितीयं शङ्कते -
स्यादिति ।

किं शक्तेरस्ति कार्या­र­म्भ­क­त्व­मुत न । आद्येऽपि सा निरपेक्षा कार्यमारभते सापेक्षा वा । नाद्य इत्याह -
तच्च नेति ।

कल्पा­न्त­र­मु­त्था­प­यति -
अथापीति ।
अदृ­ष्टा­दि­नि­मि­त्ता­भा­वा­दु­प­भो­ग­ल­क्ष­णोऽ­नर्थो नास्तीत्यर्थः ।

कर्तृ­त्व­भो­क्तृ­त्व­यो­र्नि­मि­त्त­स­म्ब­न्ध­स्या­त्म­नोऽ­दृ­ष्टा­दि­नि­मित्तैः सम्बन्धस्य च शक्तिद्वारा सदा­त­न­त्वा­त्क­दा­चि­त्तस्या भोगा­र­म्भ­क­त्व­स­म्भ­वान्न मुक्तिरित्याह -
तच्चेति ।

सा चेत्कार्यं नारभते तर्हि तस्या असत्त्वमेव कार्यै­क­ग­म्य­त्वा­दिति मत्वा शक्तेर्वा कार्यस्य वा स्वाभा­वि­क­त्व­नि­रा­स­मु­प­सं­ह­रति -
तस्मादिति ।

आत्मनि कर्तृ­त्वा­दे­रा­रो­पि­तत्वे ज्ञानादेव तन्निवृत्तेर्न कर्मसाध्या मुक्ति­रि­त्यु­पेत्य ज्ञान­मा­त्रा­यत्ता सेत्यत्र मानमाह -
श्रुतिश्चेति ।

प्रासङ्गिके परमते पराकृते मोक्षसिद्धये जीवस्य ब्रह्मा­त्म­त्वो­प­ग­मेऽपि तुल्याऽ­नु­प­प­त्ति­रिति शङ्कते -
परस्मादिति ।

तत्त्व­ज्ञा­ना­त्प्रा­गूर्ध्वं वा व्यवहाराभावो नाद्यः स्वप्न­व­दु­प­प­त्ते­रि­त्याह -
न प्रागिति ।

तत्रैव शास्त्रा­नु­म­ति­माह -
शास्त्रं चेति ।
अप्रवुद्धविषय इति च्छेदः ।

द्वितीये प्रस­ङ्ग­स्ये­ष्टतां शास्त्रा­व­ष्ट­म्मे­ना­चष्टे -
पुनरिति ।

प्रासङ्गिकं परिहृत्य प्रकृतं निगमयति -
तदेवमिति ।

परमतं निराकृत्य पूर्वोक्तं स्वमतं प्रश्नपूर्वकं विवृणोति -
किमित्यादिना ।

गतिश्रुतीनां सगुणधीविपयत्वं विशदयति -
तथाहीति ।

ब्रह्म प्रकृत्यापि गते­रु­क्ते­स्तस्या युक्तं पर­वि­ष­य­त्व­मि­त्या­श­ङ्क्याह -
यत्रापीति ।

सगुणविद्याविषये गति­श्रु­ति­मुक्त्या परविद्याविषये तदभावमाह -
नेति ।

क्रम­त्वा­वि­शे­षा­त्त­त्रापि गति­रे­षै­वे­त्या­श­ङ्क्याह -
यथेति ।

आप्नो­ते­र्ग­त्य­र्थ­त्वा­त्प­र­वि­द्या­धि­का­रेऽपि गति­श्रुि­र­स्ती­त्या­श­ङ्क्याह -
ब्रह्मविदिति ।
ब्रह्मणः सर्वगतत्वं सर्वान्तरत्वं सर्वा­त्म­त्व­मि­त्या­दि­व­र्णितो न्यायः ।

आप्नोतिस्तर्हि परविषये कथ­मि­त्या­श­ङ्क्याह -
स्वरूपेति ।

इतश्च परत्रविषये नास्ति गतिरित्याह -
अपिचेति ।

तदेव दर्शयितुं विकल्पयति -
परेति ।

प्ररोचनपक्षं प्रत्याह -
तत्रेति ।

स्वसंवेद्यत्वे हेतुमाह -
अव्यवहितेनेति ।

स्वापा­दि­व्या­वृ­त्त्यर्थं विशिनष्टि -
विद्येति ।

अनुचिन्तनपक्षं प्रतिक्षिपति -
नचेति ।

पक्ष­द्व­य­नि­रा­स­फलं दर्शयति -
तस्मादिति ।

कथं तर्हि केषा­ञ्चि­दा­चा­र्याणां परविषयत्वोपगमो गतेरित्याशङ्क्य सूक्ष्म­दृ­ष्टि­शू­न्य­त्वा­दि­त्याह -
तत्रेति ।

अपसिद्धान्तं शङ्कते -
किमिति ।

सोपा­धि­क­नि­रु­पा­धि­क­त्वेन ब्रह्मणो भेदः, श्रुति­वै­रू­प्या­त्तेन नाप­रा­द्धा­न्ता­प­त्ति­रि­त्याह -
बाढमिति ।

परा­प­र­वि­भा­ग­म्प्र­श्न­पू­र्वकं विशदयति -
किमित्यादिना ।

उक्त­मे­वा­प­सि­द्धा­न्त­प­रि­हारं चोद्यद्वारा स्फोरयति -
नन्वित्यादिना ।

परापरविभागस्य मिथ्यात्वे किं स्यादि­त्या­श­ङ्क्या­प­र­ब्र­ह्मणो गन्तव्यत्वार्थं तदुपास्तिफलमाह -
तस्येति ।

अप­र­ब्र­ह्मो­पा­स­न­स्यो­क्त­फ­ल­त्वेऽपि कथं तद्विषये गति­रि­त्या­श­ङ्क्याह -
तस्य चेति ।

तस्य गन्तव्यत्वेऽपि गन्तृृ­त्व­मा­त्मनो विभु­त्वा­द­यु­क्त­मि­त्या­श­ङ्क्याह -
सर्वेति ।
अनिर्वचनीया गति­र­नि­र्व­च­नी­य­स­गु­ण­ब्र­ह्म­वि­ष­यै­वो­चि­तेति भावः ।

परविषये गत्य­भा­वा­द­प­र­वि­षये तदु­प­प­त्ते­र­स्म­दु­क्तैव पूर्वो­त्त­र­प­क्ष­व्य­व­स्थे­त्यु­प­सं­ह­रति -
तस्मादिति ॥ १४ ॥

गन्त­व्य­वि­शे­षो­क्त्य­न­न्तरं गन्तृ­वि­शे­षो­क्त्य­र्थ­माह -
अप्र­ती­का­ल­म्ब­ना­निति ।

सम्बन्धं वक्तुं वृत्तं कीर्तयति -
स्थितमिति ।

अमानवपुरुषं विष­यी­कृ­त्या­वि­शे­ष­श्रु­ते­स्त­त्क्र­तु­त्वे­ना­ग­म­न­भा­नाच्च संशयमाह -
इयमिति ।
विद्याफलार्थे देवयाने पथि गन्तृ­वि­शे­षोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सर्वे­षू­पा­स­ने­ष्व­नि­य­म­न्या­या­द्वि­का­रा­ल­म्ब­नेषु विशेषासिद्धिः ।

सिद्धान्ते प्रती­को­पा­स­ना­ति­रि­क्तेषु तत्क्र­तु­न्या­या­द्वि­शे­ष­सि­द्धि­रिति मत्वा विमृश्य पूर्वपक्षयति -
किं तावदिति ।

पर­स्मा­द्ब्र­ह्म­णोऽ­न्य­त्रेति कार्य­ब्र­ह्मोक्तिः । तत्र गुणो­प­सं­हा­र­स्था­नि­य­मा­धि­क­र­ण­न्यायं हेतुत्वेन स्मारयति -
तथाहीति ।
प्रती­का­ल­म्ब­ना­ना­मपि पितृ­या­ण­तृ­ती­य­स्था­ना­स­म्ब­न्धि­त्वा­त्प्र­ती­क­वि­शे­ष­त्वेन ब्रह्मणोऽपि तैर्ध्या­त­त्वाद्ये वै के चेत्यादिवाक्येन च तेषां ग्रहा­दे­ता­न्ब्रह्म गम­य­ती­त्ये­त­च्छ­ब्देन तेषामपि परा­म­र्श­सि­द्धे­र्वि­द्या­न्त­रेषु च गते­र­व­ता­रि­त­त्वा­द­वि­शे­षे­णा­मा­नवः पुरुष एतान्सर्वानेव विका­रा­ल­म्ब­ना­न्ब्र­ह्म­लोकं नयतीति प्राप्त­मि­त्यर्थः ।

पूर्व­प­क्ष­म­नु­भाष्य सिद्धा­न्त­प्र­ति­ज्ञा­म­व­तार्य व्याकरोति -
एवमिति ।
आश्र­या­न्त­र­प्र­त्य­य­स्या­श्र­या­न्तरे क्षेपो हि प्रतीको यथा ‘नाम ब्रह्म’ इत्यादौ नामादिषु ब्रह्माश्रयस्य प्रत्ययस्य प्रक्षेपः । तदालम्बनाः प्रता­का­ल­म्ब­ना­स्ता­न्वि­हाय विका­रा­ल­म्ब­ना­न्स­गु­ण­वि­द्या­वतः सर्वानिति यावत् ।

यत्त्व­नि­य­म­न्या­या­द­वि­शे­षेण सर्वेषां विका­रा­ल­म्ब­ना­ना­मेषां गतिरिति तद्दू­ष­य­न्नु­भ­य­थाऽ­दो­षा­दि­त्ये­त­द्व्या­चष्टे -
नहीति ।
प्रतीकाम्बनान्न नयति विका­रा­ल­म्ब­नांस्तु नय­ती­त्यु­भ­य­था­त्वो­प­गमे सत्यनियमः, सर्वासामिति न्यायस्य न कश्चिद्दोषः सर्वशब्दस्य प्रती­का­ल­म्ब­ना­ति­रि­क्त­वि­ष­य­त्व­सि­द्धे­रि­त्यर्थः ।

तत्क्रतुश्चेति पदं पदा­न्त­रा­ध्या­हा­रेण व्याकरोति -
तत्क्रतुरिति ।

तस्य हेतुत्वं साधयति -
यो हीति ।

तत्र मानमाह -
तमिति ।

प्रती­का­ल­म्ब­नै­रपि तद्विशेषणत्वेन ब्रह्म ध्यात­मि­त्यु­क्त­मि­त्या­श­ङ्क्याह -
न त्विति ।
ब्रह्मदृष्ट्या नामादीनामेव प्रतीकानां प्राधा­न्ये­ना­नु­चि­न्त­नान्न प्रती­का­ल­म्ब­नानां ब्रह्म­क्र­तु­त्व­मि­त्यर्थः ।

तत्क्र­तु­स्त­द्भ­व­तीति न्यायस्य व्यभिचारं शङ्कते -
नन्विति ।

न्याय­स्यौ­त्स­र्गि­क­त्वऽपि विशे­ष­व­च­ना­द­प­वादः, तत्राह -
भवत्विति ।
आहत्यवादः साक्षादपवादकः ॥ १५ ॥

इतोऽपि प्रतीकोपासनानां न ब्रह्म­ग­ति­रि­त्याह -
विशेषं चेति ।

उत्क­र्षा­प­क­र्ष­व­त्त्वा­त्फ­लस्य प्रतीकोपासनानां नैक­रू­प­ब्र­ह्म­क्र­तुत्वं तत्प्राप्तिर्वा हेतू­प­च­या­प­च­या­ति­रे­केण फले तदयोगादिति व्याचष्टे -
नामादिष्विति ।

फल­वि­शे­षो­प­ल­म्भेऽपि किमि­त्यु­पा­स­नानां प्रती­क­त­न्त्रत्वं, तत्राह -
स चेति ।
प्रती­का­ना­मु­त्क­र्ष­नि­क­र्ष­व­त्त्वा­दि­त्यर्थः ।

विपक्षे फल­वि­शे­ष­दृ­ष्टे­र­श्लि­ष्ट­त्व­माह -
ब्रह्मेति ।

प्रती­का­ल­म्ब­ना­ति­रि­क्तानां विकारालम्बनानां ब्रह्म­लो­क­ग­ति­रिति स्थिते फलितमुपसंहरति -
तस्मादिति ॥ १६ ॥

आद्ये पादे निर्गु­ण­वि­द्या­फ­लै­क­देशो बन्ध­नि­वृ­त्ति­रुक्ता । द्वितीये सगु­ण­नि­र्गु­ण­फ­ला­प्ति­शे­ष­त्वेन तद्वि­दो­रु­त्क्रा­न्त्य­नु­त्क्रान्ती चिन्तिते । तृतीये सगु­ण­वि­द्या­फ­लो­प­यो­गि­तया गति­ग­न्त­व्य­ग­न्तृ­वि­शेषा निरूपिताः । सम्प्रति चतुर्थे पादे पर­वि­द्या­फ­लै­क­देशो ब्रह्म­भा­वा­द्द्वि­र्भावः सगुणविद्याफलं च सर्वे­श्व­र­तु­ल्य­भो­ग­त्व­म­व­धा­र­यि­ष्यते । तत्रा­प­र­वि­द्या­प्रा­प्य­मुक्त्वा पर­वि­द्या­प्रा­प्य­माह -
सम्पद्येति ।

निर्गु­ण­वि­द्या­फ­ल­मु­दा­हर्तुं तद्वि­ष­य­वा­क्य­मु­दा­ह­रति -
एवमेवेति ।

स्वशब्दस्य स्वकी­य­वा­चि­त्वे­ना­ग­न्तु­क­त्वा­भा­ना­त्स्व­रू­प­व­च­न­त्वे­ना­ना­ग­न्तु­क­त्व­बु­द्धेश्च संशयमाह -
तत्रेति ।
अत्र च निर्गु­ण­ब्र­ह्म­वि­द्या­फ­लस्य ब्रह्म­भा­वा­वि­र्भा­वस्य नित्य­सि­द्ध­त्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य स्वर्गा­दे­र­वि­शेषः ।

सिद्धान्ते तस्य ततो विशेषोऽस्तीति गृहीत्वा विमृश्य पूर्वपक्षमाह -
किमिति ।

विमतमागन्तुकं फल­त्वा­त्स्व­र्ग­व­दिति मत्वा हेतुमाह -
मोक्षस्येति ।

अभि­नि­ष्प­त्ति­श­ब्दा­दपि प्रगभूतस्य निष्पत्तिः सिध्यतीति हेत्वन्तरमाह -
अभिनिष्पद्यत इति ।

सिद्धान्तेऽपि स्याद­भि­नि­ष्प­त्ति­रौ­प­चा­रि­की­त्या­श­ङ्क्याह -
स्वरूपेति ।

उक्ता­नु­मा­ना­द­भि­नि­ष्प­त्ति­श­ब्दाच्च सिद्धमर्थ निगमयति -
तस्मादिति ।

मुक्ते­रा­ग­न्तु­क­त्व­म­नूद्य सिद्धान्तयति -
एवमिति ।

उक्तेऽनुमाने जीवति कथमनागन्तुकत्वं मुक्तेरित्याह -
कुत इति ।

विशे­ष­ण­श्रु­ति­बा­ध्य­म­नु­मा­न­मि­त्याह -
स्वेनेति ।

परं ब्रह्म ज्योतिः­श­ब्दि­त­मु­प­स­म्पद्य साक्षादनुभूय तेनैव स्वेन रूपे­णा­वि­र्भा­वोऽ­व­स्था­न­मि­त्य­न­ङ्गी­कु­र्वन्तं प्रत्याह -
अन्यथेति ।

विधान्तरेण स्वश­ब्द­स्या­र्थ­वत्त्वं शङ्कते -
नन्विति ।

अज्ञा­त­ज्ञा­प­कत्वे सम्भ­व­त्य­नु­वा­द­क­त्वा­यो­गा­न्नै­व­मि­त्याह -
न तस्येति ।

तदेवावचनीयत्वं साधयति -
येनेति ।

परपक्षे विशे­ष­णा­न­र्थ­क्य­मुक्त्वा स्वपक्षे तदर्थवत्वमाह -
आत्मेति ।

अर्थवत्त्वं स्फुटयति -
केवलेनेति ॥ १ ॥

सूत्रा­न्त­र­मा­का­ङ्क्षा­द्वा­राऽ­व­ता­र­यति -
कः पुनरिति ।

सूत्रस्थं मुक्तशब्दं योजयति -
योऽत्रेति ।

पूर्वत्रापि वस्तु­तोऽ­स्यै­व­म्भू­त­त्वान्न विशे­ष­सि­द्धि­रि­त्या­श­ङ्क्या­व­स्था­त्र­येऽपि यथाक्रमं व्याव­हा­रि­क­रू­पे­णा­स­दृ­श­त्व­माह -
पूर्वत्रेति ।
जागरिते पुत्रा­दा­व­हं­म­मा­भि­मा­ना­द­न्ध­व­त्प­र­वशो भवति स्वप्ने तन्नाशदृष्ट्या वासनामयं रोदनाद्यनुभवति सुषुप्ते विशे­ष­ज्ञा­न­शू­न्य­श्चि­द्धा­तु­र­ज्ञा­न­मा­त्र­प­र­व­श­स्ति­ष्ठ­ती­त्य­व­स्था­त्र­येण बन्धापरनाम्ना कालुष्येण दूषितं यदात्मरूपं तेनात्मा संसा­र­द­शा­या­म­व­ति­ष्ठते मोक्षे तु निर्मृ­ष्ट­नि­खि­ल­दुः­खा­नु­ष­ङ्ग­प्र­द्यो­त­मा­न­प­रि­शु­द्ध­प­र­मा­न­न्द­रू­पे­णेति विशेष इत्यर्थः ।

सूत्रावयवं शङ्का­पू­र्व­क­मा­दत्ते -
कथमिति ।

प्रतिज्ञातमेव प्रकटयति -
तथाहीति ।

प्रकृ­तो­प­यो­गि­प्र­ति­ज्ञा­न्त­र­माह -
तथेति ।

फल­त्वा­दा­ग­न्तु­कत्वं मुक्तेरुक्तं, तत्राह -
फलत्वेति ।

शब्द­सा­म­र्थ्या­त्त­दा­ग­न्तु­क­त्व­मु­क्त­म­नूद्य दूषयति -
यदपीति ।

हेतो­र­न्य­था­सि­द्धत्वे शब्दस्य चौपचारिकत्वे मुक्ते­र­ना­ग­न्तु­कत्वं युक्त­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥ २ ॥

ज्योति­रु­प­स­म्प­न्नस्य मुक्त­त्वा­यो­ग­मा­शङ्क्य परिहरति -
आत्मेति ।

सूत्र­व्या­व­र्त्य­माह -
कथमिति ।

कार्यगोचरत्वे हेतुमाह -
ज्योतिः­श­ब्द­स्येति ।

ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यत इति पौर्वा­प­र्य­श्रु­ते­र्मु­क्ते­रन्या ज्योतिः­स­म्प­त्ति­रि­त्या­शङ्क्य तदुपसम्पद्य तत्त्यक्त्वा स्वेना­भि­नि­ष्प­त्ति­रि­त्य­श्र­व­णा­द­ध्या­हारे च तदु­प­स­म्प­द्ये­त्यु­क्ति­वै­य­र्थ्या­ज्ज्यो­तिषो भूतत्वेन कार्य­त्वा­द­त्यागे कुतो मुक्तिरित्याह -
नचेति ।

विकारगोचरस्यापि मुक्त­त्व­मा­श­ङ्क्याथ यदल्पं तन्म­र्त्य­मि­त्या­दि­श्रु­ति­मा­श्रि­त्याह -
विकारस्येति ।

चोद्योत्तरत्वेन सूत्रं योजयति -
नेत्यादिना ।

प्रकरणमेव दर्शयति -
य आत्मेति ।
अक­स्मा­त्प्र­क­र­ण­वि­च्छेदं विनेति यावत् ।

प्रकरणादपि प्रयोगाभावे कथमात्मार्थो ज्योतिःशब्दः, तत्राह -
ज्योतिःशब्द इति ।

अत्रापेक्षितं न्यायं पूर्वोक्तं सूच­य­न्पु­न­रुक्तिं प्रत्याह -
प्रपञ्चितं चेति ॥ ३ ॥

विदुषः स्वरू­पेऽ­व­स्थि­त­स्यापि वैशे­षि­का­दि­व­द्ब्र­ह्म­णोऽ­न्य­त्व­मा­श­ङ्क्याह -
अविभागेनेति ।

विष­यो­क्ति­पू­र्वकं वादि­वि­प्र­ति­पत्तेः संशयमाह -
परमिति ।
अत्र मुक्तस्य ब्रह्म­णोऽ­त्य­न्ता­भे­द­वा­दा­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे जीवे­श्व­र­यो­रा­त्य­न्ति­क­म­न्यत्वं, सिद्धान्ते तयो­रा­त्य­न्ति­क­म­भि­न्न­त्व­म­ङ्गी­कृत्य पूर्वपक्षयति -
इति वीक्षायामिति ।

सिद्धा­न्त­सू­त्र­म­व­तार्य व्याचष्टे -
इति यस्येति ।

दृष्टत्वमेव स्फुटयति -
तथाहीति ।

पर­मा­त्म­न्यै­क्येन दृष्टत्वे फलितमाह -
यथेति ।

फला­व­स्था­वा­दि­वा­क्ये­ष्व­वि­भा­गस्य दृष्टत्वादपि मुक्तस्य पर­स्मा­दा­त्य­न्ति­क­मै­क्य­मिति व्याख्यान्तरमाह -
यथेति ।

उक्त­भे­द­नि­र्दे­शस्य तर्हि का गतिः, तत्राह -
भेदेति ।

उपचारो गतिरित्यत्र तथान्यत्र दृष्टत्वं हेतुमाह -
स इति ॥ ४ ॥

ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वं चोदयति -
ब्राह्मेणेति ।

वृत्तं कीर्तयति -
स्थितमिति ।

विषयसंशयौ दर्शयति -
अधुनेति ।
येन च ब्रह्मरूपेण मुक्त­स्या­व­स्थानं तत्किं सप्रपञ्चमेव किंवा निष्प्र­प­ञ्च­मे­वाथ वोभयरूपमिति विप्रतिपत्तेः संशये ब्रह्मणो मुक्तोपसृप्यस्य दृष्टि­द्व­य­मा­श्रि­त्यो­भ­य­रू­प­त्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सप्र­प­ञ्च­त्व­श्रु­तीनां वा निष्प्र­प­ञ्च­त्व­श्रु­तीनां वा मुख्या­र्थ­त्व­सिद्धिः ।

सिद्धान्ते द्विवि­ध­श्रु­तीनां दृष्टि­द्व­या­व­ष्ट­म्भा­न्मु­ख्या­र्थ­त्वो­प­प­त्ति­रि­त्यु­पेत्य पूर्वपक्षयति -
अभिधीयत इति ।

उपन्यासेन ब्रह्मणः सप्र­प­ञ्च­त्व­सिद्धिं विवृणोति -
तथाहीति ।
उपन्यासो नामोद्देशः स चान्यत्र ज्ञात­स्या­न्य­वि­धा­ना­या­नु­वादः ।

आदिशब्दार्थं विधिं दर्शयति -
तथेति ।
अज्ञातज्ञापनं विधिः ।

आदिशब्देनोक्तं व्यपदेशमाह -
सर्वज्ञ इति ।
विधे­या­न्त­र­र­हि­त­त्वे­ना­नु­द्दे­श्य­स्या­प्र­ति­पा­द्य­त्वे­ना­वि­धे­यस्य च सिद्धवदभिधानं व्यपदेशः ॥ ५ ॥

पूर्व­प­क्षा­न्त­र­माह -
चिति­त­न्मा­त्रे­णेति ।

उपन्यासादिना नानारसत्वे दर्शिते कथ­ञ्चि­दे­क­र­स­त्व­मि­त्या­श­ङ्क्याह -
यद्यपीति ।

कथं विक­ल्प­मा­त्र­त्व­मि­त्या­शङ्क्य काल्प­नि­क­त्वा­त्पा­प्मा­दे­स्त­न्नि­वृ­त्ति­रू­पाणां तेषामपि राहोः शिर इति­व­त्का­ल्प­नि­क­त्व­मे­वे­त्याह -
पाप्मादीति ।

किं तर्हि तस्य वास्तवरूपं तदाह -
चैतन्यमिति ।

तत्र मानमाह -
तथाचेति ।

सत्य­का­म­त्वा­दी­ना­म­प­ह­त­पा­प्म­त्वा­दि­व­न्ने­तु­म­श­क्य­त्वा­त्कुतो ब्रह्म­ण­श्चै­त­न्य­मा­त्र­ते­त्या­श­ङ्क्याह -
सत्येति ।

उपाधीनामपि तद­भे­दा­द्वा­स्त­व­मेव धर्म­त्व­मि­त्या­श­ङ्क्याह -
अनेकेति ।

उपन्यासस्येव विधि­व्य­प­दे­श­यो­र्ग­ति­माह -
अत इति ।
अनेकाकारत्वस्य निषि­द्ध­त्वा­दे­वेति यावत् ।

दृष्टान्तेऽपि मुख्य­त्व­मा­श­ङ्क्यो­क्तम् -
नहीति ।

उप­न्या­सा­दी­ना­म­न्य­था­सि­द्धत्वे श्रुति­सि­द्ध­म­र्थ­मु­प­सं­ह­रति -
तस्मादिति ॥ ६ ॥

सिद्धान्तयति -
एवमपीति ।

चिन्मात्रस्यापि सतो ब्रह्म­ण­स्त­त्त्वा­त­त्त्व­वि­भा­गा­द्वि­धा­त्व­सि­द्धि­रिति सूत्रार्थं विवृणोति -
एवमित्यादिना ॥ ७ ॥

पूर्वाधिकरणेषु पर­वि­द्या­फ­ल­म­भि­धा­या­प­र­वि­द्या­फलं प्रप­ञ्च­यि­तु­म­धु­नो­प­क्र­मते -
सङ्कल्पादिति ।

विषयं वक्तुं वाक्यमुदाहरति -
हार्देति ।

एव­का­र­स्या­यो­गा­न्य­यो­ग­व्य­व­च्छे­द­सा­धा­र­ण­तया सङ्कल्पं विषयीकृत्व संशयमाह -
तत्रेति ।
अत्र च सगुणब्रह्मविदो ब्रह्मभूतस्य विभू­ति­नि­र्मा­ण­सा­ध­न­नि­रू­प­णा­त्पा­दा­दि­स­ङ्गतिः ।

पूर्वपक्षे लोकवृत्तानुसारि चरणं सिद्धान्ते श्रुति­वृ­त्ता­नु­सारि चर­ण­मि­त्य­भि­प्रे­त्या­व­धा­र­ण­श्रुत्या सङ्कल्पस्य निर­पे­क्ष­त्व­सिद्ध्या पूर्व­प­क्षा­नु­त्था­न­मा­श­ङ्क्याह -
तत्रेति ।

लोकवदित्युक्तं विवृणोति -
यथेति ।

मुक्तस्य पित्रा­दि­भो­ग­हे­तु­स­म्पत्तिः सङ्क­ल्पा­ति­रि­क्त­य­त्ना­दि­सा­पेक्षा भोग­हे­तु­स­म्प­त्ति­त्वा­द­स्म­दा­दि­भो­ग­हे­तु­स­म्प­त्ति­व­दिति मत्वा दार्ष्टा­न्ति­क­माह -
एवमिति ।

अनुमानफलमाह -
एवं दृष्टेति ।

लोक­वृ­त्ता­नु­सा­रेण श्रुते­र­र्थ­व­त्त्व­सि­द्धा­वेव तद्विपरीतं न कल्प्यमिह त्ववधारणस्य तदनुसरणे सत्य­र्थ­व­त्त्व­मेव न स्यादि­त्या­श­ङ्क्याह -
सङ्कल्पादिति ।

पित्रादेः सङ्क­ल्प­मा­त्र­ज­न्यत्वे मनो­र­थ­वि­जृ­म्भि­त­स्त्री­पु­त्रा­दि­व­द­र्थ­क्रि­या­सा­म­र्थ्या­भा­वा­दपि सङ्क­ल्पा­ति­रि­क्त­सा­ध­ना­पेक्षा वक्तव्येत्याह -
नचेति ।

मनो­र­थ­नि­र्मि­ता­दपि हर्षादिकार्यं दृष्ट­मि­त्या­शङ्क्य ज्ञान­मा­त्र­सा­ध्य­का­र्य­स­त्त्वेऽपि ज्ञेय­व­स्तु­साध्यं कार्यं तत्र नास्तीत्याह -
पुष्कलमिति ।

सङ्कल्पस्य यत्ना­दि­सा­पे­क्ष­स्यैव पित्रा­दि­नि­र्मा­ण­हे­तु­ते­त्ये­त­द­नूद्य सिद्धा­न्त­सू­त्र­म­व­तार्य व्याकरोति -
एवमिति ।

सङ्कल्पस्य यत्न­सा­पे­क्ष­त्वेऽ­नु­मा­न­स्यो­क्त­त्वान्न तस्य केवलस्य पित्रा­द्यु­द्भ­व­हे­तु­तेति शङ्कते -
कुत इति ।

श्रुति­वि­रु­द्ध­तया काला­त्य­या­प­दि­ष्ट­म­नु­मा­न­मि­त्याह -
तच्छ्रुतेरिति ।

किञ्च निमित्तान्तरमपि सङ्कल्पायत्तं वा यत्नान्तरसाध्यं वा, तत्रा­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति -
निमि­त्ता­न्त­र­मिति ।

तस्य यत्ना­द्य­पे­क्षस्य सङ्कल्पापेक्षया विल­म्बि­तो­त्प­त्ति­क­त्वा­त्प्रा­क्त­दु­त्प­त्ते­र्वि­दुषो मोघसङ्कल्पत्वं स्यात्ततश्च द्विती­य­स्या­यु­क्त­ते­त्याह -
प्रागिति ।

यत्तु लोक­व­न्नि­मि­त्ता­न्त­रा­पे­क्षेति, तत्राह -
नचेति ।

यदपि मनो­र­थ­वि­जृ­म्भि­त­व­द­ति­च­ञ्च­ल­त्वान्न भोगसाधनत्वं, सङ्क­ल्प­प्र­सू­तानां पित्रादीनामिति, तत्राह -
सङ्कल्पेति ।

अस्म­दा­दि­स­ङ्क­ल्पि­ते­ष्व­दृष्टं स्थैर्यं कथं मुक्त­स­ङ्क­ल्पि­तेषु कल्प्यते, तत्राह -
प्राकृतेति ॥ ८ ॥

विदुषः सत्यसङ्कल्पत्वे लाभान्तरमाह -
अत इति ।

उपा­सि­तु­री­श्व­रा­धीनो भोगो न सङ्क­ल्प­मा­त्रा­द्भ­वि­तु­म­ल­मि­त्या­शङ्क्य सूत्रं व्याकरोति -
अत एवेति ।

सत्य­स­ङ्क­ल्प­त्वेऽपि कथ­मी­श्व­रा­धी­नत्वं विदुषो नेष्यते, तत्राह -
नहीति ।

ईश्व­र­प्र­सा­दा­द्भोगः स्यादित्यपि प्रार्थयमानो जनो दृश्यत इत्याशङ्क्याह -
सत्यामिति ।

विदु­षोऽ­न­न्या­धी­न­मै­श्व­र्य­म­स्ती­त्यत्र मानमाह -
श्रुतिश्चेति ।
विद्या­नु­वा­द­द्वारा तत्फ­लो­क्त्या­र­म्भा­र्थोऽ­थ­शब्दः ॥ ९ ॥

विदुषो ब्रह्मीभूतस्य सप्र­प­ञ्च­त्व­नि­ष्प्र­प­ञ्च­त्व­यो­र्व्या­व­हा­रि­क­ता­त्त्वि­क­ताभ्यां व्यव­स्था­मुक्त्वा सङ्क­ल्पा­ति­रि­क्त­सा­ध­न­भा­वा­भा­व­यो­रे­को­पा­धा­वा­पा­ततो विरो­धा­ल्लो­क­सि­द्ध­प­द­प­दा­र्था­पे­क्षायाः श्रुते­र्लौ­कि­का­द­नु­मा­ना­द्बाध इति पूर्वपक्षयित्वा पद­प­दा­र्थ­धी­मा­त्रेण श्रुते­र­पे­क्षा­या­मपि वाक्यार्थबोधने तदभावाद्विमतो यत्ना­द्य­न­पे­क्ष­स­ङ्क­ल्प­जन्यो योग­ज­न्य­सा­म­र्थ्य­दृ­ष्ट­त्वा­द­ग­स्त्य­कृ­त­स­मु­द्र­पा­न­व­दि­त्य­नु­मा­ना­नु­गृ­ही­त­श्रुत्या बाधि­त­त्वा­द­नु­मा­नस्य सङ्क­ल्प­मा­त्र­सिद्ध्या विदुषो भोग­हे­तु­सि­द्धि­रि­त्यु­क्तम् । संप्र­त्य­व­धा­र­णा­द­न्य­यो­ग­व्य­व­च्छे­देन सङ्कल्पस्यैव पित्रा­दि­सा­ध­न­त्व­व­दि­हापि मनसेति विशे­ष­ण­स्या­न्य­यो­ग­व्य­व­च्छे­द­क­त्वे­ना­व­धा­र­णा­र्थ­त्वा­द्वि­दुषो देहाद्यभाव इति पूर्वपक्षयति -
अभावमिति ।

मनसः सद्भावोऽपि किमिति विदुषो न विचार्यते, तत्राह -
सङ्कल्पादेवेति ।

शरीरेन्द्रियाणि विषयस्तानि किं विद्यावतो मुक्तस्य सन्ति किंवा न सन्त्याहो सन्ति च न सन्ति चेति वादि­वि­प्र­ति­पत्तेः संशयमाह -
शरीरेति ।
अत्र सगुणब्रह्मविदः सङ्कल्पादेव देहा­दि­भा­वा­भा­व­यो­रुक्त्या ब्रह्म­धी­फ­ल­वि­भू­ते­रु­क्ते­रस्ति पादादिसङ्गतिः । पूर्वपक्षे विशे­ष­ण­श्रु­ते­र­ने­क­धा­भा­व­श्रु­तेर्वा मुख्या­र्थ­त्व­सिद्धिः ।

सिद्धान्ते द्वयोरपि श्रुत्यो­र्वि­दुषः सत्य­स­ङ्क­ल्प­त्वा­देव मुख्या­र्थ­त्वो­प­प­त्ति­रि­त्य­ङ्गी­कृत्य पूर्वपक्षसूत्रं योजयति -
तत्रेति ।

सत्यामपि विप्र­ति­प­त्ता­व­भा­व­नि­य­मा­सि­द्धि­रिति शङ्कते -
कस्मादिति ।

विशेषणश्रुत्या परिहरति -
एवं हीति ।

पक्षान्तरेऽपि विशे­ष­ण­म­यो­ग­व्य­व­च्छे­द­क­त्वेन युक्त­मि­त्या­श­ङ्क्याह -
यदीति ।
अन्य­यो­ग­व्य­व­च्छे­दाय मन­से­ति­वि­शे­ष­णा­द्वा­मेन पश्य­ती­त्या­दा­वि­वे­त­र­व्या­वृ­त्ति­र्ग­म्यते । अयोगव्यवच्छेदे तु न तथा विशे­ष­ण­म­र्थ­व­दि­त्यर्थः ।

विशे­ष­ण­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ॥ १० ॥

पू्र्वप­क्षा­न्त­र­माह -
भावमिति ।

सूत्राक्षराणि योजयति -
जैमिनिस्त्विति ।

विकल्पामननं मनोभेदादेव किं न स्यादि­त्या­श­ङ्क्याह -
नहीति ।

देहभेदाभावे मनोभेदस्यापि दुर्भणत्वान्न तद्भेदकृतं विक­ल्पा­म­न­न­मि­त्यर्थः । निर्गु­ण­वि­द्या­धि­कारे पाठा­द्वि­क­ल्पा­म­ननं स्तुति­रे­वे­त्या­श­ङ्क्याह -
यद्यपीति ।
देहे प्रियादिभोगहीने निर्गुणज्ञाने स्तुति­त्वे­ना­ने­क­धा­त्व­स्या­न्व­येऽपि विशि­ष्ट­भो­ग­सं­स­र्ग­योग्ये दहराद्युपासने फलत्वेनान्वय इत्यर्थः । नच मनसेति विशे­ष­ण­म­न्य­यो­ग­व्या­व­र्तकं देहादि व्यवच्छिनत्तीति युक्तं चैत्रो धनुर्धर इति­व­द­यो­ग­व्य­व­च्छे­दे­नापि तद्योगादिति भावः ॥ ११ ॥

सिद्धान्तयति -
उच्यत इति ।

सूत्रं व्याचष्टे -
बादरायण इति ।

मन­से­ति­वि­शे­ष­ण­सा­म­र्थ्या­दे­कधा भवति त्रिधा भव­ती­त्या­दि­वि­क­ल्पा­म­न­न­सा­म­र्थ्या­च्चे­त्यतः शब्दार्थं स्फुटयति -
उभयेति ।

सश­री­र­त्व­म­श­री­रत्वं चैकस्यैव विरु­द्ध­मि­त्या­शङ्क्य कालभेदादविरोधं दर्शयति -
यदा त्विति ।
इति­श­ब्द­स्यो­भ­य­वि­ध­त्व­मिति पूर्वेण सम्बन्धः ।

विदुषः सङ्कल्पानुसारि कार्यमित्यत्र हेतुमाह -
सत्येति ।

कार्यवैचित्र्ये हेतुः -
सङ्कल्पेति ।

धनुर्धरत्वादि हि विशेषणं पाक्षि­क­प्रा­प्त­वि­शे­ष­प­द­यो­ग­व्य­व­च्छे­दकं युक्तं नहि चैत्रो धनुर्दधान एवावतिष्ठते । प्रकृते तु मनसैतानित्यादौ कामभोगेषु मनसो नित्य­प्रा­प्त­त्वा­त्त­द­नु­वा­दे­ना­न्य­यो­ग­नि­वृ­त्त्य­र्थ­ते­त्या­शङ्क्य दृष्टा­न्त­म­व­तार्य व्याचष्टे -
द्वादशाहवदिति ।

तस्य बहुकर्तृकतया सत्रत्वे निय­त­क­र्तृ­क­त­याऽ­ही­नत्वे च हेतुमाह -
उभयेति ।
द्वादशाहो हि यज­मा­न­ब­हु­त्वा­दा­स­नो­पा­य­नो­प­दे­शाच्च सत्रं य एवंविद्वांसः सत्र­मु­प­य­न्ती­त्यु­पा­य­न­चो­द­ना­द­र्श­ना­त्स­प्त­द­शा­व­रा­श्च­तु­र्विं­श­ति­प­रमाः सत्र­मा­सी­र­न्नि­त्या­स­न­चो­द­ना­याश्च द्वादशाहाधिकारे दृष्ट­त्वा­दा­स­नो­पा­य­न­चो­द­न­यो­र­न्य­त­र­त्वस्य सत्र­ल­क्ष­ण­त्वा­द्द्वा­द­शा­हेन प्रजाकामं याजयेदिति यज­ति­चो­द­ना­द­र्श­ना­न्नि­य­त­क­र्तृ­क­त्वा­व­ग­माच्च द्विरा­त्र­व­द­ही­नत्वं चास्य गम्यते । तथेदमपि विदुषः सश­री­र­त्व­म­श­री­रत्वं च द्विवि­ध­श्रु­ति­सिद्धं विचि­त्र­स­ङ्क­ल्प­नि­ब­न्ध­न­म­वि­रु­द्ध­मि­त्यर्थः ॥ १२ ॥

विदुषो देहा­द्य­स­त्त्व­म­युक्तं भोगा­भा­व­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह -
तन्वभाव इति ।

स्वप्ने देहाभावेऽपि तत्र संनिकर्षस्य ज्ञानहेतुता मनः - स्थिति­मा­त्र­हे­तु­त्वे­ना­न्य­था­सि­द्ध­त्वा­द्यो­गि­नश्च विद्या­सा­म­र्थ्या­देव मनोवस्थानादिति मत्वाह -
सन्ध्यवदिति ।

सूत्राक्षराणि व्याकरोति -
यदेत्यादिना ।

विदुषो देहादेरभावे मन­से­ति­वि­शे­ष­णो­प­पत्तिं हेतूकरोति -
एवं हीति ॥ १३ ॥

तर्हि देहा­द्यु­पा­दा­न­म­न­र्थकं, तत्राह -
भाव इति ।

पुष्क­ल­भो­ग­सि­द्ध्यर्थं देहाद्यादानमिति मन्वानः सूत्रं योजयति -
भावे पुनरिति ॥ १४ ॥

सङ्क­ल्पा­धी­न­म­ने­क­दे­ह­नि­र्मा­ण­म­फलं निरात्मकेषु देहभेदेषु भोगा­यो­गा­दि­त्या­श­ङ्क्याह -
प्रदीपवदिति ।

वृत्ता­नु­वा­द­पू­र्वकं मुक्तस्योक्तानि साङ्कल्पिकानि शरीराणि विष­यी­कृ­त्यो­भ­य­थो­प­लब्धेः सन्देहमाह -
भावमिति ।
तत्रेति मुक्तोक्तिः । मुक्त­स्या­प­र­वि­द्या­फ­ल­भू­तस्य साङ्कल्पिकेषु प्रवे­श­प्र­का­रोक्त्या पादादिसङ्गतिः । पूर्वपक्षे भोक्तु­रे­क­त्वा­दे­क­त्रैव भोगसिद्धिः ।

सिद्धान्ते भोक्तुरैक्येऽपि स्वेच्छया तस्यानेकत्र भोगोपपत्तिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
आत्मनो विभुत्वेऽपि मनस्येव चैत­न्य­व्य­क्ते­स्त­द­व­च्छे­द­कै­क­दे­हा­व­स्थि­तस्य देहा­न्त­रा­वे­शा­यो­गा­द­न्तः­क­र­णा­न्त­रो­पा­दा­नेऽपि तस्या­ना­द्य­न्तः­क­र­णा­द्य­व­च्छि­न्नस्य पुन­रा­ग­न्तु­का­न्तः­क­र­णा­व­च्छे­दा­स­म्भ­वा­त्स­म्भवे च जीव­भे­दा­द्भो­गा­न­नु­स­न्धा­न­प्र­स­ङ्गा­दे­क­स्मा­दि­त­राणि निरात्मकानीति प्राप्त­मि­त्यर्थः ।

पूर्वपक्षमनूद्य सिद्धा­न्त­सू­त्र­म­व­ता­र­यति -
एवमिति ।

तत्र दृष्टान्तं व्याचष्टे -
यथेति ।

दीपादीनां भिन्नत्वेऽपि दीप­त्व­स्यै­क­त्व­मे­क­व­र्ति­व­र्ति­दी­पे­षू­प­चर्य भिन्न­व­र्ति­व­र्तिनां दीपानां भिन्नतेति दृष्टा­न्त­मु­क्तवा दार्ष्टा­न्ति­क­मा­वे­श­श­ब्दितं दर्शयति -
एवमिति ।

तत्र हेतु­त्वे­ना­व­शिष्टं सूत्रावयवं व्याचष्टे -
तथाहीति ।

यथा दारुयन्त्रं चैतन्यशून्यमपि चेत­ने­च्छा­म­नु­रु­ध्यते तथा निर्माणशरीराणि सेन्द्रियाणीति कस्मा­न्ना­भ्यु­प­ग­म्यते तेन निरात्मकत्वमेव शरी­रा­न्त­रा­णा­मि­त्या­श­ङ्क्याह -
नैतदिति ।
यन्त्रवाहकस्य हि यन्त्राणि भिन्नानि निर्माय वाहयतोऽपि नानात्वेन व्यप­दे­शा­भा­वा­द्वि­दु­षश्च तथा व्यप­दे­शा­त्त­त्त­द्दे­हो­पा­ध्य­व­च्छेदो भातीत्यर्थः ।

तर्हि निर्मा­ण­दे­हे­ष्वा­त्मा­न्त­राणि सृजति विद्वा­नि­त्या­श­ङ्क्याह -
नापीति ।
जीवा­न्त­रा­वे­शेऽपि नैतदवकल्पत इति सम्बन्धः । एक­स्या­ने­क­धा­भा­व­श्रु­ति­वि­रो­धा­द­न­नु­स­न्धा­न­प्र­स­ङ्गा­च्चे­त्यर्थः ।

शरीरान्तराणां निरा­त्म­क­त्वा­भावे हेत्वन्तरमाह -
नचेति ।
आत्मा­न­धि­ष्ठि­ता­ना­म­चे­त­नानां प्रवृ­त्त्य­यो­गा­द्भो­गा­भा­व­प्र­स­ङ्गाच्च शरीरान्तरेषु न निरा­त्म­क­त्व­मि­त्यर्थः ।

पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
यत्त्विति ।

स्वत­न्त्रा­ना­दि­म­नो­भेदे सत्येव जीव­भे­दा­दे­क­म­नः­स­ङ्क­ल्प­स­मु­त्था­ना­त्त­दा­य­त्तानां मनसां भेदेऽपि जीव­भे­दा­भा­वा­त्त­त्त­दु­पा­धि­व्य­क्त­चै­तन्यो विद्वा­नै­श्व­र्य­भा­गि­त्यु­प­गमे न किञ्चिदवद्यमिति परिहरति -
नेत्यादिना ।

एक­म­नो­नु­व­र्त­न­मे­का­भि­प्रा­या­वि­रो­धि­त्वम् । उक्तेऽर्थे योग­शा­स्त्र­सं­म­ति­माह -
एषैवेति ।
निर्मा­ण­चि­त्ता­न्य­स्मि­ता­मात्रं प्रवृ­त्ति­भे­द­प्र­यो­जकं चित्त­मे­क­म­ने­के­षा­मि­त्या­दि­नै­षैव प्रक्रि­यो­क्ते­त्यर्थः ॥ १५ ॥

मुक्तस्य यथोक्तमैश्वर्यं विशे­ष­ज्ञा­न­नि­षे­ध­क­श्रु­ति­वि­रु­द्ध­मिति शङ्कते -
कथमिति ।

शङ्कोत्तरत्वेन सूत्रमवतारयति -
अत इति ।

प्रतिज्ञां व्याचष्टे -
स्वाप्यय इति ।

उक्तमेव व्यक्तीकर्तुं विभजते -
क्वचिदिति ।
तत्केन कमित्यादिकं वाक्यं क्वचि­दि­त्यु­च्यते द्वितीयस्तु क्वचिच्छब्दः सलि­ला­दि­वा­क्य­गो­चरः ।

हेतु­भा­ग­मा­का­ङ्क्षा­द्वारा व्याकरोति -
कथमित्यादिना ।
तत्रे­त्यु­क्त­वा­क्य­प्र­क­र­णोक्तिः । तदधिकारः सुषु­प्ति­मो­क्ष­यो­र­न्य­त­रस्य प्रकरणम् । तत्र समुत्थानवाक्यं यत्र सुप्तवाक्यं स्वापा­धि­का­र­वि­ष­यम् । यत्र त्वस्येति मोक्षा­धि­का­र­वि­ष­य­मिति भेदः ।

विशे­ष­ज्ञा­ना­भा­वा­भि­धानं सुप्ति­मु­क्त्यो­र­न्य­त­रा­भि­प्रा­ये­णे­त्यु­क्तम् । इदा­नी­मै­श्व­र्या­भि­धा­नस्य सगु­ण­वि­द्या­वि­ष­य­त्वेन भिन्न­गो­च­र­त्वान्न विरो­धा­श­ङ्के­त्याह -
सगुणेति ।

कथं तर्हि सगुणविद्याफले मुक्ति­श­ब्द­प्र­वृ­त्ति­रि­त्या­शङ्क्य सन्ध्यायां दिवा­श­ब्द­व­त्प्र­त्या­स­त्ति­मा­त्रे­णेति मत्वाह -
तस्मादिति ॥ १६ ॥

मनोे­दे­ह­स­र्गा­दा­वु­त्स­र्गतो यदै­श्व­र्य­मु­पा­सि­तु­रुक्तं तस्य जग­त्स­र्गेऽ­प्र­मा­णा­द­प­वादं दर्शयति
जगदिति ।

अपरब्रह्मणा सायुज्यं गतानामैश्वर्यं विषयीकृत्य तस्यो­भ­य­था­दृष्ट्या संशयमाह -
ये सगुणेति ।
सगु­ण­ब्र­ह्म­वि­द्या­फ­ल­भू­तै­श्व­र्यस्य निर­ति­श­य­त्व­नि­वा­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे विद्व­दै­श्व­र्यस्य निर­ङ्कु­श­त्वा­दी­श्व­र­भे­दा­द­ने­क­मत्या जग­दु­त्प­त्या­दि­व्य­व­स्थाऽ­सिद्धिः ।

सिद्धान्ते तद्भे­दा­भा­वा­त्प­र­मे­श्व­रा­धी­न­तया जग­दु­द­या­दि­व्य­व­स्थो­प­प­त्ति­रि­त्य­भि­प्रेत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।

श्रुतीनां श्रुतार्थग्रहेण पूर्वपक्षयित्वा सिद्धान्तयति -
एवमिति ।

तत्र प्रतिज्ञां विभजते -
जगदिति ।

तत्र हेतुद्वयं प्रश्नपूर्वकमाह -
कुत इति ।

ईश्वरस्य नित्यसिद्धस्यैव जग­दु­त्प­त्त्या­दि­व्या­पार इत्यत्र प्रकरणादिति हेतुं विवृणोति -
पर इति ।

प्रल­या­दु­त्था­न­काले सर्वस्य जगतो यः कर्ता तस्यैव स्थित्यादावपि कर्तृ­त्वो­क्ते­र­न्यस्य चादिसर्गे कर्तृ­त्वा­भा­वा­दी­श्व­र­स्यैव जगद्व्यापारे संनिधिरित्याह -
तमेवेति ।
किञ्च परस्यैव नित्यत्वेन स्वहे­त्व­न­पे­क्ष­णस्य क्लृप्त­श­क्ति­त्वा­ज्ज­ग­त्स­र्जनं प्रति कल्प्य­सा­म­र्थ्य­त्वाच्च विदु­षा­मी­श्व­र­वि­ष­यैव जग­त्सृ­ष्टि­रे­ष्टव्या ।

किञ्च पौर्वा­प­र्या­लो­च­ना­या­मी­श्व­र­स्यैव जगत्सर्गः शब्दाद्गम्यते । जन्मा­दि­सू­त्र­मा­रभ्य चैतदुपपादितम् । ततोऽ­द्वि­ती­य­प्र­तिज्ञा सिद्धैवेत्याह -
नित्येति ।

ईश्वरस्य जगद्व्यापारे संनिधिमुक्त्वा विदुषां तत्रा­सं­नि­धि­मा­द्य­प्र­ति­ज्ञा­सि­द्ध्यर्थं समर्थयते -
तदन्वेषणेति ।
श्रुयते तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादाविति शेषः । सृष्ट्यु­त्त­र­भा­वि­ना­मु­पा­स­कानां सृष्टिकाले सत्त्वा­भा­वा­त्पू­र्व­क­ल्प­सि­द्धानां प्रलयकाले मुक्तत्वान्न स्रष्टृत्वादि तेषां श्लिष्ट­मि­त्यर्थः ।

इतश्च विदुषां न निर­ङ्कु­शै­श्व­र्य­मि­त्याह -
समनस्कत्वादिति ।
किं विदुषां समप्रधानत्वमाहो गुणप्रधानत्वम् । आद्ये समप्रधानानां निय­मे­नै­क­म­त्या­द­र्श­ना­दे­कस्य सिसृक्षायमपरस्य सञ्जि­ही­र्षा­स­म्भ­वा­द­प­र्या­य­मेव सर्गसंहारौ स्याताम् । अपरथा द्वयोरपि नेश्वरत्वं कार्य­वि­घा­ता­दि­त्यर्थः ।

द्वितीयमनुभाष्य दूषयति -
अथेत्यादिना ।
एका­भि­प्रा­या­नु­व­र्ति­ता­या­म­न्ये­षा­मा­ग­न्तु­कै­श्व­र्या­णा­म­गृ­ह्य­मा­ण­वि­शे­ष­तया कस्य­चि­त्प्रा­धा­न्या­यो­गा­द­ना­ग­न्तु­कै­श्व­र्य­प­र­मे­श्व­र­व­र्ति­त्व­मि­त­रे­षा­मे­षि­त­व्य­मि­त्यर्थः ॥ १७ ॥

पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति -
प्रत्यक्षेति ।

अनुवादभागं व्याकरोति -
अथेति ।

परिहारमवतारयति -
अत्रेति ।

नञर्थमुक्त्वा हेतुमवतार्य व्याचष्टे -
नेत्यादिना ।

अधिकारे नियो­ज­य­त्या­दि­त्या­दी­नि­त्या­धि­का­रि­क­स्तत्र हेतुमाह -
यदिति ।
यस्मा­त्का­र­णा­त्स्वा­रा­ज्य­प्रा­प्त्य­न­न्त­र­मा­हा­प्नोति मनसस्पतिमिति । यदि पूर्वमेव निरङ्कुशं स्वाराज्यमुक्तं तर्हि पश्चा­दी­श्व­र­प्रा­प्ति­व­चनं न स्यात्त­स्मा­द्भोगे स्वाराज्यं न तु जगतः स्रष्टृ­त्वा­दा­वि­त्यर्थः ।

विव­क्षि­ता­र्थ­सि­द्धये वाक्यार्थं कथयति -
यो हीति ।

विदु­षा­मी­श्व­रा­धी­न­मै­श्वर्यं स्वारा­ज्य­मि­त्यत्र वाक्य­शे­ष­म­नु­कू­ल­यति -
तदनुसारेणेति ।

पर­मे­श्व­रा­धी­न­म­णि­मा­दि­ल­क्ष­ण­मै­श्वर्यं विदुषां स्वाराज्यं न तु जगतः स्रष्टृ­त्वा­दी­त्यु­क्त­मर्थं तेषां सर्वेषु लोके­ष्वि­त्या­दि­वा­क्येषु सञ्चारयति -
एवमिति ॥ १८ ॥

निर­ति­श­यै­श्व­र्य­व­दी­श्व­रो­पा­स­का­स्त­दा­त्मतां प्राप्ताः साति­श­यै­श्व­र्य­वन्तो भवन्तीत्ययुक्तं तदा­त्म­त्व­वि­रो­धा­दि­त्या­शङ्क्य ब्रह्मैक्येऽपि सगुणप्राप्तानां निर्गु­ण­प्रा­प्त्य­भा­व­व­दे­त­द्यु­क्त­मिति वक्तुं ब्रह्मणो द्वैरूप्यमाह -
विकारावर्तीति ।

तत्र प्रतिज्ञाविभागं व्याचष्टे -
विकारेति ।

चका­र­सू­चि­त­म­र्थ­माह -
नेति ।

हेतुभागं व्याचष्टे -
तथाहीति ।
तत्र प्रथ­म­तृ­ती­य­पा­दाभ्यां विकारवर्ति रूपमुच्यते द्विती­य­च­तु­र्थ­पा­दाभ्यां विकारावर्ति ब्रह्मणो रूपमुक्तमिति भेदः ।

अस्तु ब्रह्मणो विकारावर्ति रूपं तथापि किं स्यात् , तत्राह -
नचेति ।

वस्तु­त­स्त­था­त्वेऽपि यथोपासनमेव तत्प्रा­प्ति­रु­पा­सनं च विध्यधीनं निर­व­ग्र­ह­म­ह­त्त्वा­दि­ध­र्मस्य चोपा­स्त्य­गो­च­र­त्वा­द­नु­पा­सि­त­स्या­प्रा­प्ति­रिति फलितमाह -
अतश्चेति । ॥ १९ ॥

विकारावर्ति रूप­म­स्ती­त्य­त्रैव श्रुतिस्मृती प्रमाणयति -
दर्शयतश्चेति ।

प्रसिद्धे प्रत्य­क्षा­नु­माने प्रत्याचक्षाणः सूत्राक्षराणि योजयति -
दर्श­य­त­श्चे­त्या­दिना ।

उक्तेऽर्थे सुलभानि श्रुति­स्मृ­ति­व­च­ना­नीति मन्वानो वाक्यार्थमाह -
तदेवमिति ॥ २० ॥

अपरब्रह्मविदां विश्व­स्र­ष्टृ­त्वा­द्य­भावे हेत्वन्तरमाह -
भोगमात्रेति ।
न केवलं स्वाराज्यस्य पर­मे­श्व­रा­य­त्त­तया विदुषां जग­द्व्या­पा­र­रा­हित्यं किन्तु तेन भोगमात्रेण साम्यो­क्ति­लि­ङ्गा­द­पी­त्यर्थः ।

चकारार्थमाह -
इतश्चेति ।

हेत्व­न्त­र­मे­वा­व­शि­ष्ट­सू­त्रा­क्ष­र­यो­ज­नया स्पष्टयति -
यस्मादिति ।

तं ब्रह्म­लो­क­ग­त­मु­पा­सकं हिरप्यगर्भः स्वसमीपमुपागतं सानुनयमाह - मया खल्वाप एवामृतमय्यो मीयन्ते दृश्यन्ते भुज्यन्ते तवा­प्य­सा­व­मृ­त­रू­पो­द­क­ल­क्षणो लोको भोग्यो यथासुखं भुज्यतामित्याह -
तमाहेति ।

उपा­स­क­स्यो­पा­स्य­दे­व­तया भोग­मा­त्र­सा­मान्ये श्रुत्यन्तरमाह -
स यथेति ।
सशब्दो दृष्टान्तपरः । अवन्ति भजन्ते ।

तत्रैव वाक्यान्तरमाह -
तेनेति ।
उशब्दोऽप्यर्थः । सलोकतामपीति सम्बध्यते । प्रकृ­ते­नो­पा­स­ने­नो­पा­स्याया देवतायाः सायुज्यं तेन समानदेहतां समानलोकतां च भाव­ना­वि­शे­षा­दा­प्नो­ती­त्यर्थः ॥ २१ ॥

विदुषां निर­ङ्कु­शै­श्व­र्या­भावे दोषमाशङ्कते -
नन्विति ।
सह पर­मे­श्व­र­स्यै­श्व­र्ये­णा­ति­श­येन वर्तत इति सातिशयं विदुषामैश्वर्यं तथाच पर­मे­श्व­रा­धी­न­त्वा­ल्लौ­कि­कै­श्व­र्य­व­त्कार्यं कार्य­त्वा­च्चा­न्त­व­दि­त्यर्थः ।

विद्व­दै­श्व­र्य­स्या­न्त­वत्त्वे का क्षति­रि­त्या­शङ्क्य विदुषां मुक्तता न स्यादित्याह -
ततश्चेति ।

एत­दु­त्त­र­त्वे­नो­त्त­र­सूत्रं सूत्रकारं पूजयन्नवतारयति -
अत इति ।
भगवानित्यनेन सर्व­ज्ञ­त्वा­दि­स­म्प­त्ति­रुक्ता । आचार्यशब्देन शास्त्रा­र्थ­ब­हु­ली­क­रणं सदाचारे शिष्याणां स्थापनं स्वयं तदाचरणं चेत्यत्र नैपु­ण्य­मु­क्त­मिति भेदः ।

यत्तु सातिशयत्वेन कार्यत्वं तत­श्चा­न्त­व­त्त्व­मि­त्य­नु­मानं तत्र किमै­श्व­र्य­स्या­न्त­व­त्त्व­मात्रं साध्यं किंवा मुक्त्यभावो विदुषामिति विकल्प्याद्ये सिद्धसाध्यत्वं मत्वा द्वितीये क्रम­मु­क्ति­वा­दि­श्रु­ति­वि­रो­ध­माह -
अनावृत्तिरिति ।

सूत्रस्थं प्रतिज्ञापदं व्याचष्टे -
नाडीति ।
अर्चि­रा­दि­प­दो­क्त­दे­व­यानं पन्थानं स्मारयितुं विशेषणद्वयम् । ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य भुक्तभोगास्ततो नावर्तन्त इति सम्बन्धः ।

कानि तानि शास्त्रो क्तानि विशे­ष­णा­नी­त्युक्ते यथाशास्त्रं तान्यनुक्रामति -
यस्मिन्निति ।
इतो लोका­त्पृ­थि­वी­श­ब्दि­ता­त्तृ­ती­यस्यां दिवि यो ब्रह्म­लो­क­स्त­स्मि­न्न­र­ण्य­संज्ञौ द्वाव­र्ण­वा­वि­त्यर्थः ।

तस्मि­न्ने­वा­न्न­मयं हर्षकरं च सरोऽस्तीत्याह -
यस्मिन्नैरमिति ।
सोमसवन इत्यत्र सोम­श­ब्दोऽ­मृ­त­व­चनः । कर्म­ज्ञा­न­शू­न्यानां दुष्प्रा­प­त्व­म­प­रा­जि­त­त्वम् । ब्रह्मणो हिर­ण्य­ग­र्भ­स्येति यावत् । प्रभुशब्दोऽपि हिर­ण्य­ग­र्भ­मे­वा­धि­क­रोति ।

उक्तविशेषणवति ब्रह्मलोके मानमाह -
यश्चेति ।
चन्द्र­लो­का­दि­वेति वैध­र्म्यो­दा­ह­र­णम् ।

प्रतिज्ञामेवं व्याख्याय मोक्ष­हे­तु­मा­का­ङ्क्षा­पू­र्वकं व्याख्याति -
कुत इत्यादिना ।

ननु दर्शि­ता­ना­म­ना­वृ­त्ति­श्रु­ती­ना­म­र्थ­वा­द­त्वा­द­वि­रोधे प्रामाण्यमिति नानुमानापबाधने साम­र्थ्य­मि­म­मि­हेति च विशे­ष­णा­त्क­ल्पा­न्तरे भव­त्या­वृ­त्ति­रिति, तत्राह -
अन्त­व­त्त्वेऽ­पीति ।
ये तावदूर्ध्वरेतसः स्वाश्र­म­ध­र्म­मा­त्र­निष्ठा ब्रह्मचर्येण ब्रह्म­लो­क­म­धि­रू­ढा­स्ते­षा­म­न्त­रेण विद्यां बन्ध­ध्वं­सा­सि­द्धे­र­स्त्ये­वा­वृत्तिः । ये तु सगु­णो­पा­स­का­स्ते­षा­मै­श्व­र्यस्य कल्प­मा­त्र­स्था­यि­त्वेऽपि क्रम­मु­क्ति­वि­व­क्ष­याऽ­ना­वृ­त्ति­र­वि­रु­द्धे­त्यर्थः ।

सगु­ण­ब्र­ह्म­वि­दा­मे­वा­ना­वृ­त्ति­रत्र प्रतिपाद्यते न निर्गु­ण­ब्र­ह्म­विदां तत्र को हेतु­रि­त्या­शङ्क्य तेषा­मा­वृ­त्ति­श­ङ्का­भा­वा­दि­त्याह -
सम्यगिति ।

सगु­ण­ब्र­ह्म­वि­दा­मपि ब्रह्मलोकगतानां तत्रो­त्प­न्न­स­म्य­ग्द­र्श­न­प्र­सा­दा­देव मुक्तिरिति स्थिते सम्य­ग्द­र्शि­ना­म­ना­वृत्तिः सुतरां सिध्यतीति कैमुतिकन्यायमाह -
तदाश्रयणेनेति ।

उपा­स­का­ना­मी­श्व­रा­य­त्त­मै­श्वर्यं न निर­ति­श­य­मि­त्य­धि­क­र­णा­र्थ­मु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् । सूत्राभ्यासस्य प्रयोजनमाह -
अनावृत्तिः शब्दादिति ।
यत्रा­ध्या­य­प­रि­स­मा­प्ति­रेव तत्र पदस्यैवाभ्यासो दृष्टः प्रकृते सूत्र­स्यै­वा­भ्या­सा­च्च­तु­र्ल­क्ष­णस्य वेदा­न्त­मी­मां­सा­शा­स्त्रस्य सम­न्व­या­वि­रो­ध­सा­ध­न­फ­लानां साक­ल्ये­नो­क्त­त्वा­द्व­क्त­व्या­न­व­शे­षा­त्प­रि­स­मा­प­न­मु­चि­त­मिति भावः ॥ २२ ॥