न्यायनिर्णयव्याख्या
४ परिच्छेदः
कार्यब्रह्म गन्तव्यमित्यत्र हेत्वन्तरमाह -
विशेषितेति ।
सूत्रं व्याचष्टे -
ब्रह्मेति ।
बहूक्त्या गन्तव्यस्य विशेषितत्वेऽपि कथं परस्य गन्तव्यत्वनिरसनं, तत्राह -
नहीति ।
ऐक्यात्कार्यस्यापि ब्रह्मणो बहूक्तिरयुक्तेत्याशङ्क्याह -
कार्ये त्विति ।
चशब्दसूचितं युक्त्यन्तरमाह -
लोकेति ।
परस्मिन्नपि क्वचिद्दृष्टा लोकश्रुतिरित्याशङ्क्याह -
गौणीति ।
ब्रह्मलोकेष्वित्यधिकरणसप्तम्या ब्रह्मण्ययोगादपि कार्यविषयैव गतिरिति हेत्वन्तरमाह -
अधिकरणेति ।
सूत्रोक्तहेतूनां फलितं गिगमयति -
तस्मादिति ॥ ८ ॥
ब्रह्मशब्दश्रुतिविरोधं शङ्कते -
नन्विति ।
वृद्धव्यवहारे प्रयोगप्रत्ययाभ्यां ब्रह्मशब्दस्य परापरब्रह्मणोः शाब्दं मुख्यत्वं तुल्यमित्याशङ्क्यानवच्छिन्नतयार्थतो मुख्यत्वं परस्यैवेत्याह -
समस्तस्येति ।
सूत्रेण परिहरति -
अत्रेति ।
मुख्यार्थायोगे यौगिकतयापि ब्रह्मपदं नेयमिति मत्वा व्याचष्टे -
तुशब्द इति ।
अविरोधं साधयति -
परमेवेति ।
विशुद्धोपाधिसम्बन्धं सात्त्विकोपाधिविशिष्टमिति यावत् ॥ ९ ॥
ब्रह्मशब्दस्य मुख्यार्थग्रहे बहुतरकार्यलिङ्गभङ्गवत्कार्यग्रहेऽपि तुल्यानावृत्तिश्रुत्यनुपपत्तिरिति शङ्कते -
नन्विति ।
तत्र हेतुः -
नहीति ।
मा भूदर्चिरादिना गच्छतामनावृत्तिर्ब्रह्मलोकप्राप्तिमात्रस्य श्रुतत्वादित्याशङ्क्याह -
दर्शयतीति ।
क्रममुक्त्यभिप्रायमनावृत्तिश्रवणमिति सूत्रेण प्रत्याह -
अत्रेति ।
सूत्राक्षराणि योजयति -
कार्येति ।
साक्षादेव ब्रह्मप्राप्त्यानावृत्तिसिद्धौ किमिति परम्पराश्रयणं, तत्राह -
नहीति ॥ १० ॥
क्रममुक्तौ स्मृतिं प्रमाणयति -
स्मृतेश्चेति ।
तामेवोदाहरति -
स्मृतिरिति ।
प्रतिसञ्चरो महाप्रलयस्तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्तोऽधिकारावसानं तदा कृतात्मानः शुद्धधियो ब्रह्मलोकनिवासिनस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना ।
सिद्धान्तमुपसंहरति -
तस्मादिति ॥ ११ ॥
उत्तरसूत्राण्याकाङ्क्षापूर्वकमवतारयति -
कमिति ।
ब्रह्मशब्दस्य मुख्यार्थत्वमाश्रित्य परस्यैव ब्रह्मणो गन्तव्यत्वमाह -
परमिति ।
तत्र प्रतिज्ञांं विभजते -
जैमिनिस्त्विति ।
युक्तियुक्तस्यैव ग्राह्यत्वाद्वक्तृगौरवमकिञ्चित्करमिति शङ्कते -
कुत इति ।
सौत्रं हेतुमाह -
मुख्यत्वादिति ।
गौणस्यापि मुख्यवद्ब्रह्मशब्दालम्बनत्वमिष्टमविशेषादित्याशङ्क्याह -
मुख्येति ॥ १२ ॥
इतश्च मुख्यमेव ब्रह्म गन्तव्यमित्याह -
दर्शनाच्चेति ।
दर्शनं विभजते -
तयेति ।
आपेक्षिकं तत्पक्षान्तरेऽपि स्यादित्याशङ्क्य मुख्यसम्भवे नैवमित्याह -
अमृतत्वं चेति ।
कार्यस्य नाशित्वे मानमाह -
अथेति ।
परस्मिन्न युक्ता गतिरित्युक्तमित्याशङ्क्याह -
परेति ।
कथमेतज्ज्ञातमित्याशङ्क्य प्रकरणसामर्थ्यादित्याह -
नहीति ॥ १३ ॥
ब्रह्मश्रुतेरमृतत्वश्रुतिलिङ्गात्तयोर्ध्वमायन्नितिप्रकरणाच्च परविषया गतिरित्युक्तम् । सम्प्रति प्रजापतेः सभां वेश्म प्रपद्ये प्राप्नुयामिति मरणकाले यः प्रतिपत्त्यभिसन्धिः प्राप्तिसङ्कल्पः स कार्यगोचर इति तस्यैव गन्तव्यतेत्याशङ्क्याह -
नचेति ।
तद्विवृणोति -
अपिचेति ।
परस्यैव गन्तव्यत्वे हेत्वन्तरमाह -
यशोऽहमिति ।
आत्मा यशःशब्दार्थः । ब्राह्मणानामहमात्मा भवामि यशो राज्ञां यशो विशामिति सर्वात्मत्वोक्तेरपि न परिच्छिन्नकार्यापत्तिरित्यर्थः ।
यशःशब्देन विश्रुतत्वमुक्तं नात्मेत्याशङ्क्याह -
नेति ।
अस्त्वधिकाराद्ब्रह्मविषयैव वेश्मप्रतिपत्तयादिसंकल्पना तथापि कथं सा गतिपूर्विका वेश्मप्रतिपत्तेः स्तुतिमात्रत्वादित्याशङ्क्याह -
सा चेति ।
तत्तत्र ब्रह्मलोके केनापि ब्रह्मचर्यादिहीनेन न पराजितेत्यपराजिता पूरस्य ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणा निर्मितं हिरण्मयं वेश्म चास्ति तत्प्रपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्रतिपत्तिरुक्ता तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिसाम्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।
किञ्च पद गताविति स्मृतेरपि वेश्मप्रतिपत्तेर्मार्गापेक्षा भातीत्याह -
पदेरिति ।
पूर्वपक्षमुपसंहरति -
तस्मादिति ।
परं जैमिनिरित्यादिसिद्धान्तसूत्राण्युत्तरसूत्रत्वात्पूर्वाणि पूर्वपक्षसूत्राणीत्याशङ्क्य व्यवस्थार्थं पातनिकां करोति -
ताविति ।
तथापि कथं व्यवस्थेत्याशङ्क्याह -
तत्रेति ।
द्वितीये पक्षे ब्रह्मशब्दस्य मुख्यार्थलाभात्तस्यैवोत्तरपक्षत्वमित्याशङ्क्याह -
नहीति ।
यत्तु प्रकरणसामर्थ्यात्परविषयत्वं गतेरिति, तत्राह -
परेति ।
यथा ब्रह्मनाडीगतिप्रशंसार्थं नाड्यन्तराणि विद्यासंसर्गशून्यान्येव तत्प्रकरणेऽनुकीर्त्यन्ते तथा दहरादिविद्याश्रयगतिनिमित्तफलानुकीर्तनं परविद्याधिकारेऽपि युज्यते तस्या गतिराहित्येऽपि तत्पूर्वकफलस्य तयैव सिद्धेर्महतीयं विद्या निरतिशयैश्वर्यहेतुत्वादिति स्तुतिप्रकर्षसम्भवादित्यर्थः ।
यत्तु कार्ये प्रतिपत्त्यभिसन्धिर्नास्तीति, तत्राह -
प्रजेति ।
श्रुतिवाक्याभ्यां प्रकरणं हेयमिति भावः ।
यत्तु सर्वात्मत्वानुक्रमणात्परविषयत्वं प्रतिपत्त्यभिसन्धेरिति, तत्राह -
सगुणेऽपीति ।
प्रशंसार्थमुपास्त्यर्थं वा तदनुक्रमणमित्यर्थः ।
परविषयगत्ययोगे फलितमाह -
तस्मादिति ।
पक्षान्तरमनुभाष्य दूषयति -
केचिदित्यादिना ।
ब्रह्मणो गन्तव्यत्वानुपपत्तिमुपपादयति -
यदिति ।
यदुक्तविशेषणं परब्रह्म तस्य कदाचिदपि न गन्तव्यतेति सम्बन्धः । तस्य सर्वगतत्वे मानमाह -
आकाशवदिति ।
सर्वान्तरत्वेऽपि श्रुतिमाह -
यदिति ।
सर्वात्मकत्वेऽपि श्रुतिमाह -
आत्मैवेति ।
अनुपपत्तिमेव स्फोरयति -
नहीति ।
गतेरकिञ्चित्करत्वादित्यर्थः ।
प्राप्ते प्राप्तिफला गतिरयुक्तेत्येतद्व्यतिरेकेण स्फुटयति -
अन्यो हीति ।
स्वरूपेण प्राप्तस्यापि ब्रह्मणो विकारापत्तितया गन्तव्यतासिद्धिरिति दृष्टान्तेन शङ्कते -
नन्विति ।
सर्वगतस्यायुक्ता गन्तव्यतेत्युक्तं प्रत्याह -
तथेति ।
अनन्यत्वं साधनसाध्यत्वं विना प्राप्तत्वम् ।
यत्तु प्रत्यगात्मत्वाद्ब्रह्मणो न गन्तव्यतेति तत्राह -
स्वात्मेति ।
एकस्यैव ब्रह्मणो गन्तृगन्तव्यता सिध्यतीत्यत्र हेतुमाह -
सर्वेति ।
तथापि ग्रामादिवन्न गन्तव्यतेत्याशङ्क्याह -
कथञ्चिदिति ।
वैषम्यं दर्शयन्नाह -
नेत्यादिना ।
ब्रह्मणो निर्विशेषत्वे मानमाह -
निष्कलमित्यादिना ।
‘अनादिमत्परं ब्रह्म’ इत्याद्या स्मृतिः । न्यायस्तु विशेषाणां तद्द्रष्टृनिविष्टत्वेन दृश्यत्वासिद्धिरंशतः स्वदृश्यत्वापातान्न च तद्दृश्यत्वं विना तत्सिद्धिर्जडत्वात्स्वतःसिद्धत्वे चात्मानतिरेकात्तस्मात्तस्य निर्विशेषतेति । देशकालादीत्यादिब्देनावस्थावयवादि गृह्यते ।
निर्विशेषत्वे फलितमाह -
येनेति ।
येन सविशेषत्वेन भूप्रदेशादिदृष्टान्तेन ब्रह्मणो गन्तव्यता न तथा तस्य सविशेषतेति योजना ।
दृष्टान्तेऽपि कथं गतस्यैव गन्तव्यतेत्याशङ्क्याह -
भूवयसोस्त्विति ।
अवस्थादीत्यादिशब्देनावयवपरिणामादिग्रहः ।
सर्वशक्तित्वाद्युक्तं ब्रह्मणो विशेषवत्त्वेन गन्तव्यत्वमित्युक्तं स्मारयति -
जगदिति ।
अपरिणामिनोऽकारकत्वात्तत्कारणत्वाय परिणामित्वं कार्यप्रतियोगिशक्तिमत्त्वं चास्तीति कुतो गन्तव्यत्वासिद्धिरित्यर्थः ।
विशेषनिराकरणस्य निःशेषशोकादिनिरासफलत्वादुत्पत्त्यादिविधानस्य चाफलत्वात्फलवत्संनिधावफलं तदङ्गमितिन्यायान्न ब्रह्मणः सविशेषतेति दूषयति -
नेत्यादिना ।
उक्तमेवार्थं चोद्यसमाधिभ्यां विवृण्वन्नादौ चौद्यं दर्शयति -
उत्पत्त्यादीति ।
तासामनन्यार्थत्वमसिद्धमित्याह -
नेति ।
एकत्वपरत्वमुपपादयति -
मृदादीति ।
शेषशेषित्वे नियामकाभावमादाय शङ्कते -
कस्मादिति ।
नियामकं दर्शयति -
उच्यत इति ।
फलवत्तया नैराकाङ्क्ष्यं स्फोरयति -
नहीति ।
एकत्वज्ञाने सर्वाकाङ्क्षाशान्तिरित्यत्र श्रुतीराह -
तत्रेत्यादिना ।
श्रौते विद्याफले विद्वदनुभवमनुकूलयति -
तथैवेति ।
द्वैतस्य निन्द्यमानत्वादपि न प्रतिपाद्यतेत्याह -
विकारेति ।
विशेषनिषेधश्रुतीनां निराकाङ्क्षज्ञानोत्पादकत्वे फलितमाह -
अतो नेति ।
तुल्यमुत्पत्त्यादिश्रुतीनामपि तथाविधधीजनकत्वमित्याशङ्क्याह -
नैवमिति ।
न केवलं युक्तिमात्रेणोत्पत्त्यादिश्रुतीनामन्यार्थत्वं किन्तु श्रुतिसामर्थ्यादपीत्याह -
प्रत्यक्षं त्विति ।
तत्र छन्दोगश्रुत्या तासामन्यार्थत्वं स्फुटयति -
तथाहीति ।
तत्रेति मूलकारणोक्तिः । एतच्छुङ्गं जगदात्मकं कार्यमुत्पतितमुत्पन्नमिति यावत् । तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छेति सत एवोत्तरत्र कार्यलिङ्गेन ज्ञेयत्वोक्तेस्तत्तेजोऽसृजतेत्यादिश्रुतीनां तच्छेषत्वं सिद्धमित्यर्थः ।
तैत्तिरीयश्रुत्यापि जन्मादिश्रुतीनामैक्यधीशेषत्वमाह -
यत इति ।
तासामन्यपरत्वे फलितमाह -
एवमिति ।
ब्रह्मणोऽनेकशक्तिमत्त्वाभावेऽपि न परविषया गतिरित्यत्र किमायातं तदाह -
अतश्चेति ।
इतश्च परविषये न गतिरित्याह -
न तस्येति ।
न तस्मादिति माध्यन्दिनश्रुत्या निषेधश्रुतेरन्यार्थत्वमाशङ्क्योक्तं स्मारयति -
तदिति ।
गन्तव्यरूपालोचनया गतिरयुक्तेत्युक्तम् । अधुना गन्तृरूपालोचनयापि सा न युक्तेति वक्तुं विकल्पयति -
गतीति ।
अन्यानन्यत्वमाश्रित्याद्यौ विकल्पावत्यन्तभेदमाश्रित्यान्त्य इति भेदः ।
आत्यन्तिकमनन्यत्वं किमिति न विकल्प्यते, तत्राह -
अत्यन्तेति ।
कल्पत्रयेऽपि दोषजिज्ञासया पृच्छति -
यदीति ।
पक्षत्रयेऽपि दोषमाह -
उच्यत इति ।
आद्यमनूद्य प्रत्याह -
यदीति ।
प्रथमपक्षस्योत्थानमेव नास्तीत्याह -
एकदेेशेति ।
उक्तदोषसाम्याद्द्वितयं निराह -
विकारेति ।
नित्यप्राप्तत्वं दृष्टान्तेन स्पष्टयति -
नहीति ।
विपक्षे दोषमाह -
परित्यागे वेति ।
पक्षद्वयेऽपि दोषान्तरमाह -
विकारेति ।
ब्रह्म सविकारं सावयवं चेष्टं तस्य सह विकारैरवयवैश्च निश्चलत्वात्कुतो जीवानां संसारगमनरूपं चलनं न हि स्थिरात्मनामस्थिरत्वं युक्तमन्यानन्यत्वं च विरुद्धत्वान्नोपगन्तुं शक्यमित्यर्थः ।
तृतीयमनुवदति -
अथेति ।
तं त्रेधा विकल्प्य दूषयति -
सोऽणुरित्यादिना ।
अनित्यत्वप्रसङ्गो घटादिषु तथादृष्टेरिति शेषः ।
पक्षद्वयानुपपत्तिं तर्कपादे वियत्पादे चोक्तां स्मारयति -
प्रतिषिद्धे चेति ।
अन्यत्वपक्षे श्रुतिविरोधं दोषान्तरमाह -
परस्माच्चेति ।
पूर्वोक्तेऽपि पक्षद्वये श्रुतिविरोधस्य तुल्यत्वमाह -
विकारेति ।
तयोस्तद्वतोऽन्यत्ववदनन्यत्वस्यापि भावान्नेति शङ्कते -
विकारेति ।
भेदाभेदायोर्विरोधिनोरेकत्रायोगाद्बुद्धिव्यपदेशभेदाद्विकारावयवयोस्तद्वतो भेदे सत्ययुतसिद्धत्वादुपचारेणाभेदोक्तिरित्यमुख्यं जीवस्य ब्रह्मैक्यं स्यादित्याह -
नेति ।
किञ्च पक्षत्रयेऽपि संसारित्वस्य तात्त्विकत्वात्तस्यात्यन्तिकनाशे जीवरूपनाशादयुक्तं पक्षत्रयमपीत्याह -
सर्वेष्विति ।
संसारित्वे निवृत्तेऽपि सिद्धान्तवन्न जीवरूपनाशप्रसक्तिरित्याशङ्क्याह -
ब्रह्मेति ।
संसारस्य कर्मनिमित्तत्वात्तदभावेऽभावान्मुक्तिरनायाससिद्धेति मतं दर्शयति -
यत्त्विति ।
देहान्तरप्रतिसन्धानं तेन सम्बन्धस्तद्ग्रहणमिति यावत् । एवंवृत्तस्य नित्याद्यनुष्ठानवतो वर्णितचरितस्य मुमुक्षोरित्यर्थः ।
किं शास्त्रादेव मुच्यते किंवा तर्कादिति विकल्प्याद्यं प्रत्याह -
तदसदिति ।
प्रमाणाभावं प्रकटयति -
नहीति ।
द्वितीयमनुवदति -
स्वेति ।
स्वोत्प्रेक्षितमपि युक्तत्वादेष्टव्यमिति पक्षं प्रत्याह -
नचेति ।
निमित्ताभावस्य दुर्ज्ञानत्वं प्रपञ्चयति -
बहूनीति ।
सर्वाण्येव तानि मुमुक्षुदेहे भोगेन क्षपितानीत्याशङ्क्याह -
तेषामिति ।
अनुपभुक्तकर्मणां देहान्तरसम्भवान्नित्याद्यनुष्ठानवतोऽपि तत्त्वज्ञानं विना नास्ति मोक्षाशेति फलितमाह -
इत्यत इति ।
ऐकभविकत्वात्कर्माशयस्य वर्तमानभोगेन क्षपणसम्भवान्मोक्षसिद्धिरित्याशङ्क्य कृतात्ययेऽनुशयवानित्यत्रैकभविकत्वं दूषितमिति मत्वाह -
कर्मेति ।
अनारब्धफलानामपि कर्मणां नित्यनैमित्तिकेभ्यो निवृत्तेरुक्तचरितस्य मुक्तिरिति शङ्कते -
स्यादेतदिति ।
किं तानि सुकृतानामपि क्षेपकाण्याहो दुंरितानामेवेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।
तेषां सुकृतविरोधित्वे काम्यकर्मोपदेशवैयर्थ्यं तेषामपि तैर्विनाशादिति मन्वानो विरोधं विवृणोति -
सतीति ।
द्वितीयमङ्गीकरोति -
दुरितानां त्विति ।
तर्हि तन्निबर्हणे तावतैव देहान्तराभावान्मुक्तेरैक्यधीवैयर्थ्यं नेत्याह -
न त्विति ।
केवलसुकृतारब्धं शरीरं नास्त्यप्रियस्यापि दुरितफलस्य तत्र दर्शनादित्याशङ्क्याह -
दुश्चरितस्येति ।
किञ्च मुमुक्षुभिरनुष्ठितनित्यनैमित्तिकवशादपि देहान्तरसम्भवान्नोक्तचरितस्य मुक्त्याशास्तीत्याह -
नचेति ।
तेषामानुषङ्गिकफलत्वं सम्भावितमपि न प्रमितमित्याशङ्क्याह -
स्मरतीति ।
निर्मिते आरोपिते सतीति यावत् ।
किञ्च काम्यनिषिद्धकर्मशेषवशादपि देहान्तरसिद्धेर्नोक्तचरितस्य मुक्तिरित्याह -
नचेति ।
अस्मदादीनां स्थूलधियां सम्यग्धियं विना सर्वात्मना काम्याद्यवर्जनेऽपि ज्ञानादशेषकाम्यादिवर्जनसिद्धिरित्याशङ्क्याह -
सुनिपुणानामिति ।
प्रमादो भवत्येवेत्यनियमान्नो जन्मान्तरमित्याशङ्क्याह -
संशयितव्यमिति ।
निमित्तसद्भावेऽपि निश्चयाभावे जन्मान्तरमनिश्चितमसिद्धमेव स्यादित्याशङ्क्याह -
तथापीति ।
तस्य दुर्ज्ञानत्वे जन्मान्तराभावस्यापि तथात्वात्त्वत्पक्षासिद्धिरित्यर्थः ।
किं चात्मनि कर्तृत्वादि स्वाभाविकमारोपितं वाद्येऽपि तत्कार्यं तच्छक्तिर्वा स्वभावः । प्रथमे तस्मिन्निवृत्ते स्थिते वा मुक्तिः । नाद्यः । स्वभावस्य निवर्तयितुमशक्यत्वात् । न द्वितीयो व्याघातादित्याह -
नचेति ।
द्वितीयं शङ्कते -
स्यादिति ।
किं शक्तेरस्ति कार्यारम्भकत्वमुत न । आद्येऽपि सा निरपेक्षा कार्यमारभते सापेक्षा वा । नाद्य इत्याह -
तच्च नेति ।
कल्पान्तरमुत्थापयति -
अथापीति ।
अदृष्टादिनिमित्ताभावादुपभोगलक्षणोऽनर्थो नास्तीत्यर्थः ।
कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्यात्मनोऽदृष्टादिनिमित्तैः सम्बन्धस्य च शक्तिद्वारा सदातनत्वात्कदाचित्तस्या भोगारम्भकत्वसम्भवान्न मुक्तिरित्याह -
तच्चेति ।
सा चेत्कार्यं नारभते तर्हि तस्या असत्त्वमेव कार्यैकगम्यत्वादिति मत्वा शक्तेर्वा कार्यस्य वा स्वाभाविकत्वनिरासमुपसंहरति -
तस्मादिति ।
आत्मनि कर्तृत्वादेरारोपितत्वे ज्ञानादेव तन्निवृत्तेर्न कर्मसाध्या मुक्तिरित्युपेत्य ज्ञानमात्रायत्ता सेत्यत्र मानमाह -
श्रुतिश्चेति ।
प्रासङ्गिके परमते पराकृते मोक्षसिद्धये जीवस्य ब्रह्मात्मत्वोपगमेऽपि तुल्याऽनुपपत्तिरिति शङ्कते -
परस्मादिति ।
तत्त्वज्ञानात्प्रागूर्ध्वं वा व्यवहाराभावो नाद्यः स्वप्नवदुपपत्तेरित्याह -
न प्रागिति ।
तत्रैव शास्त्रानुमतिमाह -
शास्त्रं चेति ।
अप्रवुद्धविषय इति च्छेदः ।
द्वितीये प्रसङ्गस्येष्टतां शास्त्रावष्टम्मेनाचष्टे -
पुनरिति ।
प्रासङ्गिकं परिहृत्य प्रकृतं निगमयति -
तदेवमिति ।
परमतं निराकृत्य पूर्वोक्तं स्वमतं प्रश्नपूर्वकं विवृणोति -
किमित्यादिना ।
गतिश्रुतीनां सगुणधीविपयत्वं विशदयति -
तथाहीति ।
ब्रह्म प्रकृत्यापि गतेरुक्तेस्तस्या युक्तं परविषयत्वमित्याशङ्क्याह -
यत्रापीति ।
सगुणविद्याविषये गतिश्रुतिमुक्त्या परविद्याविषये तदभावमाह -
नेति ।
क्रमत्वाविशेषात्तत्रापि गतिरेषैवेत्याशङ्क्याह -
यथेति ।
आप्नोतेर्गत्यर्थत्वात्परविद्याधिकारेऽपि गतिश्रुिरस्तीत्याशङ्क्याह -
ब्रह्मविदिति ।
ब्रह्मणः सर्वगतत्वं सर्वान्तरत्वं सर्वात्मत्वमित्यादिवर्णितो न्यायः ।
आप्नोतिस्तर्हि परविषये कथमित्याशङ्क्याह -
स्वरूपेति ।
इतश्च परत्रविषये नास्ति गतिरित्याह -
अपिचेति ।
तदेव दर्शयितुं विकल्पयति -
परेति ।
प्ररोचनपक्षं प्रत्याह -
तत्रेति ।
स्वसंवेद्यत्वे हेतुमाह -
अव्यवहितेनेति ।
स्वापादिव्यावृत्त्यर्थं विशिनष्टि -
विद्येति ।
अनुचिन्तनपक्षं प्रतिक्षिपति -
नचेति ।
पक्षद्वयनिरासफलं दर्शयति -
तस्मादिति ।
कथं तर्हि केषाञ्चिदाचार्याणां परविषयत्वोपगमो गतेरित्याशङ्क्य सूक्ष्मदृष्टिशून्यत्वादित्याह -
तत्रेति ।
अपसिद्धान्तं शङ्कते -
किमिति ।
सोपाधिकनिरुपाधिकत्वेन ब्रह्मणो भेदः, श्रुतिवैरूप्यात्तेन नापराद्धान्तापत्तिरित्याह -
बाढमिति ।
परापरविभागम्प्रश्नपूर्वकं विशदयति -
किमित्यादिना ।
उक्तमेवापसिद्धान्तपरिहारं चोद्यद्वारा स्फोरयति -
नन्वित्यादिना ।
परापरविभागस्य मिथ्यात्वे किं स्यादित्याशङ्क्यापरब्रह्मणो गन्तव्यत्वार्थं तदुपास्तिफलमाह -
तस्येति ।
अपरब्रह्मोपासनस्योक्तफलत्वेऽपि कथं तद्विषये गतिरित्याशङ्क्याह -
तस्य चेति ।
तस्य गन्तव्यत्वेऽपि गन्तृृत्वमात्मनो विभुत्वादयुक्तमित्याशङ्क्याह -
सर्वेति ।
अनिर्वचनीया गतिरनिर्वचनीयसगुणब्रह्मविषयैवोचितेति भावः ।
परविषये गत्यभावादपरविषये तदुपपत्तेरस्मदुक्तैव पूर्वोत्तरपक्षव्यवस्थेत्युपसंहरति -
तस्मादिति ॥ १४ ॥
गन्तव्यविशेषोक्त्यनन्तरं गन्तृविशेषोक्त्यर्थमाह -
अप्रतीकालम्बनानिति ।
सम्बन्धं वक्तुं वृत्तं कीर्तयति -
स्थितमिति ।
अमानवपुरुषं विषयीकृत्याविशेषश्रुतेस्तत्क्रतुत्वेनागमनभानाच्च संशयमाह -
इयमिति ।
विद्याफलार्थे देवयाने पथि गन्तृविशेषोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सर्वेषूपासनेष्वनियमन्यायाद्विकारालम्बनेषु विशेषासिद्धिः ।
सिद्धान्ते प्रतीकोपासनातिरिक्तेषु तत्क्रतुन्यायाद्विशेषसिद्धिरिति मत्वा विमृश्य पूर्वपक्षयति -
किं तावदिति ।
परस्माद्ब्रह्मणोऽन्यत्रेति कार्यब्रह्मोक्तिः । तत्र गुणोपसंहारस्थानियमाधिकरणन्यायं हेतुत्वेन स्मारयति -
तथाहीति ।
प्रतीकालम्बनानामपि पितृयाणतृतीयस्थानासम्बन्धित्वात्प्रतीकविशेषत्वेन ब्रह्मणोऽपि तैर्ध्यातत्वाद्ये वै के चेत्यादिवाक्येन च तेषां ग्रहादेतान्ब्रह्म गमयतीत्येतच्छब्देन तेषामपि परामर्शसिद्धेर्विद्यान्तरेषु च गतेरवतारितत्वादविशेषेणामानवः पुरुष एतान्सर्वानेव विकारालम्बनान्ब्रह्मलोकं नयतीति प्राप्तमित्यर्थः ।
पूर्वपक्षमनुभाष्य सिद्धान्तप्रतिज्ञामवतार्य व्याकरोति -
एवमिति ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपो हि प्रतीको यथा ‘नाम ब्रह्म’ इत्यादौ नामादिषु ब्रह्माश्रयस्य प्रत्ययस्य प्रक्षेपः । तदालम्बनाः प्रताकालम्बनास्तान्विहाय विकारालम्बनान्सगुणविद्यावतः सर्वानिति यावत् ।
यत्त्वनियमन्यायादविशेषेण सर्वेषां विकारालम्बनानामेषां गतिरिति तद्दूषयन्नुभयथाऽदोषादित्येतद्व्याचष्टे -
नहीति ।
प्रतीकाम्बनान्न नयति विकारालम्बनांस्तु नयतीत्युभयथात्वोपगमे सत्यनियमः, सर्वासामिति न्यायस्य न कश्चिद्दोषः सर्वशब्दस्य प्रतीकालम्बनातिरिक्तविषयत्वसिद्धेरित्यर्थः ।
तत्क्रतुश्चेति पदं पदान्तराध्याहारेण व्याकरोति -
तत्क्रतुरिति ।
तस्य हेतुत्वं साधयति -
यो हीति ।
तत्र मानमाह -
तमिति ।
प्रतीकालम्बनैरपि तद्विशेषणत्वेन ब्रह्म ध्यातमित्युक्तमित्याशङ्क्याह -
न त्विति ।
ब्रह्मदृष्ट्या नामादीनामेव प्रतीकानां प्राधान्येनानुचिन्तनान्न प्रतीकालम्बनानां ब्रह्मक्रतुत्वमित्यर्थः ।
तत्क्रतुस्तद्भवतीति न्यायस्य व्यभिचारं शङ्कते -
नन्विति ।
न्यायस्यौत्सर्गिकत्वऽपि विशेषवचनादपवादः, तत्राह -
भवत्विति ।
आहत्यवादः साक्षादपवादकः ॥ १५ ॥
इतोऽपि प्रतीकोपासनानां न ब्रह्मगतिरित्याह -
विशेषं चेति ।
उत्कर्षापकर्षवत्त्वात्फलस्य प्रतीकोपासनानां नैकरूपब्रह्मक्रतुत्वं तत्प्राप्तिर्वा हेतूपचयापचयातिरेकेण फले तदयोगादिति व्याचष्टे -
नामादिष्विति ।
फलविशेषोपलम्भेऽपि किमित्युपासनानां प्रतीकतन्त्रत्वं, तत्राह -
स चेति ।
प्रतीकानामुत्कर्षनिकर्षवत्त्वादित्यर्थः ।
विपक्षे फलविशेषदृष्टेरश्लिष्टत्वमाह -
ब्रह्मेति ।
प्रतीकालम्बनातिरिक्तानां विकारालम्बनानां ब्रह्मलोकगतिरिति स्थिते फलितमुपसंहरति -
तस्मादिति ॥ १६ ॥
आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिरुक्ता । द्वितीये सगुणनिर्गुणफलाप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये सगुणविद्याफलोपयोगितया गतिगन्तव्यगन्तृविशेषा निरूपिताः । सम्प्रति चतुर्थे पादे परविद्याफलैकदेशो ब्रह्मभावाद्द्विर्भावः सगुणविद्याफलं च सर्वेश्वरतुल्यभोगत्वमवधारयिष्यते । तत्रापरविद्याप्राप्यमुक्त्वा परविद्याप्राप्यमाह -
सम्पद्येति ।
निर्गुणविद्याफलमुदाहर्तुं तद्विषयवाक्यमुदाहरति -
एवमेवेति ।
स्वशब्दस्य स्वकीयवाचित्वेनागन्तुकत्वाभानात्स्वरूपवचनत्वेनानागन्तुकत्वबुद्धेश्च संशयमाह -
तत्रेति ।
अत्र च निर्गुणब्रह्मविद्याफलस्य ब्रह्मभावाविर्भावस्य नित्यसिद्धत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य स्वर्गादेरविशेषः ।
सिद्धान्ते तस्य ततो विशेषोऽस्तीति गृहीत्वा विमृश्य पूर्वपक्षमाह -
किमिति ।
विमतमागन्तुकं फलत्वात्स्वर्गवदिति मत्वा हेतुमाह -
मोक्षस्येति ।
अभिनिष्पत्तिशब्दादपि प्रगभूतस्य निष्पत्तिः सिध्यतीति हेत्वन्तरमाह -
अभिनिष्पद्यत इति ।
सिद्धान्तेऽपि स्यादभिनिष्पत्तिरौपचारिकीत्याशङ्क्याह -
स्वरूपेति ।
उक्तानुमानादभिनिष्पत्तिशब्दाच्च सिद्धमर्थ निगमयति -
तस्मादिति ।
मुक्तेरागन्तुकत्वमनूद्य सिद्धान्तयति -
एवमिति ।
उक्तेऽनुमाने जीवति कथमनागन्तुकत्वं मुक्तेरित्याह -
कुत इति ।
विशेषणश्रुतिबाध्यमनुमानमित्याह -
स्वेनेति ।
परं ब्रह्म ज्योतिःशब्दितमुपसम्पद्य साक्षादनुभूय तेनैव स्वेन रूपेणाविर्भावोऽवस्थानमित्यनङ्गीकुर्वन्तं प्रत्याह -
अन्यथेति ।
विधान्तरेण स्वशब्दस्यार्थवत्त्वं शङ्कते -
नन्विति ।
अज्ञातज्ञापकत्वे सम्भवत्यनुवादकत्वायोगान्नैवमित्याह -
न तस्येति ।
तदेवावचनीयत्वं साधयति -
येनेति ।
परपक्षे विशेषणानर्थक्यमुक्त्वा स्वपक्षे तदर्थवत्वमाह -
आत्मेति ।
अर्थवत्त्वं स्फुटयति -
केवलेनेति ॥ १ ॥
सूत्रान्तरमाकाङ्क्षाद्वाराऽवतारयति -
कः पुनरिति ।
सूत्रस्थं मुक्तशब्दं योजयति -
योऽत्रेति ।
पूर्वत्रापि वस्तुतोऽस्यैवम्भूतत्वान्न विशेषसिद्धिरित्याशङ्क्यावस्थात्रयेऽपि यथाक्रमं व्यावहारिकरूपेणासदृशत्वमाह -
पूर्वत्रेति ।
जागरिते पुत्रादावहंममाभिमानादन्धवत्परवशो भवति स्वप्ने तन्नाशदृष्ट्या वासनामयं रोदनाद्यनुभवति सुषुप्ते विशेषज्ञानशून्यश्चिद्धातुरज्ञानमात्रपरवशस्तिष्ठतीत्यवस्थात्रयेण बन्धापरनाम्ना कालुष्येण दूषितं यदात्मरूपं तेनात्मा संसारदशायामवतिष्ठते मोक्षे तु निर्मृष्टनिखिलदुःखानुषङ्गप्रद्योतमानपरिशुद्धपरमानन्दरूपेणेति विशेष इत्यर्थः ।
सूत्रावयवं शङ्कापूर्वकमादत्ते -
कथमिति ।
प्रतिज्ञातमेव प्रकटयति -
तथाहीति ।
प्रकृतोपयोगिप्रतिज्ञान्तरमाह -
तथेति ।
फलत्वादागन्तुकत्वं मुक्तेरुक्तं, तत्राह -
फलत्वेति ।
शब्दसामर्थ्यात्तदागन्तुकत्वमुक्तमनूद्य दूषयति -
यदपीति ।
हेतोरन्यथासिद्धत्वे शब्दस्य चौपचारिकत्वे मुक्तेरनागन्तुकत्वं युक्तमित्युपसंहरति -
तस्मादिति ॥ २ ॥
ज्योतिरुपसम्पन्नस्य मुक्तत्वायोगमाशङ्क्य परिहरति -
आत्मेति ।
सूत्रव्यावर्त्यमाह -
कथमिति ।
कार्यगोचरत्वे हेतुमाह -
ज्योतिःशब्दस्येति ।
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रुतेर्मुक्तेरन्या ज्योतिःसम्पत्तिरित्याशङ्क्य तदुपसम्पद्य तत्त्यक्त्वा स्वेनाभिनिष्पत्तिरित्यश्रवणादध्याहारे च तदुपसम्पद्येत्युक्तिवैयर्थ्याज्ज्योतिषो भूतत्वेन कार्यत्वादत्यागे कुतो मुक्तिरित्याह -
नचेति ।
विकारगोचरस्यापि मुक्तत्वमाशङ्क्याथ यदल्पं तन्मर्त्यमित्यादिश्रुतिमाश्रित्याह -
विकारस्येति ।
चोद्योत्तरत्वेन सूत्रं योजयति -
नेत्यादिना ।
प्रकरणमेव दर्शयति -
य आत्मेति ।
अकस्मात्प्रकरणविच्छेदं विनेति यावत् ।
प्रकरणादपि प्रयोगाभावे कथमात्मार्थो ज्योतिःशब्दः, तत्राह -
ज्योतिःशब्द इति ।
अत्रापेक्षितं न्यायं पूर्वोक्तं सूचयन्पुनरुक्तिं प्रत्याह -
प्रपञ्चितं चेति ॥ ३ ॥
विदुषः स्वरूपेऽवस्थितस्यापि वैशेषिकादिवद्ब्रह्मणोऽन्यत्वमाशङ्क्याह -
अविभागेनेति ।
विषयोक्तिपूर्वकं वादिविप्रतिपत्तेः संशयमाह -
परमिति ।
अत्र मुक्तस्य ब्रह्मणोऽत्यन्ताभेदवादात्पादादिसङ्गतिः ।
पूर्वपक्षे जीवेश्वरयोरात्यन्तिकमन्यत्वं, सिद्धान्ते तयोरात्यन्तिकमभिन्नत्वमङ्गीकृत्य पूर्वपक्षयति -
इति वीक्षायामिति ।
सिद्धान्तसूत्रमवतार्य व्याचष्टे -
इति यस्येति ।
दृष्टत्वमेव स्फुटयति -
तथाहीति ।
परमात्मन्यैक्येन दृष्टत्वे फलितमाह -
यथेति ।
फलावस्थावादिवाक्येष्वविभागस्य दृष्टत्वादपि मुक्तस्य परस्मादात्यन्तिकमैक्यमिति व्याख्यान्तरमाह -
यथेति ।
उक्तभेदनिर्देशस्य तर्हि का गतिः, तत्राह -
भेदेति ।
उपचारो गतिरित्यत्र तथान्यत्र दृष्टत्वं हेतुमाह -
स इति ॥ ४ ॥
ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वं चोदयति -
ब्राह्मेणेति ।
वृत्तं कीर्तयति -
स्थितमिति ।
विषयसंशयौ दर्शयति -
अधुनेति ।
येन च ब्रह्मरूपेण मुक्तस्यावस्थानं तत्किं सप्रपञ्चमेव किंवा निष्प्रपञ्चमेवाथ वोभयरूपमिति विप्रतिपत्तेः संशये ब्रह्मणो मुक्तोपसृप्यस्य दृष्टिद्वयमाश्रित्योभयरूपत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सप्रपञ्चत्वश्रुतीनां वा निष्प्रपञ्चत्वश्रुतीनां वा मुख्यार्थत्वसिद्धिः ।
सिद्धान्ते द्विविधश्रुतीनां दृष्टिद्वयावष्टम्भान्मुख्यार्थत्वोपपत्तिरित्युपेत्य पूर्वपक्षयति -
अभिधीयत इति ।
उपन्यासेन ब्रह्मणः सप्रपञ्चत्वसिद्धिं विवृणोति -
तथाहीति ।
उपन्यासो नामोद्देशः स चान्यत्र ज्ञातस्यान्यविधानायानुवादः ।
आदिशब्दार्थं विधिं दर्शयति -
तथेति ।
अज्ञातज्ञापनं विधिः ।
आदिशब्देनोक्तं व्यपदेशमाह -
सर्वज्ञ इति ।
विधेयान्तररहितत्वेनानुद्देश्यस्याप्रतिपाद्यत्वेनाविधेयस्य च सिद्धवदभिधानं व्यपदेशः ॥ ५ ॥
पूर्वपक्षान्तरमाह -
चितितन्मात्रेणेति ।
उपन्यासादिना नानारसत्वे दर्शिते कथञ्चिदेकरसत्वमित्याशङ्क्याह -
यद्यपीति ।
कथं विकल्पमात्रत्वमित्याशङ्क्य काल्पनिकत्वात्पाप्मादेस्तन्निवृत्तिरूपाणां तेषामपि राहोः शिर इतिवत्काल्पनिकत्वमेवेत्याह -
पाप्मादीति ।
किं तर्हि तस्य वास्तवरूपं तदाह -
चैतन्यमिति ।
तत्र मानमाह -
तथाचेति ।
सत्यकामत्वादीनामपहतपाप्मत्वादिवन्नेतुमशक्यत्वात्कुतो ब्रह्मणश्चैतन्यमात्रतेत्याशङ्क्याह -
सत्येति ।
उपाधीनामपि तदभेदाद्वास्तवमेव धर्मत्वमित्याशङ्क्याह -
अनेकेति ।
उपन्यासस्येव विधिव्यपदेशयोर्गतिमाह -
अत इति ।
अनेकाकारत्वस्य निषिद्धत्वादेवेति यावत् ।
दृष्टान्तेऽपि मुख्यत्वमाशङ्क्योक्तम् -
नहीति ।
उपन्यासादीनामन्यथासिद्धत्वे श्रुतिसिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ६ ॥
सिद्धान्तयति -
एवमपीति ।
चिन्मात्रस्यापि सतो ब्रह्मणस्तत्त्वातत्त्वविभागाद्विधात्वसिद्धिरिति सूत्रार्थं विवृणोति -
एवमित्यादिना ॥ ७ ॥
पूर्वाधिकरणेषु परविद्याफलमभिधायापरविद्याफलं प्रपञ्चयितुमधुनोपक्रमते -
सङ्कल्पादिति ।
विषयं वक्तुं वाक्यमुदाहरति -
हार्देति ।
एवकारस्यायोगान्ययोगव्यवच्छेदसाधारणतया सङ्कल्पं विषयीकृत्व संशयमाह -
तत्रेति ।
अत्र च सगुणब्रह्मविदो ब्रह्मभूतस्य विभूतिनिर्माणसाधननिरूपणात्पादादिसङ्गतिः ।
पूर्वपक्षे लोकवृत्तानुसारि चरणं सिद्धान्ते श्रुतिवृत्तानुसारि चरणमित्यभिप्रेत्यावधारणश्रुत्या सङ्कल्पस्य निरपेक्षत्वसिद्ध्या पूर्वपक्षानुत्थानमाशङ्क्याह -
तत्रेति ।
लोकवदित्युक्तं विवृणोति -
यथेति ।
मुक्तस्य पित्रादिभोगहेतुसम्पत्तिः सङ्कल्पातिरिक्तयत्नादिसापेक्षा भोगहेतुसम्पत्तित्वादस्मदादिभोगहेतुसम्पत्तिवदिति मत्वा दार्ष्टान्तिकमाह -
एवमिति ।
अनुमानफलमाह -
एवं दृष्टेति ।
लोकवृत्तानुसारेण श्रुतेरर्थवत्त्वसिद्धावेव तद्विपरीतं न कल्प्यमिह त्ववधारणस्य तदनुसरणे सत्यर्थवत्त्वमेव न स्यादित्याशङ्क्याह -
सङ्कल्पादिति ।
पित्रादेः सङ्कल्पमात्रजन्यत्वे मनोरथविजृम्भितस्त्रीपुत्रादिवदर्थक्रियासामर्थ्याभावादपि सङ्कल्पातिरिक्तसाधनापेक्षा वक्तव्येत्याह -
नचेति ।
मनोरथनिर्मितादपि हर्षादिकार्यं दृष्टमित्याशङ्क्य ज्ञानमात्रसाध्यकार्यसत्त्वेऽपि ज्ञेयवस्तुसाध्यं कार्यं तत्र नास्तीत्याह -
पुष्कलमिति ।
सङ्कल्पस्य यत्नादिसापेक्षस्यैव पित्रादिनिर्माणहेतुतेत्येतदनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -
एवमिति ।
सङ्कल्पस्य यत्नसापेक्षत्वेऽनुमानस्योक्तत्वान्न तस्य केवलस्य पित्राद्युद्भवहेतुतेति शङ्कते -
कुत इति ।
श्रुतिविरुद्धतया कालात्ययापदिष्टमनुमानमित्याह -
तच्छ्रुतेरिति ।
किञ्च निमित्तान्तरमपि सङ्कल्पायत्तं वा यत्नान्तरसाध्यं वा, तत्राद्यमङ्गीकृत्य द्वितीयं दूषयति -
निमित्तान्तरमिति ।
तस्य यत्नाद्यपेक्षस्य सङ्कल्पापेक्षया विलम्बितोत्पत्तिकत्वात्प्राक्तदुत्पत्तेर्विदुषो मोघसङ्कल्पत्वं स्यात्ततश्च द्वितीयस्यायुक्ततेत्याह -
प्रागिति ।
यत्तु लोकवन्निमित्तान्तरापेक्षेति, तत्राह -
नचेति ।
यदपि मनोरथविजृम्भितवदतिचञ्चलत्वान्न भोगसाधनत्वं, सङ्कल्पप्रसूतानां पित्रादीनामिति, तत्राह -
सङ्कल्पेति ।
अस्मदादिसङ्कल्पितेष्वदृष्टं स्थैर्यं कथं मुक्तसङ्कल्पितेषु कल्प्यते, तत्राह -
प्राकृतेति ॥ ८ ॥
विदुषः सत्यसङ्कल्पत्वे लाभान्तरमाह -
अत इति ।
उपासितुरीश्वराधीनो भोगो न सङ्कल्पमात्राद्भवितुमलमित्याशङ्क्य सूत्रं व्याकरोति -
अत एवेति ।
सत्यसङ्कल्पत्वेऽपि कथमीश्वराधीनत्वं विदुषो नेष्यते, तत्राह -
नहीति ।
ईश्वरप्रसादाद्भोगः स्यादित्यपि प्रार्थयमानो जनो दृश्यत इत्याशङ्क्याह -
सत्यामिति ।
विदुषोऽनन्याधीनमैश्वर्यमस्तीत्यत्र मानमाह -
श्रुतिश्चेति ।
विद्यानुवादद्वारा तत्फलोक्त्यारम्भार्थोऽथशब्दः ॥ ९ ॥
विदुषो ब्रह्मीभूतस्य सप्रपञ्चत्वनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकताभ्यां व्यवस्थामुक्त्वा सङ्कल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयित्वा पदपदार्थधीमात्रेण श्रुतेरपेक्षायामपि वाक्यार्थबोधने तदभावाद्विमतो यत्नाद्यनपेक्षसङ्कल्पजन्यो योगजन्यसामर्थ्यदृष्टत्वादगस्त्यकृतसमुद्रपानवदित्यनुमानानुगृहीतश्रुत्या बाधितत्वादनुमानस्य सङ्कल्पमात्रसिद्ध्या विदुषो भोगहेतुसिद्धिरित्युक्तम् । संप्रत्यवधारणादन्ययोगव्यवच्छेदेन सङ्कल्पस्यैव पित्रादिसाधनत्ववदिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति -
अभावमिति ।
मनसः सद्भावोऽपि किमिति विदुषो न विचार्यते, तत्राह -
सङ्कल्पादेवेति ।
शरीरेन्द्रियाणि विषयस्तानि किं विद्यावतो मुक्तस्य सन्ति किंवा न सन्त्याहो सन्ति च न सन्ति चेति वादिविप्रतिपत्तेः संशयमाह -
शरीरेति ।
अत्र सगुणब्रह्मविदः सङ्कल्पादेव देहादिभावाभावयोरुक्त्या ब्रह्मधीफलविभूतेरुक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे विशेषणश्रुतेरनेकधाभावश्रुतेर्वा मुख्यार्थत्वसिद्धिः ।
सिद्धान्ते द्वयोरपि श्रुत्योर्विदुषः सत्यसङ्कल्पत्वादेव मुख्यार्थत्वोपपत्तिरित्यङ्गीकृत्य पूर्वपक्षसूत्रं योजयति -
तत्रेति ।
सत्यामपि विप्रतिपत्तावभावनियमासिद्धिरिति शङ्कते -
कस्मादिति ।
विशेषणश्रुत्या परिहरति -
एवं हीति ।
पक्षान्तरेऽपि विशेषणमयोगव्यवच्छेदकत्वेन युक्तमित्याशङ्क्याह -
यदीति ।
अन्ययोगव्यवच्छेदाय मनसेतिविशेषणाद्वामेन पश्यतीत्यादाविवेतरव्यावृत्तिर्गम्यते । अयोगव्यवच्छेदे तु न तथा विशेषणमर्थवदित्यर्थः ।
विशेषणफलमुपसंहरति -
तस्मादिति ॥ १० ॥
पू्र्वपक्षान्तरमाह -
भावमिति ।
सूत्राक्षराणि योजयति -
जैमिनिस्त्विति ।
विकल्पामननं मनोभेदादेव किं न स्यादित्याशङ्क्याह -
नहीति ।
देहभेदाभावे मनोभेदस्यापि दुर्भणत्वान्न तद्भेदकृतं विकल्पामननमित्यर्थः । निर्गुणविद्याधिकारे पाठाद्विकल्पामननं स्तुतिरेवेत्याशङ्क्याह -
यद्यपीति ।
देहे प्रियादिभोगहीने निर्गुणज्ञाने स्तुतित्वेनानेकधात्वस्यान्वयेऽपि विशिष्टभोगसंसर्गयोग्ये दहराद्युपासने फलत्वेनान्वय इत्यर्थः । नच मनसेति विशेषणमन्ययोगव्यावर्तकं देहादि व्यवच्छिनत्तीति युक्तं चैत्रो धनुर्धर इतिवदयोगव्यवच्छेदेनापि तद्योगादिति भावः ॥ ११ ॥
सिद्धान्तयति -
उच्यत इति ।
सूत्रं व्याचष्टे -
बादरायण इति ।
मनसेतिविशेषणसामर्थ्यादेकधा भवति त्रिधा भवतीत्यादिविकल्पामननसामर्थ्याच्चेत्यतः शब्दार्थं स्फुटयति -
उभयेति ।
सशरीरत्वमशरीरत्वं चैकस्यैव विरुद्धमित्याशङ्क्य कालभेदादविरोधं दर्शयति -
यदा त्विति ।
इतिशब्दस्योभयविधत्वमिति पूर्वेण सम्बन्धः ।
विदुषः सङ्कल्पानुसारि कार्यमित्यत्र हेतुमाह -
सत्येति ।
कार्यवैचित्र्ये हेतुः -
सङ्कल्पेति ।
धनुर्धरत्वादि हि विशेषणं पाक्षिकप्राप्तविशेषपदयोगव्यवच्छेदकं युक्तं नहि चैत्रो धनुर्दधान एवावतिष्ठते । प्रकृते तु मनसैतानित्यादौ कामभोगेषु मनसो नित्यप्राप्तत्वात्तदनुवादेनान्ययोगनिवृत्त्यर्थतेत्याशङ्क्य दृष्टान्तमवतार्य व्याचष्टे -
द्वादशाहवदिति ।
तस्य बहुकर्तृकतया सत्रत्वे नियतकर्तृकतयाऽहीनत्वे च हेतुमाह -
उभयेति ।
द्वादशाहो हि यजमानबहुत्वादासनोपायनोपदेशाच्च सत्रं य एवंविद्वांसः सत्रमुपयन्तीत्युपायनचोदनादर्शनात्सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्नित्यासनचोदनायाश्च द्वादशाहाधिकारे दृष्टत्वादासनोपायनचोदनयोरन्यतरत्वस्य सत्रलक्षणत्वाद्द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमाच्च द्विरात्रवदहीनत्वं चास्य गम्यते । तथेदमपि विदुषः सशरीरत्वमशरीरत्वं च द्विविधश्रुतिसिद्धं विचित्रसङ्कल्पनिबन्धनमविरुद्धमित्यर्थः ॥ १२ ॥
विदुषो देहाद्यसत्त्वमयुक्तं भोगाभावप्रसङ्गादित्याशङ्क्याह -
तन्वभाव इति ।
स्वप्ने देहाभावेऽपि तत्र संनिकर्षस्य ज्ञानहेतुता मनः - स्थितिमात्रहेतुत्वेनान्यथासिद्धत्वाद्योगिनश्च विद्यासामर्थ्यादेव मनोवस्थानादिति मत्वाह -
सन्ध्यवदिति ।
सूत्राक्षराणि व्याकरोति -
यदेत्यादिना ।
विदुषो देहादेरभावे मनसेतिविशेषणोपपत्तिं हेतूकरोति -
एवं हीति ॥ १३ ॥
तर्हि देहाद्युपादानमनर्थकं, तत्राह -
भाव इति ।
पुष्कलभोगसिद्ध्यर्थं देहाद्यादानमिति मन्वानः सूत्रं योजयति -
भावे पुनरिति ॥ १४ ॥
सङ्कल्पाधीनमनेकदेहनिर्माणमफलं निरात्मकेषु देहभेदेषु भोगायोगादित्याशङ्क्याह -
प्रदीपवदिति ।
वृत्तानुवादपूर्वकं मुक्तस्योक्तानि साङ्कल्पिकानि शरीराणि विषयीकृत्योभयथोपलब्धेः सन्देहमाह -
भावमिति ।
तत्रेति मुक्तोक्तिः । मुक्तस्यापरविद्याफलभूतस्य साङ्कल्पिकेषु प्रवेशप्रकारोक्त्या पादादिसङ्गतिः । पूर्वपक्षे भोक्तुरेकत्वादेकत्रैव भोगसिद्धिः ।
सिद्धान्ते भोक्तुरैक्येऽपि स्वेच्छया तस्यानेकत्र भोगोपपत्तिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
आत्मनो विभुत्वेऽपि मनस्येव चैतन्यव्यक्तेस्तदवच्छेदकैकदेहावस्थितस्य देहान्तरावेशायोगादन्तःकरणान्तरोपादानेऽपि तस्यानाद्यन्तःकरणाद्यवच्छिन्नस्य पुनरागन्तुकान्तःकरणावच्छेदासम्भवात्सम्भवे च जीवभेदाद्भोगाननुसन्धानप्रसङ्गादेकस्मादितराणि निरात्मकानीति प्राप्तमित्यर्थः ।
पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति -
एवमिति ।
तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
दीपादीनां भिन्नत्वेऽपि दीपत्वस्यैकत्वमेकवर्तिवर्तिदीपेषूपचर्य भिन्नवर्तिवर्तिनां दीपानां भिन्नतेति दृष्टान्तमुक्तवा दार्ष्टान्तिकमावेशशब्दितं दर्शयति -
एवमिति ।
तत्र हेतुत्वेनावशिष्टं सूत्रावयवं व्याचष्टे -
तथाहीति ।
यथा दारुयन्त्रं चैतन्यशून्यमपि चेतनेच्छामनुरुध्यते तथा निर्माणशरीराणि सेन्द्रियाणीति कस्मान्नाभ्युपगम्यते तेन निरात्मकत्वमेव शरीरान्तराणामित्याशङ्क्याह -
नैतदिति ।
यन्त्रवाहकस्य हि यन्त्राणि भिन्नानि निर्माय वाहयतोऽपि नानात्वेन व्यपदेशाभावाद्विदुषश्च तथा व्यपदेशात्तत्तद्देहोपाध्यवच्छेदो भातीत्यर्थः ।
तर्हि निर्माणदेहेष्वात्मान्तराणि सृजति विद्वानित्याशङ्क्याह -
नापीति ।
जीवान्तरावेशेऽपि नैतदवकल्पत इति सम्बन्धः । एकस्यानेकधाभावश्रुतिविरोधादननुसन्धानप्रसङ्गाच्चेत्यर्थः ।
शरीरान्तराणां निरात्मकत्वाभावे हेत्वन्तरमाह -
नचेति ।
आत्मानधिष्ठितानामचेतनानां प्रवृत्त्ययोगाद्भोगाभावप्रसङ्गाच्च शरीरान्तरेषु न निरात्मकत्वमित्यर्थः ।
पूर्वपक्षबीजमनुभाषते -
यत्त्विति ।
स्वतन्त्रानादिमनोभेदे सत्येव जीवभेदादेकमनःसङ्कल्पसमुत्थानात्तदायत्तानां मनसां भेदेऽपि जीवभेदाभावात्तत्तदुपाधिव्यक्तचैतन्यो विद्वानैश्वर्यभागित्युपगमे न किञ्चिदवद्यमिति परिहरति -
नेत्यादिना ।
एकमनोनुवर्तनमेकाभिप्रायाविरोधित्वम् । उक्तेऽर्थे योगशास्त्रसंमतिमाह -
एषैवेति ।
निर्माणचित्तान्यस्मितामात्रं प्रवृत्तिभेदप्रयोजकं चित्तमेकमनेकेषामित्यादिनैषैव प्रक्रियोक्तेत्यर्थः ॥ १५ ॥
मुक्तस्य यथोक्तमैश्वर्यं विशेषज्ञाननिषेधकश्रुतिविरुद्धमिति शङ्कते -
कथमिति ।
शङ्कोत्तरत्वेन सूत्रमवतारयति -
अत इति ।
प्रतिज्ञां व्याचष्टे -
स्वाप्यय इति ।
उक्तमेव व्यक्तीकर्तुं विभजते -
क्वचिदिति ।
तत्केन कमित्यादिकं वाक्यं क्वचिदित्युच्यते द्वितीयस्तु क्वचिच्छब्दः सलिलादिवाक्यगोचरः ।
हेतुभागमाकाङ्क्षाद्वारा व्याकरोति -
कथमित्यादिना ।
तत्रेत्युक्तवाक्यप्रकरणोक्तिः । तदधिकारः सुषुप्तिमोक्षयोरन्यतरस्य प्रकरणम् । तत्र समुत्थानवाक्यं यत्र सुप्तवाक्यं स्वापाधिकारविषयम् । यत्र त्वस्येति मोक्षाधिकारविषयमिति भेदः ।
विशेषज्ञानाभावाभिधानं सुप्तिमुक्त्योरन्यतराभिप्रायेणेत्युक्तम् । इदानीमैश्वर्याभिधानस्य सगुणविद्याविषयत्वेन भिन्नगोचरत्वान्न विरोधाशङ्केत्याह -
सगुणेति ।
कथं तर्हि सगुणविद्याफले मुक्तिशब्दप्रवृत्तिरित्याशङ्क्य सन्ध्यायां दिवाशब्दवत्प्रत्यासत्तिमात्रेणेति मत्वाह -
तस्मादिति ॥ १६ ॥
मनोेदेहसर्गादावुत्सर्गतो यदैश्वर्यमुपासितुरुक्तं तस्य जगत्सर्गेऽप्रमाणादपवादं दर्शयति
जगदिति ।
अपरब्रह्मणा सायुज्यं गतानामैश्वर्यं विषयीकृत्य तस्योभयथादृष्ट्या संशयमाह -
ये सगुणेति ।
सगुणब्रह्मविद्याफलभूतैश्वर्यस्य निरतिशयत्वनिवारणात्पादादिसङ्गतिः । पूर्वपक्षे विद्वदैश्वर्यस्य निरङ्कुशत्वादीश्वरभेदादनेकमत्या जगदुत्पत्यादिव्यवस्थाऽसिद्धिः ।
सिद्धान्ते तद्भेदाभावात्परमेश्वराधीनतया जगदुदयादिव्यवस्थोपपत्तिरित्यभिप्रेत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
श्रुतीनां श्रुतार्थग्रहेण पूर्वपक्षयित्वा सिद्धान्तयति -
एवमिति ।
तत्र प्रतिज्ञां विभजते -
जगदिति ।
तत्र हेतुद्वयं प्रश्नपूर्वकमाह -
कुत इति ।
ईश्वरस्य नित्यसिद्धस्यैव जगदुत्पत्त्यादिव्यापार इत्यत्र प्रकरणादिति हेतुं विवृणोति -
पर इति ।
प्रलयादुत्थानकाले सर्वस्य जगतो यः कर्ता तस्यैव स्थित्यादावपि कर्तृत्वोक्तेरन्यस्य चादिसर्गे कर्तृत्वाभावादीश्वरस्यैव जगद्व्यापारे संनिधिरित्याह -
तमेवेति ।
किञ्च परस्यैव नित्यत्वेन स्वहेत्वनपेक्षणस्य क्लृप्तशक्तित्वाज्जगत्सर्जनं प्रति कल्प्यसामर्थ्यत्वाच्च विदुषामीश्वरविषयैव जगत्सृष्टिरेष्टव्या ।
किञ्च पौर्वापर्यालोचनायामीश्वरस्यैव जगत्सर्गः शब्दाद्गम्यते । जन्मादिसूत्रमारभ्य चैतदुपपादितम् । ततोऽद्वितीयप्रतिज्ञा सिद्धैवेत्याह -
नित्येति ।
ईश्वरस्य जगद्व्यापारे संनिधिमुक्त्वा विदुषां तत्रासंनिधिमाद्यप्रतिज्ञासिद्ध्यर्थं समर्थयते -
तदन्वेषणेति ।
श्रुयते तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादाविति शेषः । सृष्ट्युत्तरभाविनामुपासकानां सृष्टिकाले सत्त्वाभावात्पूर्वकल्पसिद्धानां प्रलयकाले मुक्तत्वान्न स्रष्टृत्वादि तेषां श्लिष्टमित्यर्थः ।
इतश्च विदुषां न निरङ्कुशैश्वर्यमित्याह -
समनस्कत्वादिति ।
किं विदुषां समप्रधानत्वमाहो गुणप्रधानत्वम् । आद्ये समप्रधानानां नियमेनैकमत्यादर्शनादेकस्य सिसृक्षायमपरस्य सञ्जिहीर्षासम्भवादपर्यायमेव सर्गसंहारौ स्याताम् । अपरथा द्वयोरपि नेश्वरत्वं कार्यविघातादित्यर्थः ।
द्वितीयमनुभाष्य दूषयति -
अथेत्यादिना ।
एकाभिप्रायानुवर्तितायामन्येषामागन्तुकैश्वर्याणामगृह्यमाणविशेषतया कस्यचित्प्राधान्यायोगादनागन्तुकैश्वर्यपरमेश्वरवर्तित्वमितरेषामेषितव्यमित्यर्थः ॥ १७ ॥
पूर्वपक्षबीजमनूद्य दूषयति -
प्रत्यक्षेति ।
अनुवादभागं व्याकरोति -
अथेति ।
परिहारमवतारयति -
अत्रेति ।
नञर्थमुक्त्वा हेतुमवतार्य व्याचष्टे -
नेत्यादिना ।
अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकस्तत्र हेतुमाह -
यदिति ।
यस्मात्कारणात्स्वाराज्यप्राप्त्यनन्तरमाहाप्नोति मनसस्पतिमिति । यदि पूर्वमेव निरङ्कुशं स्वाराज्यमुक्तं तर्हि पश्चादीश्वरप्राप्तिवचनं न स्यात्तस्माद्भोगे स्वाराज्यं न तु जगतः स्रष्टृत्वादावित्यर्थः ।
विवक्षितार्थसिद्धये वाक्यार्थं कथयति -
यो हीति ।
विदुषामीश्वराधीनमैश्वर्यं स्वाराज्यमित्यत्र वाक्यशेषमनुकूलयति -
तदनुसारेणेति ।
परमेश्वराधीनमणिमादिलक्षणमैश्वर्यं विदुषां स्वाराज्यं न तु जगतः स्रष्टृत्वादीत्युक्तमर्थं तेषां सर्वेषु लोकेष्वित्यादिवाक्येषु सञ्चारयति -
एवमिति ॥ १८ ॥
निरतिशयैश्वर्यवदीश्वरोपासकास्तदात्मतां प्राप्ताः सातिशयैश्वर्यवन्तो भवन्तीत्ययुक्तं तदात्मत्वविरोधादित्याशङ्क्य ब्रह्मैक्येऽपि सगुणप्राप्तानां निर्गुणप्राप्त्यभाववदेतद्युक्तमिति वक्तुं ब्रह्मणो द्वैरूप्यमाह -
विकारावर्तीति ।
तत्र प्रतिज्ञाविभागं व्याचष्टे -
विकारेति ।
चकारसूचितमर्थमाह -
नेति ।
हेतुभागं व्याचष्टे -
तथाहीति ।
तत्र प्रथमतृतीयपादाभ्यां विकारवर्ति रूपमुच्यते द्वितीयचतुर्थपादाभ्यां विकारावर्ति ब्रह्मणो रूपमुक्तमिति भेदः ।
अस्तु ब्रह्मणो विकारावर्ति रूपं तथापि किं स्यात् , तत्राह -
नचेति ।
वस्तुतस्तथात्वेऽपि यथोपासनमेव तत्प्राप्तिरुपासनं च विध्यधीनं निरवग्रहमहत्त्वादिधर्मस्य चोपास्त्यगोचरत्वादनुपासितस्याप्राप्तिरिति फलितमाह -
अतश्चेति । ॥ १९ ॥
विकारावर्ति रूपमस्तीत्यत्रैव श्रुतिस्मृती प्रमाणयति -
दर्शयतश्चेति ।
प्रसिद्धे प्रत्यक्षानुमाने प्रत्याचक्षाणः सूत्राक्षराणि योजयति -
दर्शयतश्चेत्यादिना ।
उक्तेऽर्थे सुलभानि श्रुतिस्मृतिवचनानीति मन्वानो वाक्यार्थमाह -
तदेवमिति ॥ २० ॥
अपरब्रह्मविदां विश्वस्रष्टृत्वाद्यभावे हेत्वन्तरमाह -
भोगमात्रेति ।
न केवलं स्वाराज्यस्य परमेश्वरायत्ततया विदुषां जगद्व्यापारराहित्यं किन्तु तेन भोगमात्रेण साम्योक्तिलिङ्गादपीत्यर्थः ।
चकारार्थमाह -
इतश्चेति ।
हेत्वन्तरमेवावशिष्टसूत्राक्षरयोजनया स्पष्टयति -
यस्मादिति ।
तं ब्रह्मलोकगतमुपासकं हिरप्यगर्भः स्वसमीपमुपागतं सानुनयमाह - मया खल्वाप एवामृतमय्यो मीयन्ते दृश्यन्ते भुज्यन्ते तवाप्यसावमृतरूपोदकलक्षणो लोको भोग्यो यथासुखं भुज्यतामित्याह -
तमाहेति ।
उपासकस्योपास्यदेवतया भोगमात्रसामान्ये श्रुत्यन्तरमाह -
स यथेति ।
सशब्दो दृष्टान्तपरः । अवन्ति भजन्ते ।
तत्रैव वाक्यान्तरमाह -
तेनेति ।
उशब्दोऽप्यर्थः । सलोकतामपीति सम्बध्यते । प्रकृतेनोपासनेनोपास्याया देवतायाः सायुज्यं तेन समानदेहतां समानलोकतां च भावनाविशेषादाप्नोतीत्यर्थः ॥ २१ ॥
विदुषां निरङ्कुशैश्वर्याभावे दोषमाशङ्कते -
नन्विति ।
सह परमेश्वरस्यैश्वर्येणातिशयेन वर्तत इति सातिशयं विदुषामैश्वर्यं तथाच परमेश्वराधीनत्वाल्लौकिकैश्वर्यवत्कार्यं कार्यत्वाच्चान्तवदित्यर्थः ।
विद्वदैश्वर्यस्यान्तवत्त्वे का क्षतिरित्याशङ्क्य विदुषां मुक्तता न स्यादित्याह -
ततश्चेति ।
एतदुत्तरत्वेनोत्तरसूत्रं सूत्रकारं पूजयन्नवतारयति -
अत इति ।
भगवानित्यनेन सर्वज्ञत्वादिसम्पत्तिरुक्ता । आचार्यशब्देन शास्त्रार्थबहुलीकरणं सदाचारे शिष्याणां स्थापनं स्वयं तदाचरणं चेत्यत्र नैपुण्यमुक्तमिति भेदः ।
यत्तु सातिशयत्वेन कार्यत्वं ततश्चान्तवत्त्वमित्यनुमानं तत्र किमैश्वर्यस्यान्तवत्त्वमात्रं साध्यं किंवा मुक्त्यभावो विदुषामिति विकल्प्याद्ये सिद्धसाध्यत्वं मत्वा द्वितीये क्रममुक्तिवादिश्रुतिविरोधमाह -
अनावृत्तिरिति ।
सूत्रस्थं प्रतिज्ञापदं व्याचष्टे -
नाडीति ।
अर्चिरादिपदोक्तदेवयानं पन्थानं स्मारयितुं विशेषणद्वयम् । ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य भुक्तभोगास्ततो नावर्तन्त इति सम्बन्धः ।
कानि तानि शास्त्रो क्तानि विशेषणानीत्युक्ते यथाशास्त्रं तान्यनुक्रामति -
यस्मिन्निति ।
इतो लोकात्पृथिवीशब्दितात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नरण्यसंज्ञौ द्वावर्णवावित्यर्थः ।
तस्मिन्नेवान्नमयं हर्षकरं च सरोऽस्तीत्याह -
यस्मिन्नैरमिति ।
सोमसवन इत्यत्र सोमशब्दोऽमृतवचनः । कर्मज्ञानशून्यानां दुष्प्रापत्वमपराजितत्वम् । ब्रह्मणो हिरण्यगर्भस्येति यावत् । प्रभुशब्दोऽपि हिरण्यगर्भमेवाधिकरोति ।
उक्तविशेषणवति ब्रह्मलोके मानमाह -
यश्चेति ।
चन्द्रलोकादिवेति वैधर्म्योदाहरणम् ।
प्रतिज्ञामेवं व्याख्याय मोक्षहेतुमाकाङ्क्षापूर्वकं व्याख्याति -
कुत इत्यादिना ।
ननु दर्शितानामनावृत्तिश्रुतीनामर्थवादत्वादविरोधे प्रामाण्यमिति नानुमानापबाधने सामर्थ्यमिममिहेति च विशेषणात्कल्पान्तरे भवत्यावृत्तिरिति, तत्राह -
अन्तवत्त्वेऽपीति ।
ये तावदूर्ध्वरेतसः स्वाश्रमधर्ममात्रनिष्ठा ब्रह्मचर्येण ब्रह्मलोकमधिरूढास्तेषामन्तरेण विद्यां बन्धध्वंसासिद्धेरस्त्येवावृत्तिः । ये तु सगुणोपासकास्तेषामैश्वर्यस्य कल्पमात्रस्थायित्वेऽपि क्रममुक्तिविवक्षयाऽनावृत्तिरविरुद्धेत्यर्थः ।
सगुणब्रह्मविदामेवानावृत्तिरत्र प्रतिपाद्यते न निर्गुणब्रह्मविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह -
सम्यगिति ।
सगुणब्रह्मविदामपि ब्रह्मलोकगतानां तत्रोत्पन्नसम्यग्दर्शनप्रसादादेव मुक्तिरिति स्थिते सम्यग्दर्शिनामनावृत्तिः सुतरां सिध्यतीति कैमुतिकन्यायमाह -
तदाश्रयणेनेति ।
उपासकानामीश्वरायत्तमैश्वर्यं न निरतिशयमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् । सूत्राभ्यासस्य प्रयोजनमाह -
अनावृत्तिः शब्दादिति ।
यत्राध्यायपरिसमाप्तिरेव तत्र पदस्यैवाभ्यासो दृष्टः प्रकृते सूत्रस्यैवाभ्यासाच्चतुर्लक्षणस्य वेदान्तमीमांसाशास्त्रस्य समन्वयाविरोधसाधनफलानां साकल्येनोक्तत्वाद्वक्तव्यानवशेषात्परिसमापनमुचितमिति भावः ॥ २२ ॥