अद्वैतशारदा

न्यायरक्षामणिः

प्रथमोऽध्यायः (१)

प्रथमः पादः

उद्घाट्य योगकलया हृदयाब्जकोशं
धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फु­र­त्य­वि­रतं परिपूर्णरूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १॥

यस्याहुरागमविदः परिपूर्णशक्ते –
रंशे कियत्यपि निविष्टममुं प्रपञ्चम् ।
तस्मै तमा­ल­रु­चि­भा­सु­र­क­न्ध­राय
नारायणीसहचराय नमः शिवाय ॥ २ ॥

आसेतुबन्धतटमा च तुषारशैला –
दाचार्यदीक्षित इति प्रथिताभिधानम् ।
अद्वै­त­चि­त्सु­ख­म­हा­म्बु­धि­म­ग्न­भाव –
मस्म­त्पि­ता­म­ह­म­शे­ष­गुरुं प्रपद्ये ॥ ३ ॥

यं ब्रह्म निश्चितधियः प्रवदन्ति साक्षात्
तद्द­र्श­ना­द­खि­ल­द­र्श­न­पा­र­भाजः ।
तं सर्व­वे­द­स­म­शे­ष­बु­धा­धि­राजं
श्रीर­ङ्ग­रा­ज­म­खिनं गुरुमानतोऽस्मि ॥ ४ ॥

वेद­वि­भा­ग­वि­धात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सक­ल­धृ­ति­हे­तु­सा­ध­न­सू­त्र­सृजे सत्य­व­त्य­भि­व्य­क्ति­मते ॥ ५ ॥

यो नाना­भा­ष्य­शा­खो­दि­त­फ­ल­वि­तति प्रौढ़­ना­ना­र­साढ्यो
यस्मिन् मूले निरूढं फलमधिकतरं स्वाद्व­ना­रु­ह्य­ल­भ्यम् ।
यस्य प्रेक्षैव देह­द्व­य­त­द­नु­ग­त­प्र­त्य­गर्थौ विवेक्त्री
सूत्रात्मा पारिजातः सकलमभिमतं मह्यमर्थं स दद्यात् ॥ ६॥

नानाभाष्यादृता सा सगु­ण­फ­ल­ग­ति­र्वै­ध­वि­द्या­वि­शेषैः
तत्त­द्दे­शा­प्ति­रम्या सरिदिव सकला यत्र यात्यंशभूयम् ।
तस्मि­न्ना­न­न्द­सि­न्धा­व­ति­म­हति फले भाव­वि­श्रा­न्ति­मुद्रा
शास्त्र­स्यो­द्घा­टिता यैः प्रणमत हृदि तान् नित्य­मा­चा­र्य­पा­दान् ॥ ७ ॥

अधिगतभिदा पूर्वा­चा­र्या­नु­पेत्य सहस्रधा
सरिदिव महीभागान् संप्राप्य शौरिपदोद्गता।
जयति भग­व­त्पा­द­श्री­म­न्मु­खा­म्बु­ज­नि­र्गता
जननहरणी सूक्ति­र्ब्र­ह्मा­द्व­यै­क­प­रा­यणा ॥ ८ ॥

एनां पुरा­ण­प­द­वी­म­नु­सृत्य सत्याम्
अत्यादरेण मह­ती­म­नु­पा­ल्य­मा­नाम् ।
शारी­र­का­भ­र­ण­भा­व­जुषां नयानां
रक्षाकरं मणि­म­ना­वि­ल­मु­ल्लि­खामि ॥ ९॥

अमुं शारी­र­क­न्या­य­क­ला­प­प­रि­क­र्मि­तम् ।
अदृष्टिदोषहरणं कण्ठे कुरुत सन्मणिम् ॥१०॥

अथातो ब्रह्मजिज्ञासा । १।

अत्र शास्त्रा­र­म्भो­प­यो­गि­ब्र­ह्मा­त्मै­क्य­ल­क्ष­ण­वि­ष­य­प्र­यो­ज­न­वि­रो­धिनः कर्तृ­त्वा­दि­ब­न्धस्य अध्या­सा­त्म­क­त्व­प्र­द­र्श­नेन तदु­भ­यो­प­पा­द­न­द्वारा शास्त्रारम्भः समर्थ्यते ।

ननु बन्धो न ब्रह्मा­त्मै­क्य­वि­रोधी, वस्तुतो बद्धस्यैव जीवस्य बन्धरहितेन ब्रह्मणा ऐक्यस्य श्रुति­प्रा­मा­ण्या­द­ङ्गी­कर्तुं शक्यत्वात् । न च विरु­द्ध­ध­र्मा­क्रा­न्त­यो­र्भे­द­नि­य­मस्य दृष्टत्वेन दृष्ट­नि­य­म­वि­रो­धात् श्रुतिरपि तदभेदं बोधयितुं न शक्नोतीति वाच्यम् । बन्ध­मि­थ्या­त्वा­र्थ­मपि प्रत्य­क्षा­दिभ्यः श्रुतेः प्राबल्यस्य सिद्धान्ते व्युत्पाद्यतया तत एव उदा­हृ­त­लो­क­दृ­ष्ट­नि­य­म­स्यापि आभा­सी­क­र­ण­स­म्भ­वात् इति चेत् , सत्यम् ; तथापि प्रत्य­ग्ब्र­ह्मैक्ये महावाक्यस्येव बन्धमिथ्यात्वे त्वंप­दा­र्थ­शो­ध­क­वा­क्यानां तद­नु­ग्रा­ह­क­न्या­यानां च विद्यमानतया तत्प्र­द­र्श­न­द्वा­रेण शुद्धस्य जीवस्य ब्रह्मणा ऐक्यमिति वस्तु­ग­ति­म­नु­रु­ध्यैव वादकथारूपेऽत्र शास्त्रे पूर्वपक्षः परिहरणीयः । न हि – हिंसा­वि­धि­त­न्नि­षे­ध­वि­ष­य­भे­द­न्या­या­न­भि­ज्ञेन वादकथायां ‘श्येनेन यजेत’ इति­वा­क्य­म­यु­क्तार्थं श्येनपक्षिणः पुरो­डा­शा­दि­व­द्या­गी­य­द्र­व्यत्वे अहिं­सा­शा­स्त्र­वि­रो­धात् इति शङ्किते, श्येना­ङ्ग­प­शु­ष्वा­व­श्य­के­नापि विष­य­भे­द­न्या­यो­प­न्या­सेन तत्समाधानं उचितम् ; किन्तु वस्तु­स्थि­ति­म­नु­स­रता वाक्य­शे­ष­मु­दा­हृत्य कर्म­ना­म­धे­य­त्वो­प­न्या­से­नैव तत् समाधातव्यं इत्यभिप्रेत्य बन्ध­स्या­ध्या­सा­त्म­क­त्व­मत्र प्रदर्श्यते ।

ननु तथापि नात्र तत् प्रदर्शनीयम् , तद­न­न्य­त्वा­धि­क­रणे सर्वस्य च प्रपञ्चस्य ब्रह्म­ण्य­ध्य­स्त­तायाः प्रसा­ध­यि­ष्य­मा­ण­त्वेन तत एव जीव­ध­र्मा­णा­म­प्य­ध्य­स्त­ता­सिद्धेः । विशिष्य च ‘तद्गु­ण­सा­र­त्वात्.........’(ब्र. सू. २. ३. २९) इति सूत्रे तेषा­म­ध्य­स्त­तायाः प्रद­र्श­यि­ष्य­मा­ण­त्वात् । तत्रापि कर्तृ­त्व­स्या­ध्य­स्त­तायाः । ‘यथा च तक्षोभयथा’(ब्र. सू. २. ३. ४०) इत्यधिकरणे प्रति­ष्ठा­प­यि­ष्य­मा­ण­त्वात् । ब्रह्मा­त्मै­क्य­मपि नेहोपपादनीयम् , ‘अंशो नाना­व्य­प­दे­शात्....’(ब्र. सू. २. ३. ४३), ‘आत्मेति तूप­ग­च्छन्ति....’(ब्र. सू. ४. १. ३.) इत्य­धि­क­र­ण­यो­रु­प­पा­द­यि­ष्य­मा­ण­त्वात् – इति चेत् – सत्यम् ।

उत्तरत्र साध­यि­ष्य­मा­ण­स्यै­वा­र्थस्य शास्त्रा­र­म्भो­प­यो­गि­तया स्मर­णा­र्थ­मि­द­मा­द्या­धि­क­र­णस्य प्रथमवर्णकम् । यथा पूर्वतन्त्रे ‘अथातो धर्मजिज्ञासा(जै. सू. १.१.१.) इत्याद्यधिकरणं ‘कर्म वा विधिलक्षणम्’(जै. सू.९.२.३.) इति नाव­मि­का­धि­क­र­ण­सि­द्ध­स्यैव स्वाध्या­य­स्या­र्थ­ज्ञा­न­प­र्य­न्त­त्वस्य शास्त्रा­र­म्भो­प­यो­गि­तया स्मरणार्थम् । यथा वा तत्र — ‘यज्ञकर्म प्रधानं तद्धि चोदनाभूतम्’(जै.सू. ९.१.१.) इति नव­मा­ध्या­या­द्या­धि­क­र­ण­प्र­थ­म­व­र्णकं ऊह­वि­चा­रा­र­म्भो­प­यो­गि­तया सप्त­मा­द्य­व्यु­त्पा­दि­तस्य धर्मा­णा­म­पू­र्वा­र्थ­त्वस्य स्मरणार्थम् । यथावा तत्रैव ‘सामानि मन्त्रमेके स्मृत्यु­प­दे­शा­भ्याम्’(जै. सू. ९. २. १.) इति नव­म­द्वि­ती­य­पा­दा­द्या­धि­क­र­ण­प्र­थ­म­व­र्णकं सामो­ह­वि­चा­रा­र­म्भो­प­यो­गि­तया सप्त­म­द्वि­ती­य­पादे व्युत्पादितस्य रथ­न्त­रा­दि­श­ब्दानां गीति­वि­शे­ष­मा­त्र­वा­च­क­त्वस्य स्मरणार्थम् । एवं स्मर­णा­र्थेऽ­प्य­स्मिन् वर्णके श्रोतॄणां सुख­प्र­ति­प­त्त्य­र्थम् उपो­द्धा­त­प्र­क्रि­यायां प्रवृत्तो भगवान् भाष्यकृत् आक्षे­प­स­मा­धा­नाभ्यां बन्धमिथ्यात्वं व्युदपीपददिति न किञ्चिदवद्यम् ।

यद्वा उदा­हृ­ता­धि­क­र­णा­ना­मस्य च मुखभेदेन प्रवृत्तेः औदु­म्ब­रा­धि­क­र­ण­न्या­येन पर्ण­म­य्य­धि­क­र­ण­न्या­येन च न पौनरुक्त्यम् । तथाहि – विय­त्पा­दी­या­न्य­धि­क­र­णानि जीव­ग­ता­णु­त्वो­त्क्रा­न्ति­ग­त्या­ग­ति­क­र्तृ­त्व­जी­व­भे­द­श्रु­ति­वि­रो­ध­स­मा­धा­नेन जीव­ब्र­ह्मा­भे­दो­प­पा­द­ना­र्थानि , न तु क्वचिदपि विषये प्रत्य­क्ष­वि­रो­ध­स­मा­धा­नेन । ‘आत्मेति तूप­ग­च्छन्ति....’(ब्र. सू. ४. १. ३२.) इत्यधिकरणमपि जीवस्य ब्रह्मभावोऽस्ति चेत् संसारदशायामपि प्रकाशेत, अवि­द्याऽऽ­वृ­तत्वे जीवभावोऽपि न प्रकाशेत, तस्मिन् निर्विशेषे च नांशभेदकल्पना प्रमाणवती, इति प्रका­शा­प्र­का­श­वि­रो­ध­स­मा­धा­नेन तदुपपादनार्थम् । तद­न­न्य­त्वा­धि­क­रणं यद्यपि विश्वमिथ्यात्वे प्रत्य­क्षा­दि­वि­रो­ध­स­मा­धा­नार्थं भवति, तथापि तत्र अद्वैतश्रुतीनां प्रत्य­क्षा­दिभ्यः प्राब­ल्य­स­म­र्थ­नेन तद्विरोधः समाधास्यते ।

अस्मिं­स्त्व­धि­क­रणे प्रत्य­क्षा­दिभ्यः श्रुतीनां स्वतस्सिद्धं प्रसिद्धं प्राबल्यं अनुद्घाट्यैव जीव­ग­त­ब्र­ह्मा­त्मै­क्य­वि­रो­धि­क­र्तृ­त्वा­दि­ग्रा­हि­प्र­त्य­क्षस्य गौरोऽ­ह­मि­त्या­दि­प्र­त्य­क्ष­भ्र­म­तु­ल्या­का­र­त्वे­ना­प्रा­मा­ण्य­श­ङ्का­क­लु­षि­त­तया न श्रुति­बा­ध­न­क्ष­म­त्व­मिति विरोधः समाधीयते – इति सर्वमनाकुलम् ॥

अत्र शारी­र­क­मी­मां­सा­शा­स्त्र­मि­द­मा­र­म्भ­णीयं न वा इति विष­य­प्र­यो­ज­न­स­म्भ­वा­स­म्भ­वाभ्यां संशये पूर्वपक्षः – नारम्भणीयमिदं शास्त्रं विष­य­प्र­यो­ज­ना­स­म्भ­वात् । ब्रह्मात्मैक्यं ह्यस्य विषयः प्रयोजनं च इत्यभिमतम् । न च कर्तृ­त्व­भो­क्तृ­त्वा­दि­मतो जीवस्य तद्वि­प­री­त­स्व­रू­पेण ब्रह्मणा ऐक्यं सम्भवति । न च तत्त्व­म­स्या­दि­वा­क्यै­स्त­दै­क्य­सिद्धिः, विरु­द्ध­ध­र्म­व­तो­र्भे­द­स्या­व­श्यं­भा­वि­त्वेन तादृ­ग्वा­क्य­स­ह­स्रे­णापि तदैक्यासिद्धेः । न च वाच्यं कर्तृ­त्व­भो­क्तृ­त्वा­दिकं अन्तःकरणस्य तत्संवलितस्य वाऽहङ्कारस्य धर्मः, निष्कृष्टरूपो जीवस्त्वसङ्ग एव, ‘कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति­र­धृ­ति­र्ह्री­र्धी­र्भी­रि­त्ये­तत् सर्वं मन एव’(बृ. १. ५. ३.), ‘विज्ञानं यज्ञं तनुते’(तै.उ. २. ५. १.), ‘‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः’(क.ठ. १. ३. ४.) ‘असङ्गो ह्ययं पुरुषः’(बृ. ४. ३. १५.), ‘असङ्गो न हि सज्जते’(बृ. ३. ९. २६.) इत्यादि श्रुतिभ्यः इति । अहं कर्ता भोक्ते­त्या­दि­प्र­त्य­क्षेण अहमनुभवे प्रकाशमानस्य जीवस्य कर्तृ­त्वा­दि­म­त्त्वेन गृह्यमाणतया तत्र असङ्गश्रुत्या तद­भा­व­बो­ध­ना­यो­गात् । तदन्यस्य जविस्य सिद्धा­न्तेऽ­प्य­न­ङ्गी­कृ­त­त्वात् ।

स्यादेतत् – स्थूलोऽहं कृशोऽहं अन्धोऽहं बधिरोऽहं कर्ता भोक्ता सुखी दुःखी इत्या­का­रोऽ­हं­प्र­त्ययः स्थूलत्वादिषु बहुष्वंशेषु देहे­न्द्रि­य­ता­दा­त्म्य­त­द्ध­र्मा­ध्या­स­रू­प­तया दृष्टविसंवादः कर्तृ­त्वा­द्यं­शेऽ­प्य­प्रा­मा­ण्य­श­ङ्का­क­लु­षि­त­तया प्रती­त­कौ­ट­सा­क्ष्य­पु­रु­ष­कल्पो न श्रुतिबाधनक्षमः इति चेत् , न ; मम देहः मम चक्षुः मम श्रोत्रं मम मनः इत्यादिरूपेण जीवात् परस्परं च विभक्तत्वेन भासमानानां देहे­न्द्रि­या­दीनां युग­प­दे­क­जी­वै­क्या­ध्या­सा­यो­गेन स्थूलोऽ­ह­मि­त्या­दि­सा­मा­ना­धि­क­र­ण्यस्य अहमेव चैत्रः, सिंहो देवदत्तः इत्या­दि­नि­श्चि­त­भे­द­ध­र्मि­द्व­य­सा­मा­ना­धि­क­र­ण्य­वत् गौणत्वात् । नचैवं अहं­क­र्ते­त्या­द्यं­शेऽपि गौणत्वं शङ्काऽऽस्पदम् ; कदाचित् ममशरीरं स्थूल­मि­त्या­दि­व्य­व­हा­र­वत् कदाऽपि मममनःकर्तृ इत्या­दि­व्य­व­हा­र­स्या­द­र्श­नेन तत्र गौण­त्व­क­ल्प­नाऽ­यो­गात् । तस्मात् अप्रा­मा­ण्य­श­ङ्काऽ­ना­स्प­द­प्र­ब­ल­प्र­त्य­क्ष­वि­रो­धेन श्रुतयोऽन्यथा व्याख्येयाः इति विष­य­प्र­यो­ज­न­र­हि­त­मिदं शास्त्रं नारम्भणीयमिति ॥

अत्र सिद्धान्तः – स्थूलोऽ­ह­मि­त्यादिः अध्यास एव न गौणः, गौणत्वे कदाचित् नाहं चैत्रः न देवदत्तः सिंहः इतिवत् कदाचित् नाहं स्थूलः इत्यादिरूपस्य भेदव्यवहारस्य लौकिकसाधारण्येन उत्प­त्ति­प्र­स­ङ्गात् । मम देहः मम चक्षुः इत्या­दि­भे­द­व्य­व­हारो दृश्यत इति चेत् , न ; षष्ठ्याः सम्ब­न्धा­र्थ­क­त्वेन ततो भेदालाभात् । सम्बन्धस्य च अप­वा­द­क­भे­द­प्र­त्य­य­र­हि­त­सा­मा­ना­धि­क­र­ण्या­नु­रो­धेन भेदाविरोधेनैव कल्पनोपपत्तेः । कार्य­का­र­णा­भे­द­वा­दिनां ब्रह्म­प्र­कृ­त्या­दि­कार्यं जगत् तदभिन्नम् , सौवर्णं कुण्डलम् , इत्यादौ, सर्वेषामपि सदा कालोऽस्ति , सर्वत्र देशोऽस्ति , इत्यादौ च भेदेऽपि कार्य­का­र­ण­भा­वा­दि­स­म्ब­न्धस्य संप्र­ति­प­न्न­त्वात् ।

एतेन – ‘योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणप्तॄन् पश्यामि’, ‘योऽहं स्वप्ने व्याघ्रदेहः सोऽहमिदानीं मनुष्यदेहः’ इति देहा­त्म­भे­दा­नु­भवौ दृश्येते इति – निरस्तम् ।

अनयोरपि देहा­त्म­स­म्ब­न्धा­नु­भ­व­व­देव भेदा­स्प­र्शि­त्वात् । तथाऽपि व्यावृ­त्त­दे­ह­भे­द­का­त्मा­नु­वृ­त्ति­वि­ष­या­विमौ देहात्माभेदे सम्ब­न्ध­प्र­त्य­य­वन्न शक्योपपादनौ इति चेत् – न, आद्यस्य — ‘योऽयं बाल्ये मम देहः तथा पुष्ट आसीत् स एवाद्य वार्धके क्रशीयान् जातः’ इत्यनुभववत् वस्तुतो बाल­स्थ­वि­र­दे­है­क्येन तदैक्याध्यासेन वा उपपत्तेः । द्वितीयस्य कल्पि­ता­क­ल्पि­त­व्या­घ्र­त्व­म­नु­ष्य­त्व­गो­च­रस्य ‘योऽयं स्थाणुः अयं पुमान्’ इति कल्पि­ता­क­ल्पि­त­स्था­णुत्व पुरु­ष­त्व­गो­च­रा­नु­भ­वस्य पुरुषे इदमर्थाभेदे इव मनु­ष्य­दे­हा­त्मा­भे­देऽ­प्यु­प­पत्तेः । अस्तु वा ‘ममदेहः’ ‘योऽहं स्वप्ने व्याघ्रदेहः’ इत्य­दे­र्दे­हा­त्म­भे­द­गो­च­रत्वं ; तथाऽपि न स्थूलोऽ­ह­मि­त्या­द्य­ध्या­सा­नु­प­पत्तिः । केनचिद्रूपेण भेदप्रत्ययस्य तदन्येन रूपेण अध्या­सा­वि­रो­धि­त्वात् । ‘स्फटिकोऽयं न जपाकुसुमम्’ इति प्रत्य­क्ष­नि­श्च­य­व­तोऽपि स्फटिके लोहितात्मना जपा­कु­सु­मा­ध्या­स­द­र्श­नात् । देव­द­त्त­स­मी­प­ग­त­यो­र­धी­या­ना­न­धी­या­नयोः पुरु­ष­त्व­सा­मा­न्येन गृह्य­मा­ण­यो­श्चै­त्र­मै­त्रयोः देवदत्तपिण्डात् परस्परस्माच्च भेदेन गृह्यमाणयोरपि देवदत्ते ‘मैत्रोऽ­य­म­धी­या­न­स्ति­ष्ठति’ इति चैत्र­मै­त्रो­भ­या­ध्या­स­द­र्श­नाच्च । एतेन – परस्परं भेदन गृह्य­मा­ण­यो­र्दे­हे­न्द्रि­य­यो­रे­क­स्मि­न्ना­त्म­न्य­ध्या­सोऽ­नु­प­पन्नः इत्यपि शङ्का निरस्ता ।

तस्मात् ‘स्थूलोऽहं अन्धोऽहम्’ इत्या­दि­सा­मा­ना­धि­क­र­ण्य­म­ध्या­स­नि­ब­न्ध­न­मे­वेति बहुष्वंशेषु दृष्टविसंवादतया पूति­कू­श्मा­ण्डा­य­मा­नोऽ­हं­प्र­त्ययः कर्तृ­त्वा­द्यं­शेऽपि न श्रुतिबाधनक्षमः ।

अतो देहे­न्द्रि­या­न्तः­क­र­णा­त्मसु ऐक्येन भासमानेषु तद्गततया प्रतीयमानानां धर्माणां मध्ये स्थूलत्वादयो देहधर्माः अन्धत्वादय इन्द्रियधर्माः काम­स­ङ्क­ल्पा­द­योऽ­न्तः­क­र­ण­धर्माः आनन्दादयः प्रत्यग्धर्माः इति श्रुतिप्राप्ता व्यवस्था स्वीकर्तुं युक्ता । सा च मम देहःस्थूलः मम चक्षुरन्धं मम मनःकामयते मम मनस्सङ्कल्पयते इत्या­द्य­नु­भ­वे­ना­प्य­नु­मो­दिता । दृश्यते च पृथिवीजलादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनां ‘उप­ल­भ्या­प्सु­चे­द्गन्धं केचि­द्ब्रू­यु­र­नै­पुणाः । पृथिव्यामेव तं विद्यादपो वायुञ्च संश्रितम्’ इत्याद्यागमेन व्यवस्था । न ह्याजा­न­सि­द्ध­ज­लो­प­ष्ट­म्भ­का­दि­गतं गन्धादि ‘पृथिवीगुण एव गन्धो न जलगुणः’ इत्यादिरूपेण अस्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम् ।

पृथिव्यादीनां प्रायः पर­स्प­र­सं­सृ­ष्ट­तया अन्य­गु­ण­स्या­प्य­न्य­त्रा­व­भा­स­स्स­म्भ­व­ती­ति­श­ङ्कि­त­दोषं प्रत्यक्षं तत्र आगमेन शिक्ष्यते इति चेत्

तर्हीहापि आत्मा­ना­त्म­नो­रा­ध्या­सि­क­ता­दा­त्म्या­पत्त्या अन्य­ध­र्म­स्या­प्य­न्य­त्रा­व­भा­स­स्स­म्भ­व­तीति शङ्कितदोषं प्रत्यक्षं श्रुत्या शिक्ष्यते इति तुल्यम् ।

ननु जला­द्यु­प­ष्ट­म्भ­क­पृ­थि­व्या­दि­सं­प्र­ति­प­त्ति­वत् आत्म­न्या­ध्या­सि­क­ता­दा­त्म्या­प­न्न­का­म­सं­क­ल्पा­दि­म­द­ना­त्म­सं­प्र­ति­प­त्ति­र्ना­स्तीति चेत्

न – निर्मलेष्वपि जलादिषु उप­ष्ट­म्भ­क­पृ­थि­व्या­दि­स­द्भावे इव आत्म­न्या­ध्या­सि­क­ता­दा­त्म्या­प­न्ना­ना­त्मां­श­स­द्भा­वेऽपि आग­म­स्या­वि­शि­ष्टत्वे असं­प्र­ति­प­त्ते­र्नि­मू­ल­त्वात् । न हि निर्मलजलादिषु उप­ष्ट­म्भ­क­पृ­थि­व्या­दि­स­द्भावे आगमादन्यत् शरणमस्ति । गन्धादिनैव तदनुमाने, गन्धा­दि­गु­ण­व्य­व­स्था­सिद्धौ तदनुमानं तदनुमानेन तद्व्य­व­स्था­सिद्धिः इत्य­न्यो­न्या­श्र­यात् ।

तस्मात् यथा ‘पृथिव्यामेव तं विद्यात्’ इत्यागमेनैव जलादिषु उप­ष्ट­म्भ­क­स­द्भावः गन्धादीनां तद्ध­र्म­त्व­नि­य­मश्च अवगन्तव्यः तथा ‘योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः स समानस्सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’(बृ. ४. ४. २२) इत्यादिश्रुत्या ‘विज्ञानमय’ इति जीवस्य संसरणे बुद्धि­प्र­धा­नत्वं, ‘स समान’ इति सामा­न्य­त­स्त­त्सा­मा­न्या­पत्तिं, ‘ध्यायतीव लेलायतीव’ इति ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां चलतीव नायं स्वतो ध्यायति चलति वा इति तद्विशेषविवरणं च कुर्वत्या, अन्याभिश्च एता­दृ­शी­भि­श्श्रु­तिभिः विव­र­णा­दि­प्र­द­र्शि­ता­ह­म­र्था­ना­त्म­त्व­स­म­र्थ­नो­प­प­त्त्यु­प­बृं­हि­ताभिः आत्म­न्या­ध्या­सि­क­ता­दा­त्म्या­प­न्ना­ना­त्मां­श­स­द्भावः काम­स­ङ्क­ल्पा­दीनां तद्ध­र्म­त्व­नि­य­मश्च अवगन्तव्य इति न कश्चिद्विशेषः ।

तस्मात् बन्ध­ग्रा­हि­प्र­त्य­क्षा­बाध्यैः त्वंप­दा­र्थ­शो­ध­क­वाक्यैः शुद्धतयाऽवगतस्य जीवस्य ब्रह्मै­क्य­स­म्भ­वेन विष­य­प्र­यो­ज­न­व­त्त्वात् इदं शास्त्र­मा­र­म्भ­णी­य­मिति सिद्धम् । वर्णकान्तराणां तु प्रपञ्चनं ग्रन्थान्तरेषु द्रष्टव्यम् ॥

सूत्रस्य नित्या­नि­त्य­व­स्तु­वि­वे­का­दि­मु­मु­क्षु­त्वा­न्त­सा­ध­न­च­तु­ष्ट­य­सं­प­त्त्य­न­न्तरं तत्सम्पत्तेरेव हेतोः मोक्ष­सा­ध­न­प्र­त्य­ग­भि­न्न­नि­र्वि­शे­ष­ब्र­ह्म­ज्ञा­नाय वेदान्तविचारः कर्तव्यः इत्यर्थः ।

कथ­मे­ता­वा­न­र्थोऽ­स्मात् सूत्रात् लब्धः इति चेत् –

उच्यते – अथ­श­ब्द­स्ता­व­दा­न­न्त­र्यार्थः, न च ब्रह्मविचारे पुष्क­ल­का­र­णा­न­न्त­र्य­म­प­हाय यत्कि­ञ्चि­दा­न­न्त­र्य­स्या­भि­धानं फलवत् , न च साध­न­च­तु­ष्ट­या­द­न्यत् कर्म­का­ण्ड­वि­चा­रादि तत्र पुष्कलकारणं भवितुमर्हति , इति साध­न­च­तु­ष्ट­य­सं­प­त्त्य­न­न्त­र­मि­त्य­य­मर्थः अथशब्देन लब्धः ।

अत एव तत्संपत्तेरेव हेतोरित्ययमर्थः प्रकृतस्य हेतु­त्वा­भि­धा­यिना अतश्शब्देन वक्तुं शक्यः । यद्यपि आन­न्त­र्या­भि­धा­न­मु­खेन साधनचतुष्टयस्य हेतुत्वं अथशब्देनैव लब्धम् , तथाऽपि अतश्शब्देन हेतुत्वस्यैव पुनः­प­रा­म­र्श­रू­पा­द्य­त्ना­न्त­रात् नित्या­नि­त्य­वि­वे­का­द्य­स­म्भ­व­श­ङ्का­नि­रा­स­सू­च­नेन तद्धेतुत्वमेव प्रतिष्ठाप्यते । इह हि इत्थं शङ्काऽवतरति – ब्रह्मैव नित्यं तदन्यत् अनित्यं इति विवेको न सम्भवति , ‘अक्षय्यं ह वै चातु­र्मा­स्य­या­जिनः सुकृतं भवति’ इत्यादिश्रुत्या कर्मफलस्यापि नित्य­त्वा­व­ग­मा­दिति । ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.८.१.६.) इत्या­दि­स्व­द­र्शि­ता­नु­मा­नो­पो­द्ब­लि­त­श्रु­ति­प्रा­ब­ल्येन च तन्निरासः ।

ब्रह्म प्रत्यगभिन्नं निर्विशेषं इति प्रक­र­णो­प­प­दा­दि­स­ङ्को­च­क­रा­हि­त्येन निर­ति­श­य­बृ­ह­त्त्व­वा­चिना ब्रह्मशब्देनैव च लब्धम् । जिज्ञासेत्यनेन ब्रह्म­ज्ञा­ना­ये­त्य­य­मर्थो लब्धः । इष्यमाणतया ज्ञानस्य ‘विविदिषन्ति’ इत्यादाविव फलत्वप्रतीतेः । न च ब्रह्मज्ञानं मोक्ष­सा­ध­न­त्वा­भावे मुमुक्षोः फलं भवितुमर्हति इति मोक्ष­सा­ध­न­त्व­वि­शे­ष­ण­मपि तत्र अर्थाल्लब्धम् । सूत्रवाक्यस्येव विश्वतोमुखत्वेन सूत्रपदानामपि अनेकार्थत्वस्य अलङ्कारतया विवक्षावशेन श्लेषे इव वृत्ति­द्व­य­वि­रो­ध­स्या­दू­ष­ण­त्वात् , जिज्ञासापदेनैव अन्तर्नीतो विचारो लक्ष्यते , योग्यतया च वेदान्तविचार इति लभ्यते तदे­क­ग­म्य­त्वा­द्ब्र­ह्मणः । तत्रैव विचारे सूत्र­स्या­नु­वा­द­मा­त्र­रू­प­त्व­प­रि­हा­राय ‘तद्वि­जि­ज्ञा­सस्व’(तै. ३. १.१.) इति मूल­श्रु­त्य­नु­रो­ध­सि­द्धये च अध्याहृतस्य कर्तव्येतिपदस्य अन्वयः इति ।

यद्वा ब्रह्मजिज्ञासा कर्तव्येत्यस्य ब्रह्मविचारः कर्तव्य इत्यर्थः , न तु ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इति । ‘तद्वि­जि­ज्ञा­सस्व’ इति मूलश्रुतौ ब्रह्मणो विचा­र­क­र्म­त्व­श्र­व­णात् , भाष्येऽपि ब्रह्मविचारे प्रतिज्ञाते ब्रह्म­प्र­मा­णा­दि­वि­चा­र­प्र­ति­ज्ञा­न­म­र्था­ल्ल­भ्यते इत्युक्तत्वात् । ब्रह्मज्ञानं तु विचारेण विचा­रा­धि­का­रि­वि­शे­ष­णे­च्छा­वि­षये मोक्षे साधनीये ‘साम्ना स्तुवीत’ इति श्रुतौ गीतिक्रियारूपेण साम्ना गुणाभिधानात्मके स्तोत्रे साधनीये ऋक्प­दा­भि­व्य­क्ति­वत् द्वारतया फलं सिद्ध्यति । ब्रह्मविचारस्य ब्रह्मा­व­ग­ति­फ­ल­कस्य साक्षा­न्मो­क्ष­सा­ध­न­त्वा­यो­गात् । मोक्षस्यापि अध्य­स्त­क­र्तृ­त्वा­दि­नि­वृत्त्या ब्रह्म­भा­वा­वि­र्भा­व­रू­प­त्वेन ब्रह्मा­व­ग­ति­सा­ध्यस्य साक्षा­द्वि­चा­र­सा­ध्य­त्वा­यो­गाच्च ।

ननु नित्या­नि­त्य­व­स्तु­वि­वे­का­द्य­न­न्तरं ब्रह्म­मी­मां­सा­रूपो विचारः कर्तव्यः इति सूत्रा­र्थ­व­र्ण­न­म­यु­क्तम् , नित्या­नि­त्य­व­स्तु­वि­वे­कस्य निरु­क्त­वि­चा­र­नि­ष्पा­द्य­त्वेन अन्यो­न्या­श्र­य­प्र­स­ङ्गात् । न हि ब्रह्मैव नित्यं अन्यद नित्यं इति निर्णयरूपः सिद्धान्ताभिमतो नित्या­नि­त्य­व­स्तु­वि­वेकः प्रारि­प्सि­त­ब्र­ह्म­मी­मां­सा­शा­स्त्र­वि­चारं विना केन­चि­च्छा­स्त्रा­न्त­र­श्र­व­णा­दिना सम्भवति । सम्भवे वा ततो लब्ध­नि­त्या­नि­त्य­व­स्तु­वि­वेक एवाधिकारी एत­च्छा­स्त्र­वि­चारे प्रवर्तते इति अस्मिञ्छास्त्रे ‘असम्भवस्तु सतोऽनुपपत्तेः’(ब्र.सू.२.३.९.) इत्यधिकरणे ब्रह्म­नि­त्य­त्व­प्र­ति­ष्ठा­पनं वैराग्यपादे कर्म­फ­ला­नि­त्य­त्व­प्र­द­र्शनं वियदधिकरणादिषु विय­दा­द्य­नि­त्य­त्व­प्र­ति­ष्ठा­पनं च नाकरिष्यत इति चेत् –

उच्यते – साङ्ग­स­शि­र­स्क­वे­दा­ध्य­य­न­ज­न्या­पा­त­प्र­ती­ति­रूपो नित्या­नि­त्य­व­स्तु­वि­वेक इह परिगृह्यते । स यद्यपि वैराग्यं निष्पादयन् तत् द्रढयितुं न शक्नोति, ब्रह्मवत् कर्मफलेऽपि नित्य­त्व­प्र­ति­पा­द­का­ना­म­क्ष­य्यादि वाक्यानां दर्शनात् , तथापि कर्म­फ­ला­नि­त्य­त्व­प्र­ति­पा­द­कानां वाक्यानां ‘तद्यथेह कर्मचितः’(छा.८. १.६.) इत्या­दि­श्रु­ति­प्र­द­र्शि­त­यु­क्त्यु­पो­द्ब­लि­त­तया प्राबल्यं इति न्यायसूचकेन एत­त्सू­त्र­ग­ता­त­श्श­ब्देन निरस्त शैथिल्यः स शक्नोति वैराग्यं द्रढयितुम् । न चैवमपि ‘असम्भवस्तु सतः’(ब्र.सू.२.३.९.) इत्या­द्य­धि­क­र­ण­पू­र्व­प­क्षो­प­न्य­स­नी­य­श­ङ्को­न्मे­षेण तच्छैथिल्यं स्यादिति वाच्यम् ; तत्त­च्छ­ङ्का­नि­रासा अग्रे करिष्यन्ते इति हितै­षि­व­च­न­वि­श्वा­सेन तया शैथि­ल्या­प्र­स­ङ्गात् । सर्वेष्वपि हि शास्त्रेषु विष­य­प्र­यो­ज­न­वि­षये एकै­क­स्या­म­सि­द्धि­श­ङ्कायां आदौ निरस्तायां तद­सि­द्धि­प­र्य­व­सा­यि­श­ङ्का­न्त­र­नि­रा­सा­स्त­न्त्र­मध्ये एव क्रियमाणा दृश्यन्ते । न चैतावता अधिकारिणां अनि­र्णी­त­वि­ष­य­प्र­यो­ज­न­त्वेन तत्त­च्छा­स्त्र­वि­चा­रे­ष्व­प्र­वृ­त्ति­रा­प­द्यते । तस्मात् यथोक्त एव सूत्रार्थः ॥ १.१.१.॥

इति जिज्ञासाधिकरणम् ॥

जन्माद्यस्य यतः ॥ २॥

अथ एव­मु­प­पा­दि­ता­रम्भो विचारः प्रस्तूयते ।

तत्र यद्यपि ब्रह्म­वि­चा­र­प्र­ति­ज्ञया तत्प्र­मा­ण­यु­क्ति­सा­ध­न­फ­ल­वि­चा­रोऽ­प्य­र्थात् प्रतिज्ञातः, तथाऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिः इत्या­दि­वि­शि­ष्ट­वि­ष­य­वि­चा­राणां विशे­ष­ण­ब्र­ह्म­स्व­रू­प­प्र­ति­प­त्त्य­पे­क्ष­त्वात् प्राधान्याच्च तदेव लक्षणमुखेन प्रथमं इहाधिकरणे निर्णीयते ।

‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्र­य­न्त्य­भि­सं­वि­शन्ति, तद्वि­जि­ज्ञा­सस्व, तद्ब्रह्मेति’(तै.उ.२.४.१) इति श्रुत्युक्तं ब्रह्मणो जगत्कारणत्वं लक्षणं युक्तमयुक्तं वेति सन्देहे सति अयुक्तमिति पूर्वः पक्षः ।

तथाहि – प्रश्नोपनिषदि षोडशकलं पुरुषं प्रकृत्य ‘तं त्वा पृच्छामि क्वासौ पुरुषः’(प्र.६. १) इति भार­द्वा­ज­प्रश्ने, ‘तस्मै स होवाच इहैवान्तश्शरीरे सोम्य स पुरुषः यस्मिन्नेताः षोडशकलाः प्रभवन्ति इति स ईक्षाञ्चक्रे कस्मि­न्न्व­ह­मु­त्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति स प्राणमसृजत प्राणा­च्छ्रद्धां खं वायु­र्ज्यो­ति­रापः पृथिवीन्द्रियं मनोऽ­न्न­म­न्ना­द्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च’(प्र. ६.४.) इति जीवस्यैव प्राणा­दि­ना­मा­न्त­षो­ड­श­क­ला­स्र­ष्टृत्वं श्रूयते । तत् यद्य­प्य­स्म­दा­दे­र­नु­प­पन्नं, तथापि प्रथमजस्य हिरण्यगर्भस्य उपपद्यत एव ।

ननु तस्यापि नोपपद्यते – भूत­स्र­ष्टृ­त्व­नि­र्वा­ह­क­यो­श्चि­की­र्षा­कृ­त्यो­र्दे­हे­न्द्रि­या­द्य­पे­क्ष­त्वात् देहे­न्द्रि­या­णाञ्च भौतिकानां भूत­सृ­ष्ट्य­न­न्त­र­भा­वि­त्वात् इति चेत्

तर्हि परब्रह्मणोऽपि देहे­न्द्रि­या­न्तः­क­र­ण­र­हि­तस्य चिकी­र्षा­कृ­त्य­स­म्भ­वेन भूतस्रष्टृत्वं न स्यात् । यदि तस्य चिकी­र्षा­कृ­त्य­भा­वेऽपि भूतस्रष्टृत्वं, तदा हिर­ण्य­ग­र्भ­स्यापि तथैव स्यात् । यदि तस्य मायामाश्रित्यैव चिकी­र्षा­कृ­ति­नि­र्वाहः, तदा हिरण्यगर्भस्य सर्गादौ सूक्ष्मा­व­स्थ­म­न्तः­क­र­ण­म­स्तीति सुतरां तद्व­त्त्व­मु­प­प­द्यते ।

अपि च बृहदारण्यके ‘आत्मैवेदमग्र आसीत् पुरुषविधः’(बृ. १. ४. १.) इति हिरण्यगर्भं प्रस्तुत्य ‘ततो मनुष्या अजायन्त’(बृ. १. ४. ३.) इत्यादिना ‘यदिदं किञ्च मिथुनं आपिपीलिकाभ्यः तत्सर्वमसृजत’(बृ. १. ४. ४.) इत्यन्तेन तस्य मनु­ष्या­दि­स्र­ष्टृ­त्व­मुक्त्वा तद­न­न्त­र­म­ग्न्या­दि­स्र­ष्टृ­त्व­म­प्यु­क्तम् । न च ‘आत्मैवेदमग्र आसीत्’(बृ. १. ४. १.) इति परब्रह्मणः प्रस्ताव इति शङ्कनीयम् । ‘स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः’(बृ. १. ४. १.) इत्यतः पाप्म­सं­स­र्ग­प्र­तीत्या ‘सोऽबिभेत्.... स वै नैव रेमे’(बृ. १.४.२,३.) इति भयारतिश्रवणेन च तस्य संसा­रि­त्वा­व­ग­मात् । ननु तथाऽपि बृहदारण्यके हिरण्यगर्भस्य विय­दा­दि­भू­त­स्र­ष्टृत्वं न श्रुतमिति चेत् , सत्यं ; देव­म­नु­ष्या­दि­स­क­ल­प्रा­णि­जा­त­स्र­ष्टृत्वं श्रुतमेव । तदेवात्र लक्षणम् , न तु विय­दा­दि­स्र­ष्टृ­त्वम् । लक्षणवाक्ये भूतशब्दस्य ‘येन जातानि जीवन्ति’ इति लिङ्गेन प्राणिपरत्वात् । जीवनहेतुत्वं भूतानां अध्यात्मं प्राणा­भि­मा­नि­त­याऽ­व­ति­ष्ठ­माने हिर­ण्य­ग­र्भेऽ­प्यस्ति । भूतलयाधारत्वमपि ‘एकार्णवे च त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलो­क्य­ग्रा­स­बृं­हितः । जन­स्थै­र्यो­गि­भि­र्दे­व­श्चि­न्त्य­मा­नोऽ­ब्ज­स­म्भवः’ इत्या­दि­पु­रा­णे­ति­हा­स­ध­र्म­शा­स्त्रेषु तस्य प्रसिद्धम् । ननु सक­ल­भू­त­स्र­ष्टृ­त्वा­दि­रूपं तन्नि­मि­त्त­त्व­मिह न लक्षणं किन्तु तदुपादानत्वम् , इति चेत् – तदुपादानत्वं हि तज्जी­वा­भे­दे­ना­ध्य­स्तान् देहे­न्द्रि­या­न्तः­क­र­णा­दीन् प्रत्यु­पा­दा­न­त्व­मेव वाच्यं, नित्यानां जीवानां स्वतः कार्यत्वाभावात् । देहा­द्यु­पा­दा­नत्वं तु तत्त­ज्जी­वा­ना­मेव, तेषां जीव­ता­दा­त्म्य­प्र­तीत्या जीवानां तदधिष्ठानत्वात् , सिद्धान्ते अध्या­सा­धि­ष्ठा­न­त्वा­ति­रि­क्त­स्यो­पा­दा­न­त्व­स्या­भा­वात् ।

अस्तु वा परं ब्रह्म भूतानां स्रष्टृ उपादानञ्च । तथाऽपि मायाशबलं सविशेषमेव तथा वाच्यं, निर्विशेषस्य कूटस्थस्य मायाशाबल्यं विना सृष्टि­क्रि­या­वि­शि­ष्ट­त्वस्य तत्त­त्का­र्या­का­रेण विवर्तमानत्वस्य च असम्भवात् । न च सविशेषं ब्रह्म इह लिलक्षयिषितं, किन्तु जिज्ञास्यत्वेन प्रतिज्ञातं शुद्धमेव । न च माया­श­ब­ल­स­गु­ण­ब्र­ह्म­ग­त­मेव कारणत्वं तटस्थतया शुद्ध­स्यो­प­ल­क्षणं शाखाग्रमिव चन्द्रस्य, तस्य प्रकृ­ष्ट­प्र­का­श­त्व­मिव सत्य­ज्ञा­ना­न­न्ता­न­न्दा­त्म­स्व­रू­पत्वं ‘आनन्दादयः प्रधानस्य’(ब्र.सू. ३. ३. ६) इत्यधिकरणे शुद्ध­ब्र­ह्म­प्र­ति­प­त्ति­प­र­वा­क्येषु सर्वे­षू­प­सं­ह­र­णी­य­त्वेन वर्णयिष्यमाणं अस्य स्वरूपलक्षणं इति वाच्यम् । तथा सति स्वरूपलक्षणेनैव विशि­ष्या­व­ग­त्य­र्थ­म­व­श्या­पे­क्षि­तेन सर्वतो व्यावृत्तस्य लक्ष्यस्य अवगतिः सम्भवतीति एत­ल्ल­क्ष­ण­वै­य­र्थ्यात् । चन्द्रस्य तु तटस्थलक्षणं उक्तेऽपि स्वरूपलक्षणे तद्दिदृक्षया चन्द्रबुभुत्सोः गगने सर्व­त­श्च­क्षु­र्वि­क्षे­प­क्लेश: स्यात् स मा भूदिति देशविशेषे चक्षु­र्नि­य­म­ना­र्थ­तया उपयुज्यते । न चात्रा­प्य­ग्नि­सू­र्ये­न्द्रा­दि­म­हि­म­प्र­ति­पा­द­केषु मन्त्रा­र्थ­वा­देषु ब्रह्म बुभुत्सोः भ्रमणक्लेशः स्यात् स मा भूदिति कारणवाक्यजाते तद्दृ­ष्टि­नि­य­म­ना­र्थ­तया तट­स्थ­ल­क्ष­ण­मु­प­यु­ज्यते इति वाच्यम् । कार­ण­त्वा­सं­स्प­र्शि­ना­मपि सर्वा­न्त­र­त्वा­दि­द्वारा ब्रह्म­प्र­ति­प­त्ति­प­र­वा­क्यानां सत्त्वेन ब्रह्म­प्र­ति­पित्सोः अद्वै­त­प­र­वा­क्येषु सर्वे­ष्व­व­त­र­णी­य­तया कारणवाक्यमात्रे तद्दृ­ष्टि­नि­य­म­ना­यो­गात् । स्वरू­प­ल­क्ष­णा­न्त­र्ग­तेन आत्मशब्दोक्तेन प्रत्यक्त्वेन परा­ग्रू­प­दे­व­ता­न्त­र­म­हि­म­व­र्ण­न­प­र­म­न्त्रा­र्थ­वा­देभ्यो व्यावर्तनस्य अद्वै­त­प­र­वा­क्ये­ष्व­व­त­र­णस्य च सिद्धेश्च । किञ्च जगत्कारणत्वं सत्यञ्चेत् द्वित्वेन एकमिव तेन अद्वितीयं ब्रह्म लक्षयितुमशक्यं ; विरोधात् । मिथ्या चेदपि कृतकत्वेन नित्यमिव न तेन सत्यं तत् लक्षयितुं शक्यं, विरोधादेव । तस्मादयुक्तमिदं लक्षणं इत्येवं प्राप्ते

राद्धान्तः –

भूतानि भौतिकञ्चाण्डं निर्मा­ये­द­म­न­न्त­रम् । हिरण्यगर्भं तन्मध्ये निर्ममे परमेश्वरः ।

इत्यर्थे सक­ल­श्रु­त्या­द्यै­क­क­ण्ठ्यस्य दर्शनात् । स षोडशकलास्रष्टा पुरुषः पर एव नः ।

प्राणो­त्क्र­न्ति­प्र­ति­ष्ठाभ्यां स्वस्य तद्व­त्त्व­वी­क्ष­णम् । जीवस्य तद्वतस्ताभ्यां स्वात्म­त्वे­ना­व­लो­क­नात् ।

तेजोऽ­ब­न्न­प्र­वेशो हि जीवकर्तृक एव सन् । जीवस्य स्वात्म­ता­दृष्ट्या तेन स्वीयतयेरितः ।

परमेश्वरः प्रथमं वियदादीनि भूतानि सृष्ट्वा तत्त्रि­वृ­त्क­र­णा­न­न्तरं तैरण्डं निर्माय तन्मध्ये हिरण्यगर्भं निर्ममे इत्यर्थे हिर­ण्य­ग­र्भो­त्प­त्ति­प्र­ति­पा­द­क­स­क­ल­श्रु­ति­स्मृ­ति­पु­रा­णे­ति­हा­सा­ना­मै­क­क­ण्ठ्यात् तदनुरोधेन प्रश्नो­प­नि­ष­दु­क्त­षो­ड­श­क­ला­स्रष्टा पुरुषः पर एव ; षोडशकलामध्ये विय­दा­दी­ना­म­प्य­नु­प्र­वे­शात् , षोड­श­क­ल­पु­रु­षो­प­दे­शा­न­न्तरं ‘तान् होवाच एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति’(प्र. ६. ७.) इति पिप्प­ला­द­व­च­न­द­र्श­नाच्च । यत्तु प्राणो­त्क्रा­न्ति­प्र­ति­ष्ठाभ्यां स्वस्य उत्क्रा­न्ति­प्र­ति­ष्ठा­व­त्त्व­वी­क्षिणं जीवलिङ्गं, तत् ताभ्या­मु­त्क्रा­न्ति­प्र­ति­ष्ठा­वतो जीवस्य स्वात्म­रू­प­त्वा­व­लो­क­नात् । श्रूयते हि छान्दोग्ये तेजोऽ­ब­न्ना­नु­प्र­वेशो जीवकर्तृक एव सन् ईश्वरेण जीवस्य स्वरू­प­त्व­दृष्ट्या स्वात्मीयतया विवक्षित इति । तत्र हि ‘हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. ६. ३. २.) इत्यत्र जीव­क­र्तृ­कोऽ­नु­प्र­वेशः स्वकर्तृकतया परमेश्वरेण विवक्षित इति व्याक­र­ण­स­मा­न­क­र्तृ­त्व­वा­चिना क्त्वाप्रत्ययेन दर्शितम् ; एव­मि­द­म­प्यु­प­प­द्यते ।

यत्तु बृहदारण्यके हिरण्यगर्भस्य देव­म­नु­ष्या­दि­भू­त­जा­त­स्र­ष्टृ­त्व­मु­क्त­मि­त्युक्तं तत्तथैव । न तावता तस्य सक­ल­भू­त­स्र­ष्टृत्वं लक्षणे विवक्षितं सिद्ध्यति । स्वस्य अती­ता­ना­ग­त­क­ल्प­स­म्भ­व­दे­व­म­नु­ष्या­दी­नाञ्च अन्यसृष्टत्वात् ।

परमेश्वरस्य तु सर्व­क­ल्पा­नु­या­यिनो हिर­ण्य­ग­र्भ­स्यापि स्रष्टुः सर्व­भू­त­स्र­ष्टृ­त्व­मु­प­प­द्यते । हिर­ण्य­ग­र्भ­सृ­ष्टेषु देवमनुष्यादिषु कुला­ला­दि­सृ­ष्टेषु घटादिष्विव तस्यापि स्रष्टृत्वात् , तदभावेऽपि हिर­ण्य­ग­र्भ­सृ­ष्टि­द्वारा तस्य कार­ण­त्वा­न­पा­याच्च ।

यत्तु देहे­न्द्रि­या­दिषु तत्त­ज्जी­वा­ना­मु­पा­दा­न­त्वात् ब्रह्मण उपादानत्वं न सम्भ­व­ती­त्युक्तं, तन्न – शुक्त्या­दि­ता­दा­त्म्ये­ना­ध्य­स्य­मा­नेषु रजतादिषु शुक्त्या­द्य­व­च्छि­न्न­स्येव जीव­ता­दा­त्म्ये­ना­ध्य­स्य­मा­नेषु देहादिषु जीवावच्छिन्नस्य ब्रह्म­णोऽ­धि­ष्ठा­न­तया उपा­दा­न­त्वो­प­पत्तेः । सर्वतः प्रसृतस्य ब्रह्मचैतन्यस्य शुक्त्यादिभिरिव स्वप्र­ति­बि­म्ब­रू­प­जी­वै­र­प्य­व­च्छे­दा­नि­वा­र­णात् , ‘य आत्मनि तिष्ठन्’ इत्या­दि­श्रु­तेश्च । ‘यथा सुदीप्तात् पाव­का­द्वि­स्फु­लिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽ­क्ष­रा­द्वि­विधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’(मु.उ. २. १. १.) इति ब्रह्म­ण­श्चे­त­न­त्वेन सरूपान् जीवान् प्रत्यु­पा­दा­न­त्व­श्रुतेः तदु­पा­धि­दे­हे­न्द्रि­या­न्त:क­र­णा­द्यु­पा­दा­न­त्व­प­र­तया देहादीनां ब्रह्मो­पा­दा­न­क­त्व­स्या­व­श्या­ङ्गी­क­र्त­व्य­त्वात् ।

यच्च जन्मा­दि­का­र­ण­त्वस्य तटस्थलक्षणत्वे तद्वै­य­र्थ्य­मुक्तं, तदपि न – अत्र सूत्रे पूर्व­सू­त्रा­ल्ल­क्ष्य­स­म­र्पकं ब्रह्म­प­द­म­नु­व­र्तते । तत् प्रत्य­ग­भि­न्न­नि­ष्प्र­प­ञ्च­व­स्तु­प­रम् , प्रक­र­णो­प­प­दा­दि­स­ङ्को­च­क­रा­हि­त्येन तस्य त्रिवि­ध­प­रि­च्छे­द­प­रि­प­न्थि­नि­र­ति­श­य­बृ­ह­त्त्व­वा­चि­त्वात् । बृह­त्त्व­मा­त्र­वा­चि­त्वेऽपि वैपु­ल्या­प­र­प­र्या­यस्य बहुत्वस्य ‘यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.७.२४. १.) इति श्रुत्या वस्तु­प­रि­च्छे­द­प­रि­प­न्थिनो लक्षणस्य दर्शितत्वाच्च । न हीदं लक्षणं ब्रह्मणः प्रत्य­ग्भि­न्नत्वे प्रपञ्चस्य सत्यत्वे वा घटते । तथा सति तत्का­र­ण­त्वा­धा­र­त्व­नि­य­न्तृ­त्वा­दि­ध­र्माणां ब्रह्मणि सत्यतापत्त्या ‘यत्र नान्यत् पश्यति’ इत्या­द्य­नु­प­पत्तेः । एवञ्च लक्ष्य­प­र­ब्र­ह्म­श­ब्दा­र्थ­तया प्राप्तस्य निष्प्र­प­ञ्च­त्वस्य यद्रजतमभात् सा शुक्तिरितिवत् अध्या­रो­पा­प­वा­द­न्या­येन सिद्ध्यर्थं तटस्थलक्षणम् , स्वरू­प­वि­शे­ष­प्र­ति­प­त्त्यर्थं स्वरूपलक्षणम् , इति न कस्यापि वैयर्थ्यम् । एतेन – मिथ्याभूतेन सत्यं लक्षयितुं न शक्यं विरोधात् , इति निरस्तम् ; शुक्त्या रज­तो­प­ल­क्ष­ण­द­र्श­नात् ॥

सूत्रे जन्मादीति जन्म­स्थि­ति­भ­ङ्ग­मु­च्यते । एकवचनं सृष्टि­स्थि­ति­भ­ङ्गानां समुदायो लक्षणं नत्वेकैकं इति ज्ञापनार्थम् । यद्यप्येकैकमपि लक्षणं भवितुमर्हति ; अनतिप्रसङ्गात् , ‘अत्ता चराचरग्रहणात्’(ब्र. सू. १. २. ९.) इत्यधिकरणे सर्व­सं­ह­र्तृ­त्व­मा­त्रस्य ब्रह्मलिङ्गतया उपन्यासाच्च ; तथापि जन्म­स्थि­ति­भ­ङ्गा­ना­मन्य तमकारणत्वस्य लक्षणतया उक्तौ तदि­त­र­का­र­ण­व­स्त्व­न्त­र­स­त्त्व­श­ङ्कया वस्तु­प­रि­च्छे­दात् लक्षणीयब्रह्मणो निर­ति­श­य­बृ­हत्त्वं न सिद्ध्येत् । अतो निर­ति­श­य­बृ­ह­त्त्व­रू­प­ल­क्ष्या­का­र­वि­प­री­त­बृ­ह­त्त्व­श­ङ्का­व्य­व­च्छे­देन सप्रयोजनं समुदायस्य लक्षणत्वम् । अस्येति कार्यस्य जगत इदन्तया निर्देशः मूल­श्रु­त्य­नु­सा­रेण परि­दृ­श्य­मा­न­वि­वि­ध­वै­चि­त्र्य­ज्ञा­प­नार्थः । मूलश्रुतावपि भूतानीत्यनेनैव कार्यवर्गे अभिहिते तदर्थज्ञापनायैव ‘इमानि’ इति पदम् । तद्ज्ञापनन्तु ईदृशस्य कार्यवर्गस्य ब्रह्म­णोऽ­न्य­स्मा­द­ल्प­ज्ञा­ना­द­ल्प­शक्तेः संसारिण उत्पत्तिः सम्भावयितुं न शक्यते इति सूचनार्थम् । अत एवाग्रे सूत्रकृता प्रधा­ना­दि­का­र­ण­त्व­श­ङ्का­वत् जीव­का­र­ण­त्व­श­ङ्काया निरासो न करिष्यते । लोके कुला­ल­कु­वि­न्दा­दि­जी­व­क­र्तृ­कत्वे सत्येव अति­वै­पु­ल्य­वै­चि­त्र्या­द­र्श­नेन भूभू­ध­रा­दि­यु­क्तस्य जग­तोऽ­स्म­दा­दि­क­र्तृ­क­त्वा­स­म्भ­वेऽपि कर्त्र­न­पे­क्ष­प्र­धा­न­प­रि­णा­म­त्वा­दि­क­म­स्त्विति शङ्काया एव उन्म­ज्ज­न­यो­ग्य­त्वात् । यत्त्वत्र ‘न यथोक्तविशेषणस्य जगतो यथो­क्त­वि­शे­ष­ण­मी­श्वरं मुक्त्वा अन्यतः प्रधा­ना­द­चे­त­ना­द­णु­भ्योऽ­भा­वात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम्’ इति भाष्यवचनं तत्र संसा­रि­मा­त्र­स्यात्र निरसनीयत्वेऽपि उपरिनिरसनीयस्य प्रधा­ना­दे­र्ग्र­हणं दृष्टान्तार्थम् । श्रुतौ इमानीति बहुवचने सत्यपि अस्येत्येकवचनं कृत्स्नस्य कार्यवर्गस्य एक­का­र्य­व­द­ना­या­सेन एकेन कर्त्रा सङ्कल्पमात्रेण निर्मि­त­त्व­ज्ञा­प­ना­र्थम् । तद्ज्ञापनस्यापि अल्प­श­क्ति­सं­सा­रि­व्या­वृ­त्ति­सू­च­न­मेव फलम् । यत इति यच्छब्दः ‘यस्स­र्व­ज्ञ­स्स­र्व­वि­द्यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म­ना­म­रू­प­मन्नं च जायते’(मु.्ड. १. १. ९.) इति ‘तदैक्षत बहु स्यां प्रजायेय’(छा. ६. २. ३.) इति ‘सन्मू­ला­स्सो­म्ये­मा­स्सर्वाः प्रजा­स्स­दा­य­त­ना­स्स­त्प्र­तिष्ठाः’(छा. ६. ८. ४.) इत्या­दि­श्रु­ति­प्र­ति­प­न्न­ज­ग­न्नि­मि­त्तो­पा­दा­न­भा­व­स­र्व­ज्ञ­त्व­स­त्य­स­ङ्क­ल्प­त्वा­दि­वि­शि­ष्ट­प­र­मे­श्व­र­रू­प­मा­या­श­बलि तब्रह्मपरः । श्रुतावपि यत इति प्रसि­द्ध­व­न्नि­र्दे­शस्य ‘यस्सर्वज्ञः’ इत्या­दि­पु­रो­वा­द­प्रा­प्त­स­र्व­ज्ञ­त्वा­दि­वै­शि­ष्ट­य­प्र­ति­पा­द­न­प­रत्वं संसारिभ्यो व्यावर्तितस्य जगत्कारणत्वस्य परमेश्वरे सम्भावनार्थम् । यत इति हेतुपञ्चमी निमि­त्तो­पा­दा­न­सा­धा­रणी प्रकृत्यधिकरणे स्थापयिष्यमाणं ब्रह्मणः उभ­य­वि­ध­का­र­ण­त्व­म­नु­व­दति । यद्यपि उपा­दा­न­त्व­मा­त्र­मपि लक्ष­ण­म­न­ति­प्र­सक्तं, सर्वो­पा­दा­न­त्व­प्र­यु­क्त­सा­र्वा­त्म्यस्य अग्रिमाधिकरणेषु ब्रह्मलिङ्गतया उपन्यासदर्शनात् , तथापि निमित्तमन्यदिति वस्तु­प­रि­च्छे­द­शङ्का स्यात् , सा मा भूदिति उभ­य­वि­ध­का­र­ण­त्वस्य हेतु­प­ञ्च­म्यु­पा­त्तस्य लक्षणीकरणम् । नचे­य­मु­पा­दा­न­प­ञ्च­मीति वक्तुं शक्यम् , ‘येन’ ‘यत्’ इति मूल­श्रु­ति­ग­त­तृ­ती­या­द्वि­ती­या­वि­भ­क्त्य­र्थ­यो­रपि अनया सङ्ग्रा­ह्य­त्वात् । तत्स­ङ्ग्रा­ह­का­या­स्तस्या उपा­दा­न­मा­त्र­वि­ष­य­त्वा­यो­गाच्च । ‘तत् ब्रह्म’ इति सूत्रवाक्यशेषः ।

केचित् आद्यस्य हिरण्यगर्भस्य जन्म यत इति सूत्रं योजयन्ति । सोऽप्यर्थः सूत्रमूलभूतं लक्षणवाक्यं हिरण्यगर्भपरं इति शङ्का­नि­रा­सा­र्थ­त्वेन सूत्रावृत्त्या विवक्षितुं शक्यते इति नोपेक्षणीयः ॥ १.१.२.॥

इति जन्माद्यधिकरणम् । २।

शास्त्र­यो­नि­त्वात् । ३।

इह लक्ष­णी­कृ­त­ज­ग­त्का­र­ण­त्वा­क्षिप्तं सर्वज्ञत्वं वेदकारणत्वेन दृढीकुर्वता भगवता सूत्रकारेण वेदस्य नित्यत्वात् ब्रह्म­ण­स्स­र्व­का­र­ण­त्व­म­नु­प­पन्नं इति शङ्काऽपि निराक्रियते ।

ननु निर्वि­शे­ष­व­स्तुनि तात्पर्यविषये सति ताटस्थ्येन तदुपलक्षकस्य मायाशबलितस्य जगत्कारणस्य सर्व­ज्ञ­त्व­स­म­र्थनं क्वोपयुज्यते ।

पूर्वसूत्रे — ‘अस्य’ इति पदेन सूचितस्य सूत्रावृत्त्या च विवक्षितस्य जीवव्यावर्तनस्य स्थिरीकरणे । हिरण्यगर्भस्य सार्वज्ञ्यं ईश्व­रा­द्वे­द­ग्र­ह­णा­धीनं न तु स्वतस्सिद्धं इति देवताधिकरणे वक्ष्यते ।

ननु जग­त्क­र­ण­त्वा­क्षि­प्तस्य सर्वशक्तित्वस्य केनचिद्धेतुना दृढीकरणेऽपि जीवव्यावर्तनं स्थिरीभवति, किं वेद­का­र­ण­त्व­हे­तुना सर्व­ज्ञ­त्व­दृ­ढी­क­रणे पक्ष­पा­त­नि­मि­त्तम् ।

वेद­नि­त्य­त्व­मू­ल­क­स­र्व­का­र­ण­त्वा­स­म्भ­वा­श­ङ्का­नि­रा­स­स्या­नु­ष­ङ्गतो लाभः । अत एव – वेदा­नि­त्य­त्व­व्य­व­स्था­पनं वियत्पादे सङ्गतं नात्र कर्तुं युक्तं इत्यपि शङ्का निरस्ता । अनु­ष­ङ्ग­ल­भ्येऽर्थे पृथक् सङ्ग­त्य­न­पे­क्ष­णात् ।

‘अस्य महतो भूतस्य निश्वसितमेतत् यदृग्वेदो यजु­र्वे­द­स्सा­म­वेदः’(बृ. २. ४. १०.) इत्यादिवाक्यं ब्रह्मणो वेदकारणत्वेन सर्वज्ञत्वं साधयति न वा इति सन्देहे – न ताव­द्वे­द­क­र्तृ­त्वेन तस्य तत् साधयति, वेदस्य पौरु­षे­य­त्वा­पा­तात् , नापि वेदोपादानत्वेन, कार्यो­पा­दा­न­यो­रे­क­श­क्ति­क­त्व­नि­य­मस्य मृत्पि­ण्ड­घ­टा­दिषु तत्का­र्या­न्त­रेषु च बहुशो व्यभिचारदर्शनेन अप्रामाणिकतया वेदस्य सर्वा­र्थ­प्र­का­श­न­श­क्ति­म­त्ता­मा­त्रेण ब्रह्मणि तदसिद्धेः तत्सिद्धौ वा वेदः स्वयमज्ञ एव जीवानां तत्त­द­र्थ­गो­च­र­प्र­का­श­ज­नक इति ब्रह्म­णोऽ­प्य­ज्ञ­स्यैव प्रका­श­क­त्वा­प­त्तेश्च ; एवमपि ब्रह्मणो वेदा­वि­ष­य­न­दी­वा­लु­का­दि­सं­ख्या­दि­प्र­का­श­क­त्वा­ला­भाच्च इति पूर्वःपक्षः ॥

राद्धान्तस्तु – वेदकर्तृत्वेन तस्य तत् साधयत्येव । कर्तृत्वमिह न अर्थमुपलभ्य रचयितृत्वं, येन सापे­क्ष­त्व­ल­क्षणं पौरु­षे­य­त्व­मा­प­द्येत । नाप्यु­च्चा­र­यि­तृ­त्व­मात्रं, अध्या­प­क­सा­धा­र­ण्येन तावतापि वेदे ब्रह्म­क­र्तृ­त्व­वि­शे­षा­सिद्धेः । सर्व­वे­दो­च्चा­र­णेन महो­पा­ध्या­य­ता­मात्रं हि तदा ब्रह्मणः स्यात् । नापि पूर्व­पू­र्व­क्र­मा­न­पे­क्षया स्वतन्त्रक्रमेण उच्चारयितृत्वं ; क्रमान्यत्वे वाग्वज्रत्वेन प्राणिनां दुरितप्रसङ्गात् । किन्तु ब्रह्म स्वतन्त्रमपि अध्येतॄणां पुरु­षा­र्थ­सि­द्धये निय­त­क्र­म­स्व­रा­द्य­पे­क्ष­माणं पूर्व­पू­र्व­क­ल्पेषु स्वकृतेनैव नियतेन क्रमादिना विशिष्टान् वर्णान् करोति । ‘सर्गादौ भगवान् धाता यथा­पू­र्व­म­क­ल्प­यत्’ इति स्मृतेः । एतदेव च अध्यापकविलक्षणं ब्रह्मणो वेदकर्तृत्वं यत् अन्य­दी­य­क्र­मा­द्य­न­पे­क्ष­णेन पूर्वमपि स्वकृतेनैव नियतेन क्रमादिना विशिष्टेषु वैदिकवर्णेषु कर्तृत्वम् । तथा­चा­ती­ता­न­न्त­क­ल्प­स्थ­वै­दि­क­क्र­म­स्व­रा­दि­प्र­ति­स­न्धानं अन­न्त­वै­दि­क­व­र्ण­प­द­वा­क्य­प्र­ति­स­न्धा­नञ्च ब्रह्मणो वक्तव्यम् , अन्यथा तत्क­र्तृ­त्वा­यो­गात् । तस्य सकलस्य प्रतिसन्धानञ्च ब्रह्मणो न मानान्तरात् , तस्या­न्तः­क­र­णा­दि­स­म्बा­न्धा­भा­वेन माना­न्त­रा­प्र­वृत्तेः, किं तु अना­वृ­त­स्व­रू­प­चै­त­न्य­ब­लात् इति सङ्कोचकाभावात् याव­त्स्व­सं­सृ­ष्ट­प्र­का­श­वत् सर्वज्ञं ब्रह्म सिद्ध्यति । आनु­मा­नि­के­श्व­र­वा­दि­ना­मपि ईश्वरस्य सर्व­ज्ञ­त्व­सि­द्धि­रे­व­मेव, सर्वस्या पक्षत्वेन हेतुतया सर्व­गो­च­र­ज्ञा­ना­सिद्धेः ।

वेदोपादानत्वेन वा तस्य तत् साधयति ; दीपगतायाः प्रकाशशक्तेः तदुपादाने वह्नावपि दृश्यमानतया कार्य­का­र­ण­यो­रे­क­श­क्ति­क­त्व­स्यौ­त्स­र्गि­क­त्वेन वेदगतायाः सर्वा­र्थ­प्र­का­श­न­शक्तेः बाधकाभावेन तदुपादाने ब्रह्मण्यपि प्राप्तेः । न हि घट­ग­तो­द­का­ह­र­ण­श­क्ते­र्मृ­त्पिण्डे इव, अन्ध­का­र­ग­ता­व­र­ण­शक्तेः प्रकाशरूपत्वेन श्रुतिसिद्धे ब्रह्मणीव, वेद­ग­त­स­र्वा­र्थ­प्र­का­श­न­श­क्तेस्तं प्रति परिणामितया उपादाने ‘नीहारेण प्रावृताः’ इत्या­दि­श्रु­ति­भि­रा­व­र­ण­त्वेन सिद्धे अज्ञाने इव च वेद­ग­त­स­र्वा­र्थ­प्र­का­श­न­शक्तेः ब्रह्मणि बाधोऽस्ति ।

यद्वा वेद­ग­त­स­र्वा­र्थ­प्र­का­श­न­शक्ति: तदुपादानगता कार्य­ग­त­प्र­का­श­श­क्ति­त्वात् दीप­ग­त­प्र­का­श­श­क्ति­वत् इति विशिष्य अनुमीयते । अत: उदकाहरणादिशक्तौ न व्यभिचारः । प्रकाशशक्तिश्च अवि­द्या­व­र­ण­नि­वृ­त्त्य­नु­कूला शक्ति­र्वि­व­क्षिता । सा च परम्परया तदनुकूले वेदे दीपे चास्तीति नाश्रयासिद्धिः न वा दृष्टा­न्ता­सिद्धिः । अविद्यायामपि निवृत्तेः प्रति­यो­गि­भू­तायां तदनुकूला शक्तिः अस्तीति न तस्या अवि­द्या­ग­त­त्वा­भा­वेन बाधः ।

यद्वा तदु­पा­दा­न­ग­त­त्व­मात्रं साध्यम् , न तु याव­त्त­दु­पा­दा­न­ग­त­त्वम् ; तच्च अबाधितं ब्रह्म­त­त्त्व­मा­त्र­मा­दाय सिध्यति इति न कश्चिद्दोषः । न च वेद­व­द्दी­पा­दि­वच्च ब्रह्मणोऽपि जीव­वि­ज्ञा­न­हे­तु­त्वे­नैव साध्यं पर्यवस्येदिति न सर्व­ज्ञ­त्व­सि­द्धि­रिति शंक्यम् । स्वप्र­का­श­स­र्व­व्या­प्त­चै­त­न्य­रू­प­त्वेन श्रुतिसिद्धे ब्रह्मणि आव­र­ण­नि­वृ­त्त्य­नु­कू­लायाः शक्तेः पक्षधर्मताबलात् साक्षा­त्त­द­नु­कू­ल­त्वे­नैव सिद्धेः । न हि कुलालादिज्ञानं इच्छादिद्वारैव कार्यानुकूलं दृष्टमिति क्षित्यादिषु कार्यानुकूलतया अनुमीयमानमपि ज्ञानं इच्छादिद्वारैव तदनुकूलं अनु­मा­न­वा­दि­भि­र­नु­मी­यते । एवमपि वेदा­वि­ष­या­र्थ­गो­च­र­ज्ञा­ना­ला­भेन सार्व­ज्ञ्या­सि­द्धि­रिति शङ्का तु पूर्वन्यायेनैव परिहरणीया ।

अत एव वेद­बा­ह्या­ग­मा­ना­मपि ब्रह्मो­पा­दा­न­क­तया तदर्थज्ञत्वेन ब्रह्मणोऽपि भ्रान्त­त्व­प्र­सङ्ग इत्यपि चोद्यं निरस्तम् । तदर्थस्य असत्त्वेन स्वसं­स­र्गि­या­व­द­र्थ­प्र­का­श­रू­पस्य ब्रह्मचैतन्यस्य तद्वि­ष­य­त्वा­प्र­स­ङ्गात् ।

ननु ब्रह्मणः स्वसं­स­र्गि­या­व­द­र्थ­प्र­का­शत्वे अती­ता­ना­ग­त­व­स्तु­ज्ञा­ना­सिद्धेः कथं सार्व­ज्ञ्य­सिद्धिः ।

उच्यते – उत्तरीत्या ब्रह्मणो विद्य­मा­न­नि­खि­ल­प्र­प­ञ्च­सा­क्षा­त्का­र­सिद्धिः तज्ज­नि­त­सं­स्का­र­व­त्तया च स्मर­णो­प­प­त्ते­र­ती­त­स­क­ल­व­स्त्व­व­भा­सा­सिद्धिः । न च ज्ञान­सू­क्ष्मा­व­स्था­रू­प­सं­स्कारो नित्यचैतन्ये न भवेदिति शंक्यम् । तस्य स्वरू­पे­णा­का­र्य­त्वेऽपि दृश्या­व­च्छि­न्न­रू­पेण कार्य­त्वो­प­पत्तेः । सृष्टेः प्राक् मायायाः सृज्य­मा­न­नि­खि­ल­प­दा­र्थ­स्फु­र­ण­रू­पेण जीवा­दृ­ष्टा­नु­रो­धेन विव­र्त्त­मा­न­त्वात् तत्साक्षितया तदुपाधिकस्य ब्रह्मणोऽपि तत्साधकत्वं इत्य­ना­ग­त­व­स्तु­वि­ज्ञा­न­सिद्धिः इत्येवं ब्रह्मचैतन्यस्य काल­त्र­य­वृ­त्ति­व­स्तु­वि­ष­य­त्व­सिद्धिः इति केचिदाहुः ।

अन्ये तु वदन्ति – स्वरूपज्ञानेनैव ब्रह्मणः स्वसं­सृ­ष्ट­स­र्वा­व­भा­स­क­त्वात् सर्वज्ञत्वं अती­ता­ना­ग­त­यो­र­वि­द्या­चि­त्र­भित्तौ विमृ­ष्टा­नु­न्मी­लि­त­चि­त्र­वत् संस्कारात्मना सत्त्वेन तत्सं­स­र्ग­स्या­प्यु­प­पत्तेः । न तु वृत्ति­ज्ञा­नै­स्तस्य सर्वज्ञत्वम् , ‘तमेव भान्तमनुभाति सर्वम्’ इति(श्वेता. ६. १४) साव­धा­र­ण­श्रु­ति­वि­रो­धात् । सृष्टेः प्राक् ‘एक­मे­वा­द्वि­ती­यम्’(छा. ६. २. १.) इत्य­व­धा­र­णा­नु­रो­धेन महाभूतानामिव वृत्ति­ज्ञा­ना­ना­मपि प्रलयस्य वक्तव्यतया ब्रह्मणः तदा सर्व­ज्ञ­त्वा­भा­वा­पत्त्या प्राथ­मि­क­मा­या­वि­व­र्त­रूपे ईक्षणे तत्पूर्वके महाभूतादौ च स्रष्टृ­त्वा­भा­व­प्र­स­ङ्गाच्च इति ॥

यत्त्वत्र भाष्ये वर्णकान्तरं प्रदर्शितं तदित्थम् – पूर्वसूत्रे जीवेषु जग­त्का­र­ण­त्व­स्या­स­म्भा­वना ब्रह्मणि तत्सम्भावना च ‘अस्य’ ‘यतः’ इति पदाभ्यां दर्शिता । ततो नैय्या­यि­का­द्य­भि­मतं ईश्वरानुमानमेव उपन्यस्तं इति स्याद्भ्रमः । तन्मू­ल­पू­र्व­प­क्ष­नि­रा­क­र­णा­र्थ­मिदं वर्णकम् ।

‘तं त्वौपनिषदं पुरुषं पृच्छामि’(बृ. ३.९.२६) इत्यादिश्रुतिः ब्रह्मणः उप­नि­ष­दे­क­ग­म्यत्वं प्रतिपादयितुं शक्नोति न वा इति विचारः ।

न शक्नोति, नैय्या­यि­को­क्त­का­र्य­त्वा­दि­लि­ङ्ग­का­नु­मा­न­ग­म्य­त्वात् ब्रह्मणः । न च अस्य कार्याप्रयोजका अपि बहवो गुणाः श्रुतिसिद्धाः स्वीक्रियन्ते ते लिङ्गैर्न सिद्ध्यन्ति इति वाच्यम् । तावता कल्पितस्य सगुणेश्वरस्य औप­नि­ष­द­त्व­सि­द्धा­वपि जिज्ञास्यस्य निर्वि­शे­ष­प्र­त्य­क्चै­त­न्य­रू­पस्य ब्रह्मणः तदसिद्धेः । प्रतीचः प्रत्य­क्ष­सि­द्ध­त्वात् , तत्र सकलविशेषाभावस्य प्रप­ञ्च­मि­थ्या­त्वा­नु­मा­न­त­स्सिद्धेः । तस्य सच्चि­दा­न­न्द­रू­प­ता­याश्च ‘अहमस्मि’ ‘अहमुपलभे’ इत्यनुभवाभ्यां निरु­पा­धि­क­प्रे­मा­स्प­द­त्वेन च सिद्धेः । सर्वशरीरेषु तदैक्यस्य च सर्वेषु कर्णपुटेषु श्रोत्रै­क्य­स्येव लाघवात् सिद्धेः इति पूर्वः पक्षः ॥

सिद्धान्तस्तु – उदाहृतश्रुतिः उप­नि­ष­दे­क­ग­म्यत्वं ब्रह्मणः प्रतिपादयितुं शक्नोति । प्रप­ञ्च­मि­थ्या­त्वा­नु­मा­नस्य लाघवतर्कस्य च तेन तेन प्रत्यनुमानेन प्रतितर्केण च पराहततया श्रुत्य­न­नु­गृ­ही­ता­न्मा­ना­न्त­रात् निर्वि­शे­ष­नि­र्द्व­न्द्व­व­स्त्व­सिद्धेः, निरतिशयानन्दे कथञ्चिदपि माना­न्त­रा­न­व­ता­राच्च इति ।

आद्यवर्णके ब्रह्म सर्वज्ञं इति साध्ये अध्याहृते शास्त्रस्य वेदस्य योनित्वात् – कर्तृ­त्वा­दु­पा­दा­न­त्वाच्च इति सौत्रहेतोरन्वयः ।

द्वितीयवर्णके – ब्रह्म वेदा­न्त­प्र­ति­पाद्यं इत्यस्मिन् साध्ये शास्त्रं योनिः – कारणं – प्रमाणं अस्य इति शास्त्र­यो­नि­त्वात् – शास्त्र­प्र­मा­ण­क­त्वात् इति सौत्रहतोरन्वयः ।

नच आद्यवर्णके शास्त्रग्रहणं व्यर्थं लौकि­क­वै­दि­क­सा­धा­र­ण­श­ब्द­यो­नि­त्व­मा­त्रेण सर्व­ज्ञ­त्व­सिद्धेः इति वाच्यम् । आनु­ष­ङ्गि­क­वे­द­नि­त्य­त्व­मू­ल­क­स­र्व­का­र­ण­त्वा­स­म्भ­व­श­ङ्का­नि­रा­क­र­णार्थं द्विती­य­व­र्ण­को­प­यो­ग­सौ­क­र्यार्थं च शब्द­मा­त्रो­प­ल­क्ष­ण­तया शास्त्र­ग्र­ह­णो­प­पत्तेः ।

नच द्वितीयवर्णके हेतो­स्सा­ध्या­वै­शि­ष्ट­यम् । तत्र हेतो­र­ब्भ­क्षा­दि­व­द­व­धा­र­ण­ग­र्भ­तया शास्त्रै­क­प्र­मा­ण­क­त्वा­दि­त्य­र्थ­कस्य प्रमा­णा­न्त­रा­ग­म्य­त्वा­दि­त्यर्थे पर्यवसानात् । १ । १ । ३ ।

इति शास्त्र­यो­नि­त्वा­धि­क­र­णम् । ३ ।

तत्तु समन्वयात् । ४ ।

निरूपितं ब्रह्म­ण­श्शा­स्त्र­यो­नित्वं आक्षिप्य समाधीयते ।

ब्रह्म न वेदा­न्त­प्र­ति­पाद्यं सिद्धवस्तुबोधने प्रवृ­त्ति­नि­वृ­त्त्य­भा­वेन फलाभावात् , अतो वेदान्ताः कर्म­वि­ध्य­पे­क्षि­त­क­र्तृ­प्र­ति­पा­द­न­परा मोक्षा­र्थो­पा­स­ना­वि­धि­परा वा इति प्राप्ते –

ब्रह्म वेदा­न्त­प्र­ति­पा­द्य­मेव, तत्र वेदान्तानां सर्वेषां सम्यक् उपक्रमाद्यवगतेन तात्पर्येण अन्वयात् । न च सिद्धवस्तुबोधने प्रयोजनाभावः । ग्राम­प­श्वा­द्य­प्रा­प्त­सि­द्ध­व­स्तु­बो­ध­नस्य प्रवृ­त्त्य­प­र्य­न्तस्य निष्फलत्वेऽपि प्राप्तस्य भ्रम­व­शा­द­प्रा­प्त­त्वे­ना­व­भा­स­मा­नस्य सिद्धस्य कण्ठ­ग­त­चा­मी­क­रा­दे­र्बो­धनं प्रवृ­त्त्य­प­र्य­न्त­मेव सफलं इति दृष्टत्वात् तन्या­य­वि­ष­य­त्वात् सिद्ध­रू­प­नि­त्य­प्रा­प्त­ब्र­ह्मा­त्मै­क्य­बो­ध­नस्य इति सिद्धान्तः । यद्यपि प्रयोजनसमर्थनं प्रथमसूत्रे कृतं, तथाऽपि मुखान्तरेण तदा­क्षे­प­स­मा­धा­ना­र्थ­मि­द­म­धि­क­र­णम् ।

यत्तु कण्ठ­ग­त­चा­मी­क­रो­प­दे­शस्य न प्राप्त­चा­मी­क­र­प्राप्तिः फलं, किन्तु तत्प्रा­प्ति­ज्ञा­न­ज­न्य­सु­खस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः, प्राप्त­चा­मी­क­रा­प्रा­प्ति­भ्र­म­ज­न्य­दुः­खस्य च वस्तुतः प्रागनिवृत्तस्य निवृत्तिर्वा । न चेह तथा प्रागप्राप्तं सुख­दुः­ख­प्रा­प्ति­नि­वृ­त्त्यो­र­न्य­त­रत् प्राप्यमस्तीति दृष्टा­न्त­वै­ष­म्यो­द्घा­ट­नम् –

तत्तुच्छम् । सिद्ध­व­स्तु­बो­ध­नस्य पुरु­षा­र्थ­प­र्य­व­सा­यि­त्व­मात्रे हि स दृष्टान्तः न तु बोध्यमानस्यैव स्वतः­पु­रु­षा­र्थत्वे । तत्र प्रागनभिव्यक्तं चामीकरं उप­दे­शे­ना­भि­व्य­क्त­मपि न स्वतःपुरुषार्थ इति पुरु­षा­र्था­न्त­र­प­र्य­व­सा­ना­न्वे­ष­णम् । इह तु ‘तत्त्वमसि’ इत्युपदेशेन ‘राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते । यथै­व­मा­त्म­नोऽ­ज्ञस्य तत्त्व­म­स्या­दि­वा­क्यतः’ इति वार्ति­को­क्त­न्या­येन अध्य­स्त­स­र्वा­न­र्थ­मू­ल­हृ­द­य­ग्र­न्थि­नि­वृ­त्ति­पू­र्व­क­नि­र­ति­श­या­न­न्द­रू­प­ब्र­ह्मा­त्म­भा­वा­भि­व्यक्तौ तावतैव कृतार्थतेति न पुरु­षा­र्था­न्त­र­प­र्य­व­सा­ना­न्वे­ष­ण­मिति विशेषः । अयन्तु विशेष: - परंपरया पुरु­षा­र्थ­प­र्य­व­सा­यि­नोऽपि सप्रयोजनत्वे साक्षादेव पुरु­षा­र्थ­प­र्य­व­सा­यिनः सप्रयोजनत्वं किमु वक्तव्यमिति कैमु­ति­क­न्या­य­हे­तु­त­याऽ­ल­ङ्कार एव, न बाधकः ॥

अत्रैव वर्णकान्तरं प्रदर्श्यते –

पूर्ववर्णके सिद्धार्थेऽपि पौरु­षे­य­वा­क्यानां प्रामा­ण्य­म­ङ्गी­कृत्य वेदान्तेषु पुरु­षा­र्थ­प­र्य­व­सानं कार्य­वि­ष­य­ता­म­न्त­रेण न लभ्यत इति पूर्वपक्षो ब्रह्मा­त्मै­क्या­व­ग­म­मा­त्रा­य­त्त­प­र­म­पु­रु­षा­र्थ­ला­भ­स­म­र्थ­नेन निरस्तः । इदानीं शब्दानां सिद्धे अर्थे व्युत्प­त्त्य­भा­वात् ब्रह्मा­त्म­भा­वो­प­दे­श­मा­त्रेण मोक्षादर्शनाच्च उपासनाविधिपरा एव वेदान्ताः, मोक्षोऽपि तत्फ­ल­त्वे­नै­वा­भ्यु­प­ग­न्तव्यः इति पूर्वपक्षो निरस्यते ।

स्पष्टं तावच्छब्दानां प्राथ­मि­क­व्यु­त्प­त्ति­ग्रहः कार्यपरेष्वेव शब्देषु उत्त­म­म­ध्य­म­वृ­द्ध­व्य­व­हा­राभ्यां इत्यतः तत्र कार्यपरत्वे शब्दानां निर्णीते तद­न­न्त­र­प्र­वृ­त्त­प्र­सि­द्ध­प­द­स­म­भि­व्या­हा­रा­द्य­धी­न­व्यु­त्प­त्ति­ग्र­होऽपि कार्यविषय एवेति युक्तम् । न च पितृ­मा­तृ­प्र­भृ­तिभिः अम्बा तातः मातुलः इत्यादिशब्देषु तत्त­द­र्था­नं­गुल्या निर्दिश्य बहुशः प्रयुक्तेषु सत्सु बाला­ना­मं­गु­लि­नि­र्दे­श­श­ब्द­प्र­यो­ग­सा­ह­च­र्य­द­र्श­न­ज­नि­त­वा­स­ना­बा­हु­ल्या­त्त­त्त­च्छ्र­व­णा­न­न्तरं तत्त­द­र्थ­वि­ष­य­बु­द्ध्यु­द­येन सिद्धरूपेषु तेषु तेष्वर्थेषु प्राथ­मि­क­व्यु­त्प­त्ति­ग्रहः सम्भवतीति वाच्यम् । अर्थ­वि­ष­यां­गु­लि­नि­र्दे­श­श­ब्द­प्र­यो­ग­सा­ह­च­र्य­रू­प­स­म्ब­न्धा­न्त­रा­धी­नेन शब्द­तोऽ­र्थ­प्र­त्य­येन हेतुना तदुपपादकतया शक्ति­रू­प­स­म्ब­न्धा­न्त­र­क­ल्प­नस्य व्यधिकरणत्वात् । न च – यत्र केनचित् पुरुषेण हस्तचेष्टादिना ‘पिता ते सुखमास्ते इति देवदत्ताय ज्ञापय’ इति प्रेषितोऽन्यः तद्ज्ञापनाय देवदत्तमुपसृत्य ‘पिता ते सुखमास्ते’ इति शब्दं प्रयुङ्क्ते, तत्र पार्श्वस्थोऽपि व्युत्पित्सुः चेष्टा­द­र्शि­त­पि­तृ­सु­खा­व­स्था­न­ज्ञा­पने प्रवृत्तममुं ज्ञात्वाऽनुगतः तद्ज्ञापनाय प्रयुक्तं शब्दं श्रुत्वा शब्दोऽयं तद­र्थ­बु­द्धि­हे­तु­रिति बुध्यते इति सिद्धार्थेऽपि प्राथ­मि­क­व्यु­त्प­त्ति­ग्रहो दृष्ट इति वाच्यम् । चेष्टाविशेषाणां तत्त­द­र्थ­बो­ध­क­श­ब्दो­न्ना­य­क­त्वेन तत्तद्गमकत्वे उदाहृतस्थलस्य प्राथ­मि­क­व्यु­त्प­त्ति­ग्र­ह­स्था­न­त्वा­सिद्धेः । तेषां तत्त­द­र्थ­लि­ङ्ग­तया तत्तद्गमकत्वे चेष्टाविशेषाणां तत्त­द­र्थ­व्या­प्ति­ग्र­ह­णस्य प्रथमं सङ्के­त­यि­तृ­पु­रु­षो­प­दे­शा­धी­न­त्वेन तथात्वासिद्धेः । यदि च सिद्ध­व­स्तु­रू­प­ब्र­ह्मा­त्मो­प­दे­श­मा­त्रा­न्मो­क्ष­स्स्यात् तदा सकृ­च्छ्र­व­ण­मा­त्रेण मोक्षो दृश्येत । न च तथा दृश्यते । श्रुत­ब्र­ह्म­णा­मपि यथापूर्वं संसारदर्शनात् , श्रवणानन्तरमपि मन­न­नि­दि­ध्या­स­न­यो­र्वि­धा­नाच्च । तस्मात् वेदा­न्ता­ना­मु­पा­स­ना­वि­धि­प­र­त्व­म­भ्यु­प­गम्य तद्विषयतयैव ब्रह्मसिद्धिः तत्फलतयैव मोक्षसिद्धिश्च एष्टव्या । यदि च अन्यशेषेभ्यः कर्म­वि­ध्य­पे­क्षि­त­दे­व­ता­दि­वत् माना­न्त­र­वि­रुद्धं ब्रह्मात्मैक्यं न सिद्ध्येत् ,मोक्ष­श्चो­पा­स­ना­फ­लत्वे साध­न­ता­र­त­म्या­य­त्त­ता­र­त­म्य­शा­लि­त्वा­व­श्य­म्भा­वेन नित्य­नि­र­ति­श­य­पु­रु­षा­र्थ­रूपो न सिध्येत् , मा सैत्सीत्तदुभयम् । नैतावता व्युत्प­त्ति­ग्र­ह­वि­रुद्धं फला­ति­प्र­स­ङ्ग­प­रा­हतं च वेदान्तानां मोक्ष­फ­ल­क­सि­द्ध­व­स्तू­प­दे­श­प­र­त्व­म­भ्यु­प­गन्तुं युक्तं इति पूर्वपक्षः ॥

सिद्धान्तस्तु – ‘पुत्रस्ते जातः’ इत्या­दि­सि­द्धा­र्थ­प­र­वा­क्ये­ष्वपि प्राथ­मि­क­व्यु­त्प­त्ति­ग्र­ह­द­र्श­नात् , कार्य­प­र­वा­क्ये­ष्वेव प्राथ­मि­क­व्यु­त्प­त्ति­ग्र­ह­नि­य­मेऽपि कार्यविशेषमिव कार्य­सा­मा­न्य­म­प्य­न­न्त­र्भाव्य इत­रा­न्वि­त­स्वा­र्थ­मात्रे तत्तदर्थमात्रे वा पदानां शक्ति­ग्र­ह­स­म्भ­वात् , कार्य­म­न्त­र्भाव्य प्राथ­मि­क­व्यु­त्प­त्ति­ग्र­हेऽपि अग्रे सिद्धा­र्थ­प्र­यो­ग­द­र्श­नेन गुरुमते प्रथ­म­गृ­ही­त­लौ­कि­क­का­र्य­प­र­त्व­स्येव कार्य­सा­मा­न्य­प­र­त्व­स्यापि त्यागसम्भवाच्च न वेदा­न्ता­ना­मु­प­क्र­मा­द्य­व­ग­त­ब्र­ह्मा­त्मै­क्य­प­रत्वं परित्यज्य कार्यपरत्वं कल्पनीयम् ।

नचैवं सति तदुपदेशमात्रेण मोक्षप्रसङ्गः ।

मन­न­नि­दि­ध्या­स­न­नि­व­र्त्या­स­म्भा­व­ना­दि­प्र­ति­ब­द्धस्य आपातरूपस्य श्रव­ण­सा­ध्य­ज्ञा­नस्य अवि­द्या­नि­व­र्त­ना­क्ष­म­त्वात् । न च ज्ञानस्य प्राग­भा­व­नि­वृ­त्ता­विव अवि­द्या­नि­वृ­त्ता­वपि प्रतिबन्धासम्भव इति वाच्यं । ज्ञानस्यैव प्राग­भा­व­नि­वृ­त्ति­त्वेन ज्ञानोदये सति तस्यां प्रति­ब­न्धा­स­म्भ­वेऽपि अवि­द्या­नि­वृ­त्ते­र्ज्ञा­न­सा­ध्य­त्वेन इच्छा­दि­प्रा­ग­भा­व­नि­वृ­त्ता­विव तत्र प्रति­ब­न्ध­स­म्भ­वात् । नच विद्या­वि­द्य­यो­र­त्य­न्त­वि­रो­धि­त्वात् विद्योदये सति अवि­द्याऽ­नु­वृ­त्त्य­स­म्भवः । विशे­ष­द­र्श­न­भ्र­म­यो­र­त्य­न्त­वि­रो­धि­त्वेऽपि उपाधिना प्रतिबन्धात् सत्यपि विशेषदर्शने प्रतिबिम्बभ्रमो न निवर्तत इति तदनुवृत्तिवत् अवि­द्याऽ­नु­वृ­त्त्यु­प­पत्तेः । न च अविद्यावत् तत्कार्याणामपि ज्ञान­नि­व­र्त्य­त्वात् ज्ञानोदये सति अवस्थानं न सम्भवतीति प्रति­ब­न्ध­क­त्वा­योग इति वाच्यम् । श्रवणानन्तरं मननविधानेन श्रुतब्रह्मणां संसा­रा­नु­वृ­त्ति­द­र्श­नेन च फलबलात् अना­दि­का­ल­प्र­वृ­त्त­दृ­ढ­त­र­भे­दा­दि­वा­स­ना­त­त्का­र्या­स­म्भा­व­ना­वि­प­री­त­भा­व­नानां मन­न­नि­दि­ध्या­स­न­नि­व­र्त­नी­यानां विद्योदये सत्य­प्य­व­स्था­नस्य अवि­द्या­नि­वृ­त्ति­प्र­ति­ब­न्ध­क­त्वस्य च कल्पनात् ।

यद्वा सत्ताऽ­व­धा­र­ण­रू­प­मेव ज्ञानं अवि­द्या­नि­व­र्तकं, न ज्ञानमात्रं, संशयस्यापि तन्नि­व­र्त­क­त्व­प्र­स­ङ्गात् । श्रवणजन्यज्ञानं च सत्ता­न­व­धा­र­ण­रू­प­मिति कार­णा­भा­वा­दे­वा­नि­वृ­त्ति­र­वि­द्यायाः, न तु प्रतिबन्धात् । न च न्यायो­प­बृं­हि­त­वे­दा­न्त­श्र­व­णेन निर्णयकारणेन जाय­मा­न­मे­का­का­र­ज्ञानं कथं सत्तानवधारणं स्यादिति वाच्यम् । तथा­भू­त­का­र­ण­ज­न्य­स्यापि भेद­वा­स­नाऽऽ­दि­दो­षात् सत्ताऽ­न­व­धा­र­ण­त्व­स­म्भ­वात् । चक्षु­रा­दि­नि­र्ण­य­का­र­ण­ज­न्य­स्यै­का­का­र­स्या­प्य­न­भ्या­स­द­शा­प­न्न­ज­ला­दि­ज्ञा­नस्य अन­भ्या­स­द­शा­दो­षात् सत्ता­न­व­धा­र­ण­त्व­द­र्श­नात् । अन्यथा तत्र जलादिसंशयो न स्यात् । न च तत्र ज्ञान­प्रा­मा­ण्य­सं­श­यात् संशयो न स्वत इति वाच्यम् । जल­ज्ञा­न­प्रा­मा­ण्य­सं­श­य­स्यापि पुरोवर्तिनि जल­त्व­वै­शि­ष्ट्य­सं­श­य­प­र्य­व­सा­यि­तया जलनिश्चये सति तस्या­प्य­स­म्भ­वात् । न हि पुरोवर्तिनि जलत्ववैशिष्ट्यं विना जल­ज्ञा­न­प्रा­मा­ण्य­घ­टके पुरो­वृ­त्ति­वि­शे­ष्य­कत्वे जल­त्व­प्र­का­र­कत्वे वा संश­य­को­टि­ता­प­र्य­व­सानं सम्भवति । तस्य अप्रा­मा­ण्य­को­ट्य­न्त­र­सा­धा­र­ण्यात् । न च प्रामा­ण्य­सं­श­यात् पूर्वं धर्मिज्ञानेन व्यवसायस्य नष्टत्वात् न तदनुपपत्तिरिति वाच्यम् । अनु­व्य­व­सा­य­वा­देऽपि अनुव्यवसायस्य विषये प्रका­र­वै­शि­ष्ट्यां­शेऽपि सत्ता­नि­श्च­य­रू­प­त्वस्य वक्तव्यत्वात् । अन्यथा इष्ट­व­स्त्वा­दि­ज्ञा­ना­ना­म­न्व­य­व्य­ति­रे­काभ्यां सुखादिहेतुत्वं न गृह्येत । इष्ट­ता­व­च्छे­द­क­वै­शि­ष्ट्यां­शेऽ­नु­व्य­व­सा­यस्य सत्ताऽ­नि­श्च­य­रू­पत्वे इष्ट­ज्ञा­न­त्वा­नि­श्च­यात् | तस्मात् व्यव­सा­य­स्या­नु­व्य­व­सा­यस्य वा प्रायः सत्ता­नि­श्च­य­रू­प­त्वेऽपि क्वचि­द­न­भ्या­स­द­शा­दि­दो­षात् सत्ता­न­व­धा­र­ण­रू­प­त्वे­नैव प्रामाण्यसंशय उपपादनीयः । एवं ब्रह्मज्ञानमपि प्रथमजं भेद­वा­स­ना­दि­दो­षात् सत्ता­न­व­धा­र­ण­रू­प­मिति न फलातिप्रसक्तिः । ततश्च वेदान्ताः सिद्धरूप एव ब्रह्मा­त्म­व­स्तुनि प्रमाणम् | तज्जन्यादेव ब्रह्म­सा­क्षा­त्का­रात् मोक्षः । अत एव मोक्षस्य श्रुत्य­व­ग­त­नि­त्य­त्व­मपि न बाधितं भवति । अन्यथा ह्युपासनाफलत्वे तत् बाधितं स्यादिति ।

सूत्रे तदिति पक्षनिर्देशो ब्रह्मपरः । पूर्व­सू­त्रेऽ­प्ये­त­देव पक्ष­नि­र्दे­श­क­म­पे­क्ष­णी­यम् । वेदा­न्त­प्र­ति­पा­द्य­मिति पूर्वा­धि­क­र­ण­द्वि­ती­य­व­र्ण­क­वत् साध्य­म­ध्या­ह­र­णी­यम् । ‘तुशब्दः’ प्रस­क्त­पू­र्व­प­क्ष­नि­वृ­त्त्यर्थः । समन्वयात् उप­क्र­मा­द्य­व­ग­त­वे­दा­न्त­ता­त्प­र्य­गो­च­र­त्वा­दि­त्यर्थः । १. १. ४ ।

इति समन्वयाधिकरणम् ॥ ४ ॥

ईक्ष­ते­र्ना­श­ब्दम् । ५।

प्रथमसूत्रेण शास्त्रारम्भे समर्थिते जन्मा­दि­सू­त्र­प्र­भृति शास्त्रं प्रवृत्तम् । तत्र जन्मादिसूत्रेण लक्षणमुखेन ब्रह्मस्वरूपं निरूप्य, तृतीयसूत्रेण तस्य अनु­मा­न­ग­म्य­त्व­नि­रा­सेन तत्र वेदान्तानां प्रामा­ण्य­मु­प­क्षिप्य, चतुर्थसूत्रेण प्रवृ­त्ति­प­र­वा­क्या­ना­मेव सफ­ल­त्व­मि­त्या­दि­जै­मि­नि­म­तो­प­जी­वि­श­ङ्का­नि­रा­क­र­णेन तत् प्रामाण्यं प्रतिष्ठापितम् ।

इह पुन: जगत्कारणवादिनो वेदान्ता आनु­मा­नि­क­प्र­धा­ना­नु­वा­दका इति साङ्ख्य­प­क्ष­प्र­ति­क्षे­पेण ब्रह्मणि दर्शि­त­यो­र्ल­क्ष­ण­प्र­मा­णयोः प्रतिष्ठापना क्रियते ॥

पूर्वपक्षस्तु ‘सदेव सोम्येदमग्र आसीत्’(छा. ६. २. १.) इत्या­दि­सृ­ष्टि­वा­क्य­जातं ‘विम­त­म­चे­त­न­प्र­कृ­तिकं कार्यत्वात् घटवत्’ इति साङ्ख्या­नु­मा­न­सिद्धं प्रधानमनुवदतीति युक्तम् | वृद्धव्यवहारेण सिद्धार्थे व्युत्पत्तौ पूर्वाधिकरणे स्थितायामपि मानान्तरगोचर एवार्थे तत्सम्भवात् तदगोचरे ब्रह्मणि सद्ब्र­ह्मा­दि­श­ब्दानां व्युत्प­त्ति­ग्र­हा­स­म्भ­वात् ‘तेजसा सोम्य शुङ्गेन सन्मू­ल­म­न्विच्छ’।(छा. ६. ८. ४) इति श्रुत्यैव शुङ्ग­श­ब्दो­क्त­का­र्य­लि­ङ्ग­का­नु­मा­न­सि­द्ध­का­र­णा­नु­वा­द­क­त्व­स्फु­टी­क­र­णाच्च । न च त्वन्मते अस्त्य­नु­मा­न­ग­म्यत्वं ब्रह्मणः । अनुमानमपेक्ष्य ब्रह्मबोधकत्वे च वेदान्तानां तत्र निर­पे­क्ष­त्व­ल­क्ष­ण­प्रा­माण्यं न सिद्ध्येत् ।

न च ‘तदैक्षत बहु स्यां प्रजायेय’(छा. ६. २. ३.) इति ‘यस्स­र्व­ज्ञ­स्स­र्व­वित्’(मु. १. १. ९.) इति ईक्षि­तृ­त्व­स­र्व­ज्ञ­त्व­श्र­वणं प्रधाने न युक्तमिति वाच्यम् ।

ब्रह्मणो नित्य­स­र्व­वि­ष­य­ज्ञा­न­त­याऽ­ङ्गी­कृ­तस्य तत्क­र्तृ­त्वा­भा­वेन तत्रापि तदयोगात् । न च प्राक्सिद्ध प्रकाशेऽपि सवितरि सविता प्रकाशयतीति प्रका­श्य­सं­यो­गो­पा­धि­क­प्र­का­श­क­र्तृ­त्व­व्य­प­दे­श­वत् नित्यज्ञानरूपे ब्रह्मणि दृश्या­व­च्छे­दो­पा­धि­क­ज्ञा­न­क­र्तृ­त्व­व्य­प­देशो गौणोऽस्त्विति वाच्यम् । सवितृप्रकाशे प्रका­श्य­सं­यो­ग­वत् ब्रह्मज्ञाने दृश्यावच्छेदस्य आग­न्तु­क­त्वा­न­ङ्गी­का­रात् । अन्यथा ब्रह्मणः कदा­चि­द­स­र्व­ज्ञ­त्वा­पत्तेः । ‘सर्व­ज्ञा­न­श­क्ति­म­त्त्व­मेव ब्रह्म­ण­स्स­र्व­ज्ञ­त्व­मिति चेत्’ तर्हीदं प्रधानेऽपि संभवति । तस्य ज्ञान­हे­तु­स­त्त्व­गु­ण­शा­लि­त्त्वात् । ‘ऐक्षत’ इत्येतदपि तत्र संभवति । ब्रह्मणि प्रत्ययार्थवत् प्रधाने प्रकृत्यर्थः कूलं पिप­ति­ष­ती­त्या­दा­विव कार्यौ­न्मु­ख्य­रूपो गौणः इत्युपपत्तेः । ईक्षणं गौणं तत्कर्तृत्वं वा इत्यत्र नास्ति नियामकमिति चेत् ‘तत्तेज ऐक्षत’(छा. ६. २. ३) ‘ता आप ऐक्षन्त’(छा. ६.२.४) इति गौणे­क्ष­ण­प्रा­य­पा­ठस्य नियामकस्य सत्त्वादिति ॥

राद्धान्तस्तु – प्रधानं न जगत्कारणत्वेन सृष्टि­वा­क्य­जा­त­बो­ध्यम् । तत्र ईक्षणश्रवणेन तस्य जग­त्का­र­ण­प­र­स­द्ब्र­ह्मा­दि­श­ब्दा­वि­ष­य­त्वात् । न च तेषां शब्दानां ब्रह्मपरत्वे व्युत्प­त्ति­ग्र­हा­स­म्भवो दोषः। तेषां यौगिकत्वेन पृथ­ग्व्यु­त्प­त्ति­ग्र­हा­न­पे­क्ष­णात् । यूपा­ह­व­नी­या­दि­न्या­येन तद्ग्र­हो­प­प­त्तेश्च ।

न च ‘तेजसा सोम्य शुङ्गेन’(छा. ६. ८. ४) इति कार्य­लि­ङ्ग­का­नु­मा­नो­प­न्या­सस्य ब्रह्म­ण्य­स­ङ्गतिः ।

ब्रह्मण्यपि श्रुत्य­नु­ग्रा­ह­का­नु­मा­न­प्र­वृ­त्त्य­वि­रो­धात् । श्वेताश्वतरे ‘कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्म­भा­वा­दा­त्माऽ­प्य­नी­श­स्सु­ख­दुः­ख­हेतोः’(श्वे. १. २) इति मन्त्रेण काल­स्व­भा­व­क­र्म­म­हा­भू­त­प्र­कृ­ति­पु­रु­षा­ति­रिक्ते ब्रह्मण्येव कार्य­लि­ङ्ग­का­नु­मा­नो­प­न्या­स­द­र्श­नाच्च । नचैवं श्रुते­र्नि­र­पे­क्ष­त्व­हानिः । श्रुति­ता­त्प­र्य­नि­र्ण­याय मीमां­सा­शा­स्त्र­ग्र­थि­त­न्या­य­क­ला­पा­पे­क्षा­वत् श्रुति­द­र्शि­त­स्वा­नु­ग्रा­ह­का­नु­मा­ना­पे­क्षा­या­मपि निर्णीते संवादाय तदनपेक्षणात् । उप­क्र­मो­प­सं­हा­रा­द्य­न्त­र्ग­तो­प­प­त्ति­रू­प­तया अनुमानस्य तात्प­र्य­नि­र्ण­या­र्थ­म­पे­क्षा­या­स्स­म्प्र­ति­प­न्न­त्वात् । न चास­म्भ­व­श­ङ्का­व्या­वृ­त्त्यर्थं मृत्पि­ण्डा­दि­दृ­ष्टान्त एव तत्रोपपत्तिः नानुमानमिति वाच्यम् ‘न हि द्रष्टु­र्द्र­ष्टे­र्वि­प­रि­लोपो विद्यते अविनाशित्वात्(बृ. ४. ३. २३) इत्यादौ अनुमानरूपाया अप्यु­प­प­त्ते­र्द­र्श­नेन तद­स­ङ्ग्र­हा­यो­गात् । नन्वेवं सति किमर्थं हेतु­व­न्नि­ग­दा­धि­क­रणे ‘शूर्पेण जुहोति’ इत्यत्र ‘तेन ह्यन्नं क्रियत’ इत्यस्य हेतु­त्वा­न्व­य­नि­रासः कृतः । हेतुत्वान्वये, येन येन अन्नं क्रियते तेन सर्वेणापि होतव्यमिति व्याप्त्या­क्षे­पेण दर्वी­पि­ठ­रा­दी­ना­मपि होम­सा­ध­न­त्वा­नु­मा­नात् आनुमानिकैस्तैः प्रत्य­क्ष­श्रु­तस्य शूर्प­स्या­न्याय्यो विकल्पः स्यादिति तन्निरासार्थम् , न तु हेतुत्वान्वये तत्सा­पे­क्ष­त्व­ल­क्ष­ण­म­प्रा­माण्यं स्यादिति तन्नि­व­र्त­ना­र्थम् । अत एव तत्रैवाधिकरणे न्यायसुधायां आतिथ्येष्टौ अति­दे­श­प्रा­प्तौ­प­भृ­ता­ष्ट­गृ­ही­त­नि­व­र्त­न­परे ‘चतु­र्गृ­ही­ता­न्या­ज्यानि भवन्ति’ इत्यत्र ‘न ह्यत्रानूयाजा इज्यन्ते’ इति वाक्यशेषस्य हेतु­स­म­र्प­क­त्व­म­भ्यु­प­ग­तम् । यत्र यत्रा­नू­या­जा­ना­म­भावः तत्र तत्रा­ष्ट­गृ­ही­ता­भावः इति व्याप्त्या­क्षे­पस्य निर्दोषत्वात् । अप्रा­मा­ण्य­नि­रा­सार्थं हेतु­त्वा­न्व­य­नि­रासः इति निब­न्ध­न­का­र­नि­र्ब­न्ध­मा­त्रम् ॥

सर्वज्ञत्वं ब्रह्मणो न सर्व­वि­ष­य­ज्ञा­न­क­र्तृ­त्वम् । किन्तु विषयोपरागेण कल्पितभेदं सर्व­वि­ष­य­ज्ञा­न­रूपं चित्प्रकाशं प्रत्या­श्र­य­त्वम् । ‘सविता प्रकाशते’, ‘चैत्रो जानाति इच्छति यतते स्वपिति’ इत्यादिषु धात्वर्थं प्रत्या­श्र­य­त्व­स्यापि कर्त्र­र्थ­प्र­त्य­या­भि­धे­य­त्व­द­र्श­नात् ।

एवञ्च ‘तदैक्षत’ इत्येतदपि ब्रह्म­ण्यु­प­प­द्यते । स्रष्ट­व्या­लो­च­न­रू­प­मा­या­वृ­त्ति­प्र­ति­बि­म्बि­त­चि­त्प्र­का­श­रूपे ईक्षणे ब्रह्मणः तद­व­च्छे­द­क­मा­या­वृ­त्ति­क­र्तृ­त्व­स्यो­प­चा­र­स­म्भ­वाच्च ॥

यद्यप्येवं धात्व­र्था­श्र­यत्वं तत्कर्तृत्वं चेत्यु­भ­य­म­प्यौ­प­चा­रि­क­मेव, तथापि प्रधानपक्षे निर­पे­क्ष­प्र­कृ­त्य­र्थ­स्या­मु­ख्यत्वं स्यात् , ततो वरं सापे­क्ष­प्र­त्य­या­र्थ­स्या­मु­ख्य­त्व­प्र­क­ल्पनं इति सर्वमनाकुलम् ।

इदन्तु चोद्यमवशिष्टम् – प्रकृ­त्य­र्थ­स्या­मु­ख्य­त्व­हे­तु­र्गौ­णे­क्ष­ण­प्रा­य­पाठो वर्तते – इति तत् उत्त­र­सू­त्रे­णा­नु­भाष्य निराकरिष्यते ।

सूत्रे प्रधानं जग­त्का­र­ण­वा­चि­वे­दा­न्त­प्र­ति­पाद्यं इति धर्मि­नि­षे­ध्य­यो­र­ध्या­हा­रेण पक्ष­सा­ध्य­नि­र्देशः । तत्र हेतु: अशब्दं – सदा­दि­श­ब्दा­बोध्यं हि तदिति । ‘नन्वसिद्धो हेतुः प्रधानेऽपि सत्ताऽऽदियोगेन सदा­दि­श­ब्द­प्र­वृ­त्त्यु­पत्तेः’ इति शङ्कानिराकरणेन तदुपपादनार्थो हेतुः ईक्षतेः इति । नन्वेवं हेतु­हे­तु­त्वे­ना­व­श्या­पे­क्षि­ते­क्ष­ति­हे­तो­रेव साक्षात् साध्ये हेतुत्वसम्भवे किमन्तर्गडुना अशब्दत्वहेतुना इति चेत् , तर्हि ईक्षतिहेतोरपि गौण­त्व­श­ङ्का­नि­रा­क­र­णा­या­व­श्य­कस्य ‘आत्मशब्दात्’ इति उत्त­र­सू­त्र­हे­तो­रेव साक्षात् साध्ये हेतुत्वसम्भवात् ईक्ष­ति­र­प्य­न्त­र्ग­डु­रिह नोपादेयः स्यात् । नन्वी­क्ष­ति­हे­तू­पा­दानं गौण­त्व­श­ङ्को­द्भा­व­न­द्वा­र­तया गौणे­क्ष­ण­प्रा­य­पा­ठ­रू­प­पू­र्व­प­क्ष­बी­ज­सू­च­नार्थं स्यादिति चेत् ; तर्हि अशब्दत्वहेतुरपि ब्रह्म­ण­स्स­दा­दि­श­ब्द­बो­ध्य­त्व­स­म्भ­व­ज्ञा­प­न­द्वा­र­तया तद­स­म्भ­व­पू­र्व­प­क्ष­सू­च­नार्थः स्यादिति तस्य नास्ति वैयर्थ्यमिति गृहाण । ननु च आनु­मा­नि­क­का­र­ण­ता­व­ग­म­पू­र्व­प­क्षोऽपि त्वया दर्शितः, तत्सूचनार्थं अशब्दम् – शब्दे­त­रा­नु­मा­न­प्र­मा­ण­वत् इति मत्व­र्थी­या­च्प्र­त्य­या­न्त­त्वेन ‘आनु­मा­नि­क­म­प्ये­के­षाम्’(ब्र. सू. १. ४. १.) इति सूत्र­प्र­यु­क्ता­नु­मा­नि­क­प­द­वत् प्रधानपरमपि किं न स्यात् , सौत्र­प­दा­ना­मा­वृ­त्ते­र­ल­ङ्का­र­त्वात् इति चेत् , न ; पूर्वाधिकरणे उप­क्र­मा­दि­लि­ङ्गा­व­ग­मि­त­ता­त्प­र्य­वता वेदान्तबृन्देन सह ब्रह्मणः प्रतिपाद्यतया अन्वयपरेण ‘समन्वयात्’ इति पदेनैव उप­क्र­मा­द्य­न्त­र्ग­ता­नु­मा­न­रू­पो­प­प­त्ति­वि­ष­य­त्वस्य ब्रह्मणि सिद्धत्वेन अनु­मा­न­वि­ष­य­ता­मा­त्रस्य पूर्व­प­क्ष­बी­ज­त्वा­भा­वात् । भाष्ये ‘सर्वेष्वेव वेदान्तवाक्येषु सृष्टि­वि­ष­ये­ष्व­नु­मा­ने­नैव कार्येण कारणं लिलक्षयिषितम्’ इति पूर्व­प­क्षि­म­त­व­र्ण­नस्य ब्रह्म­णोऽ­नु­मा­न­ग­म्य­त्व­स­म्भ­व­प्र­पं­च­ना­र्थ­त्वेन तस्य अन­न्य­था­सि­द्ध­पू­र्व­प­क्ष­बी­जत्वे तात्पर्याभावात् । ‘परिनिष्ठितं वस्तु प्रमा­णा­न्त­र­ग­म्य­मेव’ इति भाष्यदर्शितस्य मानान्तरागम्ये ब्रह्मणि व्युत्प­त्ति­ग्र­हा­स­म्भ­वस्य प्राय­पा­ठ­नि­य­मि­त­प्र­कृ­त्य­र्थ­गौ­ण­त्वस्य चेति द्वयोरेवात्र वस्तुतः पूर्व­प­क्ष­बी­ज­त्वात् । १ । १।५ ।

स्यादेतत् – छान्दोग्ये तावत् गौणे­क्ष­ण­प्रा­य­पा­ठात् गौणमीक्षणं युक्तम् ; तत्स­मा­ना­र्थ­त्वात् ‘स ईक्षाञ्चक्रे’(प्र. ३. ६. ३.) इत्या­दि­श्रु­त्य­न्त­रे­ष्वपि तत् गौणं भविष्यति । न च सन्निधिरूपेण प्रायपाठेन ईक्षणश्रुतिबाधो न युक्त इति शंक्यम् । तत्र तत्र प्रत्य­य­श्रु­तीनां प्रायपाठस्य च इत्य­ने­का­नु­ग्र­हाय एकस्याः ईक्षणश्रुतेः गौण­त्वा­भ्यु­प­ग­म­स­म्भ­वात् इत्याशङ्का निराक्रियते–

गौण­श्चे­न्ना­त्म­श­ब्दात् ।६।

न ईक्षतिः प्रधाने गौण इति युक्तम् ; ‘अनेन जीवे­ना­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. ६. ३. २) इति सच्छब्दाभिहितं जगत्कारणं प्रति जीवस्य स्वरू­प­त्व­प्र­ति­पा­द­कात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’(छा. ६. ८. ७) इति श्वेतकेतुं प्रति सच्छ­ब्दा­भि­हि­तस्य स्वरू­प­त्व­प्र­ति­पा­द­काच्च शब्दात् । ‘तत्सत्यं स आत्मा’ इत्या­त्म­श­ब्दाच्च । न ह्यचेतनस्य चेतनं चेतनस्य वा अचेतनं स्वरूपं भवितुमर्हति । न वा चेतनवाची आत्मशब्दः अचेतने युज्यते । न च – ममात्मा भद्रसेन इतिवत् औप­चा­रि­कोऽ­य­मु­प­का­र्यो­प­का­र­क­यो­र्जी­व­प्र­धा­न­यो­र­भेद: स्यात् , आत्मशब्दश्च स्वरू­प­प­र­स्स्या­दिति शङ्क्यम् । ‘तत्त्वमसि’ इति नव­कृ­त्वोऽ­भ्या­सेन अभेदे तात्पर्यावगमात् । ‘स आत्मा’ इत्यात्मशब्दस्य निर­पे­क्ष­चे­त­न­प­रत्वे सम्भवति सापे­क्ष­स्व­रू­प­प­र­त्व­क­ल्प­नाऽ­यो­गाच्च । अने­का­र्थ­त्व­स्या­न्या­य्य­त्वेन प्रसि­द्धि­बा­हु­ल्या­च्चे­त­न­वा­चि­न­स्तस्य स्वरूपपरत्वे लक्ष­णा­क­ल्प­ना­प­त्तेश्च । बहु­प्र­मा­ण­बा­ध­स्या­न्या­य्य­त्वाच्च । तस्मात् प्रधानं न सच्छब्दवाच्यम् ॥

सूत्रे आत्म­श­ब्दा­दि­त्यत्र आत्मपदं स्वरूपपरं धर्मप्रधानं, तस्य शब्दात् स्वरू­प­त्व­प्र­ति­पा­द­क­श­ब्दा­दि­त्यर्थः । तेन च सच्छब्दवाच्यं प्रति जीवस्य स्वरू­प­त्व­प्र­ति­पा­द­क­श्शब्दो जीवं प्रति सच्छब्दवाच्यस्य स्वरू­प­त्व­प्र­ति­पा­द­क­श्श­ब्द­श्चे­त्यु­भ­य­मपि संगृहीतम् । अयमेकोऽर्थः । स आत्मे­त्या­त्म­श­ब्दा­दि­त्य­न्योऽर्थः । उभयमपि विवक्षितं प्रमा­ण­बा­हु­ल्य­सू­च­ना­र्थम् । १ । १।६।

तन्निष्ठस्य मोक्षोपदेशात् ।७।

श्वतकेतोः ‘तत्त्वमसि’ इति सदा­त्म­त्व­मु­प­दिश्य ‘आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये’(छा. ६.१४.२.) इति सदा­त्म­त्व­सा­क्षा­त्का­र­वतो मोक्षोपदेशादपि न सच्छब्दं प्रधानम् । पूर्वसूत्रगतस्य आत्म­श­ब्दा­दि­त्यस्य आद्येऽर्थे आत्मपदेन प्रकृतं जीवं प्रति सच्छब्दवाच्यस्य स्वरूपत्वं सूत्रगतेन तत्पदेन परामृश्यते । महा­वा­क्या­र्थ­भू­त­त­त्सा­क्षा­त्का­रा­देव मोक्ष इत्युपगमात् (१.१. ७.) ।

हेयत्वावचनाच्च । ८।

ननु ‘तत्त्वमसि’ इति न तत्त्वदृष्ट्या सदा­त्म­त्वो­प­देशः, किन्तु स्थूला­रु­न्ध­ती­न्या­येन, ततश्च प्रधानस्य सच्छ­ब्दा­र्थ­त्वेऽपि सदात्मत्वोपदेशो न विरुध्यते इति न शङ्क्यम् । तदा मोक्ष­यि­त­व्य­श्श्वे­त­के­तु­स्त­न्निष्ठो माभूदिति मुख्य­मा­त्मा­न­मु­प­दि­दि­क्षुणा आरुणिना स्थूल­ता­रा­या­म­रु­न्ध­ती­ता­दा­त्म्य­स्येव इह सदात्मत्वस्य हेयताया वक्तव्यतापत्तेः । तस्य अवचनात् सदात्मत्व एव उप­दे­श­प­रि­स­मा­प्ति­द­र्श­नात् ।

पूर्वसूत्रे तच्छब्दः समस्तोऽपि अपे­क्षा­व­शा­दि­हा­नु­षक्तः षष्ठ्यन्तो विपरिणम्यते । तस्य – सदात्मत्वस्य हेयत्वावचनात् इति सूत्रार्थः । चकारेण प्रति­ज्ञा­वि­रो­धा­दिति हेतुः अभ्युच्चीयते । ‘येनाश्रुतं श्रुतं भवति’(छा. ६. १. १.) इत्यादेः एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञायाः प्रधाने विरोधादपि न सच्छ­ब्दा­दि­वाच्यं प्रधानम् । सा हि धर्म्यैक्यात् एकाकारान्वयात् वस्त्व­न्त­रा­णा­मे­क­स्मि­न्न­ध्य­स्त­त्वाद्वा निर्वहति । तत्र न तावत् , ब्रह्मवादे सर्वेषां ब्रह्म­ण्य­ध्य­स्त­त्वा­द­ध्य­स्ता­ना­म­धि­ष्ठा­न­मेव वस्तु­स­त्स्व­रू­प­मिति तद्ज्ञानेन ज्ञात­ता­नि­र्वा­ह­वत् प्रधानवादे निर्वाहः सम्भवति ; प्रप­ञ्च­स­त्य­त्वा­द­भ्यु­प­ग­मात् । नापि ज्याति­ष्टो­म­वि­कृ­तीनां गवादीनां तत्स­मा­ना­का­र­त्वात् तद्ज्ञानेन ज्ञात­ते­ति­व­न्नि­र्वाहो वा, एक­मृ­त्पि­ण्डा­र­ब्धानां घटशरावादीनां तस्मा­द­न­ति­रि­क्त­द्र­व्य­तया धर्म्यै­क्या­त्त­द्ज्ञा­नेन ज्ञात­ते­ति­व­न्नि­र्वाहो वा अत्र सम्भवति । प्रधानविज्ञानेन तत्प­रि­णा­म­भो­ग्य­व­र्ग­वि­ज्ञा­न­स­म्भ­वेऽपि भोक्तृ­व­र्ग­वि­ज्ञा­ना­स­म्भ­वात् । १ । १ । ८ ।

स्वाप्ययात् । ९।

यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपि­ती­त्या­च­क्षते स्वं ह्यपीतो भवति (छा. ६.८.१) इति प्रकृतं सत् स्वश­ब्दे­नोक्त्वा तत्र जीव­स्या­प्य­य­प्र­ति­पा­द­ना­दपि न सच्छब्दवाच्यं प्रधानम् । यद्यपि स्वशब्दः स्वीयपरत्वेन तत्रा­प्यु­प­प­द्यते, तथापि तत्र अप्ययशब्दितो जीवस्य लयो न सम्भवति । ननु ब्रह्मण्यपि जीवस्य मुख्यो लयो न सम्भवति नित्यत्वात् , औपचारिकस्तु लयः प्रधानेऽपि तस्य व्यपदेष्टुं शक्यः इति चेत् । न । अध्य­स्ता­का­र­नि­वृत्तौ तद­नु­वृ­त्ता­धि­ष्ठा­न­रू­पस्य अध्य­स्तो­पा­धि­कृ­त­भे­द­नि­वृत्त्या तदभेदप्राप्तिः अप्ययशब्दितो लयः, अस्ति च सुषुप्तौ ब्रह्मा­ध्य­स्त­स्थू­ल­सू­क्ष्म­दे­ह­द्व­यो­पा­धि­का­का­र­नि­वृत्तौ सत्यां तद­नु­वृ­त्ता­धि­ष्ठा­न­रू­प­जी­वस्य तत्कृ­त­भे­द­नि­वृत्त्या ब्रह्मा­भे­द­प्राप्तिः इति मुख्यलयसम्भवात् । यद्यपि सुषु­प्ता­व­प्य­वि­द्यो­पा­धि­कृ­तोऽ­ति­सू­क्ष्मा­न्तः­क­र­णो­पा­धि­कृ­तश्च आमु­क्त्य­नु­वृत्तो जीवस्यास्त्येव ब्रह्मणो भेदः । तथाऽपि अत्य­न्त­भे­द­क­स्थू­ल­सू­क्ष्मो­पा­धि­सत्त्वे यथा भेदो न तथा भेदोऽस्ति तन्निवृत्ताविति कथ­ञ्चि­द­भे­द­प्रा­प्ति­रपि युज्यते । भाष्ये ‘सुपु­प्ता­व­स्था­या­मु­पा­धि­कृ­त­वि­शे­षा­भा­वात् स्वात्मनि प्रलीन इव’ इति इवकारो मुक्ताविव सुषुप्तौ सर्वात्मना न अभे­द­प्रा­प्ति­रूपो विलयः इत्याशयेन । १ । १ । ९ ।

गतिसामान्यात् । १० ।

१०

सर्वेषु वेदान्तेषु चेत­न­का­र­ण­त्वा­व­ग­ति­सा­मा­न्या­दपि न सच्छब्दवाच्यं प्रधानम् , किंतु ब्रह्मैव ।१।१।१०।

श्रुतत्वाच्च । ११ ।

११

श्वेता­श्व­त­रो­प­नि­षदि ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः(श्वे ६.९) इति चक्षु­रा­दि­क­र­णा­धि­पानां जीवानामधिपस्य ब्रह्मणः साक्षादेव कार­ण­त्व­श्र­व­णाच्च ।

पूर्वसूत्रे सर्वेषां वेदान्तानां चेत­न­का­र­ण­त्व­मात्रे श्रुति­लि­ङ्गा­दि­क­म­भि­प्रे­तम् , न तु परमेश्वरस्यैव कारणत्वमित्यत्र तद­भि­धा­न­श्रु­ति­र­भि­प्रेता ; ‘ आत्मन आकाशस्सम्भूतः’(तै. २. १.१) इत्या­दि­त­द्वि­ष­य­वा­क्य­ग­ता­ना­मा­त्मा­दि­श­ब्दानां चेत­न­मा­त्र­वा­चि­त्वात् , इह तु परमेश्वरस्यैव कारणत्वं तदभिधानश्रुत्या सम­र्पि­त­मि­त्यु­च्यते इति भेदः । अत एवास्मिन् सूत्रे भाष्यं ‘स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते’ इति । स्वशब्दश्चात्र ‘स कारणम्’ इति मन्त्रात् प्राचीनेषु ‘तमीशानं वरदं देवमीड्यं निचाय्येमां शान्ति­म­त्य­न्त­मेति । संयुक्तमेतत् क्षरमक्षरञ्च व्यक्ताव्यक्तं भरते विश्वमीशः’ इत्या­दि­म­न्त्रेषु श्रुतः ईशानादिशब्दः । तत्समर्पितो ह्यर्थः सकारणमिति मन्त्रे तच्छब्देन परामर्शनीयः । न च ईशानादिशब्दस्य तद­भि­धा­न­श्रु­तित्वे विवदितव्यम् । अङ्गुष्ठाधिकरणे(ब्र.सू.१. ३. ७) ईशानशब्दस्य ब्रह्मा­भि­धा­न­श्रु­तित्वे सूत्र­भा­ष्य­सं­प्र­ति­प­त्ति­द­र्श­नेन तत्तु­ल्या­र्थ­स्ये­शा­दि­श­ब्द­स्यापि तथात्वसिद्धेः ।

एवं श्वेता­श्व­त­रो­प­नि­ष­द्ग­तानां पर­मे­श्व­रा­भि­धा­न­श्रु­तीनां गति­सा­मा­न्य­सू­त्र­गृ­ही­तेभ्यः पृथक्कृत्य दर्शनञ्च प्रधा­न­व्या­व­र्त­नी­भि­रेव ताभिः जीवव्यावर्तनमपि लम्भयितुम् । तेन जन्मादिसूत्रे न्यायतो निरस्ता जीवकारणत्वशङ्का श्रुतितोऽपि निरस्ता भवति । स्फुटो हि तत्र क्षरा­दि­श­ब्दि­तात् प्रधानादिव अक्ष­र­क­र­णा­धि­पा­दि­श­ब्दा­ज्जी­वा­दपि तन्नियन्तृत्वेन विलक्षणः परमेश्वर एव कारणमिति सिद्ध्यतीति प्रधा­न­का­र­ण­वा­द­नि­रा­से­नैव जीव­का­र­ण­त्व­वा­द­नि­रासः। ।१ । १ । ११ ।

इति ईक्षत्यधिकरणम् ।५।

आन­न्द­म­योऽ­भ्या­सात् । १२ ।

१२

एवं जडजीवविलक्षणस्य मायाशबलितस्य ब्रह्मणो जग­त्का­र­ण­त्व­प्र­सा­ध­नेन तदुपलक्षिते शुद्धब्रह्मणि वेदान्तानां समन्वयः सामान्यतो निर्व्यूढोऽपि केषु­चि­द्वे­दा­न्त­वा­क्ये­ष्व­न्य­प­र­त्व­श­ङ्कया शिथिलीभवतीति तेषां तत्त­च्छ्रु­ति­लि­ङ्गा­दि­प्रा­पि­ता­न्य­प­र­त्व­श­ङ्का­नि­रा­क­र­णेन तत्र समन्वयः प्रतिष्ठापनीयः । अन्यथा तत्त­त्प्र­क­र­ण­द­र्शि­तो­पा­य­मु­खेन शुद्ध­ब्र­ह्म­प्र­ति­प­त्त्य­सिद्धेः । उपासनावाक्येषु च केषुचित् उपा­स्य­म­ब्र­ह्मेति शङ्कानिराकरणेन ब्रह्मेति प्रतिपादनीयम् । यथा कर्मकाण्डे दर्श­पू­र्ण­मा­सा­द्य­र्थ­म­प्प्र­ण­य­ना­दि­क­मा­श्रित्य दर्श­पू­र्ण­मा­सा­दि­प्र­क­रणे विहितानां गोदोहनादीनां कल्पसूत्रेऽपि तत्तत्प्रकरणे एव विवेचनम् , तथा ब्रह्मकाण्डे अध्या­रो­पा­प­वा­द­न्या­येन शुद्ध­ब्र­ह्म­प्र­ति­प­त्त्य­र्थ­मु­प­दिष्टं ब्रह्म­ण­स्स­प्र­प­ञ्च­त्व­मा­श्रित्य विहि­ता­ना­मु­पा­स­ना­ना­मपि ब्रह्म­का­ण्डा­र्थ­नि­र्णा­यके एव शास्त्रे निर्ण­य­स्यो­चि­त­त्वात् । तद्व­दि­हा­धि­कृ­ता­धि­का­रा­भा­वेऽपि चित्त­व­शी­क­र­ण­स­म्पा­द­ना­दि­द्वारा उपासनानां शुद्ध­ब्र­ह्म­प्र­ति­प­त्त्यु­पा­य­तया तद्वा­क्या­र्थ­नि­र्णा­य­क­न्या­या­ना­म­वि­चा­रि­त­शु­द्ध­ब्र­ह्म­प­र­वा­क्या­र्थ­नि­र्ण­यो­प­यो­गि­तया च तद्वि­चा­रा­णा­म­प्यत्र संगतेः । अतः तदर्थमध्यायशेष आरभ्यते ।

तत्र तावदानन्दवल्या जीवपरत्वनिरासेन ब्रह्म­प­र­त्व­म­स्मि­न्न­धि­क­रणे समर्थ्यते ।

तत्र हि ‘तस्माद्वा एत­स्मा­द्वि­ज्ञा­न­म­यात् अन्योऽन्तर आत्माऽऽनन्दमयः’(तै. २.५.१) इत्यारभ्य ‘तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’(तै. २.५.१) इति श्रूयते ।

अत्र आनन्दमयो जीव इति पूर्वपक्षे ब्रह्मेति सिद्धान्तः इत्यधिकरणशरीरं वृत्तिकृता सूत्रार्जवं मन्यमानेन वर्णितम् ।

श्रुति­वि­रो­धा­त्त­द­यु­क्त­मिति भगवता भाष्यकारेण पूर्वपक्षे सिद्धान्ते चानन्दमयस्य जीव­त्व­मु­र­री­कृत्य प्रकारान्तरेण अधिकरणशरीरं वर्णितम् । तत् प्रदर्शयामः।

किमिह प्रिय­मो­दा­दि­रू­प­क­ल्पि­त­शि­रः­प­क्षा­द्य­व­य­व­यु­क्त­तया उपास्य आनन्दमयो जीवः प्राधान्येन प्रतिपाद्यः ब्रह्म तु पुच्छ­रू­प­त­द­व­य­व­तया निर्दिश्यते, उत शुद्धं ब्रह्मैव पुच्छशब्देन आन­न्द­म­य­स्या­प्या­धा­र­तया स्वप्राधान्येन प्रतिपाद्यते अनन्दमयस्तु अन्न­म­या­दि­व­त्त­त्प्र­ति­प­त्त्यु­पा­य­ता­मा­त्रेण निरूप्यते इति संशयः ।

तत्र ईक्ष­ति­मु­ख्य­त्वा­नु­रो­धा­ज्ज­ग­त्का­र­णस्य चेतनत्ववत् पुच्छ­श­ब्द­मु­ख्य­त्वा­नु­रो­धा­द्ब्र­ह्म­णोऽ­व­य­व­त्व­मिति प्रथमकोटिः प्राप्ता । पुच्छ­श­ब्द­स्या­धा­र­ल­क्ष­णाऽपि न युक्ता; प्रति­ष्ठा­प­दे­नै­वा­धा­र­त्व­ला­भात् । न च वाच्यम् – यथा ‘कान्तिमन्मुखं चन्द्रः’ इत्यत्र स्वशब्देनैव कान्तिमत्त्वे लब्धेऽपि मुखे गौणं चन्द्रपदमपि दृश्यते, तथेह प्रतिष्ठापदेन आधारत्वे लब्धेऽपि तल्ल­म्भ­क­पु­च्छ­श­ब्दोऽपि स्यादिति । वैषम्यात् । तत्र हि चन्द्रस्य यावती कान्तिः तावती मुखे स्तुत्यर्थं प्रति­पि­पा­द­यि­षिता । न च तावती कान्तिमच्छब्देन लभ्यते । तस्य माना­न्त­र­सि­द्ध­मु­ख­ग­ता­ल्प­का­न्ति­मा­त्र­वि­ष­य­त्वेन चारितार्थ्यात् । अत­श्च­न्द्र­तु­ल्य­का­न्ति­म­त्त्व­ला­भाय चन्द्रपदं उपात्तम् । इह तु ब्रह्मणि प्रति­ष्ठा­त्व­स­ङ्को­च­क­मा­ना­न्त­रा­भा­वात् तस्य निर­पे­क्ष­स­र्व­प्र­ति­ष्ठा­त्व­प्र­ति­पा­द­क­श्रु­त्य­न्त­रा­नु­रो­धाच्च निर­ति­श­य­मा­धा­रत्वं प्रतिष्ठापदेन लभ्यत इति किमत्र पुच्छपदेन करिष्यते । प्रत्युत पुच्छ­तु­ल्या­धा­र­त्व­ल­क्ष­णायां पुच्छ­स्या­धा­रत्वं भूतलास्तीर्णे तृणराशौ सञ्चरतः पुरुषान् प्रति तृणराशेरिव आधा­रा­न्त­र­सा­पेक्षं सातिशयमिति ब्रह्म­ण­स्त­था­भू­त­मा­धा­रत्वं लक्षयत् पुच्छपदं अनिष्टार्थमेव स्यात् । तस्मात् पक्षिरूपेण परिकल्प्य उपासनीयं आनन्दमयं जीवं प्रति परस्य ब्रह्मणः कल्पनीयं पुच्छत्वं पुच्छपदेनोच्यते । प्रतिष्ठापदेन च पुच्छ­त्व­क­ल्प­ना­नि­मित्तं सारूप्यमुच्यते । पक्षिणो हि पुच्छ­भा­ग­मा­धा­री­कृत्य निषीदन्ति इति । पक्षिणां पुच्छं प्रतिष्ठा । अत एव ऐतरेयारण्यके श्रूयते ‘तस्मात् सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव प्रति­ष्ठा­यो­त्प­तन्ति प्रतिष्ठा हि पुच्छ­म्’(ऐ­त­रे­या­र­ण्य­कम्) इति । ब्रह्मानन्दोऽपि ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ.उ.४.३.३२) इति श्रुत्यनुसारेण कृत्स्नस्यापि लौकि­का­न­न्द­शी­क­र­जा­तस्य समुद्रस्थानीय इति प्रिय­मो­दा­द्य­व­य­व­यु­क्त­स्या­न­न्द­म­यस्य प्रतिष्ठा । अतः सारूप्यात् ब्रह्मणः पुच्छत्वकल्पना युक्तेति । अन्यत्रापि तादा­त्म्य­क­ल्प­ना­नि­मि­त्त­सा­रू­प्य­व­र्णनं दृश्यते, यथा ‘तस्य भूरिति शिरः एकं हि शिरः एकमेतदक्षरम्’(बृ.उ.५.५.३) इति । अत्र भूरित्यक्षरे प्रजा­प­ति­शि­र­स्त्व­क­ल्प­ना­नि­मि­त्त­मे­कत्वं सारूप्यमुक्तम् । न च प्रधा­ना­प्र­धा­न­यो­र्ब्र­ह्म­जी­व­यो­र्वै­प­री­त्य­क­ल्प­नाऽ­नु­प­पत्तिः । ‘मनो ब्रह्मे­त्यु­पा­सीत’(छा.उ. ३.१८.१) इत्यादौ तद्दर्शनात् ।

ननु ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र निर्दिष्टस्य ब्रह्मण एव प्राधान्येन वाक्य­प्र­ति­पा­द्यत्वं युक्तम् ‘असन्नेव स भवति असद् ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’(तै.२.६.१) इति निगमनश्लोके ब्रह्म­श­ब्दा­भ्या­सेन लिङ्गेन वाक्यस्य तत्र तात्पर्यावगमात् इति चेत् –

तर्हि ‘यदेष आकाश आनन्दो न स्यात्’(तै.२.७.१) ‘सैषाऽऽनन्दस्य मीमांसा भवति’(तै.२. ८.१) इत्या­द्या­न­न्द­श­ब्दा­भ्या­सेन ‘आनन्द आत्मा’ इति मध्यावयवत्वेन कल्पितानन्दोऽपि वाक्य­प्र­ति­पाद्यः स्यात् ।

यदि तु एकस्मिन् वाक्ये द्वयो­र्ब्र­ह्मा­न­न्दयोः प्राधान्येन प्रति­पा­द्य­त्वा­यो­गा­द­न्य­त­र­प्रा­धान्ये वक्तव्ये प्रथ­म­श्रु­त­ब्र­ह्म­श­ब्दा­भ्या­सा­नु­रो­धेन ब्रह्मण एव प्राधा­न्य­व्य­व­स्थितौ चर­म­श्रु­ता­न­न्द­श­ब्दा­भ्या­सोऽपि ब्रह्मविषयः कल्प्येत, तदा ब्रह्मणः पुच्छ­त्व­क­ल्प­नस्य श्लोकादपि प्रथमश्रुतत्वेन शिरः­प­क्ष­म­ध्य­पु­च्छा­व­य­व­यु­क्त­स्या­न­न्द­म­यस्य प्राधा­न्या­व­ग­मात् ब्रह्म­श­ब्दा­भ्या­स­वान् निग­म­न­श्लो­कोऽ­प्या­न­न्द­म­य­वि­षयः इति कल्प्यताम् । तस्मात् आनन्दमय एव प्राधान्येन प्रतिपाद्यः इति पूर्वःपक्षः ॥

एवं प्राप्ते सिद्धान्त उच्यते ‘आन­न्द­म­योऽ­भ्या­सात्’ इति । आनन्दमयवाक्ये श्रुतं पुच्छब्रह्म स्वप्राधान्येन वाक्य­प्र­ति­पा­द्यम् ; ‘असन्नेव स भवति’(तै.२.६.१) इति निग­म­न­श्लो­क­स्थ­ब्र­ह्म­श­ब्दा­भ्या­स­वि­ष­य­त्वात् । नन्वसिद्धोऽयं हेतुः आनन्दमय एव निग­म­न­श्लो­क­वि­ष­योऽस्तु इत्युक्तत्वात् इति शङ्का­या­म­प्ये­त­दे­वो­त्त­रम् ‘आन­न्द­म­योऽ­भ्या­सात्’ इति । आनन्दमयः न निग­म­न­श्लो­क­प्र­ति­पाद्यः ; तत्र ब्रह्म­श­ब्दा­भ्या­स­द­र्श­नात् । अभ्यस्यमानं ब्रह्मशब्दं प्रत्या­न­न्द­म­यस्य मुख्या­र्थ­त्वा­भा­वात् । एकं पुच्छपदमनुरुध्य अनेकस्य ब्रह्मशब्दस्य आनन्दमये जघ­न्य­वृ­त्ति­क­ल्प­ना­नु­प­पत्तेः । एकबाधात् अने­क­बा­ध­स्या­न्या­य्य­त्वेन उप­क्र­मा­द­प्य­भ्या­सस्य प्रबलत्वात् । अस्य सूत्रस्य सिद्धा­न्त­सा­ध­क­त्वेन योजनायां आनन्दमयपदेन आनन्दमयवाक्ये श्रुतं पुच्छब्रह्म लक्षणीयम् सिद्धा­न्त­सा­ध­क­हे­त्व­सि­द्धि­नि­रा­स­क­त्वेन योजनायां ईक्ष­ति­सू­त्रा­न्न­ञ­म­नु­वृत्त्य निषे­ध्या­ध्या­हा­रेण साध्यं पूरणीयम् । ‘ब्रह्म पुच्छमभ्यासात्’ इत्यार्जवेन सूत्रे कर्तव्ये ‘आन­न्द­म­योऽ­भ्या­सात्’ इति सूत्रकरणस्य एतत् प्रयोजनं यत् ईक्ष­ति­सू­त्रा­न्न­ञ­नु­व­र्त­नेन तद्व­न्नि­षे­ध्या­ध्या­हा­रेण च आनन्दमयो न निग­म­न­श्लो­क­प्र­ति­पाद्यः इति हेत्व­सि­द्धि­श­ङ्का­नि­रा­स­क­हे­तु­सा­ध्य­मपि लभ्यते इति । प्रयोजनान्तरञ्च व्यव­हि­ता­न­न्त­र­सूत्रे दर्शयिष्यामः ।

स्यादेतत् – पुच्छशब्दस्य अभ्य­स्य­मा­न­ब्र­ह्म­श­ब्द­मु­ख्य­ताऽ­नु­रो­धेन मुख्या­र्थ­त्यागे, तस्या­धा­र­ल­क्ष­णाऽ­नु­प­प­न्ने­त्यु­क्त­त्वा­दा­न­र्थ­क्य­मेव प्राप्नुयात् । ततश्च ‘आन­र्थ­क्य­प्र­ति­ह­तानां विपरीतं बलाबलम्’ इति न्यायेन अभ्य­स्त­ब्र­ह्म­श­ब्दा­दपि पुच्छशब्द एव बलीयान् इत्या­श­य­व­ती­मा­शङ्कां अनुभाष्य निराकरोति –

विका­र­श­ब्दा­न्नेति चेन्न प्राचुर्यात् ।१३।

१३

विकारशब्देन अवयवो लक्ष्यते, तद्वाची पुच्छशब्दो विकारशब्दः । स एव विकारः – विगतकार्यः अनर्थकशब्दः । ‘अकर्तरि च कारके संज्ञायाम्’(पा.सू. ३.३.१९) इति कर्मणि घञन्तः कारशब्दः कार्यवाची । एव­म­र्था­न्त­र­स्यापि गर्भीकरणाय ‘अवयवशब्दात्’ इति वक्तव्ये ‘विकारशब्दात्’ इत्युक्तम् । तथा च पुच्छावयववाचिनः तदर्थपरित्यागे लक्ष­णी­या­र्था­भा­वेन प्रस­क्ता­न­र्थ­क्यात् पुच्छ­श­ब्दा­द्धेतोः न ब्रह्म प्राधान्येन प्रतिपाद्यं इति चेदिति शङ्कार्थः । ‘प्राचुर्यात्’ इति तन्नि­रा­क­र­णां­श­स्या­य­मर्थः – प्राचुर्यात् – अवयवप्राये वचनात् पुच्छ­श­ब्दो­प­प­त्ति­रिति । इदमुक्तं भवति – अन्नमयादीनां शिरआदिषु पुच्छा­न्ते­ष्व­व­य­वे­षू­क्तेषु आनन्दमयस्यापि शिरः­प­क्षा­द्य­व­य­वा­न्त­रो­क्त्य­न­न्तरं प्राय­पा­ठा­नु­सा­रेण पुच्छपदे कस्मिंश्चिदर्थे निर्देष्टव्ये आनन्दमयं प्रत्याधारत्वेन ब्रह्मणि च प्रतिपादनीये तदु­भ­या­नु­ग्र­ह­ला­भाय ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्याह श्रुतिः, न अवयवविवक्षयेति । नन्व­य­व­वि­व­क्षाऽ­भावे कथ­म­व­य­व­वा­चि­पु­च्छ­प­द­प्रा­य­पा­ठा­नु­ग्रह इति चेत् । न । तथापि पुच्छ­प­द­मा­त्र­प्रा­य­पा­ठा­नु­ग्र­ह­ला­भात् । बृहदारण्यके पञ्चा­ग्नि­वि­द्यायां ‘असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समित् रश्मयो धूमाः’(बृ.६.२.९) इत्यादिषु पञ्चसु पर्यायेषु ‘अथैनमग्नये हरन्ति तस्या­ग्नि­रे­वा­ग्नि­र्भ­वति समित् धूमः’(बृ.६.२.१४) इत्या­दि­ष­ष्ठ­प­र्याये च साम्पा­दि­का­ग्नि­स­मि­द्धू­मा­दि­वि­ष­य­त्वेन मुख्या­ग्नि­स­मि­द्धू­मा­दि­वि­ष­य­त्वेन च भेदे सत्यपि अग्नि­स­मि­द्धू­मा­दि­श­ब्द­प्र­यो­गै­क­रू­प्य­वत् इहापि पुच्छ­प­द­प्र­यो­गै­क­रू­प्यस्य अवैकल्यात् । ननु तथा­प्या­धा­र­त्व­मात्रं प्रतिष्ठापदेन लब्धम् , पुच्छ­व­त्सा­पे­क्षा­धा­रत्वं तु ब्रह्म­णोऽ­नि­ष्ट­मिति पुच्छपदस्य लक्षणीयाभावेन प्रस­क्त­मा­न­र्थ­क्य­म­प­रि­हृ­त­मेव । उच्यते – आधा­र­त्व­सा­मा­न्य­मेव पुच्छ­व­द्भा­व­वि­शे­षि­त­तया तेन लक्षणीयं श्रोतृ­बु­द्ध्य­व­त­र­णाय । पक्षिणां पुच्छमाधार इति दृष्टम् । एवं पक्षितया निरू­पि­त­स्याऽऽ­न­न्द­म­यस्य ब्रह्म पुच्छवदाधार इत्युक्ते दृष्टान्तमुखेन संप्र­ति­प­त्ति­र्भ­वति । ब्रह्मणि क्रमेण श्रोतृ­बु­द्ध्य­व­त­र­णाय हि श्रुत्या अन्नमयादिक्रम आश्रितः । तत्र आनन्दमयं प्रत्याधारत्वेन ब्रह्मणि विवेक्तव्ये पक्षित्वेन निरूपितस्य तस्य आधारसद्भावः पुच्छ­प­द­प्र­यो­ग­मु­खेन दृष्टा­न्त­मु­द्घाट्य व्यञ्जितः श्रोतृ­बु­द्ध्य­व­त­र­णा­येति किमनुपपन्नम् । लोकेऽपि प्राति­स्वि­क­श­ब्द­द­र्शि­ता­र्थ­मात्र एव दृष्टा­न्तो­प­न्यासः प्रचुरो दृश्यते । यथा ‘यो यो धूमवान् सोऽग्निमान् यथा महानसः’ इति । यथा वा ‘‘एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किर­णे­ष्वि­वाङ्कः’(क.मारसम्भवः १.३) इति । न च दृष्टा­न्तो­प­न्यासे सर्वात्मना तदीयधर्मसदृश एव धर्मस्सिध्यतीति नियमः, येन पुच्छपदेन पुच्छ­व­दा­धा­र­त्व­ल­क्ष­णायां सापे­क्षा­धा­र­त्व­म­निष्टं प्राप्नुयादिति शङ्क्येत; ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(गौड.का­रिका.३.३) इत्यादीनां प्राचुर्येण दर्शनात् । न हि ब्रह्म­ण­स्स­र्व­ग­तत्वे नित्यत्वे च प्रतिपादनीये श्रोतृ­बु­द्ध्य­व­त­र­णाय आका­श­दृ­ष्टा­न्तो­प­न्या­सेन ब्रह्म­णोऽ­प्या­का­श­व­दा­पे­क्षि­क­मेव सर्वगतत्वं नित्यत्वञ्च प्राप्यते । सूत्रे ‘प्रायपाठात्’ इति स्पष्टं वक्तव्ये ‘प्राचुर्यात्’ इति वचनं प्राग­न्न­म­या­दि­प­र्या­येषु प्रतिपर्यायं पुच्छ­श­ब्द­स­द्भा­वेन तत्प्रा­चु­र्य­रूपं प्रायपाठम्, अन्यत्रापि श्रोतृ­बु­द्ध्य­व­त­र­णाय दृष्टा­न्तो­प­न्या­स­प्रा­चु­र्यम्, तद­र्थ­दृ­ष्टा­न्तो­प­न्या­स­स्थ­लेषु प्रति­पि­पा­द­यि­षिते दृष्टा­न्त­दृ­ष्ट­ही­न­ध­र्मा­ना­प­त्त्यु­दा­ह­र­ण­प्रा­चु­र्यञ्च संग्रहीतुमिति सर्वमनवद्यम् ।१.१.१३।

स्यादेतत् – न केवलमेकस्य पुच्छशब्दस्य स्वार­स्य­म­नु­रुध्य निग­म­न­श्लो­क­स्या­न­न्द­म­य­वि­ष­यत्वं कल्प्यते, येन तस्य अभ्या­सा­द्दु­र्ब­ल­त्वेन आधारलक्षकत्वं समर्थ्येत, किन्तु कृत्स्न­स्याऽऽ­न­न्द­म­य­वा­क्यस्य स्वार­स्य­म­नु­रुध्य । कृत्स्नेनापि ह्यान­न्द­म­य­वा­क्येन ‘ब्रह्म पुच्छं प्रतिष्ठा’(तै. २.५.१) इत्यन्तेन अवयव्यानन्दमयः पूर्व­प­र्या­ये­ष्व­न्न­म­या­दि­वत् शिरः­प्र­भृ­ति­पु­च्छा­न्त­स­क­ला­व­य­वा­पे­क्षया प्राधान्येन प्रतिपाद्यः प्रतीयते । अतः प्रथ­म­श्रु­ता­ने­का­वा­न्त­र­वा­क्य­घ­टि­त­म­हा­वा­क्य­वि­रो­धात् अभ्यस्तस्यापि ब्रह्मशब्दस्य आनन्दमये जघ­न्य­वृ­त्ति­क­ल्पनं युक्तमिति असा­ध­क­स्सि­द्धा­न्त­हेतुः, तद­सि­द्धि­नि­रा­स­क­हे­तुश्च इत्याशङ्क्य आह –

तद्धे­तु­व्य­प­दे­शाच्च ।१४।

१४

‘इदं सर्वमसृजत यदिदं किञ्च’(बृ.१.२.५) इति सानन्दमयं विकारजातं प्रति ब्रह्म­ण­स्स्र­ष्टृ­त्वो­प­दे­शा­दपि ब्रह्म स्वप्रा­धा­न्ये­नैव प्रतिपाद्यम् । ननु सोऽप्य­स­ञ्जा­त­वि­रो­ध्या­न­न्द­म­य­वा­क्या­नु­सा­रेण कथ­ञ्चि­द­दृ­ष्ट­द्वारा स्रष्ट­र्या­न­न्द­म­येऽ­प्य­व­ति­ष्ठ­ता­मिति चेत् । मैवम् । ‘सोऽकामयत’(तै.२.६) इत्यारभ्य काम­ना­पू­र्व­क­स­र्व­प्र­प­ञ्च­स्र­ष्टृ­त्व­प्र­ति­पा­द­नात् , तस्य च तत्रा­न्वे­तु­म­यो­ग्य­त्वात् । इदञ्च तत्रा­न्वे­तु­म­यो­ग्यत्वं सूत्रे ‘व्यपदेशात्’ इति व्युपसर्गेण लभ्यते । विशिष्टो ह्यपदेशो व्यपदेशः । स च जीवेऽ­न्वे­तु­म­योग्यः काम­ना­पू­र्व­क­त्वेन विशिष्टः स्रष्टृ­त्व­नि­र्देशः । चकारेण निग­म­न­श्लो­क­स्यापि तत्रा­न्वे­तु­म­यो­ग्यत्वं समुच्चीयते । न ह्यानन्दमये प्रिय­मो­दा­दि­यु­क्त­तया लोकप्रसिद्धे निग­म­न­श्लो­को­क्त­स­त्त्वा­स­त्त्व­शङ्का अन्वेति । चकारेण ‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति’(तै.२.७) ‘भीषाऽ­स्मा­द्वातः पवते’(तै.२.८) इत्या­द्यु­त्त­र­स­न्द­र्भ­ग­त­स­र्व­प्रा­णि­प्रा­ण­यि­तृ­त्वा­न­न्द­यि­तृ­त्व­प्र­शा­सि­तृ­त्वो­प­देशा अपि समुच्चीयन्ते । एतेऽपि हि जीवेऽ­न्वे­तु­म­योग्याः । अतो बहु­बा­ध­स्या­न्या­य्य­त्वात् आन­न्द­म­य­वा­क्य­स्यैव पुच्छ­प­द­मा­त्र­ल­क्ष­णा­साध्यं ब्रह्म­प्रा­धा­न्य­म­भ्यु­प­गन्तुं युक्तम् । वरं ह्यने­क­वा­क्य­वै­य­र्थ्यात् प्रथ­म­श्रु­त­स्यापि वाक्यस्य एक­प­द­मा­त्र­ल­क्ष­णा­सा­ध्य­म­न्य­था­क­र­णम् । अत एव पूर्वतन्त्रे तत्सि­द्ध्य­धि­क­रणे (जै.सू.१.४) सृष्टि­लि­ङ्ग­क­म­न्त्रो­प­धे­ये­ष्ट­का­वा­चिनः सृष्टिशब्दस्य , सृष्ट्य­सृ­ष्टि­लि­ङ्ग­क­म­न्त्रो­प­धे­यानां सप्त­द­शा­ना­मि­ष्ट­कानां प्रत्येकं स्तुतिः ‘यत् सप्तदशेष्टका उपदधाति’ इत्युपसंहारः इति बहु­वा­क्य­शे­षा­नु­सा­रेण तासु सर्वा­स्वि­ष्ट­कासु लक्षणा स्वीकृता । नन्वस्तु सद­स­त्त्व­स­न्दे­ह­यो­ग्य­त्व­का­म­ना­पू­र्व­क­सा­न­न्द­म­य­स­क­ल­प्र­प­ञ्च­स्र­ष्टृ­त्व­स­र्व­प्रा­णि­प्रा­ण­यि­तृ­त्वा­दि­लिङ्गैः उत्त­र­स­न्द­र्भ­स्स­र्वोऽपि ब्रह्मपरः ; तत्प्र­ति­पा­द्यस्य तथाभूतस्यैव ब्रह्मणः स्वसृ­ज्य­त्व­स्व­प्रा­ण­नी­य­त्वा­दि­वि­शि­ष्ट­मा­न­न्द­मयं प्रति काल्प­नि­क­म­व­य­व­त्व­मस्तु , न हि मुख्य­म­व­य­व­त्व­मि­हो­च्यते ; जीवस्य वस्तुतो निरवयवत्वात् इति चेत् । भ्रान्तोऽसि । न हि वयमिह वस्तुविरोधं ब्रूमः येनो­पा­स­ना­र्था­व­य­व­त्व­क­ल्प­नो­प­दे­श­प­र­तया तत्समाधानं क्रियेत , किन्तु उत्त­र­स­न्द­र्भ­प­र्या­लो­च­नया प्राधान्येन ब्रह्म­प्र­ति­पा­द­क­त­याऽ­व­गतं यत् प्रकरणं तदेव अन्योपसर्जनतया तत् प्रतिपादयितुं न शक्नोतीति शब्दसामर्थ्यं ब्रूमः ।

सूत्रे तच्छब्दः आनन्दमयपरः । आनन्दमयसूत्रे पुच्छ­ब्र­ह्म­ल­क्ष­क­स्या­प्या­न­न्द­म­य­प­दस्य मुख्यार्थतया तस्य शब्द­स­न्नि­धा­पि­त­त्वात् । न च पूर्व­वा­क्य­ग­त­श­ब्द­स­न्नि­धा­पि­त­स्यापि पूर्व­वा­क्या­र्था­न्व­यिन एव सर्वनाम्ना परामर्श इति नियमोऽस्ति ‘त्रेधा तण्डुलान् विभजेत्’(तै.सं.२) इत्यत्र दार्शि­क­ह­वि­र्मा­त्रो­प­ल­क्ष­कस्य तण्डुलपदस्य वाच्यार्थानां तण्डु­ल­त्व­वि­शि­ष्टानां तद्वा­क्या­र्था­न­न्व­यि­ना­मपि ‘ये मध्यमाः’ इत्या­द्यु­त्त­र­वा­क्येषु यत्पदैः परामर्शदर्शनात् ।
’नाली­का­स­न­मी­श्व­र­श्शि­ख­रिणां तत्क­न्ध­रो­त्था­यिनो
गन्धर्वाः पुनरेतदध्वचरिते चक्रे तदुद्धारकः ।
पत्री तत्प्रभुवैरिणां परिवृढो जीवा च यस्याभवत्
जीवान्तेवसतां रिपुक्षयविधौ देवाय तस्मै नमः ॥’
इति श्लोके पूर्व­वा­क्या­र्था­न­न्व­यि­ना­मपि तदेतत्पदैः परा­म­र्श­द­र्श­नाच्च । तथा­नि­य­मा­भ्यु­प­ग­मेऽपि नानुपपत्तिः ; आनन्दमयसूत्रस्य द्विती­य­यो­ज­ना­या­मा­न­न्द­म­यस्य वाक्या­र्था­न्व­यि­त्वात् । इदमपि ‘ब्रह्म पुच्छमभ्यासात्’ इति सूत्रे कर्तव्ये ‘आन­न्द­म­योऽ­भ्या­सात्’ इति सूत्रकरणस्य प्रयोजनं यत् आनन्दमयस्यात्र सर्वनाम्ना परामर्शेन सूत्रलाघवलाभः । यद्यपि ‘इदं सर्वमसृजत’ इत्यत्र न आनन्दमयं प्रत्येव हेतु­त्व­व्य­प­देशः, किन्तु चेत­ना­चे­त­ना­त्म­क­स­क­ल­प्र­पञ्चं प्रति, न चाचे­त­न­श­री­रो­पा­ध्य­पेक्षां विना चेतनं प्रति साक्षा­त्स्र­ष्टृ­त्व­मपि सम्भवति, तथाऽपि अचेतनोपाधिकमेव चेतनं प्रति स्रष्टृत्वं प्रदर्शयितुं तच्छ­ब्दे­नाऽऽ­न­न्द­म­य­प­रा­मर्शः कृतः । तत्प्रदर्शनं च सृष्टिवाक्यस्य जीवपरत्वशङ्कां अत्यन्तविरोधेन निरसितुं इत्यलं विस्तरेण । १.१.१४ ।

सए­व­मु­प­सं­हा­र­ग­त­ब­हु­प्र­मा­णा­नु­रो­धेन प्रथ­म­श्रु­त­स्या­प्या­न­न्द­म­य­वा­क्यस्य ब्रह्म­प्रा­धान्यं समर्थितम् । केचिद्वावदूकाः प्राथम्यस्य प्राबल्यहेतोर्न जघन्यबहुत्वेन उप­म­र्दोऽ­स्ती­त्यपि प्रतिपन्नाः । अत एव पूर्वतन्त्रे ‘विप्र­ति­षि­द्ध­ध­र्माणां समवाये भूयसां स्यात् सधर्मकत्वम्’(जै.सू.१२.२.२४) ‘मुख्यं वा पूर्व­चो­द­ना­ल्लो­क­वत्’(जै.सू.१२.२.२५) इति सूत्रयोः पूर्व­प­क्ष­सि­द्धा­न्त­सू­त्र­तया ऐकाधिकरण्यं केचन कल्पयन्ति । तान् प्रति ‘तुष्यतु दुर्जनः’ इति न्यायेन अत्र पर­मो­प­क्र­मा­नु­सा­रे­णापि आनन्दमयवाक्यस्य ब्रह्म­प्रा­धान्यं सिध्यतीत्याह –

मान्त्र­व­र्णि­क­मेव च गीयते । १५ ।

१५

यत् ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.२.२.१) इति मन्त्रवर्णे स्वप्रधानतया प्रकृतं ब्रह्म, यच्च ‘तस्माद्वा एतस्मादात्मन आकाशस्संभूतः’(तै.२.२.१) इत्या­दि­त­दु­त्त­र­स­न्दर्भे ‘तस्मात्’ इति प्रकृतवाचिना तच्छ­ब्दे­ना­नु­कृष्य आका­शा­दि­स­क­ल­प्र­प­ञ्च­का­र­ण­त्वेन उपवर्णितम् , तदेव इह ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ब्रह्मपदेन गीयत इति तस्यैव स्वप्राधान्यं युक्तम् ; स्वप्र­धा­न­मा­न्त्र­व­र्णि­क­ब्र­ह्मो­प­स्था­प­क­प्र­थ­म­श्रु­त­ब्र­ह्म­प­दा­नु­सा­रेण चर­म­श्रु­त­स्या­न­न्द­म­य­वा­क्यस्य नेयत्वात् । ननु मन्त्रवर्णे ब्रह्मण इव ‘आत्मन आकाशस्सम्भूतः’ इत्यत्र आत्मनः प्राधा­न्या­व­ग­मात् आत्म­श­ब्द­नि­र्दिष्ट आनन्दमयः प्रधानं कुतो न स्यात् इति शङ्का­नि­रा­सा­र्थ­मे­व­कारः सूत्रे प्रयुक्तः | मान्त्र­व­र्णि­कस्य ब्रह्मण एव प्राधा­न्य­म­नु­स­र­णी­यम् ; उपक्रमगतत्वात्, न तु तद­न­न्त­र­श्रु­त­स्या­त्मनः इति भावः ।

यद्यपि ‘अभ्यासात्’ इति हेतुनैव मन्त्रगतमपि ब्रह्मपदं क्रोडीकर्तुं शक्यम्, तथाऽपि ‘ब्रह्म­वि­दा­प्नोति परम्’ इत्येतदनन्तरं किं तत् ब्रह्मेति जिज्ञासायां लक्षणमुखेन तन्निर्धारणाय प्रवृत्तो मन्त्रस्तावत् ब्रह्मप्रधानः । तदेव च ब्रह्म ‘तस्माद्वा एतस्मात्’ इत्य­न­न्त­र­स­न्दर्भे सर्व­ना­म्नाऽ­नु­कृष्टं सत् इहापि ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति स्वशब्देन निर्दिश्यते इति पूर्व­स­न्द­र्भ­प्र­वृ­त्ति­प­र्या­लो­च­नया प्रकरणस्य ब्रह्म­प्रा­धा­न्य­स्फु­टी­क­र­णाय मान्त्र­व­र्णि­क­सू­त्रम् । १.१.१५ ।

स्यादेतत् – ‘ब्रह्म­वि­दा­प्नोति परम्’(तै.२.१.१) इत्या­दि­पू­र्व­स­न्द­र्भस्य ‘असन्नेव स भवति’(तै.२.६.१) इत्या­द्यु­त्त­र­स­न्द­र्भस्य च ब्रह्म­प्रा­धा­न्येऽपि आनन्दमयवाक्यस्य आन­न्द­म­य­प्रा­धान्यं तत्र ब्रह्मणः कल्पि­त­पु­च्छ­भा­वेन उपसर्जनत्वं चास्तु । शालावत्यप्रश्ने ‘अस्य लोकस्य का गतिरिति आकाश इति होवाच’(छा.१.९.१) इत्या­दि­पू­र्व­स­न्द­र्भस्य ‘स एषोऽनन्तः’(छा.१.९.२) इत्यु­त्त­र­स­न्द­र्भस्य च ब्रह्म­प्रा­धा­न्येऽपि ‘स एष परो­व­री­या­नु­द्गीथः’ इति मध्यगते वाक्ये उद्गी­थ­स्यो­पा­स्यस्य प्राधान्यं तत्र ब्रह्मणो दृष्टिविशेषणतया उपसर्जनत्वमिति दर्शनात् । तद्वदिहापि ब्रह्मपरयोः पूर्वा­प­र­स­न्द­र्भ­यो­रु­पा­स्यो­प­स­र्ज­न­ब्र­ह्म­ग­त­ज­ग­त्का­र­ण­त्वा­दि­गु­ण­स­म­र्प­क­तया वाक्यै­क­वा­क्य­तो­प­पत्तेः इत्याशङ्क्याह –

नेतरोऽनुपपत्तेः ।१६।

१६

इतर आनन्दमयः न प्राधान्येन प्रतिपाद्यः । उद्गीथविद्यायां ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत ओमिति ह्युद्गायति तस्यो­प­व्या­ख्यानं, खल्वे­त­स्यै­वा­क्ष­रस्य उपव्याख्यानम्’(छा.२.२.२) इत्या­दि­म­हा­प्र­क­र­णा­नु­सा­रेण ‘त्रयो होद्गीथे कुशला बभूवुः’(छा.१.८.१) इत्य­वा­न्त­र­प्र­क्र­मा­नु­सा­रेण च अव­ग­तो­द्गी­थ­प्रा­धा­न्य­नि­र्वा­हाय आकाशवाक्यस्य उपा­स्यो­द्गी­थ­वि­शे­ष­ण­ब्र­ह्म­ब्र­ह्म­गु­ण­स­म­र्प­णा­र्थ­त्वो­प­प­त्ता­वपि अत्र उप­क्र­मो­प­सं­हा­रा­व­ग­त­ब्र­ह्म­प्रा­धा­न्य­वि­रो­धेन उपा­स्या­न­न्द­म­य­वि­शे­ष­ण­ग­त­गु­ण­स­म­र्प­णा­र्थ­त्व­क­ल्प­नाऽ­नु­प­पत्तेः । १.१.१६।

अथापि स्यात् – छान्दोग्ये ‘गायत्री वा इदं सर्वं भूतम्’(छा.३.१२.१) इत्यारभ्य ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेषु’(छा.३.१३.७) इत्यन्तस्य पूर्वसन्दर्भस्य ‘सर्वं खल्विदं ब्रह्म’(छा.३.१४.१) इत्या­द्यु­त्त­र­स­न्द­र्भस्य च ब्रह्म­प्रा­धा­न्येऽपि मध्ये ‘इदं वाव तत् यदि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः’(छा.३.१३.७) इत्यादिवाक्ये कौक्षेयज्योतिष उपास्यस्य प्राधान्यम् , तत्र ब्रह्मणो दृष्टि­वि­शे­ष­ण­त­यो­प­स­र्ज­नत्वं च दृष्टम् । तद्वदिहापि पूर्वा­प­र­स­न्द­र्भ­यो­र्ब्र­ह्म­प्रा­धा­न्येऽ­प्या­न­न्द­म­य­वाक्ये ब्रह्मणः पुच्छभावेन उपसर्जनत्वमस्तु ; क्वचिद्वाक्ये उपसर्जनत्वस्य अन्यत्र प्राधा­न्या­वि­रो­धि­त्वात् इत्याशङ्क्य , गायत्रीवाक्ये प्रकृतस्य सगुणब्रह्मणः कौक्षे­य­ज्यो­ती­रू­पो­पास्यं प्रति विशे­ष­ण­त्व­स­म्भ­वेऽपि ‘ब्रह्म­वि­दा­प्नोति परम्’(तै.२.१.१) इत्यस्मिन् प्रकरणे प्रतिपाद्यस्य ज्ञेयस्य शुद्धब्रह्मणः उपास्यमानन्दमयं प्रति विशेषणत्वं न सम्भवतीति विशे­ष­म­भि­प्रे­त्याह –

भेदव्यपदेशाच्च ।१७।

१७

भेदविरोधी अपदेशो भेदव्यपदेशः भेद­प्र­प­ञ्च­मि­थ्या­त्व­प­र्य­व­सायी ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’(तै.२.४.१) इत्युपदेशः , तद्विरोधात् प्रिया­द्य­व­य­व­यु­क्त­स्स­वि­शेष आनन्दमय उपास्यो न प्रतिपाद्यः ; निर्विशेषस्य मुमु­क्षु­ज्ञे­यस्य कल्पि­त­पु­च्छ­भा­वेन उपास्यं सविशेषं प्रति विशे­ष­ण­त्वा­यो­गात् , किन्तु ज्ञेयं निर्विशेषं पुच्छब्रह्मैव प्रतिपाद्यम् ।

ननु ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इत्याद्युपदेशः कथं प्रप­ञ्च­मि­थ्या­त्व­प­र्य­व­सायी।

उच्यते – इदं हि प्रक­र­ण­म­ध्या­रो­पा­प­वा­दाभ्यां निष्प्र­प­ञ्च­ब्र­ह्म­स्व­रू­प­नि­ष्क­र्षा­र्थम् । तथा हि – उपक्रमे तावत् ‘ब्रह्म­वि­दा­प्नोति परम्’(तै.२.१.१) इति ब्रह्मविदः तद्भा­वा­प­त्ति­ल­क्षणा मुक्तिरुक्ता , न तु तत्प्रा­प्ति­ल­क्षणा । बृहदारण्यके ‘स यदाह असतो मा सद्गमयेति , मृत्युर्वा असत् सदमृतं , मृत्योर्माऽमृतं गमय , अमृतं मा कुर्वि­त्ये­वै­त­दाह’(बृ.१.३.२८) इति सच्छ­ब्दो­क्ता­मृ­ता­वा­प्त्य­र्थ­क­श्रुतेः अमृ­ता­भे­दा­भि­व्य­क्त्य­र्थ­तया व्याख्यातत्वेन मुक्ति­फ­ल­प्र­ति­पा­द­केषु वाक्येषु ब्रह्मा­वा­प्ति­श्र­व­णानां तद्भा­वा­प­त्ति­प­र­त्वा­व­ग­मात् । ततश्च किं तत् ब्रह्म कीदृशं तद्वेदनं कीदृशीच तद्भावापत्तेः पुरुषार्थरूपता इत्या­का­ङ्क्षायां , ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.२.१.१) इति स्वरूपलक्षणेन ब्रह्मस्वरूपं निर्द्धार्य , ‘यो वेद निहितं गुहायाम्’(तै.२.१.१) इति तत् ब्रह्म जीवस्वरूपेण हृदयगुहायां निवेशितं जीवाभिन्नं यो वेद इति तद्वेदनं जीवाभेदविषयमिति प्रदर्श्य , तत्फ­ल­भू­ता­या­स्त­द्भा­वा­प­त्ते­र्नि­र­ति­श­य­पु­रु­षा­र्थ­रू­पत्वं ‘सोऽश्नुते’(तै.२.१.१) इत्यादिना प्रतिपादितम् । तत्र ‘ब्रह्मणा’ इति इत्थम्भूतलक्षणे तृतीया । तथा च ब्रह्मणा रूपेण सर्वान् कामान् सह – युगपत् अश्नुते । सर्वे­षा­मै­हि­का­मु­ष्मि­काणां काम्यानां क्रमिकेणोपभोगेन याव­त्सु­ख­म­भि­व्यंग्यं तत् सर्वं ब्रह्म­सु­खा­म्बु­धि­क­णि­का­य­मा­न­मिति विद्य­याऽ­भि­व्यक्तं निरतिशयं ब्रह्म­सु­खा­म्बु­धि­म­नु­भ­व­ती­त्यर्थः , न तु ब्रह्मणा सह सर्वा­न्वि­ष­य­भो­गा­न­श्नुते इत्यर्थः । ब्रह्मणा सहेत्यन्वयस्य ‘सोऽश्नुते सर्वान्कामान् सह’(तै.२.१.१) इत्य­त्रा­ध्य­य­न­सं­प्र­दा­य­प्रा­प्त­वा­क्य­वि­च्छे­दा­न­नु­गु­ण­त्वात् । सहार्थतृतीयया ब्रह्मणः कर्मसाहित्ये कर्तृसाहित्ये वा विवक्षिते भोग्य­वि­ष­या­पे­क्षया भोक्तृ­जी­वा­पे­क्षया वा अप्र­धा­न्य­प्र­स­ङ्गेन ब्रह्मणो निर­ति­श­य­पु­रु­षा­र्थ­त्वस्य निर­ति­श­यै­श्व­र्यस्य वा हानिप्रसङ्गाच्च । न च ‘सर्वान् कामान्’ इत्यस्य स्वारस्यहानिः , न ह्यस्मन्मते कामशब्दः स्रक्च­न्द­ना­दि­वि­ष­य­वाची , किन्तु तत्स­म्ब­न्धा­भि­व्यं­ग्य­सु­ख­वाची ; तेषामेव निरु­पा­धि­क­का­म­ना­वि­ष­य­त्वात् । ततश्च , त्रैकालिकानि सर्व­जी­वा­नु­भा­व्यानि सर्वाण्यपि सुखानि ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ.४.३.३२) इति श्रुते­र्ब्र­ह्मा­न­न्द­सि­न्धो­र्बि­न्दु­क­णिका इति ब्रह्मरूपेण स्वाभि­न्न­म­ख­ण्डा­न­न्द­म­नु­भ­वता सर्वाण्यपि सुखान्यनुभूयन्त एव , यथा सर्वेषु जीवेषु भूगोलकादेरेकैकं भागं पश्यत्सु सर्वदृग्विषया भागा­स्स­र्व­ज्ञे­ना­नु­भू­यन्त इति , न कापि स्वारस्यहानिः । प्रत्युत ‘सर्वान् कामान्’ इत्य­स्या­स­ङ्को­च­ला­भा­द­त्रैव स्वारस्यम् । तस्मात् ‘सोऽश्नुते’ इत्यादेर्यथोक्त एवार्थः । अत एवोपबृह्मितं ब्रह्मगीतासु –

‘सोऽश्नुते सकलान् कामानक्रमेण सुरर्षभाः ।
विदि­त­ब्र­ह्म­रू­पेण जीवन्मुक्तो न संशयः’ इति ।

ततश्च ब्रह्मणो लक्षणे आन­न्त्या­न्त­र्गतं वस्तु­प­रि­च्छे­द­रा­हित्यं प्रपञ्चस्य प्रति­प­न्नो­पा­धि­ग­त­नि­षे­ध­प्र­ति­यो­गि­त्व­ल­क्ष­ण­मि­थ्या­त्वे­नो­प­पा­द­यितुं ‘आत्मन आकाशः’(तै.२.१.१) इत्यादिना ब्रह्मणो जग­दु­पा­दा­न­त्व­प्र­ति­पा­द­नेन तत्र प्रप­ञ्चा­ध्या­रोपः कृतः । ब्रह्मण उपादानत्वेऽपि सृष्टि­नि­य­म­ना­दिषु निमि­त्ता­न्त­र­स­द्भावे वस्तु­प­रि­च्छे­द­स्स्या­दिति शङ्कानिरासार्थं ‘सोऽकामयत’(तै.२.६.१) इति सृष्टौ ‘भीषाऽ­स्मा­द्वातः पवते’(तै.२.८.१) इति नियमनेऽपि निमित्तत्वं दर्शितम् ।

एवमारोपितस्य प्रपञ्चस्य ‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इत्यत्र अपवाद उपदिश्यते । अस्य हि मन्त्र­स्या­य­मर्थः – यथा शुक्ति­का­या­म­ध्य­स्त­र­ज­त­ता­दा­त्म्यो­ल्ले­खि­तया प्रवृत्तेन मनसा सह ‘रजतमिदम्’ इति व्यवहारः शुक्ति­त्व­प­र्य­न्त­म­प्राप्य ‘नेदं रजतम्’ इति बाधे सति निवर्तते , एवं ब्रह्म­ण्य­ध्य­स्त­प्र­प­ञ्च­ता­दा­त्म्यो­ल्ले­खि­तया ‘सन् घटः’ , ‘सन् पटः’ इत्यादिप्रकारेण प्रवृ­त्ते­ना­न्तः­क­र­णेन सह तत्र प्रवृत्ता घटपटादिशब्दा अप्य­ख­ण्डा­का­र­प­र्य­न्त­म­प्राप्य ‘अथात आदेशो नेति नेति’(बृ.२.३.६) इत्या­दि­श्रौ­त­बाधे सति निवर्तन्ते इति ।

नन्वस्य मन्त्रस्य एवं­भू­त­वा­ङ्म­न­स­नि­वृ­त्ति­रर्थ इति कुतो निश्चीयते । आन­न्दो­त्क­र्ष­व­र्ण­नस्य पूर्वं ‘सैषाऽऽनन्दस्य मीमांसा’(तै.२.८.१) इत्यारभ्य प्रस्तु­त­त्वा­दा­न­न्दे­य­त्ता­वि­ष­य­वा­ङ्म­न­स­नि­वृ­त्ति­रर्थः किं न स्यात् ।

न स्यात् – इह हि प्रवृ­त्त­यो­र्वा­ङ्म­न­स­यो­र्नि­वृत्तिः प्रतिपाद्यते, न त्वेत­यो­र­प्र­वृ­त्ति­रेव । ‘अप्राप्य निवर्तन्ते’ इति वचनात् । न च ब्रह्मा­न­न्दे­य­त्ता­प­रि­च्छे­द­वि­षयं लौकिकं वैदिकं वा वचः प्रवृत्तमस्ति, यस्य अर्द्धपथे निवृत्तिरुच्येत । यत्तु शत­गु­णो­त्त­र­त्व­प्र­ति­पा­दकं वचः तत् प्रवृत्तमेवेति न तस्य कदाऽपि निवृत्तिः । न च ‘घटस्सन्’ इत्या­दि­व्य­व­हा­रोऽपि यः प्रवृत्तः न तस्य निवृत्तिरस्तीति समानमिति शङ्क्यम् । प्रवृ­त्त­व्य­क्ति­वि­शे­षाणां निवृ­त्त्य­भा­वेऽपि आसं­सा­र­मा­व­र्त­मा­नस्य व्यव­हा­र­प्र­वा­हस्य श्रौतबाधे सति निवृ­त्ति­स­म्भ­वात् । किं च ‘वाचः’ इत्यस्य आन­न्दे­य­त्ता­वि­ष­य­वा­ङ्मा­त्रा­र्थत्वे अति­स­ङ्कु­चि­त­वृ­त्तित्वं स्यात् । तदपि ब्रह्मणि द्वैतवस्तुमुखेन प्रवृत्ता यावत्यो वाचः ताव­द्वि­ष­य­त्वे­ना­स­ङ्को­च­स­म्भ­वात् न युक्तम् ।

तस्मात् ‘यतो वाचः’ इति मन्त्रस्य यथोक्त एवार्थ इति तद्वि­रो­धा­न्ना­न­न्द­मयः प्रतिपाद्यः । सूत्रे चकारः मुमु­क्षु­ज्ञे­य­ब्र­ह्मो­प­क्र­म­वि­रो­ध­स­मु­च्च­यार्थः ।

ननु ‘भेदव्यपदेशात्’ इति सूत्रस्य भेद­वि­रु­द्धा­र्थ­प्र­ति­पा­द­ना­दि­त्य­र्थ­क­ल्प­न­म­यु­क्तम् ; व्यपदेशशब्दस्य तादृशार्थे प्रयोगाभावात् ।

उच्यते – पूर्वतन्त्रे ‘तद्व्यपदेशं च’(जै.सू.१.४.५) इति सूत्रे व्यप­दे­श­श­ब्द­स्यैव तादृशेऽर्थे प्रयोगो दृष्टः । तत्र हि तच्छब्दो विधे­य­त्वा­भि­म­त­गु­ण­परः ; ‘यस्मिन् गुणोपदेश’(जै.सू.१.४.३) इति चित्राधिकरणे प्रकृतत्वात् ‘तत्प्रख्यं चान्यशास्त्रम्’(जै.सू.१.४.४) इति पूर्वाधिकरणे परामृष्टत्वाच्च । तद्व्य­प­दे­श­श­ब्दस्य च विधे­य­त्वा­भि­म­त­गु­ण­त्व­वि­रो­धि­सा­दृ­श्य­प्र­ति­पा­द­न­प­रत्वं ‘यथा वै श्येनो निपत्यादत्ते’(शाबरभाष्यम् १.४) इत्या­दि­वि­ष­य­वा­क्या­नु­सा­रेण वक्तव्यम् । तच्च व्युपसर्गेणैव लभ्यम् । तथैव च समर्थितं न्यायसुधादिषु । । १.१.१७ ।

ननु भृगुवल्यां अन्न­प्रा­ण­म­नो­वि­ज्ञा­न­क्र­मेण पञ्च­म­प­र्या­या­म्ना­त­स्या­न­न्दस्य प्राधा­न्य­द­र्श­नात् आन­न्द­व­ल्या­म­प्य­न्न­म­या­दि­क्र­मेण पञ्च­म­प­र्या­या­म्ना­त­स्या­न­न्द­म­यस्य प्राधान्येन प्रतिपाद्यत्वं स्थान­सा­म्या­द­नु­मी­यते । न च ‘ब्रह्म­वि­दा­प्नोति परम्’(तै.२.१.१) इति मुमु­क्षु­ज्ञे­य­ब्र­ह्मो­प­क्र­मस्य ‘यतो वाचः’(तै.२.४.१) इति निर्वि­शे­षो­प­सं­हा­रस्य च विरोधः ; ताभ्यां प्रकरणस्य शुद्ध­ब्र­ह्म­प­र­त्वेऽपि मध्ये कल्पि­त­पु­च्छ­भा­व­स­वि­शे­ष­ब्र­ह्मो­प­स­र्ज­न­क­स्यो­पा­स्य­स्या­न­न्द­म­यस्य प्रति­पा­द­न­स­म्भ­वात् । भूमविद्यायां ‘तरति शोकमात्मवित्’(छा.७.१.३) इति मुमु­क्षु­ज्ञे­य­ब्र­ह्मो­प­क्र­मेऽपि ‘यत्र नान्यत्पश्यति’(छा.७.२४.१) इति निर्वि­शे­षो­प­सं­हा­रेऽपि मध्ये सगु­ण­ब्र­ह्म­दृ­ष्टि­वि­शे­षि­त­ना­मा­द्यु­पा­स्यस्य प्रति­पा­द­न­द­र्श­नात् इत्याशंक्याह –

कामाच्च नानुमानापेक्षा ।१८।

१८

काम्यत इति कामः भृगुवल्याम्नात आनन्दः । तद्दृ­ष्टा­न्त­म­व­ल­म्ब्या­न­न्द­म­यस्य प्राधा­न्या­नु­मा­नेऽपि प्रत्याशा न कार्या । तत्र श्रुत्यैव आनन्दस्य उप­क्रा­न्त­ब्र­ह्म­रू­प­तायाः ‘आनन्दो ब्रह्मेति व्यजानात्’(तै.३.६.१) इति साक्षात्, ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’(तै.३.६.१) इति लक्षणमुखेन च पर्य­व­सा­न­प्र­ति­पा­द­नात् , तदनन्तरमन्यस्य प्रति­पा­द­ना­भा­वात् । इह तु आन­न्द­म­य­प्र­ति­पा­द­ना­न­न्तरं ब्रह्म­प्र­ति­पा­द­नात् तत्रैव पूर्वो­त्त­र­स­न्द­र्भ­स­म­न्वय इति वैषम्यसद्भावात् । भूमविद्यायां ‘स यो नाम ब्रह्मे­त्यु­पास्ते’(छा.१.६.५) इत्या­दि­स्फु­ट­त­रो­पा­स­ना­वि­धि­स­त्त्वेन निर्वि­शे­ष­प्र­क­र­ण­मध्ये उपा­स्य­प्र­ति­पा­द­ना­भ्यु­प­ग­मेऽपि अत्र उपा­स­ना­वि­ध्य­श्र­व­णेन अत्र तद­भ्यु­प­ग­मा­यो­गात् । सूत्रगतेन चकारेण अन्नमयादिभ्यः प्राणमयादीनामिव आन­न्द­म­या­दा­न्त­र­त्वेन ब्रह्म­णोऽ­नु­प­दे­श­म­व­ल­म्ब्यापि आनन्दमयस्य प्राधा­न्या­नु­माने प्रत्याशा न कार्या इति समुच्चीयते । भूमविद्यायां नामादिभ्यो वागादीनामिव प्राणात् सत्यस्य भूय­स्त्वे­ना­नु­प­दे­शेऽपि भूय­स्त्व­सि­द्धि­वत् आन­न्द­म­या­दा­न्त­र­त्वेन पुच्छ­ब्र­ह्म­णोऽ­नु­प­दे­शेऽपि साम­र्थ्या­त्त­दा­न्त­र­त्व­सिद्ध्या तस्यैव प्राधान्यात् । स्पष्टयिष्यते चैतदग्रे । यद्यपि सूत्रे ‘कामात्’ इति स्थाने स्पष्टार्थं ‘आनन्दात्’ इति वक्तुमुचितम्, तथाऽप्यनेनैव सूत्रेण आन­न्द­म­या­धा­र­त्वेन निर्दिष्टं पुच्छब्रह्म आनुमानिकं प्रधानमिति साङ्ख्येन प्रत्याशा न कार्या, ‘सोऽकामयत’(तै.२.६.१) इति श्रुतात् कामात् आनन्दरूपत्वात् प्रशा­सि­तृ­त्वा­च्चेति पूर्वा­धि­क­र­णो­पा­त्त­ग­ति­सा­मा­न्य­प्र­प­ञ्च­ना­र्थ­म­र्था­न्त­र­मपि क्रोडीकर्तुं ‘कामात्’ इत्युक्तम् । १.१.१८ ।

स्यादेतत् – निर्वि­शे­ष­प्र­क­र­ण­म­ध्येऽपि सवि­शे­ष­ब्र­ह्मो­प­स­र्ज­न­का­न्यो­पा­स­न­वि­धाने भूम­वि­द्या­न्या­येन सम्भाविते सति आनन्दमयवाक्ये विध्य­श्र­व­णेऽ­प्य­पू­र्व­त्वात् ‘इदं वाव तज्ज्योतिः’(छा.३. १३.७) इत्यादाविव उपा­स­ना­वि­धि­क­ल्प­न­मु­प­प­द्यत इत्या­न­न्द­म­य­वाक्यं तत्प्र­धा­न­म­स्त्वि­त्या­शं­क्याह –

अस्मिन्नस्य च तद्योगं शास्ति ।१९।

१९

अस्मिन्नेव प्रकरणे ‘रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति’(तै.२.७.१) इति शास्त्रं ‘रसो वै सः’(तै.२.७.१)‘रसो वै सः’(तै.२.७.१) इति पुच्छब्रह्मणो निर­ति­श­या­न­न्द­रू­पत्वं प्रतिज्ञाय तत्र हेतुत्वेन ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ.४.३.३२) इति श्रुत्य­न्त­र­सिद्धं, आनन्दमयः तत्त­द्वि­ष­या­नु­भ­व­ज­न्य­सु­ख­वृ­त्तिषु प्रतिबिम्बितं ब्रह्मानन्दलेशं लब्ध्वा निर्वृतो भवतीत्यमुमर्थं शास्ति, अत­स्त­त्रा­न­न्द­म­य­प­रा­म­र्शस्य निर­ति­श­या­न­न्द­रू­प­पु­च्छ­ब्र­ह्म­प्र­ति­प­त्ति­शे­षत्वं क्लृप्त­मि­त्या­न­न्द­म­य­वा­क्येऽपि तदुपन्यासस्य पुच्छ­ब्र­ह्म­प्र­ति­प­त्ति­शे­ष­त्व­मेव युक्तं न तूपा­स­ना­वि­धा­ना­र्थ­त्वम् । न च ‘रसो वै सः’ इत्यादौ तदिदंपदयोः पुच्छ­ब्र­ह्मा­न­न्द­म­य­प­रत्वे विवादः कार्यः । तयो­र्ब्र­ह्म­जी­व­प­रत्वे पुच्छ­ब्र­ह्मा­न­न्द­म­य­यो­र्ब्र­ह्म­जी­व­रू­पत्वे च निर्विवादे तत्र विवा­द­स्या­न­व­का­श­प­रा­ह­त­त्वात् । सूत्रे ‘अस्मिन्नस्य’ इति सर्वनाम्नी पुच्छ­ब्र­ह्मा­न­न्द­म­य­परे; तयो­रा­न­न्द­म­य­सूत्रे आनन्दमयपदेन लक्ष­णा­मु­ख्य­वृ­त्ति­भ्या­मु­प­स्था­पि­त­त्वात् । ‘तद्योगम्’ इत्यत्र तच्छब्दः पूर्व­सू­त्र­ग­त­का­म­श­ब्दो­क्ता­न­न्द­प­रा­मर्शी । ततश्च अस्मिन् पुच्छब्रह्मणि सत्येव अस्य आन­न्द­म­य­स्या­न­न्द­योगं ‘रसं ह्येवायम्’(तै.२.७.१) इत्यादि शास्त्रं शास्तीति सूत्राक्षरार्थः । तेन अस्यार्थस्य ‘रसो वै सः’ इति प्रतिज्ञायां हेतुत्वेन शास्त्रो­क्त­त्वात् तस्मिन् शास्त्रे आन­न्द­म­य­प­रा­म­र्शस्य पुच्छ­ब्र­ह्म­प्र­ति­प­त्ति­शे­षत्वं क्लृप्त­मि­त्या­न­न्द­म­य­वा­क्येऽपि तथैव सिध्यतीति फलितार्थः । चकारेण अन्यत्र क्लृप्त­म­न­पेक्ष्य ‘सम्भ­व­त्ये­क­वा­क्यत्वे’ इति न्यायेनापि आनन्दमयवाक्ये तदुपन्यासस्य ब्रह्म­प्र­ति­शे­षत्वं सिद्ध्य­ती­त्य­य­म­र्थ­स्स­मु­च्ची­यते । १.१.१९।

ननु यथावृत्ति आन­न्द­म­य­ब्र­ह्म­वादो भाष्यकृता किमिति नाङ्गीकृत इति चेत् , अत्राहुः – आनन्दमयो ब्रह्मेति न युज्यते । अन्न­म­या­दि­ग­त­वि­का­रा­र्थ­म­य­ट्प्रा­य­प­ठि­तेन मयटा तस्य विकारत्वावगमात् , शिरः­प­क्षा­द्य­व­य­व­यो­गात् , पुच्छत्वेन निर्दि­ष्टा­द्ब्र­ह्म­ण­स्तस्य व्यति­रे­क­प्र­तीतेः, अन्न­म­या­दि­प­र्या­येषु प्रधानानां तत्त­त्प­र्या­य­ग­त­श्लो­क­वि­ष­य­त्व­द­र्श­नेन स्वप­र्या­य­ग­त­श्लो­का­वि­ष­यस्य तस्या­प्रा­धा­न्यात् , ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’(तै.२.६.१) इति अन्नमयादीनामिव तस्या­प्या­त्मा­न्त­र­श्र­व­णात् , ‘अन्न­म­य­प्रा­ण­म­य­म­नो­म­य­वि­ज्ञा­न­म­या­न­न्द­मया मे शुध्यन्ताम्’(तै.४.८४.१५) इति शोध्य­त्व­श्र­व­णाच्च इति । अत्रापरे प्रत्य­व­ति­ष्ठन्ते – अत्र ताव­द्वि­का­र­त्वा­व­ग­मोऽ­सिद्धः; विका­रा­र्थ­क­ल्प­क­त्वे­ना­भि­म­तस्य प्राय­पा­ठ­स्या­भा­वात् । यद्यप्यन्नमये विकारार्थः उपक्रान्तः, तथाऽपि तावता नानन्दमयेऽपि स एवार्थ इत्यायाति ; प्राणमयादिषु तत्परित्यागात् । प्राण­न­वृ­त्ति­प्रा­चु­र्येण हि पञ्च­वृ­त्ति­र्वायुः ‘प्राणमयः’ इति व्यपदिष्टः, न तु प्राणकार्यत्वेन । एव­म­न्तः­क­र­ण­जी­वा­वपि मन­न­वि­ज्ञा­न­प्रा­चु­र्येण ‘मनोमयः’ इति ‘विज्ञानमयः’ इति निर्दिष्टौ । ततश्च आनन्दमयेऽपि प्राचुर्यमेव मयडर्थः

। न च – आन­न्द­प्रा­चु­र्य­मपि ब्रह्मणि न सम्भवति ; प्राचुर्यस्य स्वस­मा­ना­धि­क­र­ण­वि­जा­ती­या­ल्प­त्व­प्र­ति­यो­गि­क­तायाः ‘ब्राह्म­ण­प्र­चुरो ग्रामः’ इत्यादौ दृष्टत्वेन आन­न्द­प्रा­चु­र्या­र्थ­स्वा­भा­व्या­दी­ष­द्दुः­ख­स­म्भि­न्न­त्वा­व­श्यं­भा­वा­दिति वाच्यम् । ‘प्रचु­र­प्र­का­श­स्स­विता’ इत्यादौ व्यधि­क­र­ण­स­जा­ती­या­ल्प­त्व­प्र­ति­यो­गि­क­ताया अपि दृष्टत्वेन ब्रह्मणि जीव­ग­ता­न­न्दा­ल्प­त्व­म­पेक्ष्य तत्प्रा­चु­र्य­स­म्भ­वात् । इह च वाक्यशेषे ‘सैषाऽऽनन्दस्य मीमांसा’ इत्यारभ्य व्यधि­क­र­ण­जी­वा­न­न्दा­ल्प­त्व­म­पे­क्ष्यैव ब्रह्मानन्दस्य प्राचु­र्य­प्र­द­र्श­नात् ।

शिरः­प­क्षा­दि­रू­पेण कल्पितमवयवित्वं तु न ब्रह्मत्वविरोधि । अन्यथा ब्रह्म­णोऽ­व­य­वि­त्व­व­द­व­य­व­त्व­मपि नास्तीति पुच्छ­ब्र­ह्म­णोऽ­प्य­ब्र­ह्म­त्व­प्र­स­ङ्गात् ।

आनन्दमयस्य पुच्छं ब्रह्म इति निर्देशोऽपि नानन्दमयस्य ब्रह्मत्वविरोधी । अन्नमयस्य स्वस्मा­द­न­ति­रि­क्तै­स्स्वा­व­य­वै­रेव ‘तस्येदमेव शिरः’(तै.२.१.१) इत्यादिना शिरः­प­क्ष­पु­च्छा­दि­म­त्त्व­क­ल्प­ना­द­र्श­नात् । अनतिरिक्तैः पक्ष­पु­च्छा­दि­म­त्त्व­क­ल्प­ना­प्रा­य­पा­ठा­नु­गु­ण्येन ब्रह्मा­न­न्द­म­य­यो­र­भि­न्न­यो­रेव पुच्छ­त­द्व­द्भा­व­नि­र्देशे तात्प­र्य­क­ल्प­न­स्यो­चि­त­तया ततो व्यति­रे­का­प्र­तीतेः ।

आनन्दमयस्य स्वप­र्या­य­ग­त­श्लो­का­वि­ष­य­त्व­म­प्य­सि­द्धम् ; अन्न­म­या­दि­प­र्या­य­श्लो­कानां पुच्छ­मा­त्र­वि­ष­य­त्वा­भा­वे­ना­स्यापि तद्वदेव पुच्छ­व­द्वि­ष­य­त्वौ­चि­त्यात् । न च पुच्छवति प्रयुक्तस्य आनन्दमयपदस्य श्लोके श्रवणाभावात् पुच्छे प्रयुक्तस्य ब्रह्मशब्दस्यैव श्रवणात् पुच्छविषय एवासौ न पुच्छवद्विषय इति शङ्क्यम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.२.१.१) ‘तस्माद्वा एतस्मादात्मन’(तै.२.१.१) इत्यु­प­क्रा­न्त­स्यै­वा­न­न्द­म­य­वाक्ये प्रतिपादनेन ब्रह्मा­त्मा­न­न्द­म­य­श­ब्दा­ना­मै­का­र्थ्य­स्या­व­धृ­त­तया तेष्व­न्य­त­म­नि­र्दे­श­मा­त्रेण श्लोक­स्या­न­न्द­म­य­वि­ष­य­त्व­सिद्धेः । न च प्रिय­मो­दा­दि­म­त्तया प्रसिद्धे आनन्दमये श्लोक­द­र्शि­ता­स­त्त्वा­स­त्व­शङ्का नान्वेतीति वाच्यम् । जीवस्य तथा लोके प्रसिद्धत्वेऽपि ब्रह्म­णोऽ­प्र­सि­द्ध­त्वात् ।

‘तस्यैष एव’ इत्या­दा­वा­न­न्द­म­य­स्या­त्मा­न्त­र­श्र­व­ण­म­प्य­सि­द्धम् ; तस्य पूर्वस्य विज्ञानमयस्य एष एव शारीर आत्मा य एष आनन्दमयः इत्य­र्था­ङ्गी­का­रात् । तस्य आनन्दमयस्य एष एव शारीर आत्मा यः पूर्वस्य विज्ञानमयस्य इत्य­र्था­ङ्गी­का­रेऽपि विज्ञानमयस्य य आकाशादिस्रष्टा वक्ष्य­मा­ण­न्या­य­सि­द्ध­प­र­मा­त्म­भाव; आनन्दमयः शारीर आत्मा स एव स्वस्यापि स्वयमेवात्मेति पर्यवसानेन ‘पतिं विश्व­स्या­त्मे­श्व­रम्’(तै.४.२५.५) इत्या­त्मे­श्व­र­त्वोक्त्या ईश्व­रा­न्त­र­स्ये­वा­त्मा­न्त­रस्य निराकृतेरेव सिद्धेः ।

शोध्यत्वं न ब्रह्मत्वविरोधि ; सर्वत्र शुद्धि­स्त­त्त­द­र्था­नु­गु­णेति ब्रह्म­ण्य­प्य­ना­दि­भ­व­स­ञ्चि­ता­ने­क­जी­वा­प­रा­ध­क­लु­षिते मुक्त्यर्थं प्रसा­द्य­त्व­रू­पस्य शोध्यत्वस्य सम्भवात् ।

तस्मात् पुच्छ­ब्र­ह्म­वा­द्यु­क्त­यु­क्ती­ना­म­सा­ध­क­त्वात् पुच्छ­व­दा­न­न्द­म­योऽपि ब्रह्मैव । प्रकरणस्य स्वस्मा­द­न­ति­रि­क्तै­स्स्वा­व­यवैः पक्ष­पु­च्छा­दि­रू­प­ण­प­र­त्वेन तस्य पुच्छ­ब्र­ह्मा­भे­द­प्र­तीतेः,

प्रक­र­ण­ग­त­श्लो­कानां पुच्छ­व­द्वि­ष­य­त्वेन तत्रैव श्लोकगतस्य ब्रह्म­श­ब्दा­भ्या­सस्य सत्त्वा­स­त्त्व­श­ङ्का­लि­ङ्गस्य च पर्यवसानात् , ‘सत्यं ज्ञानम्’ इति प्रकृतं ब्रह्म ‘तस्माद्वा एतस्मादात्मनः’ इत्यात्मशब्देन निर्दिश्य तस्य आका­शा­दि­का­र­ण­त्व­प्र­ति­पा­द­ना­न­न्तरं सर्वान्तरत्वेन तस्या­त्म­त्व­वि­व­र­णार्थं प्रवृत्तस्य सन्दर्भस्य तत्रैव परिसमापनेन तदनन्तरं ‘तस्माद्वा एत­स्मा­दा­न­न्द­म­यात् अन्योऽन्तर आत्मा ब्रह्म’(तै.२.५.१) इति तदान्तरस्य ब्रह्मणो निरूपणाभावात् , ‘सोऽकामयत’ इत्य­न­न्त­र­वा­क्य­ग­तेन स इति पुल्लिङ्गान्तेन अव्य­व­हि­त­प्र­धा­न­प्र­कृ­ता­र्थ­प­रा­म­र्शिना पराम्रष्टुं योग्यत्वात् , भृगुवल्यां ‘एतं विज्ञा­न­म­य­मा­त्मा­न­मु­प­सं­क्रम्य, एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­सं­क्रम्य’(तै.३.१०.५) इत्यत्र आनन्दमयशब्दस्य ‘विज्ञानं ब्रह्मेति व्यजानात्’(तै.३.५.१) ‘आनन्दो ब्रह्मेति व्यजानात्’(तै.३.६.१) इति तत्र­त्य­सं­प्र­ति­प­न्न­ब्र­ह्म­प­र­भा­वे­ना­न­न्द­श­ब्देन सह स्थानसाम्येन ब्रह्म­प­र­त्व­नि­श्च­यात्, ‘आन­न्द­म­योऽ­भ्या­सात्’ इति सूत्र­स्वा­र­स्याच्च इति ।

अत्रोच्यते – यत्ता­व­दु­क्त­मा­न­न्द­म­यस्य विका­र­त्वा­व­ग­ति­र्ना­स्तीति – तन्न । विका­रा­र्थ­म­य­ट्प्रा­य­पा­ठेन तत्रापि मयटो विकारार्थत्वात् । तथाहि – ‘स वा एष पुरु­षोऽ­न्न­र­स­मयः’(तै.२.१.१) इति न देह एवोच्यते; तस्य अन्न­प­रि­णा­म­त्व­वा­चिना अन्नरसशब्देन अन्न­वि­का­र­त्व­वा­चिना अन्नमयशब्देन चोक्तिसम्भवे ‘अन्नरसमयः’(तै.२.१.१) इत्यस्य वैयर्थ्यात्, पुरुषशब्दस्य च चेतनवाचित्वात्, ‘अन्नात् पुरुषः’(तै.२.१.१)‘अन्नात् पुरुषः’(तै.२.१.१) इत्य­व्य­व­हि­त­पु­रु­ष­प­रा­म­र्शस्य ‘एष’ इत्यनेन सिद्धतया ‘स’ इत्यस्य व्यव­हि­ता­का­शा­दि­का­र­णा­त्म­प­रा­म­र्शा­र्थ­त्वाच्च । किं तु , सः प्रागा­का­शा­दि­का­र­ण­त्वेन निरूपितः एषः अनु­प­द­म­न्न­का­र्य­त्वेन निरूपितश्च पुरुषः अन्नरसमयः अन्नरसं देहमनुप्रविश्य तदवच्छिन्नतया तत्कार्य इत्युच्यते । तथा च ‘अन्नात् पुरुषः’ इति निर्दिष्टं आका­शा­दि­का­र­ण­रू­पस्य पुरु­ष­स्या­न्न­का­र्यत्वं अन्न­का­र्य­दे­हा­व­च्छे­द­ल­ब्ध­प­रि­च्छि­न्ना­का­र­त­येति विवृतं भवति । एवं प्राणमयो मनोमयो विज्ञामयश्च प्राण­म­नो­बु­द्ध्य­व­च्छि­न्न­तया तद्विकारभूतो जीव एवेति युक्तम् । न च स्वतः कार्ये एव विका­रा­र्थ­प्र­त्ययः न त्वौपा­धि­क­का­र्य­ता­भाजि इति व्युत्प­त्ति­क­ल्पना प्रमाणवती । किं च , मयटः प्राचु­र्या­र्थत्वं वदतस्तवापि मते जीव एव आनन्दमय इति सिद्ध्यति ।

आन­न्द­प्रा­चु­र्यस्य प्रति­यो­गि­दुः­खा­ल्प­त्व­ग­र्भ­त्वात् । प्राचुर्यस्य विशेषणत्वे व्यधि­क­र­ण­स­जा­ती­या­ल्प­त्वस्य निरूपकत्वेऽपि विशेष्यत्वे समा­ना­धि­क­र­ण­वि­जा­ती­या­ल्प­त्व­मेव निरूपकं इति हि व्युत्प­त्ति­सि­द्धम् । अत एव ‘प्रचु­र­ब्रा­ह्मणो ग्रामः’ इत्यत्र प्राचुर्यस्य ग्रामा­न्त­र­ग­त­ब्रा­ह्म­णा­ल्प­त्वा­पे­क्ष­त्वेऽपि ‘ब्राह्म­ण­प्र­चुरो ग्रामः’ इत्यत्र तद्ग्रा­म­ग­त­शू­द्रा­ल्प­त्वा­पे­क्ष­मेव प्राचुर्यं प्रतीयते । न च ‘प्रचु­र­प्र­का­श­स्स­विता’ इतिवत् ‘प्रका­श­प्र­चु­र­स्स­विता’ इति प्रयोगेऽपि नक्ष­त्रा­दि­ग­त­प्र­का­शा­ल्प­त्वा­पे­क्ष­मेव प्राचु­र्य­म­व­ग­म्यते, न तु सवि­तृ­ग­त­त­मोऽ­ल्प­त्वा­पे­क्षम् ; तत्र तमसो बाधितत्वात् इति – शंक्यम् । तत्रापि घन­तु­हि­न­सैं­हि­के­या­च्छा­द­ना­रो­पि­त­त­मोऽ­ल्प­त्व­म­पे­क्ष्यैव घनाद्यपसरणसमये तथा प्रयोगात् । तदभावे तथा व्युत्प­न्न­प्र­यो­गा­भा­वात् । ननु ‘बल­व­त्त­र­श्चैत्रः’ इत्यादौ तरबाद्यर्थस्य प्राचुर्यस्य विशेष्यत्वेऽपि मैत्रा­दि­ग­त­ब­ला­द्य­ल्प­ताऽ­पे­क्षत्वं दृष्टमिति चेत् । न । तत्र ‘द्विव­च­न­वि­भा­ज्यो­प­पदे तरबीयसुनौ’(पा.सू.५.३.५७) इति द्विव­च­ना­दि­वि­शे­ष­ण­व­शा­दा­ति­शा­य­नि­क­प्र­त्य­येषु व्युत्प­त्त्य­न्त­र­क­ल्प­नेऽपि मयटि तत्कल्पकाभावेन औत्स­र्गि­क­व्यु­त्प­त्ति­ल­ङ्घ­ना­यो­गात् । न च ‘प्रज्ञानघन एवानन्दमयः’(मा.उ.१.५) इति ब्रह्म­ण्या­न­न्द­म­य­श­ब्द­प्र­यो­ग­द­र्श­नात् मयट्यपि व्युत्प­त्त्य­न्तरं कल्प्यमिति वाच्यम् । तस्य ‘सुषुप्तस्थान एकीभूतः’(मा.उ.१.५) इति विशेषणानुसारेण प्राज्ञ­श­ब्दि­त­सु­षु­प्त­जी­व­वि­ष­य­त्वात् । वाक्यशेषे ‘एष सर्वेश्वर एष सर्वज्ञः’(मा.उ.१.६) इत्या­दि­प­र­मे­श्व­र­ध­र्म­क­थ­नस्य आध्या­त्मि­का­धि­दै­वि­क­तृ­ती­य­पा­द­रू­प­प्रा­ज्ञे­श्व­रै­क्या­भि­प्रा­य­त्वात् । अपि च अन्यत्र व्यधि­क­र­ण­स­जा­ती­या­ल्प­त्व­म­पेक्ष्य मयटः प्रयोगसम्भवेऽपि प्रकृते त्वद­भि­म­त­प्रा­य­पा­ठा­नु­सा­रेण समा­ना­धि­क­र­ण­वि­जा­ती­या­ल्प­त्व­म­पे­क्ष्यैव तत्प्रयोगो निर्वाह्यः । तथाहि – प्राणमये तावत् पञ्च­वृ­त्ति­वा­यु­ग­त­मेव व्याना­दि­वृ­त्त्य­ल्प­त्व­म­पेक्ष्य तत्र प्राण­न­वृ­त्ति­प्रा­चुर्यं न तु तद­न्य­ग­त­प्रा­ण­न­वृ­त्त्य­ल्प­त्व­म­पेक्ष्य । ततोऽन्यत्र प्राण­न­वृ­त्ती­ना­म­भा­वात् । एवं मनोमयेऽपि करणभावेन मन­न­वृ­त्ति­स­म्ब­न्धि­नोऽपि मनसः तत्प्राचुर्यं तद्ग­त­वृ­त्त्य­न्त­रा­ल्प­त्व­म­पे­क्ष्यैव । विज्ञानमयेऽपि जीवे ज्ञान­वृ­त्ति­प्रा­चुर्यं तद्ग­त­ज्ञा­ना­ना­त्म­क­सं­स्का­रा­दि­रू­प­वृ­त्त्य­न्त­रा­ल्प­त्व­म­पे­क्ष्यैव पर्यवस्यति । किं बहुना, एवं त्रिषु प्राचु­र्या­र्थ­मु­प­ग­त­व­तोऽ­न्न­र­स­म­येऽपि देहे अव­य­वा­न्त­रा­ल्प­त्व­म­पे­क्ष्या­न्न­प­रि­णा­म­रू­पा­व­य­व­प्रा­चु­र्य­मेव मयडर्थ इति वैरू­प्य­प­रि­हा­रार्थं बलादायाति । एवञ्च आनन्दमयेऽपि समा­ना­धि­क­र­ण­दुः­खा­ल्प­त्वा­पे­क्ष­मा­न­न्द­प्रा­चुर्यं मयडर्थ इत्यापतितं दुःखमिश्रत्वं केन वार्यते । न च – तथाऽपि समा­ना­धि­क­र­ण­य­त्कि­ञ्चि­द्वि­जा­ती­या­ल्प­त्व­म­पे­क्ष्या­न­न्द­प्रा­चु­र्य­नि­र्वा­ह­स­म्भ­वेऽपि कुतो दुःख­मि­श्र­त्वा­पा­द­न­मिति वाच्यम् । सुखप्राचुर्यस्य तद्वि­रो­धि­दुः­खा­ल्प­ताऽ­पे­क्षा­या­मेव प्रथमं बुद्ध्यवतरणेन तदु­ल्ल­ङ्घ­ना­यो­गात् । न चैवं स आनन्दमयो जीवोऽपि न स्यात् तत्र दुःखाल्पत्वस्य सुखबाहुल्यस्य चाभावादिति शंक्यम् । जीवस्य मुक्तौ भोग्यात् निर­ति­श­यो­त्क­र्षा­दु­त्त­रा­व­धि­र­हि­तात् ‘श्रोत्रियस्य चाकामहतस्य’(तै.२.८.१) इति श्रुतिदर्शितात् सुखात् सर्वमपि सांसारिकं दुःखं अल्पमिति सम्भवात् । नन्वानन्दमये मयट् प्राचु­र्या­र्थोऽपि माभूत् स्वार्थि­कोऽ­स्त्विति चेत् , न । प्राय­पा­ठ­प्रा­प्तेऽ­ति­रि­क्तार्थे सम्भवति स्वार्थिकत्वेन वैय­र्थ्य­क­ल्प­नाऽ­यो­गात् । तस्मात् आनन्दमयस्य मयटा जीव­त्वा­व­ग­ति­स्ता­व­न्नि­ष्प्र­त्यूहा ।

यदुक्तं ब्रह्म­णोऽ­व­य­वित्वं अवयवत्ववत् कल्पनया सम्भवतीति – तन्न । अस्माभिः पुच्छ­प­द­स्या­धा­र­ल­क्ष­क­त्वस्य उक्त­त­याऽ­व­य­व­त्व­क­ल्प­ना­न­ङ्गी­का­रेण दृष्टा­न्ता­स­म्प्र­ति­पत्तेः । अध्या­रो­पा­प­वा­दाभ्यां निष्प्र­प­ञ्च­ब्र­ह्म­प्र­ति­प­त्ति­प्र­क­रणे प्रिय­मो­दा­दि­रू­प­शि­रः­प­क्षा­द्य­व­य­व­क­ल्प­नाया विरो­धे­ना­नु­प­यु­क्त­त्वेन च अयुक्तत्वाच्च । प्रकरणस्य निष्प्र­प­ञ्च­प­रत्वं च ‘भेद­व्य­प­दे­शाच्च’ इति सूत्रविवरणे समर्थितम् ।

स्यादेतत् – ‘यतो वाचो निवर्तन्ते’ इति मन्त्रो ब्रह्मणि द्वैतवस्तुमुखेन प्रवृत्तानां लौकिकीनां वैदिकीनाञ्च सर्वासां वाचां निवृत्तिं वदति इत्य­मु­म­र्थ­म­व­लम्ब्य हि तत्र तत्समर्थनं कृतम् , न तद्युक्तम् ; एकस्य ‘वाचः’ इत्यस्य ‘निवर्तन्ते’ इत्यस्य च स्वार­स्य­म­नु­रुध्य बहूनां सप्र­प­ञ्च­वा­क्यानां स्वार्थे प्रामाण्यात् प्रच्यावनस्य न्याय­वि­रु­द्ध­त्वात् इति चेत् –

उच्यते – विज्ञानमयं न ब्रह्मेति प्रतिक्षिप्य आनन्दमयं ब्रह्मेति व्यवस्थापयति त्वय्यपि तुल्योऽ­य­मा­क्षेपः । तथाहि – विज्ञानमयस्य ‘विज्ञानमयः’ इत्येतावतैव तावत् परब्रह्मत्वं प्रतीयते । तत्र मय­ट्प्र­त्य­य­स्या­न­न्द­म­यै­क­रू­प्याय त्वया व्यधि­क­र­ण­स­जा­ती­या­ल्प­त्वा­पे­क्ष­प्रा­चु­र्या­र्थ­त्व­स्या­भ्यु­प­गन्तुं युक्ततया जीवादन्यस्य संकुचितज्ञानस्य अभावात् जीव­ग­त­ज्ञा­ना­ल्प­त्वा­पे­क्ष­ज्ञा­न­प्रा­चुर्य एव तत्पर्यवसानात् । मन्त्र­व­र्णो­पा­त्त­वि­प­श्चि­त्त्व­प्र­त्य­भि­ज्ञा­नाच्च । तथा ‘विज्ञानं देवास्सर्वे ब्रह्म ज्येष्ठमुपासत’(तै.२.५.१) इत्यत्र मान्त्र­व­र्णि­क­ब्र­ह्म­श­ब्देन ‘तद्देवा ज्योतिषां ज्योति­रा­यु­र्हो­पा­स­तेऽ­मृ­तम्’(बृ.४.४.१६) इति श्रुत्य­न्त­र­सि­द्ध­दे­वो­पा­स्य­त्व­प्र­त्य­भि­ज्ञा­नेन ‘विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान्समश्नुते’(तै.२.५.१) इति तद­न­न्त­र­श्लो­केऽपि ब्रह्मशब्देन मान्त्र­व­र्णि­क­ब्र­ह्म­वि­द्या­फ­ल­प्र­त्य­भि­ज्ञा­नेन च तस्य ब्रह्मत्वं प्रतीयते । ‘विज्ञानं यज्ञं तनुते’(तै.२.५.१) इति तु ब्रह्म­ण्य­प्यु­प­प­द्यते ; यज्ञा­दे­र्हे­तु­क­र्तरि तस्मिन्नपि स्वव्या­पा­र­द्वारा प्रयो­ज्य­व्या­पा­र­क­र्तृ­त्व­स­त्त्वात् । हेतु­क­र्तृ­त्व­वि­व­क्षायां णिज­न्त­प्र­यो­ग­नि­य­मेऽपि स्वव्या­पा­र­द्वारा प्रयो­ज्य­व्या­पा­र­क­र्तृ­त्व­वि­व­क्षायां अणि­ज­न्त­प्र­यो­ग­स्या­वि­रु­द्ध­त्वात् । साक्षा­द्वि­ले­ख­न­म­कु­र्वति संवि­धा­न­स­म्पा­द­नेन कर्षणप्रयोजके स्वामिन्यपि ‘षड्भिर्हलैः कर्षति’ इति प्रयोगदर्शनात् ,‘यज्ञ­कृ­द्य­ज्ञ­भृ­द्यज्ञी’ इति ब्रह्मण्येव प्रयोगदर्शनाच्च । एवमपि विज्ञानमयस्य यद­ब्र­ह्म­त्व­मु­च्यते तत् ‘तस्माद्वा एत­स्मा­द्वि­ज्ञा­न­म­यात् अन्योऽन्तर आत्मा’(तै.२.५.१) इति तमतिक्रम्य तदन्यस्य तदा­न्त­र­स्या­त्मनः प्रति­पा­द­न­मा­त्रा­देव । आनन्दमयत्वस्य प्रिया­द्य­व­य­व­यो­गस्य च विज्ञा­न­म­येऽ­प्य­वि­रो­धात् । ततश्च यथा विज्ञा­न­म­या­द­न्यस्य तदान्तरस्य परमात्मनः प्रति­पा­द­न­द­र्श­ना­द्वि­ज्ञा­न­म­य­प­र्या­य­ग­त­वा­क्य­जातं स्थूला­रु­न्ध­ती­न्या­येन आरो­पि­त­प­र­मा­त्म­भा­व­त­द्ध­र्म­वै­शि­ष्ट्य­वि­ष­य­मिति त्वयाऽ­भ्यु­प­ग­म्यते एवं प्राण­म­या­दि­प­र्या­य­ग­ता­त्म­त्व­प्र­ति­पा­द­न­मपि, तथा ‘यतो वाचो निवर्तन्ते’(तै.२.४.१)‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इत्य­प­वा­द­द­र्श­नात् आरो­पि­त­प्र­प­ञ्च­वै­शि­ष्ट्य­वि­षयं सप्र­प­ञ्च­वा­क्य­जा­त­मिति कुतोऽ­भ्यु­प­गन्तुं न युज्यते । ननु युक्तं ‘विज्ञा­न­म­या­द­न्यो­न्तर आत्मा’(तै.२.५.१) इत्येतावताऽपि विज्ञा­न­म­य­वि­ष­य­वा­क्य­जा­त­स्या­रो­पि­त­वि­ष­य­त्वो­प­पा­दनं ,’तस्माद्वा एतस्मात्’ इत्य­त्रो­प­क्रा­न्त­मा­त्मत्वं सर्वा­न्त­र­त्वे­नो­प­पा­द­यितुं प्रवृत्ते ‘स वा एष पुरु­षोऽ­न्न­र­स­मयः’(तै.२.१.१) इत्येतस्मिन् प्रकरणे विज्ञा­न­म­या­दा­न्त­र­त्व­स्यैव सर्वा­न्त­र­त्व­रू­प­त्वेन तस्य उप­क्रा­न्ता­त्म­त्वो­प­पा­द­क­तया तात्प­र्य­व­त्त्वेन बलवत्त्वात्, अन्यथा पदमात्रेण चरमपठितेन प्रथ­म­प­ठि­ता­ने­क­वा­क्या­न्य­था­भा­वा­पा­द­नाऽ­यो­गात् इति चेत् ; तर्हि अस्मन्मतेऽपि ‘यतो वाचो निवर्तन्ते’ इत्यस्य पर­मो­प­क्र­म­ग­ता­न­न्त­त्वो­प­पा­द­ना­र्थ­त्वेन तात्पर्यवत्त्वं समानमिति पश्य । ‘यतो वाच’ इत्यस्य स्वप्रकरणगतेन ‘अदृ­श्येऽ­ना­त्म्येऽ­नि­रुक्ते’(तै.२.७.१) इति विशेषणेन प्रक­र­णा­न्त­र­ग­तै­र्ब्र­ह्मणो निष्प्र­प­ञ्च­त्वा­दि­प्र­ति­पा­द­कैश्च उप­ष्ट­म्भोऽ­प्य­स्तीति विशेषः । तस्मात् निर्वि­शे­ष­ब्र­ह्म­प्र­क­रणे प्रिया­द्य­व­य­व­यो­गात् सविशेष आनन्दमयो न प्रतिपाद्यं ब्रह्म भवितुमर्हतीति युक्तमेव ।

यच्चोक्तम् – तस्य ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति निर्देशेन व्यति­रे­क­प्र­ती­ति­र­सिद्धा ; प्रकरणस्य स्वस्मा­द­न­ति­रि­क्तै­श्शि­रः­प­क्षा­दि­म­त्त्व­नि­रू­प­ण­प­र­त्वा­दिति, तदयुक्तम् ; शिरःप्रभृतीनां अन्न­म­या­दि­श­ब्दो­दि­त­चे­त­ना­ति­रि­क्त­त्वात् । अन्न­म­या­दि­श­ब्दानां चेत­न­प­र्य­न्त­त्वा­न­ङ्गी­का­रेऽपि मनो­म­य­प­क्ष­शि­रः­पु­च्छानां ऋक्सा­म­य­जु­र­थ­र्वा­ङ्गी­रसां तदतिरिक्तत्वेन अन्न­म­या­दि­ष्व­प्य­व­य­वा­व­य­वि­भा­वा­दि­कृ­त­भे­द­स­द्भा­वेन च तथा प्रकरणसिद्धेः स्वरसतः प्रतीयमानस्य व्यतिरेकस्य त्यागायोगात् ।

यत्तु – आनन्दमयस्य श्लोका­प्र­ति­पा­द्य­त्व­म­सि­द्धम् ; श्लोकानां पुच्छ­व­द्वि­ष­य­त्व­नि­य­म­द­र्श­नात् इत्युक्तम् , तदप्ययुक्तम् । ‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इति मनो­म­य­प­र्या­य­श्लो­कस्य ब्रह्मविषयस्य पुच्छ­व­द्वि­ष­य­त्वा­भा­वात् , ‘अप्राप्य मनसा सह’ इति श्रवणात् । तत्रापि यथाकथञ्चित् पुच्छ­व­द्वि­ष­य­त्व­म­स्तीति चेत् , तर्हि ‘असन्नेव स भवति’ इत्यत्र स इत्यस्य प्रकृ­ता­न­न्द­म­य­प­र­त्वात् तस्यापि यथाकथञ्चित् पुच्छ­व­द्वि­ष­यत्वं संपन्नमिति संतुष्यतु भवान् । अयुक्तं च श्लोके ‘स’ इति पुंल्लिङ्गेन प्रकृ­त­प­रा­म­र्शिना तत्पदेन अवश्यं परामर्शनीयस्य आनन्दमयस्य श्लोक­ग­त­ब्र­ह्म­श­द्बा­भ्या­स­स­त्त्वा­स­त्त्व­श­ङ्का­लि­ङ्ग­वि­ष­य­त्वम् ।

यत्तु – ‘तस्यैष एव शारीर आत्मा’ इत्यत्र आत्मान्तरश्रवणं नास्ति अन­न्या­त्म­त्व­प­र­त्वात् इत्युक्तम् , तदप्ययुक्तम् ; पूर्व­प­र्या­य­स्था­ना­मिव आन­न्द­म­य­प­र्या­य­स्थ­स्यापि तस्य वाक्यस्य पुच्छ­ब्र­ह्म­रू­पा­त्मा­न्त­र­प­र­त्वो­प­पत्तौ प्रक्र­म­वि­रु­द्धा­र्थ­क­ल्प­नाऽ­यो­गात् ।

यच्च प्रसाद्यत्वरूपं शोध्यत्वं ब्रह्मणोऽपि सम्भ­व­ती­त्यु­क्तम् , तत्तुच्छम् । प्रागशुद्धिमतो हि शुद्धिराधेया । न च जीवा­प­रा­धा­नु­सा­रेण तेषु ब्रह्म­णोऽ­प्र­सादः कथ­म­प्य­शु­द्धि­श­ब्द­म­र्हति । तथा सति ब्रह्मणो नित्य­शु­द्ध­त्व­श्रु­तीनां सङ्कु­चि­ता­र्थ­त्व­प्र­स­ङ्गात् । लोकेऽपि अपराधानुगुण्येन भृत्यादिषु राजा­दी­ना­मु­चि­त­स्या­प्र­सा­दस्य अशुद्धिशब्देन व्यवहाराभावाच्च । तस्मात् पुच्छ­ब्र­ह्म­वा­दो­क्त­यु­क्तीनां निरा­क­र­ण­म­नु­प­प­न्नम् ।

यस्त्वा­न­न्द­म­य­ब्र­ह्म­वादे युक्ति­ष­ट्को­प­न्यासः तत्र अवयवानतिरेकः निगमनश्लोकानां पुच्छ­व­त्प­र­त्व­नि­य­मश्च प्रागेव निराकृतः ।

यत्तु ‘तस्माद्वा एतस्मात्’ इति शैल्या आनन्दमये परिसमापनात् स एव ब्रह्मे­त्यु­क्तम् , तदप्ययुक्तम् । यथा ‘श्रुतं ह्येव मे भग­व­द्दृ­शे­भ्य­स्त­रति शोकमात्मवित्’(छा.७.१.३) इत्या­त्म­जि­ज्ञा­सया उपसेदुषे नारदाय नामा­दि­षू­त्त­रो­त्त­र­म­र्था­न्त­रो­प­देशे ‘अस्ति भगवो नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्या­दि­प्र­श्न­प्र­ति­व­च­ना­भ्या­मे­वेति शैल्याः प्राण एव समापनेऽपि, विनैव तादृशे प्रश्नप्रतिवचने प्रवृत्तस्य ‘एष तु वा अतिवदति यस्स­त्ये­ना­ति­व­दति’(छा.७.१६.१) इत्यादेः तुशद्बश्रुत्या ‘आत्मतः प्राणः’(छा.७.२३.१) इति ततः प्राणो­त्प­त्ति­लि­ङ्गेन च प्राणा­द­र्था­न्त­रो­प­दे­श­प­र­त्व­मिति तत्रैव आत्मो­प­दे­श­प­र्य­व­सा­न­म­भ्यु­प­ग­म्यते न तु प्राचीने प्राणे, एवमिहापि पूर्वो­प­न्य­स्त­प्र­माणैः प्रधानतयाऽवगते पुच्छ­ब्र­ह्म­ण्येव उप­क्रा­न्तो­प­दे­श­प­र्य­व­सा­नस्य अभ्युपगन्तुं युक्तत्वात् । ननु भूमविद्यायां प्राणोपदेशे नामा­दि­ष्व­नु­क्त­स्या­ति­वा­दि­त्व­स्योक्त्या तत्पर्यन्त एवात्मोपदेश इति मत्वा शिष्ये भूयः प्रश्नमकुर्वति स्वयमेव आचार्यः ततोऽर्थान्तरं सत्यं उपचिक्षेप इति श्लिष्यते । इह तु उत्तरात्मोपदेशे दृष्टायाः ‘तस्माद्वा’ इत्यादिशैल्याः ब्रह्मणि परित्यागे नास्ति कारणं इति चेत्, मैवम् । अन्न­म­या­दि­प­र्या­ये­ष्विव आन­न्द­म­य­प­र्या­येऽपि क्वचिद्वस्तुनि प्रयोक्तव्यस्य पुच्छपदस्य तदाधारे ब्रह्मणि प्रयोगे तदेव उप­क्रा­न्त­ब्र­ह्मो­प­दे­शा­त्मकं निष्पद्यत इति पर्या­या­न्त­रा­ना­र­म्भो­प­पत्तेः । नन्वेवमपि सर्वा­न्त­र­त्वे­ना­त्म­त्व­वि­व­र­ण­मु­प­क्रान्तं आन्त­र­त्वे­ना­त्मत्वे चोपदिष्टे आनन्दमये पर्यवस्यतीति युक्तम् , न तु तथाऽनुपदिष्टे पुच्छब्रह्मणि इति चेत् । एवं तर्हि भूमविद्यायामपि ‘तरति शोकमात्मवित्’(छा.७.१.३) इयु­प­क्रा­न्त­स्या­त्मो­प­दे­शस्य ‘अथात आत्मादेशः’(छा.७.२५.२) इत्या­द्यु­प­रि­भागे एव पर्यवसानं स्यात् , ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यारभ्य अह­ङ्का­रो­प­दे­श­प­र्यन्तं आत्म­प्र­स­ङ्ग­र­हितं प्राणोपदेशशेषं स्यात् । यदि तु तुशब्दश्रुत्या प्राण­वि­च्छे­दा­व­ग­मात् सत्योपदेश एवोपक्रान्त आत्मो­प­दे­श­स्स्या­दिति मतम्, तर्ह्यु­क्त­प्र­माणैः पुच्छ­ब्र­ह्मो­प­देश एव आन­न्द­म­या­द­प्या­न्त­र­स्या­त्मन उपदेशः स्यात् इति तुल्यम् । तस्य ‘स यश्चायं पुरुषे’(तै.३.१०.४) इति जीवान्तरत्वस्य अग्रे स्फुटत्वात् । तस्मात् पुच्छब्रह्मणि ‘तस्माद्वा एतस्मात्’ इत्यादिरूपा पूर्वच्छाया नास्तीति नायं दोषः । किन्तु अमु­ख्या­त्म­प्रा­य­पा­ठे­ना­मु­ख्य­त्व­श­ङ्का­व­ह­त्वात् स एव दोषः ।

यत्तु – आनन्दमय एव ‘सोऽकामयत’ इत्या­दि­स­न्द­र्भस्य पर्यवसानं युक्तं पुल्लि­ङ्गा­नु­रो­धात् इत्युक्तम् , तदप्ययुक्तम् । पुच्छब्रह्मणि अव्य­व­हि­त­प्र­कृ­त­ब्र­ह्म­श­ब्दा­पे­क्षया पुल्लि­ङ्गा­नु­प­प­त्ता­वपि व्यव­हि­त­प्र­कृ­ता­त्म­श­ब्दा­पे­क्षया तदुपपत्तेः । ‘तस्य द्वादशशतं दक्षिणा’ इत्यत्र अव्य­व­हि­त­प­रा­म­र्शा­स­म्भवे व्यव­हि­त­प­रा­म­र्शस्य दृष्टत्वात्, ‘तस्यैष एव शारीर आत्मा’ इति आनन्दमयादपि सन्नि­हि­त­मा­त्म­शब्दं अपेक्ष्य पुल्लि­ङ्गो­प­प­त्तेश्च । न च तस्य सर्व­प­र्या­य­सा­धा­र­ण­त्वात् प्रधा­न­प्र­ति­पा­द्य­प­रत्वं नास्तीति वाच्यम् । साधारण्येऽपि प्रधा­न­प­र­त्वा­न­पा­यात् । आन­न्द­म­य­श­ब्द­स्या­सा­धा­र­ण्येऽ­प्या­त्म­ग­त­के­व­ल­यौ­गि­का­र्थो­प­स्था­प­क­तया तद्वि­शे­ष्य­प­र­स्या­त्म­श­ब्द­स्यैव सर्व­प­र्या­य­सा­धा­र­णस्य आन­न्द­म­य­वा­क्येऽपि प्रधा­नो­प­स्था­प­क­त्वाच्च ।

यत्तु भृगु­व­ल्या­मा­न­न्द­मयो ब्रह्मेति निर्णी­त­मि­त्यु­क्तम् – तद्व्यधिकरणम् । तावता विप्र­ति­प­न्न­स्या­न­न्द­म­य­श­ब्दस्य ब्रह्म­प­र­त्वा­सिद्धेः । न हि ‘आकाश इति होवाच’(छा.१.९.१) इत्यत्र आकाशशब्दस्य ब्रह्म­प­र­त्व­नि­र्ण­य­मा­त्रेण”य एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते’(बृ.२.१.१८) इत्यत्रापि तस्य ब्रह्मपरत्वं सिद्ध्यति । भृगुवल्याम्नात आनन्दमयोऽपि ‘एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­सं­क्रा­मति’ इति आन­न्द­व­ल्या­म्ना­ता­न­न्द­म­य­श्रु­तो­प­सं­क्र­मि­त­व्य­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­नेन तद्वत् अब्रह्मेत्येव अङ्गीकाराच्च । भृगु­व­ल्या­म्ना­ता­न­न्द­स्था­न­सा­म्या­दपि अन्नमयादिषु पञ्चस्वपि मय­ट्प्र­त्य­य­सा­रू­प्येण आन­न्द­म­य­स्था­न­सा­म्य­स्यैव प्रबलतया ततोऽपि भृगु­व­ल्या­म्ना­ता­न­न्द­म­यस्य अब्रह्मत्वस्यैव सिद्धेश्च । एतेन – भृगु­व­ल्या­म्ना­ता­न­न्द­म­येन सह विष­य­वा­क्य­श्रु­ता­न­न्द­म­यस्य स्थानसाम्येन ब्रह्म­त्व­सा­ध­न­मपि निरस्तम्; प्रथ­म­प­र्या­या­म्ना­त­यो­र­न्ना­न्न­म­य­यो­रिव त्वया विका­रि­वि­का­र­भा­व­स्यैव अभ्युपगन्तुं युक्तत्वात् । यत्तु आन­न्द­म­य­ब्र­ह्म­वादे सूत्र­स्वा­र­स्य­मु­क्तम् , तदपि न युक्तम् ; पुच्छब्रह्मवाद एव सूत्राणां स्वारस्यस्य समर्थितत्वात् । तस्मादानन्दमयो जीव एवेति युक्तं पुच्च­ब्र­ह्म­वि­ष­य­तया अधिकरणोपवर्णनम् ।

इत्या­न­न्द­म­या­धि­क­र­णम् ॥

अन्त­स्त­द्ध­र्मो­प­दे­शात् । २० ।

२०

इदमामनन्ति च्छन्दोगाः ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिर­ण्य­श्म­श्रु­र्हि­र­ण्य­केश आ प्रणखात् सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्ड­री­क­मे­व­म­क्षिणी तस्योदिति नाम, स एष सर्वेभ्यः पाप्मभ्य उदितः, उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्य ऋक् च साम च गेष्णौ, तस्मादुद्गीथः तस्मा­त्त्वे­वो­द्गाता, एतस्य हि गाता । स एष ये चामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां च इत्यधिदैवतम्’(छा.१.६.६,७) इति । तथा ‘अथाध्यात्मम्’ इत्युपक्रम्य समामनन्ति ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैव ऋक् तदुक्थं तत्साम तद्यजुः तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपम् , यावमुष्य गेष्णौ तौ गेष्णौ, यन्नाम तन्नाम । स एष ये चैत­स्मा­द­र्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’(छा. १. ७. ५) ‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’(छा. १. ७. ६) इत्यादि ।

तत्र अन्तरादित्ये अन्तरक्षणि चोपास्यः पुरुषः किमा­दि­त्य­जी­व­रू­प­स्सं­सारी किं वा परमेश्वरः इति संशये, प्राप्तं तावत् रूप­व­त्त्वा­दि­भि­स्सं­सा­रीति । न हि परमेश्वरस्य हिर­ण्य­श्म­श्रु­त्वा­दि­वि­शिष्टं रूपम् , ‘अन्तरादित्ये’ ‘अन्तरक्षिणि’ इति निर्दि­ष्ट­म­धि­क­र­णम् , ‘ये चामुष्मात्’ ‘ये चैतस्मात्’ इत्यु­क्तै­श्व­र्य­म­र्यादा च उपपद्यते । ‘‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्ययं तथाऽरसं नित्यमगन्धवच्च यत्’(क. १. ३. १५) ‘अच­क्षुः­श्रोत्रं तदपाणिपादम्(मु. १. १. ६.) ‘स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि’(छा. ७. २४. १) ‘एष सर्वेश्वरः’(बृ. ४. ४. २२) इत्या­दि­श्रु­ति­वि­रो­धात् ।

स्यादेतत् – परमेश्वरस्य रूपा­दि­म­त्त्वेऽपि श्रुतयो दृश्यन्ते । यथा तल­व­का­रि­णा­मु­प­नि­षदि यक्षरूपेण प्रादुर्भूतः परमेश्वरो देवैर्दृष्ट इति श्रूयते । यथा वा कौषी­त­कि­ना­मु­प­नि­षदि पर्य­ङ्क­वि­द्या­या­म­र्चि­रा­दि­मा­र्ग­गम्ये ब्रह्मलोके अमितौजसि पर्यङ्के स्थितः परमेश्वरः स्वोपा­स­कै­र­र्चि­रा­दि­मा­र्गेण प्राप्तैस्सह सल्लपतीति श्रूयते । तेषां चोपासकानां पर­मे­श्व­र­दि­व्य­ग­न्धा­दि­प्रा­प्तिश्च श्रूयते । एवमन्यत्रापि तत्र तत्र परमेश्वरस्यापि रूपवत्त्वं स्थानवत्वं च बहुलमुपलभ्यते । एक­दे­शै­श्व­र्य­श्र­वणं तु न सर्वै­श्व­र्य­वि­रोधि ; सर्वेश्वरे एक­दे­शै­श्व­र्य­स्यापि सत्त्वात् , अन्यथा सर्वे­श्व­र­त्व­स्यै­वा­भा­व­प्र­स­ङ्गात् इति चेत् – उच्यते –

रूपादिरहितं ब्रह्म रूपितं श्रुतिमौलिषु ।
कथं रूपादिमदिति श्रद्धधीमहि कल्पनाम् ॥
कर्मणां च फलत्वेन रूपादिकमधीमहे ।
कर्मलेशविहीनस्य कथं तदुपपद्यते ॥
यदि रूपादि मिथ्यैतदविरोधाय कल्प्यते ।
कथं तद्बोधयन्तीनां प्रामाण्यं घटते गिराम् ॥
अतोऽन्यत्रापि रूपा­दि­प्र­ति­पा­द­न­मस्ति यत् ।
योज्यं हिर­ण्य­ग­र्भा­दि­सं­सा­रि­प­र­मेव तत् ॥
अथवा ब्रह्मणि परे स्तावकत्वेन केवलम् ।
योजनीयं यथा मोक्षे जक्ष­णा­द्यु­प­व­र्ण­नम् ॥

न तावत् रूपादिरहिततया वेदान्तेषु तात्पर्येण निरूपितं यत् ब्रह्म तदेव रूपादिमदिति वचः श्रद्धेयम् ; विरोधात् । सगुणं ब्रह्म रूपादिमत् निर्गुणं तद्रहितमिति चेत् , तत् किं सगुणं निर्गुणादन्यत् तदेव वा । आद्ये अपसिद्धान्तः, द्वितीये विरो­ध­ता­द­व­स्थ्यम् । किञ्च, देव­म­नु­ष्या­दि­रूपं इन्द्र­च­न्द्रा­दि­त्या­दि­स्थानं ऐश्वर्यतारतम्यं च कर्मफलत्वेन श्रुति­स्मृ­ति­पु­रा­णेषु प्रसिद्धम् । तत् कथं कर्मलेशेनापि रहितस्योपपद्यते । अथ एत­द्वि­रो­ध­स­मा­धा­नाय ब्रह्मणो रूपादिकं मिथ्येति कल्प्यते, न हि तदानीमपि नीरू­प­त्व­नि­ष्क­र्म­त्व­श्रु­ति­वि­रो­धोऽस्ति ; शुक्तौ मिथ्या­र­ज­त­स­त्त्वेऽपि तदभावस्य ऐन्द्र­जा­लि­क­द­र्शि­त­व्या­घ्र­देहे व्याघ्र­त्व­प्रा­प­क­क­र्मा­न­पे­क्ष­त्वस्य च दर्शनात् इति चेत् – तर्हि ‘इदं रजतम्’ ‘अयं व्याघ्रः’ इत्या­दि­व्य­व­हा­रा­णा­मिव ब्रह्मणि रूपा­दि­बो­ध­क­श्रु­ती­ना­म­प्रा­मा­ण्य­प्र­सङ्गः । तस्मादन्यत्रापि रूप­व­त्त्वा­दि­श्रु­तयो यथासम्भवं हिर­ण्य­ग­र्भा­दि­सं­सा­रि­वि­ष­य­त्वेन योजनीयाः । पर­ब्र­ह्म­प्र­क­र­ण­त्व­नि­र्णये तु पर­म­मु­क्ति­प्र­क­र­णेषु ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’(छा. ८. १२. ३) ‘स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’(छा. ७.२६. २) इति च उपा­स­ना­फ­ल­श्र­व­ण­वत् केवलं स्तावकत्वेन योजनीयाः । कति­प­यै­श्व­र्य­श्र­व­ण­मात्रं यद्यपि तद­धि­कै­श्व­र्या­वि­रोधि ; सर्व­भू­म­ण्ड­ला­धि­प­ता­व­यो­ध्या­प­ति­रिति व्यवहारात् , तथाऽपि ‘स कलिंगाधिपतिः’ ‘अयमङ्गाधिपतिः’ इति व्यवहारवत् ‘आदित्यपुरुषः केषा­ञ्चि­दीष्टे’, ‘अक्षिपुरुषः केषाञ्चित्’ इति श्रवणं पर­स्प­र­व्य­व­च्छे­द­क­त्वात् सर्वै­श्व­र्य­वि­रो­ध्येव । तस्मात् रूपादिमानिह संसारीति युक्तम् ॥

कथं संसारिणि सर्व­पा­प्मो­दि­त­त्वम् , ‘तदुक्थं तद्यजुः’ इत्यादिनोक्तं सार्वात्म्यं च घटतामिति चेत् , माघटिष्ट । उप­क्र­मा­दि­ब­हु­प्र­मा­ण­ब­लात् पूर्वाधिकरणे पुच्छशब्दस्येव रूपा­दि­त्रि­त­य­ब­ला­त्तयोः कथंचिद्योजनं भविष्यति ।

तत्र सर्व­पा­प्मो­दि­त­त्व­श्र­वणं देव­ता­प­द­प्रा­प्त­स्या­दि­त्यस्य कर्मा­न­धि­का­र­मा­त्रेण यद्य­प्यु­प­पा­द­यि­तु­म­श­क्यम् ; तदानीं कर्मानधिकारेण पापानामजननेऽपि अना­दि­भ­व­स­ञ्चि­तानां प्रसुप्तपापानां सम्भवात् , तथाऽपि पापा­ल्प­त्वा­भि­प्रायं योज्यम् । ननु मोक्षशास्त्रे पाप्मशब्द: पुण्यस्यापि सङ्ग्राहकः ; मुमुक्षुं प्रति तस्या­प्य­नि­ष्ट­फ­ल­त्वात् , ‘न सुकृतं न दुष्कृतम्(छा. ८.४.१) इत्युपक्रम्य ‘सर्वे पाप्मानोऽतो निवर्तन्ते’(छा. ८.४.१) इत्युभयत्रापि तत्प्रयोगाच्च । न च पुण्या­ल्प­त्व­मा­दि­त्येऽस्ति । अतो नैवं योजनं सङ्गतं इति चेत् , न । पाप्म­श­ब्द­स्या­नि­ष्ट­फ­ल­त्वेन रूपेण क्वचि­द­ज­ह­ल्ल­क्ष­णया पुण्य­सा­धा­र­ण्येऽपि पापमात्रे गृहीतशक्तिकस्य तस्य मोक्ष­शा­स्त्रेऽपि सर्वत्र तत्सा­धा­र­ण्य­नि­य­मा­भा­वात् । अन्यथा ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते’(छा. ८. ४. १) इति प्रकृ­ते­ष्व­हो­रा­त्र­ज­रा­मृ­त्यु­शो­क­सु­कृ­त­दु­ष्कृ­तेषु अविशेषेण पाप्मशब्दस्य प्रयुक्ततया अन्यत्रापि ताव­त्सा­धा­र­ण्य­प्र­स­ङ्गात् । न चेष्टापत्तिः ; तस्मिन्नेव प्रकरणे ‘एष आत्माऽपहतपाप्मा विजरो विमृ­त्यु­र्वि­शोकः’(छा. ८.१.५) इति सत्यपि पाप्मशब्दे जरा­मृ­त्यु­शो­कानां पृथक् ग्रहणदर्शनात् । अस्तु वा मोक्षशास्त्रे सर्वत्र पाप्मशब्दः पुण्यसाधारणः, तथाऽप्यत्र न दोषः; आदित्ये यमशक्रादिवत् साक्षा­त्कृ­त­ब्र­ह्मणि ‘अथ तत ऊर्ध्वमुदेत्य नैवोदेता नास्तमेता एकल एव मध्ये स्थाता’(छा.३.११.१) इत्ये­त­त्क­ल्पा­धि­का­र­स­मा­प्त्य­न­न्तरं मोक्ष­मा­सा­द­यि­ष्य­मा­ण­त्वेन श्रुते ब्रह्म­सा­क्षा­त्का­र­नि­र्द्धू­त­स­क­ल­पु­ण्य­पा­प­प­ञ्जरे प्रार­ब्ध­मा­त्रा­नु­वृ­त्ति­मति पापवत् पुण्य­स्या­प्य­ल्प­त्वात् ।

वस्तुतस्तु – सर्व­पा­प्मो­दि­तत्वं सर्वेश्वर एव न सङ्गच्छते ।

सर्व­पा­प्मो­दि­तत्वं हि प्राक् तदाच्छादिते भवेत् ।
कदाचिदपि न ब्रह्म पापा­च्छा­दि­त­मि­ष्यते ॥
अतो ब्रह्मा­प­रो­क्ष्येण ध्वस्त­स­र्वा­घ­प­ञ्जरे ।
आदित्य एव तस्यापि स्वारस्यं कलयामहे ॥

पापा­पा­दा­न­क­मु­द्ग­मनं हि प्राक् तदाच्छादितस्य घटते मेघ­म­ण्ड­ला­पा­दा­न­क­मु­द्ग­म­न­मिव प्राक् मेघ­म­ण्ड­ला­च्छा­दि­तस्य चन्द्रस्य । न च कदाचिदपि ब्रह्म पापा­च्छा­दि­त­मि­ष्यते । अतो रूपवत्त्वादेरिव सर्व­पा­प्मो­दि­त­त्व­स्यापि प्राक् पापा­च्छा­द­न­पि­हि­त­स्व­रूपे ब्रह्म­सा­क्षा­त्का­र­नि­र्धू­त­स­क­ल­त­दा­च्छा­दने भगवत्यादित्य एव स्वारस्यं प्रतिपद्यामहे ।

अस्तु वा परमेश्वर एव तस्य स्वारस्यम् । तथापि तदिह नादरणीयम् । कथम् ?-

नामैव किल नान्वेति कूटस्थे परमात्मनि ।
तत्र नाम­नि­रु­क्त्य­र्थ­स्वा­रस्यं किं करिष्यति ॥
न हि यस्यार्थवादस्य विधिना येन नान्वयः ।
स्वारस्यं तत्स्तुतौ तस्य सदप्याद्रियते बुधैः ॥

सर्व­पा­प्मो­दि­तत्वं हि न स्वातन्त्र्येण कीर्तितम् , किंतु ‘तस्योदिति नाम’ इति निर्दि­ष्ट­ना­मा­र्थ­तया निरुक्तम् । तच्च तत्रैवान्वेतुं योग्यं यत्र नामान्वेति । न च परमेश्वरे किञ्चिदपि नाम अन्वेति ; ‘आकाशो ह वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तत् ब्रह्म’(छा. ८. १४. १) इति तस्य नाम­रू­पा­स्पृ­ष्ट­त्व­प्र­ति­पा­द­नात् । अतो यथा ‘अवकाभिरग्निं विकर्षति’ इति विधिशेषस्य ‘आपो वै शान्ताः’ इत्यर्थवादस्य ‘दधि मधु घृतमापो धाना भवन्ति’ इत्यादौ श्रुतेनापां विधि­नाऽ­न्व­य­र­हि­तस्य अपामेव स्तुतौ स्वारस्यं सदपि नाद्रियते, किंतु कथञ्चित् ‘अवकास्तुतौ पर्य­व­सा­न­म­भ्यु­प­ग­म्यते, एवं नामान्वयायोग्ये परमेश्वरे नाम­नि­रु­क्त्य­र्थ­स्वा­र­स्य­म­कि­ञ्चि­त्क­र­मिति आदित्य एव नामान्वययोग्ये तस्य पर्य­व­सा­न­म­भ्यु­प­गन्तुं युक्तम् । अतः पापाल्पत्वपरमेव सर्व­पा­प्मो­दि­त­त्व­श्र­व­णम् , देवत्वेन जीवन्मुक्तत्वेन च सर्व­क­र्मा­न­धि­का­र­परं वा ।

एव­मृ­क्सा­मा­द्या­त्म­त्व­श्र­व­ण­मपि आदित्य एव कथ­ञ्चि­द्यो­ज­नी­यम् । तथाहि –
ऋक्सा­मा­द्या­त्म­ताऽ­स्योक्ता स्तुतये दृष्टयेऽपि वा ।
ऋक्सा­म­यो­र्य­थाऽ­त्रैव पृथि­व्य­ग्न्या­दि­रू­पता ॥

अत्रैव प्रकरणे ‘इयमेव ऋक् अग्निस्साम’ इत्यादिना अधिदैवतमृचः पृथि­व्य­न्त­रि­क्ष­द्यु­न­क्ष­त्रा­दि­त्य­ग­त­शु­क्ल­भा­रू­पत्वं साम्न­श्चा­ग्नि­वा­य्वा­दि­त्य­च­न्द्रा­दि­त्य­ग­ता­ति­कृ­ष्ण­भा­रू­पत्वं ‘वागेव ऋक् प्राणस्साम’ इत्यादिना अध्यात्ममृचो वाक्च­क्षुः­श्रो­त्रा­क्षि­ग­त­शु­क्ल­भा­रू­पत्वं साम्नश्च प्राण­च्छा­या­त्म­म­नोऽ­क्षि­ग­ता­ति­कृ­ष्ण­भा­रू­प­त्व­मु­क्तम् । तत् केव­ल­स्तु­त्य­र्थ­मु­पा­सार्थं वेति सङ्गमयितव्यम् । एवमेव तथा­भू­त­ऋ­क्सा­मा­द्या­त्म­क­त्व­मा­दि­त्यस्य किं न सङ्गच्छते । किञ्च –

ऋक्सा­मा­द्यै­र­भे­दस्तु ब्रह्म­ण्य­प्य­वि­का­रिणि ।
सिद्धान्ते नाभ्युपगतः कल्प्यः सूर्येऽपि सङ्गतः ॥
सत्ये निर्विकारे ब्रह्मणि मिथ्या­भू­त­ऋ­क्सा­मा­दि­प्र­प­ञ्चा­भेदो नेष्यत एव सिद्धान्ते । प्रपञ्चस्य ब्रह्मानन्यत्वं ब्रह्म­व्य­ति­रे­के­णा­भा­व­मा­त्रम् , न तु तदभेद इति हि सिद्धान्तः । अतः काल्प­नि­का­भे­द­मा­श्रि­त्यैव ब्रह्मण्यपि ‘सैवर्क् तत् साम’ इत्यादि समर्थनीयम् । तथा सम­र्थ­न­मा­दि­त्येऽपि सङ्गच्छते ।

एवमादित्यपुरुषे उद्गा­तृ­क­र्तृ­क­गा­न­वि­ष­य­त्वोक्तिः अक्षिपुरुषे लौकि­क­वी­णा­गा­न­वि­ष­य­त्वो­क्तिश्च आदित्य एव कथञ्चिद्योजनीया । न हि मुख्यं तदुभयविषयत्वं ब्रह्मण्यपि सम्भवति ; उद्गातृगानस्य तत्त­दि­न्द्रा­दि­दे­व­ता­वि­ष­य­त्वात् लौकिकगानस्य राजा­दि­वि­ष­य­त्वात् । न च ब्रह्म­ण­स्स­र्व­जी­वा­भि­न्न­त्वात् तदुपपत्तिः । आदित्यस्यापि ब्रह्म­सा­क्षा­त्का­र­द­ग्धा­ज्ञा­नस्य जीवन्मुक्तस्य वामदेववत् सर्वा­त्म­भा­वा­प­न्न­त्वात् । ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इति श्रुतेः । ‘सर्वाणि ह वा इमानि भूता­न्या­दि­त्य­मु­च्चै­स्सन्तं गायन्ति’(छा.१.११.७) इति श्रुत्यन्तरे तस्य सर्व­भू­त­क­र्तृ­क­गा­न­वि­ष­य­त्व­प्र­सि­द्धेश्च । तस्मात् आदित्य एवात्र हिरण्मयः पुरुष इति युक्तम् ।

सह­स्र­कि­र­ण­स्यास्य हिर­ण्म­य­मि­वो­ज्व­लम् ।
प्रसिद्धं हि पुराणेषु रूपं तैजसमण्डले ॥
यथा भवति पाथोजं कप्यासमिव कान्तिमत् ।
तथैव कुरुतश्चास्य प्रसृते प्रातरक्षिणी ॥
प्रातःकालकृतः पद्मविकासः किरणैरिव ।
दृष्टि­पा­तै­र्भ­वन् भानो­र्व­र्ण्य­मानो न दुष्यति ॥
कप्या­स­वा­क्येऽ­प्यु­चि­त­क्रि­याऽ­ध्या­हा­र­क­ल्प­नम् ।
यश्च निम्बं पर­शु­ने­त्या­दि­के­ष्विव युज्यते ॥
ऋक्सा­मा­द्या­त्म­तो­क्तिश्च रवेः सङ्गच्छतेतराम् ।
प्राय­स्त्र­यी­म­यत्वं हि प्रसिद्धं तस्य वर्ण्यते ॥ इति पूर्वपक्षः॥

सिद्धान्तस्तु –
‘सफ­ला­न­न्य­था­सि­द्ध­स­र्व­पा­प्मो­द­या­ह­तम् ।
अता­दृ­ग्रू­प­व­त्त्वादि न संसारित्वसाधकम् ॥

सफलं तावत् सर्व­पा­प्मो­दि­त­त्व­लिङ्गं ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यः’ इति श्रुतेन फलेन । फलं च तात्पर्यलिङ्गम् । अतः एकमपि तल्लिङ्गं निश्चि­त­ता­त्पर्यं अता­दृ­शा­द­ने­क­स्मा­दपि रूप­व­त्त्वा­दि­लि­ङ्गा­द्ब­ल­वत् ; तात्प­र्या­नु­सा­रि­त्वा­दा­ग­म­प्रा­मा­ण्यस्य । तच्च सर्व­पा­प्मो­दि­तत्वं अस­ङ्कु­चि­त­स­र्व­पा­प­वि­र­ह­रू­प­मेव ; फल­व­च­ना­नु­गु­ण्यात् । फलवचने हि न सर्व­क­र्मा­न­धि­का­र­मा­त्र­मु­च्यत इति वक्तुं युक्तम् ; तिर्य­गा­दि­सा­धा­र­णस्य तस्य अपु­रु­षा­र्थ­त्वात् । नापि सङ्कु­चि­त­स­र्व­पा­प­वि­र­ह­व­त्त्वम् ; ‘सर्वे पाप्मानः प्रदूयन्ते’(छा. ५. २४. ३) इति श्रुत्यन्तरे तस्य विद्याफलत्वेन प्रसिद्धेः । सर्वत्वस्य असङ्कोचसम्भवे सङ्को­च­क­ल्प­नाऽ­यो­गाच्च । तत­श्चा­स­ङ्कु­चि­त­स­र्व­पा­प­वि­रहे फलवचनार्थे स्थिते उपा­स्य­गु­ण­व­च­ना­र्थोऽपि स एवेति युक्तम् । अक्ष­रै­क­रू­प्य­स्वा­र­स्येन तत्क्रतुन्यायेन च तयो­रे­का­र्थ­प­र­त्वस्य वक्तव्यत्वात् ।

तथाऽपि न पाप­वि­र­ह­स्त­दर्थः, किन्तु पापा­पा­दा­न­क­मु­द्ग­म­न­मेव, तत्तु प्राक् पापाच्छादिते जीवे सम्भवति न ब्रह्मणि इत्युक्तमिति चेत् – मैवम् ।

जीवस्यापि न युक्तैव वाच्या ह्युद्गमनक्रिया ।
पापापादानिका त्वेषा नैव युक्ता कथञ्चन ॥
न हि नीडे स्थिते तस्माच्छकुन्त इव सक्रियः ।
उद्ग­च्छ­त्य­क्रियो जीवः पापपञ्जरतः स्थितात् ॥

अतो यथा कुत­श्चि­द­पा­दा­ना­दु­द्गतः सर्वात्मना तत्सम्बन्धरहितो भवति एवमयं सर्वात्मना पापसम्बन्धरहितः इत्ययमर्थो लक्षणया प्रतिपाद्य इति सर्व­पा­प्म­र­हि­त­त्व­मेव तदर्थः । तत्तु आदित्यजीवे न सम्भवतीति व्यक्तमेव ।

एतेन क्रियमाणेऽपि पापहेतुकर्मणि पापाश्लेषो गुण­फ­ल­वा­क्य­यो­र­र्थोऽस्तु ; ‘एवमेवंविदि पापं कर्म न श्लिष्यते’(छा. ४.१४.३) इति श्रुतौ तस्यापि विद्या­फ­ल­त्व­प्र­सिद्धेः । ‘न ह वै देवान् पापं गच्छति, पुण्यमेवामुं गच्छति’(बृ.१.५.२०) इति श्रुतौ तस्य देव­त्व­प्रा­प­क­पु­ण्य­फ­ल­त्व­प्र­सि­द्धेश्च । देवत्वदशायां प्राग्भ­व­स­ञ्चि­त­पा­पानां फलानारम्भकत्वं ‘न ह वै देवान्’ इति श्रुतेरर्थ इति चेत् , तर्हि स एव सर्व­पा­प्मो­द­य­वा­क्य­यो­रा­ल­म्ब­न­मस्तु इत्यपि शङ्कानिरस्ता । पक्षद्वयेऽपि प्राग्भ­व­स­ञ्चि­तानां पापानां सत्त्वात् , तत्सत्त्वे च सर्व­पा­प्मा­पा­दा­न­को­द्ग­म­न­प्र­ति­पा­द­क­श­ब्द­स्वा­र­स्या­ला­भात् । तस्मात् सर्व­पा­प­रा­हि­त्य­मेव तदर्थः, तत्तु आदित्यस्य न सम्भ­व­ती­त्यु­क्तम् ।

रूपवत्त्वञ्च ब्रह्मणोऽपि सम्भवति; सत्यस्य रूपस्य नीरू­प­शा­स्त्र­वि­रो­धि­त्वेऽपि मायामयस्य तदविरोधित्वात् । ब्रह्मणि च रूपस्य ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद’ इति वचनानुसारेण माया­म­य­स्यै­वा­ङ्गी­का­रात् । न च तद्बो­ध­क­व­च­ना­ना­म­प्रा­मा­ण्य­प्र­सङ्गः ; माया­वि­द­र्शि­त­मा­या­दृ­ष्ट्य­नु­वा­द­वत् प्रामा­ण्यो­प­पत्तेः । इह च ‘हिरण्मयः पुरुषो दृश्यते’ ‘यन्मां पश्यसि’ इत्यादौ तथैव दृष्ट्य­नु­वा­द­द­र्श­नाच्च । आरम्भणाधिकरणे व्युत्पा­द­यि­ष्य­मा­णेन न्यायेन शरीरेऽपि व्याव­हा­रि­क­प्रा­मा­ण्यो­प­प­त्तेश्च । न च शरीरं कर्मजन्यमेवेति नियमः ; इह अन­न्य­था­सि­द्ध­लि­ङ्गा­व­ग­मि­तस्य परमेश्वरस्य शरीरसिद्धौ ‘रमणीयचरणा रमणीयां योनिमापद्येरन्’ ‘कपूयचरणाः कपूयां योनिमापद्येरन्’(छा. ५.१०. ७) इत्या­दि­श्रु­ती­ना­म­नी­श्व­र­श­री­र­वि­ष­य­त्व­क­ल्प­नो­प­पत्तेः । न च सर्व­पा­प्मो­द­य­श्रुतौ फलमिव, शरीरं कर्मजन्यमिति श्रुतावपि शरी­र­त्वा­व­च्छे­देन कर्मजन्यत्वे लाघ­व­मि­त्यु­प­प­त्ति­स्ता­त्प­र्य­लि­ङ्ग­म­स्तीति तद­नु­रो­धे­नै­त­त्स­ङ्को­च­क­ल्पनं न युक्तमिति वाच्यम् । श्रुति­द­र्शि­त­फ­लात् पुरु­ष­बु­द्धि­क­ल्प्यो­प­प­त्ते­र्दु­र्ब­ल­त्वात् । एतेन – परमेश्वरस्य शरीराङ्गीकारे दुःखमपि स्यात् ; ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’(छा. ८. १२. १) इति श्रुतेः – इति निरस्तम् । पुण्य­पा­प­फ­लो­प­भो­गा­र्थ­क­र्म­सं­पा­दि­त­स्यैव शरीरस्य तया श्रुत्या दुःखा­वि­ना­भा­व­प्र­ति­पा­द­नात् । पर­मे­श्व­रे­णो­पा­स­का­नु­ग्र­हा­र्थ­मि­च्छा­प­रि­गृ­हीते शरीरे तदप्रसक्तेः ।

एवं च स्वतो नामास्पृष्टस्य निराधारस्यापि ब्रह्मणो रूपोपाधिकं नामवत्त्वं आधारवत्त्वं च युज्यते । श्रूयते च तत्त­द्रू­प­वि­शे­षो­प­हि­तस्य परमेश्वरस्य तत्त­न्ना­म­भाक्त्वं तत्र तत्रासीनत्वं च ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते’(उत्तरनारा) इति । एतेन – नामरहिते ब्रह्मणि नाम­नि­रु­क्त्यर्थो नान्वेतीति शङ्काऽपि निरस्ता ।

ऐश्व­र्य­म­र्या­दा­श्र­वणं तु उभयत्राऽपि उभ­य­वि­धै­श्व­र्य­स­द्भा­वेऽपि अधि­दै­व­त­मे­ता­व­दे­वो­पास्यं अध्या­त्म­मे­ता­व­देव इत्यु­पा­स­ना­पेक्षं नेतव्यम् । नन्वै­श्व­र्य­म­र्या­दा­लि­ङ्ग­मपि फल­रू­प­ता­त्प­र्य­लि­ङ्ग­व­त्त्वात् बलवत् । श्रूयते हि ‘सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकाः तांश्चाप्नोति देवकामांश्च अथानेनैव ये चैत­स्मा­द­र्वाञ्चो लोका­स्तां­श्चा­प्नोति मनुष्यकामांश्च’(छा. १.७.७,८) इत्या­धि­दै­वि­का­ध्या­त्मि­क­पु­रु­ष­ग­त­यो­रै­श्व­र्य­म­र्या­दा­गु­णयोः पृथक्पृथक् तदनुगुणं फलं इति चेत् , न । तथाऽपि प्रथमश्रुतस्य तात्प­र्य­लि­ङ्ग­वतो लिङ्गस्य बलवत्वात् । अक्षिपुरुषे सर्व­पा­प­वि­र­हा­लि­ङ्ग­स्या­श्रु­त­त्वेऽपि ‘यन्नाम तन्नाम’ इति प्राक्कृ­त­नि­र्व­च­नस्य नाम्नोऽ­ति­दि­ष्ट­त्वेन नाम­नि­रु­क्त्य­र्थ­तया तस्यापि फल­व­च­न­स­हि­त­स्या­ति­दे­शतः प्राप्तेः । पर­ब्र­ह्म­ण­स्स­र्वत्र सर्वैश्वर्ये सत्यपि विध्यनुसारेण विभ­ज्यै­श्व­र्यो­पा­स­नायां न असदुपासनं प्रसज्यते ; सर्वजगदीश्वरे तदे­क­दे­शै­श्व­र्य­स्यापि सत्त्वात् । जीवे विध्यनुसारेण सर्व­पा­प­रा­हि­त्यो­पा­सने तु असदुपासनं प्रसज्यते इत्यनेनापि विशे­षे­णा­न­न्य­था­सि­द्ध­तया सर्व­पा­प­रा­हि­त्यस्य बलवत्त्वाच्च । वस्तुतस्तु ऐश्व­र्य­म­र्या­दायां तदनुरूपफलवचनं नास्त्येव । उद्गीथे आदि­त्य­म­ण्ड­ल­स्थ­पु­रु­षा­नु­चि­न्त­न­स्या­क्षि­म­ण्ड­ल­स्थ­पु­रु­षा­नु­चि­न्त­नस्य च एकविद्यात्वस्य ‘सम्ब­न्धा­दे­व­म­न्य­त्रापि’(ब्र.सू.३. ३. ११) इत्यधिकरणे प्रद­र्श­यि­ष्य­मा­ण­त्वात् । एकविद्यात्वे च सति तत्प्र­क­र­ण­ग­त­या­व­द­नु­वा­द­श्रु­ति­फ­ल­का­मस्य तस्यां विद्यायां संवलिताधिकारस्य सत्यविद्याधिकरण(ब्र.सू.३.३.३८) न्यायेन कल्पनीयतया परा­ची­ना­र्वा­ची­न­लो­क­प्रा­प्ते­र्दे­व­म­नु­ष्य­का­म­प्रा­प्तेश्च सम्भू­य­वि­द्या­फ­ल­त्व­प­र्य­व­सा­नात् । एवं संव­लि­ता­धि­का­रेऽपि ‘यदष्टाकपालो भवति’ इत्या­दि­जा­ते­ष्ट्य­र्थ­वादे अष्ट­सं­ख्या­द्य­नु­रो­धि­फ­लै­क­दे­श­की­र्त­न­वत् इहापि तत्त­दु­पा­स्य­ग­णा­नु­रो­धि­फ­लै­क­दे­शा­नु­की­र्त­नो­प­पत्तेः । अपि चात्र सर्व­लो­क­का­मे­श्व­र­स्यैव सतः ऐश्व­र्य­म­र्या­दा­श्र­वणं विभ­ज्यो­पा­स­नार्थं इत्येव पूर्वपक्षिणा वक्तव्यम् । तथाहि पूर्वपक्षेऽपि अक्ष्या­दि­त्य­म­ण्ड­लयोः एक एवादित्यजीव उपास्यो वक्तव्यः, अक्ष­ण्य­प्या­दि­त्य­स्यै­वा­धि­ष्ठा­तृ­त्वेन प्रवेशश्रवणात् , देव­ता­न्त­र­स्या­क्षि­स्थ­त्व­प्र­सि­ध्य­भा­वाच्च । एकस्य चादित्यजीवस्य आधारभेदेऽपि परमेश्वरवदेव व्यव­स्थि­त­मै­श्व­र्य­म­वि­रु­द्धम् । अतः पूर्वपक्षिणाऽपि आदित्यजीवस्य परा­ची­ना­र्वा­ची­न­लो­क­दे­व­म­नु­ष्य­का­मे­शि­तृत्वे सत्यपि उपा­स­ना­वि­शे­षा­पे­क्षया तत्त­दै­श्व­र्य­वि­शेषो निर्दिश्यते इत्येव समर्थनीयमिति न विशेषः । निरवग्रहं सर्व­लो­क­का­मे­श्व­र­त्व­मा­दि­त्यस्य नास्तीति, पूर्वपक्षे तल्लि­ङ्गा­नु­प­प­त्ति­दू­षणं परमधिकमापतति । एत­द­भि­प्रा­ये­णोक्तं भाष्ये ‘लोक­का­मे­शि­तृ­त्व­मपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति’ इति । निरंकुशं –उक्त­प्र­का­रे­णा­सं­कु­चि­त­मि­त्यर्थः । अपि च ‘निरंकुशं’ इत्यनेन अन­न्या­धी­न­त्व­म­प्यु­च्यते । इह लोककामेशितृत्वं श्रूयमाणं अन्त­र्या­म्य­धि­क­रण(ब्र.सू.१. २.१८) न्यायेन अनन्याधीनमेव ग्राह्यम् । तच्च परमेश्वरस्यैव सम्भवति , न त्वादि­त्या­दी­नाम् ‘भीषास्माद्वातः पवते भीषोदेति सूर्यः’(तै. २. ८.१) इत्यादिश्रुतेः इत्यपि भाष्य­वा­क्य­स्यार्थः।

तस्मात् आदित्येऽक्षणि च उपा­स­ना­सि­द्धै­र्दृश्य उद्गीथे संपाद्यः पुरुषः परमेश्वर एव ; सफ­ला­न­न्य­था­सि­द्ध­स­र्व­पा­प­वि­र­ह­लि­ङ्ग­ब­लेन अता­दृ­शा­न्य­था­सि­द्ध­रू­प­व­त्त्वा­दि­लि­ङ्गा­न्य­था­क­र­ण­स­म्भ­वात् इति सिद्धम् ।

‘अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः’(ब्र.सू.१. २. २१) इतिवत् सूत्रे ‘धर्मोपदेशात्’ इत्येतावति वक्तव्ये तत्पदं तस्यैव धर्म इति अब्भक्षादिवत् अवधारणगर्भतया फल­व­च­ना­द्य­नु­सा­रेण सर्व­पा­प­वि­र­ह­रू­प­तया पर्यवसितस्य सर्व­पा­पो­दि­त­त्वस्य आदित्यजीवे सम्भ­वा­भा­व­रू­प­म­न्य­था­सि­द्धत्वं तद्विचारद्वारा तत्प्रतिभटस्य रूप­व­त्त्वा­दे­र्ब्र­ह्म­ण्यपि सम्भ­व­रू­प­म­न्य­था­सि­द्धत्वं च सिद्धान्तबीजं ज्ञापयितुम् । तेन ब्रह्मण्यपि सम्भाविततया अन्य­था­सि­द्धा­दे­क­दे­शै­श्व­र्यात् अस्य बलवत्त्वं लभ्यते । ‘आका­श­स्त­ल्लि­ङ्गात्’(ब्र.सू.१.१.२२) इतिवत् ‘तद्धर्मात्’ इत्येतावति वक्तव्ये उपदेशग्रहणं तद्ध­र्म­स्यै­वो­प­दे­शात् फलवचनावगतेन तात्पर्येण प्रतिपादनात् इत्यर्थकतया सफ­ल­त्व­रू­प­ता­त्प­र्य­लि­ङ्ग­वत्त्वं तत्प्रतिभटतया रूप­व­त्त्व­त­द्ग­ता­दि­त्य­म­ण्ड­ला­दि­नि­ष्ठ­त्व­यो­रै­न्द्र­जा­लि­क­द­र्शि­ता­द्भु­त­रू­प­वि­शे­ष­त­द्ग­त­गो­पु­रा­रू­ढ­त्व­यो­रिव दर्शनविषयतया अनुवाद्यत्वेन ऐश्व­र्य­म­र्या­दायाः श्रुत्य­न्त­र­सिद्धे सर्वैश्वर्ये उपास्यतया अव­यु­त्या­नु­वा­द्य­त्वेन च पूर्व­प­क्ष्या­पा­दि­त­रू­पा­दि­व­च­ना­प्रा­मा­ण्य­प­रि­हारं च ज्ञापयितुम् । तेन तद्रहितात् रूप­व­त्त्वा­दा­धा­र­व­त्त्वाच्च बलवत्त्वमस्य लभ्यते । न च अन­न्य­था­सि­द्ध­त्वेन , फल­रू­प­ता­त्प­र्य­लि­ङ्ग­व­त्त्वेन वा एकेनैव बलेन रूपादित्रयात् बलवत्त्वं लभ्यते, किमुभयज्ञापनेन इति वाच्यम् । रूपवत्त्वमपि ब्रह्म­ण्य­स­म्भा­वि­त­त­याऽ­न­न्य­था­सि­द्धम् ; ब्रह्मणो रूपवत्त्वे श्रुति­सि­द्ध­त­द्धे­तु­क­र्मणः श्रुति­सि­द्ध­त­त्का­र्य­दुः­खस्य च तत्र प्रसक्तेः, अत एव रूपो­पा­धि­क­मा­धा­र­व­त्त्व­मपि ब्रह्म­ण्य­स­म्भा­वि­त­त­याऽ­न­न्य­था­सिद्धं इत्या­श­ङ्का­ग्र­स्त­त्वात् , तस्याश्शङ्कायाः फल­रू­प­ता­त्प­र्य­लि­ङ्ग­व­त्ता­ब­ल­मु­प­जीव्य प्रदर्शितेन प्रकारेण निरसनीयत्वात् । फल­रू­प­ता­त्प­र्य­लि­ङ्गस्य एकदेशैश्वर्यमपि फलवत् इति मन्द­श­ङ्का­ग्र­स्त­त्वात् तस्याश्च अन­न्य­था­सि­द्धि­ब­ल­मु­प­जीव्य निरसनीयत्वात् । तथैव प्राक् फल­व­च­न­स­द्भा­व­म­भ्यु­पेत्य निरस्तत्वात् । किञ्च तद्धर्मयोः उपदेशात् इति द्विव­च­ना­न्त­स­मा­सेन ब्रह्मैकधर्मस्य सार्वात्म्यस्य प्रतिपादनात् इत्यपि हेतोरर्थः । यद्यपि सार्वात्म्यं न वास्तवं ब्रह्मणोऽपि, काल्पनिकं तु जीवस्यापि, तथापि ‘सन् घटः’ इत्या­दि­व्य­व­हा­रा­ल­म्बनं व्याव­हा­रि­क­प्र­मा­ण­ग­म्य­म­स्त्येव तत् सर्वोपादानस्य ब्रह्मणः, न तादृ­श­मा­दि­त्य­जी­वस्य इति वैषम्यम् । अयं त्वभ्युच्चयः ; रूपवत्त्वमपि ब्रह्मणि न सम्भवतीति शङ्का­क­र­म्बि­त­त्वात् । तस्याश्च फल­व­त्स­र्व­पा­प­वि­र­ह­लि­ङ्ग­ब­लेन निराकरणीयत्वात् । आदित्यस्य त्रयी­म­य­त्व­सा­र्वा­त्म्य­श्र­वणं तु तत्र पर­मे­श्व­रा­भि­व्य­क्ति­वि­शे­ष­कृतं तत्पर्यवसायि इत्येव समर्थनीयं तेज­स्वि­त्वा­नु­भ­व­वत् । ‘येन सूर्यस्तपति तेजसेद्धः’(तै. ब्रा. ३. १२. ९) इति हि मन्त्रवर्णः । १. १.२० ।

स्यादेतत् – ‘य एषोऽ­न्त­रा­दित्ये’ इत्या­दि­स्ता­व­दु­पा­स्य­नि­र्देशः । तत­श्चो­पा­स्यो­द्दे­शेन उपा­स­ना­वि­धा­नार्थं विधी­य­मा­न­क्रि­या­र्थ­क­र्म­का­र­कस्य सति सम्भवे व्रीह्या­दि­व­द­न्य­त­स्सि­द्धि­रे­ष्टव्या । न चान्त­रा­दि­त्येऽ­न्त­र­क्षणि च तद­धि­ष्ठा­तृ­दे­व­ता­रू­पा­ज्जी­वा­दन्य ईश्व­र­स्ति­ष्ठ­तीति अन्य­त­स्सि­द्धि­रस्ति । अतोऽ­न्य­त­स्सि­द्ध्य­पे­क्षा­ब­लात् अक्ष्या­दि­त्य­व­र्ति­त्वेन प्रसिद्धः सूर्य एव उपास्य इह निर्दिश्यते इत्यकामेनापि स्वीकर्तव्यं इत्या­श­ङ्का­म­प­नु­द­न्नेव रूपवत्वश्रवणस्य गत्यन्तरमपि दर्शयति –

भेद­व्य­प­दे­शा­च्चान्यः । २१ ।

२१

अस्त्य­क्ष्या­दि­त्य­म­ण्ड­ला­धि­ष्ठा­तृ­जी­वा­दन्य ईश्वरः तत्र तिष्ठतीति श्रुत्य­न्त­र­सिद्धः ; ‘य आदित्ये तिष्ठ­न्ना­दि­त्या­द­न्तरः यमादित्यो न वेद यस्या­दि­त्य­श्श­रीरं य आदित्यमन्तरो यमयति’(बृ. ३.७.९) इति, ‘यश्चक्षुषि तिष्ठं­श्च­क्षु­षोऽ­न्तरः यं चक्षुर्न वेद यस्य चक्षुश्शरीरं यश्चक्षुरन्तरो यमयति’(बृ.३.७.१८) इति च बृहदारण्यके भेदव्यपदेशात् । तत्र हि ‘यमादित्यो न वेद’ ‘यं चक्षुर्न वेद’ इति वेदि­तु­स्त­दु­भ­या­धि­ष्ठा­तृ­जी­वात् अन्य ईश्वरः प्रतिपाद्यते इति स्पष्टम् । स एव आदि­त्या­द्या­न्त­र­त्व­श्रु­ति­सा­मा­न्येन प्रत्य­भि­ज्ञा­य­मानः इह उपास्यत्वेन निर्दिश्यते । चकारात् अस्यां श्रुतौ आदि­त्य­जी­वा­स­म्भा­वि­त­स­र्व­पा­प्मा­स्प­र्शा­दि­वि­शि­ष्ट­पु­रु­ष­प्र­ति­पा­द­ना­दपि अक्ष्या­दि­त्य­म­ण्ड­ला­द्य­धि­ष्ठा­तृ­जी­वा­न्य­त­द­न्त­र्व­र्ति­प­र­मे­श्व­र­स्सि­ध्य­तीति समुच्चीयते । न हि सर्वासूपासनासु याव­दु­प­दि­ष्ट­गु­णा­वि­शि­ष्ट­स्यो­पा­स्यस्य अन्य­त­स्सि­द्धि­र्ल­भ्यते । तदि­हा­प्य­क्ष्या­दि­त्यो­पा­स्य­नि­रू­प­णा­दपि तत्सि­द्धि­स्स­म्भ­व­तीति । एवंच भेद­व्य­प­दे­शि­वा­क्ययोः अन्तर्यामिणो ‘यस्या­दि­त्य­श्श­री­रम्’ ‘यस्य चक्षुश्शरीरम्’ इति स्वाधि­ष्ठे­य­दे­व­ता­श­री­रे­णैव शरी­र­व­त्त्व­प्र­ति­पा­द­नात् इहा­प्या­दि­त्य­श­री­रे­णैव परमेश्वरस्य शरी­र­व­त्त्व­प्र­ति­पा­द­न­मु­प­पन्नं इत्यपि तस्या­न्य­था­सि­द्धत्वं दर्शितं भवति । १.१.२१ ।

इत्यन्तरधिकरणम् । ७।

आका­श­स्त­ल्लि­ङ्गात् । २२ ।

२२

छन्दो­गा­स्स­मा­म­नन्ति – ‘अस्य लोकस्य का गतिरिति, आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् , स एष परो­व­री­या­नु­द्गीथः स एषोऽनन्तः , परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतदेवं विद्वान् परो­व­री­यां­स­मु­द्गी­थ­मु­पास्ते’(छा. १.९.१) इति । तत्र उद्गीथे संपाद्योपास्यः किं भूताकाशः परमेश्वरो वेति आका­श­श्रु­ति­ब्र­ह्म­लि­ङ्गाभ्यां संशये , पूर्वः पक्षः – पूर्वं अनन्यथासिद्धेन लिंगे­ना­न्य­था­सिद्धं लिंगं नीतम् , इह तु लिंगेन श्रुति­र्ना­न्य­थ­यि­त­व्येति आकाशश्रुतिबलात् भूताकाश एवोपास्यः , तत्रैव वाय्वा­दि­का­र­ण­त्व­प­र­तया वाक्यशेषो योजनीयः ।

ननु ‘अस्य लोकस्य का गतिः’ इति प्रश्नवाक्यस्थं सर्वलोकगतित्वं लिंगं सदपि उपक्रमस्थत्वात् आका­श­श्रु­त्य­पे­क्षया बलवत् इति चेत् ।

न । प्रश्नस्य पृथि­वी­लो­क­ग­ति­मा­त्र­वि­ष­य­त्वेन सर्व­लो­क­ग­ति­वि­ष­य­त्वा­सिद्धेः । तथाहि – शाला­व­त्य­दा­ल्भ्य­जै­व­लि­भि­स्त्रि­भि­रा­र­ब्धायां कथायां प्रथमं शाला­व­त्य­दा­ल्भ्ययोः प्रश्नो­त्त­र­प­रं­परा प्रस्तुता ‘का साम्नो गतिरिति , स्वर इति होवाच , स्वरस्य का गतिरिति , प्राण इति होवाच , प्राणस्य का गतिरिति , अन्नमिति होवाच , अन्नस्य का गतिरिति , आप इति होवाच , अपां का गतिरिति , असौ लोक इति होवाच , अमुष्य लोकस्य का गतिरिति न स्वर्गं लोकमतिनयेदिति होवाच’(छा. १. ८. ४) इति । एवं दाल्भ्येन स्वर्गलोके साम­का­र­ण­प­रं­प­रा­वि­श्रा­न्ति­भू­मि­त्वेन स्थापिते तस्य पक्षः शालावत्येन दूषितः ‘अप्रतिष्ठितं वै किल ते दाल्भ्य साम’(छा. १. ८. ६) इति । स्वर्गस्य मनु­ष्य­कृ­त­य­ज्ञा­द्य­धी­न­स्थि­ति­क­त्वात् सामगतिपरंपरा प्रतिष्ठारूपे कारणे न समापिता इति अप्रतिष्ठितं साम स्यादित्यर्थः । एवं दूषितस्वपक्षतया शिष्यभावं प्राप्तस्य दाल्भ्यस्य शालावत्यस्य च प्रश्न­द्व­य­मु­त्त­र­द्वयं च प्रवृत्तं ‘अमुष्य लोकस्य का गतिरिति , अयं लोक इति होवाच , अस्य लोकस्य का गतिरिति , न प्रतिष्ठां लोकमतिनयेदिति होवाच’(छा. १.९.१) इति । ततः शालावत्यपक्षो जैवलिना दूषितः ‘अन्तवद्वै किल ते शालावत्य साम’ इति । एवं साम­का­र­ण­प­र­म्प­रा­वि­श्रा­न्ति­स्था­न­त्वेन स्वाभिमते पृथिवीलोके अन्तवत्त्वेन दूषिते , पृथिवीलोकस्यापि कारणमनन्तं किञ्चि­द­स्ती­त्य­व­गत्य खल्वयं जैव­लि­र्म­त्प­क्ष­म­दू­दु­षत् तत् किमिति जिज्ञा­सो­र्जै­व­लि­शि­ष्य­भावं प्राप्तस्य शालावत्यस्य तं प्रति अयं प्रश्नः ‘अस्य लोकस्य का गतिः’ इति । अत्र प्रस्ता­वा­नु­सा­रेण ‘अस्य लोकस्य’ इत्यस्य अतिस्फुटे पृथि­वी­लो­क­वि­ष­यत्वे कः प्रसङ्गः सर्व­लो­क­वि­ष­य­त्वस्य । न च पृथि­वी­मा­त्र­का­र­ण­स्यापां प्रसिद्धत्वेन प्रश्न­वै­य­र्थ्यात् ‘अस्य’ इति सर्वनामश्रुतेः प्रकरणात् बलीयस्याः सर्व­का­र्य­वि­ष­य­त्वौ­चि­त्याच्च अयं प्रश्न­स्स­र्व­लो­क­ग­ति­वि­षय एवेति वाच्यम् । अपां कारणस्य तेजसः प्रसिद्धत्वेऽपि ‘अपां का गतिः’ इति प्रश्नदर्शनात् , ‘अस्य लोकस्य का गतिः’ इति दाल्भ्यकृतस्य प्रश्नस्य पृथि­वी­का­र­ण­वि­ष­य­त्व­स­म्प्र­ति­प­त्तेश्च । अन्त­व­त्त्व­दू­ष­ण­मु­क्त­व­तस्ते प्रसि­द्ध­वि­ल­क्ष­ण­म­नन्तं कारणमभिमतम् , तत् किं इति प्रश्नो­प­प­त्तेश्च । अस्येति पदस्य श्रुतित्वेऽपि सर्व­ना­म­स्वा­भा­व्यात् ‘यदेव विद्यया’ इतिवत् प्रकृतमात्रे संकु­चि­त­वृ­त्ति­त्वो­प­प­त्तेश्च । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. १. १. १०) इत्यस्य हि यत्प­द­रू­प­स­र्व­ना­म­स्वा­भा­व्या­देव प्रकृ­तो­द्गी­थ­वि­द्या­वि­ष­य­त्व­म­ङ्गी­कृ­तम् । न च वाच्यं विद्याशब्दस्य प्रकृ­त­प­र­त्व­ब­लात् तस्य ताव­न्मा­त्र­वि­ष­य­त्व­मिति । ‘विद्यया’ इति श्रुतेः प्रक­र­णा­द्ब­ली­यस्याः सर्व­वि­द्या­वि­ष­य­त्वो­प­पत्तेः । अतो ‘यदेव विद्यया करोति’ इति यत्प­दा­र्था­न्व­य­ब­ला­देव विद्या­श­ब्द­स्यापि प्रकृ­त­वि­द्या­मा­त्र­प­र­त्व­मु­प­पा­द­नी­यम् । एवं स्वस­म्ब­न्धि­श­ब्दा­न्त­र­स्यापि प्रकृ­त­मा­त्र­प­र­त्व­मा­पा­द­यत् सर्वनाम कथं स्वयं प्रकृतातिलङ्घ स्यात् ।

अथापि स्यात् – अभिधत्तां नामायं ‘अस्य’ इति शब्दः पृथिवीमेव , तथा­प्य­न्त­व­त्त्व­दो­षा­प­नि­नी­षया प्रश्न­प्र­वृत्तेः पृथि­वी­मा­त्र­का­र­ण­नि­रू­पणे तदसिद्धेः छत्रि­प­द­व­द­ज­ह­ल्ल­क्ष­णया अस्येतिशब्दः सर्वकार्यपरः इति । न ह्यस्य शब्दस्य पृथिवीपरत्वे तन्मात्रकारणं पृष्टं भवति , येन तन्नि­रू­प­णेऽ­न्त­व­त्त्व­दोषो नापनीतस्स्यात् । किंतु पृथिवीकारणं पृष्टं भवति । तत्कारणत्वं चानन्ते सर्वकारणेऽपि सम्भवतीति पृथि­वी­का­र­ण­प्र­श्नेऽपि तन्नि­रू­प­णे­ना­न्त­व­त्त्व­दो­षेऽ­प­नेतुं शक्ये किमनुपपन्नम् , यदर्थं प्रश्नवाक्येऽपि लक्षणा कल्प्येत ।

नन्वाकाशस्य पृथिवीकारणत्वे निरूपिते अन्तवत्त्वदोषो नाप­नी­त­स्स्या­दिति चेत् , तर्हि अन­न्त­त्व­लि­ङ्ग­मेव पूर्व­प­क्ष­वि­रो­ध्या­श­ङ्क­नी­यम् , न तु प्रश्न­वा­क्या­स्पृष्टं सर्वलोकगतित्वम् । न च तदपीति वक्ष्यते ।

ननु माभूत् सर्व­लो­क­ग­ति­त्व­मा­का­श­श्रु­ति­बा­ध­कम् , सर्वभूतकारणत्वं तु स्यात् , तद्धि लिङ्गमपि चरमपठितमपि सावधारणं भूताकाशे तेजः­प्र­भृ­ति­सृष्टौ वाय्वा­दि­का­र­णा­न्त­र­सा­पेक्षे न सम्भ­व­ती­त्य­न­न्य­था­सिद्धं बलवत् इति चेत् , न । ब्रह्मणोऽपि जगत्सृष्टौ काला­दृ­ष्टा­दि­सा­पे­क्ष­त्वेन साम्यात् । कथ­ञ्चि­द­व­धा­र­ण­स­म­र्थ­नस्य भूताकाशेऽपि सम्भवात् ।

ननु परोवरीयस्त्वं नाम परेभ्य उत्कृ­ष्टे­भ्योऽपि अतिशयेन श्रैष्ठ्यं निर­ति­श­यो­त्क­र्ष­रूपं सफ­ल­त्वा­दा­का­श­श्रु­त्य­पे­क्षया बलवत् इति चेत् , न ; ‘परोवरीयसो ह लोकाञ्जयति’ ‘परोवरीय एव हास्यास्मिन् लोके जीवनं भवति तथाऽमुष्मिन् लोके’(छा.१. ९. २ , ४) इति फल­व­च­न­प­र्या­लो­च­नया ऐहि­का­मु­ष्मि­क­जी­व­न­सा­धा­र­णस्य परोवरीयस्त्वस्य निरतिशयत्वेन व्यव­स्था­प­यि­तु­म­श­क्य­त्वात् । परो­व­री­य­स्त्व­मा­त्रस्य भूताकाशेऽपि सम्भवात् ।

ननु अन्त­व­त्त्व­दो­षा­प­नि­नी­षया विवक्षितमिह निर­पे­क्ष­म­न­न्त­त्वम् ; सापे­क्षा­न­न्त­त्वस्य स्वका­र्या­पे­क्षया बहु­का­ल­स्था­यिन्यां पृथिव्यामपि सम्भवेन तत्र अन्त­व­त्त्व­दो­षो­द्भा­व­ना­नौ­चि­त्य­प्र­स­ङ्गात् । तथाच अन­न्य­था­सि­द्ध­म­न­न्त­त्व­लि­ङ्ग­मा­का­श­श्रु­ति­बा­धकं स्यादिति चेत् , मैवम् ; प्रति­ष्ठा­त्व­लि­ङ्ग­व­द­न­न्त­त्व­लि­ङ्ग­स्या­प्या­पे­क्षि­क­त्वो­प­पत्तेः। दाल्भ्या­भि­म­त­स्व­र्ग­लो­को­द्भा­वि­ता­प्र­ति­ष्ठि­त­त्व­दो­षा­प­नि­नी­षया हि शालावत्येन स्वर्गलोकस्यापि गतित्वेन स्वाभिमते पृथिवीलोके प्रति­ष्ठा­त्व­मु­प­न्य­स्तम् । न च प्रतिष्ठात्वं निरपेक्षं ब्रह्मणोऽन्यत्र सम्भवति । सापेक्षं तु स्वर्गेऽ­प्य­स्त्येव । तथाऽपि तत्र कयाचिद्विवक्षया स्वर्गापेक्षया पृथिव्यां प्रति­ष्ठा­त्वा­ति­श­य­मा­श्रित्य उद्भा­वि­त­दो­षा­प­न­य­स्स­म­र्थ­नीयः । एवमनन्तत्वेऽपि भविष्यतीति किमनुपपन्नम् । किञ्च प्रति­ष्ठा­त्व­स­म­र्थन एव क्लेशः ; स्वर्ग­लो­क­स्थि­ते­र्म­नु­ष्य­कृ­त­य­ज्ञा­द्य­धी­न­त्व­वत् पृथि­वी­लो­क­स्थि­ते­रपि देव­कृ­त­वृ­ष्ट्या­द्य­धी­न­त्वस्य दर्शनात् । ‘इतः प्रदानं देवा उपजीवन्ति अमुतः प्रदानं मनुष्या उपजीवन्ति’(तै. सं. ३.२. ९) इत्युभयत्रापि श्रुतितौल्यात् । इह तु पृथिव्यपेक्षया भूताकाशस्य बहु­का­ल­वृ­त्तित्वं निर्विवादम् । युज्यते च बहु­का­ला­नु­वृ­त्ति­मति अन­न्त­त्व­व्य­प­देशः ; ‘कदाऽपि न समाप्यतेऽस्य भोजनम्’ इति व्यवहारदर्शनात् । तस्मा­द­न­न्त­त्व­लि­ङ्ग­मपि न बाधकम् ।

ननु यथा सर्वभूतकारणत्वं सर्व­भू­त­ल­या­धा­रत्वं सर्व­तो­ज्या­यस्त्वं परायणत्वं परोवरीयस्त्वं अन­न्त­त्व­मि­त्ये­तानि ब्रह्मण्येव स्वारस्यवन्ति लिङ्गानि भूताकाशे कथ­ञ्चि­द्यो­ज­यितुं शक्यानि , एव­मा­का­श­श्रु­ति­रपि ब्रह्मणि योजयितुं शक्या । ‘यदेष आकाश आनन्दो न स्यात्’(तै. २. ७.१) इत्या­दि­श्रु­त्य­न्तरे तस्य तत्र निरू­ढ­ल­क्ष­णा­स­त्त्वात् । ततश्च बहु­लि­ङ्ग­स्वा­र­स्या­नु­ग्र­हाय एक­स्या­श्श्रु­ते­र्बाधो युक्तः ‘त्यजेदेकं कुलस्यार्थे’ इति , ‘भूयसां स्यात् सधर्मत्वम्’(जै. सू. १२. ५. २३) इति च न्यायात् इति चेत् , न ‘आत्मार्थे पृथिवीं त्यजेत्’ , इति ‘द्रव्य­सं­स्का­र­वि­रोधे द्रव्यं तदर्थत्वात्’(जै.सू. ६.३.३८) इति च ततोऽपि बलवता न्यायेन प्रधानविरोधिनां बहूनामपि गुणानामेव बाधस्य उचितत्वात् । ‘अस्य लोकस्य का गतिः’ इति प्रश्नोत्तरे आकाशस्य गतित्वेन प्रतिपाद्यतया प्रधानत्वात् , सर्व­भू­त­का­र­ण­त्वा­दीनां तद्विशेषणत्वेन गुणत्वात् । तस्मात् उदा­हृ­त­लि­ङ्गे­ष्वे­कै­कस्य प्राब­ल्य­हे­तू­ना­म­सि­द्ध­त्वात् गुणेषु भूयोऽ­नु­ग्र­ह­न्या­या­न­व­ता­रात् आकाशश्रुतीनामपि भूयस्त्वाच्च भूताकाश एव प्रतिपाद्य इति पूर्वः पक्षः।

राद्धान्तस्तु – अनन्तत्वं प्रति­ष्ठा­त्व­व­दा­पे­क्षि­क­तया योजनं न सहते । उप­प­त्त्यु­प­बृं­हितं ह्येतत् । कथम् ? जैवलिना पृथि­वी­लो­क­म­न्त­व­त्वेन दूषितवता किं तर्ह्यनन्तं वस्तु तस्य कारणमिति पृष्टेन ‘आकाशः’ इत्युत्तरिते कथमेतस्य त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्य­रू­प­म­न­न्तत्वं इत्या­का­ङ्क्षायां ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’(छा. ३. १४.१) इति श्रुत्यन्तरे सर्वस्य ब्रह्मा­त्म­क­तायां हेतुत्वेन या दर्शिता सर्व­का­र्यो­त्प­त्ति­स्थि­ति­ल­या­धा­रता सैव ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते , आकाशं प्रत्यस्तं यन्ति , आकाशः परायणम्’ इति वाक्यत्रयेण वर्णिता । तेन वस्तु­प­रि­च्छे­द­रा­हित्यं लब्धम् । ‘आकाशादेव’ इत्यवधारणेन उपा­दा­ना­ति­रि­क्त­क­र्तृ­स­द्भा­व­श­ङ्काया अप्य­न­व­का­शी­क­र­णात् । अवधारणं हि सर्वत्र उपात्तसजातीयं व्यवच्छिनत्ति । अत एव गृहमेधीये परिसंख्यापक्षे ‘आज्यभागौ यजति’ इत्यस्य अव­धा­र­णा­र्थ­ल­क्ष­कस्य आज्य­भा­ग­स­जा­ती­य­या­गा­न्त­र­व्य­व­च्छे­द­कत्वं तत्र स्विष्ट­कृ­द्वि­धा­न­स्या­व­धा­र­णा­र्थ­ल­क्ष­कस्य स्विष्ट­कृ­त्स­जा­ती­य­शे­ष­का­र्या­न्त­र­व्य­व­च्छे­द­क­त्वञ्च पूर्वतन्त्रे ‘स्विष्टकृति भक्ष­प्र­ति­षे­ध­स्स्यात्’(जै.सू. १०.७. ३५) इत्यधिकरणे निर्णीतम् । तत­श्चा­का­श­स्यो­पा­दा­न­त्वेन सक­ल­ज­ग­न्मू­ल­का­र­ण­त्व­प्र­ति­पा­दने कर्तृतया प्रसक्तं मूलकारणान्तरमेव व्यव­च्छि­न्द­द­व­धा­रणं सफलं भवति । अना­दि­का­ल­प्र­वृ­त्त­स­क­ल­ज­ग­न्मू­ल­का­र­ण­त्वो­क्त्यैव काल­प­रि­च्छे­द­रा­हि­त्य­मपि लब्धम् । अना­दि­भा­व­स्या­न­न्त­त्व­नि­य­मात् । ‘आकाशो ह्येवैभ्यो ज्यायान्’(छा.१.९.१) इति सक­ल­का­र्य­प्र­प­ञ्चा­ज्या­य­स्त्वस्य ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः’(छा. ३.१२. ६.) इति श्रुत्य­न्त­र­सि­द्धस्य वर्णनेन देश­प­रि­च्छे­द­रा­हित्यं लब्धम् । ‘आकाशवत् सर्वगतश्च नित्यः’ इति श्रुत्य­न्त­र­द­र्शि­त­स­र्व­ग­त­त्व­नि­त्य­त्व­रू­प­मु­ख्या­का­श­सा­दृ­श्य­मू­ल­प्र­वृ­त्ति­कस्य गौण­स्या­का­श­श­ब्दस्य पुनः पुनः प्रयोगेणापि देश­का­ल­व्य­व­च्छे­द­रा­हित्यं स्पष्टीकृतम् । एवं तात्प­र्य­लि­ङ्ग­रू­पो­प­प­त्ति­लं­भि­त­म­न­न्तत्वं न त्रिद­शा­म­र­त्व­न्या­येन नेतुं शक्यम् । अपि च यत्रोपक्रमे यं कञ्चित् दोषं संकीर्त्य तद्दो­ष­स­मा­धा­ने­नो­प­सं­ह्रि­यते तत्र तन्म­ध्य­ग­त­वा­क्येषु यथाऽभ्युपगमेन तत्समाधानं लभ्यते तथाऽभ्युपगमे यतितव्यं मध्ये प्रति­पा­द­नी­य­स्या­न्य­प्र­ति­पा­द­न­शे­ष­त्वा­भावे । अत एव ‘जामि वा एतद्यज्ञस्य क्रियते यदन्वंचौ पुरो­डा­शा­वु­पां­शु­या­ज­म­न्तरा यजति विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्यः । अग्नी­षो­मा­वु­पांशु यष्ट­व्या­व­जा­मि­त्वाय’ इत्यु­पां­शु­या­ज­वि­धि­वाक्ये उपक्रमे पुरो­डा­श­या­ग­द्व­य­नै­र­न्त­र्य­कृते जामितादोषे उपसंहारे तत्समाधाने च श्रूयमाणे तत्समाधानं मध्यगतवाक्येषु अन्तरावाक्ये यागविधान एव लभ्यते , न तु विष्ण्वा­दि­वाक्ये यागविधान इति तेषु प्रत्यक्षमपि यागविधिं परित्यज्य अन्तरावाक्य एव कल्प्योऽपि याग­वि­धि­स्स्वी­कृतः । यत्र तु मध्ये प्रति­पा­द­नी­य­स्या­न्य­प्र­ति­पा­द­न­शे­षत्वं न तत्रायं निर्बन्धः । तद्यथा ‘यद् ग्राम्याणां पशूनां पयसा जुहुयात् ग्राम्यान् पशून् शुचाऽर्पयेत् यदा­र­ण्या­ना­मा­र­ण्यान् जर्तिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा न ग्राम्यान् पशून् हिनस्ति नारण्यान्’ इति अग्नि­हो­त्र­द्र­व्य­रू­प­प­यो­वि­ध्य­र्थ­वा­द­भागे आदौ संकीर्तितस्य ग्राम्या­र­ण्य­प­शु­हिं­सा­रू­प­दो­षस्य अन्ते समाधानकीर्तनं मध्य­ग­त­वा­क्य­प्र­ति­पा­द्यस्य जर्ति­ल­ग­वी­धु­क­श­ब्द­वा­च्या­र­ण्य­ति­ल­गो­धू­म­कृ­त­य­वा­ग्वो­र­ग्नि­होत्रे वैक­ल्पि­क­द्र­व्य­त्व­स्या­भ्यु­प­गम एव लभ्यते , न तु कस्यचिदपि पयसः तद्द्र­व्य­त्वा­भ्यु­प­गमे ; पशु­हिं­सा­दो­ष­ता­द­व­स्थ्या­पत्तेः । न तु तथा अभ्युपगतम् , किन्तु ‘अथो खल्वा­हु­र­ना­हु­तिर्वै जर्तिलाश्च गवीधुकाश्चेति पयसाऽग्निहोत्रं जुहुयात्’ इति तद­न­न्त­र­श्रु­त­वि­ध्य­नु­सा­रेण पय एव तद्द्रव्यम् , जर्तिलादिवाक्यं तु ग्राम्या­र­ण्य­प­शु­हिं­सा­रा­हि­त्येन प्रशस्तमपि जर्ति­ल­य­वा­ग्वा­दिकं यदपेक्षया अहोम्यं तत् पयोऽत्यन्तं प्रशस्तमिति पयः­प्र­ति­पा­द­न­शे­षोऽ­र्थ­वाद इत्यभ्युपगतम् । एवमिहापि प्रतिष्ठात्व सङ्की­र्त­न­म­न्त­व­त्त्व­दो­षो­द्भा­व­नेन देश­का­ल­प­रि­च्छि­न्न­त्वात् निर­पे­क्ष­प्र­ति­ष्ठा­त्व­योग्यं न भवतीत्यपि प्रदर्श्य तदन्य स्यानन्तस्य निखि­ल­का­र्यो­पा­दा­न­तया निर­पे­क्ष­प्र­ति­ष्ठा­रू­पस्य प्रतिपादनात् पृथिवीलोकस्य प्रति­ष्ठा­त्व­व­र्णनं तत्प्र­ति­ष्ठा­रू­पा­न­न्त­व­स्तु­प्र­ति­पा­द­न­शेष इति तद्य­था­क­थ­ञ्चि­दु­प­पा­द्यतां नाम । न तथोपपादनमिदं तथाऽ­न्य­प्र­ति­पा­द­न­शे­ष­त्व­र­हि­ता­न­न्त­त्व­व­र्णनं सहते । अन­न्ता­का­श­प्र­ति­पा­द­ना­र्थ­मेव हि सर्वं प्रक­र­ण­मि­द­मा­र­ब्धम् । ‘त्रयो होद्गीथे कुशला बभूवुः । सिल­क­श्शा­ला­व­त्य­श्चे­कि­ता­यनो दाल्भ्यः प्रवाहणो जैवलिरिति । ते होचुरुद्गीथे वै कुशलास्स्मः । हन्तोद्गीथे कथां वदामः’(छा.१.८.१) इत्यु­प­क्रा­न्त­स्यो­द्गी­थ­वि­चा­रस्य ‘स एष परो­व­री­या­नु­द्गीथः स एषोऽनन्तः’(छा.१.९.२) इत्यु­प­सं­हा­र­द­र्श­नेन अनन्ताकाश उद्गीथे संपाद्योपास्य इति उद्गी­थो­पा­स्य­व­स्तु­वि­शे­ष­नि­र्ण­या­र्थ­त्वा­व­सा­यात् । यथा जर्ति­ला­दि­वा­क्यस्य प्रति­ष्ठा­वा­क्यस्य चाग्रि­म­वा­क्या­नु­सा­रेण स्वार­स्य­भ­ङ्गेऽ­प्यु­प­सं­हा­र­प्रा­बल्यं नापतति तथा सम­र्थि­त­म­स्मा­भि­रु­प­क्र­म­प­रा­क्रमे । यद्वा प्रति­ष्ठा­त्व­लि­ङ्ग­स्यात्र नास्ति स्वारस्यभङ्ग इति नानन्तत्वलिङ्गे तत्प्र­ति­ब­न्ध्य­व­काशः । प्रतिष्ठात्वं ह्यत्र नोपजीव्यत्वम् , किन्तु निश्चलत्वरूपं प्रतिष्ठितत्वम् । तद्धि स्वर्गलोके ज्योति­श्च­क्रा­न्त­र्ग­त­त्वेन भ्रमति अप्र­ति­ष्ठि­त्व­दो­षो­द्भा­व­ना­पू­र्वकं पृथिव्यां तत्परिजिहीर्षया वर्णितम् ।

आर्यभटाभिमतस्तु भूभ्रमणवादः पुराणादिभिः ‘आकाशे पृथिवी प्रतिष्ठिता’(तै.३.९.१) इति श्रुत्या अनेन च प्रति­ष्ठा­त्व­व­च­नेन विरुद्धत्वात् बाध्यः । अत एव मत्स्य­जि­घृ­क्षु­प­क्षि­शु­ष्का­ला­बु­फ­ल­दृ­ष्टा­न्ता­व­ल­म्ब­नाभ्यां जैनयवनाभ्यां कल्पितौ भूप­त­न­प्ल­व­न­वा­दा­वपि हेयौ । पक्षत्रयेऽपि विय­त्क्षि­प्त­पा­षा­ण­ख­ण्डा­दीनां पुनः क्षेत्र­प्रा­प्त्य­भा­व­प्र­स­ङ्गाच्च । एवं अन­न्त­त्व­लि­ङ्गा­न­न्य­था­सिद्धौ स्थितायां सर्व­भू­त­का­र­ण­त्वा­दी­न्य­प्य­न­न्य­था­सि­द्धा­न्येव भवन्ति । उक्तरीत्या हि तान्या­का­ङ्क्षि­ता­न­न्त्यो­प­पा­द­ना­र्था­न्येव योजनीयानि । आका­ङ्क्षि­ता­र्थो­प­यो­ग­स­म्भ­वेऽ­न्य­था­यो­ज­नाऽ­यो­गात् । प्रसि­द्धि­द्यो­त­क­ह­वै­श­ब्द­स्यापि प्रसि­द्ध्य­पे­क्ष­हे­तु­प­रत्व एव सफलतरत्वात् । आन­न्त्यो­प­पा­द­ना­र्थत्वं च तेषा­म­स­ङ्कु­चि­त­स­र्व­भू­त­का­र­ण­त्वा­दि­रू­पत्व एव सङ्गच्छते , न तु भूता­का­श­नि­ष्ठ­क­ति­प­य­का­र­ण­त्वा­दि­रू­पत्वे । अव­धा­र­ण­श्रु­ति­श्चा­वा­न्त­र­का­रणे भूताकाशे न सङ्गच्छते ; तेजःप्रभृतिषु भूताकाशकार्येषु वाय्वा­दी­ना­म­वा­न्त­र­का­र­णा­ना­म­पे­क्षि­त­त्वेन सजा­ती­य­का­र­णा­न्त­र­व्य­व­च्छे­दा­स­म्भ­वात् । एवं ‘अस्य लोकस्य का गतिः’ इति शाला­व­त्य­प्र­श्नोऽपि अनन्यथासिद्धः; तस्य पृथि­वी­का­र­ण­वि­ष­य­त्वेऽपि अन­न्त­व­स्तु­वि­ष­य­त्वा­व­श्य­म्भा­वेन उत्तरस्य भूताकाशविषयत्वे तदननुगुणत्वात् ।

आचा­र्य­वा­च­स्प­ति­मि­श्रास्तु सर्वलोकगतिविषय एवायं प्रश्न इत्याहुः । तेषामयमाशयः – यथा शाला­व­त्य­प्र­श्नै­क­रू­पस्य दाल्भ्य­प्र­श्न­स्या­न­न्त­व­स्तु­प­र­त्वा­भा­वेऽपि अन्त­व­त्त्व­दो­ष­मु­द्भा­वि­त­वान् जैवलिः अनन्तं वस्तु पृथिवीकारणं विवक्षतीति निश्च­य­व­त­श्शा­ला­व­त्यस्य प्रश्नोऽ­य­म­न­न्त­व­स्तु­पर इति कल्प्यते , तथा सर्व­का­र­ण­त्वा­भावे तदनन्तं न स्यात् , अतोऽनन्तं वस्तूपक्षिपता जैवलिना सर्वकारणमेव तदुपक्षिप्तं भवतीत्यपि शालावत्यस्य निश्चयसम्भवात् तदीयप्रश्नोऽयं ‘तत् किं सर्वकारणं अनन्तं वस्तु’ इति सर्वलोकगतिविषयः इत्यपि कल्पयितुमुचित इति । एवं च यथा अन­न्य­था­सि­द्धे­ना­न­न्त्य­लि­ङ्गे­ना­का­श­श्रु­ति­बाधः , तथा पूर्वा­प­रा­ने­क­लि­ङ्ग­प­र्या­लो­च­ना­ल­ब्धो­प­क्र­म­भू­योऽ­नु­ग्र­ह­न्या­य­द्व­ये­नापि तद्बाधः । प्रधा­न­प­र­स्या­प्या­का­श­श­ब्दस्य लक्ष­णा­स­हि­ष्णु­त्वे­ना­न्य­थाऽ­प्यु­प­प­न्नस्य मुख्या­र्थ­वि­ष­यत्वे सर्व­का­र­णा­न­न्त­व­स्तु­वि­ष­य­प्र­श्नो­त्त­र­सा­ध­क­त्वा­नु­प­पत्त्या स्वत एव तद्यो­ग्य­व­स्त्व­न्त­र­ल­क्ष­णो­न्मु­ख­त्वे­ना­न्य­थै­वो­प­प­न्नस्य अभ्यस्तस्यापि अन­न्य­था­सि­द्ध­लि­ङ्गेभ्यो दुर्बलत्वात् । आकाशस्य तद्गुणानाञ्च रूपरूपिवत् वस्तुतो गुणप्रधानभावे सत्यपि उद्गी­थ­प्र­क्र­मा­नु­सा­रेण तदु­पा­स्य­नि­र्ण­यार्थे अस्मिन् प्रकरणे गुण­गु­णि­ना­मु­पा­स्यानां ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्यान् कामान्’(छा. ८.१.६) इति लिङ्गेन चाक्षु­ष­ज्ञा­न­ज­न­का­लो­क­त­द्ग­तो­द्भू­त­रू­प­वत् समप्रधानत्वाच्च । तस्मा­द­न­न्य­था­सि­द्धा­न­न्त­त्व­लि­ङ्ग­ब­लात् भूयोऽ­नु­ग्र­ह­न्या­यात् उप­क्रा­न्त­प्र­श्ना­नु­रो­धाच्च आकाश: परमेश्वर एवेति ।

सूत्रे तच्छब्दः पूर्वा­धि­क­र­ण­सूत्र इवा­न­न्य­था­सि­द्ध­त्व­ज्ञा­प­नार्थः । लिङ्गा­दि­त्ये­क­व­चनं तु ‘अनन्तत्वमेकमेव प्रधानं स्वतो निर्णायकम् , अन्यानि तच्छेषभूतानि तद­व­ल­म्ब­न­ल­भ्य­ब­लानि तदु­प­बृ­ह्म­ण­मा­त्र­रू­पाणि’ इति ज्ञापनार्थम् । ननु श्रुत्य­न्य­था­क­र­ण­भारं कथमेकमेव अनन्तत्वलिङ्गं वहति ? अन­न्य­था­सि­द्धि­म­हिम्ना वक्ष्यतीति ब्रूमः । आकाशपदं हि श्रुतित्वेऽपि प्रथ­म­प­ठि­त­त्वेऽपि अभ्यस्तत्वेऽपि लक्षणया ब्रह्मपरत्वं सहते । अनन्तपदं तूप­क्र­मो­प­सं­हा­रो­प­प­त्ति­रू­पा­ने­क­लि­ङ्ग­प्र­ति­ष्ठा­पि­त­मु­ख्या­न­न्त्य­ता­त्पर्यं सत् न भूता­का­श­ग­ता­पे­क्षि­का­न­न्त्य­प­रतां सहते । पूर्वतन्त्रे हि ‘ऐन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठते’ इत्यादिस्थलेषु मन्त्र­लि­ङ्ग­ब्रा­ह्म­ण­श्रुत्योः मन्त्र­ब्रा­ह्म­णा­न्य­त­र­ल­क्ष­णया सम्भ­व­द­न्य­था­सि­द्धि­क­यो­र्वि­रोध एव श्रुत्या लिङ्ग­बा­धोऽ­ङ्गी­कृतः । तत्रा­प्य­न­न्य­था­सि­द्ध­लि­ङ्ग­वि­रोधे अन्यथासिद्धाया श्रुतेरेव बाधः । यथा ‘हस्तेनावद्यति’ ‘स्रुवे­णा­व­द्यति’ ‘स्वधि­ति­नाऽ­व­द्यति’ इति हस्त­स्रु­व­स्व­धि­ती­ना­म­व­दा­न­सा­मा­न्य­सा­ध­न­त्व­श्र­व­णेऽपि हस्ता­दि­सा­म­र्थ्य­रू­पा­न­न्य­था­सि­द्ध­लि­ङ्ग­वि­रो­धेन सङ्को­च­स­हि­ष्णू­ना­म­व­द्य­ति­श्रु­ती­ना­मेव पुरो­डा­शा­दि­क­ठि­न­द्र­व्या­ज्या­दि­द्र­व­द्र­व्य­मां­सा­व­दा­न­वि­ष­य­तया संकोचरूपो बाधः । यथा वा ‘कृष्णलं श्रपयेत्’ इति श्रवणेऽपि कृष्णलेषु विक्ले­द­न­फ­ल­क­व्या­पा­रा­स­म्भ­वा­त्त­त्रा­धि­श्र­य­णा­दि­व्या­पा­रस्य उष्णीकरणमात्र एव सामर्थ्यात् वस्तु­सा­म­र्थ्य­रू­पा­न­न्य­था­सि­द्ध­लि­ङ्ग­ब­लेन श्रप­ण­श्रु­ते­रे­वो­ष्णी­क­र­ण­ल­क्ष­णा­स­हि­ष्णो­र्मु­ख्या­र्थ­त्या­ग­रूपो बाधः । इह तु अन­न्त­त्व­लि­ङ्ग­स्या­व­धा­र­णा­द्यु­प­ब्र­ह्म­ण­म­प्य­स्तीति विशेषः । तस्मादिहोपास्य आकाशः परमेश्वर इति सिद्धम् । १. १. २२ ।

इत्या­का­शा­धि­क­र­णम् ।८।

अत एव प्राणः ।२३।

२३

अति­दे­शा­धि­क­र­ण­स्यास्य पूर्वा­धि­क­र­ण­री­त्यैव पूर्व­प­क्ष­सि­द्धान्तौ । ‘प्रस्तोतर्या देवता प्रस्ता­व­म­न्वा­यत्ता’ इत्युपक्रम्य श्रुते ‘कतमा सा देवतेति प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राण­मे­वा­भि­सं­वि­शन्ति । प्राण­म­भ्यु­ज्जि­हते । सैषा देवता प्रस्ता­व­म­न्वा­यत्ता’(छा.उ. १.११.४,५) इति छान्दोग्यवाक्ये प्रस्ता­व­दे­व­ता­रूपः प्राणः पञ्च­वृ­त्ति­र्वायुः , न ब्रह्म ; उप­क्र­म­ग­त­प्र­धा­न­प्रा­ण­श्रु­त्य­नु­सा­रेण चर­म­श्रु­त­त­द्गु­ण­स­र्व­भू­त­सं­वे­श­नो­द्ग­म­ना­व­धा­र­ण­दे­व­ता­श­ब्दो­दि­त­चे­त­न­त्व­लि­ङ्गानां वर्णनीयत्वादिति प्राप्ते ‘कतमा सा देवता’ इति ‘सैषा देवता’ इत्यु­प­क्र­मो­प­सं­हा­र­ग­त­प्र­ति­पि­पा­द­यि­षि­त­चे­त­न­त्व­लि­ङ्गेन अस­ङ्कु­चि­त­स­र्व­भू­त­सं­वे­श­नो­द्ग­म­ना­व­धा­र­णो­प­बृ­ह्मि­तेन प्राण­श्रु­ति­बा­धात् ब्रह्मैवेति सिद्धान्त इति । अतिदेशस्य प्रयोजनं तु यथा अन्न­म­या­द्य­ब्र­ह्म­प्रा­य­पा­ठा­दा­न­न्द­मयो न ब्रह्म एव­मु­द्गी­थ­प्र­ति­हा­र­दे­व­ता­रू­पा­न्ना­दि­त्य­प्रा­य­पा­ठात् प्राणोऽपि न ब्रह्म ।

न च वाच्यम् - ‘इदं पुच्छं प्रतिष्ठा’ इत्या­द्य­प्र­धा­ना­ब्र­ह्म­प्रा­य­पा­ठेऽपि ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र यथा पुच्छं स्वप्रधानं ब्रह्म , तथा प्राणोऽपि स्यात् - इति ; तत्र पुच्छशब्दतः प्रथमश्रुतया ब्रह्मश्रुत्या तत्प्रा­य­पा­ठ­बा­धात् , इह प्रथमश्रुतायाः प्राणश्रुतेः प्राय­पा­ठा­नु­ग्रा­ह­क­त्वेन तद्वैषम्यात् ।

नापि शङ्कनीयं ‘तत्तेज ऐक्षत’(छा.६.२.३) इत्या­दि­प्रा­य­पा­ठ­बा­ध­व­दि­हापि स्यादिति । तत्रे­क्ष­ण­श्रु­त्य­मु­ख्या­र्थ­त्वा­पा­द­क­प्रा­य­पा­ठ­बा­ध­नेऽ­प्यत्र प्राण­श्रु­ति­मु­ख्या­र्था­नु­ग्रा­ह­क­प्रा­य­पा­ठ­बा­ध­ना­यो­गात् । न च ‘का साम्नो गतिः’(छा.१.८.४) इत्या­दि­श्रु­त्यु­पा­त्त­स्व­र­प्रा­णा­द्य­ब्र­ह्म­प्रा­य­पा­ठ­बा­ध­व­दि­हापि स्यादिति चोदनीयम् । भूमविद्यायां ‘एष तु वा अतिवदति’(छा. ७.१६.१) इति तुश­ब्दे­ना­ब्र­ह्म­ना­मा­दि­प्रा­य­पा­ठ­वत् तत्रा­न्त­व­त्त्व­दो­षो­द्भा­व­ने­ना­ब्र­ह्म­स्व­रा­दि­प्रा­य­पा­ठस्य व्यव­च्छे­द­सि­द्धा­वपि अत्र तद्व्य­व­च्छे­दा­सि­द्धे­रि­त्य­धि­क­श­ङ्कायाः ‘श्रुत्य­नु­गृ­ही­त­मपि सन्निधानं तात्प­र्य­व­ल्लि­ङ्ग­बा­ध्यम्’ इति व्युत्पादनेन निव­र्त­न­मा­श­ङ्का­न्त­र­नि­व­र्तनं च प्रयोजनम् । तथाहि तत्रोपाख्यायते –

उषस्तिनामा कश्चिदृषिः धनलिप्सया राज्ञो यज्ञं गत्वा स्वस्य ज्ञानवैभवं प्रकटयन् प्रस्तोतारमुवाच - प्रस्तोतर्या देवता प्रस्ता­व­भ­क्ति­म­नु­गता तां चेदविद्वान्मम विदुषस्सन्निधौ प्रस्तोष्यसि मूर्द्धा ते विपतिष्यतीति । एवमेवोद्गातारं प्रतिहर्तारं चोवाच - उद्गी­थ­प्र­ति­हा­र­भ­क्त्य­नु­ग­त­दे­व­ता­वे­दनं विनोद्गाने प्रतिहरणे च तयोर्मूर्द्धा विपतिष्यतीति । ते भीता: कर्मभ्यो विरेमुः । ततो यजमानेनानुनीतो ‘यावदेभ्यो धनं दद्यास्तावन्मम दद्याः’ इति यजमानं पृष्ट्वा ततो लब्ध­ता­व­द्ध­न­दा­न­प्र­ति­श्र­वणः तदनन्तरं प्रस्तोत्रा प्रस्तावदेवतां पृष्टः ‘प्राणः’ इत्युपदिश्य तत्र सर्व­भू­त­सं­वे­श­नो­द्ग­म­न­मुक्त्वा ‘सैषा देवता प्रस्ता­व­म­न्वा­यत्ता’(छा.१.११.४,५) इत्युपसञ्जहार । तथोद्गात्रा उद्गीथदेवतां पृष्टः ‘आदित्यः’ इत्युपदिश्य ‘सर्वाणि ह वा इमानि भूतानि आदि­त्य­मु­च्चै­स्सन्तं गायन्ति’(छा.१.११.७) इत्युक्त्वा ‘सैषा देव­तो­द्गी­थ­म­न्वा­यत्ता’ इत्युपसञ्जहार । एवं प्रतिहर्त्रा प्रतिहारदेवतां पृष्टः ‘अन्नम्’ इत्युपदिश्य ‘सर्वाणि हवा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति’(छा.१.११.९) इत्युक्त्वा ‘सैषा देवता प्रति­हा­र­म­न्वा­यत्ता’ इत्युपसञ्जहार ।

तत्र यथा देव­ता­वि­ष­यो­प­क्र­मो­प­सं­हा­र­यो­स्स­तो­र­प्य­चे­त­न­स्या­न्नस्य प्रति­हा­रो­पा­स्यत्वं तथा प्राणस्यापि प्रस्ता­वो­पा­स्य­त्व­मस्तु । यदि तत्र ‘अभि­मा­नि­व्य­प­दे­शस्तु विशे­षा­नु­ग­ति­भ्याम्’(ब्र.सू.२.१.५) इति ‘न विल­क्ष­ण­त्वा’धि­क­र­ण­सूत्रे वक्ष्य­मा­ण­न्या­येन अन्न­श­ब्द­स्त­द­भि­मा­नि­दे­व­ता­परः, तर्हि प्राणशब्दोऽपि प्राणा­भि­मा­नि­दे­व­ता­प­रोऽस्तु । न च वाच्यम् – सर्व­भू­त­सं­वे­श­नो­द्ग­म­न­वा­क्य­शेषः प्राणवायावेव कथ­ञ्चि­द्यो­ज­यितुं शक्यते ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणञ्चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रबुध्यते प्राणा­दे­वा­धि­पु­न­र्जा­यन्ते’(शत, ब्रा. १०.३.३) इति श्रुत्यन्तरात् , स्वापकाले प्राणवृत्तौ स्थिता­या­मि­न्द्रि­य­वृ­त्तीनां लोपस्य प्रबोधकाले प्रादुर्भावस्य सर्वदा देहिनां स्थिति­प्र­वृत्त्योः प्राण­वा­य्व­धी­न­त्वस्य च प्रत्य­क्ष­सि­द्ध­त्वाच्च । तद­भि­मा­नि­दे­व­तायां तु वाक्यशेषो न तथा योजयितुं शक्यते । अत एव ‘प्राण­वा­यु­पू­र्व­पक्ष एवात्र कर्तुमुचितो न तद्दे­व­ता­पू­र्व­पक्षः’ इत्यभिप्रेत्य भाष्ये प्रत्य­क्षा­नु­गृ­ही­त­श्रु­त्य­न्त­रा­नु­रो­धेन प्राणवायौ वाक्य­शे­ष­स्यो­प­प­त्ति­र्द­र्शिता । तत्र चानन्यथासिद्धं देवतालिंगं बाधकं स्यादेव - इति । एवं सति ‘अन्नमेव प्रतिहरमाणानि जीवन्ति’ इति वाक्यशेषेण अन्न­श­ब्द­स्या­चे­त­न­प­र­ताया वक्तव्यत्वेन तत्राचेतने देव­ता­श­ब्द­व­दि­हापि देव­ता­श­ब्दो­प­पत्त्या देव­ता­त्व­लिं­ग­स्या­बा­ध­क­त्व­ता­द­व­स्थ्यात् । यदि चाभि­मा­न्य­भि­मा­न­वि­ष­य­यो­र­भे­दा­ध्या­स­मा­श्रित्य अन्नवाक्यशेषः तद­भि­मा­नि­दे­व­तायां योज्यते, तर्हि प्राण­वा­क्य­शे­षोऽपि तथैव योज्यताम् । तस्मात् देवतात्वं न प्राणस्य पर­मे­श्व­र­त्व­सा­ध­कम् ।

ननु तथा­प्य­सं­कु­चि­त­स­र्व­भू­त­सं­वे­श­नो­द्ग­म­ना­धा­रत्वं तत्साधकं स्यात् । सर्वभूतशब्दो हि प्राणिनिकायपरः पञ्चमहाभूतपरो वा स्यात् । उभयत्र भूतशब्दस्य रूढिसत्त्वात् । न च सर्वेषां प्राणिनां महाभूतानां वा प्राणवायौ संवेशनोद्गमने स्तः । यदि च बालाक्यधिकरण(ब्र.सू.१.४.५) न्यायेन रूढ्यो­र­न्य­त­र­प­रि­ग्रहे निर्णायकाभावात् तुल्यबलयोः परस्परप्रतिहतौ लब्धोन्मेषेण ‘भव­न्ति’-’जा­यन्ते’ इति योगेन सर्व­भू­त­श­ब्द­स्स­र्व­का­र्य­पर आश्रीयते, तदा सुतरां प्राणवायौ ते न स्त एवेति चेत् । मैवम् । आदि­त्या­न्न­वा­क्य­शे­ष­वत् प्राण­वा­क्य­शे­ष­स्यापि मुख्यार्थ एवोपपत्तेः । न हि सर्वे प्राणि­न­स्स­र्वाणि महाभूतानि सर्वाणि कार्याणि वा आदि­त्य­मु­च्चै­स्सन्तं गायन्ति अन्नमेव प्रतिहरमाणानि जीवन्ति वा । किन्तु चेतनविशेषा एव । अन्नशब्दो ह्योदनवाची ‘भिस्सा स्त्री भक्त­म­न्धोऽ­न्नम्’ इति नैघ­ण्टु­क­प्र­सिद्धेः । ‘अन्नेन व्यञ्जनम्(पा.सू.२.१.३४) इति पाणि­नि­सू­त्र­द­र्श­नाच्च । तस्माद्यथा तयोरेकत्र सर्वभूतशब्द: आदि­त्य­गा­न­यो­ग्य­चे­त­न­वि­शे­ष­परः अन्य­त्रा­न्नो­प­जी­व­न­यो­ग्य­चे­त­न­वि­शे­ष­परः, तथा अत्र प्राण­वा­यु­सं­वे­श­ना­दि­यो­ग्य­का­र्य­वि­शे­ष­परः - प्राणा­धी­न­स्थि­ति­प्र­वृ­त्ति­क­स­र्व­प्रा­णि­परो वा स्यात् । अत्रैव प्रकरणे सर्वभूतशब्दस्य योग्यताऽनुसारेण सङ्कोचदर्शनात् । एते­ना­व­धा­र­णा­नु­प­प­त्ति­रपि निरस्ता ; ‘अन्नमेव’ इति­व­द­यो­ग­व्य­व­च्छे­द­क­त्वो­प­पत्तेः । तस्मादिह पूर्व­न्या­या­प्र­वृत्तेः न प्राणस्य पर­मे­श्व­र­त्व­सि­द्धि­रि­त्य­धिका शङ्कोन्मिषति ।

अत्रेदं समाधानम् - प्रति­पि­पा­द­यि­षि­त­चे­त­न­त्व­लि­ङ्ग­वि­रो­धात् प्राणशब्दस्य प्राण­वा­यु­रू­प­मु­ख्या­र्था­ति­ल­ङ्घ­नेन लक्ष­णी­य­चे­त­ना­का­ङ्क्षायां ‘प्राणबन्धनं हि सोम्य मनः’(छा.६.८.२) ‘प्राणस्य प्राणम्’(बृ.४.४.१८) इत्यादिश्रुतिषु परमेश्वर इव प्राणसंवादादिषु प्राणा­भि­मा­नि­दे­व­ता­या­मपि तस्य प्रयोगदर्शनेन निरूढलक्षणया तस्यामपि यद्यपि वृत्ति­स्स­म्भ­वति, तथाप्यत्र परमेश्वर एव तस्य वृत्तिर्युक्ता ; वाक्यशेषस्य स्वर­स­तोऽ­स­ङ्कु­चि­त­स­र्व­भू­त­सं­वे­श­नो­द्ग­म­न­नि­र­पे­क्षा­धा­र­प­रस्य स्वतस्तत्र सम्भवात् । प्राणा­भि­मा­नि­दे­व­तायां सङ्कुचितार्थस्य तस्य प्राण­वा­यु­ग­त­त­द­र्था­रो­पेण समर्थनीयत्वात् । न ह्यन्न­वा­क्य­शे­ष­स्त­द­भि­मा­नि­दे­वतां विना चेतनान्तरे कथ­म­प्य­न्व­य­म­ल­भ­मानः तस्या­म­न्न­ग­त­त­द­र्था­रो­पेण समर्थित इति अत्र गत्य­न्त­र­स­म्भ­वेऽपि अन्य­दी­या­रो­प­स्स­मा­श्र­य­णीयः, न वा गत्य­न्त­र­र­हि­त­यो­र­न्ना­दि­त्य­वा­क्य­शे­ष­यो­स्स­र्व­श­ब्दस्य सङ्कोचः कल्प्यत इति अस­ङ्को­च­स­म्भ­वेऽ­प्यत्र सङ्कोचः कल्पनीयः । नाप्य­न्न­वा­क्य­शे­षेऽ­व­धा­र­णस्य स्वार­सि­क­म­न्य­यो­ग­व्य­व­च्छे­द­कत्वं त्यक्त्वा भिन्न­क्र­म­त्वे­ना­यो­ग­व्य­व­च्छे­द­क­त्व­मा­श्रि­त­मिति अत्रापि तथा आश्रयणीयम् । प्रायपाठस्य स्थान­प्र­मा­ण­रू­पस्य लिङ्ग­बा­ध्य­स्या­नि­या­म­क­त्वात् । तस्मात् सर्व­ज­ग­त्प्र­कृ­ति­त्वा­व­धा­र­णो­प­बृं­हि­त­प्र­ति­पि­पा­द­यि­षि­त­चे­त­न­त्व­लि­ङ्गेन प्राण­श्रु­ति­बा­धात् प्राणः परमेश्वर इति सिद्धम् । १. १. २३ ।

इति प्राणाधिकरणम् । ९ ।

ज्योति­श्च­र­णा­भि­धा­नात् । २४।

२४

इदमामनन्ति छन्दोगाः – ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेष्विदं वाव तज्ज्यो­ति­र्य­दि­द­म­स्मि­न्न­न्तः­पु­रुषे ज्योतिः’(छा.३.१३.७) इति । अत्र कौक्षेयज्योतिषि संपाद्योपास्यं ज्योतिः किं प्रसि­द्ध­म­ग्न्या­दिकं ज्योतिः उत परमेश्वर इति संशये, प्रसिद्धमेव तत् ज्योतिः न ब्रह्म ; प्राणा­का­श­वा­क्य­यो­रिव वाक्यशेषे श्रुति­भ­ञ्ज­क­त­ल्लि­ङ्गा­भा­वात् । प्रत्युत रूप­व­द्वि­ष­य­दी­प्ति­द्यु­म­र्या­द­त्वा­धा­र­ब­हु­त्व­कौ­क्षे­य­ज्यो­ति­र­ध्या­स­च­क्षु­ष्य­त्व­वि­श्रु­त­त्व­रू­पा­ल्प­फ­लो­पा­स­नो­पा­स्य­त्व­लिङ्गैः वाक्यशेषगतैः प्रसि­द्ध­ज्यो­तिषि स्वारसिकैः श्रुते­रे­वो­त्त­म्भ­नात् ।

न च ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.३.१२.६) इति प्रकृते त्रिपा­द्ब्र­ह्मणि द्युस­म्ब­न्धि­त्व­लि­ङ्गो­प­स्था­पिते यच्छ­ब्द­प­र्य­व­सा­नात् तत्समानाधिकृतो ज्योति­श्श­ब्दोऽपि तद्विषयः स्यादिति वाच्यम् । वाक्या­न्त­र­ग­त­लि­ङ्ग­प्रा­पि­ता­दे­क­वा­क्य­ग­त­लि­ङ्गा­नु­गृ­ही­त­श्रु­ति­प्रा­पि­तस्य बलीयस्त्वेन दीप्त्या­दि­लि­ङ्गा­नु­गृ­ही­त­ज्यो­ति­श्श्रु­ति­प्रा­पिते प्रसि­द्ध­ज्यो­ति­ष्येव यच्छब्दस्यापि पर्यवसानात् । पूर्वं ‘गायत्री वा इदं सर्वं भूतम्’(छा.३.१२.१) इति गायत्र्याख्यं छन्दः प्रकृत्य ‘तदे­त­दृ­चाऽ­भ्य­नू­क्तम् । तावानस्य महिमा । ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.३.१२.५,६) इति मन्त्रस्य तद्विषयतया अवतारितत्वेन ब्रह्मणः प्रकृ­त­त्वा­सि­द्धेश्च । न च – तत्र गायत्रीशब्दो गाय­त्र्य­व­च्छि­न्न­ब्र­ह्म­ल­क्षकः ; छन्दोमात्रस्य सार्वा­त्म्या­नु­प­प­त्ते­रिति वाच्यम् । गाय­त्र्य­व­च्छि­न्न­तया परिच्छिन्नरूपे ब्रह्मण्यपि तद­नु­प­प­त्ते­स्तु­ल्य­त्वात् । तत्र स्तावकतया तत्समर्थने मुख्या­र्था­नु­ग्र­हाय गायत्र्यामेव तत्स­म­र्थ­न­स्यो­चि­त­त्वात् । पूर्वं ब्रह्मणः प्रकृतत्वेऽपि तत्र दिवोऽधिकरणत्वेन निर्देशः, इहावधित्वेनेति निर्देशभेदेन तत्प्र­त्य­भि­ज्ञा­वि­र­हा­च्चेति पूर्वपक्षः ।

राद्धान्तस्तु – ब्रह्मैव इदं ज्योतिः ; ‘त्रिपा­द­स्या­मृतं दिवि’ इति सर्वाणि भूतानि एकं पादं कृत्वा पाद­त्र­य­रू­पे­णो­क्तस्य ब्रह्मणः यच्छ­ब्दे­ना­भि­धा­नात् तत्स­मा­ना­धि­कृ­त­ज्यो­ति­श्श­ब्द­स्यापि तत्र वृत्त्य­व­श्यं­भा­वात् । न च – यच्छब्द एव ज्योति­श्श­ब्द­स्वा­र­स्या­बा­धाय प्रकृतपरत्वं परित्यज्य ज्योति­श्श­ब्दो­प­स्था­पि­त­प्र­सि­द्ध­प्रा­कृ­त­ज्यो­तिः­प­रा­मर्शी स्यादिति वाच्यम् । सर्वनाम्नां समा­ना­धि­कृ­त­श­ब्द­स्वा­र­स्य­म­ति­लं­घ्स्यापि प्रकृ­त­प­रा­म­र्शि­त्वस्य व्युत्प­त्ति­सि­द्ध­तया यच्छ­ब्दा­नु­सा­रे­णैव ज्योतिश्शब्दस्य नेयत्वात् ।

‘~अत एव प्रयुक्तिलक्षणे(जै. सू.४.१.९) ‘तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्’ इति श्रुता­वा­मि­क्षा­प­द­वाच्यं पयसोऽर्थान्तरं दधि­प­य­स्सं­स­र्ग­ज­न्य­द्र­व्य­म­भ्यु­पे­यम् ; पयः आमिक्षेति व्यपदेशभेदादिति तस्यैव द्रव्यान्तरस्य कठि­ना­म्ल­म­धु­र­र­सस्य वैश्व­दे­व­या­ग­द्र­व्यत्वे आमि­क्षा­प­द­स­मा­ना­धि­कृ­त­त­त्प­द­स्यापि तद्द्रव्यपरत्वे च प्राप्ते सर्वनाम्नः प्रकृ­त­प­र­त्व­स्वा­भा­व्यात् तत्प­द­मा­न­य­न­क्रियां प्रति प्रधानकर्मतया दध्या­न­य­ना­धि­क­र­ण­त्वेन निर्दिष्टं पयः परामृशतीति पय एव यागद्रव्यम् । तत्पदे स्त्रीलि­ङ्ग­मा­मि­क्षा­प­द­सा­मा­ना­धि­क­र­ण्य­कृ­तम् । आमिक्षापदं तु न संसृ­ष्ट­द्र­व्या­न्त­रा­भि­धा­य­कम् , किन्तु तत्पदेन केवले पयसि यागद्रव्ये विहिते तत्र दध्या­न­य­न­सं­स्का­र­वि­धि­प्रा­प्त­द­धि­सं­स­र्गा­नु­वा­द­कम् । आमि­क्षा­प­द­म­प्य­स्मा­देव वैदि­क­व्य­व­हा­रा­द­म्ल­द्र­व्य­घ­नी­भू­त­प­यो­मा­त्र­वा­च­कम् , न तु तज्ज­न्य­द्र­व्या­न्त­र­वा­च­कम् । अम्लरसोऽपि न यागद्रव्यगतः, किन्तु तत्सं­स्का­र­क­द्र­व्य­गत इति पयो­रू­पा­मि­क्षा­प्र­यु­क्त­मेव दध्यानयनं न वाजि­न­प्र­यु­क्त­म­पीति निर्णीतम् ।

‘दधि मधु घृतं धानाः करम्भा उदकं तण्डु­ला­स्त­त्सं­सृष्टं प्राजापत्यम्’ इति चित्रायागविधौ दध्या­दि­स­प्त­द्र­व्य­मे­ल­न­रू­प­सं­सृ­ष्टै­क­द्र­व्यात् एको यागः, तत्पदं च संसृ­ष्ट­द्र­व्य­प­र­मिति प्राप्ते – तत्पदं प्रकृ­त­प­रा­म­र्शि­त्व­स्वा­भा­व्यात् असं­सृ­ष्ट­द­ध्या­दि­स­प्त­द्र­व्य­परं न तु संसृ­ष्टै­क­द्र­व्य­प­र­मिति दध्या­दि­स­प्त­द्र­व्य­का­स्सप्त यागाः । सप्तस्वपि द्रव्येषु तदिति नपुं­स­कै­क­व­च­न­नि­र्देशः ‘नपुं­स­क­म­न­पुं­स­के­नै­क­व­च्चा­स्या­न्य­त­र­स्याम्’(पा.सू.१.२.६९) इति व्याक­र­ण­स्मृ­त्य­नु­सा­रे­णो­प­प­द्यते । संसृष्टपदं तु याग­भे­देऽ­प्ये­क­दे­व­त्य­तया सान्ना­य्य­व­द्द­ध्या­दीनां सहप्रक्षेपे संसर्गस्य सत्त्वात् तदनुवादकं योज्यमिति निर्णीतं टुप्टी­का­या­म­ष्ट­म­द्वा­द­शा­ध्या­ययोः ।

अपि चात्र यच्छब्दयोगात् द्युस­म्ब­न्धि­ज्यो­ति­षोऽ­य­म­नु­वादः । स चानुवाद्यस्य प्राप्ति­म­पे­क्षते । प्राप्तं च द्युस­म्ब­न्धि­त्वेन ब्रह्म ‘त्रिपा­द­स्या­मृतं दिवि’ इति । यद्यपि प्रसि­द्ध­ज्यो­ति­रपि ‘यो भानुना पृथिवीं द्यामु­ते­मा­मा­त­तान रोदसी अन्तरिक्षम्’(ऐ.सं.८.४) इति मन्त्रवर्णतः प्राप्तिमत् भवति, तथाऽप्यत्रैव पुरस्तात् तथावर्णिते परस्तादपि शाण्डि­ल्य­वि­द्या­या­म­नु­व­र्त­माने उभयत्र सन्दष्टतया मध्य­स्थो­पा­स­ना­याम् , अभिक्रमणे प्रया­ज­व­द­न्व­य­सा­काङ्क्षे ब्रह्मणि स्वत एव बुद्धौ विपरिवर्तमाने तदतिलंघ्य कल्प­नी­यो­प­स्थि­ति­कस्य प्रकृ­तो­पा­स­ना­न्व­या­का­ङ्क्षा­र­हि­तस्य प्रसि­द्ध­ज्यो­ति­षोऽ­नु­वा­द्य­त्व­क­ल्पनं न युक्तम् । एवमनुवादस्य प्रकृ­ता­र्थ­नि­य­न्तृत्वे स्थिते ज्योति­श्श­ब्द­स्यापि वस­न्त­वा­क्य­ग­त­स्येव प्रकृतपरत्वमेव सिद्ध्यति । दृष्टो हि ब्रह्मण्यपि भूयसा ज्योति­श्श­ब्द­श्श्रु­तिषु ‘तं देवा ज्योतिषां ज्योतिः’(बृ.४.४.१६) ‘परं ज्योति­रु­प­स­म्पद्य’(छा.८.१२.३) इत्यादिषु । न च ज्योतिश्शब्दः प्रसिद्धज्योतिष एव वाचकः, किन्तु यदेव किञ्चिदवभासकं चेत­न­व्य­व­हा­रो­प­यो­ग­वि­शे­ष­शालि तस्य सर्वस्यापि वाचकः । बृहदारण्यके ‘याज्ञवल्क्य किंज्योतिरयं पुरुषः’(बृ.४.३.२) इति प्रश्ने आदि­त्य­च­न्द्रा­ग्नि­वा­गा­त्मनां पूर्वपूर्वाभावे उत्तरोत्तरस्य पुरुषं प्रति ज्योति­ष्ट्व­मु­क्त­वता याज्ञवल्क्येन तेषु ज्योति­श्श­ब्द­प्र­वृ­त्त्यु­प­पा­द­नाय ‘आदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्यति’(बृ.४.३.२) इत्ये­व­मा­दि­भि­रा­दि­त्या­दीनां पुरु­ष­व्य­व­हा­रो­प­यो­गस्य प्रति­पा­दि­त­त्वात् , अन्यत्रापि ‘मनो ज्योति­र्जु­ष­ताम्’(तै.ब्रा.१.६.३.३) इत्या­दि­द­र्श­नाच्च । अतः ‘‘तस्य भासा सर्वमिदं विभाति’(क.२.५.१५) इति श्रुते­स्स­म­स्त­ज­ग­द­व­भा­सकं ब्रह्म ज्योतिश्शब्दस्य वाच्यमेवेति न ज्योति­श्श­ब्दा­नु­प­पत्तिः । ‘दीप्यत’ इति दीप्ति­म­च्छ­री­रा­द्य­नु­ग­त्य­भि­प्रा­यम् । द्युम­र्या­द­त्व­मु­पा­स­ना­र्थम् । सर्वत्रातते प्रसि­द्ध­ज्यो­ति­ष्यपि हि उपासनार्थमेव तद्वाच्यम् । आधा­र­ब­हु­त्व­म­प्यौ­पा­धि­क­रू­पेण न विरुद्धम् । तदे­त­द्दी­प्त्या­दि­त्रिकं अन्त­रा­दि­त्य­वा­क्य­श्रु­त­हि­र­ण्म­य­त्वै­श्व­र्य­म­र्या­दा­क्ष्या­दि­त्या­धा­र­त्व­स­म­र्थ­ने­नैव समर्थितम् । कौक्षे­य­ज्यो­ति­र­ध्या­स­लि­ङ्ग­मपि न शङ्कार्हम् । न हि सारूप्यनिबन्धन एव सर्वत्राध्यासः येन कौक्षे­य­ज्यो­ति­ष्य­ध्य­स्य­मानं तत्सारूप्यात् प्रसि­द्ध­ज्यो­ति­रिति सिद्ध्येत् । असारूप्येऽपि नामादिषु ब्रह्मा­ध्या­स­द­र्श­नात् । ‘तदेतद्दृष्टञ्च श्रुत­ञ्चे­त्यु­पा­सीत चक्षु­ष्य­श्श्रुतो भवति’(छा.३.१३.८) इत्य­ल्प­फ­ल­श्र­व­ण­मपि न शङ्कार्हम् ; महते फलायैव ब्रह्मो­पा­स­नी­य­मिति नियमाभावात् ’अन्नादो वसुदानो विन्दते वसु य एवं वेद’(बृ. ४.४.२४) इत्यादिदर्शनात् । यत्तु दृष्ट­श्रु­त­त्व­मु­पास्यं तत्फलवदपि न प्रसि­द्ध­ज्यो­ति­र्लि­ङ्गम् , किन्तु प्रतीकस्य कौक्षेयज्योतिषो दृष्ट­श्रु­तौ­ष्ण्य­घो­षा­नु­मि­त­त्व­रू­पम् ; ‘अन्तः पुरुषे ज्योतिः’ इत्येतदनन्तरं ‘तस्यैषा दृष्टि­र्य­त्रै­त­द­स्मिन् शरीरे संस्प­र्शे­नो­ष्णि­मानं विजानाति । तस्यैषा श्रुतिः यत्रैतत् कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति’(छा. ३. १३. ७, ८) इति श्रवणात् । तस्मात् ज्योति­श्श्रु­ते­र्ब्र­ह्म­सा­धा­र­ण्यात् दीप्त्या­दि­त्र­य­स्या­न्त­रा­दि­त्य­वा­क्य­ग­त­हि­र­ण्म­य­त्वा­दि­व­द­न्य­था­सि­द्ध­त्वात् आन्त­र­ज्यो­ति­र­ध्या­सा­दि­त्र­य­स्या­लि­ङ्ग­त्वाच्च यच्छब्दश्रुत्या द्युस­म्ब­न्ध­लि­ङ्गेन ब्रह्मण उपा­स­ना­न्व­या­का­ङ्क्षा­ल­क्ष­णेन प्रकरणेन च ज्योति­र्ब्र­ह्मै­वेति ।

सूत्रे ‘चरणाभिधानात्’ इत्यस्य यच्छ­ब्द­स्स­र्व­ना­म­स्वा­भा­व्यात् समा­ना­धि­कृ­त­श­ब्द­स्वा­र­स्य­म­ति­लंध्य प्रकृ­त­प­रा­म­र्शीति युक्तौ प्रकृतस्य पादत्रयरूपस्य ब्रह्मणो यच्छ­ब्दे­ना­भि­धा­ना­दि­त्यर्थः । यच्छ­ब्द­यो­गा­द­नु­वाद्यं तु द्युसम्बन्धि प्राप्त्य­पे­क्ष­मिति युक्तौ प्राक् मन्त्रेण ब्रह्मणः पादत्रयरूपस्य द्युस­म्ब­न्धि­नोऽ­भि­धा­ना­दि­त्यर्थः । यद्य­प्या­द्य­यो­ज­नायां पूर्वं प्रकृते ब्रह्मणि यावन्तो गाय­त्र्या­दि­शब्दाः प्रयुक्ताः तेषा­म­न्य­त­म­श्च­र­ण­श­ब्द­स्थाने निवेशयितुं शक्यः, तथाऽपि द्वितीययोजनायां ‘त्रिपा­द­स्या­मृतं दिवि’ इति मन्त्रभाग एवाश्रयणीय इति तत्साधारण्याय चरणशब्दो निवेशितः । उक्त­यु­क्ति­द्व­य­ब­लात् ‘यदतः परो दिवः’ इत्यस्य त्रिपा­द्ब्र­ह्म­प­र­त्व­म­व­लम्ब्य ज्योतिश्शब्दस्य तत्प­र­त्वो­प­पा­द­न­युक्तौ चरणे ब्रह्मणि ‘यदतः परो दिवः’ इति निर्दिष्टे ज्योति­श्श­ब्द­स्या­भि­धा­वृ­त्ति­स­म्भ­वा­दि­त्यर्थः । एवं तृती­य­यो­ज­ना­सा­धा­र­ण्या­र्थ­मेव सूत्रा­न्त­र­प्र­युक्तं व्यपदेशादिपदं विहाय ‘अभिधानात्’ इत्युक्तम् । १.१.२४ ।

अथ ‘तावानस्य’ इति मन्त्रे ब्रह्मणः प्रकृ­त­त्व­म­सि­द्ध­मि­त्या­श­ङ्का­म­नु­भाष्य निराकरोति –

छन्दोऽ­भि­धा­ना­न्नेति चेन्न तथा चेतोऽ­र्प­ण­नि­ग­दा­त्तथा हि दर्शनम् ॥ २५ ॥

२५

पूर्वत्र गायत्रीशब्देन छन्द एव ह्यभिमतं न ब्रह्म ; ज्योति­श्श­ब्द­स्येव गायत्रीशब्दस्य तत्रा­भि­धा­वृ­त्ते­रु­प­पा­द­यि­तु­म­श­क्य­त्वात् । तथा च मन्त्रेणापि छन्दस एव प्रतिपादनान्न ब्रह्मणः प्रकृतत्वमस्ति । नच वाच्यमस्मिन् मन्त्रे चतुष्पात् ब्रह्म साक्षात् प्रतीयते, कथमयं छन्दः­प­र­स्स्या­दिति । ‘गायत्री वा इदं सर्वं भूतम्’ इति गाय­त्री­मु­प­क्रम्य ‘सैषा चतुष्पदा’ इत्युक्त्वा ‘तदे­त­दृ­चाऽ­भ्य­नू­क्तम्’ इति तस्मि­न्न­र्थेऽ­व­ता­रि­तस्य मन्त्रस्य चतु­ष्पा­द्ब्र­ह्म­प्र­ति­पा­द­क­त्वा­यो­गा­दिति चेत् – नायं मन्त्र­श्छ­न्दो­वि­षयः ; छन्दोमात्रस्य सर्व­भू­त­पा­द­त्वा­द्य­यो­गात् । तथा ‘गायत्री वा इदं सर्वम्’ इत्यादिरपि न छन्दोमात्रविषयः ; छन्द­स­स्स­र्वा­त्म­क­त्वा­यो­गात् , किंतु तत्र गायत्रीशब्दो गाय­त्री­रू­प­स्व­वि­का­रा­नु­ग­त­ब्र­ह्मा­नु­स­न्धा­नो­प­दे­शा­त्त­ल्ल­क्षकः । विकारश्च स्वानुगते ब्रह्म­ण्यु­प­ल­क्ष­ण­मिति न सर्वा­त्म­क­त्वा­नु­प­पत्तिः । तथाह्यन्यत्रापि विका­रा­नु­ग­त­ब्र­ह्मा­नु­स­न्धा­नो­प­देशो दृश्यते ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते’(ऐ. आ. ३.२. ३) इत्यादौ ।

सूत्रे तथेत्यस्य तेन विकारानुगतत्वेन प्रका­रे­णे­त्यर्थः । यत्तु भाष्ये ‘यथा गायत्री षडक्षरैः पादैश्चतुष्पदा एवं ब्रह्मापि मन्त्र­व­र्णो­क्त­रीत्या चतुष्पात्’ इति सादृश्येन श्रुतिगतं गायत्रीपदं ब्रह्मणि गौणमङ्गीकृत्य ‘तथा तद्वत् गाय­त्री­च्छ­न्दो­वत् चतुष्पात्त्वेन ब्रह्मणि चेतो­र्प­ण­नि­ग­दात्’ इति व्याख्यानं तत् ‘अपर आह’ इत्यु­प­क्र­मा­द­न­भि­म­त­मु­न्नी­यते । अनभिमतिबीजं तु साक्षा­त्स­म्ब­न्धेन गायत्रीपदस्य ब्रह्मणि लक्षणासम्भवे सादृ­श्य­रू­प­प­र­म्प­रा­स­म्ब­न्ध­मू­ल­गौ­ण­वृ­त्ति­र­युक्ता । चतुष्पदत्वं च गायत्र्या न प्रसिद्धम् । अष्टाक्षरैः त्रिभिः पादैः गायत्रीति प्रसिद्धेः त्रिपदैव गायत्री । षट्स्वक्षरेषु एकै­क­पा­द­त्व­क­ल्प­नया चतुष्पदा सम्पद्यत इति न युक्तम् ; तेषामृक् यत्रार्थवशेन पाद­व्य­वस्था’(जै. सू. २. १. ३५) इत्यर्थवशेन नियमितां पाद­व्य­व­स्था­म­प­हाय केवलमक्षरगणनया पाद­क­ल्प­नाऽ­यो­गात् ।

न च ‘षष्टि­स्त्रि­ष्टुभो माध्यन्दिने सवने’ इति गाय­त्री­बृ­ह­त्या­दि­ना­ना­च्छ­न्द­स्स­ङ्घाते षष्टि­त्रि­ष्टु­प्त्व­व्यप देशनिर्वाहार्थं तेषु त्रैष्टुभानां पादा­ना­म­क्ष­र­ग­ण­नया कल्पना सम्प्रतिपन्नेति वाच्यम् । तत्र विनैव पादकल्पनां माध्य­न्दि­न­स­व­न­ग­त­ना­ना­च्छ­न्दोऽ­क्ष­राणां षष्टि­त्रि­ष्टु­ब­क्ष­राणां च संख्या­सा­म्य­मा­त्रेण तथाव्यपदेशस्य गौणत्वात् । अन्यथा बृहस्पतिसवे ‘गाय­त्र­मे­त­द­ह­र्भ­वति’ इति वचनस्य प्राकृतेष्वेव नाना­च्छ­न्द­स्स्व­क्ष­र­ग­ण­नया अक्षरलोपेन वा गाय­त्री­त्व­स­म्पा­द­ना­र्थ­तया प्राकृतीनामृचां बाधस्सम्भवतीति तत्र वच­न­ब­ला­न्ना­ना­च्छ­न्दां­स्य­प­हाय मुख्यगायत्र्यो ग्राह्या इति निर्णयार्थेन ‘गायत्रीषु प्राकृ­ता­ना­म­व­च्छेदः’(जै. सू. ८. ३.६) इति पूर्व­त­न्त्रा­धि­क­र­णेन विरोधापत्तेः ।

न च वाच्यम् – ‘इन्द्र­श्श­ची­प­ति­र्व­लेन पीडितः । दुश्च्यवनो वृषा समत्सुसासहिः’ इति क्वचित् चतुष्पदाऽपि गायत्री दृष्टा – इति । तथाऽपि सर्व­गा­य­त्री­प्र­सिद्धं रूपं विहाय क्वाचित्केन रूपेण सामा­न्य­ग्र­ह­णा­यो­गात् । न हि सर्वत्र गवां चतु­ष्पा­त्त्वेऽपि क्वचिदौत्पातिकी द्विपादुत्पन्ना दृष्टेति ‘वराहं गावोऽनुधावन्ति’ इत्यत्र वायसे द्विपात्त्वेन गोसादृश्यं ग्राह्यमित्यलं विस्तरेण । १.१.२५।

ननु उप­क्र­म­ग­त­गा­य­त्री­श­ब्दस्य तद­न­न्त­र­प­ठि­त­म­न्त्र­श्रु­त­स­र्व­भू­त­पा­द­त्वा­नु­प­पत्त्या गाय­त्र्य­नु­ग­त­ब्र­ह्म­ल­क्ष­क­त्व­क­ल्प­न­म­यु­क्त­मि­त्या­शं­क्याह –

भूता­दि­पा­द­व्य­प­दे­शो­प­प­त्ते­श्चै­वम् । २६ ।

२६

गायत्रीवाक्य एव भूत­पृ­थि­वी­श­री­र­हृ­द­यानि निर्दिश्य तेषां गायत्रीपादत्वेन व्यपदेशात् एवं गायत्रीशब्दो ब्रह्मपर इति निश्चीयते । ‘व्यपदेशात्’ इत्येतावति वक्तव्ये ‘उपपत्तेः’ इति अधिकोक्तिः तत्र किञ्चि­द­नु­प­प­त्ति­श­ङ्का­नि­रा­साय । अनुपपत्तिश्च एवम् – ‘चतुष्पदेत्ययं हि भूता­दि­पा­द­त्व­व्य­प­देशः । अयं तु गाय­त्र्या­मृ­च्ये­वो­प­प­द्यते ; ‘टाबृचि’(पा. सू. ४. १. ९) इति टाबन्तताया ऋच्ये­वा­नु­शा­स­नात् । ब्रह्म परत्वे ‘चतुष्पात्’ इति स्यात्’ इति । तत्रैवं समाधानम् – उपपद्यत एव गाय­त्र्य­नु­ग­त­ब्र­ह्म­प­रत्वे टाबन्तता ; तदु­प­ल­क्ष­क­ऋ­क्सं­स्प­र्शा­प्र­हा­णा­दिति ।

चकारेण पुरु­ष­सू­क्ता­म्ना­तस्य ‘एतावानस्य’ इति मन्त्रस्य ब्रह्म­प­र­त्व­स्या­वि­चा­ल्य­त्वात् ‘यद्वै तत् ब्रह्म’ इति ‘इदं वाव तत्’(छा. ३. १२. ७) इति प्रकृतस्य ब्रह्म­त्व­प्र­ति­पा­द­का­द्वा­क्यात् गाय­त्र्यु­पा­स­ना­ङ्ग­द्वा­र­पा­लो­पा­स­ना­विधौ ‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा. ३.१३. ६) इति द्वारपालेषु ब्रह्म­पु­रु­ष­त्वो­क्ति­लि­ङ्गा­च्चेति समुच्चीयते । तथा च प्राथ­मि­कै­क­प्र­मा­णात् उत्त­रा­ने­क­प्र­मा­णानां बलवत्त्वात् भूता­दि­पा­द­त्व­प्र­भृ­त्य­ने­क­प्र­मा­णा­नु­रो­धेन एकस्या गायत्रीश्रुतेः गाय­त्र्य­नु­ग­त­ब्र­ह्म­ल­क्ष­क­त्व­क­ल्प­न­मु­प­प­न्न­मिति दर्शितं भवति ।

एव­मि­त्य­धि­को­क्ति­र­स­न्दे­हार्था – आनन्दमयाधिकरणे हि ‘भूयसां स्यात् स्वधर्मत्वम्’ इति न्याये विप्र­ति­प­द्य­मा­नान् प्रति मान्त्र­व­र्णि­क­सू­त्रेण हेत्वन्तरं दर्शितम् , इहापि तद­व­ल­म्ब्यो­त्त­रा­ने­क­प्र­मा­ण­ब­ल­वत्त्वे कश्चि­द्वि­चि­कि­त्से­तेति । एवंकारेण तु – एवमेवायमर्थः ; पद­मा­त्र­स्वा­र­स्या­नु­रो­धेन बहु­बा­ध­स्या­न्या­य्य­त्वात् , आनन्दमयाधिकरणे तु ‘तुष्यतु दुर्जनः’ इति सम्भ­व­द्धे­त्व­न्त­र­म­प्यु­प­न्य­स्तम् – इति सूच्यते । १.१.२६।

नन्वस्तु प्रकृतं ब्रह्म, तथापि ‘दिवि’ ‘दिवः’ इति निर्देशभेदान्न ज्योतिर्वाक्यं तद­नु­वा­द­क्ष­म­मि­त्या­शंक्य निराकरोति –

उपदेशभेदान्नेति चेन्नो­भ­य­स्मि­न्न­प्य­वि­रो­धात् । २७ ।

२७

नैष दोषः ; उभयस्मिन्नपि निर्देशे विरोधाभावात् । लोके वृक्षाग्रनिलीने श्येने ‘वृक्षाग्रे श्येनः’ ‘वृक्षाग्रात् परतश्श्येनः’ इति उभ­य­था­व्य­प­दे­श­द­र्श­नेन दिवि स्थित एव ब्रह्मणि ‘दिवि’ ‘दिवःपरः’ इत्युभयथा व्यपदेशोपपत्तेः । यत्तु केनचिदुक्तं वृक्षाग्रनिलीने श्येने वृक्षाग्रात् परत इति व्यवहारोऽसिद्ध इति , तत् पञ्चम्यन्तं सप्तम्यन्तमिति वा भ्रान्त्या । प्रथमान्तं हि तत् ; तसे­स्सा­र्व­वि­भ­क्ति­क­त्वात् , ‘दिवः परः’ इति श्रुत्या­नु­गु­ण्यात् , ‘एवं दिव्येव सत् ब्रह्म दिवः पर­मि­त्यु­प­दि­श्यते’ इति दार्ष्टा­न्ति­क­प­र­भा­ष्या­नु­गु­ण्याच्च । न च वृक्षा­ग्रो­प­रि­भा­ग­स्थिते श्येने वृक्षाग्रात् पर इति व्यव­हा­रेऽ­प्य­सं­प्र­ति­पत्तिः । ततश्च दिव उपरिभागस्थिते ज्योतिष्यपि ‘दिवः पर’ इति व्यपदेशः तद्व­दे­वो­प­प­द्य­ते­त­राम् ।

ननु दिव उपरिभागे स्थितं ज्योतिः कथं ‘अनु­त्त­मे­षू­त्त­मेषु लोकेषु’ इति अधि­क­र­णा­न्त­र­स्थितं निर्दिश्यते । उच्यते । द्युशब्दोऽयं स्वर्ग­लो­क­प­र्यायः । स्वर्ग­लो­क­श्चात्र भूर्भु­व­स्स्व­रिति लोक­त्र­य­प­क्षा­नु­सा­रेण भूमि­सू­र्या­न्त­र­रू­पात् भुव­र्लो­का­दु­प­रि­त­न­स­त्य­लो­कान्तो विवक्षितः । तस्योपरिभागरूपा ये सत्य­लो­का­न्त­र्ग­त­हि­र­ण्य­ग­र्भा­दि­भो­ग­भू­मि­भेदाः ‘तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’(बृ. ६. २. १५) इत्या­दि­श्रु­ति­प्र­सिद्धाः तेषु विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु सर्वस्मादपि लोका­दु­प­रि­स्थि­तेषु स्वेभ्य उत्तमरहितेषु स्वयं सर्वोत्तमेषु लोकेषु हिर­ण्य­ग­र्भा­दि­मू­र्त्य­भि­व्यक्तं ब्रह्म ‘दिवः परम्’ इति, ‘अनु­त्त­मे­षू­त्त­मेषु लोकेषु स्थितम्’ इति च युक्तमेव ; वृक्षा­ग्र­स्यो­प­रि­प­ल्ल­वि­त­भा­ग­स्थिते श्येने ‘वृक्षाग्रात् पर’ इति ‘पल्लवेषु स्थित’ इति च व्यपदेशदर्शनात् । विस्तरेण चैतदनुपदं प्रति­पा­द­यि­ष्यामः ।

यत्तु भाष्ये ‘अपर आह’ इत्यारभ्योक्तं ‘यथा वृक्षा­ग्रे­णा­स­म्बद्धः उपरि भ्रमन्नेव श्येनो वृक्षाग्रे इत्यपि व्यपदिश्यते तथा दिवः परमपि ब्रह्म ‘दिवि’ इत्यपि व्यपदिश्यते’ इति, तत् भूर्भु­व­स्व­र्म­ह­र्ज­न­स्त­प­स्स­त्य­मिति सप्त­लो­क­प­क्षा­नु­सा­रेण सूर्या­दि­ध्रु­वा­न्त­मेव द्युश­ब्दा­र्थ­म­भि­प्रेत्य । तत्रे­द­म­न­भि­म­ति­बी­जम् – युक्तं वृक्षाग्रे श्येन इति तदसम्बद्धेऽपि व्यपदेशः ; औप­श्ले­षि­का­धि­क­र­ण­त्वा­भा­वेऽपि सामी­पि­का­धि­क­र­ण­त्वस्य सत्त्वेन सप्तम्या मुख्या­र्था­न­पा­यात् , इह मह­रा­दि­लो­क­त्र­या­न्त­रि­त­स­त्य­लो­क­भो­ग­भू­मि­रू­पे­षू­त्त­मेषु लोकेषु स्थितस्य ब्रह्मणो द्युलो­क­सा­मी­प्या­भा­वेन दिवीति व्यप­दे­शोऽ­नु­प­प­न्न­स्स्यात् । न चैतद्युक्तम् ; अनु­वा­द­मु­ख्य­ताऽ­नु­सा­रेण पुरो­वा­दा­न्य­था­न­य­न­स्या­नु­प­प­न्न­त्वात् , प्रथमपक्षे पुरो­वा­दा­नु­वा­द­यो­रु­भ­यो­रपि मुख्या­र्थ­त्व­स­ङ्घ­ट­ना­च्चेति ।

केचित्तु ‘दिवि’ ‘दिवः पर’ इति निर्देशयोः प्रका­रा­न्त­रे­णा­वि­रो­ध­मु­प­पा­द­यन्ति – द्युशब्देनात्र आकाश उच्यते । स च शरीरात् बहिः शरीरमध्ये हृद­य­पु­ण्ड­री­क­मध्ये चेति त्रयावच्छिन्नः । तत्र सर्वत्र वर्तमानं ब्रह्म अन्त­रा­का­शा­व­च्छिन्नं सत् बाह्या­का­श­भा­गा­पे­क्षया दिवः­प­र­मि­त्यु­च्यते । अन्तराकाशे वर्तमानत्वाच्च तदेव दिवीत्युच्यत इत्यविरोध इति । तदिदम् – पूर्वं गायत्रीप्रकरणे ‘त्रिपा­द­स्या­मृतं दिवि’ इति मन्त्रो­दा­ह­र­णा­न­न्तरं ‘यद्वै तत् ब्रह्मेति इदं वाव तद्योऽयं बहिर्द्धा पुरुषादाकाशो यो वै स बहिर्द्धा पुरुषादाकाशोऽयं वाव स योऽयमन्तःपुरुष आकाशः यो वै सोऽन्तःपुरुष आकाश: अयं वाव स योऽयमन्तर्हृदय आकाशः’(छा. ३. १२. ७, ८, ९) इत्यु­क्त­रू­पा­का­श­त्रि­त्वस्य तेषा­ञ्चा­का­श­भा­गानां जाग्र­त्स्व­प्न­सु­षु­प्ति­स्था­न­तया ब्रह्मो­प­ल­ब्धि­स्था­नानां स्तुत्यर्थं ब्रह्मै­क्यो­प­दे­शस्य च दर्शनात् तदनुसारेणोक्तम् । अस्माभिस्तु ‘विश्वतः पृष्ठेषु सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेषु’(छा. ३. १३. ७) इति स्ववा­क्य­ग­त­प­द­स­म­भि­व्या­हा­र­स्वा­र­स्यात् , ब्रह्मणि द्युम­र्या­द­त्वा­नु­प­प­त्ति­त­त्स­मा­धा­न­प­र­पू­र्व­प­क्ष­सि­द्धा­न्त­भा­ष्या­नु­गु­ण्याच्च द्युशब्दः स्वर्लोकपरतया व्याख्यातः । सर्वथाऽपि ‘दिवःपर’ इति निर्दे­श­स्या­वि­रो­धात् ‘अथ यदतः परो दिव’ इत्यादिना प्रकृतं त्रिपात् ब्रह्मानूद्य तस्यैव कौक्षे­य­ज्यो­ति­ष्यु­पा­सनं विधीयते , न तु प्रसिद्धज्योतिष इति स्थितम् । अत्राशङ्क्यते –

ज्योति­र्वा­क्य­मृ­ग­प्रा­प्ता­मपि लोका­न्त­र­स्थि­तिम् ।
निर्वर्णयत् कथं नाम स्यात् तदर्थानुवादकम् ॥
कथञ्चिच्च ऋचा प्राप्ता यदि साऽप्युपपाद्यते ।
मुधाऽ­नु­वा­द­स्त­त्त्या­गेऽ­प्यु­पा­स्ति­वि­धि­स­म्भ­वात् ॥
अथे­त्यु­क्तोऽ­धि­का­रश्च प्रकृतात् भेदकोऽस्त्यतः ।
संज्ञाऽ­धि­क­र­ण­न्या­यात् प्रकृ­ता­स्प­र्शि­तो­चिता ॥

‘अथ यदतः पर’ इत्यादि यदुपबन्धयुक्तं वाक्यं न केवलं द्युस­म्ब­न्ध­मात्रं ज्योतिषः कीर्तयति येन तस्या­वि­रो­धो­प­पा­द­न­मा­त्रेण चारितार्थ्यं स्यात् , किन्तु ‘विश्वतः पृष्ठेषु’ इत्यादिना लोकविशेषाणां महिमानं तेषु ज्योति­षोऽ­व­स्था­नञ्च कीर्तयति । न च तदपि ‘तावानस्य’ इत्यृचा प्राप्तम् ; येन तद­र्था­नु­वा­द­क­त्व­मु­क्त­मु­प­प­द्यते । अथ यथा ‘दिवि’ ‘दिवः’ इति निर्देशभेदेऽपि प्राप्ति­रु­प­पा­दिता तथा लोका­न्त­र­स्थि­ते­रपि कथञ्चिदृचा प्राप्ति­रु­प­पा­द्येत, तथाऽपि तदनुवादो व्यर्थः; तत्प्रहाणेऽपि ‘इदं वाव तद्य­दि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः’ इत्यत्र तदिति प्रकृतं त्रिपात् ब्रह्मानूद्य तस्य कौक्षे­य­ज्यो­ति­ष्यु­पा­स­ना­वि­धा­न­स­म्भ­वात् । अपि च अथ­श­ब्दोऽ­त्रा­धि­का­रार्थो निर्दिष्टः । स च प्रकृतात् भेदकः । तस्मात् संज्ञा­धि­क­र­ण­न्या­येन ‘अथ यदतः पर’ इत्यादेः प्रकृ­ता­स्प­र्शि­त्व­मेव युक्तम् ।

‘संज्ञा चोत्प­त्ति­सं­यो­गात्’(जै. सू. २.२.२२) इत्यधिकरणे हि ‘अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यत्र किं प्रकृतं ज्योति­ष्टो­म­म­नूद्य तत्र सह­स्र­द­क्षि­णा­वि­धानं उत ज्योति­रा­दि­ना­म­क­स­ह­स्र­द­क्षि­णा­वि­शि­ष्ट­क­र्मा­न्त­र­वि­धा­न­मिति संशये ‘यजेत’ इत्याख्यातस्य प्रकृ­त­हा­ना­प्र­कृ­त­प­र­त्व­क­ल्प­नाऽ­यो­गात् , ‘एष’ इति च सर्वनाम्नः प्रकृ­त­प­रा­म­र्शि­त्वा­व­श्यं­भा­वाच्च ज्योतिरिति नामैकदेशेन ज्योति­ष्टो­म­म­नूद्य विश्व­ज्यो­ति­स्स­र्व­ज्यो­ति­श्श­ब्दा­भ्या­मपि ज्योति­श्श­ब्दि­त­त्रि­वृ­दा­दि­स­क­ल­स्तो­म­व­त्त्व­नि­मि­त्ताभ्यां तमेवानूद्य तत्र सह­स्र­द­क्षि­णा­वि­धा­न­मिति पूर्वपक्षं कृत्वा ज्योति­रि­त्या­दि­सं­ज्ञा­न्त­राणां स्वतोऽ­र्था­न्त­र­प­र­त्व­स्वा­र­स्येन ज्योति­ष्टो­म­वि­ष­य­त्व­क­ल्प­नाऽ­यो­गात् , कथ­ञ्चि­त्त­द्वि­ष­य­त्व­क­ल्पने ‘सहस्रदक्षिणेन यजेत’ इत्येतावतापि प्रकृते ज्योतिष्टोमे गुण­वि­धा­नो­प­पत्त्या ‘अथैष ज्योतिः’ इत्या­द्य­नु­वा­द­वै­य­र्थ्यात् , अथ­श­ब्दे­ना­धि­का­रा­र्थेन प्रक­र­ण­वि­च्छे­दात् , तद्वशात् एषशब्दानां प्रस्तू­य­मा­न­प­र­त्व­स­म्भ­वाच्च नाम­गु­ण­वि­शि­ष्ट­क­र्मा­न्त­र­वि­धा­न­मिति सिद्धान्तितम् । एवमिहापि प्रकृ­त­त्रि­पा­द्ब्र­ह्मा­नु­वा­द­त्व­क­ल्पने तत्रा­प्रा­प्त­लो­का­न्त­र­स्थि­ति­की­र्त­ना­यो­गात् कथ­ञ्चि­त्प्रा­प्ति­स­म­र्थ­नेन तत्की­र्त­नो­प­पा­द­नेऽ­प्य­नु­वा­द­वै­य­र्थ्यात् , अधि­का­रा­र्था­थ­श­ब्द­ब­लात् यत्पदस्य प्रस्तू­य­मा­न­प­र­त्व­स­म्भ­वाच्च लोक­वि­शे­षा­व­स्थि­त­प्र­सि­द्ध­ज्यो­ति­रा­दि­वि­शि­ष्टो­पा­स­ना­वि­धि­रेव युक्तः, न तु त्रिपा­द्ब्र­ह्मा­नु­वा­देन तदुपासनाविधिः ; ‘त्रिपा­द­स्या­मृतं दिवि’ इत्युपदेशतोऽस्य ऊर्ध्व­लो­क­स्थि­ति­व­र्ण­नेन वैलक्षण्यात् । अधि­का­रा­र्था­थ­श­ब्देन ततोऽस्य भेदनाच्च तद­नु­वा­द­त्वा­यो­गा­दिति ।

अस्यामपि शङ्कायां ‘उभ­य­स्मि­न्न­प्य­वि­रो­धात्’ इति सौत्रमेवोत्तरम् । दिव इति निर्दे­श­स­म­र्थ­न­प्र­कार एव च तत्स­म­र्थ­न­प्र­कारः । तथा हि ‘दिवः पर’ इति निर्देशो ‘दिवि’ इति निर्देशात् विलक्षणोऽपि ‘वृक्षाग्रात् परतश्श्येन’ इति निर्देशवत् न विरुध्यत इति यदुक्तं तस्य खल्वयं फलितोऽर्थः । दिवो यत्कि­ञ्चि­द्भा­गा­व­च्छे­देन सर्व­भा­गा­व­च्छे­देन वा अधि­क­र­ण­त्व­वि­व­क्षा­या­मु­प­पन्नं दिवीति निर्दे­श­मु­प­रि­भा­गा­व­च्छे­देन स्थिति­वि­व­क्षा­या­मे­वो­प­पन्नो ‘दिवः पर’ इति निर्देशस्स्वयं तदनुवादोऽपि ‘कांस्यभोजि’ न्यायेन स्वानु­गु­णा­मु­प­रि­भा­गा­व­च्छे­देन स्थिति­वि­व­क्षा­मु­न्न­य­न्नै­का­र्थ्येन तदविरोधं प्रतिपद्यत इति । एवं लोक­स्थि­ति­नि­र्देशो दिवीति निर्देशात् विलक्षणोऽपि वृक्षा­ग्रा­त्प­र­श्च­ञ्च­री­क­ग­ण­स्स­र्वो­प­रि­स्थि­तेषु सुरभितमेषु कुसुमेषु इति निर्दे­श­व­द­वि­रुद्ध इति न्यायसाम्येन सिद्ध्यति । तेन चायमर्थः फलति – दिव उपरिभागेऽपि सर्वो­प­रि­स्थि­तेषु सर्वोत्तमेषु सर्वेषु लोकेषु स्थितिविवक्षां ‘दिवि’ इति पुरो­वा­द­स्यो­प­ह­र­न्नै­का­र्थ्येन तदविरोधं प्रतिपद्यते – इति । न च वाच्यम् – दिव उपरिभागे तादृ­श­लो­का­स्स­न्तीति पुरो­वा­द­तोऽ­प्रा­प्त­तया तत्सत्ताया इहैव निरूपणीयत्वात् तद­नु­वा­द­त्व­म­यु­क्तम् – इति । पुरोवादेऽपि ‘त्रिपा­द­स्या­मृतं दिवि’ इति दिवमनूद्य तत्र स्थितिविधानपरे द्युस्व­रू­पा­व­ग­त्यर्थं सूर्या­दि­स­त्य­लो­को­प­रि­भू­म्य­न्त­द्यु­स्व­रू­प­नि­रू­प­ण­प­र­व­च­ना­न्त­र­मु­ख­नि­री­क्ष­णा­व­श्य­म्भा­वेन तत­स्त­त्प्रा­प्ति­स­त्त्वात् ।

एते­ना­नु­वा­द­वै­फ­ल्य­श­ङ्काऽपि निरस्ता । ‘पुरोवादे द्युशब्द आकाशपरः स्वर्लोकपरो वा । द्वितीयेऽपि ध्रुव­लो­का­न्त­परः, सत्यलोकान्तपरो वा । सप्तमी सर्व­भा­गा­व­च्छे­दे­ना­धि­क­र­ण­त्व­परा किञ्चि­द्भा­गा­व­च्छे­देन वा’ इति सम्भ­व­द­ने­क­ता­त्प­र्यस्य पुरोवादस्य उपासनार्थं विव­क्षि­त­म­र्थ­वि­शे­ष­मु­प­सं­ह­र­त­स्तस्य सफलत्वात् । एवमनुवादवशात् पुरो­वा­द­स्या­र्थ­वि­शे­ष­व्य­व­स्थितिः तद्व्य­व­स्था­प­क­त्वे­ना­नु­वा­द­सा­फ­ल्य­ञ्चे­त्ये­तत् पूर्वतन्त्रेऽपि नवमाध्याये दर्शितम् ।

तद्यथा – ज्योतिष्टोमे ‘यज्ञायज्ञीयेन स्तुवीत’ इति प्रकृत्य श्रूयते ‘न गिरागिरेति ब्रूयात् यत् गिरागिरेति ब्रूया­दा­त्मा­न­मेव तदुद्गाता गिरेत् ऐरं कृत्वोद्गेयम्’ इति । अत्र यज्ञा­य­ज्ञी­य­साम्न ऋचि ‘गिरागिरा च दक्षसे’ इति श्रूयमाणस्य ‘गिरागिरा’ इति पदस्य प्रतिषेधानुवादः इरापदविधिश्च श्रूयते । कथं ? विधेस्तावत् इरापदसम्बन्धि कृत्वा यज्ञा­य­ज्ञी­य­सा­मो­द्गा­त­व्य­मि­त्यर्थः । ऐरशब्दस्य ‘मतौ च्छस्सू­क्त­साम्नोः’(पा.सू. ५.२.५९) इत्यधिकृत्य ‘विमु­क्ता­दि­भ्योऽण्’(पा. सू. ५. २. ६१) इति विहि­त­म­त्व­र्थी­या­ण्प्र­त्य­या­न्त­त्वात् । यद्वा ‘तस्य विकारः’(पा. सू. ४. ३. १३४) इत्यण्प्रत्यये इराशब्दस्य विकारभूतं गानं कृत्वा यज्ञा­य­ज्ञी­य­सा­मो­द्गा­त­व्य­मि­त्यर्थः । उभ­य­थाऽ­प्य­य­मि­रा­प­द­मा­त्र­विधिः ; प्रकरणतस्तस्य यज्ञा­य­ज्ञी­य­स­म्ब­न्ध­ला­भात् , दृष्टार्थस्य तस्य यज्ञा­य­ज्ञी­य­ग­त­कि­ञ्चि­त्प­द­का­र्या­प­त्त्य­व­श्य­म्भा­वेन तत एव तदीयगानलाभाच्च । तस्य च गिरापदकार्ये विधिरिति गिरा­प­द­प्र­ति­षे­धा­नु­वा­दा­द­व­सी­यते । तथा सति हि कृतकार्यत्वे गिरापदनिवृत्तौ तत्प्र­ति­षे­धा­नु­वाद उपपद्यते । तत­श्चा­नु­वा­द­ब­ला­देव गिरा­प­द­स्था­ना­प­त्ति­रि­रा­प­दस्य व्यवतिष्ठत इत्यनुवादोऽपि सफल इति तन्न्या­य­सा­म्या­दिदं ज्योतिर्वाक्यं प्रकृ­त­त्रि­पा­द्ब्र­ह्मा­नु­वा­दकं तद­र्थ­वि­शे­ष­व्य­व­स्था­प­ना­र्थ­मि­त्ये­वा­ङ्गी­कर्तुं युक्तमिति सर्वमनवद्यम् ।

इदं तु चोद्यमवशिष्टम् – अधि­का­रा­र्था­थ­श­ब्दा­न्व­या­नु­रो­धात् यच्छब्दः प्रस्तूयमानपरः – इति । तत्स­मा­धा­न­स­मु­च्च­या­र्थ­स्सूत्रे अपिशब्दः । नायमपि दोषः प्रसरति ; अथशब्दस्य पूर्व­प्र­कृ­ता­पे­क्षा­वा­चि­त्वो­प­पत्तेः । तेन पूर्वो­पा­स­ना­न्वि­त­ब्र­ह्म­गु­णानां ज्योति­रु­पा­स­ना­या­म­प्य­न्व­य­सिद्ध्या तद्वाचित्वस्य सफलत्वात् , इदमारभ्यत इत्य­नु­क्त्वाऽ­प्या­र­म्भ­स­म्भ­वेन आर­म्भा­प­र­प­र्या­या­धि­का­र­प्र­ति­पा­द­नस्य श्रोतृ­चि­त्त­स­मा­धा­न­मा­त्र­फ­लस्य निष्फ­ल­प्रा­य­त्वात् , प्रकृतं ब्रह्माविहायैव तत्रो­पा­स­ना­न्त­रा­र­म्भा­र्थ­त्व­स­म्भ­वे­ना­धि­का­रा­र्थ­त्वेऽ­प्य­वि­रो­धा­च्चेति तदभिप्रायः । सूत्रे शङ्का­स­मा­धा­न­यो­र्दिवि दिव इति निर्दे­श­वि­ष­य­त्व­प्र­द­र्श­ने­नैव ‘दिवि लोकेषु’ इति निर्दे­श­वि­ष­य­त्व­मपि प्रद­र्शि­त­प्रा­य­मिति भाष्ये तदनुक्तिः । अथ­श­ब्दा­श्रि­त­श­ङ्का­स­मा­धा­न­यो­स्स्प­ष्ट­त्वा­द­नुक्तिः ।१।१॥२७॥

इति ज्योतिरधिकरणम् । १० ।

प्राण­स्त­थाऽ­नु­ग­मात् ।२८।

२८

अस्ति कौषी­त­कि­ना­मु­प­नि­षदि प्रत­र्द­ना­ख्या­यिका – ‘प्रतर्दनो ह वै दैवो­दा­सि­रि­न्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च’(कौ.३.१) इत्या­र­भ्याऽऽ­म्नाता । तस्यां प्रतर्दनं प्रति इन्द्रवचनं श्रूयते ‘प्राणोऽस्मि प्रज्ञात्मा तं मामा­यु­र­मृ­त­मि­त्यु­पास्व’ इति । तत्र प्राण­श­ब्द­नि­र्दिष्टः पञ्च­वृ­त्ति­र्वा­यु­रुत परमात्मेति तावत् संशयः । यद्यपि ‘अत एव प्राणः’(ब्र.सू. १.१.२३) इत्यत्र प्राणशब्दस्य ब्रह्मपरत्वं तल्लि­ङ्गा­न्नि­र्णी­तम् , इहापि तल्लिङ्गमस्ति ‘प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृत’ इति, तथाऽपि न ब्रह्म­लि­ङ्ग­मे­क­मे­वात्र व्यवतिष्ठते , किं तु ‘प्राणोऽस्मि मामुपास्व मामेव विजानीहि’ इती­न्द्र­व­च­न­मि­न्द्र­लि­ङ्गम् । ‘इदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इति प्राणलिङ्गम् । ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति जीव­लि­ङ्ग­मि­त्य­न्य­लि­ङ्गा­न्यपि श्रूयन्ते । तथा च लिङ्गेषु परस्परपराहत्या स्वय­म­कि­ञ्चि­त्क­रेषु प्राण­श्रु­ति­प्र­सि­द्ध्य­ति­क्रमे कारणाभावात् वायुरेव प्राण इति पूर्वपक्षे –

सिद्धान्तः – प्राणः परमात्मा ; तथा परमात्मपरत्वेन प्रकरणस्य उप­क्र­म­प­रा­म­र्शो­प­सं­हारैः अनुगमात् समन्वितत्वात् । उपक्रमे हि ‘तमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इति पर­म­पु­रु­षा­र्थ­रू­प­त्व­मु­प­क्षि­प्तम् । मध्ये च ‘स यो मां विजानीयात् नास्य केनचन कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया’ इति सकलपापास्पर्शो दर्शितः । उपसंहारे च ‘प्राण एव प्रज्ञात्मा’ इत्याद्युक्तम् । न चैतत् सर्वं वायुपक्षे घटते । तस्मादवयविनो महावाक्यस्य ब्रह्मपरत्वे अवगम्यमाने प्राण­श्रु­त्या­दि­क­म­कि­ञ्चि­त्क­रम् । किं च ब्रह्मा­ब्र­ह्म­लि­ङ्गेषु सन्निविष्टेषु अब्रह्मलिङ्गानि ब्रह्मणि योज्यानि ; कारणस्य ब्रह्मणः कार्ये­ष्व­नु­ग­मात् । कार्याकारेण स्थितस्य तस्य तत्त­त्का­र्य­ध­र्मै­रपि सम्बन्धोपपत्तेः , न तु ब्रह्म­लि­ङ्गा­न्य­ब्र­ह्मणि योजनीयानि , अननुगतस्य कार्यस्य कार्या­न्त­रा­नु­ग­त­का­र­ण­ध­र्मेण सम्ब­न्धा­नु­प­प­त्ते­रिति । १.१.२८ ।

एवं स्थितेऽ­पी­न्द्र­लि­ङ्गानां किञ्चि­द्ब­ला­व­ष्ट­म्भेन पूर्व­प­क्षा­न्त­र­मु­त्थाप्य निराकरोति –

न वक्तु­रा­त्मो­प­दे­शा­दिति चेद­ध्या­त्म­स­म्ब­न्ध­भूमा ह्यस्मिन् । २९ ।

२९

इह प्राण­श­ब्द­नि­र्दिष्ट इन्द्र इति युक्तम् , प्रसि­द्ध­स्ये­न्द्रस्य ‘मामेव विजानीहि’ इति वचनाल्लिङ्गात् । न हीदं ब्रह्मणि सङ्गच्छते ; ‘मामेव’ इत्यवधारणेन स्वानु­ग­त­ब्र­ह्म­प­र्य­व­सा­न­व्या­व­र्त­नात् , अन्यथा अव­धा­र­ण­वै­य­र्थ्यात् । हिततमत्वादिकं तु इन्द्र­प­क्षेऽ­प्यु­प­प­द्यते । तथाहि – इन्द्रेण तत्र स्वस्य पापा­सं­स्पृ­ष्ट­त्व­मुक्तं ‘‘त्रिशीर्षाणं त्वाष्ट्रमहनं अरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं बह्वीस्सन्धा अतिक्रम्य दिवि प्रह्ला­दी­न­तृ­ण­ह­म­न्त­रिक्षे पौलोमान् पृथिव्यां कालकक्ष्यान् तस्य मे तत्र न लोम च मीयते’(क..३.१) इति । एतदनुसारेण ‘स यो मां विजानीयात्’ इत्यादिनोक्तं पापा­सं­स्प­र्श­फ­ल­मपि इन्द्रो­पा­स­ना­फ­ल­मि­त्येव युक्तम् ; उपा­स्य­ग­त­गु­णा­नु­सा­रि­त्वात् । तत­श्चे­न्द्रो­पा­स­नस्य पापा­सं­श्ले­ष­फ­ल­तया हित­त­मो­प­क्र­मोऽ­प्यु­प­पन्नः । ब्रह्मपक्षेऽपि हिततमशब्दस्य ताव­न्मा­त्र­प­र­त्व­मेव वाच्यम् , न तु निर­ति­श­या­न­न्द­रू­प­प­र­म­पु­रु­षा­र्थ­प­र­त्वम् । कथम् ? हिततमत्वं तत्र न विज्ञे­य­स्यो­च्यते, किं तु विज्ञानस्य ; ‘एतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजानीयात्’ इत्य­न­न्त­र­वा­क्यात् । विज्ञानं च तत्रोपासनारूपम् ; ‘तं मामा­यु­र­मृ­त­मु­पास्व’ इति तदनन्तरं विशेषितत्वात् । न च ब्रह्मपक्षेऽपि तदुपासना परमपुरुषार्थफला ; तस्य तत्सा­क्षा­त्का­र­फ­ल­त्वात् । ‘प्राणोऽस्मि’ इति श्रुतं प्राणत्वं च इन्द्रस्य बलवत्त्वेन प्राण­प्र­धा­न­त्वा­दु­प­प­द्यते । ‘प्राणो वै बलम्’ इति श्रुतेः । या च काचित् बल­कृ­ति­रि­न्द्र­क­र्मैव तदिति इन्द्रस्य बल­व­त्त्व­प्र­सिद्धेः । एतेन प्राणलिङ्गानां तत्र सङ्ग­ति­र्व्या­ख्याता । जीवलिङ्गानां तत्र जीवविशेषे सङ्गतिस्फुटैव । ‘स एष प्राण एव प्रज्ञा­त्माऽऽ­न­न्दोऽ­ज­रोऽ­मृतः’ इति प्रज्ञा­त्म­त्व­म­प्र­ति­ह­त­ज्ञा­न­त्वा­दु­प­प­न्नम् । अजरोऽमृत इत्येतच्च निर्ज­रा­म­र­त्व­प्र­सि­द्धे­रु­प­प­न्नम् । तस्मादिन्द्र एव प्राण इति पूर्वपक्षः ।

परमात्मेति सिद्धान्तः । अस्मिन् खलु प्रकरणे अध्या­त्म­स­म्ब­न्धानां प्रत्य­गा­त्म­स­म्ब­न्धिनां लिङ्गानां भूमा – बाहु­ल्य­मु­प­ल­भ्यते । तथा हि - ‘यावद्यस्मिन् शरीरे प्राणो वसति तावदायुः’ इति आयुः­प्र­दा­तृ­त्वम् , ‘अस्तित्वे च प्राणानां निश्रेयसम्’ इति इन्द्रि­य­नि­श्रे­य­स­हे­तु­त्वम् , ‘इदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इति शरी­रो­त्था­प­क­त्व­मि­त्या­दीनि बहूनि परा­ची­ना­या­मि­न्द्र­दे­व­ता­या­म­सं­भा­वि­तानि प्रत्य­ग्लि­ङ्गानि दृश्यन्ते ।

न च इन्द्रजीवेऽपि तदायुरवधित्वं तदि­न्द्रि­या­श्र­यत्वं तच्छ­री­रो­त्था­प­क­त्व­मि­त्यादि सम्भवतीति शंक्यम् ; उपा­स­ना­प्र­क­र­ण­ग­तस्य ‘यावद्यस्मिन् शरीरे’ ‘इदं शरीरं परिगृह्य’ इत्यादेः ‘अथ यदिदमस्मिन् ब्रह्मपुरे’(छा.८.१.१) इत्यादेरिव उपा­स­क­श­री­रा­दि­सा­धा­र­ण­श­री­रा­दि­सा­मा­न्य­प­र­त्वस्य उचितत्वेन वक्तृ­श­री­रा­दि­मा­त्र­प­र­तया संकोचायोगात् , ‘यत्रैतत् पुरु­ष­स्सु­प्त­स्स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति’ इत्या­द्य­न­न्त­रा­म्ना­तस्य अस्वप्न इन्द्रे योजयितुमशक्यतया सामा­न्य­प­र­त्वा­व­श्य­म्भा­वेन तत्सा­मा­न्या­दा­यु­रि­न्द्रि­य­श­री­र­प­दा­ना­मपि सामा­न्य­प­र­त्वौ­चि­त्याच्च । ‘अथास्मिन् प्राण एवैकधा भवति’ इति ‘स म आत्मेति विद्यात्’ इति च कथमपि परा­ची­ना­या­मि­न्द्र­दे­व­तायां न सम्भवति । तथा ‘एष ह्येव साधु कर्म कारयति’ ‘एष एवासाधु कर्म कारयति’ इति तस्यां न सङ्गच्छते । ‘एष लोकाधिपतिरेष लोकपाल एष लोकेश आन­न्दोऽ­ज­रोऽ­मृतः’ इत्यादि च पर­मा­त्म­नोऽ­न्यत्र न सम्यगुपपद्यते । तस्मा­द­ध्या­त्म­स­म्ब­न्धिनां लिङ्गा­ना­मि­न्द्रेऽ­स­म्भ­वात् , ‘अयमात्मा ब्रह्म सर्वानुभूः’ इति श्रुते ब्रह्मणि सम्भवाच्च ‘प्राणोस्मि’ इति ब्रह्मोपदेश एवायं न देवतात्मोपदेशः । २.२.२९ ।

कथं तर्हि ‘मामेव विजानीहि’ इति वक्तु­रा­त्मो­प­देशः ?

शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ३० ।

३०

इन्द्र­स्स्वा­त्मानं परमात्मत्वेन अहमेव परं ब्रह्मेति शास्त्रदृष्ट्या पश्यन्नुपदिशति स्म ‘मामेव विजानीहि’ इत्यादि । यथा ‘तद्धै­त­त्प­श्य­न्नृ­षि­र्वा­म­देवः प्रतिपेदे अहं मनुरभवं सूर्यश्च’(बृ.उ. १.४.१०) इति । श्रूयते च ब्रह्मदर्शिनां ब्रह्मात्मभावः ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’(बृ.उ. १.४.१०) इति । ‘मामेव’ इत्येवकारस्तु निर­न्त­रा­भे­दार्थः ‘स एव तदभवत्’ इतिवदिति न विरोधः ।

यत्तु त्वाष्ट्र­व­धा­दि­भि­रि­न्द्रस्य पापा­सं­श्ले­ष­की­र्त­नम् , न तत् उपा­स्य­गु­ण­वि­धा­ना­र्थम् , नापि तस्य उपा­स्य­त्व­सि­द्धये स्तुत्यर्थं ‘यस्मादेवं भूतोऽहं तस्मा­न्मा­मु­पास्व’ इति, किं तु ब्रह्म­ज्ञा­न­स्तु­त्यर्थं – यस्मादीदृशानि क्रूराणि कर्माणि कृतवतोऽपि मम ब्रह्मज्ञानतो लोमापि न हिंस्यते , तस्मादन्योऽपि यो ब्रह्म जानीयात् न तस्य केनापि कर्मणा लोको हिंस्यते – इति । तस्मात् पापा­सं­श्ले­ष­की­र्त­ना­दपि इन्द्रस्य नोपास्यत्वलाभः ।

पुनर्विधान्तरेण पूर्व­प­क्ष­मु­त्थाप्य निराकरोति –

जीव­मु­ख्य­प्रा­ण­लि­ङ्गा­न्नेति चेन्नो­पा­सा­त्रै­वि­ध्या­दा­श्रि­त­त्वा­दिह तद्योगात् । ३१ ।

३१

स्यादेतत् – माभूदिहेन्द्र उपास्यः प्रतिपाद्यः, तथाऽपि जीव­प्रा­ण­ब्र­ह्माणि त्रीणि उपास्यानि प्रतिपाद्यानि स्युः, न तु ज्ञेयं ब्रह्मैव प्रतिपाद्यम् । तथा हि – आयुः­प्र­दा­न­स्वा­तन्त्र्यं तावत् प्राणलिङ्गम् ; ‘प्राणो हि भूतानामायुः’(तै.उ.२.३.१) इति श्रुत्यन्तरात् । शरी­र­स्था­प­क­त्व­मि­न्द्रि­य­नि­श्रे­य­स­हे­तु­त्व­मिति चेदमपि प्राणलिङ्गम् ; प्राणसंवादे वागादीन् प्राणान् प्रकृत्य ‘तान् वरिष्ठः प्राण उवाच मा मोहमापद्यथ अहमेवैतत् पञ्चधाऽऽत्मानं प्रविभज्यैतत् बाणमवष्टभ्य विधारयामि’(प्र.२.३) इति , ‘प्राण उच्चिक्रमिषन् स यथा सुहयः षड्वीशशंकून् सङ्खि­दे­दे­व­मि­त­रान् प्राणान् समखिदत्’(छा.उ. ५.१.१२) इति च श्रवणात् । एवं जीवलिङ्गमपि ‘‘न वाचं विजिज्ञासीत वक्तारं विद्यात् न गन्धं विजिज्ञासीत घ्रातारं विद्यात्’(कौ. ३.८) इत्या­द्यु­प­ल­भ्यते । तस्मा­ज्जी­व­मु­ख्य­प्राणौ तावदिहोपास्यतया प्रतिपाद्यौ । अत एव ‘‘प्राणोऽस्मि प्रज्ञात्मा तं मामा­यु­र­मृ­त­मु­पास्व’(कौ. ३.१) इत्यु­पा­स्य­त्वे­नो­क्तयोः प्राण­प्र­ज्ञा­त्मनोः ‘‘यो वै प्राणस्सा प्रज्ञा या वै प्रज्ञा स प्राण­स्स­है­वै­ता­व­स्मिन् शरीरे वस­त­स्स­हो­त्क्रा­मतः’(कौ. ३.२) इति द्विवचनश्रुत्या सह­वा­स­स­हो­त्क्र­म­ण­लि­ङ्गा­नु­गृ­ही­तया भेदो निर्दिष्टः ।

एतेन – व्यावृ­त्त­जी­व­मु­ख्य­प्रा­ण­लि­ङ्गा­न्य­नु­गते ब्रह्मणि योजयितुं शक्यानीति ब्रह्मैवात्र प्रतिपाद्यम्, तत्रैव प्राण­प्र­ज्ञा­त्मा­दि­श­ब्दा­ना­मा­युः­प्र­दा­तृ­त्वा­दि­लि­ङ्गानां च पर्यवसानमिति पूर्वोक्तं निरस्तम् ; सह­प्र­वृ­त्ति­नि­वृ­त्ति­लि­ङ्गा­नु­गृ­ही­त­द्वि­व­च­न­श्रुत्या प्राण­प्र­ज्ञा­त्म­श­ब्दो­क्त­यो­र्भे­दा­व­ग­मात् । यस्तु तयोः ‘यो वै प्राणः’ इत्यादौ अभेदनिर्देशस्स निय­त­स­ह­वा­स­स­ह­स­ञ्चा­रा­भ्या­मौ­प­चा­रिकः । उप­चा­र­नि­मि­त्त­क­थ­नेन तदौ­प­चा­रि­क­त्वो­प­पा­द­ना­यैव हि ‘सहैवैतौ’ इत्याद्यारम्भः । एवं चोपसंहारे ‘प्राण एव प्रज्ञात्मा’ इत्यादिना ब्रह्मा­प्यु­पा­स्य­त्वेन प्रतिपाद्यमिति त्रीण्यु­पा­स्या­न्यत्र प्रतिपाद्यानि ।

नन्वेवं सति चत्वा­र्यु­पा­स्या­नीति पूर्व­प­क्ष­यि­त­व्यम् । शक्यं हि प्राण­लि­ङ्गा­दि­स्वा­र­स्या­नु­रो­धेन त्रया­णा­मु­पा­स्य­त्व­म­भ्यु­प­ग­च्छता ‘मामेव विजानीहि प्राणोऽस्मि प्रज्ञात्मा’ इत्या­दि­स्वा­र­स्या­नु­रो­धेन चतु­र्थ­स्या­प्यु­पा­स्य­त्व­म­भ्यु­प­ग­न्तुम् ; अध्या­त्म­स­म्ब­न्धि­लि­ङ्गानां यथार्हं मुख्य­प्रा­णा­द्य­न्व­यो­प­पत्तेः । मध्ये प्राण­प्र­ज्ञा­श­ब्द­यो­र्मु­ख्य­प्रा­ण­जी­व­प­र­त्वेऽपि ‘प्राण एव प्रज्ञात्मा’ इत्युपसंहारे ब्रह्मपरत्ववत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्युपक्रमे शक्रपरत्वस्यापि सम्भवात् । ‘तं मामा­यु­र­मृ­त­मु­पास्व’ इत्यस्य शक्रो­पा­स­ना­वि­धि­प­र­त्वेऽपि ‘स म आत्मेति विद्यात्’ इत्युपसंहारे ब्रह्मोपासनाया इव मध्ये ‘तस्मा­दे­त­दे­वो­क्थ­मु­पा­सीत’ ‘वक्तारं विद्यात्’ इति मुख्य­प्रा­ण­जी­वो­पा­स­न­यो­र्वि­ध्य­न्त­र­वि­धे­य­त्वो­प­पत्तेः , ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यादौ मुख्य­प्रा­ण­जी­वो­पा­स­ना­वि­धि­द्व­य­स्वी­कारे ‘आयुरमृतम्’ इत्येकैकस्य विशेषणमुभयमपि उभ­यो­र्वे­त्य­वि­नि­ग­म­प्र­स­ङ्गा­च्चेति चेत् ।

उच्यते । ‘उपास्व’ इत्यनन्तरं ‘‘आयुः प्राणः प्राणो वा आयुः प्राणो वा अमृतं यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः प्राणेन ह्येवामुष्मिन् लोकेऽ­मृ­त­त्व­मा­प्नोति’(कौ. ३.२) इति वाक्य­शे­ष­श्श्रू­यते । अयं च आयु­ष्ट्वा­मृ­त­त्वयोः प्रस्तु­त­प्रा­ण­वि­शे­ष­ण­त्व­नि­र्धा­र­णार्थ इति स्पष्टमेव । अतो न तावदविनिगमः । अत्रैव वाक्यशषे श्रूय­मा­ण­मा­युः­प्र­दा­न­स्वा­त­न्त्र्यञ्च न प्रस्तु­त­प्रा­णा­द­न्य­त्रा­न्वेतुं योग्यम् । समनन्तरखण्डे च ‘‘अस्तित्वेव प्राणानां निश्रेयसम्’(कौ. ३. २) इति प्रस्तुतस्य प्राण­स्या­स्तित्व एवेन्द्रियाणां निश्रे­य­स­मुक्त्वा ‘जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षु­र­पे­तोऽ­न्धान्हि पश्यामः’ इत्यादिना ‘प्राण एव प्रज्ञात्मेदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इत्यन्तेन प्राणस्य शरी­र­स्था­प­क­त्व­व्य­व­स्था­प­क­व­च­न­स­न्द­र्भेण प्रस्तु­त­प्रा­ण­स्यैव पूर्वो­क्त­मा­यु:प्र­दा­न­स्वा­त­न्त्र्य­म­न्व­य­व्य­ति­रे­काभ्यां विवृतम् । एवं सर्वस्मिन्नपि प्राण­ध­र्म­की­र्तने प्रस्तु­त­प्रा­ण­वि­षये सति तदनन्तरं ‘‘अथ यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्या­ख्या­स्यामः’(कौ. ३. ४) इति यथा प्रज्ञाया जीवस्य सर्वाणि भूतानि सम्बन्धीनि भूत्वा तदृश्यत्वेन कल्पितानि वस्तुत एकत्वेन भवन्ति तथा व्याख्या­न­मु­प­क्रम्य ‘वागेवास्याः एकमङ्गमदूदुहत्’ इत्यादिना वाग्व­क्तृ­त्व­ग­न्धा­घ्रा­तृ­त्वा­द्य­ध्या­सा­नु­भ­वि­तृ­त्व­रू­प­प्र­ज्ञा­ध­र्म­की­र्त­न­मपि प्रस्तुत प्रज्ञा­त्म­वि­ष­य­मे­वा­व­ति­ष्ठते ।

न चैवं सति ‘प्राण एव प्रज्ञात्मा’ इत्या­द्यु­प­सं­हा­र­स्यापि प्रस्तु­त­प्रा­ण­प्र­ज्ञा­त्म­वि­ष­य­त्व­प्र­सङ्गः, ‘तद्यथा रथस्यारेषु नेमिरर्पिता’ इत्यारभ्य सर्वा­धा­र­त्वा­न­न्द­त्वा­ज­र­त्वा­म­र­त्व­सा­ध्व­सा­धु­क­र्म­का­र­यि­तृ­त्व­स­क­ल­लो­के­श्व­र­त्व­लि­ङ्गै­रु­प­सं­हा­रस्य ब्रह्म­प­र­त्वा­व­सा­यात् । एवं स्थिते प्राण­प्र­ज्ञा­ग­ता­ध्या­त्म­स­म्ब­न्धि­लिं­गानां ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यतोऽन्यत्र नेतु­म­श­क्य­त्वा­द­य­मु­प­देशो वामदेवस्य मनु­सू­र्या­दि­भा­व­वत् ब्रह्म­भू­त­स्ये­न्द्रस्य प्राणा­दि­भा­वोऽ­प्य­स्तीति मुख्य­प्रा­ण­जी­व­वि­षय एव । उपास्येति च पृथक् पृथक् तदु­भ­यो­पा­स­ना­वि­धा­न­मिति स्वीकर्तव्यम् । अत एव ‘प्राणेन ह्येवामुष्मिन् लोकेऽ­मृ­त­त्व­मा­प्नोति’ इति अमृ­त­त्व­वि­शि­ष्ट­प्रा­णो­पा­स­नस्य तद­नु­रू­प­फ­ल­नि­र्दे­शा­न­न्तरं प्रज्ञो­पा­स­न­स्यापि पृथक् तद­नु­रू­प­फ­ल­नि­र्देशो दृश्यते ‘प्रज्ञया सत्यसङ्कल्पम्’ इति । ‘एत­दे­वो­क्थ­मु­पा­सीत’ इत्यत्र ‘वक्तारं विद्यात्’ इत्यादिषु च पृथक् पृथक् प्राणोपासनां प्रज्ञो­पा­स­ना­ञ्चा­नूद्य शरी­रो­त्था­प­क­त्व­व­क्तृ­त्वा­दि­गु­ण­स­म­र्पणं क्रियते । एतेन – अग्रे प्राण­प्र­ज्ञो­पा­स­ना­वि­धि­द­र्श­नात् ‘प्राणोऽस्मि प्रज्ञात्मा’ इति इन्द्रो­पा­स­ना­वि­धि­रि­त्यपि शङ्का निरस्ता ; तेषा­मु­पा­स्य­गु­ण­स­म­र्प­णा­र्थ­त्वात् ।

यस्तु ‘प्राणोऽस्मि’ इत्यतः प्राक् ‘मामेव विजानीहि’ इति इन्द्रोपदेशः, सः हित­त­म­त्व­स­र्व­पा­पा­सं­स्प­र्श­हे­तु­त्व­लि­ङ्ग­वा­र­स्यात् प्रक­र­णा­व­सा­न­नि­रू­प­णी­य­ब्र­ह्मो­पा­स­न­वि­धि­रिति तत्रापि नेन्द्रो­पा­स­ना­वि­धि­श्श­ङ्क­नीयः । अत एवात्रत्यस्य मामि­त्य­स्या­भि­प्रा­य­स्फु­टी­क­र­णार्थं ‘एष लोकपाल एष लोकाधिपतिः एष लोकेशः’ इत्ये­त­द­न्त­ब्र­ह्म­नि­रू­प­णा­न­न्तरं ‘स म आत्मेति विद्यात्’ इत्युपसंहारः। तस्मा­त्त्री­ण्यु­पा­स्यानि प्रति­पा­द्या­नी­त्येव युक्तं पूर्वपक्षयितुम् ।

नन्वेवं प्रति­पा­द्य­त्र­या­ङ्गी­कारे ब्रह्म­वि­ष­यो­प­क्र­मो­प­सं­हा­रै­क­रू­प्येण ‘प्राणोऽस्मि प्रज्ञात्मा’ ‘प्राण एव प्रज्ञात्मा’ इत्यु­प­क्र­मो­प­सं­हा­रै­क­रू­प्येण च प्रति­प­न्न­स्यै­क­वा­क्य­त्वस्य भङ्गस्स्यादिति चेत् – अस्तु । वाक्या­र्था­व­ग­मस्य पदा­र्था­व­ग­म­ज­न्य­त्वेन उप­जी­व्य­प्र­धा­न­भू­त­प­दा­र्था­व­ग­मा­नु­रो­धेन वाक्यै­क्य­भ­ङ्ग­क­ल्प­न­स्यो­चि­त­त्वात् ।

ननु पुत्रेष्टिविधौ वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यस्मिन् जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति’(तै.सं.२.२.५) इत्यु­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­तै­क­वा­क्य­त्व­नि­र्वा­हा­या­ष्टा­क­पा­ला­दि­वा­क्येषु गुण­फ­ल­वि­ध­य­स्त्यक्ताः । एव­मि­हा­प्ये­क­वा­क्य­त्व­नि­र्वा­हाय मध्य­ग­तो­पा­स्या­न्त­र­त­दु­पा­स­ना­वि­ध­य­स्त्य­क्तु­मु­चिता इति चेत् ।

मैवम् – न हि तत्र एकवाक्यत्वं मा बाधीति श्रूयमाणा गुण­फ­ल­वि­ध­य­स्त्यक्ताः । अष्टा­क­पा­ला­दि­वा­क्येषु विध्यश्रवणात् विधि­यो­ग्य­पु­रु­ष­व्या­पा­र­मा­त्र­स्या­प्य­श्र­व­णात् यच्छ­ब्दो­प­ब­न्धे­ना­नु­वा­द­त्व­स्यैव प्रत्यायनात् अष्टा­क­पा­ला­दि­भ­व­न­पा­व­ना­दि­क­यो­रे­क­का­ल­त्व­नि­र्दे­शेन फल­फ­लि­भा­वा­प्र­तीतेः ‘यस्मिञ्जात’ इति वाक्ये पूतत्वादीनां समुच्चयावगमेन तेषां व्यव­स्थि­ता­ष्टा­क­पा­ला­दि­फ­ल­त्वा­यो­गाच्च , किन्तू­क्त­हे­तु­भि­र­ष्टा­क­पा­ला­दि­वा­क्या­ना­म­व­यु­त्या­नु­वा­द­तया अर्थवादतैव प्रतीयत इति तेषु विध्यकल्पनेन बाध­का­न­व­ता­रा­दे­क­वा­क्यत्वं न बाधितम् । इह स्पष्टमेव श्रूय­मा­णै­रु­पा­स­ना­वि­धिभिः कथमेकवाक्यत्वं न बाधितव्यम् ।

अथापि स्यात् – उपांशुयाजवाक्ये प्रती­तै­क­वा­क्य­त्व­नि­र्वा­हाय मध्ये ‘विष्णुरुपांशु यष्ट­व्योऽ­जा­मि­त्वाय’ इत्या­द­य­श्श्रू­य­माणा अपि विधयस्त्यक्ता इति । सत्यं त्यक्ताः , न त्वेक­वा­क्य­त्वा­नु­रो­धात् , किन्तु जामि­ता­दो­ष­प­रि­हा­रा­या­व­श्य­म­न्त­रा­वाक्ये विधा­व­भ्यु­प­ग­न्तव्ये तत्रैव शाखा­भे­दे­ना­ग्ने­या­ग्नी­षो­मी­य­या­ज्या­नु­वा­क्या­यु­ग­ल­मध्ये पठितानां वैष्ण­व­प्रा­जा­प­त्या­ग्नी­षो­मी­य­या­ज्या­नु­वा­क्या­यु­ग­लानां क्रम­प्र­मा­णे­ना­न्वये सति तत्त­न्म­न्त्रो­दि­तानां विष्ण्वादीनां तत्र यागे देवतात्वस्य प्राप्तत्वात् , विष्ण्वा­दि­वा­क्य­स्थ­य­जीनां सन्नि­हि­त­त­द्या­गा­नु­वा­द­क­त्व­स्वा­र­स्याच्च विधेयाभावेन विष्ण्वा­दि­वा­क्यानां मन्त्र­व­र्ण­प्रा­प्त­वि­ष्ण्वा­दि­दे­व­ताऽ­नु­वा­द­क­त्वस्य वक्तव्यतया तद्या­ग­स्ता­व­क­त्व­प्र­तीतेः ।

ननु ‘न गिरागिरेति ब्रूयादैरं कृत्वोद्गेयम्’ इत्यत्र लिङ्द्व­य­श्र­व­णेऽपि सम­भि­व्या­हा­र­ल­ब्धै­क­वा­क्य­त्व­नि­र्वा­हा­यैव गिरा­प­द­प्र­ति­षे­ध­स्या­नु­वा­द­क­त्व­म­ङ्गी­कृत्य गिरा­प­द­का­र्या­प­त्ति­रि­रा­प­दस्य निर्णीता । नेति ब्रूमः । न हि तत्रै­क­वा­क्य­त्व­नि­र्वा­हाय प्रति­षे­ध­स्या­नु­वा­द­क­त्वा­ङ्गी­कारः , किंत्वा­म्ना­ना­नु­ग्र­हाय विकल्पपरिहाराय च । न खलु यज्ञायज्ञीयस्य ऋक् याव­त्प­द­स­हि­ताऽ­म्नाता तन्मध्ये पद­मा­त्र­व्या­व­र्त­नेन विधि­प्र­ति­षे­ध­यो­श्चा­रि­ता­र्थ्य­स­म्भवे प्रतिषेधेन गिरापदं व्यावर्त्य विधिना पदान्तरमपि व्यावर्तनीयम् । नापि केव­ल­मि­रा­प­द­वि­धानं स्वीकृत्य विक­ल्पा­न­व­का­शी­क­र­ण­स­म्भवे गिरा­प­द­प्र­ति­षे­ध­मपि स्वीकृत्य प्रतिषेधस्य प्राप्ति­पू­र्व­क­त्वात् गिरापदप्राप्तये गिरापदविधिरूपं तस्य प्रकरणपाठेन कल्प्यं शास्त्रमनुमत्य शास्त्र­प्रा­प्तस्य सर्वधा निरासे प्राप­क­व­च­ना­प्रा­मा­ण्य­प्र­स­ङ्गात् ‘न चतुस्त्रिंशत्’ इति मन्त्र­प्र­ति­षे­धस्य प्रति­षे­धो­न्नी­त­त­द्वि­धि­नेव गिरा­प­द­प्र­ति­षे­धस्य तदु­न्नी­त­गि­रा­प­द­वि­धिना सहा­ष्ट­दो­ष­दु­ष्टस्य विकल्पस्यावकाशो दातव्यः । सम्भवति च विधि­प्र­ति­षे­ध­यो­र्द्व­यो­रपि गिरा­प­द­व्या­व­र्त्त­न­मा­त्रेण चारितार्थ्यं विक­ल्पा­न­व­का­शी­क­रणं च, गिरापदकार्य इरापदविधिः प्रति­षे­ध­स्त्वि­रा­प­दस्य गिरा­प­द­का­र्या­प­त्त्याऽ­र्थ­सि­द्धाया गिरा­प­द­नि­वृ­त्ते­र­नु­वाद इति कल्पनया । न चैव­म­नु­वा­द­त्व­क­ल्पने ‘न गिरा गिरेति ब्रूयात्’ इति विधि­श्रु­ते­र­पू­र्वा­र्थ­वि­धा­न­स्वा­र­स्य­बाधो दोषः, प्रति­षे­ध­स्या­न­नु­वा­द­त्व­प­क्षेऽपि प्राप्त­प्र­ति­षे­ध्य­स­म­र्प­णा­र्था­या­स्त­त्र­त्य­वि­धि­श्रु­ते­र­नु­वा­द­त्वा­व­श्य­म्भा­वात् । न च प्रति­षे­ध­स्या­प्रा­प्ता­र्थ­प­र­त्वेन साफल्ये सम्भवति आनुवादत्वेन वैफल्यं दोषः ; गिरापदस्य कार्ये इरापदविधिः न पदान्तरस्येति ज्ञापकतया तल्ल­ब्ध­प्र­ति­षे­धा­नु­वा­दस्य सफलत्वात् । एवञ्चात्र कांस्य­भो­जि­न्या­ये­नै­क­वा­क्य­त्व­नि­र्वा­हाय प्रति­षे­ध­स्या­नु­वा­द­त्वा­ङ्गी­कार इत्यपि सुवचम् ; उक्तरीत्या प्रति­षे­ध­स्या­नु­वा­द­त्वेऽपि साफल्यात् । एतादृश एव च विषये ‘सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदस्तु नेष्यते’ इति प्रवादः । न तु वाक्या­न्त­र्ग­त­श्रु­त्या­दि­बा­ध­नेन यत्रै­क­वा­क्य­त्व­मु­प­पा­द­नीयं तत्रापि । तथा सति सर्वेषामपि वाक्यानामैक्येन बहु­वि­प्ल­वा­पत्तेः ।

ननु ‘तत्प्रतिषिध्य प्रकृ­ति­र्नि­यु­ज्यते सा चतु­स्त्रिं­श­द्वा­च्य­त्वात्’(जै. सू. ९. ४. १८) इति नावमिकाधिकरणे ‘न चतुस्त्रिंशदिति ब्रूयात् षड्विं­श­ति­रि­त्येव ब्रूयात्’ इत्यत्र आश्व­मे­धि­का­श्व­वं­क्री­यत्ता प्रकाशनाय पठितायाः ‘चतु­स्त्रिं­श­द्वा­जिनो देव­ब­न्धो­र्वं­क्री­र­श्वस्य स्वधितिस्समेति’(ऐ. सं. २. ३) इत्यस्या ऋचो ‘न चतुस्त्रिंशदिति ब्रूयात्’ इति प्रतिषेधः । ‘षड्विं­श­ति­रि­त्येव ब्रूयात्’ इति तु चोदकप्राप्तस्य वैशे­षि­क­म­न्त्र­पा­ठेन प्रस­क्त­नि­वृ­त्ति­कस्य पुन­स्त­त्प्र­ति­षे­धेन प्रतिष्ठितस्य ‘षड्विंशतिरस्य वंक्रयः’ इति प्राकृ­त­म­न्त्रस्य यथा­प्रा­प्त्य­नु­वा­द­मा­त्रम् , न तु प्राकृ­त­म­न्त्र­ष्ष­ड्विं­श­ति­प­द­युक्त एव कार्य इति विधायकम् । अत­स्तू­प­र­गो­मृ­ग­यो­र­श्वस्य च वंक्रीणां समस्य वचनं षडशीतिरेषां वंक्रय इत्येवंरूपं न्यायप्राप्तं कर्तव्यमिति निर्णीतम् । तत्र ‘षड्विं­श­ति­रि­त्येव ब्रूयात्’ इत्यत्र विधि­श्रु­ते­र्य­द्वि­धा­य­कत्वं त्यक्तं यच्च निष्फ­ल­म­नु­वा­द­क­त्व­म­ङ्गी­कृत्य तत् एक­वा­क्य­त्व­नि­र्वा­ह­लो­भा­देव । न च – षड्विंशतिपदस्य चतु­स्त्रिं­श­त्य­श्व­वं­क्रि­ष्व­सा­म­र्थ्यात् तत्र विधायकत्वं त्यक्तमिति वाच्यम् ; ‘यद्य­प्य­न्य­दे­वत्यः पशुः आग्नेय्येव मनोता कार्या’ इति­व­द्व­च­न­ब­ला­द­य­था­र्था­भि­धा­न­स­म्भ­वा­दिति चेत् – तत्रापि नेति ब्रूमः । एवकारेण विधि­श­क्ति­प्र­ति­ब­न्धात् तत्र विधायकत्वं त्यक्तम् । षड्विंशतिपदं ह्येव­का­रो­प­स­र्ज­न­त्वात् न स्वयं विधिना सम्बध्यते । किंत्व­न्यो­प­स­र्ज­न­त्वा­दे­व­कार एव । तस्य च निवृत्तिरर्थः । तेन षड्विं­श­ति­म­न्त्रात् यदन्यत् प्राकरणिकं ‘चतु­स्त्रिं­श­द्वा­जिन’ इति वचनं तन्न कर्त­व्य­मि­त्यर्थः फलति । तथाच कथमनुवादकत्वं वारणीयम् । यदि त्वेव­का­र­म­ना­दृत्य एक­वा­क्य­त्व­नि­र्वा­हाय यत्नोऽ­य­मि­त्यु­च्येत, तदा ‘चतु­स्त्रिं­श­द्वा­जिन’ इति वैशेषिकमन्त्र एव चतु­स्त्रिं­श­त्प­द­कार्ये षड्विं­श­ति­प­द­मि­रा­प­द­व­द्वि­धी­यते चतु­स्त्रिं­श­त्प­द­प्र­ति­षे­धश्च गिरा­प­द­प्र­ति­षे­ध­व­द­र्थ­सिद्धः कार्या­प­त्ति­प्र­द­र्श­ना­या­नू­द्यत इत्येव किं न स्यात् । एव­म­प्ये­क­वा­क्य­त्व­स­म्भ­वात् । अनुवादसाफल्यस्य चाधिकस्य लाभात् । तथाऽनभ्युपगमे विधि­श­क्ति­प्र­ति­बन्ध एव शरणमिति अत्रापि स एव हेतु: ।

ननु जर्ति­ल­ग­वी­धु­क­वि­धि­श्रु­त्यो­र्नि­षे­ध्य­स­म­र्प­क­त्वा­भा­वा­दे­व­का­रा­भा­वाच्च विधि­श­क्त्य­प्र­ति­ब­न्धेऽपि ग्राम्या­र­ण्य­प­शु­हिं­सा­रा­हि­त्य­स्तुत्या विधि­श­क्त्यु­त्त­म्भ­नेऽपि पयो­वि­धि­स्ता­व­क­त्वे­ना­वि­धा­य­कत्वं यदङ्गीकृतम् , तत् एक­वा­क्य­त्वा­नु­रो­धा­देव । न च वाच्यम् – अग्रे जर्ति­ल­ग­वी­धु­क­नि­न्दा­पू­र्वकं तद्विधिदर्शनात् तयो­र्वि­धा­य­क­त्व­त्याग इति । चर­म­श्रु­ता­नु­सा­रेण प्रथ­म­श्रु­त­त्या­गा­यो­गात् , जर्ति­ला­दि­नि­न्दाया नहि­नि­न्दा­न्या­येन उदि­ता­नु­दि­त­हो­म­नि­न्दा­व­द्वि­धि­श­क्त्य­प्र­ति­ब­न्ध­क­त्वा­च्चेति चेत् । मैवम् । जर्ति­ल­ग­वी­धु­क­यो­रपि विधिस्वीकारे तयोः पयसश्चेति त्रयाणामपि विक­ल्प­स्स्या­दिति अष्ट­दो­ष­दु­ष्टा­त्य­न्ता­न­न्य­ग­ति­क­वि­क­ल्प­प­रि­हा­रा­यैव ग्राम्या­र­ण्य­प­शु­हिं­सा­रा­हि­त्येन प्रशस्तयोरपि जर्तिलगवीधुकयोः यद­पे­क्ष­याऽ­ना­हु­तित्वं तत्पयोऽत्यन्तं प्रशस्तमिति तत्स्ता­व­क­त्वा­ङ्गी­का­रात् । हिशब्दश्रुतेः ‘न ह्यत्रानूयाजा इज्यन्ते’ इत्यत्र हेतु­प­र­त्वा­ङ्गी­का­रेऽपि तेन ह्यन्नं क्रियत’ इत्यत्र शूर्पस्य दर्वी­पि­ठ­रा­दि­भि­र्वि­क­ल्प­प­रि­हा­राय हेतुपरत्वं त्यक्त्वा हेतु­व­न्नि­ग­दा­र्थ­वा­द­त्व­स्या­ङ्गी­कृ­त­तया तथैवात्रापि विकल्पपरिहाराय श्रुत­वि­ध्यो­र्वि­धा­य­कत्वं त्यक्त्वा विधि­व­न्नि­ग­दा­र्थ­वा­द­त्व­स्या­ङ्गी­क­र्तु­मु­चि­त­त्वात् । यत्तू­दा­हृ­ते­ष्व­धि­क­र­णेषु एक­वा­क्य­त्व­ला­भ­स्सि­द्धा­न्त­हे­तु­तया तत्र तत्रोच्यते, तद­भ्यु­च्च­य­मा­त्रम् । तस्मान्न क्वापि एक­वा­क्य­त्वा­नु­सा­रेण श्रुतविधित्यागः ।

प्रत्यु­तो­प­क्र­मो­प­सं­हा­र­प्र­ती­त­स्यापि एकवाक्यत्वस्यैव तद­न्त­र्ग­त­वि­ध्य­नु­सा­रेण त्यागो दृश्यते । तद्यथा ‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रक्रम्य ‘पर्यग्निकृतं पात्नी­व­त­मु­त्सृ­जति आज्येन शेषं संस्थापयति’ इति श्रूयते । अत्र ताव­त्पा­त्नी­व­त­या­ग­विधिः तदीयपशोः पर्य­ग्नि­क­र­णा­न­न्तरं त्यागविधिः पशौ त्यक्ते सति आज्येन तत्प्रतिनिधिना प्रक्रान्तस्य यागस्य शेष­स­मा­प­न­वि­धि­श्चेति पात्नी­व­त­या­ग­प्र­यो­ग­वि­ष­य­त­यै­क­वा­क्यता प्रतीयते । तत्त­द्वि­धि­प­र्या­लो­च­नायां तु विधेयकर्मभेदेन वाक्यभेदः प्रतीयते । कथम् ? उत्सृजतीत्यनेन यदि यागे अविनियुक्तस्यैव पशोस्त्यागो विधीयते, तदा पशुना याग­स्या­न­नु­ष्ठि­त­तया पशो­र्दे­व­ता­स­म्ब­न्ध­स्या­कृ­त­त्वात् ‘त्वाष्ट्रं पात्नीवतम्’ इत्यत्र द्रव्य­दे­व­ता­स­म्ब­न्ध­श्र­व­ण­म­प्रा­मा­णिकं स्यात् । तथा सति कुतो यागः यस्य समापनीये शेषे आज्य­वि­धा­न­म­र्थ­वत् स्यात् । न ह्यत्र याग­श्श्रु­तोऽस्ति, किंतु आग्नेयादिवाक्य इव द्रव्य­दे­व­ता­स­म्ब­न्धेन कल्प्यः । तस्मात् ‘पर्य­ग्नि­कृ­ता­ना­र­ण्या­नु­त्सृ­जति’ इतिवत् पर्य­ग्नि­क­र­णा­न्ता­ङ्ग­री­ति­र­नेन विधीयत इति स्वीकर्तव्यम् । तथा सति पर्यग्निकरणकाले देवतोद्देशेन पशोस्त्यागात् उत्प­त्ति­वा­क्या­व­गतो द्रव्य­दे­व­ता­स­म्बन्धो यागकल्पकः प्रामाणिको भवति । एवं च मुख्येनैव द्रव्येण याग­स्या­नु­ष्ठि­त­त्वान्न तस्य प्रति­नि­धि­वि­धा­नम् ; अना­का­ङ्क्षि­त­त्वात् । नाप्यु­दी­च्या­ङ्गानां तत्त­त्प्रा­कृ­त­द्र­व्य­बा­धे­ना­ज्य­वि­धा­नम् । क्लृप्तो­प­का­र­प्रा­कृ­ता­ङ्ग­वि­धा­न­नि­रा­का­ङ्क्षस्य पात्नी­व­त­प्र­यो­ग­व­च­न­स्या­ति­दे­शतः प्राकृ­ता­ङ्ग­ग्रा­हि­त्वा­भा­वेन पर्य­ग्नि­क­र­णा­न­न्त­र­म­नु­ष्ठे­या­ना­म­ङ्गा­ना­म­भा­वात् । तस्मात् ‘अज्येन शेषम्’ इति यागान्तरविधिः तस्य पात्नी­व­त­प­दा­नु­ष­ङ्गेण देवतालाभः । एवं पूर्वो­त्त­र­या­गयोः पत्नी­व­द्दे­व­तयोः, पूर्वयागे पर्य­ग्नि­क­र­णान्ते हविः प्रक्षेपं विनैव संस्थिते तद­न­न्त­र­म­व्य­व­धा­नेन हविः­प्र­क्षे­प­स­हि­त­त­द्दे­व­त्या­ज्य­या­गा­नु­ष्ठानं तच्छेषसमापनमिव दृश्यत इति सादृ­श्या­च्छे­ष­सं­स्था­प­य­ति­श­ब्दा­विति । एव­मे­क­वा­क्य­त्व­वि­धि­भे­द­प­क्षयोः प्रतीतयोः नव­मा­न्त्या­धि­क­रणे विधि­भे­द­प्र­ती­त्य­नु­सा­रेण एकवाक्यत्वत्याग एव सिद्धन्तितः । अतोऽत्रापि तथैव स्वीकर्तुं युक्तम् ।

एतेन – वाक्या­र्था­व­ग­मस्य पदा­र्था­व­ग­म­ज­न्य­त्वेऽपि पदार्थावगमो न प्रधानम् , किन्तु वाक्यार्थावगमः , प्रवृ­त्ति­नि­वृ­त्त्या­दि­फ­ल­शा­लिनां वाक्या­र्था­व­ग­म­मे­वो­द्दिश्य पदानां प्रवृत्तेः । तदर्थमेव तैः पदार्थावगमस्य मध्ये क्रियमाणत्वात् । अतः प्रधा­न­वा­क्या­र्थ­वि­रो­धिनो गुणभूताः पदार्था एव प्रधा­न­पु­त्र­वि­रो­धि­पु­त्र­ज­न­ना­न­न्त­र­प्रा­प्त­त­त्पू­त­त्वा­दि­फ­ल­क­पु­त्रे­ष्टि­व­त्त्य­क्तव्या इति – निरस्तम् । द्विव­च­न­श्रु­ति­स­ह­वा­सा­दि­लि­ङ्ग­प्रा­प्तस्य प्राण­प्र­ज्ञा­त्म­भे­दस्य विधि­श्रु­ति­प्रा­प्तानां तत्त­दु­पा­स­ना­वि­धीनां च वाक्या­र्थ­वि­रो­धेन त्यागे श्रुति­लि­ङ्ग­वा­क्या­दि­ब­ला­ब­ल­वै­प­री­त्य­प्र­स­ङ्गात् । ‘स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ इति मन्त्रस्य हि तस्मिन् सीदेति पूर्वो­क्त­सा­पे­क्ष­त्वेन अवगम्यमानैक्यं वाक्यं पूर्वो­त्त­र­भा­ग­व्य­व­स्थि­त­स­द­न­क­र­ण­प्र­ति­ष्ठा­प­न­प्र­का­श­न­सा­म­र्थ्य­ल­क्ष­ण­लि­ङ्ग­वि­रो­धेन वाक्य­भे­द­म­ङ्गी­कृत्य बाधितम् । ‘यदि कामयेत वर्षुकः पर्जन्य: स्यादिति नीचैस्सदो मिनुयात्’ इत्यत्र सदो­मा­न­क­र्त्र­ध्व­र्यु­व­च­नेन ‘मिनुयात्’ इत्यनेन ‘यदि कामयेत’ इत्यस्य सामा­ना­धि­क­र­ण्य­रूपं गुण­का­म­स्या­ध्व­र्य­व­त्व­प्रा­पकं वाक्य­म­ध्व­र्यु­व्या­पा­र­पा­रा­र्थ्य­प­र­प­र­स्मै­प­द­श्रु­ति­वि­रो­धेन ‘यदि कामयेत यजमान’ इत्यध्याहृत्य बाधितम् । एवमिहापि उप­क्र­मो­प­सं­हा­रा­व­ग­तैक्यं वाक्यं श्रुति­लि­ङ्गो­भ­य­वि­रो­धेन वाक्य­भे­द­म­ङ्गी­कृत्य कथं न बाधनीयम् ? न हि सम­भि­व्या­व­हा­रा­व­ग­तै­क्या­द्वा­क्या­दु­प­क्र­मो­प­सं­हा­रा­व­ग­तैक्ये वाक्ये कश्चिदस्ति विशेषः । उपकोसलविद्यायां ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा.४. १०.५) ‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्म’(छा. ४. १५. १) इति उप­क्र­मो­प­सं­हा­रा­व­ग­त­ब्र­ह्म­वा­क्य­मध्ये अग्नि­वि­द्या­वि­धीनां स्वीकृतत्वात् , भूमविद्यायां ‘तरति शोकमात्मवित्’(छा. ७. १. ३) ‘आत्मैवेदं सर्वम्’(छा. ७. २५, २) इत्यु­प­क्र­मो­प­सं­हा­रा­व­ग­त­नि­र्गु­ण­वा­क्य­मध्ये नामा­द्यु­पा­स­ना­वि­धीनां स्वीकृतत्वाच्च । तस्मादिह वाक्य­भे­दा­ङ्गी­कार एव युक्त इति पूर्वः पक्षः ।

राद्धान्तस्तु –
उप­क्र­मो­प­सं­हा­र­मि­त­ता­त्प­र्य­शा­लिना ।
अता­दृ­ग­न्य­श्रु­त्यादि ब्रह्मवाक्येन बाध्यते ॥

श्रुत्या­दि­षू­त्त­र­मपि तात्प­र्य­लि­ङ्ग­वत् प्रबलम् । पूर्वमपि तात्प­र्य­लि­ङ्ग­र­हितं दुर्बलमिति हि स्थितिः । तदि­हो­प­क्र­मो­प­सं­हा­रा­व­ग­मि­त­ता­त्प­र्येण ब्रह्म­वा­क्ये­ना­त­था­भूतं द्विव­च­न­श्रु­त्यादि बाध्यते । ननु श्रुत्यादिषु यदु­प­क्र­मो­प­सं­हा­र­यो­रु­भ­यो­रा­म्रे­डितं तदेव तदु­भ­या­व­ग­मि­त­ता­त्पर्यं सत् अतथाभूतात् पूर्वस्मात् प्रबलं भवति । यथा देव­ता­त्वा­न­न्त­त्वा­दि­लिङ्गं प्राणा­का­शा­दि­श्रुतेः । न चैवं ब्रह्म­वा­क्य­मि­हो­भ­यत्र परामृश्यते । गायत्रीप्रकरणे श्रुतं ‘यद्वै तत् ब्रह्म’(छा. ३. १२. १६) इति ‘इदं वाव तत्’(छा. ३. १३. ७) इति एत­द्ब्र­ह्म­वा­क्यम् । तादृशमिह यद्युभयत्रापि श्रूयेत, तदैव तदु­भ­या­व­ग­मि­त­ता­त्पर्यं स्यात् । न चैवमिहास्ति, किंतू­प­क्र­मो­प­सं­हा­र­प­र्या­लो­च­न­यो­प­क्र­म­प्र­भृ­त्यु­प­सं­हा­र­प­र्य­न्त­मेकं ब्रह्म­वा­क्य­मि­त्ये­ता­व­द­व­ग­म्यते । तस्मा­दि­हो­प­क्र­मो­प­सं­हारौ ब्रह्म­वा­क्य­स्व­रू­पा­व­ग­म­का­वेव, न तु तस्य ब्रह्म­ता­त्प­र्या­व­ग­म­का­विति चेत् । मैवं । स्वरूपावगमकयोः तात्प­र्या­व­ग­म­क­त्व­स्या­प्य­वि­रु­द्ध­त्वात् तात्पर्यावगमने क्लप्तस्य तत्सामर्थ्यस्य स्वरू­पा­व­ग­म­क­त्वेन वैक­ल्या­प्र­सक्तेः । न हि उप­क्र­मो­प­सं­हा­रयोः प्रत्ये­क­वि­श्रा­न्त­त्वे­ना­वृ­त्ति­म­त्येव श्रुत्या­दि­प्र­माणे तयो­स्ता­त्प­र्य­व­त्त्व­ग्रा­ह­क­त्वम् , न तूभ­या­नु­स्यू­त­त्वे­ना­वृ­त्ति­र­हित इत्यस्ति नियमः । श्रुत्यादिषु यदेवोभयसम्बन्धि तत्र तयो­स्ता­त्प­र्य­व­त्ताऽ­व­ग­म­क­त्वात् । अपि च ‘येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थ’ इति न्यायात् उप­क्र­मो­प­सं­हा­र­प्र­ति­ष्ठितं ब्रह्म तात्पर्यविषयतया ताभ्या­म­व­ग­मि­त­मिति ब्रह्म ताव­द­त­था­भू­ता­ज्जी­वात् मुख्यप्राणाच्च प्रबलम् । अतः प्रब­ल­प्र­मे­या­श्रयं ब्रह्मवाक्यं दुर्ब­ल­प्र­मे­या­श्रि­तात् जीव­मु­ख्य­प्रा­ण­वि­ष­य­श्रु­त्या­दितः प्रबलम् । प्रमाणस्य स्वरू­प­प्र­यु­क्त­ब­ला­दपि प्रमे­या­श्र­य­ब­ल­स्या­धि­क­त्वात् । अत एव प्रधा­न­भू­ता­च­म­ना­दि­प­दा­र्था­श्र­यायाः ‘क्षुत आचामेत्’ इत्यादिस्मृतेः ‘वेदं कृत्वा वेदिं करोति’ इत्या­दि­प­दा­र्थ­गु­ण­भू­त­क्र­म­वि­ष­य­श्रु­त्य­पे­क्षया प्रबलत्वमुक्तं शिष्टा­को­पा­धि­क­रणे (जै. सू. १. ३. ४) । तस्मा­दि­हो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­मि­त­ता­त्प­र्य­वता उप­क्र­मो­प­सं­हा­रा­व­ग­मि­त­ता­त्प­र्य­वि­ष­य­भा­व­ब्र­ह्मा­श्र­येण च वाक्येन ज्ञेयं ब्रह्मैकमेवात्र प्रति­पा­द्य­मि­त्य­भ्यु­प­ग­न्त­व्यम् । त्रयाणां जीव­मु­ख्य­प्रा­ण­ब्र­ह्म­णा­मु­पा­स्यानां प्रतिपाद्यत्वे वाक्य­भे­द­प्र­स­ङ्गात् ।

ननु वाक्यभेदभयात् माभूवन् त्रीण्यु­पा­स्यानि प्रतिपाद्यानि । ब्रह्मौकमेव ‘मामेव विजानीहि’ इति विधि­स्वा­र­स्या­दु­पास्यं प्रतिपाद्यं किं न स्यात् ? न स्यात् । हित­त­म­त्व­लि­ङ्ग­वि­रो­धात् । तथाहि – हिततमत्वं ‘यन्मां विजानीयात्’ इत्युपात्तस्य विज्ञा­न­स्यो­च्य­मानं तस्य विशु­द्ध­ब्र­ह्म­सा­क्षा­त्का­र­रू­पतां व्यवस्थापयति । हिततमत्वं हि निर­ति­श­य­पु­रु­षा­र्थत्वं निर­ति­श­य­पु­रु­षा­र्थ­सा­ध­क­त­मत्वं वा स्यात् । उभयथाऽपि तद­ख­ण्डा­न­न्द­वि­ष­य­कस्य निखि­ला­न­र्थ­नि­वृ­त्ति­पू­र्व­का­ख­ण्डा­न­न्द­रू­प­ब्र­ह्मा­वा­प्ति­सा­ध­क­त­मस्य विशु­द्ध­ब्र­ह्म­सा­क्षा­त्का­र­स्यैव युज्यते । न च वाच्यम् – ‘विजानीयात्’ इत्यु­प­क्र­म्याग्रे ‘उपास्व’ इति तत्परामर्शात् विशे­ष­श्रु­त्य­नु­सा­रेण विज्ञा­न­प­द­मु­पा­स­ना­प­र­मि­त्य­त­स्त­त्रैव हित­त­म­त्व­मा­पे­क्षिकं योजनीयमिति । उपक्रमगततया प्रश्नो­त्त­राभ्यां प्रति­पि­पा­द­यि­षि­त­तया च प्रबलेन हिततमत्वलिङ्गेन विज्ञानपदस्य ‘विशु­द्ध­ब्र­ह्म­सा­क्षा­त्का­र­प­र­त्वा­व­श्य­म्भा­वेन प्रकृतविज्ञाने प्रयुज्यमानस्य उपासनापदस्यापि तत्साक्षात्कारे स्वतः प्राप्ता­वृ­त्त्य­नु­वा­द­क­त्व­क­ल्प­न­स्यो­चि­त­त्वात् । एवं च ‘विजानीहि’ इत्यादिषु विधि­श्रु­ती­ना­म­वि­धे­य­फ­ल­रू­प­ब्र­ह्म­सा­क्षा­त्का­र­वि­षये कुण्ठि­त­श­क्ति­क­त्वे­ना­वि­धा­य­क­त्वात् ‘गोसदृशं गवयं विद्धि’ ‘‘आत्मानं रथिनं विद्धि’(क. १. ३. ३) इत्या­दि­लौ­कि­क­वै­दि­क­वा­क्य­रीत्या प्रति­पा­द्य­पु­रु­षा­भि­मुखी कर­णा­र्थ­तै­वा­भ्यु­प­ग­न्तव्या ।

एतेन ‘एत­दे­वो­क्थ­मु­पा­सीत’ ‘वक्तारं विद्यात्’ इत्याद्यपि व्याख्यातम् ; सार्वा­त्म्य­प्र­ति­प­त्तये प्राण­ध­र्मै­र्जी­व­ध­र्मैश्च प्रतिपाद्यमाने ब्रह्मणि तस्यापि विधिसरूपस्य प्रति­पा­द्य­पु­रु­ष­चे­त­स्स­मा­धा­ना­र्थ­त्वो­प­पत्तेः । द्विव­च­न­श्रु­त्या­दिकं तु न प्रतिपाद्यपरम् , किन्तु ज्ञान­क्रि­या­श­क्त्या­श्र­ययोः बुद्धिप्राणयोः प्रत्य­गा­त्मो­पा­धि­भू­त­यो­र्नि­र्दे­श­परं प्रत्य­गा­त्म­न­स्त­त्त­दु­पा­धि­कृ­त­वि­शे­ष­प­रि­त्या­गेन तत्स्व­रू­प­मे­त­त्प्र­क­र­ण­प्र­ति­पाद्यं ब्रह्मैवेति दर्शयितुम् । अत एवो­पा­धि­द्व­यो­प­हि­तस्य प्रत्यगात्मनः स्वरू­पे­णा­भे­द­म­भि­प्रेत्य ‘यो वै प्राणस्सा प्रज्ञा या वै प्रज्ञा स प्राण’ इत्यभेदोऽपि निर्दिष्टः । तस्मात् प्रब­ल­त­र­लि­ङ्ग­वा­क्य­बा­ध्य­त्वात् विरो­धि­श्रु­ति­लि­ङ्गानां ब्रह्मैकमेवात्र प्रतिपाद्यमिति सिद्धम् ।

सूत्रस्य त्वयमर्थः । जीव­मु­ख्य­प्रा­ण­यो­रपि लिङ्गसत्वात् ब्रह्मैकमेवात्र न प्रतिपाद्यम् , अतः ‘प्राणोऽस्मि’ इति प्राणशब्दो वक्ष्य­मा­णा­युः­प्र­द­त्वा­दि­लि­ङ्गा­नु­सा­रेण मुख्यप्राणपरो वाच्य इति प्राणो ब्रह्म न भवतीति चेत् । न । तथा सत्यु­पा­सा­त्रै­वि­ध्य­प्र­स­ङ्गात् । न च त्रिवि­धो­पा­स­ना­भ्यु­प­ग­न्तारं प्रति तत्प्रसङ्गो नानिष्ट इति वाच्यम् । तथा सति वाक्यभेदापत्तेः । एकस्यैव च वाक्यस्य आस­म­न्ता­दु­प­क्र­मो­प­सं­हा­रा­श्रि­त­त्वात् । तस्य च उप­क्र­मो­प­सं­हा­रा­व­ग­मि­त­ता­त्प­र्य­कस्य जीव­मु­ख्य­प्रा­ण­लि­ङ्गेभ्यो बलवत्वात् , उप­क्र­मो­प­सं­हा­रा­व­ग­मि­त­ता­त्प­र्य­वि­ष­य­भा­व­ब्र­ह्म­रू­प­प्र­ब­ल­प्र­मे­या­श्रि­त­त्वा­दपि –

‘दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदाऽपि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥’
इति न्यायेन तस्य बलवत्त्वाच्च । तस्मा­द्वा­क्य­भे­द­प­रि­हा­राय ब्रह्मैकमेवात्र प्रति­पा­द्य­म­भ्यु­प­ग­न्त­व्य­मिति प्राणो ब्रह्मैव । अन्यत्रापि ब्रह्म­लि­ङ्गा­नु­सा­रेण प्राणशब्दस्य ब्रह्मणि वृत्ते­रा­श्रि­त­त्वात् । इह सर्वात्मत्वेन विवक्षिते ब्रह्मणि तस्य सम­न­न्त­र­व­क्ष्य­मा­णस्य जीव­मु­ख्य­प्रा­ण­लि­ङ्ग­नि­का­यस्य युक्तत्वात् ।

न च – एकवाक्यत्वबलात् प्राणशब्दस्य ब्रह्मणि वृत्तावपि ‘मामेव विजानीहि’ इत्या­द्य­नु­रो­धात् उपस्तिवाक्य इवोपास्ये ब्रह्मणि वृत्तिरस्त्विति शङ्कनीयम् ; इहो­पा­स­ना­वि­धि­भ­ञ्ज­क­हि­त­त­म­त्वा­दि­लि­ङ्ग­यो­गा­दिति ।

यद्यपि मुख्यः प्राणः प्रतिपाद्य इति पूर्वपक्षे प्राण­श्रु­ति­र­प्यस्ति, तथाऽपि तामालम्ब्य पूर्वपक्षः ‘प्राण­स्त­थाऽ­नु­ग­मात्’ इति सूत्र एव निराकृतः, इह तु प्राण­श्रु­ति­वि­षये प्रवृ­त्तै­रा­युः­प्र­दा­तृ­त्वा­दि­लिङ्गैः तत्र­त्य­पू­र्व­प­क्ष­नि­रा­क­र­ण­हे­तू­प­म­र्देन तस्यैव प्राणशब्दस्य मुख्य­प्रा­ण­प­र­त्व­मा­शं­क्यत इति विभावयितुं सूत्रे श्रुतिमुल्लंध्य लिङ्गा­दि­त्यु­क्तम् । न च तथाऽपि द्विव­च­न­श्रु­ति­र­स्तीति वाच्यम् ; तस्य प्रति­पा­द्य­भे­द­मात्रे श्रुतित्वेऽपि जीव­मु­ख्य­प्रा­णयोः श्रुति­त्वा­भा­वात् ।

यत्तु भाष्ये उपा­सा­त्रै­वि­ध्या­दि­त्यस्य व्याख्यानान्तरं ‘न ब्रह्मवाक्येऽपि जीव­मु­ख्य­प्रा­ण­लिङ्गं विरुध्यते, उपा­सा­त्रै­वि­ध्यात् । त्रिविधमिह ब्रह्मण उपासनं विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च’ इति तत् वृत्ति­का­र­प­क्षो­प­न्या­स­मा­त्रम् , न त्वस्य प्रकरणस्य त्रिवि­धो­पा­स­ना­प­रत्वं भाष्यकाराभिमतम् ; हित­त­म­त्वा­दि­वि­रो­धेन विधि­श­क्ति­कु­ण्ठ­न­स्यो­क्त­त्वात् । प्रागु­क्त­वा­क्य­भे­द­दो­षा­न­ति­वृ­त्तेश्च । न ह्यत्रो­पा­स­ना­त्र­य­वि­शिष्टं ब्रह्म विधातुं शक्यम् ; तस्य विध्यनर्हत्वात् , किन्तु ब्रह्म­ण्यु­पा­स­ना­त्रयं विधातव्यम् । तच्च परस्परानन्वयि स्वतन्त्रमिति कथं न वाक्यभेदः ?

न च वाच्यं – नेहोपासनात्रयं विधीयते । किंत्वे­क­मे­वो­पा­सनं ब्रह्मणो रूपत्रयविशेषितं ‘तम्मा­मा­यु­र­मृ­त­मु­पास्व’ इत्यनेन विधीयते । तत्र मामिति जीव­वि­शि­ष्ट­तोक्ता । ‘आयुः’ इति प्राणविशिष्टता । ‘अमृतम्’ इति स्वरूपमुक्तमिति । तावता इन्द्र­मु­ख्य­प्रा­ण­वि­शि­ष्ट­ब्र­ह्मो­पा­स­ना­ला­भेऽपि इन्द्रस्य ‘तं माम्’ इति विशेषणेन पूर्वो­क्त­त्व­ष्टृ­ह­न­ना­दि­गु­ण­क­त्व­ला­भेऽपि वक्तृ­त्व­ग्रा­तृ­त्व­द्र­ष्टृ­त्व­श्रो­तृ­त्वा­दि­गु­ण­क­त्वस्य वक्ष्य­मा­ण­स्या­ला­भात् , प्राण­स्या­यु­ष्ट्व­गु­ण­क­त्व­ला­भेऽपि इन्द्रि­य­नि­श्रे­य­स­हे­तु­त्व­श­री­रो­त्था­प­क­त्वा­दि­गु­ण­क­त्वस्य वक्ष्य­मा­ण­स्या­ला­भाच्च । तत्त­द्गु­ण­वि­शि­ष्टे­न्द्र­प्रा­ण­वि­शे­षि­त­ब्र­ह्मो­पा­स­न­सि­द्धये ‘वक्तारं विद्यात्’ इत्यादिषु ‘एत­दे­वो­क्थ­मु­पा­सीत’ इत्यत्र च विध्यन्तराणां स्वीक­र्त­व्य­त्वेन वाक्य­भे­द­दो­षा­न­ति­ल­ङ्ग­नात् । न च अवाक्यभेदार्थं वक्ष्य­मा­ण­स­र्व­गु­ण­वि­शि­ष्टे­न्द्र­प्रा­ण­वि­शे­षि­त­ब्र­ह्मो­पा­सनं ‘तं मामा­यु­र­मृ­त­मु­पास्व’ इत्यत्रैव विधेयं स्वीक्रियत इति वाच्यम् ; अत्र वक्ष्य­मा­ण­त­त्त­द्गु­ण­स­म­र्प­क­श­ब्दे­ष्व­श्रू­य­मा­णेषु तत्त­द्गु­णो­पा­स­ना­वि­धिषु चाग्रे श्रूयमाणेषु तथा स्वीका­र­स्यै­वा­यु­क्त­त्वात् , अन्यथा ‘अग्निहोत्रं जुहोति’ इत्यत्रापि अवाक्यभेदार्थं प्रक­र­ण­ग­त­वि­ध्य­न्त­र­श्रु­त­द­ध्या­दि­वै­क­ल्पि­क­स­क­ल­द्र­व्य­वि­शि­ष्टा­ग्नि­हो­त्र­वि­धि­रिति कल्पनापत्तेः ।

न च – अग्नि­हो­त्र­वा­क्येन दध्या­दि­वा­क्या­ना­मिव ‘तं मामायुः’ इति वाक्येन ‘एतदेवोक्थम्’ इत्या­दि­वा­क्यानां गुणविधायकतया वाक्यै­क­वा­क्य­त्वेन एक­वा­क्य­ता­नि­र्वा­होऽ­स्त्विति वाच्यम् । तथाऽपि ब्रह्म­स्व­रू­पो­पा­स­ना­विधेः ‘तं मामायुरमृतम्’ इत्यादावलाभेन ‘स म आत्मेति विद्यात्’ इत्यत्रैव तद्वि­धे­स्स्वी­क­र्त­व्य­त्वात् । न हि ‘अमृतम्’ इत्यनेन तल्लाभः ; ‘प्राणो व आयुः प्राण एवामृतम्’ इति वाक्यशेषेण आयु­ष्ट्व­स्ये­वा­मृ­त­त्व­स्यापि प्राण­वि­शे­ष­णी­क­र­णात् । तस्मा­दे­क­वा­क्य­ताऽ­नु­रो­धात् ज्ञेय­ब्र­ह्म­प­र­मे­वेदं प्रकरणम् , न जीव­मु­ख्य­प्रा­णो­पा­स­ना­वि­धि­ग­र्भम् , तत्त­द्गु­ण­वि­शि­ष्ट­जी­व­मु­ख्य­प्रा­ण­वि­शे­षि­त­ब्र­ह्मो­पा­स­ना­वि­धि­गर्भं वा । यत्तु भूमविद्यायां ज्ञेय­ब्र­ह्म­प्र­क­र­ण­म­ध्येऽपि नाम­वा­गा­द्यु­पा­स­ना­वि­धि­स्वी­क­र­णम् तत् नाम­वा­गा­दी­ना­मु­त्त­रो­त्त­र­भू­य­स्त्व­नि­रू­प­णा­व­सरे श्रुतेषु ‘नामोपास्व’ ‘वाचमुपास्व’ इत्यादिषु श्रुतानां नाम­वा­गा­दि­श­ब्दा­ना­मिह जीव­मु­ख्य­प्रा­ण­लिं­गा­ना­मिव ब्रह्मणि पर्य­व­सा­न­स्या­भ्यु­प­ग­न्तु­म­यु­क्त­त्वात् । तदभ्युपगमे हि ब्रह्म­ण­स्स्व­स्मा­देव भूयस्त्वमुक्तं स्यात् ।

ननु तथाऽ­प्ये­क­वा­क्य­ता­नि­र्वा­हार्थं ‘नामोपास्व’ इत्या­दि­वि­धि­स्त्य­ज्य­ताम् । नामा­दि­प्र­स­ङ्ग­मा­त्र­स्यो­त्त­रो­त्त­र­भू­य­स्त्व­नि­रू­प­ण­द्वारा ब्रह्म­ण­स्स­र्व­तो­भू­य­स्त्व­प्र­ति­पा­दन एव तात्पर्यवतः ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३. ३. १४) इत्य­धि­क­र­णो­क्त­न्या­येन ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः’(क. १.३.१०) इत्यादौ इन्द्रि­या­दि­प्र­सं­ग­व­दे­क­वा­क्य­ताऽ­वि­रो­धि­त्वा­दिति चेत् ।

न । ‘नामोपास्व’ इत्या­दि­वि­धा­ना­न्तरं ‘स यो नाम ब्रह्मे­त्यु­पास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मे­त्यु­पास्ते’(छा. ७. १.५) इत्यादिप्रकारेण नामादिषु ब्रह्म­प­द­सा­मा­ना­धि­क­र­ण्य­स्या­भ्य­स्त­स्ये­ति­शि­र­स्क­तया उपा­स­ना­क­र्म­स­म­र्प­कस्य ब्रह्म­दृ­ष्टि­वि­शे­षि­त­ना­मा­द्यु­पा­स­ना­विधिं विना अनु­प­प­न्न­त्वे­ना­न­न्य­था­सि­द्ध­तया अन्या­र्थ­प्र­सक्तं नामा­दि­क­मा­श्रित्य गोदो­ह­ना­दि­न्या­येन उपासनाविधीनामपि स्वीकरणीयत्वात् । एवं ‘भूमविद्यायां दर्शनात् तद्दृ­ष्टा­न्त­ब­ला­देव, स्थितेऽ­प्ये­त­स्मि­न्न­धि­क­रणे, उप­क्र­मो­प­सं­हा­राभ्यां सम­स्तो­पा­स­ना­प­रस्य वैश्वा­न­र­प्र­क­र­णस्य मध्ये व्यस्तो­पा­स­ना­वि­ध­योऽपि स्वीकर्तव्या’ इत्युत्थितस्य पूर्वपक्षस्य निराकरणार्थं तृतीयेऽध्याये ‘भूम्नः क्रतुवत्’(ब्र.सू्. ३. ३. ५७) इत्यधिकरणं प्रवर्तिष्यते ।

उपकोसलविद्यायां ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि’(छा.४.११.१) इति ‘स य एतमेवं विद्वानुपास्ते अपहते पापकृत्याम्’(छा.४.११.२) इत्या­दि­गा­र्ह­प­त्या­दि­वा­क्यानि यद्यपि शास्त्रदृष्ट्या ब्रह्मणि योजयितुं शक्यन्ते, तथाऽपि ‘एषा सोम्य तेऽस्मद्विद्या चात्मविद्या च’(छा.४.१४.१) इति आत्म­वि­द्या­तोऽ­ग्नि­वि­द्यायाः पृथक् कीर्तनात् , अग्निविद्याया अपि कथ­ञ्चि­दा­त्म­वि­द्या­त्व­न­य­नेऽपि ‘य एष आदित्ये पुरुषः’ ‘य एष चन्द्रमसि पुरुष:’ ‘य एष विद्युति पुरुष’ इति व्यव­स्थि­त­वि­ष­य­तया निर्दिष्टानां गार्ह­प­त्या­दि­वि­द्यानां ‘प्राणो ब्रह्म’ इति ब्रह्म­दृ­ष्टि­वि­शे­षि­त­हि­र­ण्य­ग­र्भो­पा­स­ना­याश्च विधानेन वाक्य­भे­दा­व­श्य­म्भा­वाच्च ब्रह्मो­पा­स­ना­प्र­क­र­ण­म­ध्येऽपि उपा­स­ना­न्त­रा­वि­धयः स्वीकृताः । न चेह तथा अन­न्य­था­सि­द्ध­म­ने­क­वि­द्या­स­मु­च्च­य­व­च­न­मस्ति । तस्मात् ज्ञेय­ब्र­ह्म­मा­त्र­प­र­मे­वेदं प्रकरणमिति सिद्धम् । १. १. ३१ ।

इति प्रत­र्द­ना­धि­क­र­णम्
इति श्रीम­द्भा­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­स­र्व­त­न्त्र­स्व­त­न्त्र­च­तु­र­धि­क­श­त­प्र­ब­न्ध­नि­र्वा­ह­क­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­वर सत्सु­त­म­हा­व्र­त­या­जि­श्री­म­द­प्प­य्य­दी­क्षि­त­पा­दानां कृतौ शारी­र­क­मी­मां­सा­न्या­य­र­क्षा­मणौ प्रथ­म­स्या­ध्या­यस्य प्रथमः पादः समाप्तः ।

द्वितीयः पादः

प्रथमे पादे स्पष्ट­ब्र­ह्म­लि­ङ्गानि वाक्यानि निर्णीतानि । अथा­स्प­ष्ट­ब्र­ह्म­लि­ङ्गानि निर्णेतुं पादान्तरारम्भः । इदञ्च तत्र तत्राधिकरणे स्फुटीकरिष्यते । जन्मादिसूत्रे निर्णीतं ब्रह्मणो जगत्कारणत्वं तदाक्षिप्तं सर्वज्ञत्वं सर्वात्मत्वं व्यापित्वं नित्य­त्व­मि­त्ये­व­मा­दयो धर्मा इह सिद्ध­व­द्ब्र­ह्म­लि­ङ्ग­त्वे­नो­पा­दी­यन्त इति प्रथ­म­पा­दो­प­जी­व­क­त्वा­त्त­दा­न­न्त­र्यम् ।

सर्वत्र प्रसि­द्धो­प­दे­शात् ।१।

छान्दोग्ये श्रूयते ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति । स क्रतुं कुर्वीत’ ‘मनोमयः प्राणशरीरो भारू­प­स्स­त्य­स­ङ्कल्पः आकाशात्मा सर्वकर्मा सर्व­का­म­स्स­र्व­ग­न्ध­स्स­र्व­रसः’(छा.उ.३.१४.१.२) इत्यादि अत्र ‘शान्त उपासीत’ इत्यत्र ‘स क्रतुं कुर्वीत’ इति विहि­ता­मु­पा­स­ना­म­नूद्य शान्ति­रू­प­गु­ण­मा­त्र­वि­धि­र्ला­घ­वा­दिति स्थिते ‘स क्रतुं कुर्वीत’ इत्य­नि­र्दि­ष्टो­पा­स्या­या­मु­पा­स­नायां किं मनो­म­या­दि­वा­क्य­शे­ष­ग­त­लि­ङ्ग­स­म­र्पितो जीव उपास्यः , उत ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यो­प­क्र­म­ग­त­ब्र­ह्म­श्रु­ति­स­म­र्पितं ब्रह्मेति वाक्यो­प­क्र­म­स्या­न्या­र्थ­त्वा­न­न्या­र्थ­त्वाभ्यां सन्देहः ।

तत्र पूर्वपक्षः – मनोमयत्वं प्राणशरीरत्वं च तावज्जीवलिङ्गम् । यद्यपि ‘मनोमय’ इति मयटो विका­र­प्रा­चु­र्या­द्य­ने­का­र्थ­धी­सा­धा­र­ण्यात् , प्राणः शरीरमस्येति प्राणे शरीरत्वरूपणस्य येन केनचित् सम्बन्धेन निर्वोढुं शक्य­त्वा­च्चा­धि­ष्ठा­न­त्व­नि­य­न्तृ­त्वा­दि­रू­प­म­नः­प्रा­ण­स­म्ब­न्ध­वति ब्रह्मण्यपि कथ­ञ्चि­द्यो­ज­यितुं शक्यम् , तथाऽपि मनः­प्रा­ण­स­म्ब­न्धि­त्व­प्र­ति­पा­दने तद­भा­व­व­त्त्व­प्र­ति­पा­दन इव तयोर्जीवेन सहो­प­क­र­णो­प­क­र­णि­भा­व­ल­क्ष­ण­स­म्बन्ध एव लोकवेदयोः प्रसिद्धतरो ग्राह्यः , नतु ब्रह्मणा सह तयो­र­प्र­सि­द्ध­स्स­म्बन्धः ; प्रसि­द्ध­स­म्बन्धे प्रथमं बुद्ध्यवतारात् । अत एव खलु ‘अप्राणो ह्यमनाः’(मु.उ.२.१.२) इति ब्रह्मणि मनःप्राणनिषेधो झटिति स्वारस्येनैव बुद्धिमारोहति । न तु घटवति भूतले ‘घटाभाववत् भूतलम्’ इत्या­प्त­वा­क्य­म­नु­प­प­न्न­तया शङ्कितं सत् समवायसम्बन्धेन घटा­भा­व­व­त्प­र­मि­त्यु­प­पा­द­न­मिव ‘अप्राणो ह्यमना’ इति श्रुति­वा­क्य­म­धि­ष्ठा­न­त्वा­दि­स­म्ब­न्धेन मनःप्राणवति ब्रह्मणि कथ­म­प्रा­ण­त्व­म­म­न­स्क­त्व­ञ्चे­त्य­नु­प­प­न्ना­र्थ­तया शङ्कितं सत् भोगोपकरणभावेन मनः­प्रा­णा­भा­व­व­त्प­र­मि­त्यु­प­पा­द­न­म­पे­क्षते ।

न च वाच्यम् – मनः­प्रा­ण­यो­र्जी­व­स­म्ब­न्धि­त्व­प्र­सि­द्धा­वपि मनो­म­य­प्रा­ण­श­री­र­शब्दौ ‘मनोमयः प्राणशरीरनेता’(मु.उ.२.२.७) ‘स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयं पुरुषो मनोमयः’(तै.उ.१.६.१) इत्यादिश्रुतिषु ब्रह्मण्येव प्रसिद्धौ । ततोऽ­र्था­नु­स­न्धा­नात् पूर्वमेव बुद्धिस्थया शब्दप्रसिद्ध्या अत्रापि मनो­म­य­प्रा­ण­श­री­र­श­ब्द­यो­र्ब्र­ह्म­प­र­त्व­सिद्धौ तत्र सम्भ­व­त्स­म्ब­न्ध­प­र­तया मय­ट्प्र­त्य­य­श­री­र­त्व­रू­पके योजनीये स्याताम् इति ; श्रुत्य­न्त­रे­ष्व­प्य­र्था­नु­सा­रेण तयो­र्जी­व­प­र­त्व­स्यै­वा­ङ्गी­का­रेण ब्रह्मणि तत्प्र­सि­द्ध्य­स­म्प्र­ति­पत्तेः , पञ्च­को­शा­न्त­र्ग­त­म­नो­म­य­श­ब्दस्य जीव­प­र­त्व­द­र्श­नाच्च । न च श्रुत्यन्तरेषु तयोर्जीवपरत्वे ब्रह्म­प­र­प­दा­न्त­र­सा­मा­ना­धि­क­र­ण्य­वि­रोधः ; अङ्गुष्ठाधिकरण(ब्र.सू.१.३.७) न्यायेन जीव­ब्र­ह्मा­भे­द­प्र­ति­पा­द­ना­र्थ­त्वो­प­पत्तेः । न चात्रापि तयो­र्ब्र­ह्म­ण्येव तद­भि­न्न­जी­व­द्वारा वृत्ति­स्स्या­दिति वाच्यम् । मनः­प्रा­ण­स­म्ब­न्धेन प्रथमं बुद्धिस्थस्य जीव­स्यै­वो­पा­स्य­त­याऽ­न्व­य­स­म्भ­वेन तमतिलंघ्य तद्द्वारा ब्रह्मणि पर्य­व­सा­न­क­ल्प­नायां ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति विहितस्य सामि­धे­न्य­भ्या­सस्य प्रथमप्रतीतं स्थान­ध­र्म­त्व­म­ति­लङ्घ्य तद्द्वारा प्रवो­वा­जी­या­दि­ऋ­ग्ध­र्म­त्व­क­ल्प­ना­व­द­यु­क्त­त्वात् । न चात्रो­प­रि­त­न­स­त्य­स­ङ्क­ल्प­त्वा­दि­ब्र­ह्म­लि­ङ्गा­नु­सा­रेण तथा कल्पनं युक्तमिति शङ्क्यम् । ‘सत्यसङ्कल्प’ इत्यस्य प्रथ­म­श्रु­त­म­नो­म­य­त्वा­दि­जी­व­लि­ङ्गा­नु­सा­रेण सति. ब्रह्मणि , असङ्कल्पः सङ्कल्परहितः , ब्रह्मज्ञानरहित इति जीवे व्याख्या­तु­मु­चि­त­त्वात् । ‘सर्वकर्मा सर्वकाम’ इत्यादेर्जीवे पर्या­ये­णो­प­पत्तेः ; युगपत् ब्रह्म­ण्य­प्य­स­म्भ­वाद् । ‘ज्यायान् पृथिव्याः’ इत्यादेः ‘अन्त­र्हृ­द­येऽ­णी­यान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामा­क­त­ण्डु­लाद्वा’ इति तत्पू­र्व­श्रु­त­हृ­द­या­य­त­न­त्वा­णी­य­स्त्वा­वि­रो­धेन जीव एव ब्रह्म­भा­वा­पे­क्षया कल्पयितुं युक्तत्वात् । ‘एष म आत्मा’ इति व्यति­रे­क­नि­र्दे­शस्य ‘एतमितः प्रेत्या­भि­स­म्भ­वि­तास्मि’ इति प्राप्य­प्रा­प्तृ­भा­व­नि­र्दे­शस्य च औपचारिकत्वेन साध­क­फ­ला­व­स्था­भे­देन च जीवे सङ्गमयितुं शक्यत्वात् । ‘एतत् ब्रह्म’ , इत्युपसंहारे ब्रह्म­स­ङ्की­र्त­नस्य क्वचित् ‘परब्रह्म’ इति परमात्मनि सवि­शे­ष­ण­व्य­व­हा­र­द­र्श­नेन जीवेऽ­प्य­वि­रु­द्ध­त्वाच्च ।

स्यादेतत् – भवेदेवं जीव उपासस्यो यदि मनो­म­या­दि­वा­क्य­शेष उपा­स­ना­क­र्म­स­म­र्पकः स्यात् । न त्वयमेवम् । तत्र मनोमयादिपदानां प्रथमान्ततया ‘स क्रतुं कुर्वीत’ इति प्रकृ­तो­पा­स­ना­क­र्तृ­वि­शे­ष­ण­स­म­र्प­क­त्वात् । किन्तु ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रम एवो­पा­स­ना­क­र्म­स­म­र्पकः । तत्र ब्रह्मपदस्य द्विती­या­न्त­त्व­स­म्भ­वा­दिति चेत् । मैवम् । मनो­म­या­दि­प­दा­ना­म­न­पे­क्षि­तो­पा­स­ना­क­र्तृ­वि­शे­ष­ण­स­म­र्प­कत्वं परित्यज्य विभ­क्ति­वि­प­रि­णा­मे­ना­पे­क्षि­त­त­त्क­र्म­स­म­र्प­क­त्व­क­ल्प­न­स्यैव युक्तत्वात् , क्रतुशब्देन द्विती­या­न्त­स्यापि ब्रह्म­प­द­स्या­न­न्व­येन षष्ठ्यन्ततया विभ­क्ति­वि­प­रि­णा­मस्य तत्रा­प्या­व­श्य­क­त्वात् । न चोभयत्रापि विभ­क्ति­वि­प­रि­णामे विनिगमनाविरहः , स्ववा­क्य­शे­षा­दु­पा­स्य­ग्र­ह­ण­स­म्भवे परा­र्थ­वा­द­त­स्त­द्ग्र­ह­णा­यो­गात् । शमविधौ हेतु­व­न्नि­ग­दा­र्थ­वादो हि ‘सर्वं खलु’ इत्याद्युपक्रमः । यस्मात् सर्वमिदं विकारजातं ब्रह्मैव तज्ज­त्वा­त्त­ल्ल­त्वा­त्त­द­न­त्वाच्च , न च सर्व­स्यै­का­त्मत्वे रागा­द­य­स्स­म्भ­वन्ति ; तस्माच्छान्त उपासीतेति तदेकवाक्यत्वात् ।

ननु तथाऽपि तद्ग­त­ब्र­ह्म­प­दा­न्वयो मनोमयादिपदानां विशे­ष्या­का­ङ्क्षया अपेक्षितः । तथा च तेषा­मु­पा­स्य­स­म­र्प­क­त्वेऽपि ब्रह्मणि पर्यवसानात् ब्रह्मैवोपास्यं सिद्ध्येदिति चेत् ; न । तेषां स्ववा­क्य­स्था­न­न्या­र्थ­स­मा­न­लि­ङ्गा­त्म­श­ब्द­स­म­र्पि­त­वि­शे­ष्या­न्व­य­स­म्भवे वाक्या­न्त­र­स्था­न्या­र्थ­ब्र­ह्मा­नु­क­र्षा­यो­गात् , ‘आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्या­द्य­ग्नि­र­ह­स्य­ब्रा­ह्म­णेऽस्यां विद्या­या­मा­त्म­न­एव विशे­ष्य­त्व­द­र्श­नाच्च ।

ननु तथाऽपि प्राणः शरीरमस्येति सर्वनामार्थे विहितो बहुव्रीहिः प्रकृतं ब्रह्मैव परामृशेत् , न तु प्रक­रि­ष्य­मा­ण­मा­त्मा­नम् ; सर्वनाम्नां प्रकृ­त­प­रा­म­र्शि­त्वात् । नपुं­स­क­लि­ङ्ग­नि­र्दि­ष्ट­स्यापि ब्रह्मणो विशे­ष्य­भू­ता­त्म­प­दा­नु­सा­रि­लि­ङ्ग­वता ‘प्राणशरीरः’ इत्यनेन पराम्रष्टुं शक्यत्वात् , ‘तस्मिन् सीद’ इति­व­द­न्या­र्थ­नि­र्दि­ष्ट­स्यापि सर्वनाम्ना परा­म­र्श­स­म्भ­वाच्च । न च वाच्यं – ‘स क्रतुं कुर्वीत’ इति विहि­ता­मु­पा­स­ना­म­नूद्य ‘सर्वं खलु’ इत्यादिना सार्थवादेन वाक्येन शमगुणो विधेयः । तथा च प्रथमपठितमपि तत् अर्थानुसारात् पाश्चात्यमेवेति ततः प्रागे­वो­पा­स­ना­वि­धे­स्स­वि­ष­यस्य पर्यवसानं वक्तव्यम् । अतः प्रव­र्ति­ष्य­मा­ण­वि­ध्य­र्थ­वादः तदु­प­जी­व्य­वि­धि­प­र्य­व­सा­नाय विषयसमर्पक इत्येतन्न युक्तम् – इति । भाव्य­र्था­नु­स­न्धा­ने­नापि सवि­ष­य­को­पा­स­ना­वि­धि­प­र्य­व­सा­नो­प­पत्तेः । उपां­शु­या­ज­वि­धि­प्र­वृ­त्त्य­न­न्त­र­भा­वि­क्र­म­प्र­मा­ण­क­या­ज्या­नु­वा­क्या­न्व­य­ल­भ्य­वि­ष्णु­दे­व­त्य­त्वा­द्य­नु­स­न्धा­नेन ‘विष्णुरुपांशु यष्टव्य’ इत्या­दि­स्तु­ति­स­हि­तो­पां­शु­या­ज­वि­धि­प­र्य­व­सा­न­द­र्श­नात् । एवञ्च –
’सर्वनाम प्रसिद्धार्थं प्रसा­ध्या­र्थ­वि­घा­त­कृत् ।
प्रसि­द्ध्य­पेक्षि सत् पूर्व­वा­क्य­स्थ­म­प­क­र्षति ॥’

इति ज्योतिरधिक रणोक्तन्यायेनैव मनो­म­या­दि­वा­क्यस्य ब्रह्मपरत्वं सिद्ध्यति । न च तत्र प्रकृ­त­प­र­त्व­प्र­त्य­भि­ज्ञा­प­कोऽस्ति द्युसम्बन्धः ; नात्र प्रकृ­त­प्र­त्य­भि­ज्ञा­प­कोऽ­स्तीति वैषम्यं शङ्कनीयम् । सर्वनाम्नः प्रकृतपरत्वस्य व्युत्प­त्ति­सि­द्ध­त्वेन तत्सिद्ध्यर्थं प्रकृ­त­प्र­त्य­भि­ज्ञा­प­का­न­पे­क्ष­णात् । ‘सा वैश्व­दे­व्या­मिक्षा तत्संसृष्टं प्राजापत्यम्’ इत्यादिषु प्रत्य­भि­ज्ञा­प­का­भा­वेऽपि सर्वनाम्नः प्रकृ­त­प­र­त्व­द­र्श­नात् । ज्योति­र्वा­क्येऽपि ‘दिवि’ ‘दिवः’ इति निर्देशभेदेन द्युसम्बन्धस्य वस्तुतः प्रत्य­भि­ज्ञा­प­क­त्वा­भा­वा­च्चेति चेत् ; मैवं । मनोमयशब्दस्य प्रसि­द्ध­स­म्ब­न्धा­नु­रो­धेन जीवपर्यवसायितया तदु­प­स्था­पि­त­जी­व­स्यैव सर्वनामार्थेन बहुव्रीहिणा परामर्शसम्भवात् , तदसम्भवेऽपि प्राण­स­म्ब­न्ध­रू­प­व­र्ति­प­दा­र्थ­प्र­सि­ध्य­नु­रो­धेन प्रक्रं­स्य­मा­न­स्या­त्मनः परा­म­र्श­स­म्भ­वाच्च । प्रक्रा­न्त­प­रत्वे वर्ति­प­दा­र्थ­स्वा­र­स्य­भ­ङ्गा­पत्तेः । सर्वनाम्नः प्रक्रा­न्त­प­र­त्वा­स­म्भवे च प्रक्रं­स्य­मा­न­प­रत्वं ‘अथैष ज्योतिः’ इत्यादिवन्न दुष्यति ।

एतेन – मा भूच्छ­म­वि­ध्य­र्थ­वादः स्वातन्त्र्येण वा मनोमयादिवाक्ये विशे­ष्य­स­म­र्प­क­तया वा सर्व­ना­मा­र्थ­स­म­र्प­क­तया वा ब्रह्मण उपा­स्य­त्व­सं­यो­जकः । त्रिपा­द्ब्र­ह्म­प्र­क­र­ण­म­व्य­व­हिते ज्योति­र्वा­क्येऽ­प्य­नु­वृत्तं तथा स्यादित्यपि शङ्का निरस्ता ; सम­भि­व्या­हृ­त­वा­क्य­शे­षो­पा­त्त­लि­ङ्ग­स­म­र्पि­तस्य जीव­स्यो­पा­स्य­त्वे­ना­न्व­य­स­म्भवे प्रक­र­ण­स­म­र्पि­तस्य ब्रह्म­ण­स्त­था­त्वे­ना­न्व­या­यो­गात् । लिङ्ग­वा­क्याभ्यां प्रकरणस्य दुर्बलत्वात् ।

ननु वाक्य­शे­ष­ग­त­जी­व­लिङ्गं निष्प्रयोजनम् । न ह्यपू­र्वा­र्थ­बो­ध­नाय मनो­म­य­त्व­प्रा­ण­श­री­र­त्वो­प­न्यासः ; जीवे तदु­भ­य­वै­शि­ष्ट्यस्य लोकसिद्धत्वात् , उपासनावाक्यशेषे तद­नु­प­यो­गि­जी­व­स्व­रू­प­नि­रू­प­ण­स्या­न­पे­क्षि­त­त्वाच्च । नाप्युपास्यो जीव इति गमयितुं तदुपलक्षणाय , एकेनैव तदु­प­ल­क्ष­ण­सि­द्धा­वि­त­र­वै­य­र्थ्यात् । नापि तदु­भ­य­वि­शि­ष्ट­त्वेन तदुपासनासिद्धये ; मन­स्सं­व­लि­त­रू­प­तया सदा अहमिति भासमाने जीवे विधिं विनाऽपि तद्वि­शि­ष्ट­त­यै­वो­पा­स­ना­सिद्धेः । एवं निष्प्र­यो­ज­ना­द्वा­क्य­शे­ष­स­म­र्पि­त­जी­व­लि­ङ्गात् सर्वा­भि­ल­षि­त­ब्र­ह्म­प्र­क­रणं बलवदिति तदे­वो­पा­स्य­स­म­र्पकं युक्तमिति चेत् ; न । नित्य­म­हं­प्र­त्य­य­वि­ष­य­त­यो­पा­स­ना­वि­ष­य­त्वे­नापि प्राप्तात् मन­स्ता­दा­त्म्या­द­न्य­त्रैव मनोविकारत्वे स्वप्न­जा­ग­रा­नु­वृ­त्त­म­नः­प्र­चु­रत्वे मनःप्रधानत्वे वा ‘द्वयोः प्रणयन्ति’ इत्यस्य चोद­का­प्रा­प्त­प्र­ण­य­ना­न्तर इव वृत्तिसम्भवेन जीव­लि­ङ्ग­प्र­ति­पा­द­न­स्यो­पा­स­ना­र्थ­त्वे­नैव सप्रयोजनत्वात् । तस्मा­न्म­नो­म­या­दि­वा­क्य­शे­ष­ग­त­लि­ङ्ग­स­म­र्पितो जीव एवोपास्य इति । अत्रोच्यते –
प्रकृ­त­ब्र­ह्म­ण­स्स­र्व­ता­दा­त्म्ये­नो­प­दे­शतः ।
क्रतौ तदे­वा­न्या­र्थ­मु­पास्यं प्रमिमीमहे ॥

‘सर्वं खल्विदं ब्रह्म’ इत्यु­प­क्र­म­वाक्ये तावत्सर्वस्मिन् प्रपञ्चे ‘इदं ब्रह्म’ इती­दं­श­ब्द­स­मा­ना­धि­कृ­तेन ब्रह्मशब्देन परामृष्टं त्रिपाद्ब्रह्म तादा­त्म्ये­नो­प­दि­श्यते । इदमित्येतद्धि ब्रह्मणो विशेषणं , न तु सर्वस्य ; तद्विशेषणत्वे प्रयोजनाभावात् , ‘सर्वं ब्रह्म’ इत्येतावतैव सर्वस्य ब्रह्मा­त्म­क­त्व­सिद्धेः । ब्रह्म­वि­शे­ष­णत्वे त्वस्ति प्रयोजनं प्रकृ­त­त्रि­पा­द्ब्र­ह्मा­धि­का­र­लाभः । स च प्रकृतस्य प्रय­त्ने­ना­धि­का­रः­स्वा­न­र्थ­क्य­प­रि­हा­राय क्रतौ वाक्य­शे­ष­ग­त­लिङ्गं बाधित्वा स्वय­मु­पा­स्य­त्वेन ब्रह्म­स­म­र्प­णार्थः पर्यवस्यतीति तदेव प्रक­र­ण­स­म­र्पि­त­म­न­न्यार्थं सर्वात्मकं ब्रह्मा­त्रो­पा­स्य­मि­त्य­ध्य­व­स्यामः ।

ननु ‘सर्वं खल्विदं ब्रह्म’ इत्यादि शमविध्यर्थवाद इति दर्शितं भाष्यकृता पूर्वपक्षे । सिद्धान्तेऽपि तदनुमत्यैव ब्रह्मण उपा­स्य­त्व­मु­प­पा­दितं ‘यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम्’ इत्यादिना । कथ­म­न­न्या­र्थ­क­त्वेन तस्यो­पा­स्य­स­म­र्प­क­त्व­मु­च्यते ? सत्यम् । त्रिपा­द्ब्र­ह्मा­नु­क­र्ष­णा­र्थे­दं­वि­शे­ष­ण­ब­ला­दु­पा­स्य­स­म­र्प­णा­र्थे­नापि तेन सन्निहितस्य शमविधेः स्तुतिद्वारा अर्थसमर्पणरूप उपकारः प्रस­ङ्गा­त्सि­द्ध्य­तीति सिद्धान्ते तदनुमतिः , न तु शमविधिशेषतया , ‘सर्वं ब्रह्मात्मकम्’ इत्येतावतैव शम­वि­धि­शे­ष­त्व­स­म्भ­वेन तदर्थत्वे ‘इदम्’ इति विशे­ष­ण­वै­य­र्थ्यात् ।

ननु शमविधिस्तुतौ ‘सर्वं ब्रह्मात्मकम्’ इति धीरपेक्ष्यते । उपा­स्य­स­म­र्प­णार्थं प्रकृतस्य त्रिपा­द्ब्र­ह्म­णः­स्व­प्रा­धा­न्ये­ना­धि­कार इत्यभ्युपगमे सर्वस्य तज्जत्वादिकं परंपरया हेतूकृत्य तद्धे­तु­क­स­र्वा­त्म­त्व­शालि प्रकृतं ब्रह्म प्रतिपाद्यं वक्तव्यमिति कथं तेन शम­वि­धे­रु­प­का­र­सिद्धिः ? सत्यम् । ब्रह्म­ण­स्स­र्वा­त्म­क­त्व­प्र­ति­पा­दने सर्वस्य ब्रह्मा­त्म­क­त्व­म­प्य­र्था­ल्ल­भ्यत इति तेन तस्यो­प­का­र­सिद्धिः ।

ननु ‘यद्यपि शमविधिविवक्षया’ इति भाष्यस्वारस्येन शमविधिशेषत्वमेव भाष्यकृदभिमतं प्रतीयते । कथं प्रास­ङ्गि­को­प­का­रा­भि­प्रायं तद्व्याख्यायते ? तत्स्वा­र­स्या­नु­रो­धेन श्रुताविदंशब्द एव ‘इदं सर्वं यदयमात्मा’ इत्या­दि­श्रु­ता­विव सर्वविशेषणमिति व्याख्यायताम् । उच्यते – अत्रेदंशब्दस्य प्रकृ­त­त्रि­पा­द्ब्र­ह्मा­नु­क­र्ष­णा­र्थ­तया ब्रह्म­वि­शे­ष­ण­त्वेन सार्थकत्वे सम्भवति परि­दृ­श्य­मा­न­प्र­प­ञ्च­स्व­रू­पा­नु­वा­द­मा­त्र­प­रत्वं न वक्तव्यमित्येव भाष्य­कृ­तोऽ­भि­सन्धिः । अत एव ज्योतिरधिकरणे(ब्र.सू.१.१.१०) ज्योतिर्वाक्ये त्रिपा­द्ब्र­ह्मा­नु­वृत्तौ विवदमानं पूर्वपक्षिणं प्रति द्युस­म्ब­न्ध­प्र­त्य­भि­ज्ञा­प­नेन तत्र तदनुवृत्तिं प्रसाध्य तस्यामेव हेत्वन्तरमुक्तं ‘न केवलं ज्योतिर्वाक्य एव ब्रह्मा­नु­वृत्तिः ; परस्यामपि हि शाण्डि­ल्य­वि­द्या­या­म­नु­व­र्ति­ष्यते ब्रह्म’ इति । अनेन हि भाष्यवाक्येन पर­त्रा­प्य­नु­वृ­त्ति­र­त्रा­नु­वृ­त्त्य­व­श्यं­भावे हेतुत्वेन दर्शिता । सा कथं ज्योति­र्वा­क्येऽपि त्रिपा­द्ब्र­ह्मा­नु­वृ­त्ति­म­न­ङ्गी­कु­र्वाणं पूर्वपक्षिणं प्रति सिद्ध­व­द्धे­तु­भावं प्रतिपद्येत यद्यत्र त्रिपा­द्ब्र­ह्मा­नु­क­र्ष­णै­क­प्र­यो­ज­ने­दं­वि­शे­ष­ण­सा­मर्थ्यं नाश्रीयते ? भाष्ये शम­वि­धि­शे­ष­त्वो­प­न्या­सस्तु शम­वि­धि­शे­ष­त्व­म­ङ्गी­कृ­त्यापि परिहर्तुं शक्यत इत्यभिप्रायः प्रौढिवादः । प्रौढिवादत्वं च तस्य भाष्य एव ‘यद्यपि’ इत्यनेन ध्वनितम् ।

तत्रायं परिहाराभिप्रायः – यद्यपि ब्रह्म शमविध्यर्थवादे परविशेषणत्वेन निर्दिष्टम् , तथाऽपि ब्रह्मैव तद्गु­ण­क­त­यो­पा­स्य­मिति बुद्धिसन्निहितं भवति , न जीवः ; मनो­म­य­त्वा­दि­गु­णानां जीवपर्यवसाने हेय­गु­ण­त्वा­द्धे­य­गु­णानां चात्रैव प्रदर्शितेन तत्क्रतुन्यायेन विरुद्धतया अनुपासनीयत्वात् । अत्र हि ‘यथा­क्र­तु­र­स्मि­न्लोके पुरुषो भवति तथेतःप्रेत्य भवति’ इति वाक्येनोपासको यद्गु­ण­वि­शि­ष्ट­त­यो­पास्ते , तद्गुणकः स्वयं परत्र भवतीति तत्क्रतुन्यायो दर्शितः । कथं तद्गु­णो­पा­स­ना­मा­त्रेण स्वयं तद्गु­ण­कः­स्या­दिति विचिकित्सायाम् ‘अथ खलु क्रतुमयः पुरुष’ इति पूर्ववाक्येन यस्मात् क्रतु­श­ब्दि­त­ध्या­न­प्र­धानो जीवः , न तूपा­या­न्त­र­प्र­धानः अतो ध्यानमात्रेण तत्त­द्गु­ण­कः­स्या­दे­वे­त्यु­प­प­त्ति­रपि दर्शिता । एवं सोपपत्तिकमत्रैव दर्शि­त­स्त­त्क्र­तु­न्या­योऽ­त्रा­नु­प­कु­र्वन् विप­री­ता­र्थ­ता­मा­प­द्यते चेत् क्वान्य­त्रो­प­कु­र्यात् ? एवमप्यत्र नाद­र­णी­य­स्स्या­द­न्य­त्रै­वो­प­कारः स्यात् यद्यत्र मनोमयादिवाक्ये जीव एवाहत्य निर्दिष्टः स्यात् । तदा हि पञ्चा­ग्नि­वि­द्या­वत् सांसा­रि­क­हे­य­गु­ण­वि­शि­ष्ट­जी­व­वि­ष­याऽ­प्येषा वचनबलात् सत्य­स­ङ्क­ल्प­त्वा­द्या­वि­र्भा­व­स­म्पा­द­क­ब्र­ह्म­प्रा­प्ति­हे­तु­र्भ­वेत् , न तु तत्र जीवः स्वश­ब्दो­पा­त्तोऽ­स्तीति ।

ननु मनो­म­य­त्वा­दि­षू­प­दि­श्य­मा­नेषु ब्रह्म केनोपायेन बुद्धिसन्निहितं भवतीति चेत् ; विश्व­जि­न्न्या­ये­नेति ब्रूमः । यथा विश्वजिद्विधिना तस्य सामान्यत इष्ट­सा­ध­न­त्वा­व­ग­ता­वि­ष्ट­वि­शे­षा­का­ङ्क्षायां सर्वा­भि­ल­षि­त­स्व­र्ग­इ­ष्ट­वि­शे­ष­तया बुद्धिसन्निहितो भवति , तथोपासनाविधिना सामान्यत उपास्यसिद्धौ तद्वि­शे­षा­का­ङ्क्षायां मनो­म­या­दि­वा­क्य­स्व­र­स­वि­ष­यस्य जीव­स्यो­पा­स्य­त्वा­यो­ग्यत्वे सर्वा­भि­ल­षि­त­स­त्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­वि­शि­ष्ट­तया सर्व­वे­दा­न्त­प्र­सिद्धं ब्रह्मै­वो­पा­स्य­वि­शे­ष­तया सम­न­न्त­र­प्र­द­र्शि­त­त­त्क्र­तु­न्या­य­विदां बुद्धिसन्निहितं भवति । यद्यपि वाक्य­शे­ष­स्व­र­स­वि­ष­यस्य जीव­स्यो­पा­स्य­त्वेन परिग्रहे रात्रि­स­त्र­न्या­योऽ­नु­सृतो भवति , रात्रि­स­त्र­न्या­यश्च विश्व­जि­न्न्या­यात् बलीयान् , तथाऽप्यत्र हेय­गु­ण­जी­वो­पा­स­ना­प­र्य­व­सा­यि­तया निष्प्र­यो­ज­ना­द्रा­त्रि­स­त्र­न्या­यात् उत्कृ­ष्ट­गु­ण­ब्र­ह्मो­पा­स­ना­प­र्य­व­सा­यि­तया सप्रयोजनो विश्वजिन्न्यायो बलीयानिति स एवात्रानुसरणीयः । यद्वा सर्वनामार्थो बहुव्रीहिः मन­स्स­म्ब­न्धा­दि­प्र­सि­ध्यु­प­स्था­पि­तेऽपि जीवे हेयगुणे पर्य­व­सा­न­स्या­यु­क्त­तया शम­वि­ध्य­र्थ­वा­द­नि­र्दिष्टे ब्रह्मणि पर्य­व­स्य­ती­त्य­नेन प्रकारेण ब्रह्मणो बुद्धि­स­न्नि­हि­त­तो­प­पा­द­नीया । न च वाच्यम् – तत्र तत्र ब्रह्मणि पर­ब्र­ह्म­श­ब्द­प्र­यो­ग­द­र्श­नेन केव­ल­ब्र­ह्म­श­ब्दस्य जीवेऽपि प्रयो­ज्य­ता­व­ग­मात् शम­वि­ध्य­र्थ­वा­दस्थो ब्रह्मशब्दोऽपि जीवपरोऽस्तु – इति ; सर्वेषु वेदान्तेषु ब्रह्म­श­ब्दा­ल­म्ब­न­तया परस्य प्रसिद्धत्वेन तत्रैव प्रथमं बुध्यवतारात् । तस्मादिह ब्रह्मै­वो­पा­स्य­त्वे­ना­न्वे­तीति सिद्धम् ।

सूत्र­स्या­न­न्या­र्थ­त्रि­पा­द्ब्र­ह्मा­धि­का­र­परं ‘सर्वं खलु’ इत्यादिकमिति सिद्धान्ते , सर्वत्र. ‘सर्वं खलु’ इति निर्दिष्टे सर्वस्मिन् , प्रसिद्धस्य – प्रकृतस्य त्रिपा­द्ब्र­ह्म­ण­स्ता­दा­त्म्ये­नो­प­दे­शा­दि­त्यर्थः । ‘सर्वं खलु’ इत्यादिकं शमविधिशेष इत्यभ्युपगम्य कृते सिद्धान्ते , सर्वत्र. सर्वेषु वेदा­न्ते­षू­पा­स­का­भि­ल­षि­त­गु­ण­वि­शि­ष्ट­तया प्रसिद्धस्य ब्रह्मणो विश्व­जि­न्न्या­ये­नो­प­स्थि­तस्य मनो­म­य­त्वा­दि­ध­र्म­वि­शि­ष्ट­त­यो­प­दे­शा­दिति प्रथमे पक्षे अर्थः । द्वितीयपक्षे तु , सर्वत्र. ‘सर्वं खल्विदं ब्रह्म’ इति वाक्ये , प्रसिद्धस्य प्रकृतस्य ब्रह्मणः ‘प्राणशरीर’ इति सर्वनामार्थेन बहु­व्री­हि­ण­प­रा­मृ­श्यो­पा­स्य­गु­ण­वि­शि­ष्ट­त­यो­प­दे­शा­दि­त्यर्थः । तदपि वाक्यं जीवपरमस्त्विति शङ्कानिराकरणे तु , सर्वेषु वेदान्तेषु ब्रह्म­श­ब्दा­ल­म्ब­न­तया प्रसिद्धस्य परस्यैवात्रापि ब्रह्म­श­ब्दे­नो­प­दे­शा­दि­त्यर्थः । एतास्सर्वा अपि योजनाः ‘यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्म­श­ब्दा­ल­म्ब­नम्’ इत्यादिभाष्येण गर्भीकृताः ।१.२.१।

स्यादेतत् – यथा वाक्य­शे­ष­नि­र्दिष्टा गुणा न जीवे तत्क्र­तु­न्या­या­नु­कूला एवं ब्रह्मण्यपि । तथा हि – सर्वकर्मत्वं सर्वकारणत्वम् ; बालाक्यधिकरण(ब्र.सू.१.४.५) न्यायेन कर्मशब्दस्य क्रियत इति व्युत्पत्त्या कार्यपरत्वात् । तत्ता­व­न्नो­पा­स­केन प्राप्यम् ; जग­द्व्या­पा­रा­धि­क­रण(ब्र.सू.४.४.७) न्यायविरोधात् । सर्वकामत्वं सर्वं कामयत इति कर्मण्युपपदे अण्प्र­त्य­या­न्त­तया ‘सोऽकामयत’(तै.उ.२.६.१) इति श्रुत्युक्तं स्रष्ट­व्य­स­र्व­वि­ष­य­का­म­ना­व­त्त्वम् । तदपि तथैव । काम्यन्त इति कामा इति कामशब्दस्य भोगपरतया सर्वभोगशालित्वं तदिति चेत् । तत् सर्व­भो­गा­श्र­य­स­क­ल­जी­व­ता­दा­त्म्य­नि­र्वा­ह्य­मिति तदपि नोपासकेन प्राप्तुं शक्यम् ; सगु­ण­वि­द्या­फ­ला­नु­भ­व­स­म­येऽपि परि­च्छि­न्न­त्वा­न­पा­यात् । अवि­द्याऽ­व­च्छिन्नो जीवः अविद्या च व्यापि­नी­त्य­भ्यु­प­गमे व्यापित्वस्य प्राप्तत्वेन प्राप्त­व्य­गु­ण­त्वा­भा­वात् । एतेन ज्याय­स्त्वा­णी­यस्त्वे अपि व्याख्याते । ‘अवाकी’(छा.उ.३.१४.२) इत्युक्तं वागि­न्द्रि­यो­प­ल­क्षि­त­स­क­ले­न्द्रि­य­रा­हित्यं तु सगुणफलानुभवसमये भोगान् भुञ्जा­न­स्यो­पा­स­कस्य नोपेक्षितम् । विष­य­स्पृ­हा­रा­हि­त्य­रू­प­म­ना­द­र­त्व­म­वा­प्त­स­क­ल­का­म­त्वा­पेक्षं ब्रह्मणोऽन्यत्र न सम्भवति । ननु ‘सर्वकर्मा सर्वकाम’ इत्या­दि­क­मु­पा­स्य­गु­ण­नि­र्दे­श­परं मा भूत् , केव­ल­मु­पा­स्य­स्यो­प­ल­क्षकं स्तुत्यर्थं वाऽस्त्विति चेत् ; न । सर्व­क­र्म­त्वा­दीनां द्विः पाठे­ना­भ्या­सा­व­ग­त­ता­त्प­र्य­वि­ष­य­भा­वा­ना­मु­पा­स्य­ब­हि­र्भा­व­क­ल्प­नाऽ­यो­गात् , प्रत्युत वाक्य­शे­ष­नि­र्दि­ष्टेषु सर्वेषु गुणेषूपास्यतया प्रसक्तेषु सर्व­क­र्म­त्वा­दीनां पुनः पाठस्य गुणा­न्त­र­प­रि­सं­ख्या­र्थ­त्वौ­चि­त्येन तेषा­मे­वो­पा­स्य­गु­ण­त्व­प्र­ती­तेश्च , मनो­म­य­त्वा­दी­ना­मपि मन­स्स­म्ब­न्धा­दि­प­र्य­व­सि­ता­ना­मु­पा­स­क­स्पृ­ह­णी­य­गु­ण­त्वा­भा­वा­च्चे­त्या­शं­क्याह –

विव­क्षि­त­गु­णो­प­प­त्तेश्च । २।

विवक्षिताः – उपास्यत्वेन तात्पर्यविषया ये मनोमयत्वादयः ते ब्रह्मणि तत्क्र­तु­न्या­या­नु­रो­धिनः स्पृहणीयगुणा इत्येतदुपपद्यते । तथा हि – सगु­णो­पा­स­ना­सि­द्धस्य ब्रह्मलोके भोग्य­भो­गो­प­क­र­णानि यानि प्राक्सि­द्धा­न्य­रण्या (अर्णवा)दीनि यानि च स्वस­ङ्क­ल्प­सा­ध्यानि स्त्र्यन्न­पा­ना­दीनि तानि सर्वाणि स्वाप्न­प­दा­र्थ­व­न्मा­न­स­प्र­त्य­य­रू­पा­ण्येव । यथा चैतत्तथा छान्दोग्यभाष्ये दह­र­वि­द्या­प्र­क­रणे ‘य इमेऽर्णवादयो ब्रह्मलोके सङ्कल्पजाश्च पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके अर्ण­व­वृ­क्ष­पू­र्म­ण्ड­पाद्याः , आहो­स्वि­न्मा­न­स­प्र­त्य­य­मात्रा इति । किञ्चातः । यदि पार्थिवा आप्याश्च स्थूलास्स्युः हृद्याकाशे समा­धा­ना­नु­प­पत्तिः । पुराणे च मनोमयानि ब्रह्म­लो­केऽ­र्ण­व­श­री­रा­दी­नीति वाक्यं विरुध्येत’ इत्यादिना ‘तस्मान्मानसा एव ब्राह्मलौकिका अर­ण्या­द­य­स्स­ङ्क­ल्प­जाश्च पित्रादयः कामा बाह्य­वि­ष­य­भो­ग­व­द­शु­द्धि­र­हि­त­त्वात् शुद्ध­स­त्त्व­स­ङ्क­ल्प­जन्या इति निर­ति­श­या­स्स­त्या­श्चे­श्व­राणां भवन्ति’ इत्यन्तेन भगवत्पादैरेव प्रपञ्चितम् । त इह ब्राह्मलौकिकाः पदार्था मनो­वि­का­र­त्वा­न्म­नो­मया इति सर्व­वि­का­रा­भिन्नः परमेश्वरोऽपि मनोमयः । अत एव विका­रा­दि­वा­चि­म­नो­म­य­शब्दो जीव एव समवेतार्थो न ब्रह्म­णी­त्या­शंक्य ब्रह्मणि तदुपपादनार्थो भामतीग्रन्थः ‘तस्यापि सर्व­वि­का­र­का­र­ण­तया विकाराणाञ्च स्वका­र­णा­द­भे­दा­त्ते­षाञ्च मनोमयतया ब्रह्म­ण­स्त­त्का­र­णस्य मनो­म­य­त्वो­प­पत्तेः’ इति । एवञ्च मनोमयत्वं ब्राह्म­लौ­कि­क­दि­व्य­भो­ग­स­म्प­न्न­त्व­रू­प­मु­पा­स­कस्य परत्र प्रेप्सितगुणो भवत्येव । तथा प्राणाः शरीराणि शरी­र­व­न्नि­य­म्या­न्य­स्येति प्राणशरीरत्वं सर्वात्मना वश्ये­न्द्रि­य­त्व­रू­पम् । तदपि तस्य स्पृहणीयमेव ; ‘ते ब्रह्मलोकेषु परान्तकाले’(महानारा.१०.६) ‘ब्रह्मणा सह ते सर्वे’ इत्या­दि­श्रु­ति­स्मृ­त्य­नु­सा­रेण हिरण्यगर्भेण सह मोक्ष्य­मा­णा­ना­म­हं­ग्र­हो­पा­स­ना­प­रा­णा­म­पे­क्षिते पर­ब्र­ह्म­सा­क्षा­त्कारे चित्त­व­शी­क­र­ण­स्यो­पा­य­त्वात् । ‘एक­व­च­न­मु­त्स­र्गतः करिष्ये’(महाभाष्य) इति न्यायमवलम्ब्य प्राणः शरीरमस्येति विग्रहकरणे तल्लभ्यं वश्यवायुत्वमपि तस्य स्पृहणीयमेव ; वायुजयस्य मनो­व­शी­क­र­णो­पा­य­त्वेन योग­शा­स्त्र­प्र­सि­द्ध­त्वात् । भारूपत्वं निर्म­ल­चै­त­न्य­ल­क्ष­ण­दी­प्ति­स्व­रू­पत्वं उपा­स­का­नु­ग्र­हा­र्थ­प­रि­गृ­ही­त­वि­ग्र­हो­पा­धि­क­दी­प्ति­मत्त्वं वा । सत्य­स­ङ्क­ल्प­त्व­मु­क्त­व­क्ष्य­मा­ण­गु­ण­नि­र्वा­ह­क­म­मो­घ­स­ङ्क­ल्प­त्वम् । आकाशात्मत्वं ‘आकाश इव पङ्केन न स पापेन लिप्यते’ इति स्मृति­प्र­सि­द्ध­नि­र्ले­प­त्वम् । सर्वकर्मत्वं ‘स यदि पितृकामो भवति सङ्कल्पादेवास्य पित­र­स्स­मु­ति­ष्ठन्ति’(छा.उ.८.२.१) इत्या­दि­श्रु­ति­प्र­सिद्धं प्रागु­क्त­म­नो­म­य­पि­त्रा­दि­स­क­ल­स्र­ष्टृ­त्वम् । सर्वगन्धत्वं सर्वरसत्वं च भोग्यतया सक­ल­शु­भ­ग­न्ध­र­स­व­त्त्वम् , यस्य पर्य­ङ्क­वि­द्या­या­म­र्चि­रा­दि­मा­र्गेण ब्रह्म प्राप्नुवता विदुषा प्राप्तव्यत्वं श्रूयते ‘‘तं ब्रह्मगन्धः प्रविशति , तं ब्रह्मरसः प्रविशति’(कौ.उ.१.५) इति । ‘सर्व­मि­द­म­भ्यात्त’(छा.उ.३.१४.२) इति प्रागु­क्त­स­क­ल­गु­णा­भि­व्या­प्ति­म­त्त्वम् । यद्य­प्ये­त­द­नु­क्त­सि­द्धम् , तथाऽपि ‘सर्वकर्मा’ इत्यादिपुनः पाठस्य परि­स­ङ्क्या­र्थ­त्व­श­ङ्का­नि­रा­साय प्रागु­क्ता­स्स­र्वेऽपि गुणा उपास्या इति प्रतिपादनार्थम् । तेन पुनः पाठः केवलमादरार्थो न परिसङ्ख्यार्थ इति सिद्ध्यति । सर्व­र­सा­न्ता­स्स­र्वेऽपि गुणा उपा­स्या­स्त­द­न­न्त­र­गु­णा­स्त्व­वि­रुद्धा एवोपास्या इति च सिद्ध्यति । अतो न किञ्चि­द­नु­प­प­न्नम् ।

सूत्रे ‘धर्मोक्तेः’ ‘धर्मोपदेशात्’ इत्यादिवत् धर्मपदमप्रयुज्य गुणपदग्रहणं तत्र विवक्षितविशेषणं च मनोमयादिपदानां यत्ने­नो­पा­स्य­त्वा­नु­गु­णा­र्थ­प­रि­ग्रहे हेतु­त्वे­नो­पा­त्तम् । यत एव मनोमयत्वादयः ‘सर्व­मि­द­म­भ्यात्त’ इति सिद्धा­र्थ­पु­नः­प्र­ति­पा­द­न­फ­ला­दु­पा­स्य­त्वेन विवक्षिताः , अतस्ते सम­न­न्त­र­प्र­द­र्शि­त­त­त्क्र­तु­न्या­य­सा­फ­ल्याय पर­त्रो­पा­स­क­ल­भ्य­गु­ण­त­यै­वो­प­पा­द­नीयाः , न तु ब्रह्म­ध­र्म­मा­त्र­त­येति तदभिप्रायः । ‘उपपत्तेश्च’ इति चकारस्य त्वयमभिप्रायः – मनोमयादिशब्दाः प्रद­र्शि­ता­र्थेषु स्वार­स्या­भा­वेऽपि तत्क्र­तु­व­च­ना­नु­रो­धा­द्य­त्न­त­स्त­त्प­र­त­यो­प­पा­द­नीया इत्येतावदेव न । उपपद्यन्ते च ते प्रद­र्शि­ता­र्थेषु स्वरसत एव न तु यत्नमपेक्षन्त इति । तथा हि – मनो­म­य­श­ब्द­स्ता­व­न्म­नो­वि­का­रार्थः ; तैत्तिरीये तस्य तदर्थतया निर्णी­त­त्वे­ना­न्य­त्रा­प्यौ­त्स­र्गि­क­त्वात् । मनोविकारत्वं च ब्रह्मणि साक्षादसम्भवत् मनो­वि­का­र­व­स्त्व­भे­दे­नो­प­पा­द­नी­यम् । तथाभूतं च वस्तु बुद्धिसन्निहितं ग्राह्यम् ; व्यक्तिवचनानां सन्नि­हि­त­वि­शे­ष­प­र­त्व­नि­य­मात् । सन्नि­हि­ता­श्चो­पा­स­क­स­ङ्क­ल्प­साध्याः पित्रादयो मनोमयाः ; ‘स क्रतुं कुर्वीत’ इति लिङा उपासनाया इष्टसाधनत्वे बोधिते इष्ट­वि­शे­षा­कां­क्षा­या­मु­पा­स­ना­फ­ल­त्वेन श्रुत्य­न्त­र­प्र­सि­द्धानां तेषा­मि­ष्ट­वि­शे­ष­त्वे­ना­न्व­यात् । ‘सर्वकर्मा’ इत्यत्रापि तेषां पितृ­मा­तृ­भ्रा­तृ­स्व­सृ­स­खि­ग­न्ध­मा­ल्य­गी­त­वा­दि­त्र­स्त्र्य­न्न­पा­ना­दि­रू­पाणां साम­स्त्य­मे­वो­च्यते ; अना­दि­जी­वा­वि­द्या­दि­सा­धा­र­ण्येन सर्वेषां मुख्यवृत्त्या ब्रह्म­का­र्य­त्व­स्या­यु­क्त­तया किञ्चि­द­व­च्छे­दा­पे­क्षायां ‘अथैतस्य हार्योजनस्य सर्व एव लिप्सन्ते’ इत्यत्र सर्वशब्दस्य प्रकृ­त­ऋ­त्वि­क्सा­मस्त्य इव प्रकृ­त­म­नो­म­य­का­र्य­सा­मस्त्ये वृत्त्यौ­चि­त्यात् । एवं च सर्व­ग­न्ध­स­र्व­र­स­श­ब्द­यो­रपि प्राय­पा­ठा­नु­सा­रेण उपा­स­क­प्रा­प्य­ब्र­ह्म­ग­न्ध­र­स­सा­म­स्त्य­एव पर्यवसानं स्यादिति ॥१.२.२॥

यद्ये­व­मु­पा­स­क­जी­वेऽपि मनोमयत्वादय उपासनया प्राप्स्य­मा­ना­स्स­न्तीति तत्रापि तेषां नानु­प­प­त्ति­रि­त्या­श­ङ्क्याह –

अनुपपत्तेस्तु न शारीरः ।३।

यद्यपि मनोमयत्वादयो भाव्यभिप्रायेण जीवेऽपि कथ­ञ्चि­दु­प­प­द्यन्ते , तथापि ‘अवाकी’ इत्यादिनोक्ता अनि­न्द्रि­य­त्वा­दयः कथमपि नोपपद्यन्ते । ते हि नोपा­स­ना­र्थ­मु­पात्ताः , किन्तु घ्राण­र­स­न­भो­ग्य­ग­न्ध­र­स­व­त्त्वोक्त्या प्रस­क्ता­मि­न्द्रि­य­व­त्त्व­शङ्कां सत्यसङ्कल्पेन ब्रह्मणा गन्ध­र­सा­दि­भो­ग­सं­प­त्तये स्वस्ये­न्द्रि­याणि किमिति न सङ्कल्प्यन्त इति शङ्का­म­णी­य­स्त्वो­क्ति­प्रा­प्त­व्या­पि­त्वा­भा­व­शङ्कां च निव­र्त­यि­तु­मुक्ताः । अतस्ते नोपा­स­क­प्रा­प्य­गु­ण­तया व्याख्येया इति ते जीवे नोपपद्यन्त एव । किञ्च मनोमयत्वादयो ब्रह्मगुणा एव ग्रहीतुमुचिताः , न तूपासकगुणा इति वैषम्यं सूत्रे तुशब्देन द्योत्यते । ते हि ब्रह्मणि स्वतस्सिद्धाः , जीवे तूपा­स­ना­ल­क्ष­ण­हे­तु­साध्याः । सिद्ध­सा­ध्य­ध­र्म­ग्र­ह­ण­स­न्देहे च सिद्धधर्मा एव ग्राह्याः , न तु साध्यधर्मा इत्य­न्त­र्या­म्य­धि­क­रणे(ब्र.सू.१.२.५) वक्ष्यमाणमेकं वैषम्यम् । ब्रह्म­गु­ण­ग्र­ह­णे­ना­न­न्या­र्थ­त्रि­पा­द्ब्र­ह्मा­धि­का­रा­नु­ग्रहे बहुव्रीहेः प्रकृ­त­प­र­त्व­स्वा­र­स्या­नु­ग्रहे च सम्भवति तद्बाधनं न युक्तमित्यपरं वैषम्यम् । अतश्शारीर उपास्यो न भवति । (१.२.३) ।

अपि च – ‘एतमितः प्रेत्य’(छा.उ.३.१४.४) इत्या­दि­क­र्म­क­र्तृ­व्य­प­दे­शात् , स्वप्रकरणे ‘एष म आत्मा’(छा.उ.७.१४.३) इति , वाजसनेयके समानप्रकरणे ‘एव­म­य­म­न्त­रा­त्मन् पुरुषो हिरण्मय’ इति चास­मा­न­वि­भ­क्ति­क­श­ब्द­वि­शे­षात्’ ‘ईश्व­र­स्स­र्व­भू­तानां हृद्देशेऽर्जुन तिष्ठति’(भ.गी.१८. ६०) इत्या­दि­स्म­र­णाच्च न शारीर उपास्य इति सूत्रत्रयेणाह –

कर्म­क­र्तृ­व्य­प­दे­शाच्च ।४।

शब्दविशेषात् ।५।

स्मृतेश्च ।६।

यद्यपि ‘एतमितः प्रेत्या­भि­स­म्भ­विता’(छा.उ.३.१४.४) इत्य­त्रा­प्य­स­मा­न­वि­भ­क्ति­क­श­ब्द­रू­प­श­ब्द­वि­शे­षोऽस्ति , तथाऽपि तत्र प्राप्य­प्रा­प्तृ­ता­रू­प­क­र्म­क­र्तृ­व्य­प­देशः साध­क­फ­ला­व­स्था­भे­दे­नो­प­प­द्यत इति शङ्का­प­रि­हा­रा­यै­क­स्या­मे­वा­व­स्थायां ‘स क्रतुं कुर्वीत मनोमयः प्राणशरीरः’(छा.उ.३.१४.१) इत्या­द्यु­पा­स्यो­पा­स­क­ता­रू­प­क­र्म­क­र्तृ­व्य­प­दे­शोऽपि प्रदर्शनीयः । तत्प्रदर्शने च ‘एतमितः प्रेत्य’ इत्य­त्रा­प्य­व­स्था­भे­दे­नो­प­प­त्ति­शङ्का परिहृता भवति । न तु तत्प्रदर्शनं शब्द­वि­शे­ष­सू­त्रेण कर्तुं शक्यम् ; उपा­स्यो­पा­स­क­यो­र्द्व­यो­रपि प्रथमान्तेन निर्दिष्टतया विशेषाश्रवणात् । अत­स्त­त्स­ङ्ग्र­हाय कर्म­क­र्तृ­व्य­प­दे­श­सू­त्रम् । तत्र व्यपदेशो विशिष्टोऽपदेशः एकावस्थायामपि कर्म­क­र्तृ­भा­व­नि­र्देशः । चकारो ‘न शारीर’ इति सम­न­न्त­र­सू­त्र­प्र­कृ­ता­वा­न्त­र­सा­ध्य­वि­ष­य­त­याऽस्य हेतोः ‘अनुपपत्तेः’ इति तद्धेतुना सह समु­च्च­य­सू­च­नार्थः ।

यद्यपि ‘शब्दविशेषात्’ इत्यपि तत्रैव हेतुः , तथाऽपि तस्य ‘राहोश्शिरः’ ‘स्वे महिम्नि’ इत्या­दि­व­दु­प­चा­रोऽ­स्त्विति शङ्कानिवर्तनाय स्मृत्य­नु­ग्र­हा­पे­क्ष­त्वा­द­न­न्त­र­सू­त्रा­र्थ­सा­हि­त्येन तस्य हेतु­त्व­प­र्य­व­सा­न­मिति तत्रैव चकारः प्रयुक्तः । तत्साहित्ये हि स्मृता­वी­श्व­र­श­ब्दि­तस्य देहा­ख्य­य­न्त्रा­रू­ढानां जीवानां भ्रान्ति­ज­न­क­त्वेन प्रसादाय शरणीकरणीयत्वेन च जीवभिन्नस्यैव हृदये स्थितिसिद्धौ तस्यैव ‘एष म आत्मा’ इत्यादौ ग्रह­ण­स­म्भ­वा­न्नो­प­चारः कल्पनीय इति तच्छ­ङ्का­व्या­व­र्तनं लभ्यते ।१.२.४ , ५ , ६ ।

अथ ब्रह्मण उपास्यत्वे अल्पा­य­त­न­त्वा­णी­य­स्त्व­लि­ङ्ग­वि­रो­ध­श­ङ्का­मु­द्भाव्य निराकरोति –

अर्भ­कौ­क­स्त्वा­त्त­द्व्य­प­दे­शाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥

इहोपास्यतया निर्दिष्टं ब्रह्म न भवति ‘एष म आत्माऽ­न्त­र्हृ­द­येऽ­णी­यान्’(छा.उ.७.१४.३) इति श्रुता­द­ल्पा­य­त­न­त्वात् । न हि सर्वगतं ब्रह्मा­न्त­र्हृ­दये शक्नोति मातुम् । ननु तत्र मातुमशक्तस्यापि ब्रह्म­ण­स्त­द्ग­त­त्व­म­स्त्येव , अन्यथा तस्य क्वचिदपि सम्बन्धाभावे सर्वगतत्वमेव न स्यात् । तत­श्चा­न्य­ग­त­त्वा­वि­रो­धेन तद्ग­त­त्व­मा­त्र­वि­ष­योऽयं ‘अन्तर्हृदय’ इति निर्देशोऽस्तु । न च ‘अपवरके देवदत्तः’ इत्या­द­व­न्य­ग­त­त्व­वि­रो­धि­न्ये­कत्र पर्य­व­सि­त­वृ­त्तित्व एवेत्थं निर्देशो दृष्ट इति वाच्यम् । ‘स एवाधस्तात् स उपरिष्टात्’(छा.उ.७.२५.१) इत्यादौ तत्त­द्व­स्तु­ग­त­त्व­मा­त्रेऽ­प्येवं निर्दे­श­द­र्श­ना­दिति चेत् ; मैवम् । उभयथोपपन्नोऽपि ‘अन्तर्हृदये’ इति निर्दे­शोऽ­ग्रि­मा­णी­य­स्त्वो­प­न्या­सेन तत्रैव पर्य­व­सि­त­वृ­त्ति­त्व­वि­षय इत्येवावगमात् । तन्नि­र्धा­र­णा­र्थ­ता­या­मेव तस्य सप्रयोजनत्वात् । तथा च ‘एष म आत्मा’ इति वाक्ये अणी­य­स्त्वो­प­प­त्त्यु­प­न्या­स­पू­र्व­कस्य विधेयस्य हृदयायतने पर्य­व­सि­त­वृ­त्ति­त्व­स्या­न्तः­क­र­णो­पा­धि­क­त्वे­ना­रा­ग्र­मात्रे जीव एव सम्भवात् ; तात्प­र्य­वि­ष­य­वि­धे­या­नु­सा­रे­णो­द्दे­श्यो­प­म­र्द­नस्य ‘अप्या­ग्नि­ष्टोमे राजन्यस्य गृह्णी­या­द­प्युक्थ्ये ग्राह्य’ इत्यादिषु दृष्टत्वाच्च । ‘एष म आत्मा’ इत्यु­द्दे­श्य­ग­त­व्य­ति­रे­क­नि­र्देशो ‘राहोश्शिर’ इतिवदौपचारिको ग्रहीतव्यः । उदा­हृ­त­स्मृ­ति­स्त्वी­श्व­र­स्या­न्य­ग­त­त्वा­वि­रु­द्ध­स­र्व­ग­त­त्व­मा­त्र­वि­षया नास्य व्यति­रे­क­नि­र्दे­श­स्या­णी­य­स्त्वो­प­पत्त्या जीव­वि­ष­य­त्व­नि­र्ण­येन प्राप्त­मौ­प­चा­रि­कत्वं निरोद्धुमीष्टे । तथा प्राप्य­प्रा­प्तृ­भा­व­नि­र्दे­शोऽपि साध­क­फ­ला­व­स्था­भे­देन नेतव्यः । उपा­स्यो­पा­स­क­भा­व­स्त्वे­क­स्या­वि­रुद्धः ; पञ्चा­ग्नि­वि­द्या­दिषु स्वात्म­न­स्स्वो­पा­स्य­त्व­स­म्प्र­ति­पत्तेः । मनोमयत्वादिकमपि प्राप्स्य­मा­न­गु­ण­तया जीव एव नेतव्यम् । वाक्योपक्रमस्तु शम­वि­ध्य­र्थ­वा­द­तया नेतव्यः । सर्वनामार्थो बहुव्रीहिरपि प्रक्रं­स्य­मा­न­प­रा­म­र्शि­तया उपपाद्यः । उप­पा­द्यो­प­पा­द­क­भा­वे­नो­प­न्य­स्त­यो­र­ल्पा­य­त­न­त्वा­णी­य­स्त्व­यो­र­न­न्य­था­सि­द्ध­तया तदनुसारेणान्यथा नेतुं शक्यानां बहू­ना­म­प्य­न्येषां नय­न­स्यो­चि­त­त्वा­दि­त्ये­व­मि­हा­शङ्का ।

अत्रायं परिहारः – भवेदेवं यदि ‘एष म आत्माऽ­न्त­र्हृ­दये’ इत्य­ने­ना­न्त­र्हृ­दये पर्य­व­सि­त­वृ­त्ति­त्व­मु­च्येत , ‘अणीयान्’ इत्यनेन च तदुपपादनाय प्राक्सि­द्ध­म­णी­यस्त्वं वर्ण्येत । न त्वेवम् , किन्तु सर्वगतमेव ब्रह्म सूर्यमण्डलस्येव हृद­य­पु­ण्ड­री­क­स्या­न्त­रु­पा­स्य­मु­प­दि­श्यते । हृद­य­पु­ण्ड­री­का­न्त­स्स्थ­सु­षि­रा­व­च्छे­द­क­मेव च तस्या­णी­य­स्त्व­मु­पा­स­ना­र्थ­मु­प­दि­श्यते । कुतोऽयं निर्णय इति चेत् – समनन्तरमेव ज्याय­स्त्वो­प­दे­शात् । ज्याय­स्त्वा­णी­य­स्त्व­यो­र्वि­रु­द्ध­त्वा­दे­क­स्मि­न्न­न्या­नु­सा­रेण नेतव्ये हृद­यो­पा­ध्यु­पा­दा­नात् ‘सूची­र­न्ध्रा­व­च्छिन्नं व्योमाणीयः’ इत्य­त्रे­वा­णी­य­स्त्व­म­न्यो­पा­धि­क­मिति वक्तुं युक्तम् , न तु ज्यायस्त्वम् ।

किञ्चाणीयस्त्वं जीव­ग­त­म­न्तः­क­र­णा­व­च्छे­दो­पा­धि­क­तया प्राक्सिद्धं ग्राह्यं , उत सम­न­न्त­रो­क्त­हृ­द­य­सु­षि­रा­व­च्छे­दो­पा­धिकं ब्रह्मगतमेव ग्राह्यमिति संशये ‘सर्वं खलु’ इत्या­द्यु­प­क्र­म­स्वा­र­स्यात् , सिद्ध­रू­प­म­नो­म­य­त्वा­दि­स्वा­र­स्यात् , कर्म­क­र्तृ­प्रा­प्य­प्रा­प्तृ­भा­व­स्वा­र­स्यात् ‘एतत् ब्रह्म’ इत्यौ­प­सं­हा­रि­क­ब्र­ह्म­श­ब्द­स्वा­र­स्याच्च ब्रह्मगतमेव ग्राह्यमिति हृदयायतनत्वं तत्कृ­त­म­णी­यस्त्वं चोपासनार्थतया ग्रहीतुं युक्तमिति ।

सूत्रे अर्भ­कौ­क­स्त्व­म­ल्पा­य­त­न­त्वम् । ‘अर्भ­क­स्थ­त्वात्’ इत्यनुक्त्वा ओक­श्श­ब्द­प्र­यो­ग­स्तत्र पर्य­व­सि­त­वृ­त्ति­त्व­ज्ञा­प­नार्थः । यद्यपि वाच­क­त्वा­ल्ल­घु­त्वा­च्चा­ल्प­प­द­मेव प्रयोक्तुं युक्तम् , तथापि शङ्कान्तरमपि सूच­यि­तु­म­र्भ­क­प­दम् । तेन हि लक्षणया आयतनाल्पत्वमिव अर्भकयति , स्वावच्छिन्नं चेतनं मूढं करोतीति व्युत्पत्त्या स्वाव­च्छि­न्न­चे­त­न­मो­ह­क­त्व­मपि प्रतिपाद्यते । अर्भकयतीत्यर्थे ‘तत्करोति’ इति णिचि पचाद्यचि ‘णेरनिटि’(पा.सू.६. ४. ५१) इति णेर्लोपे च सति अर्भ­क­श­ब्द­नि­ष्पत्तेः । ततश्च यद्ये­त­द्धृ­द­या­य­त­नत्वं ब्रह्मणः स्यात् , तर्हि तस्यापि जीव­व­द्दुः­खा­दि­मत्त्वं स्यात् । न हि प्रज्व­लि­त­गृ­हा­न्त­र्ग­त­यो­र्द्व­यो­रेको दह्यते नापर इति दूष­ण­म­त्रा­भि­सं­हि­तम् । तत्रैतद्वैषम्यं वाच्यम् – जीवो देहा­द्य­वि­वे­को­त्थ­रा­ग­द्वे­ष­मू­ल­ध­र्मा­ध­र्म­प­र­वश इति तस्य दुःखादिमत्त्वम् , ईश्वरस्तथाभूतो न भवतीति तस्य दुःखा­दि­र­हि­त­त्व­ञ्चेति । नैतदपि युक्तम् । अविवेकापादकस्य हृद­य­गु­हा­व­च्छे­दस्य द्वयोरप्यविशेषे एकस्याविवेको नान्यस्येति निय­न्तु­म­श­क्य­त्वा­दि­त्य­भि­प्रा­या­न्त­र­मपि गर्भी­क­र्तु­म­र्भ­क­प­दम् । तदिदं गूढ­म­भि­प्रा­या­न्त­र­मु­त्त­र­सू­त्रेण परिहरिष्यते । ‘तद्व्य­प­दे­शाच्च’ इति तस्य हृदयायतनत्वस्य विशिष्यापदेशात् , हृदये पर्य­व­सि­त­वृ­त्ति­त्व­रू­प­तया अणी­य­स्त्वो­प­न्या­सेन विशिष्य प्रति­पा­द­ना­दि­त्यर्थः ।

यद्वा तद्व्यपदेशात् अर्भ­क­त्व­व्य­प­दे­शा­दि­त्यर्थः । व्यपदेशो विशे­षे­णा­ति­श­ये­ना­णी­य­स्त्व­रू­प­त­यो­प­न्यासः । परिहारांशे एवं निचाय्यत्वात् एवं द्रष्टव्यत्वात् हृदयायतने अणी­य­स्त्वा­दि­गु­ण­क­त­यो­पा­स­नी­य­त्वा­दि­त्यर्थः । ‘चायृ पूजानिशामनयोः’ इति धातुः । ‘व्योमवच्च’ इति चका­रे­णो­प­क्र­म­स्वा­र­स्या­दिकं समुच्चीयते । १.२.७।

अथार्भकपदेन क्रोडी­कृ­त­मा­श­ङ्का­न्त­र­मु­द्घाट्य परिहरति –

सम्भो­ग­प्रा­प्ति­रिति चेन्न वैशेष्यात् ।८।

जीव­स्या­वि­वे­का­दि­दोषे कादाचित्को हृद­य­गु­हा­नु­प्र­वेशो न प्रयोजकः , किन्त्व­वि­द्या­रूपः , अन्तःकरणरूपो वा जीवत्वोपाधिरेव ; ‘न तं विदाथ य इमं जजा­ना­न्य­द्यु­ष्मा­क­म­न्तरं भवति’(तै.सं.४.६) ‘ध्यायतीव लेलायतीव’(बृ.उ.४.३.७) इत्यादिश्रुतेः । ततश्च जीवेश्वरयोः हृद­य­गु­हा­नु­प्र­वेशे समानेऽपि जीवोऽ­वि­द्याऽ­न्तः­क­र­ण­रू­पो­पा­धि­कृ­ता­वि­वे­क­नि­दा­न­ध­र्मा­ध­र्म­प­र­वशः , ईश्वरस्तु अप­ह­त­पा­प्म­त्वा­दि­गु­णक इति विशे­ष­स­द्भा­वा­दी­श्व­रस्य दुःखादिमत्त्वं न प्रसज्यते । न हि प्रज्व­लि­त­गृ­हा­न्त­र्ग­ति­सा­म्ये­ना­न्य­वत् अग्नि­स्त­म्भ­न­कु­शलो योगसिद्धोऽपि दह्यते , अन्यथेश्वरस्य दुःखा­दि­म­ज्जी­वा­भे­द­मा­त्रेण दुःखा­दि­भो­ग­प्र­सङ्गं किमिति नाशङ्केथाः ? तदाशङ्कायामपि ‘वैशेष्यात्’ इत्येवोत्तरम् । ईश्व­र­स्स्वा­भि­न्नेऽ­प्य­वि­द्या­दि­क­ल्पि­त­भेदे जीवे दुःखा­दि­क­मु­पा­धि­स­न्नि­धा­न­व­शात् कल्पितमवभासत इत्ये­त­ज्जा­ना­तीति विशेषादित्यर्थः । न हि लोके स्वमु­खा­भि­न्नेऽपि दर्पणोपाधिवशात् भिन्ने प्रतिमुखे दर्पणोपाधिकं मालिन्यं पश्यन्नपि कल्पितमिति जानन्ननुशोचति । तस्मात् सिद्धमिह ब्रह्मै­वो­पा­स्य­मिति ।

इदमधिकरणं स्पष्ट­जी­व­लि­ङ्ग­म­स्प­ष्ट­ब्र­ह्म­लिङ्गं च । मनो­म­य­त्व­प्रा­ण­श­री­र­त्वा­ल्पा­य­त­न­त्वा­णी­य­स्त्वानि हि प्रथमपाठादिना बलवन्ति जीवलिङ्गानि स्पष्टानि । न च – मनोमयत्वं मन­स्स­म्ब­न्ध­मात्रं , तच्च ग्राह्य­ग्रा­ह­क­ता­रूपं ब्रह्मण्यपि प्रसिद्धमिति शङ्क्यम् ; विकाराद्यर्थस्य मय­ट­स्स­म्ब­न्ध­ल­क्ष­क­त्व­क­ल्प­ना­यो­गात् । तस्य सम्ब­न्ध­श­क्ति­क­ल्प­नेऽ­प्यु­प­क­र­णो­प­क­र­णि­भा­व­रू­प­जी­व­ग­त­स­म्ब­न्ध­स्यैव प्रसिद्धतरस्य प्रथमं प्रतीतेः , अन्यथा ‘चक्षुष्मान्’ इत्यादावपि चक्षु­रा­दि­वे­द्य­घ­टा­दि­धी­प्र­स­ङ्गात् । ननु उदा­हृ­ता­ज्जी­व­लि­ङ्गा­दपि वाक्योपक्रमगतं तज्ज­त्वा­दि­हे­तु­क­सा­र्वा­त्म्य­रूपं ब्रह्म­श्रु­ति­स­ह­कृतं स्पष्टतरमिति चेत् । न । विषयवाक्यस्य ‘मनोमयः’ इत्यादेः पूर्वपक्षे ‘सर्वं खलु’ इत्यादितो भिन्नवाक्यत्वेन मनोमयादिवाक्ये सर्वा­त्म­क­ब्र­ह्मा­नु­वृ­त्ते­र­स्प­ष्ट­त्वात् । तर्हि ‘दिवि’‘दिव’ इति विभक्तिभेदेन प्रत्य­भि­ज्ञा­वि­च्छे­द­क­श­ङ्कया अस्प­ष्ट­गा­य­त्री­ब्र­ह्मा­नु­वृ­त्तिकं ज्योतिर्वाक्यं विषयीकृत्य प्रवृत्तं ज्योति­र­धि­क­र­ण­म­त्रैव पादे कर्तव्यं स्यादिति चेत् , न । तत्र स्पष्ट­ब्र­ह्म­लि­ङ्गस्य गाय­त्री­वा­क्य­स्यापि निर्णेतव्यत्वेन तस्य प्रथमपादेऽपि सङ्ग­ति­स­त्त्वा­दिति सर्वमनवद्यम् ॥ १.२.८॥

इति सर्व­त्र­प्र­सि­द्धा­धि­क­र­णम्

अत्ता चराचरग्रहणात् ॥९॥

‘‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र सः’(क.उ.१.२.२४) इति कठवल्लीमन्त्रे ओद­नो­प­से­च­न­सं­सू­चि­तोऽत्ता जीवः , परो वेति अत्तृत्वस्य भोक्तृ­त्व­सं­ह­र्तृ­त्व­रू­प­ता­न्य­त­रा­नि­र्द्धा­र­णात् संशये जीव इति तावत्प्राप्तम् ; अत्तृ­त्व­स्यौ­द­न­प्र­ति­स­म्ब­न्धि­त्वेन भोक्तृ­त्व­रू­प­त्वा­त्तस्य च जीव एव सम्भवात् । परस्मिन् भोक्तृत्वस्य पूर्वाधिकरणे निवारणात् , जीवे च स्त्रीभृ­त्या­दि­रू­प­तया ब्रह्म­क्ष­त्र­भो­क्तृ­त्व­स्यापि सम्भवात् ।

ननु मन्त्रे मुख्य ओदनो न श्रुतः येन तत्प्र­ति­स­म्बन्धी अत्ता भोक्ता स्यात् , किन्तु ब्रह्म­क्ष­त्र­यो­रो­द­न­त्व­रू­प­क­मात्रं कृतम् । न चोप­च­रि­तौ­द­न­स्यापि प्रतिसम्बन्धिना तद्भोक्त्रा भाव्यम् । न च वाच्यम् – ओदनभोक्तारं प्रत्ये­वा­नो­द­न­यो­रो­द­न­त्व­रू­प­क­म­व­क­ल्पते । ततश्च यथा ‘यस्य मृगयाविनोदिनो मृगाः परनरपतय’ इत्यत्र अमृगेषु मृगत्वरूपके वस्तुतो मृगहन्ता क्षत्रिय एव तत्प्र­ति­स­म्बन्धी प्रतीयते , न तु श्रोत्रियः कश्चित् ब्राह्मणः , एवमत्रापि स्यात् – इति ; तथा नियमाभावात् । ‘त्वत्कृ­पा­ण­भु­ज­ङ्गस्य क्षीरं विद्विषतां यशः’ इत्य­त्रो­प­च­रि­त­क्षी­र­प्र­ति­स­म्ब­न्धिनि कृपाणे तत्पा­तृ­त्वा­द­र्श­ना­दिति चेत् । उच्यते । अवश्यं ताव­दि­हा­नो­दा­वि­ष­ये­णौ­द­न­श­ब्देन वाच्यगतं कञ्चित् गुणमपेक्ष्य वर्तितव्यम् । तदिह भोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूपः पर्यवस्यतीति तत्प्र­ति­स­म्ब­धिनो ‘यस्य’ इति पदोपात्तस्य भोक्तृ­त्व­प्र­ती­ति­र­नि­वार्या । ‘त्वत्कृ­पा­ण­भु­ज­ङ्गस्य’ इत्या­द्यु­दा­ह­र­णेऽपि कृपाणे समा­रो­पि­त­त­त्पा­तृ­त्व­प्र­ती­ति­र­स्त्येव । अत एव तदन्वयसिद्धये कृपाणस्य भुजङ्गत्वरूपणं क्रियते । यत्र तन्न क्रियते ‘करवालस्य ते वीर क्षीरं विद्विषतां यशः’ इत्यादौ तत्रापि भुज­ङ्ग­त्व­प्र­ती­ति­र­स्ती­त्ये­क­दे­श­वि­व­र्त­रू­प­क­मा­ल­ङ्का­रि­कै­रि­ष्यते ।

ननु तथाऽपि कृपा­ण­भु­ज­ङ्ग­ग­त­पा­तृ­त्व­व­दु­प­च­रि­तौ­द­न­प्र­ति­स­म्ब­न्धि­ग­त­भो­क्तृ­त्व­मा­रो­पि­त­मेव स्वीकरणीयमिति फल­त­स्त­त्प्र­ति­स­म्बन्धी अभोक्तैव पर्यवस्येदिति चेत् । न । तथा नियमाभावात् । ‘याव­ना­ल­भू­नि­वा­सिनां शाल्यो­द­न­श्श­र्क­राऽ­पूपः’ इति रूपके उप­च­रि­ता­पू­प­प्र­ति­स­म्ब­न्धि­नोऽ­नु­प­च­रि­त­त­द्भो­क्तृ­त्व­द­र्श­नात् , उभयथा दर्शने सति अत्र बाध­का­भा­वे­ना­ना­रो­पि­त­स्यैव भोक्तृत्वस्य स्वीकरणीयत्वात् । एव­मौ­त्स­र्गि­क­त्व­म­भि­प्रे­त्यै­वा­मृ­गेषु मृगत्वरूपणे वस्तुतो मृगहन्ता क्षत्रिय एव प्रतीयत इत्युक्तं कल्पतरौ ।

नन्वोदनशब्दस्य भोग्य­त्व­ल­क्ष­कत्वे भवतु नामैवम् । तेन विनाश्यत्वमेव लक्ष्यताम् । तथा च तत्प्र­ति­स­म्ब­न्ध्य­तृत्वं विनाशकत्वरूपं संहर्तृत्वं स्यात् । तत्तु परस्मिन् सम्भवतीति चेत् । उच्यते । गौणत्वं शब्दस्य साधा­र­ण­गु­ण­म­प­हा­या­सा­धा­र­ण­गु­णेन निर्वाह्यम् । न हि ‘अग्निर्माणवकः’ इत्य­त्रा­ग्नि­श­ब्देन पैङ्गल्यादेरिव द्रव्य­त्वा­दे­रु­प­स्थि­ति­रस्ति । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इत्य­ध्व­र्यु­प्रैषे उद्गातृशब्दस्य बहुवचनानुरोधेन रूढि­पू­र्व­क­ल­क्ष­णया बहुषु वृत्तौ वक्तव्यायां षोड­श­र्त्वि­क्सा­धा­र­णा­कारं विहाय विशे­षा­का­रे­णो­द्गा­तृ­ग­ण­मा­त्र­ल­क्षणा पूर्वतन्त्रे निर्णीता । तदिह ब्रह्म­क्ष­त्र­यो­रो­द­न­त्व­स्या­त्य­न्त­वि­शे­षा­का­रस्य भोज्यत्वस्य च बाधेऽपि भोग्य­त्व­स्या­बा­धा­त्त­दे­वौ­द­न­श­ब्देन लक्षणीयम् । व्याघ्रा­दि­जी­व­वि­शेषं प्रति ब्रह्म­क्ष­त्रि­य­यो­र्भो­ज्य­त्व­स­म्भ­वा­त्त­देव वा लक्षणीयमिति सर्वधा तत्प्र­ति­स­म्ब­न्ध्य­त्तृत्वं भोक्तृत्वमेव न संहर्तृत्वम् । एवञ्च भोक्तृतया जीवस्यैव प्रतिपाद्यत्वे तस्य नित्यतया मृत्युवश्यत्वं नास्तीति मृत्यो­र­बा­ध­क­त्वा­भि­प्रा­येण तदु­प­से­च­न­त्व­व­र्णनं नेतव्यम् ।

ननु उपसेचनशब्देनापि साधा­र­ण­म­बा­ध­क­त्व­मात्रं न लक्षणीयम् , किन्तु स्वयमद्यमानत्वे सति अन्या­द­न­हे­तु­त्वम् । तत्त्वदनं संहारे इति परब्रह्मपक्ष एव घटते । तेन मृत्योरपि संहार्यत्वात् भूतवर्गसंहारे मृत्यो­र्द्वा­र­त्वे­ना­न्य­सं­हा­र­हे­तु­त्वाच्च , न त्वदनं भोग इति जीवपक्षे ; मृत्यो­र­भो­ग्य­त्वा­द­न्य­भो­गा­हे­तु­त्वा­च्चेति चेत् ; नैष दोषः । प्रथ­म­श्रु­तौ­द­न­श­ब्दो­प­चा­र­नि­मि­त्त­स्वा­र­स्या­नु­रो­धे­नो­प­से­च­न­शब्दे सामा­न्या­का­र­ल­क्ष­क­त्व­क­ल्प­न­स्या­दो­ष­त्वात् । तस्मादत्ता जीव इति । अग्नि­पू­र्व­प­क्षस्तु भाष्ये सम्भ­व­मा­त्रे­णो­प­न्यस्तः ।

सिद्धान्तस्तु – अत्ता पर एव ; कृत्स्नस्य चराचरस्यौदनतया ग्रह­णे­ना­त्तृ­त्वस्य संह­र्तृ­रू­प­ता­व­ग­मात् । न हि कृत्स्न­च­रा­च­र­भो­क्तृत्वं कस्यापि जीवस्य सम्भवति । ननु मन्त्रे चरा­च­र­ग्र­ह­णा­भा­वात् कथ­ञ्च­रा­च­र­वि­ष­य­त्व­म­त्तृ­त्वस्य ? कथ­ञ्चौ­द­न­श­ब्द­ल­क्ष­णी­य­भो­ग्य­प्र­ति­स­म्ब­न्ध्य­त्तृत्वं संहर्तृत्वमिति चेत् ; उच्यते । इह ब्रह्म­क्ष­त्र­यो­र्मृ­त्योश्च ताव­दो­द­नो­प­से­च­न­भा­व­रू­प­णा­द्द­ध्य­न्न­रीत्या सम्बन्धः प्रतीयते । तथा च मृत्यु­मि­श्र­ण­प्र­ती­त्य­नु­सा­रेण ब्रह्म­क्ष­त्र­श­ब्दाभ्यां चराचरात्मकं विना­शि­व­स्तु­मात्रं लक्षणीयम् । मृत्यू­प­से­च­न­त्व­रू­प­ण­स­न्नि­धा­ना­दे­वौ­द­न­श­ब्दे­नापि विनाश्यत्वं लक्षणीयम् । स्वबु­ध्यु­प­स्था­प­नी­य­वि­शे­षा­का­र­रू­प­गु­ण­ग्र­ह­णा­द­प्ये­क­वा­क्य­ता­प­न्न­प­दा­न्त­रा­र्थो­प­स्था­पि­त­गु­ण­ग्र­ह­णस्य बुद्धिलाघवेन एक­वा­क्य­ता­सा­म­र्थ्येन तस्य च न्याय्यत्वात् । चर­म­श्रु­ते­ना­प्ये­क­वा­क्या­न्त­र्ग­त­प­दा­र्था­न्त­रे­णा­नु­प­स्था­पित एवापेक्षिते तस्य पुरुषबुद्ध्या कल्पनीयत्वात् । अत एव हि ‘अक्ताश्शर्करा उपदधाति’ इत्यत्र विधे­य­स्या­ञ्ज­नस्य साधनापेक्षायां ‘तेजो वै घृतम्’ इति वाक्यशेषस्तुतं घृतमेव ग्राह्यम् , न तु पुरु­ष­बु­द्धि­क­ल्प­नीयं द्रव­द्र­व्य­मा­त्र­मिति पूर्वतन्त्रे निर्णीतम् । एव­ञ्चो­प­से­च­न­त्व­रू­प­णेऽपि स्वयमद्यमानत्वे सति अन्या­द­न­हे­तु­त्व­गुण एव स्वारस्यावगतो निमित्ततया व्यवतिष्ठते ।

ननु तथापि कथं चरा­च­र­ग्र­ह­ण­सिद्धिः ? ओदनशब्दस्य गौण­त्वा­व­श्य­म्भा­वेन तस्य सम­भि­व्या­हृ­त­प­दा­र्था­न्त­रो­प­स्था­पि­त­गु­ण­ल­क्ष­क­त्वेऽपि ‘ब्रह्म च क्षत्रञ्च’ इत्यस्य मुख्या­र्थ­वृ­त्ति­स­म्भ­वात् । न च मृत्यू­प­से­च­न­की­र्त­ना­त्त­दु­प­सि­च्य­मानं सर्वं तेन ग्राह्य­मि­त्युक्तं युक्तम् । ‘शूर्पेण जुहोति तेन ह्यन्नं क्रियते’ इत्यत्र शूर्पशब्दस्य वाक्यशेषे अन्न­क­र­ण­त्व­की­र्त­नेऽपि यद्यदन्नकरणं तत्र सर्वत्र लक्षणानुपगमात् । ‘तत्र शूर्प­मा­त्र­स्या­प्य­न्न­क­र­ण­त्वेन स्तुतिस्सम्भवति । अन्नकरणत्वस्य शूर्पे दर्वीपिठरादिषु च व्यास­ज्य­वृ­त्त्य­भा­वात्’ इति चेत् । इहापि ब्रह्म­क्ष­त्र­मा­त्र­स्यापि मृत्यु­मि­श्र­ण­प्र­ति­पा­दनं सम्भवतीति तुल्यम् । व्यर्थञ्च चरा­च­र­ग्र­ह­णो­प­पा­द­नम् । ओदनशब्दस्य संहा­र्य­त्व­ल­क्ष­क­तो­प­पा­द­न­मा­त्रेण तत्प्र­ति­स­म्ब­न्ध्यत्ता संहर्तेति सिद्धौ शब्द­वृ­त्त्य­स­ङ्को­च­प्रा­प्त­स­र्व­क­ल्पा­नु­या­यि­स­क­ल­ब्र­ह्म­क्ष­त्र­जा­त्या­लि­ङ्गि­त­व्य­क्ति­सं­हा­र­क­त्व­लि­ङ्गे­नै­वात्तुः पर­मा­त्म­त्व­सि­द्धे­रिति चेत् ।

उच्यते – अत्तृत्वं भोक्तृत्वं संहर्तृत्वमिति पक्ष­द्व­ये­प्यो­द­न­प­द­वत् ब्रह्म­क्ष­त्र­प­द­यो­रपि लक्ष­क­त्व­म­व­श्य­म्भावि । न हि स्त्रीभृ­त्या­दि­रू­प­तया , भक्ष्यतया वा ब्रह्म­क्ष­त्रि­य­यो­रेव भोक्ता कश्चि­ज्जी­वोऽस्ति , न वा पर­मे­श्व­र­स्त­दु­भ­य­मा­त्र­सं­हर्ता , नचा­धि­क­भो­क्तृ­त्वेऽ­प्य­धि­क­सं­ह­र्तृ­त्वेऽपि विशिष्य तन्मात्रग्रहणे प्रयोजनमस्ति । यद्ये­त­दु­पा­स­ना­प्र­क­रणं स्यात् , तदा अन्त­रा­दि­त्य­वि­द्यायां विशिष्य लोक­का­म­वि­शे­षे­शि­तृ­त्व­श्र­व­ण­वत् विशिष्य ब्रह्म­क्ष­त्र­सं­ह­र्तृ­त्व­व­र्ण­न­मु­पा­स­ना­र्थ­मिति कल्प्येतापि । न त्वेत­दु­पा­स­ना­प्र­क­र­णम् । तथा च यथा ‘यस्मिन् पञ्च पञ्चजनाः’(बृ.उ.४.४.१७) इत्यत्र विशिष्य पञ्चानां मनुष्याणामाधार इति कीर्तने प्रयोजनं न किञ्चिदस्तीति तल्ल­क्ष­णी­या­का­ङ्क्षायां वाक्यशेषात् प्राणा­द­य­स्त­ल्ल­क्ष­णीया इति निश्चीयन्ते , एवं ब्रह्म­क्ष­त्र­ग्र­ह­ण­मि­त­रे­षा­मपि केषा­ञ्चि­दु­प­ल­क्ष­णम् , न स्वार्थ­मा­त्र­नि­ष्ठ­मिति उप­ल­क्ष­णी­या­का­ङ्क्षायां पश्चा­त्त­न­मृ­त्यू­प­से­च­न­की­र्त­ना­त्त­दु­प­सि­च्य­मानं सर्व­मु­प­ल­क्ष­णी­य­मिति निश्चीयते । किञ्चौ­द­न­श­ब्द­स्यो­क्त­युक्त्या संहा­र्य­त्व­ल­क्ष­क­ता­स्थितौ यच्छ­ब्द­यो­गे­ना­नु­वा­द­केऽ­स्मि­न्मन्त्रे संहा­र्य­स­म­र्प­कस्य ‘ब्रह्म च क्षत्रं च’ इत्यस्य ‘सन्मू­ला­स्सो­म्ये­मा­स्सर्वाः प्रजा­स्स­दा­य­त­ना­स्स­त्प्र­तिष्ठाः’(छा.उ.६.८.४) इत्या­दि­पु­रो­वा­दा­नु­सा­रेण चरा­च­रा­त्म­का­वि­ना­शि­मा­त्रो­प­ल­क्ष­क­त्व­मा­व­श्य­कम् । न चैतदुपपादनं व्यर्थम् ; जन्मा­दि­सू­त्रो­क्त­ल­क्ष­णा­न्त­र्ग­त­स­क­ल­ज­ग­त्सं­ह­र्तृ­त्वा­धि­क­र­ण­ज­ग­त्का­र­ण­मा­या­श­ब­लो­प­ल­क्षिते शुद्धब्रह्मणि कठ­व­ल्या­स्स­म­न्व­यस्य स्पष्टी­क­र­णा­र्थ­त्वात् । उक्तरूपे ब्रह्मणि वेदान्तानां समन्वयस्य समन्वयसूत्रे सामान्यतः प्रदर्शितस्य विशिष्य तत्त­द्वा­क्यो­दा­ह­र­ण­मु­खेन प्रसाधनमेव ह्यध्यायशेषस्य मुख्यं प्रयो­ज­न­मि­त्या­न­न्द­म­या­धि­क­र­णो­प­क्रमे वर्णितम् । तत्र यदि सक­ल­ब्र­ह्म­क्ष­त्र­सं­ह­र्तृ­त्व­मा­त्र­मिह गृह्यते , तदा तस्य ब्रह्म­णोऽ­न्य­त्रा­स­म्भ­वेन ब्रह्म­लि­ङ्ग­त्वेऽपि ब्रह्मण एव व्यष्टिसंहारकः तमोगुणोपाधिको रूपविशेष इह अत्ता ; ‘क इत्था वेद यत्र सः’ इति तु तस्य प्रति­ष्ठा­रू­प­स्स­क­ल­प्र­प­ञ्च­सृ­ष्टि­स्थि­ति­सं­हा­र­कारी मायाशबलितः परमेश्वर उच्यते इति शङ्कया तस्य शुद्धब्रह्मणि समन्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यात् । अत एव सूत्रकृताऽपि ‘सर्वग्रहणात्’ इति लघुनि सूत्रे कर्तव्ये वाच्या­र्थ­यो­र्ब्र­ह्म­क्ष­त्र­यो­स्सा­म­स्त्य­मात्रं सर्वशब्देनोच्यत इति शङ्कया जग­त्का­र­णो­प­ल­क्षि­त­शु­द्ध­ब्र­ह्म­स­म­न्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यादिति ब्रह्म­क्ष­त्र­प­द­यो­र्न्या­य­प्रा­प्त­च­रा­च­रो­प­ल­क्ष­क­त्व­सू­च­नेन तस्य स्पष्टीकरणाय ‘चराचरग्रहणात्’ इति सूत्रं कृतम् । अत एव इद­म­धि­क­र­ण­म­प्य­र्थ­वत् ; जगत्कारणस्य सगुणब्रह्मणोऽपि प्रतिष्ठारूपे शुद्धब्रह्मणि सम­न्व­य­प्र­द­र्श­ना­र्थ­त्वात् । अन्य­था­ह्य­त्रा­त्तु­र्जी­व­त्वेऽपि ‘यत्र स’ इति तत्प्र­ति­ष्ठा­त्वेन वर्ण्यमानं प्रकृतं ब्रह्म भवेदेवेति तस्य पर­मे­श्व­र­त्व­प्र­सा­धनं व्यर्थमेव स्यात् । तस्मात् समृत्युकस्य कृत्स्नस्य चराचरस्य संहा­र्य­त्व­प्र­ति­पा­द­ना­त्त­त्सं­ह­र्तृ­रूपो ‘यत्र स’ इति शुद्धे प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता परमेश्वर इति निरवद्यम् ॥१.२.९॥

स्यादेतत् – ‘‘न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्नायं बभूव कश्चित् । अजो नित्य­श्शा­श्व­तोऽयं पुराणो न हन्यते हन्यमाने शरीरे’(क.उ.१.२.१८) ‘‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते’(क.उ. १.२.१९) इत्यादि प्रकरणं तावदिह जीव­वि­ष­य­म­भ्यु­प­ग­न्त­व्यम् , तत्र प्रदर्शितानां जन­न­म­र­ण­यो­र्दे­ह­ह­नने हन्यमानत्वस्य हन्तृत्वस्य , हन्तव्यत्वस्य च निषेधानां लोकतो विधि­नि­षे­ध­वि­शे­ष­तश्च तत्प्रसक्तिमति जीव एवार्थवत्त्वात् , हन्तृ­ह­न्त­व्य­भा­व­भ्रा­न्ते­श्चा­त्रैव सम्भवात् । न चोदा­हृ­त­म­न्त्र­द्व­यस्य जीवपरत्वेऽपि तदनन्तरं ‘‘अणोरणीयान्’(क.उ.१.२.८) इति मन्त्रे ‘अस्य जन्तोः’ इत्यनेन तं परामृश्य तदी­य­हृ­द­य­गु­हा­हि­त­त्वेन प्रतिपाद्यमानः परमात्मेति प्रकरणं पर­मा­त्म­प्र­धा­न­मे­वेति शङ्क्यम् । ‘‘न जायते’(क.उ.१.२.१८) इत्युपन्यस्तस्य जाय­मा­ना­र्थ­क­ज­न्तु­श­ब्देन परा­म­र्श­स्या­नु­प­प­न्न­तया तत्र ‘अस्य जन्तोः’ इत्यस्य प्रत्य­क्षा­दि­स­न्नि­धा­पि­त­दे­ह­प­र­ताया वक्तव्यत्वेन तद्गुहाहित आत्मा प्रागुपन्यस्तो जीव इत्येव लाभात् । न च जीवस्य सदा ‘अहम्’ इति भासमानत्वात् ‘‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’(क.उ.१.२.२१) इत्यादिना प्रपञ्चितं दुर्वि­ज्ञा­न­त्व­म­यु­क्त­मिति वाच्यम् ; अन्तः­क­र­ण­वि­शि­ष्ट­रू­पेण तस्य भासमानत्वेऽपि तन्नि­ष्कृ­ष्ट­रू­पेण दुर्वि­ज्ञा­न­त्वो­प­पत्तेः । एवञ्चात्तुः प्रतिष्ठात्वेन वर्ण्यमानोऽपि जीव एव । तत्रैव ‘क इत्थावेद’ इति दुर्वि­ज्ञा­न­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­नात् । अतो नात्ता संहारकः परमात्मा ; तस्य जीवे प्रति­ष्ठि­त­त्वा­यो­गात् , किन्तु अवि­द्या­प्र­ति­बि­म्ब­रूपे जीवे प्रतिष्ठितं तस्यै­वा­न्तः­क­र­ण­ता­दा­त्म्या­पत्त्या भोक्तृ­त्व­क­लु­षितं रूप­मि­त्या­श­ङ्क्याह –

प्रकरणाच्च ॥१०॥

१०

प्रकरणं तावदिदं परमात्मन एव ‘‘अन्यत्र धर्मात्’(क.उ.१.२.१४) इत्या­दि­त­त्प्र­श्नो­त्त­र­रू­प­त्वात् , ‘न जायते’ इति मन्त्र­ग­त­वि­प­श्चि­च्छ­ब्दो­क्त­वि­वि­ध­द­र्शि­त्व­रू­प­स­र्व­ज्ञ­त्व­लि­ङ्गात् , ‘तमक्रतुः पश्यति वीतशोकः’ ‘महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ इति तद­न­न्त­रा­म्ना­त­शो­क­त­र­ण­हे­तु­सा­क्षा­त्का­र­वि­ष­य­त्वा­प­रि­च्छि­न्न­त्व­लि­ङ्गाच्च । तत्र च स्वरू­पे­णा­प्र­स­क्ता­ना­मपि जन­न­म­र­ण­ह­न्तृ­त्व­ह­न्त­व्य­त्वानां जीवात्मना प्रसक्तानां निषेधः , स्वरूपेण विप­श्चि­त्वा­दि­गु­ण­कोऽयं जीवात्मनाऽपि न जन­न­म­र­ण­ह­न्तृ­त्व­ह­न्त­व्य­त्व­भाक् हन्तृ­त्वा­द्य­भि­मानी परमिति । न हि ‘अन्यत्र धर्मात्’ इति जीवस्पृगेव ब्रह्मविषयः प्रश्नः ; ‘येयं प्रेते’इति प्रकृ­त­जी­व­वि­ष­य­प्र­श्न­स्यैव ‘अन्यत्र धर्मात्’ इत्यनेन जीव­स्या­सं­सा­रि­ब्र­ह्म­स्व­रू­प­त्व­प­र्यन्तं नयनात् । इदं चानु­मा­नि­का­धि­क­रणे(ब्र.सू.१.४.१) ~ स्फुटी­भ­वि­ष्य­तीति । तत्र प्रथ­म­प्र­श्न­क्रो­डी­कृ­तस्य देहा­ति­रि­क्त­जी­वा­स्ति­त्वस्य प्रदर्शनाय तद­सं­सा­रि­रू­पा­त्म­क­ब्र­ह्म­प्र­श्नो­त्त­र­प्र­क­रण एव जीवात्मनाऽपि तस्य देहा­दि­ग­त­ज­न­न­म­र­णा­दि­स्प­र्शित्वं नास्तीति प्रथममुक्त्वा तदनन्तरं द्विती­य­प्र­श्न­क्रो­डी­कृ­त­म­सं­सा­रि­ब्र­ह्म­रूपं ‘अणोरणीयान्’ इत्यादिना प्रपञ्च्यत इति न काचिदसङ्गतिः । एवञ्च पर­मा­त्म­प्र­क­र­णात् , ‘क इत्था वेद’ इति प्रक­र­णा­व­ग­त­दु­र्वि­ज्ञा­न­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­नाच्च ‘यत्र’ इति परामृष्टः शुद्ध इति तत्र प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता जगत्संहर्ता परमेश्वर इत्यत्र न किञ्चित् बाधकमिति ।

एवमस्मिन् सूत्रे दर्शितं प्रकरणं चकारसमुच्चितं लिङ्गं च बाध­क­श­ङ्का­नि­रा­स­द्वारा अत्तुः पर­मे­श्व­र­त्व­सा­धकं न साक्षात्तत्र साधकान्तरम् ; तयो­स्त­त्प्र­ति­ष्ठा­न्व­यि­नो­स्त­द­न­न्व­यि­त्वात् । अत एव प्रकरणस्य जीव­प­र­त्व­श­ङ्का­नि­रा­सा­र्थ­त्व­मस्य सूत्रस्य दर्शयितुमेव भाष्ये “प्रकरणमिदं परमात्मनः ‘न जायते म्रियते वा विपश्चित्’ इत्यादि” इति जीव­प­र­त्व­श­ङ्का­स्पदं मन्त्रमुपादायैव प्रकरणमुदाहृतम् , अन्यथा तच्छङ्कानास्पदं ‘महान्तं विभुमात्मानम्’ इत्या­दि­क­मु­पा­दा­यैव तदुदाहरिष्यत । स्पष्ट­जी­व­लि­ङ्ग­मि­द­म­धि­क­र­णम् ; भोग्यतया प्रसि­द्धौ­द­न­स­म्ब­न्धे­ना­त्तु­भो­क्तृ­तायाः प्रथमं प्रतीतेः । अस्प­ष्ट­ब्र­ह्म­लि­ङ्गम् ; प्रथ­म­प्र­ती­त­भो­ग्य­त्व­ल­क्ष­णा­प­वा­देन विन­श्य­त्व­ल­क्षणां व्युत्पाद्य ब्रह्म­लि­ङ्ग­स्यो­न्मे­ष­णी­य­त्वात् ॥१.२.१०॥

इति अत्त्रधिकरणम् ॥२॥

गुहां प्रवि­ष्टा­वा­त्मानौ हि तद्दर्शनात् ॥११॥

११

‘‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’(क.उ.१.३.१) इति पूर्वा­धि­क­र­णो­दा­हृ­त­म­न्त्रा­न­न्त­र­म­न्त्र­नि­र्दिष्टौ बुद्धिजीवौ , जीवपरौ वेति संशयः । बुद्धिजीवौ चेत् ‘‘येयं प्रेते विचिकित्सा मनुष्ये’(क.उ.१.१.२०) इति प्रश्नोत्तरतया कार्य­क­र­ण­वि­ल­क्षणो जीव इह प्रतिपादितो भवति । जीवपरौ चेत् ‘‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’(क.उ.१.२.१४) इति प्रश्नोत्तरतया संसा­रि­स्व­रू­प­वि­वि­क्त­म­सं­सा­रि­प­र­मा­त्म­क­स्व­रूपं प्रतिपादितं भवतीति फलभेदः । तत्र सुकृ­त­सा­ध्य­लो­क­व­र्ति­त्व­गु­हा­प्र­वे­श­च्छा­या­त­प­श­ब्द­ल­क्षि­त­ज­ड­चे­त­न­त्व­लि­ङ्गै­र्बु­द्धि­जी­वा­विति प्राप्तम् । यद्यपि कर्म­फ­ल­भो­क्तृ­त्व­रू­प­मृ­त­पानं जीव इव बुद्धौ न सम्भवति , तथाऽपि तत् परमात्मन्यपि न सम्भवतीति सर्वधा ‘ऋतं पिबन्तौ’ इत्यत्र ऋत­पा­न­लि­ङ्गो­प­स्था­पि­तस्य जीवस्य द्वितीये लक्षणयैव ग्राह्ये लक्ष­णी­य­वि­शे­षा­का­ङ्क्षायां पूर्वा­धि­क­र­ण­न्या­या­द­न­न्त­र­श्रु­त­लि­ङ्गा­नु­सा­रेण बुद्धि­र्ल­क्ष­णी­येति युक्तम् ।

ननु संख्याश्रवणे सति एकस्मिन् सम्प्रतिपन्ने द्विती­या­का­ङ्क्षायां सम्प्र­ति­प­न्न­जा­ति­मु­प­जीव्य विशेषपरिग्रहे बुद्धि­ला­घ­वा­द्वि­जा­ती­य­प­रि­ग्रहे जाति­व्य­क्ति­बु­द्धि­द्व­या­पे­क्षा­गौ­र­वात् सम्प्र­ति­प­न्न­स­जा­ती­य­प­रि­ग्रहो युक्तः । लोकेऽपि ‘अस्य गोर्द्वि­ती­योऽ­न्वे­ष्टव्य’ इत्यादिषु तथा दर्शनादिति ऋत­पा­न­लि­ङ्गा­व­ग­तस्य जीवस्य द्विती­य­श्चे­त­न­त्वेन तत्सजातीयः परमात्मैव ग्राह्यः । न च पर­त­न्त्र­त्वा­दि­ध­र्मा­न्त­रेण तस्य बुद्धिरपि सजातीयेति वाच्यम् । तत्र स्वाभा­वि­क­ध­र्मस्य चेत­न­त्व­स्या­न्त­र­ङ्ग­त्वात् , सुखा­नु­भ­वि­तृ­प­र­पि­ब­च्छ­ब्द­सं­सृ­ष्ट­त्वाच्च । न च मुख्य­द्वि­त्व­ला­भार्थं विजातीयाऽपि धर्मि­स­म­स­त्ता­क­भे­द­वती बुद्धिरेव द्वितीया ग्राह्येति वाच्यम् । मुख्यस्य व्याव­हा­रि­क­द्वि­त्वस्य तत्समसत्ताकेन व्याव­हा­रि­क­भे­दे­नो­प­पा­द­न­स­म्भवे धर्मि­स­म­स­त्ता­क­भे­दा­न­पे­क्ष­णात् , बुद्धौ तत्सम्भवेऽपि जीवे तदसम्भवेन तस्य बुद्धि­जी­व­ग­त­द्वि­त्वो­प­पा­द­क­त्व­श­ङ्का­न­व­का­शा­च्चेति चेत् । मैवम् । सुकृ­त­लो­क­व­र्ति­त्वा­द्य­ग्रि­म­लि­ङ्ग­वि­रो­धिना लौकि­क­न्या­य­मा­त्रेण द्विती­य­प­रि­ग्र­हा­यो­गात् ।

नन्वग्रे विरोधिलिङ्गानि न सन्त्येव । सुकृ­त­सा­ध्य­लो­क­व­र्तित्वं हि नैकान्ततः प्रतीयते ; सुकृतस्य ऋतं अवश्यम्भावि फलं पिबन्ताविति पूर्व­त्रा­प्य­न्व­य­स­म्भ­वात् । लोकशब्दस्य लोक्यत इति व्युत्पत्त्या देह­प­र­त्वो­प­पत्तेः । सुकृतस्य लोक इत्यन्वयेऽपि न दोषः । सर्वगतस्य ब्रह्मणो देहवर्तित्ववत् सुकृ­त­लो­क­व­र्ति­त्व­स्या­प्यु­प­प­न्न­त्वात् , ‘अनु­त्त­मे­षू­त्त­मेषु लोकेषु’ इति ब्रह्म­ण­स्सु­कृ­त­प्रा­प्य­लो­क­व­र्ति­त्व­श्र­व­णाच्च । छायातपावित्यत्र जडचेतनत्वमपि न प्रतीयते ; न्यायतः परमात्मा द्वितीय इति निर्णयानुसारेण तस्य संसा­र्य­सं­सा­रि­त्व­ल­क्ष­क­त्वो­प­पत्तेः । न हि तस्य जड­चे­त­न­त्व­ल­क्ष­णायां पक्ष­पा­त­हे­तु­रस्ति । गुहाप्रवेशस्तु जीवपरावित्यत्र साधक एव , न तु बाधकः । अस्मिन् प्रकरणे ‘‘या प्राणेन सम्भ­व­त्य­दि­ति­र्दे­व­ता­मयी । गुहां प्रविस्य तिष्ठन्ती या भूते­भि­र्व्य­जा­यत’(क.उ.२.४.७) ‘‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्या­त्म­यो­गा­धि­ग­मेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क.उ.१.२.१२) इत्या­दि­म­न्त्रेषु जीवपरयोरेव गुहा­प्र­वे­श­द­र्श­नात् ।

उच्यते – अस्तु नामैवं सुकृ­त­लो­क­व­र्ति­त्व­च्छा­या­त­प­त्व­श्र­व­ण­यो­र्ब्र­ह्मणि कथञ्चिदुपपादनम् । गुहा­प्र­वे­श­श्र­व­णस्य तु तत्रोपपादनं न सम्भवत्येव ; सर्वगतस्य तस्य गुहा­वृ­त्ति­त्वेऽपि तत्प्र­वे­शा­स­म्भ­वात् । ‘अग्रि­म­म­न्त्रेषु ब्रह्म­ण­स्त­त्प्र­वे­श­श्श्रू­यते’ इति चेत् । अत्य­ल्प­मि­द­मु­च्यते । ‘तत् सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै.उ.२.६.१) ‘अन्तः­प्र­वि­ष्ट­श्शस्ता जनानाम्’ इत्यादिश्रुतिषु तस्य सर्वत्रापि प्रवेशश्श्रूयत एव , स सर्वोऽपि जीव­भा­वा­भि­प्रा­येण नेतव्यः । श्रुतो हि तस्य जीव­भा­वे­ना­नु­प्र­वेशो ‘अनेन जीवे­ना­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याकरवाणी’(छा.उ.६.३.२) इति । ‘इहापि तथैवास्तु’ इति चेत् । न । इह ‘गुहां प्रविष्टौ’ इति जीववत् तद्द्वि­ती­य­स्यापि पृथक् प्रवेशश्रवणात् , जीव­भा­वे­ना­नु­प्र­वे­श­मा­त्र­म­भि­प्रेत्य उभयोः प्रवे­श­व­र्ण­न­स्या­नु­प­प­न्न­त्वात् । न हि जीवभावेन संसा­रि­त्व­म­भि­प्रेत्य ‘ब्रह्मैव संसारि’ इति निर्देशवत् ‘जीवब्रह्मणी संसरतः’ इत्यपि निर्दे­श­स्स­ङ्ग­च्छते । तस्मात् गुहा­प्र­वे­श­लि­ङ्ग­वि­रो­धान्न ब्रह्म जीवद्वितीयतया ग्राह्यम् , किन्त्व­न्तः­क­र­ण­मे­वेति जीव एवा­स्मि­न्म­न्त्रेऽ­न्तः­क­र­ण­वि­वि­क्त­तया प्रतिपाद्यः । न च पूर्वा­धि­क­र­णे­ना­त्तृ­म­न्त्रस्य पर­मा­त्म­प्र­धा­न­त्व­नि­र्ण­या­त्त­द­न­न्त­र­प­ठि­त­स्यापि मन्त्रस्य प्रकरणेन तत्प्रधानत्वं युक्तम् , न जीव­प्र­धा­न­त्व­मिति शङ्क्यम् ; तस्य लिङ्ग­प्र­त्य­भि­ज्ञा­नु­गृ­ही­त­प्र­क­र­ण­ब­लेन पर­मा­त्म­प­र­त्वेऽ­प्यत्र केवलप्रकरणस्य लिङ्गेन बाधोपपत्तेः । न चात्रापि ‘ब्रह्मविदो वदन्ति’ इति ब्रह्म­वि­द्व­च­न­वि­ष­य­त्व­लि­ङ्गा­नु­ग्रहः प्रक­र­ण­स्या­स्तीति शङ्कनीयम् ; ‘पञ्चाग्नयो ये च त्रिणाचिकेताः’ इत्यपि श्रवणात् । न हि पञ्चाग्नयो नाचि­के­ता­द्य­ग्नि­चि­तश्च कर्म­ठा­स्सं­सा­रि­जी­व­वि­वि­क्त­म­सं­सा­र्या­त्म­क­स्व­रूपं वदन्ति ; तदवगमस्य कर्मा­नु­ष्ठा­न­वि­रो­धि­त्वात् , किन्तु देहा­न्त­र­भो­ग्य­फ­लानि कर्मा­ण्य­नु­ष्ठातुं स्थूल­सू­क्ष्म­दे­ह­वि­विक्तं जीवस्वरूपं शास्त्रादवगम्य वदन्ति । अतस्तदनुसारेणैव ‘ब्रह्मविदो वदन्ति’ इत्येतदपि नेतव्यम् । ब्रह्मविदोऽपि हि जीवस्य ब्रह्मै­क्य­बो­ध­नाय देहद्वयविविक्तं वदन्ति । तस्मात् बुद्धिजीवावेव मन्त्रेण निर्दिष्टाविति ।

एवं प्राप्तेऽ­भि­धी­यते – सन्ति तावदुपरितनेषु मन्त्रेषु ब्रह्मणो गुहा­प्र­वे­श­श्र­व­णानि । न च तानि जीव­भा­वा­भि­प्रा­येण नेतव्यानि ; जीवस्यापि ब्रह्माभिन्नस्य स्वतोऽ­प­रि­च्छि­न्न­त्वेन तत्रापि प्रवे­शा­नु­प­प­त्ते­स्तु­ल्य­त्वात् ।

ननु जीव­स्स्वो­पा­ध्य­न्तः­क­र­णा­न्त­र्गत इति तदुपाधिकस्तस्य प्रवे­श­स्स­म्भ­व­तीति चेत् – तर्हि परोऽपि स्वनि­य­म्य­न्तः­क­र­णा­न्त­र्गत इति तस्यापि तदु­पा­धि­क­प्र­वे­श­स­म्भ­वा­द्व्यर्थं जीव­द्वा­रा­श्र­य­णम् । तस्मादग्रे ब्रह्मणो भूयसा गुहा­प्र­वे­श­व­र्ण­न­द­र्श­ना­दि­हापि तथैवोपपद्यत इति तस्या­बा­ध­क­त्वा­दृ­त­पा­न­लि­ङ्गा­व­ग­तस्य द्विती­य­स्त­त्स­जा­तीयः पर एव ग्राह्यः । ‘अस्य गोर्द्वि­ती­योऽ­न्वे­ष्टव्यः’ इत्यादिषु सजा­ती­य­ग्र­ह­ण­द­र्श­ना­दिति जीवपरावेव मन्त्र­नि­र्दिष्टौ । तत्रैव च सर्वाणि विशेषणानि समञ्जसानि ।

तथा हि – ‘ऋतं पिबन्तौ’ इति तावद्विनैव लक्षणां जीव­प­र­यो­स्स­ङ्ग­च्छते ; ऋतपाने साक्षात्कर्तरि जीव इवान्तर्यामितया तत्र हेतुकर्तरि परमात्मन्यपि शतुः कर्तृ­त्व­सा­मा­न्य­वा­च­कस्य मुख्य­वृ­त्ति­स­त्त्वात् । बुद्धिजीवयोस्तु लक्षणां विना न सङ्गच्चते ; बुद्ध्यंशे ऋतपानकरणे तत्क­र्तृ­त्वा­भा­वात् । एवं जीवस्य ऋतपाने निया­म­क­त्वे­नो­क्तस्य परस्य निय­म्य­ने­दि­ष्ठ­त्व­नि­र्वा­हाय सुकृ­त­लो­क­व­र्ति­गु­हा­प्र­वे­श­व­र्ण­न­मपि सङ्गच्चते । प्रत्युत बुद्धिजीवौ गुहां प्रविष्टाविति पक्ष एव स्वतः प्रवेशवत्या बुद्ध्या सह तदु­पा­धि­क­प्र­वे­शस्य जीवस्य प्रवेशवर्णनं न सङ्गच्छते । न ह्युप­ष्ट­म्भ­को­पा­धि­क­गु­रु­त्व­शा­लिनि सुवर्णे ‘गुरु सुवर्णम्’ इति व्यवहारवत् ‘उप­ष्ट­म्भ­क­सु­वर्णे गुरुणी’ इत्यपि व्यव­हा­र­स्स­ङ्ग­च्छते । छाया­त­प­त्व­नि­र्दे­शोऽपि जीवपरयोरेव श्लिष्यते । समाने चेतनत्वे कथमृतपानादिषु जीवस्य पारतन्त्र्यं परस्य स्वातन्त्र्यं चेति शङ्कानिवर्तनाय तयो­र­ज्ञा­न­त­मोऽ­भि­भ­व­त­द­भा­व­रू­प­वि­शे­ष­प्र­द­र्श­ना­र्थ­त्वात् । ‘ब्रह्मविदः’ इति तु श्लिष्यत एव । एवञ्च ‘पञ्चाग्नयः’ इत्यादि तेषामेव विशेषणम् । ये प्राक् पञ्चा­ग्नि­शु­श्रू­षया ये वा नाचि­के­ता­दि­च­य­नै­र­न्तः­क­र­ण­शुद्धिं प्राप्ता­स्त­था­भूता एव पश्चा­ल्ल­ब्ध­ब्र­ह्म­विद्याः इत्थं वदन्तीत्यर्थः ।