न्यायरक्षामणिः
प्रथमोऽध्यायः (२)
सूत्रे गुहां प्रविष्टौ जीवपराविति साध्यमध्याहार्यम् । तत्र हेतुः ‘आत्मानौ हि’ इति । यस्मादृतपानेन लिङ्गेन एकस्य चेतनत्वनिश्चयात्तस्य द्वितीयोऽपि चेतन इत्येवमुभावपि चेतनावित्यर्थः । ‘तद्दर्शनात्’ इति हेतूपपादको हेतुः । ‘अस्य गोः’ इत्यादिषु द्वितीयस्य गृहीतसाजात्यनियमदर्शनादित्यर्थः । ‘तद्दर्शनात्’ इत्यस्य परमात्मनो गुहाप्रवेशदर्शनादिति व्याख्यानान्तरमपि प्राक्प्रदर्शितया रीत्या बाधकोद्धारप्रयोजनकं भाष्ये दर्शितम् । तत्र तच्छब्देन गुहाप्रवेशपरामर्शसिद्धये , गुहाप्रवेश एव परस्य यत्नसाध्य इति सूचनाय च सूत्रे ‘गुहां प्रविष्टौ’ इति धर्मिनिर्देशः कृतः , अन्यथा प्राथम्यात् ‘ऋतं पिबन्तौ’ इत्येव स कार्यस्स्यात् । न चैवमपि तच्छब्दस्य साजात्यनियमदर्शनादिति पूर्वव्याख्याने प्रकृतपरामर्शित्वसिद्धिर्नास्तीति शङ्क्यम् । गुहाप्रवेशपरामर्शिनस्तच्छब्दस्य साजात्यनियमपरशब्दस्य च ‘त्यदादीनि सर्वैर्नित्यम्’(पा.सू.१.२.७२) इत्येकशेषकल्पनोपपत्तेः । न च गुहाप्रवेशस्यापि निष्ठार्थोपसर्जनस्य सर्वनाम्ना परामर्शो न युज्यत इति वाच्यम् । ‘सर्वनाम्नाऽनुसन्धिः वृत्तिच्छन्नस्य’(वा.सू.५.१.११) इति वामनसूत्रे कृत्तद्धितादिवृत्तिन्यग्भूतस्यापि सर्वनाम्ना परामर्शस्याङ्गीकृतत्वात् ॥१.२.११ ॥
विशेषणाच्च ॥१२॥
१२‘‘सोऽध्वनः पारमाप्नोति’(क.उ.१.३.९) इति प्राप्तव्यत्वेनोक्तस्य परस्योपरि ‘‘यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’(क.उ.२.६.१४) इत्यत्रैव प्राप्यत्वेन विशेषणात् । प्राप्यस्य प्राप्तृसन्निकर्षापेक्षायामपेक्षाऽनुसारेण जीवपरयोरेवेदं गुहाप्रवेशवर्णनमिति युज्यते । तथा च सति नित्यप्राप्तस्य का नाम साधनीया प्राप्तिरित्याशङ्कायां प्राप्तेरज्ञाननिबन्धनाप्राप्तिभ्रमनिवृत्तिरूपतयोपपादयितुं ‘छायातपौ’ इत्यपि सङ्गच्छते । बुद्धिजीवयोश्शरीरान्तरवस्थितेः प्रसिद्धत्वात्तयोर्गुहाप्रवेशवर्णनं निष्प्रयोजनम् । तस्मादाशङ्कितबाधकाभावान्मन्त्रनिर्दिष्टौ जीवपराविति युक्तमेव ।
अपि च देवदत्तयज्ञदत्तयोर्भूयस्सहभावमनुभूतवतः ‘खलतिरन्यश्च कश्चित् द्वौ गृहं प्रविष्टौ’ इति वाक्यश्रवणानन्तरं खलतित्वेन लिङ्गेन तयोरेको देवदत्त इति निश्चये सति द्वितीयस्तद्भूयस्सहचरितो यज्ञदत्त इत्येव निर्णयो जायते । तथेहापि पूर्वापरमन्त्रेषु मन्तृमन्तव्यत्वेन , प्राप्तृप्राप्तव्यत्वेन च जीवपरयोर्बहुधा विशेषितत्वात् तेषु तयोर्भूयस्सम्बन्धमनुभूतवतोऽस्मिन्मन्त्रे ऋतपानलिङ्गावगतजीवद्वितीयः पर इत्येव निर्णयो भवितुमर्हति । तस्मादस्मिन्मन्त्रे निर्दिष्टौ जीवपरावेव ।
सूत्रे ‘विशेषणात्’ इत्यस्य जीवपरयोर्बहुशः परस्परसम्बन्धित्वेन विशेषणादिति द्वितीयार्थ एव भाष्ये कण्ठत उक्तः । प्राप्तस्य ‘अत्रैव’ इति विशेषितत्वादिति प्रथमार्थस्तु ‘सोऽध्वनः पारमाप्नोति’ इति मन्त्रोदाहरणेनैवोन्नेतव्य इति कण्ठतो नोक्तः । चकारः प्रकरणस्य ‘ब्रह्मविदो वदन्ति’ इति वक्तृविशेषोपादानस्य च समुच्चयार्थः ॥१.२.१२॥
इति गुहाऽधिकरणम् ।३।
अन्तर उपपत्तेः ।१३।
१३छान्दोग्ये श्रूयते ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्मेति । तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छा.उ.४.१५.१) इत्यादि । किमयमक्ष्याधारश्छायापुरुषः , परमात्मा वेति संशये च्छायापुरुष इति पूर्वःपक्षः ; ‘एष’ इति प्रसिद्धवन्निर्देशात् , ‘दृश्यते’ इत्यपरोक्षत्वाभिधानाच्च । न च यथा अन्तरादित्यवाक्ये अन्तरक्षिवाक्ये च तदुभयसत्त्वेऽपि परमात्मा प्रतिपाद्यः , तथेहापि स्यादिति वाच्यम् । न हि तत्र छायापुरुष इति पूर्वःपक्षः । आदित्ये प्रतिबिम्बादर्शनेनान्तरादित्यवाक्ये तथा पूर्वपक्षासम्भवात् । तत्र च परमात्मनीव न लौकिकी प्रसिद्धिः । नाप्यपरोक्षत्वमिति युक्तस्तत्र परमात्मेति निर्णयः । इह च त्वक्षिवाक्ये छायापुरुष इत्येव पूर्वपक्षः । भाष्ये तु सम्भवमात्रेणात्त्रधिकरणे अग्निपूर्वपक्षवदिह जीवदेवतापूर्वपक्षयोरुपन्यासः । अतो युक्तं तदुभयालम्बनेन प्रत्यवस्थानम् । तथाप्यमृतत्वाभयत्वादिपरमात्मलिङ्गैस्तदुभयबाधस्स्यात् इति चेत् । न । पूर्वाधिकरणन्यायात् प्रथमावगतानुसारेण तेषामेवान्यथानेयत्वात् ।
नन्वन्तरादित्यवाक्ये सर्वपापोदयलिङ्गवदिह ‘एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येवैनं वामान्यभिसंयन्ति य एवं वेद’(छा.उ.४.१५.२) इत्यादिना प्रदर्शितानि संयद्वामत्वादिब्रह्मलिङ्गानि चरमश्रुतान्यपि प्रयोजनवत्वात् बलवन्ति । तथा गायत्रीवाक्ये भूतादिपादव्यपदेशप्रभृतिवदात्मब्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वलिङ्गानि बाहुल्यादपि बलवन्ति । अतस्तैरेव प्रथमावगतयोरपि प्रसिद्धदृश्यत्वलिङ्गयोरन्यथानयनं युक्तमिति चेत् । सत्यम् । स्यादेव एवं यद्यात्मश्रुत्यादयस्स्वार्थनिष्ठास्स्युः , न चेह तथा । आत्मब्रह्मश्रुत्योस्संयद्वामत्वगुणश्रवणस्य चेतिशब्दशिरस्कत्वेन ‘मनो ब्रह्म’ इत्यादिवदतस्मिंस्तद्रूपप्रत्ययपरत्वावगमात् , तदनुरोधेनामृतत्वादिश्रवणानामपि तन्मात्रपरत्वनिर्णयात् । नन्वेवमेषां प्रत्ययमात्रपरत्वेऽपि संयद्वामत्वाद्यनुरूपफलश्रवणानि न तथाऽभ्युपेयानि । रात्रिसत्रन्यायेनोपासनायामार्थवादिकफलान्वयावश्यंभावात् । तानि कथं छायात्मोपासनायां स्युरिति चेत् । वचनबलाद्वैवाहिकवरवधूदर्शनेनाभ्युदयवदिति ब्रूमः ।
एतेन – पुष्करपलाशवाक्यावगतफलस्य ‘अर्चिषमभिसम्भवन्ति’(छा.उ.४.१५.५) इत्यादिवाक्यावगतफलस्य चानुपपत्तिरपि निरस्ता । न चाब्रह्मविदामर्चिरादिमार्गो नास्तीति नियमः । अब्रह्मविदामेव पञ्चाग्निविद्योपासकानां सिद्धान्तेऽपि ‘तद्य इत्थं विदुः’ इति वचनबलेन तदभ्युपगमात् । ननु तथाऽप्युपक्रम एव चेतनाभिधायिपुरुषशब्दश्रवणाच्छायात्मेति न युक्तमिति चेत् । न । ततोऽपि प्रथमश्रुतेन हि ‘य एष’ इति प्रसिद्धलिङ्गेन तस्यापि बाधात् । एकस्मिन्नपि ‘चतुरो मुष्टीन्निर्वपति’ इति वाक्ये प्रथमश्रुतेसंख्याऽनुरोधेन सप्तदशशरावे मुष्टिबाधाङ्गीकारात् ।
ननु ‘य एष’ इत्येतदपि ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति ब्रह्मप्रकरणानुसारेण ज्योतिर्वाक्यगतयत्पदवत् ब्रह्मपरं स्यादिति चेत् । न । तस्य ‘मनो ब्रह्म’ इत्यादिसारूप्येण ब्रह्मदृष्टिविधिपरतया ब्रह्मप्रकरणसिद्धेः । तत्सत्वेऽपि ‘प्राणो ब्रह्म’ इत्याद्यग्निवाक्यम् , ‘य एषोऽक्षणि’ इत्याचार्यवाक्यमिति वक्तृभेदेन ‘अथ हैनं गार्हपत्योऽनुशशास’(छा.उ.४.११.१) इत्यादिवाक्यप्रतिपादिताग्निविद्याव्यवधानेन च तद्विच्छेदात् । न च ‘आचार्यस्तु ते गतिं वक्ता’(छा.उ.४.१४.१) इति गत्यभिधानपरिशेषश्रवणादग्निवक्तृकं ब्रह्मप्रकरणं वक्तृभेदेऽपि व्यवधानेऽपि न विच्छिन्नमिति वाच्यम् । तावता अर्चिरादिगत्यभिधानस्य तत्राप्यन्वयलाभेऽपि स्थानगुणयोराचार्यवक्तव्यत्वेनापरिशेषिततया ‘य एषोऽक्षणि’ इत्यादेः प्रकृतेः ब्रह्मण्यक्षिस्थानसंयद्वामत्वादिगुणविधायकत्वेनान्वयालाभात् । तस्मादक्ष्याधारः छायापुरुष इति ।
राद्धान्तस्तु – इतिशब्दस्तत्रैवार्थविवक्षां वारयति यत्र प्रत्ययो विवक्ष्यते । यत्र तु उक्तार्थावच्छेदेन वचनसम्बन्धस्तत्र स न तां वारयति । यथा ‘इति हस्म उपाध्यायः कथयति’ इति , इह पुनः ‘इति होवाच’ इति वचनसम्बन्धस्स्पष्टः । ‘एतत् ब्रह्म’ इत्यत्रापि प्रकृत एव वचनसम्बन्धोऽनुवर्तते । अतोऽर्थविवक्षाबाधकाभावेन स्वार्थनिष्ठब्रहात्मश्रुत्यमृतत्वादिलिङ्गैर्बहुभिस्सप्रयोजनैश्चातथाभूतयोः प्रसिद्धिदृश्यत्वलिङ्गयोश्शास्त्रीयप्रसिद्धिशास्त्रदृष्टिरूपतया नयनं युक्तमित्यक्ष्याधारः परमात्मैव । किञ्च ‘चतुरो मुष्टीन् निर्वपति’ इत्यत्र चतुर्शब्दस्य संख्याविशेषाभिधानेन पर्यवसितस्य प्रथमश्रुतत्वेन प्राबल्येऽप्यत्र ‘य एष’ इति सर्वनाम्नोः प्रकृताभावेन पुरुषपदान्वयात् प्रागपर्यवसिताभिधानयोस्ततः प्राबल्याभावेन तात्पर्यवसानापेक्षितपुरुषपदसमर्पितचेतनत्वलिङ्गादप्यक्ष्याधारः परमात्मा । अपि च ‘तद्यद्यप्यस्मिन्’ इत्यादौ स्थानिमहिम्ना स्थानस्य निर्लेपत्वप्रतिपादनं स्थानिनश्श्रुत्यन्तरप्रसिद्धनिर्लेपभावपरमात्मत्वे सत्येवोपपद्यते इत्यतोऽप्ययं परमात्मा ।
यस्तु काचपटलादिभिस्सलेपेऽक्षणि स्थानिमाहात्म्यायत्तसर्पिरादिलेपराहित्योक्तिस्स्तुतिमात्रमिति न ततस्स्थानिनो निर्लेपत्वसिद्धिरिति विचिकित्सते , स इत्थं प्रतिबोधनीयः – तथाऽपि तथाभूतस्तुतिद्वारा श्रुत्यन्तरेषु निर्लेपत्वेन प्रसिद्धस्य परमात्मन एव स्थानितया ग्रहणं प्राप्नोति । यथा ‘द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेति’ इत्यत्र प्रणयनवतोर्द्वयोः पर्वणोर्महिम्ना चातुर्मास्याख्यो यज्ञ एति गच्छतीति हेतुहेतुमद्भाववर्णनस्य स्तुतिमात्रत्वेऽपि स्तुतिनिर्वाहकतया ‘ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासास्साकमेधाश्च’ इत्यर्थवादान्तरे ऊरुसंस्तुतयोर्वरुणप्रघाससाकमेघपर्वणोरेव ग्रहणमिति ।
सूत्रे ‘उपपत्तेः’ इत्यनेनात्मश्रुत्याद्युपपत्तिः , पुरुषशब्दसमर्पितचेतनत्वोपपत्तिः , स्थानिमाहात्म्यायत्तस्थानानिर्लेपत्वोपपत्तिश्च संगृहीता ॥१.२.१३॥
ननु स्थानिनः स्थानं महत् दृष्टं यथा यदोभ्यस्समुद्रः । तत्कथमत्यल्पमक्षिपरमात्मनस्स्थानमित्याशङ्क्याह –
स्थानादिव्यपदेशाच्च ॥१४॥
१४नास्याक्ष्येकमेव स्थानमनुचितं निर्दिष्टम् , किन्तर्हि ? अनामरूपस्यास्य नामरूपमपि निर्दिष्टं दृश्यते ‘तस्योदिति नाम हिरण्यश्मश्रुः’ इत्यादिषु , ततश्च तद्वदिदमपि स्थानविशेषकीर्तनमुपासनार्थं न विरुध्यते । यद्यपि‘अर्भकौकस्त्व’ सूत्रेण शंकेयं समाहिता , तथाऽपि दृष्टान्तमुखेनापि बुद्धिसामान्यमुपपादयितुमिदं सूत्रम् ॥१.२.१४ ॥
एवं प्रकरणं नास्तीत्यङ्गीकृत्य हेत्वन्तरमुक्तम् । अथ प्रकरणेन ब्रह्मत्वमुपपादयितुं सूत्रम् –
सुखविशिष्टाभिधानादेव च ॥१५॥
१५‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा.उ.४.१०. ५) इति सुखविशिष्टं यत् प्रकृतं ब्रह्म , तस्यैव प्रकृतपरामर्शिना ‘य एष’ इति सर्वनाम्नाऽभिधानादप्यक्ष्याधारः परमात्मा । ननु प्राणादिषु प्रत्येकं ब्रह्मपदयोगात् ‘नाम ब्रह्म’ ‘मनो ब्रह्म’ इत्यादाविव ब्रह्मदृष्टिविधिपरत्वं युक्तम् । अत एव ‘प्राणञ्च हास्मै तदाकाशञ्चोचुः’(छा.उ. ४.१०.५) इति प्राणादिशब्दैरेव निगमनं दृश्यते ; प्राणादिप्रधानत्वात् । ब्रह्मप्रधानत्वे हि ब्रह्मशब्देन निगमनं स्यात् । अतो नात्र ब्रह्म प्रकृतमस्तीति चेत् । उच्यते । नेदं ब्रह्मदृष्टिविधिपरम् ; ‘प्राणो ब्रह्म’ इत्याद्युपदेशानन्तरं प्राणस्सूत्रात्मा बृहत्त्वात् ब्रह्मेति जानामि , विषयेन्द्रियसम्पर्कजं सुखं भूताकाशं च कथं ब्रह्मेति विजानीयामित्यभिप्रायवता उपकोसलेन ‘विजानाम्यहं यत् प्राणो ब्रह्मेति कं च तु खञ्च न विजानामि’(छा.उ.४.१०.५) इति पृष्टैरग्निभिः ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्’(छा.उ.४.१०.५) इत्युक्तत्वात् । न चेदमपि वैषयिकसुखे भूताकाशदृष्टिविधिपरं भूताकाशे वैषयिकसुखदृष्टिविधिपरञ्च किं न स्यादिति शङ्क्यम् । ‘कं ब्रह्म खं ब्रह्म’ इत्यस्यार्थाज्ञानेन पृष्टवन्तं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगात् ।
तस्मात्तद्वाक्यं पूर्ववाक्ये कखशब्दोक्तयोरन्योन्यविशेषणविशेष्यभावप्रदर्शनेन वैषयिकसुख भूताकाशरूपतां व्यवच्छिद्यापरिच्छिन्नसुखरूपत्वसुखात्मकापरिच्छिन्नत्वस्वरूपलक्षणोपास्यब्रह्मविशेषणद्वयरूपतां विवेक्तुं प्रवृत्तमिति तदनुरोध्येव ‘कं ब्रह्म खं ब्रह्म’ इति पूर्ववाक्यस्याप्यर्थो ग्राह्यः , न तु दृष्टिविधिरूपः । तत्र ‘कं खं ब्रह्म’ इत्येवोच्यमाने सुखात्मकत्वोपलक्षितापरिच्छिन्नत्वगुणस्य उपास्यत्वलाभेऽपि अन्योन्यविशेषितयोरुभयोरप्युपास्यगुणत्वमभिमतं न सिध्येदिति प्रत्येकं ब्रह्मशब्दः । ‘प्राणो ब्रह्म्’ इत्यत्र तु ब्रह्मशब्दः कार्यब्रह्मविद्यामग्निविद्याद्विधित्सितसगुणब्रह्मविद्याङ्गभूतां विधातुम् । अत एव ‘प्राणञ्च हास्मै’ इति निगमनवाक्ये प्राणस्य , सुखाकाशात्मकब्रह्मणश्च पृथग्ग्रहणमप्युपपद्यते । तत्र तदाकाशशब्द उपक्रमानुरोधेन उक्तरूपब्रह्मपरः ।
एवं दृष्टिविधिपरत्वशङ्कानिरासमपि गर्भीकर्तुं ‘सुखविशिष्टाभिधानात्’ इति गुरु सूत्रं कृतम् । अन्यथा प्रकृतस्य ब्रह्मणो ‘य एषोऽक्षणि’ इत्यत्राभिधानादित्येतावन्मात्रविवक्षायां लाघवार्थं ‘प्रकृताभिधानात्’ इति वा अत्त्रधिकरणद्युभ्वाद्यधिकरणयोरिव ‘प्रकरणात्’ इति वा सूत्रयेत् । दृष्टिविधिपरत्वशङ्कानिरासार्थत्वेन योजनायां सूत्रस्यायमर्थः – ‘कं ब्रह्म’ इति वाक्यनिर्दिष्टः परमात्मा , न तु ब्रह्मदृष्टिविशिष्टं वैषयिकसुखम् । सुखविशिष्टाभिधानादेव – सुखेषु यत् विशिष्टमनवच्छिन्नसुखं तस्य शब्देनाभिधानादित्यर्थः । तथा ‘खं ब्रह्म’ इति वाक्यनिर्दिष्टश्च परमात्मा , न तु ब्रह्मदृष्टिविशिष्टो भूताकाशः । सुखविशिष्टाभिधानादेव – शोभनं सुखात्मकं यत् खं , तस्य खशब्देनाभिधानादित्यर्थः । न च उभयत्रापि हेत्वसिद्धिः । ‘कं ब्रह्म’ इत्यत्र कशब्दस्य ‘यद्वाव कं तदेव खम्’ इति विवरणवाक्यानुसारेण स्वशब्दोक्तानावच्छिन्नत्वविशेषितसुखफलत्वात् । ‘खं ब्रह्म’ इत्यत्र खशब्दस्य ‘यदेव खं तदेव कम्’ इति विवरणवाक्यानुसारेण कशब्दोक्तसुखविशेषितानवच्छिन्नखरूपत्वात् । एवं प्रकरणासिद्धिशङ्कापरिहारार्थत्वेन योजनान्तरे सत्येवावधारणचकारयोरप्यर्थवत्ता ॥१.२.१५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥
१६श्रुता – अग्नीनामुपदेशेन लब्धा उपनिषत् – रहस्यविज्ञानरूपा सुखाकाशात्मकब्रह्मोपासना येनोपकोसलेन तस्य तदुपासनया प्राप्या या गतिरग्निभिर्वक्तव्याऽप्यग्निभिरेव ‘आचार्यस्तु ते गतिं वक्ता’ इत्याचार्येण वक्तव्यतयाऽवशेषिता , तस्याः प्रोषितप्रत्यागतेनाचार्येणाभिधानादाचार्यवाक्यं न स्वातन्त्र्येण किञ्चिदुपदेशार्थं प्रवृत्तम् । किं त्वग्न्युपदिष्टावशेषितपूरणार्थमेव प्रवृत्तमित्यवसीयते । अतस्तत्प्रकरणानुवृत्तौ न विवादः ; एवंविधस्थले वक्तृभेदस्य विद्यान्तरव्यवधानस्य च प्रकरणाविच्छेदकत्वात् , वस्तुतोऽग्निविद्यानां प्रकृतब्रह्मविद्याङ्गत्वेन तद्व्यवधायकत्वाशङ्कानास्पदत्वाच्च ।
एवं हि छन्दोगानामुपनिषद्युपाख्यायते – उपकोसलस्सत्यकामाचार्यमुपसन्नस्तस्य द्वादशवर्षाण्यग्नीन् परिचरन्नास्त । तस्मै ब्रह्मोपदेशमकृत्वैवाचार्ये प्रोषिते सति आधिव्याधिपरवशामानसमनश्नन्तं तदाऽप्याचार्याग्निपरिचर्यायामवहितं तमवेक्ष्य गार्ह्यपत्यदक्षिणाग्न्याहवननीयास्तयोऽपि तदग्नयस्सम्भूय करुणया तस्मै ‘कं ब्रह्म खं ब्रह्म’ इत्यादिना(छा.उ.४.१०.५) ब्रह्मविद्यामुपदिश्य प्रत्येकं स्वस्वविषयं विद्यां ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि’(छा.उ.४.११.१) इत्यादिना ‘य एष चन्द्रमसि पुरुषो दृश्यते’(छा.उ. ४.१२.१) इत्यादिना , ‘य एष विद्युति पुरुषो दृश्यते’(छा.उ. ४.१३.१) इत्यादिना चोपदिदिशुः । तदनन्तरञ्च सर्वेऽग्नयस्सम्भूय ‘एषा सोम्य तेऽस्मद्विद्या चात्मविद्या च’(छा.उ. ४.१४.१) इति स्वस्वविषयविद्यां सुखाकाशात्मकब्रह्मविद्याञ्चोपदिष्टामुपसंहृत्य तत्प्राप्यां गतिं वक्तव्यामालोच्य ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्’(छा.उ.४.९.३) इति श्रुत्यनुसारेण स्वोपदिष्टविद्या तदाचार्यकर्तृकावशिष्टगत्युपदेशेन साधिष्ठत्वं प्राप्नोत्वित्यप्यालोच्य ‘आचार्यस्तु ते गतिं वक्ता’ इत्यवोचन् । ततः प्रत्यागत आचार्यः प्रसन्नमुखमुपकोसलं वीक्ष्य ‘ब्रह्मविद इव सोम्य ते मुखं भाति कोऽनु त्वाऽनुशशास’(छा.उ.४.१४.२) इति पृष्ट्वा अग्निभिस्सह भीते तस्मिन्नग्नयोऽस्मा उपदिदिशुरिति निश्चित्य ‘किं नु सोम्य किल तेऽवोचन्’ इति पृष्ट्वा ‘एतावदुपादिशन्’ इति तेनोक्ते तत्र वक्तव्यशेषोऽस्तीत्यवधार्य ‘अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छा.उ.४.१४.३) इति स्ववक्तव्यं प्रतिज्ञाय ‘ब्रवीतु मे भगवान्’ इति तेन प्रार्थितस्संयद्वामत्वादिगुणकमक्षिस्थं पुरुषमुपदिश्य तदुपासकस्य ‘अथ यदुचैवास्मिन्’ शव्यं कुर्वन्ति यदु च न , अर्चिषमेवाभिसम्भवन्ति’(छा.उ.४.१५.५) इत्यारभ्य ‘एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते(छा.उ.४.१५.६) इत्यन्तेनानावृत्तिपर्यवसायिनमर्चिरादिमार्गमुपदिदेश – इति ।
नन्वेतावता सत्यकामोपदिष्टा देवयानगतिरग्न्युपदिष्टायां सुखाकाशब्रह्मविद्यायामप्यन्वेतीति सिद्ध्यति , न त्वक्षिपुरुषोऽपि सुखाकाशात्मकं ब्रह्मेति सिद्ध्यति ; अग्निभिर्गतिमात्रस्य , आचार्येण वक्तव्यतयाऽवशेषितत्वात् , सुखाकाशब्रह्मणः स्थानस्य गुणजातस्य च वक्तव्यत्वेनावशेषितत्वात् , तथाऽपि सर्वनाम्नः प्रकृतपरामर्शित्वस्वाभाव्यादक्षिस्थपुरुषः प्रकृतं ब्रह्म भवेदिति चेत् । न । अत्रैव गार्हपत्यादिविद्यासु ‘य एष’ इति पदानां प्रकृतब्रह्मपरामर्शित्वाभावदर्शनात् ।
ननु ‘एषा सोम्य ते अस्मद्विद्या चात्मविद्याच’ इत्यग्निभिः स्वविद्यानामात्मविद्यायाश्च भेदेन कीर्तितत्वात् तत्र सर्वनाम्नां प्रकृतपरत्वं त्यक्तव्यमासीदिति चेत् । तर्ह्यत्रापि गतिमात्रस्यावशेषितत्वात् तस्य प्रकृतपरत्वं त्यक्तव्यमिति समानम् । यदि ह्यग्निभिः ‘एषा सोम्य’ इत्यादिना स्वविद्यामात्मविद्याञ्च निरपेक्षमुपदिष्टतया उपसंहृत्याचार्येण उपदेष्टव्यतया गतिमात्रेऽवशेषितेऽप्याचार्योऽग्न्युपदिष्टस्य ब्रह्मणोऽक्षिस्थानं संयद्वामत्वादिगुणजातं चोपदेष्टव्यमालोच्योपदिशेत् , तदा अग्नयो वितथवादिनोऽनभिज्ञा वा स्युः । तस्मादक्षिपुरुषविद्याऽप्यग्निविद्यावत् सुखाकाशब्रह्मविद्यातो भिन्नैवेति युक्तम् ; पात्नीवताधिकरणन्यायात् ।
एवं हि तत् – ‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रकृत्य , ‘पर्याग्निकृतं पात्नीवतमुत्सृजति आज्येन शेषं संस्थापयति’ इति श्रूयते । तत्र किं ‘आज्येन शेषम्’ इत्यनेन पात्नीवतयाग एव पशोरुत्सृष्टस्य स्थाने प्रतिनिधित्वेन आज्यं विधीयते , कर्मान्तरं वेति संशयः । तत्र पात्नीवतयागस्य पशुनोपक्रमेऽपि पशोः पर्यग्निकृतावस्थायां वचनबलेन त्यक्तत्वात् द्रव्यसाकाङ्क्षस्य तस्य आज्येन शेषसमापनं विधीयते न कर्मान्तरम् । देवताऽभावात् , शेषसंस्थाशब्दानुपपत्तेश्चेति पूर्वः पक्षः ।
पात्नीवतयागस्य मुख्येन पशुद्रव्येण निर्वृत्तस्य प्रतिनिधेरनपेक्षितत्वात्कर्मान्तरविधिरिति सिद्धान्तः । तथाहि – यदि पशोस्त्यागमात्रं क्रियते , तदा तस्य देवतासम्बन्धो नानुष्ठितस्स्यात् । तथा सति ‘त्वाष्ट्रं पात्नीवतम्’ इति श्रुतस्तस्य देवतासम्बन्धविधिरप्रमाणं स्यात् । असति च देवतासम्बन्धे यागो न सिध्येत् ; द्रव्यदेवतासम्बन्धस्य यागानुमापकस्याभावात् । प्रत्यक्षयजेश्चाश्रवणात् । असति यागे कस्य शेषसमापनं विधीयेत । तस्मात् ‘पर्यग्निकृतं पात्नीवतमुत्सृजति’ इति पशोः पर्यग्निकृतावस्थायां न त्यागविधिः ; किन्तु परस्वदधिकरणन्यायेन पर्यग्निकरणान्ताङ्गरीतिविधानमिदम् । ततश्च तयैव निराकांक्षस्य पात्नीवतयागस्य समाप्तत्वात् न शेषमस्ति यस्याज्येन संस्थानमुच्येत । तस्मात् ‘आज्येन शेषम्’ इत्याज्यद्रव्यकयागान्तरविधिः । तत्र देवता प्रकृतपात्नीवतपदानुषङ्गेण लम्भनीया । शेषसंस्थाशब्दौ च सादृश्येनोपपादनीयौ । पशुयागो हि पर्यग्निकरणान्ततया देवतोद्देशेन मानसपशुत्यागवानपि हविःप्रक्षेपाद्यभावात् सशेष इव । आज्ययागस्तद्देवत्य एव हविःप्रक्षेपादिमान् तस्य शेष इव च भवतीति । एवं शेषसंस्थाशब्दसद्भावेऽपि पूर्वयागस्य निरपेक्षत्वात् कथञ्चिद्देवतालाभेन यदि कर्मान्तरविधिः , तदा किमु वक्तव्यमिह कर्मान्तरविधिरिति ।
नन्विहाक्षिपुरुषोपन्यासानन्तरं देवयानगतिः न सुखाकाशब्रह्मवित्प्राप्यत्वेन न वा ताटस्थ्येन कीर्तिता , किन्तु ‘य एवं वेद’ इत्यक्षिपुरुषविदमुपक्षिप्य ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति’ इत्यादिना तत्प्राप्यत्वेन कीर्तिता । तथा च सुखाकाशब्रह्मवित्प्राप्यत्वेन आचार्येण वक्ष्यमाणतया प्रागग्निभिर्वर्णिताया गतेरक्षिपुरुषवित्प्राप्यत्वेन आचार्येणोपपादितत्वादक्षिपुरुषस्सुखाकाशब्रह्मैवेति निश्चीयत इति चेत् । मैवं । आचार्यो विद्यान्तरमुपदेक्ष्यति , तदन्वयितया च देवयानगतिमुपदेक्ष्यतीत्येतदग्नयो निश्चित्य तत्सर्वमनुद्घाट्य यां गतिमाचार्य उपदेक्ष्यति सा सुखाकाशब्रह्मविदोपीत्यभिप्रायेण ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्नयोऽवो चन्नित्युपपादनोपपत्तौ तन्मात्रमवलम्ब्य निरपेक्षतयोपसंहृतायाः प्रकृतब्रह्मविद्यायाः पुनस्स्थानगुणविध्यङ्गीकारायोगात् । तस्मात् देवयानगत्यभिधानस्य प्रागुक्तब्रह्मविद्यार्थत्वायोगात् तदभिधानेन तत्प्रकरणाविच्छेदोक्तिरयुक्तेति चेत् –
अत्र ब्रूमः – ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्द: करणव्युत्पत्त्या देवयानमार्गपरो न भवति , किन्तु कर्मव्युत्पत्त्या प्रकृतब्रह्मविद्याफलपरः । प्रथमं फल एवाकाङ्क्षोदयाल्लोकान्तरभोग्यफलनिर्देशानन्तरमेव तत्प्राप्त्युपायमार्गाकाङ्क्षोदयौचित्यात् । न च प्राक् ब्रह्मविद्यायाः फलं निर्दिष्टम् । तदङ्गभूतानामग्निविद्यानामेव हि परं ‘लोकीभवति’ इत्यादिना फलमर्थवादेन वर्णितम् । अत एवाचार्यो ‘लोकान्वाव किल सोम्य तेऽवोचन् अहं तु ते तद्वक्ष्यामि’(छा. ४. १४. ३) इत्यग्नयः स्वस्वविद्याफलभूतानग्निलोकादीनेवावोचन् , न तु ब्रह्मविद्याया महत् फलम् , तदहं वक्ष्यामीति प्रतिजज्ञे । तस्मात् ततःप्रभृति यद्यावदाचार्यवाक्यं ‘इमं मानवमावर्तं नावर्तन्ते’(छा. ४. १५. ६) इत्येतत्पर्यन्तं तत्सर्वमग्न्यवशेषितफलरूपगत्यभिधानमेव ।
तथा हि – प्रथमं तावत् पुष्करपलाशवाक्यं फलवर्णनात्मकमिति निर्विवादम् । तदुपपादकस्तदनन्तरमक्षिस्थानोपदेशः । यदक्षिस्थानोपदेशानन्तरमक्षिस्थानमाहात्म्येन सर्पिरुदकाद्यश्लेषं वर्णयति तेन सकलपापश्लेषविदूरं स्वोचिताक्षिस्थाने विद्यमानं ब्रह्मोपासनीयमिति विधिलभ्यमानः तत्क्रतुन्यायेन वर्णितफलोपपादको भवति । एवं ‘सर्वाण्येनं वामान्यभिसंविशन्ति य एवं वेद’(छा. ४. १५. २) सर्वाणि वामानि नयति य एवं वेद (छा.४.१५.३) ‘सर्वेषु लोकेषु भाति य एवं वेद’(छा.४.१५.४) इति वाक्यान्यपि फलवर्णनात्मकानि । आद्यवाक्येन हि निखिलाभिमतवस्तुप्राप्तिमात्रं सङ्कल्पमात्रसाध्यं दहरविद्याफलत्वेन प्रसिद्धं वर्ण्यते । द्वितीयवाक्येन स्वभक्तेषु सकलाभिमतवस्तुप्रापकत्वं ‘यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् तं तं लोकञ्जयते तांश्च कामान् तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः’(मु.१.१०) इत्यादिश्रतिषु तत्फलत्वेन प्रसिद्धं वर्ण्यते । तृतीयवाक्येन ‘स स्वराड् भवति तेषां सर्वेषु कामचारो भवति(छा. ७.२५.२) इत्यादिश्रुतिप्रसिद्धं तत्फलं वर्ण्यते । तत्तत्फलोपपादकत्वेन च तत्तद्वाक्येभ्यः प्राक् ब्रह्मणस्संयद्वामत्ववामनीत्वभामनीत्वगुणाः विधीयन्ते । अग्रे च ‘इमं मानवमावर्तं नावर्तन्ते’ इति सत्यलोकस्थब्रह्मप्राप्त्यनन्तरमनावृत्तिलक्षणं फलं वर्ण्यते ।
एवं सर्वमिदमाचार्यवाक्यं सोपपादकफलवर्णनात्मकमित्यमुमर्थं हृदि निधाय ‘श्रुतोपनिषत्कगत्यभिधानात्’ इति सूत्रितम् । श्रुतोपनिषत्कस्य उपकोसलस्याचार्यवक्तव्यत्वेनाग्निभिरवशेषितायाः फलरूपाया गतेः कृत्स्नेन चाचार्यवाक्येनाभिधानात् तत्प्रकरणविच्छेदशङ्का नावकाशमासादयतीति तात्पर्यम् इत्थमस्य सूत्रस्य योजना भाष्य पूर्वसूत्रव्याख्यानसमय एवानागतावेक्षणन्यायेन प्रदर्शिता ” ‘आचार्यस्तु ते गतिं वक्ता’ इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वायरति” इति । अनेन हि भाष्यवाक्येनाक्षिपुरुषवाक्यमग्निभिरवशेषितां गतिमेवाचष्टे , न किञ्चिदप्यर्थान्तरमिति स्पष्टमेवोच्यते । भामत्यामपि भाष्यमिदमुक्तार्थपरतयैवावतारितम् "नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म । ‘य एषोऽक्षणि’ इत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्यत आह" इति ।
यदि तु ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्दो देवयानमार्गपर इति निर्बन्धः , तथाऽपि न दोषः । तदा हि गतिशब्दोऽन्येषामपि केषांचिदाचार्येण वक्तव्यानामुपलक्षणत्वेन व्याख्येयः ; गतिमात्रपरत्वे वैयर्थ्यप्रसङ्गात् । ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्निभिरनुक्तेऽपि हि विद्यान्तरसंबन्धित्वेनाचार्योक्ताऽपि देवयानगतिः प्रकृतब्रह्मविद्यायामपि दहरवैश्वानरविद्यादिष्विव ‘अनियमस्सर्वासामविरोधश्शब्दानुमानाभ्यां’(ब्र.सू. ३. ३. ३१) इति गुणोपसंहारपाददिकरणे प्रदर्शयिष्यमाणन्यायेन लभ्यत एव । एवञ्च सूत्रस्थगतिशब्दोऽपि श्रुतौ गतिशब्देन यावदुपलक्षितं तावत्परः । तथा च कृत्स्नेनाप्याचार्यवाक्येनाग्निवाक्यस्थगतिशब्दविषयमात्रस्यैवाभिधानान्न प्रकरणविच्छेदशङ्केति तात्पर्यम् । उदाहृतभाष्यभामतीग्रन्थयोरप्यत्रैव तात्पर्यम् । सूत्रे चकारोऽग्निविद्यानामङ्गत्वसमुच्चयार्थः । तथा च कृत्स्नस्याप्याचार्यवाक्यस्य प्रकृतब्रह्मविद्यापेक्षितगतिनिरूपणैदम्पर्येण प्रवृत्तत्वान्न वक्तृभेदेनाग्निविद्याव्यवधानेन वा प्रकरणविच्छेदः । अग्निविद्यानामङ्गत्वादपि न तद्व्यवधानेन प्रकरणविच्छेद इत्यर्थः । अङ्गत्वञ्च प्रकृतब्रह्मविद्योपक्रमतदुपसंहारमध्यपतितत्वात् , ‘अथ हैनम्’ इति पूर्वप्रकृतापेक्षावाचकेनाथशब्देनाग्निविद्यानां ब्रह्मविद्यायाश्च संम्बन्धावगमात् , ‘एनम्’ इति ब्रह्मविद्याधिकारिण उपकोसलस्यान्वादेशविहितेन एनादेशेन निर्देशात् ।
न च वाच्यम् – ‘अपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योक् जीवति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च’(छा. ४. ११. २) इत्यग्निविद्यानां पृथक्फलश्रवणादङ्गत्वं न युक्तम् – इति । तेषां वाक्यानामग्निविद्यानां ब्रह्मविद्याङ्गताया द्वारप्रदर्शनपरतया तदङ्गताऽनुगुणत्वात् ।
तथाहि – आद्येन वाक्येन तासां ब्रह्मोपासनाप्रावृत्तिप्रतिबन्धकदुरितनिवर्तकत्वमुच्यते । द्वितीयेन ‘‘स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति’(कौ. १. ३) इत्यादिश्रुतिष्वर्चिरादिमार्गे प्रथमपर्वत्वेन श्रुताग्निलोकप्रापकत्वमुच्यते ; अग्न्युपासनानामग्निलोकप्राप्तिफलकत्वौचित्यात् । यद्यपि ब्रह्मोपासनयैवार्चिरा दिपर्वप्राप्तिर्लभ्यते , तदर्थं नोपासनान्तरमपेक्ष्यते , तथाऽपि विदुषो देहपातानन्तरमेवार्चिरादिगतिप्राप्तौ प्रतिबन्धकसद्भावेऽपि तदानीमेव तत्प्रापकत्वमनेनोच्यते । अत एवास्मिन्नेव प्रकरणे श्रूयते ‘अथ यदु वैवास्मिञ्छव्यं कुर्वन्ति यदुच न , अर्चिषमेवाभिसंभवन्ति’ इति । अस्मिन्नक्षिपुरुषोपासके मृते पुत्रादयश्शव्यं शवकर्म पैतृमेधिकसंस्कारादिकं यदि कुर्वन्ति , यदि वा न कुर्वन्ति उभयथाऽपि तस्यार्चिरादिगतिप्राप्तिरवश्यं भवत्येवेत्यर्थः । अनेन हि वाक्येन विद्यान्तरोपासकानां शवकर्माकरणेऽर्चिरादिगतिप्राप्तौ किञ्चित् प्रतिबन्धो भवति । प्रकृतब्रह्मविद्यायां तु न भवतीत्युभयमप्यर्थतश्शब्दतश्च प्रतीयते । सोऽयमस्यां विशेषो ‘लोकीभवन्ति’ इति फलवाक्यपर्यालोचनायामग्निविद्यासाहित्यकृत इत्यवसीयते । तृतीयवाक्येन आप्रायणमहरहरावर्तनीयब्रह्मोपासनाफलभूयस्त्वसिद्ध्यर्थं पुरुषायुषप्राप्तिरुच्यते । चतुर्थवाक्येन प्रत्यहमुपासनाप्रवृत्तौ प्रतिबन्धकानां धनप्राप्तिरोगनिवृत्त्याद्युपायचिन्ताक्लेशानामप्रसङ्गाय ज्योक् उज्वलं धनधान्यादिसमृद्धं रोगानभिभूतञ्च जीवनमुच्यते । पञ्चमवाक्येन ब्रह्मविद्याफलाभिवृद्ध्यर्थमुपासकस्य पुत्रपौत्रादीनां ज्ञानकर्मसन्तत्यादिक्षयाभाव उच्यते । सत्पुत्रपौत्रादिसन्ततिवृद्धेर्हि अमुष्य पुत्रोऽमुष्य पौत्र इति पितृपितामहादिकीर्तिस्थैर्यसंपादनेन साक्षाच्च पितृपितामहाद्युपार्जितपारलौकिकफलाभिवृद्धिहेतुत्वमापस्तम्बेन स्मर्यते ‘ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गञ्च वर्धयन्त्येवमवरोऽवरः परेषामाभूतसम्प्लवात्’(आ. ध , सू. २.२४) इति । षष्ठवाक्येन उपासनाप्रीतानामग्नीनामैहिकपारलौकिकप्रतिबन्धनिरासादिद्वारा प्रकृतब्रह्मोपासनानुष्ठातृपरिपालकत्वमुच्यते । तस्मादग्निविद्यानामङ्गत्वान्न व्यवधायकत्वमित्यपि युक्तमेव ।
एतेन ‘एषा सोम्य ते’ इति निरपेक्षतयोपसंहृतायां ब्रह्मविद्यायामव्यवधानादिसमर्थनेऽपि न स्थानगुणान्वयस्सम्भवतीत्यपि निरस्तम् । गतिवाक्यावैयर्थ्याय गतिशब्देन यावत्क्रोडीकृतं तावदतिरिक्तापेक्षितराहित्येनैव उपसंहाराभिप्रायस्य वर्णनीयतया पात्नीवतयागवत्सर्वधा नैरपेक्ष्यासिद्धेः । गतिशब्दस्य फलपरत्वपक्षे तदुपपादकतया स्थानगुणयोरपि तेन क्रोडीकृतत्वात् मार्गपरत्वपक्षे वाक्यावैयर्थ्याय तस्य स्थानगुणोपलक्षणत्वावश्यंभावात् । एवं श्रुतोपनिषत्कसूत्रस्य सुखविशिष्टसूत्रप्रसाधितब्रह्मप्रकरणविच्छेदशङ्कानिरासार्थत्वेन योजनाद्वयं सुखविशिष्टसूत्रव्याख्यानसमय एव भाष्ये सूचितं प्रपञ्चेन प्रादीदृशम् । अक्षिपुरुषस्य ब्रह्मत्वे लिङ्गप्रदर्शनपरतयाऽपि एतत्सूत्रं तदनन्तरं भाष्ये व्याख्यातम् – ‘श्रुतोपनिषत्कस्य वेदान्तेषु प्रसिद्धा या देवयानगतिस्तदभिधानादपि अक्षिपुरुषः परं ब्रह्म’ इति । यद्यप्यब्रह्मविदामपि पञ्चाग्न्युपासकानां देवयानगतिः श्रुता , तथाऽपि क्वचिद्वचनबलात्तत्क्रतुन्यायातिलङ्घनेऽपि ब्रह्मविद्यायामेव सा प्रसिद्धेत्यौत्सर्गिकत्वाश्रयमिदं लिङ्गम् ।
सूत्रे श्रुतोपनिषत्केत्यल्पार्थे कप्रत्ययः देवयानगतेः ‘निर्विशेषं परं ब्रह्म साक्षात् कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः’ इत्युक्तरूपमन्दाधिकारिविषयत्वज्ञापनार्थः । १.२.१६ ।
एवं सिद्धान्तहेतव उक्ताः । अथ पूर्वपक्षनिराकरणार्थं सूत्रम् –
अनवस्थितेरसम्भवाच्च नेतरः । १७ ।
१७यदुक्तमक्ष्याधारश्छायात्मेति तन्न युज्यते ; छायाऽऽत्मनः प्रतिबिम्बस्याक्ष्यादिषु प्रतिबिम्बोपाधिष्वनवस्थितेः । सर्वत्र स्वस्थानस्थितस्यैव हि बिम्बस्य तत्तदुपाधिसम्बन्धमात्रमध्यस्यते , न तु बिम्बस्तत्तदुपाधीननुप्रविशति , न वा बिम्बाद्भिन्नः प्रतिबिम्बस्तत्तदुपाधिषूद्भवति । यथा चैतत्तथा समर्थितं विवरणप्रकाशे तातचरणैः । यद्यपि चाक्षणि छायात्मनस्स्यादवस्थितिः तथाऽपि बिम्बसन्निधानकाल एव सा भवेन्न सर्वदा । न चोपासनाकाले बिम्बसन्निधाननियमोऽस्ति येन तदानीमुपास्यसत्ता लभ्यते । न च तदाऽपि यस्य कस्यचिदक्षणि तत्सत्ता लभ्यत इति शङ्कनीयम् । ‘य एषोऽक्षणि’ इत्यत्र प्रत्यासत्तेरुपासकस्याक्षणीत्येव पर्यवसानात् , ‘दृश्यते’ इत्यस्य चरमश्रुतस्यान्यदृश्यत्वमादायापि चारितार्थ्यात् । न चैतदुपासनाकाले छायाकरं कञ्चित्पुरुषमक्षिसमीपे सन्निधाप्य उपासीतेति युक्तम् ; कल्पनागौरवात् , ‘अक्षणि पुरुष’ इति नित्यवच्छ्रवणायोगाच्च । तस्मादक्षणि च्छायात्मनः कदाऽप्यनवस्थितेः , उपासनाकाले अवस्थितिनियमाभावाच्च नाक्ष्याधारः परमात्मनः इतरः छायात्मा । तत्र संयद्वामत्वादिगुणानामसम्भवाच्च ।
ननु स्पष्ट एवासम्भवः किमर्थं सूत्रत उच्यते ? स्थानादिसूत्रे ब्रह्मणोऽपि नामरूपादिकं काल्पनिकमेवेति दर्शितम् , तद्वच्छायात्मनोऽपि काल्पनिकं सम्भवतीति शङ्कानिरासार्थमसम्भवस्सूत्रितः । वस्तुतो नामरूपरहितमपि ब्रह्म व्यावहारिकैस्स्वाध्यस्तैर्नामरूपैस्तद्वदिति सम्भवति तद्विषयत्वे संयद्वामत्वादिश्रुतीनां सालम्बनता , न तु च्छायात्मविषयत्वे । तत्र बुद्धिपूर्वमारोपणीयस्यार्थस्य फलश्रुत्यालम्बनत्वासम्भवादिति तन्निरासः । तत्र आत्मश्रुत्यादेरितिशिरस्कत्वेनाविवक्षितार्थत्वमित्यङ्गीकृत्य पूर्वपक्षप्रवर्तनादस्पष्टब्रह्मलिङ्गता । १. २. १७ ।
इति अन्तराधिकरणम् । ४ ।
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । १८ ।
१८पूर्वत्र ‘य एषोऽक्षणि’ इति परमात्मनः स्थाननिर्देशोपपादनाय ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः’(बृ. ५.७. ३) इत्याद्यन्तर्यामिब्राह्मणे तस्य पृथिव्याद्यनेकस्थानव्यपदेशो दृष्टान्ततयोक्तः । स आक्षिप्यते तत्र प्रतिपादितोऽन्तर्यामी परमात्मा न भवतीति । अन्तर्यामी दहराद्युपासनासिद्धः कौशिककुम्भसम्भवादिवत् कश्चन योगसिद्ध इति युक्तम् , न तु परमात्मा ; शरीररहितस्य नियन्तृत्वाभावात् । शरीरवतामेव तक्षादीनां वास्यादिनियन्तृत्वदर्शनात् । स्वशरीरनियमनेऽपि तेनैव शरीरेण नियन्तुश्शरीरवत्त्वात् । न च परमात्माऽपि नियम्यपृथिव्यादिशरीरेणैव शरीरवानिति वक्तुं शक्यम् ; ‘यस्य पृथिवी शरीरम्’ इत्याद्याम्नानात् , इति वाच्यम् । तक्षादीनां भोगायतनस्वशरीरेणैव नियन्तृत्वदर्शनात् , स्वभोगायतनशरीरस्यैव च स्वशरीरत्वात् । ‘य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ इति परमोपक्रमेण ‘एष त आत्माऽन्तर्याम्यमृतः’ इत्युपसंहारेण च प्रकरणप्रतिपाद्यत्वेन निर्णीतस्य पृथिव्यादिवाक्येष्वपि प्रथमश्रुतस्य यमयितृत्वस्योपपादनाय जीवविशेषपरिग्रहे स्थिते ‘एष त आत्मा’ इति ‘अमृत’ इति चोभयमौपचारिकं नेयं ‘प्राणस्तथाऽनुगमात्’(ब्र.सू. १.१. ११) इति न्यायादिति पूर्वः पक्षः ।
पृथिव्याद्यभिमानिदेवताविशेषोऽन्तर्यामीति पूर्वपक्षस्तु भाष्ये सम्भवमात्रेण दर्शितो न तु मुख्यः । उपक्रमोपसंहाराभ्यामेकस्यैवान्तर्यामित्वप्रतीतेः ; ‘यं पृथिवीं न वेद’ ‘यमापो न विदुः’ इत्यादिना तत्तदभिमानिदेवताव्यतिरेकप्रतीतेश्च । अनेनैव हेतुद्वयेन तथापूर्वपक्षस्यामुख्यतां दर्शयितुमेव सूत्रे ‘अधिदैवादिषु’ इति अन्तर्यामी विशेषितः । तेन ह्यधिदैवादिषु सर्वेष्वपि पर्यायेष्वेक एवान्तर्यामी तत्तद्देवताव्यतिरिक्तश्चेति दर्शितं भवति ।
सिद्धान्तस्तु – यमयितृत्वधर्मेण धर्मिग्रहणे साधनसाध्येन तेन धर्मिग्रहणाद्वरं नित्यसिद्धेन तद्ग्रहणम् ; कल्पनालाघवात् । अतोऽन्तर्यामित्वं साधारणमपि न्यायतः परमात्मन्येव समन्वेतीति तस्मादेव तद्धर्मव्यपदेशात् ‘एष त आत्मा’ इत्यादितद्धर्मव्यपदेशाच्चान्तर्यामी परमात्मा । एवञ्च शरीरवत एव नियन्तृत्वमिति शङ्काऽप्यनवकाशा ; साधनाधीन एव नियन्तृत्वे साधनविशेषत्वेन तदपेक्षणात् । न च नियन्तृत्वमात्रं साधनाधीनमिति नियमः ; ज्ञानमात्रमनित्यमित्यादिवदप्रयोजकत्वात् , श्रुत्यन्तरप्रसिद्धजगत्कारणत्वाक्षिप्तसहजसर्वशक्तिशालिन । परमेश्वरस्य स्वत एव सर्वनियमनशक्तियोगसम्भवाच्च । तथाऽपि नियन्ता शरीर्येवेति नियमो दृष्ट इति चेत् ; न तस्यापि कर्ता शरीर्येवेति नियमवदप्रयोजकत्वात् , नियम्यपृथिव्यादिशरीरेणैव परमेश्वरस्य शरीरित्वसम्भवाच्च । न च शरीरे भोक्तुरेव नियन्तृत्वमिति नियमः ; अभोक्तुरनियन्तृत्वे अचेतनत्वस्योपाधित्वात् । न च मुक्तात्मसु साध्याव्यापकत्वम् । तेषां परमेश्वराभेदेन पक्षान्तर्भावात् । न च यच्छरीरं यस्य भोगायतनं तेनैव स नियच्छतीति नियमः ; स्वकरगृहीतपरांगुल्यादिना क्रियमाणे चित्रलेखनादिकर्मणि तदभात् , अप्रयोजकत्वाच्च ।
किञ्च योगसिद्धत्वेऽपि न जीवोऽन्तर्यामी भवितुमर्हति ; तस्यापि नियन्त्रन्तरापेक्षायामनवस्थानात् । न च स्वतन्त्र एव स कल्पनीयः ; योगसिद्ध्यनन्तरं तस्य कथञ्चित् स्वातन्त्र्यसम्भवेऽपि ततः प्रागस्मदादिवन्नियन्त्रन्तरनियम्यत्वात् । तस्य नित्यस्वतन्त्रत्वाभ्युपगमे पर्यायान्तरेण परमेश्वरपक्षस्यैव परिग्रहापत्तेः । सेयमनवस्था भगवता भाष्यकारेण सिद्धान्ते तदप्रसक्तिप्रदर्शनमुखेन पूर्वपक्षे प्रसज्यत एवेति समुद्घाटिता – ‘तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न भवति ; भेदाभावात् । भेदे हि सति अनवस्थादोषापत्तिः’ इति । सिद्धान्तेऽन्तर्यामिणोऽप्यन्यो नियन्तेत्यनवस्था न प्रसज्यते ; नित्यस्वतन्त्रपरमेश्वरस्य नियन्त्रन्तरस्याकल्पनीयतया नियन्तृभेदाभावात् । पूर्वपक्षेऽन्तर्यामिणोऽपि जीवस्य नियन्त्राऽन्येन भाव्यमिति तद्भेदे सति अनवस्थाऽपत्तिरित्यर्थः ।
इदञ्च दूषणं ‘अनवस्थितेरसम्भवाच्च नेतरः’ इति पूर्वाधिकरणसूत्रानुवृत्तिमभिप्रेत्योद्घाटितम् । अत एव तत्र सूत्रे ‘अनवस्थितेः’ इति सोपसर्गप्रयोगोऽपि सफलः , अन्यथा तस्य तदधिकरणमात्रार्थत्वे लाघवात् स्थानादिसूत्रे अवोपसर्गाभावाच्च ‘स्थितेः’ इत्येवासूत्रयिष्यत् । ‘असम्भवात्’ इत्यनुवृत्तांशेन योगिनोऽसङ्कुचितसर्वभूतनियन्तृत्वासम्भवादिति हेत्वन्तरं समुच्चीयते । अयञ्च हेतुः ‘समस्तं विकारजातमन्तस्तिष्ठन् यमयतीति परमात्मनोऽयं धर्म उपपद्यते’ इति भाष्येण गर्भीकृतः । यद्यपि सर्वभूतनियन्तृत्वं योगिनो न सम्भवतीति स्पष्टमेव , तथाऽपि तत्सम्भवमङ्गीकृत्य कृत्वाचिन्तया न्यायः प्रदर्शितः । इंद तु कृत्वाचिन्तोद्धाटनम् । १.२.१८ ।
स्यादेतत् । यद्यपि सर्वभूतशब्दोक्तसकलकार्यनियन्तृत्वं योगिनो न संभवति , तथाऽपि साङ्ख्यस्मृतिकल्पिते प्रधाने तद्व्यपदेष्टुं शक्यम् । सर्वस्य कार्यस्य कारणाधीनत्वात् , ‘यः पृथिव्यां तिष्ठन्’ इत्यादिकं कार्येषु कारणस्यानुगतत्वात् । ‘यं पृथिवी न वेद’ इत्यादि तस्य ‘अप्रतर्क्यमविज्ञेयम्’ इत्यविज्ञेयत्ववर्णनात् । ‘यस्य पृथिवी शरीरम्’ इत्यादि कार्यकारणयोर्वस्तुतो भेदाभावात् । ‘पूर्वपक्षशरीरम्’ इत्यादौ स्वरूपवाचकस्यापि शरीरशब्दस्य दर्शनात् , ‘एष त आत्मा’ इति जीवस्य सर्वनिर्वाहके प्रधाने ‘ममात्मा भद्रसेन’ इतिवदात्मत्वोपचारात् , ‘अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतो मन्ता अविज्ञातो विज्ञाता’(बृ. ३. ७. २३) इत्यत्रादृष्टत्वादि रूपादिहीनत्वात् , द्रष्टृत्वादि तत्प्रकृतिकत्वेन तदभिन्नानाञ्चक्षुरादीनां दर्शनादिसाधनत्वात् , ‘चक्षू रूप ग्राहकम्’ इत्यादौ करणे कर्तृत्वोपचारादिति सर्वस्यापि विशेषणस्योपपन्नत्वात् प्रधानमेवान्तर्यामीति युक्तम् , न तु परमात्मेति ; तत्र पृथिव्यादिशरीरवत्त्वव्यपदेशानुपपत्तेः । न हि तस्य पृथिव्यादि स्वरूपम् , न वा भोगायतनम् । न च तस्य पृथिव्यादिशरीरेण भोक्तृभोगायतनभावसम्बन्धाभावेऽपि कर्तृकार्योपादानोपादेयभावादिसम्बन्धान्तरसत्त्वात्तथा व्यपदेशस्स्यादिति वाच्यम् । पित्रादेः पुत्रादिशरीरस्य च तादृक्सम्बन्धान्तरसत्त्वेऽपि ‘पितुश्शरीरम्’ इत्यादिव्यपदेशादर्शनेन तथा व्यपदेशे तेषां सम्बन्धानामप्रयोजकत्वात् । न च तदज्ञानकल्पितत्वेन सम्बन्धेन तथा व्यपदेशः ; स्थावज्ञानकल्पिते शरीरे ‘स्थाणोश्श्शरीरम्’ इति व्यपदेशा दर्शनात् । न च नियम्यत्वेन तथा व्यपदेशः ; स्वामिनियम्यभृत्यादिशरीरेषु नाविकनियम्यनौकादिषु तत्तच्छरीरत्वव्यपदेशाभावात् । न च यावद्द्रव्यभाविना नियम्यत्वेन तथा व्यपदेशः ; स्वशरीरस्यापि व्याध्यादिभिः कदाचिदनियम्यत्वेन शरीरत्वव्यपदेशे तस्य प्रयोजकत्वायोगात् । ‘तदानीमपि स्वशरीरस्य नियम्यत्वयोग्यताऽस्ति’ इति चेत् न । तथा सति नौकादिष्वपि सर्वदा नाविकादिनियम्यत्वयोग्यताऽस्तीत्यतिप्रसङ्गतादवस्थ्यादिति पूर्वपक्षान्तरयाशंक्य निराकरोति –
न च स्मार्तमतद्धर्माभिलापात् । १९ ।
१९न साङ्ख्यस्मृत्युक्तं प्रधानमन्तर्यामीति युक्तम् ; अतद्धर्माणां द्रष्टृत्वादीनामभिलापात् ; तेषां मुख्यत्वसम्भवे औपचारिकत्वकल्पनायोगात् । ‘यस्य पृथिवी शरीरम्’ इत्यादि तु नियन्तृत्वप्रसक्तशरीरापेक्षाशङ्कां नित्यसिद्धे नियन्तृत्वे नास्ति तदपेक्षेति सूचनेन व्यावर्तयितुमन्तर्यामिणो नियमनार्थं नियम्यपृथिव्याद्यतिरेकेण शरीरं नास्तीति प्रतिपादनपरम् । आकाङ्क्षाऽनुरोधात् , न तु पृथिव्यादेस्तच्छरीरत्वप्रतिपादनपरमपि अनाकाङ्क्षितत्वात् , उभयत्र वाक्यव्यापारायोगाच्च । १. २. १९ ।
ननु यदि द्रष्टृत्वादिमुख्यताऽनुरोधान्न प्रधानमन्तर्यामि , तर्हि तत एव न परमात्माऽपि , किन्तु शारीर एव । यदि ‘द्रष्टा’ इत्यादिविशेषणैः ‘आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ. २. ४. ५) ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन’(बृ. २. ४. ५) ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते’(बृ. ४. ५. ६) इत्यादिश्रुत्यन्तरप्रत्यभिज्ञानादात्मविषयसाक्षात्कारश्रवणमनननिदिध्यासनवत्वमुच्यते , यदि वा चक्षुश्श्रोत्रमनोबुद्धिकरणकज्ञानवत्त्वमुच्यते , उभयथाऽपि जीव एव द्रष्टृत्वादिकं घटते न परमात्मनि । द्रष्टृत्वादिशब्दा रूपालोकनादिमत्त्ववाचकास्सन्तु इति चेत् । न । तथाऽपि मन्तृशब्दाभिधेयस्य विचारयितृत्वस्य सर्वज्ञे ब्रह्मण्यसम्भवात् । दर्शनादिशब्दानां रूपालोकनादिवाचित्वे ‘रूपं दृष्टं घटो दृष्ट’ इत्यादि प्रयोगाणां ‘इन्द्र इन्द्राणीपतिवरुणो वरुणानीपतिः’ इत्यादिवदसामञ्जस्य प्रसङ्गाच्च । न च –चाक्षुषादिज्ञानवाचित्वमप्यसमञ्जसम् । चक्षुरादीनामयोग्यत्वेन ‘दृष्टं पश्यामि’ इत्याद्यनुभवे स्फुरणासम्भवादिति वाच्यम् ; चक्षुरादिकरणविशेषप्रयोज्यजातिविशेषवाचित्वोपपत्तेः ।
न च वाच्यम् – ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः’(श्वे. ३. १९) इत्यत्र रूपालोकनादिमात्रे पश्यत्यादिप्रयोगो दृष्टः इति । तत्र जवनशब्दस्य दूरस्थसम्बन्ध इव तस्य रूपालोकनादौ लक्षणाऽभ्युपगमात् , इह मुख्यार्थसम्भवेन लक्षणाकल्पनानौचित्यात् । तस्माज्जीव एवान्तर्यामी , ‘न दृष्टेर्द्रष्टारं पश्ये: न श्रुतेर्श्रोतारं शृणुयाः’(बृ. ३. ४. २) इत्यादिश्रुत्यन्तरे तस्मिन्नदृष्टत्वादीनां प्रसिद्धेश्च । साधनाधीनमपि तस्यैव यमयितृत्वं ग्राह्यम् ; द्रष्टृत्वाद्यनुरोधात् । तस्मिन्नमृतशब्दोऽपि युज्यते ; नित्यत्वात् । ‘क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याऽविद्ये ईशते यस्तु सोऽन्यः’(श्वे. ५. १) इति श्रुत्यन्तरे तस्मिन्दृष्टप्रयोगत्वाच्च ।
अथोच्येत – जीवः कोऽन्तर्यामी स्यात् । न तावत्तत्तदुपासकजीवः ; परिच्छिन्ने तत्र पृथिव्यादिस्थितितन्नियन्तृत्वयोरसम्भवात् , ‘किमन्तर्यामिणं वेत्थ’ इति गन्धर्वेण पृष्टस्य काप्यस्य ‘नाहं तं भगवन्वेद’(बृ. ३. ७.१) इत्युत्तरासामञ्जस्यप्रसङ्गाच्च । यज्ञविद्याविदः काप्यस्य कर्मफलभोक्तृदेहातिरिक्तजीवज्ञानावश्यम्भावात् । नापि पृथिव्याघभिमानी जीवः श्रोतारमुद्दालकं प्रति पराग्भूते तस्मिन् ‘एष त आमा’(बृ. ३. ७. ३) इति तदात्मत्वोपदेशायोगात् । पृथिव्यादिष्वप्यभिमानिजीवस्य प्रत्येकं भिन्नतया ‘सर्वाणि भूतानि योऽन्तरो यमयति’(बृ. ३. ७. १) इत्युपक्रान्ततया एकस्य सर्वनियन्तृताया अनन्वयप्रसङ्गाच्च । नापि जीवसमुदायः ; तस्य पृथिव्यादिस्थत्वतन्नियन्तृत्वयोरभावेन ‘यः पृथिव्यान्तिष्ठन् पृथिव्या अन्तरः’(बृ. ३.७. ३) इत्यादेरनन्वयात् । न च सर्वभूतवाक्ये जीवसमुदायः पृथिव्यादिवाक्ये तत्तदभिमानि जीव इति वैरूप्यकल्पनं युक्तम् । न वा तदपि निर्वोढुं शक्यम् , ‘एष त आत्मा’ इत्युपदेशायोगस्य उक्तत्वात् । अपिच उपासकजीव इति पृथिव्याद्यभिमानि जीव इति पूर्वपक्षौ ‘शब्दविशेषात्’(ब्र.सू. १. २. ५) ‘भेदव्यपदेशाच्चान्यः’(ब्र.सू. १.१.११) इति सूत्राम्यां निरसितौ नात्र निरसनीयौ । शाण्डिल्यविद्यायां ‘एष म आत्मा’(छा.३.१४.१) इतिवदिह प्रतिपर्यायं ‘एष त आत्मा’ इति शब्दविशेषसत्त्वात् । आदित्यपर्याये ‘यमादित्यो न वेद’(बृ. ३.७.९.) इत्यादिभेदव्यपदेशवत् पृथिव्यादिपर्यायेष्वपि ‘यं पृथिवी न वेद’(बृ. ३. ७. ३) इत्यादिभेदव्यपदेशसत्त्वाच्च । एवं च सर्वजीवसमुदाय इति पूर्वपक्षोऽपि न सम्भवति । सर्वभूतपर्याये ‘यं सर्वाणि भूतानि न विदुः’(बृ. ३. ७. १५) इत्यादिभेदव्यपदेशदर्शनात् ।
अपि च प्रतिपर्यायं ‘अमृतं’ इति जीवात् भेदो निर्दिश्यत । अमृतत्वं ह्यमरणधर्मकत्वम् । न च जीवस्यापि नित्यत्वात्तत्रामृतत्वोक्तिरुपपद्यत इति वाच्यम् । आत्मत्वकीर्तनादेव स्वतो नित्यत्वस्य सिद्धत्वेनामृतपदस्य जीवधर्मशरीरोपाधिकमरणराहित्यपरत्व एव व्यावर्तकत्वोपपत्तेः । न च व्यावर्तकत्वे सम्भवति स्वरूपकथनमात्रार्थत्वं युक्तम् । अत एव ‘राजपुरोहितौ सायुज्यकामौ यजेयाताम्’ इत्यत्र ‘राज्ञः पुरो हितौ’ इति षष्ठीतत्पुरुषैकशेषपक्षे क्षत्रियादन्यस्य पुरोहिताभावात् राजपदं व्यर्थं स्यादिति तं त्यक्त्वा ‘राजा च पुरोहितश्च’ इति द्वन्द्वमाश्रित्य राज्ञः पुरोहितस्य च कुलाययज्ञे सहाधिकार इति निर्णीतं पूर्वतन्त्रे । ‘क्षरं त्वविद्या ह्यमृतं तु विद्या’(श्वे.५.१) इत्यत्रामृतपदं विशेष्यसमर्पणार्थम् , न त्वितरव्यावर्तनार्थम् । न वा तदपि सर्वधैवव्यावर्तकम् ; पूर्वनिर्दिष्टक्षरवैलक्षण्येन विशेष्यसमर्पकत्वात् । किञ्च उपक्रम एवान्तर्यामिविज्ञानेन सर्वज्ञानप्रतिज्ञाने सर्ववेदान्तप्रसिद्धे ब्रह्मलिङ्गे जाग्रति कथमोपसंहारिकैर्द्रष्टृत्वादिभिर्जीवपूर्वपक्षस्योदयः ? न च ‘उपक्रमगतमेकं लिङ्गमुपरितनानेकालिङ्गाविरोधे दुर्बलम्’ इति भूतादिपादव्यपदेशसूत्रोक्तन्यायोऽत्र प्रसरति । ब्रह्माब्रह्मलिङ्गसमावेशे ब्रह्मण्यब्रह्मलिङ्गानां नेतुं शक्यत्वेनान्यथालिद्धतायाः प्रतर्दनाधिकरणे प्रदर्शितत्वात् । तस्मात् केनापि प्रकारेणात्र जीवपूर्वपक्षो न सम्भवतीति चेत् - उच्यते ।
अस्ति तावदन्तःकरणोपाधिकानां कर्तृत्वभोक्तृत्वशालिनां प्रतिदेहमन्तःकरणभेदेन विभक्तानां प्रमातृरूपाणां जीवानामधिष्ठानभूतस्सुषुप्तावन्तःकरणविलयेन प्रमात्रभावेऽपि सौषुप्तिकाज्ञानसुखानुभवात्मा मूलाज्ञानोपाधिकस्साक्षिरूपो जीवः , स तु न प्रतिदेहं भिन्नः। ‘त्वत्तोऽहं भिन्नः’ इत्यादिभेदप्रत्ययानां प्रमातृविषयत्वेन लाघवादेकाज्ञानोपधिकस्य सर्वभूतानुगतस्यैकस्यैव तस्य सिद्धेः , ‘एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च’(श्वे. ६.११) इति श्रुतेश्च । न च इयं श्रुतिः परमेश्वरविषया ; मायाशबलिते सगुणे परमेश्वरे ‘केवलो निर्गुण’ इति विशेषणानुपपत्तेः ॥
न च सर्वभूतेषु सुखाद्यनुभवरूपस्य साक्षिण एकत्वे पुरुषान्तरसुखादेरपि पुरुषान्तरं प्रति प्रत्यक्षत्वापत्तिः , तस्य पुरुषान्तरं प्रति आवृतत्वात् , सर्वेषु साक्षिण एकत्वेऽपि यं प्रति यदनावृतं तं प्रत्येव तस्य तदनुभवरूपताया: फलबलेन कल्पनात् , अन्यथा घटाद्यधिष्ठानं ब्रह्मचैतन्यमेवाध्यासिकसम्बन्धेन घटादिभासकमिति सर्वदा सर्वेषां घटाद्यवभासप्रसङ्गात् ।
न च वाच्यम् – यस्य स्वोपाध्यन्तःकरणवृत्तिकृता घटाद्यधिष्ठानचैतन्येनाभेदाभिव्यक्तिः , तस्यैव तदवभासते इति ; व्यावर्तकोपाधावन्तःकरणे दर्पण इव स्थिते बिम्बप्रतिविम्बाद्यात्मना भेदानुवृत्त्यवश्यम्भावेनाभेदाभिव्यक्त्यसम्भवात् । तात्विकाभेदस्य प्रागपि सत्त्वात् । तस्मादन्तःकरणवृत्तिकृतावरणाभिभवेन यं प्रति घटादिरनावृतः , तं प्रति तदधिष्ठानचैतन्यं घटाद्यवभासकमिति फलबलात् कल्पनीयम् । अभेदाभिव्यक्तिव्यवहारश्च ब्रह्मणा सह तस्य जीवस्य घटादिविषयावरणराहित्यरूपसाम्यापत्तिपर इति व्यवस्थापनीयम् । तस्मान्मूलाज्ञानोपाधिकं सर्वेषां प्रत्यग्भूत एकस्साक्षीति स्थितौ स एवान्तर्यामीति पूर्वःपक्षः ।
अस्मिन् सर्वमप्यन्तर्यामिब्राह्मणं सङ्गच्छते । एवं हि तत्रोपाख्यायते –– ‘अथ हैनमुद्दालक आरुणः पप्रच्छ । याज्ञवल्क्येति होवाच । मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीत् भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , वेत्थ नु त्वं काप्य तत् सूत्रं येनायञ्च लोकः परञ्च लोकस्सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तत् भगवन्वेदेति । सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , वेत्थ नु त्वं काप्यं तमन्तर्यामिणम् । य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन्वेदेति । सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , यो वै तत् काप्य सूत्रं विद्यात्तञ्चान्तर्यामिणं स ब्रह्मवित् स लोकवित् स देववित्स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वान् तञ्चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यतीति । वेद वा अहं गौतम तत्सूत्रं चान्तर्यामिणमिति । यो वा इदं कञ्चित् ब्रूयात् वेद वेदेति । यथा वेत्थ तथा ब्रूहि’(बृ. ३. ७. १) इति । एवं कथायां विजिगीषुणा गौतमवंश्येनारुणिना पृष्टो याज्ञवल्क्यो ‘वायुर्वै गौतम तत् सूत्रम्’(बृ. ३. ७. २) इत्यारभ्य सूत्रात्मस्वरूपमुक्त्वा ‘यः पृथिव्यान्तिष्ठन्’(बृ. ३. ७. ३) इत्यारभ्य ‘यो रेतसि तिष्ठन्’(बृ. ३. ७. २३) इत्यन्तैः पर्यायैः पृथिव्यग्निवाय्वादिक्रमेण सर्वान्तर्यामिणमुपदिश्य ‘अदृष्टो द्रष्टाऽश्रुतश्श्रोता’ इत्यादिना तस्यादृष्टत्वद्रष्टृत्वादिकमुक्त्वा ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. ३. ७. २३) इत्यादिना ततोऽन्यं द्रष्टत्वादिगुणकं निषिध्य , ‘एष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम्’(बृ. ३. ७. २३) इति – तदतिरिक्तस्य सर्वस्यानित्यत्वं प्रतिपादयामास ।
अत्र तावदेकस्य सर्ववस्तुनियन्तृत्वोक्तिमारभ्य सर्वमप्युपपद्यते ; एकस्यैव सर्वसाक्षिणो जीवस्य तत्तदन्तःकरणावच्छिन्नस्वांशभेदद्वारा तदीयकार्यकरणोपकरणभूतसर्ववस्तुनियन्तृत्वात् । पृथिव्यादिसर्वनियन्तृसर्वभूतानुगतैकजीवरूपत्वेन जीवज्ञानस्य यज्ञविद्याऽनुपयोगितया काप्यस्य तदज्ञानसम्भवात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य सूत्रात्मनि ‘वायुर्वै गौतम तत्सूत्रम्’ इत्युक्त्वा ‘तस्माद्वै गौतम पुरुषं प्रेतमाहुर्यस्रंसिषतास्याङ्गानीति । वायुना हि गौतम तत्सूत्रेण सन्दृब्धानि भवन्ति’(बृ. ३.७.२) इत्युपपत्त्युपन्यासेन च वायुरूपतयाऽवगते प्रशंसार्थत्वावश्यम्भावेन तदेकवाक्योपात्तेऽन्तर्यामिण्यपि तदर्थत्वावगमात् । ‘य: पृथिव्यां तिष्ठन्’ इत्यादिपर्यायेषु तत्तज्जीवेभ्यो घटाकाशादिभ्यो महाकाशस्येव भेदनिर्देशसामञ्जस्यात् । ‘एष त आत्मा’ इति शब्दविशेषस्यापि अन्तःकरणावच्छिन्नस्यापि तव एष सकलसाक्षी जीव आत्मा व्यापकस्वरूपमिति सामञ्जस्यात् । अमृतत्वस्यापि तत्तदन्तःकरणावच्छिन्न इवाज्ञानोपाधिकस्सर्वगतो जीवस्तत्तच्छरीरापादानकोत्क्रमणरूपमरणवान्न भवतीति साङ्गत्यात् । दृष्ट्रत्वादिवर्जनस्य च जीवस्य प्रमातृरूपाणामिव अनुगतसाक्षिरूपस्याप्रसिद्धतया सङ्गतत्वात् । द्रष्ट्रत्वादीनाञ्च अन्तःकरणावच्छिन्नप्रमातृरूपेण समन्वयात् । द्रष्ट्रन्तरादिनिषेधानाञ्च कथमेकस्मिन् देहे द्वौ द्रष्टारौ जीवोऽन्तर्यामी च , देहेन्द्रियाणामनेकचेतनदर्शनाद्यर्थत्वे तदीयविरुद्धाभिप्रायानुवर्तनासम्भवात् , न च शरीरेन्द्रियान्तरैरन्तर्यामिणो दर्शनादिमत्त्वम् , ‘यस्य पृथिवी शरीरम्’ इत्यादिभिस्तस्य , नियम्यशरीरातिरिक्तशरीरेन्द्रियराहित्यावगमात् ; इत्याशङ्कायां तत्र तत्र भेदनिर्देशेन देवमनुष्यादिरूपद्रष्ट्रतिरिक्तं तदन्तर्यामिरूपं द्रष्ट्रन्तरमुपदिष्टमिति न भ्रमितव्यम् ; देवमनुष्यादिगतद्रष्ट्रत्वादिगुणैरेव अन्तर्यामी द्रष्ट्रत्वादिमानुपदिष्टः द्रष्ट्रत्वादिगुणकानां प्रमातॄणामन्तर्यामितो वस्तुतो भेदाभावादित्यभिप्रायत्वात् । तस्मात् सर्वसाक्षी जीव एवान्तर्यामीति पूर्वपक्षान्तरमाशंक्य निराकरोति –
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । २० ।
२०शारीरश्चान्तर्यामी न भवति । उभयेऽपि माध्यन्दिनाः काण्वाश्च अन्तर्यामिणो भेदेन एनं पूर्वपक्ष्याशङ्कितं सर्वभूतानुगतसाक्षिरूपं शारीरमधीयते । ‘य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृत’ इति माध्यन्दिनाः । अस्मिन्नेव पर्याये ‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः’(बृ. ३. ७. २२) इति काण्वाः । अत्र विज्ञानशब्दस्य स्थानप्रमाणाज्जीव एवार्थ इत्यवगतम् । न चात्र वैपरीत्यं शङ्कनीयम् । आत्मशब्दस्य जीवे रूढत्वात् विज्ञानशब्दस्य च ‘विज्ञान यज्ञं तनुते’(तै.२. ५.१) इत्यादिश्रुत्यन्तरेषु जीवे दृष्टप्रयोगत्वाच्च । अयञ्च आत्मविज्ञानशब्दोक्तो जीवस्साक्षिरूप एव , न तु तत्तत्प्रमातृरूपः , एकवचननिर्देशात् ।
‘यस्सर्वेषु भूतेषु तिष्ठन्’ इति पर्याये भूतशब्दोदितानां सर्वेषां प्रमातृरूपाणां जीवानां पृथगन्तर्यामिनियम्यत्वस्य वर्णितत्वाच्च । तत्र भूतशब्दो ‘भवन्ति जायन्ते’ इति व्युत्पत्त्या न जडप्रपञ्चपरः ; भूतशब्दस्य कार्ययोगतः प्राणिषु रूढेर्बलवत्त्वात् । न च तत्र महाभूतेषु रूढेः प्राणिषु रूढेश्च विनिगमनाविरहेण अन्योन्यप्रतिरोधे योगोन्मेषश्शङ्कनीयः ; ‘यः पृथिव्यान्तिष्ठन्’ इत्यादिपर्यायेषु पृथिव्यादिमहाभूतानामुपात्तत्वेन अत्र प्राणिरूढेरेवोन्मेषात् । तस्मात्परमेश्वर एवान्तर्यामी । तत्र द्रष्ट्रत्वादिवर्णनं जीवाभेदाभिप्रायेण योज्यम् । द्रष्ट्रन्तरादिनिषेधश्च द्रष्ट्रट्वयशङ्कावारणाय जीवाभेदाभिप्रायस्फोरणार्थत्वेन पूर्वपक्षोक्तरीत्यैव योजनीयः ।
सूत्रे ‘शारीर’ इत्येकवचनेन – एक एवाज्ञानोपाधिको जीवोऽन्तर्यामीति पूर्वपक्षः, न तु तद्विशेषा देवमनुष्यादिजीव इति ; ‘य इमञ्च लोकम्’ इत्यादावेकवचननिर्देशादिति सूचितम् । चकारात् पूर्वसूत्रात् नमोऽनुवर्तनं सूचितम् । ‘उभये’ इत्यनेन – काण्वमाध्यन्दिनपाठयोर्भिन्नभिन्नार्थान्तरपरत्वशङ्कानिराकरणद्वारा तत्रत्यभेदनिर्देश एवात्र हेतुः , न तु ‘एष त आत्मा’ ‘यं सर्वाणि भूतानि न विदुः’ इत्यादिभेदनिर्देशः, अन्तर्यामिणस्तत्तदुपासकजीवरूपत्वेन, सर्वजीवरूपत्वेन वा पूर्वपक्षस्य हि तादृशो भेदनिर्देशः प्रतिक्षेपकस्स्यान्न तु सर्वसाक्षिजीवरूपत्वेन पूर्वपक्षस्य ; तादृशभेदनिर्देशानां प्रमातृसाक्षिभेदमादायोपपन्नत्वादिति सूचितम् । एतत्सूचनार्थत्वाभावे क्वाचित्कभेदनिर्देशेऽपि साध्यसिद्धेरुभयग्रहणं व्यर्थमेव स्यात् । न हि नानाशाखाऽऽम्नातशाण्डिल्यवैश्वानरविद्यादिगतविषयवाक्यानां ब्रह्यपरत्वसाधने नानाशाखाम्नातत्वमुद्घाटितम् । न वा अस्मिन्नधिकरणे ‘तद्धर्मव्यपदेशात्’ इति हेतोरुभयत्रापि समाम्नातत्वमुक्तम् । ‘भेदेन’ इत्युपलक्षणतृतीया निर्देशेन – जीवस्येश्वरात् भेदो न विशेषणम् , किन्तु उपलक्षणमेव, मिथ्यात्वेन यावद्द्रव्यभावित्वादिति सूचितम् । एतत्सूचनार्थत्वाभावे लाघवात् ‘भिन्नमेनमधीयते’ इत्येवासूत्रयिष्यत । इदमप्यस्पष्टब्रह्मलिङ्गमधिकरणम् ; योगिपूर्वपक्षनिराकरणार्थं यमयितृत्वस्य साधननिरपेक्षग्रहणोत्सर्गिकतया ब्रह्मलिङ्गतायाः प्रसाधनीयत्वात् , जीव पूर्वपक्षनिराकरणार्थं भेदेनाधीयते इति हेतोश्च स्थानप्रमाणादिभिर्नेयत्वात् । १.२.२०।
इति अन्तर्याम्यधिकरणम् ।
अदृश्यत्वादिगुणको धर्मोक्तेः । २१ ।
२१अथर्वणे श्रूयते ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणि पादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यत् भूतयोनिं परिपश्यन्ति धीराः’(मु. १. ५. ६) इति ।
अत्रायमदृश्यत्वादिगुणको भूतयोनिः प्रधानं शारीरः परमात्मा वेत्यदृश्यत्वादीनां साधारण्यात् संशये प्रधानमिति तावत् प्राप्तम् । ‘यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु. १.१.७) इति समनन्तरमन्त्रोक्ताचेतनदृष्टान्त सारूप्यात् , परिणामवादे विवर्तवादे च कनकरुचकस्रग्भुजङ्गरीत्याऽवश्यापेक्षितात् । अत्रापि ‘यथा सुदीप्तात् पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैत्रापियन्ति’(मु. २. १. १) इति उपरितनमन्त्रान्तरप्रदर्शितादचेतनान्नमनःप्राणादिवक्ष्यमाणकार्यसारूप्याच्च ।
अपि च पृथिव्यादिदृष्टदृश्यत्वादिनिषेधस्याधिकरणविशेषाकाङ्क्षायां तस्यैव पृथिव्यादेरवस्थाभेदेनाधिकरणत्वे सम्भवत्यधिकरणान्तरं नापेक्षणीयम् ; बुद्धिगौरवापत्तेः ; बाल्यकार्यादिनिषेधानामवस्थाभेदेन प्रतियोग्यधिकरण एवान्वयस्यौत्सर्गिकत्वानुभवाच्च । पृथिव्यादीनाञ्च सूक्ष्मावस्थारूपं प्रधानं न तेभ्यो भिन्नम् ; उपादानोपादेययोरभेदात् । तद्भेदाभ्युपगमेऽपि अचेतनपृथिव्यादिरूपदृश्यभिन्नतया प्रतिपाद्यमानमचेतनं प्रधानमेवेति युक्तम् ; ‘नञवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः’ इति न्यायेनाब्राह्मणादिशब्दवत् तदन्यवृत्तेश्शब्दस्य तत्सदृशान्यवृत्तित्वनियमात् । न ह्यब्राह्मणादिशब्दाः क्षत्रियादिष्विव लोष्टादिषु प्रयुज्यन्ते । अन्तर्यामिण्यदृष्ट्रत्वादि श्रवणेऽपि द्रष्ट्रत्वाद्यनुरोधात् ‘नञिवयुक्त’ न्यायस्त्यक्तः । न चेह तत्त्यागे कारणमस्ति ।
नन्विहापि ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम्’(मु. १. १. ८) ‘यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादतद्ब्रह्म नाम रूपमन्नं च जायते’(मु. १. १. ९) इत्यादिवाक्यशेषे ब्रह्मश्रुतिसर्वज्ञत्वलिङ्गादिकमाम्नायते । उपक्रमेऽपि कस्मिन्न भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. १. १. ३) इति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं ब्रह्मलिङ्गमाम्नायते । ‘स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’(मु. १. १. १) इति ब्रह्मविद्यासमाख्या दृश्यते । तथा द्वे विद्ये वेदितव्ये परा चैवापरा च’(मु. १.१.४) इति विद्ययोः परापरविभागं कृत्वा तयोरपरामृग्वेदादिलक्षणामुक्त्वा ‘अथ परा यथा तदक्षरमधिगम्यते’(मु. १.१.५) इति वक्ष्यमाणाक्षराविद्यायाः परविद्यात्वमुच्यते । तदेतत् सर्वं न प्रधाने सङ्गमयितुं शक्यम् ।
अपि च सर्वेषां कारणवाक्यानां ‘ईक्षत्यधिकरणे’(ब्र.सू.१.१.५) साङ्ख्याभिमतप्रधानपरत्वं निरस्तम् । तदुपदर्शिता युक्तयोऽत्रापि प्रवर्तन्त एव । अस्ति खल्वीक्षापूर्वकस्रष्ट्रत्वश्रवणमत्रापि – ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते’ इति । यतस्तपोऽत्र स्रष्टव्यालोचनरूपं ज्ञानं ‘यस्य ज्ञानमयं तपः’(मु.१.१.९) इत्यग्रे विवरणात् । आत्मशब्दश्चात्रास्ति – ‘यस्सर्वज्ञस्सर्वविद्यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु. २. २. ७) इत्यादिमन्त्रेषु । भूतयोनिनिष्ठस्य मोक्षोपदेशोऽप्यस्ति – ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. ३. १. ३) इत्यादिमन्त्रेषु । हेयत्वञ्च भूतयोनेरग्रे क्वापि नोच्यते । चकारसमुच्चितः प्रतिज्ञाविरोधोऽप्यस्तीति प्रदर्शितमेव । साक्षाच्च स्व शब्देन परमेश्वरस्य कर्तृत्वमुपादानत्वं च श्रूयते ‘यदा पश्यः’ इत्यादिमन्त्रेषु । तथाऽप्यचेतनदृष्टान्तानुगुण्यं कार्यसारूप्यं दृश्यत्वादिनिषेधान्तरस्य चावलम्ब्यात्र प्रत्यवस्थानमिति चेत् । न । एतावत् ब्रह्मश्रुतिलिङ्गादिकमविगणय्य तन्मात्रावलम्बनेन प्रत्यवस्थानायोगात् । ‘यथा सोम्यैकेन मृत्पिण्डेन’(छा.उ.६-१-४) इत्याद्यचेतनदृष्टान्तोपादानस्य ईक्षत्यधिकरणे लिखित विषयवाक्येऽपि सत्त्वेन ततो भूतयोनिवाक्ये विशेषशङ्कानुदयात् । कार्यकारणसारूप्यनियमस्य न विलक्षणत्वाधिकरणे(ब्र.सू.२. १. ३) निराकरिष्यमाणत्वात् । तत्र परिणामवाद एव तच्छङ्कानिराकरणमित्यत्र नियामकाभावात् , स्वच्छ जलगतनैल्यादिविवर्ते तद्व्यभिचारस्य स्फुटत्वाच्च । ‘यथा सुदीप्तात्’ इति मन्त्रस्यापि प्रलये ब्रह्मणि निलीनाश्चेतनास्सर्गादौ तत उद्गच्छन्तीत्येतत्परत्वोपपत्त्या सर्वस्य कार्यस्य कारणसारूप्यपरत्वासिद्धेः, निषेधस्वारस्ययुक्तेः भूतयोनिः शारीर इति वा ब्रह्मेति वा पक्षयोरेवानुगुण्यस्य वक्ष्यमाणतया ततः प्रधानपूर्वपक्षस्योन्मेषासम्भवाच्च । तस्मात् प्रधानं भूतयोनिरिति पूर्वपक्षो न युक्त इति चेत् ।
उच्यते । इहाक्षरस्य भूतयोनेः प्रतिपादनानन्तरं ‘दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात् परतः परः’(मु. २. १. २) इति ततोऽपि परस्य पुरुषस्य प्रतिपादनं दृश्यते । स पुरुषो ब्रह्मैवेति तत्र ब्रह्मश्रुत्यादीनां समन्वयः । तथाऽक्षरात् सम्भवतीह विश्वम्’(मु. १.१.७) इति अक्षरकार्यत्वेन वर्णिताद्विश्वस्मात् परतोऽक्षरादपि परत्वेन ‘‘महतः परमव्यक्तमव्यक्तात् पुरुषः परः’(क. १.३.११) इति कठवल्लीष्विव तस्यैव प्रतिपिपादयिषितत्वात् । यत्तु ‘यया तदक्षरमधिगम्यते’(मु. १. १. ५) इति परविद्याविषयत्वमक्षरस्योक्तम् , तत् उपक्रान्तसर्वविज्ञानप्रतिज्ञानिर्वाहाय प्रतिपिपादयिषितम् । ‘तपसा चीयते ब्रह्म’(मु. १.१.८) इत्यादिमन्त्रेषु प्रतिपाद्यमानं ब्रह्मणस्सर्वोपादानत्वं ब्रह्मशक्तिरूपेण सकलनामरूपबीजभूतेनाव्याकृतेन इहाक्षरभूतयोनिशब्दगृहीतेन घटनीयमिति तस्यापि सर्वोपादानत्वेनात्र प्रतिपादनीयत्वमभिप्रेत्य, न तु स्वातन्त्र्येण तदेव प्रतिपादनीयमित्यभिप्रेत्य, ‘अक्षरात् परतः परः’ इत्यग्रे तत्प्रतिपादने च पारार्थ्यस्य स्फुटत्वात् ।
ननु ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्’(मु. १. १. १३) इति अक्षरात्परत्वेन वर्णनीयेऽपि पुरुषे अक्षरशब्दश्रुतः । तेन स एव प्राधान्येन प्रतिपाद्यमानो भूतयोन्यक्षरम् । ‘अक्षरात् परतः’ इति पुरुषापरत्वेन श्रुतमक्षरमेव केवलमव्याकृतमिति कल्प्यतामिति चेत् , मैवम् । उभयथाऽप्युपपत्तौ ऊर्णनाभ्यादिदृष्टान्तानुगुण्येन ‘यथा सुदीप्तात्’(मु. २. १. १) इति प्रकृतस्य भूतयोन्यक्षरस्य सरूपकार्यप्रभवत्वोक्त्यनन्तरमेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरुषस्याक्षरपरत्वोक्त्यानुगुण्येन च भूतयोन्यक्षरमेव पुरुषात्परमक्षरम् । ‘येनाक्षरम्’ इति पुरुषे अक्षरशब्दस्तु ‘न क्षरति’ इति व्युत्पत्त्या प्रयुक्त इति कल्पनस्योचितत्वात् । असति विरोधे अचेतनदृष्टान्तानुगुण्यस्य ‘यथा सुदीप्तात्’ इतिमन्त्रे पञ्चम्याः ‘तथाऽक्षरात् सम्भवतीह विश्वम्’ इति पञ्चमीनिर्दिष्टभूतयोन्यक्षरपरत्वेन प्रतीयमानाक्षरशब्दस्वारस्यस्य च भङ्गायोगात् ।
ननु सत्यमुक्तं भूतयोन्यक्षरस्य , सरूपकार्यप्रभवाक्षरस्य च पञ्चमीनिर्देशादभेदो वक्तव्य इति । तत एवाक्षरात् परस्य पुरुषस्यापि तदभेदो वक्तव्यः । तत्रापि हि ‘ततोऽन्नमभिजायते’ ‘तस्मादेतत् ब्रह्म इति जगदुपादानपरपञ्चमीनिर्देशो दृश्यते । तस्मात् ‘यथा सुदीप्तात्’ इति मन्त्रे अपादानपञ्चमीनिर्दिष्टस्य भूतयोन्यक्षरत्वेऽपि तदनन्तरमन्त्रे अवधिपञ्चमीनिर्दिष्टं ततो भिन्नमित्येव कल्पयितुं युक्तमिति चेत् ; मैवम् । न हि पञ्चमीमात्रेण भूतयोनिसरूपकार्यप्रभवाक्षरयोरभेदं ब्रूमः , किन्त्वक्षरशब्दपरया पञ्चम्या । सा त्वक्षरात् परे पुरुषे नास्त्येव ।
ननु तथाऽपि अपादानपञ्चमीप्रत्यभिज्ञानमात्रेण तदक्षरात्परस्यापि पुरुषस्य तदभेदः कि न स्यादिति चेत् , न । ब्रह्माव्याकृतयोरुभयोरपि विवर्तमानतया , परिणममानतया च ‘मायां तु प्रकृतिं विद्यात्’(श्वे. ४. १०) ‘आत्मन आकाशस्सम्भूतः’(तै. २. १.१) इति श्रुतिद्वयानुरोधेन ‘सन् घटः’ , ‘जडो घटः’ इति जगत्युभयतादात्म्यप्रतीत्यनुरोधेन च स्वाभिन्नकार्यजनकत्वरूपजगदुपादानत्वसत्त्वे सर्वविज्ञानप्रतिज्ञानिर्वाहकब्रह्मगतजगदुपादानत्वघटकतया अव्याकृतगतजगदुपादानत्वप्रतिपादनस्यापि सङ्गतिसत्त्वे चापादानपञ्चमीप्रत्यभिज्ञानमात्रेण प्रथमोपस्थितपञ्चम्यन्ताक्षरपदप्रत्यभिज्ञालभ्यस्य भूतयोनिसरूपकार्यप्रभवपरत्वावध्यक्षराभेदस्य चेतनाधिष्ठिताचेतनोर्णनाभिदेहादिदृष्टान्तसारूप्यस्य च भङ्गायोगात् ।
ननु ‘तथाऽक्षरात् सम्भवति’ इत्यन्तमव्याकृतपरम् , ‘तपसा चीयते’ इत्यारभ्य ‘येनाक्षरं पुरुषम्’ इत्यन्तं ब्रह्मपरम् , ततो ‘यथा सुदीप्तात्’ इत्याद्यव्याकृतपरम् , पुनः ‘दिव्यो ह्यमूर्तः’ इत्यादि ब्रह्मपरमिति कथमिदमादरणीयमिति चेत् , अर्थसम्बन्धादिति गृहाण । उक्तं हि जैमिनिना विश्वजिदधिकरणे ‘अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धः’(जै. सू. ४. ३. ११) इति । उक्तञ्च वार्तिककृता ‘आनन्तर्यमचोदना’(जै. सू. ३. १. २४) इत्यधिकरणे ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । अर्थतोह्यसमर्थानामानन्तर्यमकारणम्’ इति ।
यदि त्वेवमपि भूतयोन्यक्षरस्य चाक्षरात्परस्य चाभेदे निर्बन्धः, तदा शारीरो भूतयोनिरस्तु । स हि साक्षिभावेन सर्वज्ञः । सर्वं वस्तु ज्ञाततया, अज्ञाततया वा साक्षिचैतन्यस्य विषय इति प्रसिद्धेः । कश्चित् किञ्चिज्जानातीत्येवं सर्वजीवानुगतसाक्षिभावेन विशिष्यापि सर्वज्ञः । अन्तःकरणप्राणेन्द्रियादीनां स्वप्नप्रपञ्चान्तर्गतगगनपवनचन्द्रसूर्यसरित्समुद्रभूगोलकादीनाञ्चोपादानभूतश्च ।
अत एवाध्यासभाष्यादिष्वन्तःकरणादीनां जीव एवाध्यासो दर्शितः । तेषां जीवतादात्म्यप्रतीतिश्चानुभवसिद्धा । विवरणे च प्रतिकर्मव्यवस्थायां ब्रह्मचैतन्यस्य उपादानतया घटादिसङ्गित्वम् , जीवस्य तदसङ्गित्वेऽपि अन्तःकरणसङ्गित्वञ्च तदुपादानत्वाभिप्रायेण वर्णितम् । भामत्याञ्च ‘ज्योतिश्चरणाभिधानात्’(ब्र.सू.१.१.१०) इत्यधिकरणे जाठराग्नेर्जीवोपादानकत्वं जीवच्छरीरमृतशरीरयोरोष्ण्योपलम्भानपलम्भाभ्यां दर्शितम् । कृत्स्नप्रसक्त्यधिकरणे(ब्र.सू.२. १. ८) च ‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२. १. २८) इति सूत्रे जीवात्मनि स्वरूपानुपमर्दैनानेकाकारस्वप्नप्रपञ्चसृष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यत इति वर्णितम् । योनिशब्दस्य पञ्चमीनाञ्च निमित्तत्वपरत्वे जीवस्य वियदादिष्वपि धर्माधर्मद्वारा कारणत्वं वक्तुं शक्यम् । मुक्तप्राप्यत्वादिकं च साधकफलावस्थाभेदादिभिर्जीव एव सङ्गमयितुं शक्यम् । तथाऽपि जीव एवेति पक्षविशेषपरिग्रहे किं नियामकमिति चेत् ; उच्यते । ‘अगोत्रमवर्णमचक्षुश्रोत्रमपाणि पादम्’(मु. १.१.६) इति जीवे प्रसिद्धस्य गोत्रवर्णादेर्निषेधजातस्याधिकरणविशेषाकांक्षायां तस्यैव जीवस्य रजतात्मना प्रतीतस्य रङ्गस्य ‘नेदं रजतम्’ इति निषेध इवाधिकरणत्वे सम्भवति नाधिकरणान्तरमपेक्षणीयम् । तस्याधिकारणत्वासम्भवे परं तदन्यस्मिन्नधिकरणे ग्राह्ये ‘नञिवयुक्त’ न्यायेन तत्सदृशान्वेषणं भवति । यद्यपि दृसश्यत्वग्राह्यत्वनिषेधानुरोधेन तदधिकरणमव्याकृतमिति लभ्यते, प्रथमश्रुतं च तन्निषेधद्वयम् , तथाऽपि बाहुल्याद्गोत्रादिनिषेधजातमेवानुरोद्धव्यम् । अग्रेऽपि हि ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे जीवे प्रसिद्धस्य मूर्तिमत्त्वस्य मनःप्राणवत्त्वस्य च निषेधो दृश्यते । अतस्सर्वज्ञत्वादिकं प्राक्प्रदर्शितया रीत्या जीव एव नेतव्यम् । ब्रह्मविद्यासमाख्यादिकमपि निष्कृष्टजीवनिरूपणस्य ब्रह्मावगतिपर्यवसायित्वाभिप्रायं नेतव्यम् । तस्मात्प्रधानं जीवो वा भूतयोनिरिति पूर्व : पक्षः ।
राद्धान्तस्तु – भूतयोनिः परमात्मा । ‘यस्सर्वज्ञस्सर्ववित्’(मु. १. १. ९) इति तद्धर्मरूपा लिङ्गात् , ‘तपसा चीयते ब्रह्म’(मु. १. १. ८) इति तदभिधानश्रुतेश्च । ननु तदुभयमक्षरात्परे पुरुषेऽन्वेति । ‘तथाऽक्षरात्सम्भवतीह विश्वम्’(मु. १.१.७) ‘तथाऽक्षराद्विविधास्सोम्य भावाः’(मु. २. १. १) ‘अक्षरात्परतः परः’ इति पञ्चम्यन्ताक्षरशब्दानामेकरूपत्वेन तत्प्रत्यभिज्ञया भूतयोन्यक्षरस्य पुरुषशब्दोक्तब्रह्म परत्वावश्यम्भावेन तत्र ब्रह्मश्रुतिलिङ्गयोरन्वयानर्हत्वात् । न च ‘तपसा चीयते’ ‘यस्सर्वज्ञः’ इति मन्त्रगताभ्यां ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इति भूतयोनाववगतस्य उपादानत्वस्य प्रत्यभिज्ञानात् तत्रैव ब्रह्मश्रुतिलिङ्गयोरन्वयः स्यादिति वाच्यम् । अर्थैकरूप्यकृतप्रत्यभिज्ञानादपि शब्दैकरूप्यकृतप्रत्यभिज्ञानस्य प्राथमिकत्वेन बलवत्त्वात् । ‘ततः’ ‘तस्मात्’ इति पञ्चम्युक्तोपादनत्वस्य च प्रागुक्ताक्षरगतपरिणामित्वरूपोपादानत्वातिरिक्ततद्घटनीयब्रह्मगतविवर्ताश्रयत्वरूपसर्वविज्ञानप्रतिज्ञानिर्वाह--कोपादानत्वान्तररूपत्वादिति चेत् ;
उच्यते - ‘यस्सर्वज्ञः’ इति मन्त्रे सर्वज्ञत्वं जगदुपादानत्वं चेत्युभयमपि न विधेयम् ; अन्यतरानुवादेनान्यतरविधौ सम्भवति उभयविधानाङ्गीकारे गौरवात् । सम्भवति च जगदुपादानत्वस्य ‘तथाक्षरात्सम्भवतीहविश्वम्’ इत्यनुपदोक्तस्यानुवादेन सर्वज्ञत्वमात्राविधानम् । एवं ‘तपसा चीयते’ इति मन्त्रेऽपि तदनुवादेन तपसा स्रष्टकालोचनोपचितत्वमात्रविधानम् । न च मन्त्रयोः पौनरुक्त्यम् ; द्वितीयमन्त्रस्य स्रष्टव्यसर्ववस्तुगताशेषविशेषविषयज्ञानरूपतया प्रथममन्त्रोक्ततपश्शब्दविवरणार्थत्वात् ।
अपिच ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इत्यनुपदोक्तोपादानत्वप्रत्यभिज्ञानादपि नोपादानत्वान्तरपरत्वं तयोः कल्पयितुं युक्तम् ; ‘अक्षरात्परतः परः’ इत्यत: ‘तत:’ ‘तस्मात्’ इत्यनयोः प्राक्पठितत्वेन तद्गतशब्दैकरूप्यकृतप्रत्यभिज्ञानादप्यत्रत्यार्थैकरूप्यकृतप्रत्यभिज्ञानस्यैव प्राथमिकत्वात् । न च प्रधाने सर्वज्ञत्वमसम्भवदपि जीवे सम्भवतीत्युक्तमिति वाच्यम् । जीवेऽपि स्रष्टव्यसकलवस्तुगताशेषविशेषविषयज्ञानवत्त्वरूपस्यात्र विवक्षितस्य सर्वज्ञत्वस्यासम्भवात् । तस्मात् सर्वज्ञत्वब्रह्मश्रुत्योर्भूतयोन्यन्वयित्वात्ताभ्यां भूतयोनिः परमात्मेति युक्तम् ।
सूत्रे यद्यप्यक्षरशब्देन धर्मिनिर्देशः कर्तुं युक्तः ; तस्य विषयवाक्योपक्रमगतत्वात् , ‘अक्षरधियां त्ववरोधः’(ब्र. सू. ३. ३. ३३) इति गुणोपसंहाराधिकरणे तस्योपादास्यमानत्वाल्लघुत्वाच्च , तथाऽपि तेन धर्मिनिर्देशे ‘यस्सर्वज्ञः’ इत्यादेर्लिङ्गवैरूप्यादन्वयो न सम्भवतीति तस्याक्षरात्परे पुरुष एवान्वयोऽभ्युपेय इति स्यादाशङ्का । तामदृश्यत्वादिगुणकभूतयोन्यभिप्रायेण सर्वज्ञपदे पुंल्लिङ्गोपपत्तिरिति सूचनेन निवारयितुं ‘अदृश्यत्वादिगुणकः’ इति धर्मिनिर्देशः कृतः ।
यद्यप्येवं सति ‘भूतयोनिः’ इत्येव धर्मिनिर्देशः कर्तुं युक्तो लाघवात् , तथाऽपि योनिशब्दस्य स्त्रीलिङ्गत्वेन प्रसिद्धिप्राचुर्यात् पुल्लिङ्गानन्वय इति मन्दशङ्कानिराकरणाय भूतयोनिशब्दस्य ‘अद्रेश्यमग्राह्यं नित्यं विभुम्’ इत्यादिविशेषणावगमितपुल्लिङ्गस्पष्टीकरणार्थम् , अन्तर्यामिगतादृष्ट्रत्वादिवदक्षरगतादृश्यत्वादिकं द्रष्ट्रत्वादिमिश्रितं न भवतीति प्रत्यवस्थानहेतुस्फुटीकरणार्थं चैवं धर्मिनिर्देशः कृतः । ‘धर्मोक्तेः’ इत्यत्र धर्मः सर्वज्ञत्वं ‘सर्वज्ञस्सर्ववित्’ इति पदद्वयप्रयोगेणाशेषविशेषाविषयतया स्फुटीकृतम् । उक्तिर्ब्रह्मश्रुतिः । धर्मोक्तयोर्द्वन्द्वैकवद्भावे सति नपुसंके नुमागमस्यानित्यत्वात् , मध्यमपदलोपिसमासाद्वा ‘धर्मोक्तेः’ इति निर्देशः । १.२.२१ ।
ननु ‘अगोत्रमवर्णम्’ इत्यादिनिषेधस्वारस्याज्जीवो भूतयोनिरिति प्रतीयते । ‘तथाऽक्षराद्विविधास्सोम्य भावाः’ इत्यत्र भावशब्दस्य भवन्ति – जायन्त इति व्युत्पत्त्या असंकुचितवियदादिसकलकार्यपरत्वौचित्येन तत्सरूपमक्षरशब्दोदितं कारणमव्याकृतमित्यवगतौ तदनन्तरमन्त्रे ‘अक्षरात्परतः परः’ इत्यक्षरात्परत्ववचनं तस्मादेवाक्षरात्परत्वविषयमित्यपि व्यवस्थितौ तदेवाक्षरं प्राग्भूतयोनित्वेनोक्तमिति ततोऽव्याकृतं भूतयोनिरित्यपि प्रतीयते इत्याशंक्याह –
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । २२ ।
२२अक्षराद्भेदव्यपदेशेनाव्याकृतं भूतयोनिरिति न सिद्ध्यति । किन्तु तत एव तत् भूतयोनिर्न भवतीति सिद्ध्यति । कथं ? ‘तथाऽक्षराद्विविधाः’ इत्यत्र पञ्चम्युपात्तमक्षरं तावद्भूतयोन्यक्षरमिति निर्विवादम् । तदेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरुषशब्देनोच्यतेः , ‘स बाह्याभ्यन्तरः’ इत्यत्र तच्छब्दस्य पूर्वमन्त्रप्रकृताक्षरपरामार्शत्वात् । न च बाह्याभ्यन्तरसहित इत्येकपदत्वेन योजनीयम्; वैयर्थ्यात्, ‘बाह्याभ्यन्तर’ इति सर्वगतत्वोक्त्यैव बाह्याभ्यन्तरसकलवस्तुसंसर्गसिद्धेः । भिन्नपदत्वे च अक्षरात्परः पुरुष एव प्रकृताक्षरम्, न तु परत्वावधिभूतमक्षरमिति प्रत्यायनेन सार्थकत्वात् । एवञ्च भूतयोन्यक्षरपरामर्शितत्पदसामानाधिकरण्येन ‘अक्षरात्परतः’ इत्यतः प्राचीनेन ‘येनाक्षरम्’ इति अक्षरपुरुषपदसामानाधिकरण्येन चाक्षरात्परः पुरुषो भूतयोन्यक्षरमिति स्थिते तदवरतया ततो भेदेन व्यपदिश्यमानमक्षरमव्याकृतमिति न तत् भूतयोन्यक्षरमिति सिद्ध्यति । एवमगोत्रमित्यादिविशेषणेन शारीरो भूतयोनिरिति न सिध्यति, किन्तु तत् एव भूतयोनि न भवतीति सिद्ध्यति , भूतयोनित्वस्य शारीरेऽपि सम्भवात् ; तद्ग्रहणप्रसक्तौ तद्व्यावर्तनेनैव अगोत्रमित्यादि विशेषणानां सफलत्वात् ।
ननु भूतयोनित्वेन शारीर एव गृहीते तस्मिन् गोत्रसम्बन्धादिप्रतीतिकाले तदभावायोगप्रसक्तौ तावच्छेदकत्वेनागोत्रमित्यादीनां साफल्यमुक्तम् । युक्तं च तदेवागोत्रत्वादिरूपोपात्तविधेयगतत्वेन, तदयोगव्यवच्छेदस्य प्रत्यासन्नत्वात् ; न त्वन्यस्य शारीरस्य भूतयोनिपदग्राह्यत्वयोगव्यवच्छेदेन तेषां साफल्यं युक्तम् अविधेय गतफलस्य विप्रकृष्टत्वात्, प्रत्यासन्नफले लभ्ये विप्रकृष्टफलग्रहणायोगात् । अत एवावहननविधर्विधेयावहननगताप्राप्तांशपरिपूरणरूपस्तदयोगव्यवच्छेद एव फलम् , न त्वविधेयनखविदलननिवृत्तिरूपस्तदन्ययोगव्यवच्छेद इति नियमस्य परिसंख्यातो भेद इष्यते । अपि चान्ययोगव्यवच्छेदकत्वे गोत्रनिषेधादीनामधिकरणान्तरमन्वेषणीयमिति गौरवम् । अयोगव्यवच्छेदफलकत्वे प्रतियोगितया गोत्रादिमत्त्वेन बुद्धिस्थस्य शारीरस्यैवाधिकरणत्वानान्यदधिकरणमन्वेषणीयमित्यपि लाघवं प्रागुक्तमिति चेत् -
स्यादेवं यदि ‘यदिदं पुरोवर्ति तन्न रजतम्’ इतिवत् ‘यो भूतयोनिस्स गोत्रादिमान्न भवति इत्यगोत्रत्वादिकं विधेयं स्यात् । न त्वेवम् , किन्तु ‘यो गोत्रादिरहितः तं भूतयोनिं पश्यन्ति’ इत्युद्देश्यविशेषप्रतीत्यर्थतया तद्विशेषणत्वेनैव निर्दिष्टम् । तथा च यथा ‘निश्चलश्चन्द्रः’ इति चन्द्रोद्देशेन निश्चलत्वविधानस्य तरङ्गचन्द्रे अभ्यस्तचलनप्रत्ययेन निश्चलत्वायोगप्रसक्तौ तावच्छेदकत्वेऽपि ‘निश्चलं चन्द्रं पश्य’ इति तस्योद्देश्य विशेषणत्वेन प्रयोगे अभ्यस्तचलनवत्तरणचन्द्रव्यावर्तकतयैव सार्थकत्वमेवमिह ‘यो भूतयोनिस्सगोत्रादिमान्न भवति’ इति गोत्राद्यभावस्य विधेयत्वे शारीरे तदयोगव्यवच्छेदकत्वसम्भवेऽपि ‘यो गोत्रादिमान् भवति तं भूतयोनिं पश्यन्ति’ इत्यस्मिन्नुद्देश्यविशेषणत्वेन प्रयोगे अध्यस्तगोत्रादिमच्छारीरव्यावर्तकतयैव सार्थकत्वं भवति । एवं ‘दिव्यो ह्यमूर्तः पुरुषः’ इति मन्त्रे अमूर्तत्वादिविशेषणानामपि तद्वाव्यावर्तकतयैव सार्थकत्वम् ; तत्राप्यक्षरात्परत्वस्यैव विधेयत्वेनामूर्तत्वादीनामविधेयत्वात् ।
सूत्रे ‘इतरौ’ इति पूर्वाधिकरणनिर्दिष्टौ स्मार्तशारीरौ परामृश्येते । यद्यपि स्मार्तं प्रधानं सिद्धान्ते नेष्यते, तथाऽपि तदेव फलतोऽव्याकृतं भविष्यतीति तस्य परामर्शः । यद्यप्येवं सति स्मार्तशारीरनिराकरण पक्षहेत्वोः क्रमेणान्वयार्थं ‘भेदव्यपदेशविशेषणाभ्याम्’ इति सूत्रणीयम्, तथाऽपि हेतुद्वयमप्युभयत्र योजयितुं शक्यमित्येवं सूत्रितम् । अमूर्तत्वादिविशेषणेन हि ‘नञिवयुक्त’ न्यायेनाव्याकृतव्यावर्तनमपि लभ्यते । यद्यपि मनुष्यपशुपक्षिसरीसृपरूपभूतग्रामयोनित्वेन प्रसिद्धा पृथिवीह भूतयोनिपदेन मा ग्राहीति तद्व्यावर्तनार्थेनादृश्यत्वाग्राह्यत्वविशेषणेन तत्सूक्ष्मावस्थारूपस्याव्याकृतस्य ग्रहणं प्रसज्यते, तथाऽपि अमूर्तत्वगोत्रत्वादीनां बाहुल्यात्तेषामेव स्वारस्यमादरणीयमित्युक्तम् । तथा ‘येनाक्षरं पुरुषम्’ ‘अमूर्तः पुरुषः सः’ इति पुरुषस्याक्षरविशेषणेनापि अव्याकृतव्यावर्तनं लभ्यते । एवं ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशम्’(मु. ३. १. ३) इति कर्तृकार्यभावेन, नियम्यनियामकभावेन, कर्तृकर्मभावेन च पुरुषशारीरयोर्भेदेन व्यपदेशात् पुरुषस्य च प्रागेवाक्षरपदसामानाधिकरण्यादिभिः भूतयोन्यक्षरत्वनिश्चयात् शारीरव्यावर्तनमपि लभ्यते ।
भाष्ये हेत्वोर्यथासंख्यान्वयः कण्ठतोऽनुक्तोऽपि न्यायत एवोन्नेतुं शक्यत इति व्युत्क्रमणान्वयमात्रं दर्शितम् । किञ्च भेदव्यपदेशहेतुर्जीवपक्ष एवान्वेतुं योग्यः ‘क्षरं प्रधानममृताक्षरम्’(श्वे, १.१०) इति श्रुत्यन्तरे तत्रैवाक्षरशब्ददर्शनेन पुरुषावरपरस्याक्षरशब्दस्य तत्परत्वौचित्यादिति शङ्कानिराकरणाय चाव्याकृतपक्षनिराकरणे भेदव्यपदेशहेतुसद्भावमवगमयितुं व्युत्क्रमेणान्वयो दर्शितः । तस्यायमाशयः । सर्वविज्ञानप्रतिज्ञानिर्वाहाय ब्रह्मणो जगत्प्रकृतित्वप्रतिपादनस्थले तदुपपादकाव्याकृताधिष्ठातृत्वप्रदर्शनमेवाकांक्षितमित्याकाङ्क्षाऽनुसारेण ‘अश्नोति व्याप्नोति स्वकार्याणि’ इति व्युत्पत्येहाक्षरशब्दोऽव्याकृत एव वर्तयितव्य इति । चस्त्वर्थः । विशेषणभेदव्यपदेशौ न स्मार्तशारीरपक्षसाधकौ, किन्तु तन्निराकरण एव साधकाविति भावः । अगोत्रत्वामूर्तत्वादीनि इतरव्यावर्तकरूपाणि विशेषणान्येव, न तु ‘लोहितस्तक्षकः’ इत्यादिवदयो गव्यवच्छेदकान्युपराकानीत्यभिप्रेत्य विशेषणपदमित्यलं प्रपञ्चेन । १. २. २२ ॥
स्यादेतत् – अमूर्तत्वादीनां मूर्तिमत्त्वादिविशिष्टशारीरव्यावर्तकत्वरूपविशेषणत्वमनुपपन्नम् ; ‘अग्नि मूर्धा‘ चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’(मु. २. १. ४) इति मन्त्रे भूतयोन्यक्षररूपस्य पुरुषस्य मूर्तीन्द्रियप्राणादिश्रवणात् । न चायं मन्त्रोऽन्यपरः । ‘एष’ इति सर्वनाम्ना ‘दिव्यो ह्यमूर्तः पुरुषः’ इति प्रकृतस्य तस्यैव परामर्शात् । अतो व्यवहारदृष्ट्या मूर्त्यादिमत्येव जीवे परमार्थदृष्ट्या मूर्त्यादिराहित्यपरत्वममूर्तादिपदानामगत्या कल्पनीयमिति जीव एव भतयोन्यक्षररूप: परुष इति युक्तम् ।
ननु जीवेऽग्निमूर्धत्वादिविशिष्टं रूपं न संभवतीति चेत् , सत्यं ; जीवान्तरे न संभवत्येव, हिरण्यगर्भे तु तत् संभवति ; तस्य स्मृतिषु तथाभूतरूपप्रसिद्धेः । सर्वभूतान्तरात्मत्वमपि प्राणात्मना सर्वभूतानामध्यात्ममवतिष्ठमाने तस्मिन्व्यपदेष्टुं शक्यम् । तस्मिन् सर्वज्ञत्वसर्वस्रष्टृत्वादिकं श्रुतिस्मृतिषु प्रसिद्धमेव । न च वाच्यमक्षरादव्याकृतात्परो हिरण्यगर्भः, तस्मात् परत्वम् मूर्तपुरुषस्य श्रुतमिति; पराक्षरपदयोः प्राक् दर्शितया रीत्या सामानाधिकरण्ये संभवति वैयधिकरण्यकल्पनायोगात् । न च ब्रह्मविद्यासमाख्याविरोधः। तत्र ब्रह्मशब्दस्य पुल्लिङ्गस्य समाससंभवात्, ‘ब्रह्मा देवानां प्रथमस्संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता’ इत्युपक्रमे पुंलिङ्गस्यैव तस्य श्रवणाच्च । परविद्यात्वमप्यापेक्षिकं हिरण्यगर्भविद्यायां वक्तुं शक्यम् । न च सर्वविज्ञानप्रतिज्ञाविरोधः; अन्तर्यामिब्राह्मणे सूत्रात्मनस्तस्य ज्ञानात्सर्वविज्ञानस्य वर्णितत्वेन तद्वदिहाप्युपपत्तेः । तस्मात् समष्टिपुरुषो हिरण्यगर्भ एव भूतयोन्यक्षररूपः पुरुष इति युक्तमित्याशङ्कयाह –
रूपोपन्यासाच्च ॥ २३॥
२३न विग्रहादिमत्त्वविवक्षया ‘अग्निर्मूर्द्धा’ इत्यादिकमुपन्यस्तम् ; किन्तु अग्न्यादिविकाररूपेष्वधिष्ठानेषु मूर्द्धत्वादिरूपकमात्रं मुखचन्द्रन्यायेनोपन्यस्तं सर्वात्मत्वविवक्षया । दृश्यते ह्यन्यत्रापि शरीररथत्वप्रियशिरस्त्ववेदनिश्वसितत्वादरूपकम् । शरीरादिषु रथत्वाद्यसंभववदग्न्यादिषु मूर्धत्वाद्यसंभवोऽपि अविशिष्ट एव । तस्मादमूर्तत्वादीनां विशेषणत्वस्याविचलत्वात्तैर यजीवानामिव हिरण्यगर्भस्यापि व्यावर्तनं स्यादेव ।
सूत्रे रूपशब्देन रूपकमुक्तम् । रूपयति अधिष्ठानमारोप्यरूपेण रूपयन्तं करोतीति हि रूपकशब्दव्युत्पत्तिः । तत्र ण्वुला रूपकशब्दवत् पचाद्यचा रूपशब्दोऽपि वर्तितुमर्हति । अयञ्च सूत्रार्थो भाष्यकृता स्वमतरीत्या सूत्रव्याख्यानानन्तरमाशङ्कापरिहाराभ्यां स्पष्टीकृतः । ‘एतस्माज्जायते प्राण:’(मु. २. १. ३) इति मन्त्रात् क्रियानुषङ्गेण ‘अग्निर्मूर्द्धा’ इति मन्त्रस्य त्रैलोक्यशरीरो हिरण्यगर्भः भूतयोन्यक्षरादजायतेत्यर्थपरत्वमङ्गीकृत्य ‘रूपोपन्यासात्’ इति सूत्रस्य, ‘पुरुष एवेदं विश्वम्’ इति सार्वात्म्यरूपब्रह्मलिङ्गोपन्यासात् भूतयोनिः परमात्मा, इति योजनान्तरमपि भाष्ये दर्शितम् । तत् ‘स्मर्यमाणमनुमानं स्यात्’ इत्युत्तराधिकरणसूत्रविरुद्धमित्यस्वारस्यं भाष्य एव ‘केचित्’ इत्यनेन ध्वनितम् । चकारः समाख्यादिसमुच्चयार्थः । १. २. २३. ।
इति यदृश्यत्वाधिकरणम् । ६।
वैश्वानरस्साधारणशब्दविशेषात् । २४ ।
२४छान्दोग्ये श्रूयते ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’(छा. ५. १८.२) इति । अत्र वैश्वानरशब्दस्य जाठरतृतीयभूततदधिष्ठातृदेवतासाधारणत्वादात्मशब्दस्य जीवात्मपरमात्मसाधारणत्वाच्च क एतेषूपास्य इति संशये अनिर्धारणेन पूर्वः पक्षः । छान्दोग्ये ‘को न आत्मा किं ब्रह्म’(छा. ५. ११.१) इत्युपक्रमेऽपि वाजसनेयिशाखायां ‘वैश्वानरं ह वै भगवन् सम्प्रति वेद तन्नो ब्रूहि’ इति वैश्वानरशब्दोपक्रमदर्शनेन उपक्रमस्याविनिगमकत्वात् । ‘स सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’(छा. ५. १८.१) इति च महाफलश्रवणस्य वचनबलादब्रह्मोपासनायामप्युपपत्तेः । न हि ब्रह्मोपासनाया महाफलत्वम् नाब्रह्मोपासनाया इति नियमोऽस्ति; ‘चक्षुष्यश्श्रुतो भवति’ इति ब्रह्मोपासनाया अपि अल्पफलत्वश्रवणात् , अब्रह्मोपासनाया अपि पञ्चाग्निविद्याया महाफलत्वश्रवणाच्च । ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽऽत्मा सन्देहो बहुळो वस्तिरेव रविः पृथिव्येव पादौ’(छा. ५. १८. २) इति द्युसूर्यवाय्वाकाशजलपृथिवीनां वैश्वानरं प्रति मूर्द्धचक्षुःप्राणमध्यमूवस्थानपादावयवत्योक्तेश्च पूर्वाधिकरणोक्तरीत्या शरीररथत्वादिवत् कल्पनामात्ररूपत्वात्, तत्कल्पनायाश्च ब्रह्मणीव जाठरादिष्वपि सम्भवात् । तस्मादुपक्रमादिभिर्वैश्वानरो ब्रह्मेति निर्णयो न युक्तः , प्रत्युत प्रादेशमात्रम्’ इति परिच्छिन्नत्वश्रवणान्न ब्रह्म , किन्तु जाठरादिषु चतुर्ष्वन्यतम इति निर्णय एव युक्त इति पूर्वः पक्षः ।
सिद्धान्तस्तु – द्युमूर्द्धत्वादिकल्पना सर्वोपादानत्वेन , सर्वनियन्तृत्वेन च सर्वविकारानुगते ब्रह्मणि सालम्बना , न तु जाठरादिषु । सर्वलोकाद्याश्रयफलश्रवणञ्च सर्वलोकाद्यात्मकब्रह्मोपासनाया एव तत्क्रतुन्यायानुसारि । सर्वपापप्रदाहश्च ब्रह्मोपासनफलत्वेनैव वेदान्तेषु प्रसिद्धतरः । शाखाभेदेन ब्रह्मवैश्वानरशब्दयोरुपक्रमश्रुतत्वाविशेषेऽपि ब्रह्मशब्दो वैश्वानरशब्दवदनेकसाधारणत्वाभावाज्झटित्येवार्थविशेषसमर्पकः । ततश्च यद्यप्यात्मवैश्वानरशब्दौ साधारणौ , तथाऽपि तयोः परमात्मपरत्वावगमकद्युमूर्द्धत्वादिविशेषसद्भावात् वैश्वानरः परमात्मेति ।
सूत्रे ‘विशेषात्’ इति एतावति वक्तव्ये आत्मवैश्वानरशब्दयोस्साधारण्यरकीर्तनं न केवलमिह शब्दसाधारण्यमधिकरणान्तरवत् संशयमात्रबीजम् , किन्तु पूर्वपक्षस्यापि तदेव बीजमिति दर्शयितुम् । तेन जाठरादीनां पञ्चानां चतुर्णा वाऽनवधारणेनात्र पूर्वपक्ष इति सूचितं भवति । १. २. २४ ।
ननु द्युमूर्द्धत्वादिविशिष्टरूपं हिरण्यगर्भस्यापि भवति स्मृतिषु प्रसिद्धम् । तत्कथं परमात्मलिङ्गम् ? न च ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ’(मु. २. १. ४) इत्यादीनां द्युमूर्द्धत्वादिप्रतिपादकश्रुत्यन्तराणां परमात्मविषयत्वाद्वैदिकप्रसिद्ध्या तत्परमात्मलिङ्गं स्यादिति वाच्यम् ; हिरण्यगर्भे तादृग्रूपस्मरणस्यापि मूलश्रुत्याकाङ्क्षत्वेन तत्रापि वैदिकप्रसिद्धेरनिवार्यत्वादित्यत आह –
स्मर्यमाणमनुमानं स्यादिति । २५ ।
२५परमात्मनोऽपि तावदीदृशं रूपं स्मर्यते ‘यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशश्श्रोत्रं तस्मै लोकात्मने नमः’ । ‘द्यां मूर्द्धानं यस्य विना वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्याद्यासु स्मृतिषु । तच्च स्मर्यमाणं रूपमस्याः श्रुतेराथर्वणादिश्रुतेश्च मूलत्वानुमापकं सत् हैरण्यगर्भतादृग्स्मणरस्यापि मूलाकाक्षापूरकं भवितुं शक्तम् । उपासनाविवक्षया सर्वात्मत्वविवक्षया च परमात्मनि श्रुतिप्रतिपन्नस्यैव द्युमूर्द्धत्वादिकल्पनस्य सर्गस्थितिप्रलयकर्तृत्वादेरिव परमात्मशक्त्यभिव्यक्तिमति हिरण्यगर्भे स्तुत्यर्थतया स्मरणोपपत्तेः । अतः परमात्मन एवैतत्त्रैलोक्यात्मकं रूपं स्मर्यत इति फलतः पर्यवस्यतीति तत्स्मर्यमाणं रूपमुदाहृतश्रुतिवाक्यानां मूलत्वानुमापकं सत् वैश्वानरस्य परमात्मत्वे लिङ्गं भवितुमर्हति । अतस्तेन लिङ्गेन वैश्वानरः परमात्मेति युक्तमेव ।
अस्मिन्नर्थे सूत्रमावृत्त्या योजनीयम् । तत्र स्मर्यमाणमित्यस्य परमात्मनस्स्मर्यमाणं त्रैलोक्यात्मकं रूपमित्यर्थो योजनाद्वयेऽपि समानः । आद्ययोजनायामनुमानमित्यस्य मूलश्रुत्यनुमापकमित्यर्थः , स्यादित्यस्य भवितुं शक्यमित्यर्थः । ‘शकि लिङ् च’(पा. सू. ३. ३. १७२) इति शक्तौ लिङ्प्रत्ययः । किं भवितुं शक्यमित्याकांक्षायामपनोद्यशङ्कानुसारेण हैरण्यगर्भतादृग्रूपस्मरणस्य मूलश्रुत्याकांक्षापूरकमित्यद्याहृतेन स्याच्छब्दस्यान्वयः । इयञ्च योजना ‘यस्मात्परमेश्वरस्यैवाग्निरास्यन्द्यौमूर्द्धेतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते’ इति भाष्येण फलप्रदर्शनमुखेन सूचिता , अन्यथा हिरण्यगर्भस्यापि तादृग्रूपस्मरणसत्त्वेन भाष्ये परमेश्वरस्यैवेत्वधारणानुपपत्तेः । इति शब्दो द्वितीययोजनाप्रदर्शनीयमर्थं प्रति हेतुत्वार्थः । यस्मादेवं तस्मात् स्मृतिप्रसिद्ध परमात्मनो रूपं मूलभूतश्रुत्यनुमापकतया प्रथमयोजनायां प्रदर्शितं , अनुमानं स्यात् , वैश्वानरस्य परमात्मत्वे लिङ्गं भवतीत्यर्थः । इयं योजना ‘तत्स्मर्यमाणम्’ इत्यादिभाष्येण स्पष्टमेव दर्शिता । अस्यामपि योजनायामितिशब्दो हेत्वर्थः । स च ‘यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मा’ इति भाष्येण दर्शितः ।
ननु स्मर्यमाणं परमात्मनो रूपं वैश्वानरवाक्यमाथर्वणवाक्यं चेत्युभयमपि किमर्थं मूलश्रुतित्वेनापेक्षत इति चेत् ; स्मृत्युक्तसर्वावयवप्रतिपत्त्यर्थमिति ब्रूमः । चन्द्रस्य चक्षुष्ट्वं ह्याथर्वणवाक्यादेव प्रतिपत्तव्यम् । दिवो मूर्द्धत्वन्तु वैश्वानरवाक्यात् । ततः प्रतिपद्य आथर्वणेऽपि ‘असौ वाव लोको गौतमाग्निः’(छा. ५. ४.१) इति श्रुत्यनुसारेण द्युपरोऽग्निशब्द इति निश्चेतव्यम् । न च वैश्वानरवाक्येपि दिवो मूर्द्धत्वं नोक्तमिति शंक्यम् ; तत्रोपक्रमानुसारेण सुतेजश्शब्दस्य द्युपरत्वात् ।
एवं ह्युपाख्यायते – औपमन्यवादयः पञ्च महर्षयः ‘को न आत्मा किं ब्रह्म इति मीमांसित्वा निश्चयमलभमाना वैश्वानरोपासनापरमुद्दालकं गत्वा तेनापि तस्यामकृत्स्नवेदिना अश्वपतिः कैकयो वैश्वानरमुपास्ते तमभ्यागच्छाम’ इत्युक्त्वा उद्दालकषष्ठास्तमभ्यगमन् । कैकयः ‘तान् परीक्ष्य ततो वक्तव्यशेष वक्ष्यामि’ इत्यभिसन्धाय , ‘औपमन्यव कं त्वमात्मानमुपास्ते’(छा. ५.१२.१) इत्यादिना तान् षडपि ऋषीन क्रमेण पृष्ट्वा तैः ‘दिवमेव भगवो राजन्’(छा. ५. १२ , १) इत्यादिभिर्यथाक्रमं द्युसूर्यानिलाकाशजलावनिषु वैश्वानरबुद्ध्या स्वैरुपास्यमानतयोक्तेषु द्व्यायो वैश्वानरस्य मूर्द्धादिपादान्तावयवा एव , न तु ते वश्वानरबुध्योपास्या इति व्यस्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तद्युमूद्धत्वादिविशिष्टं रूपमेकीकृत्य उपदिदेश ‘मूर्दैव सुतेजाः’(छा., ५.१८ , २) इत्यादिना । एवं ‘यस्याग्निरास्यम्’ इत्यग्निमुखत्वस्मरणांशेपि श्रुत्यन्तरापेक्षणं द्रष्टव्यम् । १. २. २५ ।
अथ वैश्वानरो जाठरोऽग्निरेवेति निर्धारणेन पूर्वपक्षान्तरमुपपादकमुखेन उद्घाट्य निराकरोति –
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते । २६ ।
२६न वैश्वानरस्तृतीयभूतं , तदधिदेवता , जीवः , परमात्मा वा , किन्तु जाठर एव ।अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते’(बृ. ५. ९.१) इत्यादिवाक्यान्तरे विशिष्य जाठरे प्रसिद्धाद्वैश्वानरशब्दात् , ‘स एषोऽग्निर्वैश्वानरः’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके समानप्रकरणे अस्मिन्वैश्वानर एवं प्रयुक्तादग्निशब्दात् , ‘हृदयङ्गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छा. ५.१८.२) इति त्रेताग्निकल्पनालिङ्गात् , ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ इति प्राणाहुत्यधिकरणतालिङ्गात् , ‘पुरुषेऽन्तःप्रतिष्ठितं वेद’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके श्रुतात्पुरुषान्तःप्रतिष्ठितत्वलिङ्गाच्च । यद्यप्यग्निवैश्वानरशब्दौ ‘विश्वस्मा अग्निं भुवनाय देवाः वैश्वानरं केतुमह्नामकृण्वन्’(ऋ.सं.१०.८८.१२) ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’(ऋ.सं.१.९८.१) इत्यादिश्रुत्यन्तरेषु तृतीयभूततदधिष्ठातृदेवतयोरपि दृष्टौ , पुरुषान्तःप्रतिष्ठितत्वञ्च जीवपरमात्मनोरपि प्रसिद्धम् , तथाप्युक्तरूपत्रेताग्नित्वकल्पनम् , प्राणाहुत्याधारतासङ्कीर्तनञ्च जाठर एव सङ्गच्छते । स हि ‘सन्तापयति स्वं देहमापादतलमस्तगः’(तै., ४ , १३. ३०) इति देहव्यापित्वेन श्रुतः ; प्राणाहुतिद्रव्यस्यान्नस्य पाचकश्च , देहव्यापिन्यग्नावेव हि हृदयादिप्रदेशावच्छेदेन गार्हपत्यत्वादिकल्पनं युक्तम् । आहुतिद्रव्यपाचकस्यैव चाग्नेस्तदाधारत्ववर्णनं युक्तम् ‘अवाड्ढव्यानि सुरभीणि कृत्वा’ इति श्रुतितः , प्रत्यक्षतश्च आहुतिद्रव्याधारस्यैवाग्नेस्तत्पाचकत्वावगमात् । एवञ्च ‘यस्य येनार्थसम्बन्ध’ इति न्यायेनाग्निवैश्वानरशब्दयोर्जीवपरमात्मपक्षनिराकरण एवान्वयः , अन्तःप्रतिष्ठितत्वहेतोः भूतदेवतापक्षनिराकरण एवान्वयः , न त्वेषां जाठरत्वसाधनेऽन्वयः । अत एव सूत्रे जाठर इत्यभिमतसाध्यमनिर्दिश्य नञा पक्षान्तरनिराकरणमेव साध्यत्वेन निर्दिष्टम् । त्रेताग्नित्वकल्पनप्राणाहुत्याधारत्वलिङ्गयोस्तु चतुर्णामपि पक्षान्तराणां निराकरणेन तदर्थलब्धजाठरत्वसाधनेन चान्वयो द्रष्टव्यः ।
एवं सिद्धान्त्यभिमतपरमात्मपक्षनिराकरणे , पूर्वपक्ष्यभिमतजाठरपक्षसाधने चोपयुक्ततया अन्तरङ्गहेतून् ‘शब्दादिभ्यः’ इत्यनेन निर्दिश्यादिशब्देन ग्रहीतुं शक्यमप्यन्तःप्रतिष्ठितत्वमनवधारणपूर्वपक्षप्राप्तभूतदेवतापक्षनिराकरणमात्रार्थतया तेभ्यो विलक्षणं बहिरङ्गमिति द्योतयितुमेव पृथक् बहिर्निर्दिष्टम् । न च जाठरे द्युमूर्द्धत्वाद्यसम्भवः; वाजसनेयके ‘स होवाच मूर्द्धानमुपदिशन्नुवाच एष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच एष वै सुतेजाः वैश्वानर इति । नासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाच एष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानरः’ इत्युपासकमूर्द्रादीनामतिष्ठासुतेजश्शब्दाद्युक्तद्युलोकसूर्यादिरूपवैश्वानरमूर्द्धचक्षुराद्यात्मना संपादनात्तैर्जाठरस्यापि द्युमूर्द्धत्वादिव्यपदेशोपपत्तेः , छान्दोग्येऽपि ‘यस्त्वेतमेवं प्रादेशमात्रम्’(छा. ५. १५. १) इति विशेषणानुसारेण वाजसनेयकप्रतिपादितमूर्द्धचुबुकान्तरालकल्पितद्युमूर्द्धत्वादेरेवावश्यमुपादेयत्वाच्च । न च ‘स एषोग्निर्वैश्वानरो यत्पुरुषः’(श. ब्रा. ७. ३. १. ३५) इति वाजसनेयकगतपुरुषत्वव्यपदेशविरोधः , उपासकमूर्द्धादिचुबुकान्तावयवेषु वैश्वानरं प्रति मूर्द्धादिपादान्तावयवत्वस्य कल्पिततया तल्लब्धशरीरत्वसादृश्येन जाठरेऽपि तद्व्यपदेशोपपत्तेः । अत एव अनन्तरं ‘स यो हैतम्’ इत्यादिवाक्ये पुरुषविधत्वकीर्तनम् । न हि मुख्ये पुरुषत्वे पुरुषविधत्वकीर्तनमुपपद्यते । एवं च छान्दोग्यगतौ ब्रह्मात्मशब्दावपि कल्पितेन द्युमूर्द्धत्वादिना जाठरस्याथर्वणोक्तब्रह्मसादृश्यादुपपादनीयौ । तदेतद्युमूर्द्धत्वाद्यसम्भवपरिहारजातं द्योतयितुमप्यन्तःप्रतिष्ठानादिति हेतुः पृथङ्निर्दिष्टः । तेन हि वैश्वानरः परमात्मेति वदता सिद्धान्तिनाऽपि ‘पुरुषेऽन्तः प्रतिष्ठितम्’ इत्यनेन स्वरसतः प्रतीतस्य पुरुषेऽन्तःपर्याप्तवृत्तित्वस्य परमात्मनि स्वरूपेण प्रसिद्धद्युमूर्द्धत्वादिना चासम्भवतो निर्वाहाय उपासकमूर्द्धादिचुबुकान्तावयवकल्पितशरीरावच्छिन्नत्वमेव शरणीकर्तव्यमिति जाठरेऽपि न द्युमूर्द्धत्वाद्यसम्भवः , नापि ब्रह्मश्रुत्यादिविरोध इति द्योतितं भवति ।
सूत्रे चशब्देन फलविशेषनिर्देशासम्भवपरिहारस्समुच्चितः । ‘अन्नमत्ति’ इति श्रुतं फलं न ब्रह्मोपासनायामेव नियतम् ; ‘एतयाऽन्नाद्यकामं याजयेत्’ इत्यादिषु कर्मणामपि तत्फलश्रवणात् । सर्वपापप्रदाहस्तु प्राणाग्निहोत्रस्यैव फलत्वेन श्रुताः ; न वैश्वानरविद्यायाः । तस्माद्वैश्वानरो जाठर एवेति पूर्वः पक्षः।
सिद्धान्तस्तु ‘वैश्वानरो न परमात्मा , किन्तु जाठर’ इति नैतैः श्रुतिलिङ्गैरभ्युपगन्तुं युक्तम् ; जाठरप्रतीकस्य , जाठरोपाधिकस्य परमात्मनः उपासनोपदेशः इत्यङ्गीकारेण एतेषां श्रुतिलिङ्गानामन्यथानेतुं शक्यत्वात् । केवले जाठरे द्युमूर्द्धत्वादेरसम्भवेन तस्यानन्यथासिद्धत्वात् । न चोपासकमूर्द्धचुबुकान्तराल कल्पितद्युमूर्द्धत्वादेर्जाठरेऽपि सम्भवोऽस्तीति शंक्यम् ; छान्दोग्ये ‘दिवमेव भगवो राजन्निति होवाच’(छा. ५. १२. १) इत्याद्युपक्रमानुसारेण ‘मूर्द्धैव सुतेजाः’ इत्यादेः प्रसिद्धद्युप्रभृतिमूर्द्धत्वादिपरतया तस्य जाठरे असम्भवात् । उभयविधश्रुत्यनुसारेण छान्दोग्ये अधिदैवतं प्रसिद्धदिवादिषुमूर्द्धादिपादान्तावयवरूपत्वं वाजसनेयके अध्यात्ममुपासकमूर्द्धादिषु द्व्यादिपृथिव्यन्तत्रैलोक्यात्मकवैश्वानरमूर्द्धादिपादान्तावयवरूपत्वमुपास्यमित्युभयविधस्यापि द्युमूर्द्धत्वादेः प्रामाणिकत्वात् । छान्दोग्यगतप्रादेशमात्रत्वोक्तिनिर्वाहस्याग्रे सूत्रकृतैव प्रदर्शयिष्यमाणत्वात् , उपासकमूर्द्धदिकल्पितद्युमूर्द्धत्वादेरपि तन्नियन्तरि परमात्मनीव गगनादिवत् तत्सम्बन्धमात्रशालिनि जाठरे असम्भवाच्च ।
एवं द्युमूर्द्धत्वाद्यसम्भवेन तल्लब्धसादृश्योपपादनीयानां ब्रह्मात्मपुरुषश्रुतीनामप्यसम्भवो व्याख्यातः । तथा फलनिर्देशोऽपि जाठरपक्षे न सम्भवति । न हि ‘अन्नमत्ति’ इति कर्मफलसाधारणमन्नादत्वमात्रमुच्यते , सर्वभूतलोकात्मसम्बन्धिनोऽन्नस्याप्रसिद्धत्वात् , किन्तु सर्वेषु भूतेषु लोकेषु सर्वेष्वात्मसु च यद्यद्भोग्यमुपासकस्य स्पृहणीयं सम्भवति , तत् सर्वं सङ्कल्पमात्रेण प्राप्नोतीत्येतत् ‘तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ७. २५. २) इत्यादिश्रुत्यन्तरेषु ब्रह्मोपासनाफलत्वेन प्रसिद्धमत्रोच्यते । सर्वपापप्रदाहश्च न प्राणाग्निहोत्रफलत्वेन उच्यते ; वैश्वानरविद्याङ्गस्य प्राणाग्निहोत्रस्य पृथक्फलानपेक्षत्वात् , किन्तु प्रधानापेक्षितफलत्वेनैव प्राणाग्निहोत्रसन्निधौ निर्दिश्यते । एवं परमात्मसाधकानां द्युमूर्द्धत्वादिलिङ्गब्रह्मात्मपुरुषश्रुतिफलविशेषरूपाणां सर्वेषामपि हेतूनां जाठराग्निसाधकानां तथा दृष्टृयुपदेशेन ब्रह्मणीव जाठराग्नौ सम्भवाभावः ‘असम्भवात्’ इत्यनेन संगृहीतः ।
ननु पुरुषश्रुत्यसम्भवस्यापि ‘असम्भवात्’ इत्यनेनैव संग्रहे ‘पुरुषमपि’ इत्यादिसूत्रशेषः किमर्थः ? ‘अन्तःप्रतिष्ठानात्’ इति पृथङ्निर्दिष्टहेत्वन्तरनिराकरणार्थ इति चेत् ; न । अग्निर्वैश्वानरश्रुतित्रेताग्निकल्पनप्राणाहुत्याधारत्वलिङ्गानां परमात्मन्यसम्भवतामपि द्युमूर्द्धत्वायद्यनुसारेण तथा दृष्टृयभिप्रायतया नयने परमात्मन्यपि सम्भवतोऽन्तःप्रतिष्ठितत्वस्य दुर्बलस्य पृथङ्निराकरणहेत्वनपेक्षत्वात् । तदपेक्षत्वेऽपि ‘पुरुषमपि’ इत्यादि सूत्रशेषेण पुरुषश्रुतिव्यतिरिक्तस्य हेतोरलाभात् , तस्य चासम्भवादित्यनेनैव लब्धत्वादिति चेत् ।
अत्र ब्रमः – ‘असम्भवात्’ इत्यनेन न केवलं परमात्मसाधकानां द्युमूर्द्धत्वादीनामेवासम्भवः संगृहीतः , किन्तु जाठरपक्षसाधकत्वेन पूर्वपक्षिणोपन्यस्तस्य पुरुषेऽन्तःप्रतिष्ठितत्वस्याप्यसम्भवः संगृहीतः । पुरुषेऽन्तःप्रतिष्ठितत्वं हि जीवेऽन्तःप्रतिष्ठितत्वम् । तत्तु परमात्मन्येव सम्भवति ; ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः’ इति श्रुत्यन्तरप्रसिद्धेः , न तु जाठराग्नाविति । तत्र पुरुषशब्देन शरीरं विवक्षितम् । न तु जीवः ‘इदं वाव ज्योतिर्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः’ इति जाठराग्नावेव शरीरान्तवर्तित्वाभिप्रायेण ‘अन्तःपुरुषे’ इति निर्देशदर्शनादिति शङ्कायामिदमुत्तरं पुरुषमपि चैनमधीयते’ इति । अत्रायमाशयः – भवेदेवं यदि ‘यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ इत्यत्र ज्योतिरिवैनं वैश्वानरं केवलं पुरुषार्न्तवर्तिनमधीयीरन् । न त्वेवम् ; इह तु वैश्वानरं पुरुषमप्यधीयते ‘स यो हैतमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । तथा च ज्योतिर्वाक्ये पुरुषपदस्य शरीरपरत्वेन जाठरपर्यवसाने विरोधिपुरुषपदान्तरसन्निधानाभावातत्र तथात्वेऽपि अत्र तद्विरोधिपुरुषपदान्तरसन्निधानसत्त्वान्न तथात्वमिति ।
ननु पुरुषपदान्तरसन्निधानं कथमिह जाठरपर्यवसानविरोधीति चेत् ; तदाकर्णय । ‘पुरुषं – पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितम्’ इति त्रयाणामपि पुरुषपदानामैकार्थ्यं तावदभ्युपगन्तव्यम् । ऐकार्थ्यसम्भवे ‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र. सू. २.३.५) इति न्यायानवतारात् । तथा च यदात्मकत्वं यद्विधत्वं यदन्तःप्रतिष्ठितत्वं चात्र वैश्वानरशब्दोक्तत्वेनालोच्यमानानां मध्ये कस्यचित् सम्भवति , स एव पुरुषशब्दार्थो वक्तव्यः । सम्भवति च परमात्मनो जीवरूपत्वं सर्वात्मत्वात् जीवविधत्वं च द्युमूर्द्धत्वादिलब्धसादृश्यात् । जीवान्तः प्रतिष्ठितत्वं च सर्वान्तर्यामित्वात् । जाठरस्य त्वचेतनस्य न जीवात्मत्वं जीवविधत्वं जीवान्तर्यामित्वं वाऽस्ति । तस्मात् पुरुषं पुरुषविधमिति विरोधिपुरुषपदसन्निधानात् जाठरे पुरुषान्तर्वर्तिरत्वस्याप्यसम्भवो युक्त एव ।
ननु ‘पुरुषमपि चैनम्’ इति सूत्रं लिखित्वा कथं पुरुषमप्यधीयते पुरुषविधमप्यधीयते इति व्याख्यातम् ? उच्यते । “पुरुषविधम् इत्यपि केचित् सूत्रावयवं पठन्ति” इति भाष्ये दर्शितम् । तत्र भगवतो बादरायणादेव केचन शिष्याः पुरुषमिति पाठं अन्ये शिष्याः पुरुषविधमित्यपि पाठं श्रुतवन्त इति तत्तत्सम्प्रदायानुसारिणस्तथा तथा पठन्तीति पाठद्वयमपि सूत्रकारप्रणयनमूलमित्येव भाष्याभिप्रायः। न हि सूत्रकारानुपज्ञमसाम्प्रदायिकं सम्पातायातपाठं भगवत्पादा लिखन्ति । अतः पाठद्वयमप्येकीकृत्य तथा व्याख्यातम् । सूत्रे चशब्दः तुशब्दार्थे वर्तमानः प्रसक्तशङ्कानिवृत्त्यर्थः सन् जाठरे पुरुषान्तःप्रतिष्ठितत्वासम्भववर्णनेन प्रग्लिखिताशङ्कावतारं सूचयतीति सर्वमनवद्यम् । १.२.२६ ।
अथ त्रैलोक्यव्याप्त्यभावेन जाठरस्य वैश्वानरत्वासम्भवेऽपि महाभूताग्निः स भविष्यति । तस्य हि द्युलोकादिव्याप्तिरवगम्यते ‘यो भानुना पृथिवीं चामुतमामाततान रोदसी अन्तरिक्षम्’ इति । तस्य पुरुषेऽन्तःप्रतिष्ठितत्वं च जाठररूपेण सम्भवति । अथवा तच्छरीरा देवता वैश्वानरो भविष्यति । सा ह्यैश्वर्ययोगेन द्युलोकाद्यधिष्ठातुं शक्नोति । पुरुषान्तःप्रतिष्ठितत्वं च तत्र सम्भवति ‘अग्निर्वाक् भूत्वा मुखं प्राविशत्’ इति श्रुतेरित्याशङ्कां जाठरपक्षनिराकरणहेत्वतिदेशेन निराकरोति –
अत एव न देवता भूतं च ।२७।
२७अचेतनस्य भूतस्य द्युसूर्याद्यधिष्ठातृत्वं न सम्भवति । तदसम्भवे च गगनादिसाधारणेन सम्बन्धमात्रेण तस्य द्युमूर्द्धत्वादिकल्पनं न शोभत इति जाठरपक्षनिराकरणप्रकारेणैव भूतपक्षनिराकरणमिति न तत्रातिदेशसूत्रनिवर्तनीयाधिकाशङ्काऽस्ति । अतो देवतायामैश्वर्येण द्व्याद्यधिष्ठातृत्वसम्भवाद्द्युमूर्द्धत्वादिकल्पना युज्यत इति देवतापक्षेऽधिकशङ्कां निरपेक्षैश्वर्यपरमेश्वरगताधिष्ठातृत्वग्रहणसम्भवे सापेक्षग्रहणमयुक्तमिति अन्तर्याम्यधिकरणन्यायस्मारणेन निराकर्तुमेवेदं सूत्रम् । भूतपक्षनिराकरणं त्वन्वाचयशिष्टमिति अन्वाचयार्थेन चकारेण सूचितम् । अथवा चकारेण जीवपक्षनिराकरणं समुच्चीयते । १.२. २७ ।
एवं द्युमूर्द्धत्वाद्यसम्भवेन पक्षान्तरपरिग्रहायोगात् परमात्मन्येव जाठरप्रतीकत्वेन , जाठरोपाधिकत्वेन वा अग्निवैश्वानरश्रुतित्रेताग्निकल्पनाप्राणाहुत्याधारत्वलिङ्गानि नेतव्यानि । पुरुषान्तःप्रतिष्ठितत्वं तु परमात्मन्येव सम्भवति , न जाठरादिष्वित्युक्तम् । इदानीं यद्यग्निश्रुत्यादिचतुष्टयं वैश्वानरे साक्षादेव योजनीयम् , यदि च ‘पुरुषेऽन्तःप्रतिष्ठितम्’ इत्यत्र पुरुषशब्दस्य ज्योतिर्वाक्य इव शरीरपरत्वं वक्तव्यम् , तदाऽप्येतत्सर्वं परमात्मनि न विरुद्धमित्याह –
साक्षादप्यविरोधं जैमिनिः । २८ ।
२८पुरुषेऽन्तःप्रतिष्ठितत्वं तावन्मूर्द्धादिचुबुकान्तावयवकल्पितमूर्द्धादिपादान्तावयवाधिष्ठातृत्वेन शरीरान्तर्गते परमात्मन्युपपद्यते । त्रेताग्निकल्पनं प्राणाहुत्यधिकरणत्वं चात एव तस्मिन्नुपपद्यते । प्राणाहुतिपाचकत्वेन प्रसिद्ध जाठरेऽग्नौ तदुभयं स्वारसिकम् इति चेत् ; न । आस्यं ह्याहवनीयायतनत्वेन कल्पितम् । न च जाठरस्य जठरप्रतिष्ठितस्य स्वोष्ममात्रेण सकलदेहसन्तापकस्यास्यमायतनमिति स्वारसिकम् । पाचकत्वं तु सर्वशक्तब्रह्मणोऽपि अविशिष्टम् । तस्मामूर्द्धादिचुबुकान्तावयवप्रतिष्ठिते तस्मिन्नेवास्यस्य आहवनीयायतनत्वकल्पनं प्राणाहुत्यधिकरणत्वं चोपपद्यत इति तस्मिन्नेव स्वरूपेण त्रैलोक्यशरीरत्वने च सकलदेहव्यापेक गार्हपत्यादिकल्पनमप्युपपाद्यम् । अग्निर्वैश्वानरशब्दावपि ‘अग्निः कस्मात् , अग्रणीभवति अग्रं नीयते अग्रं नयति ।
वैश्वानरः कस्मात् विश्वानरानयति , विश्व एनं नरा नयन्तीति वा , विश्वानर एव वैश्वानरः , राक्षसो वायस इतिवत् ; रक्ष एव हि राक्षसः , वय एव हि वायसः’ इति निरुक्तदर्शितेन केनचिद्योगेन तस्मिन्नुपपद्यते । अवश्यं ह्यग्निवैश्वानरशब्दयोरन्यतरस्येह यौगिकत्वं वाच्यम् । रूढ्योभयोर्ज्वलनपरत्वे पर्याययोरेकत्र प्रयोगस्य वैयर्थ्यप्रसङ्गात् । तदिहोभयोरप्यस्तु निरुक्तसार्थकत्वाय परमात्मविषयबहुश्रुतिलिङ्गानुग्रहाय च । सूत्रे अपिशब्देन पुरुषशब्दस्य शरीरपरत्वे अविरोधः समुच्चीयते । जैमिनिग्रहणं स्वशिष्योपपादितप्रकारोऽयमिति तत्ख्यापनार्थम् । एवमुत्तरत्रापि ऋषिविशेषग्रहणे फलं द्रष्टव्यम् । १.२.२८ ।
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरिति तां व्याख्यातुमारभते –
अभिव्यक्तेरित्याश्मरथ्यः । २९ ।
२९द्युलोकादिपृथिव्यन्तेषु मूर्द्धादिपादान्तावयवत्वेन कल्पितेषु उपासकानुग्रहार्थमतिमात्रस्यापि परमेश्वरस्याभिव्यक्तेर्द्युलोकादिप्रदेशसम्बन्धिनी मात्रा परिमाणमस्येति वा प्रकर्षेण परमेश्वरमूर्द्धत्वादिकल्पनाकृतेनादिश्यन्ते उपदिश्यन्त इति प्रादेशाः द्युलोकादयः , तन्मात्रं तत्परिमाणमिति वा प्रादेशमात्रत्वमित्याश्मरथ्यो मन्यते । यद्यपि प्रादेशशब्दस्य उक्तयोगात् परिमाणविशेषरूढिर्बलीयसी , तथाप्येवं प्रादेशमात्रमिति प्रागु पदिष्टं द्युमूर्द्धत्वादिप्रकारमेवंशब्देन परामृश्य तेन प्रकारेण प्रादेशमात्रत्वोपन्यासात्तेन च प्रकारेण द्वाद शाङ्गुलिपरिमाणत्वायोगादिह योगः एव ग्राह्यः इत्याश्मरथ्याभिप्रायः । एतन्न्यायसूचनार्थमेव अर्भकौकस्त्वादिसूत्रसिद्धस्याप्यस्य पुनस्सूत्रणम् । १. २. २९ ।
अथ रूढिमाश्रित्य मतान्तरं प्रदर्शयति –
अनुस्मृतेर्बादरिः । ३० ।
३०प्रादेशमात्रहृदयप्रतिष्ठेन मनसा अनुस्मर्यमाणत्वात् प्रादेशमात्रत्वम् , यथा प्रस्थमितानां यवानां प्रस्थत्वम् । यद्यपि तदन्तर्गत्या तदवच्छिन्नेष्विव , तेन ज्ञायमानेषु तत्परिमाणं व्यपदिष्टं न दृष्टम् , तथाऽपि रूढ्यपरित्यागेन यथाकथञ्चिदालम्बनमात्रमिति बादरिर्मन्यते । १.२. ३०॥
अत्राप्यपरितोषेण मतान्तरमाह –
संपत्तेरिति जैमिनिस्तथा हि दर्शयति । ३१ ।
३१समानप्रकरणे वाजसनेयिब्राह्मणे त्रैलोक्यात्मना वैश्वानरस्यावयवानामध्यात्मं मूर्द्धादिचुबकान्तावयवेषु सम्पादनाद् रूढ्यपरित्यागेन तदवच्छेदकृतमञ्जसैव प्रादेशमात्रत्वमिति जैमिनिर्मन्यते। १. २. ३१।
आमनन्ति चैनमस्मिन् । ३२ ।
३२आमनन्ति चैनं परमेश्वरमस्मिन्मूर्द्धचुबुकान्तराले सम्पत्त्यधिष्ठानत्वेन पूर्वसूत्रप्रकृते जाबालाः ‘स एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः’(जा. २. १) इत्यारभ्य ‘कतमच्चास्य स्थानं भवति भ्रुवोर्घ्रास्य च यः सन्धिः’(जा. २.१) इति । अतः परमेश्वरस्य मूर्द्धचुबुकान्तरालवर्तितायाः शाखान्तरेऽपि दृष्टत्वात् तदवच्छेदकृतं प्रादेशमात्रत्वमिति निर्वहणं युक्तम् । इदं प्रादेशमात्रत्वं छान्दोग्ये पूर्वोक्तप्रकारो न भवति इत्येवंशब्दानुपपत्तिरिति चेत् , न । एवं अधिदैवतं प्रसिद्धद्युमूर्द्धत्वादिविशिष्टं रूपम् , प्रादेशमात्रमध्यात्मं मूर्द्धचुबुकान्तरालप्रतिष्ठितप्रादेशमात्रं च इत्युभयविधोपासनालाभाय एवं प्रादेशमात्रमित्यनयोर्विशेषणद्वयत्वोपपत्तेः । वाजसनेयके ‘तथा तु व एनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामि’ इति प्रतिज्ञापूर्वकं स होवाच मूर्द्धानमुपदिशन्’ इत्यादेरारब्धत्वेन छान्दोग्येऽपि समानप्रकरणे मूर्द्धचुबुकान्तरालप्रतिष्ठितत्वलभ्यस्यैव प्रादेशमात्रत्वस्य ग्राह्यत्वात् । तस्माद्यद्यपि ‘अभिव्यक्तेः’ इति सूत्रस्य रूढ्यपरित्यागेनाप्रादेशमात्रोऽप्युपासकानुग्रहार्थं प्रादेशमात्रत्वेनाभिव्यज्यत इत्यर्थातरं भाष्ये दर्शितम् , ‘अनुस्मृतेः’ इति सूत्रस्य च प्रस्थपरिमितयवन्यायानपेक्षणेन अप्रादेशमात्रोऽपि प्रादेशमात्रत्वेनानुस्मरणीय इत्यर्थान्तरं दर्शितम् , तथाऽपि शाखान्तरे वैश्वानरस्य प्रादेशमात्रत्वं यथोपपादितं तथैव छान्दोग्येऽपि तत् ग्रहीतुं युक्तमिति जैमिनिपक्ष एव सिद्धातः । अत्र द्युमूर्द्धत्वादिरूपस्य ब्रह्मलिङ्गस्य कल्पनामात्रसिद्धत्वात् प्रादेशमात्रत्वश्रवणेनोपासकमूर्द्धादि षूपसंहृतत्वप्रतीतेः वेदिबर्हिर्गार्हपत्यादिकल्पनप्रतिरुद्धत्वाच्चास्पष्टता । १. २. ३२ ।
इति वैश्वानराधिकरणम् । ७ ।
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ प्रथमाध्यायस्य द्वितीयः पाद: ।
तृतीयः पादः
द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥
१इहाप्यस्पष्टब्रह्मलिङ्गान्येव वाक्यानि विचार्यन्ते । पूर्वः पादः सविशेषप्रधानः । अयन्तु निर्विशेषप्रधान इति पादभेदः । ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः’(मु.२.२.५) इत्याथर्वणिकोपनिषन्मन्त्रे द्युपृथिव्यादीनामोतत्ववचनेनावगम्यमानं तेषामायतनं प्रधानम् , ब्रह्म वेति द्युपृथिव्याद्यायतनत्वसाधारणधर्मदर्शनात् संशये पूर्वपक्षः – प्रधानमेवैतत् , न ब्रह्म, ‘अमृतस्यैष सेतुः’ इति अमृतसम्बन्धित्वसेतुत्वव्यपदेशात् । न ह्यमृतमेव सदपारं ब्रह्माम्रुतसम्बन्धित्वव्यपदेशं सेतुत्वव्यपदेशं वाऽर्हति । तस्मादमृतस्य मुक्तजीवस्य बन्धावस्थायां भोग्यत्वेन सम्बन्धि परिच्छिन्नं प्रधानं द्युभ्वाद्यायतनमिति युक्तम् । ननु प्रधानमपि सेतुशब्दस्य न मुख्योऽर्थः । पारवत्त्वेन गौणार्थस्तत् इति चेत् तर्हि ब्रह्मैव धारकत्वेन गौणार्थोऽस्तु । भवति हि ब्रह्म प्रसिद्धसेतुर्जलस्येव भावप्रधानामृतशब्दार्थस्य मोक्षस्य धारकम् ।
वस्तुतो धारकत्वेन सेतुसब्दस्य ब्रह्मणि गौणतैव युक्ता ; ‘अथ य आत्मा स सेतुर्विधृतिः’(छा.८.४.१) ‘एष सेतुर्विधरणः’(बृ.४.४.२२) इत्यादिश्रुत्यन्तरे सेतुशब्दस्य ब्रह्मणि तथा गौणतायाः ‘परमतः सेतून्मान’(ब्र.सू.३.२.३१) इत्यधिकरणे व्यवस्थापितत्वात् , अमृतत्वस्य धारक इत्यन्वयसंघटनाच्च , न तु पारवत्त्वेन प्रधाने गौणता युक्ताः ; अमृतस्य पारवानित्यन्वयासंघटनात् । षष्ठ्यन्तनिर्दिष्टस्य तत्प्रतिसम्बन्धितावच्छेदकरूपवत्त्वेन उपस्थित एव ह्यन्वयः । अत एव ‘चैत्रस्य पुत्रः’ इत्यत्रेव ‘चैत्रस्य धनवान्’ इत्यत्र नान्वयसंघटना ; चैत्रस्य पुत्रत्वेन सम्बन्धी धनवानित्यतिक्लिष्टार्थस्य कल्पनीयत्वात् । तस्मात् अमृतस्य सेतुरित्यन्वयस्वारस्यानुरोधेनामृतशब्दस्याविद्यानिवृत्तिरूपामृतत्वपरत्वं युक्तमेवेति चेत् , मैवम् । सेतुशब्दस्यान्तर्याम्यधिकरणन्यायादाजानसिद्धाविनाभूतपारवत्त्वेन गौणत्वं सम्भवति कादाचित्केन धारकत्वेन गौणत्वकल्पनाऽयोगात् । न च धारकत्वं कादाचित्कत्वेऽपि शब्दार्थैकदेशत्वेनान्तरङ्गमिति शङ्क्यम् । पारवत्त्वस्यापि तदविशेषात् । पारावारशब्दितपरार्वाक्तीरद्वयपर्यन्तानुस्यूतो जलविधारको हि सेतुशब्दार्थः , न तु जलविधारकमात्रम् ; जलकुम्भादीनामपि तदर्थत्वप्रसङ्गात् । वस्तुतः पारावारपर्यन्तो जलबन्धनहेतुरेव सेतुशब्दार्थः , न तु तथाभूतो जलविधारकः ; ‘षिञ् बन्धने’(धा.पा.१२४९) इति धातोः सेतुशब्दव्युत्पत्तेः । न च बन्धनधारणयोरैक्यम् , निगलादेर्बन्धकत्वेऽप्यधारकत्वात् । सेतुस्तु निगलादिवन्न केवलं बध्नाति, किन्तु बद्धं जलं धारयति चेति सेतुशब्दार्थान्तर्गतस्य बन्धनस्य फलमेव धारणम् , न शब्दार्थैकदेशः । पारवत्त्वं तु शब्दार्थैकदेश एव । जलबन्धनहेतुमात्रस्य सेतुशब्दार्थत्वे घटादेरनिस्सरज्जलबन्धनहेतुमधूच्छिष्टादेरपि तदर्थत्वप्रसङ्गेन पारावारमध्यवर्तित्वविशेषणावश्यम्भावात् । तस्मात् सहजत्वात्, शब्दार्थैकदेशत्वाच्च पारवत्त्वेनैव सेतुशब्दस्य गौणता युक्ता । ‘अमृतस्य सेतुः’ इति तु नान्वयः , किन्तु ‘अमृतस्यैष’ इति । तावन्मात्रेणैव च ‘तस्येदम्’(पा.सू.४.३.१२०) इति सूत्र इव षष्ठ्यन्तपदवाच्यसम्बन्धित्वमुच्यते , सेतुशब्देन चामृतपदानन्वितेनैव पारवत्त्वं लक्ष्यत इति न किञ्चिदवद्यम् ।
नन्वत्रधिकरणन्यायाल्लक्षकपदेन समभिव्याहृतपदार्थान्तरस्वारस्यानुसार्येव लक्षणीयम् । इह धारकत्वमेव तथा, न पारवत्त्वम् । तथा हि – आत्मश्रुतिस्तावत् ब्रह्मण्येव सङ्गच्छते ; तस्य चेतनवाचित्वात् । ‘अन्या वाचो विमुञ्चथ’ इति वाग्विमोकपूर्वकं विधीयमानं ज्ञेयत्वमपि तत्रैव सङ्गच्चते ; तस्य ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायात् बहूञ्च्छब्दान्वाचो विग्लापनं हि तत्’(बृ.४.४.२१) इति श्रुत्यन्तरे ब्रह्मणि प्रतिपन्नत्वात् । तथा द्युभ्वाद्यधिकरणत्वमप्यन्तर्याम्यधिकरणन्यायेन निरपेक्षं ब्रह्मण्येव सङ्गच्छते । तस्मादात्मश्रुत्याद्यनुरोधेन सेतुशब्दे ब्रह्मगतधारकत्वलक्षणैव युक्तेति चेत् , उच्यते – इह द्युभ्वाद्यायतनत्वमनुवाद्यम् , न तु ‘सदायतनाः सत्प्रतिष्ठाः’(छा.६.८.४) इत्यत्रेव प्रतिपाद्यम् ; ‘यस्मिन्’ इत्यनुवादलिङ्गदर्शनात् । अनुवादश्च प्राप्तिसापेक्षः । प्राप्तिस्त्वानुमानिक्येव ग्राह्या, न तु श्रुत्यन्तरलभ्या । यत आनुमानिकी प्राप्तिः श्रौतप्राप्तेः शीघ्रतरा । अनुमानस्य प्रत्यक्षमात्रापेक्षा श्रुतेर्व्युत्पत्तिग्रहादावुभयापेक्षेत्यनुमानतः श्रुतेः श्रुतितः श्रौतलिङ्गस्येव विलम्बितप्रवृत्तिकत्वात् । ततः द्युभ्वाद्यायतनत्वेनानुमानगम्यं प्रधानमेव ‘यस्मिन्द्यौः’ इत्यादिनाऽनूद्यत इति मन्त्रोपक्रमस्य तावत् प्रधान एव स्वारस्यमवगम्यते । तथोपसंहारस्यापि तत्र स्वारस्यमुपपादितम् । एवञ्चोपक्रमोपसंहारानुसारेण प्रतर्दनाधिकरणन्यायान्मध्यपातिन्यात्मश्रुतिः ‘अन्यावाचो विमुञ्चथ’ इत्युक्तिश्च नेतव्या । अनेकसाधारणी चात्मश्रुतिः ‘आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि’ इत्यभिधानकोशदर्शनात् , ‘‘रसात्मकस्योडुपतेश्च रश्मयः’(कुमा.सं.५.२२) इत्यादिष्वन्यत्रापि तत्प्रयोगदर्शनाच्च । ननु तद्वदिहात्मशब्दः स्वभावपर इति वक्तुमयुक्तम् ; धर्मिपरपदसामानाधिकरण्यात् , वस्तुनिर्देशादेव तत्स्वभावस्य सिद्धत्वेन स्वभावपरत्वे वैयर्थ्यप्रसङ्गाच्चेति चेत् , न । स्वभावपरत्वासम्भवेऽपि देहपरत्वोपपत्तेः । उपपद्यते हि द्युभ्वाद्यायतनमेकमेव युष्माकं देहं जानीध्वम् , स्थूलशरीररूपदेहान्तरविषया देहत्ववाचो विमुञ्चथ इति ।
एतदुक्तं भवति – देहविविक्ततया तावदात्मस्वरूपं ज्ञातव्यम् । तदर्थं देहो ज्ञातव्यः । देहश्च स्थूलः पाञ्चभौतिक एव न विवक्षितः ; आगमापायिनस्ततो विवेकस्य सुज्ञानत्वात् । किन्त्वव्याकृतदेहः सूक्ष्मो विवक्षितः । यदनुबन्धादनादिरयमखिलानर्थहेतुरहंममाध्यास इति । अस्ति चाव्याकृतेऽपि जीवं प्रति देहत्वव्यवहारः ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’(क.उ. १.३.३) इति । अत्र सरीरपदनिर्दिष्टस्य उत्तरत्र ‘‘अव्यक्तात्पुरुषः परः’(क.उ. १.३.११) इत्यव्यक्तशब्देन प्रत्यवमर्शादव्याकृतमेव सरीरत्वेन निर्दिश्तमिति अवसीयते । तस्माद्द्युभ्वाद्यायतनं प्रधानमेवेति ।
एवं प्राप्ते राद्धान्तः – द्युभ्वाद्यायतनं ब्रह्म ; आत्मशब्दात् । अयं हि स्वस्य ब्रह्मण एव सब्दः , न तु प्रधानस्यापि वाचकः । न खल्वयं स्वरूपेण प्रधानं वक्ति, नापि शरीरत्वेन ; शक्तिग्राहकाभावात् । अभिधानकोसः सरीरे शक्तिग्राहकोऽस्ति इति चेत् , न । चेतनवाचिनोऽस्य अहंशब्दस्येव शरीरे प्रयोगाणां चेतनतादात्म्याध्यासेनोपपन्नतया तादृक्प्रयोगदर्शनमूलानामद्यतनाभिधानकोशानां न्यायविरुद्धशक्तिकल्पनायामसामर्थ्यात् , आत्मशब्दस्य शरीरशक्तिसद्भावेऽप्यन्तर्याम्यधिकरणोक्तन्यायेन प्रधानस्य शरीरत्वासिद्धेश्च । श्रुत्यन्तरे शरीरत्वकल्पनस्य प्रसिद्धशरीरविषयत्वात् प्रसिद्धशरीर एवाव्यक्तपदमव्यक्तकार्याभिप्रायमिति ‘सूक्ष्मं तु तदर्हत्वात्’(ब्र.सू.१.४.२) इति सूत्रे वक्ष्यमाणत्वात् । एवमात्मशब्दः प्रधानेऽप्युपपन्न इति शङ्कावारणार्थमेव तस्य प्रधानसाधारण्यव्यावर्तनाय ‘स्वशब्दात्’ इति सूत्रितम् , अन्यथा हि ‘शब्दादेव प्रमितः’(ब्र.सू.१.३.२४) इति सूत्र इव ‘शब्दात्’ इत्येवासूत्रयिष्यत ।
ननु ‘द्व्याद्याधार’ इति लघुनि सूत्रे कर्तुं शक्ये द्युपृथिवीद्वयनिर्देशेन , आयतनशब्दप्रयोगेण च किमर्थं गुरुसूत्रं कृतम् ? उच्यते – श्रुत्यन्तरे ब्रह्म स्वशब्देनैवायतनं श्रूयते ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा.६.८.४) इति । इहापि मन्त्रे ‘यस्मिन्’ इति निर्दिष्टं द्युपृथिव्यादीनामो तत्त्ववचनादायतनमवगम्यते । तथा च श्रुत्यन्तरगतायतनशब्दरूपब्रह्मपरशब्दपरामर्शापेक्षादायतनत्वप्रत्यभिज्ञानादपि द्युभ्वाद्यायतनं ब्रह्मेति सिद्धान्तयुक्त्यन्तरद्योतनार्थमायतनशब्दः । अस्या युक्तौ ‘स्वशब्दात्’ इति ल्यब्लोपे पञ्चमी । तथा च श्रुत्यन्तरगतमायतनशब्दरूपं ब्रह्मशब्दं परामृश्य तदुन्मेषितादायतनत्वप्रत्यभिज्ञानात् द्युभ्वाद्यायतनं ब्रह्म प्रतिपत्तव्यमिति सूत्रार्थो ग्राह्यः ।
द्युपृथिवीद्वयग्रहणं तु – विषयवाक्ये द्युपृथिव्यायतनत्वकीर्तनेनैव तदुभय(मध्य)वर्तिनोऽन्तरिक्षलोकस्याप्यायतनं इत्यर्थात् ज्ञातुं शक्यतया मन्त्रगतस्यान्तरिक्षपदस्य वैयर्थ्यपरिहारार्थमव्याकृताकाशपरतया वक्तव्यत्वात् प्रधानपूर्वपक्षो न सम्भवति ; तस्याधेयतया निर्दिष्टत्वात् । अन्तरिक्षपदस्य भूताकाशपरत्वाङ्गीकारेऽपि प्रधानपूर्वपक्षो न सम्भवति ; अक्षरब्राह्मणे ‘यदूर्ध्वं गार्गी दिवो यदर्वाक् पृथिव्याः’(बृ.३.८.४) इत्यादिना द्यावापृथिव्योस्तदूर्ध्वाधस्तनलोकानां तदन्यस्यापि सर्वस्य जगतस्तावदाधारतया निर्दिष्टस्य भूताकाशस्य चायतनत्वेन ब्रह्मणः प्रतिपादितत्वात् , इहापि ‘यस्मिन्द्यौः पृथिवी च’(मु.२.२.५) इति चकारेण द्युपृथिव्यूर्ध्वाधरलोकानां समुच्चिततया तदर्थप्रत्यभिज्ञानसत्वात् । अक्षरब्राह्मणस्य च प्रशासनादिकीर्तनात् ब्रह्मपरताऽवश्यम्भावेन प्रधानपरत्वासम्भवस्य वक्ष्यमाणत्वादिति सिद्धान्तयुक्त्यन्तरद्योतनार्थम् ॥१.३.१॥
एवमात्मशब्दायतनत्वप्रत्यभिज्ञानाभ्यां साव्याकृतजगदायतनत्वसभूकाशजगदायतनत्वप्रत्यभिज्ञानान्यतरेण च द्युभ्वाद्यायतनं ब्रह्म न त्वव्याकृतमिति समर्थितम् । हेत्वन्तररेणापि अमुमर्थं समर्थयते –
मुक्तोपसृप्यव्यपदेशात् ॥२॥
२‘यस्मिन्द्यौः’(मु.२.२.२) इत्यादावाधेयतया निर्दिष्टेन कार्यरपञ्चेन मुक्तामेवायतनमुपसृप्यं ज्ञातव्यम् , न तु तद्विशिष्टमिति ‘तमेवैकं जानथ’(मु.२.२.५) इत्यनेन उपदेशादपि द्युभ्वाद्यायतनं ब्रह्म ; मूलस्कन्धशाखात्मकत्वेन वृक्षस्येव ब्रह्मणः प्रपञ्चविशिष्टत्वेन प्रतिपत्तौ प्राप्तायां ‘‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क.४.१०) इति श्रुत्यन्तरे तस्य तथा प्रतिपत्तेर्निन्दितत्वात् । अपि च ‘अन्या वाचो विमुञ्चथ’(मु.२.२.५) वाग्विमुक्तिपूर्वकं ज्ञातव्यत्वोपदेशादपि द्युभ्वाद्यायतनं ब्रह्म । तथा ज्ञातव्यत्वस्यापि ब्रह्मणि ‘तमेव धीरो विज्ञाय’(बृ.४.४.२१) इति श्रुत्यन्तरे प्रसिद्धत्वात् ।
अत्र यदुक्तं पूर्वपक्षिणा प्रधानमेवात्मानं संसारिणां शरीरं जानीत स्थूलदेहादिविषयाः शरीरत्ववाचो विमुञ्चथेत्येवं प्रधानेऽप्येतद्योजयितुं शक्यमिति तत् आत्मशब्दस्य ब्रह्मासाधारणशब्दत्वसमर्थनेन पूर्वसूत्रे शरीरपरत्वासम्भवप्रदर्शनादेव निरस्तम् । किञ्च तथा सति ‘तमेवैकं जानथ’ इत्यदिकं ‘अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः’(तै.सं.२.९.४) इतिवदर्थवादमात्रं स्यात् ; प्रसिद्धशरीरेष्वशरीरत्ववादस्य गवाश्वव्यतिरिक्तपशुषु अपशुत्ववादस्येव बाधितत्वात् । अतिसूक्ष्मब्रह्मावगतेरत्यन्तचित्तैकाग्र्यसाध्यत्वेन तदर्थमन्यवाग्विमोकपूर्वकं ब्रह्मण ऐकरस्येन ज्ञातव्यत्वोपदेशपरत्वे तु श्रुत्यन्तरप्रसिद्ध्यनुसारेण भूतार्थवादो भवति । न च विशिष्टार्थोपदेशरूपभूतार्थवादत्वे सम्भवति असदर्थावलम्बनार्थवादत्वकल्पनं युक्तम् ।
अपि च ‘अमृतस्यैष सेतुः’ इत्यन्यवाग्विमोकपूर्वकादैकरस्येन ज्ञानादविद्यादिबन्धमुक्तैः प्राप्तव्यत्वोपदेशादपि द्युभ्वाद्यायतनं ब्रह्म । तथा हि – ‘अमृतस्यैष सेतुः’ इत्यत्रैतच्छब्दो नात्मनः परामर्शकः किन्तु विधेयत्वेन प्रधानस्य ज्ञानस्य परामर्शकः । तथा च यथा प्रसिद्धः सेतुः पारस्य प्रापकः , एवमयं द्युभ्वाद्यायतनज्ञानरूपः सेतुः संसारपारस्यामृतस्य ब्रह्मणः प्रापक इति तस्यार्थः ।
ननु ‘जानथ’ इत्याख्यातेन साध्यरूपाभिधायिनोक्तस्य ज्ञानस्य सिद्धरूपाभिधायिना नाम्ना परामर्शो न युक्त इति चेत् , न । ‘शैत्यं हि यत् सा प्रकृतिर्जलस्य’(रघु. ५.५४) इत्यत्र नपुंसकतया प्रकृतस्य स्त्रीलिङ्गविशिष्टतया परामर्शवत् , ‘पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिःपुमान्’(ना.लिं.अ.) इत्यत्रैकत्वविशिष्टतया प्रकृतस्य द्वित्वविशिष्टतया परामर्शवच्च साध्यरूपविशिष्टतया प्रकृतस्यापि तदंशत्यागेन सिद्धरूपविशिष्टतया परामर्शोपपत्तेः । ‘श्येनेनाभिचरन्यजेत यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ ‘अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावः’(छा.२.११.१) ‘अपोऽश्नातितन्नेवाशितं नेवानशितम्’ इत्यादावाख्यातोक्तस्य नाम्ना परामर्शदर्शनाच्च । तथाऽप्यत्र ‘स एषोऽन्तश्चरते’(मु.२.२.६) ‘दिव्ये ब्रह्मपुरे ह्येषः’(मु.२.२.७) इत्याद्यनन्तरमन्त्राम्नातैतच्छब्दानामात्मपरत्वदर्शनादस्यापि तत्परत्वं युक्तम्’ इति चेत्, न । तेषां ज्ञानपरत्वासम्भवेन तद्विषयात्मपरत्वकल्पनेऽप्यस्य तस्मिन्नेव मन्त्रे विधेयत्वेन प्रस्तुते ज्ञाने वृत्तिसम्भवे तदुल्लङ्गनेन तद्विषापरत्वकल्पनायोगात् । न चैवं सति ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा’ इत्यत्रापि तच्छब्दस्यानयनक्रियापरत्वप्रसङ्गः ; तस्य द्रव्यवाच्यामिक्षापदसमानाधिकरणस्य क्रियापरत्वासम्भवेन तत्प्रधानकर्मभूतपयःपरामर्शित्वकल्पनात् । नन्वेवमपि द्युभ्वाद्यायतने मुक्तोपसृप्यत्वहेतुर्न लभ्यते; अमृतस्यैव मुक्तोपसृप्यत्वलाभादिइ चेत् – न । अन्यज्ञानादमृतस्य ब्रह्मणः प्राप्त्यसम्भवेन द्युभ्वाद्यायतनज्ञानात् ब्रह्मणः प्राप्यत्वप्रतिपादनादर्थात् द्युभ्वाद्यायतनमेवामृतशब्दोक्तं ब्रह्मेति लाभात् ।
एवमस्य सूत्रस्य तिसृषु योजनासु आद्ययोजना भाष्ये प्रथमसूत्रव्याख्यानसमय एवात्मशब्दस्य ब्रह्मासाधारणशब्दत्वसमर्थनानन्तरं तदुपजीवित्वात्तत्रायतनवद्भावश्रवणादित्यादिना दर्शिता । द्वितीययोजना त्वेतत्सूत्रव्याख्यानसमये सूत्रस्य द्वितीयार्थत्वेन दर्शिता । तृतीययोजना तु न स्पष्टं प्रदर्शिता, किन्तु मन्त्रान्तरगतमुक्तोपसृप्यत्वव्यपदेशस्य एतत्सूत्रार्थतया वर्णनेन तत्समानन्यायतया सूचिता । भाष्ये मुण्डकोपनिषद्विवरणे च ‘अमृतस्यैश सेतुः’ इत्यत्रैतच्चब्दस्य ज्ञानपरामर्शित्वप्रतिपादनेन च किञ्चिदाविष्कृता ।१.३.२।
नानुमानमतच्छब्दात् ॥३॥
३सांख्यानुमानकल्पितं प्रधानमिह न ग्राह्यम् ; तत्प्रतिपादकशब्दाभावात् । न हि ‘यस्मिन्द्यौः’ इत्यादि तत्प्रतिपादकं ; तस्यान्तरङ्गश्रुत्यन्तरप्रापितब्रह्मगतद्युभ्वाद्यायतनत्वानुवादकत्वात् । यत्त्वनुमानात् श्रुतिः प्रत्यक्षानुमानसापेक्षत्वेन विलम्बितप्रवृत्तिकेति शीघ्रतरमनुमानमेव प्रापकमित्युक्तम् , तदयुक्तम् ; शब्दानां व्युत्पत्तिवेलायामर्थग्राहिमानान्तरापेक्षत्वेऽपि तत्प्रतिपादनवेलायां तदपेक्षत्वाभावेन विलम्बासिद्धेः ; अन्यथा ‘गामानय’ इत्यादिवाक्यानामसन्निकृष्टार्थविषयाणां प्रत्यक्षसाचिव्याभावेन गवानयनादिप्रतिपादकत्वाभावप्रसङ्गात् । उक्तं च वार्तिके ‘अर्थबोधेऽनपेक्षत्वान्मानान्तरमनादृतम् । व्युत्पत्त्युपायभूतं यत्तच्च तन्मात्र एव तु’ इति । तस्मात् ‘यस्मिन्द्यौः’ इत्यादि न प्रधानप्रतिपादकम् । नापि ‘अमृतस्यैष सेतुः’ इत्येतत् तत्प्रतिपादकम् ; तस्य विधेयतया प्रकृतं ज्ञानं ब्रह्मणः प्रापकमित्येतदर्थताया वर्णितत्वात् । यथा प्रसिद्धः सेतुः प्रवाहनिरोधेन प्रभूतमुदकं साधयति , एवमिदमात्मज्ञानममृतत्वं साधयतीत्यमृतशब्दस्य भावप्रधानताश्रयणेनात्मज्ञाने साधनत्वपरतयाऽपि सेतुव्यपदेशोपपत्तेश्च । आत्मन्यपि अमृतत्वधारकतया तद्व्यपदेशोपपत्तेश्च । उपक्रमश्रुतब्रह्मगतनिरपेक्षद्युभ्वाद्यायतनत्वलिङ्गेन आत्मश्रुत्या वाग्विमोकपूर्वकमेकरसतया ज्ञातव्यत्वोपदेशेन च विरुद्धस्योपसंहारस्य यथाकथञ्चिन्नयनस्योचितत्वात् । एवं च ‘उपक्रमोपसंहारानुसारेण मध्यगतमात्मश्रुत्यदिकं यथाकथञ्चित्प्रधाने नेतव्यम्’ इत्यपि निरस्तम् ।
सूत्रे ‘अनुमानम्’ इति कर्मणि ल्युट्प्रत्ययान्तः , आनुमानमिति शैषिकप्रत्ययान्तो वा । उपन्यस्तपूर्वपक्षबीजद्योतनार्थं प्रधानस्यानुमानपदेन ग्रहणम् । ‘अतच्छब्दात्’ इत्यत्र प्रसज्यप्रतिषेधार्थकस्य नञः समासः । तस्य क्रियासापेक्षत्वेनासामर्थ्येऽपि समासोऽस्तीति ‘अकर्तरि च कारके संज्ञायाम्’(पा.सू.३.३.१९) इत्यत्र कारकग्रहणेन ज्ञापितत्वात् , ‘असूर्यंपश्या राजदाराः’ इत्यादिप्रयोगदर्शनाच्च । ‘निर्मक्षिकम्’ इतिवदर्थाभावेऽव्ययीभावो वा । अतच्छब्दमित्यम्भावस्तु न भवति ; ‘नाव्ययीभावादतोम् त्वपञ्चम्याः’(पा.सू.२.४.८३) इति पञ्चमीपर्युदासात् ॥१.३.३॥
स्यादेतत – मा भूत् प्रधानं द्युभ्वाद्यायतनम् , जीवस्तु स्यात् ; मनःप्राणसम्बन्धश्रवणात् । न च जीवस्य मनःप्राणैरुपकरणोपकरणिभावसम्बन्ध एव प्रसिद्धो नाश्रयाश्रयिभावः , इह त्वाश्रयाश्रयिभाव एव प्रतीयते ; द्युपृथिव्यन्तरिक्षैराश्रयाश्रयिभाववाचकेनैव ओतशब्देनोपात्तत्वात् , ओतशब्दस्वारस्याच्चेति वाच्यम् । जीवोपकरणानां तेषां जीवादृष्टायत्तोत्पत्तिस्थितिकत्वेन तदाश्रितत्वव्यपदेशोपपत्तेः । अत एव जीवः ‘प्राणभृत्’ इति व्यवह्रियते । एवं च जीवे द्युपृथिव्यन्तरिक्षायतनत्वव्यपदेशोऽपि युज्यते ; तद्भोग्यभोगस्थानभोगोपकरणभोगायतनरूपाणां तेषां तददृष्टायत्तत्वात् । जीवोपकरणे प्राणेऽपि हि ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम्’(छा.७.१५.१) इति सर्वाधारत्वं श्रूयते । जीवे तच्छ्रवणस्य काऽनुपपत्तिः ? न चात्मशब्दो जीवेऽनुपपन्नः ; तस्य द्युभ्वादिसूत्रे ब्रह्मासाधारणत्वप्रतिपादनादिति वाच्यम् । ‘स्वशब्दात्’ इत्यनेन तस्य प्रधानसाधारण्यमेव हि व्यावर्तितम् , न तु जीवसाधारण्यमपि ; तस्य जीववाचकताया अनिवार्यत्वात् ‘स ब्रह्मवित् स लोकवित् स देववित् स भूतवित् स आत्मवित्’(बृ.३.७.१) इति अन्तर्यामिब्राह्मणे ब्रह्मणि ब्रह्मशब्दवत् जीवे आत्मशब्दस्यासाधारण्येन प्रयोगदर्शनात् । एवं ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः’(श.ब्रा.१४.५.३०) इत्याद्यन्तर्यामिब्राह्मणे ‘अयमात्मा ब्रह्म’(बृ.२.२.१९) इत्यादिश्रुत्यन्तरे च तत्र तस्यासाधारण्येन प्रयोगदर्शनात् । ‘नात्मऽश्रुतेर्नित्यत्वाच्च ताभ्यः’(ब्र.सू.२.३.१७) ‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२.१.२८) इत्यादिसूत्रेष्वपि तस्मिन्विशिष्यात्मशब्दप्रयोगदर्शनाच्च ।
प्राणभृच्च ॥४॥
४चकारेण नञो हेत्श्चानुकर्षः । प्राणभृदपि न द्युभ्वाद्यायतनम् ; अतच्छब्दादेव । न हि मनःप्राणायतनत्वं तच्छब्दः । तस्य तदुपकरणकत्ववत् प्राणभृदसाधारणत्वाभावात् । ‘यस्मिन् पञ्च पञ्चजनाः’(बृ.४.४.१७) इत्यादिश्रुत्यन्तरे ब्रह्मण्यपि तत्प्रसिद्धेः । न च द्युपृथिव्यन्तरिक्षमनःप्राणायतनत्वमपि मुख्यं ब्रह्मणि सर्वोपादान इव जीवे सम्भवति । अ वा निरपेक्षं तत् ब्रह्मणोऽन्यत्र सम्भवति । तस्मात् तच्छब्दाभावात् तद्विलक्षणस्य ब्रह्मणः प्रतिपादकाच्छब्दादपि न प्राणभृद् द्युभ्वाद्यायतनम् । एवं च ‘अतछब्दात्’ इत्यस्य द्वितीयहेतुपरत्वेन योजनायां पर्युदासार्थस्य नञस्तत्पदेन समासः । उभयसाधारण्यार्थमतच्छब्दादित्युक्तिः । इदं च नैरपेक्ष्यापेक्षं पर्युदासार्थकत्वं पूर्वत्र प्रधाननिराकरणार्थहेतावपि योज्यम् ॥१.३.४॥
भेदव्यपदेशात् ॥५॥
५भिद्यतेऽनेनेति भेदो भेदकः ‘तमेवैकञ्जानथ’ इति कर्मकर्तृभावः , अवधारणलब्धेनैकरस्येन ज्ञेयत्वं च वैलक्षण्यं भेद इति पक्षे तु स एव भेदः । तद्व्यपदेशान्न प्राणभृत् द्युभ्वाद्यायतनम् । मुमुक्षुप्राणभृज्जातेन हि निर्विशेषचिन्मात्रैकरसं ब्रह्म ज्ञेयम् , न तु प्राणभृदेव ज्ञाता तेनैव रूपेण ज्ञेयः । तत्र कर्मकर्तृभावविरोधात्, अहङ्कारसुखदुःखरागद्वेषादिसंवलितरूपस्य तस्यैकरस्येन ज्ञेयत्वायोगाच्चेति तदनुरोधेनात्मशब्दस्य जीवात्मपरत्वे, परमात्मपरत्वे, चेतनसामान्यपरत्वे, स्वरूपपरत्वे वा निर्विशेषचिन्मात्र एव पर्यवसानमभ्युपेयम् ; तस्यैव वस्तुतः तत्तद्बोधनीयजीवस्वरूपतया पर्यवसानात् ।
न च – बिम्बप्रतिबिम्बरूपयोः सविशेषयोर्जीवब्रह्मणोर्भेदेऽपि तदुभयानुस्यूतस्य निर्विशेषचैतन्यस्य जीवस्य च भेदो नास्ति , अन्यथा ‘षडस्माकमनादयः’ इति सिद्धान्तविरोधात् , तथा च कथमत्र भेदव्यपदेशो हेतुः स्यात् इति शङ्कनीयम् ; परिच्छिन्नापरिच्चिन्नयोस्तयोरपि भेदावश्यम्भावात् । लोकेऽप्यपरिच्छिन्नो महाकाशः परिच्छिन्नो घटाकाश इति भेदव्यपदेशदर्शनात् । षडनादित्वव्यवहारस्तु जीवब्रह्मभेदं ब्रह्मचिन्मात्रभेदं जीवचिन्मात्रभेदं च भेदराशित्वेनैकीकृत्य । अत एवाहुः ‘जीव ईशो विशुद्धा चित् भेदस्तस्यास्तयोर्द्वयोः । अविद्यातच्चितोर्योगः षडस्माकमनादयः’ इति । तस्याः सकाशात्तयोर्जीवेशयोर्भेदः तयोर्द्वयोरन्योन्यं च भेद इत्यर्थः ॥१.३.५॥
स्यादेतत् – मा भूदेतन्मन्त्रश्रुतहेतुभिः द्युभ्वाद्यायतनं जीवः ; उपरितनमन्त्रश्रुतहेतुभिस्तु स्यात् । उपरितनमन्त्रे हि ‘अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः’(प्र.६.६) इति नाडीसम्बन्धनाड्यन्तस्सञ्चारजायमानत्वानि श्रूयन्ते । तानि च जीवलिङ्गानि । नाडीसम्बन्धः तदन्तस्सञ्चारश्च तावज्जीवस्य प्रसिद्धतरः ‘आसु तदा नाडीषु सृप्तो भवति’(छा.८.६.३) ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ.२.२.१९) इत्यादिश्रुतिषु । जायमानत्वं तु तदसाधारणमिति स्पष्टमेव । तस्मात् बहुसाधकान्यथाकरणायोग्गाज्जीव एव द्युभ्वाद्यायतनं स्यादित्याशंक्याह –
प्रकरणाच्च ॥६॥
६प्रकरणमिदं मुण्डकोपनिषदि ‘कस्मिन्नु भगवो विज्ञाते’(मु.१.१.३) इत्युपक्रममारभ्य आसमाप्ति बहुतरश्रुतिलिङ्गादिनियमितं भूतयोनेरक्षरस्य परमात्मनः । तदेतददृश्यत्वाधिकरण एव प्रतिपादितमिति तन्मध्याम्नातस्य ‘यस्मिन्द्यौः’(मु.२.२.५) इति मन्त्रस्य नान्यपरत्वशङ्कावकाशोऽस्ति । न्यायव्युत्पादनार्थं प्रकरणं पिधाय तन्मन्त्रगतैः कैश्चिल्लिङ्गैरन्यपरत्वमाशंक्य तन्मन्त्रगतैरेव श्रुतिलिङ्गैः ब्रह्मपरत्वं साधितं सूत्रपञ्चकेन । अनेन तु सूत्रेण प्राकरणिकमन्त्रान्तरगतलिङ्गैर्जीवपरत्वे शङ्किते प्रकरणमुद्घाट्य प्राकरणिकमन्त्रान्तरगतैः प्रबलैः श्रुतिलिङ्गौस्तद्बाधह् प्रदर्श्यते । तत्र कानिचित् श्रुतिलिङ्गान्यदृश्यत्वाधिकरणे प्रदर्शितानि , कानिचिदिहैवाधिकरणे ‘स्वशब्दात्’ इत्यादिहेतूनामर्थान्तरोपवर्णनव्याजेन भाष्ये प्रदर्शितानि । तत्र हि ‘स्वसब्दात्’ इत्यस्य ‘तपो ब्रह्म परामृतम्’(मु.१.२.१०) ‘ब्रह्मैवेदममृतं पुरस्तात्’(मु.२.२.११) इति पूर्वत्र परत्र च ब्रह्मसंशब्दनमप्यर्थान्तरत्वेन दर्शितम् ।१। मुक्तोपसृप्यसूत्रस्य च ‘भिद्यते हृदयग्रन्थिः’(मु.२.२.८) इति मन्त्रे रागद्वेषादिमुक्तैर्ज्ञेयत्वव्यपदेशः ‘परात्परं पुरुषमुपैति दिव्यम्’(मु.३.२.८) इति मुक्तप्राप्यत्वव्यपदेशश्चार्थान्तरत्वेन दर्शितः ।२। ‘अतच्छब्दात्’ इत्यस्य च ‘यः सर्वज्ञः सर्ववित्’ इत्यादिषु श्रुतः सर्वज्ञादिशब्दोऽप्यर्थान्तरत्वेन दर्शितः ।३। एवं प्राकरणिकबहुश्रुतिलिङ्गबाधितमुत्तरमन्त्रगतं जीवलिङ्गत्रयमन्यथा नेयम् । तथा हि – नाडीसम्बन्धस्तावन्न जीवलिङ्गम् । नाड्याश्रयत्वं ह्यत्र नाडीसम्बन्धः अरनाभिदृष्टान्तानुरोधात् , ‘यत्र’ इति सप्तम्यनुरोधाच्च , न तु नाड्युपकरणत्वम् । नाड्याश्रयत्वं त्वाहत्य हृदयस्यैव श्रुतम् ‘अथ या एता हृदयस्य नाड्यः’(छा.८.७.१) इत्यादिषु । तदाश्रयत्वं जीवस्यापि हृदयद्वारैव वाच्यम् । तच्च हृदयायतनस्य ब्रह्मणोऽपि सुवचम् । एवं ‘अजायमानो बहुधा विजायते’(यजु.सं. ३१.१६) इति श्रुत्यनुसारेणाभिव्यक्तिविशेषवत्त्वरूपं जायमानत्वम्, जीववदन्तःकरनोपहितरूपेण नाड्यन्तस्सञ्चारवत्त्वम् च तस्यसुवचमेव । यदि ‘लक्षणहेत्वोः क्रियायाः’(पा.सू.३.२.१२६) इति प्रथमासमानाधिकरणशानज्विधायकसूत्रानुसारेण ‘यो जायते सोऽन्तश्चरते’ इत्येवमर्थपर्यवसायितया अन्तस्सञ्चरणक्रियालक्षणत्वेनोपन्यस्तं जननं जीवे प्रसिद्धतरं ब्रह्मव्यावृत्तमेव ग्राह्यम् ; प्रसिद्धतरस्यैव लक्षकत्वात् , अत एवान्तस्सञ्चरणमपि तेन जननेन लक्षणीयं जीवगतमेव ग्राह्यमित्युच्यते , तदाऽपि नास्त्यनुपपत्तिः ; हृदयायतनः परमात्मा जीवरूपेण जायमानः सन् नाडीनामन्तः सञ्चरत इत्यन्वयसौलभ्यात् । एवं प्रसक्तशङ्कानिराकरणार्थस्तुशब्दार्थे सौत्रश्चकारः ॥१.३.६॥
स्यादेतत् – जीवस्य प्रत्यग्रूपतया लोकानुभवसिद्धात् कर्तृत्वभोक्तृत्वादिविकारशालिनो रूपादन्यन्निर्विकारचिन्मात्रात्मकमपि रूपमस्तीत्यत्र किं प्रमाणम् , येन तत्रात्मशब्दस्य पर्यवसानं तत्रैव प्रसिद्धतरजैवरूपदृष्ट्या जायमानत्ववर्णनं चोपपद्येत । न हि कर्तृत्वभोक्तृत्वादिविशिष्टाज्जीवात् तन्नियन्तुरीश्वराच्चान्यदसङ्गोदासीनमात्मस्वरूपं श्रुतिषु प्रसिद्धमस्तीत्याशंक्य तत्र प्रमाणप्रदर्शनार्थं ‘प्रकरणात्’ इत्यनेन परिगृहीतमपि हेतुं श्रुङ्गग्राहिकयोपादाय दर्शयति –
स्थित्यदनाभ्यां च ॥७॥
७द्युभ्वाद्यायतनं प्रकृत्याऽऽम्नाते ‘द्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’(मु.३.१.१) इति स्थित्यदने निर्दिश्येते । ‘अनश्नन्’ इत्यौदासीन्येन स्थितिः , ‘अत्ति’ इति कर्मफलादनम् , आभ्यां स्थित्यदनाभ्यां कर्मफलात्तुस्सकाशादन्यस्यासङ्गोदासीनचैतन्यस्वरूपस्य सिद्धेस्तत्रात्मशब्दपर्यवसानादिवर्णनं युक्तमेव । ननु ‘अनश्नन्नन्यः’ इति सविशेषस्य परमेश्वरस्य निर्देशः किं न स्यात् ? उच्यते – पैङ्गिरहस्य ब्राह्मणेन मन्त्रोऽयमित्थं व्याख्यातः – ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् , अनश्नन्नन्यो अभिचाकशीतीति क्षेत्रज्ञः’ इति । सत्वक्षेत्रज्ञशब्दावपि तत्रैव व्याख्यातौ ‘तदेतत्सत्वं येन स्वप्नं पश्यति । अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः’ इति । एवमत्तॄनश्नतोरन्तःकरणशुद्धजीवरूपतयाऽन्यत्र व्याख्यातत्वादनश्नन्नीश्वर इति वक्तुं न युक्तम् ।
ननु जीवेश्वरपर एवायं मन्त्रः ; अनेन तुल्यार्थतया प्रत्यभिज्ञायमाने ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’(मु.३.१.२) इत्यनन्तरमन्त्रे तयोः प्रतिपादनात् । अस्य खल्वयमर्थः – समाने वृक्षे जीवेश्वरसाधारने शरीरे निमग्नः पुरुषः अनीशया अनीश्वरया प्रकृत्या परवशीकृतो मुह्यन्नविवेकं प्राप्तः सन् शोचति । जुष्टं योगमार्गैर्निषेवितं स्वस्मादन्यमीशम् , अस्य ईशस्य इति महिमानं प्रसिद्धप्रकारं माहात्म्यं च यदा पश्यति , तदा वीतशोको भवतीति । अत्र पुरुषो जीव एव ग्राह्यः , न त्वचेतनमन्तःकरणम् । न हि तत्र पुरुषश्रुतेः , ‘शोचति’ ‘मुह्यमानः’ ‘पश्यति’ ‘वीतशोकः’ इति विशेषणानां वा सम्भवोऽस्ति । अन्यस्त्वीशशब्दोक्तत्वादीश्वर एव ।
अपि चास्मिन्नेव मन्त्रे भोक्तृत्वाभोक्तृत्वश्रवणादप्ययं जीवेश्वरपरः । न ह्यन्तःकरणस्य भोक्तृत्वं जीवस्य देहपरिष्वङ्गदशायामभोक्तृत्वं वोपपद्यते । पैङ्गिश्रुत्यामपि सत्वक्षेत्रज्ञशब्दाभ्यां जीवेश्वरावेवोच्येते;
’न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः’ ॥(भ.गी.१८.४०)
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मेति चोच्यते’ ॥
इत्यादिस्मृतिषु तयोः सत्त्वक्षेत्रज्ञपदप्रयोगदर्शनात् । ‘येन स्वप्नम्’ इत्यत्र न करणे तृतीया, यतः स्वप्नदृष्टिकरणे , अन्तःकरणे सत्त्वशब्दः स्यात् किं त्वित्थंभावे । ततश्च येन जीवेन विशिष्टः परमेश्वरः स्वप्नं पश्यति स जीवः सत्त्वमित्यर्थोऽस्तु ; स्वप्नद्रष्टृत्वस्य जीवगतस्यापि जीवद्वारा परमात्मविशेषणत्वोपपत्तेः । ‘काठिन्यवान् यो बिभर्ति’ इत्यत्र पृथिवीद्वारा काठिन्यस्य तद्विशेषणत्वदर्शनात् । शारीरसब्दश्चान्तर्यामितया सर्वशरीरेषु स्थिते परमात्मन्युपपद्यत एवेति चेत् –
अत्र ब्रूमः – ‘समाने वृक्षे’ इति मन्त्रो नोक्तरीत्या जीवेश्वरपरः , अनीशया प्रकृत्येति विशेष्याध्याहारगौरवात् , किन्तु तस्यैवमर्थः – समाने वृक्षे – देहाख्ये , निमग्नः – तादात्म्याध्यासेन निमग्नवदविविक्ततामापन्नः पुरुषो भोक्ता जीवो मुह्यमानः शरीरादिगतैरनर्थजातैरात्मानमेव तद्वन्तं मन्यमानः सन् अनीशया अनैश्वर्येण ‘कृशोऽहमन्धोऽहमस्मि, किं मे जीवितेन’ इत्येवं दीनभावेनाध्यासमूलेन शोचति । यदा तु देहादिभ्योऽनर्थाश्रयेभ्योऽन्यं अत एव ईशं देहादितादात्म्याध्यासमूलदैन्यानास्पदमात्मानमिति महिमानं अस्य प्रसिद्धप्रकारं महत्त्वं च त्रिविधपरिच्छेदराहित्यरूपं पश्यति , तदा वीतशोको भवतीति । अथवा वीतशोकः सन् अस्य महिमानं तद्भावम्, इति प्राप्नोति इति । ‘इति’ इत्याख्याते ‘संज्ञापूर्वको विधिरनित्यः’(व्या.प ६४) इति गुणाभावः । ‘ईश ऐश्वर्ये’(या.पा.१०२०) इति धातोः ‘गुरोश्च हलः’(पा.सू. ३.३.१०३) इति स्त्र्यधिकारविहिताकारप्रत्ययान्तेन ईशशब्देनैश्वर्यवाचिना नञः समासे सत्यनीशयेतिरूपम् । न च प्राधान्येन पुरुषस्यान्यं प्रति प्रतियोगित्वसम्भवे अप्राधान्येन प्रस्तुतस्य सरीरस्य तत्प्रतियोगिकत्वकल्पनमयुक्तमिति वाच्यम् । यद्विषयभ्रमस्य शोकनिदानत्वमभिप्रेत्य समाने वृक्षे निमग्नो मुह्यमान इति च विशेषणं कृतं तद्विरुद्धदर्शनस्य शोकविगमहेतुत्वमित्याशयेनान्यत्वविशेषणमिति ह्येषां विशेषणानां साफल्यमुपपादनीयम् । न च ‘समाने वृक्षे निमग्नः’ इति ‘मुह्यमानः’ इति च जीवेश्वराभेदभ्रम उक्त इति वक्तुं शक्यम् , येन जीवादीश्वरस्यान्यत्वं तद्विरुद्धं स्यात् । शक्यं तु देहतादात्म्याध्यासस्तद्धर्माध्यासश्च उक्त इति वक्तुम् । अतोऽर्थानुसारेणान्यत्वस्याप्रधानप्रतियोगिकत्वं न दोषः । अत एव ‘अन्यमीशम्’ इत्यस्य स्वात्मानमिति विशेष्याध्याहारोऽपि न दोषः , स्वानैश्वर्यप्रयुक्तशोकस्य पुरुषस्यान्यैश्वर्यदर्शनेन वीतशोकत्वापत्तिवर्णनायोगाच्च । तस्मादनन्तरमन्त्रानुसारेण ‘द्वा सुपर्णा’ इति मन्त्रस्य जीवेश्वरपरत्वमिति तावदयुक्तम् ।
नापि भोक्तृत्वाभोक्तृत्वश्रवणात्तदुभयपरत्वमिति युक्तम् ; आध्यासिकदेहपरिष्वङ्गदशायामपि वस्तुतो निर्विशेषस्य जीवस्य जलाध्यासदशायामपि मरुमरीचिकानामनार्द्रत्ववदभोक्तृत्वस्योपपत्तेः , अन्तःकरणस्य च वस्तुतो भोक्तृत्वाभावेऽपि तत्रारोप्य भोक्तृत्वव्यपदेशोपपत्तेः । न ह्ययं मन्त्रो वस्तुतो भोक्तृत्वं प्रतिपादयति , किन्तु जीवस्य भोक्तृत्वाभावं प्रतिपादयितुं प्रवृत्तः सन् का तर्हि भोक्तृत्वानुभवस्य गतिरित्याकाङ्क्षायामन्तःकरणसंवलनोपाधिकमाध्यासिकं जीवस्य भोक्तृत्वमुपाधिमस्तके निक्षिपति । वस्तुविचारणायां त्वचेतनत्वात् , कूटस्थत्वाच्च नान्तःकरणं , न वा चैतन्यं भोक्त्रिति परमार्थः , व्यवहारदृष्ट्या तु ‘‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’(क.३.४) इति श्रुतेराध्यासिकान्तःकरणादितादात्म्यापन्नञ्चैतन्यं भोक्तृ । अयं चार्थः ‘समाने वृक्षे’ इत्यनन्तरमन्त्रे स्फुटीकृतः ।
यत्तु ‘येन स्वप्नं पश्यति’ इत्यत्र इत्थंभावे तृतीयेति , तत्तुच्छम् ; उपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वेन (व्या.प.६९) तस्याः करणार्थतौचित्यात्, सत्त्वशब्देन जीवस्य विवक्षितत्वे ‘यः स्वप्नं पश्यति’ इत्यार्जवेन वक्तव्यतया वक्रोक्त्ययोगाच्च । न हि गन्धवत्त्वेन पृथिव्यां लिलक्षयिषितायां ‘गन्धवती पृथिवी’ इत्युक्तिं विहाय ‘यद्द्वारा परमात्मा गन्धवान्, सा पृथिवी’ इत्युक्तिर्युज्यते । शारीर ईश्वर इत्यप्ययुक्तम् ; ‘अनुपपत्तेस्तु न शारीरः’(ब्र.सू.१.२.३) इत्यादिषु शारीरशब्दस्य जीव एव प्रसिद्धत्वात् । यद्यपि ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्यादिगुहाऽधिकरणदर्शितन्यायेन ‘द्वा सुपर्णा’ इत्यत्रापि चेतनस्य द्वितीयेन चेतनेन भाव्यम् , तथाऽपि ‘येन स्वप्नम्’ इत्यादिव्याख्यानरूपश्रुतिविरोधान्न तादृक् न्यायोऽत्रावतरति ।
अत एव तस्मिन्नधिकरणे श्रीभगवत्पादैरस्यापि मन्त्रस्य तन्न्यायविषयत्वं कृत्वाचिन्तारूपेण दर्शयित्वा ‘अपर आह’ इत्यादिना कृत्वाचिन्तोद्घाटनं कृतम् । तस्मात् ‘द्वा सुपर्णा’ इति मन्त्रोऽहङ्कारविविक्ते निर्विशेषचिदेकरसे प्रत्यगात्मनि प्रमाणमिति निरवद्यम् । सूत्रगतेण चकारेण ‘अथातोऽहङ्कारादेशः’(छा.७.२५.२) इत्यात्मोपदेशोऽन्यच्चैतादृशं वाक्यजातमिह प्रमाणत्वेनानुसंहितम् । अत्र प्रकरणं पिधाय कृत्वाचिन्तारूपेणाधिकरणप्रवृत्तेर्विषयवाक्यवाक्यस्थात्मशब्दस्य स्वभावादिसाधारण्याच्चास्पष्टब्रह्मलिङ्गता बोद्धव्या ॥१.३.७॥
इति द्युभ्वाद्यधिकरणम् ॥१॥
भूमा सम्प्रसादादध्युपदेशात् ॥८॥
८इदमामनन्ति छन्दोगाः – ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूम यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’(छा.७.२४.१) इति । अत्र संशयः – भूमा प्राणः , परमात्मा वेति । कुतोऽयं संशय इति चेत् – उच्यते । भूमशब्दस्तावत् बहुशब्दादिमनिच्प्रत्यये पृथ्वादिविहिते सति ‘बहोर्लोपो भू च बहोः’(पा.सू.६.४.१५८) इति प्रकृतिप्रत्यययोर्विकारे च सति निष्पन्नो बहुत्ववाची । बहुत्वं चात्र वैपुल्यम् , न संख्याविशेषः । बहुशब्दस्य ‘बहुषु बहुवचनम्’(पा.सू.१.४.२१) इत्यादौ संख्यायामिव ‘बह्वन्नं पच्यते यत्र’ इत्यादौ वैपुल्येऽपि प्रयोगदर्शनात् । इह च ‘यत्रान्यत् पश्यति’ इत्युत्तरवाक्ये च बहुत्वसंख्यायुक्तस्याप्यल्पस्य भूतप्रतियोगित्वेनोपादानात्, नामादिभ्योऽधिकसंख्याहीने वागादौ ‘वाग्वाव साम्नो भूयसी’(छा.७.२.१) ‘आकाशो वाव तेजसो हूयान्’(छा.७.१२.१) इत्यादौ बहुशब्दनिष्पन्नभूयश्शब्दप्रयोगदर्शनाच्च । उक्तहेतुभ्यां वैपुल्याश्रयधर्मिपर्यन्तश्चायं भूमशब्दो न वैपुल्यमात्रपरः । ‘यो वै भूम तदमृतम्’(छा.७.२४.१) ‘यो वै भूमा तत्सुखम्’(छा.७.२३.१) इति धर्मिसामानाधिकरण्याच्च । यद्यपि भूमशब्दो भावप्रत्ययान्तत्वात् ‘तत्सिद्धिजातिसारूप्यप्रशंसा भूमलिङ्गसमवायात्’(जै.सू.१.४.२८) ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमाह्यस्मिन्’(ब्र.सू.१.१.२९) ‘सम्भूयैव सुखानि चेतसि परं भूमानमातन्वत’ इत्यादिषु धर्मे प्रयुक्तत्वाच्च धर्मवाचकः , तथापि ‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’(छा.६.८.७) ‘धातुः प्रसादान्महिमानमीशम्’ इत्यादावणिममहिमादिशब्दस्येव लक्षणया धर्मिपर्यन्तत्वं नानुपपन्नम् । एवं च सामान्यतो भूमा विपुल इत्यवसिते तद्विशेषाकाङ्क्षायां ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इति प्राणप्रकरणात् प्राणो भूमेति प्राप्नोति , ‘तरति शोकमात्मवित्’(छा.७.१.३) इति परमात्मप्रकरणाच्च परमात्मा भूमेति ; ततो विशेषानवधारणात् संशयः ।
ननु परमात्मन एव प्रकरणं ‘तरति शोकमात्मवित्’(छा.७.१.३) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपक्रमोपसंहारैकरूप्यात् । प्राणस्य तु सन्निधानमात्रम् । प्रकरणसन्निधानाभ्यां च प्रबलदुर्बलाभ्यां संशयो न युक्त इति चेत् , उच्यते । पूर्वपक्षे प्राणस्यैव प्रकरणम् परमात्मनः सन्निधानमात्रम् । सिद्धान्ते परमात्मन एव प्रकरणम् , प्राणस्य सन्निधानमात्रम् । एतच्च पूर्वपक्षसिद्धान्तयोः स्फिटीकरिष्यते । एवं च प्राणः प्रकरणीति स भूमशब्दोक्तविपुलविशेषतया व्यवतिष्ठतामुत परमात्मा प्रकरणीति स एव तथा व्यवतिष्ठतामिति युक्तः संशयः ।
तत्र पूर्वपक्षवादी मन्यते – ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इत्यारभ्य प्राणवायोः प्रकरणमिति त्तावदभ्युपेयम् ; प्राणशब्दस्य तत्र रूढत्वात् । न च ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यारभ्य प्रवृत्ते भूमप्रतिपादने तद्विच्छेदोऽस्ति । पूर्वं नामादिप्राणपर्यन्तेषु पूर्वपूर्वप्रकरणावसानोत्तरोत्तरप्रकरणारम्भमध्यदृष्टयोः प्रश्नप्रतिवचनयोरिहादर्सनात् । इहापि प्रकरणान्तरविवक्षायां ‘अस्ति भगवो नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१)‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादिवत् ‘अस्ति भगवः नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’ इत्यादिवत् ‘अस्ति भगवः प्राणात् भूयः’ इति ‘अदो वाव प्राणाद्भूयः’ इति प्रश्नप्रतिवचने निबध्येयाताम् । न च ते निबद्धे दृश्येते । प्रत्युत ‘अतिवाद्यस्मीति ब्रूयान्नापह्नुवीत’(छा.७.१५.४) इति प्राणविद्व्रतत्वेनोक्तस्यातिवादित्वस्य ‘एष तु वा अतिवदति यः सत्येनातिवदति’(छा.७.१६.१)इत्यनुकर्षणात् प्राणप्रकरणानुवृत्तिरेवावसीयते ।
न च – तत्र तुशब्देन , सत्यशब्देन च प्राणातिवादिनोऽन्यस्ततोऽधिकः सत्यातिवादी प्रतीयते । सत्यशब्दार्थश्च परमात्मेति स एव भूमा न प्राणः ; प्राणप्रकरणविच्छेदात् , तत्प्रकरणानुवृत्तेश्चेति वाच्यम् । तत्र प्रकृतः प्राणातिवाद्येव नामाद्यतिवादिनोऽधिकः प्रतिपाद्यते इत्युपपत्तेः । ‘प्राणा वै सत्यम्’(बृ.२.१.२०) इत्यादौ प्राणविषयस्यापि सत्यशब्दस्य श्रवणात् । ‘एष तु वा अग्निहोत्री यः सत्यं वदति’ इत्युक्तौ प्रसिद्धाग्निहोत्रिण इव प्रस्तुतप्राणातिवादिन एव सत्यवदनरूपाङ्गविधिरित्युपपत्तेश्च । तथा सति ‘यःसत्यं वदति’ इति निर्देशः स्यात् ‘यः सत्येनातिवदति’ इति निर्देशो न स्यादिति चेत् , न । ‘यः सत्येनातिवदति’ इत्यनेन निर्दिष्टस्यार्थस्य ‘यदा वै विजानाति अथ सत्यं वदति’(छा.७.१७.१) इत्यादिपुनर्निर्देशदर्शनेन तस्यापि तत्रैवार्थे पर्यवसानस्य वक्तव्यतया सत्येन सत्यवचनेन सह योऽतिवदतीत्यर्थकल्पनोपपत्तेः ।
सत्यशब्दस्य सत्यवचनपरत्वे तस्य लोकप्रसिद्धत्वात् ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इति ‘सत्यं भगवो विजिज्ञासे’ इति चानुपपन्नं स्यादिति चेत् , न । लोकप्रसिद्धेष्वपि विज्ञानमतिश्रद्धानिष्ठाकृतिषु ‘विज्ञानं त्वेव विजिज्ञासितव्यं विज्ञानं भगवो विजिज्ञासे’(छा.७.१७.१) इत्यादिगुरुशिष्यवचनदर्सनेन तद्वत् सत्यवचनेऽपि तयोरुपपत्तेः । ननु विज्ञानादिषु ‘विजिज्ञासितव्यम्’ इत्यस्य सम्पादनीयमित्यर्थः ; अग्रे ‘यदा वै मनुतेऽथ विजानाति , यदा वै श्रद्धधात्यथ मनुते’(छा.७.१८.१) इत्यादितदुपायकीर्तनदर्शनादिति चेत् ; तर्हि सत्येऽपि तस्य स एवार्थोऽस्तु । अग्रे ‘यदा वै विजानाति’(छा.७.१७.१) इत्यादिना तदुपायकीर्तनदर्शनादिति तुल्यम् । तस्मात् प्राणप्रकरणाविच्छेदात् स एव भूमेति युक्तम् । प्राणे च ‘यत्र नान्यत् पस्यति’(छा.७.२४.१) इत्यादि भूम्नो लक्षणं तत्प्रधानायां सुषुप्तावस्थायां दर्शनादिव्यवहारनिवृत्तिदर्शनादुपपन्नम् । यत्तु भूम्नः सुखत्वममृतत्वं च , श्रुतं तदप्यविरुद्धम् । ‘अत्रैष देवः स्वप्नान्न पश्यत्यथतदैतस्मिन् शरीरे सुखं भवति’(प्र.४.६) इति प्राणप्रधानायां सुषुप्तावस्थायां सुखश्रवणात्, ‘प्राणो वा अमृतम्(बृ.१.६.३) इति श्रवणाच्च ।
नन्वेवं प्राणो भूमेत्युपगमे ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मवित्’(छा.४.९.३) ति प्रश्नमुपक्रम्य प्रवृत्तमात्मप्रकरणं विरुध्येतेति चेत् , न । तदुत्तरे ‘नामोपास्व’ ,’वाचमुपास्व’ इत्याद्यनात्मविद्याविधीनामेव दर्शनेन प्रश्नस्यापि तद्विषयत्वस्य वक्तव्यतया आत्मप्रकरणासिद्धेः । अनात्मनोऽपि प्राणस्याग्रे ‘प्राणो हि पिता प्राणो माता’(छा.७.१५.१) इत्यादिना सर्वात्मत्वाभिधानात् , तदभिप्रायेण ‘आत्मवित्’ इत्युपक्रमस्य ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपसंहारस्य चोपपत्तेः । नामादिविद्याविधित्सायां प्राणोपक्रमोऽपि न युक्त इति चेत् , न । नामाद्युपासनानामेव ‘स यो नाम ब्रह्मेत्युपास्ते’(छा.७.१.५) इत्यादिफलार्थवादगतविशेषश्रवणानुसारेण नामादिषु प्रतीकेषु ब्रह्मशब्दोदितप्राणदृष्टिरूपतया तदुपपत्तेः । प्राणो ह्यस्मिन् प्रकरणे अरनाभिदृष्टान्तोपन्यासपूर्वकं सर्वप्रतिष्ठात्वेन , सर्वात्मत्वेन च ब्रह्मलिङ्गेनोपरिसंकीर्त्यते । न च तत्संकीर्तनं नामादिष्विव प्राणेऽपि पृथग्विद्याविधानार्थम् ; ‘यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’(छा.७.१.५) इत्यादिना नामाद्युपासनफलसंकीर्तनवत् प्राणविद्यासंकीर्तनस्यादर्शनात् । तस्मात् पेराणे ब्रह्मगुणकीर्तनं तद्विशिष्तप्राणदृष्ट्या नामाद्युपासनासिद्ध्यर्थमित्येव व्यवतिष्ठते । एवं च ‘स यो नाम ब्रह्मेत्युपास्ते’ इत्यादिषु प्राणे ब्रह्मशब्दप्रयोगोऽग्रे संकीर्तयिष्यमाणब्रह्मगुणविशिष्टप्राणदृष्टिलाभार्थ इति न तस्य काचिदनुपपत्तिः । नापि तस्मिन्नात्मशब्दप्रयोगानुपपत्तिरिति सर्वं समञ्जसम् ।
यद्वा नामादिषु ब्रह्मदृष्टिविधिरेवास्तु । आत्मशब्दोऽपि तद्विषयोऽस्तु । न चैतावता दृष्टिविशेषणतया उपसर्जनस्य तस्य प्रकरणित्वम्, किन्तु तद्दृष्ट्योपासनीयतया प्रधानभूतानां नामादीनामेव । सन्निधानमात्रं तु तस्य स्यात् । तत्तु सदपि प्रकरणाद्दुर्बलम् । अथवाऽस्तु परमात्मनो महाप्रकरणम् , तथाऽपि ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इत्यारभ्यावान्तरप्रकरणं तावदभ्युपेयम् । तच्च ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यादावप्यतिवादित्वप्रत्यभिज्ञानादनुवर्तमानं न वार्यते । अतस्तस्य ‘अथातोऽहङ्कारादेशः’(छा.७.२१.१) इत्येतत्पर्यन्ते भूमनिरूपणेऽप्यनुवृत्तत्वात् भूमा प्राण एवेति न भूमलक्षणमुखेनाद्वितीयब्रह्मसिद्धिः । महाप्रकरणिनस्तु परमात्मनः कामं ‘अथात आत्मादेशः’(छा.७.२५.२) इत्यारभ्य निरूपणमस्तु । भूम्न एव परमात्मत्वे ‘स एवाधस्तात्’(छा.७.२५.२) इत्यादिना तस्य सर्वगतत्वनिरूपणानन्तरं ‘आत्मैवाधस्तात्’(छा.७.२५.२) इत्यादिना पुनः सर्वगतत्वनिरूपणमपि पुनरुक्ततयाऽनुपपन्नं स्यात् ।
ननु ‘अथात आत्मादेशः’(छा.७.२५.२) इत्यारभ्य जीवोपदेशः प्रकरणिनो भूम्नस्तदनन्यत्वप्रदर्शनार्थः । उभयोरपि हि ‘स एवेदं सर्वम्’(छा.७.२५.१) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इति सार्वात्म्यमुपदिष्टम् । अत उभयोर्भिन्नयोः सार्वात्म्यायोगादभेदः सिद्ध्यतीति चेत् ; न । ‘अथातोऽहङ्कारादेशः’(छा.७.२५.१) इत्यारभ्य ‘अहमेवेदं सर्वम्’ इत्यन्तेन जीवस्योपदिष्टतया पुनस्तदुपदेशवैयर्थ्यात् । अतः ‘स एवेदं सर्वम्’ इत्यन्तः प्राणोपदेशः । ‘अथातोऽहङ्कारादेशः’ इत्यारभ्य जीवोपदेशः । ‘अथात आत्मादेशः’ इत्यारभ्य महाप्रकरणिनः प्रमात्मन उपदेशः । तस्माद्यथा परमात्मप्रकरणानुवृत्त्या द्युभ्वाद्यायतनं परमात्मा, एवं प्राणप्रकरणानुवृत्त्त्या भूमा प्राण इति ।
एवं प्राप्ते सिद्धान्तः – भूमा परमात्मा , न प्राणः ; प्राणादूर्ध्वमुपदेशात् । न च तदसिद्धिः ; ‘एष तु वा’(छा.७.१६.१) इत्यादौ तुशब्दसत्यश्रुतिभ्यां प्राणातिवादिनोऽन्यस्य ततोऽधिकस्य सत्यातिवादिताप्रतीतेः । न च तत्र प्राणातिवादिन एव नामाद्यतिवादिभ्यो विशेषप्रदर्शनम् ; प्राण इव नामादिष्वतिवादिनोऽनुक्तेः , सत्यशब्दस्य परमार्थे ब्रह्मणि मुख्यस्य तद्विषयत्वे सम्भवति प्राणविषयत्वकल्पनायोगाच्च । अत एव प्राणातिवादिनः सत्यवचनरूपाङ्गविधायकत्वकल्पनमप्ययुक्तम् ; परमार्थे रूढस्य सत्यशब्दस्य तद्विषये वचसि लक्षणया प्रयोगोपपत्तौ तत्र तस्य शक्त्यन्तरकल्पनायोगात्, ‘सत्येन’ इति तृतीयाया ब्रह्मण्यतिवदननिमित्ततारूपकरणत्वपरतया कारकविभक्तित्वोपपत्तौ सहार्थविषयतयोपपदविभक्तित्वकल्पनायोगाच्च । न चाग्रे ‘अथ सत्यं वदति’ इत्यादिदर्शनात्तथा कल्प्यम् ; अभ्यस्तातिवदनोपक्रमगतसत्यपदरूढ्यनुसारेण ‘सत्यं वदति’ इत्यस्यापि परब्रह्मातिवदनपरत्वात् । सत्यस्यातिवदने निमित्तत्वविवक्षया तृतीयावत् तद्विषयत्वविवक्षया द्वितीयाया अप्युपपत्तेः ।
‘एष तु वा अग्निहोत्री’ इति न्यायस्त्वत्र न प्रवर्तते । तत्र द्रव्यदेवतान्तराभावेनाग्निहोत्रान्तराप्रतीतेः तुशब्दस्वारस्यभङ्गः, इह तु प्रकृतातिवादनिमित्तप्राणव्यतिरिक्तसत्यशब्दोक्तपरब्रह्मरूपातिवादनिमित्तप्रतीतेः तत्स्वारस्यभङ्गो न युक्तः । तुशब्देन ह्यतिवाद्यन्तरमवसीयते , सत्यशब्देन निमित्तान्तरम् , कुतस्तदुभयस्वारस्यभङ्गेन प्रकृतातिवादविषयत्वकल्पनावकाशः ? तस्मात् तुशब्दप्रत्यायितातिवाद्यन्तरनिमित्ततयोपात्तसत्यशब्दोदितः परमात्मेति तत्प्रकरणाविच्छेदात् भूमा परमात्मैव ; ‘तरति शोकमात्मवित्’(छा.७.१.३) इति परमोपक्रमप्रस्तावितपरमात्मप्रकरणाविच्छेदाच्च । न चाग्रे नामादीनां तदुपासनानां चोपदेशादात्मप्रकरणासिद्धिः ; नामाद्युत्तरोत्तरोत्कृष्टवस्तूपदेशानां परमोत्कृष्टब्रह्मप्रतिपत्त्यर्थत्वेन , तेषु ब्रह्मदृष्टिविधीनां गोदोहनवदाश्रित्यविधिरूपत्वेन च तत्प्रकरणाविरोधित्वात् । न च तथाऽपि सन्निधिना , अवान्तरप्रकरणेन वा ‘एष तु वा’(छा.७.१६.१) इत्यादेः प्राणान्वयः शङ्कनीयः । आत्मप्रकरणेन , तुशब्देन, सत्यश्रुत्या च तद्बाधात्, अभिक्रमणवत् पूर्वोत्तरसन्दंशाभावेनावान्तरप्रकरणासिद्धेश्च । न च भूम्नः परमात्मत्वे ‘स एवाधस्तात्’(छा.७.२५.१) इत्याद्युपदेशानन्तरं ‘आत्मैवाधस्तात्’(छा.७.२५.२) इत्युपदेशवैयर्थ्यम् । भूम्नः स इति परोक्षनिर्देशेन मिथ्यापरोक्षाद्द्रष्टुरन्यत्वशङ्का स्यादिति तदनन्यत्वप्रदर्शनार्थत्वात् ।
न चाहङ्कारोपदेशेन , आत्मोपदेशेन वा तदनन्यत्वप्रदर्शनसिद्धावन्यतरवैयर्थ्यम् । परमात्मनो हि जीवेनान्तःकरणावच्छिन्नेन तदुपाधिकर्तृत्वभोक्तृत्वपरिच्छेदादिमता अहंपदवाच्येन रूपेणैक्यं नाभिमतम् , किन्तु ततो निष्कृष्टेन शुद्धेनाहंपदलक्ष्येण रूपेण । तच्च न लोकतो विदितम् , किन्तु श्रुत्यैव । तदपि रूपं प्रत्याय्य तदैक्यं भूम्नः प्रदर्शनीयम् । तत्र यदि केवलमहङ्कारादेशः , आत्मादेश इति वा क्रियेत, तदा लोके अहंपदवाच्यस्यैवाहमर्थत्वेनात्मत्वेन च प्रसिद्धत्वात्तदादेश एवायमिति भ्रान्तिः स्यात् । तत्र ‘अहमेवाधस्तात्’(छा.७.२५.१) इत्यादिकमनुपपन्नमित्यपि शङ्का स्यात् । अतः स्थूलारुन्धतीन्यायेन प्रथममहं पदवाच्येनैक्यं प्रदर्श्य तत्प्रसक्तशङ्कानिराकरणेन वस्तुतत्त्वावबोधनाय तदनन्तरं तन्निष्कृष्टशुद्धरूपविवेचनपूर्वकं तदैक्यं प्रदर्शयितुमात्मादेश इति न कस्यापि वैयर्थ्यम् । अत एव ‘अहङ्कारस्यात्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थः , भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः , द्वयोः सार्वात्म्यायोगात्’ इति विवरणकारा वदन्ति ।
यदत्र चोदयन्ति – अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेशो भेदार्थः , अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरीत्यमपि वक्तुं शक्यम् । सार्वाम्योपदेसश्चासिद्धः । ‘स एवेदं सर्वम्’(छा.७.२५.१) ‘अहमेवेदं सर्वम्’(छा.५.२.६) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपसंहाराणां ‘स एवाधस्तात्(छा.७.२५.१) इत्याद्युपक्रमानुसारेण सर्वगतत्वपरत्वात् । सर्वगतत्वं च बहूनां सम्भवतीति न तत्सामर्थ्यादैक्यसिद्धिः । तत्सिद्धौ वा भूमात्मोपदेशाभ्यामेव तत्सिद्धिसम्भवेन मध्ये अहङ्कारोपदेशवैयर्थ्यं च इति ।
तत्राहंकारोपदेशवैयर्थ्यं तावत् परिहृतम् ।यथा हि ‘अस्त्यरुन्धती नाम वसिष्टस्य पत्न्यति सूक्ष्मतारारूपा’ इति वस्तुविशेषसद्भावमुपदिश्य ताराविशेषे तदभेदं बोधयितुकामः समीपवर्तिस्थूलताराभिभूततया विविच्याप्रकाशमाने तस्मिन्नाहत्य तदभेदं बोधनीयो बोद्धुं न प्रभवेदिति प्रथमं तामेव स्थूलतारां ‘इयमतिसूक्ष्माऽरुन्धती’ इत्युपदिश्य तत्र प्रसक्तसौक्ष्म्यानुपपत्तिशङ्कावारणेन वस्तुतत्त्वबोधनार्थं ‘इयन्त्वति सूक्ष्माऽरुन्धती’ इति स्थूलताराविवेचनेन सूक्ष्मताराविशेषं ग्राहयित्वा तत्रारुन्धत्यभेदमुपदिशतीति न तत्र स्थूलतारोपदेसवैयर्थ्यम्; तद्विवेकेन सूक्ष्मताराग्रहणसौकर्यार्थत्वात् ; एवमिहापीति ।
न च सार्वात्म्योपदेशासिद्धिः ; ‘स एवाधस्तात्’(छा.७.२५.२) इत्युपक्रमाणामप्यवधारणैः तद्व्यतिरिक्तवस्त्वभावप्रतिपादनेन सार्वात्म्यपर्यवसायित्वात् । नापि भूमाहमर्थोपदेशयोरैक्यार्थत्वं, भूमात्मोपदेशयोर्भेदार्थत्वं चेति वैपरीत्यं वक्तुं शक्यम् ; अहमर्थोपदेशस्य स्थूलारुन्धतीन्यायेन भूमात्मैक्यार्थत्ववर्णनया प्रमाणान्तराविरुद्धनयनसम्भवे तत्कर्तृत्वभोक्तृत्वपरिच्छिन्नत्वादिग्राहकप्रमाणान्तरविरुद्धभूमाहमर्थैक्यार्थकत्वकल्पनायोगात् । भूमात्मनोरैक्यस्याप्रसक्तत्वेन तयोरुपदेशस्य ऐक्यनिषेधात्मकभेदार्थत्वायोगात् । न हि विधिवन्निषेधोऽपि स्वविषयप्रमाणान्तराप्रवृत्तिमात्रेण चरितार्थः , किन्तु प्रतियोगिप्रसक्तिमप्यपेक्षत एव । तस्मादुपक्रमोपसंहारैकरूप्यावगमात् प्रकरणादपि भूमा परमात्मा ; न प्राणः ।
सूत्रे सम्प्रसादशब्दः सुषुप्त्यवस्थावाचकस्तदवस्थाप्रधानस्य प्राणस्येह लक्षकतया प्रयुक्तः । यद्यपि सम्प्रसादशब्दः ‘य एष सम्प्रसादोऽस्मात्’(मै.२.२) इत्यादिश्रुतिषु जीवे प्रसिद्धः , तथाऽपि ‘स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा’(बृ.४.३.१७) इत्यादिश्रुतिप्रयोगात् ‘सम्यक् प्रसीदत्यस्यामवस्थायां जीवः’ इति व्युत्पत्त्या सुषुप्तावेव रूढो जीवस्यापि लक्षक एव । अत एव सुषुप्त्यवस्थायोगिनि जीवे ‘सुप्तः समस्तः सम्प्रसन्नः’ इति सम्प्रसन्नशब्दप्रयोगः । ततश्च जीव इव प्राणेऽपि लक्षणया तस्य प्रयोगो न विरुध्यते । अस्ति च सम्प्रसादशब्देन प्राणवायुलक्षणया तस्य ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(प्र.४.३) इति श्रुत्या , लोकतश्च सिद्धस्य सर्वकरणप्रत्यस्तमयरूपायां सुषुप्तौ जागरणस्योद्घाटनेन प्राणो भूमेति पूर्वपक्षे तस्मिन् ‘यत्र नान्यत्पश्यति’(छा.७.२४.१) इत्यादिभूमलक्षणस्य , सुखत्वामृतत्वयोश्च उपपादनं फलम् । ततश्च प्राणादूर्ध्वमुपदेशादिति सौत्रो हेतुः । ‘प्रकरणात्’ इति हेत्वन्तरं तु उत्तरसूत्रे चशब्दसंगृहीतमनागतावेक्षणन्यायेन दर्शितम् ।
नन्वयं सौत्रो हेतुः परमात्मत्वे सिद्धान्तसाध्ये , उत प्राणत्वाभावे पूर्वपक्षनिरासे ? नाद्यः । आनन्दमयप्रकरणे मनोमयादिषु व्यभिचारात् , भूमप्रकरणे च विज्ञानमतिश्रद्धादिषु व्यभिचारात् । स्यादेतत् ; ‘सम्प्रसादादध्युपदेशात्’ इत्यस्य प्राणादधिकत्वेन उपदेशादित्यर्थः । न चैवं सति मनोमयादिषु व्यभिचारः ; तत्र प्राणान्तरत्वादिनोपदेशेऽपि तदधिकत्वेनोपदेसाभावात् । न चात्र तदसिद्धिः ; इह प्रकरने पूर्वनिर्दिष्टादूर्ध्वमभिधानं तदधिकस्यैवेति वागादिषु दृष्टत्वेन प्राणादूर्ध्वमभिहिते भूम्नि तदधिकत्वसिद्धेः , ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादौ भूयश्शब्दवदिहाधिक्यपरस्य भूमशब्दस्य प्रयोगाच्च । तस्य सङ्कोचकाभावेन सर्वत आधिक्यपरत्वेऽपि पूर्वनिर्दिष्टप्राणाधिक्यसिद्धेरसन्दिग्धत्वात् । अपि च ‘एष तु वा अतिवदति यः सत्येनातिवदति’(छा.७.१६.१) इत्यत्र , ‘अपशवो वा अन्ये गोअश्वाः’ इत्यत्र गोअश्वेषु अन्येभ्यः प्राशस्त्यवत् सत्यातिवादिनि प्राणातिवादिनः प्राशस्त्यं तावत् प्रतीयते । ततः एतस्य प्राशस्त्यं च तदतिवदननिमोत्तात् प्राणादेतदतिवदननिमित्तस्य सत्यस्याधिक्यकृतमेवावसीयत इति ततोऽपि प्राणादाधिक्यसिद्धिः इति चेत् । मैवम् , एतावताऽपि वाचनिकस्य प्राणादाधिक्योपदेशस्यानिर्व्यूढत्वात् , अर्थादाधिक्यसिद्धेश्च प्राणादान्तरत्वेनोपदिष्टेषु मनोमयादिषु व्यभिचारात् , ‘मन एव पिता वाङ् माता प्राणः प्रजा’(बृ.१.५.७) ‘प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च’(छा.३.१८.४) ‘पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमः’(छा.५.७.१) इत्यादिश्रुतिभिर्वाङ्मनसवायुपुरुषादिषु प्राणादाधिक्यसिद्धिसत्त्वेन व्यभिचाराच्च । तस्मात् सिद्धान्तसाध्ये नायं हेतुः ; नापि पूर्वपक्षनिरासे ; समन्वयसूत्रात् सिद्धान्तसाध्यस्येव पूर्वपक्षनिराससाध्यस्य क्वचिन्निर्दिष्तस्य प्रत्यधिकरणमनुवृत्त्यभावेन ‘नेतरोऽनुपपत्तेः’(ब्र.सू.१.१.१६) इत्यादाविवात्रापि निर्देशप्रसङ्गात् , प्रथमवक्तव्यं सिद्धान्तहेतुमनुक्त्वा पूर्वपक्षनिरासहेतूक्त्ययोगात् , ‘धर्मोपपत्तेः’ इत्युत्तरसूत्रहेतोः सिद्धान्तसाध्यविषयत्वेनास्यापि तदेकविषयतौचित्याच्चेति चेत् ।
उच्यते – पूर्वपक्षनिरासे साध्येऽयं हेतुः । तस्य च साध्यस्य ‘नानुमानम्’ इति सूत्रगतेन नञा सह ‘प्राणभृत्’ इति सूत्रस्थस्य प्राणपदस्यानुवर्तनेन लाभः। तत्र हि जीवे प्राणभृत्पदप्रयोगस्य तस्मिन् ‘ओतं मनः सह प्राणैश्च सर्वैः’ इति श्रुतप्राणाश्रयत्वोपपादनेन पूर्वपक्षसमर्थनवदिहानुषङ्गलाभोऽपि प्रयोजनम् । प्रथममिह पूर्वपक्षनिरासहेतूक्तिः तत्सामर्थ्यादेव सिद्धान्तहेतुरपि लभ्यत इति लाघवप्रतिसन्धानात् । पूर्वपक्षनिरासको हि सौत्रो हेतुः परमात्मनि रूढां सत्यश्रुतिमपेक्ष्य समर्थनीयः । ततश्च तयैव सत्यं प्रकृत्याम्नातो भूमा परमात्मा इत्यपि सिद्ध्यति । न च सत्यश्रुतिमनपेक्ष्य तुशब्दमात्रेण प्रकरणविच्छेदो लभ्यत इति वाच्यम् ; ‘एष तु वा अग्निहोत्री’ इति वाक्यवैषम्यहेतुतया तत्राग्निहोत्रान्तरोपपादकद्रव्यदेवतान्तरं नास्ति, अत्र त्वतिवादान्तरनिमित्तं सत्यशब्दोदितं ब्रह्मास्तीति प्रदर्शनीयत्वात् ।
ननु सत्यश्रुत्या भूम्नः परमात्मत्वे साधिते तदधीनात्मलाभः तस्य प्राणत्वनिरासहेतुः प्राणादूर्ध्वमुपदेशोऽर्थात् सिद्ध्यतीति वैपरीत्यमपि सम्भवतीति चेत्, उच्यते । सत्यश्रुत्या भूमा परमात्मेति सिद्धिमात्रेण प्राणो न भूमेति न सिद्ध्यति । भूमवत् प्राणोऽपि परमात्मैव ; भूम्नः परमात्मत्वे सत्यश्रुतिभूमलक्षणमपाप्रकरणवत् प्राणस्य परमात्मत्वेऽपि सर्वप्रतिष्ठात्वसर्वात्मत्वलिङ्गसत्त्वात् । अतो भूमा प्राण एव; ‘एष तु वा’ इत्यादेर्नामाद्यतिवादिभ्यः प्राणरूपपरमात्मातिवादिनो विशेषप्रदर्शनार्थत्वस्य तस्यैव सत्यवदनरूपाङ्गविधानार्थत्वस्य (वा) चोपपत्तेरिति शङ्कान्तरावकाशात् । अतस्तस्यापि निवर्तमभिप्रेत्य पूर्वपक्षनिरासकः ‘सम्प्रसादादध्युपदेशात्’ इति हेतुर्मुखत उक्तः । तेन प्राणादूर्ध्वं भूम्न उपदेशस्य सिद्धवदुपादाय हेतूकरणमहिम्ना प्राणभूम्नोः परमात्मभावेनापि ऐक्यं निराकृतं भवति । तन्निराकरणं च पूर्वत्र प्राणशब्दस्य प्राणवायावुत्तरत्र सत्यशब्दस्य परमार्थे ब्रह्मणि च रूढत्वादतिवदनीयभेदेन तदुपपादकतुशब्दमहिम्ना चेति पूर्वोक्तरीत्यैवानुसन्धेयम् ।
प्राणे यथा सर्वप्रतिष्ठात्वं सर्वात्मत्वं च ब्रह्मलिङ्गं दृश्यते, तथा ‘यद्यप्येनानुत्क्रान्तप्राणान्’(छा. ७.१५.३) इत्युत्क्रमणं प्राणस्थितितदस्थित्योर्हननाहननप्रथाऽनुवादरूपं च प्राणलिङ्गमपि दृश्यते । न हि प्राणवायोरिव सर्वगतस्य परमात्मनो मुख्यमुत्क्रमणं सम्भवति, न वा ‘स यदि पितरं वा मातरं वा भ्रातरं वा’(छा. ७.१५.२) इत्यादिना प्रदर्शितो हननाहननप्रथानुवादः । अयं हि लौकिकप्रथाऽनुवादः । लौकिकाश्च श्वाससञ्चारसत्त्वासत्त्वाभ्यां प्राणवायोरेव स्थित्यस्थिती ज्ञातुं शक्नुवन्ति, न तदरिक्तस्य जीवस्यापि, दूरो परमात्मनः । अतिरिक्तजीवाभिज्ञानानां परीक्षकणानामपि प्राणवायुस्थित्यस्थितिभ्यामेव जीवस्यापि ते ज्ञातव्ये । अतः सर्ववेद्यप्रथमोपस्थितप्राणवायुसत्त्वासत्त्वनिबन्धनावेव हिंसोपक्रोशतदभावौ लौकिकानामिति तदनुवादः प्राणवायावेव सङ्गच्छते । एवं ‘प्राणो ह पिता’(छा. ७.१५.१) इत्यादौ पितृत्वादिना प्रशंसनमपि प्राणवायुविषयमेव व्यवतिष्ठते । प्राणस्य पितृत्वादिकमन्वयव्यतिरेकाभ्यामुपपादयितुं प्रवृत्तस्य ‘पितृहा वै त्वमसि’(छा. ७.१५.२) इत्यादेस्तत्रैव बहुधाऽभ्यस्तयायाः प्राणश्रुतेरनुग्रहाच्च । ततश्च सर्वप्रतिष्ठात्वलिङ्गमपि तदनुरोधेनैव नेतव्यम् । एवं प्राणस्य भूमशब्दितात् प्रकरणिनः परमात्मनो भिन्नत्वे सत्येवाग्रे ‘आत्मतः प्राण’(छा. ७.२६.१) इति ततः प्राणस्योत्पत्तिवचनमुपपद्यते ।
न च ‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र.सू.२.३.५) इति न्यायेन ‘प्राणो वा आशायाः’(छा. ७.१५.१) इत्यत्र प्राणशब्दस्य ब्रह्मपरत्वेऽपि ‘आत्मतः प्राणः’(छा. ७.२६.१)‘आत्मतः प्राणः’(छा. ७.२६.१) इत्यत्र स वायुपरः स्यादिति वाच्यम् । नामादिप्राणान्ताः येन क्रमेणोत्तरोत्तरमुत्कृष्टा दर्शितास्तद्व्युत्क्रमेणैव ‘आत्मतः प्राणः’ ‘आत्मत आशा’(छा. ७.२६.१) ‘आत्मतः स्मरः’(छा. ७.२६.१) इत्यादेः प्रवृत्तत्वेनोभयोरपि प्राणशब्दयोरेकविषयत्वावश्यम्भावात् ।
ननु भूमैव प्रकरणी परमात्मा, न प्राण इति सिद्धान्ते भूम्नः सर्वतो भूयस्त्वार्थमेव नामादिप्राणान्तानामुत्तरोत्तरभूयस्त्वेनानुक्रमणमिति वक्तव्यमभिमतं च । न च तद्युज्यते । तथा च सति प्राणाद्भूम्न्यपि भूयस्त्वविषययोः प्रश्नप्रतिवचनयोर्दर्शनापत्तेः । न च यदर्थमन्यत् प्रक्रान्तं तदनुक्तिर्युक्तेति चेत्, मैवम् । प्रश्नप्रतिवनाभावेऽपि प्रकृतासम्बन्धनिमित्ततुशब्दसत्यश्रुतिभ्यां प्राणभूमभेदस्यावर्जनीयत्वात् । पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य प्राणपर्याये ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’(छा. ७.१५.४) इति वचनेन प्राणस्य सर्वप्रतिष्ठात्वाद्युपन्यासेन च उपक्रान्तामोपदेशः प्राण एव समाप्त इति मत्वा नारदे भूयः पृच्छति सनत्कुमारः प्राणविज्ञानमपि विकारानृतविषयमिति न तेन सम्यगतिवादित्वम् ; किन्तु सत्येनैवेति सत्यविज्ञानं स्वयमेवोपचिक्षेप । ततः ‘सोऽहं भगवः सत्येनातिवदति’(छा. ७.१६.१) इति पृष्टवते विज्ञानादिसाधनपरम्परया तमेव सत्यं परमात्मानं भूमानमुपदिदेशेति प्रश्नप्रतिवचनाभावस्यान्यथोपपत्तेश्च । तस्मात् प्राणभूम्नोः परमात्मभावेनैक्यमिति शङ्कान्तरस्य नावकाशः । तदिदं शङ्कान्तरनिराकरणं सूचयितुं मुखतः पूर्वपक्षनिरासहेतुमुक्त्वा तेन सिद्धान्तहेतुर्गर्भीकृतः । तेनैव सिद्धान्तहेतुना ‘धर्मोपपत्तेः’(ब्र.सू.१.३.९) इत्युत्तरसूत्रगतहेतोरेकविषयत्वम् । न च तत्र चशब्दः सूत्रद्वयोक्तहेतुसमुच्चयार्थः, किन्त्वनुक्तप्रकरणसमुच्चयार्थः इत्युक्तम् । तस्मात् सर्वमनाकुलम् । १.३.८।
धर्मोपपत्तेश्च ॥९॥
९दर्शनादिव्यवहाराभावनिरुपाधिकसुखत्वामृतत्वस्वमहिमप्रतिष्ठात्वसर्वगतत्वसर्वात्मत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परमात्मन्येवोपपत्तेश्च भूमा परमात्मा । न ह्येतेषां निर्विशेषं परमात्मानमहायान्यत्राऽऽञ्जस्यमस्ति । दर्शनादिव्यवहाराभावस्तावत् ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’(बृ.४.५.१५) इत्यादिश्रुत्यादिषु तत्रैव प्रसिद्धः । न च ‘न शृणोति न पश्यति’(प्र. ४.२) इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्तावस्थां प्रस्तुत्य ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(प्र. उ. ४.३) इत्याम्नानात् प्राणेऽपि तत्प्रसिद्धिरस्तीति वाच्यम् । परमात्मप्रकरणानुरोधेन तस्याः श्रुतेरात्मनोऽसङ्गत्वविवक्षया प्रवृत्ततया प्राणे दर्शनाद्यभावपरत्वाभावात् । न हि तत्र प्राणविषयस्य, प्राणाधारस्य वा दर्शनादेरभावः कीर्त्यते, किन्तु सुषुप्तावात्मनो घटादिदर्शनाभावमात्रम् । न च प्राणे विद्यमाने दर्शनाद्यभावकीर्तनं तावदस्ति, तदेवेह लक्षणमिति वाच्यम् । सुषुप्तौ प्राणवद्देहस्यापि विद्यमानतया तन्मात्रस्य लक्षणत्वानुपपत्तेः । एतेन – सुषुप्तौ प्राणे जाग्रति दर्शनाद्यभावो लोकत एवावसित इत्यपि निरस्तम् । तस्मात् भूमलक्षणं तावत् परमात्मन्येव समञ्जसम् । एवं निरतिशयसुखत्वमपि । सुषुप्तौ सुखवचनमपि ह्यात्मन एव सुखरूपत्वविवक्षया प्रवृत्तम् । अमृतत्वमपि प्राणस्यापेक्षिकमेव, ‘अतोऽन्यदार्तम्’(बृ. ३.४.२) इति श्रुतेः । तस्माद्वाक्यशेषगतानां धर्माणां निर्विशेषपरमात्मन्येवोपपत्तिः । न च वाक्यशेषगतमेव भूमविदः सर्वदर्शनकीर्तनं ‘सर्वेषु लोकेषु कामचारो भवति’ इति वैषयिकफलकीर्तनं च तत्रानुपपन्नमिति वाच्यम् । सर्वदर्शनकीर्तनस्य ‘यत्र नान्यत्पश्यति’(छा. ७.२४.१) इति प्रथमश्रुतलक्षणानुसारतः सर्वविवर्ताधिष्ठानभावेन परमात्मदर्शनपरत्वात् । सार्वलौकिकफलकीर्तनस्य च ‘आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः’(छा. ७.२५.२) इति स्रगाद्युद्यानादिवनिताविभूतिरूपविषयकृतसुखात्मकानां रतिक्रीडामिथुनानन्दानामात्मानतिरेकोक्त्या ब्रह्मानुभवितुर्मुक्तस्य तदतिरिक्तस्यादिनिषेधपरप्रथमश्रुतवाक्यानुसारेण सर्वलोकसाध्यनिखिलसुखकणिकानां महाब्धिस्थानीयब्रह्मसुखानुभवपरत्वाच्च । तस्माद्धर्मोपपत्तेरपि भूमा परमात्मेति सुष्ठूक्तम् । अत्रोपक्रमोपसंहारैकरूप्यावगतस्य ब्रह्मप्रकरणस्य, तद्गतब्रह्मलिङ्गानां च भूमानन्वयेन पूर्वपक्षीकरणादस्पष्टब्रह्मलिङ्गता । ।१.३.९।
इति भूमाधिकरणम् ॥२॥
अक्षरमम्बरान्तधृतेः ॥१०॥
१०बृहदारण्यके ‘यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्या यदन्तरा द्यावा पृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याक्षते कस्मिंस्तदोतञ्च प्रोतञ्च’(बृ. ३.८.३) इति गार्ग्या पृष्टेन याज्ञवल्क्येन ‘आकाश एव तदोतं च प्रोतं च’(बृ. ३.८.४) इत्युत्तरिते ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. ३.८.११)‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. ३.८.७) इत्यन्तम् । अत्राक्षरं प्रणवात्मको वर्णः, परमात्मा वेति संशये प्राप्तं तावत् वर्ण एवाक्षरमिति । ‘अक्षरसमाम्नायः’ इत्यादौ वर्णेष्वक्षरशब्ददर्शनात् । ननु ‘यया तदक्षरमधिगम्यते’(मु.१.१.५) इत्यादिश्रुतिषु परमात्मन्यपि स दृष्टः । सत्यं दृष्टः । लौकिकवैदिकप्रसिद्ध्यतिशयसत्त्वात् वर्णेषु तत्प्रयोगो रूढ्या । परमात्मनि तु नित्यसर्वगते ‘न क्षरति, अश्नुते वा’ इति योगेन । रूढिश्च योगात् बलीयसी । नन्वाकाशान्तसकलजगद्धारकत्वलिङ्गमनुपपन्नं वर्णे । न च लिङ्गादक्षरश्रुतिर्बलीयसीति वाच्यम् । ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इति ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ. ३.८.११) इति प्रश्नोत्तररूपाभ्यामुपक्रमोपसंहाराभ्यां प्रतिपिपादयिषितत्वेन ‘एतस्यैवाक्षस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतस्तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ’ इति श्रुतप्रशासितृत्वद्रष्टृत्वश्रोतृत्वमन्तृत्वविज्ञातृत्वद्रष्टृत्वादिरूपजीवाभेदात्मकबहुलिङ्गसहकृतत्वेन चास्य लिङ्गस्य श्रुतेः प्रबलत्वादिति चेत् ।
उच्यते – जगद्धारकत्वं वर्ण्यमानं नास्ति । न खल्वत्रौतप्रोतशब्दाभ्यामक्षरस्य जगतश्चाधाराधेयभावः प्रतिपाद्यते । पूर्वत्र गार्गीब्राह्मणे ‘यदिदं सर्वमप्सोतञ्च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्च’(बृ.३.६.१) इत्यादिभिर्गार्ग्याः प्राश्नैः ‘वायौ गार्गि’(बृ.३.६.१) इत्यादिभिर्याज्ञवल्क्यस्योत्तरैश्च परिदृश्यमानपार्थिवधातुजातसलिलवाय्वन्तरिक्षलोकगन्धर्वलोकादित्यालोकचन्द्रलोकनक्षत्रलोकदेवलोकेन्द्रलोकप्रजापतिलोकब्रह्मलोकानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्नोतप्रोतत्ववर्णनात् । तत्रानुक्रान्तानामन्तरिक्षलोकादीनां तत्तदुपरितनगन्धर्वलोकाद्याधारत्वायोगात् । अतस्तत्र पूर्वपूर्वलोकेभ्यः उत्तरोत्तरलोकानां कयाचिद्विवक्षयोत्कर्षमभिप्रेत्य ओतत्वप्रोतत्ववर्णनमिति नेतव्यम् । सम्भवति हि यथा पटे दीर्घतिर्यक्तन्तव ओतप्रोतास्तस्यैकदेशा एवं गन्धर्वलोकानां विभूतौ दृश्यमानायामन्तरिक्षलोका विभूतितस्तदेकदेशप्राया इति विवक्षया सादृश्यादोतप्रोतत्ववर्णनस्योत्कर्षपर्यवसानम् । अतस्तदुपरितनप्रश्नोत्तरसन्दर्भरूपाक्षरब्राह्मणगतौतप्रोतत्ववर्णनमपि तथैव नेतुं युक्तम् । तच्चोपपद्यत एव प्रणवे । ‘ओमित्येतदक्षरमुद्गीथमुपासीत ओमिति ह्युद्गायति तस्योपव्याख्यानम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’(छा.१.१.३) इति श्रुत्यन्तरे तस्य सर्वोत्कृष्टत्वप्रसिद्धिसत्त्वात् । तत्र कयाचिद्विवक्षया पृथिवीजलौषध्यादिक्रमेणोत्तरोत्तरमुत्कर्ष उक्तः, इह तु विवक्षान्तरेण पृथिवीजलवाय्वादिक्रमेणेति एतावानेव विशेषः पर्यवस्यतीति न प्रणवे ओतप्रोतत्ववर्णनस्यानुपपत्तिः । यदि चौतप्रोतशब्दाभ्यां तस्य तस्य तत्र तत्र वर्तमानत्वमेवोच्यते, तथापि प्रणवे जगदाधाराकाशौतत्वप्रोतत्ववर्णनस्य न काचिदनुपपत्तिः । जगदाधार आकाशः परमात्मा हृदयादित्यमण्डलादिवदुपासनस्थाने प्रणवे वर्तत इति सामञ्जस्यात् । न चान्याश्रितत्वोक्तिस्वारस्यादिहाकाशः प्रसिद्ध एव ग्राह्य इति वाच्यम् ; पूर्वसन्दर्भविरोधात् ।
एवं ह्युपाख्यायते बृहदारण्यके – जनकस्य यज्ञे कुरुपाञ्चालदेशागतेषु ब्राह्मणेष्वभिसमेतेषु ‘कः स्विदेतेषां ब्रह्मिष्ठः’ इति जिज्ञासुना जनकेन शृङ्गद्वयाबद्धपलपरिमितसुवर्णालङ्काराः सहस्रं गाः समानीय ‘ब्राह्मणा भगवन्तो यो वा ब्रह्मिष्ठः स एता गा उदजताम्’(बृ.३.१.२) इत्युक्ते तेषु ब्राह्मणेष्वदृष्टतया स्थितेषु, याज्ञवल्क्यः स्वशिष्यमुवाच ‘एताः सोम्य उदज सामश्रवा’(बृ.३.१.२) इति । ततस्तेषु ब्राह्मणेषु क्रुद्धेषु तमाश्वलः पप्रच्छ ‘त्वं नु खलु नु याज्ञवल्क्य ब्रह्मिष्ठोऽसि’(बृ.३.१.२) इति । ‘नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्मः’(बृ.३.१.२) इति याज्ञवल्क्यस्योक्तिभङ्ग्या तस्य ब्रह्मिष्ठत्वमभिमानमधिकं सन्तमवधार्य तद्विजिगीषया आश्वलादिषु केषुचित् तं पृष्टवत्सु, तेन च सदुत्तरोक्त्या जितेषु, ‘अथ हैनं गार्गी वाचक्नवी पप्रच्छ’(बृ.३.६.१) इत्यादि गार्गीब्रह्मणं प्रवृत्तम् । तत्र गार्ग्या ‘यदिदं सर्वमप्स्वोतं च प्रोतञ्च’(बृ.३.६.१) इत्यादिना तत्तदुत्तरानन्तरं पुनः पुनः पृष्टस्य याज्ञवल्क्यस्य क्रमेण ‘ब्रह्मलोकेषु गार्गि’(बृ.३.६.१) इत्युत्तरे सति ‘कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च’(बृ.३.६.१) इति पुनः पृष्टेन याज्ञवल्क्येन ‘गार्गि माऽतिप्राक्षीर्मा ते मार्द्धा व्यपप्तत् अनतिप्रश्न्यां वै देवतामतिपृच्छसि माऽतिप्राक्षीः’(बृ.३.६.१) इति सक्रोधमुक्ते भीता गार्गी उपरराम । ततः उद्दालके प्रसिद्धे ब्रह्मविदि सूत्रमन्तर्यामिणं च पृष्टवति याज्ञवल्क्येन जिते पुनर्गार्गी सर्वेषां ब्राह्मणानां पराजयो जायत इति शङ्कया याज्ञवल्क्यस्य क्रोधं ब्राह्मणानामनुज्ञयैवाकिञ्चित्करतामापाद्य प्राक् ‘माऽतिप्राक्षीः’ इति निवारितं प्रश्नं पुनः करिष्यामीत्याशयवती ‘ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेत् मे वक्ष्यति च न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेता’(बृ.३.८.१) इति तेषामनुज्ञां याचित्वा ‘पृच्छ गार्गि’(बृ.३.८.१) इति तैरनुज्ञाता ‘अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहि’(बृ.३.८.१) इति द्वितीयप्रश्ननिवारणपरिजिहीर्षया प्रश्नद्वयानुज्ञां पृष्ट्वा ‘पृच्छ’ इति तदनुज्ञाता ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.३)‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.६) इत्यादिना सर्वदेशकालानुवृत्तसकलप्रपञ्चाधारं पृष्ट्वा ‘आकाशे तदोतं च प्रोतं च’(बृ.३.८.४) इत्युत्तरिते ‘नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः’(बृ.३.८.५) इति तं प्रशस्य इतः परं द्वितीयप्रश्नस्योत्तरमशक्यमित्याशयेन ‘अपरस्मै धारयस्व’(बृ.३.८.५) इत्युक्त्वा ‘पृच्छ’ इति तेनोक्ते प्रथमप्रश्नोत्तरस्थिरीकरणार्थं पुनरपि ‘यदूर्ध्वं याज्ञवल्क्य दिवः’ इत्यादिना प्राक् पृष्टमेव पृष्ट्वा याज्ञवल्क्येन ‘यदूर्ध्वं गार्गि’ इत्यादिना तदुक्तं सर्वमनूद्य ‘आकाश एव तदोतं च प्रोतं च’(बृ.३.८.७) इति प्राचीनोत्तर एवावधारणेन दृढीकृते तदनन्तरं कृतस्य ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ.३.८.७) इति द्वितीयप्रश्नस्योत्तरतया ‘एतद्वै तदक्षरम्’(बृ.३.८.८) इत्यारभ्य ‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ.३.८.११) इत्यन्तं कृत्स्नमक्षरब्राह्मणं प्रवृत्तमिति ।
अत्र गार्गीब्राह्मणान्ते याज्ञवल्क्येन यः प्रस्नः सक्रोधं निवारितः स एव खलु गार्ग्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनरवतारितः । तस्य प्रश्नस्य परमात्मनि पर्यवसानं गार्गीब्राह्मण एव ‘अनतिप्रश्न्यां वै देवतामतिपृच्छसि’(बृ.३.६.१) इति याज्ञवल्क्यवचनेन स्फुटमिति तदनुसारेण तदुत्तरगतस्याकाशशब्दस्य परमात्मपरत्वमेव युक्तम् । अत एव प्रश्ननिवारणभङ्ग्यैव याज्ञवल्क्यः प्रथमप्रश्नस्योत्तरं वक्तुं जानातीत्यवगत्य द्वितीयप्रश्न एव भारं निधाय युगपत् प्रश्नद्वयानुज्ञामर्थितवतीति सङ्गच्छते । प्रथमप्रश्नोत्तरप्रशंसामिव कृत्वा सर्वाधारस्य परमात्मनः केनचित् प्रकारेण कश्चिदाधारोऽस्तीति ज्ञात्वा वक्तुमयं न पारयिष्यतीत्याशयेन ‘अपरस्मै धारयस्व’ इति धृष्टमुक्तवतीत्यपि सङ्गच्छते । प्रणवस्य परमात्मोपासनास्थानतया तदधिकरणत्वेनोत्तरमपि सङ्गच्छते । प्रसिद्धं हि हृदयादिषु प्रणवं विचिन्त्य तन्मध्यवर्तित्वेन परमात्मोपासनं श्रुतिस्मृतिपुराणागमेषु । यदि चाकाशः प्रसिद्धाकाशः, तथाऽपि प्रणवे तदाधारत्वस्य नानुपपत्तिः । अवकाशात्मके प्रसिद्धाकाशे सर्वं वस्तु विश्रान्तम् । सोऽपि स्वकारणे शब्दतन्मात्रे प्रणवसूक्ष्मावस्थारूपत्वेन प्रसिद्धे प्रतिष्ठित इति सामञ्जस्यम् । यदि चाकाशस्य तत्रौतप्रोतत्वेन वर्णितस्य जगतश्चाक्षरमाधारत्वेन वक्तव्यमिति निर्बन्धः, तस्यापि नास्त्यनुपपत्तिः प्रणवे ; आकाशद्वारा तस्य तदन्यजगदाधारत्वोपपत्तेः ।
आकाशस्य जगतश्च द्वारद्वारिभावं विनैव ओतप्रोतत्वमक्षरे वक्तव्यमिति निर्बन्धेऽपि नानुपपत्तिः; ’ओङ्कार एवेदं सर्वम्’(छा. २.२३.३) इति श्रुत्यन्तरे प्रणवस्य सर्वात्मत्वश्रवणात् । तदनुसारेणात्रापि तादात्म्येन सर्वमोतप्रोतं प्रणव इति तात्पर्यवर्णनोपपत्तेः । न च – श्रुत्यन्तरं ब्रह्मप्रतिपत्तिसाधने प्रणवे ब्रह्मगतासार्वात्म्यमारोप्य स्तुतिमात्रम् ; प्रणवस्य वस्तुतः सार्वात्म्यायोगात्, इह तन्मात्रमवलम्ब्योपक्रमोपसंहाराभ्यां प्रतिपिपादयिषितं लिङ्गमन्यथा नेतुमयुक्तम् – इति वाच्यम् ; प्रणवेऽपि मुख्यसार्वात्म्योपपत्तेः । अर्थानां ‘घटोऽयं पटोऽयम्’ इत्यादिप्रतिभासेय़ु शब्दतादात्म्योलम्भेन तत्तद्वाचकशब्दाश्रयत्वात् । शब्दानां च सर्वेषां ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णा’(छा. २.२३.३) इति श्रुत्या प्रणवात्मकत्वावगमात् ।
ननु ‘घटोऽयम्’ इत्यादि शब्दार्थसामानाधिकरण्यं ‘मृद्घटः’, ‘नीलो घटः’ इत्यादिवत् तादात्म्येनाश्रयिभावतो न भवति ; शब्दानामर्थाश्रयत्वमर्थानां शब्दाश्रयत्वं वेत्यत्र विनिगमनाविरहात्, शब्दानामर्थानां च व्यवस्थितेन्द्रियग्राह्यव्यवस्थितकार्यकरत्वादिवैलक्षण्यदर्शनेन भेदावश्यम्भावाच्च, किन्तु ज्ञाप्यज्ञापकभावतः । न च – ज्ञाप्यज्ञापकभावो न सामानाधिकरण्यप्रयोजकः, ‘धूमो वह्निः’ इति सामानाधिकरण्यादर्शनात्, ऐन्द्रियिकलैङ्गिकज्ञानेषु शब्दाजन्येष्वपि ‘घटोऽयं पटोऽयम्’ इत्यादिशब्दसामानाधिकरण्यानुभवाच्चेति वाच्यम् । ज्ञाप्यज्ञापकभावमात्रात् प्रत्यक्षतो दृश्यमानासु लिपिषु ‘ककारोऽयम्’ इत्यादिश्रूयमाणककारादिसामानाधिकरण्यानुभवदर्शनेन तद्वदिहाप्युपपत्तेः । वस्तुतो ‘घटोऽयम्’ इत्यादिप्रतिभासेषु पुरोवर्तिव्यक्तिषु घटशब्दादितादात्म्यं न स्फुरति, किन्तु घटशब्दादिसमर्पिततत्तदर्थतादात्म्यमेव । न हि ‘घटोऽयम्’ इत्यादीनां घटशब्दोऽयमित्यादिरर्थ ति कश्चिदप्यभिमन्यते, अन्यथा सर्वेषां शब्दानां स्वस्वरूपसमर्पणमात्रपरत्वे तत्तदर्थविशेषानवगतिप्रसङ्गादिति चेत् ।
अत्र ब्रूमः – विनिगमनाविरहोक्तिस्तावदनुपपन्ना; ‘स भूरिति व्याहरत् भूमिमसृजत स भुव इति व्यवहरत् सोऽन्तरिक्षमसृजत’(तै.ब्रा.२.२.४.२) इत्यादिश्रुतिभिः ‘नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः’ इत्यादिस्मृतिभिश्चार्थानां शब्दप्रभवत्वावधारणेन शब्दानामाश्रयत्वमर्थानामाश्रयित्वमित्यत्रोपादानोपादेयभावस्य विनिगमकस्य सत्त्वात् । ज्ञाप्यज्ञापकभावकृतं सामानाधिकरण्यमित्यप्ययुक्तम् ; ‘घटोऽयम्’ इत्यादिसामानाधिकरण्यानुभवस्य ‘मृद्घटः’ इत्यादिवत् प्रमाणसिद्धोपादानोपादेयभावमूलतया प्रमारूपत्वसम्भवे लिपिषु ‘ककारोऽयम्’ इत्यादिवत् भ्रमरूपत्वस्य, औपचारिकत्वस्य वा कल्पनायोगात् । न च ज्ञाप्यज्ञापकभावस्यापि सामानाधिकरण्यप्रयोजकत्वाभ्युपगमात् लिपिषु ‘ककारोऽयम्’ इत्यादिरपि प्रमारूप एवेति वाच्यम् । तया सति ‘धूमो वह्निः’ इत्यपि सामानाधिकरण्यानुभवप्रसङ्गेन ज्ञाप्यज्ञापकभावस्य तत्प्रयोजकत्वाभ्युपगमायोगात् । लिप्यक्षरगतज्ञाप्यज्ञापकभावमात्रस्य सामानाधिकरण्यानुभवप्रयोजकत्वमभ्युपगम्य तत्प्रमात्वसमर्थने तु नास्ति तस्य प्रकृतोपयोगः, तावता ‘घटोऽयम्’ इत्यादिसामानाधिकरण्यानुभवप्रमात्वानिर्वाहात् ।
यत्तु ‘घटोऽयम्’ इत्यादौ शब्दार्थयोः सामानाधिकरण्यानुभव एवासिद्धः; पदद्वयार्पितयोरर्थयोरेव परस्परान्वयादिति । तत्रेदमुच्यते । ‘डित्थोऽयं ब्राह्मणः’ इत्यादौ डित्थादिशब्दानामेवार्थान्वयः इति तावदङ्गीकर्तव्यम् ; यदृच्छाशब्दाभिधेयानां समर्पणीयार्थाभावात् । न च तेषामपि तत्तदसाधारमकृतिविशेषादय एवार्थाः समर्पणीयाः स्युरिति वाच्यम् । तत्तदाकृतिविशेषानभिज्ञानां डित्थो नाम कश्चिदस्तीत्यादिमात्रमवगच्छतामपि ‘डित्थः कीदृशः’ इत्यादिप्रश्नदर्शनात् , ‘एतादृशाकृतिविशेषशाली डित्थः’ इत्याद्युत्तरवाक्येषु तत्तदाकृतिविशेषादीनां शब्दान्तरेणोपादानाच्च । एवं ‘पृथिवीत्ववती पृथिवी’ ‘प्रमाकरणं प्रमाणम्’ इत्यादिलक्षणवाक्येषु जात्युपाधिशब्दानामपि स्वरूपत एवार्थान्वयो वाच्यः; तत्समर्पणीयपृथिवीत्वादीनां शब्दान्तरेण समर्पितत्वात् । न च द्विविधेऽप्युदाहरणे डित्थपृथिव्यादिशब्दानां लक्षणया तत्तच्छब्दवाच्यमर्थ इति शङ्कनीयम् ; शब्दानामर्थानाञ्च श्रुतिसिद्धोपादानोपादेयभावमूलतादात्म्यसत्त्वेन डित्थादिशब्दामात्रलक्षणया डित्थादिशब्दानामेव तादात्म्येन विशेषणत्वोपपत्तौ तेषां तत्तच्छब्दवाच्यत्वपर्यन्तलक्षमाकल्पनस्यायुक्तत्वात् । प्रत्यक्षोपस्थितानामेव वा तेषां मन्त्राणां नियोगभावनान्वयवत् स्वस्वार्थान्वयस्योपपत्तौ लक्षणाकल्पनस्यैव युक्तत्वात् ।
अपि च शब्दसमर्पकाः शब्दा यत्रार्थेषु प्रयुज्यन्ते, तत्र प्रयुक्तशब्दसमर्पितितत्तच्छब्दतादात्म्यप्रतीतिरर्थेष्वङ्गीकर्तव्या । यथा ‘दशपूर्वरथः’ ‘हस्त्युपपदगिरिः’ इत्यादिप्रयोगेषु प्रयुक्तशब्दसमर्पितदशरथहस्तिगिरिप्रमुखशब्दात्मताप्रतीतिर्नृपतिपर्वतविशेषादिषु । यथा वा द्विरेफादिशब्दप्रयोगेषु तत्समर्पितभ्रमरशब्दादितादात्म्यप्रतीतिर्मधुकरादिषु । यथा च ईक्षतिपरीष्टिगम्यादिशब्दप्रयोगेषु तत्समर्पितभ्रमरशब्दादितादात्म्यप्रतीतिस्तद्धात्वर्थेषु । न च त्रिविधेऽप्युदाहरणे शब्दवाचकशब्दानां स्वार्थरूपशब्दसम्बन्धिष्वर्थेषु गङ्गादिशब्दानां तीरादिष्विव लक्षणा स्यादिति वाच्यम् । प्रवाहतीरादिभेदेन तत्र लक्षणाऽपेक्षायामप्यत्र श्रुतिसिद्धोपादानोपादेयताप्रयुक्ताभेदसत्त्वेन, लक्षणाऽनपेक्षणात् । लक्षणायामपि लक्ष्यस्याभिधेयाभेदप्रतीतिसत्त्वेनात्र लक्षणाभ्युपगमेऽपि शब्दार्थाभेदप्रतीतेरनिवार्यत्वाच्च । ‘गङ्गायां घोषः’ ‘गङ्गायां तपोधनः’ इत्यादिव्यवहारेष्वपि घोषतपोधनादिवासस्थलस्य प्रवाहादिगतातिशयितशैत्यपावनत्वादिद्योतनार्थं प्रवाहाद्यभेदबोधनायैव हि गङ्गादिशब्दप्रयोगः,अन्यथा स्वायत्त्वाच्छब्दप्रयोगस्य यत्र गङ्गातीरग्रामे घोषस्तपोधनो वा वसति तद्ग्रामनाम्न्येव लघूपायो वक्तुं शक्ये गुरूपायभूतलक्षकपदप्रयोगस्य निष्फलत्वापत्तेः । एवं लक्ष्यस्याभिधेयतादात्म्यप्रतीतिसत्त्वादेव ‘‘जाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम्’(क.व.८८) इत्यादिकविता साङ्गत्यं प्रतिपद्यते, अन्यथा वनिताङ्गयष्टौ वल्लीतादात्म्याध्यवसायस्य तत्पयोधरयोः पर्वततादात्म्याध्यवसायस्य चाभावे ‘सम्प्रति तद्विपरीतम्’ इत्येतन्न सङ्गच्छते ।
ननु तथाऽपि घटादिनिष्पत्तिसमये तत्कारणचक्रान्तर्गतानां कुलालाद्युच्चार्यमाणानां घटादिशब्दानामभावात् मनसा तदनुसन्धानकल्पनेऽपि घटकलशकुम्भाद्येकैकपर्यायाभिज्ञकुलालनिर्मितघटेषु उपादानव्यवस्थित्यविनिगमप्रसङ्गात्, तेषां यावद्घटावस्थित्यवस्थानासम्भवाच्च कथं शब्दानामर्थोपादानत्वमुपपद्यत इति चेत् । उच्यते । क्रमविशेषविशिष्टघकारादिसमुदायात्मकः शब्दो घटवाचक इति नेष्यते, किन्तु तथाभूतनादाभिव्यङ्ग्यस्फोटात्मकशब्द इति तस्य नित्यत्वेन घटोत्पत्तिसमये सन्निघानाच्च तत्कारणत्वे काचिदनुपपत्तिः ।
पदेषु श्रूयमाणवर्णव्यतिकरेण तदभिव्यङ्ग्यस्फोटसद्भावे किं मानमिति चेत् – ‘घट इत्येतदेकं पदम्’ इति धीर्मानम् । न हीयमेकत्वधीर्वर्णविषयेति युक्तम् ; वर्णानामेकत्वात् । न च सेनावनादिन्यायादौपाधिकमेकत्वं तद्विषयः; एकत्वोदाधेरनिरूपणात् । तदनिरूपणं चानुपदमेव स्फुटीभविष्यति । तथा शब्दानामर्थवाचकत्वान्यथानुपपत्तिरपि वर्णातिरिक्तस्फोटसद्भावे मानम् ; वर्णानां वाचकत्वासम्भवेनान्यथोपपत्त्यभावात् । तथा हि – घकारादयो वर्णाः प्रत्येकं घटमभिदधीरन् मिलिता वा ? नाद्यः । एकवर्णोच्चारणानन्तरमर्थप्रत्यतादर्शनात्, वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । न द्वितीयः । एकवक्तृप्रयुज्यमानानां क्रमिकाणामाशुतरविनाशिनां वर्णानां मेलनायोगात् ।
ननु च वर्णा नित्या एव, नाशुतरविनाशिनः; उच्चारणान्तरे ‘सोऽयं गकारः’ इत्यादिप्रत्यभिज्ञया पूर्वश्रुतगकाराद्यभेदावगाहिन्या स्थायित्वसिद्धौ ‘तावत्कालं स्थितं चैनं कः पश्चान्नाशयिष्यति’ इति न्यायेन तस्यास्तन्नित्यत्वपर्यवसानम् । न च – प्रतिपुरुषं वैलक्षण्यदर्शनात्, एकपुरुषोच्चारिचतवर्णेष्वपि सानुनासिकनिरनुनासिकोदात्तानुदात्तस्वरिततारमन्द्रादिवैलक्षण्यदर्शनाच्च प्रत्युच्चारणं भिन्ना एव वर्णाः । तेषु ‘सोऽयं गकारः’ इत्याद्यभेदप्रत्यभिज्ञा गत्वादिसामान्योपाधिनिबन्धना इति वाच्यम् । वैलक्षण्यानुभवानां प्रतिपुरुषं विजातीयेषु प्रत्युच्चारणं स्थानप्रयत्नवैचित्र्याद्विलक्षणेषु च तत्तदुच्चारणजन्येषु वर्णाभिव्यञ्जकेषु ध्वनिष्वनुभूयमानस्य वैलक्षण्यस्य ध्वनिवर्णविवेकाग्रहेण वर्णगतत्वाभिमानरूपतोपपत्तेः । अभेदप्रत्यभिज्ञाया गत्वादिविषयत्वकल्पनस्य सर्वकालसर्वपुरुषगतगकाराद्यभेदवाद्यसम्मतगत्वादिजातिकल्पनापेक्षत्वेन दुर्बलत्वात् । दूरगतकोलाहलश्रवणे वर्णातिरिक्तध्वन्यनुभवसत्त्वेन वर्णगतभेदप्रत्ययोपाधीनां ध्वनीनां क्लृप्तत्वात् । अतो नित्यानां वर्णानां मेलनं सम्भवतीति चेत् ।
मैवम् । नित्यत्वाभ्युपगमे सदा विद्यमानानामनभिव्यक्तानां तेषामर्थधीहेतुत्वाभावेन तत्तदुच्चारणविशेषजन्यध्वनिविशेषकृताभिव्यक्तिविशिष्टानामर्थधीहेतुत्वस्य वक्तव्यतयाऽभिव्यक्तिरूपविशेषणानामाशुतरविनाशित्वेन तद्विशिष्टवर्णानां मेलनायोगात् । न च – पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितान्त्यवर्णानुभवोऽर्थधीहेतुरिष्यते, ततश्च पूर्ववर्णानां संस्कारद्वारा अन्त्यवर्णस्य स्वतश्चाभिव्यक्तविशिष्टतया मेलनमस्तीति वाच्यम् ; संस्काराणां पूर्वानुभवविषयगोचरस्मृतिजननमात्रशक्तत्वेन वर्णानुभवजन्यसंस्कारैरर्थस्मरणायोगात्, पूर्वपूर्ववर्णानुभवजनितातीन्द्रियसंस्कारविशिष्टान्तिमवर्णस्याभिधायकत्वपर्यवसानेन ज्ञातकरणतया वक्तव्यस्य तस्यार्थप्रत्ययात् प्राक् ज्ञानोपायाभावाच्च । अर्थप्रत्ययादेव तदनुमितौ परस्पराश्रयापत्तेः ।
न च प्रत्येकवर्णानुभवजनितसंस्कारबृन्दजन्यैकस्मृतिविषयीभूतो घकारादिवर्णसमुदायोऽभिधायकः स्यादिति वाच्यम् । तथा सति ‘रसः सरः पिकः कपिः’ इत्यादिप्रयोगेषु समूहालम्बनस्मृतेस्तुल्यविषयत्वेन पदविशेषप्रतीत्यभावप्रसङ्गात् । न चैकस्मृतिविषयः क्रमविशेषविशिष्टवर्णसमुदायोऽभिधायकः स्यादिति वाच्यम् । वर्णानां स्थैर्यं व्यापकत्वं चाभ्युपगच्छतः सिद्धान्तिनस्तेषु कालतो देशतो वा क्रमाभावात् । न च क्रमिकोच्चारणविशयत्वमेव तेषु क्रमः, लिप्यक्षरानुमितश्लोकैरनुच्चरितैरर्थावगमे तदभावात् । न चोच्चारणपदस्थानेऽनुसन्धानपदनिवेशनेऽपि निर्वाहः; समूहालम्बनावगतैर्लिप्यक्षरैर्युगपद्वर्णानुमितावनुसन्धानक्रमस्याप्यभावात् । तस्माद्वर्णानां प्रत्येकं मिलितानां वा वाचकत्वस्योपपादयितुमशक्यत्वात्तेषु स्वरूपेणैकार्थवाचकत्वोपाधिना वा ‘एकं पदम्’ इति बुद्धेरुपपादयितुमशक्यत्वाच्च गकारादिव्यतिरिक्तस्तदभिव्यङ्ग्य एकः स्फोटात्मा घटादिवाचकः शब्दोऽभ्युपेयः ।
न च तस्यापि घकारादिप्रत्येकसमुदायाभिव्यङ्ग्यत्वपक्षयोरुक्तदोषानुषङ्गः; यतो घकारादयः प्रत्येकमेव तमभिव्यञ्जयन्तीत्यङ्गीक्रियते, किन्तु द्रागेव विशदतरं नाभिव्यञ्जयन्ति । कथं तर्हि ? बहुशः श्रवणानि श्लोकमिव पुनःपुनर्निरीक्षणानि रत्नतत्त्वमिव उत्क्षेपणत्वादिजात्याश्रयानेककर्मव्यक्तिदर्शनानि तत्तज्जातिमिव च क्रमेण विशदतरमवभासयन्ति । विशदतरमवभास्यमान एव स्फोटोऽर्थप्रत्ययहेतुः इति न प्रथमादिवर्णैरविशदतया स्फोटाभिव्यक्त्याऽर्थधीप्रसङ्गः । न चैवं वर्णाः प्रत्येकमेवार्थधियं जनयन्ति, अन्तिमवर्णस्तु तां विशदतरां जनयति, विशदतरैवार्थधीः स्वकार्योपयोगिनीति वक्तुं शक्यम् ; प्रत्यक्षस्फोटावभास इव परोक्षे शब्दार्थप्रत्यये विशदाविशदविभागासम्भवात् । प्रत्यक्षज्ञानधर्मो हि स्पष्टास्पष्टविभागो न तु शाब्दज्ञानधर्मोऽपि । वस्तुतो घटादिवाचकस्फोटावभासे घकारादिक्रमविशेषविशिष्टतयाऽनुसन्धीयमानोऽन्तिमवर्ण एव हेतुः; पदान्तर्गतवर्णावगतीनां पूर्वपूर्ववर्णक्रमविशेषितोत्तरवर्णविषयत्वाभ्युपगमात् । अतः प्रथमादिवर्णैरविशदस्फोटावगतिरनुभवसिद्धा नेति दोषस्य नावकाशः । नापि विपरीतक्रमोच्चारणे विशदतरस्फोटाभासप्रसङ्गः । घकारादिक्रमश्च न तदुच्चारणक्रमस्तदनुसन्धानक्रमो वा, किन्तु स्वाभाविको घकारादिगत एव; घत्वादीनामुदात्तनुदात्तह्रस्वदीर्घत्वादीनामिव तत्तदुच्चारणजन्यध्वनिधर्मत्वाङ्गीकारात् । वर्णाभिव्यञ्जकत्वेन वर्णवाद्यभिमतैर्ध्वनिभिः साक्षादेव स्फोटाभिव्यक्तिसम्भवे ध्वनिस्फोटमध्ये नित्यवर्णाङ्गीकारे गौरवात् । दूरगतकोलाहलश्रवणे घत्वादीनां श्रूयमाणध्वनिगतानामेव दूरत्वादिदोषेणानभिव्यक्तिसम्भवात् । ‘सोऽयं गकारः’ इत्यादिप्रत्यभिज्ञानां गत्वाद्यधिकरणध्वन्यभिव्यक्तेषु दर्पणमुकवदभिव्यञ्जकधर्मरूपिततया प्रतीयमानेषु वर्णस्फोटेष्वेव विश्रान्तेः । एवं च ‘तदेवेदं घट इति पदम्’ ‘तदेवेदं घटमानयेति वाक्यम्’ इत्यादिरूपा पदवाक्यप्रत्यभिज्ञाऽपि पदवाक्यस्फोटविषयत्वेन समर्थिता भवति । स्फोटमनभ्युपगच्छतां तु वर्णनित्यत्वाभ्युपगमेन वर्णप्रत्यभिज्ञैव सालम्बना स्यात्, न तु पदवाक्यप्रत्यभिज्ञाऽपि । न च तुल्ये प्रत्यभिज्ञानेऽर्धजरतीयं युक्तम् । समूहालम्बनावगतलिप्यक्षरैर्युगपद्वर्णानुमितिस्थले विवक्षितवर्णक्रमानुसारिणा लेखनक्रमेण विशिष्टतयाऽवगतैर्लिप्यक्षरैः क्रमविशेषविशिष्टानामेव वर्णानामनुमतिरिति तत्रापि पूर्वपूर्ववर्णक्रमविशिष्टान्तिमवर्णानुभवसत्त्वान्न स्फोटावभासे काचिदनुपपत्तिः ।
ननु घकारश्रवणे घत्वाधारव्यतिरेकेण तदनाधारो वर्णस्फोटो वा घटपदश्रवणे वर्णसमुदायव्यतिरेकेणाखण्डः पदस्फोटो वा ‘घटमानय’ इति वाक्यश्रवणे पदसमुदायव्यतिरेकेणाखण्डो वाक्यस्फोटो वा नानुभूयते, कथमेषां कल्पनमिति चेत् ; तर्हि उदात्तानुदात्तह्रस्वदीर्घत्वादिधर्माधारव्यतिरेकेण वर्णावयव्यतिरेकेण च वर्णा नानुभूयन्त इत्युदात्तत्वाद्यनाधाराखण्डवर्णकल्पनमपि न स्यात् । अनुभ्य़्यन्ते हि पदवाक्ययोर्वर्णपदरूपावयवा इव वर्णेष्वपि तदवयवाः । तद्यथा ऋकारे रेफः, लृकारे लकारः , एकारैकारयोरकार इकारश्च , ओकारौकारयोरकार उकारश्च , दीर्घेष्वाकारादिषु ह्रस्वा अकारादयः ।
तत्रैते वर्णावयवा अपि वर्णा इति केषाञ्चिद्दर्शनम् । नैते वर्णाः , किन्तु तत्तद्वर्णसमानाकृतयोऽवयवा इत्यन्येषां दर्शनम् । तत्र मीमांसकैः पूर्व (वर्ण) पक्षमाश्रित्य ‘सामप्रदेशे विकारस्तदपेक्षः’(जै.सू.९.२.९) इति सामाहाधिकरणे ऋक्षु सतां सन्ध्यक्षराणां गीतिकाले वृद्धत्वं प्राप्तानां ये आइभावाः आउभावाश्च न ते स्तोभवत् वर्णान्तरागमरूपाः , किन्तु वृद्धेषु सन्ध्यक्षरेषु संश्लिष्टतया स्थितानामेव अवर्णेवर्णोवर्णानां गानकाले विश्लेषणमात्रं गीत्युपायतया ऋग्गततत्तत्सन्ध्यक्षराभिव्यञ्जकमित्युक्तम् । आश्वलायनेनापि ‘विविच्य सन्ध्यक्षराणामकारम्’ इति याज्यान्ते स्थितानां सन्ध्यक्षराणामकारं विश्लिष्य तं प्लावयेत् इति विदधानेनायमेव पक्षोऽङ्गीकृतः । पाणिनिनाऽपि ‘प्लुतावैच इदुतौ’(पा.सू.८.२.१०६) इति सूत्रेण ‘ए ३ तिकायन’ ‘औ ३ पग्व’ इत्युदाहरणेषु ‘गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्’(पा.सू.८.२.८६) इत्यादिसूत्रैरैचः प्लुतप्रसङ्गे तस्यान्त्यावयवा विकारोकारौ प्लवेते, न तु तदाद्यावयवोऽकारोपीति विदधानेनायं पक्षोऽङ्गीकृतः , किन्तु तेन ‘एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुऔ’(पा.सू.८.२.१०७) इति सूत्रेण एचः अप्रगृह्यस्य दूराद्धूतव्यतिरिक्ते ‘प्रत्यभिवादेऽशूद्रे’(पा.सू.८.२.८३) ‘विचार्यमाणानाम्’(पा.सू.८.२.९७) ‘याज्यान्तः’(पा.सू.८.२.९०) इत्यादिसूत्रप्राप्तप्लुतविषये पूर्वस्यार्धस्याकारादेशो भवति स च प्लुतो भवति , उत्तरस्यार्धस्य इकारावादेशौ भवत इति विदधानेन वर्णावयवा न वर्णा इत्यपि पक्षान्तरं सूचितम् , अन्यथा एचि विद्यमानानामवर्णेवर्णोवर्णानां विश्लेषणमात्रमवर्णस्य प्लुतेन सह विदध्यात्, न तु तान् पुर्वौत्तरार्धयोरादेशरूपान् । एवं पक्षद्वयसद्भावादेव भगवता पतञ्जलिना कात्यायनेन च ‘एऔच्’ इति सूत्रे वर्णैकदेशानां वस्तुतो वर्णतया वर्णग्रहणेन ग्रहणे ‘अग्न इन्द्र’ ‘वायो उदकम्’ इत्यत्र सवर्णसीर्घः प्राप्नोति , ‘आलूय’ ‘प्रालूय’ इत्यत्र ह्रस्वाश्रयस्तुक् प्राप्नोतीत्यादिदोषं प्रदर्श्य तेषां वर्णैकदेशतया वर्णग्रहणेनाग्रहणे च ‘आनृधतुः’ ‘आनृधुः’ इत्यत्र ‘आनर्च’ ‘आनर्चतुः’ इत्यत्रेव ‘तस्मान्नुड् द्विहलः’(पा.सू.७.४.७१) इति नुट् प्राप्नोति , ‘क्लृप्तः’ ‘क्लृप्तवान्’ इत्यत्र ‘कल्पिता’ ‘कल्प्ता’ इत्यत्रेव ‘कृपो रोलः’(पा.सू.८.२.१८) इति लत्वं न प्राप्नोतीत्यादिदोषं प्रदर्श्य पक्षद्वयमपि महता प्रयत्नेन दोषजातं समाधाय समर्थितम् । सन्तु ऋकारादिषु रेफादयो वर्णाः , सन्त्ववर्णा एव वा वर्णसमानाकृतयोऽवयवाः , उभयथाऽपि ऋकारादिषु रश्रुत्यादिरूपा अवयवाः सन्तीत्यविप्रतिपन्नमेव । किं बहुना , सर्वेष्वप्यवर्णादिषु ह्रस्वदीर्घप्लुतरूपेषु स्वरितेषु पूर्वोत्तरभागावङ्गीकृत्य पाणिनिना ‘तस्यादित उदात्तमर्धह्रस्वम्’(पा.सू.१.२.३२) इति सूत्रेण आदितः स्वरितस्यार्धमात्रिको भाग उदात्तः अवशिष्टो भागोऽनुदात्तः इति वर्णितम् । एवं वर्णपदावलीव्यतिरिक्तखण्डपदवाक्यापलापे उदात्तत्वादिधर्माधारवर्णावलिव्यतिरिक्ताखण्डवर्णापलापोऽपि स्यादिति दुस्तरा प्रतिबन्दी ।
अत्रैवं वर्णवादिभिर्वक्तव्यम् । वर्णानामुदात्तानुदात्तत्वैकमात्रत्रिमात्रत्वाद्याधाराकारेकारोकारादिस्वरूपक्रमिकावयवसमुदायरूपत्वे ‘एकार एको वर्णः’ ‘ओकार एको वर्णः’ इत्याद्येकत्वप्रत्ययस्य ‘स एवायमेकारः’ ‘स एवायमोकारः’ इत्याद्यभेदप्रत्यभिज्ञानस्य चानुपपत्तेरखण्डा एव वर्णाः । तेष्ववयवसमुदायरूपताऽवभासस्तु तदुच्चारणविशेषजन्यतत्तद्वर्णसमानाकारक्रमिकध्वनिविशेषसन्तानोपरागोपाधिक इत्यभ्युपेयमिति । एवमेव स्फोटवादिभिरपि वक्तुं शक्यम् । पदानां वाक्यानां च क्रमिकवर्णपदरूपावयवसमुदायरूपत्वे ‘इदमेकं पदम्’ ‘इदमेकं वाक्यम्’ इत्येकत्वप्रत्ययस्य ‘तदेवेदं पदम्’ ‘तदेवेदं वाक्यम्’ इत्यभेदप्रत्यभिज्ञानस्य चानुपपत्तेरखण्डान्येव पदानि वाक्यानि च । तेषु वर्णपदरूपावयवसमुदायात्मताऽवभासस्तत्तदुच्चारणविशेषजन्यवर्णतत्सङ्घातरूपध्वनिविशेषोपरागोपाधिक इत्यभ्युपेयम् । अतो न परमार्थतो वर्णस्फोटेषु वर्णावयवा न पदस्फोटेषु पदानि । किन्तु यथिअकत्वादिसंख्यातिरिक्तायामखण्डायां सतसंख्यायां सत्यामपि तस्यां तद्ग्रहणोपायभूततावदेकत्वसमुदायरूपताभ्रान्तिर्बालानामेवमिहापि वर्णपदवाक्यस्फोटेषु तत्तदभिव्यञ्जकक्रमिकध्वनिविशेषात्मकवर्णावयववर्णपदसमुदायरूपताभ्रान्तिमात्रमित्येवाविशेषेण कल्पयितुमुचितमिति ।
तस्मादस्ति तावत् वर्णावलीव्यतिरिक्तो घटवाचकः स्फोटः । स तु यावन्तो घटशब्दपर्यायाः तैः सर्वैरप्येक एवाभिव्यज्यते ; प्रतिपर्यायं स्फोटभेदे प्रमाणाभावात् । अतस्तस्यैकस्य घटकारणतया नाव्यवस्थित्यविनिगमदोषापादानावकाशः । एवमन्येषामपि पदस्फोटानां स्वस्वार्थकारणत्वं द्रष्टव्यम् । सर्वे चैते स्फोटाः प्रणवस्फोटप्रकृतिकास्तदात्मकाः ; ‘ओंकारेण सर्वा वाक् सन्तृण्णा’(छा.२.२३.३) इति श्रुतेस्तद्विषयत्वात् ।अतस्तस्मिन् प्रणवस्फोटरूपे शब्दब्रह्मणि जगद्धारकत्वं तावत् अञ्जसैव उपपद्यते । ‘अस्थूलमनण्वह्रस्वमदीघम्’(बृ. ३.८.८) इति तारमन्द्रत्वैकमात्रद्विमात्रत्वनिषेधाः । तेऽप्यञ्जसोअपद्यन्ते ; ध्वनिधर्माणां तारत्वादीनां तस्मिन् भ्रमरूपप्रसक्तिसत्त्वात् । ‘अलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन’(बृ. ३.८.८) इति पाञ्चभौतिकशरीरतद्धर्माणां निषेधः , तत्र ‘अवाय्वनाकाशमरसमगन्धमतेजस्कम्’(बृ. ३.८.८) इति पञ्चभूतात्मकत्वनिषेधः, ‘अलोहितमस्नेहम्’ इत्यसृङ्मज्जोपलक्षितानामस्थिमांसादीनामपि निषेधः , ‘अचक्षुष्कम्’ इत्यादिना चक्षुराद्युपलक्षितसकलज्ञानेन्द्रियकर्मेन्द्रियाभ्यन्तरवायुनिषेधः , ‘अमुखम्’ इति स्वेददूषिकादिनिस्सरणनिषेधः । ‘मुखं निस्सरणे वक्त्रे प्रारम्भोपाययोरपि इति नैखण्डुकाः । ‘अमात्रम्’ इति सूक्ष्मशरीरनिषेधः , ‘असङ्गम्’ इति दोषलेपनिषेधः, ‘अनन्तरमबाह्यं न तदश्नाति किञ्चन’ इति बाह्याभ्यन्तरसकलभोगनिषेधः ।
यद्वा ‘न तदश्नाति’ इत्यनेनैव भोगनिषेधे भोगोपयुक्तानां बाह्याभ्यन्तरेन्द्रियादीनां ‘अनन्तरमबाह्यम्’ इति सामान्येन निषेधः । ‘न तदश्नाति कश्चन’ इति ‘तं देवा भक्षयन्ति’ इति श्रुतकर्मपरतन्त्रस्वर्गिवदन्यपरतन्त्रत्वस्य निषेधः । अत्र किञ्चित्किञ्चिन्निषेधेनार्थसिद्धनिषेधानामन्येषां विशिष्य निषेधप्रयासः प्रणवस्यापाञ्चभौतिकं शुद्धसत्त्वारब्धं ज्योतिर्मयतया छायातमोविरोधि कर्मपारतन्त्र्यभोगापेक्षे विना केवलं भक्तदर्शनोपासनालम्बनं भवत्विति कृपापरिगृहीततया बाह्यसौन्दर्योपयुक्तावयवान्विना भोगाद्युपयुक्तप्राणेन्द्रियादिरहितं अतिनिर्मलं शरीरमस्तीति तदस्तित्वस्थिरीकरणार्थम् । तत् यद्यपि स्फोटात्मकस्य प्रणवस्य स्वतो नास्ति , तथाऽपि तद्वाच्यस्य तस्मिन् प्रतीके उपासनीयस्य तदभिमानिदेवतारूपस्य च ब्रह्मणोऽस्ति ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’(छा.१.६.६) इत्यादिश्रुतिप्रसिद्धमिति तस्य शरीरेण प्रणवस्य शरीरवत्त्वं व्यपदेष्टुं शक्यम् ; ब्रह्मप्रणवयोरभेदोपचारस्य –
’शिवो वा प्रणवो ह्येषः प्रणवो वा शिवः स्मृतः ।
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते क्वचित् ॥
तस्मादेकाक्षरं देवमाहुरागमपारगाः ।
वाच्यवाचकयोरैक्यं मन्यमाना मनीषिणः ॥
’
इत्यादिपुराणप्रसिद्धत्वात् , ‘यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः’(महाना ८.१८) इत्यादितैत्तिरीयोपनिषन्मन्त्रे च वेदाद्यन्तयोः प्रतिष्ठितं स्वरमोङ्कारमुपक्षिप्य तस्यैव निर्विशेषब्रह्माभेदोपचारेण प्रकृतावविद्यायां निमग्नतया जीवभावमुक्त्वा तस्य जीवस्य यः परो नियन्ता स महेश्वरः सगुणः परमेवर इति प्रतिपादनाच्च ।
’यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभवातः ।
वेदैकवेद्यं यथार्थ्याद्वेदान्ते च प्रतिष्ठितम् ॥
स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्मतः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥
’
इति शिवपुराण अस्य मन्त्रस्य उक्तार्थपरतयोपबृंह्मणात् । अथर्वशिरसि ‘य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्मेति स एकः स एको रुद्रः स ईशानः स भगवान् स महेश्वरः स महादेवः’(अथर्वशिरस् ३) इति ब्रह्मप्रणवभेदोपचाराश्रयणेन तदुभयनाम्नामेकनामत्वेन परिगणनपूर्वकम् ‘अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव सर्वं शरीरमूर्ध्वमुन्नामयति तस्मादुच्यत ओङ्कारः’ इत्यारभ्य ‘अथ कस्मादुच्यते महादेवः यः सर्वान् भावान् परित्यज्यात्मज्ञानयोगैश्वर्ये महति महीयते तस्मादुच्यते महादेवः’(अथर्वशिरस्. ४) इत्यन्तेन तत्तद्व्यवस्थितयोगेनैव निर्वचनाच्च । एतेन – प्रशासितृत्वादीन्यपि ब्रह्मलिङ्गानि प्रणवे व्याख्यातानि । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तत् भवति’(बृ. ३.८.२०) इत्येतदपि प्रणवे युज्यते । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा.१.१.१०) इत्युद्गीथरूपप्रणवविदः क्रतूनां वीर्यवत्तरत्ववदक्षररूपप्रणवविदो यागादीनामनन्तफलकत्वोपपत्तेः । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मणः’(बृ. ३.८.१०) इत्येतदपि तस्मिन्नुपपद्यते ; ब्राह्मणानां प्रणवस्वरूपपरिज्ञानस्यावश्यकत्वात् । तस्मादिह प्रणव एवाक्षरमिति पूर्वः पक्षः ।
एवं प्राप्ते सिद्धान्तमाह – ‘अक्षरमम्बरान्तधृतेः’ । यदुक्तमोतप्रोतशब्दाभ्यामक्षरस्योत्कृष्टत्वं प्रतिपाद्यत इति , तदयुक्तम् ; ‘एतस्मिन् खल्वक्षरे’ इत्यधिकरणनिर्देशसहिताभ्यां ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः’(मु. २.२.५) ‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’(भ.गी. ७.७) इत्यादिश्रुतिस्मृतिष्वाधेये दृष्टप्रयोगाभ्यामोतप्रोतशब्दाभ्यां डृतेरेव प्रतिपादयितुमुचितत्वात् । न चास्मिन्नेव प्रकरणे ‘कस्मिन् खल्वन्तरिक्षलोका ओताश्च प्रोताश्च’ इति ‘गन्धर्वलोकेषु गार्गि’(बृ. ३.६.१) इत्यादिप्रश्नोत्तरेषु तयोरुत्कृष्टत्वे दृष्टः प्रयोग इति वाच्यम् । तत्राप्यधिकरणसप्तम्या ओतप्रोतशब्दयोश्च स्वारस्यानुसारेण धृतेरेव प्रतिपादनाङ्गीकारात् । वचनबलादुपरितनानामपि गन्धर्वलोकादीनामन्तरिक्षलोकादिधारकत्वस्य , पर्वतानां क्षितिधारकत्वस्येव , ध्रुवस्य ज्योतिश्चक्रधारकत्वस्येवाधःप्रसृतमूलपाशाद्यवयवकल्पनयोपपादनीयत्वात् । श्रुतोपपादनार्थं ह्यश्रुतमपि कल्पनीयम् , न त्वश्रुतकल्पनाभिया श्रुतं परित्याज्यम् ; स्वर्गकामादिवाक्यबाधप्रसङ्गात् । वस्तुतोऽन्तरिक्षलोकादीनां क्रमेण गन्धर्वलोकादिष्वोतप्रोतत्वे श्रुतेर्नास्ति तात्पर्यम् , किन्तु अवाक्यभेदाय चरमनिर्देश्ये सर्वस्यौतप्रोतत्व एवेत्यनुपदमेव दर्शयिष्यते । एवमस्य पक्षस्य दूषणं ‘धृतेः’ इति सूत्रावयवेन सूचितम् ।
यदुक्तम् – जगदाधार आकाशः परमात्मा तदधिकरणमक्षरं तदुपासनास्थानभूतः प्रणव इति , तदप्ययुक्तम् ; आकाशशब्दस्य रूढ्या वाच्यं प्रसिद्धाकाशं विहाय परमात्मपरत्वकल्पने करणाभात् । न च पूर्वसन्दर्भानुसारेण तथा कल्पनम् ; ‘अनतिप्रश्न्यां वै देवतामतिपृच्छसि’(बृ. ३.६.१) इति परदेवताविषयप्रश्ननिवारणमेकान्तरितप्रश्नस्तद्विषयो भविष्यतीति दूरदृष्टिमता याज्ञवल्क्येनात्रैव कृतमित्युपपत्तेः । अक्षरब्राह्मणारम्भेऽपि द्वितीयप्रश्न एव परमात्मविषयो भविष्यतीति जानत्याऽपि चिकीर्षितस्य तस्य निवारणपरिजिहीर्षया युगपत् प्रश्नद्वयानुज्ञा पृष्टेत्युपपत्तेः । प्रथमप्रश्नानन्तरं याज्ञवल्क्यप्रशंसापूर्वकधार्ष्ट्यवचनस्यापि द्वितीयप्रश्नोत्तरे पतिष्यतीत्यभिमानेनोपपत्तेः । वादिनो हि कक्ष्यान्तरेऽवश्यं प्रतिवादी पतिष्यति इति निश्चयवन्तः प्रतिवादिनः पूर्वकक्ष्यायां श्लाघाभासं कुर्वन्तीति लोके प्रसिद्धम् । एवमन्यथाप्युपपन्ने पूर्वसन्दर्भे तदनुसारेणाकाशः परमात्मा अक्षरं प्रणव इत्यङ्गीकृत्याक्षरे श्रुतानां ब्रह्मलिङ्गानां तदभेदोपचाराश्रयेण नयनं न युक्तम् । एवमस्य पक्षस्य दूषणं सूत्रे विषयवाक्यगतमाकाशशब्दं विहायाम्बरशब्दप्रयोगेण सूचितम् ।
यदुक्तम् – आकाशो भूताकाश एवास्तु , तदाधारत्वं शब्दतन्मात्ररूपे प्रणवे सम्भवति इति , तदप्ययुक्तम् । न ह्यकाशं प्रत्येवाक्षरस्याधारत्वमुच्यते , किन्त्वाकाशान्तस्य सकलस्य जगतः । कुत एतदवसीयते इति चेत् – ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३.३.१४) इत्यधिकरणन्यायादित्यवेहि । तत्र खल्वधिकरणे ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः’(क. ३.१०) इत्यादिकठवल्लीमन्त्रेष्विन्द्रियार्थमनःप्रभृतीनामुत्तरोत्तरपरत्वं न प्रतिपाद्यम् ; तत्प्रतिपादने वाक्यभेदप्रसङ्गात् । ‘‘अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क. ३.११) इत्यग्रे निर्देश्यस्य पुरुषस्येन्द्रियार्थमनःप्रभृतिभ्यः सर्वेभ्यः परत्वमेव प्रतिपाद्यमिति निर्णीतम् । एवमत्रापि भूगोलकादिब्रह्मलोकान्तानामुत्तरोत्तरस्य पूर्वपूर्वाधारतायां न तात्पर्यम् ; किन्त्वग्रे निर्देश्यस्याक्षरस्याकाशान्तसकलाधारतायामेव । अत एव भूगोलकादिब्रह्मलोकान्तानामुत्तरोत्तरस्य पूर्वपूर्वाधारत्वे प्रतिपादितेऽपि ‘यदूर्ध्वं याज्ञवल्क्यदिवो यदवाक् पृथिव्याः’(बृ. ३.८.६) इत्यादिप्रश्नेन सर्वाणि तानि यत्रौतप्रोतानि , तस्मिन् वस्तुनि पृष्टे तावदाधारत्वेनोत्तरे’ आकाशो निर्दिष्टः । अयं न्याय आकाशादुपरिनिर्दिष्टे अक्षरेऽपि योजनीयः ।
एवं तर्हि ब्रह्मलोकान्तजगदाधारत्वमाकाशे आकाशान्तजगदाधारत्वमक्षरे च प्रतिपाद्यम् , इत्येवमपि वाक्यभेदः स्यादिति चेत् ; मैवम् । पूर्वपूर्ववाक्योदिताधाराधेयपरम्पराया वस्तुतोऽक्षरस्यैव सर्वाधारत्वप्रतिपादने विश्रान्तावपि पूर्वसन्दर्भतोऽप्राप्तमप्युत्तरे निर्देक्ष्यमाणस्य प्रसिद्धाकाशस्य ब्रह्मलोकान्तजगदाधारत्वमवकाशप्रदत्वेन लोकप्रसिद्धमेवावलम्ब्य पूर्वसन्दर्भतो न्यायप्राप्तं चरमनिर्देश्ये सर्वाधारत्वं ब्रह्मलोकाधार एव गार्ग्या समापितमिति याज्ञवल्क्यस्य भ्रान्त्युत्पादनेन तस्याप्याधारान्तरप्रश्ने निरुत्तरो भूत्वा तस्याधारान्तरं नास्तीत्युक्त्वा वा पराजितो भवत्वित्यभिसन्धाय तत्र वाक्यसन्दर्भतात्पर्याविषयभूतमेव प्राङ्निर्दिष्टसर्वाधारत्वं गार्ग्योपन्यस्तमित्युपपत्तेः । एवमस्य पक्षस्य दूषणं सूत्रे अन्तग्रहणेन सूचितम् ।
यदुक्तं द्वारद्वारिभावेन सर्वाधारत्वं शब्दतन्मात्ररूपे प्रणवे सङ्घटत इति , तदप्युक्तयुक्त्यैव निरस्तम् ; साक्षादेव सर्वाधारत्वमाध्यानाधिकरणन्यायप्राप्तं ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.२) इत्यादिसर्वाधारप्रश्नलिङ्गान्वितं चान्तग्रहणेन सूचितमिति व्याख्यातत्वात् । अथ यदुक्तम् – सर्वाधारत्वं प्रणवे साक्षादेव सम्भवति ; ‘ओङ्कार एवेदं सर्वम्’(छा.२.२३.८) इति श्रुतेरर्थवादत्वेन नयनसम्भवेऽपि स्फोटात्मनि प्रणवे सर्वाधारतायां प्रमाणदर्शनादिति , तदप्ययुक्तम् ; वर्णेष्वेवाक्षरशब्दस्य रूढत्वेन तदभिव्यंग्यत्वेन पूर्वपक्षिकल्पिते स्फोटे तत्प्रसिद्ध्यभावात् , अक्षरशब्दरूढ्यवलम्बनस्य पूर्वपक्षस्य स्फोटे प्रवर्तयितुमशक्यत्वात् । तदेतदभिसन्धाय भामत्यामुक्तं ‘न च वर्णातिरिक्ते स्फोटात्मन्यलौकिके अक्षरपदप्रसिद्धिरस्ति’ इति । एवमस्य पक्षस्य दूषणं सूत्रे धर्मिनिर्देशकेनाक्षरपदेनैव सूचितम् ॥१.३.१०॥
स्यादेतत् – अक्षरपदस्य स्फोटे रूढ्यभावेऽप्यभिव्यंग्याभिव्यञ्जकभावसम्बन्धेन रूढिपूर्विका लक्षणा सम्भवति । ब्रह्मणि तु ‘न क्षरति’ इति नित्यत्वेन ‘अश्नोति’ इति व्यापकत्वेन वा योगः कल्पनीयः । योगाच्च रूढिपूर्वकलक्षणा बलीयसी ; लक्षणायाः शक्यसम्बन्धरूपाया रूढिघटितव्यापारान्तररूपत्वेन प्रथमोपस्थितरूढित्यागापेक्षाद्योगात् बलीयस्त्वात् । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इत्यध्वर्युप्रैषे उद्गातृशब्दस्य क्वचिदृत्विग्विशेषे रूढस्य बहुवचननिर्वाहार्थं ‘उद्गायन्ति इत्युद्गातारः’ इत्युच्चैर्गायत्सु सर्वेष्वपि योगवृत्तिर्नाश्रयणीया, किन्तु सदसि स्तोत्रकर्तृत्वेनोद्गात्रा सह तदन्तरङ्गसम्बन्धवतोः प्रस्तोतृप्रतिहर्त्रोरेव रूढिपूर्वकलक्षणाऽश्रयणीयेति निर्णीतं ‘उद्गातृचमसमेकस्य श्रुतिसंयोगात्’(जै.सू.३.५.८) इति पूर्वतन्त्राधिकरणे । एवंचोपक्रमगताभ्यस्तश्रुतितुल्याक्षरपदप्राबल्यानुसारेण वाक्यशेषगतानां प्रशासितृत्वादिलिङ्गानामन्यत्र दृष्टेन ब्रह्माभेदोपचाराश्रयणेन नयनं युक्तम् । उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषितं जगदाधारत्वलिङ्गं स्फोटेऽप्युपपद्यते इति समर्थितत्वान्न तद्बलादक्षरशब्दस्य योगाश्रयणं कार्यमित्याशङ्क्याह –
सा च प्रशासनात् ॥११॥
११स्यादेवं ब्रह्माभेदाश्रयणेन प्रणवे प्रशासितृत्वनयनं यदि प्रशासनवाक्ये तन्मात्रमुक्तं स्यात् । न त्वेवम्, किन्तु ‘एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्यैवाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः’(बृ.३.८.९) इति प्रशासनाधीना धृतिरुच्यते । प्रशासनाधीना धृतिश्च सैव , याऽत्रोपक्रमोपसंहाराभ्यां प्रतिपिपासयिषिताऽम्बरान्तधृतिः । सैव हि स्थालीपुलाकन्यायेन किञ्चित्किञ्चिद्धृतिमुदाहृत्य प्रशासनाधीनतया वर्णितेति युक्तम् ; प्रकृतप्रत्यभिज्ञाने तदन्यविषयत्वकल्पनायोगात् । एवं चोपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताम्बरान्तधृतिरेव वाक्यशेषसमर्पितप्रशासनाधीना जातेति तस्या अचेतने स्फोटेऽनुपपन्नत्वात् प्रतिपिपादयिषितलिङ्गानुसारेणाक्षरशब्दस्य ब्रह्मणि योगवृत्तिराश्रयणीया । सूत्रे चकार एवकारार्थः । या अम्बरान्तधृतिः पूर्वसूत्रे निर्दिष्टा , सैव प्रशासनहतुका नान्येति सूत्रार्थः ॥१.३.११॥
स्यादेतत् – स्फोटं चेतनमपि केचिदभ्युपगच्छन्ति शब्दब्रह्माद्वैतवादिनः , तन्मतानुसारेण प्रशासनमपि स्फोटस्योपपद्यत इत्याशङ्क्याह –
अन्यभावव्यावृत्तेश्च ॥१२॥
१२एवं चेत् ब्रह्म स्फोट इति नाममात्रे भेदः स्यान्न वस्तुनि ; मुक्त्यन्वयिसकलजीवाभेदं जडप्रपञ्चराहित्यं चानभ्युपगम्य स्फोटाद्वैतोपपादनायोगात् । अन्यभावोऽन्यत्वं , तस्य व्यावृत्तिरभावः । स्फोटाद्वैताभ्युपगमे तस्य ब्रह्मान्यत्वाभावात् स्फोटोऽक्षरमिति वदता ब्रह्माक्षरमित्येवोक्तं स्याद् इति तेन सह न विवाद इति सूत्रार्थः ।
स्यादेतत् – स्फोटस्य च्तनस्यापि जडप्रपञ्चमात्रकारणस्य तदभेद एवाभ्युपगम्यते , अतस्तस्य सिद्धान्त्यभिमतब्रह्मरूपत्वाभावादस्ति विवादावकाश इति चेत् ; एवं तर्हि स्फोटावलम्बनसकलक्षुद्रोपद्रवपरिहारार्थं घटादिवाचकशब्दस्य घकारादिवर्णसमुदायातिरिक्तत्वं नास्तीति प्रतिपादयिष्यामः । ‘एकं पदम्’ इत्येकत्वप्रत्ययस्य ‘तदेवेदं पदम्’ इति प्रत्यभिज्ञानस्य च निर्वाहार्थं खलु वर्णावयवातिरिक्तवर्णप्रतिबन्द्या वर्णावलीव्यतिरिक्तस्तदभिव्यंग्योऽखण्डः पदस्फोटः साधितः ।
तत्रेदं पृच्छामः – घादिवर्णावली तत्तदर्थविशेषेणागृहीतसम्बन्धाऽपि केवलं वर्णविशेषरूषितक्रमविशेषरूपेण गृहीता घटादिवाचकस्फोटतदेकत्वाभेदानभिव्यञ्जयेत् , उत तैर्गृहीतसम्बन्धैव ? आद्ये काव्यश्लोकादिश्रवणे तदन्तर्गतशब्दानां तत्तदर्थैरगृहीतसम्बन्धस्यापि पुंसः ‘इदमेकं पदमिदमेकं पदम्’ इत्यादिक्रमेण एतावन्त्यत्र श्लोके पदानीत्यवधारणं स्यात् । ‘प्रजापतेर्हृदयेनापि पक्षं प्रत्युपतिष्ठते सत्रस्यर्ध्याहवनीयस्याग्नेस्तुवन्ति’ इत्यादिषु प्रजापतेर्हृदयादिशब्दानां सामविशेषादिषु रूढिमजानतामपि ‘प्रजापतेर्हृदयेन’ इत्येकं पदमित्यवधारणं स्यात् । श्रूयमाणे शब्दे किमयं हालाहलशब्दो हलाहलशब्दो वा , मरकतशब्दो मरतकशब्दो वेत्यादिवर्णक्रमविशेषसन्देहे सत्युभयथाऽपि गरलविशेषवाचकोऽयं , रत्नविशेषवाचककोऽयमित्यादिनिश्चयवतां ‘इदमेकं पदम्’ इत्यवधारणं न स्यात् ; तद्विषयस्य स्फोटस्याभिव्यञ्जकवर्णावलीसन्देहेनानभिव्यक्तेः । तस्मात् द्वितीयपक्ष एवोररीकर्तव्यः । ततश्च स्फोटवादिनाऽपि वर्णावल्यां तत्तदर्थसम्बन्धं शक्तिरूपमङ्गीकृत्य घकारादिवर्णावलीश्रवणकाले प्रत्येकवर्णानुभवैः पूर्वपूर्ववर्णक्रमविशिष्टान्तिमवर्णानुभवेन वोपायान्तरेण वाऽभिव्यक्तिरित्यपि समर्थनीयम् । एवं च स्फोटाऽभिव्यक्तेः प्रागेवावभासमानेनैकेन सम्बन्धेन क्रोडीकृतानां वर्णानामेवैकदेशस्थत्वेन क्रोडीकृतानां वृक्षाणामेव ‘एकं वनम्’ इति बुद्धिगोचरत्ववत् ‘एकं पदम्’ इति बुद्धिगोचरत्वोपपत्तौ किमतिरिक्तपदस्फोटकल्पनया ? वर्णेष्वेकत्वप्रत्ययस्त्वेकाक्षरनिखण्डुपर्यालोचनादिरहितानां तत्तदर्थैरगृहीतसम्बन्धानामपि जायत इति वर्णावयवेष्वेकत्वोपाधेरनिरूपणाद्युक्तं तस्य तदतिरिक्तवर्णविषयत्वम् ।
ननु वर्णनित्यत्ववादिभिः स्फोटवादिभिरिव वर्णेषु क्रमो निरूपयितुं न शक्यते । स्फोटवादिनां ह्यनित्या ध्वनय एव वर्णाः , न तु ध्वनिस्फोटमध्ये नित्यवर्णाङ्गीकारे प्रमाणमस्तीत्युक्तमिति चेत् ; सत्यम् । वर्णनित्यत्ववादिनामप्यनुसन्धानक्रमः सम्भवत्येव । मौनिलिखितलिप्यक्षरैर्युगपद्वर्णानुमितिस्थलेऽपि क्रमिकलिपिभिर्लेखकानुसन्धानक्रमविशेषितवर्णानुमितिः सम्भवतीति न कदाचिदनुपपत्तिः । ननु तथापि ‘तदेवेदं पदम्’ इति प्रत्यभिज्ञानं वर्णवादिनामनुपपन्नम् ; क्रमभेदेन पदभेदावश्यंभावादिति चेत् , सत्यम् । तत्तु केशनखदीपादिश्विव सादृश्येनोपपादनीयम् , अन्यथा लूनपुनर्जातकेशनखनिर्वापितारोपितदीपादिष्वपि प्रसिद्धकेशसन्तानाद्यभिव्यंग्याखण्डकेशादिकल्पनं स्यात् । तदतिरिक्तकेशादिकमनुभवानारूढं इति चेत् , समं प्रकृतेऽपि । न हि गौरित्यत्र गकारौकारविसर्जनीयातिरेकेणाखण्डं स्फोटमनुभूयमानं कश्चिदप्यभिमन्यते ।
नन्वेवं सति वर्णप्रत्यभिज्ञाऽपि तज्जातीयत्वविषयासम्भवतीति किमर्थं वर्णनीयत्वाभ्युपगमः ? उच्यते – गकारादिरेक एव सर्वदेशकालसम्बन्धीति वादिनां मते तद्विषयत्वकल्पनं गत्वादिजातितद्व्यक्त्यनेकत्वकल्पनापेक्षम् । वर्णावल्यां तु सादृश्यं संप्रतिपन्नमिति पदप्रत्यभिज्ञाया एव सादृश्यविषयत्वं , न तु वर्णप्रत्यभिज्ञायास्तज्जातीयविषयत्वमित्यभ्युपगम्यते । सन्तु वा वर्णा अप्यनित्याः ; का नो हानिः ? अत एव भाष्यकारैर्देवताऽधिकरणे तदनित्यत्वपक्षोऽपि दर्शितः । वेदनित्यत्वं तु वर्णानामनित्यत्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते । एवं स्फोटप्रतिक्षेपेऽपि दर्शितः । वेदनित्यत्वं तु वर्णानामनित्यत्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते । एवं स्फोटप्रतिक्षेपेऽपि ‘अन्यभावव्यावृत्तेः’ इति सूत्रमेव योजनीयम् । तत्र घटादिवाचकस्य वर्णावल्यतिरिक्तत्वाभावादिति सूत्रार्थः ।
यत्तु भाष्ये ‘सा च प्रशासनात्’(ब्र.सू.१.३.११) इति सूत्रस्याक्षरमव्याकृतमिति पक्षनिराकरणार्थत्वेन , ‘अन्यभावव्यावृत्तेः’ इति सूत्रस्याक्षरं जीव इति पक्षनिराकरणार्थत्वेन योजनम् , तत्... अयमप्यर्थः सम्भवतीत्यभिप्रेत्य , न त्वयमेवार्थ इत्यभिप्रेत्य । द्वितीयसूत्रस्याव्याकृतनिराकरणमात्रपरत्वे हि ‘प्रशासनात्’ इत्येव सूत्रणीयं स्यात् । तावतैवाक्षरसब्दरूढ्यविषयस्याव्याकृतस्त निराकरणसम्भवात् । पूर्वसूत्रनिर्दिष्टाया अम्बरान्तधृतेरेव प्रशासनाधीनत्वमित्येतावत्पर्यन्तं न वक्तव्यं स्यात् । ‘अन्यभावव्यावृत्तेः’ इति तृतीयसूत्रमप्यस्पष्टविवक्षितार्थमनेकत्रयोजनाऽनुकूलं विश्वतोमुखं न वक्तव्यं स्यात् । भाष्ये तु ‘अन्यभावव्यावृत्तेः’ इति सूत्रार्थतया अत्रैव स्फुटं कर्तव्यमपि स्फोटनिराकरणं देवताधिकरणे(ब्र.सू.१.३.८ अधि) कृतम् । अत्र तन्निराकरणे कृतेऽपि देवताधिकरणे ‘सब्द इति चेन्नातः प्रभवात्’(ब्र.सू.१.३.२८) इति सूत्रं जगतः स्फोटात्मकशब्दप्रभवत्वार्थकम् ; अनित्यानां वर्णानां जगत्कारणत्वानुपपत्तेः । अतः सूत्राभिमतस्य स्फोटस्य निराकरणमयुक्तमिति शङ्कोत्थाने सति पुनरपि तत्प्रसङ्गो भविष्यतीति तत्रैव निराकरणे यत्नलाघवदर्शनात् ॥१.३.१२॥
इत्यक्षराधिकरणम् ॥३॥
ईक्षतिकर्मव्यपदेशात्सः ॥१३॥
१३अक्षरादम्बराधारात्प्रणवः पर्युदासितः । तद्धेयमपरं किं वा परमित्यत्र चिन्त्यते ।
एषा प्रसङ्गसङ्गतिः । बुद्धिस्थस्य निरूपणार्हत्वं प्रसङ्गः । आथर्वणिकानामुपनिषदि ‘स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयति’(प्र.५.१) इति सत्यकामप्रश्ने ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’(प्र.५.२)इति परापरब्रह्मदृष्ट्या प्रणवोपासनमुपक्रम्य एकमात्रं प्रणवमुपासीनस्य तत्प्रथममात्रात्मकऋग्वेदप्रापणीयमनुष्यलोकप्राप्तिफलम् , द्विमात्रं प्रणवमुपासीनस्य तद्द्वितीयमात्रात्मकयजुर्वेदप्रापणीयान्तरिक्षलोकप्राप्तिफलं चाभिहितम् । तदनन्तरमिदमाम्नायते ‘यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते’(प्र. ५.५) इति । अत्र त्रिमात्रे प्रणवे उपासनीयं किमपरं हिरण्यगर्भाख्यं ब्रह्म, उत परं ब्रह्मेति संशये ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इति देशपरिच्छिन्नफलश्रवणादपरं ब्रह्मेति पूर्वःपक्षः ।
ननु कथमत्रैवं पूर्वपक्षावकाशः ? ‘परं चा परं च’(प्र.५.२) इति परापरब्रह्मदृष्ट्या प्रणवोपासनमुपक्रम्यात्र ‘परं पुरुषम्’(प्र. ५.५) इति परविशेषणदानेन परं ब्रह्मोपास्यमिति स्पष्तमेव प्रतीतेः । देशपरिच्छिन्नफलश्रवणलिङ्गानुसारादपरब्रह्मण्येव परपदमापेक्षिकपरत्वपरतया योजनीयमित्यपि न युक्तम् ; परब्रह्मोपासनानामपि कासाञ्चित् ‘चक्षुष्यश्श्रुतो भवति’(छा.१.१३.३) इत्यादिक्षुद्रलश्रवणात् , सर्वासामेव परब्रह्मोपासनानां कार्यब्रह्मलोकावाप्तिफलकत्वस्य ‘कार्यं बादरिरस्य गत्युपपत्तेः’(ब्र.सू.४.३.३) इत्यधिकरणे व्यवस्थापयिष्यमाणत्वाच्च ।
न च वाच्यम् – सगुणविषयाणामेवाहंग्रहोपासनानां तत्फलकत्वं तस्मिन्नधिकरणे व्यवस्थापयिष्यते , इह तु परं ब्रह्मोपासनीयं चेत्तन्निर्गुणमेव पर्यवस्येत् , दहरशाण्डिल्यविद्यादिष्विवात्र ब्रह्मणि गुणाश्रवनात् , निर्गुणोपासनस्य तु देशपरिच्छिन्नं फलं न युक्तम्. इति । यतोऽत्रापि ब्रह्माभेददृष्ट्योपासनीयप्रणवगुणैरेव त्रिमात्रत्वादिभिर्ब्रह्म सगुणं सम्भवति , अन्यथोपास्यत्वायोगात् , ‘‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(क. उ.१.५.९) इति निर्गुणस्योपास्यत्वनिषेधात् । ननु ‘त्रिमात्रेणोंकारेण’(प्र.५.५) इति ब्रह्माभिधानस्य प्रणवस्य ब्रह्मोपासने साधनत्वमेव तृतीयाश्रुत्योक्तम् , न तु तदभेददृष्ट्योपास्यत्वमिति चेत् , न । ‘परं चापरं च ब्रह्म’(प्र. ५.५) इत्यभेददृष्ट्युपक्रमानुसारेण तृतीयाया द्वितीयार्थतौचित्यात् । तस्मादुपक्रमं परामृशतां नास्ति पूर्वपक्षमिदमधिकरणमिति चेत् ; उपक्रमं परामृशतामेवास्ति पूर्वपक्षमिदमधिकरणमिति ब्रूमः । उपक्रम एव हि ‘तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’(प्र. ५.२) इत्यपरब्रह्मदृष्ट्या प्रणवोपासनस्यापरब्रह्मप्राप्तिः , परब्रह्मदृष्ट्या तदुपासनस्य परब्रह्मप्राप्तिः फलमिति विभज्य दर्शितम् । ततश्चान्यत्र परब्रह्मोपासनानां ब्रह्मलोकावाप्तिफलकत्वसम्भवेऽप्यत्र विवक्षितायां परब्रह्मोपासनायां तत्फलकत्वं न युक्तम् , किन्त्वपरब्रह्मोपासनायामेव तद्युक्तम् । तस्मादुपक्रमानुसारेणात्र ब्रह्मलोकावाप्त्फलस्यापरब्रह्मलिङ्गत्वादपरमेव ब्रह्मोपास्यमिति ततोऽवधार्यते ।
ननु ‘पुरिशयं पुरुषमीक्षते’(प्र.५.५) इति ध्यातव्यपुरुषस्येक्षणं ब्रह्मलोके श्रुतम् । ईक्षणस्य च तत्त्वविषयत्वं नियतम् । ततस्तत्रेक्षणीयः पुरुषः परमेव ब्रह्मेति निश्चिते ध्यातव्यमपि तदेव स्यात् ; ईक्षणध्यानयोः कार्यकारणयोरेकविषयत्वनियमात् । एवं च परब्रह्मसाक्षात्कारसाध्या तदवाप्तिरेव फलत्वेन विवक्षितेति निर्णये ब्रह्मलोकावाप्तिरफलभूताऽपि सूर्यसम्पत्तिवत् फलद्वारत्वेन वर्णिता नेतव्येति न तल्लिङ्गविरोधोऽपीति चेत् ; स्यादेतदेवं यदीक्षणस्य तत्त्वविषयत्वं नियतं स्यात् , न त्वेतदेवम् । ईक्षणं हि दर्शनम् । तत्स्वप्नशुक्तिरजतभ्रमादिषु प्रातिभासिकानामपि साधारणं दृष्टम् । तथाऽपीक्षणस्य तत्त्वविषयत्वमौत्सर्गिकम् , बाधकाभावे चौत्सर्गिकमेव ग्राह्यमिति चेत् , न । यत् प्रायिकं तदेवौत्सर्गिकम् । हिरण्यगर्भमप्यतात्त्विकं वदतः सकलविशेषरहितं परं ब्रह्मैकमेव तात्त्विकमिति वदतस्तव तद्दर्शनमेकमेव तत्त्वविषयं स्यात् । तद्विरलम् । प्रपञ्चान्तर्गतपदार्थदर्शनानि तु भूयांसि इति स्पष्टमेव । अतो विचारणायामीक्षणस्यातत्त्वविषयत्वमौत्सर्गिकमित्येव युक्तम् । ननु तथाऽपि ध्यानपूर्वकस्येक्षणस्य तत्त्वविषयत्वं नियतमिति चेत् ; न । विधुरपरिभावितकामिनीसाक्षात्कारे व्यभिचारात् , ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्’(श्वे.उ.१.३) इति मन्त्रोक्ताविद्याशक्तिदर्शने व्यभिचाराच्च । अयं मन्त्रोह्यविद्याशक्तिदर्शनपरः इति भगवत्पादैरेव व्याख्यातः ।
अस्तु वेक्षणस्य तत्त्वविषयतानियमेआत्र तस्य परब्रह्मविषयता ; तावता ध्यानस्य तद्विषयता कुतः ? ध्यानेक्षणयोरेकविषयत्वनियमात् इति चेत् , न । तदसिद्धेः ; ‘वासुदेवो हि भगवान् ध्यायन् बिल्वोदकेश्वरम् । अलब्ध मायाच्छन्नस्य निकुम्भस्य निरीक्षणम् ।’ तथाप्यौत्सर्गिकं तत् इति चेत् , न । औत्सर्गिकस्यापि तस्यात्र त्वया त्यक्तव्यत्वात् । ध्यानं हि सर्वत्र तव आरोपितगुनविशिष्टविषयम् ; निर्विशेषस्य त्रिकालाबाध्यस्य समन्वयसूत्रे भगवत्पादैरेवोपास्यत्वस्य निषिद्धत्वात् । तथा च ध्यानमतत्त्वविषयम् , ईक्षणं तत्त्वविषयमिति च नियमद्वयमभ्युपगच्छता कथं तयोरेकविषयत्वं क्वचिदप्यभ्युपगन्तुं शक्यम् ? व्याघातापत्तेः । यत्तु ब्रह्मलोकावाप्तिर्द्वारमात्रं न फलमित्युक्तम् , तदपि न ; ‘कतमं वाव स तेन लोकं जयति’(प्र.५.१) इति उपक्रमगतप्रश्नानुसारेण तस्याः फलत्वे तात्पर्यस्य वर्णनीयत्वात् ।
ननु यद्ययं त्रिमात्रोपासनाविधिरपरब्रह्मविषयः , तदा परब्रह्मप्राप्तिफलकत्वेनादावुपक्षिप्ता परब्रह्मोपासना क्व निरूपिताऽस्त्विति चेत् ; उत्तरत्रेति ब्रूमः । उत्तरत्र हि त्रिमात्रप्रणवोपासनेनैवाजरामृतत्वादिविशेषितपरब्रह्मप्राप्तिरपि श्रूयते ‘ऋग्भिरेतं यजुर्भिरन्तरिक्षं स सामभिर्यत्तत्कवयो वेदयन्ते तमोकारेणान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं च’(प्र.५.७) इति । अत्र यत्तत् कवयः उपासकाः लभन्ते , तमपरब्रह्मलोकमोंकारेणान्वेतीति प्रागुक्तैव अपरब्रह्मोपासना तल्लोकप्राप्तिफलोपसंहृता । ‘यत्तच्छान्तमजरममृतमभयं परं च तदप्योंकारेणान्वेति विद्वान्’ इति परब्रह्मोपासना तत्प्राप्तिफला प्रतिपादिता । परब्रह्म नोपासनीयमिति मते प्रणवेन तद्वेदनं तत्प्राप्तिफलं प्रतिपादितम् । प्रत्युत सिद्धान्तिन एवादावुपक्षिप्ताया अपरब्रह्मोपासनाया निरूपणं नास्तीति न्यूनताऽऽपद्यते । न च तन्मते एकमात्रद्विमात्रोपासने एवापरब्रह्मोपासनं स्यादिति वाच्यम् । तयोर्मनुष्यलोकान्तरिक्षलोकप्राप्तिफलकत्वेनोक्तत्वात् , अपरब्रह्मोपासनस्य च तल्लोकावाप्तिफलकत्वेनादावुपक्षिप्तत्वात् । तस्मादपरब्रह्मलोकावाप्तिफलकत्रिमात्रोपासनाकर्म अपरं ब्रह्मेति युक्तम् ।
एवं प्राप्ते राद्धान्तः – ईक्षतिकर्म तावत् परं ब्रह्म ; ‘पुरिशयं पुरुषमीक्षते’(प्र.५.५) इति तस्येक्षतिकर्मत्वेन व्यपदेशादपरब्रह्मभावव्यावृत्तेः । न हि तस्यापरब्रह्मत्वे तथा व्यपदेशोऽर्थवान् । तल्लोकप्राप्तस्तमीक्षत इत्यस्यार्थसिद्धत्वात् । नन्वीक्षतिकर्म परं ब्रह्मेति पक्षेऽपि तथा व्यपदेशो निरर्थकः ; ब्रह्मलोकं प्राप्तास्तत्र क्रमेण परब्रह्मदर्शनं प्राप्नुवन्तीत्यस्याप्यर्थसिद्धत्वात् , अन्यथा ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’(छा.४.१५.६) इति श्रुतिविरोधादिति चेत् , मैवम् । ब्रह्मलोकं प्राप्ता नावर्तन्त इति नायं नियमः ; महाभिषक्प्रभृतीनामावृत्तिस्मरणात् , ‘इमं मानवमावर्तम्’ इति श्रुताविममिति विशेषणेन वर्तमानमन्वन्तरमात्रावृत्तिनिषेधाच्च , किन्तु यासामुपासनानां ब्रह्मलोकप्राप्तिद्वारा क्रममुक्तिफलकत्वे किञ्चित् प्रमाणमस्ति ताभिर्ब्रह्मलोकं प्राप्ता एव नावर्तन्त इति नियमः । अतोऽस्या उपासनायाः क्रममुक्तिफलकत्वज्ञापनार्थं सार्थकं ‘पुरुषमीक्षते’ इति श्रवणम् । ननु तथाऽपि ‘स सामभिरुन्नीयते ब्रह्मलोकम्’(प्र.५.५) इति ब्रह्मलोकप्राप्तिवचनं निरर्थकमनुवादमात्रमित्यवश्यमङ्गीकर्तव्यम् , ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’(छा.५.१०.१) इत्यादिश्रुत्यन्तरे सर्वासामपि परब्रह्मोपासनानां ब्रह्मलोकप्रापकत्वस्य वर्णितत्वेन तत एवास्या अपि तत्प्रापकत्वस्य सिद्धेः । तस्मादिह ब्रह्मलोकप्राप्तिवचनस्यानुवादत्वात् तद्वदिदमपि ‘पुरुषमीक्षते’ इति श्रवणं लोकाधिपतेरपरब्रह्मणो दर्शनपरं सदनुवादमात्रं स्यात् , अनुवादप्रायपाठादिति चेत् ; मैवम् । प्रणवे ब्रह्माभेददृष्टिरूपस्य प्रकृतोपासनस्य प्रतीकोपासनत्वेन श्रुत्यन्तरादस्य ब्रह्मलोकप्राप्तिफलकत्वासिद्धेः । ‘अप्रतीकालम्बनान्नयतीति बादरायणः’(ब्र.सू.४.३.६) इत्यधिकरणे प्रतीकविशेषणत्वं विना प्राधान्येन ब्रह्मोपासकानामेवार्चिरादिमार्गेण ब्रह्मलोकप्राप्तावुदाहृतश्रुतेस्तात्पर्यस्य वर्णितत्वात् । तस्मादिह ब्रह्मलोकप्राप्तिवचनं विशिष्टोपदेशरूपं नानुवादमात्रमिति ‘पुरुषमीक्षते’ इति श्रवणमपि तथैव निर्वहणीयम् । तथा निर्वाहश्चेक्षतिकर्म परं ब्रह्मेत्यभ्युपगम एव घटते, न त्वपरब्रह्मेत्यभ्युपगमे ।
अपि च श्रुतिरेव साक्षादीक्षतिविषयं पुरुषमपरब्रह्मभावाद्व्यावर्तयति ‘ एतस्माज्जीवघनात् परात्परम्’ इति । अत्र ‘एतस्मात्’ इति ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इत्यत्र लोकाधिपतित्वेन सन्निहितमपरं ब्रह्म परामृश्यते ; सर्वनाम्नां सन्निहितपरामर्शित्वस्वाभाव्यात् , तस्यैव च सन्निहिततरत्वात् । न च तत्र ततोऽपि सन्निहितो लोकः परामृश्यतामिति वाच्यम् । चेतनस्य हि चेतनान्तरादुत्कर्षवर्णनमुत्कर्षाय भवति , न त्वचेतनादुत्कर्षवर्णनम् । अतो लोकमतिक्रम्य ल्काधिपतेरेव समासे न्यग्भूतस्यापि परामर्शः ; ‘‘सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य’(क.व्य.सू.५.१.११) इति वामनसूत्रे सर्वनाम्नां कृत्तद्धितसमासरूपवृत्त्युपसर्जनपरमर्शित्वस्य व्युत्पत्तिसिद्धताया उक्तत्वात् । ननु भाष्ये ‘एतस्माज्जीवघनात्’ इत्यस्य लोकपरत्वपक्षोऽपि दर्शितः ? सत्यम् । ‘अपर आह’ इत्युपक्रमेणैव तस्मिन् पक्षेऽस्वारस्यमपि तत्रैव ध्वनितम् । तस्मादीक्षतिकर्म तावत्परं ब्रह्म । एवं च परस्य ब्रह्मण ईक्षतिकर्मत्वेन व्यपदेशात् तथा व्यपदिश्यमानः स एव परब्रह्मभूतः पुरुषो ध्यायतिकर्म ; उभयत्र ‘परं पुरुषम्’ इति श्रवणेन उभयोरैक्यप्रत्यभिज्ञानात् ।
ननु च ध्यानवाक्ये ‘परं पुरुषम्’ इति श्रूयते । ईक्षणवाक्ये ‘परात्परं पुरुषम्’ इति श्रूयते । अतो नास्ति प्रत्यभिज्ञेति चेत् ; मैवम् । ध्यानवाक्येऽपि हि परशब्दस्यापरब्रह्मापेक्षया परत्वमेवार्थः । ‘एतद्वै सत्यकाम परं चा परं च ब्रह्म यदोङ्कारः’(प्र.५.२) इत्युपक्रमे अपरब्रह्मणः सन्निहितनिर्दिष्टतया तस्यैव परभावापेक्षितप्रतियोगितयाऽन्वयौचित्यात् । ईक्षणवाक्येऽपि तस्मादपरब्रह्मण एव परत्वमुच्यत इति अस्त्येव दृढतरा प्रत्यभिज्ञा ।
ननु तथाऽपि स्थलद्वयपरामससापेक्षा प्रत्यभिज्ञा लिङ्गतो दुर्बला । अतोऽपरब्रह्मप्राप्तिलिङ्गेन ध्यायतिकर्मापरं ब्रह्म स्यादिति चेत् ; न । इदमपि लिङ्गं लिङ्गत्वसिद्ध्यर्थमुपक्रमपरामर्शसापेक्षमिति हि त्वयैव दर्शितम् । अतः कथमेवमत्र लिङ्गस्य बलवत्ताऽवकाश इति लिङ्गादिह परपुरुषश्रुतिप्रत्यभिज्ञैव बलीयसी । ननु यदि प्रत्यभिज्ञया अत्र लिङ्गबाधः , तर्ह्युपक्रमोपक्षिप्तमपरब्रह्मोपासनं तत्प्राप्तिफलकं नोक्तं स्यादिति चेत् ; नैष दोषः , किन्तु प्रकरणस्य परब्रह्मोपासनामात्रपरतयैकवाक्यतापादकत्वात् गुण एव ।
ननु तथाऽपि एकमात्रद्विमात्रोपासनाविधिसत्त्वाद्वाक्यभेदोऽवश्यमाश्रयणीयः । अतो वाक्यभेदस्यापरिहार्यत्वात् , उपक्रमे अपरब्रह्मोपासनोपक्षेपस्य वैयर्थ्यप्रसङ्गाच्चापरब्रह्मोपासनाविधिरपि क्वचिदाश्रयणीयः । स चात्रैव स्यात् ; तल्लोकावाप्तिलिङ्गसत्त्वात् । दुर्बलस्यापि लिङ्गस्य ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेनात्र बलवत्त्वादिति चेत् , न । सर्वस्यापि परब्रह्माभेददृष्टिविशिष्टात्रिमात्रोपासनाविध्यर्थवादतयाऽन्वयेनानर्थक्यस्यैकवाक्यताभङ्गस्य चाप्रसरात् । तथा हि. ओङ्कारस्यायं महिमा , यदपरब्रह्मतयोपास्यमानोऽपि तत्प्राप्तिफलको भवति । मात्रावैगुण्येनोपास्यमानोऽपि मनुष्यलोकान्तरिक्षलोकप्राप्तिफलको भवति । तस्मादेवंभूतमहिमाऽयमोंकारो हेयमल्पफलमपरं ब्रह्म विहाय परब्रह्मतया त्रिमात्र एवोपासनीय इत्येवमेकवान्यतया सर्वस्याप्यर्थवत्त्वसम्भवे वाक्यभेदाश्रयणं न युक्तम् । तस्मादेकवाक्यतासाकाङ्क्षपरब्रह्मप्रकरणानुगृहीतश्रुतिप्रत्यभिज्ञाबलादीक्षतिकर्म पुरुष एव ध्यायतिकर्म , ईक्षतिध्यायत्योः एकविषयत्वनियमाच्च । यद्यप्यन्यध्यानमपि अन्येक्षणजनकम् , तथाऽपि तददृष्टद्वारकम् । समानविषयत्वे त्वीक्षणध्यानयोः कार्यकारणभावो दृष्टद्वारकः ;कामिनीं भावयतः कामिनीसाक्षात्कारदर्शनात् । न चात्र दृष्टद्वारसम्भवे अदृष्टद्वारमाश्रयणीयम् । एतेन – ध्याने प्रणवानुप्रवेशाद्विषयैक्यं नास्तीति शङ्काऽपि निरस्ता । भावनाप्रचयस्य साक्षात्कारजनकत्वे हि तद्विषयविषयत्वं तन्त्रम् , न तु तदन्याविषयत्वमपि ; गौरवात् । तस्मादीक्षणध्यानयोरेकविषयत्वनियमादपीक्षतिकर्म पुरुष एव ध्यायतिकर्म ।
अत्र दर्शितस्य सर्वस्यापि सिद्धान्तस्य सूत्रारूढत्वमुपपाद्यते । ईक्षतिकर्म परं ब्रह्म ; ईक्षतिकर्मव्यपदेशात् । ‘पुरुषमीक्षते’ इतीक्षतिकर्मत्वव्यपदेशादित्यर्थः । हेतावपेक्षितोऽपि त्वप्रत्ययः पक्षसमर्पकतया ‘ईक्षतिकर्म’ इत्यस्य पृथक्पदत्वमप्यस्तीति ज्ञापनार्थं न प्रयुक्तः । नन्वीक्षतिकर्मत्वव्यपदेशोऽपरब्रह्मण्यपि घटते ; तल्लोकं प्राप्तेन तस्य द्रष्टुं शक्यत्वादिति हेतूपमर्दशङ्कायां ‘अन्यभावव्यावृत्तेः’((ब्र.सू.१.३.१२) इति पूर्वाधिकरणसूत्रमनुषञ्जनीयम् । यतस्तल्लोकं प्राप्तस्य तद्दर्शनमर्थसिद्धम् अतस्तदुपदेशो व्यर्थः स्यादिति तदुपदेशारम्भसामर्थ्यादीक्षतिकर्मणः पुरुषस्यापरब्रह्मभावाद्व्यावृत्तेरित्यर्थः । अपरब्रह्मव्यावर्तकविशेषणश्रवणादपीक्षतिकर्म परं ब्रह्मेति हेत्वन्तरेऽपि ‘अन्यभावव्यावृत्तेः’ इति सूत्रमनुषञ्जनीयम् । तत्रेक्षतिकर्मणोऽपरब्रह्मभावव्यावर्तकतत्परत्वविशेषणसत्त्वादित्यर्थः । अस्मिन् पक्षे व्यावृत्तिशब्दो ण्यर्थान्तर्भावेण व्यावर्तकपरः । एवमीक्षतिकर्मणः परब्रह्मभावे सिद्धे तदेवेक्षतिकर्म ध्यायतिकर्मेत्यत्र साध्ये ध्यायतिकर्मणाऽर्थात् परब्रह्मभावसिद्धिफलके पक्षो हेतुश्चेत्युभयं ‘स’ इत्यनेन प्रदर्श्यते । तत्रेक्षतिकर्मणि पक्षे तदिति नपुंसकनिर्देशं विहाय पुंल्लिङ्गनिर्देश ईक्षणवाक्यस्थपुरुषपदानुसारेण । तदनुसारश्च परपुरुषश्रुतिप्रत्यभिज्ञारूपहेतुप्रदर्शनार्थः । ध्यायतिकर्मेऽति साध्यं त्वौचित्यादध्याहर्तव्यम् । ईक्षणध्यानविषययोरेकत्वरूपहेतुप्रदर्शनार्थः । ध्यायतिकर्मेति साध्यं त्वौचित्यादध्याहर्तव्यम् । ईक्षणध्यानविषययोरेकत्वरूपहेतुप्रदर्शनार्थः । ध्यायतिकर्मेति साध्यं त्वौचित्यादध्याहर्तव्यम् । ईक्षणध्यानविषययोरेकत्वरूपहेतुप्रदर्शनार्थं तु ‘अन्यभावव्यावृत्तेश्च’ इति कृत्स्नसूत्रमनुषञ्जनीयम् । ध्यायतीक्षतिकर्मणोऽर्भिन्नत्वे ध्यानस्यादृष्टद्वाराश्रयणप्रसङ्गेन तयोर्भिन्नत्वव्यावृत्तेरित्यर्थः । चकारस्स इति पक्षनिर्देशेनैवैकस्मिन् हेतौ लब्धे इदं हेत्वन्तरमिति ज्ञापनार्थः ॥१.३.१३॥
इति ईक्षतिकर्माधिकरणम् ॥४॥
दहर उत्तरेभ्यः ॥१४॥
१४छान्दोग्ये श्रूयते । ‘अथ यदिदमस्मिन्न्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ , इति ‘तं चेत् ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम्’(छा. ८.१.३) इत्यादि । अत्र दहराकाशो भूताकाशः , परं ब्रह्म वेति लौकिकरूढिश्रौतनिरूढिभ्यां संशये रूढेः प्रबलत्वादाकाशश्रुतिबलात् भूताकाश इति पूर्वःपक्षः ।
ननु दहराकाशस्य भूताकाशत्वे ‘यावान्वा’ इत्यादौ तस्य भूताकाशोपमेयनिर्देशो नोपपद्यते । तथा हि – अभेदे उपमानोपमेयभावनिर्देशो द्वेधा, उपमानभावे च परस्परव्यावर्तकाविशेषेणरहितः , तत्सहितश्च । तत्राद्योऽनन्वयालङ्कारविषयः , यथा –
‘गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव’(रामा.यु.का.१०७.५०) । इह गगनादीनां गगनादिभिः सादृश्यं निबध्यमानमुपमानोपमेयभेदापेक्षं सत् वास्तवस्य तद्भेदस्याभावाद्विशेषणोपाधिकृतस्य च तस्य परस्परव्यावर्तकविशेषणप्रयोगाभावादप्रतीतेः नान्वेतीत्यन्वर्थनामाऽनन्वयः । अनन्वयिनोऽपि स्वमहिमप्रतिष्ठात्वस्येव स्वसादृश्यस्य निबन्धनमन्यस्य प्रतिष्ठावस्तुन इव उपमानस्याभावद्योतनाय । एवं गगनस्य वैपुल्ये गगनमेवोपमानं नान्यदित्येवमादिप्रकारेणानुपमत्वद्योतनफलतयोत्कर्षावहः काव्यशोभाकर एव ‘गगनं गगनाकारम्’ इत्यादिप्रयोगः , न त्वगत्या कथञ्चिन्निर्वहणीयः । द्वितीयस्तूपमाप्रभेदः यथा –
‘उपाददे तस्य सहस्ररश्मिः त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे’ ।(कु.मा.७.४१)
अत्रोपमानस्य शिवस्यैवोपमेयत्वेऽप्युत्तमाङ्गपतद्गङ्गाप्रवाहत्वच्छत्रदुकूलसन्निकृष्टमौलित्वरूपविशेषणोपाधिकृतभेदसत्त्वान्निबध्यमानं सादृश्यमन्वेतीति नानन्वयः , किन्तूपमाप्रभेदः । एवं च सति अत्र दहराकाशस्य भूताकाशत्वे तस्यैव तदुपमेयत्वानिर्देशोऽयमनन्वयरूपो वा स्यात् , उपमाप्रभेदरूपो वा । नाद्यः , ‘अयम्’ इति, ‘एषोऽन्तर्हृदय’ इति च बाह्यत्वान्तरत्वरूपपरस्परव्यावर्तकविशेषणश्रवणात् । न च ‘अयम्’ इत्यनेनाप्यान्तरस्यैव निर्देशोऽस्त्विति वाच्यम् । तथा सति आक्षेपबीजतया श्रोतृबुद्धिस्थस्य सौक्ष्म्यस्यैव यावानित्यनेन परामर्शनीयतयाऽनन्वयस्य निरुपमसोय्क्ष्म्यपर्यवसायित्वापत्तेः । न चेष्टापत्तिः ; इह कृताक्षेपसमाधानलाभाय वैपुल्यप्रतिपादनस्यैवापेक्षितत्वात् । आक्षेपप्रकारस्त्वग्रे स्पष्टीभविष्यति । न द्वितीयः ; आन्तरस्य बाह्यवद्व्यापकत्वाभावात् । न च – हृदयपुण्डरीकावच्छिन्नाकाशस्य सूक्ष्मत्वेऽपि हृदयपुण्डरीकान्तर्गतान्तःकरणप्रतिबिम्बरूप आकाशो बाह्याकाशवद्व्यापको भवेत् , उपाधेः सौक्ष्येऽपि प्रतिबिम्बस्य बिम्बसमानरूपपरिमाणताया जानुदघ्नकूपजलगतदूरविशालाकाशप्रतिबिम्बे दर्शनात् – इति वाच्यम् । शरीरव्यवहितस्य बाह्याकाशस्य हृदयपुण्डरीकप्रविष्तेऽन्तःकरणे प्रतिबिम्बासम्भवात् । तस्माद्दहराकाशः परमात्मेति युक्तम् ।
तथा सति ‘आकाशवत् सर्वगतः’ इति श्रुत्यामिवात्रापि तस्य भूताकाशोपमेयत्वं युज्यते ; हृदयावच्छिन्नरूपेण तस्य व्यापकत्वाभावेऽपि स्वरूपेण व्यापकत्वात् । न च स्वरूपेण व्यापकतामात्रविवक्षायां ‘एषोऽन्तर्हृदये’ इति तद्विशेषणस्य व्यापकतावच्छेदकत्वेनान्वयाभावान्निष्प्रयोजनत्वं दोषः ; स्वरूपकथनार्थत्वोपपत्तेः । ‘एष म आत्माऽन्तर्हृदये अणीयान्व्रीहेर्वा यवाद्वा’(छा.३.१४.३) इत्यादिश्रुतौ ब्रह्मणो हृदयावच्छेदोपाधिकाणीयस्त्वोक्त्यनन्तरं ‘एष म आत्माऽन्तर्हृदये ज्यायान् दिवो ज्यायानन्तरिक्षात्’(छा.३.१४.३) इत्यादि स्वाभाविकव्यापकत्वोक्तावपि ‘अन्तर्हृदये’ इति विशेषणदर्शनात् ‘अयम्’ इति विशेषणस्य भूताकाश उपमानमिति उपमानविशेषलाभार्थतयेव प्रकृतः परब्रह्मरूपदहराकाश उपमेय इति उपमेयविशेषलाभार्थतया तस्य सप्रयोजनत्वाच्च ।
अपि च वाक्यशेषे ‘एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’(छा.८.१.५)इत्यात्मश्रुतिरपहतपाप्मत्वादीनि ब्रह्मलिङ्गानि च श्रूयन्ते ।
तथा ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्यएतं ब्रह्मलोकं न विन्दन्ति’(छा.८.३.२) इति जीवानामहरहराकाशप्राप्तिः श्रूयते । सापि ब्रह्मलिङ्गम् ; ‘सता सोम्य तदा सम्पन्नो भवति’(छा.८.८.१) इति श्रुत्यन्तरे जीवानां सुषुप्तौ ब्रह्मसम्पत्तिश्रवणात् । ब्रह्मलोकशब्दश्च तत्र श्रूयते । सोऽपि ब्रह्मणि व्यवतिष्ठते, ब्रह्मैव लोक्यमानतया लोक इति व्युत्पत्तेः ; निषादस्थपतिन्यायेन षष्ठीसमासात् कर्मधारयस्य ज्यायस्त्वात् ; जीवानामहरहश्चतुर्मुखलोकगमनाभावेन षष्ठीसमासासम्भवाच्च ।
तथा ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय’(छा.८.४.१) इति दहराकाशस्य जगद्विधारकत्वमुच्यते । तदपि ब्रह्मलिङ्गम् ; ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) इति श्रुत्यन्तरदर्शनात् । न चैषामुदाहृतश्रुतिलिङ्गानां दहराकाशादन्यत्रान्वयः शक्यशङ्कः ; ‘एष आत्मा’ इत्यादि वाक्यश्रुतपुंल्लिङ्गैकवचनान्तैतदादिशब्दपरामर्शयोग्यस्यान्यस्य प्रकृतस्याभावात् । ‘उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’(छा.८.१.३) इति दहराकाशस्य , ‘अस्मिन् कामास्समाहिताः’ इति अपहतपाप्मत्वादिगुणकस्यात्मनश्च समाधानाधारत्वेनैक्यप्रत्यभिज्ञानाच्च । तस्मादुपक्रमगताया अप्येकस्या आकाशश्रुतेर्वाक्यशेषगतानि बहूनि श्रुतिलिङ्गानि बलवन्तीति तैर्दहराकाशः परं ब्रह्मेति युक्तम् । आकाससब्दस्य श्रुत्यन्तरेषु तस्मिन्नपि प्रसिद्धत्वात् । अपि च ‘ब्रह्मपुरे’ इत्युपक्रमानुसारेणापि दहराकाशः परं ब्रह्मेति लभ्यते । देहस्य ब्रह्मपुरत्वोक्त्यैव देहान्तर्वर्तित्वेन ब्रह्मोपासनाविधित्सयेदं प्रकरणमारभ्यत इत्यवगमात् ।
स्यादेतत् – ‘चैत्रगृहे मैत्रस्तिष्ठति’ इत्यन्यगृहत्वेन निर्दिष्टेऽप्यन्यावस्थानमुच्यते , तथेहाप्यस्तु । न च वाच्यम् – तत्र ‘मैत्र’ इति विशिष्याधेयनिर्देशात्तथा भवतु नाम , इह त्वनिर्दिष्टाधेयविशेषे वाक्ये तद्विशेषाकाङ्क्षायां यस्य पुरत्वेन देहो निर्दिष्टः , तत् ब्रह्मैवाधेयविशेषत्वेन सम्बन्धुं युक्तम् – इति । अत्राप्याकाशश्रुत्या विशिष्य भूताकाशस्याधेयत्वेन निर्दिष्टत्वात् , इति चेत् ; मैवम् । इह ब्रह्मपुरत्वेन देहोक्तेर्देहान्तर्वृत्तिब्रह्मोपासनाविधित्साऽभावे वैयर्थ्यप्रसङ्गात् । न हि मैत्रान्वेषिणं प्रति ‘चैत्रगृहे मैत्रस्तिष्ठति’ इति वाक्ये चैत्रगृहत्वोक्तिः देवदत्तगृहादिव्यावर्तनेनेवात्र ब्रह्मपुरत्वोक्तिः प्रकारान्तरेण साफल्यमश्नुवीत । तस्माद्यथा ‘प्रजापतिर्वरुणायाश्वमनयत्’ इत्याद्युपक्रमगतार्थवादेन अश्वदातुः किञ्चिद्विधास्यत इत्यवगमात् तदनन्तरश्रुतं ‘यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वरुणांश्चष्कपालान्निर्वपेत्’ इति वाक्यमश्वप्रतिग्रहीतुरिष्टिविधायकतयाऽवभासमानमप्यश्वदातुस्तद्विधायकमिति योज्यते , एवमिहाप्युपक्रमे देहस्य ब्रह्मपुरत्वोक्त्या देहस्यान्तःकिञ्चित् (क.चित्) ब्रह्मोपासना विधास्यत इत्यवगमात् तदनन्तरश्रुतं दहराकाशवाक्यं भूताकाशप्रतिपादकतयाऽवभासमानमपि ब्रह्मप्रतिपादकमिति योजनीयम् । तस्मान्निरालम्बनो भूताकाशपूर्वपक्ष इति चेत् ; अत्र ब्रूमः –
’यावान्वा अयमि’त्यादौ बाह्याभ्यन्तरभेदतः ।
उदमानोपमेयत्वं भूताकाशे समञ्जसम् ॥
सूक्ष्मेऽप्यभ्यन्तराकाशे वैपुल्यमुपपद्यते ।
मानसं मानसार्थानां समाधानाय काङ्क्षितम् ॥
यच्चास्येत्यत्र पित्राद्या व्र्ण्यास्सङ्कल्पसम्भवाः ।
साकं द्यावापृथिव्याद्यैस्ते स्वाप्ना इव मानसाः ॥
नैवात्र दहराकाशः श्रुत्योपास्यो विधीयते ।
किन्तत्वन्तर्वृत्ति तस्यान्यदिदं श्रुत्यैव दर्शितम् ॥
तत्र द्यावापृथिव्यादिवर्ण्यवस्तुकरम्बिते ।
ब्रह्मण्यशेषाधिष्ठाने ब्रह्मश्रुत्यादिसङ्गतिः ॥
तथा हि – ‘यच्चास्येहास्ति’ इत्यादेरयमर्थः – यदस्य देहिनः इह लोके विद्यते , यच्चेह लोके इदानीं न विद्यते नष्टं भविष्यद्वा , तत्सर्वमस्मिन् दहराकाशे समाहितमिति । तच्चात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्याग्रे ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’(छा.८.२.१) इत्यादिना वर्णयिष्यमाणं स्वसङ्कल्पसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिदृक्षितपितृभ्रातृपुत्रकलत्रगीतवादित्रादिभोग्यवस्तुजातरूपम् ; अग्रे ‘यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते अथ ये चास्य जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते’(छा.८.३.१,२) इति श्रुत्यैव तथा विवृतत्वात् । तच्च ब्राह्मलौकिकं सङ्कल्पजपित्रादिभोग्यजातं न स्थूलपार्थिवाप्यादिरूपम् , किन्तु स्वप्नदृष्टस्त्रीपुरुषादिवन्मनोविकारात्मकम् । अत एव ‘मनसैतान् कामान् पश्यन्रमते य एते ब्रह्मलोके’(छा.८.१२.५.१) इति तस्य मनोमात्र भोग्यत्वश्रुतिः , मनोमयानि ब्रह्मलोके शरीरादीनि’ इति पुराणञ्च । एवञ्च तत्प्रायपाठात् द्यावापृथिव्यादिकमपि दहरोपासकस्य स्त्र्यन्नपानगीतवादित्रादिवत् भोगोपयुक्तं मानसमेव ग्राह्यमिति तस्य सर्वस्याप्यन्तस्समाधानाय दहराकशस्य बाह्याकाशवत् व्यापकत्वमपि मानसमेवापेक्षितम् । तदेव स्वल्पापवरकदेशनिद्राणपुरुषदृश्यमानै कैककोणविश्रान्तानेकगिरिनदीसमुद्रादियुक्ताकाशवैपुल्यवत् मुहूर्तमात्रशयितपुरुषानुभूयमानविवाहपुत्रोत्पादन तदुपलालनाद्यनेकव्यापारयुक्तस्वाप्नकालदैर्घ्यवच्च वास्तवसूक्ष्मत्वाविरोधि ‘यावान्वा’ इत्यादिना वर्ण्यत इति किमत्रासमञ्जसम् ?
ननु द्यावापृथिव्यादिकमिह वर्ण्यमानं मानसञ्चेत्तत्स्वप्नदृष्टगिरिसमुद्रादिवद्वस्तुतः सूक्ष्मेऽपि मातुं शक्नोतीत्येव शिष्याणामाक्षेपे परिहर्तुं शक्ये किमर्थं प्रातिभासिकवैपुल्याभिप्रायेण ‘यावान्वा अयम्’ इत्युक्तमिति चेत् ; सत्यम् । वस्तुतः सूक्ष्म एवास्य द्यावापृथिव्यादेः समाधानमुपपादयितुं शक्यमिति । अत एव तैत्तिरीयोपनिषदि ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’(महानारा.११.९) इति सूक्ष्म एव हृदयसुषिररूपे भूताकाशे सर्वस्य समाधानमुक्तम् । छान्दोग्यभाष्ये च सूक्ष्मे दहराकाशे समाधानान्यथानुपपत्त्यैव ब्राह्मलौकिकपित्रादिभोग्यजातस्य मानसत्वं प्रसाधितम् । तथाऽप्यत्रात्यल्पीयसो दहराकाशस्यान्तरतिसूक्ष्ममपि वस्तूपास्यं न सम्भवतीत्याक्षिप्तवतां शिष्याणां हृदि अतिविपुलं द्यावापृथिव्यादिकं तदन्तः समाहितमित्युत्तरं न प्रविशेदिति मत्वा यक्षानुरूपबलिन्यायेन मनोविकारमनोविकाररूपद्यावापृथिव्यादिसमाधानोचितं मनोविकाररूपमेव वैपुल्यं दर्शितमित्युपपद्यतेतराम् ।
अवाश्यञ्च दहराकाशः परं ब्रह्मेति वदताऽपि ‘यावान्वा अयमाकाशः’ इत्यादिना दहराकाशस्य सूक्ष्मत्वविरोधि मनोविकारात्मकं वैपुल्यं वर्णितमित्ययमेव पन्थाः समाश्रयणीयः । कथम् ? तेन खल्वाकाशशब्दस्य ब्रह्मणि गौणी वृत्तिरेष्टव्या । तस्याश्च ‘आकाशवत् सर्वगतः’ इति श्रुत्यन्तरप्रसिद्धभूताकाशसादृश्यं निमित्ततयाऽवतिष्ठते । तथाचोपमेयनिर्देशकेनाकाशशब्देनैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु ? न हि ‘यत् भूताकाशवद्व्यापकं ब्रह्म तत् भूताकाशसादृश्यं निमित्ततयाऽवतिष्ठते । तथाचोपमेयनिर्देशकेनाकाशशब्देनैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु ? न हि ‘यत् भूताकाशवद्व्यापकं ब्रह्म तत् भूताकाशवद्व्यापकम्’ इति वाक्यं समञ्जसं भवति, किन्तु ‘गङ्गायां घोषः’ इति लाक्षणिकेन गङ्गापदेनैव तीरस्य गङ्गासम्बन्धित्वे लब्धे ‘गङ्गाया गङ्गायां घोषः’ इति प्रयोगवदसमञ्जसमेव भवेत् । तस्मात् ब्रह्मणस्स्वरूपेण भूताकाशवद्व्यापकत्वे ‘आकाशवत्सर्वगतः’ इति श्रुतिप्रतिपादिते गौणेनाकाशपदेन बोध्यमानेऽपि हृदयपुण्डरीकावच्छिन्नरूपेणापि तद्वापकत्वं प्रतिपादयितुं ‘यावान्वा’ इत्यादिवाक्यम् । यथा ‘अमावास्यायाममावास्यया यजेत’ ‘पौर्णमास्या यजेत’ इति वाक्ययोराग्नेयादीनां षण्णां यागानां स्वरूपेणामावास्यापौर्णमासीकालकर्तव्यत्वे तत्तदुत्पत्तिवाक्यविहिते तेषु गौणाभ्यां तृतीयान्तामावास्यापौर्णमासीपदाभ्यां बोध्यमानेऽपि तेषां त्रिशस्त्रिशः प्राच्योदीच्यसकलाङ्गसाहित्येनापि तत्तत्कालकर्तव्यत्वं प्रतिपादयितुं तद्वाक्यद्वयमित्येव समर्थनीयम् ।
अत एवैकादशे तस्य वाक्यद्वयस्य साफल्यं तथैव समर्थितम् – तद्वाक्यद्वयाभावे ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति वाक्येनैकफलसाधनत्वेन बोधितानां षण्णां यागानां प्रयोगैक्यस्यौत्सर्गिकत्वात् पौर्णमास्यां प्राच्यांगानुष्ठानपूर्वकं पौर्णमासत्रिकमनुष्ठाय अमावास्यायां प्राप्तायाममावास्यात्रिकमनुष्ठायोदीच्यांगसमापनं कर्तव्यं प्रसज्येत इति । आचार्यवाचस्पतिनाऽपि ब्रह्मण्याकाशपदस्य गौणत्वे तेनैव भूताकाशवद्व्यापकत्वस्य लब्धतया पुनस्तत्र वाक्येन तत्प्रतिपादनमनन्वितमित्याशंक्य ‘तत्किमिदानीं पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायाममावास्ययेत्यसाधुर्वैदिकप्रयोगः ? इति वदता तद्वाक्यद्वयदृष्टान्तावष्टम्भेन ब्रह्मणः स्वरूपेण भूताकाशवद्व्यापकत्वे गौणपदलब्धेऽपि हृदयावच्छिन्नरूपेणापि तद्व्यापकत्वं प्रतिपादयितुं ‘यावान्वा’ इत्यादि वाक्यमित्येव दर्शितम् । एवञ्च हृदयावच्छिन्नरूपेण सूक्ष्मस्य ब्रह्मणस्तेनैव रूपेण वैपुल्यं मानसपदार्थसमाधानोचितं मानसं वर्णितमित्येव सिद्धान्तिनाऽप्युपपदनीयं गत्यन्तराभावादित्यलं विस्तरेण ।
‘एष आत्मा अपहतपाप्मा’ इत्यादिवाक्यशेषगतब्रह्मलिङ्गानां तु न दहराकाशेऽन्वयः , किन्तु तस्यान्तरुपास्यत्वेन निर्दिष्टं यत् द्यावापृथिव्यादि तदवच्छिन्ने , तत्प्रतीके वा ब्रह्मण्यन्वयः । द्यावापृथिव्यादिसमाधानोपन्यासानन्तरं ‘एतत् सत्यं ब्रह्मपुरम्’ इति प्रकृतद्यावापृथिव्यादिपरैतत्पदसमानाधिकरणेन ‘सत्यं ब्रह्मपुरम्’ इत्यनेन द्यावापृथिव्याद्यवच्छिन्नं , तत्प्रतीकं वा ब्रह्म निर्दिश्य ‘अस्मिन्कामास्समाहिताः’ इत्युपासकस्य कमनीयानां केषाञ्चित् गुणानां ब्रह्मणि समाधानमुक्त्वा तदनन्तरं ‘एष आत्माऽपहतपाप्मा’ इत्यादिना तेषां गुणानामपहतपाप्मत्वादिरूपतया विवृतत्वात् । ननु ‘एतत् सत्यं ब्रह्मपुरम्’ इत्यत्र एतत्पदं दहराकाशपरामर्शि, ‘उभे अस्मिन्द्यावापृथिवी’ इत्यादिप्राचीनवाक्येषु सर्वनाम्नां तत्परामर्शित्वदर्सनात् ; ‘एतत्’ इति नपुंसकलिङ्गस्य सत्यब्रह्मपुरशब्दसामानाधिकरण्यानुरोधेन सङ्गतत्वात्तस्य द्यावापृथिव्यादिपरामर्शित्वे एकवचनानुपत्तेश्च । तस्मात् ‘सत्यं ब्रह्मपुरम्’ इत्यारभ्य श्रुतानां सर्वेषां ब्रह्मलिङ्गानां दहराकाश एव समन्वय इति चेत् ; मैवम् । ‘उभे अस्मिन्’ इत्यादिवाक्येषु प्राधान्येन प्रथमाविभक्त्या निर्दिष्टस्य द्यावापृथिव्यादेरेव ‘प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्च्छत्’ इत्यत्र प्रजापतेरिव सर्वनाम्ना परामर्ष्तुं युक्तत्वात् । तस्य द्यावापृथिव्यादिपरामर्शित्वेऽपि ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’ इति व्याकरणानुशिष्टस्य नपुंसकलिङ्गस्यैकवचनस्य चोपपत्तेः , ‘सर्वं तदस्मिन् समाहितम्’ इत्यन्तेन दहराकाशे द्यावापृथिव्यादिसमाधानोपन्यासानन्तरं प्रवृत्ते ‘तञ्चेत् ब्रूयुः अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैनज्जरा वाऽऽप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’ इत्याक्षेपतदुत्तरसन्दर्भे श्रुतयोः ‘एतत्’ इति पदयोर्नपुंसकलिङ्गसामानाधिकरण्याभावेन शरीरनाशात्तदाश्रितमूर्तद्रव्यजातस्येव तदवच्छिन्नस्याकाशस्य हानिशङ्कानुदयेन च दहराकाशपरामर्शित्वस्यानुपपन्नतया अस्मदुक्तरीत्या द्यावापृथिव्यादिपरामर्शित्वस्यावश्यवक्तव्यत्वेन तदनन्तरश्रुत ‘एतत्सत्यं ब्रह्मपुरम्’ इति वाक्यगतैतत्पदस्यापि तत्परामर्शित्वस्यैवाङ्गीकर्तव्यत्वाच्च ।
यत्तु ‘अस्मिन् कामास्समाहिताः’ इति समाधानाधारत्वप्रत्यभिज्ञया दहराकाशस्य ब्रह्मपुरशब्दोदितस्य ब्रह्मणश्चैक्यमवगम्यते इति , तत्तुच्छम् ; प्रकृतपरामर्शकसर्वनामानुसारेण भेदेऽवगम्यमाने समाधानाधारत्वप्रत्यभिज्ञामात्रस्याकिञ्चित्करत्वात्, अन्यथा ‘यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ इत्यत्र ‘ब्रह्मपुरे’ इति ‘अस्मिन्’ इति च सप्तमीनिर्दिष्टाधारप्रत्यभिज्ञया ब्रह्मपुरदहरपुण्डरीकयोरप्यैक्यप्रसङ्गात् । तस्माद्युक्तमुक्तं वाक्यशेषगतब्रह्मश्रुतिलिङ्गानां द्यावापृथिव्याद्यवच्छिन्ने , तत्प्रतीके वा ब्रह्मण्यन्वय इति । एवञ्च – उपक्रम एव देहस्य ब्रह्मपुरत्वोक्त्या ब्रह्मोपासनाविधित्साऽवगमाद्दहराकाशो ब्रह्मेत्यवगम्यत इत्येतदपि निरस्तम् ; दहराकाशस्योपास्यत्वेनानिर्दिष्टत्वात् । तदन्तरुपास्यत्वेन निर्दिष्टं यद्द्यावापृथिव्यादि तदुपासनस्य ब्रह्मोपासनरूपतायाः समर्थितत्वाच्च । एवमेतेषां ब्रह्मश्रुतिलिङ्गानां पूर्वपक्षे दहराकाशान्तरुपास्यान्वयेन साङ्गत्यमभिप्रेत्योक्तं भाष्ये ‘न चात्र दहरस्याकाशास्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वञ्च श्रूयते ; तस्मिन् यदन्तरिति परविशेषणत्वेनोपादानात्’ इति ।
यदि चैतेषां ब्रह्मश्रुतिलिङ्गानां दहराकाश एवान्वयो वक्तव्यः, तदाऽपि नानुपपत्तिः ; उपक्रमगताभ्यस्ताकाशश्रुत्यनुसारेण ब्रह्मात्मश्रुतीनां बृहत्त्वात्तत्त्वयोगेन भूताकाशे वृत्त्युपपत्तेः ; उपास्यस्य भूताकाशस्य ब्रह्मात्मशब्दाभ्यां परब्रह्मरूपतया स्तुत्युपपत्तेश्च । ‘यद्वै तत् ब्रह्मेति इदं वाव तत् योऽयं बहिर्द्धा पुरुषादाकाशः । यो वै स बहिर्द्धा पुरुषादाकाशोऽयं वाव स यो यमन्तःपुरुष आकाशः । यो वै सोऽन्तःपुरुष आकाशोऽयं वाव स योऽयमन्तर्हृदय आकाशः । यो वै सोऽन्तर्हृदय आकाशस्तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद’(छा.३.१२.७.९) इति श्रुतौ पूर्णत्वादिगुणेन उपास्यस्य भूताकाशस्यैव ‘यद्वै तत् ब्रह्मेतीदं वाव तत्’ इति ब्रह्मरूपतया स्तुतिदर्शनात् । अपहतपाप्मत्वं अपहतो निरस्तः जीवस्य पाप्मा येन यस्मिन्निति वा व्युत्पत्त्या हृदयान्तर्गते भूताकाशेऽप्युपपद्यते ; ‘तद्यत्रैतत् सुप्तस्समस्तस्संप्रसन्नस्स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तन्न कश्चन पाप्मा स्पृशति’(छा.८.६.३) इति नाडीमार्गेण हृदयावकाशं प्रविष्तस्य जीवस्य पाप्मास्पर्शश्रवणात् । एतावतैव ‘दह्रं विपाप्मं परवेश्मभूतं यत् पुण्डरीकं पुरमध्यसंस्थम्’(महानारा.१०.७) इति दहरपुण्डरीकेऽपि विपाप्मत्वोक्तिदर्शनात् । ‘विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः’(छा.८.१.५) इत्यचेतने भूताकाशे जराद्यप्रसक्तेरुपपद्यते ।
एतेषामप्रसक्तप्रतिषेधरूपत्वं ब्रह्मान्वयपक्षेऽपि वक्तव्यमेव ; ‘अपहतपाप्मा’ इत्यस्य तस्मिन्पक्षे सर्वपाप्मोदितत्वपरतया पापराहित्योक्त्यैव पापमूलजराद्यभावस्याप्यर्थतस्सिद्धत्वात् , अत्रैव प्रकरणे ‘नैनं सेतुमहोरात्रे र्तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मनोऽतो निवर्तन्ते’(छा.८.४.१) इति पाप्मशब्दस्य जरादिसाधारणतया विवृतत्वेन ‘अपहतपाप्मा’ इत्यनेन जराद्यभावस्य शब्दतोऽपि सिद्धत्वाच्च । ‘सत्यकामस्सत्यसङ्कल्पः’ इति च सति ब्रह्मणि कामनासङ्कल्पराहित्येन घटते; तयोर्निषेधरूपगुणप्रायपाठेन निषेधरूपत्वस्योचितत्त्वात् । अहरहर्गतिश्रवणमपि तस्मिन्हार्दे भूताकाशे सङ्गच्चते ; सुषुप्तौ जीवानां हृदयपुण्डरीकावकाशप्रवेशसत्त्वात् । ब्रह्मलोकशब्दोऽपि ब्रह्मोपलब्धिस्थाने तस्मिन्नुपपद्यते ; लोक्यतेऽस्मिन्निति व्युत्पत्त्या लोकशब्दस्योपलब्धिस्थानपरत्वात् । विधारकत्वं तु स्वरूपेण भूताकाशस्याक्षरब्राह्मणोदितं विशिष्य च हृदयावच्छिन्नरूपेणात्रैव ‘उभे अस्मिन्द्यावापृथिवी’ इत्यादिना प्रतिपादितं तस्मिन्नुपपद्यत इति स्पष्टमेव । देहस्य ब्रह्मपुरत्वेन उपक्रमस्तु देहान्तर्वर्तिहार्दभूताकाशोपास्तिविधित्सायामपि जाह्नवीतीरमृत्तिकोक्तिन्यायेन तस्यैव स्तुत्यर्थतयोपपद्यते । ‘तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ८.४.३) इत्यादिवाक्यशेषोक्तं महाफलमपि वचनबलात् भूताकाशोपासनस्य युज्यते । पूर्वाधिकरणे प्रतीकोपासनस्य वचनबलेन सर्वपापनिर्द्धूननपूर्वकब्रह्मलोकप्राप्तिद्वारकपरममुक्तिफलकत्वस्योक्तत्वात् । तस्मात् भूताकाश एव दहर इति ।
एवं प्राप्ते राद्धान्तमाह – ‘दहर उत्तरेभ्यः’ – स्दहराकाशः परमात्मा उत्तरेभ्यस्तदीयश्रुतिलिङ्गेभ्यः । न च तेषां दहराकाशानन्वयः शङ्कनीयः ; पूर्वसन्दर्भस्वारस्यानुरोधेनापततस्तदन्वयस्यापरिहार्यत्वात् । तथा हि – उपासकभोगस्थानभोगोपकरणभोग्यजातरूपद्यावापृथिव्यादिसर्वसमाधानोक्त्यनन्तरं प्राक् ब्रह्मपुरशब्देनोक्ते देह एव तस्य सर्वस्य समाधानमुक्तमापाद्य देहे जीर्णे , नष्टे वा, जीर्णे कुसूलादौ भारधारणाक्षमे तदन्तर्निहितं व्रीह्यादिकमिव , नष्टे घटे तदन्तर्निहितं दध्यादिकमिव च तत्किमपि नावतिष्ठेतेत्यन्तेवासिभिराक्षिप्तम् । तत्र दहराकाशे वर्णितं सर्वसमाधानं देह एव वर्णितमिति आपादनस्य द्वेधाऽभिप्रायः सम्भायते – यथा घटाद्यन्तराकाशे निहितस्य दध्यादेर्वस्तुतो घटादिरेव धारकः , आकाशः परमवकाशात्मनोपकरोति, एवमिहापि दहराकाशस्य स्वतःसर्वधारकत्वेऽपि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसत्वाद्यावद्देहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देह एव तस्य सर्वस्य धारकः पर्यवस्यति इति वा ; यथा राजानुसार्यैश्वर्यदारिद्र्येण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति इति वा ; यथा राजानुसार्यैश्वर्यदारिद्र्येण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति तद्वदिति वा । तत्र द्वितीयाभिप्रायावलम्बनाक्षेपसमाधानार्थं ‘नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’(छा.८.१.५) इत्युक्तम् । यद्यपि देहान्तर्गत आकाशो देहस्य जरादौ सति जरादिना न स्पृश्यत इति स्पष्तमेव , न हि कुसुलाद्यन्तर्गत आकाशोऽपि तज्जरादौ सति जरादिना स्पृश्यते, तथाऽपि प्रथमाभिप्रायमूलत्वमेवाक्षेपस्य युक्तमिति परिशेषयित्वा तत्समाधानं वक्तुं मन्दशिष्यानुग्रहाय स्पष्टमप्युक्तम् । प्रथमाभिप्रायावलम्बनाक्षेपसमाधानार्थं ‘एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिताः’(छा.८.१.५) इत्युक्तम् । तत्र ‘अस्मिन्कामास्समाहिताः’ इत्यनेन येषां कामानां सङ्कल्पजपितृमातृभ्रातृस्वसृस्त्र्यन्नपानगन्धमाल्यगीतवादित्रादिरूपाणां देहे समाधानमुक्तमापाद्याक्षिप्तं ते तत्र न समाहिताः , किन्त्वस्मिन्दहराकाशे, अतः स एव तेषां धारको, न देह इत्याक्षेपमूलोन्मूलनं कृतम् । तत्र कामग्रहणमाक्षेपे देहसमाहितत्वेनापाद्यानूदितानां सर्वेषामुपलक्षणम् ।
ननु घटाकाशो दध्यादेरिव दहराकाशो द्यावापृथिव्यादेर्न धारक इत्याशंक्योक्तं ‘एतत्सत्यं ब्रह्मपुरम्’ इति । न हि घटाकाश इव दहराकाशोऽयं भूताकाशः , किन्तु ब्रह्म । तत्तु पुरमिव उपासकापेक्षितविविधभोगोपकरणचेतनाचेतनात्मकभोग्यजातपूर्णं तद्धारकमेव यतः तत् सत्यं सकलप्रपञ्चनियामकमिति तस्यार्थः । सत्यपदं हि नित्यानित्यात्मकचेतनाचेतनसकलप्रपञ्चनियन्तृत्वपरं ब्रह्मनामेत्यत्रैव प्रकरणे वर्णितं ‘तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति , तानि ह वा एतानि त्रीण्यक्षराणि स ति यमिति । तद्यत्सत्तदमृतम्, अथ यत्ति तन्मर्त्यम्, अथ यद्यं तेनोभे यच्छति’(छा.८.२.४५) इति । नियन्तृत्वञ्च धारकत्वव्याप्तं ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) इत्यादिश्रुतेः । एवंकृताक्षेपसमाधानसिद्ध्यानुगुण्येन समाधानवाक्यगतयोरेतदितिपदयोर्दहराकाशपरत्वं वक्तव्यमिति तयोर्द्यावापृथिव्यादिपरत्ववर्णनमसमञ्जसमेव । न हि तदानीं कृतस्याक्षेपस्य समाधानं लभ्यते ; माभूद्देहजरादिना द्यावापृथिव्यादेस्तदाश्रितस्य जरादि , तथाऽपि यथा कुसूलादेर्जरादौ सति तदनुविधायिजरादिरहितमपि व्रीह्यादि तत्र नावतिष्ठते, एवमिदमपि नावतिष्ठेतेत्याक्षेपस्य तादवस्थ्यात् । तदनन्तरं द्यावापृथिव्याद्यवच्छिन्नस्य , तत्प्रतीकस्य वा ब्रह्मण उपास्यत्वप्रतिपादनेन वा तस्मिन्ब्रह्मणि वक्ष्यमाणा अपहतपप्मत्वादिगुणाः सन्तीति प्रतिपादनेन वा तत्समाधानालाभाच्च । न चैतत्पदयोर्द्यावापृथिव्यादिपरत्वेऽपि यथाऽऽक्षेपः समाधातुं शक्य स्तथा कश्चित्तत्प्रकारो वर्ण्यतामिति वाच्यम् । दहराकाशाश्रितत्वेनोक्तस्य द्यावापृथिव्यादेर्देहाश्रितत्वमुक्तमित्यापाद्यानुवादे किञ्चिदभिप्रायवतो द्यावापृथिव्यादेर्जराद्यस्पर्शोक्त्या तदवच्छिन्नतत्प्रतीकोपास्यब्रह्मप्रतिपादनेन समाधातुं शक्यस्य कस्यचिदाक्षेपप्रकारस्यैवं समञ्जसस्यानुपलम्भात् । तस्माद्यथा ‘विष्णुरुपांशुयष्टव्यः’ इत्यादिषु विध्यंगीकारे तव्यप्रत्ययस्वारस्ये सत्यपि तेषु विधानेनोपक्रान्तजामितादोषनिर्हरणालाभात्तल्लाभाय वर्तमानापदेशयुक्तेऽप्यन्तरावाक्य एव विधिरङ्गीक्रियते , एवमिहाप्येतत्पदयोर्द्यावापृथिव्यादिपरत्वाङ्गीकारे विभक्त्यैकरूप्यस्वारस्यलाभे सत्यपि तत्परत्वे कृताक्षेपसमाधानालाभात् तल्लाभाय दहराकाशपरत्वमेवाङ्गीकर्तव्यम् ।
किञ्च ‘अस्मिन्कामाः समाहिताः’ इत्यत्र कामशब्देन सङ्कल्पजाः पित्रादय एव वक्तव्याः ; तेषामाक्षेपवाक्ये कामशब्देनाभिहितत्वात् , अग्रेऽपि ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’(छा. ८.२.१) इत्यादिना सङ्कल्पजान् पित्रादीनभिधाय तेषामेव ‘त इमे सत्याः कामाः’ इति कामशब्देनाभिधानाभावात्, ‘एष आत्माऽपहतपाप्मा’ इत्यादिवाक्ये आत्मविशेषणत्वेनोक्तिं विना तेषां क्वचिदपि प्राधान्येनोक्त्यभावाच्च । पित्रादयश्च प्राक् ‘यच्चास्येहास्ति’ इति वाक्ये दहराकशाश्रितत्वेनोक्त्याः । अत एव समनन्तरप्रवृत्ताक्षेपवाक्ये ‘सर्वे च कामाः’ इति तेषां समाधानमुक्तमित्यनुवादः । तथा च तत्समाधानाधारत्वप्रत्यभिज्ञया ‘अस्मिन् कामास्समाहिताः’ इत्यत्रत्यस्यापि ‘अस्मिन्’ इति पदस्य दहराकाशपरत्वे सन्दंशन्यायेन मध्यगतयोरेतत्पदयोरपि तत्परत्वमपरिहार्यम् ।
न च नपुंसकलिङ्गविरोधः ; ‘व्यत्ययो बहुलम्’(पा.सू.३.१.८५) इति लिङ्गव्यत्ययोपपत्तेः । त्वयाऽपि द्यावापृथिव्यादिषु नपुंसकमेकवचनञ्च ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’(पा.सू.१.२.६९) इति विधिद्वयमपेक्ष्य समर्थनीयम् । तदपेक्षयैकविध्यपेक्षणमेव लघु । किञ्च नपुंसकनिर्वाहार्थं तावदपि नापेक्षणीयम् , नपुंसकलिङ्गं स्त्रीलिङ्गपुंल्लिङ्गानुगतं सामान्यम् , न तु विशेषान्तरमिति शाब्दिकैरङ्गीकृतत्वेन लिङ्गान्तरनिर्दिष्टे नपुंसकलिङ्गानुपपत्तिशङ्काऽनवकाशात् , ‘मुखनासिकावचनोऽनुनासिकः’(पा.सू.१.१.८) ‘द्विगुरेकवचनम्’(पा.सू.२.४.१) इत्यादौ स्त्रीलिङ्गपुंल्लिङ्गविशेषणयोर्नपुंसकलिङ्गदर्शनाच्च । अपि च ‘सुपां सुलुक्’(पा.सू.७.१.३९) इत्यादिसूत्रेण विभक्तेर्लुकि पुंल्लिङ्गेऽप्येतदित्येव रूपं भवति । तस्माद्द्वितीयाक्षेपसमाधाने श्रुत्यैव दहराकाशस्य ब्रह्मरूपतया विवृतत्वात् तावतापि दहराकाशः परमात्मेति सिद्ध्यति । तदनन्तरस्य ‘एष आत्मा’ इत्यादिसन्दर्भस्यान्यपरत्वशङ्कानवकाशात्तद्गतश्रुतिलिङ्गैरपि प्रागुदाहृतैस्तथा सिद्ध्यतीत्यनवद्यम् ।
स्यादेतत् – ‘दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तसन्वेष्टव्यम्’ इत्यादित्यमण्डलादिवदुपास्याधारत्वेनोपन्यस्ते दहराकाशे वाक्यशेषगतानामुपास्यगुणानामन्वयो न युक्त इति चेत् ; किं कुर्मः ? ‘उभे अस्मिन्’ इत्यारभ्य ‘एष आत्मा’ इत्यन्तेषु वाक्येषु श्रुतानामिदमेतच्छब्दानां दहराकाशपरत्वात् तेषां तदनन्वयः परिहर्तुं न शक्यत इत्युक्तम् । ननु ‘यावान्वा’ इत्यादिवाक्यं यावानयम् बाह्याकाशोऽस्ति, तावात् सर्वोऽप्यन्तर्हृदय आकाशे दहराकाशे वर्तत इत्येवमर्थतया पृष्टदहराकाशान्तर्वर्त्युपास्यविशेषनिर्धारणपरमस्तु । तत्र द्वितीयाकाशशब्दस्य सप्तम्यन्तत्वाश्रयणेन पृष्टाकांक्षितार्थनिर्धारणार्थत्वे सम्भवति तस्य प्रथमान्तत्वाश्रयणेन तदनाकांक्षितार्थपरत्वकल्पनानौचित्यात् । तथा च तस्यैव दहराकाशान्तरुपास्यतया विहितस्य व्यापकाकाशस्याग्र्तनैरिदमेतच्चब्दैः परामर्शः सम्भवतीति चेत् ; मैवम् ; आकाशस्य दहरपुण्डरीके तदवच्छिन्नतया सूक्ष्मत्वेनावस्थितस्य स्वोपरिव्यापकत्वेनाप्यवस्थानायोगात् , ‘तावनेषोऽन्तर्हृदय आकाशः’ इत्यस्य द्वितीयाकाशशब्दविशेषणतया तदनुरोधेन तस्यापि प्रथमान्तत्वनिश्चयाच्च । न ह्येष इतिशब्दः प्रथमा(न्ता)काशशब्दस्य विशेषणम् ; तत्रायमिति विशेषणस्य सत्त्वेन तत्पौनरुक्त्यापत्तेः ।
एतेन – यत् केचन दहराकाशो भूताकाशः तदन्तर्वर्त्युपास्यं ब्रह्मेति मन्यमानाः ‘यावान्बा’ इत्यादिसन्दर्भं योजयन्ति – तदपि निरस्तम् । ते खल्वेवमाहुः – शरीरपुण्डरीकयोर्ब्रह्म इति पुरत्ववेश्मत्वोक्त्यैव सरीरान्तर्वर्तिनि पुण्डरीके ब्रह्मोपासना विधित्सितेत्यवद्गमात् ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्येतावतैव हृत्पुण्डरीकस्थदहराकाशगतं ब्रह्मोपास्यमिति निर्धारितम् । अतः ‘किं तदत्र विद्यते’ इति प्रश्नः किंप्रकारं ब्रह्म तत्र वर्तत इति प्रकारमात्रविषयः । तत्प्रकारनिरूपणं ‘यावान्वा’ इत्यादि । यावानयमाकाशस्तावान् सर्वोऽप्यन्वेष्टव्यस्य ब्रह्मणोऽन्तर्हृदये वर्तते द्यावापृथिव्यादिकञ्चास्मिन् समाहितमित्याकाशादिसर्वाश्रयत्वमन्वेष्तव्यस्य ब्रह्मणः प्रकार इति तेनोक्तं भवति । यदि त्वन्यपुरवेश्मनोरन्यावस्थानसम्भवात् ब्रह्मपुरत्वाद्युपक्रममात्रेण ब्रह्मोपासनाविधित्सा नावगम्यते , तदा ‘किन्तदत्र विद्यते’ इति दहराकाशान्तर्वर्त्युपास्यस्वरूपप्रश्नः । तस्योत्तरं ‘अन्तर्हृदय आकासः’ इति ; अन्तर्हृदयशब्दोक्ते दहराकाशे आकाशो ब्रह्म वर्तत इति तस्यार्थः । ‘तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’ इत्यत्रैव प्रकरणे हृदयनिमित्तकत्वेन निरुक्तस्य हृदयशब्दस्य हृदयवर्तिनि दहराकाशे वृत्त्युपपत्तेः , आकाशशब्दस्य ‘तल्लिङ्गात्’ इति न्यायेन ब्रह्मणि वृत्त्युपपत्तेश्च । ‘यावान्वा अयमाकाशस्तावानेषु’ इति तु वाक्यान्तरम् । तेन ब्रह्मनो भूताकाशवद्व्यापकत्वमुच्यते, अग्रेतनवाक्यैर्ब्रह्मणि द्यावापृथिव्यादीनां समाधानमुच्यत इति ।
अत्राद्यपक्षे ‘एष’ इति ‘आकाश’ इति च पुनरुक्तमिति स्पश्तमेव । ‘किन्तदत्र वर्तते’ इति आश्रयाश्रयिणोः वैयधिकरण्येन निर्देशवतः प्रश्नस्य ‘उभे अस्मिन्’ इत्यादि तादृशमेवोत्तरमिति वक्तुं शक्ये तत्र वर्तमानं ब्रह्म किम्प्रकारमिति प्रश्नस्यार्थः ब्रह्मणोऽन्तर्हृदये आकाशो वर्तत इत्यादि तदुत्तरमिति क्लिष्टकल्पनमपि न युक्तम् । द्वितीयपक्षे दहराकाशे किं वर्तत इति प्रश्नस्याकाशो वर्तत इत्येतावत्युत्तरे वक्तव्ये ‘अन्तर्हृदये’ इति शब्दान्तरेण दहराकाशस्य तत्र प्रतिनिर्देश इति कल्पनं क्लिष्टम् । न च हृदयसब्दो हृदि वर्तमाने सर्वत्र निरुक्तह् ; किन्त्वात्मन्येव । ‘स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’ इति श्रवणात् । वाक्यभेददोषश्चात्र स्पष्टः । तस्मात् ‘यावान्वा’ इत्यादि दहराकाशस्य भूताकाशवद्व्यापकत्वप्रतिपादनपरमित्येव युक्तम् । न च तदनाकाङ्क्षितार्थप्रतिपादनम् ; तस्यैवाकाङ्क्षितत्वात् ।
तथा हि ‘तञ्चेत् ब्रूयुः’ इत्याक्षेपावतारो , न तु प्रश्नावतारः । प्रश्ने ‘किन्तदत्र वर्तते’ इत्येतावत एव वक्तव्यत्वेन ‘यदिदमस्मिन् ब्रह्मपुरे’ इत्याद्यनुवादवैयर्थ्यात् , आक्षेप एव देहान्तर्गतं पुण्डरीकमेव तावदत्यल्पं , ततोऽत्यन्तमल्पीयान् तदन्तर्गताकाशः पुण्डरीकस्य दहरत्वोक्त्यैव तदन्तर्गताकाशस्य दहरत्वे सिद्धे सूचीरन्ध्रवदतिसूक्ष्मसुषिररूपत्वद्योतनाय हि पुनस्तस्य दहरत्वोक्तिः । तत्र किं सम्भाव्यते यदन्वेष्तव्यमुपदिश्यत इति तदन्तर्वर्त्यसम्भवस्फोरणार्थतया सार्थकत्वात् ।
एवमाक्षेपे तदन्तर्वर्तिसम्भावनाय प्रथमं तदुपयोगिवैपुल्यप्रतिपादनमेवाकाङ्क्षितम् । न च तथापि ब्रह्मणि गौणेनाकाशशब्देनैव तस्य भूताकाशवद्व्यापकत्वमवगतमिति तत्प्रतिपादनं नाकाङ्क्षितमिति वाच्यम् । न हि ‘दहरोऽस्मिन्नन्तराकाशः’ इत्युक्तिमात्रेणाकासशब्दोदितं भूताकाशवद्व्यापकं ब्रह्मेति श्रोतृभिरवगतम् ; आकासशब्दरूढ्या झटिति भूताकाशस्यैव प्रतीतेः । किन्तु यथा उपकोसलविद्यायां ‘कं ब्रह्म खं ब्रह्म’(छा.४.१०.५) इत्युपदिष्टे वैषयिकसुखं पञ्चमभूतञ्च ब्रह्मेत्येतन्न विजानामीत्युपकोसलस्य प्रश्नानन्तरं ‘यद्वाव कम्’(छा.४.१०.५) इत्याचार्यवाक्येन क ख शब्दोदितमपरिच्छिन्नसुखात्मकं ब्रह्मेति तेनावगतमेवमिहापि द्वितीयाक्षेपस्याप्यनन्तरं ‘एतत् सत्यं ब्रह्मपुरम्’ इत्याचार्योक्त्या दहराकाशो ब्रह्मेति तैरवगंस्यते । ‘यावान्वा’ इत्यादेः प्रथाक्षेपसमाधानरूपायाः आचार्योक्तेरान्तरस्यापि भूताकाशस्य वक्ष्यमाणमानसपदार्थसमाधानानुकूलं मानसं बाह्यभूताकाशवद्व्यापकत्वमस्तीत्येतत्परत्वेनाप्युपपन्नतया ततोपि तथावगत्यसम्भवात् । दहराकाशे समाधानान्यथानुपपत्त्या वक्ष्यमाणपदार्थानां मानसत्वस्य च्छान्दोग्यभाष्ये समर्थितत्वात् ।
अथवा श्रीमद्भाष्यरीत्या ततोपि दहराकाशो ब्रह्मेत्यवगतिस्तु । तस्यैवमभिप्रायः – वक्ष्यमाणा द्यावापृथिव्यादयह् पदार्था न केवलम् मानसाः , किन्तु बाह्या अपि सन्ति । उपासकस्य ब्रह्मलोकं प्राप्तस्याशरीरत्वावस्थायां ये सङ्कल्पजास्त एव स्वाप्नवन्मानसाः । सशरीरत्वावस्थायां सङ्कल्पजास्तु जाग्रद्भोगप्रदपदार्थवत् बाह्या इत्यस्यार्थस्य ‘अभावं बादरिः’(ब्र.सू.४.४.१०) इत्यधिकरणे ‘तन्वभावे सन्ध्यवदुपपत्तेः’(ब्र.सू.४.४.१३) ‘भावे जाग्रद्वत्’(ब्र.सू.४.४.१४) इति सूत्राभ्यां व्यवस्थापयिष्यमाणत्वात् । न च द्यावापृथिव्यादिपदानामसङ्कोचेनोपासकप्रेप्सितसर्वविधस्वार्थपरत्वे सम्भवति मानसमात्रपरत्वेन सङ्कोचकल्पनं युक्तम् । एवञ्च बाह्यपदार्थानां मानसवैपुल्यवत्यपि हृदयाकाशे समाधानासम्भवात् ‘यावान्वा’ इत्यादिहृदयावच्छिन्नस्यैव भूताकाशस्य बाह्यभूताकाशवद्व्यापकत्वं व्यावहारिकसूक्ष्मत्वाविरोधि स्वाप्नवन्मानसं प्रदर्शयितुं प्रवृत्तं न भवति , किन्तु तस्य हृदयावच्छिन्नरूपेण सूक्ष्मत्वेऽपि स्वरूपेण व्यापकत्वमस्ति , तथा च हृदयावच्छेदेन तदन्तर्वर्त्यसम्भवेऽपि स्वरूपेण तदन्तर्वर्तिसम्भवेन तदभिप्रायेणैव तस्मिन्यदन्तरित्युक्तमिति प्रदर्शयितुम् । स्वरूपेण व्यापकत्वप्रतिपादनञ्च ‘यावान्वा अयमाकाशः’ इत्युपमाननिर्देशपूर्वकमेतदनन्वयविधयोपमाविधया वा भूताकाशे न सङ्गच्छते । सङ्गच्छते तु ब्रह्मण्युपमाविधया ; यथाऽयं भूताकाशो व्यापकस्तथा यस्यान्तर्वर्त्यन्वेष्टव्यमुक्तं , एष हृदयाकाशो व्यापक एव , सौक्ष्म्यं तु हृदयावच्छेदकृतमुक्तम् , न स्वाभाविकमिति । न च – ब्रह्मण्यपि न सङ्गच्छते , उद्देश्यतावच्छेदकविधेययोरैयापत्तेरिति वाच्यम् । एतद्वाक्यार्थबोधदशायामाकाशशब्दो ब्रह्मणि गौण इत्यनवगतत्वात्तदनन्तरमेतद्वाक्यप्रतिपादितभूताकाशसादृश्यलिङ्गेन भूताकाशे अनुपपन्नेन दहराकाशो ब्रह्मेति निश्चये सति तत्र तस्य गौणतया अवगन्तव्यत्वात् ।
एवञ्च यथा ‘दहेदयं ग्राममशेषमेव क्षणात् प्रभूतोग्निरिवाणुरग्निः’ इत्युक्तौ परस्परव्यावर्तकविशेषणोपादनेनानन्वयस्य सूक्ष्मावस्थास्याग्नेरशेषग्रामदग्धृत्वायोगेनाभिन्नोपमायाश्चासम्भवादेतद्वाक्यप्रतिपादिताग्निसादृश्यलिङ्गेन तद्व्यतिरिक्तः क्षुद्रपुरुषः कश्चिदिहाणुरग्निरिति निश्चये सति तत्राग्निशब्दस्य गौणवृत्तौ वस्तुतः क्षुद्रपुरुषगतग्रामानिष्टकारित्वाभेदेनाध्यवसितस्य दग्धृत्वस्य निमितत्वेऽपि नोद्देश्यतावच्छेदकविधेयैक्येनासामञ्जस्यम् , एवमिहापि नासामञ्जस्यं किञ्चिदिति । एवञ्चास्मिन् पक्षे भूताकाशोपमेयत्वलिङ्गेन दहराकाशो ब्रह्मेति श्रोतॄणामवगतिसत्त्वेऽपि तस्य गौणाकाशपदविषयत्वलिङ्गेन भूताकाशतुल्यत्वावगमात्तद्वदेव सोऽपि केवलमवकाशात्मनाऽवतिष्ठेत न स्वयं धारकः स्यादिति द्वितीयाक्षेपस्य प्रथमाभिप्रायो वर्णनीयः । नन्वेवं दहराकाशो ब्रह्मेति निर्धारणे ‘दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्तव्यम्’ इति कथमुपपद्यते ? काऽत्रानुपपत्तिः ? उपपद्यत एव हि दहराकाशरूपे ब्रह्मणि समाहितत्वेन वक्ष्यमाणद्यावापृथिव्यादिसङ्कल्पजपित्राद्यन्तमुपासकप्रेप्सितभोगस्थानभोगोपकरणभोग्यजातरूपं तत्क्रतुन्यायेनोपासनीयमिति ।
अथ किं तदाश्रयस्य ब्रह्मणो नास्त्युपासनाविधिः ? अस्त्येवाक्षिप्तः पृष्ठगतसर्वताविध्याक्षिप्त इव पृष्ठविधिः । न हि ब्रह्मानुपासीनस्तदाश्रितत्वेनान्यदुपासितुं शक्नोति । तर्हि प्राधान्येन ब्रह्मणि समाहितमेवोपास्यं स्यान्न ब्रह्मेति चेत् ब्रह्मापि प्राधान्येनोपास्यमेव ; ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’ इत्युपसंहारगतफलवाक्ये प्राधान्येन ब्रह्मोपासनाया अप्यनुवाददर्शनेनोपक्रमगतस्योपासनाविधेस्तत्रापि तात्पर्यवर्णनौचित्यात् । उक्तञ्च भाष्ये ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’(छा.८.१.६) इति समुच्चयार्थेन चशब्देन आत्मानञ्च कामाधारमाश्रितांश्च कामान्विज्ञेयान् वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानस्सहान्तस्समाहितैः पृथिव्यादिभिस्सत्यैश्च कामैर्विज्ञेय इति गम्यते’ इति ।
तस्यायमाशयः – ‘तस्मिन्यदन्तः’ इत्यादेर्दहराकाशरूपब्रह्मान्तस्समाहितद्यावापृथिव्यादिमात्रोपासनाविधायकत्वे उदाहृतवाक्यशेषः कथमुपपादनीयः ? न ह्यप्राप्तं गुण्युपासनं फलसम्बन्धविधानायानुवदितुं शक्यम् । नापि प्राप्तं गुणोपासनं विधातुं शक्यम् । गुण्यंशे फलसम्बन्धविशिष्टोपासनाविधिः गुणांशे फलसम्बन्धमात्रविधिरिति कल्पने वैरूप्यम् । तस्मादन्यत्रोपसंहारस्योपक्रमाद्दुर्बलत्वेप्यत्रानन्यथासिद्धः उपसंहारस्ततः प्रबलः ; दहराकाशान्वय्यपहतपाप्मत्वाद्यनेकोपास्यगुणभरितत्वाच्च । अतस्तदनुसारेण ‘तदन्वेष्टव्यम्’ इति उपासनाविधिवाक्ये स इत्यध्याहरणीयम् । तथा च तत् दहराकाशान्तर्वर्ति स च दहराकाशश्चान्वेष्टव्यमित्युक्तं भवति । अन्वेष्टव्यमिति च नपुंसकशेषैकवद्भावाभ्यामुपासनाविधायकं कार्यम् । केचित् – तस्मिन्यदन्तरित्यत्र य इत्याध्याहृत्य यो दहराकाशो यच्च तदन्तर्वर्ति तदन्वेष्टव्यमिति तत्पदं नपुंसकशेषैकवद्भावाभ्यामुभयपरं वर्णयन्ति । आचार्यवाचस्पतिमिश्रास्तु उदाहृतभाष्यभाववर्ननसमये प्रकाराण्तरं प्रत्यपादयन् – ‘तदनेन क्रमेण तस्मिन्यदन्तरित्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलंघ्य हृत्पुण्डरीकं परामृशतीत्युक्तं भवति ; तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः’ इति ।
नन्विदमनुपपन्नं तस्मिन्नित्यस्याव्यवहिते दहराकाशे स्थिते व्यवहितपुण्डरीकपरामर्शित्वकल्पनायोगात् । दहराकाशस्य हृत्पुण्डरीकस्थतायाः दहरोस्मिन्नन्तराकास इत्युक्ततया पुनस्तत्कीर्तनवैयर्थ्याच्च । तञ्चेत् ब्रूयुरित्यादिवाक्ये दहरोस्मिन्नन्तराकाश इति स्वयमप्यनूद्य पुनः किन्तदत्र वर्तत इत्याक्षेपस्यानवकाशाच्च । यत्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं किन्तदत्रेति नपुंसकलिङ्गानां प्राक् पुल्लिङ्गनिर्दिष्टे दहराकाशे अनन्वयाच्च इति चेत् –
उच्यते – सर्वनाम्नामव्यवहितपरत्वसम्भवे व्यवहितपरत्वं न कल्पनीयम् । तदसम्भवे तु कल्पनीयमेव । अत एव साकमेधीये ‘एतद्ब्राह्मन एककपालो यद्ब्राह्मण इतरः’ इति वाक्ये श्रुतमेतत्पदं सन्निहितस्य वारुणप्रघासिकैककपालब्राह्मणस्य परामर्शसम्भवात् तस्यैव परामर्शकम् , न तु व्यवहितस्य वैश्वदैविकैकपालब्राह्मणस्येति सप्तमे वर्णितम् । ‘तस्य द्वादशतं दक्षिणा’ इत्यत्र तस्येति पदमव्यवहितेषु माषेषु वृत्त्यसम्भवाद्व्यवहितगोद्रव्ये वर्तत इत्यङ्गीकृतं दसमे । तस्मिन्यदन्तरित्यत्र यत्पदं वक्ष्यमाणद्यावापृथिव्यादिसकलविशेषणविशिष्टदहराकाशपरम् , अन्यथा दहराकाशविशेषणानां मध्ये क्वचित् ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ इति फलवाक्ये सत्यकामशब्दोदितानां सङ्कल्पजपित्रादीनां विशिष्य ग्रहणादन्यत्र ‘तद्य एवैतावरञ्च ण्यञ्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति’(छा.८.५.४) इति फलवाक्ये ब्राह्मलौकिकयोररण्यशब्दवाच्यतोरर्णवयोर्विशिष्यग्रहणात्तेषां विशिष्यग्रहणस्येतरपरिसंख्यार्थत्वादितराणि द्यावापृथिव्यादीन्यपहतपाप्मत्वादीनि च केवलं स्तुत्यर्थं वर्णितानि , न तूपास्यकोटिप्रविष्टानीति सङ्कया तेषामुपासना न सिध्येत् । अतस्तावद्विशेषणविशिष्टस्य दहराकाशस्योपासनानुप्रवेशसिद्धये ‘तस्मिन्यदन्तः’ इति पुनः कीर्तनमिति न तद्वैयर्थ्यम् । अत एव ‘किन्तदत्र विद्यते’ इत्यप्युपपद्यते । तस्य दहराकाशे किं विशेष(ण)जातं वर्तत इत्येतत्परत्वात् । नपुंसकानुपपत्तिसङ्का तु प्रागेव दत्तोत्तरा । तस्मादयमपि प्रकारो युक्त एव । एवञ्च यद्यपि दहराकाश उपास्यं ब्रह्मेत्यङ्गीकृत्य वर्णितेऽस्मिन् प्रकारत्रयेऽपि ‘तस्मिन्यदन्तस्तदन्वेष्तव्यम्’ इत्यत्र अध्याहारादिरूपः कियान् क्लेशोऽस्ति , तथापि तदन्तर्वर्त्युपास्यं ब्रह्मेत्यङ्गीकृत्य कैश्चित्प्रदर्शिते प्रकारद्वये शिष्यवचने प्रश्नत्वाङ्गीकारादनुवादवैयर्थ्यमित्यादयो दोषाः , आचार्यवचने ‘एष आकाशः’ इति पदवैयर्थ्यमित्यादयो दोषाः । एवं वाक्यद्वयेप्यचिकित्स्या बहवो दोषाः प्रादुष्ष्युरिति विशेषो विद्वद्भिरनुसन्धेयः ।
वस्तुतस्तु – दहराकाशः उपास्यं ब्रह्मेत्यस्मिन् पक्षे ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्यत्र नाध्याहारव्यवहितयोजनादिक्लेशोऽपेक्षणीयः । न हीदमुपासनाविधिवाक्यम् , किन्तूपास्ये ब्रह्मणि यत् गुनजातमुपासनीयमस्ति तद्विचाररूपे तदन्वेषणे उपासनाविध्यर्थाक्षिप्ते विधिसरूपं वाक्यम् । ‘तद्वाव विजिज्ञासितव्यम्’ इत्यप्युपासनाफलरूपे तत्साक्षात्कारे विधिसरूपं वाक्यम् । अत एव छान्दोग्यभाष्यम् – ‘तस्मिन्नाकाशाख्ये ब्रह्मणि यदन्तर्मध्ये तद्वाव तदेव विशेषेण जिज्ञासितव्यं ज्ञातुमेष्टव्यं गुर्वाश्रयणाद्युपायैरन्विष्य साक्षात्करणीयमित्यर्थः’ इति । ‘अथ य इहात्मानम्’ इत्यादि फलवाक्यमेव गुणगुणिविशेषयोरुपासनास्वरूपस्यापि विधायकम् । इदन्तु विधिसरूपं वाक्यद्वयं ब्रह्मान्तर्वर्त्युपासनाविधित्सावगमकं तदर्थवादरूपम् । न च विधिना यावदन्वितं तत्सर्वमर्थवादेपि योजनीयमिति नियमः । द्रव्यदेवताविशिष्टयागविध्यर्थवादानां केवलद्रव्यविषयाणां ‘स आत्मनो वपामुदक्खिदत्तामग्नौ प्रागृह्णातत्ततोऽजस्तूपरस्समभवत्’ इत्यादीनां , केवलदेवताविषयाणां ‘अग्निं वा एतस्य शरीरं गच्छति सोमं रसः’ इत्यादीनाञ्च तत्तद्द्रव्यदेवतासम्बन्धिकर्मविधित्सावगत्मकानांबहुलमुपलम्भात् । न च गुनप्रधानतया विध्यन्वितयोः प्रधानविषय एवार्थवाद इति नियमः । द्रव्यप्राधान्यवादिनां कर्ममीमांसकानां देवताविषयार्थावादे, देवताप्राधान्यवदिनां ब्रह्ममीमांसकानां द्रव्यविषयार्थवादे च व्यभिचारात् , इह गुणिनो गुणानाञ्च समप्राधान्येनोपास्यत्वाच्च । तस्माद्वाक्यशेषानुसारेणोपक्रमेऽपि दहराकाशस्योपासनाऽवगम्यत इति ।
यदुक्तं श्रीमद्भाष्ये , तत् ‘तस्मिन्यदन्तस्तदन्वेष्तव्यम्’ इत्यत्र उपासनाविधिं तस्य विधिसरूपार्थवादत्वेऽपि दहराकाशोपासनाविध्यर्थवादस्य दहराकाशविषयत्वनियमं वाङ्गीकृत्य तद्वाक्यं दहराकाशस्याप्युपासनाविधायकतया, तत्साधारणविचारविधिसरूपार्थवादतया वा योजयितुं सक्यमिति प्रौढिमवलम्ब्योक्तम् । भाष्याभिप्रेततद्योजनाप्रकार एवाध्याहारव्यवहितयोजनादिरूपः प्रदर्शितो व्याख्यातृभिरिति सर्वमनवद्यम् । तस्माद्वाक्यशेषानुसारेणोपक्रमेऽपि दहराकाशस्योपासनाऽवगम्यत इति ।
यदुक्तं श्रीमद्भाष्ये , तत् ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्यत्र उपासनाविधिं तस्य विधिसरूपार्थवादत्वेऽपि दहराकाशोपासनाविध्यर्थवादस्य दहराकाशविषयत्वनियमं वाङ्गीकृत्य तद्वाक्यं दहराकाशस्याप्युपासनाविधायकतया , तत्साधारणविचारविधिसरूपार्थवादतया वा योजयितुं शक्यमिति प्रौढिमवलम्ब्योक्तम् । भाष्याभिप्रेततद्योजनाप्रकार एवाध्याहारव्यवहितयोजनादिरूपः प्रदर्शितो व्याख्यातृभिरिति सर्वमनवद्यम् । तस्माद्वाक्यशेशगतश्रुतिलिङ्गानां दहराकाशेऽन्वयो न तदन्तर्वर्तिनीति दहराकाश एवोपास्यं ब्रह्म ।
यत्तु – तस्य भूताकासत्वेऽपि ब्रह्मात्मश्रुतिस्तत्र यौगिकतया स्तावकतया वोपपद्यते ।आकाशसादृस्यापहतपाप्मत्वादयश्च तेन तेन प्रकारेणोपपद्यन्ते इति अत्र ब्रूमः – आकाशसादृश्यप्रतिपादनं तावद्वैपुल्यपर्यवसाय्येव प्रथमाक्षेपस्योत्तरं भवेत् । तात्पर्यवसानं तु भूताकाशविषयतायां नोपपद्यत इति श्रीमद्भाष्योक्तरीत्या समर्थितम् प्राक् । ‘एतत्सत्यं ब्रह्मपुरम्’ इत्येतच्च वस्तुतो दहराकाशस्य ब्रह्मरूपतापरत्व एव द्वितीयाक्षेपस्योत्तरं भवेदित्यपि समर्थितम् । अपहतपाप्मत्वं द्वेधा सम्भवति – ‘दह्रं विपाप्मम्’ इति श्रुताचेतनासाधारणान्यदीयपाप्मस्पर्शविरोधित्वरूपं आदित्यमण्डलान्तर्वर्तिनः परमपुरुषस्य उदितिनाम्नि प्रवृत्तिनिमित्ततया ‘तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः’(छा.१.६.७) इति श्रुतसर्वपाप्मराहित्यरूपं वा । अत्र द्वितीयमेव ग्राह्यम् ; ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’(छा.८.४.१) इत्यत्रैव प्रकरणे श्रवणात् । अत्र हि दहराकाशस्य लोकसिद्धपाप्महेतुसम्भवेऽपि पाप्मनस्तमप्राप्यैव निवर्तन्ते , यतोऽयं पाप्मरहितत्वभावः । न हि रूपरहितत्वभावे वायावग्निसंयोगसहस्रापि घटादाविव रक्तिमादिकमाधातुं शक्नोतीत्ययमर्थ उच्यते ।
अन्यदीयपाप्मस्पर्शविरोधित्वादेनं पाप्मनो न स्पृशन्ति इत्ययमर्थ उच्यतामिति चेत् ; न । सामान्यतो विशेषतो वा तथा नियमाभावात् । अन्यदीयरोगनिवर्तकानामपि स्वयमुत्कटपापादीनामनिवर्त्यरोगवतां भिषजां , यष्टृदातृगतपाप्मस्पर्शविरोधिनां स्वयं पापमार्जयतां याजकप्रतिग्रहीतॄणाञ्च दर्शनात् । तस्मादपहतपाप्मत्वमपि फलतस्सम्भूततद्धेतुकाया वर्ण्यमानेन पापास्पृश्यत्वेन प्रसक्तप्रतिषेधरूपं न भूताकाशे सम्भवति । न चाप्रसक्तप्रतिषेधतैवास्तु ; सिद्धान्ते विजरत्वादीनां तथात्वाभ्युपगमावश्यम्भावादिति वाच्यम् । ‘अपहतपाप्मा’ इत्यतः पाप्मशब्दलक्ष्याणां पाप्महेतुकजरादीनामभावसिद्धावपि यथा ब्रह्मणि सुकृतहेतुक आनन्दस्तथा दुष्कृतहेतुकं जरादिकमस्त्वित्येवं जरादिप्रसक्तौ तदभावबोधनात् ।
हार्दे ब्रह्मणि अहरहर्गतिसत्त्वे यद्यपि हृदयावच्छिन्न आकाशेपि सा निवारयितुं न शक्या, तथाऽपि ब्रह्मणि ‘सता सोम्य’(छा.६.८.१) इत्यादिश्रुत्यन्तरप्रसिद्धा भूताकाशे युक्तिकल्पनीयायाश्शीघ्रं बुद्धिमारोहतीति ब्रह्मगतैवात्र ग्रहीतुं युक्ता । ब्रह्मलोकशब्दोऽत्र प्रकरणे क्वचित् सत्यलोकपरो दृष्टः ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’ इति । क्वचिद्ब्रह्मपरो दृष्टः ‘अपहतपाप्मा ह्येष ब्रह्मलोकः’ इति । तत्र गतिवाक्यस्थब्रह्मलोकशब्दस्य अहरहर्गतिलिङ्गविरोधेन सत्यलोकपरत्वासम्भवे परिशेषात् समानाधिकरणसमासलाभाच्च ब्रह्मपरत्वमेव भवति , न तु ब्रह्मोपलब्धिस्थानहृदयावच्छिन्नभूताकाशपरत्वम् । विधारकत्वमात्रं यद्यपि भूताकाशेऽपि श्रुतमस्ति श्रुत्यन्तरे, तथाप्यत्र विहारकत्वं सकलमर्यादाव्यवस्थापकत्वसहितं श्रुतम् । अयञ्च पारमैश्वर्यरूपो महिमा ब्रह्मण्येव श्रुत्यन्तरेषूपलब्धः ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एषसेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) ‘यस्सर्वज्ञस्सर्वविद्यस्यैष महिमा भुवि’(मु.२.२.७) इत्यादिषु । तस्मादेतैर्वाक्यशेषगतैः श्रुतिलिङ्गैर्दहराकाशो ब्रह्मेति निश्चीयते । उपक्रमगता या अभ्यस्ताया अप्येकस्याः श्रुतेर्वाक्यशेषगतबहुश्रुतिलिङ्गानां बलवत्त्वादत्र ब्रह्मश्रुत्याकाशोपमेयत्वलिङ्गादीनामनन्यथासिद्धत्वाच्च ।
अथोक्तस्सर्वोऽपि सिद्धान्तस्सूत्रारूढः क्रियते – दहराकाशो ब्रह्म , उत्तरेभ्यः पाश्चात्येभ्यो वाक्यशेषगतश्रुतिलिङ्गेभ्यः । तेषामुपसंहारगतत्वेऽपि ‘भूयसां स्यात्सधर्मत्वम्’(जै.सू.१२.२.२२) इति न्यायात् भूयस्त्वेन प्राबल्यं सूचयितुं बहुवचनम् । ननु दहराकाशान्तर्वर्तिद्यावापृथिव्यादिकमुक्तलिङ्गान्वयि, न तु दहराकाश इत्याशङ्कायामपि सूत्रमेवोत्तरम् – दहराकाशो वाक्यशेषगतश्रुतिलिङ्गान्वयी ; प्रथमद्वितीयाक्षेपोत्तरवाक्येभ्यः । यद्यपि प्रथमाक्षेपं प्रति ‘यावान्वा’ इत्यादि ‘समाहितम्’ इत्यन्तमेवोत्तरम् ; द्वितीयाक्षेपं प्रति च ‘नास्य जरयैतत्’ इत्यादि ‘समाहिता’ इत्यन्तमेकमेव उत्तरम् ; तथाऽपि तदन्तर्गतावान्तरवाक्यबाहुल्याभिप्रायं बहुवचनम् । द्वितीयाक्षेपाभिप्रायविषययावदवान्तरवाक्यार्थपर्यालोचने प्रथमद्वितीयाक्षेपोत्तरगतकामसमाधानाधारत्वप्रत्यभिज्ञापकवाक्यद्वयार्थपर्यालोचने च सत्येव हि द्वितीयाक्षेपतदुत्तरगतैतदिदंपदानां द्यावापृथिव्याद्याधारदहराकाशपरत्वनिश्चयात् ‘एष आत्मा’ इत्यग्रे तमेवानुकृष्य प्रवृत्तानां ब्रह्मश्रुतिलिङ्गानां तदन्वयो लभ्यते ।
ननूदाहृतोत्तरपर्यालोचनेनाक्षेपतदुत्तरगतान्येतदिदंपदानि न द्यावापृथिव्यादिपराणि , किन्तु तदाधारपराणीत्येतावल्लभ्यते । तदाधारस्तु दहराकाशो न भवति , अपि तु तदन्तर्वर्त्यन्वेष्टव्यं ब्रह्म । तथा च तदेवाक्षेपसमाधानगतैस्तैः पदैः परामर्शनीयं वाक्यशेषगतब्रह्मश्रुतिलिङ्गान्वयि इत्याशङ्कायामपि सूत्रमेवोत्तरम् – दहराकाशो द्यावापृहिव्यादिसमाधानाधारः; प्रथमाक्षेपोत्तरेभ्यः । अत्राप्यवान्तरवाक्याभिप्रायं बहुवचनम् । ‘यावान्वा’ इत्यादिवाक्ये द्वितीयाकाशपदस्य प्रथमान्तत्वं दहराकाशपरत्वञ्चावगत्य द्यावापृथिव्यादिवाक्येषु श्रुतस्यानुषक्तस्य च प्रकृतदहराकाशपरामर्शिनः ‘अस्मिन्’ इति पदस्य सद्भावञ्चावगत्य हि दहराकाशस्य द्यावापृथिव्याद्याधारत्वं निश्चेतव्यम् ।
एवञ्च सूत्रस्य द्वितीयतृतीययोजनयोर्विभक्तधनेषु भ्रातृषु विभक्तपदवदुत्तरावयववाक्येषूत्तरपदमुत्तरपदलोपेन द्रष्टव्यम् । यत्तु – ‘भूताकाशेऽपि वाक्यशेषगतब्रह्मश्रुतिलिङ्गानि योजयितुं शक्यानि । ‘यद्वै तद्ब्रह्मेतीदं वाव तत्’ इत्यादिदर्शनात् । अतस्तान्युपक्रमगताकाशश्रुत्यभ्यासानुसारेण तथैव योजनीयानि ; अन्यथासिद्धेषु भूयस्त्वन्यायाप्रवृत्तेः’ इत्युक्तं तत्रापि सूत्रमेवोत्तरं तत्र श्रीमद्भाष्यदर्शितया रीत्या समर्थितम् । भूताकाशोपमेयत्वलिङ्गं द्वितीयाक्षेपसमाधाननिर्वाहाय वृत्त्यन्तरासहिष्णुर्ब्रह्मश्रुतिश्चेत्युभयमाकाशश्रुत्यपेक्षया उत्तरं श्रेष्ठं वृत्त्यन्तरसहिष्णुत्वेनान्यथासिद्धाया आकाशश्रुतेरन्यथासिद्धत्वेन प्रबलमिति यावत् । अपहतपाप्मत्वादिकं उदः उदितिनाम्नः , तरं प्रवृत्तिनिमित्ततया प्राप्तं इति षष्ठीसमासे उत्तरम् । तरतिधातुः ‘नैनं सेतुमहोरात्रे तरतः’ इति ‘एतं सेतुं तीर्वा’ इति च श्रुतौ दहराकाशप्रकरण एव प्राप्त्यर्थे प्रयुक्तः । एवञ्च श्रेष्ठवाचकयोरुत्तरोत्तरशब्दयोरुन्नामप्रवृत्तिनिमित्तवाचकस्योत्तरशब्दस्य च ‘नपुंसकमनपुंसकेन’(पा.सू.१.२.६९) इत्येकशेषो द्रष्टव्यः ॥१.३.१४॥
अथ गतिश्रवणब्रह्मलोकशब्दयोरन्यथासिद्धत्वशङ्कापरिहारार्थं सूत्रम् –
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च ॥१५॥
१५पूर्वसूत्रक्रोडीकृतहेतूनां मध्ये प्रजानामहरहर्दहराकाशगतिं दहराकाशे ब्रह्मलोकशब्दञ्च ‘गतिशब्दाभ्याम्’ इत्यनूद्य ‘तथाहि दृष्टम्’ इत्यनेन ‘तदुभयं वाक्यान्तरे ब्रह्मणि दृष्टम्, न भूताकाशे इत्यतस्तदुभयमिह ब्रह्मगतमेव ग्राह्यम् ; वाक्यान्तरप्रसिद्धत्वात् , न भूताकाशगतम्; कल्पनीयत्वेन विलम्बितोपस्थितिकत्वात्’ इति दर्शितम् । ननु ब्रह्मलोकशब्दस्सत्यलोके वाक्यान्तरेषु स्मृतिपुराणादिषु च प्रसिद्धतरः ; प्रसिद्धतरषष्ठीसमासे च शब्दे नरपतिराजकुमारादिशब्द इव न निषास्थपतिन्यायावतारः ; इत्याशङ्कायां निषादस्थपतिन्यायानवतारेप्यहरहर्गतिः समानाधिकरणसमासपरिग्रहे लिङ्गमस्तीति लिङ्गमित्यनेनोक्तम् ।
ननु नेदं लिङ्गम् , ‘अहरहर्वा एवं वित्स्वर्गं लोकमेति’ इति वदहरहश्श्रवणस्यार्थवादत्वसम्भवात्, इति शङ्कायामहरहर्गमनं सदपि ब्रह्म प्रजा न विन्दन्तीति तदज्ञानोक्तेः ; तदज्ञानस्य ‘तद्यथा हिर्रण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ति’(छा.८.३.२) इति ‘अनृतेन हि प्रत्यूढाः’(छा.८.३.२) इति च हेतुदृष्तान्ताभ्यामुपपादनाच्च नेदमर्थवादमात्रं , किन्तु लिङ्गमेवेत्यवधारणार्थेन चकारेण दर्शितम् । दृष्टान्तोऽप्यसिद्धः तत्राहरहःश्रवणस्य ‘एवंवित्’ इत्यनेनान्वयात् । अतोऽपि लिङ्गमेवेत्यपि तेन सूचितम् । सूत्रे दृष्टशब्दः ‘तथा चेतोऽर्पणानिगदात्तथाहि दर्शनम्’(ब्र.सू.१.१.२५) इति स्त्रे दर्शनशब्द इव भावप्रत्ययान्तः , न तु कर्मणि निष्ठान्तः । तथा च दृष्टशब्दस्य गतिशब्दौ प्रति विशेषणतया पुल्लिङ्गेन द्विवचनेन च भाव्यमिति शङ्काया नावकाशः ।
यत्तु भाष्ये ‘तथाह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टम्’ इत्यादि गतेर्ब्रह्मणि दर्शनप्रदर्शकं वाक्यं , यच्च ‘तथा ब्रह्मलोकशब्दोऽपि’ इत्यादि ‘दृष्टः श्रुत्यन्तरे’ इत्याध्याहारेण पूरणीयं ‘ननु कमलासनलोकमपि’ इत्यादेस्सौत्रपदावतारिकातः प्राचीनं वाक्यं तत्रोभयत्रापि दृष्टशब्दस्य कर्मणि निष्ठान्ततया गतिशब्दविशेषणत्वेन निवेशनं फलितार्थप्रदर्शनपरम् ; न सौत्रदृष्टपदयोजनापरमिति न विरोधः । अस्तु वा कर्मणि निष्ठान्तः, तथापि न विरोधः विशेष्यस्य पुंल्लिगद्विवचनान्तनिर्दिष्टत्वेऽपि पाणिनीये ‘द्विगुरेकवचनम्’(पा.सू.२.४.१५) इति सूत्रे लिङ्गसामान्यविवक्षया पुंल्लिङ्गविशेषणे नपुंसकलिङ्गवत् , ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’(पा.सू.३.१.१५) इति सूत्रे विशेष्यद्वयगतप्रातिस्विकैकत्वविवक्षया द्विवचनान्तवेषणे एकवचनवच्चात्र विशेषणे नपुंसकस्य एकवचनस्य चोपपत्तेः ।१.३.१५।
ननु विधारकत्वं भूताकाशेऽपि श्रुत्यन्तरप्रसिद्धमस्तीत्यधिकाशङ्कायां तस्य हेतुत्वोपपादनार्थं सूत्रम् –
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१६॥
१६नात्र भूताकाशसाधारणं विधारकत्वमात्रं श्रूयते , किन्तु विधारणलक्षणः कोऽपि महिमा श्रूयते । लोकानामसम्भेदाय सेतुरिति विशेषणात् ननु तेन विशेषणेन यथा जलमध्ये निबद्धस्सेतुर्जलराशिद्वयस्यासङ्कराय भवति , एवमयमपि लोकबृन्दस्येत्येतावत् प्रतिपाद्यते । इदं भूताकाशसाधारणमेव । यदि हि लोकानामन्तराऽन्तराऽवकाशात्मको भूताकाशो न स्यात्, तदा तेषां सङ्करः स्यादेव , इति शङ्कापाकरणाय त्वर्थे चशब्दः । ‘सेतुर्विधृतिः’ इत्यादिना स्थावरजङ्गमात्मकसर्वलोकव्यवस्थिततत्स्वरूपस्वभावकृत्याद्यसङ्करापादकसर्वनियमनशक्तिमत्त्वरूपपारमेश्वर्याधीनव्इधारकत्वरूओ महिमा प्रतिपाद्यते । कुत एतदवगम्यते ? इह हि नास्ति सेतुत्वविधारणयोरैश्वर्याधीनत्वविशेषणम् ; इत्याशंक्योक्तं ‘अस्यास्मिन्नुपलब्धेः’ इति । अस्योक्तरूपस्य महिम्नोऽस्मिन् ब्रह्मणि ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) इति बृहदारण्यके दर्शनादित्यर्थः । अत्र हि सर्वेश्वरादिपदैर्निरतिशयैश्वर्यादिवर्णनं सेतुत्वविशेषितविधारकत्विपयोगितयैव ; ‘एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः......द्यावापृथिव्यौ विधृतौ तिष्ठतः...प्राच्योऽन्या नद्यस्स्यन्दन्ते प्रतीच्योऽन्याः’(बृ.३.८.९) इत्यक्षरब्राह्मणे दर्शनात् । स एवेह बृहदारण्यकोक्तः पारमैश्वर्याधीनेविधारकत्वरूपो महिमाऽत्र प्रतिपाद्यः प्रत्यभिज्ञायते।
नन्वस्तु नामैवम् ; तथाऽपि नायं महिमा दहराकाशे वर्ण्यते । ‘अथ य आत्मा स सेतुर्विधृतिः’ इत्यथशब्देन दहराकाशप्रकरणविच्छेदात् , इत्याशङ्कायामपि ‘अस्यास्मिन्नुपलब्धेः’ इत्येवोत्तरम् ; अस्यमहिम्नोऽस्मिन्दहराकाश एवोपलब्धेः प्रकृतपरामर्शिनो यत्पदस्य दहराकाशे प्राक् प्रयुक्तस्यात्मशब्दस्य च विद्यमानतया सेतुत्वादिवर्णनस्य तदन्यविषयत्वयोगेनाथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वकल्पनोपपत्तेः । तदर्थत्वकल्पनस्य च प्राङ्निर्दिष्टा निर्देक्ष्यमाणा गुणाः परस्परापेक्षया समुच्चित्योपास्या इति सूचनार्थत्वेन सफलत्वात् । अन्यथा ‘एतांश्च सत्यान् कामान्’ इत्यस्य गुणान्तरपरिसंख्यार्थत्वशङ्कया सर्वेषामुपास्यत्वासिद्धेः ।
एवं ‘अस्यास्मिन्नुपलब्धेः’ इति सूत्रखण्डस्य शङ्कान्तरोत्तरत्वेन द्वितीययोजना ‘कथम्’ इत्यादिना ‘निर्दिशति’ इत्यन्तेन विषयवाक्यावतारिकाभाष्येण सूचिता । तत्र ‘अनतिवृत्तप्रकरणम्’ इत्येननात्राथशब्दः प्रकरणविच्छेदको न भवतीति दर्शितम् । तत्र हेतू ‘दहरोऽस्मिन्नन्तराकाश इति हि प्रकृत्यास्मिन्नेव चात्मशब्दं प्रयुज्य’ इति विशेषणाभ्यां दर्शितौ । ‘आकाशौपम्यपूर्वकं तस्मिन् सर्वसमाधानमुक्त्वा अपहतपाप्मत्वादिगुणयोगं चोपदिश्य’ इति विशेषणाभ्यां निर्दिष्टगुणानुवादरूपाभ्यां पूर्वप्रकृतापेक्षार्थस्याथशब्दस्योक्तवक्ष्यमाणगुणानां परस्परापेक्षया समुच्चित्योपास्यत्वसिद्धिः फलमिति दर्शितम् ।
यद्यपि सूत्रे ‘महिम्नः’ इत्येतावदेवोक्तरूपविधारकत्वोपस्थापने पर्याप्तम् ; ‘यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि’(मु.२.२.७) इत्याथर्वणे पारमेश्वरगुणकलापे केवलस्य महिमशब्दस्य प्रयोगात्, अथापि हेतुविशेषस्फुटीकरणार्थं ‘धृतेः’ इति विशेषितम् । एवमस्य सूत्रद्वयस्य प्रथमसूत्रक्रोडीकृतहेतूनां मध्ये केषाञ्चिदहेतुत्वशङ्कानिराकरणार्थतया प्रथमसूत्रशेषत्वं ‘त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्त’ इति पूर्वसूत्रावतारिकाभाष्येण दर्शितम् ॥१.३.१६॥
स्यादेतत् – भवतु नाम वाक्यशेषगतब्रह्मश्रुतिलिङ्गैर्ब्रह्मेह प्रतिपाद्यमिति , ब्रह्म तु दहराकाशो न भवति , कितु तदन्तर्वर्त्येव ; ‘तस्मिन्यदन्तः’ इत्यादिस्वारस्यात् , पूर्वसूत्रोदाहृतस्य ‘एष सर्वेश्वरः’ इत्यादेरधस्तने ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वेस्य वशी सर्वस्येशानः’(बृ.४.४.२२) इति वाक्ये ‘यस्यैष महिमा भुवि’ इत्यस्योपरितने ‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु.२.२.७)‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु.२.२.७) इति वाक्ये ‘यस्यैष महिमा भुवि’ इत्यस्योपरितने ‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’ इति वाक्ये च ब्रह्मणो हृदयाकाशान्तर्वर्तित्वप्रसिद्धेश्च । ततश्च तदनुसारात् ‘यावान्वा’ इत्यादिवाक्यस्य क्लिष्टयोजना न दोषायेत्याशंक्याह –
प्रसिद्धेश्च ॥१७॥
१७ब्रह्मणो हृदयाकाशान्तर्वर्तित्वप्रसिद्धिवद्धृदयान्तर्वर्तित्वप्रसिद्धिरप्यस्त्येव ‘एष म आत्माऽन्तर्हृदये’(छा.३.१५.३) इत्यादिश्रुत्यन्तरेषु । किञ्चात्रापि वाक्यशेषे हृदयान्तर्वर्तित्वं श्रूयते । ‘स वा एष आत्मा हृदीति तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’(छा.८.३.३) इति नामनिर्ववचनरूपेणार्थवादेन तात्पर्यविषयतया ज्ञाप्यते । एवञ्च ब्रह्मणो हृदयान्तर्वर्तित्वस्य , हृदयाकाशान्तर्वर्तित्वस्य च श्रुत्यन्तरप्रसिद्धितौल्यात् पक्षद्वयेऽपि प्रकृतविषयवाक्यस्य क्वचित्क्वचित् क्लिष्टयोजनावश्यम्भावे च सति ‘सन्दिग्धे तु (षु)वाक्यशेषात्’(जै.सू.१.४.२४) इति न्यायादर्थवादागमिततात्पर्येण वाक्यशेषेण दहराकाशो ब्रह्मेति निर्णीयते । अथापि तदन्तर्वर्ति ब्रह्म स्यात् यद्याकाशशब्दस्य क्वचिदपि ब्रह्मणि प्रसिद्धिर्न स्यात् । अस्ति तस्य तत्र प्रसिद्धिः ‘आकाश इति होवाच’(छा.१.९.१) इत्यादिश्रुत्यन्तरेषु । किञ्च माभूदन्यत्र तत्र तस्य प्रसिद्धिः , इहैवाकाशशब्दोक्तं ब्रह्मेति निर्णेतुं शक्यम् ; तदन्तर्वर्ति ब्रह्मेत्यभ्युपगमे वाक्ययोजनाक्लेशातिशयसद्भावात् । सूत्रे ‘प्रसिद्धेः’ इत्यस्य ब्रह्मणो हृदयान्तर्वर्तित्वप्रसिद्धेरित्येकोऽर्थः । तत्र चकारो वाक्यशेषसमुच्चयार्थः । ब्रह्मण्याकाशशब्दप्रसिद्धेरिति द्वितीयोऽर्थः । तत्र चकारः पूर्वपक्षे वाक्ययोजनाक्लेशातिशयस्य समुच्चयार्थः ॥१.३.१७॥
स्यादेतत् – माभूद्दहरो भूताकाशः , जीवस्तु स्यात्; ‘अथ य एष सम्प्रसादोऽस्माञ्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’(छा.८.२.४) इति वाक्यशेषे जीवपरामर्शात् । सम्प्रसादशब्दस्सुषुप्त्यवस्थावाचकस्तद्वति जीवे वर्तितुं शक्नोति , न ब्रह्मणि । शरीरात् समुत्थानञ्च तदाश्रयस्य जीवस्यैवोपपद्यते । ब्रह्मप्राप्त्या स्वरूपाविर्भावश्च तस्यैवोपपद्यत इत्याशङ्कामुद्भाव्यापहतपाप्मत्वाद्यसम्भवान्मैवमिति परिहरति –
इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥
१८यद्यपि अपहतपाप्मत्वाद्यसम्भवो जीवे स्पष्ट एव ; तथापि तत्सम्भवशङ्कां काञ्चिन्निराकर्तुमुपोद्घातरूपमिदं सूत्रम् ॥१.३.१८॥
तामेव शङ्कामुद्घाट्य निराकरोति –
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१९॥
१९जीवस्याप्यपहतपाप्मत्वादिगुणान् दहरवाक्यादुत्तरस्मात् ‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यस्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.६.१) इति प्रजापतिवाक्यादवगच्छामः । न च तदपि ब्रह्मविषयम् ; तदुपरि ‘य एषोऽक्षणि पुरुषो दृश्यत एष आत्मा’(छा.८.६.४) इति ‘य एष स्वप्ने महीयमानश्चरत्येष आत्मा’(छा. ८.१०.१) इति च जागरितस्वप्नसुषुप्त्यवस्थावर्णनेन , ‘एवमेवैष सम्प्रसादोऽस्माच्छरीरासमुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’(छा.८.१२.३) इति श्रवणेन च तस्य जीवविषयत्वनिश्चयात् । ननु तत्र ‘स्वेन रूपेणाभिनिष्पद्यते’ इति जीवस्योपासनाविशेषरूपसाधनसाध्यापहतपाप्मत्वादिस्वरूपाविर्भाव उच्यते , दहरवाक्ये तु साधनाधीनं पापध्वंसादिमत्त्वरूपमपहतपाप्मत्वादिकं न ग्राह्यम् ; किन्तु पापात्यन्ताभाववत्त्वरूपम् ; ‘नैतं सेतुमहोरात्रे तरतः’(छा.८.४.१) इत्यादिदहरवाक्यशेषे पाप्मनामप्राप्तिवर्णनात् इति चेत् ; तर्हि प्रजापतिवाक्येऽपि ‘अपहतपाप्माविजरो विमृत्युः’ इत्यादिदहरवाक्यस्थपदानामेवावर्तनेन तथैव तदर्थः स्वीकरणीयः ।
एवं तर्हि प्रजापतिवाक्यं जीवस्य जैवेन रूपेणापहतपाप्मत्वादिकं न प्रतिपादयति ; तत्र तस्य मानान्तरविरुद्धत्वात् , किन्तु यदस्य पारमार्थिकं मुक्तिपाप्यं ब्रह्मस्वरूपं तद्रूपेणेति ब्रह्मण एव ततस्तत्सिद्धिः स्यात् ; न संसारित्वावस्थापन्नस्य जीवशब्दितस्य । ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ इति च जीवस्य मुक्तिकाले पारमार्थिकब्रह्मभावाविर्भावाभिप्रायं स्यात् इति चेत् ; उच्यते – न मुक्तौ जीवस्य सविशेषब्रह्मभावः सम्भवति । निर्विशेषब्रह्मभावाभ्युपगमे तु सत्यकामत्वं सत्यसङ्कल्पत्वञ्च न सम्भवति । निर्विशेषब्रह्मभावं प्राप्तस्य मुक्तस्य च ‘स तत्र पर्येति जक्षन् क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा’(छा.८.१२.३) इत्यादिवाक्यशेषोक्तं फलं न सम्भवति । ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.७.१) इत्युपक्रमेण तथैवोपसंहारेण च प्रतिपिपादयिषितं सर्वलोककामावाप्तिफलञ्च न सम्भवति । तस्मादत्र ‘य आत्माऽपहतपाप्मा’(छा.८.७.१) इत्यादिना संसारित्वावस्थापन्नो जीव एवानृततिरोहितापहतपाप्मत्वसत्यकामत्वादिमानुच्यते । तस्यैवोक्तरूपजीवोपासनामनुष्ठितवतः ‘परं ज्योतिरुपसम्पद्य’ इत्यादिना ब्रह्मलोकस्थविशेषब्रह्मावाप्तिपूर्वकः सत्यकामत्वादिस्वरूपाविर्भाव उच्यते इत्येव युक्तम् ; ‘मनसैतान् कामान् पश्यन्न्रमते य एते ब्रह्मलोके’(छा.८.१२.५) इति वाक्यशेषात् , पञ्चाग्निविद्यावत् शरीरेन्द्रियविविक्तजीवविषययाऽपि प्राजाप्त्यविद्यया ‘तं वा एते (तं) देवाः आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्ताः सर्वे च कामाः’(छा.८.१२.६) इत्युपासनारूपत्वेन श्रुतया ब्रह्मलोकावाप्तिसम्भवाच्च ।
ननु तथाऽपि दहराकाशे वर्णितमतिरोहितस्वभावमपहतपाप्मत्वादिकं जीवस्य न सम्भवतीति चेत् ; क एवमुपदिदेश ? तिरोहिअमेव हि तत् तत्रोपदिष्टम् । तथा हि – ‘स यदि पितृलोककामो भवति’(छा.८.२.१) इत्यादिना सङ्कल्पमात्रेण पित्रादिसृष्ट्या जीवस्य सत्यसङ्कल्पत्वं प्रपञ्चेनोपवर्ण्य ‘त इमे सत्याः कामा’(छा.८.३.१) इति त इमे पित्रादयः काम्यमानतया कामशब्दोक्ताः केवलं साङ्कल्पिकत्वेऽपि नोपभोगाक्षमा वितथाः , किन्तु सत्या इत्युक्तम् । तथा च ‘सत्यकामस्सत्यसङ्कल्पः’ इत्यत्र तत्प्रकरणकृतव्याख्यानानुसारेणावितथसङ्कल्पजपित्रादिमत्त्वमेवार्थो ग्राह्यः । तेषाञ्च पित्रादीनां ‘त इमे सत्याः कामाः’ इति परामर्शानन्तरं ‘अनृतापिधानाः’ इति तेषां सत्यानामनृतमपिधानमिति ‘यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते’(छा.८.३.१) इति च इहलोके स्थितौ तिरोहितत्वं स्पष्टमेवोक्तम् । अथ ‘ये चास्य जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते’(छा.८.३.२) इति ब्रह्मलोकगमनानन्तरं तदाविर्भावश्चोक्तः । एवं सङ्कल्पजपित्रादीनां तिरोहितत्वोक्त्यैव सत्यसङ्कल्पत्वस्य तिरोहितत्वमर्थसिद्धम् । पाप्मजरामरणशोकादीनां तु स्थूलसूक्ष्मदेहधर्माणामभावस्य देहेन्द्रियतादात्म्याध्याससमये तिरोहिततत्वं रजताध्याससमये शुक्तौ रजतत्वाभावस्येव स्पष्टमेव । अतः सत्यकामत्वमात्रस्य तिरोधानमुक्तम् ।
एतेन – प्रजापतिवाक्ये संसारदशायामविद्यातिरोहितमपहतपाप्मत्वादिकमुक्तं ‘स्वेन रूपेणाभिनिष्पद्यते’ इति मुक्तिदशायां तदाविर्भावश्रवणात् , दहरवाक्ये त्वतिरोहितस्वभावमेव तदुक्तं तिरोधानाश्रवणात् – इति निरस्तम् । दहरवाक्यान्तर्गतेपि ‘य एष सम्प्रसाद’ इति वाक्ये ‘स्वेन रूपेनाभिनिष्पद्यते’ इति श्रवणाच्च । तस्मादपहतपाप्मत्वादिकं जीवे सम्भवत्येव , प्रत्युत ब्रह्मण्येव स्वसङ्कल्पसमुत्थितातीतनिजपित्रादिमत्त्वरूपं सत्यकामत्वं न सम्भवति । किञ्च ‘ब्रह्मपुरे’ इत्युपक्रमोऽपि दहराकाशो जीव इति पक्ष एव स्वारसिकः ; जीवस्यैव सप्तमीनिर्दिष्टाधारं प्रत्याधेयत्वस्य भोक्तृभोगायतनभावरूपसमासान्तर्वर्तिषष्ठ्युक्तासाधारणशरीरसम्बन्धवत्त्वस्य चोपपत्तेः । ब्रह्मणि तु नाधेयत्वं न वा शरीरेण विशेषसम्बन्धवत्त्वम् ; कारणत्वेन सम्बन्धस्य सर्वविकारसाधारण्यात् । असाधारण्येन हि व्यपदेशा भवन्ति ; तद्यथा क्षितिसलिलबीजादिजन्माऽप्यङ्कुरोऽसाधारण्येन शालिबीजेन व्यपदिश्यते ‘शाल्यंकुर’ इति न तु कार्यान्तरसाधारणैः क्षित्यादिभिः । तस्मात् ब्रह्मशब्दस्य रूढिं परित्यज्य बृंहयति देहमन्नपानादिभिरिति जीवे योगस्स्वीकर्तुं युक्तः ।
तथा भूताकाशोपमेयत्त्वमपि जीवे सम्भवति ; अत्रापि मानसवैपुल्यसद्भावात्, तस्यान्तःकरणावच्छिन्नरूपेणाव्यापकत्वेऽप्यविद्योपहितेन रूपेण सर्वशरीरानुस्यूतेन व्यापकत्वाच्च । वस्तुतस्तु मानसमेव वैपुल्यमिह ‘यावान्वा’ इयादिवाक्यार्थतया ग्राह्यम् ; स्वरूपेण व्यापकत्ववर्णनस्य प्रकृतानुपयोगित्वात् , ‘तस्मिन्यदन्तः’ इत्यत्रान्तश्शब्देन , ‘अन्तरेव समाहिते’(छा.८.१.३) इत्यत्र सावधारणेनान्तश्शब्देन , ‘अस्मिन्श्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वे च कामाः’(छा.८.१.४) इत्यत्र देहान्तर्गतहृदयपुण्डरीकान्तर्वर्तिनि दहराकाशे सर्वसमाधानोक्त्य देह एव सर्वसमाधानमुक्तं स्यादित्यनुवादेन च , हृदयान्तःप्रदेशावच्छेदेन दहराकाशवैपुल्यप्रतिपादनस्यैवाकांक्षितत्वात् । एवञ्च द्यावापृथिव्यादयोऽप्यत्र हृदयपुण्डरीकावच्छिन्ने दहराकाशे समाहिता मानसा एव ग्राह्या इति तदाधारत्वं जीवस्य नानुपपन्नम् ; स्वप्नऋष्टानामिवान्येषामपि मानसानां जीव एवाध्यासात् । ‘एतत्सत्यं ब्रह्मपुरम्’ इत्येतदपि देहाख्यं ब्रह्मपुरमनृतम् , इदं तु सत्यं देहबृह्मणत्वात् ब्रह्म सकलकामाधारत्वात् पुर्मिति जीवे सङ्गच्छते । अहरहर्गतिश्रवणमपि जीव एवाविद्यामात्रोपहितरूपे युज्यते ; स्वप्नजागरयोरन्तः करणोपधानेन स्थितस्य तस्य सुषुप्तावन्तःकरणलये सति अविद्यामात्रोपहितमात्ररूपापत्तिसत्वात् । जगद्विधारकत्वश्रवणमपि सत्यसङ्कल्पजवस्तुविधारकत्वाभिप्रायम् , ब्रह्माभेदाभिप्रायं वा ईवे योजयितुं शक्यम् । यद्यप्याकाशशब्दस्य श्रुत्यन्तरे नास्ति जीवे प्रसिद्धिः , तथाऽप्यत्रैव सत्यकामादितद्धर्मसमभिव्याहारात् तद्विषयत्वं कल्प्यते , अन्यथा लोके तस्य ब्रह्मविषयत्वादर्शनात् ब्रह्मधर्मसमभिव्याहृतश्रुत्यन्तरे ब्रह्मविषयत्वकल्पनमपि तस्य न स्यात् । तस्माज्जीव एव दहराकाश इति पूर्वःपक्षः ।
अत्रोत्तरम् – ‘आविर्भूतस्वरूपस्तु’ इति । दहरवाक्यादुत्तरस्मिन् प्रजापतिवाक्ये जीवस्यापहतपाप्मत्वादिकोक्तेर्दहरो जीव इति शङ्का न कार्या । यतस्तत्राविर्भ्तपरब्रह्मस्वरूप एव जीवोऽपहतपाप्मत्वादिरूपः प्रतिपाद्य इति , तेन ब्रह्मण एवापहतपाप्मत्वादिकमुक्तं भवति । तत्र हि ‘य एषोऽक्षाणि’ इत्यादिषु त्रिष्वपि जागरस्वप्नसुषुप्तिअर्यायेषु ‘एष आत्मा’ इति ‘एतदमृतमभयमेतत् ब्रह्म’ इति च जीवस्य ब्रह्मभावः श्रूयते । तत्र ‘एष आत्मा’ इत्यपहतपाप्मत्वादिधर्मकान्वेष्टव्यात्मरूपत्वं ‘अमृतम्’ इति भूमाख्यनिरतिशयानन्दरूपत्वं ‘अभयम्’ इति रागद्वेषादिकलुषसंसाराख्यमहाभयराहित्यञ्चोक्त्वा ब्रह्मण एव हि तत्प्रसिद्धम् , तत् कथञ्जीवस्योच्यत इति तटस्थशङ्कायां ‘एतत् ब्रह्म’ इति चोक्तम् । तत्र यद्यपि जागराद्यवस्थावत्त्वरूपं जीवलिङ्गं प्रथमश्रुतम् ; तथाऽपि अमृतत्वाभयत्वाभ्यां ब्रह्मलिङ्गाभ्यां ब्रह्मश्रुत्या चैकैकमनुवाद्यं जीवलिङ्गं बह्वनुग्रहन्यायेन , अंगुष्ठाधिकरणन्यायेन चोपमृद्य तत्तदवस्थोपलक्षितस्य जीवस्य ब्रह्मभावो विधीयते । एवञ्च ‘एवमेवैष सम्प्रसादः’ इत्यादि चतुर्थपर्यायवाक्यं जीवस्य शरीरद्वयविवेकावधारणरूपत्वंपदार्थशोधनपूर्वकेण ब्रह्मात्मभावसाक्षात्कारेणावस्थात्रयानुवृत्तत्वेऽप्यनृततिरोहितस्यापहतपाप्मत्वादिधर्मकनिरस्तनिखिलसंसारमहाभयनिरतिशयानन्दरूपब्रह्मात्मभावस्याविर्भावं प्रतिपादयतीत्येव वक्तव्यम् । निर्गुणविद्यायां सविशेषब्रह्मलोकावाप्तिकथनस्यानुपयोगात् मुक्तानां यावत्सर्वमुक्तिं बिम्बेश्वरभावापत्तिरस्तीत्यस्माभिस्सिद्धान्तलेशसंग्रहे समर्थितत्वेनाविर्भूतस्वरूपस्य सत्यकामत्वं सत्यसङ्कल्पत्वञ्चोपपद्यते । तस्य शुद्धचैतन्यभावापत्त्यभ्युपगमेऽप्युपपद्यत एव ; शुद्धचैतन्यस्य जीवेश्वरानुस्यूतचैतन्यसामान्यात्मनाऽवस्थानात् ।
शुद्धचैतन्यं हि यावत्सर्वमुक्ति जीवेश्वरानुस्यूतचैतन्यसामान्यात्मनाऽवतिष्ठते , न तु तृतीयकोटितया पृथगवतिष्ठते । न हि शुद्धमुखं बिम्बप्रतिबिम्बानुस्यूतमुखसामान्यात्मना विना पृथगवतिष्ठमानं दृश्यते । अत एव साक्षात्कृतब्रह्मणां यावत्सर्वमुक्ति सर्वात्मतापत्तिरस्तीति वामदेवस्य मनुसूर्यादिभावप्रतिपत्तिः श्रूयते । शुकस्य च सर्वभूतमयत्वापत्तिः स्मर्यते । एवञ्च मुक्तस्य सार्वभ्ॐआदिमानुषात्मना , इन्द्रादिलोकपालात्मना , दहरोपासनादिफलानुभवितृपुरुषात्मना च जक्षणादिकं सर्वलोककामावाप्तिमत्त्वं ब्रह्मलोकसाअहितसत्यकामानुभवितृत्वञ्च व्यपदेष्टुं शक्यमिति जक्षणादिश्रवणमप्युपपद्यते । न चैवं मुक्तस्य सर्वात्मतापत्त्या तत्तद्दुःखभोक्तृत्वस्यापि व्यपदेशप्रसङ्गः ; मुक्तस्य निरस्ताविद्यस्य जक्षणादिजन्यसुखवृत्त्यवच्छिन्नस्वप्रकाशानन्दरूपतापत्तिवदाविद्यकदुःखित्वापत्तेरभावात् । अन्यदिह प्रजापतिविद्यायामुपपादनीयं सर्वं ‘ज्योतिर्दर्शनात्’(ब्र.सू.१.३.४०) इत्यधिकरणे चिन्तयिष्यते ।
यत्तु दहरविद्याप्रकरण एव स्वसङ्कल्पसमुत्थितातीतनिजपित्रादिमत्त्वरूपतयोपवर्णितं सत्यकामत्वं ब्रह्मणि न सम्भवतीत्युक्तं – अत्र ब्रूमः । द्वयमिह सत्यकामत्वं निरूपितम् । एकमुपास्यस्य तदुपासनाविषयतया ‘एष आत्माऽपहतपाप्मा’ इत्यादावुक्तम् । द्वितीयमुपासकस्य तदुपासनाविषयतया ‘एष आत्माऽपहतपाप्मा’ इत्यादावुक्तम् । द्वितीयमुपासकस्य तदुपासनाफलतया ‘स यदि पितृलोककामो भवति’ इत्यादावुक्तम् । तत्र द्वितीयमेव संकुचितं स्वसङ्कल्पसमुत्थितपित्रादिमत्वरूपं , न त्वाद्यमपि ; तत्सङ्कोचकाभावात् । नन्विदमेव तस्यापि सङ्कोचोपपत्तेः । यद्यप्युपास्यस्य सर्वेऽपि कामनाविषयाः सङ्कल्पमात्रसृष्टाः साधारणप्रपञ्चान्तर्गता वियदादयोऽपि सत्याः , न तु वितथा मनोराज्यविजृम्भितप्रातिभासिकवस्तुवद्भोगानुपयुक्ताः , तथाऽप्युपासकस्य सङ्कल्पसमुत्थिताः स्वासाधारणभोगोपयुक्ताः पित्रादय एव सत्या न तु वियदादयोऽपीति तावन्मात्र एव सत्यकामत्वविषयतत्क्रतुन्यायावतार इति ।
नन्वेतदनुसारेणोपास्यगतं सत्यकामत्वं न सङ्कोचनीयम् ; किन्तु तत्क्रतुन्याय एवेत्यत्र किं विनिगमकमिति चेत् ; उच्यते । सत्यकामत्वसङ्कोचे सत्यसङ्कल्पत्वमपि सङ्कोचनीयम् ; ‘सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’ इत्यादिनोपासकगतसत्यसङ्कल्पत्वस्यापि सङ्कोचितत्वात् । ततो वरमेकस्यैव तत्क्रतुन्यायस्य गुणद्वयविषयेऽपि सङ्कोचकल्पनम् । किञ्च सर्वेश्वरत्वगुणविशिष्टोपासनायां तत्क्रतुन्यायस्यावश्यकः संकोचः । न च तथोपासनैव नास्ति ; ‘कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरश्च शंभुराकाशमध्ये’ इत्यथर्वशिखायां श्रवणात् । तस्मात् तत्क्रतुन्यायस्यैव क्वचिद्गुणे क्लृप्तः सङ्कोचोऽन्यत्रापि स्वीकार्यः । एतेनेदमपि निरस्तम् – दहरविद्यायां वर्णितं गुणाष्टकं तिरोहितमेव ग्राह्यं प्रजापतिविद्यायामिवात्रापि ‘स्वेन रूपेणाभिनिष्पद्यते’ इति ब्रह्मज्ञानेन तस्याविर्भाववर्णनात् , विशिष्य सत्यकामत्वतिरोधानवर्णनाच्च , तत्तु जीवस्यैव सम्भवति , न ब्रह्मण इति । यतस्तत्र उपासनाफलस्याविर्भावतिरोभाववर्णनम् , न तूपासनीयस्य । तत्त्वतिरोहितं नित्याविर्भूतमेव ग्राह्यम् ; तिरोधानावचनात् । वस्तुतस्त्विदानीं सङ्कल्पसृज्या अनृततिरोहितास्सात्याः कामा जीवनामतीतवर्तमानपितृपुत्रादयो न सन्त्येव । दहराकाशे इदानीं सतामेव तेषामनृततिरोहितत्वश्रवणं तु दहरोपासनासिद्धानां ब्रह्मलोकप्राप्त्यनन्तरमयत्नलभ्यत्वप्रतिपत्त्यर्थमतिशयोक्तिमात्रम् ।
ननु च भूतार्थवाद एव किं न स्यात् ‘अत्र ह्येते सत्याः कामाः तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्च्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः’(छा.८.३.२) इति हिरण्यनिधिदृष्तान्तेनोपपादनस्य तात्पर्यलिङ्गस्य सत्त्वात् , धनलोलुपानां धनान्धानां धनविषयमनोराज्यरूपेण सङ्कल्पेन शुक्रस्य धनगृहे धनं सृज्यत इति भारतरामायणादिवचनप्रामाण्यादङ्गीकर्तव्यत्वेन तद्वत् सर्वेषामपि सङ्कल्पेन दहराकाशे पितृपुत्रादिबान्धवान्नपानगीतवादित्रादिभोग्यसृषिसम्भवाच्चेति चेत् –
मैवम् । ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितस्समुत्तिष्ठन्ति’(छा.८.२.१) इत्यादिपूर्वखण्डे ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’(छा.८.१.६) इति तत्पूर्वप्रकृतं दहरोपासनया ब्रह्मलोकगतं स इति परामृश्य तत्सङ्कल्पेन पित्रादिसृष्ट्युक्त्यनन्तरं ‘त इमे सत्याः कामाः’ इति तानेव पित्रादीन् पराम्श्यानृततिरोहितत्वस्योच्यमानतया तेषामिदानीमसत्त्वस्य स्पष्टत्वात् । ‘अनुविद्य व्रजन्ति’ इत्यस्य दहराकाशमुपास्य ब्रहलोकं प्रन्तीत्येतावत्पर्यन्तमर्थं स्वीकृत्य दहरोपासकानामिहैव कालेन सत्याः कामा निष्पद्यन्ते तेषाञ्चानृततिरोहितत्ववचनमपेक्षितमिति तिरोधानवचनश्रद्धया समर्थनेऽपि दहरोपासनारम्भात् पूर्वं सत्यकामत्वाद्यभावात्तद्वत्तया न जीवस्योपास्यत्वसिद्धिः । सिद्धसाध्यधर्मग्रहणसंशये च सिद्धग्रहणं न्याय्यमित्यलं विस्तरेण ।
यत्तु – जीवस्य देहेनासाधारणसम्बन्धोऽस्तीति तत्र तस्य पुरमिति व्यपदेशो युक्तः , न तु ब्रह्मण – इति तत्तुच्छम् ; ब्रह्मणोऽप्यसाधारणतयोपलब्धिस्थाने तस्मिन् तत्पुरमिति व्यपदेशोपपत्तेः , ब्रह्मप्रातिपदिकार्थस्य प्रधानतया तद्विशेषणभूतषष्ठ्यर्थस्य तदनुसारेण नेतव्यत्वाच्च । यच्चोक्तमन्तश्शब्दादिस्वारस्यानुरोधेन द्यावापृथिव्यादयो मानसा एव ग्राह्या इति तेषां जीव एव समाधानोक्तिर्युक्ता, न ब्रह्मणि; स्वाप्नानामिव मानसानां जीवेऽध्यस्तत्वादिति तदपि तुच्छम् ; उपाधिपरिच्छिन्नस्य जीवस्यापि ब्रह्मणि समाहितत्वेन तत्राध्यस्तानां मानसानां ब्रह्मणि समाधाननिवारणात् , अन्यथा ब्रह्मणः सर्वाधारत्वश्रुतीनां व्याकोपप्रसङ्गात् ।
वस्तुतस्तु द्यावापृथिव्यादयो मानसा एव ग्राह्या इत्ययुक्तम् ; द्यावापृथिव्यादिश्रुतिसङ्कोचापत्तेः । उपर्यधश्चापारस्य ब्रह्मणोऽन्तरेव सर्वं समाहितमित्यभिप्रायेण ‘यस्यान्तस्स्थानि भूतानि’ इतिवदन्तश्शब्दावधारणयोरुपपत्तेः । ‘अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितम्’ इति शङ्कावाक्यगतानुवादस्य हृदयावच्छिन्न एव दहराकाशे सर्वसमाधानमुक्तमिति भ्रान्त्या ‘योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एषः’(छा.८.७.४) इतीन्द्रविरोचनयोः प्रश्नस्य प्रजापतिना छायापुरुष उपदिष्ट इति भ्रान्त्येवोपपन्नत्वात् । मानसमात्रग्रहणपक्षेऽपि ‘यदैनं जरा वाऽप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यते’(छा.८.१.४) इति शङ्कांशे भ्रान्तिमूलत्वकल्पनाया आवश्यकत्वात् । न हि स्थूलानामिव मानसानां द्यावापृथिव्यादीनां देहान्तस्समाहितत्वेऽपि जरत्कुसूलान्तर्निहितव्रीह्यादिन्यायेन देहस्य जरादौ सति भ्रंशशङ्काऽवकाशं लभते । एवञ्च सति ‘एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिताः’ इत्याचार्यवाक्यमप्यन्तेवासिगणभ्रान्तिवारणार्थतयैव व्याख्येयम् । न हि देहरूपसत्यब्रह्मपुरावच्छिन्ने दहराकाशे द्यावापृथिव्यादयस्समाहिताः येनार्थतस्तस्मिन्नवच्छेदक एव समाहितत्वमापद्यते । किन्तु तदवच्छेदमनपेक्ष्य अस्मिन् स्वरूपेण भूताकाशवद्व्यापकतयोक्ते दहराकाश एव समाहिताः – इदन्तु सत्यमवितथं ब्रह्माख्यं पुरं पुरवत्सर्वेषां विभक्ततयाऽवस्थानभूमिरिति । अत एवोक्तमापस्तम्बेन परमात्मानं प्रकृत्य ‘स वै वैभाजनं पुरम्’(आ.ध.१.८.२२.७) इति । तस्मादसङ्कुचितद्यावापृथिव्यादिसर्वाधारत्वातिरोहितासंकुचितगुणाष्टकप्रभृतिहेतुभिर्दहराकाशः ब्रह्म , ,न तु जीव इति सिद्धम् ।
सूत्रस्य – प्रजापतिविद्यावलम्बनशङ्कायामयमर्थः – उत्तरात् प्रजापतिवाक्यात् जीवस्यापि अपहतपाप्मत्वादिकं सम्भवतीति चेत् – आविर्भूतस्वरूपो जीवस्तत्रापहतपाप्मत्वादिमत्तया प्रतिपाद्यते स त्वपेजीवभवो ब्रह्मैवेति न जीवस्य जैवेन रूपेणापहतपाप्मत्वादिसम्भव इति । दहरविद्याप्रकरणगतसत्यकामत्वावलम्बनशङ्कायामयमर्थः – उत्तरात् ‘त इमे सत्याः कामा अनृतापिधानाः’ इतिसङ्कुचिततिरोहितसत्यकामत्वप्रतिपादनलिङ्गात् दहराकाशो जीव इति चेत् – दहराकाशस्तिरोहितसत्यकामत्वादिस्वरूपो न प्रतिपाद्यते , किं त्वाविर्भूतसत्यकामत्वादिस्वरूप एव ; सत्यकामत्वादितिरोधानं तु तत्क्रतुन्यायेन उपासनाफलं लभमानस्योपासकस्योक्तम् , इति । तुशब्दो ब्रह्मपुरशब्दाद्यवलम्बनशङ्कान्तरव्यावृत्त्यर्थः ॥१.३.१९॥
यदि दहराकाशो न जीवः , तर्हि ‘य एष सम्प्रसाद’ इत्यादौ जीवपरामर्शः किमर्थः ? स्तत्राह –
अन्यार्थश्च परामर्शः ॥२०॥
२०जीवस्य उपास्यदहराकाशरूपताप्रतिपत्त्यर्थो न जीवपरामर्शः , किन्त्वन्यार्थः । कथम् ? ‘एवं वित्स्वर्ग लोकमेति’(छा.८.३.३) इति प्रकृतो विद्वान् ‘य एष सम्प्रसाद’(छा.८.३.४) इति परामृश्यते । सोऽथ इदं सरीरं हित्वा ब्रह्मलोकप्राप्त्यनन्तरमस्माच्छरीरात्समुत्थाय क्रमेण शरीरद्वयविविक्तब्रह्मात्मभावसाक्षात्कारप्राप्त्या देहात्मभावं परित्यज्य परंज्योतिरुपसम्पद्य परमेश्वररूपपरब्रह्मभावं प्राप्य स्वेन रूपेण निरतिशयसुखात्मना रूपेणाविर्भवति , यत्परं ज्योतिरुपसम्पत्तव्यमित्युक्तम् , एष आत्माऽपहतपाप्मत्वादिगुणक उपास्यः , एतदेवाभयममृतं ब्रह्म इति दहराकाशपरमेश्वरोपासनस्य क्रममुक्तिफलकत्वप्रतिपत्त्यर्थ इति । अयं छान्दोग्य भाषस्वरससिद्धोऽर्थः ।
यद्वा ‘य एष सम्प्रसादः’ इति सामान्यतो जीव उच्यते । स जागरे स्थूलदेहाभिमानी सन् बाह्यपदार्थाननुभूय स्वप्ने सूक्ष्मदेहाभिमानी भूत्वा वासनामयपदार्थाननुभूयाथ सुषुप्तावस्थायामुभयशरीराभिमानं परित्यज्य दहराकाशरूपं परं ब्रह्मोपसम्पद्य स्वेन रूपेण विशेषविज्ञानकृतकालुष्यरहितेन चैतन्यात्मनाऽवतिष्ठते , यत् परंज्योतिस्सुषुप्तावुपसम्पत्तव्यम् ; एष आत्माऽपहतपाप्मत्वादिगुणक उपास्यः इति दहराकाशरूपपरमेश्वरस्योपास्यस्य जागरितस्वप्नपरिश्रान्तजीवजातसमाश्रयणीयत्वमहिमप्रतिपत्त्यर्थो जीवपरामर्शः । अयं श्रीमद्भाष्यस्वरससिद्धोऽर्थः ।
अथवा य एष सम्प्रसादः श्रीमद्भाष्यदर्शितरीत्याऽवस्थात्रयवान् , एष एवापहतपाप्मत्वादिगुणक आत्मा अमृतमभयं ब्रह्म चेति जीवस्यावस्थात्रयविलयेन पारमार्थिकब्रह्मभावोपदेशार्थो जीवपरामर्शः । अयं भामतीस्वरससिद्धोऽर्थः । अस्मिन् पक्षे अस्य वाक्यस्य वक्ष्यमाणायां प्रजापतिविद्यायां शिष्याणां जिज्ञासाजननार्थं तदर्थसङ्क्षेपरूपत्वम् , एवञ्च ‘इति होवाच’(छा. ८. ३. ४) इत्येतत् इति प्रजापतिरुवाचेत्येवमर्थकं , न तु ‘स ब्रूयात्’ इतिवदाचार्यवचनप्रतिपादकमिति द्रष्टव्यम् । सूत्रे चकारेण जीवेत्थम्भावप्रतिपत्त्यर्थोऽपि भवति जीवपरामर्श इति समुच्चीयते । प्रतिपन्ने हि जीवस्येत्थम्भावे क्रममुक्तिफलिकायां जागरावावर्तमानसंसारक्लेशपरिपन्थिन्यामस्यामुपासनायां प्रवृत्तिर्भवेदिति । १.३.२० ।
एवं वाक्यशेषगतहेत्वाश्रयां जीवाशङ्कां परिहृत्य वाक्योपक्रमगतहेत्वाश्रयां तामुद्भाव्य परिहरति –
अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥
२१दहर इत्यल्पपरिमाणश्रुतेराराग्रोपमितो जीवो दहराकाशो भवितुमर्हतीति चेत्तत्र वक्तव्यमुत्तरं प्रागेवोक्तं ‘निचाय्यत्वादेवं व्योमवच्च’(ब्र.सू.१.२.७) इति । श्रुत्या चोक्तं ‘तावनेषाऽन्तर्हृदय आकाश’ इति । शाण्डिल्यविद्यायामणीयस्त्वं नोपक्रमगतम् ; इह दहरत्वमुपक्रमगतमित्यधिकाशङ्का । वाक्यशेषगतबहुश्रुतिलिङ्गविरोधादुपक्रमगतमपि नादरणीयमित्यधिकपरिहारः । इह ब्रह्मलिङ्गानां स्पष्टत्वेऽपि दहराकाशान्तर्वर्त्यन्वयाभासाद्दहराकाशान्वयित्वेनास्पष्टता द्रष्टव्या ॥१.३.२१॥
इति दहराधिकरणम् ॥
अनुकृतेस्तस्य च ॥२२॥
२२आथर्वणिकाः समामनन्ति ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(मु.२.२.१०) अत्र ‘तत्र’ इति सर्वनाम्ना निर्दिष्टो लौकिकः कश्चित् तेजोधातुः, परं ब्रह्म वेति सप्तम्याः सति , विषये च साधारण्यात् संशये , पूर्वः पक्षः – बलीयसा हि सौरेण लौकिकतेजसा मन्देतेजश्चन्द्रतारकादि अभिभूयमानं दृष्टम् । तद्यस्मिन् सति सर्वमिदं तेजोऽभिभूयते , तत् किञ्चित् सर्वातिशायि लौकिकं तेज इति युक्तम् । न च – तत्रेति सतिसप्तमी माभूत् विषयसप्तम्यस्तु , तथा सति सूर्याद्यप्रकाश्यत्वं ब्रह्मणि सम्भवतीति वाच्यम् । तं विषयं सूर्यो न भासयतीति णिजर्थाध्याहारापत्तेः । न च तथाऽपि सूर्यदीपातेजोऽभिभावकघनकुड्यादिवदतेजस्त्वोपपत्तिः ; घनकुड्यादीनां सूर्यदीपाद्यभिभावकत्वाभावात् , घनकुड्याद्यावरणे सति चक्षुस्सन्निकर्षाभावादेव सूर्याद्यग्रहणोपपत्तेः । न चैवमपि सुवर्णरूपतेजोऽभिभावकपार्थिवभागवदतेजस्त्वोपपत्तिः । पीतिमगुरुत्वाश्रयपार्थिवातिरिक्तसुवर्णानङ्गीकारात् , प्रकाशकस्य सतस्तेजोऽभिभावकस्य तेजस्त्वनियमाङ्गीकाराच्च । तथा ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति सर्वशब्दोक्तस्य प्रकृतस्य सूर्यादितेजसोऽनुभानरूपात्तदनुकारादपि तत्सजातीयं तेज इति युक्तम् । समानेष्वेव ह्यनुकरणं दृष्टं ‘गच्छन्तमनुगच्छति’ इति यथा ।
नन्वभिभवलिङ्गं तावदसिद्धम् ; मानान्तरविरोधात् । न हीदानीं भात्येव सूर्यादौ न भातीत्येतदन्वेति । कालान्तरे तस्मिन् तेजसि सति न भास्यतीत्यर्थ इति चेत् , तर्हि विषयसप्तम्येवास्तु । क्वचन णिजर्थस्यान्यत्र भविष्यदर्थस्याध्याहार इति तौल्यात् । यदि व्यत्ययानुशासनाल्लटैव भविष्यदर्थलाभ इति नाध्याहारः , तर्हीहापि विषयसप्तमीबलाद्विषयित्वेन न भातीति सामर्थ्येन णिजर्थलाभ इति नाध्याहारः । एवमनुकारलिङ्गमप्यसिद्धम् ; पूर्वापरविरोधात् । न हि यस्मिन् सति यन्न भाति , तत्तदनुभातीति युक्तम् । न खलु यस्मिन् गच्छति यो न गच्छति , स तमनुगच्छति । उच्यते – अनुभातीत्यत्र तदपेक्षया निकृष्टभानत्वमुच्यते । अतो ‘न भाति’ इत्यत्र न मानान्तरविरोधः ; तेजोन्तराभिभूतस्य सूर्यादेर्नाहाराद्यावृतस्येव सर्वात्मना भानानिषेधात् । ‘अनुभाति’ इत्यत्रापि न पूर्वापरविरोधः ; निकृष्टभानवचनात् । एवमुभयसामञ्जस्यसम्भवे व्यत्ययानुशासनमाश्रित्य भविष्यदर्थलाभ इति वा । विषयोक्तिसामर्थ्यमवलम्ब्य णिजर्थलाभ इति वा क्लेशो नाश्रयणीयः ।
ननु ‘तस्य भासा सर्वमिदं विभाति’ इत्युक्तं सर्वप्रकाशकत्वं तेजसि न सम्भवति , तेजसश्चक्षुर्विषयमात्रप्रकाशकत्वात् । न च तत्रापि सर्वशब्दः प्रकृतसूर्यादिमात्रपरः ; सूर्यादितेजःप्रकाशे चक्षुर्व्यतिरिक्तभासमानतेजोन्तरानपेक्षणात् । यदि तेजोन्तरादृष्टमपि सर्वप्रकाशकत्वं सूर्यादिप्रकाशकत्वं वा क्वचित्तेजसि कल्प्यते , तर्हि तेजस्साजात्याभावेऽपि सूर्यादीनां ब्रह्मणैवाभिभवस्तदनुकरणञ्च कल्प्यताम् । न च – ब्रह्मपक्षो द्वयं अप्रसिद्धं कल्पनीयम् , तेजःपक्षे त्वेकमेवेति वाच्यम् ; तेजःपक्षे तथाभूतस्य धर्मिणस्तेजसोऽप्यप्रसिद्धस्य कल्पनीयत्वात् । उच्यते – तेजसस्तेजःप्रकाशकत्वं नादृष्टचरम् ; लाघवेन चाक्षुषत्वावच्छिन्ने तेजोऽपेक्षाङ्गीकारात् , दीपे तत्संयुक्तस्यालोके परस्परसंयुक्तानेककिरणात्मके तत्तत्संयुक्तकिरणस्य च तेजसः सद्भावात् , अन्ततस्सर्वत्र तत्तदवयवावयसद्भावाच्च , तद्रहितस्यापि त्रिसरेण्वादेः जालान्तरगतालोके एव भानात् । एवञ्चाभिभवानुकारलिङ्गद्वयबलात् , तेजःप्रकाशकत्वाविरोधाच्च तेजोधातुरेव कश्चिन्मन्त्रप्रतिपाद्य इति निश्चये सति भूतयोनिब्रह्मप्रकरणं नादरणीयम् ; लिङ्गाभ्यां तस्य बाधात् । न च तत्रेत्यादिसर्वनाम्नां प्रकृतपरत्वनिर्बन्धोऽस्ति ; ‘तेन रक्तं रागात्’(पा.सू.४.२.१) इत्यादावप्रकृतपराणामपि तेषां दर्शनात् ।
ननु ‘तेन रक्तं रागात्’ ‘तस्यापत्यम्’(पा.सू. ४.१.९२) इत्यादिसूत्रोदाहरणेषु ‘माहारजनं’ ‘औपगवः’ इत्यादिषु तद्धितार्थे ‘महारजनेन रक्तम्’ ‘उपगोरपत्यम्’ इत्यादिवाक्यैर्व्याख्यायमाने महारजनादेःप्रकृत्यर्थस्य शब्दतः प्रकृतत्वमस्तीति तस्य ‘तेन’ ‘तस्य’ इत्यादिसर्वनामभिः परामर्शो युक्त इति चेत् । यद्येतावता तृप्तिस्तर्हीहाप्यभिभवादिलिङ्गमालोच्य सूर्याद्यभिभावकं तत उत्कृष्टप्रकाशं तत्प्रकाशकञ्च तेजोऽस्य मन्त्रस्य प्रतिपाद्यमिति व्याख्यायमाने तेजसः शब्दतः प्रकृतत्वमस्तीति सन्तुष्यताम् । तस्मात्तेज एव किञ्चिदुपासनीयं मन्त्रप्रतिपाद्यं न तु ज्ञेयं ब्रह्म । ब्रह्मपक्षे चाचाक्षुषे ब्रह्मणि सूर्यादिप्रकाश्यत्वनिषेधस्याप्रसक्तनिषेधता स्यात् । भारूपे तस्मिन् ‘भान्तम्’ इति शतृप्रत्ययस्य ‘तस्य भासा’ इति षष्ठ्याश्च निर्विषयता स्यात् । प्रपञ्चब्रह्मभानान्यभानाभावेन ‘अनुभाति’ इत्यस्य निर्विषयता स्यात् । ‘गच्छन्तमनुगच्छति’ इत्यादौ गमनभेदे सत्येव ह्यनुशब्दो दृष्टः । न च श्रुतिदृष्टोऽयं व्यपदेशो ‘वह्निं दहन्तमयोऽनुदहति’ इति लौकिकव्यपदेशवदारोपितभेदनिमित्तो व्याख्यातुमुचित इति ।
अत्र राद्धान्तः – तेजो मन्त्रप्रतिपाद्यमिति पक्षे प्रसिद्धविलक्षणं किञ्चित्तेजस्तावदनुमन्तव्यम् । तत्प्रतिपादनावैयर्थ्याय तदुपासनविधिस्तत्फलञ्चेत्युभयं कल्पनीयम् । ब्रह्मप्रकरणञ्च बाधनीयम् । प्रकृअपरामर्शिन्यः सर्वनामश्रुतयश्चातिलङ्गनीयाः । न च तासामुक्तनिर्वाहो युक्तः । द्विविधाः हि सर्वनामशब्दाः – समभिव्याहृतपराः , व्यवस्थितैकार्थपराः । ते तु तस्मिन्नेव सन्दर्भे पूर्वप्रकृतमपेक्ष्य तदभावे प्रकरिष्यमाणमपेक्ष्योभयाभाव्ऽन्यतः प्रसिद्धिमपेक्ष्य वा भवन्ति । यथा ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’(छा.८.१.१) इति ‘स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.७.१) इति ‘इत्थं प्रच्छन्नपापस्य स एव तव शासिता’ इति । इह ‘तत्र’ इत्यादयो व्यवस्थितैकार्थपराः । नात्र सन्दर्भे तेजः पूर्वप्रकृतमस्ति । नापि प्रकरिष्यमाणम् । न च तथाभूतस्य तेजसोऽन्यतः प्रसिद्धिरस्ति । तस्मादिह सर्वनामश्रुतीनां प्रकृतब्रह्मपरत्वमवर्जनीयमिति तदतिलङ्गनदोषोऽपि स्यादेव ।
एवमपि तेजो मन्त्रप्रतिपाद्यमिति कथञ्चिदभ्युपगम्येत यदि तस्मिन्नुपासनाशेषत्वेनाभिमते मानान्तरविरोधो न स्यात् । तस्मिन्नपि सति कथं तदभ्युपगमः ? यदि हि सूर्यादितेजोऽभिभावकं ततोऽधिकप्रकाशं तस्य सर्वस्यापि प्रकाशकतया व्याप्य सर्वदा स्थितं च किञ्चित्तेजस्स्यात् कथं तन्नानुभूयते ? कथं च सौरचान्द्रादितेजसामभावेऽपि घटादिप्रकाशो न स्यात् ? न च मणिप्रभान्यायेण सूर्यचन्द्रदीपाद्यनुविधाय्येव तत्तेजः , तदीयत्वारोपाच्च सूर्यादितेजोऽभिभावकमिदमन्यत्तेजस्सूर्यादीनां सहजं निकृष्टं तेजः किञ्चित्प्रकाशमानमपि तत्करम्बितमित्येवं विवेकग्रहवैधुर्यमूलात्तदनुभवामावाभिमानः ; तथा सति दीपनिर्वापणे सति दीपप्रभामण्डलस्येव तस्यापि नाश इत्युपगमापत्तेः । न चेष्टापत्तिः ; प्रतिदीपव्यक्ति तत्तदभिभावकतेजोन्तराभ्युपगमस्य निर्मूलत्वात् । मन्त्रे तत्र तस्य तमिति पदगतैरेकवचनैस्यैव प्रतीतेः । तस्मात् प्रकृतं ब्रह्मैवात्र सर्वनामश्रुतिसार्पितं मन्त्रप्रतिपाद्यम् ; अनुकृतेः – अनुभानादित्यर्थः ।
एतदुक्तं भवति – त्यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानं तद्ब्रह्मपरिग्रहेऽवकल्पते , न तेजःपरिग्रहे । न ह्यत्र ‘गच्छन्तमनुगच्छति’ इत्यत्र तद्गमनानुकारिगमनान्तरवत्त्वमिव तद्भानानुकारिभानान्तरवत्त्वमुच्यते ; ‘तमेव भान्तम्’ इति तस्यैव भानवत्त्वोक्तिविरोधात् । न हि यत्र क्रियाभेदोऽस्ति तत्र ‘तमेव गच्छन्तमनुगच्छति’ इत्युच्यते । उच्यते तु क्रियाभेदाभावस्थले वह्निमेव दहन्तं तप्तायुःपिण्डोऽप्यनुदहतीति । तथा च भारूपे ब्रह्मण्यध्यस्तानां सूर्यादीनां तत्सत्तयैअ सत्त्ववत् , तत्प्रियतयैव प्रियत्ववच्च तद्भानेनैव भानवत्त्वमित्यपि सङ्गच्छते । यदाहुः –
‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्’ इति ।
तेजसि तु न सङ्गच्छते ; तेजोधातूनां समत्वेनान्योन्यानपेक्षत्वात् । न हि प्रदीपः प्रदीपान्तरभानेन भानवानुपलभ्यते । किञ्च ‘तस्य भासा सर्वमिदं विभाति’ इत्यत्र सर्वसब्दः सकलप्रपञ्चपरः ; सङ्कोचकारणाभावात् । न च सकलप्रपञ्चभासकत्वं तेजस उपपद्यते ; तस्य चाक्षुषमात्रभासकत्वात् , सर्वप्रपञ्चभासककिञ्चिल्लौकिकतेजोऽभ्युपगमे तमसि कस्याप्यनुपलम्भाभावप्रसङ्गात् । ब्रह्मणि तूपपद्यते ; तस्य स्वाध्यस्तसकलानुभवरूपत्वात् । तस्मात् ब्रह्मण्येव मन्त्रोऽयं व्याख्येयः । तस्मिन् रूपादिमत्त्वभ्रान्त्या प्रसक्तस्य सूर्यादिप्रकाश्यत्वस्य ‘न चक्षुषा पश्यति कञ्चिदेनम्’ इति चाक्षुषत्वस्येव निषेधः सङ्गच्छते । भारूपे तस्मिन् ‘भान्त’ इति व्यपदेशोऽपि प्रकाशान्तरमनपेक्ष्य स्वयं प्रकाशरूपत्वाभिप्रायेण ‘सविता प्रकाशते’ ‘गुरुसन्निधिमात्रेण शिष्ये ज्ञानं प्रकाशते’ इत्यादिव्यपदेशवदुपपद्यते । ‘तस्य भासा’ इति भेदव्यपदेशोऽपि विषयावच्छिन्नरूपाभिप्रायेणोपपद्यते ।
सूत्रे ‘अनुभानात्’ वक्तव्ये ‘अनुकृतेः’ इति सामान्योक्तिर्ब्रह्माध्यस्तं सूर्यादि ब्रह्मसत्तयैवास्तीतिवत् ब्रह्मस्फुरणेनैव (तेजः) स्फुरतीति युक्तम् ; शुक्त्यध्यस्तरङ्गरजतादीनामधिष्ठानभास्वररूपेणैव भास्वरत्वोपपत्त्या प्रत्यध्यासम्भास्वररूपान्तरस्येवात्रापि प्रतिवस्तु अनुभवव्यक्त्यन्तरस्याकल्पनीयत्वादिति श्रौतावधारणानुग्राहकोपपत्तिसूचनार्थम् । ‘तस्य’ इति मन्त्रगतचतुर्थपादस्य ग्रहणं तदर्थस्य सर्वप्रपञ्चभासकत्वस्य हेत्वन्तरस्य प्रदर्शनार्थम् । पञ्चम्यभावात्तस्येत्यस्य हेत्वन्तरपरत्वस्फुटमिति तत्तात्पर्यस्फुटीकरणाय स्फुटोक्तहेतुना तत्समुच्चयार्थश्चकारः । विषयवाक्ये प्राणाकाशादिपदवत् सर्वनामातिरिक्तस्य ब्रह्मणि प्रयुक्तस्य पदस्याभावात् ‘अत एव प्राणः’(ब्र.सू.१.१.१३) इत्यादाविव पक्षनिर्देशः । हेतुसामर्थ्यात् पक्ष उन्नेय इति तात्पर्यम् ॥१.३.२२॥
स्यादेतत् – ‘न तत्र सूर्यो भाति’ इत्यादिना सूर्यादीनामभिभव उच्यत इत्येव वक्तव्यम् ; ‘कुतोऽयमग्निः’ इति कैमुतिकन्यायात् । येन महता तेजसा सूर्योऽप्यभिभूयते , तेनाग्निरभिभूयते इति किमुवक्तव्यमिति हि कैमुतिकन्यायोपन्यासः शोभते । न तु – यत्र रूपादिहीने ब्रह्मणि द्रष्टव्ये सूर्यो न कारणम् , तत्राग्निर्न कारणमिति किमु वक्तव्यमिति कैमुतिकन्यायः प्रवर्तते । एवमभिभवलिङ्गेन तेजसि निश्चिते तत्रैव ‘तमेव भान्तम्’ इत्येतदपि तत्तेजोऽनुप्रवेशेन सूर्यादीनां तेजस्वित्वमित्येतदाशयं योज्यम् । न च तेजसोः समत्वादनपेक्षा ; श्रुतिबलादेवाङ्गीकारोपपत्तेः । अङ्गीक्रियते हि ज्योतिश्शास्त्रबलात् चन्द्रमण्डलस्य सौरतेजोऽनुप्रवेशादेव तेजस्वित्वमिति । एवञ्च ‘सर्वमिदं विभाति’ इत्येतदपि प्रकृतस्य सूर्यादिप्रकाशस्य सर्वस्य तत्तेजःप्रकाश्यत्वाभिप्रायं योज्यमित्याशङ्क्याह –
अपि च स्मर्यते ॥२३॥
२३‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’(भ.गी.१५.६)
‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्रौ तत्तेजो विद्धि मामकम्’(भ.गी.१५.१२) इति भगवद्गीतासु स्मर्यते । तथाचोपबृंह्मणानुसारेण ‘न तत्र सूर्यः’ इत्यादेर्ब्रह्मतेजोऽनुप्रवेशेन सूर्यादीनां तेजस्वित्वमित्येवार्थः । अपिशब्देन कठवल्लिष्वयं मन्त्रः परब्रह्मप्रकरणे श्रूयत इत्यतोऽपि परब्रह्मपर इति समुच्चीयते । न च तत्रापि तुल्या शङ्का ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इत्यानुमानिकाधिकरणसूत्रे कठवल्लिषु त्रयाणामग्निजीवब्रह्मणामेव प्रतिपादनम् , नान्यस्येति वर्णयिष्यमाणत्वात् । कैमुतिकन्यायोपन्यासस्त्वतिसौक्ष्म्येण दुर्दर्शत्वाभिप्रायेण योज्यः । यत्खलु अतिसूक्ष्मं वस्तु सौरातपेनापि न प्रकाश्यते , तत् दीपः प्रकाशयितुं नेष्ट इति किमु वक्तव्यमित्युक्तिर्युक्तैव । कठवल्लिषु ब्रह्मणो दुर्दर्शत्वमेव प्रकृतं ‘‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा’(क. ५.१४) इति । आथर्वणे तु ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छृभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः’(मु.२.२.९) इति पूर्वमन्त्रे ब्रह्म ज्योतिषां ज्योतिरित्युक्तम् ; तत्कथमित्याकाङ्क्षायां ब्रह्मैव सूर्यादीनामपि भासकमित्येतत्प्रदर्शनार्थत्वेनायं मन्त्रः पठ्यते । एवमुभयत्रापि प्रकृतस्य दुर्दर्शत्वस्य ज्योतिषां ज्योतिष्ट्वस्य चोपपादनार्थत्वेन एतन्मन्त्रपाठस्य दृष्टार्थत्वोपपत्तावप्रसिद्धतेजःप्रसिद्धतेजःकल्पनापेक्षोपासनाविध्यर्थत्वेनादृष्टार्थत्वकल्पनमनुचितमेव । इयमपि युक्तिः सौत्रेणा पिशब्देन समुच्चीयते ।
ननु पूर्वसूत्रे ब्रह्माध्यस्तस्य सूर्यादेर्ब्रह्मभानेनैव भानमनुभानं सूर्यादिविषयस्य अस्मदाद्यनुभवस्य ब्रह्मचैतन्यरूपत्वं पर्यवसितमिति व्याख्यातम् । कथमस्मिन्सूत्रे ‘यदादित्यगतं तेजः’ इति गीतावचनमनुसृत्य जगद्भासकं सूर्यादिगतं तेजो ब्राह्ममेव , न तु सूर्यादेरन्यत्तेजोऽस्तीत्येवं ब्राह्मतेजोनुप्रवेशेन तेजस्वित्वमनुभानमिति व्याख्यायते ? उच्यते – यदि कस्यचित्तेजसोऽनुप्रवेशेन तेजस्वित्वमनुभानमित्याशङ्क्यते , तदाऽपि पूर्वपक्ष्यभिमतं लौकिकं किञ्चित्सूर्याद्यभिभावकं तेजो मन्त्रप्रतिपाद्यं न सेत्स्यति , किन्तु ‘यदादित्यगतं तेजः’ इति स्मृत्यनुसारेण ब्रह्मैव मन्त्रप्रतिपाद्यं सेत्स्यतीत्युद्घाटयितुं ‘न तद्भासयते सूर्यः’ इति सूत्रितस्मृत्युदाहरणप्रसङ्गाद्भाष्ये ‘यदादित्यगतं तेजः’ इति स्मृतिरप्युदाहृता । वस्तुतस्तु ‘सर्वमिदं विभाति’ इत्यत्र सर्वशब्दसङ्कोचे कारणाभावाद्ब्रह्मणो वाऽन्यस्य वा कस्यचिद्बाह्यतेजोरूपया रभया सर्वमिदं विभातीत्यर्थस्य प्रत्यक्षपराहतत्वात् ब्रह्मणश्चैतन्यप्रभयैव सूर्यादिभासकत्वमर्थो ग्राह्यः । ‘यदादित्यगतं तेजः’ इति स्मृतौ तु सूर्यादितेजसां ब्रह्मशक्त्यधिष्ठितत्वाद्रूपादिव्यञ्जकत्वमिति ब्रह्मशक्त्यधीनत्वमात्रमुच्यते । ‘तापनी पावनी चैव शोषणी च प्रकाशिनी । नैव राजन्रवेः शक्तिः शक्तिर्न्नारायणस्य सा’ इति भारतवचनानुरोधादिति युक्तम् । अत्रानुभानस्य ब्रह्मलिङ्गस्यास्पष्टता स्पष्टैव । ‘परञ्ज्ज्योतिरुपसम्पद्य’(छा.८.३.४) इत्यादिवाक्यार्थविचारप्रसङ्गात् ‘तच्छुभ्रञ्ज्योतिषाञ्ज्योतिः’(मु.२.२.९) इति वाक्योक्तपरज्योतिष्ट्वसाधको ‘न तत्र सूर्यः’ इत्यादिमन्त्रो विचारित इति पूर्वाधिकरणसङ्गतिः ॥१.३.२३ ॥
इत्यनुकृत्यधिकरणम् ॥६॥
शब्दादेव प्रमितः ॥२४॥
२४‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’(क.२.१.१२) इति ‘‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वै तत्’((क. उ २.१.१३) इति च कठवल्लीमन्त्रश्रुतः पुरुषो जीवो वा , ब्रह्म वेति अल्पपरिमाणलिङ्गेशानश्रुतिभ्यां प्रथमचरमश्रुताभ्यां संशये –
पूर्वःपक्षः – अल्पपरिमाणात् जीवलिङ्गाज्जीवोऽयम् , ईशानशब्दस्य ब्रह्माभिधानश्रुतित्वेऽपि प्राथम्येन जीवलिङ्गस्य प्रबलत्वात् , स्वभावबलादपि प्राथम्यबलस्याधिकत्वात् ; अत एवोपक्रमाधिकरणे विधेः प्राधान्यबलमविगणय्यार्थवादस्य प्राथम्यबलमनुसृतम् । किञ्चात्र ईशानशब्दो न ब्रह्मणोऽभिधानश्रुतिः ; ‘भूतभव्यस्य’ इत्यैश्वर्यप्रतिसंबन्ध्युपादाने रूढ्यनुन्मेषात् , ‘‘पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः’(कुमा.सं.१.१६) इति श्लोके सरःप्रतिसम्बन्ध्यग्रोपादानवति सरोरुहशब्दे स्थितेऽपि पद्मशब्दप्रयोगदर्शनात् , अन्यथा ‘‘उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतस्सरसिरुहोद्भवः परागः’(क.रा.५.३९) इत्यत्र सरसिरुहशब्दस्येवात्र सरोरुहशब्दस्य रूढ्युन्मेषे पद्मपदस्य पौनरुक्त्यप्रसङ्गात् । तस्मादिह ‘ईशानो भूतभव्यस्य’ इति पदद्वयसमभिव्याहाररूपवाक्यबोध्यं ब्रह्मलिङ्गमात्रम् । तत्तु प्रथमश्रुताज्जीवलिङ्गाद्दुर्बलमिति निर्विवादम् ।
स्यादेतत् – अल्पपरिमाणं जीवलिङ्गमिह न प्रथमश्रुतम् , किन्तु ‘ईशानो भूतभव्यस्य’ इत्येतत्पूर्वश्रुतेनैतन्मन्त्रश्रुतेन च भूतभव्येशितृत्वेन सन्दष्टं अल्पपरिमाणञ्च , न जीवलिङ्गम् । तद्धि शाण्डिल्यविद्यायान्दहरविद्यायाश्च ब्रह्मणोऽपि हृदयायतनोपाधिकं सम्प्रतिपन्नम् । न च – तत्रोभयत्रापि ‘एष म आत्माऽन्तर्हृदयेऽणीयान्’(छा.३.१४.३) इति, ‘दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’(छा.८.१.१) इति च स्थाननिर्देशात् तदुपाधिकमल्पपरिमाणमिति युक्तम् , न त्वत्रेति वाच्यम् । अत्रापि ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’(क.४.१२) इति पूर्वमंत्रे स्थाननिर्देशात् । न च – आत्मशब्दस्य स्वभाववचनत्वे कस्य स्वभाव इत्यज्ञानात् जीववचनत्वे ब्रह्मवचनत्वे च तयोर्मध्याभावादिह नास्ति स्थाननिर्देशः , किन्तु मध्ये उदासीने स्वभावे तिष्ठति उदासीनस्वभावो भवतीत्येव तदर्थ इति वाच्यम् ; ‘‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वेदेवा उपासते’(क.५.३) इत्यत्र मन्त्रान्तरे प्राणापानमध्येऽवस्थानस्य , तदुपाधिकवामनत्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणापानमध्येऽवस्थानस्य , तदुपाधिकवामनत्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणापानमध्यपरतया हृदयस्थानलाभात् , आत्मशब्दस्य ‘आत्मा जीवे धृतौ देहे’ इत्यनुशिष्टदेहपरत्वोपपत्तेः , ‘आत्मैव महनीयः’ ‘आत्मा परिचर्यः’(छा. उ.८.८.४) इति विरोचनकृतदेहात्मवादोपदेशे देहविषयात्मशब्ददर्शनाच्च । किञ्च ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’इत्यत्रत्यमन्त्रान्तरे हृदयोपाधिनिर्देशः स्पष्ट एवास्ति । नन्वंगुष्ठमात्र इति मात्रशब्देनाधिकपरिमाणव्यावृत्तिः क्रियमाणाऽन्तःकरणोपाधिसंपिण्दितरूपे जीवे सम्भवति , न ब्रह्मणीति चेत् ; न । मात्रशब्दो ह्यत्र प्रमाणवाचिप्रत्ययः ‘प्रमाणे द्वयसज्दघ्नञ्मात्रचः’(पा.सू.५.२.३७) इति सूत्रेणानुशिष्टः , न तु ‘क्षीरमात्रं पिब’ इत्यत्रेवोत्तरपदत्वनियतं प्रातिपदिकम् । तथा सति अङ्गुष्ठपरिमाणमात्र इत्यर्थलाभायांगुष्ठशब्दस्याङ्गुष्ठपरिमाण इत्यर्थे लक्षणापत्तेः ।
ननु ‘अथ सत्यवतः कायात्पाशबन्धवशाङ्गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ इति जीवोऽङ्गुष्ठमात्रः स्मर्यते । को नेत्याह ? न हि वयं जीवस्याङ्गुष्ठमात्रत्वं नास्तीति ब्रूमः , किन्तु ब्रह्मण्यपि सम्भवता तेन ब्रह्मलिङ्गं न बाधनीयमिति ब्रूमः । ब्रह्मण्यङ्गुष्ठमात्रत्वसम्भवेऽपि ‘अङ्गुष्ठमात्रं पुरुषम्’ इति स्मार्तशब्दप्रत्यभिज्ञा जीव इव न सम्भवति इति चेत्, माभूत् , ‘अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्’(महानारा १६.३) इति तैत्तिरीये, ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषामनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति’(श्वे.उ. ३.१३) इति श्वेताश्वतरे च ब्रह्मविषयमन्त्रश्रवणेन ब्रह्मणि ततो बलवती प्रथमान्तश्रौतशब्दप्रत्यभिज्ञा जागर्ति । तस्मादंगुष्ठमात्रत्वलिङ्गाज्जीव इति निर्णयो न युक्त इति चेत् ;
अत्र ब्रूमः – अंगुष्ठमात्रत्वं न भूतभव्येशितृत्वेन सन्दष्टम् , किन्तु तदेव मन्त्रद्वये पठितमपि ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति तत्प्राक्श्रुतेन ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा’ इति तदनन्तरश्रुतेन चाङ्गुष्ठमात्रत्वेन सन्दष्टम् । अङ्गुष्ठमात्रत्वञ्च हृदयायतनोपाधिकं ब्रह्मणि न सम्भवति ; तैत्तिरीये हृदयाग्रवर्त्यतिसूक्ष्मवह्निशिखामध्यस्य ब्रह्मायतनत्वेनोक्ततया तदुपाधिकस्याणीयस्त्वस्यैव प्राप्तेः , तदभिप्रायेणैव शाण्डिल्यविद्यायां तस्य श्यामाकतण्दुलादप्यणीयस्त्वोक्तेः ; दहरविद्यायां पुण्डरीकदहरत्वोक्त्यैव दहरत्वसिद्धावपि पुनर्दहरत्वोक्त्याऽतिसूक्ष्मत्वस्य व्यञ्जनाच्च । तैत्तिरीये ब्रह्मणोऽङ्गुष्ठमात्रत्वश्रवणमंङ्गुष्ठावच्छेदोपाधिकमिति तत्रैव स्पष्टम् ।
यत्तु श्वेताश्वतरे हृदयावच्छेदोपाधिकांङ्गुष्ठमात्रत्ववर्णनं तत् ब्रह्मणो जीवात्माभिप्रायेणेति युज्यते ; ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वञ्जातो भवसि विश्वतोमुखः’(श्वे.उ.४.३) इत्यादितत्रत्यमन्त्रान्तरेषु जीवात्मना ब्रह्मोपवर्णनदर्शनात् । जीवे हि हृदयावच्छेदोपाधिकमङ्गुष्ठमात्रत्वमञ्जसा सम्भवति – अन्तःकरणसंपिण्डितो जीवः । अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानम् । हृत्कमलकोशस्तु मनुष्याणामङ्गुष्ठमात्र इति , न तु तत्र ब्रह्मण इवाग्रसुषिरवृत्तित्वादिविशेषश्रवणमस्ति । स्पष्टञ्च हृदयावच्छेदोपाधिकोऽङ्गुष्ठमात्रो जीव इति ‘‘अ ङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’(क.६.१७) इत्यत्रमन्त्रस्योत्तरार्धे ‘‘तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्’(क.६.१७) इत्यस्मिन् शरीरविविक्ततया ज्ञातव्यत्वप्रतिपादनेन । स्पष्टञ्चान्येष्वपि मन्त्रेषु ‘प्राणाधिपस्सञ्चरति स्वकर्मभिः अङ्गुष्ठमात्रो रवितुल्यरूपः’(श्वे.उ.५.७.८) इत्यादिषु । प्रत्यभिज्ञापि स्मार्त्येवानुग्राहिका ; स्मृतौ हृदयावच्छेदोपाधिकाङ्गुष्ठमात्रत्ववर्णनात् उत्क्रमणकाले जीवस्सह मनःप्राणेन्द्रियैर्हृदयं प्रविश्य तत एवोत्क्रामतीति श्रुतिप्रसिद्धेः । न च ‘न तत्र सूर्यः’ इति मन्त्रस्य तेजोविषयत्वे इवास्य मन्त्रस्य जीवविषयत्वे प्रकरणविरोधोऽस्ति ; कठवल्लिषु ‘येयं प्रेते’ इति प्रश्नानुसारेण जीवस्यापि वक्तव्यत्वात् । तस्मात् प्रथमश्रुतहृदयावच्छेदोपाधिकाङ्गुष्ठमात्रत्वलिङ्गसमर्पितो जीव एव सङ्कुचितदेहेन्द्रियादिभूतभव्येशितृत्वेन वा , असङ्कुचितभूतभव्येशितृतयोपास्यत्वेन वा ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्यत्रेव तथाभूतेश्वरात्मतयोपास्यत्वेन वा अस्मिन्मन्त्रे प्रतिपाद्यत इति ।
एवं प्राप्ते सिद्धान्तः – अंगुष्ठप्रमितः परमात्मा ; तदभिधानश्रुतिरूपादीशानशब्दात् । न च यौगिकार्थप्रतिसम्बन्ध्यनुपादान एव रूढ्युन्मेष इति नियमः ; तत्प्रतिसम्बन्ध्युपादानेऽपि रूढशब्दश्रवणप्रयुक्तरूढ्युन्मेषस्यानिवार्यत्वात् । काव्येषु तु व्यंग्यार्थप्रधानेषु यस्य शब्दस्य यौगिकार्थो व्यञ्जनाव्यापारानुकूलस्तं शब्दं यौगिकार्थ एवोपक्षीणं कृत्वा तदीयरूढ्यर्थसमर्पणार्थं क्वचित् क्वचित् पदान्तरमुपाददत इति तत्पदान्तरोपादानं न यौगिकार्थेप्रतिसम्बन्ध्युपादानस्य रूढ्युन्मेषविरोधित्वप्रयुक्तम् ; तदनुपादानेपि ‘‘तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेः धैर्यच्युतिं के मम धन्विनोऽन्ये’(क.मा. ३.१०) इत्यत्र तद्दर्शनात् । अत्र हि कैमुतिकन्यायोपयोगिसारतरायुधत्वव्यञ्जनानुकूले यौगिकार्थ एव पिनाकपाणिशब्दमुपक्षीणं कृत्वा तद्रूढिविषयशिवसमर्पणार्थपदान्तरं प्रयुक्तम् । किञ्च यस्य योगरूढिमतः पदस्य सन्निधौ तदलभ्यस्य कस्यचिदवयवार्थस्य विशेषकं किमपि प्रथममुपादीयते – यथा ‘पद्मानि यस्याग्रसरोरुहाणि’ इति यथा वा ‘लपनं पद्ममेवास्या लावण्यसरसीरुहम्’ इति – तत्पदं तद्विशेषितयौगिकार्थवशीकृतमिति तेनापि हेतुना तत्र रूढ्युन्मेषो न भवतीति वक्तुं शक्यम् । इह तु सङ्कोचकाभावादीशानपदयौगिकार्थतया तल्लब्ध एवार्थो ‘भूतभव्यस्य’ इत्यनेन पश्चादनुवदिष्यत इति नात्र तदनुन्मेषशावकाशः ।
नन्वीशानश्रुत्यनुरोधे प्रथमश्रुतस्याप्यनुवाद्यस्य तात्पर्यवता विधेयेन विरोधे सत्युपमर्दो युक्त एव ; उक्थ्याग्निष्टोमाधिकरणन्यायात् । तथा हि – ‘उक्थ्याग्निष्टोमसंयोगादस्तुतशस्त्रः स्यात्सति हि संस्थाऽन्यत्वम्’(जै.सू.१०.५.१२) इति दाशमिकाधिकरणे ‘अप्यग्निष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्ये ग्राह्यः’ इति वचनाद्राजन्यनिमित्तेनोक्थ्याग्निष्टोमयोः कर्तव्यः षोडशिग्रहयागाभ्यासः स्तोत्रशस्त्ररहितः स्यात् , तत्सहितो वेति संशये, उक्थ्यस्याग्निष्टोमस्य च सतः षोडशियागाभ्यासविधानात्तदङ्गस्य षोडशिस्तोत्रस्यानुष्ठाने क्रतोरुक्थ्यस्तोत्रान्तत्वरूपस्योक्थ्यत्वस्य अग्निष्टोमस्तोत्रान्तत्वरूपस्याग्निष्टोमत्वस्य चोपमर्दप्रसङ्गात् स्तोत्रशस्त्ररहितः स्यादिति प्रापय्य , षोडशियागाभ्यासविधिना साङ्गस्य तस्य विधानेन तदङ्गभूतयोः स्तोत्रशस्त्रयोरनिवार्यत्वाद्विधेयेन संस्थान्तरेणानुवाद्ययोरुक्थ्याग्निष्टोमसंस्थयोरुपमर्दो न्याय्य इति स्तोत्रशस्त्रसहित एव स्यात् । एवञ्चोक्थ्यसंस्थोऽग्निष्टोमसंस्थो वा यः क्रतुः प्राप्तः स राजन्यस्य न तथा , किन्तु प्राप्तसंस्थोपमर्देन षोडशिसंस्थः कर्तव्य इति । उक्तं च ‘उक्थ्यसंस्थो हि यः प्राप्तस्तथाऽग्निष्टोमसंस्थिकः । राजन्यस्य तथा नासौ किन्तु षोडशिसंस्थिकम्’ इति । एवमिहाप्यन्तःकरणोपाधिपरिकल्पितरूपतया योऽङ्गुष्ठमात्रः प्राप्तो जीवः स न तथा , किन्त्वसंकुचितसकलभूतभविष्यद्वर्तमानवस्तुनियन्तृत्वप्राप्तसकलान्तरवस्थानतया व्यापकः परमात्मैवैत्यर्थो ग्राह्यः ।
नन्विहांगुष्ठमात्रमनूद्य तस्येशानभावो विधीयते चेत् अस्तु नाम पूर्वरूपोपमर्दः । तदेव कुतोऽवसीयते । नह्यत्र किञ्चिदनुवाद्यं किञ्चिद्विधेयमित्यत्र ज्ञापकमस्तीति चेत् ‘अङ्गुष्ठमात्रः पुरुषोन्तरात्मा’ इत्युत्तरमन्त्रवशादेवमवसीयते । तत्र हि पूर्वार्द्धेन जीवमनूद्य ‘तं स्वाच्छरीरात्प्रवृहेत्’ इति तस्य स्थूलसूक्ष्मदेहद्वयादप्रमादेन बुद्धिबलेन विवेचनं विधाय विवेचितस्य तस्य ‘तं विद्याच्छुक्रममृतम्’ इति शुद्धब्रह्मभावो विधीयते । इहापि स एवार्थः संग्रहेण वर्ण्यते । अत्र ‘अङ्गुष्ठमात्रः पुरुषः’ इति जीवानुवादः । ‘ज्योतिरिवाधूमकः’ इति जडदेहान्तःकरणसंवलितस्य तस्य ततो विवेचनम् । ‘ईशानो भूतभव्यस्य’ इति तस्य ब्रह्मभावविधिरिति । ननु तद्वदत्र शुद्धब्रह्मभावोपदेशो न दृश्यत इति चेत् , न । अत्राल्पपरिमाणत्वोपमर्देन तद्विरोधिव्यापकब्रह्मभावप्रतिपत्तये व्यापकत्वोपलक्षकस्य सर्वनियन्तृत्वस्योपन्यासात् । उक्थ्याग्निष्टोमवाक्ययोरपि ह्यनूदितोक्थ्याग्निष्टोमसंस्थोपमर्दकविधेयषोडशियागसंस्थोपलक्षकं षोडशिग्रहणमेवोपस्यस्तम् ।सूत्रगत एवकारः – कथं ‘अहमिहैवास्मि सदने जानानः’ इत्यल्पपरिमाणत्वेनानुभूयमानस्य व्यापकब्रह्मभावः ? इत्याशङ्कायां वचनबलादेव , नह्यस्ति वचनस्यातिभार इति परिहारज्ञापनार्थः ॥१.३.२४॥
ननु जीवस्याप्यङ्गुष्ठमात्रत्वेनानुवादो न युक्तः । तस्याराग्रमात्रत्वश्रवणादित्याशंक्याह –
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥
२५जीवस्य हृद्यवस्थानमपेक्ष्य इदमङ्गुष्ठमात्रत्वमुच्यते । नाडीसञ्चारमपेक्ष्य त्वन्यत्र आराग्रमात्रत्वश्रवणम् । अत एवापरत्रातिसूक्ष्मनाडीसञ्चारमपेक्ष्य वालाग्रायुतभागत्वश्रवणमपि दृश्यते । नाडीहृदयादितत्तदवकाशानुसारिसङ्कोचविकासेनान्तःकरणेनावच्छिन्नो जीवोऽपि हि तथा तथा भवति । ननु हृदयापेक्षमप्यंङ्गुष्ठमात्रत्वमनुपपन्नम् ; हस्तिमशकादीनां हृदयपरिमाणभेदात् । न च तत्तदङ्गुष्ठपरिमाणं ग्राह्यम् ; खरतुरगादीनामङ्गुष्ठाभावादित्याशङ्क्योक्तं ‘मनुष्याधिकारत्वात्’ इति । मनुष्याधिकारं शास्त्रम् , अतो मनुष्यान्प्रति जीवस्य ब्रह्मभाव उपपादनीयः । मनुष्याणाञ्च हृदयं तदङ्गुष्ठमात्रमिति तदवच्छिन्नजीवस्य तथात्वेनानुवादो युज्यत एव । यत्तु भाष्ये ब्रह्मणोऽङ्गुष्ठमात्रत्वोपपादनपरतयाऽस्य सूत्रस्य व्याख्यानम् , तत् अयंमन्त्रः ‘तत्त्वमसि’ वाक्यवज्जीवब्रह्माभेदपरमहावाक्यविधयेव ब्रह्मपरावान्तरवाक्यविधयाऽपि योजयितुं शक्य इति प्रौढिवादमवलम्ब्य , न तु भाष्याभिमतम् । अग्रे ‘यदप्युक्तम्’ इत्यादावङ्गुष्ठमात्र इत्यनेन जीवानुवाद इत्यस्यैवार्थस्यानुमोदनात् । नन्वित्थमङ्गुष्ठमात्रत्वश्रवणं मनुष्यदेहापन्नज्जीवविषयतया सङ्कोचनीयनं चेत् , एवमेव भूतभव्येशानत्वश्रवणमपि देहेन्द्रियादिनियन्तृत्वविषयतया सङ्कोच्य कृत्स्नोऽयं मन्त्रः किमिति जीवपरो नाभ्युपेयते – इत्याशङ्कापरिहारार्थस्तुशब्दः । अनन्यगतिकतया कस्यचित्सङ्कोचः कृत इति तस्यापि सङ्कोचः कर्तुं न युक्तः ; जीवस्याङ्गुष्ठमात्रत्वमुपमृद्य तदभेदेनोपदेश्ये ब्रह्मणि व्यापकतोपलक्षणत्वेन तदसङ्कोचोपपत्तेरिति परिहाराभिप्रायः ॥१.३.२५॥
इति प्रमिताधिकरणम् ॥७॥
तदुपर्यपि बादरायणः सम्भवात् ॥२६॥
२६ब्रह्मविद्याधिकारित्वं मनुष्याणां यदीरितम् ।
तत्प्रसङ्गेन देवानामप्यस्तीति प्रसाध्यते ॥
मनुष्याणामुपरि ये देवास्तेषाञ्च मन्यते ।
सूत्रकारोऽधिकारित्वं तत्रार्थित्वादिसम्भवात् ॥
दिव्ये सुखे निमग्नानामपि मोक्षार्थिता भवेत् ।
तस्यापि निर्विशेषत्वात् क्षयसातिशयत्वयोः ॥
तेषां सामर्थ्यमप्यस्ति पटुदेहेन्द्रियादिकम् ।
मन्त्रार्थवादेतिहासपुराणाद्युपवर्णितम् ॥
तेषामनुपनीतानामधीतिर्नास्ति चेदपि ।
वेदो जन्मान्तराधीतः स्वयं भायान्महात्मनाम् ॥
श्रुतञ्चेन्द्रस्य विद्यार्थं गुरूपसदनं श्रुतौ ।
तेषामृषीणाञ्च नृणां मुक्तत्वमपि विद्यया ॥
सूत्रे तदुपरीत्येततन्मनुष्याणामधस्तनात् ।
व्यावर्तयति पश्वादीन् ब्रह्मविद्याधिकारतः ॥१.३.२६॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥
२७यद्यवाप्य ब्रह्मविद्यामिन्द्राद्या मुक्तिमाप्नुयुः ।
यष्टव्यदेवताऽभावात् कर्मलोपो भवेत्तदा ॥
इति चेन्मैवमाम्नायतदन्तेषु स्मृतिष्वपि ।
अनेकस्येन्द्रवह्न्यादिभावसन्प्राप्तिदर्शनात् ॥
नक्षत्रेष्ट्यर्थवादादिष्विन्द्रादीनामनेकता ।
यष्टृयष्टव्यभावादिभेदकैर्हि प्रदर्शता ॥
ततश्च मुक्तिं कस्मिंश्चिद्विद्यया समुपेयुषि ।
तदन्य इन्द्रस्तत्काले यष्टव्यः कर्मणां भवेत् ॥१.३.२७॥
स्यादेतत् –
कर्मण्येवं विरोधस्य समाधानं वितन्वतः ।
इन्द्रादिशब्दे स भवेत् कर्माङ्गमनुषु श्रुते ॥
न ह्येक इन्द्रस्तस्यार्थो नियन्तुं शक्यते तदा ।
न चानेकत्र तद्वृत्तिर्निमित्तैक्यं विना भवेत् ॥
नैवास्ति डित्थशब्दस्य सङ्केतविषयेष्विव ।
अर्थेषु तेषु तेष्वेकं निमित्तं तस्य योजकम् ॥
क्रियेतेन्द्रादिशब्दस्य यदि डित्थादिशब्दवत् ।
प्रत्यर्थव्यक्तिसङ्केतस्तदा सापेक्षता भवेत् ॥
व्यवस्थितश्चार्थ एको मन्त्राणां नैव सम्भवेत् ।
तत्सम्भवे च तच्छून्ये कल्पे ते स्युर्निरर्थकाः ॥
तस्मादिन्द्रादिशब्दस्य वाच्यो मन्त्रार्थवादयोः ।
नित्य एकैक एवार्थो न भिन्नः कालभेदतः ॥
यष्टृयष्टव्यभावस्तु न कर्मानधिकारिणाम् ।
अर्थवादैः प्रशंसार्थं कल्पितो भेदसाधकः ॥
ब्रह्मा विष्णुश्च रुद्रश्च साक्षाद्ब्रह्म च यष्टृताम् ।
यष्टव्यत्वञ्च तैर्नीतं वाच्यं तत्रैवमेव हि ॥
आत्मासाधारणं द्रव्यमन्यसाधारणं सुरैः ।
कृतं वास्त्विष्टिभिस्तेषां भेदसिद्धिः कथं ततः ॥
वस्वाद्युपासकानान्तु वस्वादिभवनोक्तयः ।
भोगसाम्यपराः कल्प्याः तेषां वस्वादिभिस्सहं ॥
अन्यथा खलु वस्वादिसंख्याधिक्यं प्रसज्यते ।
परश्शतेषु युगपत्प्रेप्सुषूपासनाफलम् ॥
दृष्टा हि विष्णुभावस्य तद्यागफलताश्रुतेः ।
तद्भोगसाम्यपरता सर्वेषामपि सम्मता ॥
सृष्टिप्रलयवाक्यानामयन्तु विषयो भवेत् ।
देवानां देहनिकरः सृज्यते ह्रियते च यत् ॥
सर्गादौ भगवान्धाता यथापूर्वमकल्पयत् ।
इत्येवमादिवाक्यानां लभ्यते चैवमार्जवम् ॥
एवञ्चास्पृष्टदेहादौ तत्तदातमिकवाचके ।
इन्द्रादिशब्दनिकरे न विरोधः प्रसज्यते ॥
अस्पृष्टमत्स्यरूपादौ परमात्मैकवाचके ।
विष्णुर्नारायणः कृष्णो विधुरित्यादिके यथा ॥
तथाचेन्द्रादिदेवानामिन्द्रत्वाद्यनपायतः ।
सह्यं सातिशयत्वं स्यात् कृच्छ्रञ्च प्रलयादिकम् ॥
तस्मान्मुक्तावसाध्यायामर्थित्वं न सुपर्वणाम् ।
इत्याशङ्काऽपनोदार्थमिदं सूत्रं प्रवर्तते ॥
शब्दं इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥२८॥
२८श्रुतिस्मृतिभ्यां देवानां शब्दप्रभवता यतः ।
अतोऽत्र नेदृशी शङ्काऽवकाशं प्रतिपद्यते ॥
एवं खल्वत्राशङ्का कृता – वर्तमानेन्द्रस्य विद्यया मुक्तौ यष्टव्येन्द्राभावादग्रे कर्मलोपो माभूदित्येतदर्थं तदानीमिन्द्रान्तरसृष्ट्यभ्युपगमे कर्माङ्गमन्त्रेषु ‘इन्द्रागच्छ हरिव आगच्छ’ ‘आयाहीन्द्र पथिभिरीडितेभिस्सोमं पिब वृत्त्रहन् शूर विद्वान्’ इत्यादिषु श्रुते इंद्रशब्दे विरोधः स्यात् । न हि भूतो भविष्यन्वर्तमानो वा तस्यैक एवेन्द्रो वाच्य इति नियन्तुं शक्यते ; विनिगमनाविरहात् , इन्द्रान्तरे यष्टव्ये तस्य तदवाच्यत्वेनैन्द्र्या गार्हपत्य इव तस्य तत्र विनियोजकश्रुत्यभावेन च लिङ्गविनियोज्यानामैन्द्रमन्त्राणां तत्र विनियोगाभावप्रसङ्गाच्च । न च तावत्स्विद्रेष्विन्द्रशब्दस्य वृत्तिरेकं प्रवृत्तिनिमित्तं विना सम्भवति । प्रवृत्तिनिमित्तञ्चैकं डित्थशब्दस्य तत्सङ्केतविषयेष्विवात्रापि तावत्स्विन्द्रेष्वनुगतं नास्ति । एवमग्न्यादिशब्दानामप्यग्न्याद्यार्थेषु । यदि चैत्रमैत्रादीनां पुत्रेषूत्पन्नेषु तद्व्यवहारार्थं पित्रादिभिरिच्छया डित्थ इति सङ्केत इव तत्तत्कालवृत्तिष्विन्द्रादिषूत्पन्नेषु तद्व्यवहारार्थं काश्यपादिभिः स्वेच्छयेन्द्रोऽग्निर्मित्रो वरुण इत्यादिसङ्केतः क्रियते , तदा वैदिकानामिन्द्रादिशब्दानां तत्तत्कालसङ्केतयितृपुरुषबुद्ध्यधीनसङ्केतापेक्षतत्तत्कालवर्तिभिन्नभिन्नार्थबोधकत्वे तत्सापेक्षत्वलक्षणमप्रामाण्यं स्यात् । व्यवस्थितश्चैकैकोऽर्थो न स्यात् । व्यवस्थितैकैकेन्द्राद्यर्थाभ्युपगमे च तदन्येन्द्रादिमतिकल्पे ‘इन्द्रागच्छ’ इत्यादिमन्त्राणां विनियोगो न स्यात् । तस्मात्तेषामनपायीन्द्रत्वादिप्रवृत्तिनिमित्तो नित्य एकैक एवार्थः स्वीकर्तव्यः ।
अत्रेयमाशङ्का स्यात् – नक्षत्रेष्ट्यर्थवादेषु ‘इन्द्रो वा अकामयत ज्यैष्ठ्यं देवानामभिजयेयमिति स एतमिन्द्राय ज्येष्ठायै पुरोडाशमेकादशकपालं निरवपत्’ ‘अग्निर्वा अकामयत । अन्नादो देवानां स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टादशकपालं निरवपत्’ इत्यादिष्विन्द्रस्येन्द्रो यष्टा अग्नेरग्निः सोमस्य सोमः सवितुः सवितेत्यादिप्रकारेण यष्टृयष्टव्यभावश्रवणादिन्द्रभेदादिकं तावत्स्वीकर्त्तव्यम् । इन्द्रादीनां स्वस्वोद्देशेन द्रव्यत्यागात्मकयागानुष्ठानानुपपत्तेः स्वस्मै सङ्कल्प्यमानस्य द्रव्यस्य स्वत्वत्यागासम्भवात् । एवमिन्द्रभेदादिकञ्च कल्पमन्वन्तरादिकालभेदेनोपपादनीयम् ; युगपदिन्द्रद्वयाद्यभावात् । तथा च एतत्कल्पादिवर्तीन्द्रः पूर्वकल्पादिस्थितायेन्द्राय तदानीं हविर्निरवपदित्यादिस्तदर्थः पर्यवस्यतीति नेन्द्रादीनां नित्यत्वं युज्यते ।
तथा मधुविद्यायां ‘तद्यत्प्रथममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति । स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’ इत्यादिश्रवणात् , उपास्येष्वन्यतमस्य वसुभावादिपरावृत्तिं विना तत्तदुपासकस्य वस्वादिभावप्राप्तौ ‘अष्टौ वसव एकादश रुद्रा द्वादशादित्याः’ इत्यादिश्रुतिप्रसिद्धवस्वादिसंख्याऽतिरेकप्रसङ्गाच्च । उपास्यानां वस्वादीनां यावदधिकारमवस्थाय परावृत्तौ पुनश्च वस्वन्तरादिसृष्टिकाले पूर्वं वस्वाद्युपजीव्यादित्यमण्डलगतरोहितादिरूपात्मकामृतोपासनाकृतोऽपि तेषु तेष्वन्यतमभावं प्राप्नुवन्तीत्येव तदर्थः पर्यवस्यतीति वसुरुद्राद्दित्यमरुत्साध्यगणानामपि नित्यत्वं न युज्यते । एवञ्चान्येषामपि देवानां प्रसिद्धाप्रसिद्धानां नित्यत्वं न युज्यत इति कैमुतिकन्यायेन सिद्ध्यति । अत एव वेदेषु वेदान्तेषु इतिहासपुराणेषु च इन्द्रादीनां सर्वेषामपि देवानां सृष्टिप्रलयौ वर्ण्येते इति ।
अत्रेदमुत्तरम् – यष्टृयष्टव्यभावस्तु नेन्द्रादिभेदसाधकः । देवैरप्यनुष्ठितानि कर्माणि मनुष्यैरनुष्ठेयानीति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थं कल्पितो हि सर्वत्र ‘देवा वै सत्रमासत’ इत्याद्यर्थवादजाते कर्मानुष्ठातृभावः ; वस्तुतो देवानां कर्माधिकाराभावेन बाधित्वात् । तथा च यष्टव्या इन्द्रादयोऽपि ज्यैष्ठ्यादिफलमेताभिरिष्टिभिः प्राप्नुवन् , अन्यैस्तत्प्राप्त्यर्थमनुष्ठेया एता इति किमु वक्तव्यमित्येवंविधेनापि कैमुतिकन्यायेन प्रशंसार्थं यष्टृयष्टव्यभावोऽपि कल्पित एव स्यात् । श्रूयते हि बृहदारण्यके साक्षाद्ब्रह्मापि ब्रह्मविद्ययैव ब्रह्मभावं प्रापत् , अन्यैर्देवर्षिमनुष्यादिभिर्ब्रह्मभावप्राप्त्यर्थं ब्रह्मविद्याऽवाप्तव्येति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थमर्थवादः ‘तदाहुः यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ इति । ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्’ इति , तथैव ‘इन्द्रो वा अकामयत’ इत्यादयोऽप्यर्थवादाः स्युः । तथा सति हि यष्टृपरेन्द्रादिपदानां भविष्यदिन्द्रादिभावेषु लक्षणा परिहृता भवति । अवश्यञ्च रोहिणीश्रवणार्द्रानक्षत्रेष्टिविध्यर्थवादेष्वेवमेवोपपादनीयम् । तैर्हि ब्रह्मविष्णुरुद्राः सर्वकल्पानुयायिनः कल्पान्तरे ब्रह्मविष्णुरुद्रान्तराभावेनाभेदेऽपि यष्टृयष्टव्यभावं नीताः । ये तु ब्रह्मविष्णुरुद्रानप्यधिकारिजीवविशेषतया प्रतिकल्पं भिन्नान्मन्यन्ते , तैरप्यभिजिन्नक्षत्रेष्ट्यर्थवादे इत्थमुपपादनीयम् । तेन हि साक्षात्परं ब्रह्मैव यष्टृयष्टव्यभावं नीतम् ।
अस्तु वेन्द्रादीनां नक्षत्रेष्टिष्वकल्पितो यष्टृयष्टयभावः । स त्विन्द्रादिभेदाभावेऽप्युपपद्यत एव । न हि नक्षत्रेष्टिषु केवला इन्द्रादयो यष्टव्याः , किन्तु ज्येष्टादीनि नक्षत्राण्यपि । तथाचेन्द्रादिभिः स्वस्वासाधारणमेकादशकपालादि द्रव्यं यागे ज्येष्ठानक्षत्रादिसाधारणं कृतमिति निर्वोढुं शक्यत्वान्न तत्र यष्टृयष्टव्यभावेन भेदसिद्धिशङ्कावकाशः । मधुविद्यायामुपासकस्य वस्वादिभावश्रवणं तु वस्वादिपदप्राप्तिपूर्वकं तत्तद्भोगसाम्यपरमुपपद्यते ‘अस्माकं भ्रातॄणां मध्ये त्वमेकः’ इति लौकिकवचनवत् । अन्यथाऽष्टाधिकसंख्येषूपासकेषु युगपदुपासनाफलप्राप्त्यर्थमुपस्थितेषु सर्वेषां वस्वादिभावप्राप्त्या तत्संख्याऽतिरेकः स्यात् । दृष्टञ्च ‘वैष्णवं वामनमालभेत स्पर्धमानः’ इति विधिशेषस्य ‘विष्णुरेव भूत्वेमान् लोकानभिजयति’ इत्यर्थवादस्य जेतृत्वे विष्णुसाम्यमात्रपरत्वम् । इन्द्रादीनां प्रतिकल्पं पूर्वदेहोपसंहारदेहान्तरसृष्टी स्तः पुण्डरीकाक्षस्येव । ‘धर्मसंस्थापनार्थाय सम्भवामि युगे युगे’(भ.गी.४.८) इत्यादिस्मृतिप्रसिद्धौ पूर्वदेहान्तर्द्धानदेहान्तरपरिग्रहाविति स एव देवसृष्टिप्रलयवाक्यानां विषयः ।
एवञ्च ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’(महानारा.५.७) इत्यादिश्रुतीनामप्याञ्जस्यं लभ्यते । यथा राष्ट्रक्षोभे या दग्धगृहाः प्रजाः , ता एव पुनर्गृहान्तरनिर्माणेन राजा कल्पयति , एवं याः सूर्याचन्द्रमसद्युपृथिवीप्रभृतयो देवताः प्रलयेनोपसंहृतदेहास्ता एव सर्गादौ पुनर्देहान्तरनिर्माणेन प्रजानां पतिरकल्पयदिति हि तदर्थः प्रतीयते । न चैवमपि देवमनुष्यादिशब्दानामिवेन्द्रादिशब्दानां देहविशिष्टात्मवाचकत्वस्य वक्तव्यत्वादेकस्येन्द्रादेः प्रतिमन्वन्तरं भिन्नानां बहूनां देहानां तत्तन्मात्रानुगतजात्यवच्छिन्नत्वाभावदेकैकदेहविशिष्ट एवेन्द्रादौ पृथक्पृथक्सङ्केतोऽङ्गीकर्तव्य इति पुनरपि शब्दविरोधस्तदवस्थ इति वाच्यम् । इन्द्रादिशब्दानां वज्रायुधादीनीव विग्रहानपि विहाय आत्मवाचकत्वोपपत्तेः । विष्ण्वादिशब्दानां परस्परविलक्षणमत्स्यादिमूर्तीरपहाय व्यूहावतारादिसकलमूर्त्यनुस्यूतपरमात्ममात्रवाचकत्वदर्शनात् । तस्मान्नित्यसंसारिवादिमते संसारित्ववन्नित्यत्वेनानपायिन इन्द्रत्वादेर्विद्ययाऽपासितुमशक्यत्वादिन्द्रचन्द्रादिपदानां सातिशयत्वं सातिशयमुक्तिवादिमते मुक्ताविव संसार एव सोढव्यम् । तथा प्रलयमन्वन्तराद्यखिलमपीति देवानां मुक्तेः साधयितुमशक्यतया तत्साधनसामर्थ्याभावात् , तदुपयोगिश्रवणादिप्रवृत्तिकरार्थित्वासम्भवाच्च न मुक्तिसाधनविद्यार्थेषु श्रवणमनननिदिध्यासनसगुणोपासनेष्वधिकार इति ।
नेयमाशङ्काऽवकाशं लभते , ‘एत इति वै प्रजापतिर्देवानसृजत , असृग्रमिति मनुष्यान् , इन्दव इति पितॄन्’ ‘स भूरिति व्याहरत् स भूमिमसृजत , स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत’(तै.ब्रा.२.२.४.२) ‘वेदेन रूपे व्याकरोत् सतासती प्रजापतिः’ ‘सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे’ ‘नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः’(मनु.१.२१) इत्यादिश्रुतिस्मृतिगणाभ्यां देवादिकस्य सर्वस्य जगतो वेदशब्दप्रभवत्वावसायात् ।
ननु वेदवत् ब्रह्मप्रभवस्य जगतः कथं वेदशब्दप्रभवत्वं कथञ्च तावतेन्द्रादिशब्दाविरोधपरिहार इति चेत् ; अत्राहुः – पूर्वस्यामिन्द्रादिव्यक्तौ विनष्टायां जगत्स्रष्टा वैदिकादिन्द्रादिशब्दान्मनसि विपरिवर्तमानात्पूर्वेन्द्राद्याकारैश्वर्यादिकं बुद्धावालिख्य तदाकारैश्वर्ययुक्तामेवापरामिन्द्रादिव्यक्तिं सृजति , यथा कुलालो घटादिशब्दान्मनसि विपरिवर्तमानात् प्राचीनघटाद्याकारमनुसन्धाय तदाकारां घटादिव्यक्तिं सृजतीत्यनेनरूपेण निमित्तकारणभूतवैदिकशब्दप्रभवत्वमिहाभिमतम् । तेन चेन्द्रादिशब्दानां जातिनिमित्तकत्वद्योतनात् साङ्केतिकत्वशङ्कामूलकशब्दविरोधपरिहारो लभ्यते । जातिनिमित्तकेभ्यो हि घटादिशब्देभ्य उक्तरीत्या निमित्तभूतेभ्यस्तत्तदर्थाः प्रभवन्तो दृश्यन्ते । साङ्केतिकास्तु डित्थादिशब्दाः प्रागुत्पन्नैः पित्रादिभिर्व्यवहारार्थं नामधेयापेक्षैः प्रयोज्यमानाः स्वयमेवार्थेभ्यः प्रभवन्ति । जातिनिमित्तकत्वञ्चेन्द्रादिशब्दानां पूर्वापरेन्द्रादिग्रहानुगतैकैकजातिसद्भावान्मनुष्यपशुपक्ष्यादिसब्दन्यायेन , त्रिदिवत्वादिजात्यावच्छिन्नैकैकस्थानाधिपत्यसद्भावान्नरपत्यमात्यादिशब्दन्यायेन चोपपद्यत इति ।
अत्रेदमाक्षिप्यते – इन्द्रादिशब्दानां उक्तरीत्या गौणमप्यर्थसृष्टिनिमित्तत्वमसिद्धम् ; अर्थसिद्ध्यर्थमपेक्षितस्य तदनुसन्धानस्य प्राक्तनतदनुभवादेव सम्भवेन तद्वाचकशब्दानपेक्षणात् । अत एव कैश्चिदुपकरणैः किञ्चिदर्थनिर्माणं दृष्ट्वा तद्वाचकशब्दानभिज्ञा अपि नानाशिल्पनिपुणास्तैरुपकरणैस्तथाभूतमेव व्यक्त्यन्तरं निर्मिमाणा दृश्यन्ते । शिल्पिनां प्रतिमादिनिर्माणार्थं तदनुसन्धानस्य शास्त्रापेक्षत्वेऽपि परमात्मनो जगत्सृष्ट्यर्थं जगदनुसन्धानस्य तत्सापेक्षत्वमसिद्धम् ; तस्य स्वत एव सर्वज्ञत्वात् । अत एव सास्त्रयोनित्वाधिकरणे तस्य शास्त्रानपेक्षमेव सार्वज्ञ्यं शास्त्रयोनित्वेन साधितम् । आगन्तुकसार्वज्ञ्यश्चतुर्मुखो देवादीनां नामरूपस्रष्टा , न साक्षात् परमात्मा इति चेत् , न । देवादीनां नामरूपस्रष्टा परमात्मैवेति संज्ञामूर्तिक्लृप्त्यधिकरणे निर्णीतत्वात् । अस्तु वा चतुर्मुखोऽपि, तदीयस्यापि सृज्यानुसन्धानस्य वाचकशब्दापेक्षत्वमसिद्धम् ; ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्’ इति पूर्वकल्पानुष्ठितसत्कर्माधीनस्यापि तत्सार्वज्ञ्यस्य सहजत्वश्रव्णात् । देवादीनां वाचकशब्दप्रभवतायां ‘एत इति वै प्रजापतिर्देवानसृजत’ इत्यादिश्रुत्युदाहरणमप्ययुक्तम् ; ‘एते’ ‘असृग्रम्’ ‘इन्दवः’ इति पदानां देवमनुष्यपितृवाचकत्वाभावात् , कथञ्चिद्योगादिनापि तत्तत्सृष्ट्युपयोगितत्तदाकृतिविशेषोपस्थितिजनकत्वासम्भवाच्च ।
यत्तु – एतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं ; तत्प्रधानदेहेरममाणानां मनुष्याणां असृग्रशब्दः । इन्दुमण्डलस्थपितॄणामिन्दुशब्द इति , तदयुक्तम् ; कल्पादौ देवसृष्टेः पूर्वं तत्स्रष्टुः करणेष्वधिष्ठातृत्वेन देवानां सन्निधानासम्भवात् । तत्सम्भवेऽप्येत इत्येकेन सर्वनामशब्देन तत्तद्देवासाधारणाग्निसूर्येन्द्रादिपदजातेनेव तत्तद्देवजातीयव्यक्त्यन्तरसृष्ट्यनुकूलायाः परस्परव्यावृत्तजात्यवच्छिन्नतत्तद्देवोपस्थितेरसम्भवात् । तत्सम्भवेऽपि ‘एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभग’ इत्यस्मिन्मन्त्रे लतारूपसोमदेवत्यबहिष्पवमानस्तोत्रविनियुक्ते ‘छन्दांसि वै सोममाहरंस्तं गन्धर्वो विश्वावसुः पर्यमुष्णात्तेनापः प्राविशत् । तं देवता अन्वैच्छन् । तं विष्णुरप्सु पर्यपश्यत् । स ह्यकाङ्क्षादयं नु नाप्य इति । तं पुरा प्रास्फुरत्तस्मात् पृथगिन्दवोऽसृज्यन्त । स देवताभ्योऽभितस्तिष्ठन्तीभ्यः एते असृग्रमिन्दव इति प्राब्रवीत् । बहिष्पवमानेन वै यज्ञः सृज्यते । यदेते असृग्रमिन्दव इति प्रस्तौति । यज्ञमेव तत्सृष्टं देवेभ्यः प्राहेति । एत इति वै प्रजापतिर्देवानसृजत’ इत्याद्यर्थवादानन्तरश्रुतविनियोगानुरोध्यर्थवादानुसारेण , वेदभाष्यकारादिकृतव्याख्यानानुसारेण च ‘एते इन्दवस्सोमाः, तिरःपवित्रं तिर्यग्भूतं दशापवित्रं प्रति , आशवः शीघ्रगामिनः , विश्वानि सौभगा सर्वाणि सौभाग्यानि अभि उद्दिश्य , असृग्रं असृज्यन्त’ इत्येवमर्थके श्रुतस्यैत इत्यस्येन्दुशब्दोक्तसोमविशेषणतया करणाधिष्टातृदेवपरामर्शित्वासम्भवात् ।
विनियोगानुसार्यर्थवादविरोधिनः ‘एते इति वै प्रजापतिर्देवानसृजत’ इत्यर्थवादस्य ‘नृमेधश्च परुच्छेपश्च ब्रह्मवाद्यमवदेताम्’ इत्याद्यर्थवादस्य अग्निसृष्टिसामर्थ्याधानवर्णनेन ‘एते असृग्रमिन्दवः’ इति मन्त्रस्तुतौ तात्पर्योपपत्तेः । अस्यार्थवादस्य प्रथमश्रुतत्वेन बलवत्त्वोक्तावतोऽपि प्रथमश्रुतेन ‘एते असृग्रमिन्दव इति बहुभ्यः प्रतिपदं कुर्यात्’ इति बहुयजमानकक्रतुगतबहिष्पवमानस्तोत्रे उदाहृतमन्त्रस्य विनियोगविधेः शेषेण ‘एते इति सर्वानेवैनानृध्यै भूत्या अभिवदति’ इत्यर्थवादेन ‘एते’ इत्यस्य यजमानपरत्वस्य वक्तव्यतया करणाधिष्ठातृदेवपरामर्शित्वस्यानुपपत्तेः , अर्थवादद्वयमध्ये श्रुतस्याप्यस्यैव बलवत्त्वेऽपि ‘यदेत इति तस्माद्यावन्त एवाग्र देवास्तावन्त इदानीम्’ इत्यस्यैव शेषभूतेनानन्तरश्रुतार्थवादेन ‘एते’ इत्यस्यातीतवर्तमानकल्पयोरष्टौ वसव एकादश रुद्रा इत्यादिदवगणसंख्यासाम्यपरतया व्याख्यातत्वेन तत्तदसाधारणजात्यवच्छिन्नकरणाधिष्ठातृदेवपरामर्शित्वोक्तेः कथमप्यवकाशाभावाच्च । एतेन – देवादिसृष्टेर्वैदिकशब्दप्रभवत्वे ‘स भूरिति व्याहरत्’ इत्यादिश्रुतिस्मृत्युदाहरणमपि निरस्तम् ; जगत्स्रष्टुः सहजसार्वज्ञ्याधीनाया देवादिसृष्टेर्वैदिकशब्दाः’ इत्यनेन रूपेण वेदस्तुतिपरत्वस्यैव वक्तव्यत्वात् । पूर्वोत्तरेन्द्राद्यनुगतजात्युपाधिप्रदर्शनेन शब्दविरोधपरिहाराविवक्षायां च तदेव सूत्रे साक्षात्प्रदर्शनीयम् , न तु तदुपपादकत्वेनाभिमतं दुरुपपादं च इन्द्रादीनां वेदशब्दप्रभवत्वम् । तत्र श्रुतिस्मृतिदिदर्शयिषायां च ‘श्रुतिस्मृतिभ्याम्’ इत्येव सूत्रणीयम् , न ‘प्रत्यक्षानुमानाभ्याम्’ इति ; अस्फुटार्थत्वात् , गुरुत्वाच्च । तस्मात् सर्वमिदमसमञ्जसमिव भाति ।
अत्र ब्रूमः –
सृष्टिषु त्रिदशादीनां सरसीरुहभूरपि ।
कर्तैव कलशादीनां कुलाल इव सृष्टिषु ॥
अत एव तपस्तस्य सृष्टिसामर्थ्यसिद्धये ।
इतिहासपुराणेषु प्रपञ्चेन प्रदर्शितम् ॥
सृष्ट्वा समादिशत्तस्मै वेदानीश इतीरितम् ।
‘यो ब्रह्माणम्’ इति श्रुत्या यत्तस्यायं किलाशयः ॥
शिल्पी यथा शिल्पशास्त्रवचनेभ्यो मरुत्वताम् ।
विज्ञाय नामरूपाणि निर्माति प्रतिमादिकम् ॥
तथैव त्रिदशादीनां नामरूपाणि सर्वशः ।
विज्ञाय वेदशब्देभ्यो विश्वं वेधास्सृजत्विति ॥
एवं च लब्धं सार्वज्ञ्यं जातमात्रेण वेदतः ।
सहजं तेन तत्सृष्टा देवास्स्युर्वेदशब्दजाः ॥
यद्यपीन्द्रस्सहस्राक्ष इत्यादेरेव वैदिकात् ।
नैते असृग्रमित्यादेश्शब्दादिन्द्रादिसम्भवः ॥
देवसङ्ख्याक्लृप्तिरपि पूर्वकल्पानुवर्तिनी ।
अष्टौ वसव इत्यादेर्नैतस्मादेत इत्यतः ॥
तथापि महिमाऽन्यस्या वैदिक्याः पदसंहतेः ।
प्रत्यासत्त्योपचारेण स्तुतयेऽन्यत्र वर्ण्यते ॥
कल्पवृक्षवलक्षांशुलक्ष्मीप्रभवतादिकः ।
कलशाब्ध्यादिमहिमा लवणाम्बुनिधाविव ॥
समुद्रमथनोद्भूतश्शिवभूषणतात्मकः ।
कलाधर्म इव व्योम्नि चरिष्णौ चन्द्रमण्डले ॥
सर्गाद्यकालजैकैकविप्रादिव्यक्तिमात्रगम् ।
मुखबाहूरुपज्जत्वं वर्णेष्वद्यतनेष्विव ॥
एत इत्यादिशब्दानां देवसंख्याद्यवाचिनां ।
तादर्थ्योक्तिस्तु नेतव्या स्वपित्यादिनिरुक्तिवत् ॥
भाष्यं तु वेदाद्देवादिप्रभवोऽस्ति श्रुतीरितः ।
इत्येतल्लकतया साऽपि श्रुतिरुदाहृता ॥
पूर्वापरेन्द्रादिगतजातीनामेव सिद्धये ।
वेदशब्दप्रभवतां देवादीनामसूत्रयत् ॥
नामरूपाण्यनुस्मृत्य सृष्टानां हि घटादिवत् ।
समानमामरूपत्वं देवादीनां प्रसिद्ध्यति ॥
प्रसिद्ध्यन्ति ततस्तेषां नाम्नां व्यक्तिषु हेतवः ।
समानाकृत्यभिव्यंग्या वासवत्वादिजातयः ॥
साक्षात्तु जातिवाचित्वं हेतूकर्तुं ब्न शक्यते ।
असिद्धं तद्धि शंक्येत परासंप्रतिपत्तितः ॥
समाननामरूपत्वं हेतूकर्तुं न शक्यते ।
तत्रापि हेतुरत्रोक्तस्सोऽप्यग्रे दर्शयिष्यते ॥
इन्द्रादिदेवभावस्य कर्मप्रभवताऽऽत्मकम् ।
अर्थान्तरमपि क्रोडीकर्तुञ्चेत्थमसूत्रयत् ॥
समाननामाकृतयो बहवस्सन्तु विग्रहाः ।
देवत्वं त्वनपाय्यस्त्वित्याशङ्का तेन वार्यते ॥
कर्मजत्वेऽपि देवानां यौगपद्येऽपि कर्मणां ।
अष्टौ वसव इत्यादिसंख्याया न भवेत् क्षतिः ॥
संख्याश्रुतिबलात् कर्मविपाके कल्प्यते क्रमः ।
यौगपद्यमिवैतस्मिन् प्रलयोत्पातवर्णनात् ॥
यत्प्रत्यक्षानुमानाभ्यामित्यसूत्रयदस्फुटम् ।
तदप्यर्थान्तरं तेन क्रोडीकर्तुं न तद्वृधा ॥
प्रत्यक्षं प्रतिमास्वेतच्छब्दात् प्रभवतीति यत् ।
अनुमेयं विरिञ्चेन सृष्टेषु सुमनस्स्विति ॥
अयमत्र परिहारार्थः – यद्यपि संज्ञामूर्तिक्लृप्त्यधिकरणे नामरूपव्याकरणं परमेश्वरकर्तृकमिति निर्णीतम् , तथाऽपि घटादिसृष्टिषु कुलालादिवद्देवादिसृष्टिषु चतुर्मुखोऽपि कर्तैव ; इतिहासपुराणेषु तस्य सृष्टिसामर्थ्यसिद्धये तपश्चरणस्य तल्लब्धसामर्थ्येन देवादिस्रष्टृत्वस्य च वर्णनात् । ‘तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्हवै शरणमहं प्रपद्ये’(श्वे.उ.६.१८) इति श्वेताश्वतरोपनिषन्मन्त्रे श्रूयते । तत्र जगत्सृष्ट्यधिकारितया सृष्टाय प्रथमं वेदोपदेष्टुरित्थमाशयो वर्णनीयः – यथेदानीं शिल्पी शिल्पशास्त्रवचनेभ्यो देवादीनां नामरूपाणि विज्ञाय प्रतिमादिकं निर्माति , एवञ्चतुर्मुखोऽपि वेदादिवचनेभ्यस्तन्नामरूपाणि विज्ञाय देवादिकं सर्वं जगत्सृजतु इति । तस्य परमेश्रवोपदिष्टवेदलब्धं सार्वज्ञ्यं जातमात्रेण लब्धत्वात् सहजसिद्धमिति पौराणिकैर्गीयते । ततश्च वेदलब्धसृष्ट्युपयोगिनामरूपविज्ञानेन तेन सृष्टा देवा वेदशब्दप्रभवा इति युक्तमेव । यद्यपि इन्द्रादिनामानि सहस्राक्षत्वादिरूपप्रतिपादकपदानि च येषु वेदवाक्येषु सन्ति , तेभ्य एवेन्द्रादीनां तत्तन्नामरूपविशिष्टानां प्रभवः , न तु ‘एते असृग्रमिन्दवः’ इत्यादिपदसंहतेः ; यद्यपि (च) ‘अष्टौ वसवः’ इत्यादिश्रुत्यन्तरादेव देवसंख्याक्लृप्तेनात्रत्यादिन्दुविशेषणात् ‘एत’ इति पदात् , तथाप्यन्येषामपि वैदिकपदानां महिमा वैदिकत्वसामान्येन तत्सन्निकृष्टेष्वन्येषूपचारेण स्तुतयेऽर्थवादेषु वर्ण्यते ; काव्येषु यथा कल्पवृक्षप्रभवत्वादिः क्षीरसमुद्रस्य महिमा समुद्रत्वसामान्याल्लवणसमुद्रे वर्ण्यते , समुद्रमथनप्रभवत्वादिः कलाधर्मश्चन्द्रत्वसामान्यात् प्रसिद्धे चन्द्रमण्डले वर्ण्यते , मुखजत्वबाहुजत्वादिः सर्गाद्यकालप्रभवैकव्यक्तिधर्मोऽद्यतनेष्वपि ब्राह्मणक्षत्रियादिषु वर्ण्यते ।
यत्तु ‘एते असृग्रमिन्दवः’ इति मन्त्राम्नातानामेत इत्यादिपदानामर्थवादेषु देवसंख्यादिवाचित्ववर्णनं तत् ‘स्वपिति’ इत्यादिनिरुक्तिवद्यथाकथञ्चित् तत्तत्पदशक्तिसंपादनेन स्तुत्यर्थमिति नेतव्यम् । श्रूयते हि ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति’(छा.६.८.१) ‘यत्रैतत्पुरुषोऽशिशिषति नाम आप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षते अशनाया’(छा.६.८.३) इत्यादि । न हि स्वशब्दप्रातिपदिकाप्युपसृष्टैतिधात्वन्तररूपावयवद्वयघटितःस्वपितिशब्दः ; न वा बुभुक्षायां निपातितोऽशनायाशब्दो गोनायादिशब्दवत् कर्मोपपदान्नयतेरणन्तः ; तथाप्यक्षरसाम्यमात्रेण तत्र यथाऽर्थवादेषु तत्तदर्थवर्णनमेवमिहापि नेतव्यम् । यत्तु भाष्य देवानां वेदशब्दप्रभवतायां ‘एत इति वै प्रजापतिर्देवानसृजत’ इत्यादेरविवक्षितस्वार्थस्यार्थवादस्य प्रमाणतया प्रदर्शनं तदस्मिन्नर्थे श्रुतयः सन्तीति श्रुत्यन्तरोपलक्षकतया , न तु स एवार्थवादस्तत्र प्रमाणमित्याशयेन । अत एव ‘स भूरिति व्याहरत्’ इत्यादीनि श्रुत्यन्तराण्यपि भाष्ये प्रदर्शितानि । यदुक्तम् – शब्दविरोधपरिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वादिजातिवाचित्वे , तत्तत्पदविशेषाधिपत्यरूपोपाधिवाचित्वे वा हेतूकर्त्तव्ये किमर्थं सूत्रे देवानां शब्दप्रभवत्ववर्णनम् ? इति ; तत्रेदमुत्तरम् – जातिवाचित्वं पूर्वोत्तरेन्द्रादिगतजातिसिद्धिसापेक्षम् , उपाधिवाचित्वं तद्घटकपूर्वोत्तरेन्द्रादिपदगतजातिसिद्धिसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां तत्तत्पदविशेषाणां च वेदोपवर्णिततत्तन्नामरूपानुसन्धानपूर्वकं प्रजापतिना सृष्टत्वं सूत्रे वर्णितम् । तेन हि पूर्वोत्तरेन्द्रादिषु , तत्पदादिषु च घटादिष्विव नाम्नामाकृतीनाञ्च समानत्वं सिद्ध्यतीति तेषां नाम्नां साक्षादिन्द्रादिषु प्रवृत्तिनिमित्तभूततादृशोपाधिसङ्घटनसमर्थाश्च समानाकृत्यभिव्यङ्ग्या इन्द्रादिगतास्तत्पदविशेषगताश्च जातयः सिद्ध्यन्ति । साक्षाज्जातिवाचित्वस्य हेतूकरणे त्विन्द्रत्वादिजातीनां पूर्वपक्ष्यसम्मतत्वादसिद्धिशङ्का स्यात् । यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूत्रयितुं शक्यम् , तस्योदाहरिष्यमाणश्रुतिस्मृतिसिद्धत्वात् , तथापि तद्धेतुर्दाढ्र्यार्थं तस्याप्युपपादकं देवानां शब्दप्रभवत्वं सूत्रितम् । सोऽपि हेतु: ‘समाननामरूपत्वात्’(ब्र. सू. १. ३. ३०) इति सूत्रे दर्शयिष्यते ।
अपिच देवत्वेन्द्रत्वादीनां कर्माधीनत्वरूपमर्थान्तरं गर्भीकर्तुमपि ‘अतः प्रभवात्’ इति सूत्रितम् । अस्मिन्नर्थे ‘अत’ इत्यनेन पूर्वसूत्रप्रकृतकर्मपरामर्शः । प्रभवः प्रादुर्भावः कर्मजन्येष्विन्द्रादिविग्रहेषु देवत्वेन्द्रत्वादिजातिविशेषाणामभिव्यक्तिः । प्रसिद्धं हि देवत्वादीनां कर्माधीनत्वम् । तथा हि – छन्दोगब्राह्मणे तावत् ‘अतिरात्रः पृष्ट्यषडहो महाव्रतं पृष्ट्यषडहस्त्रययस्त्रिंशारंभणोऽतिरात्रः एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति’ इति देवत्वस्य कर्माधीनत्वं श्रूयते । बृहदारण्यकोपनिषदि च ‘तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यं नवतरं कल्याणतरं रूपं कुरुते, एवमेवायमात्मेदं शरीरं निहत्याविद्यागमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम्’(बृ. ४. ४. ४) इति कर्मणामैहिकशरीरत्यागानन्तरं पितृगन्धर्वदेवादिरूपप्राप्तिप्रतिपादनेन देवत्वादीनां कर्मविशेषाधीनत्वं ख्याप्यते । इतिहासपुराणेषु चन्द्रादिभावस्य शताश्वमेधादिप्राप्यत्वमुपवर्ण्यते । नहुषचरितपञ्चेन्द्रोपाख्यानादिष्विन्द्रादिभावस्याप्राप्तस्य प्राप्तेः प्राप्तस्य निवृत्तेश्च प्रतिपादनेन तत्तत्कर्माधीनत्वं ज्ञाप्यते ।
एवं देवत्वादीनां श्रुत्यादिप्रसिद्धकर्माधीनत्वसूत्रणेनेयं शङ्का व्यावर्त्यते सन्तु नामेन्द्रादीनां प्रतिकल्पं नवनवा विग्रहास्समानाकृतयः, तथापि तेषां देवत्वेन्द्रत्वादिकं नित्यमनपाय्यस्तु , इति । इत्थं च तद्व्यावर्तनम् – देवत्वादीनां तावत् कर्माधीनत्वं श्रुतिस्मृतिषु प्रसिद्धं , तत्तु श्रुतिस्मृतिस्वारस्येन तथैवाङ्गीकर्तुं युक्तम् , इन्द्रादिशब्दानामुक्तरीत्या जातिवाचित्वसमर्थनेन शब्दविरोधस्य परिहृततया तत्परिहारार्थमिन्द्रत्वादिनित्यत्वस्यासमर्थनीयत्वेन तदन्यथानयनक्लेशायोगात् इति । देवानां कर्मजत्वेऽपि तत्कर्मानुष्ठातॄणामानन्येऽपि तेषां कर्मणां यौगपद्यसंभवेऽपि न वस्वादिसंख्यानियमभङ्गः प्रसज्यते । यतो वस्वादिसंख्याश्रुतिबलेन तेषां कर्मणां विपाकक्रमः कल्प्यते प्रलयश्रुतिबलेन भिन्नकालजानामपि सर्वप्राणिगतदेहादिवियोजककर्मणां विपाकयौगपद्यवत् , उत्पातश्रुतिबलेन शिथिलिनीशलभाद्युद्गमहेतुतदीयकर्मणां विपाकयौगपद्यवच्च ।
यत्तु – ‘श्रुतिस्मृतिभ्याम्’ इति स्फुटार्थे लघुनि सूत्रे कर्तव्ये किमर्थं ‘प्रत्यक्षानुमानाभ्याम्’ इति सूत्रितमिति चोद्यम् ; तत्रेदमुत्तरम् – तेनाप्यर्थातरं क्रोडीकर्तुं तथा सूत्रितमिति न तद्वैयर्थम् । अर्थान्तरं च देवादीनां शब्दप्रभवत्वे श्रुतिस्मृत्यनुग्राहकयुक्तिरूपम् । यद्धि शास्त्रावगम्यरूपविशेष वस्त्वन्येन निर्मीयमाणं दृष्ट्वा केनचिद्बुद्धिपूर्वकं निर्मीयते तच्छास्त्रजन्यतन्नामरूपावगत्यैवेति शिल्पशास्त्रज्ञेन निर्मीयमाणेषु प्रतिमादिषु सर्वसंवेद्यमेव तत् । तमेव प्रतिमादिषु गृहीतं नियममवलंब्य सर्गादौ विरिञ्चेन सृष्टेषु देवादिषु अनुमीयते इति । तस्मात् सर्वं समंजसमेव । एवं देवानां ब्रह्मविद्यार्थश्रवणाद्याधिकारमभ्युपगच्छतः सूत्रकारस्य मते इन्द्रादीनामेकैकव्यक्तिताङ्गीकारे तन्मुक्त्यनन्तरं यष्टव्येन्द्राद्यभावात् कर्मणि विरोधः स्यात् । अनेकव्यक्तित्वाङ्गीकारे तेषामिन्द्रादिपदेषु क्रमेणागच्छताममात्यसेनापत्यादिपदेष्वागच्छतामिवानुगतानतिप्रसक्तेन्द्रादिशब्दप्रवृत्तिनिमित्तत्वयोग्यजातिमत्त्वे प्रमाणाभावात्तेषु शक्तिग्रहासम्भवेनेन्द्रादिशब्दे विरोधः स्यादिति शङ्कापरिहारार्थतया ‘विरोधः कर्मणीति चेत्’ इत्यादिसूत्रद्वयस्य भाष्याभिप्रेतयोजना दर्शिता ।
अथ देवतानां विग्रहाङ्कीकारे कर्मणि , शब्दे च विरोधः स्यादिति शङ्कापरिहारार्थतया सूत्रद्वयस्य योजनां भाष्ये कण्ठतः प्रदर्शितामुपन्यस्यामः । देवतानां विग्रहाभ्युपगमे यागादिकर्मणि सन्निधानेन भाव्यम् ; विग्रहवतोऽङ्गस्य ऋत्विगादिवत् सन्निधाय ऋतूपकारकत्वनियमात् । न च तासां यागादिदेशे सन्निधानमङ्गीकर्तुं शक्यम् ; युगपत् प्रवृत्तानेकयागदेशगमनासम्भवात् , प्रत्यक्षबाधितत्वाच्च ; इत्याद्यसूत्रे शङ्का । देवतानां योगिनामिव युगपदनेकदेहप्राप्तेः श्रुतिस्मृतिषु दर्शनात् , सामर्थ्यविशेषेणास्मदाद्यदृश्यत्वसम्भावाच्च यागदेशे तासां सन्निधानं सम्भवतीति तत्परिहारः । अथवा माभूद्यागदेशे देवतासन्निधानम् । स्वस्थानस्थितामेव देवतामुद्दिश्य युगपद्यजमानाः स्वस्वद्रव्यं त्यक्ष्यन्ति । बहुभिर्नमस्क्रियमाणस्यैकस्य ब्राह्मणस्य स्वस्थानस्थितस्यैवानेककर्तृकनमस्कारकर्मणि युगपदङ्गभावप्रतिपत्तिदर्शनात् तद्वदिहाप्युपपत्तिरिति परिहारः । देवतानां विग्रहवत्त्वे जननमरणावश्यम्भावेन इन्द्रादिजननानन्तरं तत्पित्रादिकृतमिन्द्रादिनाम डित्थादिनामवत्पुरुषबुद्धिप्रभवं भवेदिति तत्पूर्वकवाक्यार्थप्रत्ययस्य पुरुषबुध्यपेक्षितमानान्तरापेक्षत्वापत्त्या वैदिकशब्दे सापेक्षत्वलक्षणाप्रामाण्यापत्तिरूपो विरोध इति द्वितीयसूत्रे शङ्का । इन्द्रादिशब्दानां प्रागुक्तरीत्या वेदोपदर्शितनामरूपानुसन्धानसष्टेन्द्रादिविग्रहरतसमानाकृत्यभिव्यंग्यजातिवाचित्वसमर्थनेन तत्परिहारः ।
इदमत्र चिन्त्यते –
स्यात्कर्मणि विरोधश्चेद्देवानां विग्रहे सति ।
विग्रहाभावपक्षे वा कथं तत्स्यान्न दूषणम् ॥
न नियमः कथमप्युपकारके क्रतुषु विग्रहवत्यपि सन्निधेः ।
अवनिदानमुखैरुपकारको न खलु सन्निहितो नृपतिः क्रतौ ॥
अस्ति विग्रहवतोऽङ्गताजुषःसन्निधौ नियम इत्युरीकृतौ ।
व्यर्थमेव नियमे विशेषणं सर्वमङ्गमयते हि सन्निधिम् ॥
जुहूमदन्त्यादिषु किं न सन्निधिर्व्यपेक्ष्यते विग्रहवर्जितेष्वपि ।
अतः कथङ्कारमविग्रहाऽपि ते न सन्निधायाङ्गमिहास्तु देवता ॥
विग्रहेण रहिताऽपि देवता नो खलु क्रतुगणेषु केनचित् ।
इन्द्रमित्रवरुणादिशब्दिता सन्निधिं विदधती समीक्ष्यते ॥
अपि चापरिहार्यस्ते दोषोऽयं विग्रहं प्रतिक्षिपतः ।
विग्रहवती हि कुर्याद्युगपत्सन्निधिमनेककायबलात् ॥
विग्रहवती च गच्छेदङ्गत्वं देवता न सन्निहिताऽपि ।
प्रवसन्निव यजमानः कर्ता कालेषु याजमानजपस्य ॥
अविग्रहं क्रियाशब्दव्यतिरिक्तं न वीक्ष्यते ।
यत्खल्वसन्निधानेऽपि गच्छेत् क्रत्वङ्गतां क्वचित् ॥
यदि पुरुषोच्चार्यत्वाद्यागेष्विन्द्रादिशब्द एवाङ्गम् ।
न तु तत्तदर्थ इति मतिरनङ्गमर्थस्तदाऽस्तु विग्रहवान् ॥
न हि विग्रहवत्त्वे स्यादर्थोऽप्यङ्गमितीदृशम् ।
आपादनं क्रियत इत्यवकाशवती स्पृहा ॥
शब्दे विरोधो यदि विग्रहे भवेत् कथं समाधिस्तदभावसम्मतौ ।
नास्त्यर्थ एवेति यदि प्रपद्यसे दृढीभवेत्तर्हि विरोधदुर्दशा ॥
नित्योऽर्थ इत्युपगमे त्वनित्यास्सन्तु विग्रहाः ।
शब्दवाच्यबहिर्भूताः क विरोधः प्रसज्यते ॥
इत्यापत्तेरनित्यार्थे विग्रहासम्मतावपि ।
वक्तव्ये सति पूर्वोक्तविरोधतदवस्थितिः ॥
तस्मादाक्षेपभागस्य सूत्रयोरनयोर्द्वयोः ।
देवताविग्रहाक्षेपपरता नोपपद्यते ॥
अयमत्र शङ्काऽर्थः । देवताविग्रहाङ्गीकारे तदेव दूषणमुद्भावनीयम् , यत्तदनङ्गीकारे न प्रसरति । कर्मविरोधदूषणं तु तदनङ्गीकारेऽपि प्रसरति । तथा हि – विग्रहवतः क्रऋतूपकारकत्वे सन्निधाननियममवष्टभ्यकर्मणि विरोध आपादितः , उत क्रत्वङ्गत्वे ? आद्ये स्वस्थान एव स्थित्वा धनदानयज्ञवाटरक्षणादिना क्रतूपकारके राज्ञि व्यभिचारः । द्वितीये विग्रहवत इति विशेषणं व्यर्थम् ; विग्रहरहितस्यापि जुह्वादेः क्रत्वङ्गस्य सन्निधाननियमदर्शनात् । अतो विग्रहरहिताऽपि देवता सन्निधानाभावे कर्माङ्गं न स्यादिति कथं विग्रहाभावपक्षेऽपि कर्मणि विरोधो न स्यात् । न हि विग्रहरहिताऽपि देवतेन्द्रादिशब्दिता क्रतुषु सन्निहिता केनचिद्दृश्यते । अपिच विग्रहानङ्गीकार एवापरिहार्यः कर्मणि विरोध आपतति । न हि विग्रहरहितदेवतायां युगपत् प्रवृत्तेषु यागेषु कायव्यूहेन सन्निधिरिति परिहारः प्रवर्तते । किञ्च विग्रहवत्त्वे देवतायाः प्रवसद्यजमानवदसन्निधानेऽपि क्रत्वङ्गत्वमुपपादयितुं शक्यम् , न तु तद्राहित्ये । न हि विग्रहरहितं प्रवसद्यजमानजप्यमानमन्त्रेभ्यस्तत्तत्क्रियमाणविष्णुक्रमेभ्यश्चान्यदसन्निहितं क्रत्वङ्गं दृश्यते । यद्युच्येत क्रतुविन्द्रादिशब्द एवाङ्गम् ; पुरुषेणोच्चार्यतयाऽनुष्ठातुं शक्यत्वात् तु तदर्थः ; अननुष्ठेयत्वादिति , तदा तदर्थस्य विग्रहवत्त्वं कथं सन्निधानाभावेन प्रत्याख्यातुं शक्यम् ? अनङ्गत्वेन सन्निधानानपेक्षणात् । न हि विग्रहवत्त्वेऽर्थोऽप्यङ्गं स्यादित्यापादनं सम्भवति ; विशेषाभावात् ।
शब्दविरोधापादनमपि विग्रहाभावपक्षसाधारणम् । कथम् ? यदि विग्रहराहित्योक्तिभंग्येन्द्रादिशब्दानामर्थ एव नास्तीत्युक्तं स्यात् , तदेन्द्रादिशब्दघटितवैदिकवाक्यार्थानिष्पत्त्या शब्दविरोधः । अर्थाङ्गीकारेऽपि तस्य नित्यत्वाभ्युपगमे विग्रहवादिनाऽपि नित्यमिन्द्रादिशब्दार्थमङ्गीकृत्य तस्यागमापायिनां भूषणायुधादिवदिन्द्रादिशब्दवाच्यबहिर्भूतानां विग्रहाणां स्वीकर्तुं शक्यत्वात् विरोधो न प्रसज्यत इति दोषापत्तेरनित्य एवार्थे विग्रहाभाववादिनाऽप्यङ्गीकर्तव्ये सतीन्द्रादिशब्दे तत्सम्बन्धस्यानादित्वासम्भवेन पुरुषबुद्धिकल्पितत्वस्य वक्तव्यत्वाच्छब्दविरोधस्तदवस्थः । तस्मादनयोः सूत्रयोराक्षेपभागस्य देवताविग्रहाक्षेपपरता नोपपद्यत इति ।
अत्र ब्रूमः –
असारावित्थमाक्षेपौ पूर्वमीमांसकैः कृतौ ।
देवताविग्रहद्वेषभरान्धीकृतदृष्टिभिः ॥
तावेवात्रापहसितुं परिहारञ्च तात्त्विकम् ।
वक्तुं सूत्रपदारूढौ विदधे भाष्यकृन्मुनिः ॥ १.३.२८॥
एवं देवतानां ब्रह्मविद्याऽधिकारममृष्यमाणैः परैरुद्भावितं शब्दविरोधं ‘अतः प्रभवात्’ इति हेतुना परिहत्य तद्धेतूक्तिसामर्थ्यलब्धेन जगत्कारणत्वेन वेदस्यापौरुषेयत्वलक्षणं नित्यत्वं व्यवस्थापयति –
अत एव च नित्यत्वम् ॥२९॥
२९वेदः पौरुषेयो न भवति ; जगत्कारणत्वादीश्वरवत् । न चादृष्टे व्यभिचारः, स्वतन्त्रेण पुरुषेणार्थमुपलभ्य तेन हेतुना विरचितवर्णपदानुपूर्वीविशेषरूपसन्दर्भवत्त्वं पौरुषेयत्वमिति तदभावस्थादृष्टेऽपि सत्त्वात् । एवमानुषङ्गिकवेदापौरुषेयत्वसिद्धिहेतुविशेषलाभोऽपि ‘अतः प्रभवात्’ इति पूर्वसूत्रे हेतुनिर्देशस्य प्रयोजनम् । चकारः स्वतन्त्रकर्त्रस्मारणादिहेत्वन्तरसमुच्चयार्थः । १. ३. २९ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥३०॥
३०