अद्वैतशारदा

न्यायरक्षामणिः

प्रथमोऽध्यायः (२)

सूत्रे गुहां प्रविष्टौ जीवपराविति साध्य­म­ध्या­हा­र्यम् । तत्र हेतुः ‘आत्मानौ हि’ इति । यस्मादृतपानेन लिङ्गेन एकस्य चेत­न­त्व­नि­श्च­या­त्तस्य द्वितीयोऽपि चेतन इत्येवमुभावपि चेतनावित्यर्थः । ‘तद्दर्शनात्’ इति हेतूपपादको हेतुः । ‘अस्य गोः’ इत्यादिषु द्वितीयस्य गृही­त­सा­जा­त्य­नि­य­म­द­र्श­ना­दि­त्यर्थः । ‘तद्दर्शनात्’ इत्यस्य परमात्मनो गुहा­प्र­वे­श­द­र्श­ना­दिति व्याख्या­ना­न्त­र­मपि प्राक्प्र­द­र्शि­तया रीत्या बाध­को­द्धा­र­प्र­यो­ज­नकं भाष्ये दर्शितम् । तत्र तच्छब्देन गुहा­प्र­वे­श­प­रा­म­र्श­सि­द्धये , गुहाप्रवेश एव परस्य यत्नसाध्य इति सूचनाय च सूत्रे ‘गुहां प्रविष्टौ’ इति धर्मिनिर्देशः कृतः , अन्यथा प्राथम्यात् ‘ऋतं पिबन्तौ’ इत्येव स कार्यस्स्यात् । न चैवमपि तच्छब्दस्य साजा­त्य­नि­य­म­द­र्श­ना­दिति पूर्वव्याख्याने प्रकृ­त­प­रा­म­र्शि­त्व­सि­द्धि­र्ना­स्तीति शङ्क्यम् । गुहा­प्र­वे­श­प­रा­म­र्शि­न­स्त­च्छ­ब्दस्य साजा­त्य­नि­य­म­प­र­श­ब्दस्य च ‘त्यदादीनि सर्वैर्नित्यम्’(पा.सू.१.२.७२) इत्ये­क­शे­ष­क­ल्प­नो­प­पत्तेः । न च गुहा­प्र­वे­श­स्यापि निष्ठा­र्थो­प­स­र्ज­नस्य सर्वनाम्ना परामर्शो न युज्यत इति वाच्यम् । ‘सर्व­ना­म्नाऽ­नु­सन्धिः वृत्ति­च्छ­न्नस्य’(वा.सू.५.१.११) इति वामनसूत्रे कृत्त­द्धि­ता­दि­वृ­त्ति­न्य­ग्भू­त­स्यापि सर्वनाम्ना परा­म­र्श­स्या­ङ्गी­कृ­त­त्वात् ॥१.२.११ ॥

विशेषणाच्च ॥१२॥

१२

‘‘सोऽध्वनः पारमाप्नोति’(क.उ.१.३.९) इति प्राप्त­व्य­त्वे­नो­क्तस्य परस्योपरि ‘‘यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’(क.उ.२.६.१४) इत्यत्रैव प्राप्यत्वेन विशेषणात् । प्राप्यस्य प्राप्तृ­स­न्नि­क­र्षा­पे­क्षा­या­म­पे­क्षाऽ­नु­सा­रेण जीवपरयोरेवेदं गुहा­प्र­वे­श­व­र्ण­न­मिति युज्यते । तथा च सति नित्यप्राप्तस्य का नाम साधनीया प्राप्ति­रि­त्या­श­ङ्कायां प्राप्ते­र­ज्ञा­न­नि­ब­न्ध­ना­प्रा­प्ति­भ्र­म­नि­वृ­त्ति­रू­प­त­यो­प­पा­द­यितुं ‘छायातपौ’ इत्यपि सङ्गच्छते । बुद्धि­जी­व­यो­श्श­री­रा­न्त­र­व­स्थितेः प्रसि­द्ध­त्वा­त्त­यो­र्गु­हा­प्र­वे­श­व­र्णनं निष्प्रयोजनम् । तस्मा­दा­श­ङ्कि­त­बा­ध­का­भा­वा­न्म­न्त्र­नि­र्दिष्टौ जीवपराविति युक्तमेव ।

अपि च देव­द­त्त­य­ज्ञ­द­त्त­यो­र्भू­य­स्स­ह­भा­व­म­नु­भू­त­वतः ‘खलतिरन्यश्च कश्चित् द्वौ गृहं प्रविष्टौ’ इति वाक्य­श्र­व­णा­न­न्तरं खलतित्वेन लिङ्गेन तयोरेको देवदत्त इति निश्चये सति द्विती­य­स्त­द्भू­य­स्स­ह­च­रितो यज्ञदत्त इत्येव निर्णयो जायते । तथेहापि पूर्वा­प­र­म­न्त्रेषु मन्तृ­म­न्त­व्य­त्वेन , प्राप्तृ­प्रा­प्त­व्य­त्वेन च जीवपरयोर्बहुधा विशेषितत्वात् तेषु तयो­र्भू­य­स्स­म्ब­न्ध­म­नु­भू­त­व­तोऽ­स्मि­न्मन्त्रे ऋत­पा­न­लि­ङ्गा­व­ग­त­जी­व­द्वि­तीयः पर इत्येव निर्णयो भवितुमर्हति । तस्मा­द­स्मि­न्मन्त्रे निर्दिष्टौ जीवपरावेव ।

सूत्रे ‘विशेषणात्’ इत्यस्य जीवपरयोर्बहुशः पर­स्प­र­स­म्ब­न्धि­त्वेन विशेषणादिति द्वितीयार्थ एव भाष्ये कण्ठत उक्तः । प्राप्तस्य ‘अत्रैव’ इति विशेषितत्वादिति प्रथमार्थस्तु ‘सोऽध्वनः पारमाप्नोति’ इति मन्त्रो­दा­ह­र­णे­नै­वो­न्ने­तव्य इति कण्ठतो नोक्तः । चकारः प्रकरणस्य ‘ब्रह्मविदो वदन्ति’ इति वक्तृ­वि­शे­षो­पा­दा­नस्य च समुच्चयार्थः ॥१.२.१२॥

इति गुहाऽधिकरणम् ।३।

अन्तर उपपत्तेः ।१३।

१३

छान्दोग्ये श्रूयते ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्मेति । तद्य­द्य­प्य­स्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छा.उ.४.१५.१) इत्यादि । किम­य­म­क्ष्या­धा­र­श्छा­या­पु­रुषः , परमात्मा वेति संशये च्छायापुरुष इति पूर्वःपक्षः ; ‘एष’ इति प्रसि­द्ध­व­न्नि­र्दे­शात् , ‘दृश्यते’ इत्य­प­रो­क्ष­त्वा­भि­धा­नाच्च । न च यथा अन्त­रा­दि­त्य­वाक्ये अन्तरक्षिवाक्ये च तदुभयसत्त्वेऽपि परमात्मा प्रतिपाद्यः , तथेहापि स्यादिति वाच्यम् । न हि तत्र छायापुरुष इति पूर्वःपक्षः । आदित्ये प्रति­बि­म्बा­द­र्श­ने­ना­न्त­रा­दि­त्य­वाक्ये तथा पूर्व­प­क्षा­स­म्भ­वात् । तत्र च परमात्मनीव न लौकिकी प्रसिद्धिः । नाप्य­प­रो­क्ष­त्व­मिति युक्तस्तत्र परमात्मेति निर्णयः । इह च त्वक्षिवाक्ये छायापुरुष इत्येव पूर्वपक्षः । भाष्ये तु सम्भ­व­मा­त्रे­णा­त्त्र­धि­क­रणे अग्नि­पू­र्व­प­क्ष­व­दिह जीव­दे­व­ता­पू­र्व­प­क्ष­यो­रु­प­न्यासः । अतो युक्तं तदुभयालम्बनेन प्रत्यवस्थानम् । तथा­प्य­मृ­त­त्वा­भ­य­त्वा­दि­प­र­मा­त्म­लि­ङ्गै­स्त­दु­भ­य­बा­ध­स्स्यात् इति चेत् । न । पूर्वा­धि­क­र­ण­न्या­यात् प्रथ­मा­व­ग­ता­नु­सा­रेण तेषा­मे­वा­न्य­था­ने­य­त्वात् ।

नन्व­न्त­रा­दि­त्य­वाक्ये सर्व­पा­पो­द­य­लि­ङ्ग­व­दिह ‘एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामा­न्य­भि­सं­यन्ति सर्वाण्येवैनं वामा­न्य­भि­सं­यन्ति य एवं वेद’(छा.उ.४.१५.२) इत्यादिना प्रदर्शितानि संय­द्वा­म­त्वा­दि­ब्र­ह्म­लि­ङ्गानि चरमश्रुतान्यपि प्रयोजनवत्वात् बलवन्ति । तथा गायत्रीवाक्ये भूता­दि­पा­द­व्य­प­दे­श­प्र­भृ­ति­व­दा­त्म­ब्र­ह्म­श्रु­त्य­मृ­त­त्वा­भ­य­त्व­सं­य­द्वा­म­त्व­वा­म­नी­त्व­लि­ङ्गानि बाहुल्यादपि बलवन्ति । अतस्तैरेव प्रथमावगतयोरपि प्रसि­द्ध­दृ­श्य­त्व­लि­ङ्ग­यो­र­न्य­था­न­यनं युक्तमिति चेत् । सत्यम् । स्यादेव एवं यद्या­त्म­श्रु­त्या­द­य­स्स्वा­र्थ­नि­ष्ठास्स्युः , न चेह तथा । आत्म­ब्र­ह्म­श्रु­त्यो­स्सं­य­द्वा­म­त्व­गु­ण­श्र­व­णस्य चेति­श­ब्द­शि­र­स्क­त्वेन ‘मनो ब्रह्म’ इत्या­दि­व­द­त­स्मिं­स्त­द्रू­प­प्र­त्य­य­प­र­त्वा­व­ग­मात् , तद­नु­रो­धे­ना­मृ­त­त्वा­दि­श्र­व­णा­ना­मपि तन्मा­त्र­प­र­त्व­नि­र्ण­यात् । नन्वेवमेषां प्रत्य­य­मा­त्र­प­र­त्वेऽपि संय­द्वा­म­त्वा­द्य­नु­रू­प­फ­ल­श्र­व­णानि न तथाऽभ्युपेयानि । रात्रि­स­त्र­न्या­ये­नो­पा­स­ना­या­मा­र्थ­वा­दि­क­फ­ला­न्व­या­व­श्यं­भा­वात् । तानि कथं छाया­त्मो­पा­स­नायां स्युरिति चेत् । वच­न­ब­ला­द्वै­वा­हि­क­व­र­व­धू­द­र्श­ने­ना­भ्यु­द­य­व­दिति ब्रूमः ।

एतेन – पुष्क­र­प­ला­श­वा­क्या­व­ग­त­फ­लस्य ‘अर्चि­ष­म­भि­स­म्भ­वन्ति’(छा.उ.४.१५.५) इत्या­दि­वा­क्या­व­ग­त­फ­लस्य चानुपपत्तिरपि निरस्ता । न चाब्र­ह्म­वि­दा­म­र्चि­रा­दि­मार्गो नास्तीति नियमः । अब्रह्मविदामेव पञ्चा­ग्नि­वि­द्यो­पा­स­कानां सिद्धान्तेऽपि ‘तद्य इत्थं विदुः’ इति वचनबलेन तदभ्युपगमात् । ननु तथाऽप्युपक्रम एव चेत­ना­भि­धा­यि­पु­रु­ष­श­ब्द­श्र­व­णा­च्छा­या­त्मेति न युक्तमिति चेत् । न । ततोऽपि प्रथमश्रुतेन हि ‘य एष’ इति प्रसिद्धलिङ्गेन तस्यापि बाधात् । एकस्मिन्नपि ‘चतुरो मुष्टी­न्नि­र्व­पति’ इति वाक्ये प्रथ­म­श्रु­ते­सं­ख्याऽ­नु­रो­धेन सप्तदशशरावे मुष्टि­बा­धा­ङ्गी­का­रात् ।

ननु ‘य एष’ इत्येतदपि ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति ब्रह्म­प्र­क­र­णा­नु­सा­रेण ज्योति­र्वा­क्य­ग­त­य­त्प­द­वत् ब्रह्मपरं स्यादिति चेत् । न । तस्य ‘मनो ब्रह्म’ इत्या­दि­सा­रू­प्येण ब्रह्म­दृ­ष्टि­वि­धि­प­र­तया ब्रह्म­प्र­क­र­ण­सिद्धेः । तत्सत्वेऽपि ‘प्राणो ब्रह्म’ इत्या­द्य­ग्नि­वा­क्यम् , ‘य एषोऽक्षणि’ इत्या­चा­र्य­वा­क्य­मिति वक्तृभेदेन ‘अथ हैनं गार्ह­प­त्योऽ­नु­श­शास’(छा.उ.४.११.१) इत्या­दि­वा­क्य­प्र­ति­पा­दि­ता­ग्नि­वि­द्या­व्य­व­धा­नेन च तद्विच्छेदात् । न च ‘आचार्यस्तु ते गतिं वक्ता’(छा.उ.४.१४.१) इति गत्य­भि­धा­न­प­रि­शे­ष­श्र­व­णा­द­ग्नि­व­क्तृकं ब्रह्मप्रकरणं वक्तृभेदेऽपि व्यवधानेऽपि न विच्छिन्नमिति वाच्यम् । तावता अर्चि­रा­दि­ग­त्य­भि­धा­नस्य तत्रा­प्य­न्व­य­ला­भेऽपि स्थान­गु­ण­यो­रा­चा­र्य­व­क्त­व्य­त्वे­ना­प­रि­शे­षि­त­तया ‘य एषोऽक्षणि’ इत्यादेः प्रकृतेः ब्रह्म­ण्य­क्षि­स्था­न­सं­य­द्वा­म­त्वा­दि­गु­ण­वि­धा­य­क­त्वे­ना­न्व­या­ला­भात् । तस्मा­द­क्ष्या­धारः छायापुरुष इति ।

राद्धान्तस्तु – इति­श­ब्द­स्त­त्रै­वा­र्थ­वि­वक्षां वारयति यत्र प्रत्ययो विवक्ष्यते । यत्र तु उक्ता­र्था­व­च्छे­देन वच­न­स­म्ब­न्ध­स्तत्र स न तां वारयति । यथा ‘इति हस्म उपाध्यायः कथयति’ इति , इह पुनः ‘इति होवाच’ इति वच­न­स­म्ब­न्ध­स्स्पष्टः । ‘एतत् ब्रह्म’ इत्यत्रापि प्रकृत एव वच­न­स­म्ब­न्धोऽ­नु­व­र्तते । अतोऽ­र्थ­वि­व­क्षा­बा­ध­का­भा­वेन स्वार्थ­नि­ष्ठ­ब्र­हा­त्म­श्रु­त्य­मृ­त­त्वा­दि­लि­ङ्गै­र्ब­हु­भि­स्स­प्र­यो­ज­नै­श्चा­त­था­भू­तयोः प्रसि­द्धि­दृ­श्य­त्व­लि­ङ्ग­यो­श्शा­स्त्री­य­प्र­सि­द्धि­शा­स्त्र­दृ­ष्टि­रू­प­तया नयनं युक्त­मि­त्य­क्ष्या­धारः परमात्मैव । किञ्च ‘चतुरो मुष्टीन् निर्वपति’ इत्यत्र चतुर्शब्दस्य संख्या­वि­शे­षा­भि­धा­नेन पर्यवसितस्य प्रथमश्रुतत्वेन प्राब­ल्येऽ­प्यत्र ‘य एष’ इति सर्वनाम्नोः प्रकृताभावेन पुरुषपदान्वयात् प्राग­प­र्य­व­सि­ता­भि­धा­न­यो­स्ततः प्राबल्याभावेन तात्प­र्य­व­सा­ना­पे­क्षि­त­पु­रु­ष­प­द­स­म­र्पि­त­चे­त­न­त्व­लि­ङ्गा­द­प्य­क्ष्या­धारः परमात्मा । अपि च ‘तद्य­द्य­प्य­स्मिन्’ इत्यादौ स्थानिमहिम्ना स्थानस्य निर्ले­प­त्व­प्र­ति­पा­दनं स्थानि­न­श्श्रु­त्य­न्त­र­प्र­सि­द्ध­नि­र्ले­प­भा­व­प­र­मा­त्मत्वे सत्येवोपपद्यते इत्यतोऽप्ययं परमात्मा ।

यस्तु काच­प­ट­ला­दि­भि­स्स­ले­पेऽ­क्षणि स्थानि­मा­हा­त्म्या­य­त्त­स­र्पि­रा­दि­ले­प­रा­हि­त्यो­क्ति­स्स्तु­ति­मा­त्र­मिति न ततस्स्थानिनो निर्ले­प­त्व­सि­द्धि­रिति विचिकित्सते , स इत्थं प्रतिबोधनीयः – तथाऽपि तथा­भू­त­स्तु­ति­द्वारा श्रुत्यन्तरेषु निर्लेपत्वेन प्रसिद्धस्य परमात्मन एव स्थानितया ग्रहणं प्राप्नोति । यथा ‘द्वयोः प्रणयन्ति तस्मा­द्द्वा­भ्या­मेति’ इत्यत्र प्रण­य­न­व­तो­र्द्वयोः पर्वणोर्महिम्ना चातु­र्मा­स्याख्यो यज्ञ एति गच्छतीति हेतु­हे­तु­म­द्भा­व­व­र्ण­नस्य स्तुति­मा­त्र­त्वेऽपि स्तुति­नि­र्वा­ह­क­तया ‘ऊरू वा एतौ यज्ञस्य यद्व­रु­ण­प्र­घा­सा­स्सा­क­मे­धाश्च’ इत्य­र्थ­वा­दा­न्तरे ऊरु­सं­स्तु­त­यो­र्व­रु­ण­प्र­घा­स­सा­क­मे­घ­प­र्व­णो­रेव ग्रहणमिति ।

सूत्रे ‘उपपत्तेः’ इत्य­ने­ना­त्म­श्रु­त्या­द्यु­प­पत्तिः , पुरु­ष­श­ब्द­स­म­र्पि­त­चे­त­न­त्वो­प­पत्तिः , स्थानि­मा­हा­त्म्या­य­त्त­स्था­ना­नि­र्ले­प­त्वो­प­प­त्तिश्च संगृहीता ॥१.२.१३॥

ननु स्थानिनः स्थानं महत् दृष्टं यथा यदोभ्यस्समुद्रः । तत्क­थ­म­त्य­ल्प­म­क्षि­प­र­मा­त्म­न­स्स्था­न­मि­त्या­श­ङ्क्याह –

स्थाना­दि­व्य­प­दे­शाच्च ॥१४॥

१४

नास्या­क्ष्ये­क­मेव स्थानमनुचितं निर्दिष्टम् , किन्तर्हि ? अनामरूपस्यास्य नामरूपमपि निर्दिष्टं दृश्यते ‘तस्योदिति नाम हिरण्यश्मश्रुः’ इत्यादिषु , ततश्च तद्वदिदमपि स्थान­वि­शे­ष­की­र्त­न­मु­पा­स­नार्थं न विरुध्यते । यद्य­पि‘अ­र्भ­कौ­कस्त्व’ सूत्रेण शंकेयं समाहिता , तथाऽपि दृष्टा­न्त­मु­खे­नापि बुद्धि­सा­मा­न्य­मु­प­पा­द­यि­तु­मिदं सूत्रम् ॥१.२.१४ ॥

एवं प्रकरणं नास्ती­त्य­ङ्गी­कृत्य हेत्व­न्त­र­मु­क्तम् । अथ प्रकरणेन ब्रह्म­त्व­मु­प­पा­द­यितुं सूत्रम् –

सुख­वि­शि­ष्टा­भि­धा­ना­देव च ॥१५॥

१५

‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा.उ.४.१०. ५) इति सुखविशिष्टं यत् प्रकृतं ब्रह्म , तस्यैव प्रकृ­त­प­रा­म­र्शिना ‘य एष’ इति सर्व­ना­म्नाऽ­भि­धा­ना­द­प्य­क्ष्या­धारः परमात्मा । ननु प्राणादिषु प्रत्येकं ब्रह्मपदयोगात् ‘नाम ब्रह्म’ ‘मनो ब्रह्म’ इत्यादाविव ब्रह्म­दृ­ष्टि­वि­धि­प­रत्वं युक्तम् । अत एव ‘प्राणञ्च हास्मै तदाकाशञ्चोचुः’(छा.उ. ४.१०.५) इति प्राणा­दि­श­ब्दै­रेव निगमनं दृश्यते ; प्राणा­दि­प्र­धा­न­त्वात् । ब्रह्म­प्र­धा­नत्वे हि ब्रह्मशब्देन निगमनं स्यात् । अतो नात्र ब्रह्म प्रकृतमस्तीति चेत् । उच्यते । नेदं ब्रह्म­दृ­ष्टि­वि­धि­प­रम् ; ‘प्राणो ब्रह्म’ इत्या­द्यु­प­दे­शा­न­न्तरं प्राण­स्सू­त्रात्मा बृहत्त्वात् ब्रह्मेति जानामि , विष­ये­न्द्रि­य­स­म्प­र्कजं सुखं भूताकाशं च कथं ब्रह्मेति विजा­नी­या­मि­त्य­भि­प्रा­य­वता उपकोसलेन ‘विजानाम्यहं यत् प्राणो ब्रह्मेति कं च तु खञ्च न विजानामि’(छा.उ.४.१०.५) इति पृष्टैरग्निभिः ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्’(छा.उ.४.१०.५) इत्युक्तत्वात् । न चेदमपि वैषयिकसुखे भूता­का­श­दृ­ष्टि­वि­धि­परं भूताकाशे वैष­यि­क­सु­ख­दृ­ष्टि­वि­धि­प­रञ्च किं न स्यादिति शङ्क्यम् । ‘कं ब्रह्म खं ब्रह्म’ इत्य­स्या­र्था­ज्ञा­नेन पृष्टवन्तं प्रति दृष्टि­वि­ध्य­न्त­र­स्यो­त्त­र­त्वा­यो­गात् ।

तस्मा­त्त­द्वाक्यं पूर्ववाक्ये कख­श­ब्दो­क्त­यो­र­न्यो­न्य­वि­शे­ष­ण­वि­शे­ष्य­भा­व­प्र­द­र्श­नेन वैषयिकसुख भूताकाशरूपतां व्यव­च्छि­द्या­प­रि­च्छि­न्न­सु­ख­रू­प­त्व­सु­खा­त्म­का­प­रि­च्छि­न्न­त्व­स्व­रू­प­ल­क्ष­णो­पा­स्य­ब्र­ह्म­वि­शे­ष­ण­द्व­य­रू­पतां विवेक्तुं प्रवृत्तमिति तदनुरोध्येव ‘कं ब्रह्म खं ब्रह्म’ इति पूर्व­वा­क्य­स्या­प्यर्थो ग्राह्यः , न तु दृष्टिविधिरूपः । तत्र ‘कं खं ब्रह्म’ इत्येवोच्यमाने सुखा­त्म­क­त्वो­प­ल­क्षि­ता­प­रि­च्छि­न्न­त्व­गु­णस्य उपा­स्य­त्व­ला­भेऽपि अन्यो­न्य­वि­शे­षि­त­यो­रु­भ­यो­र­प्यु­पा­स्य­गु­ण­त्व­म­भि­मतं न सिध्येदिति प्रत्येकं ब्रह्मशब्दः । ‘प्राणो ब्रह्म्’ इत्यत्र तु ब्रह्मशब्दः कार्य­ब्र­ह्म­वि­द्या­म­ग्नि­वि­द्या­द्वि­धि­त्सि­त­स­गु­ण­ब्र­ह्म­वि­द्या­ङ्ग­भूतां विधातुम् । अत एव ‘प्राणञ्च हास्मै’ इति निगमनवाक्ये प्राणस्य , सुखा­का­शा­त्म­क­ब्र­ह्म­णश्च पृथ­ग्ग्र­ह­ण­म­प्यु­प­प­द्यते । तत्र तदाकाशशब्द उपक्रमानुरोधेन उक्त­रू­प­ब्र­ह्म­परः ।

एवं दृष्टि­वि­धि­प­र­त्व­श­ङ्का­नि­रा­स­मपि गर्भीकर्तुं ‘सुख­वि­शि­ष्टा­भि­धा­नात्’ इति गुरु सूत्रं कृतम् । अन्यथा प्रकृतस्य ब्रह्मणो ‘य एषोऽक्षणि’ इत्य­त्रा­भि­धा­ना­दि­त्ये­ता­व­न्मा­त्र­वि­व­क्षायां लाघवार्थं ‘प्रकृ­ता­भि­धा­नात्’ इति वा अत्त्र­धि­क­र­ण­द्यु­भ्वा­द्य­धि­क­र­ण­यो­रिव ‘प्रकरणात्’ इति वा सूत्रयेत् । दृष्टि­वि­धि­प­र­त्व­श­ङ्का­नि­रा­सा­र्थ­त्वेन योजनायां सूत्रस्यायमर्थः – ‘कं ब्रह्म’ इति वाक्यनिर्दिष्टः परमात्मा , न तु ब्रह्म­दृ­ष्टि­वि­शिष्टं वैषयिकसुखम् । सुख­वि­शि­ष्टा­भि­धा­ना­देव – सुखेषु यत् विशि­ष्ट­म­न­व­च्छि­न्न­सुखं तस्य शब्दे­ना­भि­धा­ना­दि­त्यर्थः । तथा ‘खं ब्रह्म’ इति वाक्य­नि­र्दि­ष्टश्च परमात्मा , न तु ब्रह्म­दृ­ष्टि­वि­शिष्टो भूताकाशः । सुख­वि­शि­ष्टा­भि­धा­ना­देव – शोभनं सुखात्मकं यत् खं , तस्य खश­ब्दे­ना­भि­धा­ना­दि­त्यर्थः । न च उभयत्रापि हेत्वसिद्धिः । ‘कं ब्रह्म’ इत्यत्र कशब्दस्य ‘यद्वाव कं तदेव खम्’ इति विव­र­ण­वा­क्या­नु­सा­रेण स्वश­ब्दो­क्ता­ना­व­च्छि­न्न­त्व­वि­शे­षि­त­सु­ख­फ­ल­त्वात् । ‘खं ब्रह्म’ इत्यत्र खशब्दस्य ‘यदेव खं तदेव कम्’ इति विव­र­ण­वा­क्या­नु­सा­रेण कश­ब्दो­क्त­सु­ख­वि­शे­षि­ता­न­व­च्छि­न्न­ख­रू­प­त्वात् । एवं प्रक­र­णा­सि­द्धि­श­ङ्का­प­रि­हा­रा­र्थ­त्वेन योजनान्तरे सत्ये­वा­व­धा­र­ण­च­का­र­यो­र­प्य­र्थ­वत्ता ॥१.२.१५ ॥

श्रुतो­प­नि­ष­त्क­ग­त्य­भि­धा­नाच्च ॥१६॥

१६

श्रुता – अग्नीनामुपदेशेन लब्धा उपनिषत् – रह­स्य­वि­ज्ञा­न­रूपा सुखा­का­शा­त्म­क­ब्र­ह्मो­पा­सना येनोपकोसलेन तस्य तदुपासनया प्राप्या या गति­र­ग्नि­भि­र्व­क्त­व्याऽ­प्य­ग्नि­भि­रेव ‘आचार्यस्तु ते गतिं वक्ता’ इत्याचार्येण वक्त­व्य­त­याऽ­व­शे­षिता , तस्याः प्रोषि­त­प्र­त्या­ग­ते­ना­चा­र्ये­णा­भि­धा­ना­दा­चा­र्य­वाक्यं न स्वातन्त्र्येण किञ्चि­दु­प­दे­शार्थं प्रवृत्तम् । किं त्वग्न्यु­प­दि­ष्टा­व­शे­षि­त­पू­र­णा­र्थ­मेव प्रवृ­त्त­मि­त्य­व­सी­यते । अत­स्त­त्प्र­क­र­णा­नु­वृत्तौ न विवादः ; एवंविधस्थले वक्तृभेदस्य विद्या­न्त­र­व्य­व­धा­नस्य च प्रक­र­णा­वि­च्छे­द­क­त्वात् , वस्तु­तोऽ­ग्नि­वि­द्यानां प्रकृ­त­ब्र­ह्म­वि­द्या­ङ्ग­त्वेन तद्व्य­व­धा­य­क­त्वा­श­ङ्का­ना­स्प­द­त्वाच्च ।

एवं हि छन्दो­गा­ना­मु­प­नि­ष­द्यु­पा­ख्या­यते – उप­को­स­ल­स्स­त्य­का­मा­चा­र्य­मु­प­स­न्न­स्तस्य द्वाद­श­व­र्षा­ण्य­ग्नीन् परिचरन्नास्त । तस्मै ब्रह्मो­प­दे­श­म­कृ­त्वै­वा­चार्ये प्रोषिते सति आधि­व्या­धि­प­र­व­शा­मा­न­स­म­न­श्नन्तं तदाऽ­प्या­चा­र्या­ग्नि­प­रि­च­र्या­या­म­व­हितं तमवेक्ष्य गार्ह्य­प­त्य­द­क्षि­णा­ग्न्या­ह­व­न­नी­या­स्त­योऽपि तदग्नयस्सम्भूय करुणया तस्मै ‘कं ब्रह्म खं ब्रह्म’ इत्यादिना(छा.उ.४.१०.५) ब्रह्म­वि­द्या­मु­प­दिश्य प्रत्येकं स्वस्वविषयं विद्यां ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि’(छा.उ.४.११.१) इत्यादिना ‘य एष चन्द्रमसि पुरुषो दृश्यते’(छा.उ. ४.१२.१) इत्यादिना , ‘य एष विद्युति पुरुषो दृश्यते’(छा.उ. ४.१३.१) इत्यादिना चोपदिदिशुः । तदनन्तरञ्च सर्वेऽ­ग्न­य­स्स­म्भूय ‘एषा सोम्य तेऽस्मद्विद्या चात्मविद्या च’(छा.उ. ४.१४.१) इति स्वस्व­वि­ष­य­विद्यां सुखा­का­शा­त्म­क­ब्र­ह्म­वि­द्या­ञ्चो­प­दि­ष्टा­मु­प­सं­हृत्य तत्प्राप्यां गतिं वक्तव्यामालोच्य ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्’(छा.उ.४.९.३) इति श्रुत्यनुसारेण स्वोप­दि­ष्ट­विद्या तदा­चा­र्य­क­र्तृ­का­व­शि­ष्ट­ग­त्यु­प­दे­शेन साधिष्ठत्वं प्राप्नो­त्वि­त्य­प्या­लोच्य ‘आचार्यस्तु ते गतिं वक्ता’ इत्यवोचन् । ततः प्रत्यागत आचार्यः प्रस­न्न­मु­ख­मु­प­को­सलं वीक्ष्य ‘ब्रह्मविद इव सोम्य ते मुखं भाति कोऽनु त्वाऽनुशशास’(छा.उ.४.१४.२) इति पृष्ट्वा अग्निभिस्सह भीते तस्मि­न्न­ग्न­योऽस्मा उपदिदिशुरिति निश्चित्य ‘किं नु सोम्य किल तेऽवोचन्’ इति पृष्ट्वा ‘एतावदुपादिशन्’ इति तेनोक्ते तत्र वक्त­व्य­शे­षोऽ­स्ती­त्य­व­धार्य ‘अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छा.उ.४.१४.३) इति स्ववक्तव्यं प्रतिज्ञाय ‘ब्रवीतु मे भगवान्’ इति तेन प्रार्थि­त­स्सं­य­द्वा­म­त्वा­दि­गु­ण­क­म­क्षिस्थं पुरुषमुपदिश्य तदुपासकस्य ‘अथ यदुचैवास्मिन्’ शव्यं कुर्वन्ति यदु च न , अर्चि­ष­मे­वा­भि­स­म्भ­वन्ति’(छा.उ.४.१५.५) इत्यारभ्य ‘एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते(छा.उ.४.१५.६) इत्य­न्ते­ना­ना­वृ­त्ति­प­र्य­व­सा­यि­न­म­र्चि­रा­दि­मा­र्ग­मु­प­दि­देश – इति ।

नन्वेतावता सत्यकामोपदिष्टा देव­या­न­ग­ति­र­ग्न्यु­प­दि­ष्टायां सुखा­का­श­ब्र­ह्म­वि­द्या­या­म­प्य­न्वे­तीति सिद्ध्यति , न त्वक्षि­पु­रु­षोऽपि सुखाकाशात्मकं ब्रह्मेति सिद्ध्यति ; अग्नि­भि­र्ग­ति­मा­त्रस्य , आचार्येण वक्त­व्य­त­याऽ­व­शे­षि­त­त्वात् , सुखाकाशब्रह्मणः स्थानस्य गुणजातस्य च वक्त­व्य­त्वे­ना­व­शे­षि­त­त्वात् , तथाऽपि सर्वनाम्नः प्रकृ­त­प­रा­म­र्शि­त्व­स्वा­भा­व्या­द­क्षि­स्थ­पु­रुषः प्रकृतं ब्रह्म भवेदिति चेत् । न । अत्रैव गार्ह­प­त्या­दि­वि­द्यासु ‘य एष’ इति पदानां प्रकृ­त­ब्र­ह्म­प­रा­म­र्शि­त्वा­भा­व­द­र्श­नात् ।

ननु ‘एषा सोम्य ते अस्मद्विद्या चात्मविद्याच’ इत्यग्निभिः स्ववि­द्या­ना­मा­त्म­वि­द्या­याश्च भेदेन कीर्तितत्वात् तत्र सर्वनाम्नां प्रकृतपरत्वं त्यक्त­व्य­मा­सी­दिति चेत् । तर्ह्यत्रापि गति­मा­त्र­स्या­व­शे­षि­त­त्वात् तस्य प्रकृतपरत्वं त्यक्तव्यमिति समानम् । यदि ह्यग्निभिः ‘एषा सोम्य’ इत्यादिना स्ववि­द्या­मा­त्म­वि­द्याञ्च निर­पे­क्ष­मु­प­दि­ष्ट­तया उप­सं­हृ­त्या­चा­र्येण उपदेष्टव्यतया गति­मा­त्रेऽ­व­शे­षि­तेऽ­प्या­चा­र्योऽ­ग्न्यु­प­दि­ष्टस्य ब्रह्म­णोऽ­क्षि­स्थानं संय­द्वा­म­त्वा­दि­गु­ण­जातं चोप­दे­ष्ट­व्य­मा­लो­च्यो­प­दि­शेत् , तदा अग्नयो वित­थ­वा­दि­नोऽ­न­भिज्ञा वा स्युः । तस्मा­द­क्षि­पु­रु­ष­वि­द्याऽ­प्य­ग्नि­वि­द्या­वत् सुखा­का­श­ब्र­ह्म­वि­द्यातो भिन्नैवेति युक्तम् ; पात्नी­व­ता­धि­क­र­ण­न्या­यात् ।

एवं हि तत् – ‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रकृत्य , ‘पर्याग्निकृतं पात्नी­व­त­मु­त्सृ­जति आज्येन शेषं संस्थापयति’ इति श्रूयते । तत्र किं ‘आज्येन शेषम्’ इत्यनेन पात्नीवतयाग एव पशोरुत्सृष्टस्य स्थाने प्रतिनिधित्वेन आज्यं विधीयते , कर्मान्तरं वेति संशयः । तत्र पात्नीवतयागस्य पशुनोपक्रमेऽपि पशोः पर्य­ग्नि­कृ­ता­व­स्थायां वचनबलेन त्यक्तत्वात् द्रव्य­सा­का­ङ्क्षस्य तस्य आज्येन शेषसमापनं विधीयते न कर्मान्तरम् । देवताऽभावात् , शेष­सं­स्था­श­ब्दा­नु­प­प­त्ते­श्चेति पूर्वः पक्षः ।

पात्नीवतयागस्य मुख्येन पशुद्रव्येण निर्वृत्तस्य प्रति­नि­धे­र­न­पे­क्षि­त­त्वा­त्क­र्मा­न्त­र­वि­धि­रिति सिद्धान्तः । तथाहि – यदि पशो­स्त्या­ग­मात्रं क्रियते , तदा तस्य देवतासम्बन्धो नानु­ष्ठि­त­स्स्यात् । तथा सति ‘त्वाष्ट्रं पात्नीवतम्’ इति श्रुतस्तस्य देव­ता­स­म्ब­न्ध­वि­धि­र­प्र­माणं स्यात् । असति च देवतासम्बन्धे यागो न सिध्येत् ; द्रव्य­दे­व­ता­स­म्ब­न्धस्य यागा­नु­मा­प­क­स्या­भा­वात् । प्रत्य­क्ष­य­जे­श्चा­श्र­व­णात् । असति यागे कस्य शेषसमापनं विधीयेत । तस्मात् ‘पर्यग्निकृतं पात्नी­व­त­मु­त्सृ­जति’ इति पशोः पर्य­ग्नि­कृ­ता­व­स्थायां न त्यागविधिः ; किन्तु पर­स्व­द­धि­क­र­ण­न्या­येन पर्य­ग्नि­क­र­णा­न्ता­ङ्ग­री­ति­वि­धा­न­मि­दम् । ततश्च तयैव निराकांक्षस्य पात्नीवतयागस्य समाप्तत्वात् न शेषमस्ति यस्याज्येन संस्थानमुच्येत । तस्मात् ‘आज्येन शेषम्’ इत्या­ज्य­द्र­व्य­क­या­गा­न्त­र­विधिः । तत्र देवता प्रकृ­त­पा­त्नी­व­त­प­दा­नु­ष­ङ्गेण लम्भनीया । शेषसंस्थाशब्दौ च सादृ­श्ये­नो­प­पा­द­नीयौ । पशुयागो हि पर्य­ग्नि­क­र­णा­न्त­तया देवतोद्देशेन मान­स­प­शु­त्या­ग­वा­नपि हविः­प्र­क्षे­पा­द्य­भा­वात् सशेष इव । आज्य­या­ग­स्त­द्दे­वत्य एव हविः­प्र­क्षे­पा­दि­मान् तस्य शेष इव च भवतीति । एवं शेष­सं­स्था­श­ब्द­स­द्भा­वेऽपि पूर्वयागस्य निरपेक्षत्वात् कथ­ञ्चि­द्दे­व­ता­ला­भेन यदि कर्मान्तरविधिः , तदा किमु वक्तव्यमिह कर्मा­न्त­र­वि­धि­रिति ।

नन्वि­हा­क्षि­पु­रु­षो­प­न्या­सा­न­न्तरं देवयानगतिः न सुखा­का­श­ब्र­ह्म­वि­त्प्रा­प्य­त्वेन न वा ताटस्थ्येन कीर्तिता , किन्तु ‘य एवं वेद’ इत्य­क्षि­पु­रु­ष­वि­द­मु­प­क्षिप्य ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति’ इत्यादिना तत्प्राप्यत्वेन कीर्तिता । तथा च सुखा­का­श­ब्र­ह्म­वि­त्प्रा­प्य­त्वेन आचार्येण वक्ष्यमाणतया प्राग­ग्नि­भि­र्व­र्णि­ताया गते­र­क्षि­पु­रु­ष­वि­त्प्रा­प्य­त्वेन आचा­र्ये­णो­प­पा­दि­त­त्वा­द­क्षि­पु­रु­ष­स्सु­खा­का­श­ब्र­ह्मै­वेति निश्चीयत इति चेत् । मैवं । आचार्यो विद्या­न्त­र­मु­प­दे­क्ष्यति , तदन्वयितया च देव­या­न­ग­ति­मु­प­दे­क्ष्य­ती­त्ये­त­द­ग्नयो निश्चित्य तत्स­र्व­म­नु­द्घाट्य यां गतिमाचार्य उपदेक्ष्यति सा सुखा­का­श­ब्र­ह्म­वि­दो­पी­त्य­भि­प्रा­येण ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्नयोऽवो चन्नि­त्यु­प­पा­द­नो­प­पत्तौ तन्मा­त्र­म­व­लम्ब्य निर­पे­क्ष­त­यो­प­सं­हृ­तायाः प्रकृ­त­ब्र­ह्म­वि­द्यायाः पुन­स्स्था­न­गु­ण­वि­ध्य­ङ्गी­का­रा­यो­गात् । तस्मात् देव­या­न­ग­त्य­भि­धा­नस्य प्रागु­क्त­ब्र­ह्म­वि­द्या­र्थ­त्वा­यो­गात् तदभिधानेन तत्प्र­क­र­णा­वि­च्छे­दो­क्ति­र­यु­क्तेति चेत् –

अत्र ब्रूमः – ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्द: कर­ण­व्यु­त्पत्त्या देवयानमार्गपरो न भवति , किन्तु कर्म­व्यु­त्पत्त्या प्रकृ­त­ब्र­ह्म­वि­द्या­फ­ल­परः । प्रथमं फल एवा­का­ङ्क्षो­द­या­ल्लो­का­न्त­र­भो­ग्य­फ­ल­नि­र्दे­शा­न­न्त­र­मेव तत्प्रा­प्त्यु­पा­य­मा­र्गा­का­ङ्क्षो­द­यौ­चि­त्यात् । न च प्राक् ब्रह्मविद्यायाः फलं निर्दिष्टम् । तद­ङ्ग­भू­ता­ना­म­ग्नि­वि­द्या­ना­मेव हि परं ‘लोकीभवति’ इत्यादिना फलमर्थवादेन वर्णितम् । अत एवाचार्यो ‘लोकान्वाव किल सोम्य तेऽवोचन् अहं तु ते तद्वक्ष्यामि’(छा. ४. १४. ३) इत्यग्नयः स्वस्व­वि­द्या­फ­ल­भू­ता­न­ग्नि­लो­का­दी­ने­वा­वो­चन् , न तु ब्रह्मविद्याया महत् फलम् , तदहं वक्ष्यामीति प्रतिजज्ञे । तस्मात् ततःप्रभृति यद्या­व­दा­चा­र्य­वाक्यं ‘इमं मानवमावर्तं नावर्तन्ते’(छा. ४. १५. ६) इत्ये­त­त्प­र्यन्तं तत्स­र्व­म­ग्न्य­व­शे­षि­त­फ­ल­रू­प­ग­त्य­भि­धा­न­मेव ।

तथा हि – प्रथमं तावत् पुष्क­र­प­ला­श­वाक्यं फल­व­र्ण­ना­त्म­क­मिति निर्विवादम् । तदु­प­पा­द­क­स्त­द­न­न्त­र­म­क्षि­स्था­नो­प­देशः । यद­क्षि­स्था­नो­प­दे­शा­न­न्त­र­म­क्षि­स्था­न­मा­हा­त्म्येन सर्पि­रु­द­का­द्य­श्लेषं वर्णयति तेन सक­ल­पा­प­श्ले­ष­वि­दूरं स्वोचि­ता­क्षि­स्थाने विद्यमानं ब्रह्मो­पा­स­नी­य­मिति विधिलभ्यमानः तत्क्रतुन्यायेन वर्णितफलोपपादको भवति । एवं ‘सर्वाण्येनं वामा­न्य­भि­सं­वि­शन्ति य एवं वेद’(छा. ४. १५. २) सर्वाणि वामानि नयति य एवं वेद (छा.४.१५.३) ‘सर्वेषु लोकेषु भाति य एवं वेद’(छा.४.१५.४) इति वाक्यान्यपि फलवर्णनात्मकानि । आद्यवाक्येन हि निखि­ला­भि­म­त­व­स्तु­प्रा­प्ति­मात्रं सङ्क­ल्प­मा­त्र­साध्यं दह­र­वि­द्या­फ­ल­त्वेन प्रसिद्धं वर्ण्यते । द्वितीयवाक्येन स्वभक्तेषु सक­ला­भि­म­त­व­स्तु­प्रा­प­कत्वं ‘यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् तं तं लोकञ्जयते तांश्च कामान् तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः’(मु.१.१०) इत्यादिश्रतिषु तत्फलत्वेन प्रसिद्धं वर्ण्यते । तृतीयवाक्येन ‘स स्वराड् भवति तेषां सर्वेषु कामचारो भवति(छा. ७.२५.२) इत्या­दि­श्रु­ति­प्र­सिद्धं तत्फलं वर्ण्यते । तत्त­त्फ­लो­प­पा­द­क­त्वेन च तत्त­द्वा­क्येभ्यः प्राक् ब्रह्म­ण­स्सं­य­द्वा­म­त्व­वा­म­नी­त्व­भा­म­नी­त्व­गुणाः विधीयन्ते । अग्रे च ‘इमं मानवमावर्तं नावर्तन्ते’ इति सत्य­लो­क­स्थ­ब्र­ह्म­प्रा­प्त्य­न­न्त­र­म­ना­वृ­त्ति­ल­क्षणं फलं वर्ण्यते ।

एवं सर्व­मि­द­मा­चा­र्य­वाक्यं सोप­पा­द­क­फ­ल­व­र्ण­ना­त्म­क­मि­त्य­मु­मर्थं हृदि निधाय ‘श्रुतो­प­नि­ष­त्क­ग­त्य­भि­धा­नात्’ इति सूत्रितम् । श्रुतो­प­नि­ष­त्कस्य उप­को­स­ल­स्या­चा­र्य­व­क्त­व्य­त्वे­ना­ग्नि­भि­र­व­शे­षि­तायाः फलरूपाया गतेः कृत्स्नेन चाचा­र्य­वा­क्ये­ना­भि­धा­नात् तत्प्र­क­र­ण­वि­च्छे­द­शङ्का नाव­का­श­मा­सा­द­य­तीति तात्पर्यम् इत्थमस्य सूत्रस्य योजना भाष्य पूर्व­सू­त्र­व्या­ख्या­न­स­मय एवा­ना­ग­ता­वे­क्ष­ण­न्या­येन प्रदर्शिता ” ‘आचार्यस्तु ते गतिं वक्ता’ इति च गति­मा­त्रा­भि­धा­न­प्र­ति­ज्ञा­न­म­र्था­न्त­र­वि­वक्षां वायरति” इति । अनेन हि भाष्य­वा­क्ये­ना­क्षि­पु­रु­ष­वा­क्य­म­ग्नि­भि­र­व­शे­षितां गतिमेवाचष्टे , न किञ्चि­द­प्य­र्था­न्त­र­मिति स्पष्टमेवोच्यते । भामत्यामपि भाष्य­मि­द­मु­क्ता­र्थ­प­र­त­यै­वा­व­ता­रि­तम् "नन्व­ग्निभिः पूर्वं निर्दिश्यतां ब्रह्म । ‘य एषोऽक्षणि’ इत्या­चा­र्य­वा­क्येऽपि तदे­वा­नु­व­र्त­नी­य­मिति तु कुत इत्यत आह" इति ।

यदि तु ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्दो देवयानमार्गपर इति निर्बन्धः , तथाऽपि न दोषः । तदा हि गति­श­ब्दोऽ­न्ये­षा­मपि केषां­चि­दा­चा­र्येण वक्त­व्या­ना­मु­प­ल­क्ष­ण­त्वेन व्याख्येयः ; गतिमात्रपरत्वे वैय­र्थ्य­प्र­स­ङ्गात् । ‘आचार्यस्तु ते गतिं वक्ता’ इत्य­ग्नि­भि­र­नु­क्तेऽपि हि विद्या­न्त­र­सं­ब­न्धि­त्वे­ना­चा­र्यो­क्ताऽपि देवयानगतिः प्रकृ­त­ब्र­ह्म­वि­द्या­या­मपि दह­र­वै­श्वा­न­र­वि­द्या­दि­ष्विव ‘अनि­य­म­स्स­र्वा­सा­म­वि­रो­ध­श्श­ब्दा­नु­मा­नाभ्यां’(ब्र.सू. ३. ३. ३१) इति गुणो­प­सं­हा­र­पा­द­दि­क­रणे प्रद­र्श­यि­ष्य­मा­ण­न्या­येन लभ्यत एव । एवञ्च सूत्र­स्थ­ग­ति­श­ब्दोऽपि श्रुतौ गतिशब्देन यावदुपलक्षितं तावत्परः । तथा च कृत्स्ने­ना­प्या­चा­र्य­वा­क्ये­ना­ग्नि­वा­क्य­स्थ­ग­ति­श­ब्द­वि­ष­य­मा­त्र­स्यै­वा­भि­धा­नान्न प्रक­र­ण­वि­च्छे­द­श­ङ्केति तात्पर्यम् । उदा­हृ­त­भा­ष्य­भा­म­ती­ग्र­न्थ­यो­र­प्य­त्रैव तात्पर्यम् । सूत्रे चका­रोऽ­ग्नि­वि­द्या­ना­म­ङ्ग­त्व­स­मु­च्च­यार्थः । तथा च कृत्स्न­स्या­प्या­चा­र्य­वा­क्यस्य प्रकृ­त­ब्र­ह्म­वि­द्या­पे­क्षि­त­ग­ति­नि­रू­प­णै­द­म्प­र्येण प्रवृत्तत्वान्न वक्तृ­भे­दे­ना­ग्नि­वि­द्या­व्य­व­धा­नेन वा प्रकरणविच्छेदः । अग्नि­वि­द्या­ना­म­ङ्ग­त्वा­दपि न तद्व्यवधानेन प्रकरणविच्छेद इत्यर्थः । अङ्गत्वञ्च प्रकृ­त­ब्र­ह्म­वि­द्यो­प­क्र­म­त­दु­प­सं­हा­र­म­ध्य­प­ति­त­त्वात् , ‘अथ हैनम्’ इति पूर्व­प्र­कृ­ता­पे­क्षा­वा­च­के­ना­थ­श­ब्दे­ना­ग्नि­वि­द्यानां ब्रह्म­वि­द्या­याश्च संम्बन्धावगमात् , ‘एनम्’ इति ब्रह्म­वि­द्या­धि­का­रिण उप­को­स­ल­स्या­न्वा­दे­श­वि­हि­तेन एनादेशेन निर्देशात् ।

न च वाच्यम् – ‘अपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योक् जीवति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जा­मोऽ­स्मिंश्च लोकेऽ­मु­ष्मिंश्च’(छा. ४. ११. २) इत्य­ग्नि­वि­द्यानां पृथ­क्फ­ल­श्र­व­णा­द­ङ्गत्वं न युक्तम् – इति । तेषां वाक्या­ना­म­ग्नि­वि­द्यानां ब्रह्म­वि­द्या­ङ्ग­ताया द्वार­प्र­द­र्श­न­प­र­तया तद­ङ्ग­ताऽ­नु­गु­ण­त्वात् ।

तथाहि – आद्येन वाक्येन तासां ब्रह्मो­पा­स­ना­प्रा­वृ­त्ति­प्र­ति­ब­न्ध­क­दु­रि­त­नि­व­र्त­क­त्व­मु­च्यते । द्वितीयेन ‘‘स एतं देवयानं पन्था­न­मा­सा­द्या­ग्नि­लो­क­मा­ग­च्छति’(कौ. १. ३) इत्या­दि­श्रु­ति­ष्व­र्चि­रा­दि­मार्गे प्रथमपर्वत्वेन श्रुता­ग्नि­लो­क­प्रा­प­क­त्व­मु­च्यते ; अग्न्यु­पा­स­ना­ना­म­ग्नि­लो­क­प्रा­प्ति­फ­ल­क­त्वौ­चि­त्यात् । यद्यपि ब्रह्मो­पा­स­न­यै­वा­र्चिरा दिप­र्व­प्रा­प्ति­र्ल­भ्यते , तदर्थं नोपा­स­ना­न्त­र­म­पे­क्ष्यते , तथाऽपि विदुषो देह­पा­ता­न­न्त­र­मे­वा­र्चि­रा­दि­ग­ति­प्राप्तौ प्रति­ब­न्ध­क­स­द्भा­वेऽपि तदानीमेव तत्प्रा­प­क­त्व­म­ने­नो­च्यते । अत एवास्मिन्नेव प्रकरणे श्रूयते ‘अथ यदु वैवास्मिञ्छव्यं कुर्वन्ति यदुच न , अर्चि­ष­मे­वा­भि­सं­भ­वन्ति’ इति । अस्मि­न्न­क्षि­पु­रु­षो­पा­सके मृते पुत्रादयश्शव्यं शवकर्म पैतृ­मे­धि­क­सं­स्का­रा­दिकं यदि कुर्वन्ति , यदि वा न कुर्वन्ति उभयथाऽपि तस्या­र्चि­रा­दि­ग­ति­प्रा­प्ति­र­वश्यं भवत्येवेत्यर्थः । अनेन हि वाक्येन विद्या­न्त­रो­पा­स­कानां शव­क­र्मा­क­र­णेऽ­र्चि­रा­दि­ग­ति­प्राप्तौ किञ्चित् प्रतिबन्धो भवति । प्रकृ­त­ब्र­ह्म­वि­द्यायां तु न भव­ती­त्यु­भ­य­म­प्य­र्थ­त­श्श­ब्द­तश्च प्रतीयते । सोऽयमस्यां विशेषो ‘लोकीभवन्ति’ इति फल­वा­क्य­प­र्या­लो­च­ना­या­म­ग्नि­वि­द्या­सा­हि­त्य­कृत इत्यवसीयते । तृतीयवाक्येन आप्रा­य­ण­म­ह­र­ह­रा­व­र्त­नी­य­ब्र­ह्मो­पा­स­ना­फ­ल­भू­य­स्त्व­सि­द्ध्यर्थं पुरु­षा­यु­ष­प्रा­प्ति­रु­च्यते । चतुर्थवाक्येन प्रत्य­ह­मु­पा­स­ना­प्र­वृत्तौ प्रतिबन्धकानां धन­प्रा­प्ति­रो­ग­नि­वृ­त्त्या­द्यु­पा­य­चि­न्ता­क्ले­शा­ना­म­प्र­स­ङ्गाय ज्योक् उज्वलं धन­धा­न्या­दि­स­मृद्धं रोगानभिभूतञ्च जीवनमुच्यते । पञ्चमवाक्येन ब्रह्म­वि­द्या­फ­ला­भि­वृ­द्ध्य­र्थ­मु­पा­स­कस्य पुत्र­पौ­त्रा­दीनां ज्ञान­क­र्म­स­न्त­त्या­दि­क्ष­या­भाव उच्यते । सत्पु­त्र­पौ­त्रा­दि­स­न्त­ति­वृ­द्धेर्हि अमुष्य पुत्रोऽमुष्य पौत्र इति पितृ­पि­ता­म­हा­दि­की­र्ति­स्थै­र्य­सं­पा­द­नेन साक्षाच्च पितृ­पि­ता­म­हा­द्यु­पा­र्जि­त­पा­र­लौ­कि­क­फ­ला­भि­वृ­द्धि­हे­तु­त्व­मा­प­स्त­म्बेन स्मर्यते ‘ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गञ्च वर्ध­य­न्त्ये­व­म­व­रोऽ­वरः परे­षा­मा­भू­त­स­म्प्ल­वात्’(आ. ध , सू. २.२४) इति । षष्ठवाक्येन उपा­स­ना­प्री­ता­ना­म­ग्नी­ना­मै­हि­क­पा­र­लौ­कि­क­प्र­ति­ब­न्ध­नि­रा­सा­दि­द्वारा प्रकृ­त­ब्र­ह्मो­पा­स­ना­नु­ष्ठा­तृ­प­रि­पा­ल­क­त्व­मु­च्यते । तस्मा­द­ग्नि­वि­द्या­ना­म­ङ्ग­त्वान्न व्यव­धा­य­क­त्व­मि­त्यपि युक्तमेव ।

एतेन ‘एषा सोम्य ते’ इति निर­पे­क्ष­त­यो­प­सं­हृ­तायां ब्रह्म­वि­द्या­या­म­व्य­व­धा­ना­दि­स­म­र्थ­नेऽपि न स्थान­गु­णा­न्व­य­स्स­म्भ­व­ती­त्यपि निरस्तम् । गति­वा­क्या­वै­य­र्थ्याय गतिशब्देन यावत्क्रोडीकृतं ताव­द­ति­रि­क्ता­पे­क्षि­त­रा­हि­त्ये­नैव उप­सं­हा­रा­भि­प्रा­यस्य वर्णनीयतया पात्नी­व­त­या­ग­व­त्स­र्वधा नैर­पे­क्ष्या­सिद्धेः । गतिशब्दस्य फलपरत्वपक्षे तदुपपादकतया स्थानगुणयोरपि तेन क्रोडीकृतत्वात् मार्गपरत्वपक्षे वाक्या­वै­य­र्थ्याय तस्य स्थान­गु­णो­प­ल­क्ष­ण­त्वा­व­श्यं­भा­वात् । एवं श्रुतो­प­नि­ष­त्क­सू­त्रस्य सुख­वि­शि­ष्ट­सू­त्र­प्र­सा­धि­त­ब्र­ह्म­प्र­क­र­ण­वि­च्छे­द­श­ङ्का­नि­रा­सा­र्थ­त्वेन योजनाद्वयं सुख­वि­शि­ष्ट­सू­त्र­व्या­ख्या­न­स­मय एव भाष्ये सूचितं प्रपञ्चेन प्रादीदृशम् । अक्षिपुरुषस्य ब्रह्मत्वे लिङ्ग­प्र­द­र्श­न­प­र­त­याऽपि एतत्सूत्रं तदनन्तरं भाष्ये व्याख्यातम् – ‘श्रुतो­प­नि­ष­त्कस्य वेदान्तेषु प्रसिद्धा या देव­या­न­ग­ति­स्त­द­भि­धा­ना­दपि अक्षिपुरुषः परं ब्रह्म’ इति । यद्य­प्य­ब्र­ह्म­वि­दा­मपि पञ्चा­ग्न्यु­पा­स­कानां देवयानगतिः श्रुता , तथाऽपि क्वचि­द्व­च­न­ब­ला­त्त­त्क्र­तु­न्या­या­ति­ल­ङ्घ­नेऽपि ब्रह्म­वि­द्या­या­मेव सा प्रसि­द्धे­त्यौ­त्स­र्गि­क­त्वा­श्र­य­मिदं लिङ्गम् ।

सूत्रे श्रुतो­प­नि­ष­त्के­त्य­ल्पार्थे कप्रत्ययः देवयानगतेः ‘निर्विशेषं परं ब्रह्म साक्षात् कर्तुमनीश्वराः । ये मन्दा­स्तेऽ­नु­क­म्प्यन्ते सविशेषनिरूपणैः’ इत्यु­क्त­रू­प­म­न्दा­धि­का­रि­वि­ष­य­त्व­ज्ञा­प­नार्थः । १.२.१६ ।

एवं सिद्धान्तहेतव उक्ताः । अथ पूर्व­प­क्ष­नि­रा­क­र­णार्थं सूत्रम् –

अन­व­स्थि­ते­र­स­म्भ­वाच्च नेतरः । १७ ।

१७

यदु­क्त­म­क्ष्या­धा­र­श्छा­या­त्मेति तन्न युज्यते ; छायाऽऽत्मनः प्रति­बि­म्ब­स्या­क्ष्या­दिषु प्रति­बि­म्बो­पा­धि­ष्व­न­व­स्थितेः । सर्वत्र स्वस्था­न­स्थि­त­स्यैव हि बिम्बस्य तत्त­दु­पा­धि­स­म्ब­न्ध­मा­त्र­म­ध्य­स्यते , न तु बिम्ब­स्त­त्त­दु­पा­धी­न­नु­प्र­वि­शति , न वा बिम्बाद्भिन्नः प्रति­बि­म्ब­स्त­त्त­दु­पा­धि­षू­द्भ­वति । यथा चैतत्तथा समर्थितं विवरणप्रकाशे तातचरणैः । यद्यपि चाक्षणि छाया­त्म­न­स्स्या­द­व­स्थितिः तथाऽपि बिम्ब­स­न्नि­धा­न­काल एव सा भवेन्न सर्वदा । न चोपासनाकाले बिम्ब­स­न्नि­धा­न­नि­य­मोऽस्ति येन तदा­नी­मु­पा­स्य­सत्ता लभ्यते । न च तदाऽपि यस्य कस्यचिदक्षणि तत्सत्ता लभ्यत इति शङ्कनीयम् । ‘य एषोऽक्षणि’ इत्यत्र प्रत्या­स­त्ते­रु­पा­स­क­स्या­क्ष­णी­त्येव पर्यवसानात् , ‘दृश्यते’ इत्यस्य चर­म­श्रु­त­स्या­न्य­दृ­श्य­त्व­मा­दा­यापि चारितार्थ्यात् । न चैतदुपासनाकाले छायाकरं कञ्चि­त्पु­रु­ष­म­क्षि­स­मीपे सन्निधाप्य उपासीतेति युक्तम् ; कल्पनागौरवात् , ‘अक्षणि पुरुष’ इति नित्य­व­च्छ्र­व­णा­यो­गाच्च । तस्मादक्षणि च्छायात्मनः कदाऽ­प्य­न­व­स्थितेः , उपासनाकाले अव­स्थि­ति­नि­य­मा­भा­वाच्च नाक्ष्याधारः परमात्मनः इतरः छायात्मा । तत्र संय­द्वा­म­त्वा­दि­गु­णा­ना­म­स­म्भ­वाच्च ।

ननु स्पष्ट एवासम्भवः किमर्थं सूत्रत उच्यते ? स्थानादिसूत्रे ब्रह्मणोऽपि नामरूपादिकं काल्पनिकमेवेति दर्शितम् , तद्व­च्छा­या­त्म­नोऽपि काल्पनिकं सम्भवतीति शङ्का­नि­रा­सा­र्थ­म­स­म्भ­व­स्सू­त्रितः । वस्तुतो नामरूपरहितमपि ब्रह्म व्याव­हा­रि­कै­स्स्वा­ध्य­स्तै­र्ना­म­रू­पै­स्त­द्व­दिति सम्भवति तद्विषयत्वे संय­द्वा­म­त्वा­दि­श्रु­तीनां सालम्बनता , न तु च्छाया­त्म­वि­ष­यत्वे । तत्र बुद्धि­पू­र्व­मा­रो­प­णी­य­स्या­र्थस्य फल­श्रु­त्या­ल­म्ब­न­त्वा­स­म्भ­वा­दिति तन्निरासः । तत्र आत्म­श्रु­त्या­दे­रि­ति­शि­र­स्क­त्वे­ना­वि­व­क्षि­ता­र्थ­त्व­मि­त्य­ङ्गी­कृत्य पूर्व­प­क्ष­प्र­व­र्त­ना­द­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता । १. २. १७ ।

इति अन्तराधिकरणम् । ४ ।

अन्त­र्या­म्य­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात् । १८ ।

१८

पूर्वत्र ‘य एषोऽक्षणि’ इति परमात्मनः स्थान­नि­र्दे­शो­प­पा­द­नाय ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्माऽ­न्त­र्या­म्य­मृतः’(बृ. ५.७. ३) इत्या­द्य­न्त­र्या­मि­ब्रा­ह्मणे तस्य पृथि­व्या­द्य­ने­क­स्था­न­व्य­प­देशो दृष्टा­न्त­त­योक्तः । स आक्षिप्यते तत्र प्रति­पा­दि­तोऽ­न्त­र्यामी परमात्मा न भवतीति । अन्तर्यामी दह­रा­द्यु­पा­स­ना­सिद्धः कौशि­क­कु­म्भ­स­म्भ­वा­दि­वत् कश्चन योगसिद्ध इति युक्तम् , न तु परमात्मा ; शरीररहितस्य निय­न्तृ­त्वा­भा­वात् । शरीरवतामेव तक्षादीनां वास्या­दि­नि­य­न्तृ­त्व­द­र्श­नात् । स्वश­री­र­नि­य­म­नेऽपि तेनैव शरीरेण निय­न्तु­श्श­री­र­व­त्त्वात् । न च परमात्माऽपि निय­म्य­पृ­थि­व्या­दि­श­री­रे­णैव शरीरवानिति वक्तुं शक्यम् ; ‘यस्य पृथिवी शरीरम्’ इत्या­द्या­म्ना­नात् , इति वाच्यम् । तक्षादीनां भोगा­य­त­न­स्व­श­री­रे­णैव निय­न्तृ­त्व­द­र्श­नात् , स्वभो­गा­य­त­न­श­री­र­स्यैव च स्वशरीरत्वात् । ‘य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ इति परमोपक्रमेण ‘एष त आत्माऽ­न्त­र्या­म्य­मृतः’ इत्युपसंहारेण च प्रक­र­ण­प्र­ति­पा­द्य­त्वेन निर्णीतस्य पृथि­व्या­दि­वा­क्ये­ष्वपि प्रथमश्रुतस्य यम­यि­तृ­त्व­स्यो­प­पा­द­नाय जीव­वि­शे­ष­प­रि­ग्रहे स्थिते ‘एष त आत्मा’ इति ‘अमृत’ इति चोभयमौपचारिकं नेयं ‘प्राण­स्त­थाऽ­नु­ग­मात्’(ब्र.सू. १.१. ११) इति न्यायादिति पूर्वः पक्षः ।

पृथि­व्या­द्य­भि­मा­नि­दे­व­ता­वि­शे­षोऽ­न्त­र्या­मीति पूर्वपक्षस्तु भाष्ये सम्भवमात्रेण दर्शितो न तु मुख्यः । उप­क्र­मो­प­सं­हा­रा­भ्या­मे­क­स्यै­वा­न्त­र्या­मि­त्व­प्र­तीतेः ; ‘यं पृथिवीं न वेद’ ‘यमापो न विदुः’ इत्यादिना तत्त­द­भि­मा­नि­दे­व­ता­व्य­ति­रे­क­प्र­ती­तेश्च । अनेनैव हेतुद्वयेन तथा­पू­र्व­प­क्ष­स्या­मु­ख्यतां दर्शयितुमेव सूत्रे ‘अधिदैवादिषु’ इति अन्तर्यामी विशेषितः । तेन ह्यधिदैवादिषु सर्वेष्वपि पर्यायेष्वेक एवान्तर्यामी तत्त­द्दे­व­ता­व्य­ति­रि­क्त­श्चेति दर्शितं भवति ।

सिद्धान्तस्तु – यमयितृत्वधर्मेण धर्मिग्रहणे साधनसाध्येन तेन धर्मि­ग्र­ह­णा­द्वरं नित्यसिद्धेन तद्ग्रहणम् ; कल्पनालाघवात् । अतोऽ­न्त­र्या­मित्वं साधारणमपि न्यायतः परमात्मन्येव समन्वेतीति तस्मादेव तद्ध­र्म­व्य­प­दे­शात् ‘एष त आत्मा’ इत्या­दि­त­द्ध­र्म­व्य­प­दे­शा­च्चा­न्त­र्यामी परमात्मा । एवञ्च शरीरवत एव नियन्तृत्वमिति शङ्काऽप्यनवकाशा ; साधनाधीन एव नियन्तृत्वे साधनविशेषत्वेन तदपेक्षणात् । न च निय­न्तृ­त्व­मात्रं साधनाधीनमिति नियमः ; ज्ञान­मा­त्र­म­नि­त्य­मि­त्या­दि­व­द­प्र­यो­ज­क­त्वात् , श्रुत्य­न्त­र­प्र­सि­द्ध­ज­ग­त्का­र­ण­त्वा­क्षि­प्त­स­ह­ज­स­र्व­श­क्ति­शा­लिन । परमेश्वरस्य स्वत एव सर्व­नि­य­म­न­श­क्ति­यो­ग­स­म्भ­वाच्च । तथाऽपि नियन्ता शरीर्येवेति नियमो दृष्ट इति चेत् ; न तस्यापि कर्ता शरीर्येवेति निय­म­व­द­प्र­यो­ज­क­त्वात् , निय­म्य­पृ­थि­व्या­दि­श­री­रे­णैव परमेश्वरस्य शरी­रि­त्व­स­म्भ­वाच्च । न च शरीरे भोक्तुरेव नियन्तृत्वमिति नियमः ; अभो­क्तु­र­नि­य­न्तृत्वे अचे­त­न­त्व­स्यो­पा­धि­त्वात् । न च मुक्तात्मसु साध्या­व्या­प­क­त्वम् । तेषां परमेश्वराभेदेन पक्षा­न्त­र्भा­वात् । न च यच्छरीरं यस्य भोगायतनं तेनैव स नियच्छतीति नियमः ; स्वक­र­गृ­ही­त­प­रां­गु­ल्या­दिना क्रियमाणे चित्र­ले­ख­ना­दि­क­र्मणि तदभात् , अप्रयोजकत्वाच्च ।

किञ्च योगसिद्धत्वेऽपि न जीवोऽन्तर्यामी भवितुमर्हति ; तस्यापि निय­न्त्र­न्त­रा­पे­क्षा­या­म­न­व­स्था­नात् । न च स्वतन्त्र एव स कल्पनीयः ; योग­सि­द्ध्य­न­न्तरं तस्य कथञ्चित् स्वात­न्त्र्य­स­म्भ­वेऽपि ततः प्राग­स्म­दा­दि­व­न्नि­य­न्त्र­न्त­र­नि­य­म्य­त्वात् । तस्य नित्य­स्व­त­न्त्र­त्वा­भ्यु­प­गमे पर्यायान्तरेण पर­मे­श्व­र­प­क्ष­स्यैव परिग्रहापत्तेः । सेयमनवस्था भगवता भाष्यकारेण सिद्धान्ते तद­प्र­स­क्ति­प्र­द­र्श­न­मु­खेन पूर्वपक्षे प्रसज्यत एवेति समुद्घाटिता – ‘तस्याप्यन्यो निय­न्ते­त्य­न­व­स्था­दो­षश्च न भवति ; भेदाभावात् । भेदे हि सति अन­व­स्था­दो­षा­पत्तिः’ इति । सिद्धा­न्तेऽ­न्त­र्या­मि­णोऽ­प्यन्यो निय­न्ते­त्य­न­वस्था न प्रसज्यते ; नित्य­स्व­त­न्त्र­प­र­मे­श्व­रस्य निय­न्त्र­न्त­र­स्या­क­ल्प­नी­य­तया निय­न्तृ­भे­दा­भा­वात् । पूर्व­प­क्षेऽ­न्त­र्या­मि­णोऽपि जीवस्य नियन्त्राऽन्येन भाव्यमिति तद्भेदे सति अन­व­स्थाऽ­प­त्ति­रि­त्यर्थः ।

इदञ्च दूषणं ‘अन­व­स्थि­ते­र­स­म्भ­वाच्च नेतरः’ इति पूर्वा­धि­क­र­ण­सू­त्रा­नु­वृ­त्ति­म­भि­प्रे­त्यो­द्घा­टि­तम् । अत एव तत्र सूत्रे ‘अनवस्थितेः’ इति सोप­स­र्ग­प्र­यो­गोऽपि सफलः , अन्यथा तस्य तद­धि­क­र­ण­मा­त्रा­र्थत्वे लाघवात् स्थानादिसूत्रे अवो­प­स­र्गा­भा­वाच्च ‘स्थितेः’ इत्ये­वा­सू­त्र­यि­ष्यत् । ‘असम्भवात्’ इत्य­नु­वृ­त्तां­शेन योगि­नोऽ­स­ङ्कु­चि­त­स­र्व­भू­त­नि­य­न्तृ­त्वा­स­म्भ­वा­दिति हेत्वन्तरं समुच्चीयते । अयञ्च हेतुः ‘समस्तं विका­र­जा­त­म­न्त­स्ति­ष्ठन् यमयतीति परमात्मनोऽयं धर्म उपपद्यते’ इति भाष्येण गर्भीकृतः । यद्यपि सर्व­भू­त­नि­य­न्तृत्वं योगिनो न सम्भवतीति स्पष्टमेव , तथाऽपि तत्स­म्भ­व­म­ङ्गी­कृत्य कृत्वाचिन्तया न्यायः प्रदर्शितः । इंद तु कृत्वा­चि­न्तो­द्धा­ट­नम् । १.२.१८ ।

स्यादेतत् । यद्यपि सर्व­भू­त­श­ब्दो­क्त­स­क­ल­का­र्य­नि­य­न्तृत्वं योगिनो न संभवति , तथाऽपि साङ्ख्य­स्मृ­ति­क­ल्पिते प्रधाने तद्व्यपदेष्टुं शक्यम् । सर्वस्य कार्यस्य कारणाधीनत्वात् , ‘यः पृथिव्यां तिष्ठन्’ इत्यादिकं कार्येषु कार­ण­स्या­नु­ग­त­त्वात् । ‘यं पृथिवी न वेद’ इत्यादि तस्य ‘अप्र­त­र्क्य­म­वि­ज्ञे­यम्’ इत्य­वि­ज्ञे­य­त्व­व­र्ण­नात् । ‘यस्य पृथिवी शरीरम्’ इत्यादि कार्य­का­र­ण­यो­र्व­स्तुतो भेदाभावात् । ‘पूर्व­प­क्ष­श­री­रम्’ इत्यादौ स्वरू­प­वा­च­क­स्यापि शरीरशब्दस्य दर्शनात् , ‘एष त आत्मा’ इति जीवस्य सर्वनिर्वाहके प्रधाने ‘ममात्मा भद्रसेन’ इति­व­दा­त्म­त्वो­प­चा­रात् , ‘अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतो मन्ता अविज्ञातो विज्ञाता’(बृ. ३. ७. २३) इत्य­त्रा­दृ­ष्ट­त्वादि रूपादिहीनत्वात् , द्रष्टृत्वादि तत्प्र­कृ­ति­क­त्वेन तद­भि­न्ना­ना­ञ्च­क्षु­रा­दीनां दर्श­ना­दि­सा­ध­न­त्वात् , ‘चक्षू रूप ग्राहकम्’ इत्यादौ करणे कर्तृ­त्वो­प­चा­रा­दिति सर्वस्यापि विशे­ष­ण­स्यो­प­प­न्न­त्वात् प्रधा­न­मे­वा­न्त­र्या­मीति युक्तम् , न तु परमात्मेति ; तत्र पृथि­व्या­दि­श­री­र­व­त्त्व­व्य­प­दे­शा­नु­प­पत्तेः । न हि तस्य पृथिव्यादि स्वरूपम् , न वा भोगायतनम् । न च तस्य पृथि­व्या­दि­श­री­रेण भोक्तृ­भो­गा­य­त­न­भा­व­स­म्ब­न्धा­भा­वेऽपि कर्तृ­का­र्यो­पा­दा­नो­पा­दे­य­भा­वा­दि­स­म्ब­न्धा­न्त­र­स­त्त्वा­त्तथा व्यप­दे­श­स्स्या­दिति वाच्यम् । पित्रादेः पुत्रादिशरीरस्य च तादृ­क्स­म्ब­न्धा­न्त­र­स­त्त्वेऽपि ‘पितुश्शरीरम्’ इत्या­दि­व्य­प­दे­शा­द­र्श­नेन तथा व्यपदेशे तेषां सम्ब­न्धा­ना­म­प्र­यो­ज­क­त्वात् । न च तद­ज्ञा­न­क­ल्पि­त­त्वेन सम्बन्धेन तथा व्यपदेशः ; स्थाव­ज्ञा­न­क­ल्पिते शरीरे ‘स्थाणो­श्श्श­री­रम्’ इति व्यपदेशा दर्शनात् । न च नियम्यत्वेन तथा व्यपदेशः ; स्वामि­नि­य­म्य­भृ­त्या­दि­श­री­रेषु नावि­क­नि­य­म्य­नौ­का­दिषु तत्त­च्छ­री­र­त्व­व्य­प­दे­शा­भा­वात् । न च याव­द्द्र­व्य­भा­विना नियम्यत्वेन तथा व्यपदेशः ; स्वशरीरस्यापि व्याध्यादिभिः कदा­चि­द­नि­य­म्य­त्वेन शरीरत्वव्यपदेशे तस्य प्रयो­ज­क­त्वा­यो­गात् । ‘तदानीमपि स्वशरीरस्य निय­म्य­त्व­यो­ग्य­ताऽस्ति’ इति चेत् न । तथा सति नौकादिष्वपि सर्वदा नावि­का­दि­नि­य­म्य­त्व­यो­ग्य­ताऽ­स्ती­त्य­ति­प्र­स­ङ्ग­ता­द­व­स्थ्या­दिति पूर्व­प­क्षा­न्त­र­या­शंक्य निराकरोति –

न च स्मार्त­म­त­द्ध­र्मा­भि­ला­पात् । १९ ।

१९

न साङ्ख्य­स्मृ­त्युक्तं प्रधा­न­म­न्त­र्या­मीति युक्तम् ; अतद्धर्माणां द्रष्टृ­त्वा­दी­ना­म­भि­ला­पात् ; तेषां मुख्यत्वसम्भवे औप­चा­रि­क­त्व­क­ल्प­ना­यो­गात् । ‘यस्य पृथिवी शरीरम्’ इत्यादि तु निय­न्तृ­त्व­प्र­स­क्त­श­री­रा­पे­क्षा­शङ्कां नित्यसिद्धे नियन्तृत्वे नास्ति तदपेक्षेति सूचनेन व्याव­र्त­यि­तु­म­न्त­र्या­मिणो नियमनार्थं निय­म्य­पृ­थि­व्या­द्य­ति­रे­केण शरीरं नास्तीति प्रतिपादनपरम् । आका­ङ्क्षाऽ­नु­रो­धात् , न तु पृथि­व्या­दे­स्त­च्छ­री­र­त्व­प्र­ति­पा­द­न­प­र­मपि अना­का­ङ्क्षि­त­त्वात् , उभयत्र वाक्य­व्या­पा­रा­यो­गाच्च । १. २. १९ ।

ननु यदि द्रष्टृ­त्वा­दि­मु­ख्य­ताऽ­नु­रो­धान्न प्रधा­न­म­न्त­र्यामि , तर्हि तत एव न परमात्माऽपि , किन्तु शारीर एव । यदि ‘द्रष्टा’ इत्यादिविशेषणैः ‘आत्मा वा अरे द्रष्ट­व्य­श्श्रो­तव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. २. ४. ५) ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन’(बृ. २. ४. ५) ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते’(बृ. ४. ५. ६) इत्या­दि­श्रु­त्य­न्त­र­प्र­त्य­भि­ज्ञा­ना­दा­त्म­वि­ष­य­सा­क्षा­त्का­र­श्र­व­ण­म­न­न­नि­दि­ध्या­स­न­व­त्व­मु­च्यते , यदि वा चक्षु­श्श्रो­त्र­म­नो­बु­द्धि­क­र­ण­क­ज्ञा­न­व­त्त्व­मु­च्यते , उभयथाऽपि जीव एव द्रष्टृत्वादिकं घटते न परमात्मनि । द्रष्टृ­त्वा­दि­शब्दा रूपा­लो­क­ना­दि­म­त्त्व­वा­च­का­स्सन्तु इति चेत् । न । तथाऽपि मन्तृ­श­ब्दा­भि­धे­यस्य विचारयितृत्वस्य सर्वज्ञे ब्रह्म­ण्य­स­म्भ­वात् । दर्श­ना­दि­श­ब्दानां रूपा­लो­क­ना­दि­वा­चित्वे ‘रूपं दृष्टं घटो दृष्ट’ इत्यादि प्रयोगाणां ‘इन्द्र इन्द्रा­णी­प­ति­व­रुणो वरुणानीपतिः’ इत्या­दि­व­द­सा­म­ञ्जस्य प्रसङ्गाच्च । न च –चाक्षु­षा­दि­ज्ञा­न­वा­चि­त्व­म­प्य­स­म­ञ्ज­सम् । चक्षु­रा­दी­ना­म­यो­ग्य­त्वेन ‘दृष्टं पश्यामि’ इत्याद्यनुभवे स्फुर­णा­स­म्भ­वा­दिति वाच्यम् ; चक्षु­रा­दि­क­र­ण­वि­शे­ष­प्र­यो­ज्य­जा­ति­वि­शे­ष­वा­चि­त्वो­प­पत्तेः ।

न च वाच्यम् – ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः’(श्वे. ३. १९) इत्यत्र रूपा­लो­क­ना­दि­मात्रे पश्य­त्या­दि­प्र­योगो दृष्टः इति । तत्र जवनशब्दस्य दूरस्थसम्बन्ध इव तस्य रूपालोकनादौ लक्ष­णाऽ­भ्यु­प­ग­मात् , इह मुख्या­र्थ­स­म्भ­वेन लक्ष­णा­क­ल्प­ना­नौ­चि­त्यात् । तस्माज्जीव एवान्तर्यामी , ‘न दृष्टे­र्द्र­ष्टारं पश्ये: न श्रुते­र्श्रो­तारं शृणुयाः’(बृ. ३. ४. २) इत्या­दि­श्रु­त्य­न्तरे तस्मि­न्न­दृ­ष्ट­त्वा­दीनां प्रसिद्धेश्च । साधनाधीनमपि तस्यैव यमयितृत्वं ग्राह्यम् ; द्रष्टृ­त्वा­द्य­नु­रो­धात् । तस्मि­न्न­मृ­त­श­ब्दोऽपि युज्यते ; नित्यत्वात् । ‘क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याऽविद्ये ईशते यस्तु सोऽन्यः’(श्वे. ५. १) इति श्रुत्यन्तरे तस्मि­न्दृ­ष्ट­प्र­यो­ग­त्वाच्च ।

अथोच्येत – जीवः कोऽन्तर्यामी स्यात् । न ताव­त्त­त्त­दु­पा­स­क­जीवः ; परिच्छिन्ने तत्र पृथि­व्या­दि­स्थि­ति­त­न्नि­य­न्तृ­त्व­यो­र­स­म्भ­वात् , ‘किमन्तर्यामिणं वेत्थ’ इति गन्धर्वेण पृष्टस्य काप्यस्य ‘नाहं तं भगवन्वेद’(बृ. ३. ७.१) इत्यु­त्त­रा­सा­म­ञ्ज­स्य­प्र­स­ङ्गाच्च । यज्ञविद्याविदः काप्यस्य कर्म­फ­ल­भो­क्तृ­दे­हा­ति­रि­क्त­जी­व­ज्ञा­ना­व­श्य­म्भा­वात् । नापि पृथिव्याघभिमानी जीवः श्रोता­र­मु­द्दा­लकं प्रति पराग्भूते तस्मिन् ‘एष त आमा’(बृ. ३. ७. ३) इति तदा­त्म­त्वो­प­दे­शा­यो­गात् । पृथि­व्या­दि­ष्व­प्य­भि­मा­नि­जी­वस्य प्रत्येकं भिन्नतया ‘सर्वाणि भूतानि योऽन्तरो यमयति’(बृ. ३. ७. १) इत्यु­प­क्रा­न्त­तया एकस्य सर्वनियन्तृताया अन­न्व­य­प्र­स­ङ्गाच्च । नापि जीवसमुदायः ; तस्य पृथि­व्या­दि­स्थ­त्व­त­न्नि­य­न्तृ­त्व­यो­र­भा­वेन ‘यः पृथि­व्या­न्ति­ष्ठन् पृथिव्या अन्तरः’(बृ. ३.७. ३) इत्या­दे­र­न­न्व­यात् । न च सर्वभूतवाक्ये जीवसमुदायः पृथि­व्या­दि­वाक्ये तत्तदभिमानि जीव इति वैरूप्यकल्पनं युक्तम् । न वा तदपि निर्वोढुं शक्यम् , ‘एष त आत्मा’ इत्यु­प­दे­शा­यो­गस्य उक्तत्वात् । अपिच उपासकजीव इति पृथि­व्या­द्य­भि­मानि जीव इति पूर्वपक्षौ ‘शब्दविशेषात्’(ब्र.सू. १. २. ५) ‘भेद­व्य­प­दे­शा­च्चान्यः’(ब्र.सू. १.१.११) इति सूत्राम्यां निरसितौ नात्र निरसनीयौ । शाण्डि­ल्य­वि­द्यायां ‘एष म आत्मा’(छा.३.१४.१) इतिवदिह प्रतिपर्यायं ‘एष त आत्मा’ इति शब्द­वि­शे­ष­स­त्त्वात् । आदित्यपर्याये ‘यमादित्यो न वेद’(बृ. ३.७.९.) इत्या­दि­भे­द­व्य­प­दे­श­वत् पृथि­व्या­दि­प­र्या­ये­ष्वपि ‘यं पृथिवी न वेद’(बृ. ३. ७. ३) इत्या­दि­भे­द­व्य­प­दे­श­स­त्त्वाच्च । एवं च सर्वजीवसमुदाय इति पूर्वपक्षोऽपि न सम्भवति । सर्वभूतपर्याये ‘यं सर्वाणि भूतानि न विदुः’(बृ. ३. ७. १५) इत्या­दि­भे­द­व्य­प­दे­श­द­र्श­नात् ।

अपि च प्रतिपर्यायं ‘अमृतं’ इति जीवात् भेदो निर्दिश्यत । अमृतत्वं ह्यम­र­ण­ध­र्म­क­त्वम् । न च जीवस्यापि नित्य­त्वा­त्त­त्रा­मृ­त­त्वो­क्ति­रु­प­प­द्यत इति वाच्यम् । आत्म­त्व­की­र्त­ना­देव स्वतो नित्यत्वस्य सिद्ध­त्वे­ना­मृ­त­प­दस्य जीव­ध­र्म­श­री­रो­पा­धि­क­म­र­ण­रा­हि­त्य­प­रत्व एव व्याव­र्त­क­त्वो­प­पत्तेः । न च व्यावर्तकत्वे सम्भवति स्वरू­प­क­थ­न­मा­त्रा­र्थत्वं युक्तम् । अत एव ‘राजपुरोहितौ सायुज्यकामौ यजेयाताम्’ इत्यत्र ‘राज्ञः पुरो हितौ’ इति षष्ठी­त­त्पु­रु­षै­क­शे­ष­पक्षे क्षत्रि­या­द­न्यस्य पुरोहिताभावात् राजपदं व्यर्थं स्यादिति तं त्यक्त्वा ‘राजा च पुरोहितश्च’ इति द्वन्द्व­मा­श्रित्य राज्ञः पुरोहितस्य च कुलाययज्ञे सहाधिकार इति निर्णीतं पूर्वतन्त्रे । ‘क्षरं त्वविद्या ह्यमृतं तु विद्या’(श्वे.५.१) इत्यत्रामृतपदं विशे­ष्य­स­म­र्प­णा­र्थम् , न त्वित­र­व्या­व­र्त­ना­र्थम् । न वा तदपि सर्व­धै­व­व्या­व­र्त­कम् ; पूर्व­नि­र्दि­ष्ट­क्ष­र­वै­ल­क्ष­ण्येन विशे­ष्य­स­म­र्प­क­त्वात् । किञ्च उपक्रम एवा­न्त­र्या­मि­वि­ज्ञा­नेन सर्व­ज्ञा­न­प्र­ति­ज्ञाने सर्व­वे­दा­न्त­प्र­सिद्धे ब्रह्मलिङ्गे जाग्रति कथ­मो­प­सं­हा­रि­कै­र्द्र­ष्टृ­त्वा­दि­भि­र्जी­व­पू­र्व­प­क्ष­स्यो­दयः ? न च ‘उपक्रमगतमेकं लिङ्ग­मु­प­रि­त­ना­ने­का­लि­ङ्गा­वि­रोधे दुर्बलम्’ इति भूता­दि­पा­द­व्य­प­दे­श­सू­त्रो­क्त­न्या­योऽत्र प्रसरति । ब्रह्मा­ब्र­ह्म­लि­ङ्ग­स­मा­वेशे ब्रह्म­ण्य­ब्र­ह्म­लि­ङ्गानां नेतुं शक्य­त्वे­ना­न्य­था­लि­द्ध­तायाः प्रतर्दनाधिकरणे प्रदर्शितत्वात् । तस्मात् केनापि प्रकारेणात्र जीवपूर्वपक्षो न सम्भवतीति चेत् - उच्यते ।

अस्ति ताव­द­न्तः­क­र­णो­पा­धि­कानां कर्तृ­त्व­भो­क्तृ­त्व­शा­लिनां प्रति­दे­ह­म­न्तः­क­र­ण­भे­देन विभक्तानां प्रमातृरूपाणां जीवा­ना­म­धि­ष्ठा­न­भू­त­स्सु­षु­प्ता­व­न्तः­क­र­ण­वि­ल­येन प्रमात्रभावेऽपि सौषु­प्ति­का­ज्ञा­न­सु­खा­नु­भ­वात्मा मूला­ज्ञा­नो­पा­धि­क­स्सा­क्षि­रूपो जीवः , स तु न प्रतिदेहं भिन्नः। ‘त्वत्तोऽहं भिन्नः’ इत्या­दि­भे­द­प्र­त्य­यानां प्रमा­तृ­वि­ष­य­त्वेन लाघ­वा­दे­का­ज्ञा­नो­प­धि­कस्य सर्व­भू­ता­नु­ग­त­स्यै­क­स्यैव तस्य सिद्धेः , ‘एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्व­भू­ता­न्त­रात्मा । कर्मा­ध्य­क्ष­स्स­र्व­भू­ता­धि­वा­स­स्साक्षी चेता केवलो निर्गुणश्च’(श्वे. ६.११) इति श्रुतेश्च । न च इयं श्रुतिः परमेश्वरविषया ; मायाशबलिते सगुणे परमेश्वरे ‘केवलो निर्गुण’ इति विशे­ष­णा­नु­प­पत्तेः ॥

न च सर्वभूतेषु सुखा­द्य­नु­भ­व­रू­पस्य साक्षिण एकत्वे पुरु­षा­न्त­र­सु­खा­दे­रपि पुरुषान्तरं प्रति प्रत्य­क्ष­त्वा­पत्तिः , तस्य पुरुषान्तरं प्रति आवृतत्वात् , सर्वेषु साक्षिण एकत्वेऽपि यं प्रति यदनावृतं तं प्रत्येव तस्य तदनुभवरूपताया: फलबलेन कल्पनात् , अन्यथा घटाद्यधिष्ठानं ब्रह्म­चै­त­न्य­मे­वा­ध्या­सि­क­स­म्ब­न्धेन घटादिभासकमिति सर्वदा सर्वेषां घटा­द्य­व­भा­स­प्र­स­ङ्गात् ।

न च वाच्यम् – यस्य स्वोपा­ध्य­न्तः­क­र­ण­वृ­त्ति­कृता घटा­द्य­धि­ष्ठा­न­चै­त­न्ये­ना­भे­दा­भि­व्यक्तिः , तस्यैव तदवभासते इति ; व्याव­र्त­को­पा­धा­व­न्तः­क­रणे दर्पण इव स्थिते बिम्ब­प्र­ति­वि­म्बा­द्या­त्मना भेदा­नु­वृ­त्त्य­व­श्य­म्भा­वे­ना­भे­दा­भि­व्य­क्त्य­स­म्भ­वात् । तात्विकाभेदस्य प्रागपि सत्त्वात् । तस्मा­द­न्तः­क­र­ण­वृ­त्ति­कृ­ता­व­र­णा­भि­भ­वेन यं प्रति घटादिरनावृतः , तं प्रति तद­धि­ष्ठा­न­चै­तन्यं घटाद्यवभासकमिति फलबलात् कल्पनीयम् । अभे­दा­भि­व्य­क्ति­व्य­व­हा­रश्च ब्रह्मणा सह तस्य जीवस्य घटा­दि­वि­ष­या­व­र­ण­रा­हि­त्य­रू­प­सा­म्या­प­त्ति­पर इति व्यवस्थापनीयम् । तस्मा­न्मू­ला­ज्ञा­नो­पा­धिकं सर्वेषां प्रत्यग्भूत एकस्साक्षीति स्थितौ स एवान्तर्यामीति पूर्वःपक्षः ।

अस्मिन् सर्व­म­प्य­न्त­र्या­मि­ब्रा­ह्मणं सङ्गच्छते । एवं हि तत्रोपाख्यायते –– ‘अथ हैनमुद्दालक आरुणः पप्रच्छ । याज्ञवल्क्येति होवाच । मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीत् भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , वेत्थ नु त्वं काप्य तत् सूत्रं येनायञ्च लोकः परञ्च लोकस्सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तत् भगवन्वेदेति । सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , वेत्थ नु त्वं काप्यं तमन्तर्यामिणम् । य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन्वेदेति । सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , यो वै तत् काप्य सूत्रं विद्या­त्त­ञ्चा­न्त­र्या­मिणं स ब्रह्मवित् स लोकवित् स देववित्स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वान् तञ्चा­न्त­र्या­मिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यतीति । वेद वा अहं गौतम तत्सूत्रं चान्त­र्या­मि­ण­मिति । यो वा इदं कञ्चित् ब्रूयात् वेद वेदेति । यथा वेत्थ तथा ब्रूहि’(बृ. ३. ७. १) इति । एवं कथायां विजिगीषुणा गौत­म­वं­श्ये­ना­रु­णिना पृष्टो याज्ञवल्क्यो ‘वायुर्वै गौतम तत् सूत्रम्’(बृ. ३. ७. २) इत्यारभ्य सूत्रा­त्म­स्व­रू­प­मुक्त्वा ‘यः पृथि­व्या­न्ति­ष्ठन्’(बृ. ३. ७. ३) इत्यारभ्य ‘यो रेतसि तिष्ठन्’(बृ. ३. ७. २३) इत्यन्तैः पर्यायैः पृथि­व्य­ग्नि­वा­य्वा­दि­क्र­मेण सर्वा­न्त­र्या­मि­ण­मु­प­दिश्य ‘अदृष्टो द्रष्टाऽ­श्रु­त­श्श्रोता’ इत्यादिना तस्या­दृ­ष्ट­त्व­द्र­ष्टृ­त्वा­दि­क­मुक्त्वा ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. ३. ७. २३) इत्यादिना ततोऽन्यं द्रष्ट­त्वा­दि­गु­णकं निषिध्य , ‘एष त आत्माऽ­न्त­र्या­म्य­मृ­तोऽ­तोऽ­न्य­दा­र्तम्’(बृ. ३. ७. २३) इति – तदतिरिक्तस्य सर्व­स्या­नि­त्यत्वं प्रतिपादयामास ।

अत्र तावदेकस्य सर्व­व­स्तु­नि­य­न्तृ­त्वो­क्ति­मा­रभ्य सर्व­म­प्यु­प­प­द्यते ; एकस्यैव सर्वसाक्षिणो जीवस्य तत्त­द­न्तः­क­र­णा­व­च्छि­न्न­स्वां­श­भे­द­द्वारा तदी­य­का­र्य­क­र­णो­प­क­र­ण­भू­त­स­र्व­व­स्तु­नि­य­न्तृ­त्वात् । पृथि­व्या­दि­स­र्व­नि­य­न्तृ­स­र्व­भू­ता­नु­ग­तै­क­जी­व­रू­प­त्वेन जीवज्ञानस्य यज्ञ­वि­द्याऽ­नु­प­यो­गि­तया काप्यस्य तदज्ञानसम्भवात् । एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नस्य सूत्रात्मनि ‘वायुर्वै गौतम तत्सूत्रम्’ इत्युक्त्वा ‘तस्माद्वै गौतम पुरुषं प्रेत­मा­हु­र्य­स्रं­सि­ष­ता­स्या­ङ्गा­नीति । वायुना हि गौतम तत्सूत्रेण सन्दृब्धानि भवन्ति’(बृ. ३.७.२) इत्यु­प­प­त्त्यु­प­न्या­सेन च वायुरूपतयाऽवगते प्रशं­सा­र्थ­त्वा­व­श्य­म्भा­वेन तदे­क­वा­क्यो­पा­त्तेऽ­न्त­र्या­मि­ण्यपि तदर्थत्वावगमात् । ‘य: पृथिव्यां तिष्ठन्’ इत्या­दि­प­र्या­येषु तत्तज्जीवेभ्यो घटाकाशादिभ्यो महाकाशस्येव भेद­नि­र्दे­श­सा­म­ञ्ज­स्यात् । ‘एष त आत्मा’ इति शब्दविशेषस्यापि अन्तः­क­र­णा­व­च्छि­न्न­स्यापि तव एष सकलसाक्षी जीव आत्मा व्याप­क­स्व­रू­प­मिति सामञ्जस्यात् । अमृतत्वस्यापि तत्त­द­न्तः­क­र­णा­व­च्छिन्न इवा­ज्ञा­नो­पा­धि­क­स्स­र्व­गतो जीव­स्त­त्त­च्छ­री­रा­पा­दा­न­को­त्क्र­म­ण­रू­प­म­र­ण­वान्न भवतीति साङ्गत्यात् । दृष्ट्र­त्वा­दि­व­र्ज­नस्य च जीवस्य प्रमा­तृ­रू­पा­णा­मिव अनु­ग­त­सा­क्षि­रू­प­स्या­प्र­सि­द्ध­तया सङ्गतत्वात् । द्रष्ट्र­त्वा­दी­नाञ्च अन्तः­क­र­णा­व­च्छि­न्न­प्र­मा­तृ­रू­पेण समन्वयात् । द्रष्ट्र­न्त­रा­दि­नि­षे­धा­नाञ्च कथमेकस्मिन् देहे द्वौ द्रष्टारौ जीवोऽन्तर्यामी च , देहे­न्द्रि­या­णा­म­ने­क­चे­त­न­द­र्श­ना­द्य­र्थत्वे तदी­य­वि­रु­द्धा­भि­प्रा­या­नु­व­र्त­ना­स­म्भ­वात् , न च शरी­रे­न्द्रि­या­न्त­रै­र­न्त­र्या­मिणो दर्श­ना­दि­म­त्त्वम् , ‘यस्य पृथिवी शरीरम्’ इत्यादिभिस्तस्य , निय­म्य­श­री­रा­ति­रि­क्त­श­री­रे­न्द्रि­य­रा­हि­त्या­व­ग­मात् ; इत्याशङ्कायां तत्र तत्र भेदनिर्देशेन देव­म­नु­ष्या­दि­रू­प­द्र­ष्ट्र­ति­रिक्तं तदन्तर्यामिरूपं द्रष्ट्र­न्त­र­मु­प­दि­ष्ट­मिति न भ्रमितव्यम् ; देव­म­नु­ष्या­दि­ग­त­द्र­ष्ट्र­त्वा­दि­गु­णै­रेव अन्तर्यामी द्रष्ट्र­त्वा­दि­मा­नु­प­दिष्टः द्रष्ट्र­त्वा­दि­गु­ण­कानां प्रमा­तॄ­णा­म­न्त­र्या­मितो वस्तुतो भेदा­भा­वा­दि­त्य­भि­प्रा­य­त्वात् । तस्मात् सर्वसाक्षी जीव एवान्तर्यामीति पूर्व­प­क्षा­न्त­र­मा­शंक्य निराकरोति –

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । २० ।

२०

शारी­र­श्चा­न्त­र्यामी न भवति । उभयेऽपि माध्यन्दिनाः काण्वाश्च अन्तर्यामिणो भेदेन एनं पूर्व­प­क्ष्या­श­ङ्कितं सर्व­भू­ता­नु­ग­त­सा­क्षि­रूपं शारीरमधीयते । ‘य आत्मनि तिष्ठ­ना­त्म­नोऽ­न्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष त आत्माऽ­न्त­र्या­म्य­मृत’ इति माध्यन्दिनाः । अस्मिन्नेव पर्याये ‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति एष त आत्माऽ­न्त­र्या­म्य­मृतः’(बृ. ३. ७. २२) इति काण्वाः । अत्र विज्ञानशब्दस्य स्थान­प्र­मा­णा­ज्जीव एवार्थ इत्यवगतम् । न चात्र वैपरीत्यं शङ्कनीयम् । आत्मशब्दस्य जीवे रूढत्वात् विज्ञानशब्दस्य च ‘विज्ञान यज्ञं तनुते’(तै.२. ५.१) इत्या­दि­श्रु­त्य­न्त­रेषु जीवे दृष्ट­प्र­यो­ग­त्वाच्च । अयञ्च आत्म­वि­ज्ञा­न­श­ब्दोक्तो जीवस्साक्षिरूप एव , न तु तत्त­त्प्र­मा­तृ­रूपः , एकवचननिर्देशात् ।

‘यस्सर्वेषु भूतेषु तिष्ठन्’ इति पर्याये भूतशब्दोदितानां सर्वेषां प्रमातृरूपाणां जीवानां पृथ­ग­न्त­र्या­मि­नि­य­म्य­त्वस्य वर्णितत्वाच्च । तत्र भूतशब्दो ‘भवन्ति जायन्ते’ इति व्युत्पत्त्या न जडप्रपञ्चपरः ; भूतशब्दस्य कार्ययोगतः प्राणिषु रूढे­र्ब­ल­व­त्त्वात् । न च तत्र महाभूतेषु रूढेः प्राणिषु रूढेश्च विनिगमनाविरहेण अन्यो­न्य­प्र­ति­रोधे योगो­न्मे­ष­श्श­ङ्क­नीयः ; ‘यः पृथि­व्या­न्ति­ष्ठन्’ इत्या­दि­प­र्या­येषु पृथि­व्या­दि­म­हा­भू­ता­ना­मु­पा­त्त­त्वेन अत्र प्राणि­रू­ढे­रे­वो­न्मे­षात् । तस्मात्परमेश्वर एवान्तर्यामी । तत्र द्रष्ट्र­त्वा­दि­व­र्णनं जीवा­भे­दा­भि­प्रा­येण योज्यम् । द्रष्ट्र­न्त­रा­दि­नि­षे­धश्च द्रष्ट्र­ट्व­य­श­ङ्का­वा­र­णाय जीवा­भे­दा­भि­प्रा­य­स्फो­र­णा­र्थ­त्वेन पूर्व­प­क्षो­क्त­री­त्यैव योजनीयः ।

सूत्रे ‘शारीर’ इत्येकवचनेन – एक एवाज्ञानोपाधिको जीवोऽ­न्त­र्या­मीति पूर्वपक्षः, न तु तद्विशेषा देवमनुष्यादिजीव इति ; ‘य इमञ्च लोकम्’ इत्या­दा­वे­क­व­च­न­नि­र्दे­शा­दिति सूचितम् । चकारात् पूर्वसूत्रात् नमोऽनुवर्तनं सूचितम् । ‘उभये’ इत्यनेन – काण्व­मा­ध्य­न्दि­न­पा­ठ­यो­र्भि­न्न­भि­न्ना­र्था­न्त­र­प­र­त्व­श­ङ्का­नि­रा­क­र­ण­द्वारा तत्र­त्य­भे­द­नि­र्देश एवात्र हेतुः , न तु ‘एष त आत्मा’ ‘यं सर्वाणि भूतानि न विदुः’ इत्या­दि­भे­द­नि­र्देशः, अन्त­र्या­मि­ण­स्त­त्त­दु­पा­स­क­जी­व­रू­प­त्वेन, सर्वजीवरूपत्वेन वा पूर्वपक्षस्य हि तादृशो भेदनिर्देशः प्रति­क्षे­प­क­स्स्यान्न तु सर्व­सा­क्षि­जी­व­रू­प­त्वेन पूर्वपक्षस्य ; तादृ­श­भे­द­नि­र्दे­शानां प्रमा­तृ­सा­क्षि­भे­द­मा­दा­यो­प­प­न्न­त्वा­दिति सूचितम् । एत­त्सू­च­ना­र्थ­त्वा­भावे क्वाचि­त्क­भे­द­नि­र्दे­शेऽपि साध्य­सि­द्धे­रु­भ­य­ग्र­हणं व्यर्थमेव स्यात् । न हि नाना­शा­खाऽऽ­म्ना­त­शा­ण्डि­ल्य­वै­श्वा­न­र­वि­द्या­दि­ग­त­वि­ष­य­वा­क्यानां ब्रह्य­प­र­त्व­सा­धने नाना­शा­खा­म्ना­त­त्व­मु­द्घा­टि­तम् । न वा अस्मिन्नधिकरणे ‘तद्ध­र्म­व्य­प­दे­शात्’ इति हेतोरुभयत्रापि समा­म्ना­त­त्व­मु­क्तम् । ‘भेदेन’ इत्यु­प­ल­क्ष­ण­तृ­तीया निर्देशेन – जीवस्येश्वरात् भेदो न विशेषणम् , किन्तु उपलक्षणमेव, मिथ्यात्वेन याव­द्द्र­व्य­भा­वि­त्वा­दिति सूचितम् । एत­त्सू­च­ना­र्थ­त्वा­भावे लाघवात् ‘भिन्न­मे­न­म­धी­यते’ इत्ये­वा­सू­त्र­यि­ष्यत । इद­म­प्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्ग­म­धि­क­र­णम् ; योगि­पू­र्व­प­क्ष­नि­रा­क­र­णार्थं यमयितृत्वस्य साध­न­नि­र­पे­क्ष­ग्र­ह­णो­त्स­र्गि­क­तया ब्रह्म­लि­ङ्ग­तायाः प्रसाधनीयत्वात् , जीव पूर्व­प­क्ष­नि­रा­क­र­णार्थं भेदेनाधीयते इति हेतोश्च स्थान­प्र­मा­णा­दि­भि­र्ने­य­त्वात् । १.२.२०।

इति अन्त­र्या­म्य­धि­क­र­णम् ।

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः । २१ ।

२१

अथर्वणे श्रूयते ‘अथ परा यया तदक्षरमधिगम्यते यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्ण­म­च­क्षु­श्श्रोत्रं तदपाणि पादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यत् भूतयोनिं परिपश्यन्ति धीराः’(मु. १. ५. ६) इति ।

अत्रा­य­म­दृ­श्य­त्वा­दि­गु­णको भूतयोनिः प्रधानं शारीरः परमात्मा वेत्य­दृ­श्य­त्वा­दीनां साधारण्यात् संशये प्रधानमिति तावत् प्राप्तम् । ‘यथो­र्ण­ना­भि­स्सृ­जते गृह्णते च यथा पृथि­व्या­मो­ष­ध­य­स्स­म्भ­वन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु. १.१.७) इति सम­न­न्त­र­म­न्त्रो­क्ता­चे­त­न­दृ­ष्टान्त सारूप्यात् , परिणामवादे विवर्तवादे च कन­क­रु­च­क­स्र­ग्भु­ज­ङ्ग­री­त्याऽ­व­श्या­पे­क्षि­तात् । अत्रापि ‘यथा सुदीप्तात् पाव­का­द्वि­स्फु­लि­ङ्गा­स्स­ह­स्रशः प्रभवन्ते सरूपाः । तथाऽ­क्ष­रा­द्वि­वि­धा­स्सोम्य भावाः प्रजायन्ते तत्र चैत्रापियन्ति’(मु. २. १. १) इति उप­रि­त­न­म­न्त्रा­न्त­र­प्र­द­र्शि­ता­द­चे­त­ना­न्न­म­नः­प्रा­णा­दि­व­क्ष्य­मा­ण­का­र्य­सा­रू­प्याच्च ।

अपि च पृथि­व्या­दि­दृ­ष्ट­दृ­श्य­त्वा­दि­नि­षे­ध­स्या­धि­क­र­ण­वि­शे­षा­का­ङ्क्षायां तस्यैव पृथि­व्या­दे­र­व­स्था­भे­दे­ना­धि­क­र­णत्वे सम्भ­व­त्य­धि­क­र­णा­न्तरं नापेक्षणीयम् ; बुद्धि­गौ­र­वा­पत्तेः ; बाल्य­का­र्या­दि­नि­षे­धा­ना­म­व­स्था­भे­देन प्रतियोग्यधिकरण एवा­न्व­य­स्यौ­त्स­र्गि­क­त्वा­नु­भ­वाच्च । पृथिव्यादीनाञ्च सूक्ष्मा­व­स्था­रूपं प्रधानं न तेभ्यो भिन्नम् ; उपा­दा­नो­पा­दे­य­यो­र­भे­दात् । तद्भे­दा­भ्यु­प­ग­मेऽपि अचे­त­न­पृ­थि­व्या­दि­रू­प­दृ­श्य­भि­न्न­तया प्रति­पा­द्य­मा­न­म­चे­तनं प्रधानमेवेति युक्तम् ; ‘नञ­व­यु­क्त­म­न्य­स­दृ­शा­धि­क­रणे तथाह्यर्थगतिः’ इति न्याये­ना­ब्रा­ह्म­णा­दि­श­ब्द­वत् तद­न्य­वृ­त्ते­श्श­ब्दस्य तत्स­दृ­शा­न्य­वृ­त्ति­त्व­नि­य­मात् । न ह्यब्रा­ह्म­णा­दि­शब्दाः क्षत्रि­या­दि­ष्विव लोष्टादिषु प्रयुज्यन्ते । अन्त­र्या­मि­ण्य­दृ­ष्ट्र­त्वादि श्रवणेऽपि द्रष्ट्र­त्वा­द्य­नु­रो­धात् ‘नञिवयुक्त’ न्यायस्त्यक्तः । न चेह तत्त्यागे कारणमस्ति ।

नन्विहापि ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम्’(मु. १. १. ८) ‘यस्स­र्व­ज्ञ­स्स­र्व­वि­द्यस्य ज्ञानमयं तपः । तस्मादतद्ब्रह्म नाम रूपमन्नं च जायते’(मु. १. १. ९) इत्या­दि­वा­क्य­शेषे ब्रह्म­श्रु­ति­स­र्व­ज्ञ­त्व­लि­ङ्गा­दि­क­मा­म्ना­यते । उपक्रमेऽपि कस्मिन्न भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. १. १. ३) इति एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञानं ब्रह्म­लि­ङ्ग­मा­म्ना­यते । ‘स ब्रह्मविद्यां सर्व­वि­द्या­प्र­ति­ष्ठा­म­थ­र्वाय ज्येष्ठपुत्राय प्राह’(मु. १. १. १) इति ब्रह्म­वि­द्या­स­माख्या दृश्यते । तथा द्वे विद्ये वेदितव्ये परा चैवापरा च’(मु. १.१.४) इति विद्ययोः परापरविभागं कृत्वा तयो­र­प­रा­मृ­ग्वे­दा­दि­ल­क्ष­णा­मुक्त्वा ‘अथ परा यथा तद­क्ष­र­म­धि­ग­म्यते’(मु. १.१.५) इति वक्ष्य­मा­णा­क्ष­रा­वि­द्यायाः पर­वि­द्या­त्व­मु­च्यते । तदेतत् सर्वं न प्रधाने सङ्गमयितुं शक्यम् ।

अपि च सर्वेषां कारणवाक्यानां ‘ईक्षत्यधिकरणे’(ब्र.सू.१.१.५) साङ्ख्या­भि­म­त­प्र­धा­न­प­रत्वं निरस्तम् । तदुपदर्शिता युक्तयोऽत्रापि प्रवर्तन्त एव । अस्ति खल्वी­क्षा­पू­र्व­क­स्र­ष्ट्र­त्व­श्र­व­ण­म­त्रापि – ‘तपसा चीयते ब्रह्म ततोऽ­न्न­म­भि­जा­यते’ इति । यतस्तपोऽत्र स्रष्ट­व्या­लो­च­न­रूपं ज्ञानं ‘यस्य ज्ञानमयं तपः’(मु.१.१.९) इत्यग्रे विवरणात् । आत्म­श­ब्द­श्चा­त्रास्ति – ‘यस्स­र्व­ज्ञ­स्स­र्व­वि­द्य­स्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु. २. २. ७) इत्या­दि­म­न्त्रेषु । भूतयोनिनिष्ठस्य मोक्षो­प­दे­शोऽ­प्यस्ति – ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. ३. १. ३) इत्या­दि­म­न्त्रेषु । हेयत्वञ्च भूतयोनेरग्रे क्वापि नोच्यते । चकारसमुच्चितः प्रति­ज्ञा­वि­रो­धोऽ­प्य­स्तीति प्रदर्शितमेव । साक्षाच्च स्व शब्देन परमेश्वरस्य कर्तृ­त्व­मु­पा­दा­नत्वं च श्रूयते ‘यदा पश्यः’ इत्या­दि­म­न्त्रेषु । तथाऽ­प्य­चे­त­न­दृ­ष्टा­न्ता­नु­गुण्यं कार्यसारूप्यं दृश्य­त्वा­दि­नि­षे­धा­न्त­रस्य चावलम्ब्यात्र प्रत्य­व­स्था­न­मिति चेत् । न । एतावत् ब्रह्म­श्रु­ति­लि­ङ्गा­दि­क­म­वि­ग­णय्य तन्मा­त्रा­व­ल­म्ब­नेन प्रत्य­व­स्था­ना­यो­गात् । ‘यथा सोम्यैकेन मृत्पिण्डेन’(छा.उ.६-१-४) इत्या­द्य­चे­त­न­दृ­ष्टा­न्तो­पा­दा­नस्य ईक्षत्यधिकरणे लिखित विषयवाक्येऽपि सत्त्वेन ततो भूतयोनिवाक्ये विशे­ष­श­ङ्का­नु­द­यात् । कार्य­का­र­ण­सा­रू­प्य­नि­य­मस्य न विल­क्ष­ण­त्वा­धि­क­रणे(ब्र.सू.२. १. ३) निरा­क­रि­ष्य­मा­ण­त्वात् । तत्र परिणामवाद एव तच्छ­ङ्का­नि­रा­क­र­ण­मि­त्यत्र नियामकाभावात् , स्वच्छ जल­ग­त­नै­ल्या­दि­वि­वर्ते तद्व्यभिचारस्य स्फुटत्वाच्च । ‘यथा सुदीप्तात्’ इति मन्त्रस्यापि प्रलये ब्रह्मणि निली­ना­श्चे­त­ना­स्स­र्गादौ तत उद्ग­च्छ­न्ती­त्ये­त­त्प­र­त्वो­प­पत्त्या सर्वस्य कार्यस्य कार­ण­सा­रू­प्य­प­र­त्वा­सिद्धेः, निषे­ध­स्वा­र­स्य­युक्तेः भूतयोनिः शारीर इति वा ब्रह्मेति वा पक्ष­यो­रे­वा­नु­गु­ण्यस्य वक्ष्यमाणतया ततः प्रधा­न­पू­र्व­प­क्ष­स्यो­न्मे­षा­स­म्भ­वाच्च । तस्मात् प्रधानं भूतयोनिरिति पूर्वपक्षो न युक्त इति चेत् ।

उच्यते । इहाक्षरस्य भूतयोनेः प्रति­पा­द­ना­न­न्तरं ‘दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात् परतः परः’(मु. २. १. २) इति ततोऽपि परस्य पुरुषस्य प्रतिपादनं दृश्यते । स पुरुषो ब्रह्मैवेति तत्र ब्रह्म­श्रु­त्या­दीनां समन्वयः । तथाऽक्षरात् सम्भवतीह विश्वम्’(मु. १.१.७) इति अक्षरकार्यत्वेन वर्णि­ता­द्वि­श्व­स्मात् परतोऽक्षरादपि परत्वेन ‘‘महतः पर­म­व्य­क्त­म­व्य­क्तात् पुरुषः परः’(क. १.३.११) इति कठवल्लीष्विव तस्यैव प्रति­पि­पा­द­यि­षि­त­त्वात् । यत्तु ‘यया तद­क्ष­र­म­धि­ग­म्यते’(मु. १. १. ५) इति पर­वि­द्या­वि­ष­य­त्व­म­क्ष­र­स्यो­क्तम् , तत् उप­क्रा­न्त­स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­हाय प्रति­पि­पा­द­यि­षि­तम् । ‘तपसा चीयते ब्रह्म’(मु. १.१.८) इत्या­दि­म­न्त्रेषु प्रतिपाद्यमानं ब्रह्म­ण­स्स­र्वो­पा­दा­नत्वं ब्रह्म­श­क्ति­रू­पेण सक­ल­ना­म­रू­प­बी­ज­भू­ते­ना­व्या­कृ­तेन इहा­क्ष­र­भू­त­यो­नि­श­ब्द­गृ­ही­तेन घटनीयमिति तस्यापि सर्वो­पा­दा­न­त्वे­नात्र प्रति­पा­द­नी­य­त्व­म­भि­प्रेत्य, न तु स्वातन्त्र्येण तदेव प्रति­पा­द­नी­य­मि­त्य­भि­प्रेत्य, ‘अक्षरात् परतः परः’ इत्यग्रे तत्प्रतिपादने च पारार्थ्यस्य स्फुटत्वात् ।

ननु ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्’(मु. १. १. १३) इति अक्षरात्परत्वेन वर्णनीयेऽपि पुरुषे अक्षरशब्दश्रुतः । तेन स एव प्राधान्येन प्रतिपाद्यमानो भूतयोन्यक्षरम् । ‘अक्षरात् परतः’ इति पुरुषापरत्वेन श्रुतमक्षरमेव केव­ल­म­व्या­कृ­त­मिति कल्प्यतामिति चेत् , मैवम् । उभ­य­थाऽ­प्यु­प­पत्तौ ऊर्ण­ना­भ्या­दि­दृ­ष्टा­न्ता­नु­गु­ण्येन ‘यथा सुदीप्तात्’(मु. २. १. १) इति प्रकृतस्य भूतयोन्यक्षरस्य सरू­प­का­र्य­प्र­भ­व­त्वो­क्त्य­न­न्त­र­मेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरु­ष­स्या­क्ष­र­प­र­त्वो­क्त्या­नु­गु­ण्येन च भूतयोन्यक्षरमेव पुरु­षा­त्प­र­म­क्ष­रम् । ‘येनाक्षरम्’ इति पुरुषे अक्षरशब्दस्तु ‘न क्षरति’ इति व्युत्पत्त्या प्रयुक्त इति कल्प­न­स्यो­चि­त­त्वात् । असति विरोधे अचे­त­न­दृ­ष्टा­न्ता­नु­गु­ण्यस्य ‘यथा सुदीप्तात्’ इतिमन्त्रे पञ्चम्याः ‘तथाऽक्षरात् सम्भवतीह विश्वम्’ इति पञ्च­मी­नि­र्दि­ष्ट­भू­त­यो­न्य­क्ष­र­प­र­त्वेन प्रती­य­मा­ना­क्ष­र­श­ब्द­स्वा­र­स्यस्य च भङ्गायोगात् ।

ननु सत्यमुक्तं भूतयोन्यक्षरस्य , सरू­प­का­र्य­प्र­भ­वा­क्ष­रस्य च पञ्च­मी­नि­र्दे­शा­द­भेदो वक्तव्य इति । तत एवाक्षरात् परस्य पुरुषस्यापि तदभेदो वक्तव्यः । तत्रापि हि ‘ततोऽ­न्न­म­भि­जा­यते’ ‘तस्मादेतत् ब्रह्म इति जग­दु­पा­दा­न­प­र­प­ञ्च­मी­नि­र्देशो दृश्यते । तस्मात् ‘यथा सुदीप्तात्’ इति मन्त्रे अपा­दा­न­प­ञ्च­मी­नि­र्दि­ष्टस्य भूत­यो­न्य­क्ष­र­त्वेऽपि तदनन्तरमन्त्रे अव­धि­प­ञ्च­मी­नि­र्दिष्टं ततो भिन्नमित्येव कल्पयितुं युक्तमिति चेत् ; मैवम् । न हि पञ्चमीमात्रेण भूत­यो­नि­स­रू­प­का­र्य­प्र­भ­वा­क्ष­र­यो­र­भेदं ब्रूमः , किन्त्व­क्ष­र­श­ब्द­प­रया पञ्चम्या । सा त्वक्षरात् परे पुरुषे नास्त्येव ।

ननु तथाऽपि अपा­दा­न­प­ञ्च­मी­प्र­त्य­भि­ज्ञा­न­मा­त्रेण तद­क्ष­रा­त्प­र­स्यापि पुरुषस्य तदभेदः कि न स्यादिति चेत् , न । ब्रह्मा­व्या­कृ­त­यो­रु­भ­यो­रपि विवर्तमानतया , परिणममानतया च ‘मायां तु प्रकृतिं विद्यात्’(श्वे. ४. १०) ‘आत्मन आकाशस्सम्भूतः’(तै. २. १.१) इति श्रुति­द्व­या­नु­रो­धेन ‘सन् घटः’ , ‘जडो घटः’ इति जग­त्यु­भ­य­ता­दा­त्म्य­प्र­ती­त्य­नु­रो­धेन च स्वाभि­न्न­का­र्य­ज­न­क­त्व­रू­प­ज­ग­दु­पा­दा­न­त्व­सत्त्वे सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­ह­क­ब्र­ह्म­ग­त­ज­ग­दु­पा­दा­न­त्व­घ­ट­क­तया अव्या­कृ­त­ग­त­ज­ग­दु­पा­दा­न­त्व­प्र­ति­पा­द­न­स्यापि सङ्गतिसत्त्वे चापा­दा­न­प­ञ्च­मी­प्र­त्य­भि­ज्ञा­न­मा­त्रेण प्रथ­मो­प­स्थि­त­प­ञ्च­म्य­न्ता­क्ष­र­प­द­प्र­त्य­भि­ज्ञा­ल­भ्यस्य भूत­यो­नि­स­रू­प­का­र्य­प्र­भ­व­प­र­त्वा­व­ध्य­क्ष­रा­भे­दस्य चेत­ना­धि­ष्ठि­ता­चे­त­नो­र्ण­ना­भि­दे­हा­दि­दृ­ष्टा­न्त­सा­रू­प्यस्य च भङ्गायोगात् ।

ननु ‘तथाऽक्षरात् सम्भवति’ इत्य­न्त­म­व्या­कृ­त­प­रम् , ‘तपसा चीयते’ इत्यारभ्य ‘येनाक्षरं पुरुषम्’ इत्यन्तं ब्रह्मपरम् , ततो ‘यथा सुदीप्तात्’ इत्या­द्य­व्या­कृ­त­प­रम् , पुनः ‘दिव्यो ह्यमूर्तः’ इत्यादि ब्रह्मपरमिति कथ­मि­द­मा­द­र­णी­य­मिति चेत् , अर्थ­स­म्ब­न्धा­दिति गृहाण । उक्तं हि जैमिनिना विश्वजिदधिकरणे ‘अर्थतो ह्यस­म­र्था­ना­मा­न­न्त­र्येऽ­प्य­स­म्बन्धः’(जै. सू. ४. ३. ११) इति । उक्तञ्च वार्तिककृता ‘आन­न्त­र्य­म­चो­दना’(जै. सू. ३. १. २४) इत्यधिकरणे ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । अर्थ­तो­ह्य­स­म­र्था­ना­मा­न­न्त­र्य­म­का­र­णम्’ इति ।

यदि त्वेवमपि भूतयोन्यक्षरस्य चाक्षरात्परस्य चाभेदे निर्बन्धः, तदा शारीरो भूतयोनिरस्तु । स हि साक्षिभावेन सर्वज्ञः । सर्वं वस्तु ज्ञाततया, अज्ञाततया वा साक्षिचैतन्यस्य विषय इति प्रसिद्धेः । कश्चित् किञ्चि­ज्जा­ना­ती­त्येवं सर्व­जी­वा­नु­ग­त­सा­क्षि­भा­वेन विशिष्यापि सर्वज्ञः । अन्तः­क­र­ण­प्रा­णे­न्द्रि­या­दीनां स्वप्न­प्र­प­ञ्चा­न्त­र्ग­त­ग­ग­न­प­व­न­च­न्द्र­सू­र्य­स­रि­त्स­मु­द्र­भू­गो­ल­का­दी­ना­ञ्चो­पा­दा­न­भू­तश्च ।

अत एवा­ध्या­स­भा­ष्या­दि­ष्व­न्तः­क­र­णा­दीनां जीव एवाध्यासो दर्शितः । तेषां जीव­ता­दा­त्म्य­प्र­ती­ति­श्चा­नु­भ­व­सिद्धा । विवरणे च प्रति­क­र्म­व्य­व­स्थायां ब्रह्मचैतन्यस्य उपादानतया घटादिसङ्गित्वम् , जीवस्य तदसङ्गित्वेऽपि अन्तः­क­र­ण­स­ङ्गि­त्वञ्च तदु­पा­दा­न­त्वा­भि­प्रा­येण वर्णितम् । भामत्याञ्च ‘ज्योति­श्च­र­णा­भि­धा­नात्’(ब्र.सू.१.१.१०) इत्यधिकरणे जाठ­रा­ग्ने­र्जी­वो­पा­दा­न­कत्वं जीव­च्छ­री­र­मृ­त­श­री­र­यो­रो­ष्ण्यो­प­ल­म्भा­न­प­ल­म्भाभ्यां दर्शितम् । कृत्स्न­प्र­स­क्त्य­धि­क­रणे(ब्र.सू.२. १. ८)‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२. १. २८) इति सूत्रे जीवात्मनि स्वरू­पा­नु­प­म­र्दै­ना­ने­का­का­र­स्व­प्न­प्र­प­ञ्च­सृ­ष्टि­वत् ब्रह्मणि विय­दा­दि­सृ­ष्टि­रु­प­प­द्यत इति वर्णितम् । योनिशब्दस्य पञ्चमीनाञ्च निमि­त्त­त्व­प­रत्वे जीवस्य वियदादिष्वपि धर्माधर्मद्वारा कारणत्वं वक्तुं शक्यम् । मुक्त­प्रा­प्य­त्वा­दिकं च साध­क­फ­ला­व­स्था­भे­दा­दि­भि­र्जीव एव सङ्गमयितुं शक्यम् । तथाऽपि जीव एवेति पक्ष­वि­शे­ष­प­रि­ग्रहे किं नियामकमिति चेत् ; उच्यते । ‘अगो­त्र­म­व­र्ण­म­च­क्षु­श्रो­त्र­म­पाणि पादम्’(मु. १.१.६) इति जीवे प्रसिद्धस्य गोत्र­व­र्णा­दे­र्नि­षे­ध­जा­त­स्या­धि­क­र­ण­वि­शे­षा­कां­क्षायां तस्यैव जीवस्य रजतात्मना प्रतीतस्य रङ्गस्य ‘नेदं रजतम्’ इति निषेध इवाधिकरणत्वे सम्भवति नाधि­क­र­णा­न्त­र­म­पे­क्ष­णी­यम् । तस्या­धि­का­र­ण­त्वा­स­म्भवे परं तद­न्य­स्मि­न्न­धि­क­रणे ग्राह्ये ‘नञिवयुक्त’ न्यायेन तत्सदृशान्वेषणं भवति । यद्यपि दृस­श्य­त्व­ग्रा­ह्य­त्व­नि­षे­धा­नु­रो­धेन तद­धि­क­र­ण­म­व्या­कृ­त­मिति लभ्यते, प्रथमश्रुतं च तन्निषेधद्वयम् , तथाऽपि बाहु­ल्या­द्गो­त्रा­दि­नि­षे­ध­जा­त­मे­वा­नु­रो­द्ध­व्यम् । अग्रेऽपि हि ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे जीवे प्रसिद्धस्य मूर्तिमत्त्वस्य मनः­प्रा­ण­व­त्त्वस्य च निषेधो दृश्यते । अत­स्स­र्व­ज्ञ­त्वा­दिकं प्राक्प्र­द­र्शि­तया रीत्या जीव एव नेतव्यम् । ब्रह्म­वि­द्या­स­मा­ख्या­दि­क­मपि निष्कृ­ष्ट­जी­व­नि­रू­प­णस्य ब्रह्मा­व­ग­ति­प­र्य­व­सा­यि­त्वा­भि­प्रायं नेतव्यम् । तस्मात्प्रधानं जीवो वा भूतयोनिरिति पूर्व : पक्षः ।

राद्धान्तस्तु – भूतयोनिः परमात्मा । ‘यस्स­र्व­ज्ञ­स्स­र्व­वित्’(मु. १. १. ९) इति तद्धर्मरूपा लिङ्गात् , ‘तपसा चीयते ब्रह्म’(मु. १. १. ८) इति तद­भि­धा­न­श्रु­तेश्च । ननु तदु­भ­य­म­क्ष­रा­त्परे पुरुषेऽन्वेति । ‘तथाऽ­क्ष­रा­त्स­म्भ­व­तीह विश्वम्’(मु. १.१.७) ‘तथाऽ­क्ष­रा­द्वि­वि­धा­स्सोम्य भावाः’(मु. २. १. १) ‘अक्षरात्परतः परः’ इति पञ्च­म्य­न्ता­क्ष­र­श­ब्दा­ना­मे­क­रू­प­त्वेन तत्प्र­त्य­भि­ज्ञया भूतयोन्यक्षरस्य पुरु­ष­श­ब्दो­क्त­ब्रह्म पर­त्वा­व­श्य­म्भा­वेन तत्र ब्रह्म­श्रु­ति­लि­ङ्ग­यो­र­न्व­या­न­र्ह­त्वात् । न च ‘तपसा चीयते’ ‘यस्सर्वज्ञः’ इति मन्त्रगताभ्यां ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इति भूतयोनाववगतस्य उपादानत्वस्य प्रत्य­भि­ज्ञा­नात् तत्रैव ब्रह्म­श्रु­ति­लि­ङ्ग­यो­र­न्वयः स्यादिति वाच्यम् । अर्थै­क­रू­प्य­कृ­त­प्र­त्य­भि­ज्ञा­ना­दपि शब्दै­क­रू­प्य­कृ­त­प्र­त्य­भि­ज्ञा­नस्य प्राथमिकत्वेन बलवत्त्वात् । ‘ततः’ ‘तस्मात्’ इति पञ्च­म्यु­क्तो­पा­द­न­त्वस्य च प्रागु­क्ता­क्ष­र­ग­त­प­रि­णा­मि­त्व­रू­पो­पा­दा­न­त्वा­ति­रि­क्त­त­द्घ­ट­नी­य­ब्र­ह्म­ग­त­वि­व­र्ता­श्र­य­त्व­रू­प­स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­ह--को­पा­दा­न­त्वा­न्त­र­रू­प­त्वा­दिति चेत् ;

उच्यते - ‘यस्सर्वज्ञः’ इति मन्त्रे सर्वज्ञत्वं जगदुपादानत्वं चेत्युभयमपि न विधेयम् ; अन्य­त­रा­नु­वा­दे­ना­न्य­त­र­विधौ सम्भवति उभ­य­वि­धा­ना­ङ्गी­कारे गौरवात् । सम्भवति च जगदुपादानत्वस्य ‘तथा­क्ष­रा­त्स­म्भ­व­ती­ह­वि­श्वम्’ इत्य­नु­प­दो­क्त­स्या­नु­वा­देन सर्व­ज्ञ­त्व­मा­त्रा­वि­धा­नम् । एवं ‘तपसा चीयते’ इति मन्त्रेऽपि तदनुवादेन तपसा स्रष्ट­का­लो­च­नो­प­चि­त­त्व­मा­त्र­वि­धा­नम् । न च मन्त्रयोः पौनरुक्त्यम् ; द्विती­य­म­न्त्रस्य स्रष्ट­व्य­स­र्व­व­स्तु­ग­ता­शे­ष­वि­शे­ष­वि­ष­य­ज्ञा­न­रू­प­तया प्रथ­म­म­न्त्रो­क्त­त­प­श्श­ब्द­वि­व­र­णा­र्थ­त्वात् ।

अपिच ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इत्य­नु­प­दो­क्तो­पा­दा­न­त्व­प्र­त्य­भि­ज्ञा­ना­दपि नोपा­दा­न­त्वा­न्त­र­प­रत्वं तयोः कल्पयितुं युक्तम् ; ‘अक्षरात्परतः परः’ इत्यत: ‘तत:’ ‘तस्मात्’ इत्यनयोः प्राक्पठितत्वेन तद्ग­त­श­ब्दै­क­रू­प्य­कृ­त­प्र­त्य­भि­ज्ञा­ना­द­प्य­त्र­त्या­र्थै­क­रू­प्य­कृ­त­प्र­त्य­भि­ज्ञा­न­स्यैव प्राथमिकत्वात् । न च प्रधाने सर्व­ज्ञ­त्व­म­स­म्भ­व­दपि जीवे सम्भ­व­ती­त्यु­क्त­मिति वाच्यम् । जीवेऽपि स्रष्ट­व्य­स­क­ल­व­स्तु­ग­ता­शे­ष­वि­शे­ष­वि­ष­य­ज्ञा­न­व­त्त्व­रू­प­स्यात्र विवक्षितस्य सर्व­ज्ञ­त्व­स्या­स­म्भ­वात् । तस्मात् सर्व­ज्ञ­त्व­ब्र­ह्म­श्रु­त्यो­र्भू­त­यो­न्य­न्व­यि­त्वा­त्ताभ्यां भूतयोनिः परमात्मेति युक्तम् ।

सूत्रे यद्य­प्य­क्ष­र­श­ब्देन धर्मिनिर्देशः कर्तुं युक्तः ; तस्य विष­य­वा­क्यो­प­क्र­म­ग­त­त्वात् , ‘अक्षरधियां त्ववरोधः’(ब्र. सू. ३. ३. ३३) इति गुणो­प­सं­हा­रा­धि­क­रणे तस्यो­पा­दा­स्य­मा­न­त्वा­ल्ल­घु­त्वाच्च , तथाऽपि तेन धर्मिनिर्देशे ‘यस्सर्वज्ञः’ इत्या­दे­र्लि­ङ्ग­वै­रू­प्या­द­न्वयो न सम्भवतीति तस्याक्षरात्परे पुरुष एवा­न्व­योऽ­भ्यु­पेय इति स्यादाशङ्का । ताम­दृ­श्य­त्वा­दि­गु­ण­क­भू­त­यो­न्य­भि­प्रा­येण सर्वज्ञपदे पुंल्लि­ङ्गो­प­प­त्ति­रिति सूचनेन निवारयितुं ‘अदृ­श्य­त्वा­दि­गु­णकः’ इति धर्मिनिर्देशः कृतः ।

यद्यप्येवं सति ‘भूतयोनिः’ इत्येव धर्मिनिर्देशः कर्तुं युक्तो लाघवात् , तथाऽपि योनिशब्दस्य स्त्रीलि­ङ्ग­त्वेन प्रसि­द्धि­प्रा­चु­र्यात् पुल्लिङ्गानन्वय इति मन्द­श­ङ्का­नि­रा­क­र­णाय भूतयोनिशब्दस्य ‘अद्रे­श्य­म­ग्राह्यं नित्यं विभुम्’ इत्या­दि­वि­शे­ष­णा­व­ग­मि­त­पु­ल्लि­ङ्ग­स्प­ष्टी­क­र­णा­र्थम् , अन्त­र्या­मि­ग­ता­दृ­ष्ट्र­त्वा­दि­व­द­क्ष­र­ग­ता­दृ­श्य­त्वा­दिकं द्रष्ट्र­त्वा­दि­मि­श्रितं न भवतीति प्रत्य­व­स्था­न­हे­तु­स्फु­टी­क­र­णार्थं चैवं धर्मिनिर्देशः कृतः । ‘धर्मोक्तेः’ इत्यत्र धर्मः सर्वज्ञत्वं ‘सर्व­ज्ञ­स्स­र्व­वित्’ इति पद­द्व­य­प्र­यो­गे­णा­शे­ष­वि­शे­षा­वि­ष­य­तया स्फुटीकृतम् । उक्ति­र्ब्र­ह्म­श्रुतिः । धर्मो­क्त­यो­र्द्व­न्द्वै­क­व­द्भावे सति नपुसंके नुमा­ग­म­स्या­नि­त्य­त्वात् , मध्य­म­प­द­लो­पि­स­मा­साद्वा ‘धर्मोक्तेः’ इति निर्देशः । १.२.२१ ।

ननु ‘अगोत्रमवर्णम्’ इत्या­दि­नि­षे­ध­स्वा­र­स्या­ज्जीवो भूतयोनिरिति प्रतीयते । ‘तथाऽ­क्ष­रा­द्वि­वि­धा­स्सोम्य भावाः’ इत्यत्र भावशब्दस्य भवन्ति – जायन्त इति व्युत्पत्त्या असं­कु­चि­त­वि­य­दा­दि­स­क­ल­का­र्य­प­र­त्वौ­चि­त्येन तत्स­रू­प­म­क्ष­र­श­ब्दो­दितं कार­ण­म­व्या­कृ­त­मि­त्य­व­गतौ तदनन्तरमन्त्रे ‘अक्षरात्परतः परः’ इत्य­क्ष­रा­त्प­र­त्व­व­चनं तस्मा­दे­वा­क्ष­रा­त्प­र­त्व­वि­ष­य­मि­त्यपि व्यवस्थितौ तदेवाक्षरं प्राग्भू­त­यो­नि­त्वे­नो­क्त­मिति ततोऽव्याकृतं भूतयोनिरित्यपि प्रतीयते इत्याशंक्याह –

विशे­ष­ण­भे­द­व्य­प­दे­शाभ्यां च नेतरौ । २२ ।

२२

अक्ष­रा­द्भे­द­व्य­प­दे­शे­ना­व्या­कृतं भूतयोनिरिति न सिद्ध्यति । किन्तु तत एव तत् भूतयोनिर्न भवतीति सिद्ध्यति । कथं ? ‘तथाऽ­क्ष­रा­द्वि­विधाः’ इत्यत्र पञ्च­म्यु­पा­त्त­म­क्षरं ताव­द्भू­त­यो­न्य­क्ष­र­मिति निर्विवादम् । तदेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरु­ष­श­ब्दे­नो­च्यतेः , ‘स बाह्याभ्यन्तरः’ इत्यत्र तच्छब्दस्य पूर्व­म­न्त्र­प्र­कृ­ता­क्ष­र­प­रा­मा­र्श­त्वात् । न च बाह्या­भ्य­न्त­र­स­हित इत्येकपदत्वेन योजनीयम्; वैयर्थ्यात्, ‘बाह्याभ्यन्तर’ इति सर्व­ग­त­त्वो­क्त्यैव बाह्या­भ्य­न्त­र­स­क­ल­व­स्तु­सं­स­र्ग­सिद्धेः । भिन्नपदत्वे च अक्षरात्परः पुरुष एव प्रकृताक्षरम्, न तु पर­त्वा­व­धि­भू­त­म­क्ष­र­मिति प्रत्यायनेन सार्थकत्वात् । एवञ्च भूत­यो­न्य­क्ष­र­प­रा­म­र्शि­त­त्प­द­सा­मा­ना­धि­क­र­ण्येन ‘अक्षरात्परतः’ इत्यतः प्राचीनेन ‘येनाक्षरम्’ इति अक्ष­र­पु­रु­ष­प­द­सा­मा­ना­धि­क­र­ण्येन चाक्षरात्परः पुरुषो भूत­यो­न्य­क्ष­र­मिति स्थिते तदवरतया ततो भेदेन व्यप­दि­श्य­मा­न­म­क्ष­र­म­व्या­कृ­त­मिति न तत् भूत­यो­न्य­क्ष­र­मिति सिद्ध्यति । एव­म­गो­त्र­मि­त्या­दि­वि­शे­ष­णेन शारीरो भूतयोनिरिति न सिध्यति, किन्तु तत् एव भूतयोनि न भवतीति सिद्ध्यति , भूतयोनित्वस्य शारीरेऽपि सम्भवात् ; तद्ग्र­ह­ण­प्र­सक्तौ तद्व्या­व­र्त­ने­नैव अगोत्रमित्यादि विशेषणानां सफलत्वात् ।

ननु भूतयोनित्वेन शारीर एव गृहीते तस्मिन् गोत्र­स­म्ब­न्धा­दि­प्र­ती­ति­काले तद­भा­वा­यो­ग­प्र­सक्तौ ताव­च्छे­द­क­त्वे­ना­गो­त्र­मि­त्या­दीनां साफल्यमुक्तम् । युक्तं च तदे­वा­गो­त्र­त्वा­दि­रू­पो­पा­त्त­वि­धे­य­ग­त­त्वेन, तद­यो­ग­व्य­व­च्छे­दस्य प्रत्या­स­न्न­त्वात् ; न त्वन्यस्य शारीरस्य भूत­यो­नि­प­द­ग्रा­ह्य­त्व­यो­ग­व्य­व­च्छे­देन तेषां साफल्यं युक्तम् अविधेय गतफलस्य विप्र­कृ­ष्ट­त्वात्, प्रत्यासन्नफले लभ्ये विप्र­कृ­ष्ट­फ­ल­ग्र­ह­णा­यो­गात् । अत एवा­व­ह­न­न­वि­ध­र्वि­धे­या­व­ह­न­न­ग­ता­प्रा­प्तां­श­प­रि­पू­र­ण­रू­प­स्त­द­यो­ग­व्य­व­च्छेद एव फलम् , न त्ववि­धे­य­न­ख­वि­द­ल­न­नि­वृ­त्ति­रू­प­स्त­द­न्य­यो­ग­व्य­व­च्छेद इति नियमस्य परिसंख्यातो भेद इष्यते । अपि चान्य­यो­ग­व्य­व­च्छे­द­कत्वे गोत्र­नि­षे­धा­दी­ना­म­धि­क­र­णा­न्त­र­म­न्वे­ष­णी­य­मिति गौरवम् । अयो­ग­व्य­व­च्छे­द­फ­ल­कत्वे प्रतियोगितया गोत्रा­दि­म­त्त्वेन बुद्धिस्थस्य शारी­र­स्यै­वा­धि­क­र­ण­त्वा­ना­न्य­द­धि­क­र­ण­म­न्वे­ष­णी­य­मि­त्यपि लाघवं प्रागुक्तमिति चेत् -

स्यादेवं यदि ‘यदिदं पुरोवर्ति तन्न रजतम्’ इतिवत् ‘यो भूतयोनिस्स गोत्रादिमान्न भवति इत्य­गो­त्र­त्वा­दिकं विधेयं स्यात् । न त्वेवम् , किन्तु ‘यो गोत्रादिरहितः तं भूतयोनिं पश्यन्ति’ इत्यु­द्दे­श्य­वि­शे­ष­प्र­ती­त्य­र्थ­तया तद्वि­शे­ष­ण­त्वे­नैव निर्दिष्टम् । तथा च यथा ‘निश्च­ल­श्चन्द्रः’ इति चन्द्रोद्देशेन निश्च­ल­त्व­वि­धा­नस्य तरङ्गचन्द्रे अभ्य­स्त­च­ल­न­प्र­त्य­येन निश्च­ल­त्वा­यो­ग­प्र­सक्तौ ताव­च्छे­द­क­त्वेऽपि ‘निश्चलं चन्द्रं पश्य’ इति तस्योद्देश्य विशेषणत्वेन प्रयोगे अभ्य­स्त­च­ल­न­व­त्त­र­ण­च­न्द्र­व्या­व­र्त­क­त­यैव सार्थकत्वमेवमिह ‘यो भूत­यो­नि­स्स­गो­त्रा­दि­मान्न भवति’ इति गोत्राद्यभावस्य विधेयत्वे शारीरे तद­यो­ग­व्य­व­च्छे­द­क­त्व­स­म्भ­वेऽपि ‘यो गोत्रादिमान् भवति तं भूतयोनिं पश्यन्ति’ इत्य­स्मि­न्नु­द्दे­श्य­वि­शे­ष­ण­त्वेन प्रयोगे अध्य­स्त­गो­त्रा­दि­म­च्छा­री­र­व्या­व­र्त­क­त­यैव सार्थकत्वं भवति । एवं ‘दिव्यो ह्यमूर्तः पुरुषः’ इति मन्त्रे अमू­र्त­त्वा­दि­वि­शे­ष­णा­ना­मपि तद्वा­व्या­व­र्त­क­त­यैव सार्थकत्वम् ; तत्रा­प्य­क्ष­रा­त्प­र­त्व­स्यैव विधे­य­त्वे­ना­मू­र्त­त्वा­दी­ना­म­वि­धे­य­त्वात् ।

सूत्रे ‘इतरौ’ इति पूर्वा­धि­क­र­ण­नि­र्दिष्टौ स्मार्तशारीरौ परामृश्येते । यद्यपि स्मार्तं प्रधानं सिद्धान्ते नेष्यते, तथाऽपि तदेव फलतोऽव्याकृतं भविष्यतीति तस्य परामर्शः । यद्यप्येवं सति स्मार्त­शा­री­र­नि­रा­क­रण पक्षहेत्वोः क्रमे­णा­न्व­यार्थं ‘भेद­व्य­प­दे­श­वि­शे­ष­णा­भ्याम्’ इति सूत्रणीयम्, तथाऽपि हेतु­द्व­य­म­प्यु­भ­यत्र योजयितुं शक्यमित्येवं सूत्रितम् । अमू­र्त­त्वा­दि­वि­शे­ष­णेन हि ‘नञिवयुक्त’ न्याये­ना­व्या­कृ­त­व्या­व­र्त­न­मपि लभ्यते । यद्यपि मनु­ष्य­प­शु­प­क्षि­स­री­सृ­प­रू­प­भू­त­ग्रा­म­यो­नि­त्वेन प्रसिद्धा पृथिवीह भूतयोनिपदेन मा ग्राहीति तद्व्या­व­र्त­ना­र्थे­ना­दृ­श्य­त्वा­ग्रा­ह्य­त्व­वि­शे­ष­णेन तत्सू­क्ष्मा­व­स्था­रू­प­स्या­व्या­कृ­तस्य ग्रहणं प्रसज्यते, तथाऽपि अमू­र्त­त्व­गो­त्र­त्वा­दीनां बाहु­ल्या­त्ते­षा­मेव स्वार­स्य­मा­द­र­णी­य­मि­त्यु­क्तम् । तथा ‘येनाक्षरं पुरुषम्’ ‘अमूर्तः पुरुषः सः’ इति पुरु­ष­स्या­क्ष­र­वि­शे­ष­णे­नापि अव्या­कृ­त­व्या­व­र्तनं लभ्यते । एवं ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशम्’(मु. ३. १. ३) इति कर्तृ­का­र्य­भा­वेन, निय­म्य­नि­या­म­क­भा­वेन, कर्तृकर्मभावेन च पुरु­ष­शा­री­र­यो­र्भे­देन व्यपदेशात् पुरुषस्य च प्रागे­वा­क्ष­र­प­द­सा­मा­ना­धि­क­र­ण्या­दिभिः भूत­यो­न्य­क्ष­र­त्व­नि­श्च­यात् शारी­र­व्या­व­र्त­न­मपि लभ्यते ।

भाष्ये हेत्वो­र्य­था­सं­ख्या­न्वयः कण्ठ­तोऽ­नु­क्तोऽपि न्यायत एवोन्नेतुं शक्यत इति व्युत्क्र­म­णा­न्व­य­मात्रं दर्शितम् । किञ्च भेद­व्य­प­दे­श­हे­तु­र्जी­व­पक्ष एवान्वेतुं योग्यः ‘क्षरं प्रधा­न­म­मृ­ता­क्ष­रम्’(श्वे, १.१०) इति श्रुत्यन्तरे तत्रै­वा­क्ष­र­श­ब्द­द­र्श­नेन पुरु­षा­व­र­प­र­स्या­क्ष­र­श­ब्दस्य तत्प­र­त्वौ­चि­त्या­दिति शङ्कानिराकरणाय चाव्या­कृ­त­प­क्ष­नि­रा­क­रणे भेद­व्य­प­दे­श­हे­तु­स­द्भा­व­म­व­ग­म­यितुं व्युत्क्र­मे­णा­न्वयो दर्शितः । तस्यायमाशयः । सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­हाय ब्रह्मणो जग­त्प्र­कृ­ति­त्व­प्र­ति­पा­द­न­स्थले तदु­प­पा­द­का­व्या­कृ­ता­धि­ष्ठा­तृ­त्व­प्र­द­र्श­न­मे­वा­कां­क्षि­त­मि­त्या­का­ङ्क्षाऽ­नु­सा­रेण ‘अश्नोति व्याप्नोति स्वकार्याणि’ इति व्युत्प­त्ये­हा­क्ष­र­श­ब्दोऽ­व्या­कृत एव वर्तयितव्य इति । चस्त्वर्थः । विशे­ष­ण­भे­द­व्य­प­देशौ न स्मार्त­शा­री­र­प­क्ष­सा­धकौ, किन्तु तन्निराकरण एव साधकाविति भावः । अगो­त्र­त्वा­मू­र्त­त्वा­दीनि इत­र­व्या­व­र्त­क­रू­पाणि विशेषणान्येव, न तु ‘लोहितस्तक्षकः’ इत्यादिवदयो गव्य­व­च्छे­द­का­न्यु­प­रा­का­नी­त्य­भि­प्रेत्य विशेषणपदमित्यलं प्रपञ्चेन । १. २. २२ ॥

स्यादेतत् – अमूर्तत्वादीनां मूर्ति­म­त्त्वा­दि­वि­शि­ष्ट­शा­री­र­व्या­व­र्त­क­त्व­रू­प­वि­शे­ष­ण­त्व­म­नु­प­प­न्नम् ; ‘अग्नि मूर्धा‘ चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्व­भू­ता­न्त­रात्मा’(मु. २. १. ४) इति मन्त्रे भूत­यो­न्य­क्ष­र­रू­पस्य पुरुषस्य मूर्ती­न्द्रि­य­प्रा­णा­दि­श्र­व­णात् । न चायं मन्त्रोऽन्यपरः । ‘एष’ इति सर्वनाम्ना ‘दिव्यो ह्यमूर्तः पुरुषः’ इति प्रकृतस्य तस्यैव परामर्शात् । अतो व्यवहारदृष्ट्या मूर्त्या­दि­म­त्येव जीवे परमार्थदृष्ट्या मूर्त्या­दि­रा­हि­त्य­प­र­त्व­म­मू­र्ता­दि­प­दा­ना­म­गत्या कल्पनीयमिति जीव एव भतयोन्यक्षररूप: परुष इति युक्तम् ।

ननु जीवेऽ­ग्नि­मू­र्ध­त्वा­दि­वि­शिष्टं रूपं न संभवतीति चेत् , सत्यं ; जीवान्तरे न संभवत्येव, हिरण्यगर्भे तु तत् संभवति ; तस्य स्मृतिषु तथा­भू­त­रू­प­प्र­सिद्धेः । सर्व­भू­ता­न्त­रा­त्म­त्व­मपि प्राणात्मना सर्व­भू­ता­ना­म­ध्या­त्म­म­व­ति­ष्ठ­माने तस्मि­न्व्य­प­देष्टुं शक्यम् । तस्मिन् सर्व­ज्ञ­त्व­स­र्व­स्र­ष्टृ­त्वा­दिकं श्रुतिस्मृतिषु प्रसिद्धमेव । न च वाच्य­म­क्ष­रा­द­व्या­कृ­ता­त्परो हिरण्यगर्भः, तस्मात् परत्वम् मूर्तपुरुषस्य श्रुतमिति; पराक्षरपदयोः प्राक् दर्शितया रीत्या सामानाधिकरण्ये संभवति वैय­धि­क­र­ण्य­क­ल्प­ना­यो­गात् । न च ब्रह्म­वि­द्या­स­मा­ख्या­वि­रोधः। तत्र ब्रह्मशब्दस्य पुल्लिङ्गस्य समाससंभवात्, ‘ब्रह्मा देवानां प्रथमस्संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता’ इत्युपक्रमे पुंलिङ्गस्यैव तस्य श्रवणाच्च । पर­वि­द्या­त्व­म­प्या­पे­क्षिकं हिर­ण्य­ग­र्भ­वि­द्यायां वक्तुं शक्यम् । न च सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रोधः; अन्त­र्या­मि­ब्रा­ह्मणे सूत्रा­त्म­न­स्तस्य ज्ञाना­त्स­र्व­वि­ज्ञा­नस्य वर्णितत्वेन तद्व­दि­हा­प्यु­प­पत्तेः । तस्मात् समष्टिपुरुषो हिरण्यगर्भ एव भूत­यो­न्य­क्ष­र­रूपः पुरुष इति युक्त­मि­त्या­श­ङ्क­याह –

रूपोपन्यासाच्च ॥ २३॥

२३

न विग्र­हा­दि­म­त्त्व­वि­व­क्षया ‘अग्नि­र्मूर्द्धा’ इत्या­दि­क­मु­प­न्य­स्तम् ; किन्तु अग्न्या­दि­वि­का­र­रू­पे­ष्व­धि­ष्ठा­नेषु मूर्द्ध­त्वा­दि­रू­प­क­मात्रं मुख­च­न्द्र­न्या­ये­नो­प­न्यस्तं सर्वा­त्म­त्व­वि­व­क्षया । दृश्यते ह्यन्यत्रापि शरी­र­र­थ­त्व­प्रि­य­शि­र­स्त्व­वे­द­नि­श्व­सि­त­त्वा­द­रू­प­कम् । शरीरादिषु रथ­त्वा­द्य­सं­भ­व­व­द­ग्न्या­दिषु मूर्ध­त्वा­द्य­सं­भ­वोऽपि अविशिष्ट एव । तस्मा­द­मू­र्त­त्वा­दीनां विशे­ष­ण­त्व­स्या­वि­च­ल­त्वा­त्तैर यजीवानामिव हिर­ण्य­ग­र्भ­स्यापि व्यावर्तनं स्यादेव ।

सूत्रे रूपशब्देन रूपकमुक्तम् । रूपयति अधि­ष्ठा­न­मा­रो­प्य­रू­पेण रूपयन्तं करोतीति हि रूप­क­श­ब्द­व्यु­त्पत्तिः । तत्र ण्वुला रूपकशब्दवत् पचाद्यचा रूपशब्दोऽपि वर्तितुमर्हति । अयञ्च सूत्रार्थो भाष्यकृता स्वमतरीत्या सूत्र­व्या­ख्या­ना­न­न्त­र­मा­श­ङ्का­प­रि­हा­राभ्यां स्पष्टीकृतः । ‘एतस्माज्जायते प्राण:’(मु. २. १. ३) इति मन्त्रात् क्रियानुषङ्गेण ‘अग्नि­र्मूर्द्धा’ इति मन्त्रस्य त्रैलोक्यशरीरो हिरण्यगर्भः भूत­यो­न्य­क्ष­रा­द­जा­य­ते­त्य­र्थ­प­र­त्व­म­ङ्गी­कृत्य ‘रूपोपन्यासात्’ इति सूत्रस्य, ‘पुरुष एवेदं विश्वम्’ इति सार्वा­त्म्य­रू­प­ब्र­ह्म­लि­ङ्गो­प­न्या­सात् भूतयोनिः परमात्मा, इति योजनान्तरमपि भाष्ये दर्शितम् । तत् ‘स्मर्य­मा­ण­म­नु­मानं स्यात्’ इत्यु­त्त­रा­धि­क­र­ण­सू­त्र­वि­रु­द्ध­मि­त्य­स्वा­रस्यं भाष्य एव ‘केचित्’ इत्यनेन ध्वनितम् । चकारः समा­ख्या­दि­स­मु­च्च­यार्थः । १. २. २३. ।

इति यदृ­श्य­त्वा­धि­क­र­णम् । ६।

वैश्वा­न­र­स्सा­धा­र­ण­श­ब्द­वि­शे­षात् । २४ ।

२४

छान्दोग्ये श्रूयते ‘यस्त्वेतमेवं प्रादे­श­मा­त्र­म­भि­वि­मा­न­मा­त्मानं वैश्वा­न­र­मु­पास्ते’(छा. ५. १८.२) इति । अत्र वैश्वानरशब्दस्य जाठ­र­तृ­ती­य­भू­त­त­द­धि­ष्ठा­तृ­दे­व­ता­सा­धा­र­ण­त्वा­दा­त्म­श­ब्दस्य जीवा­त्म­प­र­मा­त्म­सा­धा­र­ण­त्वाच्च क एतेषूपास्य इति संशये अनिर्धारणेन पूर्वः पक्षः । छान्दोग्ये ‘को न आत्मा किं ब्रह्म’(छा. ५. ११.१) इत्युपक्रमेऽपि वाजसनेयिशाखायां ‘वैश्वानरं ह वै भगवन् सम्प्रति वेद तन्नो ब्रूहि’ इति वैश्वा­न­र­श­ब्दो­प­क्र­म­द­र्श­नेन उप­क्र­म­स्या­वि­नि­ग­म­क­त्वात् । ‘स सर्वेषु भूतेषु सर्वे­ष्वा­त्म­स्व­न्न­मत्ति तद्य­थे­षी­का­तू­ल­मग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’(छा. ५. १८.१) इति च महाफलश्रवणस्य वच­न­ब­ला­द­ब्र­ह्मो­पा­स­ना­या­म­प्यु­प­पत्तेः । न हि ब्रह्मोपासनाया महाफलत्वम् नाब्र­ह्मो­पा­स­नाया इति नियमोऽस्ति; ‘चक्षु­ष्य­श्श्रुतो भवति’ इति ब्रह्मोपासनाया अपि अल्प­फ­ल­त्व­श्र­व­णात् , अब्रह्मोपासनाया अपि पञ्चा­ग्नि­वि­द्याया महा­फ­ल­त्व­श्र­व­णाच्च । ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुते­जा­श्च­क्षु­र्वि­श्व­रूपः प्राणः पृथ­ग्व­र्त्माऽऽत्मा सन्देहो बहुळो वस्तिरेव रविः पृथिव्येव पादौ’(छा. ५. १८. २) इति द्युसू­र्य­वा­य्वा­का­श­ज­ल­पृ­थि­वीनां वैश्वानरं प्रति मूर्द्ध­च­क्षुः­प्रा­ण­म­ध्य­मू­व­स्था­न­पा­दा­व­य­व­त्यो­क्तेश्च पूर्वा­धि­क­र­णो­क्त­रीत्या शरीररथत्वादिवत् कल्प­ना­मा­त्र­रू­प­त्वात्, तत्कल्पनायाश्च ब्रह्मणीव जाठरादिष्वपि सम्भवात् । तस्मा­दु­प­क्र­मा­दि­भि­र्वै­श्वा­नरो ब्रह्मेति निर्णयो न युक्तः , प्रत्युत प्रादेशमात्रम्’ इति परि­च्छि­न्न­त्व­श्र­व­णान्न ब्रह्म , किन्तु जाठरादिषु चतुर्ष्वन्यतम इति निर्णय एव युक्त इति पूर्वः पक्षः ।

सिद्धान्तस्तु – द्युमू­र्द्ध­त्वा­दि­क­ल्पना सर्वोपादानत्वेन , सर्व­नि­य­न्तृ­त्वेन च सर्वविकारानुगते ब्रह्मणि सालम्बना , न तु जाठरादिषु । सर्व­लो­का­द्या­श्र­य­फ­ल­श्र­व­णञ्च सर्व­लो­का­द्या­त्म­क­ब्र­ह्मो­पा­स­नाया एव तत्क्र­तु­न्या­या­नु­सारि । सर्व­पा­प­प्र­दा­हश्च ब्रह्मो­पा­स­न­फ­ल­त्वे­नैव वेदान्तेषु प्रसिद्धतरः । शाखाभेदेन ब्रह्म­वै­श्वा­न­र­श­ब्द­यो­रु­प­क्र­म­श्रु­त­त्वा­वि­शे­षेऽपि ब्रह्मशब्दो वैश्वा­न­र­श­ब्द­व­द­ने­क­सा­धा­र­ण­त्वा­भा­वा­ज्झ­टि­त्ये­वा­र्थ­वि­शे­ष­स­म­र्पकः । ततश्च यद्य­प्या­त्म­वै­श्वा­न­र­शब्दौ साधारणौ , तथाऽपि तयोः पर­मा­त्म­प­र­त्वा­व­ग­म­क­द्यु­मू­र्द्ध­त्वा­दि­वि­शे­ष­स­द्भा­वात् वैश्वानरः परमात्मेति ।

सूत्रे ‘विशेषात्’ इति एतावति वक्तव्ये आत्म­वै­श्वा­न­र­श­ब्द­यो­स्सा­धा­र­ण्य­र­की­र्तनं न केवलमिह शब्द­सा­धा­र­ण्य­म­धि­क­र­णा­न्त­र­वत् संशयमात्रबीजम् , किन्तु पूर्वपक्षस्यापि तदेव बीजमिति दर्शयितुम् । तेन जाठरादीनां पञ्चानां चतुर्णा वाऽनवधारणेनात्र पूर्वपक्ष इति सूचितं भवति । १. २. २४ ।

ननु द्युमू­र्द्ध­त्वा­दि­वि­शि­ष्ट­रूपं हिर­ण्य­ग­र्भ­स्यापि भवति स्मृतिषु प्रसिद्धम् । तत्कथं परमात्मलिङ्गम् ? न च ‘अग्नि­र्मूर्द्धा चक्षुषी चन्द्रसूर्यौ’(मु. २. १. ४) इत्यादीनां द्युमू­र्द्ध­त्वा­दि­प्र­ति­पा­द­क­श्रु­त्य­न्त­राणां पर­मा­त्म­वि­ष­य­त्वा­द्वै­दि­क­प्र­सिद्ध्या तत्प­र­मा­त्म­लिङ्गं स्यादिति वाच्यम् ; हिरण्यगर्भे तादृ­ग्रू­प­स्म­र­ण­स्यापि मूल­श्रु­त्या­का­ङ्क्ष­त्वेन तत्रापि वैदि­क­प्र­सि­द्धे­र­नि­वा­र्य­त्वा­दि­त्यत आह –

स्मर्य­मा­ण­म­नु­मानं स्यादिति । २५ ।

२५

परमात्मनोऽपि तावदीदृशं रूपं स्मर्यते ‘यस्या­ग्नि­रास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः । सूर्य­श्च­क्षु­र्दि­श­श्श्रोत्रं तस्मै लोकात्मने नमः’ । ‘द्यां मूर्द्धानं यस्य विना वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्याद्यासु स्मृतिषु । तच्च स्मर्यमाणं रूपमस्याः श्रुते­रा­थ­र्व­णा­दि­श्रु­तेश्च मूलत्वानुमापकं सत् हैर­ण्य­ग­र्भ­ता­दृ­ग्स्म­ण­र­स्यापि मूलाकाक्षापूरकं भवितुं शक्तम् । उपासनाविवक्षया सर्वा­त्म­त्व­वि­व­क्षया च परमात्मनि श्रुति­प्र­ति­प­न्न­स्यैव द्युमू­र्द्ध­त्वा­दि­क­ल्प­नस्य सर्ग­स्थि­ति­प्र­ल­य­क­र्तृ­त्वा­दे­रिव पर­मा­त्म­श­क्त्य­भि­व्य­क्ति­मति हिरण्यगर्भे स्तुत्यर्थतया स्मरणोपपत्तेः । अतः परमात्मन एवै­त­त्त्रै­लो­क्या­त्मकं रूपं स्मर्यत इति फलतः पर्यवस्यतीति तत्स्मर्यमाणं रूप­मु­दा­हृ­त­श्रु­ति­वा­क्यानां मूलत्वानुमापकं सत् वैश्वानरस्य परमात्मत्वे लिङ्गं भवितुमर्हति । अतस्तेन लिङ्गेन वैश्वानरः परमात्मेति युक्तमेव ।

अस्मिन्नर्थे सूत्रमावृत्त्या योजनीयम् । तत्र स्मर्य­मा­ण­मि­त्यस्य पर­मा­त्म­न­स्स्म­र्य­माणं त्रैलोक्यात्मकं रूपमित्यर्थो योजनाद्वयेऽपि समानः । आद्य­यो­ज­ना­या­म­नु­मा­न­मि­त्यस्य मूल­श्रु­त्य­नु­मा­प­क­मि­त्यर्थः , स्यादित्यस्य भवितुं शक्यमित्यर्थः । ‘शकि लिङ् च’(पा. सू. ३. ३. १७२) इति शक्तौ लिङ्प्रत्ययः । किं भवितुं शक्य­मि­त्या­कां­क्षा­या­म­प­नो­द्य­श­ङ्का­नु­सा­रेण हैर­ण्य­ग­र्भ­ता­दृ­ग्रू­प­स्म­र­णस्य मूल­श्रु­त्या­कां­क्षा­पू­र­क­मि­त्य­द्या­हृ­तेन स्याच्छ­ब्द­स्या­न्वयः । इयञ्च योजना ‘यस्मा­त्प­र­मे­श्व­र­स्यै­वा­ग्नि­रा­स्य­न्द्यौ­मू­र्द्धे­ती­दृशं त्रैलोक्यात्मकं रूपं स्मर्यते’ इति भाष्येण फलप्रदर्शनमुखेन सूचिता , अन्यथा हिर­ण्य­ग­र्भ­स्यापि तादृ­ग्रू­प­स्म­र­ण­स­त्त्वेन भाष्ये पर­मे­श्व­र­स्यै­वे­त्व­धा­र­णा­नु­प­पत्तेः । इति शब्दो द्विती­य­यो­ज­ना­प्र­द­र्श­नी­य­मर्थं प्रति हेतुत्वार्थः । यस्मादेवं तस्मात् स्मृतिप्रसिद्ध परमात्मनो रूपं मूल­भू­त­श्रु­त्य­नु­मा­प­क­तया प्रथमयोजनायां प्रदर्शितं , अनुमानं स्यात् , वैश्वानरस्य परमात्मत्वे लिङ्गं भवतीत्यर्थः । इयं योजना ‘तत्स्म­र्य­मा­णम्’ इत्यादिभाष्येण स्पष्टमेव दर्शिता । अस्यामपि योज­ना­या­मि­ति­शब्दो हेत्वर्थः । स च ‘यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मा’ इति भाष्येण दर्शितः ।

ननु स्मर्यमाणं परमात्मनो रूपं वैश्वा­न­र­वा­क्य­मा­थ­र्व­ण­वाक्यं चेत्युभयमपि किमर्थं मूल­श्रु­ति­त्वे­ना­पे­क्षत इति चेत् ; स्मृत्यु­क्त­स­र्वा­व­य­व­प्र­ति­प­त्त्य­र्थ­मिति ब्रूमः । चन्द्रस्य चक्षुष्ट्वं ह्याथ­र्व­ण­वा­क्या­देव प्रतिपत्तव्यम् । दिवो मूर्द्धत्वन्तु वैश्वा­न­र­वा­क्यात् । ततः प्रतिपद्य आथर्वणेऽपि ‘असौ वाव लोको गौतमाग्निः’(छा. ५. ४.१) इति श्रुत्यनुसारेण द्युप­रोऽ­ग्नि­शब्द इति निश्चेतव्यम् । न च वैश्वा­न­र­वा­क्येपि दिवो मूर्द्धत्वं नोक्तमिति शंक्यम् ; तत्रो­प­क्र­मा­नु­सा­रेण सुतेजश्शब्दस्य द्युपरत्वात् ।

एवं ह्युपाख्यायते – औपमन्यवादयः पञ्च महर्षयः ‘को न आत्मा किं ब्रह्म इति मीमांसित्वा निश्चयमलभमाना वैश्वा­न­रो­पा­स­ना­प­र­मु­द्दा­लकं गत्वा तेनापि तस्या­म­कृ­त्स्न­वे­दिना अश्वपतिः कैकयो वैश्वा­न­र­मु­पास्ते तमभ्यागच्छाम’ इत्युक्त्वा उद्दा­ल­क­ष­ष्ठा­स्त­म­भ्य­ग­मन् । कैकयः ‘तान् परीक्ष्य ततो वक्तव्यशेष वक्ष्यामि’ इत्यभिसन्धाय , ‘औपमन्यव कं त्वमा­त्मा­न­मु­पास्ते’(छा. ५.१२.१) इत्यादिना तान् षडपि ऋषीन क्रमेण पृष्ट्वा तैः ‘दिवमेव भगवो राजन्’(छा. ५. १२ , १) इत्या­दि­भि­र्य­था­क्रमं द्युसू­र्या­नि­ला­का­श­ज­ला­व­निषु वैश्वा­न­र­बुद्ध्या स्वैरु­पा­स्य­मा­न­त­यो­क्तेषु द्व्यायो वैश्वानरस्य मूर्द्धा­दि­पा­दा­न्ता­व­यवा एव , न तु ते वश्वा­न­र­बु­ध्यो­पास्या इति व्यस्तोपासनाः प्रतिषिध्य सम­स्तो­पा­स­ना­वि­ष­यस्य वैश्वानरस्य प्रागु­प­क्षि­प्त­द्यु­मू­द्ध­त्वा­दि­वि­शिष्टं रूपमेकीकृत्य उपदिदेश ‘मूर्दैव सुतेजाः’(छा., ५.१८ , २) इत्यादिना । एवं ‘यस्या­ग्नि­रा­स्यम्’ इत्य­ग्नि­मु­ख­त्व­स्म­र­णां­शेपि श्रुत्य­न्त­रा­पे­क्षणं द्रष्टव्यम् । १. २. २५ ।

अथ वैश्वानरो जाठ­रोऽ­ग्नि­रे­वेति निर्धारणेन पूर्व­प­क्षा­न्त­र­मु­प­पा­द­क­मु­खेन उद्घाट्य निराकरोति –

शब्दा­दि­भ्योऽन्तः प्रति­ष्ठा­ना­न्नेति चेन्न तथा दृष्ट्यु­प­दे­शा­द­स­म्भ­वात् पुरुषमपि चैनमधीयते । २६ ।

२६

न वैश्वा­न­र­स्तृ­ती­य­भूतं , तदधिदेवता , जीवः , परमात्मा वा , किन्तु जाठर एव ।अय­म­ग्नि­र्वै­श्वा­नरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते’(बृ. ५. ९.१) इत्या­दि­वा­क्या­न्तरे विशिष्य जाठरे प्रसि­द्धा­द्वै­श्वा­न­र­श­ब्दात् , ‘स एषोऽ­ग्नि­र्वै­श्वा­नरः’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके समानप्रकरणे अस्मिन्वैश्वानर एवं प्रयु­क्ता­द­ग्नि­श­ब्दात् , ‘हृद­य­ङ्गा­र्ह­पत्यो मनोऽ­न्वा­हा­र्य­प­चन आस्यमाहवनीयः’(छा. ५.१८.२) इति त्रेता­ग्नि­क­ल्प­ना­लि­ङ्गात् , ‘तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मी­यम्’ इति प्राणा­हु­त्य­धि­क­र­ण­ता­लि­ङ्गात् , ‘पुरु­षेऽ­न्तः­प्र­ति­ष्ठितं वेद’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके श्रुता­त्पु­रु­षा­न्तः­प्र­ति­ष्ठि­त­त्व­लि­ङ्गाच्च । यद्य­प्य­ग्नि­वै­श्वा­न­र­शब्दौ ‘विश्वस्मा अग्निं भुवनाय देवाः वैश्वानरं केतु­म­ह्ना­म­कृ­ण्वन्’(ऋ.सं.१०.८८.१२) ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुव­ना­ना­म­भिश्रीः’(ऋ.सं.१.९८.१) इत्या­दि­श्रु­त्य­न्त­रेषु तृती­य­भू­त­त­द­धि­ष्ठा­तृ­दे­व­त­यो­रपि दृष्टौ , पुरु­षा­न्तः­प्र­ति­ष्ठि­त­त्वञ्च जीवपरमात्मनोरपि प्रसिद्धम् , तथा­प्यु­क्त­रू­प­त्रे­ता­ग्नि­त्व­क­ल्प­नम् , प्राणा­हु­त्या­धा­र­ता­स­ङ्की­र्त­नञ्च जाठर एव सङ्गच्छते । स हि ‘सन्तापयति स्वं देह­मा­पा­द­त­ल­म­स्तगः’(तै., ४ , १३. ३०) इति देहव्यापित्वेन श्रुतः ; प्राणा­हु­ति­द्र­व्य­स्या­न्नस्य पाचकश्च , देह­व्या­पि­न्य­ग्ना­वेव हि हृद­या­दि­प्र­दे­शा­व­च्छे­देन गार्ह­प­त्य­त्वा­दि­क­ल्पनं युक्तम् । आहु­ति­द्र­व्य­पा­च­क­स्यैव चाग्ने­स्त­दा­धा­र­त्व­व­र्णनं युक्तम् ‘अवाड्ढव्यानि सुरभीणि कृत्वा’ इति श्रुतितः , प्रत्यक्षतश्च आहु­ति­द्र­व्या­धा­र­स्यै­वा­ग्ने­स्त­त्पा­च­क­त्वा­व­ग­मात् । एवञ्च ‘यस्य येनार्थसम्बन्ध’ इति न्याये­ना­ग्नि­वै­श्वा­न­र­श­ब्द­यो­र्जी­व­प­र­मा­त्म­प­क्ष­नि­रा­क­रण एवान्वयः , अन्तः­प्र­ति­ष्ठि­त­त्व­हेतोः भूत­दे­व­ता­प­क्ष­नि­रा­क­रण एवान्वयः , न त्वेषां जाठ­र­त्व­सा­ध­नेऽ­न्वयः । अत एव सूत्रे जाठर इत्य­भि­म­त­सा­ध्य­म­नि­र्दिश्य नञा पक्षा­न्त­र­नि­रा­क­र­ण­मेव साध्यत्वेन निर्दिष्टम् । त्रेता­ग्नि­त्व­क­ल्प­न­प्रा­णा­हु­त्या­धा­र­त्व­लि­ङ्ग­योस्तु चतुर्णामपि पक्षान्तराणां निराकरणेन तद­र्थ­ल­ब्ध­जा­ठ­र­त्व­सा­ध­नेन चान्वयो द्रष्टव्यः ।

एवं सिद्धा­न्त्य­भि­म­त­प­र­मा­त्म­प­क्ष­नि­रा­क­रणे , पूर्व­प­क्ष्य­भि­म­त­जा­ठ­र­प­क्ष­सा­धने चोपयुक्ततया अन्तरङ्गहेतून् ‘शब्दादिभ्यः’ इत्यनेन निर्दि­श्या­दि­श­ब्देन ग्रहीतुं शक्य­म­प्य­न्तः­प्र­ति­ष्ठि­त­त्व­म­न­व­धा­र­ण­पू­र्व­प­क्ष­प्रा­प्त­भू­त­दे­व­ता­प­क्ष­नि­रा­क­र­ण­मा­त्रा­र्थ­तया तेभ्यो विलक्षणं बहिरङ्गमिति द्योतयितुमेव पृथक् बहि­र्नि­र्दि­ष्टम् । न च जाठरे द्युमू­र्द्ध­त्वा­द्य­स­म्भवः; वाजसनेयके ‘स होवाच मूर्द्धा­न­मु­प­दि­श­न्नु­वाच एष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच एष वै सुतेजाः वैश्वानर इति । नासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानर इति । मुख्य­मा­का­श­मु­प­दि­श­न्नु­वाच एष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति । चुबु­क­मु­प­दि­श­न्नु­वाच एष वै प्रतिष्ठा वैश्वानरः’ इत्यु­पा­स­क­मू­र्द्रा­दी­ना­म­ति­ष्ठा­सु­ते­ज­श्श­ब्दा­द्यु­क्त­द्यु­लो­क­सू­र्या­दि­रू­प­वै­श्वा­न­र­मू­र्द्ध­च­क्षु­रा­द्या­त्मना संपा­द­ना­त्तै­र्जा­ठ­र­स्यापि द्युमू­र्द्ध­त्वा­दि­व्य­प­दे­शो­प­पत्तेः , छान्दोग्येऽपि ‘यस्त्वेतमेवं प्रादेशमात्रम्’(छा. ५. १५. १) इति विशेषणानुसारेण वाज­स­ने­य­क­प्र­ति­पा­दि­त­मू­र्द्ध­चु­बु­का­न्त­रा­ल­क­ल्पि­त­द्यु­मू­र्द्ध­त्वा­दे­रे­वा­व­श्य­मु­पा­दे­य­त्वाच्च । न च ‘स एषो­ग्नि­र्वै­श्वा­नरो यत्पुरुषः’(श. ब्रा. ७. ३. १. ३५) इति वाज­स­ने­य­क­ग­त­पु­रु­ष­त्व­व्य­प­दे­श­वि­रोधः , उपा­स­क­मू­र्द्धा­दि­चु­बु­का­न्ता­व­य­वेषु वैश्वानरं प्रति मूर्द्धा­दि­पा­दा­न्ता­व­य­व­त्वस्य कल्पिततया तल्ल­ब्ध­श­री­र­त्व­सा­दृ­श्येन जाठरेऽपि तद्व्य­प­दे­शो­प­पत्तेः । अत एव अनन्तरं ‘स यो हैतम्’ इत्यादिवाक्ये पुरु­ष­वि­ध­त्व­की­र्त­नम् । न हि मुख्ये पुरुषत्वे पुरु­ष­वि­ध­त्व­की­र्त­न­मु­प­प­द्यते । एवं च छान्दोग्यगतौ ब्रह्मा­त्म­श­ब्दा­वपि कल्पितेन द्युमू­र्द्ध­त्वा­दिना जाठ­र­स्या­थ­र्व­णो­क्त­ब्र­ह्म­सा­दृ­श्या­दु­प­पा­द­नीयौ । तदे­त­द्यु­मू­र्द्ध­त्वा­द्य­स­म्भ­व­प­रि­हा­र­जातं द्योत­यि­तु­म­प्य­न्तः­प्र­ति­ष्ठा­ना­दिति हेतुः पृथङ्निर्दिष्टः । तेन हि वैश्वानरः परमात्मेति वदता सिद्धान्तिनाऽपि ‘पुरुषेऽन्तः प्रतिष्ठितम्’ इत्यनेन स्वरसतः प्रतीतस्य पुरु­षेऽ­न्तः­प­र्या­प्त­वृ­त्ति­त्वस्य परमात्मनि स्वरूपेण प्रसि­द्ध­द्यु­मू­र्द्ध­त्वा­दिना चासम्भवतो निर्वाहाय उपा­स­क­मू­र्द्धा­दि­चु­बु­का­न्ता­व­य­व­क­ल्पि­त­श­री­रा­व­च्छि­न्न­त्व­मेव शरणीकर्तव्यमिति जाठरेऽपि न द्युमू­र्द्ध­त्वा­द्य­स­म्भवः , नापि ब्रह्म­श्रु­त्या­दि­वि­रोध इति द्योतितं भवति ।

सूत्रे चशब्देन फल­वि­शे­ष­नि­र्दे­शा­स­म्भ­व­प­रि­हा­र­स्स­मु­च्चितः । ‘अन्नमत्ति’ इति श्रुतं फलं न ब्रह्मो­पा­स­ना­या­मेव नियतम् ; ‘एत­याऽ­न्ना­द्य­कामं याजयेत्’ इत्यादिषु कर्मणामपि तत्फलश्रवणात् । सर्व­पा­प­प्र­दा­हस्तु प्राणा­ग्नि­हो­त्र­स्यैव फलत्वेन श्रुताः ; न वैश्वा­न­र­वि­द्यायाः । तस्मा­द्वै­श्वा­नरो जाठर एवेति पूर्वः पक्षः।

सिद्धान्तस्तु ‘वैश्वानरो न परमात्मा , किन्तु जाठर’ इति नैतैः श्रुति­लि­ङ्गै­र­भ्यु­प­गन्तुं युक्तम् ; जाठरप्रतीकस्य , जाठरोपाधिकस्य परमात्मनः उपासनोपदेशः इत्यङ्गीकारेण एतेषां श्रुति­लि­ङ्गा­ना­म­न्य­था­नेतुं शक्यत्वात् । केवले जाठरे द्युमू­र्द्ध­त्वा­दे­र­स­म्भ­वेन तस्या­न­न्य­था­सि­द्ध­त्वात् । न चोपा­स­क­मू­र्द्ध­चु­बु­का­न्त­राल कल्पि­त­द्यु­मू­र्द्ध­त्वा­दे­र्जा­ठ­रेऽपि सम्भवोऽस्तीति शंक्यम् ; छान्दोग्ये ‘दिवमेव भगवो राजन्निति होवाच’(छा. ५. १२. १) इत्या­द्यु­प­क्र­मा­नु­सा­रेण ‘मूर्द्धैव सुतेजाः’ इत्यादेः प्रसि­द्ध­द्यु­प्र­भृ­ति­मू­र्द्ध­त्वा­दि­प­र­तया तस्य जाठरे असम्भवात् । उभ­य­वि­ध­श्रु­त्य­नु­सा­रेण छान्दोग्ये अधिदैवतं प्रसि­द्ध­दि­वा­दि­षु­मू­र्द्धा­दि­पा­दा­न्ता­व­य­व­रू­पत्वं वाजसनेयके अध्या­त्म­मु­पा­स­क­मू­र्द्धा­दिषु द्व्यादि­पृ­थि­व्य­न्त­त्रै­लो­क्या­त्म­क­वै­श्वा­न­र­मू­र्द्धा­दि­पा­दा­न्ता­व­य­व­रू­प­त्व­मु­पा­स्य­मि­त्यु­भ­य­वि­ध­स्यापि द्युमू­र्द्ध­त्वादेः प्रामाणिकत्वात् । छान्दो­ग्य­ग­त­प्रा­दे­श­मा­त्र­त्वो­क्ति­नि­र्वा­ह­स्याग्रे सूत्रकृतैव प्रद­र्श­यि­ष्य­मा­ण­त्वात् , उपा­स­क­मू­र्द्ध­दि­क­ल्पि­त­द्यु­मू­र्द्ध­त्वा­दे­रपि तन्नियन्तरि परमात्मनीव गगनादिवत् तत्स­म्ब­न्ध­मा­त्र­शा­लिनि जाठरे असम्भवाच्च ।

एवं द्युमू­र्द्ध­त्वा­द्य­स­म्भ­वेन तल्ल­ब्ध­सा­दृ­श्यो­प­पा­द­नी­यानां ब्रह्मा­त्म­पु­रु­ष­श्रु­ती­ना­म­प्य­स­म्भवो व्याख्यातः । तथा फलनिर्देशोऽपि जाठरपक्षे न सम्भवति । न हि ‘अन्नमत्ति’ इति कर्म­फ­ल­सा­धा­र­ण­म­न्ना­द­त्व­मा­त्र­मु­च्यते , सर्व­भू­त­लो­का­त्म­स­म्ब­न्धि­नोऽ­न्न­स्या­प्र­सि­द्ध­त्वात् , किन्तु सर्वेषु भूतेषु लोकेषु सर्वेष्वात्मसु च यद्य­द्भो­ग्य­मु­पा­स­कस्य स्पृहणीयं सम्भवति , तत् सर्वं सङ्कल्पमात्रेण प्राप्नो­ती­त्ये­तत् ‘तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ७. २५. २) इत्या­दि­श्रु­त्य­न्त­रेषु ब्रह्मो­पा­स­ना­फ­ल­त्वेन प्रसि­द्ध­म­त्रो­च्यते । सर्व­पा­प­प्र­दा­हश्च न प्राणा­ग्नि­हो­त्र­फ­ल­त्वेन उच्यते ; वैश्वा­न­र­वि­द्या­ङ्गस्य प्राणा­ग्नि­हो­त्रस्य पृथ­क्फ­ला­न­पे­क्ष­त्वात् , किन्तु प्रधा­ना­पे­क्षि­त­फ­ल­त्वे­नैव प्राणा­ग्नि­हो­त्र­स­न्निधौ निर्दिश्यते । एवं परमात्मसाधकानां द्युमू­र्द्ध­त्वा­दि­लि­ङ्ग­ब्र­ह्मा­त्म­पु­रु­ष­श्रु­ति­फ­ल­वि­शे­ष­रू­पाणां सर्वेषामपि हेतूनां जाठ­रा­ग्नि­सा­ध­कानां तथा दृष्टृयुपदेशेन ब्रह्मणीव जाठराग्नौ सम्भवाभावः ‘असम्भवात्’ इत्यनेन संगृहीतः ।

ननु पुरु­ष­श्रु­त्य­स­म्भ­व­स्यापि ‘असम्भवात्’ इत्यनेनैव संग्रहे ‘पुरुषमपि’ इत्या­दि­सू­त्र­शेषः किमर्थः ? ‘अन्तः­प्र­ति­ष्ठा­नात्’ इति पृथ­ङ्नि­र्दि­ष्ट­हे­त्व­न्त­र­नि­रा­क­र­णार्थ इति चेत् ; न । अग्नि­र्वै­श्वा­न­र­श्रु­ति­त्रे­ता­ग्नि­क­ल्प­न­प्रा­णा­हु­त्या­धा­र­त्व­लि­ङ्गानां पर­मा­त्म­न्य­स­म्भ­व­ता­मपि द्युमू­र्द्ध­त्वा­य­द्य­नु­सा­रेण तथा दृष्टृ­य­भि­प्रा­य­तया नयने परमात्मन्यपि सम्भ­व­तोऽ­न्तः­प्र­ति­ष्ठि­त­त्वस्य दुर्बलस्य पृथ­ङ्नि­रा­क­र­ण­हे­त्व­न­पे­क्ष­त्वात् । तदपेक्षत्वेऽपि ‘पुरुषमपि’ इत्यादि सूत्रशेषेण पुरु­ष­श्रु­ति­व्य­ति­रि­क्तस्य हेतोरलाभात् , तस्य चास­म्भ­वा­दि­त्य­ने­नैव लब्धत्वादिति चेत् ।

अत्र ब्रमः – ‘असम्भवात्’ इत्यनेन न केवलं परमात्मसाधकानां द्युमू­र्द्ध­त्वा­दी­ना­मे­वा­स­म्भवः संगृहीतः , किन्तु जाठ­र­प­क्ष­सा­ध­क­त्वेन पूर्व­प­क्षि­णो­प­न्य­स्तस्य पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­त­त्व­स्या­प्य­स­म्भवः संगृहीतः । पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं हि जीवेऽ­न्तः­प्र­ति­ष्ठि­त­त्वम् । तत्तु परमात्मन्येव सम्भवति ; ‘य आत्मनि तिष्ठ­न्ना­त्म­नोऽ­न्तरः’ इति श्रुत्य­न्त­र­प्र­सिद्धेः , न तु जाठराग्नाविति । तत्र पुरुषशब्देन शरीरं विवक्षितम् । न तु जीवः ‘इदं वाव ज्योति­र्य­दि­द­म­स्मि­न्न­न्तः­पु­रुषे ज्योतिः’ इति जाठराग्नावेव शरी­रा­न्त­व­र्ति­त्वा­भि­प्रा­येण ‘अन्तःपुरुषे’ इति निर्दे­श­द­र्श­ना­दिति शङ्का­या­मि­द­मु­त्तरं पुरुषमपि चैनमधीयते’ इति । अत्रायमाशयः – भवेदेवं यदि ‘यदि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः’ इत्यत्र ज्योतिरिवैनं वैश्वानरं केवलं पुरु­षा­र्न्त­व­र्ति­न­म­धी­यी­रन् । न त्वेवम् ; इह तु वैश्वानरं पुरुषमप्यधीयते ‘स यो हैतमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । तथा च ज्योतिर्वाक्ये पुरुषपदस्य शरीरपरत्वेन जाठरपर्यवसाने विरो­धि­पु­रु­ष­प­दा­न्त­र­स­न्नि­धा­ना­भा­वा­तत्र तथात्वेऽपि अत्र तद्वि­रो­धि­पु­रु­ष­प­दा­न्त­र­स­न्नि­धा­न­स­त्त्वान्न तथात्वमिति ।

ननु पुरु­ष­प­दा­न्त­र­स­न्नि­धानं कथमिह जाठ­र­प­र्य­व­सा­न­वि­रो­धीति चेत् ; तदाकर्णय । ‘पुरुषं – पुरुषविधं पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तम्’ इति त्रयाणामपि पुरु­ष­प­दा­ना­मै­कार्थ्यं ताव­द­भ्यु­प­ग­न्त­व्यम् । ऐकार्थ्यसम्भवे ‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र. सू. २.३.५) इति न्यायानवतारात् । तथा च यदात्मकत्वं यद्विधत्वं यद­न्तः­प्र­ति­ष्ठि­तत्वं चात्र वैश्वा­न­र­श­ब्दो­क्त­त्वे­ना­लो­च्य­मा­नानां मध्ये कस्यचित् सम्भवति , स एव पुरुषशब्दार्थो वक्तव्यः । सम्भवति च परमात्मनो जीवरूपत्वं सर्वात्मत्वात् जीवविधत्वं च द्युमू­र्द्ध­त्वा­दि­ल­ब्ध­सा­दृ­श्यात् । जीवान्तः प्रतिष्ठितत्वं च सर्वा­न्त­र्या­मि­त्वात् । जाठरस्य त्वचेतनस्य न जीवात्मत्वं जीवविधत्वं जीवा­न्त­र्या­मित्वं वाऽस्ति । तस्मात् पुरुषं पुरुषविधमिति विरो­धि­पु­रु­ष­प­द­स­न्नि­धा­नात् जाठरे पुरु­षा­न्त­र्व­र्ति­र­त्व­स्या­प्य­स­म्भवो युक्त एव ।

ननु ‘पुरुषमपि चैनम्’ इति सूत्रं लिखित्वा कथं पुरुषमप्यधीयते पुरु­ष­वि­ध­म­प्य­धी­यते इति व्याख्यातम् ? उच्यते । “पुरुषविधम् इत्यपि केचित् सूत्रावयवं पठन्ति” इति भाष्ये दर्शितम् । तत्र भगवतो बादरायणादेव केचन शिष्याः पुरुषमिति पाठं अन्ये शिष्याः पुरुषविधमित्यपि पाठं श्रुतवन्त इति तत्त­त्स­म्प्र­दा­या­नु­सा­रि­ण­स्तथा तथा पठन्तीति पाठद्वयमपि सूत्र­का­र­प्र­ण­य­न­मू­ल­मि­त्येव भाष्याभिप्रायः। न हि सूत्र­का­रा­नु­प­ज्ञ­म­सा­म्प्र­दा­यिकं सम्पातायातपाठं भगवत्पादा लिखन्ति । अतः पाठ­द्व­य­म­प्ये­की­कृत्य तथा व्याख्यातम् । सूत्रे चशब्दः तुशब्दार्थे वर्तमानः प्रस­क्त­श­ङ्का­नि­वृ­त्त्यर्थः सन् जाठरे पुरु­षा­न्तः­प्र­ति­ष्ठि­त­त्वा­स­म्भ­व­व­र्ण­नेन प्रग्लि­खि­ता­श­ङ्का­व­तारं सूचयतीति सर्वमनवद्यम् । १.२.२६ ।

अथ त्रैलो­क्य­व्या­प्त्य­भा­वेन जाठरस्य वैश्वा­न­र­त्वा­स­म्भ­वेऽपि महाभूताग्निः स भविष्यति । तस्य हि द्युलो­का­दि­व्या­प्ति­र­व­ग­म्यते ‘यो भानुना पृथिवीं चामुतमामाततान रोदसी अन्तरिक्षम्’ इति । तस्य पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं च जाठररूपेण सम्भवति । अथवा तच्छरीरा देवता वैश्वानरो भविष्यति । सा ह्यैश्वर्ययोगेन द्युलो­का­द्य­धि­ष्ठातुं शक्नोति । पुरु­षा­न्तः­प्र­ति­ष्ठि­तत्वं च तत्र सम्भवति ‘अग्निर्वाक् भूत्वा मुखं प्राविशत्’ इति श्रुते­रि­त्या­शङ्कां जाठ­र­प­क्ष­नि­रा­क­र­ण­हे­त्व­ति­दे­शेन निराकरोति –

अत एव न देवता भूतं च ।२७।

२७

अचेतनस्य भूतस्य द्युसू­र्या­द्य­धि­ष्ठा­तृत्वं न सम्भवति । तदसम्भवे च गगनादिसाधारणेन सम्बन्धमात्रेण तस्य द्युमू­र्द्ध­त्वा­दि­क­ल्पनं न शोभत इति जाठ­र­प­क्ष­नि­रा­क­र­ण­प्र­का­रे­णैव भूत­प­क्ष­नि­रा­क­र­ण­मिति न तत्रा­ति­दे­श­सू­त्र­नि­व­र्त­नी­या­धि­का­श­ङ्काऽस्ति । अतो देव­ता­या­मै­श्व­र्येण द्व्याद्य­धि­ष्ठा­तृ­त्व­स­म्भ­वा­द्द्यु­मू­र्द्ध­त्वा­दि­क­ल्पना युज्यत इति देव­ता­प­क्षेऽ­धि­क­शङ्कां निर­पे­क्षै­श्व­र्य­प­र­मे­श्व­र­ग­ता­धि­ष्ठा­तृ­त्व­ग्र­ह­ण­स­म्भवे सापे­क्ष­ग्र­ह­ण­म­यु­क्त­मिति अन्त­र्या­म्य­धि­क­र­ण­न्या­य­स्मा­र­णेन निराकर्तुमेवेदं सूत्रम् । भूतपक्षनिराकरणं त्वन्वा­च­य­शि­ष्ट­मिति अन्वाचयार्थेन चकारेण सूचितम् । अथवा चकारेण जीवपक्षनिराकरणं समुच्चीयते । १.२. २७ ।

एवं द्युमू­र्द्ध­त्वा­द्य­स­म्भ­वेन पक्षा­न्त­र­प­रि­ग्र­हा­यो­गात् परमात्मन्येव जाठरप्रतीकत्वेन , जाठरोपाधिकत्वेन वा अग्नि­वै­श्वा­न­र­श्रु­ति­त्रे­ता­ग्नि­क­ल्प­ना­प्रा­णा­हु­त्या­धा­र­त्व­लि­ङ्गानि नेतव्यानि । पुरु­षा­न्तः­प्र­ति­ष्ठि­तत्वं तु परमात्मन्येव सम्भवति , न जाठ­रा­दि­ष्वि­त्यु­क्तम् । इदानीं यद्य­ग्नि­श्रु­त्या­दि­च­तु­ष्टयं वैश्वानरे साक्षादेव योजनीयम् , यदि च ‘पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तम्’ इत्यत्र पुरुषशब्दस्य ज्योतिर्वाक्य इव शरीरपरत्वं वक्तव्यम् , तदाऽ­प्ये­त­त्सर्वं परमात्मनि न विरुद्धमित्याह –

साक्षा­द­प्य­वि­रोधं जैमिनिः । २८ ।

२८

पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं ताव­न्मू­र्द्धा­दि­चु­बु­का­न्ता­व­य­व­क­ल्पि­त­मू­र्द्धा­दि­पा­दा­न्ता­व­य­वा­धि­ष्ठा­तृ­त्वेन शरीरान्तर्गते पर­मा­त्म­न्यु­प­प­द्यते । त्रेता­ग्नि­क­ल्पनं प्राणा­हु­त्य­धि­क­र­णत्वं चात एव तस्मि­न्नु­प­प­द्यते । प्राणा­हु­ति­पा­च­क­त्वेन प्रसिद्ध जाठरेऽग्नौ तदुभयं स्वारसिकम् इति चेत् ; न । आस्यं ह्याह­व­नी­या­य­त­न­त्वेन कल्पितम् । न च जाठरस्य जठ­र­प्र­ति­ष्ठि­तस्य स्वोष्ममात्रेण सक­ल­दे­ह­स­न्ता­प­क­स्या­स्य­मा­य­त­न­मिति स्वारसिकम् । पाचकत्वं तु सर्व­श­क्त­ब्र­ह्म­णोऽपि अविशिष्टम् । तस्मा­मू­र्द्धा­दि­चु­बु­का­न्ता­व­य­व­प्र­ति­ष्ठिते तस्मि­न्ने­वा­स्यस्य आह­व­नी­या­य­त­न­त्व­क­ल्पनं प्राणा­हु­त्य­धि­क­र­णत्वं चोपपद्यत इति तस्मिन्नेव स्वरूपेण त्रैलो­क्य­श­री­र­त्वने च सकलदेहव्यापेक गार्ह­प­त्या­दि­क­ल्प­न­म­प्यु­प­पा­द्यम् । अग्नि­र्वै­श्वा­न­र­श­ब्दा­वपि ‘अग्निः कस्मात् , अग्रणीभवति अग्रं नीयते अग्रं नयति ।

वैश्वानरः कस्मात् विश्वानरानयति , विश्व एनं नरा नयन्तीति वा , विश्वानर एव वैश्वानरः , राक्षसो वायस इतिवत् ; रक्ष एव हि राक्षसः , वय एव हि वायसः’ इति निरुक्तदर्शितेन केनचिद्योगेन तस्मि­न्नु­प­प­द्यते । अवश्यं ह्यग्नि­वै­श्वा­न­र­श­ब्द­यो­र­न्य­त­र­स्येह यौगिकत्वं वाच्यम् । रूढ्यो­भ­यो­र्ज्व­ल­न­प­रत्वे पर्याययोरेकत्र प्रयोगस्य वैय­र्थ्य­प्र­स­ङ्गात् । तदि­हो­भ­यो­र­प्यस्तु निरु­क्त­सा­र्थ­क­त्वाय पर­मा­त्म­वि­ष­य­ब­हु­श्रु­ति­लि­ङ्गा­नु­ग्र­हाय च । सूत्रे अपिशब्देन पुरुषशब्दस्य शरीरपरत्वे अविरोधः समुच्चीयते । जैमिनिग्रहणं स्वशि­ष्यो­प­पा­दि­त­प्र­का­रोऽ­य­मिति तत्ख्यापनार्थम् । एवमुत्तरत्रापि ऋषिविशेषग्रहणे फलं द्रष्टव्यम् । १.२.२८ ।

कथं पुनः पर­मे­श्व­र­प­रि­ग्रहे प्रादे­श­मा­त्र­श्रु­ति­रिति तां व्याख्या­तु­मा­र­भते –

अभि­व्य­क्ते­रि­त्या­श्म­रथ्यः । २९ ।

२९

द्युलो­का­दि­पृ­थि­व्य­न्तेषु मूर्द्धा­दि­पा­दा­न्ता­व­य­व­त्वेन कल्पितेषु उपा­स­का­नु­ग्र­हा­र्थ­म­ति­मा­त्र­स्यापि पर­मे­श्व­र­स्या­भि­व्य­क्ते­र्द्यु­लो­का­दि­प्र­दे­श­स­म्ब­न्धिनी मात्रा परिमाणमस्येति वा प्रकर्षेण पर­मे­श्व­र­मू­र्द्ध­त्वा­दि­क­ल्प­ना­कृ­ते­ना­दि­श्यन्ते उपदिश्यन्त इति प्रादेशाः द्युलोकादयः , तन्मात्रं तत्परिमाणमिति वा प्रादे­श­मा­त्र­त्व­मि­त्या­श्म­रथ्यो मन्यते । यद्यपि प्रादेशशब्दस्य उक्तयोगात् परि­मा­ण­वि­शे­ष­रू­ढि­र्ब­ली­यसी , तथाप्येवं प्रादे­श­मा­त्र­मिति प्रागु पदिष्टं द्युमू­र्द्ध­त्वा­दि­प्र­का­र­मे­वं­श­ब्देन परामृश्य तेन प्रकारेण प्रादे­श­मा­त्र­त्वो­प­न्या­सा­त्तेन च प्रकारेण द्वाद शाङ्गु­लि­प­रि­मा­ण­त्वा­यो­गा­दिह योगः एव ग्राह्यः इत्या­श्म­र­थ्या­भि­प्रायः । एत­न्न्या­य­सू­च­ना­र्थ­मेव अर्भ­कौ­क­स्त्वा­दि­सू­त्र­सि­द्ध­स्या­प्यस्य पुनस्सूत्रणम् । १. २. २९ ।

अथ रूढिमाश्रित्य मतान्तरं प्रदर्शयति –

अनु­स्मृ­ते­र्बा­दरिः । ३० ।

३०

प्रादे­श­मा­त्र­हृ­द­य­प्र­ति­ष्ठेन मनसा अनु­स्म­र्य­मा­ण­त्वात् प्रादे­श­मा­त्र­त्वम् , यथा प्रस्थमितानां यवानां प्रस्थत्वम् । यद्यपि तदन्तर्गत्या तद­व­च्छि­न्ने­ष्विव , तेन ज्ञायमानेषु तत्परिमाणं व्यपदिष्टं न दृष्टम् , तथाऽपि रूढ्यपरित्यागेन यथा­क­थ­ञ्चि­दा­ल­म्ब­न­मा­त्र­मिति बादरिर्मन्यते । १.२. ३०॥

अत्रा­प्य­प­रि­तो­षेण मतान्तरमाह –

संपत्तेरिति जैमिनिस्तथा हि दर्शयति । ३१ ।

३१

समानप्रकरणे वाज­स­ने­यि­ब्रा­ह्मणे त्रैलोक्यात्मना वैश्वा­न­र­स्या­व­य­वा­ना­म­ध्यात्मं मूर्द्धा­दि­चु­ब­का­न्ता­व­य­वेषु सम्पादनाद् रूढ्यपरित्यागेन तद­व­च्छे­द­कृ­त­म­ञ्ज­सैव प्रादे­श­मा­त्र­त्व­मिति जैमिनिर्मन्यते। १. २. ३१।

आमनन्ति चैनमस्मिन् । ३२ ।

३२

आमनन्ति चैनं पर­मे­श्व­र­म­स्मि­न्मू­र्द्ध­चु­बु­का­न्त­राले सम्प­त्त्य­धि­ष्ठा­न­त्वेन पूर्व­सू­त्र­प्र­कृते जाबालाः ‘स एषोऽ­न­न्तोऽ­व्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः’(जा. २. १) इत्यारभ्य ‘कतमच्चास्य स्थानं भवति भ्रुवोर्घ्रास्य च यः सन्धिः’(जा. २.१) इति । अतः परमेश्वरस्य मूर्द्ध­चु­बु­का­न्त­रा­ल­व­र्ति­तायाः शाखान्तरेऽपि दृष्टत्वात् तदवच्छेदकृतं प्रादे­श­मा­त्र­त्व­मिति निर्वहणं युक्तम् । इदं प्रादे­श­मा­त्रत्वं छान्दोग्ये पूर्वो­क्त­प्र­कारो न भवति इत्ये­वं­श­ब्दा­नु­प­प­त्ति­रिति चेत् , न । एवं अधिदैवतं प्रसि­द्ध­द्यु­मू­र्द्ध­त्वा­दि­वि­शिष्टं रूपम् , प्रादे­श­मा­त्र­म­ध्यात्मं मूर्द्ध­चु­बु­का­न्त­रा­ल­प्र­ति­ष्ठि­त­प्रा­दे­श­मात्रं च इत्यु­भ­य­वि­धो­पा­स­ना­ला­भाय एवं प्रादे­श­मा­त्र­मि­त्य­न­यो­र्वि­शे­ष­ण­द्व­य­त्वो­प­पत्तेः । वाजसनेयके ‘तथा तु व एनान्वक्ष्यामि यथा प्रादे­श­मा­त्र­मे­वा­भि­स­म्पा­द­यि­ष्यामि’ इति प्रति­ज्ञा­पू­र्वकं स होवाच मूर्द्धा­न­मु­प­दि­शन्’ इत्या­दे­रा­र­ब्ध­त्वेन छान्दोग्येऽपि समानप्रकरणे मूर्द्ध­चु­बु­का­न्त­रा­ल­प्र­ति­ष्ठि­त­त्व­ल­भ्य­स्यैव प्रादे­श­मा­त्र­त्वस्य ग्राह्यत्वात् । तस्माद्यद्यपि ‘अभिव्यक्तेः’ इति सूत्रस्य रूढ्य­प­रि­त्या­गे­ना­प्रा­दे­श­मा­त्रोऽ­प्यु­पा­स­का­नु­ग्र­हार्थं प्रादे­श­मा­त्र­त्वे­ना­भि­व्य­ज्यत इत्यर्थातरं भाष्ये दर्शितम् , ‘अनुस्मृतेः’ इति सूत्रस्य च प्रस्थ­प­रि­मि­त­य­व­न्या­या­न­पे­क्ष­णेन अप्रा­दे­श­मा­त्रोऽपि प्रादे­श­मा­त्र­त्वे­ना­नु­स्म­र­णीय इत्यर्थान्तरं दर्शितम् , तथाऽपि शाखान्तरे वैश्वानरस्य प्रादे­श­मा­त्रत्वं यथोपपादितं तथैव छान्दोग्येऽपि तत् ग्रहीतुं युक्तमिति जैमिनिपक्ष एव सिद्धातः । अत्र द्युमू­र्द्ध­त्वा­दि­रू­पस्य ब्रह्मलिङ्गस्य कल्प­ना­मा­त्र­सि­द्ध­त्वात् प्रादे­श­मा­त्र­त्व­श्र­व­णे­नो­पा­स­क­मू­र्द्धादि षूप­सं­हृ­त­त्व­प्र­तीतेः वेदि­ब­र्हि­र्गा­र्ह­प­त्या­दि­क­ल्प­न­प्र­ति­रु­द्ध­त्वा­च्चा­स्प­ष्टता । १. २. ३२ ।

इति वैश्वा­न­रा­धि­क­र­णम् । ७ ।
इति श्रीम­द्भा­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्याजि श्रीर­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य्य­दी­क्षि­तस्य कृतौ शारी­र­क­न्या­य­र­क्षा­मणौ प्रथमाध्यायस्य द्वितीयः पाद: ।

तृतीयः पादः

द्युभ्वा­द्या­य­तनं स्वशब्दात् ॥१॥

इहा­प्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गा­न्येव वाक्यानि विचार्यन्ते । पूर्वः पादः सविशेषप्रधानः । अयन्तु निर्विशेषप्रधान इति पादभेदः । ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः’(मु.२.२.५) इत्या­थ­र्व­णि­को­प­नि­ष­न्मन्त्रे द्युपृ­थि­व्या­दी­ना­मो­त­त्व­व­च­ने­ना­व­ग­म्य­मानं तेषामायतनं प्रधानम् , ब्रह्म वेति द्युपृ­थि­व्या­द्या­य­त­न­त्व­सा­धा­र­ण­ध­र्म­द­र्श­नात् संशये पूर्वपक्षः – प्रधानमेवैतत् , न ब्रह्म, ‘अमृतस्यैष सेतुः’ इति अमृ­त­स­म्ब­न्धि­त्व­से­तु­त्व­व्य­प­दे­शात् । न ह्यमृतमेव सदपारं ब्रह्मा­म्रु­त­स­म्ब­न्धि­त्व­व्य­प­देशं सेतुत्वव्यपदेशं वाऽर्हति । तस्मादमृतस्य मुक्तजीवस्य बन्धावस्थायां भोग्यत्वेन सम्बन्धि परिच्छिन्नं प्रधानं द्युभ्वा­द्या­य­त­न­मिति युक्तम् । ननु प्रधानमपि सेतुशब्दस्य न मुख्योऽर्थः । पारवत्त्वेन गौणार्थस्तत् इति चेत् तर्हि ब्रह्मैव धारकत्वेन गौणार्थोऽस्तु । भवति हि ब्रह्म प्रसि­द्ध­से­तु­र्ज­ल­स्येव भाव­प्र­धा­ना­मृ­त­श­ब्दा­र्थस्य मोक्षस्य धारकम् ।

वस्तुतो धारकत्वेन सेतुसब्दस्य ब्रह्मणि गौणतैव युक्ता ; ‘अथ य आत्मा स सेतुर्विधृतिः’(छा.८.४.१) ‘एष सेतुर्विधरणः’(बृ.४.४.२२) इत्या­दि­श्रु­त्य­न्तरे सेतुशब्दस्य ब्रह्मणि तथा गौणतायाः ‘परमतः सेतून्मान’(ब्र.सू.३.२.३१) इत्यधिकरणे व्यव­स्था­पि­त­त्वात् , अमृतत्वस्य धारक इत्य­न्व­य­सं­घ­ट­नाच्च , न तु पारवत्त्वेन प्रधाने गौणता युक्ताः ; अमृतस्य पार­वा­नि­त्य­न्व­या­सं­घ­ट­नात् । षष्ठ्य­न्त­नि­र्दि­ष्टस्य तत्प्र­ति­स­म्ब­न्धि­ता­व­च्छे­द­क­रू­प­व­त्त्वेन उपस्थित एव ह्यन्वयः । अत एव ‘चैत्रस्य पुत्रः’ इत्यत्रेव ‘चैत्रस्य धनवान्’ इत्यत्र नान्वयसंघटना ; चैत्रस्य पुत्रत्वेन सम्बन्धी धन­वा­नि­त्य­ति­क्लि­ष्टा­र्थस्य कल्पनीयत्वात् । तस्मात् अमृतस्य सेतु­रि­त्य­न्व­य­स्वा­र­स्या­नु­रो­धे­ना­मृ­त­श­ब्द­स्या­वि­द्या­नि­वृ­त्ति­रू­पा­मृ­त­त्व­प­रत्वं युक्तमेवेति चेत् , मैवम् । सेतु­श­ब्द­स्या­न्त­र्या­म्य­धि­क­र­ण­न्या­या­दा­जा­न­सि­द्धा­वि­ना­भू­त­पा­र­व­त्त्वेन गौणत्वं सम्भवति कादाचित्केन धारकत्वेन गौण­त्व­क­ल्प­नाऽ­यो­गात् । न च धारकत्वं कादा­चि­त्क­त्वेऽपि शब्दा­र्थै­क­दे­श­त्वे­ना­न्त­र­ङ्ग­मिति शङ्क्यम् । पारवत्त्वस्यापि तदविशेषात् । पारा­वा­र­श­ब्दि­त­प­रा­र्वा­क्ती­र­द्व­य­प­र्य­न्ता­नु­स्यूतो जलविधारको हि सेतुशब्दार्थः , न तु जलविधारकमात्रम् ; जलकुम्भादीनामपि तद­र्थ­त्व­प्र­स­ङ्गात् । वस्तुतः पारावारपर्यन्तो जलबन्धनहेतुरेव सेतुशब्दार्थः , न तु तथाभूतो जलविधारकः ; ‘षिञ् बन्धने’(धा.पा.१२४९) इति धातोः सेतु­श­ब्द­व्यु­त्पत्तेः । न च बन्ध­न­धा­र­ण­यो­रै­क्यम् , निग­ला­दे­र्ब­न्ध­क­त्वेऽ­प्य­धा­र­क­त्वात् । सेतुस्तु निगलादिवन्न केवलं बध्नाति, किन्तु बद्धं जलं धारयति चेति सेतु­श­ब्दा­र्था­न्त­र्ग­तस्य बन्धनस्य फलमेव धारणम् , न शब्दार्थैकदेशः । पारवत्त्वं तु शब्दार्थैकदेश एव । जल­ब­न्ध­न­हे­तु­मा­त्रस्य सेतु­श­ब्दा­र्थत्वे घटा­दे­र­नि­स्स­र­ज्ज­ल­ब­न्ध­न­हे­तु­म­धू­च्छि­ष्टा­दे­रपि तद­र्थ­त्व­प्र­स­ङ्गेन पारा­वा­र­म­ध्य­व­र्ति­त्व­वि­शे­ष­णा­व­श्य­म्भा­वात् । तस्मात् सहजत्वात्, शब्दा­र्थै­क­दे­श­त्वाच्च पारवत्त्वेनैव सेतुशब्दस्य गौणता युक्ता । ‘अमृतस्य सेतुः’ इति तु नान्वयः , किन्तु ‘अमृतस्यैष’ इति । तावन्मात्रेणैव च ‘तस्येदम्’(पा.सू.४.३.१२०) इति सूत्र इव षष्ठ्य­न्त­प­द­वा­च्य­स­म्ब­न्धि­त्व­मु­च्यते , सेतुशब्देन चामृ­त­प­दा­न­न्वि­ते­नैव पारवत्त्वं लक्ष्यत इति न किञ्चिदवद्यम् ।

नन्व­त्र­धि­क­र­ण­न्या­या­ल्ल­क्ष­क­प­देन सम­भि­व्या­हृ­त­प­दा­र्था­न्त­र­स्वा­र­स्या­नु­सा­र्येव लक्षणीयम् । इह धारकत्वमेव तथा, न पारवत्त्वम् । तथा हि – आत्म­श्रु­ति­स्ता­वत् ब्रह्मण्येव सङ्गच्छते ; तस्य चेतनवाचित्वात् । ‘अन्या वाचो विमुञ्चथ’ इति वाग्वि­मो­क­पू­र्वकं विधीयमानं ज्ञेयत्वमपि तत्रैव सङ्गच्चते ; तस्य ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायात् बहू­ञ्च्छ­ब्दा­न्वाचो विग्लापनं हि तत्’(बृ.४.४.२१) इति श्रुत्यन्तरे ब्रह्मणि प्रतिपन्नत्वात् । तथा द्युभ्वा­द्य­धि­क­र­ण­त्व­म­प्य­न्त­र्या­म्य­धि­क­र­ण­न्या­येन निरपेक्षं ब्रह्मण्येव सङ्गच्छते । तस्मा­दा­त्म­श्रु­त्या­द्य­नु­रो­धेन सेतुशब्दे ब्रह्म­ग­त­धा­र­क­त्व­ल­क्ष­णैव युक्तेति चेत् , उच्यते – इह द्युभ्वा­द्या­य­त­न­त्व­म­नु­वा­द्यम् , न तु ‘सदायतनाः सत्प्रतिष्ठाः’(छा.६.८.४) इत्यत्रेव प्रतिपाद्यम् ; ‘यस्मिन्’ इत्य­नु­वा­द­लि­ङ्ग­द­र्श­नात् । अनुवादश्च प्राप्ति­सा­पेक्षः । प्राप्ति­स्त्वा­नु­मा­नि­क्येव ग्राह्या, न तु श्रुत्य­न्त­र­लभ्या । यत आनुमानिकी प्राप्तिः श्रौतप्राप्तेः शीघ्रतरा । अनुमानस्य प्रत्य­क्ष­मा­त्रा­पेक्षा श्रुते­र्व्यु­त्प­त्ति­ग्र­हा­दा­वु­भ­या­पे­क्षे­त्य­नु­मा­नतः श्रुतेः श्रुतितः श्रौतलिङ्गस्येव विल­म्बि­त­प्र­वृ­त्ति­क­त्वात् । ततः द्युभ्वा­द्या­य­त­न­त्वे­ना­नु­मा­न­गम्यं प्रधानमेव ‘यस्मिन्द्यौः’ इत्या­दि­नाऽ­नू­द्यत इति मन्त्रोपक्रमस्य तावत् प्रधान एव स्वार­स्य­म­व­ग­म्यते । तथोपसंहारस्यापि तत्र स्वार­स्य­मु­प­पा­दि­तम् । एव­ञ्चो­प­क्र­मो­प­सं­हा­रा­नु­सा­रेण प्रत­र्द­ना­धि­क­र­ण­न्या­या­न्म­ध्य­पा­ति­न्या­त्म­श्रुतिः ‘अन्यावाचो विमुञ्चथ’ इत्युक्तिश्च नेतव्या । अनेकसाधारणी चात्मश्रुतिः ‘आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि’ इत्य­भि­धा­न­को­श­द­र्श­नात् , ‘‘रसा­त्म­क­स्यो­डु­प­तेश्च रश्मयः’(कुमा.सं.५.२२) इत्या­दि­ष्व­न्य­त्रापि तत्प्र­यो­ग­द­र्श­नाच्च । ननु तद्व­दि­हा­त्म­शब्दः स्वभावपर इति वक्तुमयुक्तम् ; धर्मि­प­र­प­द­सा­मा­ना­धि­क­र­ण्यात् , वस्तु­नि­र्दे­शा­देव तत्स्वभावस्य सिद्धत्वेन स्वभावपरत्वे वैय­र्थ्य­प्र­स­ङ्गा­च्चेति चेत् , न । स्वभा­व­प­र­त्वा­स­म्भ­वेऽपि देह­प­र­त्वो­प­पत्तेः । उपपद्यते हि द्युभ्वा­द्या­य­त­न­मे­क­मेव युष्माकं देहं जानीध्वम् , स्थूल­श­री­र­रू­प­दे­हा­न्त­र­वि­षया देहत्ववाचो विमुञ्चथ इति ।

एतदुक्तं भवति – देहविविक्ततया तावदात्मस्वरूपं ज्ञातव्यम् । तदर्थं देहो ज्ञातव्यः । देहश्च स्थूलः पाञ्चभौतिक एव न विवक्षितः ; आगमापायिनस्ततो विवेकस्य सुज्ञानत्वात् । किन्त्व­व्या­कृ­त­देहः सूक्ष्मो विवक्षितः । यद­नु­ब­न्धा­द­ना­दि­र­य­म­खि­ला­न­र्थ­हे­तु­र­हं­म­मा­ध्यास इति । अस्ति चाव्याकृतेऽपि जीवं प्रति देहत्वव्यवहारः ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’(क.उ. १.३.३) इति । अत्र सरी­र­प­द­नि­र्दि­ष्टस्य उत्तरत्र ‘‘अव्य­क्ता­त्पु­रुषः परः’(क.उ. १.३.११) इत्य­व्य­क्त­श­ब्देन प्रत्य­व­म­र्शा­द­व्या­कृ­त­मेव सरीरत्वेन निर्दिश्तमिति अवसीयते । तस्मा­द्द्यु­भ्वा­द्या­य­तनं प्रधानमेवेति ।

एवं प्राप्ते राद्धान्तः – द्युभ्वा­द्या­य­तनं ब्रह्म ; आत्मशब्दात् । अयं हि स्वस्य ब्रह्मण एव सब्दः , न तु प्रधानस्यापि वाचकः । न खल्वयं स्वरूपेण प्रधानं वक्ति, नापि शरीरत्वेन ; शक्ति­ग्रा­ह­का­भा­वात् । अभिधानकोसः सरीरे शक्ति­ग्रा­ह­कोऽस्ति इति चेत् , न । चेतनवाचिनोऽस्य अहंशब्दस्येव शरीरे प्रयोगाणां चेत­न­ता­दा­त्म्या­ध्या­से­नो­प­प­न्न­तया तादृ­क्प्र­यो­ग­द­र्श­न­मू­ला­ना­म­द्य­त­ना­भि­धा­न­को­शानां न्याय­वि­रु­द्ध­श­क्ति­क­ल्प­ना­या­म­सा­म­र्थ्यात् , आत्मशब्दस्य शरी­र­श­क्ति­स­द्भा­वेऽ­प्य­न्त­र्या­म्य­धि­क­र­णो­क्त­न्या­येन प्रधानस्य शरी­र­त्वा­सि­द्धेश्च । श्रुत्यन्तरे शरीरत्वकल्पनस्य प्रसि­द्ध­श­री­र­वि­ष­य­त्वात् प्रसिद्धशरीर एवा­व्य­क्त­प­द­म­व्य­क्त­का­र्या­भि­प्रा­य­मिति ‘सूक्ष्मं तु तदर्हत्वात्’(ब्र.सू.१.४.२) इति सूत्रे वक्ष्यमाणत्वात् । एवमात्मशब्दः प्रधा­नेऽ­प्यु­प­पन्न इति शङ्का­वा­र­णा­र्थ­मेव तस्य प्रधा­न­सा­धा­र­ण्य­व्या­व­र्त­नाय ‘स्वशब्दात्’ इति सूत्रितम् , अन्यथा हि ‘शब्दादेव प्रमितः’(ब्र.सू.१.३.२४) इति सूत्र इव ‘शब्दात्’ इत्ये­वा­सू­त्र­यि­ष्यत ।

ननु ‘द्व्याद्याधार’ इति लघुनि सूत्रे कर्तुं शक्ये द्युपृ­थि­वी­द्व­य­नि­र्दे­शेन , आय­त­न­श­ब्द­प्र­यो­गेण च किमर्थं गुरुसूत्रं कृतम् ? उच्यते – श्रुत्यन्तरे ब्रह्म स्वश­ब्दे­नै­वा­य­तनं श्रूयते ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा.६.८.४) इति । इहापि मन्त्रे ‘यस्मिन्’ इति निर्दिष्टं द्युपृ­थि­व्या­दी­नामो तत्त्व­व­च­ना­दा­य­त­न­म­व­ग­म्यते । तथा च श्रुत्य­न्त­र­ग­ता­य­त­न­श­ब्द­रू­प­ब्र­ह्म­प­र­श­ब्द­प­रा­म­र्शा­पे­क्षा­दा­य­त­न­त्व­प्र­त्य­भि­ज्ञा­ना­दपि द्युभ्वा­द्या­य­तनं ब्रह्मेति सिद्धा­न्त­यु­क्त्य­न्त­र­द्यो­त­ना­र्थ­मा­य­त­न­शब्दः । अस्या युक्तौ ‘स्वशब्दात्’ इति ल्यब्लोपे पञ्चमी । तथा च श्रुत्य­न्त­र­ग­त­मा­य­त­न­श­ब्द­रूपं ब्रह्मशब्दं परामृश्य तदु­न्मे­षि­ता­दा­य­त­न­त्व­प्र­त्य­भि­ज्ञा­नात् द्युभ्वा­द्या­य­तनं ब्रह्म प्रति­प­त्त­व्य­मिति सूत्रार्थो ग्राह्यः ।

द्युपृ­थि­वी­द्व­य­ग्र­हणं तु – विषयवाक्ये द्युपृ­थि­व्या­य­त­न­त्व­की­र्त­ने­नैव तदु­भ­य(म­ध्य)व­र्ति­नोऽ­न्त­रि­क्ष­लो­क­स्या­प्या­य­तनं इत्यर्थात् ज्ञातुं शक्यतया मन्त्र­ग­त­स्या­न्त­रि­क्ष­प­दस्य वैय­र्थ्य­प­रि­हा­रा­र्थ­म­व्या­कृ­ता­का­श­प­र­तया वक्तव्यत्वात् प्रधा­न­पू­र्व­पक्षो न सम्भवति ; तस्याधेयतया निर्दिष्टत्वात् । अन्तरिक्षपदस्य भूता­का­श­प­र­त्वा­ङ्गी­का­रेऽपि प्रधा­न­पू­र्व­पक्षो न सम्भवति ; अक्षरब्राह्मणे ‘यदूर्ध्वं गार्गी दिवो यदर्वाक् पृथिव्याः’(बृ.३.८.४) इत्यादिना द्यावा­पृ­थि­व्यो­स्त­दू­र्ध्वा­ध­स्त­न­लो­कानां तदन्यस्यापि सर्वस्य जग­त­स्ता­व­दा­धा­र­तया निर्दिष्टस्य भूताकाशस्य चायतनत्वेन ब्रह्मणः प्रति­पा­दि­त­त्वात् , इहापि ‘यस्मिन्द्यौः पृथिवी च’(मु.२.२.५) इति चकारेण द्युपृ­थि­व्यू­र्ध्वा­ध­र­लो­कानां समुच्चिततया तद­र्थ­प्र­त्य­भि­ज्ञा­न­स­त्वात् । अक्ष­र­ब्रा­ह्म­णस्य च प्रशा­स­ना­दि­की­र्त­नात् ब्रह्म­प­र­ताऽ­व­श्य­म्भा­वेन प्रधा­न­प­र­त्वा­स­म्भ­वस्य वक्ष्य­मा­ण­त्वा­दिति सिद्धा­न्त­यु­क्त्य­न्त­र­द्यो­त­ना­र्थम् ॥१.३.१॥

एव­मा­त्म­श­ब्दा­य­त­न­त्व­प्र­त्य­भि­ज्ञा­नाभ्यां साव्या­कृ­त­ज­ग­दा­य­त­न­त्व­स­भू­का­श­ज­ग­दा­य­त­न­त्व­प्र­त्य­भि­ज्ञा­ना­न्य­त­रेण च द्युभ्वा­द्या­य­तनं ब्रह्म न त्वव्याकृतमिति समर्थितम् । हेत्वन्तररेणापि अमुमर्थं समर्थयते –

मुक्तो­प­सृ­प्य­व्य­प­दे­शात् ॥२॥

‘यस्मिन्द्यौः’(मु.२.२.२) इत्यादावाधेयतया निर्दिष्टेन कार्यरपञ्चेन मुक्ता­मे­वा­य­त­न­मु­प­सृप्यं ज्ञातव्यम् , न तु तद्विशिष्टमिति ‘तमेवैकं जानथ’(मु.२.२.५) इत्यनेन उपदेशादपि द्युभ्वा­द्या­य­तनं ब्रह्म ; मूल­स्क­न्ध­शा­खा­त्म­क­त्वेन वृक्षस्येव ब्रह्मणः प्रप­ञ्च­वि­शि­ष्ट­त्वेन प्रतिपत्तौ प्राप्तायां ‘‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क.४.१०) इति श्रुत्यन्तरे तस्य तथा प्रति­प­त्ते­र्नि­न्दि­त­त्वात् । अपि च ‘अन्या वाचो विमुञ्चथ’(मु.२.२.५) वाग्वि­मु­क्ति­पू­र्वकं ज्ञात­व्य­त्वो­प­दे­शा­दपि द्युभ्वा­द्या­य­तनं ब्रह्म । तथा ज्ञात­व्य­त्व­स्यापि ब्रह्मणि ‘तमेव धीरो विज्ञाय’(बृ.४.४.२१) इति श्रुत्यन्तरे प्रसिद्धत्वात् ।

अत्र यदुक्तं पूर्वपक्षिणा प्रधा­न­मे­वा­त्मानं संसारिणां शरीरं जानीत स्थूल­दे­हा­दि­वि­षयाः शरीरत्ववाचो विमुञ्चथेत्येवं प्रधा­नेऽ­प्ये­त­द्यो­ज­यितुं शक्यमिति तत् आत्मशब्दस्य ब्रह्मा­सा­धा­र­ण­श­ब्द­त्व­स­म­र्थ­नेन पूर्वसूत्रे शरी­र­प­र­त्वा­स­म्भ­व­प्र­द­र्श­ना­देव निरस्तम् । किञ्च तथा सति ‘तमेवैकं जानथ’ इत्यदिकं ‘अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः’(तै.सं.२.९.४) इति­व­द­र्थ­वा­द­मात्रं स्यात् ; प्रसि­द्ध­श­री­रे­ष्व­श­री­र­त्व­वा­दस्य गवा­श्व­व्य­ति­रि­क्त­प­शुषु अपशुत्ववादस्येव बाधितत्वात् । अति­सू­क्ष्म­ब्र­ह्मा­व­ग­ते­र­त्य­न्त­चि­त्तै­का­ग्र्य­सा­ध्य­त्वेन तद­र्थ­म­न्य­वा­ग्वि­मो­क­पू­र्वकं ब्रह्मण ऐकरस्येन ज्ञात­व्य­त्वो­प­दे­श­प­रत्वे तु श्रुत्य­न्त­र­प्र­सि­द्ध्य­नु­सा­रेण भूतार्थवादो भवति । न च विशि­ष्टा­र्थो­प­दे­श­रू­प­भू­ता­र्थ­वा­दत्वे सम्भवति अस­द­र्था­व­ल­म्ब­ना­र्थ­वा­द­त्व­क­ल्पनं युक्तम् ।

अपि च ‘अमृतस्यैष सेतुः’ इत्य­न्य­वा­ग्वि­मो­क­पू­र्व­का­दै­क­र­स्येन ज्ञाना­द­वि­द्या­दि­ब­न्ध­मुक्तैः प्राप्त­व्य­त्वो­प­दे­शा­दपि द्युभ्वा­द्या­य­तनं ब्रह्म । तथा हि – ‘अमृतस्यैष सेतुः’ इत्य­त्रै­त­च्छब्दो नात्मनः परामर्शकः किन्तु विधेयत्वेन प्रधानस्य ज्ञानस्य परामर्शकः । तथा च यथा प्रसिद्धः सेतुः पारस्य प्रापकः , एवमयं द्युभ्वा­द्या­य­त­न­ज्ञा­न­रूपः सेतुः संसा­र­पा­र­स्या­मृ­तस्य ब्रह्मणः प्रापक इति तस्यार्थः ।

ननु ‘जानथ’ इत्याख्यातेन साध्य­रू­पा­भि­धा­यि­नो­क्तस्य ज्ञानस्य सिद्ध­रू­पा­भि­धा­यिना नाम्ना परामर्शो न युक्त इति चेत् , न । ‘शैत्यं हि यत् सा प्रकृतिर्जलस्य’(रघु. ५.५४) इत्यत्र नपुंसकतया प्रकृतस्य स्त्रीलि­ङ्ग­वि­शि­ष्ट­तया परामर्शवत् , ‘पाणिर्निकुब्जः प्रसृतिस्तौ युता­व­ञ्ज­लिः­पु­मान्’(ना.लिं.अ.) इत्य­त्रै­क­त्व­वि­शि­ष्ट­तया प्रकृतस्य द्वित्व­वि­शि­ष्ट­तया परामर्शवच्च साध्य­रू­प­वि­शि­ष्ट­तया प्रकृतस्यापि तदंशत्यागेन सिद्ध­रू­प­वि­शि­ष्ट­तया परामर्शोपपत्तेः । ‘श्येने­ना­भि­च­र­न्य­जेत यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ ‘अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावः’(छा.२.११.१) ‘अपोऽ­श्ना­ति­त­न्ने­वा­शितं नेवानशितम्’ इत्या­दा­वा­ख्या­तो­क्तस्य नाम्ना परा­म­र्श­द­र्श­नाच्च । तथाऽप्यत्र ‘स एषोऽन्तश्चरते’(मु.२.२.६) ‘दिव्ये ब्रह्मपुरे ह्येषः’(मु.२.२.७) इत्या­द्य­न­न्त­र­म­न्त्रा­म्ना­तै­त­च्छ­ब्दा­ना­मा­त्म­प­र­त्व­द­र्श­ना­द­स्यापि तत्परत्वं युक्तम्’ इति चेत्, न । तेषां ज्ञान­प­र­त्वा­स­म्भ­वेन तद्वि­ष­या­त्म­प­र­त्व­क­ल्प­नेऽ­प्यस्य तस्मिन्नेव मन्त्रे विधेयत्वेन प्रस्तुते ज्ञाने वृत्तिसम्भवे तदुल्लङ्गनेन तद्वि­षा­प­र­त्व­क­ल्प­ना­यो­गात् । न चैवं सति ‘तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा’ इत्यत्रापि तच्छ­ब्द­स्या­न­य­न­क्रि­या­प­र­त्व­प्र­सङ्गः ; तस्य द्रव्य­वा­च्या­मि­क्षा­प­द­स­मा­ना­धि­क­र­णस्य क्रिया­प­र­त्वा­स­म्भ­वेन तत्प्र­धा­न­क­र्म­भू­त­प­यः­प­रा­म­र्शि­त्व­क­ल्प­नात् । नन्वेवमपि द्युभ्वा­द्या­य­तने मुक्तो­प­सृ­प्य­त्व­हे­तुर्न लभ्यते; अमृतस्यैव मुक्तो­प­सृ­प्य­त्व­ला­भा­दिइ चेत् – न । अन्य­ज्ञा­ना­द­मृ­तस्य ब्रह्मणः प्राप्त्य­स­म्भ­वेन द्युभ्वा­द्या­य­त­न­ज्ञा­नात् ब्रह्मणः प्राप्य­त्व­प्र­ति­पा­द­ना­द­र्थात् द्युभ्वा­द्या­य­त­न­मे­वा­मृ­त­श­ब्दोक्तं ब्रह्मेति लाभात् ।

एवमस्य सूत्रस्य तिसृषु योजनासु आद्ययोजना भाष्ये प्रथ­म­सू­त्र­व्या­ख्या­न­स­मय एवात्मशब्दस्य ब्रह्मा­सा­धा­र­ण­श­ब्द­त्व­स­म­र्थ­ना­न­न्तरं तदु­प­जी­वि­त्वा­त्त­त्रा­य­त­न­व­द्भा­व­श्र­व­णा­दि­त्या­दिना दर्शिता । द्वितीययोजना त्वेत­त्सू­त्र­व्या­ख्या­न­स­मये सूत्रस्य द्विती­या­र्थ­त्वेन दर्शिता । तृतीययोजना तु न स्पष्टं प्रदर्शिता, किन्तु मन्त्रा­न्त­र­ग­त­मु­क्तो­प­सृ­प्य­त्व­व्य­प­दे­शस्य एत­त्सू­त्रा­र्थ­तया वर्णनेन तत्समानन्यायतया सूचिता । भाष्ये मुण्ड­को­प­नि­ष­द्वि­व­रणे च ‘अमृतस्यैश सेतुः’ इत्य­त्रै­त­च्च­ब्दस्य ज्ञान­प­रा­म­र्शि­त्व­प्र­ति­पा­द­नेन च किञ्चि­दा­वि­ष्कृता ।१.३.२।

नानु­मा­न­म­त­च्छ­ब्दात् ॥३॥

सांख्या­नु­मा­न­क­ल्पितं प्रधानमिह न ग्राह्यम् ; तत्प्र­ति­पा­द­क­श­ब्दा­भा­वात् । न हि ‘यस्मिन्द्यौः’ इत्यादि तत्प्रतिपादकं ; तस्या­न्त­र­ङ्ग­श्रु­त्य­न्त­र­प्रा­पि­त­ब्र­ह्म­ग­त­द्यु­भ्वा­द्या­य­त­न­त्वा­नु­वा­द­क­त्वात् । यत्त्वनुमानात् श्रुतिः प्रत्य­क्षा­नु­मा­न­सा­पे­क्ष­त्वेन विल­म्बि­त­प्र­वृ­त्ति­केति शीघ्र­त­र­म­नु­मा­न­मेव प्राप­क­मि­त्यु­क्तम् , तदयुक्तम् ; शब्दानां व्युत्प­त्ति­वे­ला­या­म­र्थ­ग्रा­हि­मा­ना­न्त­रा­पे­क्ष­त्वेऽपि तत्प्र­ति­पा­द­न­वे­लायां तद­पे­क्ष­त्वा­भा­वेन विलम्बासिद्धेः ; अन्यथा ‘गामानय’ इत्या­दि­वा­क्या­ना­म­स­न्नि­कृ­ष्टा­र्थ­वि­ष­याणां प्रत्य­क्ष­सा­चि­व्या­भा­वेन गवा­न­य­ना­दि­प्र­ति­पा­द­क­त्वा­भा­व­प्र­स­ङ्गात् । उक्तं च वार्तिके ‘अर्थ­बो­धेऽ­न­पे­क्ष­त्वा­न्मा­ना­न्त­र­म­ना­दृ­तम् । व्युत्प­त्त्यु­पा­य­भूतं यत्तच्च तन्मात्र एव तु’ इति । तस्मात् ‘यस्मिन्द्यौः’ इत्यादि न प्रधा­न­प्र­ति­पा­द­कम् । नापि ‘अमृतस्यैष सेतुः’ इत्येतत् तत्प्रतिपादकम् ; तस्य विधेयतया प्रकृतं ज्ञानं ब्रह्मणः प्राप­क­मि­त्ये­त­द­र्थ­ताया वर्णितत्वात् । यथा प्रसिद्धः सेतुः प्रवाहनिरोधेन प्रभूतमुदकं साधयति , एव­मि­द­मा­त्म­ज्ञा­न­म­मृ­तत्वं साध­य­ती­त्य­मृ­त­श­ब्दस्य भाव­प्र­धा­न­ता­श्र­य­णे­ना­त्म­ज्ञाने साधनत्वपरतयाऽपि सेतु­व्य­प­दे­शो­प­प­त्तेश्च । आत्मन्यपि अमृतत्वधारकतया तद्व्य­प­दे­शो­प­प­त्तेश्च । उप­क्र­म­श्रु­त­ब्र­ह्म­ग­त­नि­र­पे­क्ष­द्यु­भ्वा­द्या­य­त­न­त्व­लि­ङ्गेन आत्मश्रुत्या वाग्वि­मो­क­पू­र्व­क­मे­क­र­स­तया ज्ञात­व्य­त्वो­प­दे­शेन च विरु­द्ध­स्यो­प­सं­हा­रस्य यथा­क­थ­ञ्चि­न्न­य­न­स्यो­चि­त­त्वात् । एवं च ‘उप­क्र­मो­प­सं­हा­रा­नु­सा­रेण मध्य­ग­त­मा­त्म­श्रु­त्य­दिकं यथा­क­थ­ञ्चि­त्प्र­धाने नेतव्यम्’ इत्यपि निरस्तम् ।

सूत्रे ‘अनुमानम्’ इति कर्मणि ल्युट्प्र­त्य­यान्तः , आनुमानमिति शैषि­क­प्र­त्य­यान्तो वा । उप­न्य­स्त­पू­र्व­प­क्ष­बी­ज­द्यो­त­नार्थं प्रधा­न­स्या­नु­मा­न­प­देन ग्रहणम् । ‘अतच्छब्दात्’ इत्यत्र प्रस­ज्य­प्र­ति­षे­धा­र्थ­कस्य नञः समासः । तस्य क्रिया­सा­पे­क्ष­त्वे­ना­सा­म­र्थ्येऽपि समासोऽस्तीति ‘अकर्तरि च कारके संज्ञायाम्’(पा.सू.३.३.१९) इत्यत्र कारकग्रहणेन ज्ञापितत्वात् , ‘असूर्यंपश्या राजदाराः’ इत्या­दि­प्र­यो­ग­द­र्श­नाच्च । ‘निर्मक्षिकम्’ इति­व­द­र्था­भा­वेऽ­व्य­यी­भावो वा । अत­च्छ­ब्द­मि­त्य­म्भा­वस्तु न भवति ; ‘नाव्य­यी­भा­वा­द­तोम् त्वपञ्चम्याः’(पा.सू.२.४.८३) इति पञ्च­मी­प­र्यु­दा­सात् ॥१.३.३॥

स्यादेतत – मा भूत् प्रधानं द्युभ्वा­द्या­य­त­नम् , जीवस्तु स्यात् ; मनः­प्रा­ण­स­म्ब­न्ध­श्र­व­णात् । न च जीवस्य मनः­प्रा­णै­रु­प­क­र­णो­प­क­र­णि­भा­व­स­म्बन्ध एव प्रसिद्धो नाश्र­या­श्र­यि­भावः , इह त्वाश्र­या­श्र­यि­भाव एव प्रतीयते ; द्युपृ­थि­व्य­न्त­रि­क्षै­रा­श्र­या­श्र­यि­भा­व­वा­च­के­नैव ओत­श­ब्दे­नो­पा­त्त­त्वात् , ओत­श­ब्द­स्वा­र­स्या­च्चेति वाच्यम् । जीवोपकरणानां तेषां जीवा­दृ­ष्टा­य­त्तो­त्प­त्ति­स्थि­ति­क­त्वेन तदा­श्रि­त­त्व­व्य­प­दे­शो­प­पत्तेः । अत एव जीवः ‘प्राणभृत्’ इति व्यवह्रियते । एवं च जीवे द्युपृ­थि­व्य­न्त­रि­क्षा­य­त­न­त्व­व्य­प­दे­शोऽपि युज्यते ; तद्भो­ग्य­भो­ग­स्था­न­भो­गो­प­क­र­ण­भो­गा­य­त­न­रू­पाणां तेषां तद­दृ­ष्टा­य­त्त­त्वात् । जीवोपकरणे प्राणेऽपि हि ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम्’(छा.७.१५.१) इति सर्वाधारत्वं श्रूयते । जीवे तच्छ्रवणस्य काऽनुपपत्तिः ? न चात्मशब्दो जीवेऽनुपपन्नः ; तस्य द्युभ्वा­दि­सूत्रे ब्रह्मा­सा­धा­र­ण­त्व­प्र­ति­पा­द­ना­दिति वाच्यम् । ‘स्वशब्दात्’ इत्यनेन तस्य प्रधा­न­सा­धा­र­ण्य­मेव हि व्यावर्तितम् , न तु जीवसाधारण्यमपि ; तस्य जीववाचकताया अनिवार्यत्वात् ‘स ब्रह्मवित् स लोकवित् स देववित् स भूतवित् स आत्मवित्’(बृ.३.७.१) इति अन्त­र्या­मि­ब्रा­ह्मणे ब्रह्मणि ब्रह्मशब्दवत् जीवे आत्म­श­ब्द­स्या­सा­धा­र­ण्येन प्रयोगदर्शनात् । एवं ‘य आत्मनि तिष्ठ­न्ना­त्म­नोऽ­न्तरः’(श.ब्रा.१४.५.३०) इत्या­द्य­न्त­र्या­मि­ब्रा­ह्मणे ‘अयमात्मा ब्रह्म’(बृ.२.२.१९) इत्या­दि­श्रु­त्य­न्तरे च तत्र तस्यासाधारण्येन प्रयोगदर्शनात् । ‘नात्मऽ­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः’(ब्र.सू.२.३.१७) ‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२.१.२८) इत्या­दि­सू­त्रे­ष्वपि तस्मि­न्वि­शि­ष्या­त्म­श­ब्द­प्र­यो­ग­द­र्श­नाच्च ।

प्राणभृच्च ॥४॥

चकारेण नञो हेत्श्चानुकर्षः । प्राणभृदपि न द्युभ्वा­द्या­य­त­नम् ; अतच्छब्दादेव । न हि मनः­प्रा­णा­य­त­नत्वं तच्छब्दः । तस्य तदुपकरणकत्ववत् प्राण­भृ­द­सा­धा­र­ण­त्वा­भा­वात् । ‘यस्मिन् पञ्च पञ्चजनाः’(बृ.४.४.१७) इत्या­दि­श्रु­त्य­न्तरे ब्रह्मण्यपि तत्प्रसिद्धेः । न च द्युपृ­थि­व्य­न्त­रि­क्ष­म­नः­प्रा­णा­य­त­न­त्व­मपि मुख्यं ब्रह्मणि सर्वोपादान इव जीवे सम्भवति । अ वा निरपेक्षं तत् ब्रह्मणोऽन्यत्र सम्भवति । तस्मात् तच्छब्दाभावात् तद्विलक्षणस्य ब्रह्मणः प्रति­पा­द­का­च्छ­ब्दा­दपि न प्राणभृद् द्युभ्वा­द्या­य­त­नम् । एवं च ‘अतछब्दात्’ इत्यस्य द्विती­य­हे­तु­प­र­त्वेन योजनायां पर्युदासार्थस्य नञस्तत्पदेन समासः । उभ­य­सा­धा­र­ण्या­र्थ­म­त­च्छ­ब्दा­दि­त्युक्तिः । इदं च नैर­पे­क्ष्या­पेक्षं पर्यु­दा­सा­र्थ­कत्वं पूर्वत्र प्रधा­न­नि­रा­क­र­णा­र्थ­हे­ता­वपि योज्यम् ॥१.३.४॥

भेदव्यपदेशात् ॥५॥

भिद्यतेऽनेनेति भेदो भेदकः ‘तमेवैकञ्जानथ’ इति कर्मकर्तृभावः , अव­धा­र­ण­ल­ब्धे­नै­क­र­स्येन ज्ञेयत्वं च वैलक्षण्यं भेद इति पक्षे तु स एव भेदः । तद्व्यपदेशान्न प्राणभृत् द्युभ्वा­द्या­य­त­नम् । मुमु­क्षु­प्रा­ण­भृ­ज्जा­तेन हि निर्वि­शे­ष­चि­न्मा­त्रै­क­रसं ब्रह्म ज्ञेयम् , न तु प्राणभृदेव ज्ञाता तेनैव रूपेण ज्ञेयः । तत्र कर्म­क­र्तृ­भा­व­वि­रो­धात्, अह­ङ्का­र­सु­ख­दुः­ख­रा­ग­द्वे­षा­दि­सं­व­लि­त­रू­पस्य तस्यैकरस्येन ज्ञेय­त्वा­यो­गा­च्चेति तद­नु­रो­धे­ना­त्म­श­ब्दस्य जीवात्मपरत्वे, परमात्मपरत्वे, चेत­न­सा­मा­न्य­प­रत्वे, स्वरूपपरत्वे वा निर्वि­शे­ष­चि­न्मात्र एव पर्य­व­सा­न­म­भ्यु­पे­यम् ; तस्यैव वस्तुतः तत्त­द्बो­ध­नी­य­जी­व­स्व­रू­प­तया पर्यवसानात् ।

न च – बिम्ब­प्र­ति­बि­म्ब­रू­पयोः सवि­शे­ष­यो­र्जी­व­ब्र­ह्म­णो­र्भे­देऽपि तदु­भ­या­नु­स्यू­तस्य निर्वि­शे­ष­चै­त­न्यस्य जीवस्य च भेदो नास्ति , अन्यथा ‘षडस्माकमनादयः’ इति सिद्धा­न्त­वि­रो­धात् , तथा च कथमत्र भेदव्यपदेशो हेतुः स्यात् इति शङ्कनीयम् ; परि­च्छि­न्ना­प­रि­च्चि­न्न­यो­स्त­यो­रपि भेदा­व­श्य­म्भा­वात् । लोकेऽ­प्य­प­रि­च्छिन्नो महाकाशः परिच्छिन्नो घटाकाश इति भेद­व्य­प­दे­श­द­र्श­नात् । षड­ना­दि­त्व­व्य­व­हा­रस्तु जीवब्रह्मभेदं ब्रह्म­चि­न्मा­त्र­भेदं जीव­चि­न्मा­त्र­भेदं च भेद­रा­शि­त्वे­नै­की­कृत्य । अत एवाहुः ‘जीव ईशो विशुद्धा चित् भेद­स्त­स्या­स्त­यो­र्द्वयोः । अवि­द्या­त­च्चि­तो­र्योगः षडस्माकमनादयः’ इति । तस्याः सका­शा­त्त­यो­र्जी­वे­श­यो­र्भेदः तयो­र्द्व­यो­र­न्योन्यं च भेद इत्यर्थः ॥१.३.५॥

स्यादेतत् – मा भूदे­त­न्म­न्त्र­श्रु­त­हे­तुभिः द्युभ्वा­द्या­य­तनं जीवः ; उप­रि­त­न­म­न्त्र­श्रु­त­हे­तु­भिस्तु स्यात् । उपरितनमन्त्रे हि ‘अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः’(प्र.६.६) इति नाडी­स­म्ब­न्ध­ना­ड्य­न्त­स्स­ञ्चा­र­जा­य­मा­न­त्वानि श्रूयन्ते । तानि च जीवलिङ्गानि । नाडीसम्बन्धः तद­न्त­स्स­ञ्चा­रश्च तावज्जीवस्य प्रसिद्धतरः ‘आसु तदा नाडीषु सृप्तो भवति’(छा.८.६.३) ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ.२.२.१९) इत्यादिश्रुतिषु । जायमानत्वं तु तदसाधारणमिति स्पष्टमेव । तस्मात् बहु­सा­ध­का­न्य­था­क­र­णा­यो­ग्गा­ज्जीव एव द्युभ्वा­द्या­य­तनं स्यादि­त्या­शं­क्याह –

प्रकरणाच्च ॥६॥

प्रकरणमिदं मुण्डकोपनिषदि ‘कस्मिन्नु भगवो विज्ञाते’(मु.१.१.३) इत्यु­प­क्र­म­मा­रभ्य आसमाप्ति बहु­त­र­श्रु­ति­लि­ङ्गा­दि­नि­य­मितं भूतयोनेरक्षरस्य परमात्मनः । तदे­त­द­दृ­श्य­त्वा­धि­क­रण एव प्रतिपादितमिति तन्म­ध्या­म्ना­तस्य ‘यस्मिन्द्यौः’(मु.२.२.५) इति मन्त्रस्य नान्य­प­र­त्व­श­ङ्का­व­का­शोऽस्ति । न्याय­व्यु­त्पा­द­नार्थं प्रकरणं पिधाय तन्मन्त्रगतैः कैश्चि­ल्लि­ङ्गै­र­न्य­प­र­त्व­मा­शंक्य तन्मन्त्रगतैरेव श्रुतिलिङ्गैः ब्रह्मपरत्वं साधितं सूत्रपञ्चकेन । अनेन तु सूत्रेण प्राक­र­णि­क­म­न्त्रा­न्त­र­ग­त­लि­ङ्गै­र्जी­व­प­रत्वे शङ्किते प्रकरणमुद्घाट्य प्राक­र­णि­क­म­न्त्रा­न्त­र­गतैः प्रबलैः श्रुति­लि­ङ्गौ­स्त­द्बा­धह् प्रदर्श्यते । तत्र कानिचित् श्रुति­लि­ङ्गा­न्य­दृ­श्य­त्वा­धि­क­रणे प्रदर्शितानि , कानि­चि­दि­है­वा­धि­क­रणे ‘स्वशब्दात्’ इत्या­दि­हे­तू­ना­म­र्था­न्त­रो­प­व­र्ण­न­व्या­जेन भाष्ये प्रदर्शितानि । तत्र हि ‘स्वसब्दात्’ इत्यस्य ‘तपो ब्रह्म परामृतम्’(मु.१.२.१०) ‘ब्रह्मै­वे­द­म­मृतं पुरस्तात्’(मु.२.२.११) इति पूर्वत्र परत्र च ब्रह्म­सं­श­ब्द­न­म­प्य­र्था­न्त­र­त्वेन दर्शितम् ।१। मुक्तो­प­सृ­प्य­सू­त्रस्य च ‘भिद्यते हृदयग्रन्थिः’(मु.२.२.८) इति मन्त्रे राग­द्वे­षा­दि­मु­क्तै­र्ज्ञे­य­त्व­व्य­प­देशः ‘परात्परं पुरुषमुपैति दिव्यम्’(मु.३.२.८) इति मुक्त­प्रा­प्य­त्व­व्य­प­दे­श­श्चा­र्था­न्त­र­त्वेन दर्शितः ।२। ‘अतच्छब्दात्’ इत्यस्य च ‘यः सर्वज्ञः सर्ववित्’ इत्यादिषु श्रुतः सर्व­ज्ञा­दि­श­ब्दोऽ­प्य­र्था­न्त­र­त्वेन दर्शितः ।३। एवं प्राक­र­णि­क­ब­हु­श्रु­ति­लि­ङ्ग­बा­धि­त­मु­त्त­र­म­न्त्र­गतं जीव­लि­ङ्ग­त्र­य­म­न्यथा नेयम् । तथा हि – नाडी­स­म्ब­न्ध­स्ता­वन्न जीवलिङ्गम् । नाड्याश्रयत्वं ह्यत्र नाडीसम्बन्धः अर­ना­भि­दृ­ष्टा­न्ता­नु­रो­धात् , ‘यत्र’ इति सप्त­म्य­नु­रो­धाच्च , न तु नाड्युपकरणत्वम् । नाड्याश्रयत्वं त्वाहत्य हृदयस्यैव श्रुतम् ‘अथ या एता हृदयस्य नाड्यः’(छा.८.७.१) इत्यादिषु । तदाश्रयत्वं जीवस्यापि हृदयद्वारैव वाच्यम् । तच्च हृदयायतनस्य ब्रह्मणोऽपि सुवचम् । एवं ‘अजायमानो बहुधा विजायते’(यजु.सं. ३१.१६) इति श्रुत्य­नु­सा­रे­णा­भि­व्य­क्ति­वि­शे­ष­व­त्त्व­रूपं जायमानत्वम्, जीव­व­द­न्तः­क­र­नो­प­हि­त­रू­पेण नाड्य­न्त­स्स­ञ्चा­र­व­त्त्वम् च तस्यसुवचमेव । यदि ‘लक्षणहेत्वोः क्रियायाः’(पा.सू.३.२.१२६) इति प्रथ­मा­स­मा­ना­धि­क­र­ण­शा­न­ज्वि­धा­य­क­सू­त्रा­नु­सा­रेण ‘यो जायते सोऽन्तश्चरते’ इत्ये­व­म­र्थ­प­र्य­व­सा­यि­तया अन्त­स्स­ञ्च­र­ण­क्रि­या­ल­क्ष­ण­त्वे­नो­प­न्यस्तं जननं जीवे प्रसिद्धतरं ब्रह्म­व्या­वृ­त्त­मेव ग्राह्यम् ; प्रसिद्धतरस्यैव लक्षकत्वात् , अत एवा­न्त­स्स­ञ्च­र­ण­मपि तेन जननेन लक्षणीयं जीवगतमेव ग्राह्य­मि­त्यु­च्यते , तदाऽपि नास्त्य­नु­प­पत्तिः ; हृदयायतनः परमात्मा जीवरूपेण जायमानः सन् नाडीनामन्तः सञ्चरत इत्य­न्व­य­सौ­ल­भ्यात् । एवं प्रस­क्त­श­ङ्का­नि­रा­क­र­णा­र्थ­स्तु­श­ब्दार्थे सौत्रश्चकारः ॥१.३.६॥

स्यादेतत् – जीवस्य प्रत्यग्रूपतया लोका­नु­भ­व­सि­द्धात् कर्तृ­त्व­भो­क्तृ­त्वा­दि­वि­का­र­शा­लिनो रूपा­द­न्य­न्नि­र्वि­का­र­चि­न्मा­त्रा­त्म­क­मपि रूपमस्तीत्यत्र किं प्रमाणम् , येन तत्रात्मशब्दस्य पर्यवसानं तत्रैव प्रसि­द्ध­त­र­जै­व­रू­प­दृष्ट्या जायमानत्ववर्णनं चोपपद्येत । न हि कर्तृ­त्व­भो­क्तृ­त्वा­दि­वि­शि­ष्टा­ज्जी­वात् तन्नि­य­न्तु­री­श्व­रा­च्चा­न्य­द­स­ङ्गो­दा­सी­न­मा­त्म­स्व­रूपं श्रुतिषु प्रसि­द्ध­म­स्ती­त्या­शंक्य तत्र प्रमा­ण­प्र­द­र्श­नार्थं ‘प्रकरणात्’ इत्यनेन परिगृहीतमपि हेतुं श्रुङ्ग­ग्रा­हि­क­यो­पा­दाय दर्शयति –

स्थित्यदनाभ्यां च ॥७॥

द्युभ्वा­द्या­य­तनं प्रकृ­त्याऽऽ­म्नाते ‘द्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्व­त्त्य­न­श्न­न्नन्यो अभिचाकशीति’(मु.३.१.१) इति स्थित्यदने निर्दिश्येते । ‘अनश्नन्’ इत्यौदासीन्येन स्थितिः , ‘अत्ति’ इति कर्मफलादनम् , आभ्यां स्थित्यदनाभ्यां कर्म­फ­ला­त्तु­स्स­का­शा­द­न्य­स्या­स­ङ्गो­दा­सी­न­चै­त­न्य­स्व­रू­पस्य सिद्धे­स्त­त्रा­त्म­श­ब्द­प­र्य­व­सा­ना­दि­व­र्णनं युक्तमेव । ननु ‘अनश्नन्नन्यः’ इति सविशेषस्य परमेश्वरस्य निर्देशः किं न स्यात् ? उच्यते – पैङ्गिरहस्य ब्राह्मणेन मन्त्रोऽयमित्थं व्याख्यातः – ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् , अनश्नन्नन्यो अभिचाकशीतीति क्षेत्रज्ञः’ इति । सत्व­क्षे­त्र­ज्ञ­श­ब्दा­वपि तत्रैव व्याख्यातौ ‘तदेतत्सत्वं येन स्वप्नं पश्यति । अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः’ इति । एव­म­त्तॄ­न­श्न­तो­र­न्तः­क­र­ण­शु­द्ध­जी­व­रू­प­त­याऽ­न्यत्र व्याख्या­त­त्वा­द­न­श्न­न्नी­श्वर इति वक्तुं न युक्तम् ।

ननु जीवेश्वरपर एवायं मन्त्रः ; अनेन तुल्यार्थतया प्रत्य­भि­ज्ञा­य­माने ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः’(मु.३.१.२) इत्य­न­न्त­र­मन्त्रे तयोः प्रतिपादनात् । अस्य खल्वयमर्थः – समाने वृक्षे जीवेश्वरसाधारने शरीरे निमग्नः पुरुषः अनीशया अनीश्वरया प्रकृत्या परवशीकृतो मुह्यन्नविवेकं प्राप्तः सन् शोचति । जुष्टं योग­मा­र्गै­र्नि­षे­वितं स्वस्मा­द­न्य­मी­शम् , अस्य ईशस्य इति महिमानं प्रसिद्धप्रकारं माहात्म्यं च यदा पश्यति , तदा वीतशोको भवतीति । अत्र पुरुषो जीव एव ग्राह्यः , न त्वचे­त­न­म­न्तः­क­र­णम् । न हि तत्र पुरुषश्रुतेः , ‘शोचति’ ‘मुह्यमानः’ ‘पश्यति’ ‘वीतशोकः’ इति विशेषणानां वा सम्भवोऽस्ति । अन्य­स्त्वी­श­श­ब्दो­क्त­त्वा­दी­श्वर एव ।

अपि चास्मिन्नेव मन्त्रे भोक्तृ­त्वा­भो­क्तृ­त्व­श्र­व­णा­द­प्ययं जीवेश्वरपरः । न ह्यन्तःकरणस्य भोक्तृत्वं जीवस्य देह­प­रि­ष्व­ङ्ग­द­शा­या­म­भो­क्तृत्वं वोपपद्यते । पैङ्गि­श्रु­त्या­मपि सत्व­क्षे­त्र­ज्ञ­श­ब्दाभ्यां जीवे­श्व­रा­वे­वो­च्येते;
’न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृ­ति­जै­र्मुक्तं यदेभिः स्यात्त्रि­भि­र्गुणैः’ ॥
(भ.गी.१८.४०)
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मेति चोच्यते’ ॥
इत्यादिस्मृतिषु तयोः सत्त्व­क्षे­त्र­ज्ञ­प­द­प्र­यो­ग­द­र्श­नात् । ‘येन स्वप्नम्’ इत्यत्र न करणे तृतीया, यतः स्वप्न­दृ­ष्टि­क­रणे , अन्तःकरणे सत्त्वशब्दः स्यात् किं त्वित्थंभावे । ततश्च येन जीवेन विशिष्टः परमेश्वरः स्वप्नं पश्यति स जीवः सत्त्व­मि­त्य­र्थोऽस्तु ; स्वप्न­द्र­ष्टृ­त्वस्य जीवगतस्यापि जीवद्वारा पर­मा­त्म­वि­शे­ष­ण­त्वो­प­पत्तेः । ‘काठिन्यवान् यो बिभर्ति’ इत्यत्र पृथिवीद्वारा काठिन्यस्य तद्वि­शे­ष­ण­त्व­द­र्श­नात् । शारी­र­स­ब्द­श्चा­न्त­र्या­मि­तया सर्वशरीरेषु स्थिते पर­मा­त्म­न्यु­प­प­द्यत एवेति चेत् –

अत्र ब्रूमः – ‘समाने वृक्षे’ इति मन्त्रो नोक्तरीत्या जीवेश्वरपरः , अनीशया प्रकृत्येति विशे­ष्या­ध्या­हा­र­गौ­र­वात् , किन्तु तस्यैवमर्थः – समाने वृक्षे – देहाख्ये , निमग्नः – तादा­त्म्या­ध्या­सेन निम­ग्न­व­द­वि­वि­क्त­ता­मा­पन्नः पुरुषो भोक्ता जीवो मुह्यमानः शरी­रा­दि­ग­तै­र­न­र्थ­जा­तै­रा­त्मा­न­मेव तद्वन्तं मन्यमानः सन् अनीशया अनैश्वर्येण ‘कृशोऽ­ह­म­न्धोऽ­ह­मस्मि, किं मे जीवितेन’ इत्येवं दीन­भा­वे­ना­ध्या­स­मू­लेन शोचति । यदा तु देहा­दि­भ्योऽ­न­र्था­श्र­ये­भ्योऽन्यं अत एव ईशं देहा­दि­ता­दा­त्म्या­ध्या­स­मू­ल­दै­न्या­ना­स्प­द­मा­त्मा­न­मिति महिमानं अस्य प्रसिद्धप्रकारं महत्त्वं च त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्य­रूपं पश्यति , तदा वीतशोको भवतीति । अथवा वीतशोकः सन् अस्य महिमानं तद्भावम्, इति प्राप्नोति इति । ‘इति’ इत्याख्याते ‘संज्ञापूर्वको विधिरनित्यः’(व्या.प ६४) इति गुणाभावः । ‘ईश ऐश्वर्ये’(या.पा.१०२०) इति धातोः ‘गुरोश्च हलः’(पा.सू. ३.३.१०३) इति स्त्र्यधि­का­र­वि­हि­ता­का­र­प्र­त्य­या­न्तेन ईश­श­ब्दे­नै­श्व­र्य­वा­चिना नञः समासे सत्य­नी­श­ये­ति­रू­पम् । न च प्राधान्येन पुरुषस्यान्यं प्रति प्रति­यो­गि­त्व­स­म्भवे अप्राधान्येन प्रस्तुतस्य सरीरस्य तत्प्र­ति­यो­गि­क­त्व­क­ल्प­न­म­यु­क्त­मिति वाच्यम् । यद्विषयभ्रमस्य शोक­नि­दा­न­त्व­म­भि­प्रेत्य समाने वृक्षे निमग्नो मुह्यमान इति च विशेषणं कृतं तद्वि­रु­द्ध­द­र्श­नस्य शोक­वि­ग­म­हे­तु­त्व­मि­त्या­श­ये­ना­न्य­त्व­वि­शे­ष­ण­मिति ह्येषां विशेषणानां साफ­ल्य­मु­प­पा­द­नी­यम् । न च ‘समाने वृक्षे निमग्नः’ इति ‘मुह्यमानः’ इति च जीवे­श्व­रा­भे­द­भ्रम उक्त इति वक्तुं शक्यम् , येन जीवा­दी­श्व­र­स्या­न्यत्वं तद्विरुद्धं स्यात् । शक्यं तु देह­ता­दा­त्म्या­ध्या­स­स्त­द्ध­र्मा­ध्या­सश्च उक्त इति वक्तुम् । अतोऽ­र्था­नु­सा­रे­णा­न्य­त्व­स्या­प्र­धा­न­प्र­ति­यो­गि­कत्वं न दोषः । अत एव ‘अन्यमीशम्’ इत्यस्य स्वात्मानमिति विशे­ष्या­ध्या­हा­रोऽपि न दोषः , स्वानै­श्व­र्य­प्र­यु­क्त­शो­कस्य पुरु­ष­स्या­न्यै­श्व­र्य­द­र्श­नेन वीत­शो­क­त्वा­प­त्ति­व­र्ण­ना­यो­गाच्च । तस्मा­द­न­न्त­र­म­न्त्रा­नु­सा­रेण ‘द्वा सुपर्णा’ इति मन्त्रस्य जीवे­श्व­र­प­र­त्व­मिति तावदयुक्तम् ।

नापि भोक्तृ­त्वा­भो­क्तृ­त्व­श्र­व­णा­त्त­दु­भ­य­प­र­त्व­मिति युक्तम् ; आध्या­सि­क­दे­ह­प­रि­ष्व­ङ्ग­द­शा­या­मपि वस्तुतो निर्विशेषस्य जीवस्य जला­ध्या­स­द­शा­या­मपि मरु­म­री­चि­का­ना­म­ना­र्द्र­त्व­व­द­भो­क्तृ­त्व­स्यो­प­पत्तेः , अन्तःकरणस्य च वस्तुतो भोक्तृ­त्वा­भा­वेऽपि तत्रारोप्य भोक्तृ­त्व­व्य­प­दे­शो­प­पत्तेः । न ह्ययं मन्त्रो वस्तुतो भोक्तृत्वं प्रतिपादयति , किन्तु जीवस्य भोक्तृत्वाभावं प्रतिपादयितुं प्रवृत्तः सन् का तर्हि भोक्तृ­त्वा­नु­भ­वस्य गति­रि­त्या­का­ङ्क्षा­या­म­न्तः­क­र­ण­सं­व­ल­नो­पा­धि­क­मा­ध्या­सिकं जीवस्य भोक्तृ­त्व­मु­पा­धि­म­स्तके निक्षिपति । वस्तुविचारणायां त्वचेतनत्वात् , कूटस्थत्वाच्च नान्तःकरणं , न वा चैतन्यं भोक्त्रिति परमार्थः , व्यवहारदृष्ट्या तु ‘‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः’(क.३.४) इति श्रुते­रा­ध्या­सि­का­न्तः­क­र­णा­दि­ता­दा­त्म्या­प­न्न­ञ्चै­तन्यं भोक्तृ । अयं चार्थः ‘समाने वृक्षे’ इत्य­न­न्त­र­मन्त्रे स्फुटीकृतः ।

यत्तु ‘येन स्वप्नं पश्यति’ इत्यत्र इत्थंभावे तृतीयेति , तत्तुच्छम् ; उपपदविभक्तितः कार­क­वि­भ­क्ते­र्ब­ली­य­स्त्वेन (व्या.प.६९) तस्याः कर­णा­र्थ­तौ­चि­त्यात्, सत्त्वशब्देन जीवस्य विवक्षितत्वे ‘यः स्वप्नं पश्यति’ इत्यार्जवेन वक्तव्यतया वक्रो­क्त्य­यो­गाच्च । न हि गन्धवत्त्वेन पृथिव्यां लिलक्षयिषितायां ‘गन्धवती पृथिवी’ इत्युक्तिं विहाय ‘यद्द्वारा परमात्मा गन्धवान्, सा पृथिवी’ इत्यु­क्ति­र्यु­ज्यते । शारीर ईश्वर इत्यप्ययुक्तम् ; ‘अनुपपत्तेस्तु न शारीरः’(ब्र.सू.१.२.३) इत्यादिषु शारीरशब्दस्य जीव एव प्रसिद्धत्वात् । यद्यपि ‘अस्य गोर्द्वि­ती­योऽ­न्वे­ष्टव्यः’ इत्या­दि­गु­हाऽ­धि­क­र­ण­द­र्शि­त­न्या­येन ‘द्वा सुपर्णा’ इत्यत्रापि चेतनस्य द्वितीयेन चेतनेन भाव्यम् , तथाऽपि ‘येन स्वप्नम्’ इत्या­दि­व्या­ख्या­न­रू­प­श्रु­ति­वि­रो­धान्न तादृक् न्यायोऽ­त्रा­व­त­रति ।

अत एव तस्मिन्नधिकरणे श्रीभ­ग­व­त्पा­दै­र­स्यापि मन्त्रस्य तन्न्या­य­वि­ष­यत्वं कृत्वा­चि­न्ता­रू­पेण दर्शयित्वा ‘अपर आह’ इत्यादिना कृत्वा­चि­न्तो­द्घा­टनं कृतम् । तस्मात् ‘द्वा सुपर्णा’ इति मन्त्रोऽ­ह­ङ्का­र­वि­विक्ते निर्वि­शे­ष­चि­दे­क­रसे प्रत्यगात्मनि प्रमाणमिति निरवद्यम् । सूत्रगतेण चकारेण ‘अथा­तोऽ­ह­ङ्का­रा­देशः’(छा.७.२५.२) इत्या­त्मो­प­दे­शोऽ­न्य­च्चै­ता­दृशं वाक्यजातमिह प्रमा­ण­त्वे­ना­नु­सं­हि­तम् । अत्र प्रकरणं पिधाय कृत्वा­चि­न्ता­रू­पे­णा­धि­क­र­ण­प्र­वृ­त्ते­र्वि­ष­य­वा­क्य­वा­क्य­स्था­त्म­श­ब्दस्य स्वभा­वा­दि­सा­धा­र­ण्या­च्चा­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता बोद्धव्या ॥१.३.७॥

इति द्युभ्वा­द्य­धि­क­र­णम् ॥१॥

भूमा सम्प्र­सा­दा­द­ध्यु­प­दे­शात् ॥८॥

इदमामनन्ति छन्दोगाः – ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूम यत्रा­न्य­त्प­श्य­त्य­न्य­च्छृ­णो­त्य­न्य­द्वि­जा­नाति तदल्पम्’(छा.७.२४.१) इति । अत्र संशयः – भूमा प्राणः , परमात्मा वेति । कुतोऽयं संशय इति चेत् – उच्यते । भूमशब्दस्तावत् बहु­श­ब्दा­दि­म­नि­च्प्र­त्यये पृथ्वादिविहिते सति ‘बहोर्लोपो भू च बहोः’(पा.सू.६.४.१५८) इति प्रकृ­ति­प्र­त्य­य­यो­र्वि­कारे च सति निष्पन्नो बहुत्ववाची । बहुत्वं चात्र वैपुल्यम् , न संख्याविशेषः । बहुशब्दस्य ‘बहुषु बहुवचनम्’(पा.सू.१.४.२१) इत्यादौ संख्यायामिव ‘बह्वन्नं पच्यते यत्र’ इत्यादौ वैपुल्येऽपि प्रयोगदर्शनात् । इह च ‘यत्रान्यत् पश्यति’ इत्युत्तरवाक्ये च बहु­त्व­सं­ख्या­यु­क्त­स्या­प्य­ल्पस्य भूत­प्र­ति­यो­गि­त्वे­नो­पा­दा­नात्, नामा­दि­भ्योऽ­धि­क­सं­ख्या­हीने वागादौ ‘वाग्वाव साम्नो भूयसी’(छा.७.२.१) ‘आकाशो वाव तेजसो हूयान्’(छा.७.१२.१) इत्यादौ बहु­श­ब्द­नि­ष्प­न्न­भू­य­श्श­ब्द­प्र­यो­ग­द­र्श­नाच्च । उक्तहेतुभ्यां वैपु­ल्या­श्र­य­ध­र्मि­प­र्य­न्त­श्चायं भूमशब्दो न वैपुल्यमात्रपरः । ‘यो वै भूम तदमृतम्’(छा.७.२४.१) ‘यो वै भूमा तत्सुखम्’(छा.७.२३.१) इति धर्मि­सा­मा­ना­धि­क­र­ण्याच्च । यद्यपि भूमशब्दो भाव­प्र­त्य­या­न्त­त्वात् ‘तत्सि­द्धि­जा­ति­सा­रू­प्य­प्र­शंसा भूम­लि­ङ्ग­स­म­वा­यात्’(जै.सू.१.४.२८) ‘न वक्तु­रा­त्मो­प­दे­शा­दिति चेद­ध्या­त्म­स­म्ब­न्ध­भू­मा­ह्य­स्मिन्’(ब्र.सू.१.१.२९) ‘सम्भूयैव सुखानि चेतसि परं भूमानमातन्वत’ इत्यादिषु धर्मे प्रयुक्तत्वाच्च धर्मवाचकः , तथापि ‘स य एषोऽ­णि­मै­त­दा­त्म्य­मिदं सर्वम्’(छा.६.८.७) ‘धातुः प्रसा­दा­न्म­हि­मा­न­मी­शम्’ इत्या­दा­व­णि­म­म­हि­मा­दि­श­ब्द­स्येव लक्षणया धर्मि­प­र्य­न्तत्वं नानुपपन्नम् । एवं च सामान्यतो भूमा विपुल इत्यवसिते तद्वि­शे­षा­का­ङ्क्षायां ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इति प्राणप्रकरणात् प्राणो भूमेति प्राप्नोति , ‘तरति शोकमात्मवित्’(छा.७.१.३) इति पर­मा­त्म­प्र­क­र­णाच्च परमात्मा भूमेति ; ततो विशेषानवधारणात् संशयः ।

ननु परमात्मन एव प्रकरणं ‘तरति शोकमात्मवित्’(छा.७.१.३) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्यु­प­क्र­मो­प­सं­हा­रै­क­रू­प्यात् । प्राणस्य तु सन्निधानमात्रम् । प्रक­र­ण­स­न्नि­धा­नाभ्यां च प्रब­ल­दु­र्ब­लाभ्यां संशयो न युक्त इति चेत् , उच्यते । पूर्वपक्षे प्राणस्यैव प्रकरणम् परमात्मनः सन्निधानमात्रम् । सिद्धान्ते परमात्मन एव प्रकरणम् , प्राणस्य सन्निधानमात्रम् । एतच्च पूर्व­प­क्ष­सि­द्धा­न्तयोः स्फिटीकरिष्यते । एवं च प्राणः प्रकरणीति स भूम­श­ब्दो­क्त­वि­पु­ल­वि­शे­ष­तया व्यवतिष्ठतामुत परमात्मा प्रकरणीति स एव तथा व्यवतिष्ठतामिति युक्तः संशयः ।

तत्र पूर्वपक्षवादी मन्यते – ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इत्यारभ्य प्राणवायोः प्रकरणमिति त्तावदभ्युपेयम् ; प्राणशब्दस्य तत्र रूढत्वात् । न च ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यारभ्य प्रवृत्ते भूमप्रतिपादने तद्वि­च्छे­दोऽस्ति । पूर्वं नामा­दि­प्रा­ण­प­र्य­न्तेषु पूर्व­पू­र्व­प्र­क­र­णा­व­सा­नो­त्त­रो­त्त­र­प्र­क­र­णा­र­म्भ­म­ध्य­दृ­ष्टयोः प्रश्न­प्र­ति­व­च­न­यो­रि­हा­द­र्स­नात् । इहापि प्रक­र­णा­न्त­र­वि­व­क्षायां ‘अस्ति भगवो नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१)‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादिवत् ‘अस्ति भगवः नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’ इत्यादिवत् ‘अस्ति भगवः प्राणात् भूयः’ इति ‘अदो वाव प्राणाद्भूयः’ इति प्रश्नप्रतिवचने निबध्येयाताम् । न च ते निबद्धे दृश्येते । प्रत्युत ‘अतिवाद्यस्मीति ब्रूया­न्ना­प­ह्नु­वीत’(छा.७.१५.४) इति प्राण­वि­द्व्र­त­त्वे­नो­क्त­स्या­ति­वा­दि­त्वस्य ‘एष तु वा अतिवदति यः सत्येनातिवदति’(छा.७.१६.१)इत्यनुकर्षणात् प्राण­प्र­क­र­णा­नु­वृ­त्ति­रे­वा­व­सी­यते ।

न च – तत्र तुशब्देन , सत्यशब्देन च प्राणा­ति­वा­दि­नोऽ­न्य­स्त­तोऽ­धिकः सत्यातिवादी प्रतीयते । सत्यशब्दार्थश्च परमात्मेति स एव भूमा न प्राणः ; प्राण­प्र­क­र­ण­वि­च्छे­दात् , तत्प्र­क­र­णा­नु­वृ­त्ते­श्चेति वाच्यम् । तत्र प्रकृतः प्राणातिवाद्येव नामा­द्य­ति­वा­दि­नोऽ­धिकः प्रतिपाद्यते इत्युपपत्तेः । ‘प्राणा वै सत्यम्’(बृ.२.१.२०) इत्यादौ प्राणविषयस्यापि सत्यशब्दस्य श्रवणात् । ‘एष तु वा अग्निहोत्री यः सत्यं वदति’ इत्युक्तौ प्रसि­द्धा­ग्नि­हो­त्रिण इव प्रस्तु­त­प्रा­णा­ति­वा­दिन एव सत्य­व­द­न­रू­पा­ङ्ग­वि­धि­रि­त्यु­प­प­त्तेश्च । तथा सति ‘यःसत्यं वदति’ इति निर्देशः स्यात् ‘यः सत्येनातिवदति’ इति निर्देशो न स्यादिति चेत् , न । ‘यः सत्येनातिवदति’ इत्यनेन निर्दि­ष्ट­स्या­र्थस्य ‘यदा वै विजानाति अथ सत्यं वदति’(छा.७.१७.१) इत्या­दि­पु­न­र्नि­र्दे­श­द­र्श­नेन तस्यापि तत्रैवार्थे पर्यवसानस्य वक्तव्यतया सत्येन सत्यवचनेन सह योऽति­व­द­ती­त्य­र्थ­क­ल्प­नो­प­पत्तेः ।

सत्यशब्दस्य सत्यवचनपरत्वे तस्य लोक­प्र­सि­द्ध­त्वात् ‘सत्यं त्वेव विजि­ज्ञा­सि­त­व्यम्’ इति ‘सत्यं भगवो विजिज्ञासे’ इति चानुपपन्नं स्यादिति चेत् , न । लोक­प्र­सि­द्धे­ष्वपि विज्ञा­न­म­ति­श्र­द्धा­नि­ष्ठा­कृ­तिषु ‘विज्ञानं त्वेव विजिज्ञासितव्यं विज्ञानं भगवो विजिज्ञासे’(छा.७.१७.१) इत्या­दि­गु­रु­शि­ष्य­व­च­न­द­र्स­नेन तद्वत् सत्यवचनेऽपि तयोरुपपत्तेः । ननु विज्ञानादिषु ‘विजि­ज्ञा­सि­त­व्यम्’ इत्यस्य सम्पा­द­नी­य­मि­त्यर्थः ; अग्रे ‘यदा वै मनुतेऽथ विजानाति , यदा वै श्रद्धधात्यथ मनुते’(छा.७.१८.१) इत्या­दि­त­दु­पा­य­की­र्त­न­द­र्श­ना­दिति चेत् ; तर्हि सत्येऽपि तस्य स एवार्थोऽस्तु । अग्रे ‘यदा वै विजानाति’(छा.७.१७.१) इत्यादिना तदु­पा­य­की­र्त­न­द­र्श­ना­दिति तुल्यम् । तस्मात् प्राण­प्र­क­र­णा­वि­च्छे­दात् स एव भूमेति युक्तम् । प्राणे च ‘यत्र नान्यत् पस्यति’(छा.७.२४.१) इत्यादि भूम्नो लक्षणं तत्प्रधानायां सुषु­प्ता­व­स्थायां दर्श­ना­दि­व्य­व­हा­र­नि­वृ­त्ति­द­र्श­ना­दु­प­प­न्नम् । यत्तु भूम्नः सुखत्वममृतत्वं च , श्रुतं तदप्यविरुद्धम् । ‘अत्रैष देवः स्वप्नान्न पश्य­त्य­थ­त­दै­त­स्मिन् शरीरे सुखं भवति’(प्र.४.६) इति प्राणप्रधानायां सुषु­प्ता­व­स्थायां सुखश्रवणात्, ‘प्राणो वा अमृतम्(बृ.१.६.३) इति श्रवणाच्च ।

नन्वेवं प्राणो भूमेत्युपगमे ‘श्रुतं ह्येव मे भग­व­द्दृ­शे­भ्य­स्त­रति शोकमात्मवित्’(छा.४.९.३) ति प्रश्नमुपक्रम्य प्रवृ­त्त­मा­त्म­प्र­क­रणं विरुध्येतेति चेत् , न । तदुत्तरे ‘नामोपास्व’ ,’वाचमुपास्व’ इत्या­द्य­ना­त्म­वि­द्या­वि­धी­ना­मेव दर्शनेन प्रश्नस्यापि तद्विषयत्वस्य वक्तव्यतया आत्म­प्र­क­र­णा­सिद्धेः । अनात्मनोऽपि प्राणस्याग्रे ‘प्राणो हि पिता प्राणो माता’(छा.७.१५.१) इत्यादिना सर्वा­त्म­त्वा­भि­धा­नात् , तदभिप्रायेण ‘आत्मवित्’ इत्युपक्रमस्य ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपसंहारस्य चोपपत्तेः । नामा­दि­वि­द्या­वि­धि­त्सायां प्राणोपक्रमोऽपि न युक्त इति चेत् , न । नामा­द्यु­पा­स­ना­ना­मेव ‘स यो नाम ब्रह्मे­त्यु­पास्ते’(छा.७.१.५) इत्या­दि­फ­ला­र्थ­वा­द­ग­त­वि­शे­ष­श्र­व­णा­नु­सा­रेण नामादिषु प्रतीकेषु ब्रह्म­श­ब्दो­दि­त­प्रा­ण­दृ­ष्टि­रू­प­तया तदुपपत्तेः । प्राणो ह्यस्मिन् प्रकरणे अर­ना­भि­दृ­ष्टा­न्तो­प­न्या­स­पू­र्वकं सर्व­प्र­ति­ष्ठा­त्वेन , सर्वात्मत्वेन च ब्रह्म­लि­ङ्गे­नो­प­रि­सं­की­र्त्यते । न च तत्संकीर्तनं नामादिष्विव प्राणेऽपि पृथ­ग्वि­द्या­वि­धा­ना­र्थम् ; ‘यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’(छा.७.१.५) इत्यादिना नामा­द्यु­पा­स­न­फ­ल­सं­की­र्त­न­वत् प्राण­वि­द्या­सं­की­र्त­न­स्या­द­र्श­नात् । तस्मात् पेराणे ब्रह्म­गु­ण­की­र्तनं तद्वि­शि­ष्त­प्रा­ण­दृष्ट्या नामा­द्यु­पा­स­ना­सि­द्ध्य­र्थ­मि­त्येव व्यवतिष्ठते । एवं च ‘स यो नाम ब्रह्मे­त्यु­पास्ते’ इत्यादिषु प्राणे ब्रह्म­श­ब्द­प्र­यो­गोऽग्रे संकी­र्त­यि­ष्य­मा­ण­ब्र­ह्म­गु­ण­वि­शि­ष्ट­प्रा­ण­दृ­ष्टि­ला­भार्थ इति न तस्य काचिदनुपपत्तिः । नापि तस्मि­न्ना­त्म­श­ब्द­प्र­यो­गा­नु­प­प­त्ति­रिति सर्वं समञ्जसम् ।

यद्वा नामादिषु ब्रह्म­दृ­ष्टि­वि­धि­रे­वास्तु । आत्मशब्दोऽपि तद्विषयोऽस्तु । न चैतावता दृष्टिविशेषणतया उपसर्जनस्य तस्य प्रकरणित्वम्, किन्तु तद्दृ­ष्ट्यो­पा­स­नी­य­तया प्रधानभूतानां नामादीनामेव । सन्निधानमात्रं तु तस्य स्यात् । तत्तु सदपि प्रक­र­णा­द्दु­र्ब­लम् । अथवाऽस्तु परमात्मनो महाप्रकरणम् , तथाऽपि ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इत्या­र­भ्या­वा­न्त­र­प्र­क­रणं तावदभ्युपेयम् । तच्च ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्या­दा­व­प्य­ति­वा­दि­त्व­प्र­त्य­भि­ज्ञा­ना­द­नु­व­र्त­मानं न वार्यते । अतस्तस्य ‘अथा­तोऽ­ह­ङ्का­रा­देशः’(छा.७.२१.१) इत्ये­त­त्प­र्यन्ते भूम­नि­रू­प­णेऽ­प्य­नु­वृ­त्त­त्वात् भूमा प्राण एवेति न भूम­ल­क्ष­ण­मु­खे­ना­द्वि­ती­य­ब्र­ह्म­सिद्धिः । महाप्रकरणिनस्तु परमात्मनः कामं ‘अथात आत्मादेशः’(छा.७.२५.२) इत्यारभ्य निरूपणमस्तु । भूम्न एव परमात्मत्वे ‘स एवाधस्तात्’(छा.७.२५.२) इत्यादिना तस्य सर्व­ग­त­त्व­नि­रू­प­णा­न­न्तरं ‘आत्मै­वा­ध­स्तात्’(छा.७.२५.२) इत्यादिना पुनः सर्व­ग­त­त्व­नि­रू­प­ण­मपि पुन­रु­क्त­त­याऽ­नु­प­पन्नं स्यात् ।

ननु ‘अथात आत्मादेशः’(छा.७.२५.२) इत्यारभ्य जीवोपदेशः प्रकरणिनो भूम्न­स्त­द­न­न्य­त्व­प्र­द­र्श­नार्थः । उभयोरपि हि ‘स एवेदं सर्वम्’(छा.७.२५.१) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इति सार्वा­त्म्य­मु­प­दि­ष्टम् । अत उभयोर्भिन्नयोः सार्वा­त्म्या­यो­गा­द­भेदः सिद्ध्यतीति चेत् ; न । ‘अथा­तोऽ­ह­ङ्का­रा­देशः’(छा.७.२५.१) इत्यारभ्य ‘अहमेवेदं सर्वम्’ इत्यन्तेन जीव­स्यो­प­दि­ष्ट­तया पुन­स्त­दु­प­दे­श­वै­य­र्थ्यात् । अतः ‘स एवेदं सर्वम्’ इत्यन्तः प्राणोपदेशः । ‘अथा­तोऽ­ह­ङ्का­रा­देशः’ इत्यारभ्य जीवोपदेशः । ‘अथात आत्मादेशः’ इत्यारभ्य महाप्रकरणिनः प्रमात्मन उपदेशः । तस्माद्यथा पर­मा­त्म­प्र­क­र­णा­नु­वृत्त्या द्युभ्वा­द्या­य­तनं परमात्मा, एवं प्राण­प्र­क­र­णा­नु­वृत्त्त्या भूमा प्राण इति ।

एवं प्राप्ते सिद्धान्तः – भूमा परमात्मा , न प्राणः ; प्राणा­दू­र्ध्व­मु­प­दे­शात् । न च तदसिद्धिः ; ‘एष तु वा’(छा.७.१६.१) इत्यादौ तुश­ब्द­स­त्य­श्रु­तिभ्यां प्राणा­ति­वा­दि­नोऽ­न्यस्य ततोऽधिकस्य सत्या­ति­वा­दि­ता­प्र­तीतेः । न च तत्र प्राणातिवादिन एव नामा­द्य­ति­वा­दिभ्यो विशेषप्रदर्शनम् ; प्राण इव नामा­दि­ष्व­ति­वा­दि­नोऽ­नुक्तेः , सत्यशब्दस्य परमार्थे ब्रह्मणि मुख्यस्य तद्विषयत्वे सम्भवति प्राण­वि­ष­य­त्व­क­ल्प­ना­यो­गाच्च । अत एव प्राणातिवादिनः सत्य­व­च­न­रू­पा­ङ्ग­वि­धा­य­क­त्व­क­ल्प­न­म­प्य­यु­क्तम् ; परमार्थे रूढस्य सत्यशब्दस्य तद्विषये वचसि लक्षणया प्रयोगोपपत्तौ तत्र तस्य शक्त्य­न्त­र­क­ल्प­ना­यो­गात्, ‘सत्येन’ इति तृतीयाया ब्रह्म­ण्य­ति­व­द­न­नि­मि­त्त­ता­रू­प­क­र­ण­त्व­प­र­तया कार­क­वि­भ­क्ति­त्वो­प­पत्तौ सहा­र्थ­वि­ष­य­त­यो­प­प­द­वि­भ­क्ति­त्व­क­ल्प­ना­यो­गाच्च । न चाग्रे ‘अथ सत्यं वदति’ इत्या­दि­द­र्श­ना­त्तथा कल्प्यम् ; अभ्य­स्ता­ति­व­द­नो­प­क्र­म­ग­त­स­त्य­प­द­रू­ढ्य­नु­सा­रेण ‘सत्यं वदति’ इत्यस्यापि पर­ब्र­ह्मा­ति­व­द­न­प­र­त्वात् । सत्यस्यातिवदने निमि­त्त­त्व­वि­व­क्षया तृतीयावत् तद्वि­ष­य­त्व­वि­व­क्षया द्वितीयाया अप्युपपत्तेः ।

‘एष तु वा अग्निहोत्री’ इति न्यायस्त्वत्र न प्रवर्तते । तत्र द्रव्य­दे­व­ता­न्त­रा­भा­वे­ना­ग्नि­हो­त्रा­न्त­रा­प्र­तीतेः तुश­ब्द­स्वा­र­स्य­भङ्गः, इह तु प्रकृ­ता­ति­वा­द­नि­मि­त्त­प्रा­ण­व्य­ति­रि­क्त­स­त्य­श­ब्दो­क्त­प­र­ब्र­ह्म­रू­पा­ति­वा­द­नि­मि­त्त­प्र­तीतेः तत्स्वा­र­स्य­भङ्गो न युक्तः । तुशब्देन ह्यति­वा­द्य­न्त­र­म­व­सी­यते , सत्यशब्देन निमित्तान्तरम् , कुत­स्त­दु­भ­य­स्वा­र­स्य­भ­ङ्गेन प्रकृ­ता­ति­वा­द­वि­ष­य­त्व­क­ल्प­ना­व­काशः ? तस्मात् तुश­ब्द­प्र­त्या­यि­ता­ति­वा­द्य­न्त­र­नि­मि­त्त­त­यो­पा­त्त­स­त्य­श­ब्दो­दितः परमात्मेति तत्प्र­क­र­णा­वि­च्छे­दात् भूमा परमात्मैव ; ‘तरति शोकमात्मवित्’(छा.७.१.३) इति पर­मो­प­क्र­म­प्र­स्ता­वि­त­प­र­मा­त्म­प्र­क­र­णा­वि­च्छे­दाच्च । न चाग्रे नामादीनां तदुपासनानां चोप­दे­शा­दा­त्म­प्र­क­र­णा­सिद्धिः ; नामा­द्यु­त्त­रो­त्त­रो­त्कृ­ष्ट­व­स्तू­प­दे­शानां पर­मो­त्कृ­ष्ट­ब्र­ह्म­प्र­ति­प­त्त्य­र्थ­त्वेन , तेषु ब्रह्म­दृ­ष्टि­वि­धीनां गोदो­ह­न­व­दा­श्रि­त्य­वि­धि­रू­प­त्वेन च तत्प्र­क­र­णा­वि­रो­धि­त्वात् । न च तथाऽपि सन्निधिना , अवान्तरप्रकरणेन वा ‘एष तु वा’(छा.७.१६.१) इत्यादेः प्राणान्वयः शङ्कनीयः । आत्मप्रकरणेन , तुशब्देन, सत्यश्रुत्या च तद्बाधात्, अभिक्रमणवत् पूर्वो­त्त­र­स­न्दं­शा­भा­वे­ना­वा­न्त­र­प्र­क­र­णा­सि­द्धेश्च । न च भूम्नः परमात्मत्वे ‘स एवाधस्तात्’(छा.७.२५.१) इत्या­द्यु­प­दे­शा­न­न्तरं ‘आत्मै­वा­ध­स्तात्’(छा.७.२५.२) इत्यु­प­दे­श­वै­य­र्थ्यम् । भूम्नः स इति परोक्षनिर्देशेन मिथ्या­प­रो­क्षा­द्द्र­ष्टु­र­न्य­त्व­शङ्का स्यादिति तद­न­न्य­त्व­प्र­द­र्श­ना­र्थ­त्वात् ।

न चाहङ्कारोपदेशेन , आत्मोपदेशेन वा तद­न­न्य­त्व­प्र­द­र्श­न­सि­द्धा­व­न्य­त­र­वै­य­र्थ्यम् । परमात्मनो हि जीवे­ना­न्तः­क­र­णा­व­च्छि­न्नेन तदु­पा­धि­क­र्तृ­त्व­भो­क्तृ­त्व­प­रि­च्छे­दा­दि­मता अहंपदवाच्येन रूपेणैक्यं नाभिमतम् , किन्तु ततो निष्कृष्टेन शुद्धे­ना­हं­प­द­ल­क्ष्येण रूपेण । तच्च न लोकतो विदितम् , किन्तु श्रुत्यैव । तदपि रूपं प्रत्याय्य तदैक्यं भूम्नः प्रदर्शनीयम् । तत्र यदि केव­ल­म­ह­ङ्का­रा­देशः , आत्मादेश इति वा क्रियेत, तदा लोके अहं­प­द­वा­च्य­स्यै­वा­ह­म­र्थ­त्वे­ना­त्म­त्वेन च प्रसि­द्ध­त्वा­त्त­दा­देश एवायमिति भ्रान्तिः स्यात् । तत्र ‘अहमेवाधस्तात्’(छा.७.२५.१) इत्या­दि­क­म­नु­प­प­न्न­मि­त्यपि शङ्का स्यात् । अतः स्थूला­रु­न्ध­ती­न्या­येन प्रथममहं पदवाच्येनैक्यं प्रदर्श्य तत्प्र­स­क्त­श­ङ्का­नि­रा­क­र­णेन वस्तु­त­त्त्वा­व­बो­ध­नाय तदनन्तरं तन्नि­ष्कृ­ष्ट­शु­द्ध­रू­प­वि­वे­च­न­पू­र्वकं तदैक्यं प्रद­र्श­यि­तु­मा­त्मा­देश इति न कस्यापि वैयर्थ्यम् । अत एव ‘अह­ङ्का­र­स्या­त्मै­क­त्वेन प्रत्य­क्ष­सि­द्धस्य पृथगुपदेशो भेदार्थः , भूमा­त्म­नो­र्भि­न्न­त्वेन प्रत्य­क्ष­सि­द्धयोः पृथगुपदेश ऐक्यार्थः , द्वयोः सार्वा­त्म्या­यो­गात्’ इति विवरणकारा वदन्ति ।

यदत्र चोदयन्ति – अह­म­र्था­द­न्य­स्या­त्मनो भूमा­ख्य­ब्र­ह्म­भि­न्न­त्वेन प्रत्य­क्ष­सि­द्ध­त्वात् तयोरुपदेशो भेदार्थः , अहमर्थस्य तु ब्रह्म­भि­न्न­त्वेन प्रत्य­क्ष­सि­द्ध­त्वा­त्त­यो­रु­प­देश ऐक्यार्थ इति वैपरीत्यमपि वक्तुं शक्यम् । सार्वा­म्यो­प­दे­स­श्चा­सिद्धः । ‘स एवेदं सर्वम्’(छा.७.२५.१) ‘अहमेवेदं सर्वम्’(छा.५.२.६) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपसंहाराणां ‘स एवाधस्तात्(छा.७.२५.१) इत्या­द्यु­प­क्र­मा­नु­सा­रेण सर्व­ग­त­त्व­प­र­त्वात् । सर्वगतत्वं च बहूनां सम्भवतीति न तत्सा­म­र्थ्या­दै­क्य­सिद्धिः । तत्सिद्धौ वा भूमा­त्मो­प­दे­शा­भ्या­मेव तत्सि­द्धि­स­म्भ­वेन मध्ये अह­ङ्का­रो­प­दे­श­वै­यर्थ्यं च इति ।

तत्रा­हं­का­रो­प­दे­श­वै­यर्थ्यं तावत् परिहृतम् ।यथा हि ‘अस्त्यरुन्धती नाम वसिष्टस्य पत्न्यति सूक्ष्म­ता­रा­रूपा’ इति वस्तु­वि­शे­ष­स­द्भा­व­मु­प­दिश्य ताराविशेषे तदभेदं बोधयितुकामः समी­प­व­र्ति­स्थू­ल­ता­रा­भि­भू­त­तया विवि­च्या­प्र­का­श­माने तस्मिन्नाहत्य तदभेदं बोधनीयो बोद्धुं न प्रभवेदिति प्रथमं तामेव स्थूलतारां ‘इय­म­ति­सू­क्ष्माऽ­रु­न्धती’ इत्युपदिश्य तत्र प्रस­क्त­सौ­क्ष्म्या­नु­प­प­त्ति­श­ङ्का­वा­र­णेन वस्तु­त­त्त्व­बो­ध­नार्थं ‘इयन्त्वति सूक्ष्माऽ­रु­न्धती’ इति स्थूल­ता­रा­वि­वे­च­नेन सूक्ष्म­ता­रा­वि­शेषं ग्राहयित्वा तत्रा­रु­न्ध­त्य­भे­द­मु­प­दि­श­तीति न तत्र स्थूल­ता­रो­प­दे­स­वै­य­र्थ्यम्; तद्विवेकेन सूक्ष्म­ता­रा­ग्र­ह­ण­सौ­क­र्या­र्थ­त्वात् ; एवमिहापीति ।

न च सार्वा­त्म्यो­प­दे­शा­सिद्धिः ; ‘स एवाधस्तात्’(छा.७.२५.२) इत्यु­प­क्र­मा­णा­म­प्य­व­धा­रणैः तद्व्य­ति­रि­क्त­व­स्त्व­भा­व­प्र­ति­पा­द­नेन सार्वा­त्म्य­प­र्य­व­सा­यि­त्वात् । नापि भूमा­ह­म­र्थो­प­दे­श­यो­रै­क्या­र्थत्वं, भूमा­त्मो­प­दे­श­यो­र्भे­दा­र्थत्वं चेति वैपरीत्यं वक्तुं शक्यम् ; अहमर्थोपदेशस्य स्थूला­रु­न्ध­ती­न्या­येन भूमा­त्मै­क्या­र्थ­त्व­व­र्ण­नया प्रमा­णा­न्त­रा­वि­रु­द्ध­न­य­न­स­म्भवे तत्क­र्तृ­त्व­भो­क्तृ­त्व­प­रि­च्छि­न्न­त्वा­दि­ग्रा­ह­क­प्र­मा­णा­न्त­र­वि­रु­द्ध­भू­मा­ह­म­र्थै­क्या­र्थ­क­त्व­क­ल्प­ना­यो­गात् । भूमा­त्म­नो­रै­क्य­स्या­प्र­स­क्त­त्वेन तयोरुपदेशस्य ऐक्य­नि­षे­धा­त्म­क­भे­दा­र्थ­त्वा­यो­गात् । न हि विधि­व­न्नि­षे­धोऽपि स्ववि­ष­य­प्र­मा­णा­न्त­रा­प्र­वृ­त्ति­मा­त्रेण चरितार्थः , किन्तु प्रति­यो­गि­प्र­स­क्ति­म­प्य­पे­क्षत एव । तस्मा­दु­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­मात् प्रकरणादपि भूमा परमात्मा ; न प्राणः ।

सूत्रे सम्प्रसादशब्दः सुषु­प्त्य­व­स्था­वा­च­क­स्त­द­व­स्था­प्र­धा­नस्य प्राणस्येह लक्षकतया प्रयुक्तः । यद्यपि सम्प्रसादशब्दः ‘य एष सम्प्र­सा­दोऽ­स्मात्’(मै.२.२) इत्यादिश्रुतिषु जीवे प्रसिद्धः , तथाऽपि ‘स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा’(बृ.४.३.१७) इत्या­दि­श्रु­ति­प्र­यो­गात् ‘सम्यक् प्रसी­द­त्य­स्या­म­व­स्थायां जीवः’ इति व्युत्पत्त्या सुषुप्तावेव रूढो जीवस्यापि लक्षक एव । अत एव सुषु­प्त्य­व­स्था­यो­गिनि जीवे ‘सुप्तः समस्तः सम्प्रसन्नः’ इति सम्प्र­स­न्न­श­ब्द­प्र­योगः । ततश्च जीव इव प्राणेऽपि लक्षणया तस्य प्रयोगो न विरुध्यते । अस्ति च सम्प्रसादशब्देन प्राण­वा­यु­ल­क्ष­णया तस्य ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(प्र.४.३) इति श्रुत्या , लोकतश्च सिद्धस्य सर्व­क­र­ण­प्र­त्य­स्त­म­य­रू­पायां सुषुप्तौ जाग­र­ण­स्यो­द्घा­ट­नेन प्राणो भूमेति पूर्वपक्षे तस्मिन् ‘यत्र नान्यत्पश्यति’(छा.७.२४.१) इत्या­दि­भू­म­ल­क्ष­णस्य , सुख­त्वा­मृ­त­त्व­योश्च उपपादनं फलम् । ततश्च प्राणा­दू­र्ध्व­मु­प­दे­शा­दिति सौत्रो हेतुः । ‘प्रकरणात्’ इति हेत्वन्तरं तु उत्तरसूत्रे चश­ब्द­सं­गृ­ही­त­म­ना­ग­ता­वे­क्ष­ण­न्या­येन दर्शितम् ।

नन्वयं सौत्रो हेतुः परमात्मत्वे सिद्धान्तसाध्ये , उत प्राणत्वाभावे पूर्वपक्षनिरासे ? नाद्यः । आनन्दमयप्रकरणे मनोमयादिषु व्यभिचारात् , भूमप्रकरणे च विज्ञा­न­म­ति­श्र­द्धा­दिषु व्यभिचारात् । स्यादेतत् ; ‘सम्प्र­सा­दा­द­ध्यु­प­दे­शात्’ इत्यस्य प्राणादधिकत्वेन उपदेशादित्यर्थः । न चैवं सति मनोमयादिषु व्यभिचारः ; तत्र प्राणा­न्त­र­त्वा­दि­नो­प­दे­शेऽपि तद­धि­क­त्वे­नो­प­दे­सा­भा­वात् । न चात्र तदसिद्धिः ; इह प्रकरने पूर्व­नि­र्दि­ष्टा­दू­र्ध्व­म­भि­धानं तदधिकस्यैवेति वागादिषु दृष्टत्वेन प्राणा­दू­र्ध्व­म­भि­हिते भूम्नि तदधिकत्वसिद्धेः , ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादौ भूय­श्श­ब्द­व­दि­हा­धि­क्य­प­रस्य भूमशब्दस्य प्रयोगाच्च । तस्य सङ्कोचकाभावेन सर्वत आधिक्यपरत्वेऽपि पूर्व­नि­र्दि­ष्ट­प्रा­णा­धि­क्य­सि­द्धे­र­स­न्दि­ग्ध­त्वात् । अपि च ‘एष तु वा अतिवदति यः सत्येनातिवदति’(छा.७.१६.१) इत्यत्र , ‘अपशवो वा अन्ये गोअश्वाः’ इत्यत्र गोअश्वेषु अन्येभ्यः प्राशस्त्यवत् सत्यातिवादिनि प्राणातिवादिनः प्राशस्त्यं तावत् प्रतीयते । ततः एतस्य प्राशस्त्यं च तद­ति­व­द­न­नि­मो­त्तात् प्राणा­दे­त­द­ति­व­द­न­नि­मि­त्तस्य सत्य­स्या­धि­क्य­कृ­त­मे­वा­व­सी­यत इति ततोऽपि प्राणा­दा­धि­क्य­सिद्धिः इति चेत् । मैवम् , एतावताऽपि वाचनिकस्य प्राणा­दा­धि­क्यो­प­दे­श­स्या­नि­र्व्यू­ढ­त्वात् , अर्था­दा­धि­क्य­सि­द्धेश्च प्राणा­दा­न्त­र­त्वे­नो­प­दि­ष्टेषु मनोमयादिषु व्यभिचारात् , ‘मन एव पिता वाङ् माता प्राणः प्रजा’(बृ.१.५.७) ‘प्राण एव ब्रह्म­ण­श्च­तुर्थः पादः स वायुना ज्योतिषा भाति च तपति च’(छा.३.१८.४) ‘पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमः’(छा.५.७.१) इत्या­दि­श्रु­ति­भि­र्वा­ङ्म­न­स­वा­यु­पु­रु­षा­दिषु प्राणा­दा­धि­क्य­सि­द्धि­स­त्त्वेन व्यभिचाराच्च । तस्मात् सिद्धान्तसाध्ये नायं हेतुः ; नापि पूर्वपक्षनिरासे ; समन्वयसूत्रात् सिद्धा­न्त­सा­ध्य­स्येव पूर्व­प­क्ष­नि­रा­स­सा­ध्यस्य क्वचि­न्नि­र्दि­ष्तस्य प्रत्य­धि­क­र­ण­म­नु­वृ­त्त्य­भा­वेन ‘नेत­रोऽ­नु­प­पत्तेः’(ब्र.सू.१.१.१६) इत्या­दा­वि­वा­त्रापि निर्दे­श­प्र­स­ङ्गात् , प्रथमवक्तव्यं सिद्धा­न्त­हे­तु­म­नुक्त्वा पूर्व­प­क्ष­नि­रा­स­हे­तू­क्त्य­यो­गात् , ‘धर्मोपपत्तेः’ इत्यु­त्त­र­सू­त्र­हेतोः सिद्धा­न्त­सा­ध्य­वि­ष­य­त्वे­ना­स्यापि तदे­क­वि­ष­य­तौ­चि­त्या­च्चेति चेत् ।

उच्यते – पूर्वपक्षनिरासे साध्येऽयं हेतुः । तस्य च साध्यस्य ‘नानुमानम्’ इति सूत्रगतेन नञा सह ‘प्राणभृत्’ इति सूत्रस्थस्य प्राण­प­द­स्या­नु­व­र्त­नेन लाभः। तत्र हि जीवे प्राण­भृ­त्प­द­प्र­यो­गस्य तस्मिन् ‘ओतं मनः सह प्राणैश्च सर्वैः’ इति श्रुत­प्रा­णा­श्र­य­त्वो­प­पा­द­नेन पूर्व­प­क्ष­स­म­र्थ­न­व­दि­हा­नु­ष­ङ्ग­ला­भोऽपि प्रयोजनम् । प्रथममिह पूर्व­प­क्ष­नि­रा­स­हे­तूक्तिः तत्सामर्थ्यादेव सिद्धा­न्त­हे­तु­रपि लभ्यत इति लाघ­व­प्र­ति­स­न्धा­नात् । पूर्व­प­क्ष­नि­रा­सको हि सौत्रो हेतुः परमात्मनि रूढां सत्य­श्रु­ति­म­पेक्ष्य समर्थनीयः । ततश्च तयैव सत्यं प्रकृत्याम्नातो भूमा परमात्मा इत्यपि सिद्ध्यति । न च सत्य­श्रु­ति­म­न­पेक्ष्य तुशब्दमात्रेण प्रकरणविच्छेदो लभ्यत इति वाच्यम् ; ‘एष तु वा अग्निहोत्री’ इति वाक्य­वै­ष­म्य­हे­तु­तया तत्रा­ग्नि­हो­त्रा­न्त­रो­प­पा­द­क­द्र­व्य­दे­व­ता­न्तरं नास्ति, अत्र त्वति­वा­दा­न्त­र­नि­मित्तं सत्यशब्दोदितं ब्रह्मास्तीति प्रद­र्श­नी­य­त्वात् ।

ननु सत्यश्रुत्या भूम्नः परमात्मत्वे साधिते तदधीनात्मलाभः तस्य प्राण­त्व­नि­रा­स­हेतुः प्राणा­दू­र्ध्व­मु­प­दे­शोऽ­र्थात् सिद्ध्यतीति वैपरीत्यमपि सम्भवतीति चेत्, उच्यते । सत्यश्रुत्या भूमा परमात्मेति सिद्धिमात्रेण प्राणो न भूमेति न सिद्ध्यति । भूमवत् प्राणोऽपि परमात्मैव ; भूम्नः परमात्मत्वे सत्य­श्रु­ति­भू­म­ल­क्ष­ण­म­पा­प्र­क­र­ण­वत् प्राणस्य परमात्मत्वेऽपि सर्व­प्र­ति­ष्ठा­त्व­स­र्वा­त्म­त्व­लि­ङ्ग­स­त्त्वात् । अतो भूमा प्राण एव; ‘एष तु वा’ इत्या­दे­र्ना­मा­द्य­ति­वा­दिभ्यः प्राण­रू­प­प­र­मा­त्मा­ति­वा­दिनो विशे­ष­प्र­द­र्श­ना­र्थ­त्वस्य तस्यैव सत्य­व­द­न­रू­पा­ङ्ग­वि­धा­ना­र्थ­त्वस्य (वा) चोपपत्तेरिति शङ्का­न्त­रा­व­का­शात् । अतस्तस्यापि निव­र्त­म­भि­प्रेत्य पूर्व­प­क्ष­नि­रा­सकः ‘सम्प्र­सा­दा­द­ध्यु­प­दे­शात्’ इति हेतुर्मुखत उक्तः । तेन प्राणादूर्ध्वं भूम्न उपदेशस्य सिद्धवदुपादाय हेतूकरणमहिम्ना प्राणभूम्नोः परमात्मभावेनापि ऐक्यं निराकृतं भवति । तन्निराकरणं च पूर्वत्र प्राणशब्दस्य प्राण­वा­या­वु­त्त­रत्र सत्यशब्दस्य परमार्थे ब्रह्मणि च रूढ­त्वा­द­ति­व­द­नी­य­भे­देन तदु­प­पा­द­क­तु­श­ब्द­म­हिम्ना चेति पूर्वो­क्त­री­त्यै­वा­नु­स­न्धे­यम् ।

प्राणे यथा सर्व­प्र­ति­ष्ठात्वं सर्वात्मत्वं च ब्रह्मलिङ्गं दृश्यते, तथा ‘यद्य­प्ये­ना­नु­त्क्रा­न्त­प्रा­णान्’(छा. ७.१५.३) इत्युत्क्रमणं प्राण­स्थि­ति­त­द­स्थि­त्यो­र्ह­न­ना­ह­न­न­प्र­थाऽ­नु­वा­द­रूपं च प्राणलिङ्गमपि दृश्यते । न हि प्राणवायोरिव सर्वगतस्य परमात्मनो मुख्यमुत्क्रमणं सम्भवति, न वा ‘स यदि पितरं वा मातरं वा भ्रातरं वा’(छा. ७.१५.२) इत्यादिना प्रदर्शितो हन­ना­ह­न­न­प्र­था­नु­वादः । अयं हि लौकि­क­प्र­थाऽ­नु­वादः । लौकिकाश्च श्वास­स­ञ्चा­र­स­त्त्वा­स­त्त्वाभ्यां प्राणवायोरेव स्थित्यस्थिती ज्ञातुं शक्नुवन्ति, न तदरिक्तस्य जीवस्यापि, दूरो परमात्मनः । अति­रि­क्त­जी­वा­भि­ज्ञा­नानां परीक्षकणानामपि प्राण­वा­यु­स्थि­त्य­स्थि­ति­भ्या­मेव जीवस्यापि ते ज्ञातव्ये । अतः सर्व­वे­द्य­प्र­थ­मो­प­स्थि­त­प्रा­ण­वा­यु­स­त्त्वा­स­त्त्व­नि­ब­न्ध­ना­वेव हिंसो­प­क्रो­श­त­द­भावौ लौकिकानामिति तदनुवादः प्राणवायावेव सङ्गच्छते । एवं ‘प्राणो ह पिता’(छा. ७.१५.१) इत्यादौ पितृत्वादिना प्रशंसनमपि प्राण­वा­यु­वि­ष­य­मेव व्यवतिष्ठते । प्राणस्य पितृ­त्वा­दि­क­म­न्व­य­व्य­ति­रे­का­भ्या­मु­प­पा­द­यितुं प्रवृत्तस्य ‘पितृहा वै त्वमसि’(छा. ७.१५.२) इत्यादेस्तत्रैव बहु­धाऽ­भ्य­स्त­यायाः प्राण­श्रु­ते­र­नु­ग्र­हाच्च । ततश्च सर्व­प्र­ति­ष्ठा­त्व­लि­ङ्ग­मपि तदनुरोधेनैव नेतव्यम् । एवं प्राणस्य भूमशब्दितात् प्रकरणिनः परमात्मनो भिन्नत्वे सत्येवाग्रे ‘आत्मतः प्राण’(छा. ७.२६.१) इति ततः प्राण­स्यो­त्प­त्ति­व­च­न­मु­प­प­द्यते ।

न च ‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र.सू.२.३.५) इति न्यायेन ‘प्राणो वा आशायाः’(छा. ७.१५.१) इत्यत्र प्राणशब्दस्य ब्रह्मपरत्वेऽपि ‘आत्मतः प्राणः’(छा. ७.२६.१)‘आत्मतः प्राणः’(छा. ७.२६.१) इत्यत्र स वायुपरः स्यादिति वाच्यम् । नामा­दि­प्रा­णान्ताः येन क्रमे­णो­त्त­रो­त्त­र­मु­त्कृष्टा दर्शि­ता­स्त­द्व्यु­त्क्र­मे­णैव ‘आत्मतः प्राणः’ ‘आत्मत आशा’(छा. ७.२६.१) ‘आत्मतः स्मरः’(छा. ७.२६.१) इत्यादेः प्रवृ­त्त­त्वे­नो­भ­यो­रपि प्राण­श­ब्द­यो­रे­क­वि­ष­य­त्वा­व­श्य­म्भा­वात् ।

ननु भूमैव प्रकरणी परमात्मा, न प्राण इति सिद्धान्ते भूम्नः सर्वतो भूयस्त्वार्थमेव नामा­दि­प्रा­णा­न्ता­ना­मु­त्त­रो­त्त­र­भू­य­स्त्वे­ना­नु­क्र­म­ण­मिति वक्तव्यमभिमतं च । न च तद्युज्यते । तथा च सति प्राणा­द्भू­म्न्यपि भूयस्त्वविषययोः प्रश्न­प्र­ति­व­च­न­यो­र्द­र्श­ना­पत्तेः । न च यदर्थमन्यत् प्रक्रान्तं तद­नु­क्ति­र्यु­क्तेति चेत्, मैवम् । प्रश्न­प्र­ति­व­ना­भा­वेऽपि प्रकृ­ता­स­म्ब­न्ध­नि­मि­त्त­तु­श­ब्द­स­त्य­श्रु­तिभ्यां प्राण­भू­म­भे­द­स्या­व­र्ज­नी­य­त्वात् । पूर्व­प­र्या­ये­ष्व­नु­क्त­स्या­ति­वा­दि­त्वस्य प्राणपर्याये ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’(छा. ७.१५.४) इति वचनेन प्राणस्य सर्व­प्र­ति­ष्ठा­त्वा­द्यु­प­न्या­सेन च उप­क्रा­न्ता­मो­प­देशः प्राण एव समाप्त इति मत्वा नारदे भूयः पृच्छति सनत्कुमारः प्राणविज्ञानमपि विका­रा­नृ­त­वि­ष­य­मिति न तेन सम्य­ग­ति­वा­दि­त्वम् ; किन्तु सत्येनैवेति सत्यविज्ञानं स्वय­मे­वो­प­चि­क्षेप । ततः ‘सोऽहं भगवः सत्येनातिवदति’(छा. ७.१६.१) इति पृष्टवते विज्ञा­ना­दि­सा­ध­न­प­र­म्प­रया तमेव सत्यं परमात्मानं भूमा­न­मु­प­दि­दे­शेति प्रश्न­प्र­ति­व­च­ना­भा­व­स्या­न्य­थो­प­प­त्तेश्च । तस्मात् प्राणभूम्नोः पर­मा­त्म­भा­वे­नै­क्य­मिति शङ्कान्तरस्य नावकाशः । तदिदं शङ्का­न्त­र­नि­रा­क­रणं सूचयितुं मुखतः पूर्व­प­क्ष­नि­रा­स­हे­तु­मुक्त्वा तेन सिद्धा­न्त­हे­तु­र्ग­र्भी­कृतः । तेनैव सिद्धान्तहेतुना ‘धर्मोपपत्तेः’(ब्र.सू.१.३.९) इत्यु­त्त­र­सू­त्र­ग­त­हे­तो­रे­क­वि­ष­य­त्वम् । न च तत्र चशब्दः सूत्र­द्व­यो­क्त­हे­तु­स­मु­च्च­यार्थः, किन्त्व­नु­क्त­प्र­क­र­ण­स­मु­च्च­यार्थः इत्युक्तम् । तस्मात् सर्वमनाकुलम् । १.३.८।

धर्मोपपत्तेश्च ॥९॥

दर्श­ना­दि­व्य­व­हा­रा­भा­व­नि­रु­पा­धि­क­सु­ख­त्वा­मृ­त­त्व­स्व­म­हि­म­प्र­ति­ष्ठा­त्व­स­र्व­ग­त­त्व­स­र्वा­त्म­त्वा­दीनां भूम्नि श्रूयमाणानां धर्माणां पर­मा­त्म­न्ये­वो­प­प­त्तेश्च भूमा परमात्मा । न ह्येतेषां निर्विशेषं पर­मा­त्मा­न­म­हा­या­न्य­त्राऽऽ­ञ्ज­स्य­मस्ति । दर्श­ना­दि­व्य­व­हा­रा­भा­व­स्ता­वत् ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ.४.५.१५) इत्या­दि­श्रु­त्या­दिषु तत्रैव प्रसिद्धः । न च ‘न शृणोति न पश्यति’(प्र. ४.२) इत्यादिना सर्व­क­र­ण­व्या­पा­र­प्र­त्य­स्त­म­य­रूपां सुषुप्तावस्थां प्रस्तुत्य ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(प्र. उ. ४.३) इत्याम्नानात् प्राणेऽपि तत्प्र­सि­द्धि­र­स्तीति वाच्यम् । पर­मा­त्म­प्र­क­र­णा­नु­रो­धेन तस्याः श्रुते­रा­त्म­नोऽ­स­ङ्ग­त्व­वि­व­क्षया प्रवृत्ततया प्राणे दर्श­ना­द्य­भा­व­प­र­त्वा­भा­वात् । न हि तत्र प्राणविषयस्य, प्राणाधारस्य वा दर्शनादेरभावः कीर्त्यते, किन्तु सुषुप्तावात्मनो घटा­दि­द­र्श­ना­भा­व­मा­त्रम् । न च प्राणे विद्यमाने दर्श­ना­द्य­भा­व­की­र्तनं तावदस्ति, तदेवेह लक्षणमिति वाच्यम् । सुषुप्तौ प्राण­व­द्दे­ह­स्यापि विद्यमानतया तन्मात्रस्य लक्ष­ण­त्वा­नु­प­पत्तेः । एतेन – सुषुप्तौ प्राणे जाग्रति दर्शनाद्यभावो लोकत एवावसित इत्यपि निरस्तम् । तस्मात् भूमलक्षणं तावत् परमात्मन्येव समञ्जसम् । एवं निर­ति­श­य­सु­ख­त्व­मपि । सुषुप्तौ सुखवचनमपि ह्यात्मन एव सुख­रू­प­त्व­वि­व­क्षया प्रवृत्तम् । अमृतत्वमपि प्राण­स्या­पे­क्षि­क­मेव, ‘अतोऽ­न्य­दा­र्तम्’(बृ. ३.४.२) इति श्रुतेः । तस्मा­द्वा­क्य­शे­ष­ग­तानां धर्माणां निर्वि­शे­ष­प­र­मा­त्म­न्ये­वो­प­पत्तिः । न च वाक्यशेषगतमेव भूमविदः सर्व­द­र्श­न­की­र्तनं ‘सर्वेषु लोकेषु कामचारो भवति’ इति वैषयिकफलकीर्तनं च तत्रा­नु­प­प­न्न­मिति वाच्यम् । सर्व­द­र्श­न­की­र्त­नस्य ‘यत्र नान्यत्पश्यति’(छा. ७.२४.१) इति प्रथ­म­श्रु­त­ल­क्ष­णा­नु­सा­रतः सर्व­वि­व­र्ता­धि­ष्ठा­न­भा­वेन पर­मा­त्म­द­र्श­न­प­र­त्वात् । सार्व­लौ­कि­क­फ­ल­की­र्त­नस्य च ‘आत्म­र­ति­रा­त्म­क्रीड आत्ममिथुन आत्मानन्दः’(छा. ७.२५.२) इति स्रगा­द्यु­द्या­ना­दि­व­नि­ता­वि­भू­ति­रू­प­वि­ष­य­कृ­त­सु­खा­त्म­कानां रति­क्री­डा­मि­थु­ना­न­न्दा­ना­मा­त्मा­न­ति­रे­कोक्त्या ब्रह्मा­नु­भ­वि­तु­र्मु­क्तस्य तद­ति­रि­क्त­स्या­दि­नि­षे­ध­प­र­प्र­थ­म­श्रु­त­वा­क्या­नु­सा­रेण सर्व­लो­क­सा­ध्य­नि­खि­ल­सु­ख­क­णि­कानां महा­ब्धि­स्था­नी­य­ब्र­ह्म­सु­खा­नु­भ­व­प­र­त्वाच्च । तस्मा­द्ध­र्मो­प­प­त्ते­रपि भूमा परमात्मेति सुष्ठूक्तम् । अत्रो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­तस्य ब्रह्म­प्र­क­र­णस्य, तद्ग­त­ब्र­ह्म­लि­ङ्गानां च भूमानन्वयेन पूर्व­प­क्षी­क­र­णा­द­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता । ।१.३.९।

इति भूमाधिकरणम् ॥२॥

अक्ष­र­म­म्ब­रा­न्त­धृतेः ॥१०॥

१०

बृहदारण्यके ‘यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्या यदन्तरा द्यावा पृथिवी इमे यद्भूतञ्च भवच्च भवि­ष्य­च्चे­त्या­क्षते कस्मिंस्तदोतञ्च प्रोतञ्च’(बृ. ३.८.३) इति गार्ग्या पृष्टेन याज्ञवल्क्येन ‘आकाश एव तदोतं च प्रोतं च’(बृ. ३.८.४) इत्युत्तरिते ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. ३.८.११)‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. ३.८.७) इत्यन्तम् । अत्राक्षरं प्रणवात्मको वर्णः, परमात्मा वेति संशये प्राप्तं तावत् वर्ण एवाक्षरमिति । ‘अक्ष­र­स­मा­म्नायः’ इत्यादौ वर्णे­ष्व­क्ष­र­श­ब्द­द­र्श­नात् । ननु ‘यया तद­क्ष­र­म­धि­ग­म्यते’(मु.१.१.५) इत्यादिश्रुतिषु परमात्मन्यपि स दृष्टः । सत्यं दृष्टः । लौकि­क­वै­दि­क­प्र­सि­द्ध्य­ति­श­य­स­त्त्वात् वर्णेषु तत्प्रयोगो रूढ्या । परमात्मनि तु नित्यसर्वगते ‘न क्षरति, अश्नुते वा’ इति योगेन । रूढिश्च योगात् बलीयसी । नन्वा­का­शा­न्त­स­क­ल­ज­ग­द्धा­र­क­त्व­लि­ङ्ग­म­नु­प­पन्नं वर्णे । न च लिङ्गा­द­क्ष­र­श्रु­ति­र्ब­ली­य­सीति वाच्यम् । ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इति ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ. ३.८.११) इति प्रश्नो­त्त­र­रू­पा­भ्या­मु­प­क्र­मो­प­सं­हा­राभ्यां प्रति­पि­पा­द­यि­षि­त­त्वेन ‘एतस्यैवाक्षस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतस्तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ’ इति श्रुत­प्र­शा­सि­तृ­त्व­द्र­ष्टृ­त्व­श्रो­तृ­त्व­म­न्तृ­त्व­वि­ज्ञा­तृ­त्व­द्र­ष्टृ­त्वा­दि­रू­प­जी­वा­भे­दा­त्म­क­ब­हु­लि­ङ्ग­स­ह­कृ­त­त्वेन चास्य लिङ्गस्य श्रुतेः प्रबलत्वादिति चेत् ।

उच्यते – जगद्धारकत्वं वर्ण्यमानं नास्ति । न खल्व­त्रौ­त­प्रो­त­श­ब्दा­भ्या­म­क्ष­रस्य जग­त­श्चा­धा­रा­धे­य­भावः प्रतिपाद्यते । पूर्वत्र गार्गीब्राह्मणे ‘यदिदं सर्वमप्सोतञ्च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्च’(बृ.३.६.१) इत्या­दि­भि­र्गार्ग्याः प्राश्नैः ‘वायौ गार्गि’(बृ.३.६.१) इत्या­दि­भि­र्या­ज्ञ­व­ल्क्य­स्यो­त्त­रैश्च परि­दृ­श्य­मा­न­पा­र्थि­व­धा­तु­जा­त­स­लि­ल­वा­य्व­न्त­रि­क्ष­लो­क­ग­न्ध­र्व­लो­का­दि­त्या­लो­क­च­न्द्र­लो­क­न­क्ष­त्र­लो­क­दे­व­लो­के­न्द्र­लो­क­प्र­जा­प­ति­लो­क­ब्र­ह्म­लो­कानां पूर्व­पू­र्व­स्यो­त्त­रो­त्त­र­स्मि­न्नो­त­प्रो­त­त्व­व­र्ण­नात् । तत्रा­नु­क्रा­न्ता­ना­म­न्त­रि­क्ष­लो­का­दीनां तत्त­दु­प­रि­त­न­ग­न्ध­र्व­लो­का­द्या­धा­र­त्वा­यो­गात् । अतस्तत्र पूर्व­पू­र्व­लो­केभ्यः उत्त­रो­त्त­र­लो­कानां कया­चि­द्वि­व­क्ष­यो­त्क­र्ष­म­भि­प्रेत्य ओत­त्व­प्रो­त­त्व­व­र्ण­न­मिति नेतव्यम् । सम्भवति हि यथा पटे दीर्घ­ति­र्य­क्त­न्तव ओत­प्रो­ता­स्त­स्यै­क­देशा एवं गन्धर्वलोकानां विभूतौ दृश्य­मा­ना­या­म­न्त­रि­क्ष­लोका विभू­ति­त­स्त­दे­क­दे­श­प्राया इति विवक्षया सादृ­श्या­दो­त­प्रो­त­त्व­व­र्ण­न­स्यो­त्क­र्ष­प­र्य­व­सा­नम् । अत­स्त­दु­प­रि­त­न­प्र­श्नो­त्त­र­स­न्द­र्भ­रू­पा­क्ष­र­ब्रा­ह्म­ण­ग­तौ­त­प्रो­त­त्व­व­र्ण­न­मपि तथैव नेतुं युक्तम् । तच्चोपपद्यत एव प्रणवे । ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत ओमिति ह्युद्गायति तस्यो­प­व्या­ख्या­नम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’(छा.१.१.३) इति श्रुत्यन्तरे तस्य सर्वो­त्कृ­ष्ट­त्व­प्र­सि­द्धि­स­त्त्वात् । तत्र कयाचिद्विवक्षया पृथि­वी­ज­लौ­ष­ध्या­दि­क्र­मे­णो­त्त­रो­त्त­र­मु­त्कर्ष उक्तः, इह तु विवक्षान्तरेण पृथि­वी­ज­ल­वा­य्वा­दि­क्र­मे­णेति एतावानेव विशेषः पर्यवस्यतीति न प्रणवे ओत­प्रो­त­त्व­व­र्ण­न­स्या­नु­प­पत्तिः । यदि चौत­प्रो­त­श­ब्दाभ्यां तस्य तस्य तत्र तत्र वर्त­मा­न­त्व­मे­वो­च्यते, तथापि प्रणवे जग­दा­धा­रा­का­शौ­त­त्व­प्रो­त­त्व­व­र्ण­नस्य न काचिदनुपपत्तिः । जगदाधार आकाशः परमात्मा हृद­या­दि­त्य­म­ण्ड­ला­दि­व­दु­पा­स­न­स्थाने प्रणवे वर्तत इति सामञ्जस्यात् । न चान्या­श्रि­त­त्वो­क्ति­स्वा­र­स्या­दि­हा­काशः प्रसिद्ध एव ग्राह्य इति वाच्यम् ; पूर्व­स­न्द­र्भ­वि­रो­धात् ।

एवं ह्युपाख्यायते बृहदारण्यके – जनकस्य यज्ञे कुरु­पा­ञ्चा­ल­दे­शा­ग­तेषु ब्राह्म­णे­ष्व­भि­स­मे­तेषु ‘कः स्विदेतेषां ब्रह्मिष्ठः’ इति जिज्ञासुना जनकेन शृङ्ग­द्व­या­ब­द्ध­प­ल­प­रि­मि­त­सु­व­र्णा­ल­ङ्काराः सहस्रं गाः समानीय ‘ब्राह्मणा भगवन्तो यो वा ब्रह्मिष्ठः स एता गा उदजताम्’(बृ.३.१.२) इत्युक्ते तेषु ब्राह्म­णे­ष्व­दृ­ष्ट­तया स्थितेषु, याज्ञवल्क्यः स्वशिष्यमुवाच ‘एताः सोम्य उदज सामश्रवा’(बृ.३.१.२) इति । ततस्तेषु ब्राह्मणेषु क्रुद्धेषु तमाश्वलः पप्रच्छ ‘त्वं नु खलु नु याज्ञवल्क्य ब्रह्मिष्ठोऽसि’(बृ.३.१.२) इति । ‘नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्मः’(बृ.३.१.२) इति याज्ञ­व­ल्क्य­स्यो­क्ति­भङ्ग्या तस्य ब्रह्मि­ष्ठ­त्व­म­भि­मा­न­म­धिकं सन्तमवधार्य तद्विजिगीषया आश्वलादिषु केषुचित् तं पृष्टवत्सु, तेन च सदुत्तरोक्त्या जितेषु, ‘अथ हैनं गार्गी वाचक्नवी पप्रच्छ’(बृ.३.६.१) इत्यादि गार्गीब्रह्मणं प्रवृत्तम् । तत्र गार्ग्या ‘यदिदं सर्वमप्स्वोतं च प्रोतञ्च’(बृ.३.६.१) इत्यादिना तत्त­दु­त्त­रा­न­न्तरं पुनः पुनः पृष्टस्य याज्ञवल्क्यस्य क्रमेण ‘ब्रह्मलोकेषु गार्गि’(बृ.३.६.१) इत्युत्तरे सति ‘कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च’(बृ.३.६.१) इति पुनः पृष्टेन याज्ञवल्क्येन ‘गार्गि माऽति­प्रा­क्षीर्मा ते मार्द्धा व्यपप्तत् अनतिप्रश्न्यां वै देवतामतिपृच्छसि माऽतिप्राक्षीः’(बृ.३.६.१) इति सक्रोधमुक्ते भीता गार्गी उपरराम । ततः उद्दालके प्रसिद्धे ब्रह्मविदि सूत्र­म­न्त­र्या­मिणं च पृष्टवति याज्ञवल्क्येन जिते पुनर्गार्गी सर्वेषां ब्राह्मणानां पराजयो जायत इति शङ्कया याज्ञवल्क्यस्य क्रोधं ब्राह्म­णा­ना­म­नु­ज्ञ­यै­वा­कि­ञ्चि­त्क­र­ता­मा­पाद्य प्राक् ‘माऽति­प्राक्षीः’ इति निवारितं प्रश्नं पुनः करि­ष्या­मी­त्या­श­य­वती ‘ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेत् मे वक्ष्यति च न वै जातु युष्माकमिमं कश्चि­द्ब्र­ह्मोद्यं जेता’(बृ.३.८.१) इति तेषामनुज्ञां याचित्वा ‘पृच्छ गार्गि’(बृ.३.८.१) इति तैरनुज्ञाता ‘अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सप­त्ना­ति­व्या­धिनौ हस्ते कृत्वो­पो­त्ति­ष्ठे­दे­व­मे­वाहं त्वा द्वाभ्यां प्रश्ना­भ्या­मु­पो­दस्थां तौ मे ब्रूहि’(बृ.३.८.१) इति द्विती­य­प्र­श्न­नि­वा­र­ण­प­रि­जि­ही­र्षया प्रश्न­द्व­या­नुज्ञां पृष्ट्वा ‘पृच्छ’ इति तदनुज्ञाता ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.३)‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.६) इत्यादिना सर्व­दे­श­का­ला­नु­वृ­त्त­स­क­ल­प्र­प­ञ्चा­धारं पृष्ट्वा ‘आकाशे तदोतं च प्रोतं च’(बृ.३.८.४) इत्युत्तरिते ‘नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः’(बृ.३.८.५) इति तं प्रशस्य इतः परं द्विती­य­प्र­श्न­स्यो­त्त­र­म­श­क्य­मि­त्या­श­येन ‘अपरस्मै धारयस्व’(बृ.३.८.५) इत्युक्त्वा ‘पृच्छ’ इति तेनोक्ते प्रथ­म­प्र­श्नो­त्त­र­स्थि­री­क­र­णार्थं पुनरपि ‘यदूर्ध्वं याज्ञवल्क्य दिवः’ इत्यादिना प्राक् पृष्टमेव पृष्ट्वा याज्ञवल्क्येन ‘यदूर्ध्वं गार्गि’ इत्यादिना तदुक्तं सर्वमनूद्य ‘आकाश एव तदोतं च प्रोतं च’(बृ.३.८.७) इति प्राचीनोत्तर एवावधारणेन दृढीकृते तदनन्तरं कृतस्य ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ.३.८.७) इति द्विती­य­प्र­श्न­स्यो­त्त­र­तया ‘एतद्वै तदक्षरम्’(बृ.३.८.८) इत्यारभ्य ‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ.३.८.११) इत्यन्तं कृत्स्न­म­क्ष­र­ब्रा­ह्मणं प्रवृत्तमिति ।

अत्र गार्गी­ब्रा­ह्म­णान्ते याज्ञवल्क्येन यः प्रस्नः सक्रोधं निवारितः स एव खलु गार्ग्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनरवतारितः । तस्य प्रश्नस्य परमात्मनि पर्यवसानं गार्गीब्राह्मण एव ‘अनतिप्रश्न्यां वै देव­ता­म­ति­पृ­च्छसि’(बृ.३.६.१) इति याज्ञ­व­ल्क्य­व­च­नेन स्फुटमिति तदनुसारेण तदु­त्त­र­ग­त­स्या­का­श­श­ब्दस्य परमात्मपरत्वमेव युक्तम् । अत एव प्रश्न­नि­वा­र­ण­भ­ङ्ग्यैव याज्ञवल्क्यः प्रथ­म­प्र­श्न­स्यो­त्तरं वक्तुं जानातीत्यवगत्य द्वितीयप्रश्न एव भारं निधाय युगपत् प्रश्न­द्व­या­नु­ज्ञा­म­र्थि­त­व­तीति सङ्गच्छते । प्रथ­म­प्र­श्नो­त्त­र­प्र­शं­सा­मिव कृत्वा सर्वाधारस्य परमात्मनः केनचित् प्रकारेण कश्चि­दा­धा­रोऽ­स्तीति ज्ञात्वा वक्तुमयं न पार­यि­ष्य­ती­त्या­श­येन ‘अपरस्मै धारयस्व’ इति धृष्ट­मु­क्त­व­ती­त्यपि सङ्गच्छते । प्रणवस्य पर­मा­त्मो­पा­स­ना­स्था­न­तया तद­धि­क­र­ण­त्वे­नो­त्त­र­मपि सङ्गच्छते । प्रसिद्धं हि हृदयादिषु प्रणवं विचिन्त्य तन्म­ध्य­व­र्ति­त्वेन परमात्मोपासनं श्रुति­स्मृ­ति­पु­रा­णा­ग­मेषु । यदि चाकाशः प्रसिद्धाकाशः, तथाऽपि प्रणवे तदाधारत्वस्य नानुपपत्तिः । अवकाशात्मके प्रसिद्धाकाशे सर्वं वस्तु विश्रान्तम् । सोऽपि स्वकारणे शब्दतन्मात्रे प्रण­व­सू­क्ष्मा­व­स्था­रू­प­त्वेन प्रसिद्धे प्रतिष्ठित इति सामञ्जस्यम् । यदि चाकाशस्य तत्रौ­त­प्रो­त­त्वेन वर्णितस्य जग­त­श्चा­क्ष­र­मा­धा­र­त्वेन वक्तव्यमिति निर्बन्धः, तस्यापि नास्त्य­नु­प­पत्तिः प्रणवे ; आकाशद्वारा तस्य तद­न्य­ज­ग­दा­धा­र­त्वो­प­पत्तेः ।

आकाशस्य जगतश्च द्वारद्वारिभावं विनैव ओत­प्रो­त­त्व­म­क्षरे वक्तव्यमिति निर्बन्धेऽपि नानुपपत्तिः; ’ओङ्कार एवेदं सर्वम्’(छा. २.२३.३) इति श्रुत्यन्तरे प्रणवस्य सर्वा­त्म­त्व­श्र­व­णात् । तद­नु­सा­रे­णा­त्रापि तादात्म्येन सर्वमोतप्रोतं प्रणव इति तात्प­र्य­व­र्ण­नो­प­पत्तेः । न च – श्रुत्यन्तरं ब्रह्म­प्र­ति­प­त्ति­सा­धने प्रणवे ब्रह्म­ग­ता­सा­र्वा­त्म्य­मा­रोप्य स्तुतिमात्रम् ; प्रणवस्य वस्तुतः सार्वा­त्म्या­यो­गात्, इह तन्मा­त्र­म­व­ल­म्ब्यो­प­क्र­मो­प­सं­हा­राभ्यां प्रति­पि­पा­द­यि­षितं लिङ्गमन्यथा नेतुमयुक्तम् – इति वाच्यम् ; प्रणवेऽपि मुख्य­सा­र्वा­त्म्यो­प­पत्तेः । अर्थानां ‘घटोऽयं पटोऽयम्’ इत्या­दि­प्र­ति­भा­सेय़ु शब्द­ता­दा­त्म्यो­ल­म्भेन तत्त­द्वा­च­क­श­ब्दा­श्र­य­त्वात् । शब्दानां च सर्वेषां ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ­ण्णा­न्ये­व­मो­ङ्का­रेण सर्वा वाक् सन्तृण्णा’(छा. २.२३.३) इति श्रुत्या प्रण­वा­त्म­क­त्वा­व­ग­मात् ।

ननु ‘घटोऽयम्’ इत्यादि शब्दा­र्थ­सा­मा­ना­धि­क­रण्यं ‘मृद्घटः’, ‘नीलो घटः’ इत्यादिवत् तादा­त्म्ये­ना­श्र­यि­भा­वतो न भवति ; शब्दा­ना­म­र्था­श्र­य­त्व­म­र्थानां शब्दाश्रयत्वं वेत्यत्र विनि­ग­म­ना­वि­र­हात्, शब्दानामर्थानां च व्यव­स्थि­ते­न्द्रि­य­ग्रा­ह्य­व्य­व­स्थि­त­का­र्य­क­र­त्वा­दि­वै­ल­क्ष­ण्य­द­र्श­नेन भेदा­व­श्य­म्भा­वाच्च, किन्तु ज्ञाप्य­ज्ञा­प­क­भा­वतः । न च – ज्ञाप्य­ज्ञा­प­क­भावो न सामा­ना­धि­क­र­ण्य­प्र­यो­जकः, ‘धूमो वह्निः’ इति सामा­ना­धि­क­र­ण्या­द­र्श­नात्, ऐन्द्रि­यि­क­लै­ङ्गि­क­ज्ञा­नेषु शब्दाजन्येष्वपि ‘घटोऽयं पटोऽयम्’ इत्या­दि­श­ब्द­सा­मा­ना­धि­क­र­ण्या­नु­भ­वा­च्चेति वाच्यम् । ज्ञाप्य­ज्ञा­प­क­भा­व­मा­त्रात् प्रत्यक्षतो दृश्यमानासु लिपिषु ‘ककारोऽयम्’ इत्या­दि­श्रू­य­मा­ण­क­का­रा­दि­सा­मा­ना­धि­क­र­ण्या­नु­भ­व­द­र्श­नेन तद्व­दि­हा­प्यु­प­पत्तेः । वस्तुतो ‘घटोऽयम्’ इत्या­दि­प्र­ति­भा­सेषु पुरो­व­र्ति­व्य­क्तिषु घट­श­ब्दा­दि­ता­दात्म्यं न स्फुरति, किन्तु घट­श­ब्दा­दि­स­म­र्पि­त­त­त्त­द­र्थ­ता­दा­त्म्य­मेव । न हि ‘घटोऽयम्’ इत्यादीनां घट­श­ब्दोऽ­य­मि­त्या­दि­रर्थ ति कश्चि­द­प्य­भि­म­न्यते, अन्यथा सर्वेषां शब्दानां स्वस्व­रू­प­स­म­र्प­ण­मा­त्र­प­रत्वे तत्त­द­र्थ­वि­शे­षा­न­व­ग­ति­प्र­स­ङ्गा­दिति चेत् ।

अत्र ब्रूमः – विनि­ग­म­ना­वि­र­हो­क्ति­स्ता­व­द­नु­प­पन्ना; ‘स भूरिति व्याहरत् भूमिमसृजत स भुव इति व्यवहरत् सोऽन्त­रि­क्ष­म­सृ­जत’(तै.ब्रा.२.२.४.२) इत्या­दि­श्रु­तिभिः ‘नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः’ इत्या­दि­स्मृ­ति­भि­श्चा­र्थानां शब्द­प्र­भ­व­त्वा­व­धा­र­णेन शब्दा­ना­मा­श्र­य­त्व­म­र्था­ना­मा­श्र­यि­त्व­मि­त्य­त्रो­पा­दा­नो­पा­दे­य­भा­वस्य विनिगमकस्य सत्त्वात् । ज्ञाप्य­ज्ञा­प­क­भा­व­कृतं सामा­ना­धि­क­र­ण्य­मि­त्य­प्य­यु­क्तम् ; ‘घटोऽयम्’ इत्या­दि­सा­मा­ना­धि­क­र­ण्या­नु­भ­वस्य ‘मृद्घटः’ इत्यादिवत् प्रमा­ण­सि­द्धो­पा­दा­नो­पा­दे­य­भा­व­मू­ल­तया प्रमा­रू­प­त्व­स­म्भवे लिपिषु ‘ककारोऽयम्’ इत्यादिवत् भ्रमरूपत्वस्य, औपचारिकत्वस्य वा कल्पनायोगात् । न च ज्ञाप्य­ज्ञा­प­क­भा­व­स्यापि सामा­ना­धि­क­र­ण्य­प्र­यो­ज­क­त्वा­भ्यु­प­ग­मात् लिपिषु ‘ककारोऽयम्’ इत्यादिरपि प्रमारूप एवेति वाच्यम् । तया सति ‘धूमो वह्निः’ इत्यपि सामा­ना­धि­क­र­ण्या­नु­भ­व­प्र­स­ङ्गेन ज्ञाप्य­ज्ञा­प­क­भा­वस्य तत्प्र­यो­ज­क­त्वा­भ्यु­प­ग­मा­यो­गात् । लिप्य­क्ष­र­ग­त­ज्ञा­प्य­ज्ञा­प­क­भा­व­मा­त्रस्य सामा­ना­धि­क­र­ण्या­नु­भ­व­प्र­यो­ज­क­त्व­म­भ्यु­प­गम्य तत्प्र­मा­त्व­स­म­र्थने तु नास्ति तस्य प्रकृतोपयोगः, तावता ‘घटोऽयम्’ इत्या­दि­सा­मा­ना­धि­क­र­ण्या­नु­भ­व­प्र­मा­त्वा­नि­र्वा­हात् ।

यत्तु ‘घटोऽयम्’ इत्यादौ शब्दार्थयोः सामा­ना­धि­क­र­ण्या­नु­भव एवासिद्धः; पद­द्व­या­र्पि­त­यो­र­र्थ­यो­रेव पर­स्प­रा­न्व­या­दिति । तत्रेदमुच्यते । ‘डित्थोऽयं ब्राह्मणः’ इत्यादौ डित्था­दि­श­ब्दा­ना­मे­वा­र्था­न्वयः इति ताव­द­ङ्गी­क­र्त­व्यम् ; यदृ­च्छा­श­ब्दा­भि­धे­यानां सम­र्प­णी­या­र्था­भा­वात् । न च तेषामपि तत्त­द­सा­धा­र­म­कृ­ति­वि­शे­षा­दय एवार्थाः समर्पणीयाः स्युरिति वाच्यम् । तत्त­दा­कृ­ति­वि­शे­षा­न­भि­ज्ञानां डित्थो नाम कश्चि­द­स्ती­त्या­दि­मा­त्र­म­व­ग­च्छ­ता­मपि ‘डित्थः कीदृशः’ इत्या­दि­प्र­श्न­द­र्श­नात् , ‘एता­दृ­शा­कृ­ति­वि­शे­ष­शाली डित्थः’ इत्या­द्यु­त्त­र­वा­क्येषु तत्त­दा­कृ­ति­वि­शे­षा­दीनां शब्दा­न्त­रे­णो­पा­दा­नाच्च । एवं ‘पृथिवीत्ववती पृथिवी’ ‘प्रमाकरणं प्रमाणम्’ इत्या­दि­ल­क्ष­ण­वा­क्येषु जात्यु­पा­धि­श­ब्दा­ना­मपि स्वरूपत एवार्थान्वयो वाच्यः; तत्स­म­र्प­णी­य­पृ­थि­वी­त्वा­दीनां शब्दान्तरेण समर्पितत्वात् । न च द्विवि­धेऽ­प्यु­दा­ह­रणे डित्थ­पृ­थि­व्या­दि­श­ब्दानां लक्षणया तत्त­च्छ­ब्द­वा­च्य­मर्थ इति शङ्कनीयम् ; शब्दा­ना­म­र्था­नाञ्च श्रुति­सि­द्धो­पा­दा­नो­पा­दे­य­भा­व­मू­ल­ता­दा­त्म्य­स­त्त्वेन डित्था­दि­श­ब्दा­मा­त्र­ल­क्ष­णया डित्था­दि­श­ब्दा­ना­मेव तादात्म्येन विशे­ष­ण­त्वो­प­पत्तौ तेषां तत्त­च्छ­ब्द­वा­च्य­त्व­प­र्य­न्त­ल­क्ष­मा­क­ल्प­न­स्या­यु­क्त­त्वात् । प्रत्य­क्षो­प­स्थि­ता­ना­मेव वा तेषां मन्त्राणां नियो­ग­भा­व­ना­न्व­य­वत् स्वस्वा­र्था­न्व­य­स्यो­प­पत्तौ लक्ष­णा­क­ल्प­न­स्यैव युक्तत्वात् ।

अपि च शब्दसमर्पकाः शब्दा यत्रार्थेषु प्रयुज्यन्ते, तत्र प्रयु­क्त­श­ब्द­स­म­र्पि­ति­त­त्त­च्छ­ब्द­ता­दा­त्म्य­प्र­ती­ति­र­र्थे­ष्व­ङ्गी­क­र्तव्या । यथा ‘दशपूर्वरथः’ ‘हस्त्यु­प­प­द­गिरिः’ इत्या­दि­प्र­यो­गेषु प्रयु­क्त­श­ब्द­स­म­र्पि­त­द­श­र­थ­ह­स्ति­गि­रि­प्र­मु­ख­श­ब्दा­त्म­ता­प्र­ती­ति­र्नृ­प­ति­प­र्व­त­वि­शे­षा­दिषु । यथा वा द्विरे­फा­दि­श­ब्द­प्र­यो­गेषु तत्स­म­र्पि­त­भ्र­म­र­श­ब्दा­दि­ता­दा­त्म्य­प्र­ती­ति­र्म­धु­क­रा­दिषु । यथा च ईक्ष­ति­प­री­ष्टि­ग­म्या­दि­श­ब्द­प्र­यो­गेषु तत्स­म­र्पि­त­भ्र­म­र­श­ब्दा­दि­ता­दा­त्म्य­प्र­ती­ति­स्त­द्धा­त्व­र्थेषु । न च त्रिवि­धेऽ­प्यु­दा­ह­रणे शब्द­वा­च­क­श­ब्दानां स्वार्थ­रू­प­श­ब्द­स­म्ब­न्धि­ष्व­र्थेषु गङ्गादिशब्दानां तीरादिष्विव लक्षणा स्यादिति वाच्यम् । प्रवा­ह­ती­रा­दि­भे­देन तत्र लक्ष­णाऽ­पे­क्षा­या­म­प्यत्र श्रुति­सि­द्धो­पा­दा­नो­पा­दे­य­ता­प्र­यु­क्ता­भे­द­स­त्त्वेन, लक्ष­णाऽ­न­पे­क्ष­णात् । लक्षणायामपि लक्ष्य­स्या­भि­धे­या­भे­द­प्र­ती­ति­स­त्त्वे­नात्र लक्ष­णा­भ्यु­प­ग­मेऽपि शब्दा­र्था­भे­द­प्र­ती­ते­र­नि­वा­र्य­त्वाच्च । ‘गङ्गायां घोषः’ ‘गङ्गायां तपोधनः’ इत्या­दि­व्य­व­हा­रे­ष्वपि घोष­त­पो­ध­ना­दि­वा­स­स्थ­लस्य प्रवा­हा­दि­ग­ता­ति­श­यि­त­शै­त्य­पा­व­न­त्वा­दि­द्यो­त­नार्थं प्रवा­हा­द्य­भे­द­बो­ध­ना­यैव हि गङ्गा­दि­श­ब्द­प्र­यो­गः,अ­न्यथा स्वाय­त्त्वा­च्छ­ब्द­प्र­यो­गस्य यत्र गङ्गातीरग्रामे घोषस्तपोधनो वा वसति तद्ग्रा­म­ना­म्न्येव लघूपायो वक्तुं शक्ये गुरू­पा­य­भू­त­ल­क्ष­क­प­द­प्र­यो­गस्य निष्फ­ल­त्वा­पत्तेः । एवं लक्ष्य­स्या­भि­धे­य­ता­दा­त्म्य­प्र­ती­ति­स­त्त्वा­देव ‘‘जाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम्’(क.व.८८) इत्यादिकविता साङ्गत्यं प्रतिपद्यते, अन्यथा वनिताङ्गयष्टौ वल्ली­ता­दा­त्म्या­ध्य­व­सा­यस्य तत्पयोधरयोः पर्व­त­ता­दा­त्म्या­ध्य­व­सा­यस्य चाभावे ‘सम्प्रति तद्विपरीतम्’ इत्येतन्न सङ्गच्छते ।

ननु तथाऽपि घटा­दि­नि­ष्प­त्ति­स­मये तत्का­र­ण­च­क्रा­न्त­र्ग­तानां कुला­ला­द्यु­च्चा­र्य­मा­णानां घटा­दि­श­ब्दा­ना­म­भा­वात् मनसा तद­नु­स­न्धा­न­क­ल्प­नेऽपि घट­क­ल­श­कु­म्भा­द्ये­कै­क­प­र्या­या­भि­ज्ञ­कु­ला­ल­नि­र्मि­त­घ­टेषु उपा­दा­न­व्य­व­स्थि­त्य­वि­नि­ग­म­प्र­स­ङ्गात्, तेषां याव­द्घ­टा­व­स्थि­त्य­व­स्था­ना­स­म्भ­वाच्च कथं शब्दा­ना­म­र्थो­पा­दा­न­त्व­मु­प­प­द्यत इति चेत् । उच्यते । क्रम­वि­शे­ष­वि­शि­ष्ट­घ­का­रा­दि­स­मु­दा­या­त्मकः शब्दो घटवाचक इति नेष्यते, किन्तु तथा­भू­त­ना­दा­भि­व्य­ङ्ग्य­स्फो­टा­त्म­क­शब्द इति तस्य नित्यत्वेन घटोत्पत्तिसमये सन्निघानाच्च तत्कारणत्वे काचिदनुपपत्तिः ।

पदेषु श्रूय­मा­ण­व­र्ण­व्य­ति­क­रेण तद­भि­व्य­ङ्ग्य­स्फो­ट­स­द्भावे किं मानमिति चेत् – ‘घट इत्येतदेकं पदम्’ इति धीर्मानम् । न हीय­मे­क­त्व­धी­र्व­र्ण­वि­ष­येति युक्तम् ; वर्णा­ना­मे­क­त्वात् । न च सेना­व­ना­दि­न्या­या­दौ­पा­धि­क­मे­कत्वं तद्विषयः; एक­त्वो­दा­धे­र­नि­रू­प­णात् । तदनिरूपणं चानुपदमेव स्फुटीभविष्यति । तथा शब्दा­ना­म­र्थ­वा­च­क­त्वा­न्य­था­नु­प­प­त्ति­रपि वर्णा­ति­रि­क्त­स्फो­ट­स­द्भावे मानम् ; वर्णानां वाच­क­त्वा­स­म्भ­वे­ना­न्य­थो­प­प­त्त्य­भा­वात् । तथा हि – घकारादयो वर्णाः प्रत्येकं घटमभिदधीरन् मिलिता वा ? नाद्यः । एक­व­र्णो­च्चा­र­णा­न­न्त­र­म­र्थ­प्र­त्य­ता­द­र्श­नात्, वर्णा­न्त­रो­च्चा­र­णा­न­र्थ­क्य­प्र­स­ङ्गाच्च । न द्वितीयः । एक­व­क्तृ­प्र­यु­ज्य­मा­नानां क्रमि­का­णा­मा­शु­त­र­वि­ना­शिनां वर्णानां मेलनायोगात् ।

ननु च वर्णा नित्या एव, नाशुतरविनाशिनः; उच्चारणान्तरे ‘सोऽयं गकारः’ इत्या­दि­प्र­त्य­भि­ज्ञया पूर्व­श्रु­त­ग­का­रा­द्य­भे­दा­व­गा­हिन्या स्थायित्वसिद्धौ ‘तावत्कालं स्थितं चैनं कः पश्चा­न्ना­श­यि­ष्यति’ इति न्यायेन तस्या­स्त­न्नि­त्य­त्व­प­र्य­व­सा­नम् । न च – प्रतिपुरुषं वैल­क्ष­ण्य­द­र्श­नात्, एक­पु­रु­षो­च्चा­रि­च­त­व­र्णे­ष्वपि सानु­ना­सि­क­नि­र­नु­ना­सि­को­दा­त्ता­नु­दा­त्त­स्व­रि­त­ता­र­म­न्द्रा­दि­वै­ल­क्ष­ण्य­द­र्श­नाच्च प्रत्युच्चारणं भिन्ना एव वर्णाः । तेषु ‘सोऽयं गकारः’ इत्या­द्य­भे­द­प्र­त्य­भिज्ञा गत्वा­दि­सा­मा­न्यो­पा­धि­नि­ब­न्धना इति वाच्यम् । वैल­क्ष­ण्या­नु­भ­वानां प्रतिपुरुषं विजातीयेषु प्रत्युच्चारणं स्थान­प्र­य­त्न­वै­चि­त्र्या­द्वि­ल­क्ष­णेषु च तत्त­दु­च्चा­र­ण­ज­न्येषु वर्णा­भि­व्य­ञ्ज­केषु ध्वनि­ष्व­नु­भू­य­मा­नस्य वैलक्षण्यस्य ध्वनि­व­र्ण­वि­वे­का­ग्र­हेण वर्ण­ग­त­त्वा­भि­मा­न­रू­प­तो­प­पत्तेः । अभे­द­प्र­त्य­भि­ज्ञाया गत्वा­दि­वि­ष­य­त्व­क­ल्प­नस्य सर्व­का­ल­स­र्व­पु­रु­ष­ग­त­ग­का­रा­द्य­भे­द­वा­द्य­स­म्म­त­ग­त्वा­दि­जा­ति­क­ल्प­ना­पे­क्ष­त्वेन दुर्बलत्वात् । दूर­ग­त­को­ला­ह­ल­श्र­वणे वर्णा­ति­रि­क्त­ध्व­न्य­नु­भ­व­स­त्त्वेन वर्ण­ग­त­भे­द­प्र­त्य­यो­पा­धीनां ध्वनीनां क्लृप्तत्वात् । अतो नित्यानां वर्णानां मेलनं सम्भवतीति चेत् ।

मैवम् । नित्य­त्वा­भ्यु­प­गमे सदा विद्य­मा­ना­ना­म­न­भि­व्य­क्तानां तेषा­म­र्थ­धी­हे­तु­त्वा­भा­वेन तत्त­दु­च्चा­र­ण­वि­शे­ष­ज­न्य­ध्व­नि­वि­शे­ष­कृ­ता­भि­व्य­क्ति­वि­शि­ष्टा­ना­म­र्थ­धी­हे­तु­त्वस्य वक्त­व्य­त­याऽ­भि­व्य­क्ति­रू­प­वि­शे­ष­णा­ना­मा­शु­त­र­वि­ना­शि­त्वेन तद्वि­शि­ष्ट­व­र्णानां मेलनायोगात् । न च – पूर्व­पू­र्व­व­र्णा­नु­भ­व­ज­नि­त­सं­स्का­र­स­हि­ता­न्त्य­व­र्णा­नु­भ­वोऽ­र्थ­धी­हे­तु­रि­ष्यते, ततश्च पूर्ववर्णानां संस्कारद्वारा अन्त्यवर्णस्य स्वत­श्चा­भि­व्य­क्त­वि­शि­ष्ट­तया मेलनमस्तीति वाच्यम् ; संस्काराणां पूर्वा­नु­भ­व­वि­ष­य­गो­च­र­स्मृ­ति­ज­न­न­मा­त्र­श­क्त­त्वेन वर्णा­नु­भ­व­ज­न्य­सं­स्का­रै­र­र्थ­स्म­र­णा­यो­गात्, पूर्व­पू­र्व­व­र्णा­नु­भ­व­ज­नि­ता­ती­न्द्रि­य­सं­स्का­र­वि­शि­ष्टा­न्ति­म­व­र्ण­स्या­भि­धा­य­क­त्व­प­र्य­व­सा­नेन ज्ञातकरणतया वक्तव्यस्य तस्या­र्थ­प्र­त्य­यात् प्राक् ज्ञानो­पा­या­भा­वाच्च । अर्थप्रत्ययादेव तदनुमितौ पर­स्प­रा­श्र­या­पत्तेः ।

न च प्रत्ये­क­व­र्णा­नु­भ­व­ज­नि­त­सं­स्का­र­बृ­न्द­ज­न्यै­क­स्मृ­ति­वि­ष­यी­भूतो घका­रा­दि­व­र्ण­स­मु­दा­योऽ­भि­धा­यकः स्यादिति वाच्यम् । तथा सति ‘रसः सरः पिकः कपिः’ इत्या­दि­प्र­यो­गेषु समू­हा­ल­म्ब­न­स्मृ­ते­स्तु­ल्य­वि­ष­य­त्वेन पद­वि­शे­ष­प्र­ती­त्य­भा­व­प्र­स­ङ्गात् । न चैकस्मृतिविषयः क्रम­वि­शे­ष­वि­शि­ष्ट­व­र्ण­स­मु­दा­योऽ­भि­धा­यकः स्यादिति वाच्यम् । वर्णानां स्थैर्यं व्यापकत्वं चाभ्युपगच्छतः सिद्धा­न्ति­न­स्तेषु कालतो देशतो वा क्रमाभावात् । न च क्रमि­को­च्चा­र­ण­वि­श­य­त्व­मेव तेषु क्रमः, लिप्य­क्ष­रा­नु­मि­त­श्लो­कै­र­नु­च्च­रि­तै­र­र्था­व­गमे तदभावात् । न चोच्चा­र­ण­प­द­स्था­नेऽ­नु­स­न्धा­न­प­द­नि­वे­श­नेऽपि निर्वाहः; समू­हा­ल­म्ब­ना­व­ग­तै­र्लि­प्य­क्ष­रै­र्यु­ग­प­द्व­र्णा­नु­मि­ता­व­नु­स­न्धा­न­क्र­म­स्या­प्य­भा­वात् । तस्माद्वर्णानां प्रत्येकं मिलितानां वा वाच­क­त्व­स्यो­प­पा­द­यि­तु­म­श­क्य­त्वा­त्तेषु स्वरू­पे­णै­का­र्थ­वा­च­क­त्वो­पा­धिना वा ‘एकं पदम्’ इति बुद्धे­रु­प­पा­द­यि­तु­म­श­क्य­त्वाच्च गका­रा­दि­व्य­ति­रि­क्त­स्त­द­भि­व्यङ्ग्य एकः स्फोटात्मा घटादिवाचकः शब्दोऽभ्युपेयः ।

न च तस्यापि घका­रा­दि­प्र­त्ये­क­स­मु­दा­या­भि­व्य­ङ्ग्य­त्व­प­क्ष­यो­रु­क्त­दो­षा­नु­षङ्गः; यतो घकारादयः प्रत्येकमेव तम­भि­व्य­ञ्ज­य­न्ती­त्य­ङ्गी­क्रि­यते, किन्तु द्रागेव विशदतरं नाभिव्यञ्जयन्ति । कथं तर्हि ? बहुशः श्रवणानि श्लोकमिव पुनः­पु­न­र्नि­री­क्ष­णानि रत्नतत्त्वमिव उत्क्षे­प­ण­त्वा­दि­जा­त्या­श्र­या­ने­क­क­र्म­व्य­क्ति­द­र्श­नानि तत्तज्जातिमिव च क्रमेण विश­द­त­र­म­व­भा­स­यन्ति । विश­द­त­र­म­व­भा­स्य­मान एव स्फोटोऽ­र्थ­प्र­त्य­य­हेतुः इति न प्रथ­मा­दि­व­र्णै­र­वि­श­द­तया स्फोटा­भि­व्य­क्त्याऽ­र्थ­धी­प्र­सङ्गः । न चैवं वर्णाः प्रत्ये­क­मे­वा­र्थ­धियं जनयन्ति, अन्तिमवर्णस्तु तां विशदतरां जनयति, विशदतरैवार्थधीः स्वका­र्यो­प­यो­गि­नीति वक्तुं शक्यम् ; प्रत्य­क्ष­स्फो­टा­व­भास इव परोक्षे शब्दा­र्थ­प्र­त्यये विश­दा­वि­श­द­वि­भा­गा­स­म्भ­वात् । प्रत्य­क्ष­ज्ञा­न­धर्मो हि स्पष्टा­स्प­ष्ट­वि­भागो न तु शाब्द­ज्ञा­न­ध­र्मोऽपि । वस्तुतो घटा­दि­वा­च­क­स्फो­टा­व­भासे घका­रा­दि­क्र­म­वि­शे­ष­वि­शि­ष्ट­त­याऽ­नु­स­न्धी­य­मा­नोऽ­न्ति­म­वर्ण एव हेतुः; पदा­न्त­र्ग­त­व­र्णा­व­ग­तीनां पूर्व­पू­र्व­व­र्ण­क्र­म­वि­शे­षि­तो­त्त­र­व­र्ण­वि­ष­य­त्वा­भ्यु­प­ग­मात् । अतः प्रथ­मा­दि­व­र्णै­र­वि­श­द­स्फो­टा­व­ग­ति­र­नु­भ­व­सिद्धा नेति दोषस्य नावकाशः । नापि विप­री­त­क्र­मो­च्चा­रणे विश­द­त­र­स्फो­टा­भा­स­प्र­सङ्गः । घकारादिक्रमश्च न तदु­च्चा­र­ण­क्र­म­स्त­द­नु­स­न्धा­न­क्रमो वा, किन्तु स्वाभाविको घकारादिगत एव; घत्वा­दी­ना­मु­दा­त्त­नु­दा­त्त­ह्र­स्व­दी­र्घ­त्वा­दी­ना­मिव तत्त­दु­च्चा­र­ण­ज­न्य­ध्व­नि­ध­र्म­त्वा­ङ्गी­का­रात् । वर्णा­भि­व्य­ञ्ज­क­त्वेन वर्ण­वा­द्य­भि­म­तै­र्ध्व­निभिः साक्षादेव स्फोटा­भि­व्य­क्ति­स­म्भवे ध्वनिस्फोटमध्ये नित्य­व­र्णा­ङ्गी­कारे गौरवात् । दूर­ग­त­को­ला­ह­ल­श्र­वणे घत्वादीनां श्रूय­मा­ण­ध्व­नि­ग­ता­ना­मेव दूर­त्वा­दि­दो­षे­णा­न­भि­व्य­क्ति­स­म्भ­वात् । ‘सोऽयं गकारः’ इत्या­दि­प्र­त्य­भि­ज्ञानां गत्वा­द्य­धि­क­र­ण­ध्व­न्य­भि­व्य­क्तेषु दर्प­ण­मु­क­व­द­भि­व्य­ञ्ज­क­ध­र्म­रू­पि­त­तया प्रतीयमानेषु वर्णस्फोटेष्वेव विश्रान्तेः । एवं च ‘तदेवेदं घट इति पदम्’ ‘तदेवेदं घटमानयेति वाक्यम्’ इत्यादिरूपा पद­वा­क्य­प्र­त्य­भि­ज्ञाऽपि पद­वा­क्य­स्फो­ट­वि­ष­य­त्वेन समर्थिता भवति । स्फोट­म­न­भ्यु­प­ग­च्छतां तु वर्ण­नि­त्य­त्वा­भ्यु­प­ग­मेन वर्ण­प्र­त्य­भि­ज्ञैव सालम्बना स्यात्, न तु पद­वा­क्य­प्र­त्य­भि­ज्ञाऽपि । न च तुल्ये प्रत्य­भि­ज्ञा­नेऽ­र्ध­ज­र­तीयं युक्तम् । समू­हा­ल­म्ब­ना­व­ग­त­लि­प्य­क्ष­रै­र्यु­ग­प­द्व­र्णा­नु­मि­ति­स्थले विव­क्षि­त­व­र्ण­क्र­मा­नु­सा­रिणा लेखनक्रमेण विशि­ष्ट­त­याऽ­व­ग­तै­र्लि­प्य­क्षरैः क्रम­वि­शे­ष­वि­शि­ष्टा­ना­मेव वर्णा­ना­म­नु­म­ति­रिति तत्रापि पूर्व­पू­र्व­व­र्ण­क्र­म­वि­शि­ष्टा­न्ति­म­व­र्णा­नु­भ­व­स­त्त्वान्न स्फोटावभासे काचिदनुपपत्तिः ।

ननु घकारश्रवणे घत्वा­धा­र­व्य­ति­रे­केण तदनाधारो वर्णस्फोटो वा घटपदश्रवणे वर्ण­स­मु­दा­य­व्य­ति­रे­के­णा­खण्डः पदस्फोटो वा ‘घटमानय’ इति वाक्यश्रवणे पद­स­मु­दा­य­व्य­ति­रे­के­णा­खण्डो वाक्यस्फोटो वा नानुभूयते, कथमेषां कल्पनमिति चेत् ; तर्हि उदा­त्ता­नु­दा­त्त­ह्र­स्व­दी­र्घ­त्वा­दि­ध­र्मा­धा­र­व्य­ति­रे­केण वर्णा­व­य­व्य­ति­रे­केण च वर्णा नानुभूयन्त इत्यु­दा­त्त­त्वा­द्य­ना­धा­रा­ख­ण्ड­व­र्ण­क­ल्प­न­मपि न स्यात् । अनुभ्य़्यन्ते हि पद­वा­क्य­यो­र्व­र्ण­प­द­रू­पा­व­यवा इव वर्णेष्वपि तदवयवाः । तद्यथा ऋकारे रेफः, लृकारे लकारः , एकारैकारयोरकार इकारश्च , ओकारौकारयोरकार उकारश्च , दीर्घे­ष्वा­का­रा­दिषु ह्रस्वा अकारादयः ।

तत्रैते वर्णावयवा अपि वर्णा इति केषा­ञ्चि­द्द­र्श­नम् । नैते वर्णाः , किन्तु तत्त­द्व­र्ण­स­मा­ना­कृ­त­योऽ­व­यवा इत्यन्येषां दर्शनम् । तत्र मीमांसकैः पूर्व (वर्ण) पक्षमाश्रित्य ‘सामप्रदेशे विका­र­स्त­द­पेक्षः’(जै.सू.९.२.९) इति सामाहाधिकरणे ऋक्षु सतां सन्ध्यक्षराणां गीतिकाले वृद्धत्वं प्राप्तानां ये आइभावाः आउभावाश्च न ते स्तोभवत् वर्णा­न्त­रा­ग­म­रूपाः , किन्तु वृद्धेषु सन्ध्यक्षरेषु संश्लिष्टतया स्थितानामेव अव­र्णे­व­र्णो­व­र्णानां गानकाले विश्लेषणमात्रं गीत्युपायतया ऋग्ग­त­त­त्त­त्स­न्ध्य­क्ष­रा­भि­व्य­ञ्ज­क­मि­त्यु­क्तम् । आश्वलायनेनापि ‘विविच्य सन्ध्य­क्ष­रा­णा­म­का­रम्’ इति याज्यान्ते स्थितानां सन्ध्य­क्ष­रा­णा­म­कारं विश्लिष्य तं प्लावयेत् इति विदधानेनायमेव पक्षोऽङ्गीकृतः । पाणिनिनाऽपि ‘प्लुतावैच इदुतौ’(पा.सू.८.२.१०६) इति सूत्रेण ‘ए ३ तिकायन’ ‘औ ३ पग्व’ इत्युदाहरणेषु ‘गुरो­र­नृ­तोऽ­न­न्त्य­स्या­प्ये­कै­कस्य प्राचाम्’(पा.सू.८.२.८६) इत्या­दि­सू­त्रै­रैचः प्लुतप्रसङ्गे तस्यान्त्यावयवा विकारोकारौ प्लवेते, न तु तदा­द्या­व­य­वोऽ­का­रो­पीति विदधानेनायं पक्षोऽङ्गीकृतः , किन्तु तेन ‘एचोऽ­प्र­गृ­ह्य­स्या­दू­रा­द्धूते पूर्व­स्या­र्ध­स्या­दु­त्त­र­स्ये­दुऔ’(पा.सू.८.२.१०७) इति सूत्रेण एचः अप्रगृह्यस्य दूरा­द्धू­त­व्य­ति­रिक्ते ‘प्रत्य­भि­वा­देऽ­शूद्रे’(पा.सू.८.२.८३) ‘विचा­र्य­मा­णा­नाम्’(पा.सू.८.२.९७) ‘याज्यान्तः’(पा.सू.८.२.९०) इत्या­दि­सू­त्र­प्रा­प्त­प्लु­त­वि­षये पूर्व­स्या­र्ध­स्या­का­रा­देशो भवति स च प्लुतो भवति , उत्तरस्यार्धस्य इकारावादेशौ भवत इति विदधानेन वर्णावयवा न वर्णा इत्यपि पक्षान्तरं सूचितम् , अन्यथा एचि विद्य­मा­ना­ना­म­व­र्णे­व­र्णो­व­र्णानां विश्ले­ष­ण­मा­त्र­म­व­र्णस्य प्लुतेन सह विदध्यात्, न तु तान् पुर्वौ­त्त­रा­र्ध­यो­रा­दे­श­रू­पान् । एवं पक्ष­द्व­य­स­द्भा­वा­देव भगवता पतञ्जलिना कात्यायनेन च ‘एऔच्’ इति सूत्रे वर्णैकदेशानां वस्तुतो वर्णतया वर्णग्रहणेन ग्रहणे ‘अग्न इन्द्र’ ‘वायो उदकम्’ इत्यत्र सवर्णसीर्घः प्राप्नोति , ‘आलूय’ ‘प्रालूय’ इत्यत्र ह्रस्वा­श्र­य­स्तुक् प्राप्नो­ती­त्या­दि­दोषं प्रदर्श्य तेषां वर्णैकदेशतया वर्ण­ग्र­ह­णे­ना­ग्र­हणे च ‘आनृधतुः’ ‘आनृधुः’ इत्यत्र ‘आनर्च’ ‘आनर्चतुः’ इत्यत्रेव ‘तस्मान्नुड् द्विहलः’(पा.सू.७.४.७१) इति नुट् प्राप्नोति , ‘क्लृप्तः’ ‘क्लृप्तवान्’ इत्यत्र ‘कल्पिता’ ‘कल्प्ता’ इत्यत्रेव ‘कृपो रोलः’(पा.सू.८.२.१८) इति लत्वं न प्राप्नो­ती­त्या­दि­दोषं प्रदर्श्य पक्षद्वयमपि महता प्रयत्नेन दोषजातं समाधाय समर्थितम् । सन्तु ऋकारादिषु रेफादयो वर्णाः , सन्त्ववर्णा एव वा वर्ण­स­मा­ना­कृ­त­योऽ­व­यवाः , उभयथाऽपि ऋकारादिषु रश्रुत्यादिरूपा अवयवाः सन्ती­त्य­वि­प्र­ति­प­न्न­मेव । किं बहुना , सर्वे­ष्व­प्य­व­र्णा­दिषु ह्रस्व­दी­र्घ­प्लु­त­रू­पेषु स्वरितेषु पूर्वो­त्त­र­भा­गा­व­ङ्गी­कृत्य पाणिनिना ‘तस्यादित उदा­त्त­म­र्ध­ह्र­स्वम्’(पा.सू.१.२.३२) इति सूत्रेण आदितः स्वरि­त­स्या­र्ध­मा­त्रिको भाग उदात्तः अवशिष्टो भागोऽनुदात्तः इति वर्णितम् । एवं वर्ण­प­दा­व­ली­व्य­ति­रि­क्त­ख­ण्ड­प­द­वा­क्या­प­लापे उदा­त्त­त्वा­दि­ध­र्मा­धा­र­व­र्णा­व­लि­व्य­ति­रि­क्ता­ख­ण्ड­व­र्णा­प­ला­पोऽपि स्यादिति दुस्तरा प्रतिबन्दी ।

अत्रैवं वर्ण­वा­दि­भि­र्व­क्त­व्यम् । वर्णा­ना­मु­दा­त्ता­नु­दा­त्त­त्वै­क­मा­त्र­त्रि­मा­त्र­त्वा­द्या­धा­रा­का­रे­का­रो­का­रा­दि­स्व­रू­प­क्र­मि­का­व­य­व­स­मु­दा­य­रू­पत्वे ‘एकार एको वर्णः’ ‘ओकार एको वर्णः’ इत्या­द्ये­क­त्व­प्र­त्य­यस्य ‘स एवायमेकारः’ ‘स एवायमोकारः’ इत्या­द्य­भे­द­प्र­त्य­भि­ज्ञा­नस्य चानु­प­प­त्ते­र­खण्डा एव वर्णाः । तेष्व­व­य­व­स­मु­दा­य­रू­प­ताऽ­व­भा­सस्तु तदु­च्चा­र­ण­वि­शे­ष­ज­न्य­त­त्त­द्व­र्ण­स­मा­ना­का­र­क्र­मि­क­ध्व­नि­वि­शे­ष­स­न्ता­नो­प­रा­गो­पा­धिक इत्यभ्युपेयमिति । एवमेव स्फोटवादिभिरपि वक्तुं शक्यम् । पदानां वाक्यानां च क्रमि­क­व­र्ण­प­द­रू­पा­व­य­व­स­मु­दा­य­रू­पत्वे ‘इदमेकं पदम्’ ‘इदमेकं वाक्यम्’ इत्ये­क­त्व­प्र­त्य­यस्य ‘तदेवेदं पदम्’ ‘तदेवेदं वाक्यम्’ इत्य­भे­द­प्र­त्य­भि­ज्ञा­नस्य चानु­प­प­त्ते­र­ख­ण्डा­न्येव पदानि वाक्यानि च । तेषु वर्ण­प­द­रू­पा­व­य­व­स­मु­दा­या­त्म­ताऽ­व­भा­स­स्त­त्त­दु­च्चा­र­ण­वि­शे­ष­ज­न्य­व­र्ण­त­त्स­ङ्घा­त­रू­प­ध्व­नि­वि­शे­षो­प­रा­गो­पा­धिक इत्यभ्युपेयम् । अतो न परमार्थतो वर्णस्फोटेषु वर्णावयवा न पदस्फोटेषु पदानि । किन्तु यथि­अ­क­त्वा­दि­सं­ख्या­ति­रि­क्ता­या­म­ख­ण्डायां सतसंख्यायां सत्यामपि तस्यां तद्ग्र­ह­णो­पा­य­भू­त­ता­व­दे­क­त्व­स­मु­दा­य­रू­प­ता­भ्रा­न्ति­र्बा­ला­ना­मे­व­मि­हापि वर्ण­प­द­वा­क्य­स्फो­टेषु तत्त­द­भि­व्य­ञ्ज­क­क्र­मि­क­ध्व­नि­वि­शे­षा­त्म­क­व­र्णा­व­य­व­व­र्ण­प­द­स­मु­दा­य­रू­प­ता­भ्रा­न्ति­मा­त्र­मि­त्ये­वा­वि­शे­षेण कल्प­यि­तु­मु­चि­त­मिति ।

तस्मादस्ति तावत् वर्णा­व­ली­व्य­ति­रिक्तो घटवाचकः स्फोटः । स तु यावन्तो घटशब्दपर्यायाः तैः सर्वैरप्येक एवाभिव्यज्यते ; प्रतिपर्यायं स्फोटभेदे प्रमाणाभावात् । अतस्तस्यैकस्य घटकारणतया नाव्य­व­स्थि­त्य­वि­नि­ग­म­दो­षा­पा­दा­ना­व­काशः । एवमन्येषामपि पदस्फोटानां स्वस्वा­र्थ­का­र­णत्वं द्रष्टव्यम् । सर्वे चैते स्फोटाः प्रण­व­स्फो­ट­प्र­कृ­ति­का­स्त­दा­त्मकाः ; ‘ओंकारेण सर्वा वाक् सन्तृण्णा’(छा.२.२३.३) इति श्रुते­स्त­द्वि­ष­य­त्वात् ।अतस्तस्मिन् प्रणवस्फोटरूपे शब्दब्रह्मणि जगद्धारकत्वं तावत् अञ्जसैव उपपद्यते । ‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­घम्’(बृ. ३.८.८) इति तार­म­न्द्र­त्वै­क­मा­त्र­द्वि­मा­त्र­त्व­नि­षेधाः । तेऽप्य­ञ्ज­सो­अ­प­द्यन्ते ; ध्वनिधर्माणां तारत्वादीनां तस्मिन् भ्रम­रू­प­प्र­स­क्ति­स­त्त्वात् । ‘अलो­हि­त­म­स्ने­ह­म­च्छा­य­म­त­मोऽ­वा­य्व­ना­का­श­म­स­ङ्ग­म­र­स­म­ग­न्ध­म­च­क्षु­ष्क­म­श्रो­त्र­म­वा­ग­म­नोऽ­ते­ज­स्क­म­प्रा­ण­म­मु­ख­म­मा­त्र­म­न­न्त­र­म­बाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन’(बृ. ३.८.८) इति पाञ्च­भौ­ति­क­श­री­र­त­द्ध­र्माणां निषेधः , तत्र ‘अवा­य्व­ना­का­श­म­र­स­म­ग­न्ध­म­ते­ज­स्कम्’(बृ. ३.८.८) इति पञ्च­भू­ता­त्म­क­त्व­नि­षेधः, ‘अलो­हि­त­म­स्ने­हम्’ इत्य­सृ­ङ्म­ज्जो­प­ल­क्षि­ता­ना­म­स्थि­मां­सा­दी­ना­मपि निषेधः , ‘अचक्षुष्कम्’ इत्यादिना चक्षु­रा­द्यु­प­ल­क्षि­त­स­क­ल­ज्ञा­ने­न्द्रि­य­क­र्मे­न्द्रि­या­भ्य­न्त­र­वा­यु­नि­षेधः , ‘अमुखम्’ इति स्वेद­दू­षि­का­दि­नि­स्स­र­ण­नि­षेधः । ‘मुखं निस्सरणे वक्त्रे प्रार­म्भो­पा­य­यो­रपि इति नैखण्डुकाः । ‘अमात्रम्’ इति सूक्ष्म­श­री­र­नि­षेधः , ‘असङ्गम्’ इति दोषलेपनिषेधः, ‘अनन्तरमबाह्यं न तदश्नाति किञ्चन’ इति बाह्या­भ्य­न्त­र­स­क­ल­भो­ग­नि­षेधः ।

यद्वा ‘न तदश्नाति’ इत्यनेनैव भोगनिषेधे भोगोपयुक्तानां बाह्या­भ्य­न्त­रे­न्द्रि­या­दीनां ‘अन­न्त­र­म­बा­ह्यम्’ इति सामान्येन निषेधः । ‘न तदश्नाति कश्चन’ इति ‘तं देवा भक्षयन्ति’ इति श्रुत­क­र्म­प­र­त­न्त्र­स्व­र्गि­व­द­न्य­प­र­त­न्त्र­त्वस्य निषेधः । अत्र किञ्चि­त्कि­ञ्चि­न्नि­षे­धे­ना­र्थ­सि­द्ध­नि­षे­धा­ना­म­न्येषां विशिष्य निषेधप्रयासः प्रण­व­स्या­पा­ञ्च­भौ­तिकं शुद्ध­स­त्त्वा­रब्धं ज्योतिर्मयतया छायातमोविरोधि कर्म­पा­र­त­न्त्र्य­भो­गा­पेक्षे विना केवलं भक्त­द­र्श­नो­पा­स­ना­ल­म्बनं भवत्विति कृपापरिगृहीततया बाह्य­सौ­न्द­र्यो­प­यु­क्ता­व­य­वा­न्विना भोगा­द्यु­प­यु­क्त­प्रा­णे­न्द्रि­या­दि­र­हितं अतिनिर्मलं शरीरमस्तीति तद­स्ति­त्व­स्थि­री­क­र­णा­र्थम् । तत् यद्यपि स्फोटात्मकस्य प्रणवस्य स्वतो नास्ति , तथाऽपि तद्वाच्यस्य तस्मिन् प्रतीके उपासनीयस्य तद­भि­मा­नि­दे­व­ता­रू­पस्य च ब्रह्मणोऽस्ति ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’(छा.१.६.६) इत्या­दि­श्रु­ति­प्र­सि­द्ध­मिति तस्य शरीरेण प्रणवस्य शरीरवत्त्वं व्यपदेष्टुं शक्यम् ; ब्रह्म­प्र­ण­व­यो­र­भे­दो­प­चा­रस्य –
’शिवो वा प्रणवो ह्येषः प्रणवो वा शिवः स्मृतः ।
वाच्य­वा­च­क­यो­र्भेदो नात्यन्तं विद्यते क्वचित् ॥
तस्मादेकाक्षरं देव­मा­हु­रा­ग­म­पा­रगाः ।
वाच्य­वा­च­क­यो­रैक्यं मन्यमाना मनीषिणः ॥

इत्या­दि­पु­रा­ण­प्र­सि­द्ध­त्वात् , ‘यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः’(महाना ८.१८) इत्या­दि­तै­त्ति­री­यो­प­नि­ष­न्मन्त्रे च वेदाद्यन्तयोः प्रतिष्ठितं स्वर­मो­ङ्का­र­मु­प­क्षिप्य तस्यैव निर्वि­शे­ष­ब्र­ह्मा­भे­दो­प­चा­रेण प्रकृ­ता­व­वि­द्यायां निमग्नतया जीवभावमुक्त्वा तस्य जीवस्य यः परो नियन्ता स महेश्वरः सगुणः परमेवर इति प्रतिपादनाच्च ।
’यं वेदादौ स्वरं प्राहु­र्वा­च्य­वा­च­क­भ­वातः ।
वेदैकवेद्यं यथा­र्थ्या­द्वे­दान्ते च प्रतिष्ठितम् ॥
स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्मतः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥

इति शिवपुराण अस्य मन्त्रस्य उक्ता­र्थ­प­र­त­यो­प­बृं­ह्म­णात् । अथर्वशिरसि ‘य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽन­न्त­स्त­त्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्मेति स एकः स एको रुद्रः स ईशानः स भगवान् स महेश्वरः स महादेवः’(अथर्वशिरस् ३) इति ब्रह्म­प्र­ण­व­भे­दो­प­चा­रा­श्र­य­णेन तदु­भ­य­ना­म्ना­मे­क­ना­म­त्वेन परिगणनपूर्वकम् ‘अथ कस्मादुच्यत ओङ्कारो यस्मा­दु­च्चा­र्य­माण एव सर्वं शरी­र­मू­र्ध्व­मु­न्ना­म­यति तस्मादुच्यत ओङ्कारः’ इत्यारभ्य ‘अथ कस्मादुच्यते महादेवः यः सर्वान् भावान् परि­त्य­ज्या­त्म­ज्ञा­न­यो­गै­श्वर्ये महति महीयते तस्मादुच्यते महादेवः’(अथर्वशिरस्. ४) इत्यन्तेन तत्त­द्व्य­व­स्थि­त­यो­गे­नैव निर्वचनाच्च । एतेन – प्रशा­सि­तृ­त्वा­दी­न्यपि ब्रह्मलिङ्गानि प्रणवे व्याख्यातानि । ‘यो वा एतदक्षरं गार्ग्य­वि­दि­त्वाऽ­स्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्ष­स­ह­स्रा­ण्य­न्त­व­दे­वास्य तत् भवति’(बृ. ३.८.२०) इत्येतदपि प्रणवे युज्यते । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा.१.१.१०) इत्यु­द्गी­थ­रू­प­प्र­ण­व­विदः क्रतूनां वीर्य­व­त्त­र­त्व­व­द­क्ष­र­रू­प­प्र­ण­व­विदो यागा­दी­ना­म­न­न्त­फ­ल­क­त्वो­प­पत्तेः । ‘यो वा एतदक्षरं गार्ग्य­वि­दि­त्वाऽ­स्मा­ल्लो­कात् प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदि­त्वाऽ­स्मा­ल्लो­कात् प्रैति स ब्राह्मणः’(बृ. ३.८.१०) इत्येतदपि तस्मि­न्नु­प­प­द्यते ; ब्राह्मणानां प्रण­व­स्व­रू­प­प­रि­ज्ञा­न­स्या­व­श्य­क­त्वात् । तस्मादिह प्रणव एवाक्षरमिति पूर्वः पक्षः ।

एवं प्राप्ते सिद्धान्तमाह – ‘अक्ष­र­म­म्ब­रा­न्त­धृतेः’ । यदु­क्त­मो­त­प्रो­त­श­ब्दा­भ्या­म­क्ष­र­स्यो­त्कृ­ष्टत्वं प्रतिपाद्यत इति , तदयुक्तम् ; ‘एतस्मिन् खल्वक्षरे’ इत्य­धि­क­र­ण­नि­र्दे­श­स­हि­ताभ्यां ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः’(मु. २.२.५) ‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’(भ.गी. ७.७) इत्या­दि­श्रु­ति­स्मृ­ति­ष्वा­धेये दृष्ट­प्र­यो­गा­भ्या­मो­त­प्रो­त­श­ब्दाभ्यां डृतेरेव प्रति­पा­द­यि­तु­मु­चि­त­त्वात् । न चास्मिन्नेव प्रकरणे ‘कस्मिन् खल्व­न्त­रि­क्ष­लोका ओताश्च प्रोताश्च’ इति ‘गन्धर्वलोकेषु गार्गि’(बृ. ३.६.१) इत्या­दि­प्र­श्नो­त्त­रेषु तयो­रु­त्कृ­ष्टत्वे दृष्टः प्रयोग इति वाच्यम् । तत्रा­प्य­धि­क­र­ण­स­प्तम्या ओत­प्रो­त­श­ब्द­योश्च स्वार­स्या­नु­सा­रेण धृतेरेव प्रति­पा­द­ना­ङ्गी­का­रात् । वच­न­ब­ला­दु­प­रि­त­ना­ना­मपि गन्ध­र्व­लो­का­दी­ना­म­न्त­रि­क्ष­लो­का­दि­धा­र­क­त्वस्य , पर्वतानां क्षिति­धा­र­क­त्व­स्येव , ध्रुवस्य ज्योति­श्च­क्र­धा­र­क­त्व­स्ये­वा­धः­प्र­सृ­त­मू­ल­पा­शा­द्य­व­य­व­क­ल्प­न­यो­प­पा­द­नी­य­त्वात् । श्रुतो­प­पा­द­नार्थं ह्यश्रुतमपि कल्पनीयम् , न त्वश्रु­त­क­ल्प­ना­भिया श्रुतं परित्याज्यम् ; स्वर्ग­का­मा­दि­वा­क्य­बा­ध­प्र­स­ङ्गात् । वस्तु­तोऽ­न्त­रि­क्ष­लो­का­दीनां क्रमेण गन्ध­र्व­लो­का­दि­ष्वो­त­प्रो­तत्वे श्रुतेर्नास्ति तात्पर्यम् , किन्तु अवाक्यभेदाय चरमनिर्देश्ये सर्व­स्यौ­त­प्रो­तत्व एवेत्यनुपदमेव दर्शयिष्यते । एवमस्य पक्षस्य दूषणं ‘धृतेः’ इति सूत्रावयवेन सूचितम् ।

यदुक्तम् – जगदाधार आकाशः परमात्मा तदधिकरणमक्षरं तदु­पा­स­ना­स्था­न­भूतः प्रणव इति , तदप्ययुक्तम् ; आकाशशब्दस्य रूढ्या वाच्यं प्रसिद्धाकाशं विहाय पर­मा­त्म­प­र­त्व­क­ल्पने करणाभात् । न च पूर्व­स­न्द­र्भा­नु­सा­रेण तथा कल्पनम् ; ‘अनतिप्रश्न्यां वै देव­ता­म­ति­पृ­च्छसि’(बृ. ३.६.१) इति पर­दे­व­ता­वि­ष­य­प्र­श्न­नि­वा­र­ण­मे­का­न्त­रि­त­प्र­श्न­स्त­द्वि­षयो भविष्यतीति दूरदृष्टिमता याज्ञ­व­ल्क्ये­ना­त्रैव कृत­मि­त्यु­प­पत्तेः । अक्ष­र­ब्रा­ह्म­णा­र­म्भेऽपि द्वितीयप्रश्न एव परमात्मविषयो भविष्यतीति जानत्याऽपि चिकीर्षितस्य तस्य निवा­र­ण­प­रि­जि­ही­र्षया युगपत् प्रश्न­द्व­या­नुज्ञा पृष्टे­त्यु­प­पत्तेः । प्रथ­म­प्र­श्ना­न­न्तरं याज्ञ­व­ल्क्य­प्र­शं­सा­पू­र्व­क­धा­र्ष्ट्य­व­च­न­स्यापि द्विती­य­प्र­श्नो­त्तरे पति­ष्य­ती­त्य­भि­मा­ने­नो­प­पत्तेः । वादिनो हि कक्ष्या­न्त­रेऽ­वश्यं प्रतिवादी पतिष्यति इति निश्चयवन्तः प्रतिवादिनः पूर्वकक्ष्यायां श्लाघाभासं कुर्वन्तीति लोके प्रसिद्धम् । एव­म­न्य­था­प्यु­प­पन्ने पूर्वसन्दर्भे तदनुसारेणाकाशः परमात्मा अक्षरं प्रणव इत्य­ङ्गी­कृ­त्या­क्षरे श्रुतानां ब्रह्मलिङ्गानां तद­भे­दो­प­चा­रा­श्र­येण नयनं न युक्तम् । एवमस्य पक्षस्य दूषणं सूत्रे विष­य­वा­क्य­ग­त­मा­का­श­शब्दं विहा­या­म्ब­र­श­ब्द­प्र­यो­गेण सूचितम् ।

यदुक्तम् – आकाशो भूताकाश एवास्तु , तदाधारत्वं शब्द­त­न्मा­त्र­रूपे प्रणवे सम्भवति इति , तदप्ययुक्तम् । न ह्यकाशं प्रत्ये­वा­क्ष­र­स्या­धा­र­त्व­मु­च्यते , किन्त्वा­का­शा­न्तस्य सकलस्य जगतः । कुत एतदवसीयते इति चेत् – ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३.३.१४) इत्य­धि­क­र­ण­न्या­या­दि­त्य­वेहि । तत्र खल्वधिकरणे ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः’(क. ३.१०) इत्या­दि­क­ठ­व­ल्ली­म­न्त्रे­ष्वि­न्द्रि­या­र्थ­म­नः­प्र­भृ­ती­ना­मु­त्त­रो­त्त­र­प­रत्वं न प्रतिपाद्यम् ; तत्प्रतिपादने वाक्य­भे­द­प्र­स­ङ्गात् । ‘‘अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क. ३.११) इत्यग्रे निर्देश्यस्य पुरु­ष­स्ये­न्द्रि­या­र्थ­म­नः­प्र­भृ­तिभ्यः सर्वेभ्यः परत्वमेव प्रतिपाद्यमिति निर्णीतम् । एवमत्रापि भूगो­ल­का­दि­ब्र­ह्म­लो­का­न्ता­ना­मु­त्त­रो­त्त­रस्य पूर्व­पू­र्वा­धा­र­तायां न तात्पर्यम् ; किन्त्वग्रे निर्दे­श्य­स्या­क्ष­र­स्या­का­शा­न्त­स­क­ला­धा­र­ता­या­मेव । अत एव भूगो­ल­का­दि­ब्र­ह्म­लो­का­न्ता­ना­मु­त्त­रो­त्त­रस्य पूर्व­पू­र्वा­धा­रत्वे प्रतिपादितेऽपि ‘यदूर्ध्वं याज्ञवल्क्यदिवो यदवाक् पृथिव्याः’(बृ. ३.८.६) इत्यादिप्रश्नेन सर्वाणि तानि यत्रौतप्रोतानि , तस्मिन् वस्तुनि पृष्टे ताव­दा­धा­र­त्वे­नो­त्तरे’ आकाशो निर्दिष्टः । अयं न्याय आका­शा­दु­प­रि­नि­र्दिष्टे अक्षरेऽपि योजनीयः ।

एवं तर्हि ब्रह्म­लो­का­न्त­ज­ग­दा­धा­र­त्व­मा­काशे आका­शा­न्त­ज­ग­दा­धा­र­त्व­म­क्षरे च प्रतिपाद्यम् , इत्येवमपि वाक्यभेदः स्यादिति चेत् ; मैवम् । पूर्व­पू­र्व­वा­क्यो­दि­ता­धा­रा­धे­य­प­र­म्प­राया वस्तु­तोऽ­क्ष­र­स्यैव सर्वा­धा­र­त्व­प्र­ति­पा­दने विश्रान्तावपि पूर्व­स­न्द­र्भ­तोऽ­प्रा­प्त­म­प्यु­त्तरे निर्दे­क्ष्य­मा­णस्य प्रसिद्धाकाशस्य ब्रह्म­लो­का­न्त­ज­ग­दा­धा­र­त्व­म­व­का­श­प्र­द­त्वेन लोक­प्र­सि­द्ध­मे­वा­व­लम्ब्य पूर्वसन्दर्भतो न्यायप्राप्तं चरमनिर्देश्ये सर्वाधारत्वं ब्रह्मलोकाधार एव गार्ग्या समापितमिति याज्ञवल्क्यस्य भ्रान्त्यु­त्पा­द­नेन तस्या­प्या­धा­रा­न्त­र­प्रश्ने निरुत्तरो भूत्वा तस्याधारान्तरं नास्ती­त्युक्त्वा वा पराजितो भव­त्वि­त्य­भि­स­न्धाय तत्र वाक्य­स­न्द­र्भ­ता­त्प­र्या­वि­ष­य­भू­त­मेव प्राङ्नि­र्दि­ष्ट­स­र्वा­धा­रत्वं गार्ग्यो­प­न्य­स्त­मि­त्यु­प­पत्तेः । एवमस्य पक्षस्य दूषणं सूत्रे अन्तग्रहणेन सूचितम् ।

यदुक्तं द्वार­द्वा­रि­भा­वेन सर्वाधारत्वं शब्द­त­न्मा­त्र­रूपे प्रणवे सङ्घटत इति , तद­प्यु­क्त­यु­क्त्यैव निरस्तम् ; साक्षादेव सर्वा­धा­र­त्व­मा­ध्या­ना­धि­क­र­ण­न्या­य­प्राप्तं ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.२) इत्या­दि­स­र्वा­धा­र­प्र­श्न­लि­ङ्गा­न्वितं चान्तग्रहणेन सूचितमिति व्याख्यातत्वात् । अथ यदुक्तम् – सर्वाधारत्वं प्रणवे साक्षादेव सम्भवति ; ‘ओङ्कार एवेदं सर्वम्’(छा.२.२३.८) इति श्रुते­र­र्थ­वा­द­त्वेन नयनसम्भवेऽपि स्फोटात्मनि प्रणवे सर्वाधारतायां प्रमा­ण­द­र्श­ना­दिति , तदप्ययुक्तम् ; वर्णे­ष्वे­वा­क्ष­र­श­ब्दस्य रूढत्वेन तद­भि­व्यं­ग्य­त्वेन पूर्व­प­क्षि­क­ल्पिते स्फोटे तत्प्र­सि­द्ध्य­भा­वात् , अक्ष­र­श­ब्द­रू­ढ्य­व­ल­म्ब­नस्य पूर्वपक्षस्य स्फोटे प्रव­र्त­यि­तु­म­श­क्य­त्वात् । तदेतदभिसन्धाय भामत्यामुक्तं ‘न च वर्णातिरिक्ते स्फोटा­त्म­न्य­लौ­किके अक्ष­र­प­द­प्र­सि­द्धि­रस्ति’ इति । एवमस्य पक्षस्य दूषणं सूत्रे धर्मि­नि­र्दे­श­के­ना­क्ष­र­प­दे­नैव सूचितम् ॥१.३.१०॥

स्यादेतत् – अक्षरपदस्य स्फोटे रूढ्य­भा­वेऽ­प्य­भि­व्यं­ग्या­भि­व्य­ञ्ज­क­भा­व­स­म्ब­न्धेन रूढिपूर्विका लक्षणा सम्भवति । ब्रह्मणि तु ‘न क्षरति’ इति नित्यत्वेन ‘अश्नोति’ इति व्यापकत्वेन वा योगः कल्पनीयः । योगाच्च रूढि­पू­र्व­क­ल­क्षणा बलीयसी ; लक्षणायाः शक्य­स­म्ब­न्ध­रू­पाया रूढि­घ­टि­त­व्या­पा­रा­न्त­र­रू­प­त्वेन प्रथ­मो­प­स्थि­त­रू­ढि­त्या­गा­पे­क्षा­द्यो­गात् बलीयस्त्वात् । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इत्य­ध्व­र्यु­प्रैषे उद्गातृशब्दस्य क्वचि­दृ­त्वि­ग्वि­शेषे रूढस्य बहु­व­च­न­नि­र्वा­हार्थं ‘उद्गायन्ति इत्युद्गातारः’ इत्यु­च्चै­र्गा­यत्सु सर्वेष्वपि योग­वृ­त्ति­र्ना­श्र­य­णीया, किन्तु सदसि स्तोत्र­क­र्तृ­त्वे­नो­द्गात्रा सह तद­न्त­र­ङ्ग­स­म्ब­न्ध­वतोः प्रस्तो­तृ­प्र­ति­ह­र्त्रो­रेव रूढि­पू­र्व­क­ल­क्ष­णाऽ­श्र­य­णी­येति निर्णीतं ‘उद्गा­तृ­च­म­स­मे­कस्य श्रुतिसंयोगात्’(जै.सू.३.५.८) इति पूर्व­त­न्त्रा­धि­क­रणे । एवं­चो­प­क्र­म­ग­ता­भ्य­स्त­श्रु­ति­तु­ल्या­क्ष­र­प­द­प्रा­ब­ल्या­नु­सा­रेण वाक्यशेषगतानां प्रशा­सि­तृ­त्वा­दि­लि­ङ्गा­ना­म­न्यत्र दृष्टेन ब्रह्मा­भे­दो­प­चा­रा­श्र­य­णेन नयनं युक्तम् । उप­क्र­मो­प­सं­हा­राभ्यां प्रति­पि­पा­द­यि­षितं जग­दा­धा­र­त्व­लिङ्गं स्फोटेऽ­प्यु­प­प­द्यते इति समर्थितत्वान्न तद्ब­ला­द­क्ष­र­श­ब्दस्य योगाश्रयणं कार्य­मि­त्या­श­ङ्क्याह –

सा च प्रशासनात् ॥११॥

११

स्यादेवं ब्रह्मा­भे­दा­श्र­य­णेन प्रणवे प्रशा­सि­तृ­त्व­न­यनं यदि प्रशासनवाक्ये तन्मात्रमुक्तं स्यात् । न त्वेवम्, किन्तु ‘एत­स्यै­वा­क्ष­रस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्यैवाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः’(बृ.३.८.९) इति प्रशासनाधीना धृतिरुच्यते । प्रशासनाधीना धृतिश्च सैव , याऽत्रो­प­क्र­मो­प­सं­हा­राभ्यां प्रति­पि­पा­स­यि­षि­ताऽ­म्ब­रा­न्त­धृतिः । सैव हि स्थाली­पु­ला­क­न्या­येन किञ्चि­त्कि­ञ्चि­द्धृ­ति­मु­दा­हृत्य प्रशासनाधीनतया वर्णितेति युक्तम् ; प्रकृ­त­प्र­त्य­भि­ज्ञाने तद­न्य­वि­ष­य­त्व­क­ल्प­ना­यो­गात् । एवं चोप­क्र­मो­प­सं­हा­राभ्यां प्रति­पि­पा­द­यि­षि­ता­म्ब­रा­न्त­धृ­ति­रेव वाक्य­शे­ष­स­म­र्पि­त­प्र­शा­स­ना­धीना जातेति तस्या अचेतने स्फोटेऽ­नु­प­प­न्न­त्वात् प्रति­पि­पा­द­यि­षि­त­लि­ङ्गा­नु­सा­रे­णा­क्ष­र­श­ब्दस्य ब्रह्मणि योग­वृ­त्ति­रा­श्र­य­णीया । सूत्रे चकार एवकारार्थः । या अम्बरान्तधृतिः पूर्वसूत्रे निर्दिष्टा , सैव प्रशासनहतुका नान्येति सूत्रार्थः ॥१.३.११॥

स्यादेतत् – स्फोटं चेतनमपि केचि­द­भ्यु­प­ग­च्छन्ति शब्द­ब्र­ह्मा­द्वै­त­वा­दिनः , तन्मतानुसारेण प्रशासनमपि स्फोटस्योपपद्यत इत्याशङ्क्याह –

अन्य­भा­व­व्या­वृ­त्तेश्च ॥१२॥

१२

एवं चेत् ब्रह्म स्फोट इति नाममात्रे भेदः स्यान्न वस्तुनि ; मुक्त्य­न्व­यि­स­क­ल­जी­वा­भेदं जड­प्र­प­ञ्च­रा­हित्यं चानभ्युपगम्य स्फोटा­द्वै­तो­प­पा­द­ना­यो­गात् । अन्य­भा­वोऽ­न्यत्वं , तस्य व्यावृत्तिरभावः । स्फोटा­द्वै­ता­भ्यु­प­गमे तस्य ब्रह्मा­न्य­त्वा­भा­वात् स्फोटोऽक्षरमिति वदता ब्रह्मा­क्ष­र­मि­त्ये­वोक्तं स्याद् इति तेन सह न विवाद इति सूत्रार्थः ।

स्यादेतत् – स्फोटस्य च्तनस्यापि जड­प्र­प­ञ्च­मा­त्र­का­र­णस्य तदभेद एवाभ्युपगम्यते , अतस्तस्य सिद्धा­न्त्य­भि­म­त­ब्र­ह्म­रू­प­त्वा­भा­वा­दस्ति विवादावकाश इति चेत् ; एवं तर्हि स्फोटा­व­ल­म्ब­न­स­क­ल­क्षु­द्रो­प­द्र­व­प­रि­हा­रार्थं घटा­दि­वा­च­क­श­ब्दस्य घका­रा­दि­व­र्ण­स­मु­दा­या­ति­रि­क्तत्वं नास्तीति प्रति­पा­द­यि­ष्यामः । ‘एकं पदम्’ इत्ये­क­त्व­प्र­त्य­यस्य ‘तदेवेदं पदम्’ इति प्रत्य­भि­ज्ञा­नस्य च निर्वाहार्थं खलु वर्णा­व­य­वा­ति­रि­क्त­व­र्ण­प्र­ति­बन्द्या वर्णा­व­ली­व्य­ति­रि­क्त­स्त­द­भि­व्यं­ग्योऽ­खण्डः पदस्फोटः साधितः ।

तत्रेदं पृच्छामः – घादिवर्णावली तत्त­द­र्थ­वि­शे­षे­णा­गृ­ही­त­स­म्ब­न्धाऽपि केवलं वर्ण­वि­शे­ष­रू­षि­त­क्र­म­वि­शे­ष­रू­पेण गृहीता घटा­दि­वा­च­क­स्फो­ट­त­दे­क­त्वा­भे­दा­न­भि­व्य­ञ्ज­येत् , उत तैर्गृ­ही­त­स­म्ब­न्धैव ? आद्ये काव्य­श्लो­का­दि­श्र­वणे तद­न्त­र्ग­त­श­ब्दानां तत्त­द­र्थै­र­गृ­ही­त­स­म्ब­न्ध­स्यापि पुंसः ‘इदमेकं पदमिदमेकं पदम्’ इत्यादिक्रमेण एतावन्त्यत्र श्लोके पदानीत्यवधारणं स्यात् । ‘प्रजा­प­ते­र्हृ­द­ये­नापि पक्षं प्रत्युपतिष्ठते सत्र­स्य­र्ध्या­ह­व­नी­य­स्या­ग्ने­स्तु­वन्ति’ इत्यादिषु प्रजा­प­ते­र्हृ­द­या­दि­श­ब्दानां सामविशेषादिषु रूढिमजानतामपि ‘प्रजा­प­ते­र्हृ­द­येन’ इत्येकं पदमित्यवधारणं स्यात् । श्रूयमाणे शब्दे किमयं हालाहलशब्दो हलाहलशब्दो वा , मरकतशब्दो मरतकशब्दो वेत्या­दि­व­र्ण­क्र­म­वि­शे­ष­स­न्देहे सत्युभयथाऽपि गर­ल­वि­शे­ष­वा­च­कोऽयं , रत्न­वि­शे­ष­वा­च­क­कोऽ­य­मि­त्या­दि­नि­श्च­य­वतां ‘इदमेकं पदम्’ इत्यवधारणं न स्यात् ; तद्विषयस्य स्फोट­स्या­भि­व्य­ञ्ज­क­व­र्णा­व­ली­स­न्दे­हे­ना­न­भि­व्यक्तेः । तस्मात् द्वितीयपक्ष एवोररीकर्तव्यः । ततश्च स्फोटवादिनाऽपि वर्णावल्यां तत्त­द­र्थ­स­म्बन्धं शक्ति­रू­प­म­ङ्गी­कृत्य घका­रा­दि­व­र्णा­व­ली­श्र­व­ण­काले प्रत्ये­क­व­र्णा­नु­भवैः पूर्व­पू­र्व­व­र्ण­क्र­म­वि­शि­ष्टा­न्ति­म­व­र्णा­नु­भ­वेन वोपायान्तरेण वाऽभि­व्य­क्ति­रि­त्यपि समर्थनीयम् । एवं च स्फोटाऽ­भि­व्यक्तेः प्रागे­वा­व­भा­स­मा­ने­नै­केन सम्बन्धेन क्रोडीकृतानां वर्णा­ना­मे­वै­क­दे­श­स्थ­त्वेन क्रोडीकृतानां वृक्षाणामेव ‘एकं वनम्’ इति बुद्धि­गो­च­र­त्व­वत् ‘एकं पदम्’ इति बुद्धि­गो­च­र­त्वो­प­पत्तौ किम­ति­रि­क्त­प­द­स्फो­ट­क­ल्प­नया ? वर्णे­ष्वे­क­त्व­प्र­त्य­य­स्त्वे­का­क्ष­र­नि­ख­ण्डु­प­र्या­लो­च­ना­दि­र­हि­तानां तत्त­द­र्थै­र­गृ­ही­त­स­म्ब­न्धा­ना­मपि जायत इति वर्णा­व­य­वे­ष्वे­क­त्वो­पा­धे­र­नि­रू­प­णा­द्युक्तं तस्य तद­ति­रि­क्त­व­र्ण­वि­ष­य­त्वम् ।

ननु वर्ण­नि­त्य­त्व­वा­दिभिः स्फोटवादिभिरिव वर्णेषु क्रमो निरूपयितुं न शक्यते । स्फोटवादिनां ह्यनित्या ध्वनय एव वर्णाः , न तु ध्वनिस्फोटमध्ये नित्य­व­र्णा­ङ्गी­कारे प्रमा­ण­म­स्ती­त्यु­क्त­मिति चेत् ; सत्यम् । वर्ण­नि­त्य­त्व­वा­दि­ना­म­प्य­नु­स­न्धा­न­क्रमः सम्भवत्येव । मौनि­लि­खि­त­लि­प्य­क्ष­रै­र्यु­ग­प­द्व­र्णा­नु­मि­ति­स्थ­लेऽपि क्रमि­क­लि­पि­भि­र्ले­ख­का­नु­स­न्धा­न­क्र­म­वि­शे­षि­त­व­र्णा­नु­मितिः सम्भवतीति न कदाचिदनुपपत्तिः । ननु तथापि ‘तदेवेदं पदम्’ इति प्रत्यभिज्ञानं वर्ण­वा­दि­ना­म­नु­प­प­न्नम् ; क्रमभेदेन पद­भे­दा­व­श्यं­भा­वा­दिति चेत् , सत्यम् । तत्तु केश­न­ख­दी­पा­दि­श्विव सादृ­श्ये­नो­प­पा­द­नी­यम् , अन्यथा लून­पु­न­र्जा­त­के­श­न­ख­नि­र्वा­पि­ता­रो­पि­त­दी­पा­दि­ष्वपि प्रसि­द्ध­के­श­स­न्ता­ना­द्य­भि­व्यं­ग्या­ख­ण्ड­के­शा­दि­क­ल्पनं स्यात् । तद­ति­रि­क्त­के­शा­दि­क­म­नु­भ­वा­ना­रूढं इति चेत् , समं प्रकृतेऽपि । न हि गौरित्यत्र गका­रौ­का­र­वि­स­र्ज­नी­या­ति­रे­के­णा­खण्डं स्फोटमनुभूयमानं कश्चि­द­प्य­भि­म­न्यते ।

नन्वेवं सति वर्ण­प्र­त्य­भि­ज्ञाऽपि तज्जा­ती­य­त्व­वि­ष­या­स­म्भ­व­तीति किमर्थं वर्ण­नी­य­त्वा­भ्यु­प­गमः ? उच्यते – गकारादिरेक एव सर्व­दे­श­का­ल­स­म्ब­न्धीति वादिनां मते तद्वि­ष­य­त्व­क­ल्पनं गत्वा­दि­जा­ति­त­द्व्य­क्त्य­ने­क­त्व­क­ल्प­ना­पे­क्षम् । वर्णावल्यां तु सादृश्यं संप्रतिपन्नमिति पद­प्र­त्य­भि­ज्ञाया एव सादृश्यविषयत्वं , न तु वर्ण­प्र­त्य­भि­ज्ञा­या­स्त­ज्जा­ती­य­वि­ष­य­त्व­मि­त्य­भ्यु­प­ग­म्यते । सन्तु वा वर्णा अप्यनित्याः ; का नो हानिः ? अत एव भाष्य­का­रै­र्दे­व­ताऽ­धि­क­रणे तद­नि­त्य­त्व­प­क्षोऽपि दर्शितः । वेदनित्यत्वं तु वर्णा­ना­म­नि­त्य­त्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते । एवं स्फोट­प्र­ति­क्षे­पेऽपि दर्शितः । वेदनित्यत्वं तु वर्णा­ना­म­नि­त्य­त्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते । एवं स्फोट­प्र­ति­क्षे­पेऽपि ‘अन्य­भा­व­व्या­वृत्तेः’ इति सूत्रमेव योजनीयम् । तत्र घटादिवाचकस्य वर्णा­व­ल्य­ति­रि­क्त­त्वा­भा­वा­दिति सूत्रार्थः ।

यत्तु भाष्ये ‘सा च प्रशासनात्’(ब्र.सू.१.३.११) इति सूत्र­स्या­क्ष­र­म­व्या­कृ­त­मिति पक्ष­नि­रा­क­र­णा­र्थ­त्वेन , ‘अन्य­भा­व­व्या­वृत्तेः’ इति सूत्रस्याक्षरं जीव इति पक्ष­नि­रा­क­र­णा­र्थ­त्वेन योजनम् , तत्... अयमप्यर्थः सम्भ­व­ती­त्य­भि­प्रेत्य , न त्वयमेवार्थ इत्यभिप्रेत्य । द्विती­य­सू­त्र­स्या­व्या­कृ­त­नि­रा­क­र­ण­मा­त्र­प­रत्वे हि ‘प्रशासनात्’ इत्येव सूत्रणीयं स्यात् । ताव­तै­वा­क्ष­र­स­ब्द­रू­ढ्य­वि­ष­य­स्या­व्या­कृ­तस्त निराकरणसम्भवात् । पूर्व­सू­त्र­नि­र्दि­ष्टाया अम्ब­रा­न्त­धृ­ते­रेव प्रशा­स­ना­धी­न­त्व­मि­त्ये­ता­व­त्प­र्यन्तं न वक्तव्यं स्यात् । ‘अन्य­भा­व­व्या­वृत्तेः’ इति तृती­य­सू­त्र­म­प्य­स्प­ष्ट­वि­व­क्षि­ता­र्थ­म­ने­क­त्र­यो­ज­नाऽ­नु­कूलं विश्वतोमुखं न वक्तव्यं स्यात् । भाष्ये तु ‘अन्य­भा­व­व्या­वृत्तेः’ इति सूत्रार्थतया अत्रैव स्फुटं कर्तव्यमपि स्फोटनिराकरणं देवताधिकरणे(ब्र.सू.१.३.८ अधि) कृतम् । अत्र तन्निराकरणे कृतेऽपि देवताधिकरणे ‘सब्द इति चेन्नातः प्रभवात्’(ब्र.सू.१.३.२८) इति सूत्रं जगतः स्फोटा­त्म­क­श­ब्द­प्र­भ­व­त्वा­र्थ­कम् ; अनित्यानां वर्णानां जग­त्का­र­ण­त्वा­नु­प­पत्तेः । अतः सूत्राभिमतस्य स्फोटस्य निरा­क­र­ण­म­यु­क्त­मिति शङ्कोत्थाने सति पुनरपि तत्प्रसङ्गो भविष्यतीति तत्रैव निराकरणे यत्न­ला­घ­व­द­र्श­नात् ॥१.३.१२॥

इत्य­क्ष­रा­धि­क­र­णम् ॥३॥

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः ॥१३॥

१३

अक्ष­रा­द­म्ब­रा­धा­रा­त्प्र­णवः पर्युदासितः । तद्धेयमपरं किं वा परमित्यत्र चिन्त्यते ।

एषा प्रसङ्गसङ्गतिः । बुद्धिस्थस्य निरूपणार्हत्वं प्रसङ्गः । आथ­र्व­णि­का­ना­मु­प­नि­षदि ‘स यो ह वै तद्भ­ग­व­न्म­नु­ष्येषु प्राय­णा­न्त­मो­ङ्का­र­म­भि­ध्या­यीत कतमं वाव स तेन लोकं जयति’(प्र.५.१) इति सत्यकामप्रश्ने ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदो­ङ्का­र­स्त­स्मा­द्वि­द्वा­ने­ते­नै­वा­य­त­ने­नै­क­त­र­म­न्वेति’(प्र.५.२)इति परा­प­र­ब्र­ह्म­दृष्ट्या प्रण­वो­पा­स­न­मु­प­क्रम्य एकमात्रं प्रणवमुपासीनस्य तत्प्र­थ­म­मा­त्रा­त्म­क­ऋ­ग्वे­द­प्रा­प­णी­य­म­नु­ष्य­लो­क­प्रा­प्ति­फ­लम् , द्विमात्रं प्रणवमुपासीनस्य तद्द्वि­ती­य­मा­त्रा­त्म­क­य­जु­र्वे­द­प्रा­प­णी­या­न्त­रि­क्ष­लो­क­प्रा­प्ति­फलं चाभिहितम् । तद­न­न्त­र­मि­द­मा­म्ना­यते ‘यः पुनरेतं त्रिमा­त्रे­णो­मि­त्य­ने­नै­वा­क्ष­रेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एत­स्मा­ज्जी­व­घ­नात् परात्परं पुरिशयं पुरुषमीक्षते’(प्र. ५.५) इति । अत्र त्रिमात्रे प्रणवे उपासनीयं किमपरं हिरण्यगर्भाख्यं ब्रह्म, उत परं ब्रह्मेति संशये ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इति देश­प­रि­च्छि­न्न­फ­ल­श्र­व­णा­द­परं ब्रह्मेति पूर्वःपक्षः ।

ननु कथमत्रैवं पूर्वपक्षावकाशः ? ‘परं चा परं च’(प्र.५.२) इति परा­प­र­ब्र­ह्म­दृष्ट्या प्रण­वो­पा­स­न­मु­प­क्र­म्यात्र ‘परं पुरुषम्’(प्र. ५.५) इति परविशेषणदानेन परं ब्रह्मो­पा­स्य­मिति स्पष्तमेव प्रतीतेः । देश­प­रि­च्छि­न्न­फ­ल­श्र­व­ण­लि­ङ्गा­नु­सा­रा­द­प­र­ब्र­ह्म­ण्येव पर­प­द­मा­पे­क्षि­क­प­र­त्व­प­र­तया योजनीयमित्यपि न युक्तम् ; पर­ब्र­ह्मो­पा­स­ना­ना­मपि कासाञ्चित् ‘चक्षु­ष्य­श्श्रुतो भवति’(छा.१.१३.३) इत्या­दि­क्षु­द्र­ल­श्र­व­णात् , सर्वासामेव पर­ब्र­ह्मो­पा­स­नानां कार्य­ब्र­ह्म­लो­का­वा­प्ति­फ­ल­क­त्वस्य ‘कार्यं बादरिरस्य गत्युपपत्तेः’(ब्र.सू.४.३.३) इत्यधिकरणे व्यव­स्था­प­यि­ष्य­मा­ण­त्वाच्च ।

न च वाच्यम् – सगु­ण­वि­ष­या­णा­मे­वा­हं­ग्र­हो­पा­स­नानां तत्फलकत्वं तस्मिन्नधिकरणे व्यव­स्था­प­यि­ष्यते , इह तु परं ब्रह्मोपासनीयं चेत्त­न्नि­र्गु­ण­मेव पर्यवस्येत् , दह­र­शा­ण्डि­ल्य­वि­द्या­दि­ष्वि­वात्र ब्रह्मणि गुणाश्रवनात् , निर्गुणोपासनस्य तु देशपरिच्छिन्नं फलं न युक्तम्. इति । यतोऽत्रापि ब्रह्मा­भे­द­दृ­ष्ट्यो­पा­स­नी­य­प्र­ण­व­गु­णै­रेव त्रिमा­त्र­त्वा­दि­भि­र्ब्रह्म सगुणं सम्भवति , अन्य­थो­पा­स्य­त्वा­यो­गात् , ‘‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(क. उ.१.५.९) इति निर्गु­ण­स्यो­पा­स्य­त्व­नि­षे­धात् । ननु ‘त्रिमा­त्रे­णों­का­रेण’(प्र.५.५) इति ब्रह्माभिधानस्य प्रणवस्य ब्रह्मोपासने साधनत्वमेव तृती­या­श्रु­त्यो­क्तम् , न तु तद­भे­द­दृ­ष्ट्यो­पा­स्य­त्व­मिति चेत् , न । ‘परं चापरं च ब्रह्म’(प्र. ५.५) इत्य­भे­द­दृ­ष्ट्यु­प­क्र­मा­नु­सा­रेण तृतीयाया द्विती­या­र्थ­तौ­चि­त्यात् । तस्मादुपक्रमं परामृशतां नास्ति पूर्व­प­क्ष­मि­द­म­धि­क­र­ण­मिति चेत् ; उपक्रमं परा­मृ­श­ता­मे­वास्ति पूर्व­प­क्ष­मि­द­म­धि­क­र­ण­मिति ब्रूमः । उपक्रम एव हि ‘तस्मा­द्वि­द्वा­ने­ते­नै­वा­य­त­ने­नै­क­त­र­म­न्वेति’(प्र. ५.२) इत्य­प­र­ब्र­ह्म­दृष्ट्या प्रण­वो­पा­स­न­स्या­प­र­ब्र­ह्म­प्राप्तिः , पर­ब्र­ह्म­दृष्ट्या तदुपासनस्य पर­ब्र­ह्म­प्राप्तिः फलमिति विभज्य दर्शितम् । ततश्चान्यत्र पर­ब्र­ह्मो­पा­स­नानां ब्रह्म­लो­का­वा­प्ति­फ­ल­क­त्व­स­म्भ­वेऽ­प्यत्र विवक्षितायां पर­ब्र­ह्मो­पा­स­नायां तत्फलकत्वं न युक्तम् , किन्त्व­प­र­ब्र­ह्मो­पा­स­ना­या­मेव तद्युक्तम् । तस्मा­दु­प­क्र­मा­नु­सा­रे­णात्र ब्रह्म­लो­का­वा­प्त्फ­ल­स्या­प­र­ब्र­ह्म­लि­ङ्ग­त्वा­द­प­र­मेव ब्रह्मो­पा­स्य­मिति ततोऽवधार्यते ।

ननु ‘पुरिशयं पुरुषमीक्षते’(प्र.५.५) इति ध्यात­व्य­पु­रु­ष­स्ये­क्षणं ब्रह्मलोके श्रुतम् । ईक्षणस्य च तत्त्वविषयत्वं नियतम् । तत­स्त­त्रे­क्ष­णीयः पुरुषः परमेव ब्रह्मेति निश्चिते ध्यातव्यमपि तदेव स्यात् ; ईक्षणध्यानयोः कार्य­का­र­ण­यो­रे­क­वि­ष­य­त्व­नि­य­मात् । एवं च पर­ब्र­ह्म­सा­क्षा­त्का­र­साध्या तदवाप्तिरेव फलत्वेन विवक्षितेति निर्णये ब्रह्म­लो­का­वा­प्ति­र­फ­ल­भू­ताऽपि सूर्य­स­म्प­त्ति­वत् फलद्वारत्वेन वर्णिता नेतव्येति न तल्लि­ङ्ग­वि­रो­धोऽ­पीति चेत् ; स्यादेतदेवं यदीक्षणस्य तत्त्वविषयत्वं नियतं स्यात् , न त्वेतदेवम् । ईक्षणं हि दर्शनम् । तत्स्व­प्न­शु­क्ति­र­ज­त­भ्र­मा­दिषु प्राति­भा­सि­का­ना­मपि साधारणं दृष्टम् । तथाऽपीक्षणस्य तत्त्व­वि­ष­य­त्व­मौ­त्स­र्गि­कम् , बाधकाभावे चौत्सर्गिकमेव ग्राह्यमिति चेत् , न । यत् प्रायिकं तदेवौत्सर्गिकम् । हिर­ण्य­ग­र्भ­म­प्य­ता­त्त्विकं वदतः सकलविशेषरहितं परं ब्रह्मैकमेव तात्त्विकमिति वदतस्तव तद्दर्शनमेकमेव तत्त्वविषयं स्यात् । तद्विरलम् । प्रप­ञ्चा­न्त­र्ग­त­प­दा­र्थ­द­र्श­नानि तु भूयांसि इति स्पष्टमेव । अतो विचा­र­णा­या­मी­क्ष­ण­स्या­त­त्त्व­वि­ष­य­त्व­मौ­त्स­र्गि­क­मि­त्येव युक्तम् । ननु तथाऽपि ध्यान­पू­र्व­क­स्ये­क्ष­णस्य तत्त्वविषयत्वं नियतमिति चेत् ; न । विधु­र­प­रि­भा­वि­त­का­मि­नी­सा­क्षा­त्कारे व्यभिचारात् , ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगु­णै­र्नि­गू­ढाम्’(श्वे.उ.१.३) इति मन्त्रो­क्ता­वि­द्या­श­क्ति­द­र्शने व्यभिचाराच्च । अयं मन्त्रो­ह्य­वि­द्या­श­क्ति­द­र्श­न­परः इति भगवत्पादैरेव व्याख्यातः ।

अस्तु वेक्षणस्य तत्त्व­वि­ष­य­ता­नि­य­मे­आत्र तस्य परब्रह्मविषयता ; तावता ध्यानस्य तद्विषयता कुतः ? ध्याने­क्ष­ण­यो­रे­क­वि­ष­य­त्व­नि­य­मात् इति चेत् , न । तदसिद्धेः ; ‘वासुदेवो हि भगवान् ध्यायन् बिल्वोदकेश्वरम् । अलब्ध मायाच्छन्नस्य निकुम्भस्य निरीक्षणम् ।’ तथा­प्यौ­त्स­र्गिकं तत् इति चेत् , न । औत्सर्गिकस्यापि तस्यात्र त्वया त्यक्तव्यत्वात् । ध्यानं हि सर्वत्र तव आरो­पि­त­गु­न­वि­शि­ष्ट­वि­ष­यम् ; निर्विशेषस्य त्रिका­ला­बा­ध्यस्य समन्वयसूत्रे भग­व­त्पा­दै­रे­वो­पा­स्य­त्वस्य निषिद्धत्वात् । तथा च ध्यान­म­त­त्त्व­वि­ष­यम् , ईक्षणं तत्त्वविषयमिति च निय­म­द्व­य­म­भ्यु­प­ग­च्छता कथं तयोरेकविषयत्वं क्वचि­द­प्य­भ्यु­प­गन्तुं शक्यम् ? व्याघातापत्तेः । यत्तु ब्रह्म­लो­का­वा­प्ति­र्द्वा­र­मात्रं न फलमित्युक्तम् , तदपि न ; ‘कतमं वाव स तेन लोकं जयति’(प्र.५.१) इति उप­क्र­म­ग­त­प्र­श्ना­नु­सा­रेण तस्याः फलत्वे तात्पर्यस्य वर्णनीयत्वात् ।

ननु यद्ययं त्रिमा­त्रो­पा­स­ना­वि­धि­र­प­र­ब्र­ह्म­वि­षयः , तदा पर­ब्र­ह्म­प्रा­प्ति­फ­ल­क­त्वे­ना­दा­वु­प­क्षिप्ता परब्रह्मोपासना क्व निरू­पि­ताऽ­स्त्विति चेत् ; उत्तरत्रेति ब्रूमः । उत्तरत्र हि त्रिमा­त्र­प्र­ण­वो­पा­स­ने­नै­वा­ज­रा­मृ­त­त्वा­दि­वि­शे­षि­त­प­र­ब्र­ह्म­प्रा­प्ति­रपि श्रूयते ‘ऋग्भिरेतं यजु­र्भि­र­न्त­रिक्षं स साम­भि­र्य­त्त­त्क­वयो वेदयन्ते तमोकारेणान्वेति विद्वा­न्य­त्त­च्छा­न्त­म­ज­र­म­मृ­त­म­भयं परं च’(प्र.५.७) इति । अत्र यत्तत् कवयः उपासकाः लभन्ते , तम­प­र­ब्र­ह्म­लो­क­मों­का­रे­णा­न्वे­तीति प्रागुक्तैव अपरब्रह्मोपासना तल्लो­क­प्रा­प्ति­फ­लो­प­सं­हृता । ‘यत्त­च्छा­न्त­म­ज­र­म­मृ­त­म­भयं परं च तद­प्यों­का­रे­णा­न्वेति विद्वान्’ इति परब्रह्मोपासना तत्प्राप्तिफला प्रतिपादिता । परब्रह्म नोपासनीयमिति मते प्रणवेन तद्वेदनं तत्प्राप्तिफलं प्रतिपादितम् । प्रत्युत सिद्धान्तिन एवा­दा­वु­प­क्षि­प्ताया अप­र­ब्र­ह्मो­पा­स­नाया निरूपणं नास्तीति न्यूनताऽऽपद्यते । न च तन्मते एक­मा­त्र­द्वि­मा­त्रो­पा­सने एवा­प­र­ब्र­ह्मो­पा­सनं स्यादिति वाच्यम् । तयो­र्म­नु­ष्य­लो­का­न्त­रि­क्ष­लो­क­प्रा­प्ति­फ­ल­क­त्वे­नो­क्त­त्वात् , अप­र­ब्र­ह्मो­पा­स­नस्य च तल्लो­का­वा­प्ति­फ­ल­क­त्वे­ना­दा­वु­प­क्षि­प्त­त्वात् । तस्मा­द­प­र­ब्र­ह्म­लो­का­वा­प्ति­फ­ल­क­त्रि­मा­त्रो­पा­स­ना­कर्म अपरं ब्रह्मेति युक्तम् ।

एवं प्राप्ते राद्धान्तः – ईक्षतिकर्म तावत् परं ब्रह्म ; ‘पुरिशयं पुरुषमीक्षते’(प्र.५.५) इति तस्ये­क्ष­ति­क­र्म­त्वेन व्यप­दे­शा­द­प­र­ब्र­ह्म­भा­व­व्या­वृत्तेः । न हि तस्या­प­र­ब्र­ह्मत्वे तथा व्यप­दे­शोऽ­र्थ­वान् । तल्लो­क­प्रा­प्त­स्त­मी­क्षत इत्य­स्या­र्थ­सि­द्ध­त्वात् । नन्वीक्षतिकर्म परं ब्रह्मेति पक्षेऽपि तथा व्यपदेशो निरर्थकः ; ब्रह्मलोकं प्राप्तास्तत्र क्रमेण परब्रह्मदर्शनं प्राप्नु­व­न्ती­त्य­स्या­प्य­र्थ­सि­द्ध­त्वात् , अन्यथा ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’(छा.४.१५.६) इति श्रुति­वि­रो­धा­दिति चेत् , मैवम् । ब्रह्मलोकं प्राप्ता नावर्तन्त इति नायं नियमः ; महा­भि­ष­क्प्र­भृ­ती­ना­मा­वृ­त्ति­स्म­र­णात् , ‘इमं मानवमावर्तम्’ इति श्रुताविममिति विशेषणेन वर्त­मा­न­म­न्व­न्त­र­मा­त्रा­वृ­त्ति­नि­षे­धाच्च , किन्तु यासामुपासनानां ब्रह्म­लो­क­प्रा­प्ति­द्वारा क्रम­मु­क्ति­फ­ल­कत्वे किञ्चित् प्रमाणमस्ति ताभि­र्ब्र­ह्म­लोकं प्राप्ता एव नावर्तन्त इति नियमः । अतोऽस्या उपासनायाः क्रम­मु­क्ति­फ­ल­क­त्व­ज्ञा­प­नार्थं सार्थकं ‘पुरुषमीक्षते’ इति श्रवणम् । ननु तथाऽपि ‘स सामभिरुन्नीयते ब्रह्मलोकम्’(प्र.५.५) इति ब्रह्म­लो­क­प्रा­प्ति­व­चनं निर­र्थ­क­म­नु­वा­द­मा­त्र­मि­त्य­व­श्य­म­ङ्गी­क­र्त­व्यम् , ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चि­ष­म­भि­स­म्भ­वन्ति’(छा.५.१०.१) इत्या­दि­श्रु­त्य­न्तरे सर्वासामपि पर­ब्र­ह्मो­पा­स­नानां ब्रह्म­लो­क­प्रा­प­क­त्वस्य वर्णितत्वेन तत एवास्या अपि तत्प्रापकत्वस्य सिद्धेः । तस्मादिह ब्रह्म­लो­क­प्रा­प्ति­व­च­न­स्या­नु­वा­द­त्वात् तद्वदिदमपि ‘पुरुषमीक्षते’ इति श्रवणं लोका­धि­प­ते­र­प­र­ब्र­ह्मणो दर्शनपरं सदनुवादमात्रं स्यात् , अनु­वा­द­प्रा­य­पा­ठा­दिति चेत् ; मैवम् । प्रणवे ब्रह्मा­भे­द­दृ­ष्टि­रू­पस्य प्रकृतोपासनस्य प्रती­को­पा­स­न­त्वेन श्रुत्य­न्त­रा­दस्य ब्रह्म­लो­क­प्रा­प्ति­फ­ल­क­त्वा­सिद्धेः । ‘अप्र­ती­का­ल­म्ब­ना­न्न­य­तीति बादरायणः’(ब्र.सू.४.३.६) इत्यधिकरणे प्रती­क­वि­शे­ष­णत्वं विना प्राधान्येन ब्रह्मो­पा­स­का­ना­मे­वा­र्चि­रा­दि­मा­र्गेण ब्रह्म­लो­क­प्रा­प्ता­वु­दा­हृ­त­श्रु­ते­स्ता­त्प­र्यस्य वर्णितत्वात् । तस्मादिह ब्रह्म­लो­क­प्रा­प्ति­व­चनं विशि­ष्टो­प­दे­श­रूपं नानु­वा­द­मा­त्र­मिति ‘पुरुषमीक्षते’ इति श्रवणमपि तथैव निर्वहणीयम् । तथा निर्वा­ह­श्चे­क्ष­ति­कर्म परं ब्रह्मे­त्य­भ्यु­प­गम एव घटते, न त्वप­र­ब्र­ह्मे­त्य­भ्यु­प­गमे ।

अपि च श्रुतिरेव साक्षा­दी­क्ष­ति­वि­षयं पुरु­ष­म­प­र­ब्र­ह्म­भा­वा­द्व्या­व­र्त­यति ‘ एत­स्मा­ज्जी­व­घ­नात् परात्परम्’ इति । अत्र ‘एतस्मात्’ इति ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इत्यत्र लोकाधिपतित्वेन सन्निहितमपरं ब्रह्म परामृश्यते ; सर्वनाम्नां सन्नि­हि­त­प­रा­म­र्शि­त्व­स्वा­भा­व्यात् , तस्यैव च सन्नि­हि­त­त­र­त्वात् । न च तत्र ततोऽपि सन्निहितो लोकः परामृश्यतामिति वाच्यम् । चेतनस्य हि चेत­ना­न्त­रा­दु­त्क­र्ष­व­र्ण­न­मु­त्क­र्षाय भवति , न त्वचे­त­ना­दु­त्क­र्ष­व­र्ण­नम् । अतो लोकमतिक्रम्य ल्काधिपतेरेव समासे न्यग्भूतस्यापि परामर्शः ; ‘‘सर्व­ना­म्नाऽ­नु­स­न्धि­र्वृ­त्ति­च्छ­न्नस्य’(क.व्य.सू.५.१.११) इति वामनसूत्रे सर्वनाम्नां कृत्त­द्धि­त­स­मा­स­रू­प­वृ­त्त्यु­प­स­र्ज­न­प­र­म­र्शि­त्वस्य व्युत्प­त्ति­सि­द्ध­ताया उक्तत्वात् । ननु भाष्ये ‘एत­स्मा­ज्जी­व­घ­नात्’ इत्यस्य लोक­प­र­त्व­प­क्षोऽपि दर्शितः ? सत्यम् । ‘अपर आह’ इत्युपक्रमेणैव तस्मिन् पक्षेऽ­स्वा­र­स्य­मपि तत्रैव ध्वनितम् । तस्मा­दी­क्ष­ति­कर्म तावत्परं ब्रह्म । एवं च परस्य ब्रह्मण ईक्षतिकर्मत्वेन व्यपदेशात् तथा व्यपदिश्यमानः स एव परब्रह्मभूतः पुरुषो ध्यायतिकर्म ; उभयत्र ‘परं पुरुषम्’ इति श्रवणेन उभ­यो­रै­क्य­प्र­त्य­भि­ज्ञा­नात् ।

ननु च ध्यानवाक्ये ‘परं पुरुषम्’ इति श्रूयते । ईक्षणवाक्ये ‘परात्परं पुरुषम्’ इति श्रूयते । अतो नास्ति प्रत्यभिज्ञेति चेत् ; मैवम् । ध्यानवाक्येऽपि हि पर­श­ब्द­स्या­प­र­ब्र­ह्मा­पे­क्षया परत्वमेवार्थः । ‘एतद्वै सत्यकाम परं चा परं च ब्रह्म यदोङ्कारः’(प्र.५.२) इत्युपक्रमे अपरब्रह्मणः सन्नि­हि­त­नि­र्दि­ष्ट­तया तस्यैव पर­भा­वा­पे­क्षि­त­प्र­ति­यो­गि­त­याऽ­न्व­यौ­चि­त्यात् । ईक्षणवाक्येऽपि तस्मादपरब्रह्मण एव परत्वमुच्यत इति अस्त्येव दृढतरा प्रत्यभिज्ञा ।

ननु तथाऽपि स्थल­द्व­य­प­रा­म­स­सा­पेक्षा प्रत्यभिज्ञा लिङ्गतो दुर्बला । अतोऽ­प­र­ब्र­ह्म­प्रा­प्ति­लि­ङ्गेन ध्यायतिकर्मापरं ब्रह्म स्यादिति चेत् ; न । इदमपि लिङ्गं लिङ्ग­त्व­सि­द्ध्य­र्थ­मु­प­क्र­म­प­रा­म­र्श­सा­पे­क्ष­मिति हि त्वयैव दर्शितम् । अतः कथमेवमत्र लिङ्गस्य बलवत्ताऽवकाश इति लिङ्गादिह पर­पु­रु­ष­श्रु­ति­प्र­त्य­भि­ज्ञैव बलीयसी । ननु यदि प्रत्यभिज्ञया अत्र लिङ्गबाधः , तर्ह्यु­प­क्र­मो­प­क्षि­प्त­म­प­र­ब्र­ह्मो­पा­सनं तत्प्राप्तिफलकं नोक्तं स्यादिति चेत् ; नैष दोषः , किन्तु प्रकरणस्य पर­ब्र­ह्मो­पा­स­ना­मा­त्र­प­र­त­यै­क­वा­क्य­ता­पा­द­क­त्वात् गुण एव ।

ननु तथाऽपि एक­मा­त्र­द्वि­मा­त्रो­पा­स­ना­वि­धि­स­त्त्वा­द्वा­क्य­भे­दोऽ­व­श्य­मा­श्र­य­णीयः । अतो वाक्य­भे­द­स्या­प­रि­हा­र्य­त्वात् , उपक्रमे अप­र­ब्र­ह्मो­पा­स­नो­प­क्षे­पस्य वैय­र्थ्य­प्र­स­ङ्गा­च्चा­प­र­ब्र­ह्मो­पा­स­ना­वि­धि­रपि क्वचिदाश्रयणीयः । स चात्रैव स्यात् ; तल्लो­का­वा­प्ति­लि­ङ्ग­स­त्त्वात् । दुर्बलस्यापि लिङ्गस्य ‘आन­र्थ­क्य­प्र­ति­ह­तानां विपरीतं बलाबलम्’ इति न्यायेनात्र बलवत्त्वादिति चेत् , न । सर्वस्यापि पर­ब्र­ह्मा­भे­द­दृ­ष्टि­वि­शि­ष्टा­त्रि­मा­त्रो­पा­स­ना­वि­ध्य­र्थ­वा­द­त­याऽ­न्व­ये­ना­न­र्थ­क्य­स्यै­क­वा­क्य­ता­भ­ङ्गस्य चाप्रसरात् । तथा हि. ओङ्कारस्यायं महिमा , यद­प­र­ब्र­ह्म­त­यो­पा­स्य­मा­नोऽपि तत्प्राप्तिफलको भवति । मात्रा­वै­गु­ण्ये­नो­पा­स्य­मा­नोऽपि मनु­ष्य­लो­का­न्त­रि­क्ष­लो­क­प्रा­प्ति­फ­लको भवति । तस्मा­दे­वं­भू­त­म­हि­माऽ­य­मों­कारो हेयमल्पफलमपरं ब्रह्म विहाय परब्रह्मतया त्रिमात्र एवोपासनीय इत्ये­व­मे­क­वा­न्य­तया सर्व­स्या­प्य­र्थ­व­त्त्व­स­म्भवे वाक्यभेदाश्रयणं न युक्तम् । तस्मा­दे­क­वा­क्य­ता­सा­का­ङ्क्ष­प­र­ब्र­ह्म­प्र­क­र­णा­नु­गृ­ही­त­श्रु­ति­प्र­त्य­भि­ज्ञा­ब­ला­दी­क्ष­ति­कर्म पुरुष एव ध्यायतिकर्म , ईक्ष­ति­ध्या­यत्योः एक­वि­ष­य­त्व­नि­य­माच्च । यद्य­प्य­न्य­ध्या­न­मपि अन्येक्षणजनकम् , तथाऽपि तददृष्टद्वारकम् । समानविषयत्वे त्वीक्ष­ण­ध्या­नयोः कार्यकारणभावो दृष्टद्वारकः ;कामिनीं भावयतः कामि­नी­सा­क्षा­त्का­र­द­र्श­नात् । न चात्र दृष्ट­द्वा­र­स­म्भवे अदृ­ष्ट­द्वा­र­मा­श्र­य­णी­यम् । एतेन – ध्याने प्रण­वा­नु­प्र­वे­शा­द्वि­ष­यैक्यं नास्तीति शङ्काऽपि निरस्ता । भावनाप्रचयस्य साक्षा­त्का­र­ज­न­कत्वे हि तद्विषयविषयत्वं तन्त्रम् , न तु तद­न्या­वि­ष­य­त्व­मपि ; गौरवात् । तस्मा­दी­क्ष­ण­ध्या­न­यो­रे­क­वि­ष­य­त्व­नि­य­मा­द­पी­क्ष­ति­कर्म पुरुष एव ध्यायतिकर्म ।

अत्र दर्शितस्य सर्वस्यापि सिद्धान्तस्य सूत्रा­रू­ढ­त्व­मु­प­पा­द्यते । ईक्षतिकर्म परं ब्रह्म ; ईक्ष­ति­क­र्म­व्य­प­दे­शात् । ‘पुरुषमीक्षते’ इती­क्ष­ति­क­र्म­त्व­व्य­प­दे­शा­दि­त्यर्थः । हेता­व­पे­क्षि­तोऽपि त्वप्रत्ययः पक्षसमर्पकतया ‘ईक्षतिकर्म’ इत्यस्य पृथ­क्प­द­त्व­म­प्य­स्तीति ज्ञापनार्थं न प्रयुक्तः । नन्वी­क्ष­ति­क­र्म­त्व­व्य­प­दे­शोऽ­प­र­ब्र­ह्म­ण्यपि घटते ; तल्लोकं प्राप्तेन तस्य द्रष्टुं शक्यत्वादिति हेतू­प­म­र्द­श­ङ्कायां ‘अन्य­भा­व­व्या­वृत्तेः’((ब्र.सू.१.३.१२) इति पूर्वा­धि­क­र­ण­सू­त्र­म­नु­ष­ञ्ज­नी­यम् । यतस्तल्लोकं प्राप्तस्य तद्द­र्श­न­म­र्थ­सि­द्धम् अतस्तदुपदेशो व्यर्थः स्यादिति तदु­प­दे­शा­र­म्भ­सा­म­र्थ्या­दी­क्ष­ति­क­र्मणः पुरु­ष­स्या­प­र­ब्र­ह्म­भा­वा­द्व्या­वृ­त्ते­रि­त्यर्थः । अप­र­ब्र­ह्म­व्या­व­र्त­क­वि­शे­ष­ण­श्र­व­णा­द­पी­क्ष­ति­कर्म परं ब्रह्मेति हेत्वन्तरेऽपि ‘अन्य­भा­व­व्या­वृत्तेः’ इति सूत्र­म­नु­ष­ञ्ज­नी­यम् । तत्रे­क्ष­ति­क­र्म­णोऽ­प­र­ब्र­ह्म­भा­व­व्या­व­र्त­क­त­त्प­र­त्व­वि­शे­ष­ण­स­त्त्वा­दि­त्यर्थः । अस्मिन् पक्षे व्यावृत्तिशब्दो ण्यर्था­न्त­र्भा­वेण व्यावर्तकपरः । एवमीक्षतिकर्मणः परब्रह्मभावे सिद्धे तदेवेक्षतिकर्म ध्याय­ति­क­र्मे­त्यत्र साध्ये ध्याय­ति­क­र्म­णाऽ­र्थात् पर­ब्र­ह्म­भा­व­सि­द्धि­फ­लके पक्षो हेतुश्चेत्युभयं ‘स’ इत्यनेन प्रदर्श्यते । तत्रे­क्ष­ति­क­र्मणि पक्षे तदिति नपुंसकनिर्देशं विहाय पुंल्लि­ङ्ग­नि­र्देश ईक्ष­ण­वा­क्य­स्थ­पु­रु­ष­प­दा­नु­सा­रेण । तदनुसारश्च पर­पु­रु­ष­श्रु­ति­प्र­त्य­भि­ज्ञा­रू­प­हे­तु­प्र­द­र्श­नार्थः । ध्यायतिकर्मेऽति साध्यं त्वौचि­त्या­द­ध्या­ह­र्त­व्यम् । ईक्ष­ण­ध्या­न­वि­ष­य­यो­रे­क­त्व­रू­प­हे­तु­प्र­द­र्श­नार्थः । ध्यायतिकर्मेति साध्यं त्वौचि­त्या­द­ध्या­ह­र्त­व्यम् । ईक्ष­ण­ध्या­न­वि­ष­य­यो­रे­क­त्व­रू­प­हे­तु­प्र­द­र्श­नार्थः । ध्यायतिकर्मेति साध्यं त्वौचि­त्या­द­ध्या­ह­र्त­व्यम् । ईक्ष­ण­ध्या­न­वि­ष­य­यो­रे­क­त्व­रू­प­हे­तु­प्र­द­र्श­नार्थं तु ‘अन्य­भा­व­व्या­वृ­त्तेश्च’ इति कृत्स्न­सू­त्र­म­नु­ष­ञ्ज­नी­यम् । ध्याय­ती­क्ष­ति­क­र्म­णोऽ­र्भि­न्नत्वे ध्यान­स्या­दृ­ष्ट­द्वा­रा­श्र­य­ण­प्र­स­ङ्गेन तयो­र्भि­न्न­त्व­व्या­वृ­त्ते­रि­त्यर्थः । चकारस्स इति पक्ष­नि­र्दे­शे­नै­वै­क­स्मिन् हेतौ लब्धे इदं हेत्वन्तरमिति ज्ञापनार्थः ॥१.३.१३॥

इति ईक्ष­ति­क­र्मा­धि­क­र­णम् ॥४॥

दहर उत्तरेभ्यः ॥१४॥

१४

छान्दोग्ये श्रूयते । ‘अथ यदि­द­म­स्मि­न्न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­द­न्वे­ष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्यम्’ , इति ‘तं चेत् ब्रूयु­र्य­दि­द­म­स्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजि­ज्ञा­सि­त­व्य­मिति स ब्रूयात् यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाश उभे अस्मि­न्द्या­वा­पृ­थिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्या­च­न्द्र­म­सा­वुभौ विद्यु­न्न­क्ष­त्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तद­स्मि­न्स­मा­हि­तम्’(छा. ८.१.३) इत्यादि । अत्र दहराकाशो भूताकाशः , परं ब्रह्म वेति लौकि­क­रू­ढि­श्रौ­त­नि­रू­ढिभ्यां संशये रूढेः प्रब­ल­त्वा­दा­का­श­श्रु­ति­ब­लात् भूताकाश इति पूर्वःपक्षः ।

ननु दहराकाशस्य भूताकाशत्वे ‘यावान्वा’ इत्यादौ तस्य भूता­का­शो­प­मे­य­नि­र्देशो नोपपद्यते । तथा हि – अभेदे उप­मा­नो­प­मे­य­भा­व­नि­र्देशो द्वेधा, उपमानभावे च पर­स्प­र­व्या­व­र्त­का­वि­शे­षे­ण­र­हितः , तत्सहितश्च । तत्रा­द्योऽ­न­न्व­या­ल­ङ्का­र­वि­षयः , यथा –

‘गगनं गगनाकारं सागरः सागरोपमः । राम­रा­व­ण­यो­र्युद्धं रामरावणयोरिव’(रामा.यु.का.१०७.५०) । इह गगनादीनां गगनादिभिः सादृश्यं निब­ध्य­मा­न­मु­प­मा­नो­प­मे­य­भे­दा­पेक्षं सत् वास्तवस्य तद्भे­द­स्या­भा­वा­द्वि­शे­ष­णो­पा­धि­कृ­तस्य च तस्य पर­स्प­र­व्या­व­र्त­क­वि­शे­ष­ण­प्र­यो­गा­भा­वा­द­प्र­तीतेः नान्वे­ती­त्य­न्व­र्थ­ना­माऽ­न­न्वयः । अनन्वयिनोऽपि स्वम­हि­म­प्र­ति­ष्ठा­त्व­स्येव स्वसादृश्यस्य निबन्धनमन्यस्य प्रतिष्ठावस्तुन इव उप­मा­न­स्या­भा­व­द्यो­त­नाय । एवं गगनस्य वैपुल्ये गगनमेवोपमानं नान्य­दि­त्ये­व­मा­दि­प्र­का­रे­णा­नु­प­म­त्व­द्यो­त­न­फ­ल­त­यो­त्क­र्षा­वहः काव्यशोभाकर एव ‘गगनं गगनाकारम्’ इत्यादिप्रयोगः , न त्वगत्या कथ­ञ्चि­न्नि­र्व­ह­णीयः । द्विती­य­स्तू­प­मा­प्र­भेदः यथा –

‘उपाददे तस्य सहस्ररश्मिः त्वष्ट्रा नवं निर्मि­त­मा­त­प­त्रम् । स तद्दु­कू­ला­द­वि­दू­र­मौ­लि­र्बभौ पतद्गङ्ग इवोत्तमाङ्गे’ ।(कु.मा.७.४१)

अत्रोपमानस्य शिव­स्यै­वो­प­मे­य­त्वेऽ­प्यु­त्त­मा­ङ्ग­प­त­द्ग­ङ्गा­प्र­वा­ह­त्व­च्छ­त्र­दु­कू­ल­स­न्नि­कृ­ष्ट­मौ­लि­त्व­रू­प­वि­शे­ष­णो­पा­धि­कृ­त­भे­द­स­त्त्वा­न्नि­ब­ध्य­मानं सादृ­श्य­म­न्वे­तीति नानन्वयः , किन्तू­प­मा­प्र­भेदः । एवं च सति अत्र दहराकाशस्य भूताकाशत्वे तस्यैव तदु­प­मे­य­त्वा­नि­र्दे­शोऽ­य­म­न­न्व­य­रूपो वा स्यात् , उपमाप्रभेदरूपो वा । नाद्यः , ‘अयम्’ इति, ‘एषोऽन्तर्हृदय’ इति च बाह्य­त्वा­न्त­र­त्व­रू­प­प­र­स्प­र­व्या­व­र्त­क­वि­शे­ष­ण­श्र­व­णात् । न च ‘अयम्’ इत्य­ने­ना­प्या­न्त­र­स्यैव निर्दे­शोऽ­स्त्विति वाच्यम् । तथा सति आक्षेपबीजतया श्रोतृ­बु­द्धि­स्थस्य सौक्ष्म्यस्यैव यावानित्यनेन परा­म­र्श­नी­य­त­याऽ­न­न्व­यस्य निरु­प­म­सो­य्क्ष्म्य­प­र्य­व­सा­यि­त्वा­पत्तेः । न चेष्टापत्तिः ; इह कृता­क्षे­प­स­मा­धा­न­ला­भाय वैपु­ल्य­प्र­ति­पा­द­न­स्यै­वा­पे­क्षि­त­त्वात् । आक्षे­प­प्र­का­र­स्त्वग्रे स्पष्टीभविष्यति । न द्वितीयः ; आन्तरस्य बाह्य­व­द्व्या­प­क­त्वा­भा­वात् । न च – हृद­य­पु­ण्ड­री­का­व­च्छि­न्ना­का­शस्य सूक्ष्मत्वेऽपि हृद­य­पु­ण्ड­री­का­न्त­र्ग­ता­न्तः­क­र­ण­प्र­ति­बि­म्ब­रूप आकाशो बाह्या­का­श­व­द्व्या­पको भवेत् , उपाधेः सौक्ष्येऽपि प्रतिबिम्बस्य बिम्ब­स­मा­न­रू­प­प­रि­मा­ण­ताया जानु­द­घ्न­कू­प­ज­ल­ग­त­दू­र­वि­शा­ला­का­श­प्र­ति­बिम्बे दर्शनात् – इति वाच्यम् । शरीरव्यवहितस्य बाह्याकाशस्य हृद­य­पु­ण्ड­री­क­प्र­वि­ष्तेऽ­न्तः­क­रणे प्रति­बि­म्बा­स­म्भ­वात् । तस्माद्दहराकाशः परमात्मेति युक्तम् ।

तथा सति ‘आकाशवत् सर्वगतः’ इति श्रुत्या­मि­वा­त्रापि तस्य भूता­का­शो­प­मे­यत्वं युज्यते ; हृद­या­व­च्छि­न्न­रू­पेण तस्य व्याप­क­त्वा­भा­वेऽपि स्वरूपेण व्यापकत्वात् । न च स्वरूपेण व्याप­क­ता­मा­त्र­वि­व­क्षायां ‘एषोऽ­न्त­र्हृ­दये’ इति तद्विशेषणस्य व्याप­क­ता­व­च्छे­द­क­त्वे­ना­न्व­या­भा­वा­न्नि­ष्प्र­यो­ज­नत्वं दोषः ; स्वरू­प­क­थ­ना­र्थ­त्वो­प­पत्तेः । ‘एष म आत्माऽ­न्त­र्हृ­दये अणी­या­न्व्री­हेर्वा यवाद्वा’(छा.३.१४.३) इत्यादिश्रुतौ ब्रह्मणो हृद­या­व­च्छे­दो­पा­धि­का­णी­य­स्त्वो­क्त्य­न­न्तरं ‘एष म आत्माऽ­न्त­र्हृ­दये ज्यायान् दिवो ज्याया­न­न्त­रि­क्षात्’(छा.३.१४.३) इत्यादि स्वाभा­वि­क­व्या­प­क­त्वो­क्ता­वपि ‘अन्तर्हृदये’ इति विशेषणदर्शनात् ‘अयम्’ इति विशेषणस्य भूताकाश उपमानमिति उप­मा­न­वि­शे­ष­ला­भा­र्थ­त­येव प्रकृतः पर­ब्र­ह्म­रू­प­द­ह­रा­काश उपमेय इति उप­मे­य­वि­शे­ष­ला­भा­र्थ­तया तस्य सप्रयोजनत्वाच्च ।

अपि च वाक्यशेषे ‘एष आत्मा अपहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः’(छा.८.१.५)इत्या­त्म­श्रु­ति­र­प­ह­त­पा­प्म­त्वा­दीनि ब्रह्मलिङ्गानि च श्रूयन्ते ।

तथा ‘इमाः सर्वाः प्रजा अह­र­ह­र्ग­च्छ­न्त्य­एतं ब्रह्मलोकं न विन्दन्ति’(छा.८.३.२) इति जीवा­ना­म­ह­र­ह­रा­का­श­प्राप्तिः श्रूयते । सापि ब्रह्मलिङ्गम् ; ‘सता सोम्य तदा सम्पन्नो भवति’(छा.८.८.१) इति श्रुत्यन्तरे जीवानां सुषुप्तौ ब्रह्म­स­म्प­त्ति­श्र­व­णात् । ब्रह्म­लो­क­श­ब्दश्च तत्र श्रूयते । सोऽपि ब्रह्मणि व्यवतिष्ठते, ब्रह्मैव लोक्यमानतया लोक इति व्युत्पत्तेः ; निषा­द­स्थ­प­ति­न्या­येन षष्ठीसमासात् कर्मधारयस्य ज्यायस्त्वात् ; जीवा­ना­म­ह­र­ह­श्च­तु­र्मु­ख­लो­क­ग­म­ना­भा­वेन षष्ठी­स­मा­सा­स­म्भ­वाच्च ।

तथा ‘अथ य आत्मा स सेतु­र्वि­धृ­ति­रेषां लोका­ना­म­स­म्भे­दाय’(छा.८.४.१) इति दहराकाशस्य जग­द्वि­धा­र­क­त्व­मु­च्यते । तदपि ब्रह्मलिङ्गम् ; ‘एष सेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’(बृ.४.४.२२) इति श्रुत्य­न्त­र­द­र्श­नात् । न चैषा­मु­दा­हृ­त­श्रु­ति­लि­ङ्गानां दह­रा­का­शा­द­न्य­त्रा­न्वयः शक्यशङ्कः ; ‘एष आत्मा’ इत्यादि वाक्य­श्रु­त­पुं­ल्लि­ङ्गै­क­व­च­ना­न्तै­त­दा­दि­श­ब्द­प­रा­म­र्श­यो­ग्य­स्या­न्यस्य प्रकृ­त­स्या­भा­वात् । ‘उभे अस्मि­न्द्या­वा­पृ­थिवी अन्तरेव समाहिते’(छा.८.१.३) इति दहराकाशस्य , ‘अस्मिन् कामास्समाहिताः’ इति अप­ह­त­पा­प्म­त्वा­दि­गु­ण­क­स्या­त्म­नश्च समा­धा­ना­धा­र­त्वे­नै­क्य­प्र­त्य­भि­ज्ञा­नाच्च । तस्मा­दु­प­क्र­म­ग­ताया अप्येकस्या आका­श­श्रु­ते­र्वा­क्य­शे­ष­ग­तानि बहूनि श्रुतिलिङ्गानि बलवन्तीति तैर्दहराकाशः परं ब्रह्मेति युक्तम् । आकाससब्दस्य श्रुत्यन्तरेषु तस्मिन्नपि प्रसिद्धत्वात् । अपि च ‘ब्रह्मपुरे’ इत्यु­प­क्र­मा­नु­सा­रे­णापि दहराकाशः परं ब्रह्मेति लभ्यते । देहस्य ब्रह्म­पु­र­त्वो­क्त्यैव देहा­न्त­र्व­र्ति­त्वेन ब्रह्मो­पा­स­ना­वि­धि­त्स­येदं प्रकरणमारभ्यत इत्यवगमात् ।

स्यादेतत् – ‘चैत्रगृहे मैत्रस्तिष्ठति’ इत्यन्यगृहत्वेन निर्दि­ष्टेऽ­प्य­न्या­व­स्था­न­मु­च्यते , तथेहाप्यस्तु । न च वाच्यम् – तत्र ‘मैत्र’ इति विशि­ष्या­धे­य­नि­र्दे­शा­त्तथा भवतु नाम , इह त्वनि­र्दि­ष्टा­धे­य­वि­शेषे वाक्ये तद्वि­शे­षा­का­ङ्क्षायां यस्य पुरत्वेन देहो निर्दिष्टः , तत् ब्रह्मै­वा­धे­य­वि­शे­ष­त्वेन सम्बन्धुं युक्तम् – इति । अत्रा­प्या­का­श­श्रुत्या विशिष्य भूता­का­श­स्या­धे­य­त्वेन निर्दिष्टत्वात् , इति चेत् ; मैवम् । इह ब्रह्मपुरत्वेन देहो­क्ते­र्दे­हा­न्त­र्वृ­त्ति­ब्र­ह्मो­पा­स­ना­वि­धि­त्साऽ­भावे वैय­र्थ्य­प्र­स­ङ्गात् । न हि मैत्रान्वेषिणं प्रति ‘चैत्रगृहे मैत्रस्तिष्ठति’ इति वाक्ये चैत्र­गृ­ह­त्वोक्तिः देव­द­त्त­गृ­हा­दि­व्या­व­र्त­ने­ने­वात्र ब्रह्म­पु­र­त्वोक्तिः प्रकारान्तरेण साफल्यमश्नुवीत । तस्माद्यथा ‘प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­यत्’ इत्या­द्यु­प­क्र­म­ग­ता­र्थ­वा­देन अश्वदातुः किञ्चि­द्वि­धा­स्यत इत्यवगमात् तदनन्तरश्रुतं ‘यावतोऽश्वान् प्रति­गृ­ह्णी­या­त्ता­वतो वरु­णां­श्च­ष्क­पा­ला­न्नि­र्व­पेत्’ इति वाक्य­म­श्व­प्र­ति­ग्र­ही­तु­रि­ष्टि­वि­धा­य­क­त­याऽ­व­भा­स­मा­न­म­प्य­श्व­दा­तु­स्त­द्वि­धा­य­क­मिति योज्यते , एव­मि­हा­प्यु­प­क्रमे देहस्य ब्रह्म­पु­र­त्वोक्त्या देह­स्या­न्तः­कि­ञ्चित् (क.चित्) ब्रह्मोपासना विधास्यत इत्यवगमात् तदनन्तरश्रुतं दहराकाशवाक्यं भूता­का­श­प्र­ति­पा­द­क­त­याऽ­व­भा­स­मा­न­मपि ब्रह्म­प्र­ति­पा­द­क­मिति योजनीयम् । तस्मा­न्नि­रा­ल­म्बनो भूता­का­श­पू­र्व­पक्ष इति चेत् ; अत्र ब्रूमः –
’यावान्वा अयमि’त्यादौ बाह्या­भ्य­न्त­र­भे­दतः ।
उदमानोपमेयत्वं भूताकाशे समञ्जसम् ॥
सूक्ष्मेऽ­प्य­भ्य­न्त­रा­काशे वैपु­ल्य­मु­प­प­द्यते ।
मानसं मानसार्थानां समाधानाय काङ्क्षितम् ॥
यच्चास्येत्यत्र पित्राद्या व्र्ण्यास्स­ङ्क­ल्प­स­म्भवाः ।
साकं द्यावा­पृ­थि­व्या­द्यैस्ते स्वाप्ना इव मानसाः ॥
नैवात्र दहराकाशः श्रुत्योपास्यो विधीयते ।
किन्त­त्व­न्त­र्वृत्ति तस्यान्यदिदं श्रुत्यैव दर्शितम् ॥
तत्र द्यावा­पृ­थि­व्या­दि­व­र्ण्य­व­स्तु­क­र­म्बिते ।
ब्रह्म­ण्य­शे­षा­धि­ष्ठाने ब्रह्म­श्रु­त्या­दि­स­ङ्गतिः ॥
तथा हि – ‘यच्चा­स्ये­हास्ति’ इत्यादेरयमर्थः – यदस्य देहिनः इह लोके विद्यते , यच्चेह लोके इदानीं न विद्यते नष्टं भविष्यद्वा , तत्सर्वमस्मिन् दहराकाशे समाहितमिति । तच्चात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्याग्रे ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पित­र­स्स­मु­त्ति­ष्ठन्ति’(छा.८.२.१) इत्यादिना वर्णयिष्यमाणं स्वस­ङ्क­ल्प­स­मु­त्थि­त­प्रा­ची­ना­न­न्त­ज­न्म­स­म्ब­न्धि­दि­दृ­क्षि­त­पि­तृ­भ्रा­तृ­पु­त्र­क­ल­त्र­गी­त­वा­दि­त्रा­दि­भो­ग्य­व­स्तु­जा­त­रू­पम् ; अग्रे ‘यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते अथ ये चास्य जीवा ये च प्रेता यच्चा­न्य­दि­च्छन्न लभते सर्वं तदत्र गत्वा विन्दते’(छा.८.३.१,२) इति श्रुत्यैव तथा विवृतत्वात् । तच्च ब्राह्मलौकिकं सङ्क­ल्प­ज­पि­त्रा­दि­भो­ग्य­जातं न स्थूल­पा­र्थि­वा­प्या­दि­रू­पम् , किन्तु स्वप्न­दृ­ष्ट­स्त्री­पु­रु­षा­दि­व­न्म­नो­वि­का­रा­त्म­कम् । अत एव ‘मनसैतान् कामान् पश्यन्रमते य एते ब्रह्मलोके’(छा.८.१२.५.१) इति तस्य मनोमात्र भोग्यत्वश्रुतिः , मनोमयानि ब्रह्मलोके शरीरादीनि’ इति पुराणञ्च । एवञ्च तत्प्रायपाठात् द्यावा­पृ­थि­व्या­दि­क­मपि दहरोपासकस्य स्त्र्यन्न­पा­न­गी­त­वा­दि­त्रा­दि­वत् भोगोपयुक्तं मानसमेव ग्राह्यमिति तस्य सर्व­स्या­प्य­न्त­स्स­मा­धा­नाय दहराकशस्य बाह्याकाशवत् व्यापकत्वमपि मान­स­मे­वा­पे­क्षि­तम् । तदेव स्वल्पा­प­व­र­क­दे­श­नि­द्रा­ण­पु­रु­ष­दृ­श्य­मानै कैक­को­ण­वि­श्रा­न्ता­ने­क­गि­रि­न­दी­स­मु­द्रा­दि­यु­क्ता­का­श­वै­पु­ल्य­वत् मुहू­र्त­मा­त्र­श­यि­त­पु­रु­षा­नु­भू­य­मा­न­वि­वा­ह­पु­त्रो­त्पा­दन तदु­प­ला­ल­ना­द्य­ने­क­व्या­पा­र­यु­क्त­स्वा­प्न­का­ल­दै­र्घ्य­वच्च वास्त­व­सू­क्ष्म­त्वा­वि­रोधि ‘यावान्वा’ इत्यादिना वर्ण्यत इति किमत्रासमञ्जसम् ?

ननु द्यावा­पृ­थि­व्या­दि­क­मिह वर्ण्यमानं मान­स­ञ्चे­त्त­त्स्व­प्न­दृ­ष्ट­गि­रि­स­मु­द्रा­दि­व­द्व­स्तुतः सूक्ष्मेऽपि मातुं शक्नोतीत्येव शिष्या­णा­मा­क्षेपे परिहर्तुं शक्ये किमर्थं प्राति­भा­सि­क­वै­पु­ल्या­भि­प्रा­येण ‘यावान्वा अयम्’ इत्युक्तमिति चेत् ; सत्यम् । वस्तुतः सूक्ष्म एवास्य द्यावा­पृ­थि­व्यादेः समा­धा­न­मु­प­पा­द­यितुं शक्यमिति । अत एव तैत्ति­री­यो­प­नि­षदि ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’(महानारा.११.९) इति सूक्ष्म एव हृदयसुषिररूपे भूताकाशे सर्वस्य समाधानमुक्तम् । छान्दोग्यभाष्ये च सूक्ष्मे दहराकाशे समा­धा­ना­न्य­था­नु­प­प­त्त्यैव ब्राह्म­लौ­कि­क­पि­त्रा­दि­भो­ग्य­जा­तस्य मानसत्वं प्रसाधितम् । तथाऽ­प्य­त्रा­त्य­ल्पी­यसो दह­रा­का­श­स्या­न्त­र­ति­सू­क्ष्म­मपि वस्तूपास्यं न सम्भ­व­ती­त्या­क्षि­प्त­वतां शिष्याणां हृदि अतिविपुलं द्यावा­पृ­थि­व्या­दिकं तदन्तः समा­हि­त­मि­त्यु­त्तरं न प्रविशेदिति मत्वा यक्षा­नु­रू­प­ब­लि­न्या­येन मनो­वि­का­र­म­नो­वि­का­र­रू­प­द्या­वा­पृ­थि­व्या­दि­स­मा­धा­नो­चितं मनोविकाररूपमेव वैपुल्यं दर्शि­त­मि­त्यु­प­प­द्य­ते­त­राम् ।

अवाश्यञ्च दहराकाशः परं ब्रह्मेति वदताऽपि ‘यावान्वा अयमाकाशः’ इत्यादिना दहराकाशस्य सूक्ष्म­त्व­वि­रोधि मनोविकारात्मकं वैपुल्यं वर्णितमित्ययमेव पन्थाः समाश्रयणीयः । कथम् ? तेन खल्वाकाशशब्दस्य ब्रह्मणि गौणी वृत्तिरेष्टव्या । तस्याश्च ‘आकाशवत् सर्वगतः’ इति श्रुत्य­न्त­र­प्र­सि­द्ध­भू­ता­का­श­सा­दृश्यं निमि­त्त­त­याऽ­व­ति­ष्ठते । तथा­चो­प­मे­य­नि­र्दे­श­के­ना­का­श­श­ब्दे­नैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु ? न हि ‘यत् भूता­का­श­व­द्व्या­पकं ब्रह्म तत् भूताकाशसादृश्यं निमि­त्त­त­याऽ­व­ति­ष्ठते । तथा­चो­प­मे­य­नि­र्दे­श­के­ना­का­श­श­ब्दे­नैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु ? न हि ‘यत् भूता­का­श­व­द्व्या­पकं ब्रह्म तत् भूता­का­श­व­द्व्या­प­कम्’ इति वाक्यं समञ्जसं भवति, किन्तु ‘गङ्गायां घोषः’ इति लाक्षणिकेन गङ्गापदेनैव तीरस्य गङ्गा­स­म्ब­न्धित्वे लब्धे ‘गङ्गाया गङ्गायां घोषः’ इति प्रयो­ग­व­द­स­म­ञ्ज­स­मेव भवेत् । तस्मात् ब्रह्म­ण­स्स्व­रू­पेण भूता­का­श­व­द्व्या­प­कत्वे ‘आका­श­व­त्स­र्व­गतः’ इति श्रुति­प्र­ति­पा­दिते गौणेनाकाशपदेन बोध्यमानेऽपि हृद­य­पु­ण्ड­री­का­व­च्छि­न्न­रू­पे­णापि तद्वापकत्वं प्रतिपादयितुं ‘यावान्वा’ इत्यादिवाक्यम् । यथा ‘अमा­वा­स्या­या­म­मा­वा­स्यया यजेत’ ‘पौर्णमास्या यजेत’ इति वाक्य­यो­रा­ग्ने­या­दीनां षण्णां यागानां स्वरू­पे­णा­मा­वा­स्या­पौ­र्ण­मा­सी­का­ल­क­र्त­व्यत्वे तत्त­दु­त्प­त्ति­वा­क्य­वि­हिते तेषु गौणाभ्यां तृती­या­न्ता­मा­वा­स्या­पौ­र्ण­मा­सी­प­दाभ्यां बोध्यमानेऽपि तेषां त्रिशस्त्रिशः प्राच्यो­दी­च्य­स­क­ला­ङ्ग­सा­हि­त्ये­नापि तत्त­त्का­ल­क­र्त­व्यत्वं प्रतिपादयितुं तद्वा­क्य­द्व­य­मि­त्येव समर्थनीयम् ।

अत एवैकादशे तस्य वाक्यद्वयस्य साफल्यं तथैव समर्थितम् – तद्वा­क्य­द्व­या­भावे ‘दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत’ इति वाक्ये­नै­क­फ­ल­सा­ध­न­त्वेन बोधितानां षण्णां यागानां प्रयो­गै­क्य­स्यौ­त्स­र्गि­क­त्वात् पौर्णमास्यां प्राच्यां­गा­नु­ष्ठा­न­पू­र्वकं पौर्ण­मा­स­त्रि­क­म­नु­ष्ठाय अमावास्यायां प्राप्ता­या­म­मा­वा­स्या­त्रि­क­म­नु­ष्ठा­यो­दी­च्यां­ग­स­मा­पनं कर्तव्यं प्रसज्येत इति । आचा­र्य­वा­च­स्प­ति­नाऽपि ब्रह्म­ण्या­का­श­प­दस्य गौणत्वे तेनैव भूता­का­श­व­द्व्या­प­क­त्वस्य लब्धतया पुनस्तत्र वाक्येन तत्प्र­ति­पा­द­न­म­न­न्वि­त­मि­त्या­शंक्य ‘तत्किमिदानीं पौर्णमास्यां पौर्णमास्या यजेत अमा­वा­स्या­या­म­मा­वा­स्य­ये­त्य­सा­धु­र्वै­दि­क­प्र­योगः ? इति वदता तद्वा­क्य­द्व­य­दृ­ष्टा­न्ता­व­ष्ट­म्भेन ब्रह्मणः स्वरूपेण भूता­का­श­व­द्व्या­प­कत्वे गौणपदलब्धेऽपि हृद­या­व­च्छि­न्न­रू­पे­णापि तद्व्यापकत्वं प्रतिपादयितुं ‘यावान्वा’ इत्यादि वाक्यमित्येव दर्शितम् । एवञ्च हृद­या­व­च्छि­न्न­रू­पेण सूक्ष्मस्य ब्रह्मणस्तेनैव रूपेण वैपुल्यं मान­स­प­दा­र्थ­स­मा­धा­नो­चितं मानसं वर्णितमित्येव सिद्धा­न्ति­नाऽ­प्यु­प­प­द­नीयं गत्य­न्त­रा­भा­वा­दि­त्यलं विस्तरेण ।

‘एष आत्मा अपहतपाप्मा’ इत्या­दि­वा­क्य­शे­ष­ग­त­ब्र­ह्म­लि­ङ्गानां तु न दहराकाशेऽन्वयः , किन्तु तस्या­न्त­रु­पा­स्य­त्वेन निर्दिष्टं यत् द्यावा­पृ­थि­व्यादि तदवच्छिन्ने , तत्प्रतीके वा ब्रह्मण्यन्वयः । द्यावा­पृ­थि­व्या­दि­स­मा­धा­नो­प­न्या­सा­न­न्तरं ‘एतत् सत्यं ब्रह्मपुरम्’ इति प्रकृ­त­द्या­वा­पृ­थि­व्या­दि­प­रै­त­त्प­द­स­मा­ना­धि­क­र­णेन ‘सत्यं ब्रह्मपुरम्’ इत्यनेन द्यावा­पृ­थि­व्या­द्य­व­च्छिन्नं , तत्प्रतीकं वा ब्रह्म निर्दिश्य ‘अस्मि­न्का­मा­स्स­मा­हिताः’ इत्युपासकस्य कमनीयानां केषाञ्चित् गुणानां ब्रह्मणि समाधानमुक्त्वा तदनन्तरं ‘एष आत्माऽ­प­ह­त­पाप्मा’ इत्यादिना तेषां गुणा­ना­म­प­ह­त­पा­प्म­त्वा­दि­रू­प­तया विवृतत्वात् । ननु ‘एतत् सत्यं ब्रह्मपुरम्’ इत्यत्र एतत्पदं दह­रा­का­श­प­रा­मर्शि, ‘उभे अस्मि­न्द्या­वा­पृ­थिवी’ इत्या­दि­प्रा­ची­न­वा­क्येषु सर्वनाम्नां तत्प­रा­म­र्शि­त्व­द­र्स­नात् ; ‘एतत्’ इति नपुंसकलिङ्गस्य सत्य­ब्र­ह्म­पु­र­श­ब्द­सा­मा­ना­धि­क­र­ण्या­नु­रो­धेन सङ्गतत्वात्तस्य द्यावा­पृ­थि­व्या­दि­प­रा­म­र्शित्वे एक­व­च­ना­नु­प­त्तेश्च । तस्मात् ‘सत्यं ब्रह्मपुरम्’ इत्यारभ्य श्रुतानां सर्वेषां ब्रह्मलिङ्गानां दहराकाश एव समन्वय इति चेत् ; मैवम् । ‘उभे अस्मिन्’ इत्यादिवाक्येषु प्राधान्येन प्रथमाविभक्त्या निर्दिष्टस्य द्यावा­पृ­थि­व्या­दे­रेव ‘प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­यत् स स्वां देवतामार्च्छत्’ इत्यत्र प्रजापतेरिव सर्वनाम्ना परामर्ष्तुं युक्तत्वात् । तस्य द्यावा­पृ­थि­व्या­दि­प­रा­म­र्शि­त्वेऽपि ‘नपुं­स­क­म­न­पुं­स­के­नै­क­व­च्चा­स्या­न्य­त­र­स्याम्’ इति व्याक­र­णा­नु­शि­ष्टस्य नपुं­स­क­लि­ङ्ग­स्यै­क­व­च­नस्य चोपपत्तेः , ‘सर्वं तदस्मिन् समाहितम्’ इत्यन्तेन दहराकाशे द्यावा­पृ­थि­व्या­दि­स­मा­धा­नो­प­न्या­सा­न­न्तरं प्रवृत्ते ‘तञ्चेत् ब्रूयुः अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैनज्जरा वाऽऽप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’ इत्या­क्षे­प­त­दु­त्त­र­स­न्दर्भे श्रुतयोः ‘एतत्’ इति पद­यो­र्न­पुं­स­क­लि­ङ्ग­सा­मा­ना­धि­क­र­ण्या­भा­वेन शरी­र­ना­शा­त्त­दा­श्रि­त­मू­र्त­द्र­व्य­जा­त­स्येव तद­व­च्छि­न्न­स्या­का­शस्य हानिशङ्कानुदयेन च दह­रा­का­श­प­रा­म­र्शि­त्व­स्या­नु­प­प­न्न­तया अस्मदुक्तरीत्या द्यावा­पृ­थि­व्या­दि­प­रा­म­र्शि­त्व­स्या­व­श्य­व­क्त­व्य­त्वेन तदनन्तरश्रुत ‘एतत्सत्यं ब्रह्मपुरम्’ इति वाक्य­ग­तै­त­त्प­द­स्यापि तत्प­रा­म­र्शि­त्व­स्यै­वा­ङ्गी­क­र्त­व्य­त्वाच्च ।

यत्तु ‘अस्मिन् कामास्समाहिताः’ इति समा­धा­ना­धा­र­त्व­प्र­त्य­भि­ज्ञया दहराकाशस्य ब्रह्म­पु­र­श­ब्दो­दि­तस्य ब्रह्म­ण­श्चै­क्य­म­व­ग­म्यते इति , तत्तुच्छम् ; प्रकृ­त­प­रा­म­र्श­क­स­र्व­ना­मा­नु­सा­रेण भेदेऽवगम्यमाने समा­धा­ना­धा­र­त्व­प्र­त्य­भि­ज्ञा­मा­त्र­स्या­कि­ञ्चि­त्क­र­त्वात्, अन्यथा ‘यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इत्यत्र ‘ब्रह्मपुरे’ इति ‘अस्मिन्’ इति च सप्त­मी­नि­र्दि­ष्टा­धा­र­प्र­त्य­भि­ज्ञया ब्रह्म­पु­र­द­ह­र­पु­ण्ड­री­क­यो­र­प्यै­क्य­प्र­स­ङ्गात् । तस्मा­द्यु­क्त­मुक्तं वाक्य­शे­ष­ग­त­ब्र­ह्म­श्रु­ति­लि­ङ्गानां द्यावा­पृ­थि­व्या­द्य­व­च्छिन्ने , तत्प्रतीके वा ब्रह्मण्यन्वय इति । एवञ्च – उपक्रम एव देहस्य ब्रह्म­पु­र­त्वोक्त्या ब्रह्मो­पा­स­ना­वि­धि­त्साऽ­व­ग­मा­द्द­ह­रा­काशो ब्रह्मे­त्य­व­ग­म्यत इत्येतदपि निरस्तम् ; दह­रा­का­श­स्यो­पा­स्य­त्वे­ना­नि­र्दि­ष्ट­त्वात् । तद­न्त­रु­पा­स्य­त्वेन निर्दिष्टं यद्द्या­वा­पृ­थि­व्यादि तदुपासनस्य ब्रह्मो­पा­स­न­रू­प­तायाः समर्थितत्वाच्च । एवमेतेषां ब्रह्म­श्रु­ति­लि­ङ्गानां पूर्वपक्षे दह­रा­का­शा­न्त­रु­पा­स्या­न्व­येन साङ्ग­त्य­म­भि­प्रे­त्योक्तं भाष्ये ‘न चात्र दह­र­स्या­का­शा­स्या­न्वे­ष्ट­व्यत्वं विजि­ज्ञा­सि­त­व्य­त्वञ्च श्रूयते ; तस्मिन् यदन्तरिति पर­वि­शे­ष­ण­त्वे­नो­पा­दा­नात्’ इति ।

यदि चैतेषां ब्रह्म­श्रु­ति­लि­ङ्गानां दहराकाश एवान्वयो वक्तव्यः, तदाऽपि नानुपपत्तिः ; उप­क्र­म­ग­ता­भ्य­स्ता­का­श­श्रु­त्य­नु­सा­रेण ब्रह्मा­त्म­श्रु­तीनां बृह­त्त्वा­त्त­त्त्व­यो­गेन भूताकाशे वृत्त्युपपत्तेः ; उपास्यस्य भूताकाशस्य ब्रह्मा­त्म­श­ब्दाभ्यां परब्रह्मरूपतया स्तुत्यु­प­प­त्तेश्च । ‘यद्वै तत् ब्रह्मेति इदं वाव तत् योऽयं बहिर्द्धा पुरुषादाकाशः । यो वै स बहिर्द्धा पुरुषादाकाशोऽयं वाव स यो यमन्तःपुरुष आकाशः । यो वै सोऽन्तःपुरुष आकाशोऽयं वाव स योऽयमन्तर्हृदय आकाशः । यो वै सोऽन्तर्हृदय आकाशस्तदेतत् पूर्णमप्रवर्ति पूर्णा­म­प्र­व­र्तिनीं श्रियं लभते य एवं वेद’(छा.३.१२.७.९) इति श्रुतौ पूर्ण­त्वा­दि­गु­णेन उपास्यस्य भूताकाशस्यैव ‘यद्वै तत् ब्रह्मेतीदं वाव तत्’ इति ब्रह्मरूपतया स्तुतिदर्शनात् । अपहतपाप्मत्वं अपहतो निरस्तः जीवस्य पाप्मा येन यस्मिन्निति वा व्युत्पत्त्या हृदयान्तर्गते भूता­का­शेऽ­प्यु­प­प­द्यते ; ‘तद्यत्रैतत् सुप्त­स्स­म­स्त­स्सं­प्र­स­न्न­स्स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तन्न कश्चन पाप्मा स्पृशति’(छा.८.६.३) इति नाडीमार्गेण हृदयावकाशं प्रविष्तस्य जीवस्य पाप्मा­स्प­र्श­श्र­व­णात् । एतावतैव ‘दह्रं विपाप्मं परवेश्मभूतं यत् पुण्डरीकं पुरमध्यसंस्थम्’(महानारा.१०.७) इति दहरपुण्डरीकेऽपि विपा­प्म­त्वो­क्ति­द­र्श­नात् । ‘विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः’(छा.८.१.५) इत्यचेतने भूताकाशे जरा­द्य­प्र­स­क्ते­रु­प­प­द्यते ।

एते­षा­म­प्र­स­क्त­प्र­ति­षे­ध­रू­पत्वं ब्रह्मा­न्व­य­प­क्षेऽपि वक्तव्यमेव ; ‘अपहतपाप्मा’ इत्यस्य तस्मिन्पक्षे सर्व­पा­प्मो­दि­त­त्व­प­र­तया पाप­रा­हि­त्यो­क्त्यैव पाप­मू­ल­ज­रा­द्य­भा­व­स्या­प्य­र्थ­त­स्सि­द्ध­त्वात् , अत्रैव प्रकरणे ‘नैनं सेतुमहोरात्रे र्तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मनोऽतो निवर्तन्ते’(छा.८.४.१) इति पाप्मशब्दस्य जरादिसाधारणतया विवृतत्वेन ‘अपहतपाप्मा’ इत्यनेन जराद्यभावस्य शब्दतोऽपि सिद्धत्वाच्च । ‘सत्य­का­म­स्स­त्य­स­ङ्कल्पः’ इति च सति ब्रह्मणि काम­ना­स­ङ्क­ल्प­रा­हि­त्येन घटते; तयो­र्नि­षे­ध­रू­प­गु­ण­प्रा­य­पा­ठेन निषे­ध­रू­प­त्व­स्यो­चि­त­त्त्वात् । अह­र­ह­र्ग­ति­श्र­व­ण­मपि तस्मिन्हार्दे भूताकाशे सङ्गच्चते ; सुषुप्तौ जीवानां हृद­य­पु­ण्ड­री­का­व­का­श­प्र­वे­श­स­त्त्वात् । ब्रह्म­लो­क­श­ब्दोऽपि ब्रह्मो­प­ल­ब्धि­स्थाने तस्मि­न्नु­प­प­द्यते ; लोक्य­तेऽ­स्मि­न्निति व्युत्पत्त्या लोक­श­ब्द­स्यो­प­ल­ब्धि­स्था­न­प­र­त्वात् । विधारकत्वं तु स्वरूपेण भूता­का­श­स्या­क्ष­र­ब्रा­ह्म­णो­दितं विशिष्य च हृद­या­व­च्छि­न्न­रू­पे­णा­त्रैव ‘उभे अस्मि­न्द्या­वा­पृ­थिवी’ इत्यादिना प्रतिपादितं तस्मिन्नुपपद्यत इति स्पष्टमेव । देहस्य ब्रह्मपुरत्वेन उपक्रमस्तु देहा­न्त­र्व­र्ति­हा­र्द­भू­ता­का­शो­पा­स्ति­वि­धि­त्सा­या­मपि जाह्न­वी­ती­र­मृ­त्ति­को­क्ति­न्या­येन तस्यैव स्तुत्य­र्थ­त­यो­प­प­द्यते । ‘तद्य एवैतं ब्रह्मलोकं ब्रह्म­च­र्ये­णा­नु­वि­न्दन्ति तेषामेवैष ब्रह्म­लो­क­स्तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ८.४.३) इत्या­दि­वा­क्य­शे­षोक्तं महाफलमपि वचनबलात् भूताकाशोपासनस्य युज्यते । पूर्वाधिकरणे प्रतीकोपासनस्य वचनबलेन सर्व­पा­प­नि­र्द्धू­न­न­पू­र्व­क­ब्र­ह्म­लो­क­प्रा­प्ति­द्वा­र­क­प­र­म­मु­क्ति­फ­ल­क­त्व­स्यो­क्त­त्वात् । तस्मात् भूताकाश एव दहर इति ।

एवं प्राप्ते राद्धान्तमाह – ‘दहर उत्तरेभ्यः’ – स्दहराकाशः परमात्मा उत्त­रे­भ्य­स्त­दी­य­श्रु­ति­लि­ङ्गेभ्यः । न च तेषां दहराकाशानन्वयः शङ्कनीयः ; पूर्व­स­न्द­र्भ­स्वा­र­स्या­नु­रो­धे­ना­प­त­त­स्त­द­न्व­य­स्या­प­रि­हा­र्य­त्वात् । तथा हि – उपा­स­क­भो­ग­स्था­न­भो­गो­प­क­र­ण­भो­ग्य­जा­त­रू­प­द्या­वा­पृ­थि­व्या­दि­स­र्व­स­मा­धा­नो­क्त्य­न­न्तरं प्राक् ब्रह्म­पु­र­श­ब्दे­नोक्ते देह एव तस्य सर्वस्य समा­धा­न­मु­क्त­मा­पाद्य देहे जीर्णे , नष्टे वा, जीर्णे कुसूलादौ भारधारणाक्षमे तदन्तर्निहितं व्रीह्यादिकमिव , नष्टे घटे तदन्तर्निहितं दध्यादिकमिव च तत्किमपि नाव­ति­ष्ठे­ते­त्य­न्ते­वा­सि­भि­रा­क्षि­प्तम् । तत्र दहराकाशे वर्णितं सर्वसमाधानं देह एव वर्णितमिति आपादनस्य द्वेधाऽभिप्रायः सम्भायते – यथा घटाद्यन्तराकाशे निहितस्य दध्या­दे­र्व­स्तुतो घटादिरेव धारकः , आकाशः पर­म­व­का­शा­त्म­नो­प­क­रोति, एवमिहापि दहराकाशस्य स्वतः­स­र्व­धा­र­क­त्वेऽपि तस्य देह­ज­रा­प्र­ध्वं­सा­नु­प­द­भा­वि­ज­रा­प्र­ध्वं­स­त्वा­द्या­व­द्दे­हस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देह एव तस्य सर्वस्य धारकः पर्यवस्यति इति वा ; यथा राजा­नु­सा­र्यै­श्व­र्य­दा­रि­द्र्येण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति इति वा ; यथा राजा­नु­सा­र्यै­श्व­र्य­दा­रि­द्र्येण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति तद्वदिति वा । तत्र द्विती­या­भि­प्रा­या­व­ल­म्ब­ना­क्षे­प­स­मा­धा­नार्थं ‘नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’(छा.८.१.५) इत्युक्तम् । यद्यपि देहान्तर्गत आकाशो देहस्य जरादौ सति जरादिना न स्पृश्यत इति स्पष्तमेव , न हि कुसु­ला­द्य­न्त­र्गत आकाशोऽपि तज्जरादौ सति जरादिना स्पृश्यते, तथाऽपि प्रथ­मा­भि­प्रा­य­मू­ल­त्व­मे­वा­क्षे­पस्य युक्तमिति परिशेषयित्वा तत्समाधानं वक्तुं मन्द­शि­ष्या­नु­ग्र­हाय स्पष्ट­म­प्यु­क्तम् । प्रथ­मा­भि­प्रा­या­व­ल­म्ब­ना­क्षे­प­स­मा­धा­नार्थं ‘एतत्सत्यं ब्रह्म­पु­र­म­स्मि­न्का­मा­स्स­मा­हिताः’(छा.८.१.५) इत्युक्तम् । तत्र ‘अस्मि­न्का­मा­स्स­मा­हिताः’ इत्यनेन येषां कामानां सङ्क­ल्प­ज­पि­तृ­मा­तृ­भ्रा­तृ­स्व­सृ­स्त्र्य­न्न­पा­न­ग­न्ध­मा­ल्य­गी­त­वा­दि­त्रा­दि­रू­पाणां देहे समा­धा­न­मु­क्त­मा­पा­द्या­क्षिप्तं ते तत्र न समाहिताः , किन्त्व­स्मि­न्द­ह­रा­काशे, अतः स एव तेषां धारको, न देह इत्या­क्षे­प­मू­लो­न्मू­लनं कृतम् । तत्र काम­ग्र­ह­ण­मा­क्षेपे देह­स­मा­हि­त­त्वे­ना­पा­द्या­नू­दि­तानां सर्वे­षा­मु­प­ल­क्ष­णम् ।

ननु घटाकाशो दध्यादेरिव दहराकाशो द्यावा­पृ­थि­व्या­देर्न धारक इत्याशंक्योक्तं ‘एतत्सत्यं ब्रह्मपुरम्’ इति । न हि घटाकाश इव दहराकाशोऽयं भूताकाशः , किन्तु ब्रह्म । तत्तु पुरमिव उपा­स­का­पे­क्षि­त­वि­वि­ध­भो­गो­प­क­र­ण­चे­त­ना­चे­त­ना­त्म­क­भो­ग्य­जा­त­पूर्णं तद्धारकमेव यतः तत् सत्यं सक­ल­प्र­प­ञ्च­नि­या­म­क­मिति तस्यार्थः । सत्यपदं हि नित्या­नि­त्या­त्म­क­चे­त­ना­चे­त­न­स­क­ल­प्र­प­ञ्च­नि­य­न्तृ­त्व­परं ब्रह्म­ना­मे­त्य­त्रैव प्रकरणे वर्णितं ‘तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति , तानि ह वा एतानि त्रीण्यक्षराणि स ति यमिति । तद्य­त्स­त्त­द­मृ­तम्, अथ यत्ति तन्मर्त्यम्, अथ यद्यं तेनोभे यच्छति’(छा.८.२.४५) इति । नियन्तृत्वञ्च धारकत्वव्याप्तं ‘एष सेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’(बृ.४.४.२२) इत्यादिश्रुतेः । एवं­कृ­ता­क्षे­प­स­मा­धा­न­सि­द्ध्या­नु­गु­ण्येन समा­धा­न­वा­क्य­ग­त­यो­रे­त­दि­ति­प­द­यो­र्द­ह­रा­का­श­प­रत्वं वक्तव्यमिति तयो­र्द्या­वा­पृ­थि­व्या­दि­प­र­त्व­व­र्ण­न­म­स­म­ञ्ज­स­मेव । न हि तदानीं कृतस्याक्षेपस्य समाधानं लभ्यते ; माभू­द्दे­ह­ज­रा­दिना द्यावा­पृ­थि­व्या­दे­स्त­दा­श्रि­तस्य जरादि , तथाऽपि यथा कुसूलादेर्जरादौ सति तद­नु­वि­धा­यि­ज­रा­दि­र­हि­त­मपि व्रीह्यादि तत्र नावतिष्ठते, एवमिदमपि नाव­ति­ष्ठे­ते­त्या­क्षे­पस्य तादवस्थ्यात् । तदनन्तरं द्यावा­पृ­थि­व्या­द्य­व­च्छि­न्नस्य , तत्प्रतीकस्य वा ब्रह्मण उपा­स्य­त्व­प्र­ति­पा­द­नेन वा तस्मिन्ब्रह्मणि वक्ष्यमाणा अप­ह­त­प­प्म­त्वा­दि­गुणाः सन्तीति प्रतिपादनेन वा तत्स­मा­धा­ना­ला­भाच्च । न चैत­त्प­द­यो­र्द्या­वा­पृ­थि­व्या­दि­प­र­त्वेऽपि यथाऽऽक्षेपः समाधातुं शक्य स्तथा कश्चि­त्त­त्प्र­कारो वर्ण्यतामिति वाच्यम् । दह­रा­का­शा­श्रि­त­त्वे­नो­क्तस्य द्यावा­पृ­थि­व्या­दे­र्दे­हा­श्रि­त­त्व­मु­क्त­मि­त्या­पा­द्या­नु­वादे किञ्चि­द­भि­प्रा­य­वतो द्यावा­पृ­थि­व्या­दे­र्ज­रा­द्य­स्प­र्शोक्त्या तद­व­च्छि­न्न­त­त्प्र­ती­को­पा­स्य­ब्र­ह्म­प्र­ति­पा­द­नेन समाधातुं शक्यस्य कस्य­चि­दा­क्षे­प­प्र­का­र­स्यैवं सम­ञ्ज­स­स्या­नु­प­ल­म्भात् । तस्माद्यथा ‘विष्णु­रु­पां­शु­य­ष्टव्यः’ इत्यादिषु विध्यंगीकारे तव्य­प्र­त्य­य­स्वा­रस्ये सत्यपि तेषु विधा­ने­नो­प­क्रा­न्त­जा­मि­ता­दो­ष­नि­र्ह­र­णा­ला­भा­त्त­ल्ला­भाय वर्त­मा­ना­प­दे­श­यु­क्तेऽ­प्य­न्त­रा­वाक्य एव विधि­र­ङ्गी­क्रि­यते , एव­मि­हा­प्ये­त­त्प­द­यो­र्द्या­वा­पृ­थि­व्या­दि­प­र­त्वा­ङ्गी­कारे विभ­क्त्यै­क­रू­प्य­स्वा­र­स्य­लाभे सत्यपि तत्परत्वे कृता­क्षे­प­स­मा­धा­ना­ला­भात् तल्लाभाय दह­रा­का­श­प­र­त्व­मे­वा­ङ्गी­क­र्त­व्यम् ।

किञ्च ‘अस्मिन्कामाः समाहिताः’ इत्यत्र कामशब्देन सङ्कल्पजाः पित्रादय एव वक्तव्याः ; तेषा­मा­क्षे­प­वाक्ये काम­श­ब्दे­ना­भि­हि­त­त्वात् , अग्रेऽपि ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पित­र­स्स­मु­त्ति­ष्ठन्ति’(छा. ८.२.१) इत्यादिना सङ्कल्पजान् पित्रादीनभिधाय तेषामेव ‘त इमे सत्याः कामाः’ इति काम­श­ब्दे­ना­भि­धा­ना­भा­वात्, ‘एष आत्माऽ­प­ह­त­पाप्मा’ इत्यादिवाक्ये आत्म­वि­शे­ष­ण­त्वे­नोक्तिं विना तेषां क्वचिदपि प्राधा­न्ये­नो­क्त्य­भा­वाच्च । पित्रादयश्च प्राक् ‘यच्चा­स्ये­हास्ति’ इति वाक्ये दह­रा­क­शा­श्रि­त­त्वे­नोक्त्याः । अत एव सम­न­न्त­र­प्र­वृ­त्ता­क्षे­प­वाक्ये ‘सर्वे च कामाः’ इति तेषां समा­धा­न­मु­क्त­मि­त्य­नु­वादः । तथा च तत्स­मा­धा­ना­धा­र­त्व­प्र­त्य­भि­ज्ञया ‘अस्मिन् कामास्समाहिताः’ इत्य­त्र­त्य­स्यापि ‘अस्मिन्’ इति पदस्य दहराकाशपरत्वे सन्दंशन्यायेन मध्य­ग­त­यो­रे­त­त्प­द­यो­रपि तत्प­र­त्व­म­प­रि­हा­र्यम् ।

न च नपुं­स­क­लि­ङ्ग­वि­रोधः ; ‘व्यत्ययो बहुलम्’(पा.सू.३.१.८५) इति लिङ्ग­व्य­त्य­यो­प­पत्तेः । त्वयाऽपि द्यावा­पृ­थि­व्या­दिषु नपुंसकमेकवचनञ्च ‘नपुं­स­क­म­न­पुं­स­के­नै­क­व­च्चा­स्या­न्य­त­र­स्याम्’(पा.सू.१.२.६९) इति विधि­द्व­य­म­पेक्ष्य समर्थनीयम् । तद­पे­क्ष­यै­क­वि­ध्य­पे­क्ष­ण­मेव लघु । किञ्च नपुं­स­क­नि­र्वा­हार्थं तावदपि नापेक्षणीयम् , नपुंसकलिङ्गं स्त्रीलि­ङ्ग­पुं­ल्लि­ङ्गा­नु­गतं सामान्यम् , न तु विशेषान्तरमिति शाब्दि­कै­र­ङ्गी­कृ­त­त्वेन लिङ्गा­न्त­र­नि­र्दिष्टे नपुं­स­क­लि­ङ्गा­नु­प­प­त्ति­श­ङ्काऽ­न­व­का­शात् , ‘मुख­ना­सि­का­व­च­नोऽ­नु­ना­सिकः’(पा.सू.१.१.८) ‘द्विगु­रे­क­व­च­नम्’(पा.सू.२.४.१) इत्यादौ स्त्रीलि­ङ्ग­पुं­ल्लि­ङ्ग­वि­शे­ष­ण­यो­र्न­पुं­स­क­लि­ङ्ग­द­र्श­नाच्च । अपि च ‘सुपां सुलुक्’(पा.सू.७.१.३९) इत्यादिसूत्रेण विभक्तेर्लुकि पुंल्लि­ङ्गेऽ­प्ये­त­दि­त्येव रूपं भवति । तस्मा­द्द्वि­ती­या­क्षे­प­स­मा­धाने श्रुत्यैव दहराकाशस्य ब्रह्मरूपतया विवृतत्वात् तावतापि दहराकाशः परमात्मेति सिद्ध्यति । तदनन्तरस्य ‘एष आत्मा’ इत्या­दि­स­न्द­र्भ­स्या­न्य­प­र­त्व­श­ङ्का­न­व­का­शा­त्त­द्ग­त­श्रु­ति­लि­ङ्गै­रपि प्रागु­दा­हृ­तै­स्तथा सिद्ध्य­ती­त्य­न­व­द्यम् ।

स्यादेतत् – ‘दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­स­न्वे­ष्ट­व्यम्’ इत्या­दि­त्य­म­ण्ड­ला­दि­व­दु­पा­स्या­धा­र­त्वे­नो­प­न्यस्ते दहराकाशे वाक्य­शे­ष­ग­ता­ना­मु­पा­स्य­गु­णा­ना­म­न्वयो न युक्त इति चेत् ; किं कुर्मः ? ‘उभे अस्मिन्’ इत्यारभ्य ‘एष आत्मा’ इत्यन्तेषु वाक्येषु श्रुता­ना­मि­द­मे­त­च्छ­ब्दानां दहराकाशपरत्वात् तेषां तदनन्वयः परिहर्तुं न शक्यत इत्युक्तम् । ननु ‘यावान्वा’ इत्यादिवाक्यं यावानयम् बाह्या­का­शोऽस्ति, तावात् सर्वोऽ­प्य­न्त­र्हृ­दय आकाशे दहराकाशे वर्तत इत्येवमर्थतया पृष्ट­द­ह­रा­का­शा­न्त­र्व­र्त्यु­पा­स्य­वि­शे­ष­नि­र्धा­र­ण­प­र­मस्तु । तत्र द्विती­या­का­श­श­ब्दस्य सप्त­म्य­न्त­त्वा­श्र­य­णेन पृष्टा­कां­क्षि­ता­र्थ­नि­र्धा­र­णा­र्थत्वे सम्भवति तस्य प्रथ­मा­न्त­त्वा­श्र­य­णेन तद­ना­कां­क्षि­ता­र्थ­प­र­त्व­क­ल्प­ना­नौ­चि­त्यात् । तथा च तस्यैव दह­रा­का­शा­न्त­रु­पा­स्य­तया विहितस्य व्याप­का­का­श­स्या­ग्र्त­नै­रि­द­मे­त­च्चब्दैः परामर्शः सम्भवतीति चेत् ; मैवम् ; आकाशस्य दहरपुण्डरीके तदवच्छिन्नतया सूक्ष्म­त्वे­ना­व­स्थि­तस्य स्वोप­रि­व्या­प­क­त्वे­ना­प्य­व­स्था­ना­यो­गात् , ‘ताव­ने­षोऽ­न्त­र्हृ­दय आकाशः’ इत्यस्य द्विती­या­का­श­श­ब्द­वि­शे­ष­ण­तया तदनुरोधेन तस्यापि प्रथ­मा­न्त­त्व­नि­श्च­याच्च । न ह्येष इतिशब्दः प्रथ­मा(न्ता)का­श­श­ब्दस्य विशेषणम् ; तत्रायमिति विशेषणस्य सत्त्वेन तत्पौ­न­रु­क्त्या­पत्तेः ।

एतेन – यत् केचन दहराकाशो भूताकाशः तद­न्त­र्व­र्त्यु­पास्यं ब्रह्मेति मन्यमानाः ‘यावान्बा’ इत्यादिसन्दर्भं योजयन्ति – तदपि निरस्तम् । ते खल्वेवमाहुः – शरी­र­पु­ण्ड­री­क­यो­र्ब्रह्म इति पुर­त्व­वे­श्म­त्वो­क्त्यैव सरी­रा­न्त­र्व­र्तिनि पुण्डरीके ब्रह्मोपासना विधि­त्सि­ते­त्य­व­द्ग­मात् ‘तस्मि­न्य­द­न्त­स्त­द­न्वे­ष्ट­व्यम्’ इत्येतावतैव हृत्पु­ण्ड­री­क­स्थ­द­ह­रा­का­श­गतं ब्रह्मो­पा­स्य­मिति निर्धारितम् । अतः ‘किं तदत्र विद्यते’ इति प्रश्नः किंप्रकारं ब्रह्म तत्र वर्तत इति प्रका­र­मा­त्र­वि­षयः । तत्प्र­का­र­नि­रू­पणं ‘यावान्वा’ इत्यादि । यावा­न­य­मा­का­श­स्ता­वान् सर्वोऽ­प्य­न्वे­ष्ट­व्यस्य ब्रह्म­णोऽ­न्त­र्हृ­दये वर्तते द्यावा­पृ­थि­व्या­दि­क­ञ्चा­स्मिन् समा­हि­त­मि­त्या­का­शा­दि­स­र्वा­श्र­य­त्व­म­न्वे­ष्त­व्यस्य ब्रह्मणः प्रकार इति तेनोक्तं भवति । यदि त्वन्य­पु­र­वे­श्म­नो­र­न्या­व­स्था­न­स­म्भ­वात् ब्रह्म­पु­र­त्वा­द्यु­प­क्र­म­मा­त्रेण ब्रह्मो­पा­स­ना­वि­धित्सा नावगम्यते , तदा ‘किन्तदत्र विद्यते’ इति दह­रा­का­शा­न्त­र्व­र्त्यु­पा­स्य­स्व­रू­प­प्रश्नः । तस्योत्तरं ‘अन्तर्हृदय आकासः’ इति ; अन्त­र्हृ­द­य­श­ब्दोक्ते दहराकाशे आकाशो ब्रह्म वर्तत इति तस्यार्थः । ‘तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’ इत्यत्रैव प्रकरणे हृद­य­नि­मि­त्त­क­त्वेन निरुक्तस्य हृदयशब्दस्य हृदयवर्तिनि दहराकाशे वृत्त्युपपत्तेः , आकाशशब्दस्य ‘तल्लिङ्गात्’ इति न्यायेन ब्रह्मणि वृत्त्यु­प­प­त्तेश्च । ‘यावान्वा अय­मा­का­श­स्ता­वा­नेषु’ इति तु वाक्यान्तरम् । तेन ब्रह्मनो भूता­का­श­व­द्व्या­प­क­त्व­मु­च्यते, अग्रे­त­न­वा­क्यै­र्ब्र­ह्मणि द्यावा­पृ­थि­व्या­दीनां समाधानमुच्यत इति ।

अत्राद्यपक्षे ‘एष’ इति ‘आकाश’ इति च पुनरुक्तमिति स्पश्तमेव । ‘किन्तदत्र वर्तते’ इति आश्रयाश्रयिणोः वैयधिकरण्येन निर्देशवतः प्रश्नस्य ‘उभे अस्मिन्’ इत्यादि तादृ­श­मे­वो­त्त­र­मिति वक्तुं शक्ये तत्र वर्तमानं ब्रह्म किम्प्रकारमिति प्रश्नस्यार्थः ब्रह्म­णोऽ­न्त­र्हृ­दये आकाशो वर्तत इत्यादि तदुत्तरमिति क्लिष्टकल्पनमपि न युक्तम् । द्वितीयपक्षे दहराकाशे किं वर्तत इति प्रश्नस्याकाशो वर्तत इत्ये­ता­व­त्यु­त्तरे वक्तव्ये ‘अन्तर्हृदये’ इति शब्दान्तरेण दहराकाशस्य तत्र प्रतिनिर्देश इति कल्पनं क्लिष्टम् । न च हृदयसब्दो हृदि वर्तमाने सर्वत्र निरुक्तह् ; किन्त्वा­त्म­न्येव । ‘स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’ इति श्रवणात् । वाक्य­भे­द­दो­ष­श्चात्र स्पष्टः । तस्मात् ‘यावान्वा’ इत्यादि दहराकाशस्य भूता­का­श­व­द्व्या­प­क­त्व­प्र­ति­पा­द­न­प­र­मि­त्येव युक्तम् । न च तद­ना­का­ङ्क्षि­ता­र्थ­प्र­ति­पा­द­नम् ; तस्यै­वा­का­ङ्क्षि­त­त्वात् ।

तथा हि ‘तञ्चेत् ब्रूयुः’ इत्या­क्षे­पा­व­तारो , न तु प्रश्नावतारः । प्रश्ने ‘किन्तदत्र वर्तते’ इत्येतावत एव वक्तव्यत्वेन ‘यदिदमस्मिन् ब्रह्मपुरे’ इत्या­द्य­नु­वा­द­वै­य­र्थ्यात् , आक्षेप एव देहान्तर्गतं पुण्डरीकमेव तावदत्यल्पं , ततोऽ­त्य­न्त­म­ल्पी­यान् तदन्तर्गताकाशः पुण्डरीकस्य दहरत्वोक्त्यैव तद­न्त­र्ग­ता­का­शस्य दहरत्वे सिद्धे सूची­र­न्ध्र­व­द­ति­सू­क्ष्म­सु­षि­र­रू­प­त्व­द्यो­त­नाय हि पुनस्तस्य दहरत्वोक्तिः । तत्र किं सम्भाव्यते यद­न्वे­ष्त­व्य­मु­प­दि­श्यत इति तद­न्त­र्व­र्त्य­स­म्भ­व­स्फो­र­णा­र्थ­तया सार्थकत्वात् ।

एवमाक्षेपे तद­न्त­र्व­र्ति­स­म्भा­व­नाय प्रथमं तदु­प­यो­गि­वै­पु­ल्य­प्र­ति­पा­द­न­मे­वा­का­ङ्क्षि­तम् । न च तथापि ब्रह्मणि गौणे­ना­का­श­श­ब्दे­नैव तस्य भूता­का­श­व­द्व्या­प­क­त्व­म­व­ग­त­मिति तत्प्रतिपादनं नाकाङ्क्षितमिति वाच्यम् । न हि ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इत्यु­क्ति­मा­त्रे­णा­का­स­श­ब्दो­दितं भूता­का­श­व­द्व्या­पकं ब्रह्मेति श्रोतृभिरवगतम् ; आकासशब्दरूढ्या झटिति भूताकाशस्यैव प्रतीतेः । किन्तु यथा उपकोसलविद्यायां ‘कं ब्रह्म खं ब्रह्म’(छा.४.१०.५) इत्युपदिष्टे वैषयिकसुखं पञ्चमभूतञ्च ब्रह्मेत्येतन्न विजा­ना­मी­त्यु­प­को­स­लस्य प्रश्नानन्तरं ‘यद्वाव कम्’(छा.४.१०.५) इत्या­चा­र्य­वा­क्येन क ख शब्दो­दि­त­म­प­रि­च्छि­न्न­सु­खा­त्मकं ब्रह्मेति तेना­व­ग­त­मे­व­मि­हापि द्विती­या­क्षे­प­स्या­प्य­न­न्तरं ‘एतत् सत्यं ब्रह्मपुरम्’ इत्या­चा­र्योक्त्या दहराकाशो ब्रह्मेति तैरवगंस्यते । ‘यावान्वा’ इत्यादेः प्रथा­क्षे­प­स­मा­धा­न­रू­पायाः आचा­र्यो­क्ते­रा­न्त­र­स्यापि भूताकाशस्य वक्ष्य­मा­ण­मा­न­स­प­दा­र्थ­स­मा­धा­ना­नु­कूलं मानसं बाह्य­भू­ता­का­श­व­द्व्या­प­क­त्व­म­स्ती­त्ये­त­त्प­र­त्वे­ना­प्यु­प­प­न्न­तया ततोपि तथा­व­ग­त्य­स­म्भ­वात् । दहराकाशे समा­धा­ना­न्य­था­नु­प­पत्त्या वक्ष्य­मा­ण­प­दा­र्थानां मानसत्वस्य च्छान्दो­ग्य­भाष्ये समर्थितत्वात् ।

अथवा श्रीम­द्भा­ष्य­रीत्या ततोपि दहराकाशो ब्रह्मे­त्य­व­ग­तिस्तु । तस्यैवमभिप्रायः – वक्ष्यमाणा द्यावा­पृ­थि­व्या­द­यह् पदार्था न केवलम् मानसाः , किन्तु बाह्या अपि सन्ति । उपासकस्य ब्रह्मलोकं प्राप्त­स्या­श­री­र­त्वा­व­स्थायां ये सङ्कल्पजास्त एव स्वाप्न­व­न्मा­नसाः । सश­री­र­त्वा­व­स्थायां सङ्कल्पजास्तु जाग्र­द्भो­ग­प्र­द­प­दा­र्थ­वत् बाह्या इत्यस्यार्थस्य ‘अभावं बादरिः’(ब्र.सू.४.४.१०) इत्यधिकरणे ‘तन्वभावे सन्ध्य­व­दु­प­पत्तेः’(ब्र.सू.४.४.१३) ‘भावे जाग्रद्वत्’(ब्र.सू.४.४.१४) इति सूत्राभ्यां व्यव­स्था­प­यि­ष्य­मा­ण­त्वात् । न च द्यावा­पृ­थि­व्या­दि­प­दा­ना­म­स­ङ्को­चे­नो­पा­स­क­प्रे­प्सि­त­स­र्व­वि­ध­स्वा­र्थ­प­रत्वे सम्भवति मान­स­मा­त्र­प­र­त्वेन सङ्कोचकल्पनं युक्तम् । एवञ्च बाह्यपदार्थानां मान­स­वै­पु­ल्य­व­त्यपि हृदयाकाशे समाधानासम्भवात् ‘यावान्वा’ इत्या­दि­हृ­द­या­व­च्छि­न्न­स्यैव भूताकाशस्य बाह्य­भू­ता­का­श­व­द्व्या­प­कत्वं व्याव­हा­रि­क­सू­क्ष्म­त्वा­वि­रोधि स्वाप्नवन्मानसं प्रदर्शयितुं प्रवृत्तं न भवति , किन्तु तस्य हृद­या­व­च्छि­न्न­रू­पेण सूक्ष्मत्वेऽपि स्वरूपेण व्यापकत्वमस्ति , तथा च हृदयावच्छेदेन तद­न्त­र्व­र्त्य­स­म्भ­वेऽपि स्वरूपेण तद­न्त­र्व­र्ति­स­म्भ­वेन तदभिप्रायेणैव तस्मि­न्य­द­न्त­रि­त्यु­क्त­मिति प्रदर्शयितुम् । स्वरूपेण व्याप­क­त्व­प्र­ति­पा­द­नञ्च ‘यावान्वा अयमाकाशः’ इत्यु­प­मा­न­नि­र्दे­श­पू­र्व­क­मे­त­द­न­न्व­य­वि­ध­यो­प­मा­वि­धया वा भूताकाशे न सङ्गच्छते । सङ्गच्छते तु ब्रह्म­ण्यु­प­मा­वि­धया ; यथाऽयं भूताकाशो व्यापकस्तथा यस्या­न्त­र्व­र्त्य­न्वे­ष्ट­व्य­मुक्तं , एष हृदयाकाशो व्यापक एव , सौक्ष्म्यं तु हृद­या­व­च्छे­द­कृ­त­मु­क्तम् , न स्वाभाविकमिति । न च – ब्रह्मण्यपि न सङ्गच्छते , उद्दे­श्य­ता­व­च्छे­द­क­वि­धे­य­यो­रै­या­प­त्ते­रिति वाच्यम् । एत­द्वा­क्या­र्थ­बो­ध­द­शा­या­मा­का­श­शब्दो ब्रह्मणि गौण इत्य­न­व­ग­त­त्वा­त्त­द­न­न्त­र­मे­त­द्वा­क्य­प्र­ति­पा­दि­त­भू­ता­का­श­सा­दृ­श्य­लि­ङ्गेन भूताकाशे अनुपपन्नेन दहराकाशो ब्रह्मेति निश्चये सति तत्र तस्य गौणतया अवगन्तव्यत्वात् ।

एवञ्च यथा ‘दहेदयं ग्राममशेषमेव क्षणात् प्रभू­तो­ग्नि­रि­वा­णु­रग्निः’ इत्युक्तौ पर­स्प­र­व्या­व­र्त­क­वि­शे­ष­णो­पा­द­ने­ना­न­न्व­यस्य सूक्ष्मा­व­स्था­स्या­ग्ने­र­शे­ष­ग्रा­म­द­ग्धृ­त्वा­यो­गे­ना­भि­न्नो­प­मा­या­श्चा­स­म्भ­वा­दे­त­द्वा­क्य­प्र­ति­पा­दि­ता­ग्नि­सा­दृ­श्य­लि­ङ्गेन तद्व्यतिरिक्तः क्षुद्रपुरुषः कश्चि­दि­हा­णु­र­ग्नि­रिति निश्चये सति तत्रा­ग्नि­श­ब्दस्य गौणवृत्तौ वस्तुतः क्षुद्र­पु­रु­ष­ग­त­ग्रा­मा­नि­ष्ट­का­रि­त्वा­भे­दे­ना­ध्य­व­सि­तस्य दग्धृत्वस्य निमितत्वेऽपि नोद्दे­श्य­ता­व­च्छे­द­क­वि­धे­यै­क्ये­ना­सा­म­ञ्ज­स्यम् , एवमिहापि नासामञ्जस्यं किञ्चिदिति । एवञ्चास्मिन् पक्षे भूता­का­शो­प­मे­य­त्व­लि­ङ्गेन दहराकाशो ब्रह्मेति श्रोतॄ­णा­म­व­ग­ति­स­त्त्वेऽपि तस्य गौणा­का­श­प­द­वि­ष­य­त्व­लि­ङ्गेन भूता­का­श­तु­ल्य­त्वा­व­ग­मा­त्त­द्व­देव सोऽपि केव­ल­म­व­का­शा­त्म­नाऽ­व­ति­ष्ठेत न स्वयं धारकः स्यादिति द्विती­या­क्षे­पस्य प्रथमाभिप्रायो वर्णनीयः । नन्वेवं दहराकाशो ब्रह्मेति निर्धारणे ‘दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­द­न्वे­ष्त­व्यम्’ इति कथमुपपद्यते ? काऽत्रा­नु­प­पत्तिः ? उपपद्यत एव हि दहराकाशरूपे ब्रह्मणि समाहितत्वेन वक्ष्य­मा­ण­द्या­वा­पृ­थि­व्या­दि­स­ङ्क­ल्प­ज­पि­त्रा­द्य­न्त­मु­पा­स­क­प्रे­प्सि­त­भो­ग­स्था­न­भो­गो­प­क­र­ण­भो­ग्य­जा­त­रूपं तत्क्र­तु­न्या­ये­नो­पा­स­नी­य­मिति ।

अथ किं तदाश्रयस्य ब्रह्मणो नास्त्यु­पा­स­ना­विधिः ? अस्त्ये­वा­क्षिप्तः पृष्ठ­ग­त­स­र्व­ता­वि­ध्या­क्षिप्त इव पृष्ठविधिः । न हि ब्रह्मा­नु­पा­सी­न­स्त­दा­श्रि­त­त्वे­ना­न्य­दु­पा­सितुं शक्नोति । तर्हि प्राधान्येन ब्रह्मणि समा­हि­त­मे­वो­पास्यं स्यान्न ब्रह्मेति चेत् ब्रह्मापि प्राधा­न्ये­नो­पा­स्य­मेव ; ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’ इत्यु­प­सं­हा­र­ग­त­फ­ल­वाक्ये प्राधान्येन ब्रह्मोपासनाया अप्य­नु­वा­द­द­र्श­ने­नो­प­क्र­म­ग­त­स्यो­पा­स­ना­वि­धे­स्त­त्रापि तात्प­र्य­व­र्ण­नौ­चि­त्यात् । उक्तञ्च भाष्ये ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्यान् कामान्’(छा.८.१.६) इति समुच्चयार्थेन चशब्देन आत्मानञ्च कामा­धा­र­मा­श्रि­तांश्च कामा­न्वि­ज्ञे­यान् वाक्यशेषो दर्शयति । तस्मा­द्वा­क्यो­प­क्र­मेऽपि दहर एवाकाशो हृद­य­पु­ण्ड­री­का­धि­ष्ठा­न­स्स­हा­न्त­स्स­मा­हितैः पृथि­व्या­दि­भि­स्स­त्यैश्च कामैर्विज्ञेय इति गम्यते’ इति ।

तस्यायमाशयः – ‘तस्मिन्यदन्तः’ इत्या­दे­र्द­ह­रा­का­श­रू­प­ब्र­ह्मा­न्त­स्स­मा­हि­त­द्या­वा­पृ­थि­व्या­दि­मा­त्रो­पा­स­ना­वि­धा­य­कत्वे उदाहृतवाक्यशेषः कथमुपपादनीयः ? न ह्यप्राप्तं गुण्युपासनं फल­स­म्ब­न्ध­वि­धा­ना­या­नु­व­दितुं शक्यम् । नापि प्राप्तं गुणोपासनं विधातुं शक्यम् । गुण्यंशे फल­स­म्ब­न्ध­वि­शि­ष्टो­पा­स­ना­विधिः गुणांशे फल­स­म्ब­न्ध­मा­त्र­वि­धि­रिति कल्पने वैरूप्यम् । तस्मा­द­न्य­त्रो­प­सं­हा­र­स्यो­प­क्र­मा­द्दु­र्ब­ल­त्वे­प्य­त्रा­न­न्य­था­सिद्धः उपसंहारस्ततः प्रबलः ; दह­रा­का­शा­न्व­य्य­प­ह­त­पा­प्म­त्वा­द्य­ने­को­पा­स्य­गु­ण­भ­रि­त­त्वाच्च । अतस्तदनुसारेण ‘तद­न्वे­ष्ट­व्यम्’ इति उपा­स­ना­वि­धि­वाक्ये स इत्यध्याहरणीयम् । तथा च तत् दह­रा­का­शा­न्त­र्वर्ति स च दह­रा­का­श­श्चा­न्वे­ष्ट­व्य­मि­त्युक्तं भवति । अन्वेष्टव्यमिति च नपुं­स­क­शे­षै­क­व­द्भा­वा­भ्या­मु­पा­स­ना­वि­धा­यकं कार्यम् । केचित् – तस्मि­न्य­द­न्त­रि­त्यत्र य इत्याध्याहृत्य यो दहराकाशो यच्च तदन्तर्वर्ति तद­न्वे­ष्ट­व्य­मिति तत्पदं नपुं­स­क­शे­षै­क­व­द्भा­वा­भ्या­मु­भ­य­परं वर्णयन्ति । आचा­र्य­वा­च­स्प­ति­मि­श्रास्तु उदा­हृ­त­भा­ष्य­भा­व­व­र्न­न­स­मये प्रकाराण्तरं प्रत्यपादयन् – ‘तदनेन क्रमेण तस्मि­न्य­द­न्त­रि­त्यत्र तच्छ­ब्दोऽ­न­न्त­र­म­प्या­का­श­म­ति­लंघ्य हृत्पुण्डरीकं परा­मृ­श­ती­त्युक्तं भवति ; तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तद­न्वे­ष्ट­व्य­मि­त्यर्थः’ इति ।

नन्विदमनुपपन्नं तस्मि­न्नि­त्य­स्या­व्य­व­हिते दहराकाशे स्थिते व्यव­हि­त­पु­ण्ड­री­क­प­रा­म­र्शि­त्व­क­ल्प­ना­यो­गात् । दहराकाशस्य हृत्पु­ण्ड­री­क­स्थ­तायाः दह­रो­स्मि­न्न­न्त­रा­कास इत्युक्ततया पुन­स्त­त्की­र्त­न­वै­य­र्थ्याच्च । तञ्चेत् ब्रूयु­रि­त्या­दि­वाक्ये दह­रो­स्मि­न्न­न्त­रा­काश इति स्वयमप्यनूद्य पुनः किन्तदत्र वर्तत इत्या­क्षे­प­स्या­न­व­का­शाच्च । यत्त­द­न्वे­ष्टव्यं तद्वाव विजिज्ञासितव्यं किन्तदत्रेति नपुंसकलिङ्गानां प्राक् पुल्लि­ङ्ग­नि­र्दिष्टे दहराकाशे अनन्वयाच्च इति चेत् –

उच्यते – सर्व­ना­म्ना­म­व्य­व­हि­त­प­र­त्व­स­म्भवे व्यवहितपरत्वं न कल्पनीयम् । तदसम्भवे तु कल्पनीयमेव । अत एव साकमेधीये ‘एतद्ब्राह्मन एककपालो यद्ब्राह्मण इतरः’ इति वाक्ये श्रुतमेतत्पदं सन्निहितस्य वारु­ण­प्र­घा­सि­कै­क­क­पा­ल­ब्रा­ह्म­णस्य परामर्शसम्भवात् तस्यैव परामर्शकम् , न तु व्यवहितस्य वैश्व­दै­वि­कै­क­पा­ल­ब्रा­ह्म­ण­स्येति सप्तमे वर्णितम् । ‘तस्य द्वादशतं दक्षिणा’ इत्यत्र तस्येति पदमव्यवहितेषु माषेषु वृत्त्य­स­म्भ­वा­द्व्य­व­हि­त­गो­द्रव्ये वर्तत इत्यङ्गीकृतं दसमे । तस्मि­न्य­द­न्त­रि­त्यत्र यत्पदं वक्ष्य­मा­ण­द्या­वा­पृ­थि­व्या­दि­स­क­ल­वि­शे­ष­ण­वि­शि­ष्ट­द­ह­रा­का­श­प­रम् , अन्यथा दह­रा­का­श­वि­शे­ष­णानां मध्ये क्वचित् ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्यान् कामान्’ इति फलवाक्ये सत्य­का­म­श­ब्दो­दि­तानां सङ्क­ल्प­ज­पि­त्रा­दीनां विशिष्य ग्रहणादन्यत्र ‘तद्य एवैतावरञ्च ण्यञ्चार्णवौ ब्रह्मलोके ब्रह्म­च­र्ये­णा­नु­वि­न्दन्ति तेषामेवैष ब्रह्म­लो­क­स्तेषां सर्वेषु लोकेषु कामचारो भवति’(छा.८.५.४) इति फलवाक्ये ब्राह्म­लौ­कि­क­यो­र­र­ण्य­श­ब्द­वा­च्य­तो­र­र्ण­व­यो­र्वि­शि­ष्य­ग्र­ह­णा­त्तेषां विशि­ष्य­ग्र­ह­ण­स्ये­त­र­प­रि­सं­ख्या­र्थ­त्वा­दि­त­राणि द्यावा­पृ­थि­व्या­दी­न्य­प­ह­त­पा­प्म­त्वा­दीनि च केवलं स्तुत्यर्थं वर्णितानि , न तूपा­स्य­को­टि­प्र­वि­ष्टा­नीति सङ्कया तेषामुपासना न सिध्येत् । अत­स्ता­व­द्वि­शे­ष­ण­वि­शि­ष्टस्य दह­रा­का­श­स्यो­पा­स­ना­नु­प्र­वे­श­सि­द्धये ‘तस्मिन्यदन्तः’ इति पुनः कीर्तनमिति न तद्वैयर्थ्यम् । अत एव ‘किन्तदत्र विद्यते’ इत्यप्युपपद्यते । तस्य दहराकाशे किं विशेष(ण)जातं वर्तत इत्ये­त­त्प­र­त्वात् । नपुं­स­का­नु­प­प­त्ति­सङ्का तु प्रागेव दत्तोत्तरा । तस्मादयमपि प्रकारो युक्त एव । एवञ्च यद्यपि दहराकाश उपास्यं ब्रह्मे­त्य­ङ्गी­कृत्य वर्णितेऽस्मिन् प्रकारत्रयेऽपि ‘तस्मि­न्य­द­न्त­स्त­द­न्वे­ष्त­व्यम्’ इत्यत्र अध्याहारादिरूपः कियान् क्लेशोऽस्ति , तथापि तद­न्त­र्व­र्त्यु­पास्यं ब्रह्मे­त्य­ङ्गी­कृत्य कैश्चि­त्प्र­द­र्शिते प्रकारद्वये शिष्यवचने प्रश्न­त्वा­ङ्गी­का­रा­द­नु­वा­द­वै­य­र्थ्य­मि­त्या­दयो दोषाः , आचार्यवचने ‘एष आकाशः’ इति पद­वै­य­र्थ्य­मि­त्या­दयो दोषाः । एवं वाक्य­द्व­ये­प्य­चि­कित्स्या बहवो दोषाः प्रादु­ष्ष्यु­रिति विशेषो विद्व­द्भि­र­नु­स­न्धेयः ।

वस्तुतस्तु – दहराकाशः उपास्यं ब्रह्मे­त्य­स्मिन् पक्षे ‘तस्मि­न्य­द­न्त­स्त­द­न्वे­ष्ट­व्यम्’ इत्यत्र नाध्या­हा­र­व्य­व­हि­त­यो­ज­ना­दि­क्ले­शोऽ­पे­क्ष­णीयः । न हीद­मु­पा­स­ना­वि­धि­वा­क्यम् , किन्तूपास्ये ब्रह्मणि यत् गुन­जा­त­मु­पा­स­नी­य­मस्ति तद्विचाररूपे तदन्वेषणे उपा­स­ना­वि­ध्य­र्था­क्षिप्ते विधिसरूपं वाक्यम् । ‘तद्वाव विजि­ज्ञा­सि­त­व्यम्’ इत्य­प्यु­पा­स­ना­फ­ल­रूपे तत्साक्षात्कारे विधिसरूपं वाक्यम् । अत एव छान्दो­ग्य­भा­ष्यम् – ‘तस्मि­न्ना­का­शाख्ये ब्रह्मणि यदन्तर्मध्ये तद्वाव तदेव विशेषेण जिज्ञासितव्यं ज्ञातुमेष्टव्यं गुर्वा­श्र­य­णा­द्यु­पा­यै­र­न्विष्य साक्षा­त्क­र­णी­य­मि­त्यर्थः’ इति । ‘अथ य इहात्मानम्’ इत्यादि फलवाक्यमेव गुण­गु­णि­वि­शे­ष­यो­रु­पा­स­ना­स्व­रू­प­स्यापि विधायकम् । इदन्तु विधिसरूपं वाक्यद्वयं ब्रह्मा­न्त­र्व­र्त्यु­पा­स­ना­वि­धि­त्सा­व­ग­मकं तदर्थवादरूपम् । न च विधिना यावदन्वितं तत्स­र्व­म­र्थ­वा­देपि योजनीयमिति नियमः । द्रव्य­दे­व­ता­वि­शि­ष्ट­या­ग­वि­ध्य­र्थ­वा­दानां केव­ल­द्र­व्य­वि­ष­याणां ‘स आत्मनो वपा­मु­द­क्खि­द­त्ता­मग्नौ प्रागृ­ह्णा­त­त्त­तोऽ­ज­स्तू­प­र­स्स­म­भ­वत्’ इत्यादीनां , केव­ल­दे­व­ता­वि­ष­याणां ‘अग्निं वा एतस्य शरीरं गच्छति सोमं रसः’ इत्यादीनाञ्च तत्त­द्द्र­व्य­दे­व­ता­स­म्ब­न्धि­क­र्म­वि­धि­त्सा­व­ग­त्म­का­नां­ब­हु­ल­मु­प­ल­म्भात् । न च गुनप्रधानतया विध्यन्वितयोः प्रधानविषय एवार्थवाद इति नियमः । द्रव्य­प्रा­धा­न्य­वा­दिनां कर्ममीमांसकानां देव­ता­वि­ष­या­र्था­वादे, देव­ता­प्रा­धा­न्य­व­दिनां ब्रह्म­मी­मां­स­कानां द्रव्य­वि­ष­या­र्थ­वादे च व्यभिचारात् , इह गुणिनो गुणानाञ्च सम­प्रा­धा­न्ये­नो­पा­स्य­त्वाच्च । तस्मा­द्वा­क्य­शे­षा­नु­सा­रे­णो­प­क्र­मेऽपि दह­रा­का­श­स्यो­पा­स­नाऽ­व­ग­म्यत इति ।

यदुक्तं श्रीमद्भाष्ये , तत् ‘तस्मि­न्य­द­न्त­स्त­द­न्वे­ष्त­व्यम्’ इत्यत्र उपासनाविधिं तस्य विधि­स­रू­पा­र्थ­वा­द­त्वेऽपि दह­रा­का­शो­पा­स­ना­वि­ध्य­र्थ­वा­दस्य दह­रा­का­श­वि­ष­य­त्व­नि­यमं वाङ्गीकृत्य तद्वाक्यं दह­रा­का­श­स्या­प्यु­पा­स­ना­वि­धा­य­क­तया, तत्सा­धा­र­ण­वि­चा­र­वि­धि­स­रू­पा­र्थ­वा­द­तया वा योजयितुं सक्यमिति प्रौढि­म­व­ल­म्ब्यो­क्तम् । भाष्या­भि­प्रे­त­त­द्यो­ज­ना­प्र­कार एवा­ध्या­हा­र­व्य­व­हि­त­यो­ज­ना­दि­रूपः प्रदर्शितो व्याख्या­तृ­भि­रिति सर्वमनवद्यम् । तस्मा­द्वा­क्य­शे­षा­नु­सा­रे­णो­प­क्र­मेऽपि दह­रा­का­श­स्यो­पा­स­नाऽ­व­ग­म्यत इति ।

यदुक्तं श्रीमद्भाष्ये , तत् ‘तस्मि­न्य­द­न्त­स्त­द­न्वे­ष्ट­व्यम्’ इत्यत्र उपासनाविधिं तस्य विधि­स­रू­पा­र्थ­वा­द­त्वेऽपि दह­रा­का­शो­पा­स­ना­वि­ध्य­र्थ­वा­दस्य दह­रा­का­श­वि­ष­य­त्व­नि­यमं वाङ्गीकृत्य तद्वाक्यं दह­रा­का­श­स्या­प्यु­पा­स­ना­वि­धा­य­क­तया , तत्सा­धा­र­ण­वि­चा­र­वि­धि­स­रू­पा­र्थ­वा­द­तया वा योजयितुं शक्यमिति प्रौढि­म­व­ल­म्ब्यो­क्तम् । भाष्या­भि­प्रे­त­त­द्यो­ज­ना­प्र­कार एवा­ध्या­हा­र­व्य­व­हि­त­यो­ज­ना­दि­रूपः प्रदर्शितो व्याख्या­तृ­भि­रिति सर्वमनवद्यम् । तस्मा­द्वा­क्य­शे­श­ग­त­श्रु­ति­लि­ङ्गानां दहराकाशेऽन्वयो न तद­न्त­र्व­र्ति­नीति दहराकाश एवोपास्यं ब्रह्म ।

यत्तु – तस्य भूताकासत्वेऽपि ब्रह्मा­त्म­श्रु­ति­स्तत्र यौगिकतया स्तावकतया वोपपद्यते ।आ­का­श­सा­दृ­स्या­प­ह­त­पा­प्म­त्वा­द­यश्च तेन तेन प्रका­रे­णो­प­प­द्यन्ते इति अत्र ब्रूमः – आका­श­सा­दृ­श्य­प्र­ति­पा­दनं ताव­द्वै­पु­ल्य­प­र्य­व­सा­य्येव प्रथ­मा­क्षे­प­स्यो­त्तरं भवेत् । तात्पर्यवसानं तु भूता­का­श­वि­ष­य­तायां नोपपद्यत इति श्रीम­द्भा­ष्यो­क्त­रीत्या समर्थितम् प्राक् । ‘एतत्सत्यं ब्रह्मपुरम्’ इत्येतच्च वस्तुतो दहराकाशस्य ब्रह्म­रू­प­ता­प­रत्व एव द्विती­या­क्षे­प­स्यो­त्तरं भवेदित्यपि समर्थितम् । अपहतपाप्मत्वं द्वेधा सम्भवति – ‘दह्रं विपाप्मम्’ इति श्रुता­चे­त­ना­सा­धा­र­णा­न्य­दी­य­पा­प्म­स्प­र्श­वि­रो­धि­त्व­रूपं आदि­त्य­म­ण्ड­ला­न्त­र्व­र्तिनः परमपुरुषस्य उदितिनाम्नि प्रवृ­त्ति­नि­मि­त्त­तया ‘तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः’(छा.१.६.७) इति श्रुत­स­र्व­पा­प्म­रा­हि­त्य­रूपं वा । अत्र द्वितीयमेव ग्राह्यम् ; ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निव­र्त­न्तेऽ­प­ह­त­पाप्मा ह्येष ब्रह्मलोकः’(छा.८.४.१) इत्यत्रैव प्रकरणे श्रवणात् । अत्र हि दहराकाशस्य लोक­सि­द्ध­पा­प्म­हे­तु­स­म्भ­वेऽपि पाप्म­न­स्त­म­प्रा­प्यैव निवर्तन्ते , यतोऽयं पाप्म­र­हि­त­त्व­भावः । न हि रूपरहितत्वभावे वाया­व­ग्नि­सं­यो­ग­स­ह­स्रापि घटादाविव रक्ति­मा­दि­क­मा­धातुं शक्नोतीत्ययमर्थ उच्यते ।

अन्य­दी­य­पा­प्म­स्प­र्श­वि­रो­धि­त्वा­देनं पाप्मनो न स्पृशन्ति इत्ययमर्थ उच्यतामिति चेत् ; न । सामान्यतो विशेषतो वा तथा नियमाभावात् । अन्य­दी­य­रो­ग­नि­व­र्त­का­ना­मपि स्वय­मु­त्क­ट­पा­पा­दी­ना­म­नि­व­र्त्य­रो­ग­वतां भिषजां , यष्टृ­दा­तृ­ग­त­पा­प्म­स्प­र्श­वि­रो­धिनां स्वयं पापमार्जयतां याज­क­प्र­ति­ग्र­ही­तॄ­णाञ्च दर्शनात् । तस्मा­द­प­ह­त­पा­प्म­त्व­मपि फल­त­स्स­म्भू­त­त­द्धे­तु­काया वर्ण्यमानेन पापा­स्पृ­श्य­त्वेन प्रस­क्त­प्र­ति­षे­ध­रूपं न भूताकाशे सम्भवति । न चाप्र­स­क्त­प्र­ति­षे­ध­तै­वास्तु ; सिद्धान्ते विजरत्वादीनां तथा­त्वा­भ्यु­प­ग­मा­व­श्य­म्भा­वा­दिति वाच्यम् । ‘अपहतपाप्मा’ इत्यतः पाप्म­श­ब्द­ल­क्ष्याणां पाप्म­हे­तु­क­ज­रा­दी­ना­म­भा­व­सि­द्धा­वपि यथा ब्रह्मणि सुकृतहेतुक आनन्दस्तथा दुष्कृतहेतुकं जरा­दि­क­म­स्त्वि­त्येवं जरादिप्रसक्तौ तदभावबोधनात् ।

हार्दे ब्रह्मणि अह­र­ह­र्ग­ति­सत्त्वे यद्यपि हृदयावच्छिन्न आकाशेपि सा निवारयितुं न शक्या, तथाऽपि ब्रह्मणि ‘सता सोम्य’(छा.६.८.१) इत्या­दि­श्रु­त्य­न्त­र­प्र­सिद्धा भूताकाशे युक्ति­क­ल्प­नी­या­या­श्शीघ्रं बुद्धिमारोहतीति ब्रह्मगतैवात्र ग्रहीतुं युक्ता । ब्रह्म­लो­क­श­ब्दोऽत्र प्रकरणे क्वचित् सत्यलोकपरो दृष्टः ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’ इति । क्वचि­द्ब्र­ह्म­परो दृष्टः ‘अपहतपाप्मा ह्येष ब्रह्मलोकः’ इति । तत्र गति­वा­क्य­स्थ­ब्र­ह्म­लो­क­श­ब्दस्य अह­र­ह­र्ग­ति­लि­ङ्ग­वि­रो­धेन सत्य­लो­क­प­र­त्वा­स­म्भवे परिशेषात् समा­ना­धि­क­र­ण­स­मा­स­ला­भाच्च ब्रह्मपरत्वमेव भवति , न तु ब्रह्मो­प­ल­ब्धि­स्था­न­हृ­द­या­व­च्छि­न्न­भू­ता­का­श­प­र­त्वम् । विधारकत्वमात्रं यद्यपि भूताकाशेऽपि श्रुतमस्ति श्रुत्यन्तरे, तथाप्यत्र विहारकत्वं सक­ल­म­र्या­दा­व्य­व­स्था­प­क­त्व­स­हितं श्रुतम् । अयञ्च पारमैश्वर्यरूपो महिमा ब्रह्मण्येव श्रुत्य­न्त­रे­षू­प­लब्धः ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एषसेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’(बृ.४.४.२२) ‘यस्स­र्व­ज्ञ­स्स­र्व­वि­द्य­स्यैष महिमा भुवि’(मु.२.२.७) इत्यादिषु । तस्मा­दे­तै­र्वा­क्य­शे­ष­गतैः श्रुति­लि­ङ्गै­र्द­ह­रा­काशो ब्रह्मेति निश्चीयते । उपक्रमगता या अभ्यस्ताया अप्येकस्याः श्रुते­र्वा­क्य­शे­ष­ग­त­ब­हु­श्रु­ति­लि­ङ्गानां बलवत्त्वादत्र ब्रह्म­श्रु­त्या­का­शो­प­मे­य­त्व­लि­ङ्गा­दी­ना­म­न­न्य­था­सि­द्ध­त्वाच्च ।

अथो­क्त­स्स­र्वोऽपि सिद्धा­न्त­स्सू­त्रा­रूढः क्रियते – दहराकाशो ब्रह्म , उत्तरेभ्यः पाश्चात्येभ्यो वाक्य­शे­ष­ग­त­श्रु­ति­लि­ङ्गेभ्यः । तेषा­मु­प­सं­हा­र­ग­त­त्वेऽपि ‘भूयसां स्यात्स­ध­र्म­त्वम्’(जै.सू.१२.२.२२) इति न्यायात् भूयस्त्वेन प्राबल्यं सूचयितुं बहुवचनम् । ननु दह­रा­का­शा­न्त­र्व­र्ति­द्या­वा­पृ­थि­व्या­दि­क­मु­क्त­लि­ङ्गा­न्वयि, न तु दहराकाश इत्याशङ्कायामपि सूत्रमेवोत्तरम् – दहराकाशो वाक्य­शे­ष­ग­त­श्रु­ति­लि­ङ्गा­न्वयी ; प्रथ­म­द्वि­ती­या­क्षे­पो­त्त­र­वा­क्येभ्यः । यद्यपि प्रथमाक्षेपं प्रति ‘यावान्वा’ इत्यादि ‘समाहितम्’ इत्य­न्त­मे­वो­त्त­रम् ; द्वितीयाक्षेपं प्रति च ‘नास्य जरयैतत्’ इत्यादि ‘समाहिता’ इत्यन्तमेकमेव उत्तरम् ; तथाऽपि तद­न्त­र्ग­ता­वा­न्त­र­वा­क्य­बा­हु­ल्या­भि­प्रायं बहुवचनम् । द्विती­या­क्षे­पा­भि­प्रा­य­वि­ष­य­या­व­द­वा­न्त­र­वा­क्या­र्थ­प­र्या­लो­चने प्रथ­म­द्वि­ती­या­क्षे­पो­त्त­र­ग­त­का­म­स­मा­धा­ना­धा­र­त्व­प्र­त्य­भि­ज्ञा­प­क­वा­क्य­द्व­या­र्थ­प­र्या­लो­चने च सत्येव हि द्विती­या­क्षे­प­त­दु­त्त­र­ग­तै­त­दि­दं­प­दानां द्यावा­पृ­थि­व्या­द्या­धा­र­द­ह­रा­का­श­प­र­त्व­नि­श्च­यात् ‘एष आत्मा’ इत्यग्रे तमेवानुकृष्य प्रवृत्तानां ब्रह्म­श्रु­ति­लि­ङ्गानां तदन्वयो लभ्यते ।

ननू­दा­हृ­तो­त्त­र­प­र्या­लो­च­ने­ना­क्षे­प­त­दु­त्त­र­ग­ता­न्ये­त­दि­दं­प­दानि न द्यावा­पृ­थि­व्या­दि­प­राणि , किन्तु तदा­धा­र­प­रा­णी­त्ये­ता­व­ल्ल­भ्यते । तदाधारस्तु दहराकाशो न भवति , अपि तु तद­न्त­र्व­र्त्य­न्वे­ष्टव्यं ब्रह्म । तथा च तदे­वा­क्षे­प­स­मा­धा­न­ग­तैस्तैः पदैः परामर्शनीयं वाक्य­शे­ष­ग­त­ब्र­ह्म­श्रु­ति­लि­ङ्गा­न्वयि इत्याशङ्कायामपि सूत्रमेवोत्तरम् – दहराकाशो द्यावा­पृ­हि­व्या­दि­स­मा­धा­ना­धारः; प्रथ­मा­क्षे­पो­त्त­रेभ्यः । अत्रा­प्य­वा­न्त­र­वा­क्या­भि­प्रायं बहुवचनम् । ‘यावान्वा’ इत्यादिवाक्ये द्विती­या­का­श­प­दस्य प्रथमान्तत्वं दह­रा­का­श­प­र­त्व­ञ्चा­व­गत्य द्यावा­पृ­थि­व्या­दि­वा­क्येषु श्रुत­स्या­नु­ष­क्तस्य च प्रकृ­त­द­ह­रा­का­श­प­रा­म­र्शिनः ‘अस्मिन्’ इति पदस्य सद्भावञ्चावगत्य हि दहराकाशस्य द्यावा­पृ­थि­व्या­द्या­धा­रत्वं निश्चेतव्यम् ।

एवञ्च सूत्रस्य द्विती­य­तृ­ती­य­यो­ज­न­यो­र्वि­भ­क्त­ध­नेषु भ्रातृषु विभ­क्त­प­द­व­दु­त्त­रा­व­य­व­वा­क्ये­षू­त्त­र­प­द­मु­त्त­र­प­द­लो­पेन द्रष्टव्यम् । यत्तु – ‘भूताकाशेऽपि वाक्य­शे­ष­ग­त­ब्र­ह्म­श्रु­ति­लि­ङ्गानि योजयितुं शक्यानि । ‘यद्वै तद्ब्रह्मेतीदं वाव तत्’ इत्यादिदर्शनात् । अत­स्ता­न्यु­प­क्र­म­ग­ता­का­श­श्रु­त्य­भ्या­सा­नु­सा­रेण तथैव योजनीयानि ; अन्यथासिद्धेषु भूय­स्त्व­न्या­या­प्र­वृत्तेः’ इत्युक्तं तत्रापि सूत्रमेवोत्तरं तत्र श्रीम­द्भा­ष्य­द­र्शि­तया रीत्या समर्थितम् । भूता­का­शो­प­मे­य­त्व­लिङ्गं द्विती­या­क्षे­प­स­मा­धा­न­नि­र्वा­हाय वृत्त्य­न्त­रा­स­हि­ष्णु­र्ब्र­ह्म­श्रु­ति­श्चे­त्यु­भ­य­मा­का­श­श्रु­त्य­पे­क्षया उत्तरं श्रेष्ठं वृत्त्य­न्त­र­स­हि­ष्णु­त्वे­ना­न्य­था­सि­द्धाया आका­श­श्रु­ते­र­न्य­था­सि­द्ध­त्वेन प्रबलमिति यावत् । अप­ह­त­पा­प्म­त्वा­दिकं उदः उदितिनाम्नः , तरं प्रवृ­त्ति­नि­मि­त्त­तया प्राप्तं इति षष्ठीसमासे उत्तरम् । तरतिधातुः ‘नैनं सेतुमहोरात्रे तरतः’ इति ‘एतं सेतुं तीर्वा’ इति च श्रुतौ दहराकाशप्रकरण एव प्राप्त्यर्थे प्रयुक्तः । एवञ्च श्रेष्ठ­वा­च­क­यो­रु­त्त­रो­त्त­र­श­ब्द­यो­रु­न्ना­म­प्र­वृ­त्ति­नि­मि­त्त­वा­च­क­स्यो­त्त­र­श­ब्दस्य च ‘नपुं­स­क­म­न­पुं­स­केन’(पा.सू.१.२.६९) इत्येकशेषो द्रष्टव्यः ॥१.३.१४॥

अथ गति­श्र­व­ण­ब्र­ह्म­लो­क­श­ब्द­यो­र­न्य­था­सि­द्ध­त्व­श­ङ्का­प­रि­हा­रार्थं सूत्रम् –

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च ॥१५॥

१५

पूर्व­सू­त्र­क्रो­डी­कृ­त­हे­तूनां मध्ये प्रजा­ना­म­ह­र­ह­र्द­ह­रा­का­श­गतिं दहराकाशे ब्रह्म­लो­क­श­ब्दञ्च ‘गति­श­ब्दा­भ्याम्’ इत्यनूद्य ‘तथाहि दृष्टम्’ इत्यनेन ‘तदुभयं वाक्यान्तरे ब्रह्मणि दृष्टम्, न भूताकाशे इत्यतस्तदुभयमिह ब्रह्मगतमेव ग्राह्यम् ; वाक्या­न्त­र­प्र­सि­द्ध­त्वात् , न भूताकाशगतम्; कल्पनीयत्वेन विल­म्बि­तो­प­स्थि­ति­क­त्वात्’ इति दर्शितम् । ननु ब्रह्म­लो­क­श­ब्द­स्स­त्य­लोके वाक्यान्तरेषु स्मृति­पु­रा­णा­दिषु च प्रसिद्धतरः ; प्रसि­द्ध­त­र­ष­ष्ठी­स­मासे च शब्दे नर­प­ति­रा­ज­कु­मा­रा­दि­शब्द इव न निषा­स्थ­प­ति­न्या­या­व­तारः ; इत्याशङ्कायां निषा­द­स्थ­प­ति­न्या­या­न­व­ता­रे­प्य­ह­र­ह­र्गतिः समा­ना­धि­क­र­ण­स­मा­स­प­रि­ग्रहे लिङ्गमस्तीति लिङ्ग­मि­त्य­ने­नो­क्तम् ।

ननु नेदं लिङ्गम् , ‘अहरहर्वा एवं वित्स्वर्गं लोकमेति’ इति वद­ह­र­ह­श्श्र­व­ण­स्या­र्थ­वा­द­त्व­स­म्भ­वात्, इति शङ्का­या­म­ह­र­ह­र्ग­मनं सदपि ब्रह्म प्रजा न विन्दन्तीति तदज्ञानोक्तेः ; तदज्ञानस्य ‘तद्यथा हिर्रण्यनिधि निहि­त­म­क्षे­त्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ति’(छा.८.३.२) इति ‘अनृतेन हि प्रत्यूढाः’(छा.८.३.२) इति च हेतु­दृ­ष्ता­न्ता­भ्या­मु­प­पा­द­नाच्च नेद­म­र्थ­वा­द­मात्रं , किन्तु लिङ्ग­मे­वे­त्य­व­धा­र­णा­र्थेन चकारेण दर्शितम् । दृष्टा­न्तोऽ­प्य­सिद्धः तत्रा­ह­र­हः­श्र­व­णस्य ‘एवंवित्’ इत्यनेनान्वयात् । अतोऽपि लिङ्गमेवेत्यपि तेन सूचितम् । सूत्रे दृष्टशब्दः ‘तथा चेतोऽ­र्प­णा­नि­ग­दा­त्त­थाहि दर्शनम्’(ब्र.सू.१.१.२५) इति स्त्रे दर्शनशब्द इव भावप्रत्ययान्तः , न तु कर्मणि निष्ठान्तः । तथा च दृष्टशब्दस्य गतिशब्दौ प्रति विशेषणतया पुल्लिङ्गेन द्विवचनेन च भाव्यमिति शङ्काया नावकाशः ।

यत्तु भाष्ये ‘तथा­ह्य­ह­र­ह­र्जी­वानां सुषु­प्ता­व­स्थायां ब्रह्मविषयं गमनं दृष्टम्’ इत्यादि गतेर्ब्रह्मणि दर्शनप्रदर्शकं वाक्यं , यच्च ‘तथा ब्रह्म­लो­क­श­ब्दोऽपि’ इत्यादि ‘दृष्टः श्रुत्यन्तरे’ इत्याध्याहारेण पूरणीयं ‘ननु कमलासनलोकमपि’ इत्या­दे­स्सौ­त्र­प­दा­व­ता­रि­कातः प्राचीनं वाक्यं तत्रोभयत्रापि दृष्टशब्दस्य कर्मणि निष्ठान्ततया गति­श­ब्द­वि­शे­ष­ण­त्वेन निवेशनं फलि­ता­र्थ­प्र­द­र्श­न­प­रम् ; न सौत्र­दृ­ष्ट­प­द­यो­ज­ना­प­र­मिति न विरोधः । अस्तु वा कर्मणि निष्ठान्तः, तथापि न विरोधः विशेष्यस्य पुंल्लि­ग­द्वि­व­च­ना­न्त­नि­र्दि­ष्ट­त्वेऽपि पाणिनीये ‘द्विगु­रे­क­व­च­नम्’(पा.सू.२.४.१५) इति सूत्रे लिङ्ग­सा­मा­न्य­वि­व­क्षया पुंल्लि­ङ्ग­वि­शे­षणे नपुंसकलिङ्गवत् , ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’(पा.सू.३.१.१५) इति सूत्रे विशे­ष्य­द्व­य­ग­त­प्रा­ति­स्वि­कै­क­त्व­वि­व­क्षया द्विव­च­ना­न्त­वे­षणे एकवचनवच्चात्र विशेषणे नपुंसकस्य एकवचनस्य चोपपत्तेः ।१.३.१५।

ननु विधारकत्वं भूताकाशेऽपि श्रुत्य­न्त­र­प्र­सि­द्ध­म­स्ती­त्य­धि­का­श­ङ्कायां तस्य हेतु­त्वो­प­पा­द­नार्थं सूत्रम् –

धृतेश्च महि­म्नोऽ­स्या­स्मि­न्नु­प­लब्धेः ॥१६॥

१६

नात्र भूताकाशसाधारणं विधारकत्वमात्रं श्रूयते , किन्तु विधारणलक्षणः कोऽपि महिमा श्रूयते । लोकानामसम्भेदाय सेतुरिति विशेषणात् ननु तेन विशेषणेन यथा जलमध्ये निब­द्ध­स्से­तु­र्ज­ल­रा­शि­द्व­य­स्या­स­ङ्क­राय भवति , एवमयमपि लोक­बृ­न्द­स्ये­त्ये­ता­वत् प्रतिपाद्यते । इदं भूता­का­श­सा­धा­र­ण­मेव । यदि हि लोका­ना­म­न्त­राऽ­न्त­राऽ­व­का­शा­त्मको भूताकाशो न स्यात्, तदा तेषां सङ्करः स्यादेव , इति शङ्कापाकरणाय त्वर्थे चशब्दः । ‘सेतुर्विधृतिः’ इत्यादिना स्थाव­र­ज­ङ्ग­मा­त्म­क­स­र्व­लो­क­व्य­व­स्थि­त­त­त्स्व­रू­प­स्व­भा­व­कृ­त्या­द्य­स­ङ्क­रा­पा­द­क­स­र्व­नि­य­म­न­श­क्ति­म­त्त्व­रू­प­पा­र­मे­श्व­र्या­धी­न­व्इ­धा­र­क­त्व­रूओ महिमा प्रतिपाद्यते । कुत एतदवगम्यते ? इह हि नास्ति सेतु­त्व­वि­धा­र­ण­यो­रै­श्व­र्या­धी­न­त्व­वि­शे­ष­णम् ; इत्याशंक्योक्तं ‘अस्या­स्मि­न्नु­प­लब्धेः’ इति । अस्योक्तरूपस्य महिम्नोऽस्मिन् ब्रह्मणि ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’(बृ.४.४.२२) इति बृहदारण्यके दर्शनादित्यर्थः । अत्र हि सर्वे­श्व­रा­दि­प­दै­र्नि­र­ति­श­यै­श्व­र्या­दि­व­र्णनं सेतु­त्व­वि­शे­षि­त­वि­धा­र­क­त्वि­प­यो­गि­त­यैव ; ‘एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठ­तः......द्या­वा­पृ­थिव्यौ विधृतौ तिष्ठ­तः...प्रा­च्योऽन्या नद्य­स्स्य­न्दन्ते प्रती­च्योऽन्याः’(बृ.३.८.९) इत्य­क्ष­र­ब्रा­ह्मणे दर्शनात् । स एवेह बृहदारण्यकोक्तः पार­मै­श्व­र्या­धी­ने­वि­धा­र­क­त्व­रूपो महिमाऽत्र प्रतिपाद्यः प्रत्य­भि­ज्ञा­यते।

नन्वस्तु नामैवम् ; तथाऽपि नायं महिमा दहराकाशे वर्ण्यते । ‘अथ य आत्मा स सेतुर्विधृतिः’ इत्यथशब्देन दह­रा­का­श­प्र­क­र­ण­वि­च्छे­दात् , इत्याशङ्कायामपि ‘अस्या­स्मि­न्नु­प­लब्धेः’ इत्येवोत्तरम् ; अस्य­म­हि­म्नोऽ­स्मि­न्द­ह­रा­काश एवोपलब्धेः प्रकृ­त­प­रा­म­र्शिनो यत्पदस्य दहराकाशे प्राक् प्रयु­क्त­स्या­त्म­श­ब्दस्य च विद्यमानतया सेतु­त्वा­दि­व­र्ण­नस्य तद­न्य­वि­ष­य­त्व­यो­गे­ना­थ­श­ब्दस्य पूर्व­प्र­कृ­ता­पे­क्षा­र्थ­त्व­क­ल्प­नो­प­पत्तेः । तद­र्थ­त्व­क­ल्प­नस्य च प्राङ्नि­र्दिष्टा निर्देक्ष्यमाणा गुणाः परस्परापेक्षया समु­च्चि­त्यो­पास्या इति सूचनार्थत्वेन सफलत्वात् । अन्यथा ‘एतांश्च सत्यान् कामान्’ इत्यस्य गुणा­न्त­र­प­रि­सं­ख्या­र्थ­त्व­श­ङ्कया सर्वे­षा­मु­पा­स्य­त्वा­सिद्धेः ।

एवं ‘अस्या­स्मि­न्नु­प­लब्धेः’ इति सूत्रखण्डस्य शङ्का­न्त­रो­त्त­र­त्वेन द्वितीययोजना ‘कथम्’ इत्यादिना ‘निर्दिशति’ इत्यन्तेन विष­य­वा­क्या­व­ता­रि­का­भा­ष्येण सूचिता । तत्र ‘अन­ति­वृ­त्त­प्र­क­र­णम्’ इत्ये­न­ना­त्रा­थ­शब्दः प्रकरणविच्छेदको न भवतीति दर्शितम् । तत्र हेतू ‘दह­रोऽ­स्मि­न्न­न्त­रा­काश इति हि प्रकृ­त्या­स्मि­न्नेव चात्मशब्दं प्रयुज्य’ इति विशेषणाभ्यां दर्शितौ । ‘आका­शौ­प­म्य­पू­र्वकं तस्मिन् सर्व­स­मा­धा­न­मुक्त्वा अप­ह­त­पा­प्म­त्वा­दि­गु­ण­योगं चोपदिश्य’ इति विशेषणाभ्यां निर्दि­ष्ट­गु­णा­नु­वा­द­रू­पाभ्यां पूर्व­प्र­कृ­ता­पे­क्षा­र्थ­स्या­थ­श­ब्द­स्यो­क्त­व­क्ष्य­मा­ण­गु­णानां परस्परापेक्षया समु­च्चि­त्यो­पा­स्य­त्व­सिद्धिः फलमिति दर्शितम् ।

यद्यपि सूत्रे ‘महिम्नः’ इत्ये­ता­व­दे­वो­क्त­रू­प­वि­धा­र­क­त्वो­प­स्था­पने पर्याप्तम् ; ‘यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि’(मु.२.२.७) इत्याथर्वणे पार­मे­श्व­र­गु­ण­क­लापे केवलस्य महिमशब्दस्य प्रयोगात्, अथापि हेतु­वि­शे­ष­स्फु­टी­क­र­णार्थं ‘धृतेः’ इति विशेषितम् । एवमस्य सूत्रद्वयस्य प्रथ­म­सू­त्र­क्रो­डी­कृ­त­हे­तूनां मध्ये केषा­ञ्चि­द­हे­तु­त्व­श­ङ्का­नि­रा­क­र­णा­र्थ­तया प्रथ­म­सू­त्र­शे­षत्वं ‘त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्त’ इति पूर्व­सू­त्रा­व­ता­रि­का­भा­ष्येण दर्शितम् ॥१.३.१६॥

स्यादेतत् – भवतु नाम वाक्य­शे­ष­ग­त­ब्र­ह्म­श्रु­ति­लि­ङ्गै­र्ब्र­ह्मेह प्रतिपाद्यमिति , ब्रह्म तु दहराकाशो न भवति , कितु तदन्तर्वर्त्येव ; ‘तस्मिन्यदन्तः’ इत्या­दि­स्वा­र­स्यात् , पूर्व­सू­त्रो­दा­हृ­तस्य ‘एष सर्वेश्वरः’ इत्यादेरधस्तने ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्छेते सर्वेस्य वशी सर्वस्येशानः’(बृ.४.४.२२) इति वाक्ये ‘यस्यैष महिमा भुवि’ इत्यस्योपरितने ‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु.२.२.७)‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु.२.२.७) इति वाक्ये ‘यस्यैष महिमा भुवि’ इत्यस्योपरितने ‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’ इति वाक्ये च ब्रह्मणो हृद­या­का­शा­न्त­र्व­र्ति­त्व­प्र­सि­द्धेश्च । ततश्च तदनुसारात् ‘यावान्वा’ इत्यादिवाक्यस्य क्लिष्टयोजना न दोषा­ये­त्या­शं­क्याह –

प्रसिद्धेश्च ॥१७॥

१७

ब्रह्मणो हृद­या­का­शा­न्त­र्व­र्ति­त्व­प्र­सि­द्धि­व­द्धृ­द­या­न्त­र्व­र्ति­त्व­प्र­सि­द्धि­र­प्य­स्त्येव ‘एष म आत्माऽ­न्त­र्हृ­दये’(छा.३.१५.३) इत्या­दि­श्रु­त्य­न्त­रेषु । किञ्चात्रापि वाक्यशेषे हृद­या­न्त­र्व­र्तित्वं श्रूयते । ‘स वा एष आत्मा हृदीति तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’(छा.८.३.३) इति नाम­नि­र्व­व­च­न­रू­पे­णा­र्थ­वा­देन तात्पर्यविषयतया ज्ञाप्यते । एवञ्च ब्रह्मणो हृद­या­न्त­र्व­र्ति­त्वस्य , हृद­या­का­शा­न्त­र्व­र्ति­त्वस्य च श्रुत्य­न्त­र­प्र­सि­द्धि­तौ­ल्यात् पक्षद्वयेऽपि प्रकृ­त­वि­ष­य­वा­क्यस्य क्वचित्क्वचित् क्लिष्ट­यो­ज­ना­व­श्य­म्भावे च सति ‘सन्दिग्धे तु (षु)वाक्य­शे­षात्’(जै.सू.१.४.२४) इति न्याया­द­र्थ­वा­दा­ग­मि­त­ता­त्प­र्येण वाक्यशेषेण दहराकाशो ब्रह्मेति निर्णीयते । अथापि तदन्तर्वर्ति ब्रह्म स्यात् यद्याकाशशब्दस्य क्वचिदपि ब्रह्मणि प्रसिद्धिर्न स्यात् । अस्ति तस्य तत्र प्रसिद्धिः ‘आकाश इति होवाच’(छा.१.९.१) इत्या­दि­श्रु­त्य­न्त­रेषु । किञ्च माभूदन्यत्र तत्र तस्य प्रसिद्धिः , इहै­वा­का­श­श­ब्दोक्तं ब्रह्मेति निर्णेतुं शक्यम् ; तदन्तर्वर्ति ब्रह्मे­त्य­भ्यु­प­गमे वाक्य­यो­ज­ना­क्ले­शा­ति­श­य­स­द्भा­वात् । सूत्रे ‘प्रसिद्धेः’ इत्यस्य ब्रह्मणो हृद­या­न्त­र्व­र्ति­त्व­प्र­सि­द्धे­रि­त्ये­कोऽर्थः । तत्र चकारो वाक्य­शे­ष­स­मु­च्च­यार्थः । ब्रह्म­ण्या­का­श­श­ब्द­प्र­सि­द्धे­रिति द्वितीयोऽर्थः । तत्र चकारः पूर्वपक्षे वाक्य­यो­ज­ना­क्ले­शा­ति­श­यस्य समुच्चयार्थः ॥१.३.१७॥

स्यादेतत् – माभूद्दहरो भूताकाशः , जीवस्तु स्यात्; ‘अथ य एष सम्प्र­सा­दोऽ­स्मा­ञ्छ­री­रात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यत एष आत्मेति होवाच’(छा.८.२.४) इति वाक्यशेषे जीवपरामर्शात् । सम्प्र­सा­द­श­ब्द­स्सु­षु­प्त्य­व­स्था­वा­च­क­स्त­द्वति जीवे वर्तितुं शक्नोति , न ब्रह्मणि । शरीरात् समुत्थानञ्च तदाश्रयस्य जीव­स्यै­वो­प­प­द्यते । ब्रह्म­प्राप्त्या स्वरू­पा­वि­र्भा­वश्च तस्यैवोपपद्यत इत्या­श­ङ्का­मु­द्भा­व्या­प­ह­त­पा­प्म­त्वा­द्य­स­म्भ­वा­न्मै­व­मिति परिहरति –

इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥

१८

यद्यपि अप­ह­त­पा­प्म­त्वा­द्य­स­म्भवो जीवे स्पष्ट एव ; तथापि तत्सम्भवशङ्कां काञ्चि­न्नि­रा­क­र्तु­मु­पो­द्घा­त­रू­प­मिदं सूत्रम् ॥१.३.१८॥

तामेव शङ्कामुद्घाट्य निराकरोति –

उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु ॥१९॥

१९

जीव­स्या­प्य­प­ह­त­पा­प्म­त्वा­दि­गु­णान् दह­र­वा­क्या­दु­त्त­र­स्मात् ‘य आत्माऽपहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्य­स­ङ्क­ल्प­स्सोऽ­न्वे­ष्ट­व्यस्स विजि­ज्ञा­सि­त­व्यस्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानाति’(छा.८.६.१) इति प्रजा­प­ति­वा­क्या­द­व­ग­च्छामः । न च तदपि ब्रह्मविषयम् ; तदुपरि ‘य एषोऽक्षणि पुरुषो दृश्यत एष आत्मा’(छा.८.६.४) इति ‘य एष स्वप्ने मही­य­मा­न­श्च­र­त्येष आत्मा’(छा. ८.१०.१) इति च जाग­रि­त­स्व­प्न­सु­षु­प्त्य­व­स्था­व­र्ण­नेन , ‘एवमेवैष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’(छा.८.१२.३) इति श्रवणेन च तस्य जीव­वि­ष­य­त्व­नि­श्च­यात् । ननु तत्र ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति जीव­स्यो­पा­स­ना­वि­शे­ष­रू­प­सा­ध­न­सा­ध्या­प­ह­त­पा­प्म­त्वा­दि­स्व­रू­पा­वि­र्भाव उच्यते , दहरवाक्ये तु साधनाधीनं पाप­ध्वं­सा­दि­म­त्त्व­रू­प­म­प­ह­त­पा­प्म­त्वा­दिकं न ग्राह्यम् ; किन्तु पापा­त्य­न्ता­भा­व­व­त्त्व­रू­पम् ; ‘नैतं सेतुमहोरात्रे तरतः’(छा.८.४.१) इत्या­दि­द­ह­र­वा­क्य­शेषे पाप्म­ना­म­प्रा­प्ति­व­र्ण­नात् इति चेत् ; तर्हि प्रजा­प­ति­वा­क्येऽपि ‘अप­ह­त­पा­प्मा­वि­जरो विमृत्युः’ इत्या­दि­द­ह­र­वा­क्य­स्थ­प­दा­ना­मे­वा­व­र्त­नेन तथैव तदर्थः स्वीकरणीयः ।

एवं तर्हि प्रजापतिवाक्यं जीवस्य जैवेन रूपे­णा­प­ह­त­पा­प्म­त्वा­दिकं न प्रतिपादयति ; तत्र तस्य माना­न्त­र­वि­रु­द्ध­त्वात् , किन्तु यदस्य पारमार्थिकं मुक्तिपाप्यं ब्रह्मस्वरूपं तद्रूपेणेति ब्रह्मण एव ततस्तत्सिद्धिः स्यात् ; न संसा­रि­त्वा­व­स्था­प­न्नस्य जीवशब्दितस्य । ‘परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’ इति च जीवस्य मुक्तिकाले पार­मा­र्थि­क­ब्र­ह्म­भा­वा­वि­र्भा­वा­भि­प्रायं स्यात् इति चेत् ; उच्यते – न मुक्तौ जीवस्य सवि­शे­ष­ब्र­ह्म­भावः सम्भवति । निर्वि­शे­ष­ब्र­ह्म­भा­वा­भ्यु­प­गमे तु सत्यकामत्वं सत्य­स­ङ्क­ल्प­त्वञ्च न सम्भवति । निर्वि­शे­ष­ब्र­ह्म­भावं प्राप्तस्य मुक्तस्य च ‘स तत्र पर्येति जक्षन् क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा’(छा.८.१२.३) इत्या­दि­वा­क्य­शे­षोक्तं फलं न सम्भवति । ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानाति’(छा.८.७.१) इत्युपक्रमेण तथैवोपसंहारेण च प्रति­पि­पा­द­यि­षितं सर्व­लो­क­का­मा­वा­प्ति­फ­लञ्च न सम्भवति । तस्मादत्र ‘य आत्माऽ­प­ह­त­पाप्मा’(छा.८.७.१) इत्यादिना संसा­रि­त्वा­व­स्था­पन्नो जीव एवा­नृ­त­ति­रो­हि­ता­प­ह­त­पा­प्म­त्व­स­त्य­का­म­त्वा­दि­मा­नु­च्यते । तस्यै­वो­क्त­रू­प­जी­वो­पा­स­ना­म­नु­ष्ठि­त­वतः ‘परं ज्योति­रु­प­स­म्पद्य’ इत्यादिना ब्रह्म­लो­क­स्थ­वि­शे­ष­ब्र­ह्मा­वा­प्ति­पू­र्वकः सत्य­का­म­त्वा­दि­स्व­रू­पा­वि­र्भाव उच्यते इत्येव युक्तम् ; ‘मनसैतान् कामान् पश्यन्न्रमते य एते ब्रह्मलोके’(छा.८.१२.५) इति वाक्यशेषात् , पञ्चा­ग्नि­वि­द्या­वत् शरी­रे­न्द्रि­य­वि­वि­क्त­जी­व­वि­ष­य­याऽपि प्राजा­प्त्य­वि­द्यया ‘तं वा एते (तं) देवाः आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्ताः सर्वे च कामाः’(छा.८.१२.६) इत्यु­पा­स­ना­रू­प­त्वेन श्रुतया ब्रह्म­लो­का­वा­प्ति­स­म्भ­वाच्च ।

ननु तथाऽपि दहराकाशे वर्णि­त­म­ति­रो­हि­त­स्व­भा­व­म­प­ह­त­पा­प्म­त्वा­दिकं जीवस्य न सम्भवतीति चेत् ; क एवमुपदिदेश ? तिरोहिअमेव हि तत् तत्रोपदिष्टम् । तथा हि – ‘स यदि पितृलोककामो भवति’(छा.८.२.१) इत्यादिना सङ्कल्पमात्रेण पित्रा­दि­सृष्ट्या जीवस्य सत्यसङ्कल्पत्वं प्रप­ञ्चे­नो­प­वर्ण्य ‘त इमे सत्याः कामा’(छा.८.३.१) इति त इमे पित्रादयः काम्यमानतया कामशब्दोक्ताः केवलं साङ्क­ल्पि­क­त्वेऽपि नोपभोगाक्षमा वितथाः , किन्तु सत्या इत्युक्तम् । तथा च ‘सत्य­का­म­स्स­त्य­स­ङ्कल्पः’ इत्यत्र तत्प्र­क­र­ण­कृ­त­व्या­ख्या­ना­नु­सा­रे­णा­वि­त­थ­स­ङ्क­ल्प­ज­पि­त्रा­दि­म­त्त्व­मे­वार्थो ग्राह्यः । तेषाञ्च पित्रादीनां ‘त इमे सत्याः कामाः’ इति परामर्शानन्तरं ‘अनृतापिधानाः’ इति तेषां सत्या­ना­म­नृ­त­म­पि­धा­न­मिति ‘यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते’(छा.८.३.१) इति च इहलोके स्थितौ तिरोहितत्वं स्पष्टमेवोक्तम् । अथ ‘ये चास्य जीवा ये च प्रेता यच्चा­न्य­दि­च्छन्न लभते सर्वं तदत्र गत्वा विन्दते’(छा.८.३.२) इति ब्रह्म­लो­क­ग­म­ना­न­न्तरं तदा­वि­र्भा­व­श्चोक्तः । एवं सङ्क­ल्प­ज­पि­त्रा­दीनां तिरो­हि­त­त्वो­क्त्यैव सत्य­स­ङ्क­ल्प­त्वस्य तिरो­हि­त­त्व­म­र्थ­सि­द्धम् । पाप्म­ज­रा­म­र­ण­शो­का­दीनां तु स्थूल­सू­क्ष्म­दे­ह­ध­र्मा­णा­म­भा­वस्य देहे­न्द्रि­य­ता­दा­त्म्या­ध्या­स­स­मये तिरोहिततत्वं रजताध्याससमये शुक्तौ रजतत्वाभावस्येव स्पष्टमेव । अतः सत्य­का­म­त्व­मा­त्रस्य तिरोधानमुक्तम् ।

एतेन – प्रजापतिवाक्ये संसा­र­द­शा­या­म­वि­द्या­ति­रो­हि­त­म­प­ह­त­पा­प्म­त्वा­दि­क­मुक्तं ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति मुक्तिदशायां तदा­वि­र्भा­व­श्र­व­णात् , दहरवाक्ये त्वति­रो­हि­त­स्व­भा­व­मेव तदुक्तं तिरो­धा­ना­श्र­व­णात् – इति निरस्तम् । दह­र­वा­क्या­न्त­र्ग­तेपि ‘य एष सम्प्रसाद’ इति वाक्ये ‘स्वेन रूपे­ना­भि­नि­ष्प­द्यते’ इति श्रवणाच्च । तस्मा­द­प­ह­त­पा­प्म­त्वा­दिकं जीवे सम्भवत्येव , प्रत्युत ब्रह्मण्येव स्वस­ङ्क­ल्प­स­मु­त्थि­ता­ती­त­नि­ज­पि­त्रा­दि­म­त्त्व­रूपं सत्यकामत्वं न सम्भवति । किञ्च ‘ब्रह्मपुरे’ इत्युपक्रमोऽपि दहराकाशो जीव इति पक्ष एव स्वारसिकः ; जीवस्यैव सप्त­मी­नि­र्दि­ष्टा­धारं प्रत्या­धे­य­त्वस्य भोक्तृ­भो­गा­य­त­न­भा­व­रू­प­स­मा­सा­न्त­र्व­र्ति­ष­ष्ठ्यु­क्ता­सा­धा­र­ण­श­री­र­स­म्ब­न्ध­व­त्त्वस्य चोपपत्तेः । ब्रह्मणि तु नाधेयत्वं न वा शरीरेण विशे­ष­स­म्ब­न्ध­व­त्त्वम् ; कारणत्वेन सम्बन्धस्य सर्व­वि­का­र­सा­धा­र­ण्यात् । असाधारण्येन हि व्यपदेशा भवन्ति ; तद्यथा क्षिति­स­लि­ल­बी­जा­दि­ज­न्माऽ­प्य­ङ्कु­रोऽ­सा­धा­र­ण्येन शालिबीजेन व्यपदिश्यते ‘शाल्यंकुर’ इति न तु कार्या­न्त­र­सा­धा­रणैः क्षित्यादिभिः । तस्मात् ब्रह्मशब्दस्य रूढिं परित्यज्य बृंहयति देह­म­न्न­पा­ना­दि­भि­रिति जीवे योगस्स्वीकर्तुं युक्तः ।

तथा भूता­का­शो­प­मे­य­त्त्व­मपि जीवे सम्भवति ; अत्रापि मान­स­वै­पु­ल्य­स­द्भा­वात्, तस्या­न्तः­क­र­णा­व­च्छि­न्न­रू­पे­णा­व्या­प­क­त्वेऽ­प्य­वि­द्यो­प­हि­तेन रूपेण सर्व­श­री­रा­नु­स्यू­तेन व्यापकत्वाच्च । वस्तुतस्तु मानसमेव वैपुल्यमिह ‘यावान्वा’ इया­दि­वा­क्या­र्थ­तया ग्राह्यम् ; स्वरूपेण व्याप­क­त्व­व­र्ण­नस्य प्रकृ­ता­नु­प­यो­गि­त्वात् , ‘तस्मिन्यदन्तः’ इत्य­त्रा­न्त­श्श­ब्देन , ‘अन्तरेव समाहिते’(छा.८.१.३) इत्यत्र साव­धा­र­णे­ना­न्त­श्श­ब्देन , ‘अस्मि­न्श्चे­दिदं ब्रह्मपुरे सर्वं समाहितं सर्वे च कामाः’(छा.८.१.४) इत्यत्र देहा­न्त­र्ग­त­हृ­द­य­पु­ण्ड­री­का­न्त­र्व­र्तिनि दहराकाशे सर्व­स­मा­धा­नोक्त्य देह एव सर्व­स­मा­धा­न­मुक्तं स्यादि­त्य­नु­वा­देन च , हृद­या­न्तः­प्र­दे­शा­व­च्छे­देन दह­रा­का­श­वै­पु­ल्य­प्र­ति­पा­द­न­स्यै­वा­कां­क्षि­त­त्वात् । एवञ्च द्यावा­पृ­थि­व्या­द­योऽ­प्यत्र हृद­य­पु­ण्ड­री­का­व­च्छिन्ने दहराकाशे समाहिता मानसा एव ग्राह्या इति तदाधारत्वं जीवस्य नानुपपन्नम् ; स्वप्न­ऋ­ष्टा­ना­मि­वा­न्ये­षा­मपि मानसानां जीव एवाध्यासात् । ‘एतत्सत्यं ब्रह्मपुरम्’ इत्येतदपि देहाख्यं ब्रह्मपुरमनृतम् , इदं तु सत्यं देहबृह्मणत्वात् ब्रह्म सक­ल­का­मा­धा­र­त्वात् पुर्मिति जीवे सङ्गच्छते । अह­र­ह­र्ग­ति­श्र­व­ण­मपि जीव एवा­वि­द्या­मा­त्रो­प­हि­त­रूपे युज्यते ; स्वप्न­जा­ग­र­यो­रन्तः करणोपधानेन स्थितस्य तस्य सुषु­प्ता­व­न्तः­क­र­ण­लये सति अवि­द्या­मा­त्रो­प­हि­त­मा­त्र­रू­पा­प­त्ति­स­त्वात् । जग­द्वि­धा­र­क­त्व­श्र­व­ण­मपि सत्य­स­ङ्क­ल्प­ज­व­स्तु­वि­धा­र­क­त्वा­भि­प्रा­यम् , ब्रह्मा­भे­दा­भि­प्रायं वा ईवे योजयितुं शक्यम् । यद्य­प्या­का­श­श­ब्दस्य श्रुत्यन्तरे नास्ति जीवे प्रसिद्धिः , तथाऽप्यत्रैव सत्य­का­मा­दि­त­द्ध­र्म­स­म­भि­व्या­हा­रात् तद्विषयत्वं कल्प्यते , अन्यथा लोके तस्य ब्रह्म­वि­ष­य­त्वा­द­र्श­नात् ब्रह्म­ध­र्म­स­म­भि­व्या­हृ­त­श्रु­त्य­न्तरे ब्रह्म­वि­ष­य­त्व­क­ल्प­न­मपि तस्य न स्यात् । तस्माज्जीव एव दहराकाश इति पूर्वःपक्षः ।

अत्रोत्तरम् – ‘आवि­र्भू­त­स्व­रू­पस्तु’ इति । दह­र­वा­क्या­दु­त्त­र­स्मिन् प्रजापतिवाक्ये जीव­स्या­प­ह­त­पा­प्म­त्वा­दि­को­क्ते­र्द­हरो जीव इति शङ्का न कार्या । यत­स्त­त्रा­वि­र्भ्त­प­र­ब्र­ह्म­स्व­रूप एव जीवोऽ­प­ह­त­पा­प्म­त्वा­दि­रूपः प्रतिपाद्य इति , तेन ब्रह्मण एवा­प­ह­त­पा­प्म­त्वा­दि­क­मुक्तं भवति । तत्र हि ‘य एषोऽक्षाणि’ इत्यादिषु त्रिष्वपि जाग­र­स्व­प्न­सु­षु­प्ति­अ­र्या­येषु ‘एष आत्मा’ इति ‘एतदमृतमभयमेतत् ब्रह्म’ इति च जीवस्य ब्रह्मभावः श्रूयते । तत्र ‘एष आत्मा’ इत्य­प­ह­त­पा­प्म­त्वा­दि­ध­र्म­का­न्वे­ष्ट­व्या­त्म­रू­पत्वं ‘अमृतम्’ इति भूमा­ख्य­नि­र­ति­श­या­न­न्द­रू­पत्वं ‘अभयम्’ इति राग­द्वे­षा­दि­क­लु­ष­सं­सा­रा­ख्य­म­हा­भ­य­रा­हि­त्य­ञ्चोक्त्वा ब्रह्मण एव हि तत्प्रसिद्धम् , तत् कथञ्जीवस्योच्यत इति तटस्थशङ्कायां ‘एतत् ब्रह्म’ इति चोक्तम् । तत्र यद्यपि जाग­रा­द्य­व­स्था­व­त्त्व­रूपं जीवलिङ्गं प्रथमश्रुतम् ; तथाऽपि अमृ­त­त्वा­भ­य­त्वाभ्यां ब्रह्म­लि­ङ्गाभ्यां ब्रह्मश्रुत्या चैकैकमनुवाद्यं जीवलिङ्गं बह्व­नु­ग्र­ह­न्या­येन , अंगु­ष्ठा­धि­क­र­ण­न्या­येन चोपमृद्य तत्त­द­व­स्थो­प­ल­क्षि­तस्य जीवस्य ब्रह्मभावो विधीयते । एवञ्च ‘एवमेवैष सम्प्रसादः’ इत्यादि चतु­र्थ­प­र्या­य­वाक्यं जीवस्य शरी­र­द्व­य­वि­वे­का­व­धा­र­ण­रू­प­त्वं­प­दा­र्थ­शो­ध­न­पू­र्व­केण ब्रह्मा­त्म­भा­व­सा­क्षा­त्का­रे­णा­व­स्था­त्र­या­नु­वृ­त्त­त्वेऽ­प्य­नृ­त­ति­रो­हि­त­स्या­प­ह­त­पा­प्म­त्वा­दि­ध­र्म­क­नि­र­स्त­नि­खि­ल­सं­सा­र­म­हा­भ­य­नि­र­ति­श­या­न­न्द­रू­प­ब्र­ह्मा­त्म­भा­व­स्या­वि­र्भावं प्रति­पा­द­य­ती­त्येव वक्तव्यम् । निर्गु­ण­वि­द्यायां सवि­शे­ष­ब्र­ह्म­लो­का­वा­प्ति­क­थ­न­स्या­नु­प­यो­गात् मुक्तानां याव­त्स­र्व­मुक्तिं बिम्बे­श्व­र­भा­वा­प­त्ति­र­स्ती­त्य­स्मा­भि­स्सि­द्धा­न्त­ले­श­सं­ग्रहे सम­र्थि­त­त्वे­ना­वि­र्भू­त­स्व­रू­पस्य सत्यकामत्वं सत्य­स­ङ्क­ल्प­त्व­ञ्चो­प­प­द्यते । तस्य शुद्ध­चै­त­न्य­भा­वा­प­त्त्य­भ्यु­प­ग­मेऽ­प्यु­प­प­द्यत एव ; शुद्धचैतन्यस्य जीवे­श्व­रा­नु­स्यू­त­चै­त­न्य­सा­मा­न्या­त्म­नाऽ­व­स्था­नात् ।

शुद्धचैतन्यं हि यावत्सर्वमुक्ति जीवे­श्व­रा­नु­स्यू­त­चै­त­न्य­सा­मा­न्या­त्म­नाऽ­व­ति­ष्ठते , न तु तृतीयकोटितया पृथगवतिष्ठते । न हि शुद्धमुखं बिम्ब­प्र­ति­बि­म्बा­नु­स्यू­त­मु­ख­सा­मा­न्या­त्मना विना पृथगवतिष्ठमानं दृश्यते । अत एव साक्षा­त्कृ­त­ब्र­ह्मणां यावत्सर्वमुक्ति सर्वा­त्म­ता­प­त्ति­र­स्तीति वामदेवस्य मनु­सू­र्या­दि­भा­व­प्र­ति­पत्तिः श्रूयते । शुकस्य च सर्व­भू­त­म­य­त्वा­पत्तिः स्मर्यते । एवञ्च मुक्तस्य सार्व­भ्ॐ­आ­दि­मा­नु­षा­त्मना , इन्द्रा­दि­लो­क­पा­ला­त्मना , दह­रो­पा­स­ना­दि­फ­ला­नु­भ­वि­तृ­पु­रु­षा­त्मना च जक्षणादिकं सर्व­लो­क­का­मा­वा­प्ति­मत्त्वं ब्रह्म­लो­क­सा­अ­हि­त­स­त्य­का­मा­नु­भ­वि­तृ­त्वञ्च व्यपदेष्टुं शक्यमिति जक्ष­णा­दि­श्र­व­ण­म­प्यु­प­प­द्यते । न चैवं मुक्तस्य सर्वा­त्म­ता­पत्त्या तत्त­द्दुः­ख­भो­क्तृ­त्व­स्यापि व्यपदेशप्रसङ्गः ; मुक्तस्य निरस्ताविद्यस्य जक्ष­णा­दि­ज­न्य­सु­ख­वृ­त्त्य­व­च्छि­न्न­स्व­प्र­का­शा­न­न्द­रू­प­ता­प­त्ति­व­दा­वि­द्य­क­दुः­खि­त्वा­प­त्ते­र­भा­वात् । अन्यदिह प्रजा­प­ति­वि­द्या­या­मु­प­पा­द­नीयं सर्वं ‘ज्योति­र्द­र्श­नात्’(ब्र.सू.१.३.४०) इत्यधिकरणे चिन्तयिष्यते ।

यत्तु दहरविद्याप्रकरण एव स्वस­ङ्क­ल्प­स­मु­त्थि­ता­ती­त­नि­ज­पि­त्रा­दि­म­त्त्व­रू­प­त­यो­प­व­र्णितं सत्यकामत्वं ब्रह्मणि न सम्भवतीत्युक्तं – अत्र ब्रूमः । द्वयमिह सत्यकामत्वं निरूपितम् । एकमुपास्यस्य तदुपासनाविषयतया ‘एष आत्माऽ­प­ह­त­पाप्मा’ इत्यादावुक्तम् । द्विती­य­मु­पा­स­कस्य तदुपासनाविषयतया ‘एष आत्माऽ­प­ह­त­पाप्मा’ इत्यादावुक्तम् । द्विती­य­मु­पा­स­कस्य तदुपासनाफलतया ‘स यदि पितृलोककामो भवति’ इत्यादावुक्तम् । तत्र द्वितीयमेव संकुचितं स्वस­ङ्क­ल्प­स­मु­त्थि­त­पि­त्रा­दि­म­त्व­रूपं , न त्वाद्यमपि ; तत्स­ङ्को­च­का­भा­वात् । नन्विदमेव तस्यापि सङ्कोचोपपत्तेः । यद्य­प्यु­पा­स्यस्य सर्वेऽपि कामनाविषयाः सङ्क­ल्प­मा­त्र­सृष्टाः साधा­र­ण­प्र­प­ञ्चा­न्त­र्गता वियदादयोऽपि सत्याः , न तु वितथा मनो­रा­ज्य­वि­जृ­म्भि­त­प्रा­ति­भा­सि­क­व­स्तु­व­द्भो­गा­नु­प­युक्ताः , तथाऽप्युपासकस्य सङ्क­ल्प­स­मु­त्थिताः स्वासा­धा­र­ण­भो­गो­प­युक्ताः पित्रादय एव सत्या न तु वियदादयोऽपीति तावन्मात्र एव सत्य­का­म­त्व­वि­ष­य­त­त्क्र­तु­न्या­या­व­तार इति ।

नन्वे­त­द­नु­सा­रे­णो­पा­स्य­गतं सत्यकामत्वं न सङ्कोचनीयम् ; किन्तु तत्क्रतुन्याय एवेत्यत्र किं विनिगमकमिति चेत् ; उच्यते । सत्य­का­म­त्व­स­ङ्कोचे सत्य­स­ङ्क­ल्प­त्व­मपि सङ्कोचनीयम् ; ‘सङ्क­ल्पा­दे­वास्य पित­र­स्स­मु­त्ति­ष्ठन्ति’ इत्या­दि­नो­पा­स­क­ग­त­स­त्य­स­ङ्क­ल्प­त्व­स्यापि सङ्कोचितत्वात् । ततो वरमेकस्यैव तत्क्र­तु­न्या­यस्य गुणद्वयविषयेऽपि सङ्कोचकल्पनम् । किञ्च सर्वे­श्व­र­त्व­गु­ण­वि­शि­ष्टो­पा­स­नायां तत्क्र­तु­न्या­य­स्या­व­श्यकः संकोचः । न च तथोपासनैव नास्ति ; ‘कारणं तु ध्येयः सर्वै­श्व­र्य­स­म्पन्नः सर्वेश्वरश्च शंभुराकाशमध्ये’ इत्यथर्वशिखायां श्रवणात् । तस्मात् तत्क्र­तु­न्या­य­स्यैव क्वचिद्गुणे क्लृप्तः सङ्को­चोऽ­न्य­त्रापि स्वीकार्यः । एतेनेदमपि निरस्तम् – दहरविद्यायां वर्णितं गुणाष्टकं तिरोहितमेव ग्राह्यं प्रजा­प­ति­वि­द्या­या­मि­वा­त्रापि ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति ब्रह्मज्ञानेन तस्या­वि­र्भा­व­व­र्ण­नात् , विशिष्य सत्य­का­म­त्व­ति­रो­धा­न­व­र्ण­नाच्च , तत्तु जीवस्यैव सम्भवति , न ब्रह्मण इति । यतस्तत्र उपा­स­ना­फ­ल­स्या­वि­र्भा­व­ति­रो­भा­व­व­र्ण­नम् , न तूपासनीयस्य । तत्त्वतिरोहितं नित्या­वि­र्भू­त­मेव ग्राह्यम् ; तिरोधानावचनात् । वस्तु­त­स्त्वि­दानीं सङ्कल्पसृज्या अनृ­त­ति­रो­हि­ता­स्सात्याः कामा जीव­ना­म­ती­त­व­र्त­मा­न­पि­तृ­पु­त्रा­दयो न सन्त्येव । दहराकाशे इदानीं सतामेव तेषा­म­नृ­त­ति­रो­हि­त­त्व­श्र­वणं तु दह­रो­पा­स­ना­सि­द्धानां ब्रह्म­लो­क­प्रा­प्त्य­न­न्त­र­म­य­त्न­ल­भ्य­त्व­प्र­ति­प­त्त्य­र्थ­म­ति­श­यो­क्ति­मा­त्रम् ।

ननु च भूतार्थवाद एव किं न स्यात् ‘अत्र ह्येते सत्याः कामाः तद्यथा हिरण्यनिधिं निहि­त­म­क्षे­त्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दे­यु­रे­व­मे­वे­मा­स्सर्वाः प्रजा अहरहर्च्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः’(छा.८.३.२) इति हिर­ण्य­नि­धि­दृ­ष्ता­न्ते­नो­प­पा­द­नस्य तात्प­र्य­लि­ङ्गस्य सत्त्वात् , धनलोलुपानां धनान्धानां धन­वि­ष­य­म­नो­रा­ज्य­रू­पेण सङ्कल्पेन शुक्रस्य धनगृहे धनं सृज्यत इति भार­त­रा­मा­य­णा­दि­व­च­न­प्रा­मा­ण्या­द­ङ्गी­क­र्त­व्य­त्वेन तद्वत् सर्वेषामपि सङ्कल्पेन दहराकाशे पितृ­पु­त्रा­दि­बा­न्ध­वा­न्न­पा­न­गी­त­वा­दि­त्रा­दि­भो­ग्य­सृ­षि­स­म्भ­वा­च्चेति चेत् –

मैवम् । ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पित­स्स­मु­त्ति­ष्ठन्ति’(छा.८.२.१) इत्या­दि­पू­र्व­खण्डे ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’(छा.८.१.६) इति तत्पूर्वप्रकृतं दहरोपासनया ब्रह्मलोकगतं स इति परामृश्य तत्सङ्कल्पेन पित्रा­दि­सृ­ष्ट्यु­क्त्य­न­न्तरं ‘त इमे सत्याः कामाः’ इति तानेव पित्रादीन् परा­म्श्या­नृ­त­ति­रो­हि­त­त्व­स्यो­च्य­मा­न­तया तेषा­मि­दा­नी­म­स­त्त्वस्य स्पष्टत्वात् । ‘अनुविद्य व्रजन्ति’ इत्यस्य दहराकाशमुपास्य ब्रहलोकं प्रन्ती­त्ये­ता­व­त्प­र्य­न्त­मर्थं स्वीकृत्य दह­रो­पा­स­का­ना­मि­हैव कालेन सत्याः कामा निष्पद्यन्ते तेषा­ञ्चा­नृ­त­ति­रो­हि­त­त्व­व­च­न­म­पे­क्षि­त­मिति तिरो­धा­न­व­च­न­श्र­द्धया समर्थनेऽपि दह­रो­पा­स­ना­र­म्भात् पूर्वं सत्य­का­म­त्वा­द्य­भा­वा­त्त­द्व­त्तया न जीव­स्यो­पा­स्य­त्व­सिद्धिः । सिद्ध­सा­ध्य­ध­र्म­ग्र­ह­ण­सं­शये च सिद्धग्रहणं न्याय्यमित्यलं विस्तरेण ।

यत्तु – जीवस्य देहे­ना­सा­धा­र­ण­स­म्ब­न्धोऽ­स्तीति तत्र तस्य पुरमिति व्यपदेशो युक्तः , न तु ब्रह्मण – इति तत्तुच्छम् ; ब्रह्म­णोऽ­प्य­सा­धा­र­ण­त­यो­प­ल­ब्धि­स्थाने तस्मिन् तत्पुरमिति व्यपदेशोपपत्तेः , ब्रह्म­प्रा­ति­प­दि­का­र्थस्य प्रधानतया तद्वि­शे­ष­ण­भू­त­ष­ष्ठ्य­र्थस्य तदनुसारेण नेतव्यत्वाच्च । यच्चो­क्त­म­न्त­श्श­ब्दा­दि­स्वा­र­स्या­नु­रो­धेन द्यावा­पृ­थि­व्या­दयो मानसा एव ग्राह्या इति तेषां जीव एव समा­धा­नो­क्ति­र्युक्ता, न ब्रह्मणि; स्वाप्नानामिव मानसानां जीवेऽ­ध्य­स्त­त्वा­दिति तदपि तुच्छम् ; उपा­धि­प­रि­च्छि­न्नस्य जीवस्यापि ब्रह्मणि समाहितत्वेन तत्राध्यस्तानां मानसानां ब्रह्मणि समाधाननिवारणात् , अन्यथा ब्रह्मणः सर्वा­धा­र­त्व­श्रु­तीनां व्याको­प­प्र­स­ङ्गात् ।

वस्तुतस्तु द्यावा­पृ­थि­व्या­दयो मानसा एव ग्राह्या इत्ययुक्तम् ; द्यावा­पृ­थि­व्या­दि­श्रु­ति­स­ङ्को­चा­पत्तेः । उप­र्य­ध­श्चा­पा­रस्य ब्रह्मणोऽन्तरेव सर्वं समा­हि­त­मि­त्य­भि­प्रा­येण ‘यस्या­न्त­स्स्थानि भूतानि’ इति­व­द­न्त­श्श­ब्दा­व­धा­र­ण­यो­रु­प­पत्तेः । ‘अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितम्’ इति शङ्का­वा­क्य­ग­ता­नु­वा­दस्य हृदयावच्छिन्न एव दहराकाशे सर्व­स­मा­धा­न­मु­क्त­मिति भ्रान्त्या ‘योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एषः’(छा.८.७.४) इती­न्द्र­वि­रो­च­नयोः प्रश्नस्य प्रजापतिना छायापुरुष उपदिष्ट इति भ्रान्त्ये­वो­प­प­न्न­त्वात् । मान­स­मा­त्र­ग्र­ह­ण­प­क्षेऽपि ‘यदैनं जरा वाऽप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यते’(छा.८.१.४) इति शङ्कांशे भ्रान्ति­मू­ल­त्व­क­ल्प­नाया आवश्यकत्वात् । न हि स्थूलानामिव मानसानां द्यावा­पृ­थि­व्या­दीनां देहा­न्त­स्स­मा­हि­त­त्वेऽपि जर­त्कु­सू­ला­न्त­र्नि­हि­त­व्री­ह्या­दि­न्या­येन देहस्य जरादौ सति भ्रंश­श­ङ्काऽ­व­काशं लभते । एवञ्च सति ‘एतत्सत्यं ब्रह्म­पु­र­म­स्मि­न्का­मा­स्स­मा­हिताः’ इत्या­चा­र्य­वा­क्य­म­प्य­न्ते­वा­सि­ग­ण­भ्रा­न्ति­वा­र­णा­र्थ­त­यैव व्याख्येयम् । न हि देह­रू­प­स­त्य­ब्र­ह्म­पु­रा­व­च्छिन्ने दहराकाशे द्यावा­पृ­थि­व्या­द­य­स्स­मा­हिताः येना­र्थ­त­स्त­स्मि­न्न­व­च्छे­दक एव समा­हि­त­त्व­मा­प­द्यते । किन्तु तद­व­च्छे­द­म­न­पेक्ष्य अस्मिन् स्वरूपेण भूता­का­श­व­द्व्या­प­क­त­योक्ते दहराकाश एव समाहिताः – इदन्तु सत्यमवितथं ब्रह्माख्यं पुरं पुरवत्सर्वेषां विभ­क्त­त­याऽ­व­स्था­न­भू­मि­रिति । अत एवो­क्त­मा­प­स्त­म्बेन परमात्मानं प्रकृत्य ‘स वै वैभाजनं पुरम्’(आ.ध.१.८.२२.७) इति । तस्मा­द­स­ङ्कु­चि­त­द्या­वा­पृ­थि­व्या­दि­स­र्वा­धा­र­त्वा­ति­रो­हि­ता­सं­कु­चि­त­गु­णा­ष्ट­क­प्र­भृ­ति­हे­तु­भि­र्द­ह­रा­काशः ब्रह्म , ,न तु जीव इति सिद्धम् ।

सूत्रस्य – प्रजा­प­ति­वि­द्या­व­ल­म्ब­न­श­ङ्का­या­म­य­मर्थः – उत्तरात् प्रजा­प­ति­वा­क्यात् जीवस्यापि अप­ह­त­पा­प्म­त्वा­दिकं सम्भवतीति चेत् – आविर्भूतस्वरूपो जीव­स्त­त्रा­प­ह­त­पा­प्म­त्वा­दि­म­त्तया प्रतिपाद्यते स त्वपेजीवभवो ब्रह्मैवेति न जीवस्य जैवेन रूपे­णा­प­ह­त­पा­प्म­त्वा­दि­स­म्भव इति । दह­र­वि­द्या­प्र­क­र­ण­ग­त­स­त्य­का­म­त्वा­व­ल­म्ब­न­श­ङ्का­या­म­य­मर्थः – उत्तरात् ‘त इमे सत्याः कामा अनृतापिधानाः’ इति­स­ङ्कु­चि­त­ति­रो­हि­त­स­त्य­का­म­त्व­प्र­ति­पा­द­न­लि­ङ्गात् दहराकाशो जीव इति चेत् – दह­रा­का­श­स्ति­रो­हि­त­स­त्य­का­म­त्वा­दि­स्व­रूपो न प्रतिपाद्यते , किं त्वावि­र्भू­त­स­त्य­का­म­त्वा­दि­स्व­रूप एव ; सत्य­का­म­त्वा­दि­ति­रो­धानं तु तत्क्रतुन्यायेन उपासनाफलं लभ­मा­न­स्यो­पा­स­क­स्यो­क्तम् , इति । तुशब्दो ब्रह्म­पु­र­श­ब्दा­द्य­व­ल­म्ब­न­श­ङ्का­न्त­र­व्या­वृ­त्त्यर्थः ॥१.३.१९॥

यदि दहराकाशो न जीवः , तर्हि ‘य एष सम्प्रसाद’ इत्यादौ जीवपरामर्शः किमर्थः ? स्तत्राह –

अन्यार्थश्च परामर्शः ॥२०॥

२०

जीवस्य उपा­स्य­द­ह­रा­का­श­रू­प­ता­प्र­ति­प­त्त्यर्थो न जीवपरामर्शः , किन्त्वन्यार्थः । कथम् ? ‘एवं वित्स्वर्ग लोकमेति’(छा.८.३.३) इति प्रकृतो विद्वान् ‘य एष सम्प्रसाद’(छा.८.३.४) इति परामृश्यते । सोऽथ इदं सरीरं हित्वा ब्रह्म­लो­क­प्रा­प्त्य­न­न्त­र­म­स्मा­च्छ­री­रा­त्स­मु­त्थाय क्रमेण शरी­र­द्व­य­वि­वि­क्त­ब्र­ह्मा­त्म­भा­व­सा­क्षा­त्का­र­प्राप्त्या देहात्मभावं परित्यज्य परं­ज्यो­ति­रु­प­स­म्पद्य पर­मे­श्व­र­रू­प­प­र­ब्र­ह्म­भावं प्राप्य स्वेन रूपेण निर­ति­श­य­सु­खा­त्मना रूपेणाविर्भवति , यत्परं ज्योति­रु­प­स­म्प­त्त­व्य­मि­त्यु­क्तम् , एष आत्माऽ­प­ह­त­पा­प्म­त्वा­दि­गु­णक उपास्यः , एतदेवाभयममृतं ब्रह्म इति दह­रा­का­श­प­र­मे­श्व­रो­पा­स­नस्य क्रम­मु­क्ति­फ­ल­क­त्व­प्र­ति­प­त्त्यर्थ इति । अयं छान्दोग्य भाष­स्व­र­स­सि­द्धोऽर्थः ।

यद्वा ‘य एष सम्प्रसादः’ इति सामान्यतो जीव उच्यते । स जागरे स्थूलदेहाभिमानी सन् बाह्य­प­दा­र्था­न­नु­भूय स्वप्ने सूक्ष्म­दे­हा­भि­मानी भूत्वा वास­ना­म­य­प­दा­र्था­न­नु­भू­याथ सुषु­प्ता­व­स्था­या­मु­भ­य­श­री­रा­भि­मानं परित्यज्य दहराकाशरूपं परं ब्रह्मोपसम्पद्य स्वेन रूपेण विशे­ष­वि­ज्ञा­न­कृ­त­का­लु­ष्य­र­हि­तेन चैत­न्या­त्म­नाऽ­व­ति­ष्ठते , यत् परं­ज्यो­ति­स्सु­षु­प्ता­वु­प­स­म्प­त्त­व्यम् ; एष आत्माऽ­प­ह­त­पा­प्म­त्वा­दि­गु­णक उपास्यः इति दह­रा­का­श­रू­प­प­र­मे­श्व­र­स्यो­पा­स्यस्य जाग­रि­त­स्व­प्न­प­रि­श्रा­न्त­जी­व­जा­त­स­मा­श्र­य­णी­य­त्व­म­हि­म­प्र­ति­प­त्त्यर्थो जीवपरामर्शः । अयं श्रीम­द्भा­ष्य­स्व­र­स­सि­द्धोऽर्थः ।

अथवा य एष सम्प्रसादः श्रीम­द्भा­ष्य­द­र्शि­त­री­त्याऽ­व­स्था­त्र­य­वान् , एष एवा­प­ह­त­पा­प्म­त्वा­दि­गु­णक आत्मा अमृतमभयं ब्रह्म चेति जीव­स्या­व­स्था­त्र­य­वि­ल­येन पार­मा­र्थि­क­ब्र­ह्म­भा­वो­प­दे­शार्थो जीवपरामर्शः । अयं भाम­ती­स्व­र­स­सि­द्धोऽर्थः । अस्मिन् पक्षे अस्य वाक्यस्य वक्ष्यमाणायां प्रजा­प­ति­वि­द्यायां शिष्याणां जिज्ञा­सा­ज­न­नार्थं तद­र्थ­स­ङ्क्षे­प­रू­प­त्वम् , एवञ्च ‘इति होवाच’(छा. ८. ३. ४) इत्येतत् इति प्रजा­प­ति­रु­वा­चे­त्ये­व­म­र्थकं , न तु ‘स ब्रूयात्’ इति­व­दा­चा­र्य­व­च­न­प्र­ति­पा­द­क­मिति द्रष्टव्यम् । सूत्रे चकारेण जीवे­त्थ­म्भा­व­प्र­ति­प­त्त्य­र्थोऽपि भवति जीवपरामर्श इति समुच्चीयते । प्रतिपन्ने हि जीव­स्ये­त्थ­म्भावे क्रम­मु­क्ति­फ­लि­कायां जाग­रा­वा­व­र्त­मा­न­सं­सा­र­क्ले­श­प­रि­प­न्थि­न्या­म­स्या­मु­पा­स­नायां प्रवृ­त्ति­र्भ­वे­दिति । १.३.२० ।

एवं वाक्य­शे­ष­ग­त­हे­त्वा­श्रयां जीवाशङ्कां परिहृत्य वाक्यो­प­क्र­म­ग­त­हे­त्वा­श्रयां तामुद्भाव्य परिहरति –

अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥

२१

दहर इत्य­ल्प­प­रि­मा­ण­श्रु­ते­रा­रा­ग्रो­प­मितो जीवो दहराकाशो भवितुमर्हतीति चेत्तत्र वक्तव्यमुत्तरं प्रागेवोक्तं ‘निचा­य्य­त्वा­देवं व्योमवच्च’(ब्र.सू.१.२.७) इति । श्रुत्या चोक्तं ‘ताव­ने­षाऽ­न्त­र्हृ­दय आकाश’ इति । शाण्डि­ल्य­वि­द्या­या­म­णी­यस्त्वं नोपक्रमगतम् ; इह दह­र­त्व­मु­प­क्र­म­ग­त­मि­त्य­धि­का­शङ्का । वाक्य­शे­ष­ग­त­ब­हु­श्रु­ति­लि­ङ्ग­वि­रो­धा­दु­प­क्र­म­ग­त­मपि नाद­र­णी­य­मि­त्य­धि­क­प­रि­हारः । इह ब्रह्मलिङ्गानां स्पष्टत्वेऽपि दह­रा­का­शा­न्त­र्व­र्त्य­न्व­या­भा­सा­द्द­ह­रा­का­शा­न्व­यि­त्वे­ना­स्प­ष्टता द्रष्टव्या ॥१.३.२१॥

इति दहराधिकरणम् ॥

अनुकृतेस्तस्य च ॥२२॥

२२

आथर्वणिकाः समामनन्ति ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(मु.२.२.१०) अत्र ‘तत्र’ इति सर्वनाम्ना निर्दिष्टो लौकिकः कश्चित् तेजोधातुः, परं ब्रह्म वेति सप्तम्याः सति , विषये च साधारण्यात् संशये , पूर्वः पक्षः – बलीयसा हि सौरेण लौकिकतेजसा मन्दे­ते­ज­श्च­न्द्र­ता­र­कादि अभिभूयमानं दृष्टम् । तद्यस्मिन् सति सर्वमिदं तेजोऽभिभूयते , तत् किञ्चित् सर्वातिशायि लौकिकं तेज इति युक्तम् । न च – तत्रेति सतिसप्तमी माभूत् विषयसप्तम्यस्तु , तथा सति सूर्या­द्य­प्र­का­श्यत्वं ब्रह्मणि सम्भवतीति वाच्यम् । तं विषयं सूर्यो न भासयतीति णिज­र्था­ध्या­हा­रा­पत्तेः । न च तथाऽपि सूर्य­दी­पा­ते­जोऽ­भि­भा­व­क­घ­न­कु­ड्या­दि­व­द­ते­ज­स्त्वो­प­पत्तिः ; घनकुड्यादीनां सूर्य­दी­पा­द्य­भि­भा­व­क­त्वा­भा­वात् , घन­कु­ड्या­द्या­व­रणे सति चक्षु­स्स­न्नि­क­र्षा­भा­वा­देव सूर्या­द्य­ग्र­ह­णो­प­पत्तेः । न चैवमपि सुव­र्ण­रू­प­ते­जोऽ­भि­भा­व­क­पा­र्थि­व­भा­ग­व­द­ते­ज­स्त्वो­प­पत्तिः । पीति­म­गु­रु­त्वा­श्र­य­पा­र्थि­वा­ति­रि­क्त­सु­व­र्णा­न­ङ्गी­का­रात् , प्रकाशकस्य सत­स्ते­जोऽ­भि­भा­व­कस्य तेज­स्त्व­नि­य­मा­ङ्गी­का­राच्च । तथा ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति सर्वशब्दोक्तस्य प्रकृतस्य सूर्या­दि­ते­ज­सोऽ­नु­भा­न­रू­पा­त्त­द­नु­का­रा­दपि तत्सजातीयं तेज इति युक्तम् । समानेष्वेव ह्यनुकरणं दृष्टं ‘गच्छ­न्त­म­नु­ग­च्छति’ इति यथा ।

नन्वभिभवलिङ्गं तावदसिद्धम् ; माना­न्त­र­वि­रो­धात् । न हीदानीं भात्येव सूर्यादौ न भाती­त्ये­त­द­न्वेति । कालान्तरे तस्मिन् तेजसि सति न भास्यतीत्यर्थ इति चेत् , तर्हि विष­य­स­प्त­म्ये­वास्तु । क्वचन णिज­र्थ­स्या­न्यत्र भवि­ष्य­द­र्थ­स्या­ध्या­हार इति तौल्यात् । यदि व्यत्य­या­नु­शा­स­ना­ल्ल­टैव भविष्यदर्थलाभ इति नाध्याहारः , तर्हीहापि विष­य­स­प्त­मी­ब­ला­द्वि­ष­यि­त्वेन न भातीति सामर्थ्येन णिजर्थलाभ इति नाध्याहारः । एव­म­नु­का­र­लि­ङ्ग­म­प्य­सि­द्धम् ; पूर्वा­प­र­वि­रो­धात् । न हि यस्मिन् सति यन्न भाति , तत्तदनुभातीति युक्तम् । न खलु यस्मिन् गच्छति यो न गच्छति , स तमनुगच्छति । उच्यते – अनुभातीत्यत्र तदपेक्षया निकृ­ष्ट­भा­न­त्व­मु­च्यते । अतो ‘न भाति’ इत्यत्र न मानान्तरविरोधः ; तेजो­न्त­रा­भि­भू­तस्य सूर्या­दे­र्ना­हा­रा­द्या­वृ­त­स्येव सर्वात्मना भानानिषेधात् । ‘अनुभाति’ इत्यत्रापि न पूर्वापरविरोधः ; निकृ­ष्ट­भा­न­व­च­नात् । एव­मु­भ­य­सा­म­ञ्ज­स्य­स­म्भवे व्यत्य­या­नु­शा­स­न­मा­श्रित्य भविष्यदर्थलाभ इति वा । विष­यो­क्ति­सा­म­र्थ्य­म­व­लम्ब्य णिजर्थलाभ इति वा क्लेशो नाश्रयणीयः ।

ननु ‘तस्य भासा सर्वमिदं विभाति’ इत्युक्तं सर्वप्रकाशकत्वं तेजसि न सम्भवति , तेज­स­श्च­क्षु­र्वि­ष­य­मा­त्र­प्र­का­श­क­त्वात् । न च तत्रापि सर्वशब्दः प्रकृ­त­सू­र्या­दि­मा­त्र­परः ; सूर्या­दि­ते­जः­प्र­काशे चक्षु­र्व्य­ति­रि­क्त­भा­स­मा­न­ते­जो­न्त­रा­न­पे­क्ष­णात् । यदि तेजो­न्त­रा­दृ­ष्ट­मपि सर्वप्रकाशकत्वं सूर्या­दि­प्र­का­श­कत्वं वा क्वचित्तेजसि कल्प्यते , तर्हि तेज­स्सा­जा­त्या­भा­वेऽपि सूर्यादीनां ब्रह्म­णै­वा­भि­भ­व­स्त­द­नु­क­र­णञ्च कल्प्यताम् । न च – ब्रह्मपक्षो द्वयं अप्रसिद्धं कल्पनीयम् , तेजःपक्षे त्वेकमेवेति वाच्यम् ; तेजःपक्षे तथाभूतस्य धर्मि­ण­स्ते­ज­सोऽ­प्य­प्र­सि­द्धस्य कल्पनीयत्वात् । उच्यते – तेज­स­स्ते­जः­प्र­का­श­कत्वं नादृष्टचरम् ; लाघवेन चाक्षु­ष­त्वा­व­च्छिन्ने तेजोऽ­पे­क्षा­ङ्गी­का­रात् , दीपे तत्सं­यु­क्त­स्या­लोके पर­स्प­र­सं­यु­क्ता­ने­क­कि­र­णा­त्मके तत्त­त्सं­यु­क्त­कि­र­णस्य च तेजसः सद्भावात् , अन्ततस्सर्वत्र तत्त­द­व­य­वा­व­य­स­द्भा­वाच्च , तद्रहितस्यापि त्रिसरेण्वादेः जालान्तरगतालोके एव भानात् । एव­ञ्चा­भि­भ­वा­नु­का­र­लि­ङ्ग­द्व­य­ब­लात् , तेजः­प्र­का­श­क­त्वा­वि­रो­धाच्च तेजोधातुरेव कश्चि­न्म­न्त्र­प्र­ति­पाद्य इति निश्चये सति भूत­यो­नि­ब्र­ह्म­प्र­क­रणं नादरणीयम् ; लिङ्गाभ्यां तस्य बाधात् । न च तत्रे­त्या­दि­स­र्व­नाम्नां प्रकृ­त­प­र­त्व­नि­र्ब­न्धोऽस्ति ; ‘तेन रक्तं रागात्’(पा.सू.४.२.१) इत्या­दा­व­प्र­कृ­त­प­रा­णा­मपि तेषां दर्शनात् ।

ननु ‘तेन रक्तं रागात्’ ‘तस्यापत्यम्’(पा.सू. ४.१.९२) इत्या­दि­सू­त्रो­दा­ह­र­णेषु ‘माहारजनं’ ‘औपगवः’ इत्यादिषु तद्धितार्थे ‘महारजनेन रक्तम्’ ‘उपगोरपत्यम्’ इत्या­दि­वा­क्यै­र्व्या­ख्या­य­माने महा­र­ज­ना­देः­प्र­कृ­त्य­र्थस्य शब्दतः प्रकृ­त­त्व­म­स्तीति तस्य ‘तेन’ ‘तस्य’ इत्या­दि­स­र्व­ना­मभिः परामर्शो युक्त इति चेत् । यद्येतावता तृप्ति­स्त­र्ही­हा­प्य­भि­भ­वा­दि­लि­ङ्ग­मा­लोच्य सूर्या­द्य­भि­भा­वकं तत उत्कृष्टप्रकाशं तत्प्रकाशकञ्च तेजोऽस्य मन्त्रस्य प्रतिपाद्यमिति व्याख्यायमाने तेजसः शब्दतः प्रकृ­त­त्व­म­स्तीति सन्तुष्यताम् । तस्मात्तेज एव किञ्चिदुपासनीयं मन्त्र­प्र­ति­पाद्यं न तु ज्ञेयं ब्रह्म । ब्रह्मपक्षे चाचाक्षुषे ब्रह्मणि सूर्या­दि­प्र­का­श्य­त्व­नि­षे­ध­स्या­प्र­स­क्त­नि­षे­धता स्यात् । भारूपे तस्मिन् ‘भान्तम्’ इति शतृप्रत्ययस्य ‘तस्य भासा’ इति षष्ठ्याश्च निर्विषयता स्यात् । प्रप­ञ्च­ब्र­ह्म­भा­ना­न्य­भा­ना­भा­वेन ‘अनुभाति’ इत्यस्य निर्विषयता स्यात् । ‘गच्छ­न्त­म­नु­ग­च्छति’ इत्यादौ गमनभेदे सत्येव ह्यनुशब्दो दृष्टः । न च श्रुतिदृष्टोऽयं व्यपदेशो ‘वह्निं दह­न्त­म­योऽ­नु­द­हति’ इति लौकि­क­व्य­प­दे­श­व­दा­रो­पि­त­भे­द­नि­मित्तो व्याख्यातुमुचित इति ।

अत्र राद्धान्तः – तेजो मन्त्र­प्र­ति­पा­द्य­मिति पक्षे प्रसि­द्ध­वि­ल­क्षणं किञ्चि­त्ते­ज­स्ता­व­द­नु­म­न्त­व्यम् । तत्प्र­ति­पा­द­ना­वै­य­र्थ्याय तदु­पा­स­न­वि­धि­स्त­त्फ­ल­ञ्चे­त्यु­भयं कल्पनीयम् । ब्रह्मप्रकरणञ्च बाधनीयम् । प्रकृ­अ­प­रा­म­र्शिन्यः सर्व­ना­म­श्रु­त­य­श्चा­ति­ल­ङ्ग­नीयाः । न च तासा­मु­क्त­नि­र्वाहो युक्तः । द्विविधाः हि सर्वनामशब्दाः – समभिव्याहृतपराः , व्यव­स्थि­तै­का­र्थ­पराः । ते तु तस्मिन्नेव सन्दर्भे पूर्व­प्र­कृ­त­म­पेक्ष्य तदभावे प्रक­रि­ष्य­मा­ण­म­पे­क्ष्यो­भ­या­भा­व्ऽ­न्यतः प्रसि­द्धि­म­पेक्ष्य वा भवन्ति । यथा ‘तस्मि­न्य­द­न्त­स्त­द­न्वे­ष्ट­व्यम्’(छा.८.१.१) इति ‘स सर्वांश्च लोकानाप्नोति सर्वांश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानाति’(छा.८.७.१) इति ‘इत्थं प्रच्छन्नपापस्य स एव तव शासिता’ इति । इह ‘तत्र’ इत्यादयो व्यव­स्थि­तै­का­र्थ­पराः । नात्र सन्दर्भे तेजः पूर्व­प्र­कृ­त­मस्ति । नापि प्रकरिष्यमाणम् । न च तथाभूतस्य तेजसोऽन्यतः प्रसिद्धिरस्ति । तस्मादिह सर्व­ना­म­श्रु­तीनां प्रकृ­त­ब्र­ह्म­प­र­त्व­म­व­र्ज­नी­य­मिति तद­ति­ल­ङ्ग­न­दो­षोऽपि स्यादेव ।

एवमपि तेजो मन्त्र­प्र­ति­पा­द्य­मिति कथ­ञ्चि­द­भ्यु­प­ग­म्येत यदि तस्मि­न्नु­पा­स­ना­शे­ष­त्वे­ना­भि­मते मानान्तरविरोधो न स्यात् । तस्मिन्नपि सति कथं तदभ्युपगमः ? यदि हि सूर्या­दि­ते­जोऽ­भि­भा­वकं ततोऽधिकप्रकाशं तस्य सर्वस्यापि प्रकाशकतया व्याप्य सर्वदा स्थितं च किञ्चि­त्ते­ज­स्स्यात् कथं तन्नानुभूयते ? कथं च सौर­चा­न्द्रा­दि­ते­ज­सा­म­भा­वेऽपि घटादिप्रकाशो न स्यात् ? न च मणिप्रभान्यायेण सूर्य­च­न्द्र­दी­पा­द्य­नु­वि­धा­य्येव तत्तेजः , तदीयत्वारोपाच्च सूर्या­दि­ते­जोऽ­भि­भा­व­क­मि­द­म­न्य­त्ते­ज­स्सू­र्या­दीनां सहजं निकृष्टं तेजः किञ्चि­त्प्र­का­श­मा­न­मपि तत्क­र­म्बि­त­मि­त्येवं विवे­क­ग्र­ह­वै­धु­र्य­मू­ला­त्त­द­नु­भ­वा­मा­वा­भि­मानः ; तथा सति दीपनिर्वापणे सति दीप­प्र­भा­म­ण्ड­ल­स्येव तस्यापि नाश इत्युपगमापत्तेः । न चेष्टापत्तिः ; प्रतिदीपव्यक्ति तत्त­द­भि­भा­व­क­ते­जो­न्त­रा­भ्यु­प­ग­मस्य निर्मूलत्वात् । मन्त्रे तत्र तस्य तमिति पद­ग­तै­रे­क­व­च­नै­स्यैव प्रतीतेः । तस्मात् प्रकृतं ब्रह्मैवात्र सर्व­ना­म­श्रु­ति­सा­र्पितं मन्त्र­प्र­ति­पा­द्यम् ; अनुकृतेः – अनु­भा­ना­दि­त्यर्थः ।

एतदुक्तं भवति – त्यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानं तद्ब्र­ह्म­प­रि­ग्र­हेऽ­व­क­ल्पते , न तेजःपरिग्रहे । न ह्यत्र ‘गच्छ­न्त­म­नु­ग­च्छति’ इत्यत्र तद्ग­म­ना­नु­का­रि­ग­म­ना­न्त­र­व­त्त्व­मिव तद्भा­ना­नु­का­रि­भा­ना­न्त­र­व­त्त्व­मु­च्यते ; ‘तमेव भान्तम्’ इति तस्यैव भान­व­त्त्वो­क्ति­वि­रो­धात् । न हि यत्र क्रियाभेदोऽस्ति तत्र ‘तमेव गच्छ­न्त­म­नु­ग­च्छति’ इत्युच्यते । उच्यते तु क्रिया­भे­दा­भा­व­स्थले वह्निमेव दहन्तं तप्ता­युः­पि­ण्डोऽ­प्य­नु­द­ह­तीति । तथा च भारूपे ब्रह्म­ण्य­ध्य­स्तानां सूर्यादीनां तत्सत्तयैअ सत्त्ववत् , तत्प्रियतयैव प्रियत्ववच्च तद्भानेनैव भान­व­त्त्व­मि­त्यपि सङ्गच्छते । यदाहुः –

‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्’ इति ।

तेजसि तु न सङ्गच्छते ; तेजोधातूनां सम­त्वे­ना­न्यो­न्या­न­पे­क्ष­त्वात् । न हि प्रदीपः प्रदी­पा­न्त­र­भा­नेन भानवानुपलभ्यते । किञ्च ‘तस्य भासा सर्वमिदं विभाति’ इत्यत्र सर्वसब्दः सकलप्रपञ्चपरः ; सङ्को­च­का­र­णा­भा­वात् । न च सक­ल­प्र­प­ञ्च­भा­स­कत्वं तेजस उपपद्यते ; तस्य चाक्षु­ष­मा­त्र­भा­स­क­त्वात् , सर्व­प्र­प­ञ्च­भा­स­क­कि­ञ्चि­ल्लौ­कि­क­ते­जोऽ­भ्यु­प­गमे तमसि कस्या­प्य­नु­प­ल­म्भा­भा­व­प्र­स­ङ्गात् । ब्रह्मणि तूपपद्यते ; तस्य स्वाध्य­स्त­स­क­ला­नु­भ­व­रू­प­त्वात् । तस्मात् ब्रह्मण्येव मन्त्रोऽयं व्याख्येयः । तस्मिन् रूपा­दि­म­त्त्व­भ्रान्त्या प्रसक्तस्य सूर्या­दि­प्र­का­श्य­त्वस्य ‘न चक्षुषा पश्यति कञ्चिदेनम्’ इति चाक्षुषत्वस्येव निषेधः सङ्गच्छते । भारूपे तस्मिन् ‘भान्त’ इति व्यपदेशोऽपि प्रका­शा­न्त­र­म­न­पेक्ष्य स्वयं प्रका­श­रू­प­त्वा­भि­प्रा­येण ‘सविता प्रकाशते’ ‘गुरु­स­न्नि­धि­मा­त्रेण शिष्ये ज्ञानं प्रकाशते’ इत्या­दि­व्य­प­दे­श­व­दु­प­प­द्यते । ‘तस्य भासा’ इति भेदव्यपदेशोऽपि विष­या­व­च्छि­न्न­रू­पा­भि­प्रा­ये­णो­प­प­द्यते ।

सूत्रे ‘अनुभानात्’ वक्तव्ये ‘अनुकृतेः’ इति सामा­न्यो­क्ति­र्ब्र­ह्मा­ध्यस्तं सूर्यादि ब्रह्म­स­त्त­यै­वा­स्ती­ति­वत् ब्रह्म­स्फु­र­णे­नैव (तेजः) स्फुरतीति युक्तम् ; शुक्त्य­ध्य­स्त­र­ङ्ग­र­ज­ता­दी­ना­म­धि­ष्ठा­न­भा­स्व­र­रू­पे­णैव भास्व­र­त्वो­प­पत्त्या प्रत्य­ध्या­स­म्भा­स्व­र­रू­पा­न्त­र­स्ये­वा­त्रापि प्रतिवस्तु अनु­भ­व­व्य­क्त्य­न्त­र­स्या­क­ल्प­नी­य­त्वा­दिति श्रौता­व­धा­र­णा­नु­ग्रा­ह­को­प­प­त्ति­सू­च­ना­र्थम् । ‘तस्य’ इति मन्त्र­ग­त­च­तु­र्थ­पा­दस्य ग्रहणं तदर्थस्य सर्व­प्र­प­ञ्च­भा­स­क­त्वस्य हेत्वन्तरस्य प्रदर्शनार्थम् । पञ्च­म्य­भा­वा­त्त­स्ये­त्यस्य हेत्व­न्त­र­प­र­त्व­स्फु­ट­मिति तत्ता­त्प­र्य­स्फु­टी­क­र­णाय स्फुटोक्तहेतुना तत्स­मु­च्च­या­र्थ­श्च­कारः । विषयवाक्ये प्राणा­का­शा­दि­प­द­वत् सर्व­ना­मा­ति­रि­क्तस्य ब्रह्मणि प्रयुक्तस्य पदस्याभावात् ‘अत एव प्राणः’(ब्र.सू.१.१.१३) इत्यादाविव पक्षनिर्देशः । हेतुसामर्थ्यात् पक्ष उन्नेय इति तात्पर्यम् ॥१.३.२२॥

स्यादेतत् – ‘न तत्र सूर्यो भाति’ इत्यादिना सूर्यादीनामभिभव उच्यत इत्येव वक्तव्यम् ; ‘कुतोऽयमग्निः’ इति कैमुतिकन्यायात् । येन महता तेजसा सूर्योऽ­प्य­भि­भू­यते , तेना­ग्नि­र­भि­भू­यते इति किमुवक्तव्यमिति हि कैमु­ति­क­न्या­यो­प­न्यासः शोभते । न तु – यत्र रूपादिहीने ब्रह्मणि द्रष्टव्ये सूर्यो न कारणम् , तत्राग्निर्न कारणमिति किमु वक्तव्यमिति कैमुतिकन्यायः प्रवर्तते । एवमभिभवलिङ्गेन तेजसि निश्चिते तत्रैव ‘तमेव भान्तम्’ इत्येतदपि तत्ते­जोऽ­नु­प्र­वे­शेन सूर्यादीनां तेज­स्वि­त्व­मि­त्ये­त­दा­शयं योज्यम् । न च तेजसोः समत्वादनपेक्षा ; श्रुति­ब­ला­दे­वा­ङ्गी­का­रो­प­पत्तेः । अङ्गीक्रियते हि ज्योति­श्शा­स्त्र­ब­लात् चन्द्रमण्डलस्य सौर­ते­जोऽ­नु­प्र­वे­शा­देव तेजस्वित्वमिति । एवञ्च ‘सर्वमिदं विभाति’ इत्येतदपि प्रकृतस्य सूर्या­दि­प्र­का­शस्य सर्वस्य तत्ते­जः­प्र­का­श्य­त्वा­भि­प्रायं योज्य­मि­त्या­श­ङ्क्याह –

अपि च स्मर्यते ॥२३॥

२३

‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’(भ.गी.१५.६)

‘यदादित्यगतं तेजो जग­द्भा­स­य­तेऽ­खि­लम् । यच्चन्द्रमसि यच्चाग्रौ तत्तेजो विद्धि मामकम्’(भ.गी.१५.१२) इति भगवद्गीतासु स्मर्यते । तथा­चो­प­बृं­ह्म­णा­नु­सा­रेण ‘न तत्र सूर्यः’ इत्या­दे­र्ब्र­ह्म­ते­जोऽ­नु­प्र­वे­शेन सूर्यादीनां तेज­स्वि­त्व­मि­त्ये­वार्थः । अपिशब्देन कठवल्लिष्वयं मन्त्रः परब्रह्मप्रकरणे श्रूयत इत्यतोऽपि परब्रह्मपर इति समुच्चीयते । न च तत्रापि तुल्या शङ्का ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इत्या­नु­मा­नि­का­धि­क­र­ण­सूत्रे कठवल्लिषु त्रया­णा­म­ग्नि­जी­व­ब्र­ह्म­णा­मेव प्रतिपादनम् , नान्यस्येति वर्ण­यि­ष्य­मा­ण­त्वात् । कैमु­ति­क­न्या­यो­प­न्या­स­स्त्व­ति­सौ­क्ष्म्येण दुर्द­र्श­त्वा­भि­प्रा­येण योज्यः । यत्खलु अतिसूक्ष्मं वस्तु सौरातपेनापि न प्रकाश्यते , तत् दीपः प्रकाशयितुं नेष्ट इति किमु वक्त­व्य­मि­त्यु­क्ति­र्यु­क्तैव । कठवल्लिषु ब्रह्मणो दुर्दर्शत्वमेव प्रकृतं ‘‘तदेतदिति मन्य­न्तेऽ­नि­र्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा’(क. ५.१४) इति । आथर्वणे तु ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छृभ्रं ज्योतिषां ज्योति­स्त­द्य­दा­त्म­विदो विदुः’(मु.२.२.९) इति पूर्वमन्त्रे ब्रह्म ज्योतिषां ज्योति­रि­त्यु­क्तम् ; तत्क­थ­मि­त्या­का­ङ्क्षायां ब्रह्मैव सूर्यादीनामपि भास­क­मि­त्ये­त­त्प्र­द­र्श­ना­र्थ­त्वे­नायं मन्त्रः पठ्यते । एवमुभयत्रापि प्रकृतस्य दुर्दर्शत्वस्य ज्योतिषां ज्योतिष्ट्वस्य चोप­पा­द­ना­र्थ­त्वेन एत­न्म­न्त्र­पा­ठस्य दृष्टा­र्थ­त्वो­प­प­त्ता­व­प्र­सि­द्ध­ते­जः­प्र­सि­द्ध­ते­जः­क­ल्प­ना­पे­क्षो­पा­स­ना­वि­ध्य­र्थ­त्वे­ना­दृ­ष्टा­र्थ­त्व­क­ल्प­न­म­नु­चि­त­मेव । इयमपि युक्तिः सौत्रेणा पिशब्देन समुच्चीयते ।

ननु पूर्वसूत्रे ब्रह्मा­ध्य­स्तस्य सूर्या­दे­र्ब्र­ह्म­भा­ने­नैव भानमनुभानं सूर्यादिविषयस्य अस्म­दा­द्य­नु­भ­वस्य ब्रह्म­चै­त­न्य­रू­पत्वं पर्यवसितमिति व्याख्यातम् । कथमस्मिन्सूत्रे ‘यदादित्यगतं तेजः’ इति गीतावचनमनुसृत्य जगद्भासकं सूर्यादिगतं तेजो ब्राह्ममेव , न तु सूर्या­दे­र­न्य­त्ते­जोऽ­स्ती­त्येवं ब्राह्म­ते­जो­नु­प्र­वे­शेन तेज­स्वि­त्व­म­नु­भा­न­मिति व्याख्यायते ? उच्यते – यदि कस्य­चि­त्ते­ज­सोऽ­नु­प्र­वे­शेन तेज­स्वि­त्व­म­नु­भा­न­मि­त्या­श­ङ्क्यते , तदाऽपि पूर्व­प­क्ष्य­भि­मतं लौकिकं किञ्चि­त्सू­र्या­द्य­भि­भा­वकं तेजो मन्त्र­प्र­ति­पाद्यं न सेत्स्यति , किन्तु ‘यदादित्यगतं तेजः’ इति स्मृत्यनुसारेण ब्रह्मैव मन्त्र­प्र­ति­पाद्यं सेत्स्य­ती­त्यु­द्घा­ट­यितुं ‘न तद्भासयते सूर्यः’ इति सूत्रि­त­स्मृ­त्यु­दा­ह­र­ण­प्र­स­ङ्गा­द्भाष्ये ‘यदादित्यगतं तेजः’ इति स्मृति­र­प्यु­दा­हृता । वस्तुतस्तु ‘सर्वमिदं विभाति’ इत्यत्र सर्वशब्दसङ्कोचे कार­णा­भा­वा­द्ब्र­ह्मणो वाऽन्यस्य वा कस्य­चि­द्बा­ह्य­ते­जो­रू­पया रभया सर्वमिदं विभातीत्यर्थस्य प्रत्य­क्ष­प­रा­ह­त­त्वात् ब्रह्म­ण­श्चै­त­न्य­प्र­भ­यैव सूर्या­दि­भा­स­क­त्व­मर्थो ग्राह्यः । ‘यदादित्यगतं तेजः’ इति स्मृतौ तु सूर्यादितेजसां ब्रह्म­श­क्त्य­धि­ष्ठि­त­त्वा­द्रू­पा­दि­व्य­ञ्ज­क­त्व­मिति ब्रह्म­श­क्त्य­धी­न­त्व­मा­त्र­मु­च्यते । ‘तापनी पावनी चैव शोषणी च प्रकाशिनी । नैव राजन्रवेः शक्तिः शक्ति­र्न्ना­रा­य­णस्य सा’ इति भार­त­व­च­ना­नु­रो­धा­दिति युक्तम् । अत्रानुभानस्य ब्रह्म­लि­ङ्ग­स्या­स्प­ष्टता स्पष्टैव । ‘पर­ञ्ज्ज्यो­ति­रु­प­स­म्पद्य’(छा.८.३.४) इत्या­दि­वा­क्या­र्थ­वि­चा­र­प्र­स­ङ्गात् ‘तच्छु­भ्र­ञ्ज्यो­ति­षा­ञ्ज्योतिः’(मु.२.२.९) इति वाक्यो­क्त­प­र­ज्यो­ति­ष्ट्व­सा­धको ‘न तत्र सूर्यः’ इत्यादिमन्त्रो विचारित इति पूर्वा­धि­क­र­ण­स­ङ्गतिः ॥१.३.२३ ॥

इत्य­नु­कृ­त्य­धि­क­र­णम् ॥६॥

शब्दादेव प्रमितः ॥२४॥

२४

‘‘अङ्गु­ष्ठ­मात्रः पुरुषो मध्य आत्मनि तिष्ठति’(क.२.१.१२) इति ‘‘अङ्गु­ष्ठ­मात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वै तत्’((क. उ २.१.१३) इति च कठ­व­ल्ली­म­न्त्र­श्रुतः पुरुषो जीवो वा , ब्रह्म वेति अल्प­प­रि­मा­ण­लि­ङ्गे­शा­न­श्रु­तिभ्यां प्रथ­म­च­र­म­श्रु­ताभ्यां संशये –

पूर्वःपक्षः – अल्पपरिमाणात् जीव­लि­ङ्गा­ज्जी­वोऽ­यम् , ईशानशब्दस्य ब्रह्मा­भि­धा­न­श्रु­ति­त्वेऽपि प्राथम्येन जीवलिङ्गस्य प्रबलत्वात् , स्वभावबलादपि प्राथ­म्य­ब­ल­स्या­धि­क­त्वात् ; अत एवोपक्रमाधिकरणे विधेः प्राधा­न्य­ब­ल­म­वि­ग­ण­य्या­र्थ­वा­दस्य प्राथ­म्य­ब­ल­म­नु­सृ­तम् । किञ्चात्र ईशानशब्दो न ब्रह्म­णोऽ­भि­धा­न­श्रुतिः ; ‘भूतभव्यस्य’ इत्यै­श्व­र्य­प्र­ति­सं­ब­न्ध्यु­पा­दाने रूढ्यनुन्मेषात् , ‘‘पद्मानि यस्या­ग्र­स­रो­रु­हाणि प्रबो­ध­य­त्यू­र्ध्व­मु­खै­र्म­यूखैः’(कुमा.सं.१.१६) इति श्लोके सरः­प्र­ति­स­म्ब­न्ध्य­ग्रो­पा­दा­न­वति सरोरुहशब्दे स्थितेऽपि पद्म­श­ब्द­प्र­यो­ग­द­र्श­नात् , अन्यथा ‘‘उत्फु­ल्ल­स्थ­ल­न­लि­नी­व­ना­द­मु­ष्मा­दु­द्धू­त­स्स­र­सि­रु­हो­द्भवः परागः’(क.रा.५.३९) इत्यत्र सर­सि­रु­ह­श­ब्द­स्ये­वात्र सरोरुहशब्दस्य रूढ्युन्मेषे पद्मपदस्य पौन­रु­क्त्य­प्र­स­ङ्गात् । तस्मादिह ‘ईशानो भूतभव्यस्य’ इति पद­द्व­य­स­म­भि­व्या­हा­र­रू­प­वा­क्य­बोध्यं ब्रह्म­लि­ङ्ग­मा­त्रम् । तत्तु प्रथ­म­श्रु­ता­ज्जी­व­लि­ङ्गा­द्दु­र्ब­ल­मिति निर्विवादम् ।

स्यादेतत् – अल्पपरिमाणं जीवलिङ्गमिह न प्रथमश्रुतम् , किन्तु ‘ईशानो भूतभव्यस्य’ इत्ये­त­त्पू­र्व­श्रु­ते­नै­त­न्म­न्त्र­श्रु­तेन च भूत­भ­व्ये­शि­तृ­त्वेन सन्दष्टं अल्पपरिमाणञ्च , न जीवलिङ्गम् । तद्धि शाण्डि­ल्य­वि­द्या­या­न्द­ह­र­वि­द्या­याश्च ब्रह्मणोऽपि हृदयायतनोपाधिकं सम्प्रतिपन्नम् । न च – तत्रोभयत्रापि ‘एष म आत्माऽ­न्त­र्हृ­द­येऽ­णी­यान्’(छा.३.१४.३) इति, ‘दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः’(छा.८.१.१) इति च स्थाननिर्देशात् तदु­पा­धि­क­म­ल्प­प­रि­मा­ण­मिति युक्तम् , न त्वत्रेति वाच्यम् । अत्रापि ‘‘अङ्गु­ष्ठ­मात्रः पुरुषो मध्य आत्मनि तिष्ठति’(क.४.१२) इति पूर्वमंत्रे स्थाननिर्देशात् । न च – आत्मशब्दस्य स्वभाववचनत्वे कस्य स्वभाव इत्यज्ञानात् जीववचनत्वे ब्रह्मवचनत्वे च तयो­र्म­ध्या­भा­वा­दिह नास्ति स्थाननिर्देशः , किन्तु मध्ये उदासीने स्वभावे तिष्ठति उदासीनस्वभावो भवतीत्येव तदर्थ इति वाच्यम् ; ‘‘ऊर्ध्वं प्राण­मु­न्न­य­त्य­पानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वेदेवा उपासते’(क.५.३) इत्यत्र मन्त्रान्तरे प्राणा­पा­न­म­ध्येऽ­व­स्था­नस्य , तदु­पा­धि­क­वा­म­न­त्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणा­पा­न­म­ध्येऽ­व­स्था­नस्य , तदु­पा­धि­क­वा­म­न­त्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणा­पा­न­म­ध्य­प­र­तया हृदयस्थानलाभात् , आत्मशब्दस्य ‘आत्मा जीवे धृतौ देहे’ इत्य­नु­शि­ष्ट­दे­ह­प­र­त्वो­प­पत्तेः , ‘आत्मैव महनीयः’ ‘आत्मा परिचर्यः’(छा. उ.८.८.४) इति विरो­च­न­कृ­त­दे­हा­त्म­वा­दो­प­देशे देह­वि­ष­या­त्म­श­ब्द­द­र्श­नाच्च । किञ्च ‘अङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदये सन्नि­वि­ष्टः’इ­त्य­त्र­त्य­म­न्त्रा­न्तरे हृद­यो­पा­धि­नि­र्देशः स्पष्ट एवास्ति । नन्वंगुष्ठमात्र इति मात्र­श­ब्दे­ना­धि­क­प­रि­मा­ण­व्या­वृत्तिः क्रिय­मा­णाऽ­न्तः­क­र­णो­पा­धि­सं­पि­ण्दि­त­रूपे जीवे सम्भवति , न ब्रह्मणीति चेत् ; न । मात्रशब्दो ह्यत्र प्रमा­ण­वा­चि­प्र­त्ययः ‘प्रमाणे द्वय­स­ज्द­घ्न­ञ्मा­त्रचः’(पा.सू.५.२.३७) इति सूत्रे­णा­नु­शिष्टः , न तु ‘क्षीरमात्रं पिब’ इत्य­त्रे­वो­त्त­र­प­द­त्व­नि­यतं प्रातिपदिकम् । तथा सति अङ्गु­ष्ठ­प­रि­मा­ण­मात्र इत्य­र्थ­ला­भा­यां­गु­ष्ठ­श­ब्द­स्या­ङ्गु­ष्ठ­प­रि­माण इत्यर्थे लक्षणापत्तेः ।

ननु ‘अथ सत्यवतः काया­त्पा­श­ब­न्ध­व­शा­ङ्ग­तम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ इति जीवोऽ­ङ्गु­ष्ठ­मात्रः स्मर्यते । को नेत्याह ? न हि वयं जीव­स्या­ङ्गु­ष्ठ­मा­त्रत्वं नास्तीति ब्रूमः , किन्तु ब्रह्मण्यपि सम्भवता तेन ब्रह्मलिङ्गं न बाधनीयमिति ब्रूमः । ब्रह्म­ण्य­ङ्गु­ष्ठ­मा­त्र­त्व­स­म्भ­वेऽपि ‘अङ्गुष्ठमात्रं पुरुषम्’ इति स्मार्त­श­ब्द­प्र­त्य­भिज्ञा जीव इव न सम्भवति इति चेत्, माभूत् , ‘अङ्गुष्ठमात्रः पुरु­षोऽ­ङ्गु­ष्ठञ्च समाश्रितः । ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्’(महानारा १६.३) इति तैत्तिरीये, ‘अङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनी­षा­म­न­साऽ­भि­क्लृप्तो य एनं विदुरमृतास्ते भवन्ति’(श्वे.उ. ३.१३) इति श्वेताश्वतरे च ब्रह्म­वि­ष­य­म­न्त्र­श्र­व­णेन ब्रह्मणि ततो बलवती प्रथ­मा­न्त­श्रौ­त­श­ब्द­प्र­त्य­भिज्ञा जागर्ति । तस्मा­दं­गु­ष्ठ­मा­त्र­त्व­लि­ङ्गा­ज्जीव इति निर्णयो न युक्त इति चेत् ;

अत्र ब्रूमः – अंगु­ष्ठ­मा­त्रत्वं न भूत­भ­व्ये­शि­तृ­त्वेन सन्दष्टम् , किन्तु तदेव मन्त्रद्वये पठितमपि ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति तत्प्रा­क्श्रु­तेन ‘अङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा’ इति तदनन्तरश्रुतेन चाङ्गु­ष्ठ­मा­त्र­त्वेन सन्दष्टम् । अङ्गु­ष्ठ­मा­त्र­त्वञ्च हृदयायतनोपाधिकं ब्रह्मणि न सम्भवति ; तैत्तिरीये हृद­या­ग्र­व­र्त्य­ति­सू­क्ष्म­व­ह्नि­शि­खा­म­ध्यस्य ब्रह्मा­य­त­न­त्वे­नो­क्त­तया तदु­पा­धि­क­स्या­णी­य­स्त्व­स्यैव प्राप्तेः , तदभिप्रायेणैव शाण्डि­ल्य­वि­द्यायां तस्य श्यामा­क­त­ण्दु­ला­द­प्य­णी­य­स्त्वोक्तेः ; दहरविद्यायां पुण्ड­री­क­द­ह­र­त्वो­क्त्यैव दहरत्वसिद्धावपि पुन­र्द­ह­र­त्वो­क्त्याऽ­ति­सू­क्ष्म­त्वस्य व्यञ्जनाच्च । तैत्तिरीये ब्रह्म­णोऽ­ङ्गु­ष्ठ­मा­त्र­त्व­श्र­व­ण­मं­ङ्गु­ष्ठा­व­च्छे­दो­पा­धि­क­मिति तत्रैव स्पष्टम् ।

यत्तु श्वेताश्वतरे हृद­या­व­च्छे­दो­पा­धि­कां­ङ्गु­ष्ठ­मा­त्र­त्व­व­र्णनं तत् ब्रह्मणो जीवा­त्मा­भि­प्रा­ये­णेति युज्यते ; ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वञ्जातो भवसि विश्वतोमुखः’(श्वे.उ.४.३) इत्या­दि­त­त्र­त्य­म­न्त्रा­न्त­रेषु जीवात्मना ब्रह्मो­प­व­र्ण­न­द­र्श­नात् । जीवे हि हृद­या­व­च्छे­दो­पा­धि­क­म­ङ्गु­ष्ठ­मा­त्र­त्व­म­ञ्जसा सम्भवति – अन्तः­क­र­ण­सं­पि­ण्डितो जीवः । अन्तःकरणं च प्रायेण हृत्क­म­ल­को­श­स्था­नम् । हृत्कमलकोशस्तु मनु­ष्या­णा­म­ङ्गु­ष्ठ­मात्र इति , न तु तत्र ब्रह्मण इवा­ग्र­सु­षि­र­वृ­त्ति­त्वा­दि­वि­शे­ष­श्र­व­ण­मस्ति । स्पष्टञ्च हृद­या­व­च्छे­दो­पा­धि­कोऽ­ङ्गु­ष्ठ­मात्रो जीव इति ‘‘अ ङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदये सन्निविष्टः’(क.६.१७) इत्य­त्र­म­न्त्र­स्यो­त्त­रार्धे ‘‘तं स्वाच्छरीरात् प्रवृ­हे­न्मु­ञ्जा­दि­वे­षीकां धैर्येण । तं विद्या­च्छु­क्र­म­मृ­तम्’(क.६.१७) इत्यस्मिन् शरीरविविक्ततया ज्ञात­व्य­त्व­प्र­ति­पा­द­नेन । स्पष्ट­ञ्चा­न्ये­ष्वपि मन्त्रेषु ‘प्राणा­धि­प­स्स­ञ्च­रति स्वकर्मभिः अङ्गुष्ठमात्रो रवितुल्यरूपः’(श्वे.उ.५.७.८) इत्यादिषु । प्रत्यभिज्ञापि स्मार्त्ये­वा­नु­ग्रा­हिका ; स्मृतौ हृद­या­व­च्छे­दो­पा­धि­का­ङ्गु­ष्ठ­मा­त्र­त्व­व­र्ण­नात् उत्क्रमणकाले जीवस्सह मनः­प्रा­णे­न्द्रि­यै­र्हृ­दयं प्रविश्य तत एवोत्क्रामतीति श्रुति­प्र­सिद्धेः । न च ‘न तत्र सूर्यः’ इति मन्त्रस्य तेजोविषयत्वे इवास्य मन्त्रस्य जीवविषयत्वे प्रक­र­ण­वि­रो­धोऽस्ति ; कठवल्लिषु ‘येयं प्रेते’ इति प्रश्नानुसारेण जीवस्यापि वक्तव्यत्वात् । तस्मात् प्रथ­म­श्रु­त­हृ­द­या­व­च्छे­दो­पा­धि­का­ङ्गु­ष्ठ­मा­त्र­त्व­लि­ङ्ग­स­म­र्पितो जीव एव सङ्कु­चि­त­दे­हे­न्द्रि­या­दि­भू­त­भ­व्ये­शि­तृ­त्वेन वा , अस­ङ्कु­चि­त­भू­त­भ­व्ये­शि­तृ­त­यो­पा­स्य­त्वेन वा ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्यत्रेव तथा­भू­ते­श्व­रा­त्म­त­यो­पा­स्य­त्वेन वा अस्मिन्मन्त्रे प्रतिपाद्यत इति ।

एवं प्राप्ते सिद्धान्तः – अंगुष्ठप्रमितः परमात्मा ; तद­भि­धा­न­श्रु­ति­रू­पा­दी­शा­न­श­ब्दात् । न च यौगि­का­र्थ­प्र­ति­स­म्ब­न्ध्य­नु­पा­दान एव रूढ्युन्मेष इति नियमः ; तत्प्र­ति­स­म्ब­न्ध्यु­पा­दा­नेऽपि रूढ­श­ब्द­श्र­व­ण­प्र­यु­क्त­रू­ढ्यु­न्मे­ष­स्या­नि­वा­र्य­त्वात् । काव्येषु तु व्यंग्या­र्थ­प्र­धा­नेषु यस्य शब्दस्य यौगिकार्थो व्यञ्ज­ना­व्या­पा­रा­नु­कू­लस्तं शब्दं यौगिकार्थ एवोपक्षीणं कृत्वा तदी­य­रू­ढ्य­र्थ­स­म­र्प­णार्थं क्वचित् क्वचित् पदान्तरमुपाददत इति तत्प­दा­न्त­रो­पा­दानं न यौगि­का­र्थे­प्र­ति­स­म्ब­न्ध्यु­पा­दा­नस्य रूढ्यु­न्मे­ष­वि­रो­धि­त्व­प्र­यु­क्तम् ; तदनुपादानेपि ‘‘तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेः धैर्यच्युतिं के मम धन्विनोऽन्ये’(क.मा. ३.१०) इत्यत्र तद्दर्शनात् । अत्र हि कैमु­ति­क­न्या­यो­प­यो­गि­सा­र­त­रा­यु­ध­त्व­व्य­ञ्ज­ना­नु­कूले यौगिकार्थ एव पिना­क­पा­णि­श­ब्द­मु­प­क्षीणं कृत्वा तद्रू­ढि­वि­ष­य­शि­व­स­म­र्प­णा­र्थ­प­दा­न्तरं प्रयुक्तम् । किञ्च यस्य योगरूढिमतः पदस्य सन्निधौ तदलभ्यस्य कस्य­चि­द­व­य­वा­र्थस्य विशेषकं किमपि प्रथममुपादीयते – यथा ‘पद्मानि यस्या­ग्र­स­रो­रु­हाणि’ इति यथा वा ‘लपनं पद्ममेवास्या लाव­ण्य­स­र­सी­रु­हम्’ इति – तत्पदं तद्वि­शे­षि­त­यौ­गि­का­र्थ­व­शी­कृ­त­मिति तेनापि हेतुना तत्र रूढ्युन्मेषो न भवतीति वक्तुं शक्यम् । इह तु सङ्को­च­का­भा­वा­दी­शा­न­प­द­यौ­गि­का­र्थ­तया तल्लब्ध एवार्थो ‘भूतभव्यस्य’ इत्यनेन पश्चादनुवदिष्यत इति नात्र तद­नु­न्मे­ष­शा­व­काशः ।

नन्वी­शा­न­श्रु­त्य­नु­रोधे प्रथ­म­श्रु­त­स्या­प्य­नु­वा­द्यस्य तात्पर्यवता विधेयेन विरोधे सत्युपमर्दो युक्त एव ; उक्थ्या­ग्नि­ष्टो­मा­धि­क­र­ण­न्या­यात् । तथा हि – ‘उक्थ्या­ग्नि­ष्टो­म­सं­यो­गा­द­स्तु­त­शस्त्रः स्यात्सति हि संस्थाऽ­न्य­त्वम्’(जै.सू.१०.५.१२) इति दाशमिकाधिकरणे ‘अप्यग्निष्टोमे राजन्यस्य गृह्णी­या­द­प्युक्थ्ये ग्राह्यः’ इति वच­ना­द्रा­ज­न्य­नि­मि­त्ते­नो­क्थ्या­ग्नि­ष्टो­मयोः कर्तव्यः षोड­शि­ग्र­ह­या­गा­भ्यासः स्तोत्र­श­स्त्र­र­हितः स्यात् , तत्सहितो वेति संशये, उक्थ्य­स्या­ग्नि­ष्टो­मस्य च सतः षोड­शि­या­गा­भ्या­स­वि­धा­ना­त्त­द­ङ्गस्य षोड­शि­स्तो­त्र­स्या­नु­ष्ठाने क्रतो­रु­क्थ्य­स्तो­त्रा­न्त­त्व­रू­प­स्यो­क्थ्य­त्वस्य अग्नि­ष्टो­म­स्तो­त्रा­न्त­त्व­रू­प­स्या­ग्नि­ष्टो­म­त्वस्य चोप­म­र्द­प्र­स­ङ्गात् स्तोत्र­श­स्त्र­र­हितः स्यादिति प्रापय्य , षोड­शि­या­गा­भ्या­स­वि­धिना साङ्गस्य तस्य विधानेन तदङ्गभूतयोः स्तोत्र­श­स्त्र­यो­र­नि­वा­र्य­त्वा­द्वि­धे­येन संस्था­न्त­रे­णा­नु­वा­द्य­यो­रु­क्थ्या­ग्नि­ष्टो­म­सं­स्थ­यो­रु­प­मर्दो न्याय्य इति स्तोत्र­श­स्त्र­स­हित एव स्यात् । एव­ञ्चो­क्थ्य­सं­स्थोऽ­ग्नि­ष्टो­म­संस्थो वा यः क्रतुः प्राप्तः स राजन्यस्य न तथा , किन्तु प्राप्त­सं­स्थो­प­म­र्देन षोडशिसंस्थः कर्तव्य इति । उक्तं च ‘उक्थ्यसंस्थो हि यः प्राप्त­स्त­थाऽ­ग्नि­ष्टो­म­सं­स्थिकः । राजन्यस्य तथा नासौ किन्तु षोडशिसंस्थिकम्’ इति । एव­मि­हा­प्य­न्तः­क­र­णो­पा­धि­प­रि­क­ल्पि­त­रू­प­तया योऽङ्गु­ष्ठ­मात्रः प्राप्तो जीवः स न तथा , किन्त्व­सं­कु­चि­त­स­क­ल­भू­त­भ­वि­ष्य­द्व­र्त­मा­न­व­स्तु­नि­य­न्तृ­त्व­प्रा­प्त­स­क­ला­न्त­र­व­स्था­न­तया व्यापकः पर­मा­त्मै­वै­त्यर्थो ग्राह्यः ।

नन्वि­हां­गु­ष्ठ­मा­त्र­म­नूद्य तस्येशानभावो विधीयते चेत् अस्तु नाम पूर्वरूपोपमर्दः । तदेव कुतोऽवसीयते । नह्यत्र किञ्चिदनुवाद्यं किञ्चि­द्वि­धे­य­मि­त्यत्र ज्ञापकमस्तीति चेत् ‘अङ्गुष्ठमात्रः पुरु­षो­न्त­रात्मा’ इत्यु­त्त­र­म­न्त्र­व­शा­दे­व­म­व­सी­यते । तत्र हि पूर्वार्द्धेन जीवमनूद्य ‘तं स्वाच्छ­री­रा­त्प्र­वृ­हेत्’ इति तस्य स्थूल­सू­क्ष्म­दे­ह­द्व­या­द­प्र­मा­देन बुद्धिबलेन विवेचनं विधाय विवेचितस्य तस्य ‘तं विद्या­च्छु­क्र­म­मृ­तम्’ इति शुद्धब्रह्मभावो विधीयते । इहापि स एवार्थः संग्रहेण वर्ण्यते । अत्र ‘अङ्गुष्ठमात्रः पुरुषः’ इति जीवानुवादः । ‘ज्योति­रि­वा­धू­मकः’ इति जड­दे­हा­न्तः­क­र­ण­सं­व­लि­तस्य तस्य ततो विवेचनम् । ‘ईशानो भूतभव्यस्य’ इति तस्य ब्रह्म­भा­व­वि­धि­रिति । ननु तद्वदत्र शुद्ध­ब्र­ह्म­भा­वो­प­देशो न दृश्यत इति चेत् , न । अत्रा­ल्प­प­रि­मा­ण­त्वो­प­म­र्देन तद्वि­रो­धि­व्या­प­क­ब्र­ह्म­भा­व­प्र­ति­प­त्तये व्याप­क­त्वो­प­ल­क्ष­कस्य सर्व­नि­य­न्तृ­त्व­स्यो­प­न्या­सात् । उक्थ्या­ग्नि­ष्टो­म­वा­क्य­यो­रपि ह्यनू­दि­तो­क्थ्या­ग्नि­ष्टो­म­सं­स्थो­प­म­र्द­क­वि­धे­य­षो­ड­शि­या­ग­सं­स्थो­प­ल­क्षकं षोड­शि­ग्र­ह­ण­मे­वो­प­स्य­स्तम् ।सूत्रगत एवकारः – कथं ‘अहमिहैवास्मि सदने जानानः’ इत्य­ल्प­प­रि­मा­ण­त्वे­ना­नु­भू­य­मा­नस्य व्याप­क­ब्र­ह्म­भावः ? इत्याशङ्कायां वचनबलादेव , नह्यस्ति वचनस्यातिभार इति परि­हा­र­ज्ञा­प­नार्थः ॥१.३.२४॥

ननु जीव­स्या­प्य­ङ्गु­ष्ठ­मा­त्र­त्वे­ना­नु­वादो न युक्तः । तस्या­रा­ग्र­मा­त्र­त्व­श्र­व­णा­दि­त्या­शं­क्याह –

हृद्यपेक्षया तु मनु­ष्या­धि­का­र­त्वात् ॥२५॥

२५

जीवस्य हृद्य­व­स्था­न­म­पेक्ष्य इद­म­ङ्गु­ष्ठ­मा­त्र­त्व­मु­च्यते । नाडी­स­ञ्चा­र­म­पेक्ष्य त्वन्यत्र आरा­ग्र­मा­त्र­त्व­श्र­व­णम् । अत एवा­प­र­त्रा­ति­सू­क्ष्म­ना­डी­स­ञ्चा­र­म­पेक्ष्य वाला­ग्रा­यु­त­भा­ग­त्व­श्र­व­ण­मपि दृश्यते । नाडी­हृ­द­या­दि­त­त्त­द­व­का­शा­नु­सा­रि­स­ङ्को­च­वि­का­से­ना­न्तः­क­र­णे­ना­व­च्छिन्नो जीवोऽपि हि तथा तथा भवति । ननु हृद­या­पे­क्ष­म­प्यं­ङ्गु­ष्ठ­मा­त्र­त्व­म­नु­प­प­न्नम् ; हस्तिमशकादीनां हृद­य­प­रि­मा­ण­भे­दात् । न च तत्त­द­ङ्गु­ष्ठ­प­रि­माणं ग्राह्यम् ; खर­तु­र­गा­दी­ना­म­ङ्गु­ष्ठा­भा­वा­दि­त्या­श­ङ्क्योक्तं ‘मनु­ष्या­धि­का­र­त्वात्’ इति । मनुष्याधिकारं शास्त्रम् , अतो मनुष्यान्प्रति जीवस्य ब्रह्मभाव उपपादनीयः । मनुष्याणाञ्च हृदयं तद­ङ्गु­ष्ठ­मा­त्र­मिति तद­व­च्छि­न्न­जी­वस्य तथात्वेनानुवादो युज्यत एव । यत्तु भाष्ये ब्रह्म­णोऽ­ङ्गु­ष्ठ­मा­त्र­त्वो­प­पा­द­न­प­र­त­याऽस्य सूत्रस्य व्याख्यानम् , तत् अयंमन्त्रः ‘तत्त्वमसि’ वाक्य­व­ज्जी­व­ब्र­ह्मा­भे­द­प­र­म­हा­वा­क्य­वि­ध­येव ब्रह्म­प­रा­वा­न्त­र­वा­क्य­वि­ध­याऽपि योजयितुं शक्य इति प्रौढि­वा­द­म­व­लम्ब्य , न तु भाष्याभिमतम् । अग्रे ‘यदप्युक्तम्’ इत्या­दा­व­ङ्गु­ष्ठ­मात्र इत्यनेन जीवानुवाद इत्य­स्यै­वा­र्थ­स्या­नु­मो­द­नात् । नन्वि­त्थ­म­ङ्गु­ष्ठ­मा­त्र­त्व­श्र­वणं मनु­ष्य­दे­हा­प­न्न­ज्जी­व­वि­ष­य­तया सङ्कोचनीयनं चेत् , एवमेव भूत­भ­व्ये­शा­न­त्व­श्र­व­ण­मपि देहे­न्द्रि­या­दि­नि­य­न्तृ­त्व­वि­ष­य­तया सङ्कोच्य कृत्स्नोऽयं मन्त्रः किमिति जीवपरो नाभ्युपेयते – इत्या­श­ङ्का­प­रि­हा­रा­र्थ­स्तु­शब्दः । अनन्यगतिकतया कस्यचित्सङ्कोचः कृत इति तस्यापि सङ्कोचः कर्तुं न युक्तः ; जीव­स्या­ङ्गु­ष्ठ­मा­त्र­त्व­मु­प­मृद्य तदभेदेनोपदेश्ये ब्रह्मणि व्याप­क­तो­प­ल­क्ष­ण­त्वेन तद­स­ङ्को­चो­प­प­त्ते­रिति परिहाराभिप्रायः ॥१.३.२५॥

इति प्रमिताधिकरणम् ॥७॥

तदुपर्यपि बादरायणः सम्भवात् ॥२६॥

२६

ब्रह्म­वि­द्या­धि­का­रित्वं मनुष्याणां यदीरितम् ।
तत्प्रसङ्गेन देवा­ना­म­प्य­स्तीति प्रसाध्यते ॥
मनुष्याणामुपरि ये देवास्तेषाञ्च मन्यते ।
सूत्र­का­रोऽ­धि­का­रित्वं तत्रा­र्थि­त्वा­दि­स­म्भ­वात् ॥
दिव्ये सुखे निमग्नानामपि मोक्षार्थिता भवेत् ।
तस्यापि निर्विशेषत्वात् क्षय­सा­ति­श­य­त्वयोः ॥
तेषां साम­र्थ्य­म­प्यस्ति पटु­दे­हे­न्द्रि­या­दि­कम् ।
मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णा­द्यु­प­व­र्णि­तम् ॥
तेषा­म­नु­प­नी­ता­ना­म­धी­ति­र्नास्ति चेदपि ।
वेदो जन्मान्तराधीतः स्वयं भाया­न्म­हा­त्म­नाम् ॥
श्रुत­ञ्चे­न्द्रस्य विद्यार्थं गुरूपसदनं श्रुतौ ।
तेषामृषीणाञ्च नृणां मुक्तत्वमपि विद्यया ॥
सूत्रे तदु­प­री­त्ये­त­त­न्म­नु­ष्या­णा­म­ध­स्त­नात् ।
व्यावर्तयति पश्वादीन् ब्रह्म­वि­द्या­धि­का­रतः ॥१.३.२६॥

विरोधः कर्मणीति चेन्ना­ने­क­प्र­ति­प­त्ते­र्द­र्श­नात् ॥२७॥

२७

यद्यवाप्य ब्रह्म­वि­द्या­मि­न्द्राद्या मुक्तिमाप्नुयुः ।
यष्ट­व्य­दे­व­ताऽ­भा­वात् कर्मलोपो भवेत्तदा ॥
इति चेन्मै­व­मा­म्ना­य­त­द­न्तेषु स्मृतिष्वपि ।
अने­क­स्ये­न्द्र­व­ह्न्या­दि­भा­व­स­न्प्रा­प्ति­द­र्श­नात् ॥
नक्ष­त्रे­ष्ट्य­र्थ­वा­दा­दि­ष्वि­न्द्रा­दी­ना­म­ने­कता ।
यष्टृ­य­ष्ट­व्य­भा­वा­दि­भे­द­कैर्हि प्रदर्शता ॥
ततश्च मुक्तिं कस्मिं­श्चि­द्वि­द्यया समुपेयुषि ।
तदन्य इन्द्रस्तत्काले यष्टव्यः कर्मणां भवेत् ॥१.३.२७॥

स्यादेतत् –
कर्मण्येवं विरोधस्य समाधानं वितन्वतः ।
इन्द्रादिशब्दे स भवेत् कर्माङ्गमनुषु श्रुते ॥
न ह्येक इन्द्र­स्त­स्यार्थो नियन्तुं शक्यते तदा ।
न चानेकत्र तद्वृ­त्ति­र्नि­मि­त्तैक्यं विना भवेत् ॥
नैवास्ति डित्थशब्दस्य सङ्के­त­वि­ष­ये­ष्विव ।
अर्थेषु तेषु तेष्वेकं निमित्तं तस्य योजकम् ॥
क्रिये­ते­न्द्रा­दि­श­ब्दस्य यदि डित्थादिशब्दवत् ।
प्रत्य­र्थ­व्य­क्ति­स­ङ्के­त­स्तदा सापेक्षता भवेत् ॥
व्यव­स्थि­त­श्चार्थ एको मन्त्राणां नैव सम्भवेत् ।
तत्सम्भवे च तच्छून्ये कल्पे ते स्युर्निरर्थकाः ॥
तस्मा­दि­न्द्रा­दि­श­ब्दस्य वाच्यो मन्त्रा­र्थ­वा­दयोः ।
नित्य एकैक एवार्थो न भिन्नः कालभेदतः ॥
यष्टृ­य­ष्ट­व्य­भा­वस्तु न कर्मा­न­धि­का­रि­णाम् ।
अर्थवादैः प्रशंसार्थं कल्पितो भेदसाधकः ॥
ब्रह्मा विष्णुश्च रुद्रश्च साक्षाद्ब्रह्म च यष्टृताम् ।
यष्टव्यत्वञ्च तैर्नीतं वाच्यं तत्रैवमेव हि ॥
आत्मासाधारणं द्रव्य­म­न्य­सा­धा­रणं सुरैः ।
कृतं वास्त्वि­ष्टि­भि­स्तेषां भेदसिद्धिः कथं ततः ॥
वस्वा­द्यु­पा­स­का­नान्तु वस्वा­दि­भ­व­नो­क्तयः ।
भोगसाम्यपराः कल्प्याः तेषां वस्वादिभिस्सहं ॥
अन्यथा खलु वस्वा­दि­सं­ख्या­धिक्यं प्रसज्यते ।
परश्शतेषु युग­प­त्प्रे­प्सु­षू­पा­स­ना­फ­लम् ॥
दृष्टा हि विष्णुभावस्य तद्या­ग­फ­ल­ता­श्रुतेः ।
तद्भोगसाम्यपरता सर्वेषामपि सम्मता ॥
सृष्टि­प्र­ल­य­वा­क्या­ना­म­यन्तु विषयो भवेत् ।
देवानां देहनिकरः सृज्यते ह्रियते च यत् ॥
सर्गादौ भगवान्धाता यथा­पू­र्व­म­क­ल्प­यत् ।
इत्ये­व­मा­दि­वा­क्यानां लभ्यते चैवमार्जवम् ॥
एव­ञ्चा­स्पृ­ष्ट­दे­हादौ तत्तदातमिकवाचके ।
इन्द्रा­दि­श­ब्द­नि­करे न विरोधः प्रसज्यते ॥
अस्पृ­ष्ट­म­त्स्य­रू­पादौ परमात्मैकवाचके ।
विष्णुर्नारायणः कृष्णो विधुरित्यादिके यथा ॥
तथा­चे­न्द्रा­दि­दे­वा­ना­मि­न्द्र­त्वा­द्य­न­पा­यतः ।
सह्यं सातिशयत्वं स्यात् कृच्छ्रञ्च प्रलयादिकम् ॥
तस्मा­न्मु­क्ता­व­सा­ध्या­या­म­र्थित्वं न सुपर्वणाम् ।
इत्या­श­ङ्काऽ­प­नो­दा­र्थ­मिदं सूत्रं प्रवर्तते ॥

शब्दं इति चेन्नातः प्रभवात् प्रत्य­क्षा­नु­मा­ना­भ्याम् ॥२८॥

२८

श्रुति­स्मृ­तिभ्यां देवानां शब्दप्रभवता यतः ।
अतोऽत्र नेदृशी शङ्काऽवकाशं प्रतिपद्यते ॥
एवं खल्वत्राशङ्का कृता – वर्त­मा­ने­न्द्रस्य विद्यया मुक्तौ यष्ट­व्ये­न्द्रा­भा­वा­दग्रे कर्मलोपो माभू­दि­त्ये­त­दर्थं तदा­नी­मि­न्द्रा­न्त­र­सृ­ष्ट्य­भ्यु­प­गमे कर्मा­ङ्ग­म­न्त्रेषु ‘इन्द्रागच्छ हरिव आगच्छ’ ‘आयाहीन्द्र पथि­भि­री­डि­ते­भि­स्सोमं पिब वृत्त्रहन् शूर विद्वान्’ इत्यादिषु श्रुते इंद्रशब्दे विरोधः स्यात् । न हि भूतो भवि­ष्य­न्व­र्त­मानो वा तस्यैक एवेन्द्रो वाच्य इति नियन्तुं शक्यते ; विनिगमनाविरहात् , इन्द्रान्तरे यष्टव्ये तस्य तद­वा­च्य­त्वे­नैन्द्र्या गार्हपत्य इव तस्य तत्र विनि­यो­ज­क­श्रु­त्य­भा­वेन च लिङ्ग­वि­नि­यो­ज्या­ना­मै­न्द्र­म­न्त्राणां तत्र विनि­यो­गा­भा­व­प्र­स­ङ्गाच्च । न च ताव­त्स्वि­द्रे­ष्वि­न्द्र­श­ब्दस्य वृत्तिरेकं प्रवृ­त्ति­नि­मित्तं विना सम्भवति । प्रवृ­त्ति­नि­मि­त्त­ञ्चैकं डित्थशब्दस्य तत्स­ङ्के­त­वि­ष­ये­ष्वि­वा­त्रापि ताव­त्स्वि­न्द्रे­ष्व­नु­गतं नास्ति । एव­म­ग्न्या­दि­श­ब्दा­ना­म­प्य­ग्न्या­द्या­र्थेषु । यदि चैत्र­मै­त्रा­दीनां पुत्रे­षू­त्प­न्नेषु तद्व्यवहारार्थं पित्रा­दि­भि­रि­च्छया डित्थ इति सङ्केत इव तत्त­त्का­ल­वृ­त्ति­ष्वि­न्द्रा­दि­षू­त्प­न्नेषु तद्व्यवहारार्थं काश्यपादिभिः स्वेच्छ­ये­न्द्रोऽ­ग्नि­र्मित्रो वरुण इत्यादिसङ्केतः क्रियते , तदा वैदि­का­ना­मि­न्द्रा­दि­श­ब्दानां तत्त­त्का­ल­स­ङ्के­त­यि­तृ­पु­रु­ष­बु­द्ध्य­धी­न­स­ङ्के­ता­पे­क्ष­त­त्त­त्का­ल­व­र्ति­भि­न्न­भि­न्ना­र्थ­बो­ध­कत्वे तत्सा­पे­क्ष­त्व­ल­क्ष­ण­म­प्रा­माण्यं स्यात् । व्यव­स्थि­त­श्चै­कै­कोऽर्थो न स्यात् । व्यव­स्थि­तै­कै­के­न्द्रा­द्य­र्था­भ्यु­प­गमे च तद­न्ये­न्द्रा­दि­म­ति­कल्पे ‘इन्द्रागच्छ’ इत्या­दि­म­न्त्राणां विनियोगो न स्यात् । तस्मा­त्ते­षा­म­न­पा­यी­न्द्र­त्वा­दि­प्र­वृ­त्ति­नि­मित्तो नित्य एकैक एवार्थः स्वीकर्तव्यः ।

अत्रेयमाशङ्का स्यात् – नक्ष­त्रे­ष्ट्य­र्थ­वा­देषु ‘इन्द्रो वा अकामयत ज्यैष्ठ्यं देवा­ना­म­भि­ज­ये­य­मिति स एतमिन्द्राय ज्येष्ठायै पुरो­डा­श­मे­का­द­श­क­पालं निरवपत्’ ‘अग्निर्वा अकामयत । अन्नादो देवानां स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरो­डा­श­म­ष्टा­द­श­क­पालं निरवपत्’ इत्या­दि­ष्वि­न्द्र­स्येन्द्रो यष्टा अग्नेरग्निः सोमस्य सोमः सवितुः सवि­ते­त्या­दि­प्र­का­रेण यष्टृ­य­ष्ट­व्य­भा­व­श्र­व­णा­दि­न्द्र­भे­दा­दिकं ताव­त्स्वी­क­र्त्त­व्यम् । इन्द्रादीनां स्वस्वोद्देशेन द्रव्य­त्या­गा­त्म­क­या­गा­नु­ष्ठा­ना­नु­प­पत्तेः स्वस्मै सङ्कल्प्यमानस्य द्रव्यस्य स्वत्व­त्या­गा­स­म्भ­वात् । एव­मि­न्द्र­भे­दा­दि­कञ्च कल्प­म­न्व­न्त­रा­दि­का­ल­भे­दे­नो­प­पा­द­नी­यम् ; युग­प­दि­न्द्र­द्व­या­द्य­भा­वात् । तथा च एत­त्क­ल्पा­दि­व­र्तीन्द्रः पूर्व­क­ल्पा­दि­स्थि­ता­ये­न्द्राय तदानीं हवि­र्नि­र­व­प­दि­त्या­दि­स्त­दर्थः पर्यवस्यतीति नेन्द्रादीनां नित्यत्वं युज्यते ।

तथा मधुविद्यायां ‘तद्य­त्प्र­थ­म­मृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति । स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’ इत्यादिश्रवणात् , उपा­स्ये­ष्व­न्य­त­मस्य वसु­भा­वा­दि­प­रा­वृत्तिं विना तत्तदुपासकस्य वस्वा­दि­भा­व­प्राप्तौ ‘अष्टौ वसव एकादश रुद्रा द्वादशादित्याः’ इत्या­दि­श्रु­ति­प्र­सि­द्ध­व­स्वा­दि­सं­ख्याऽ­ति­रे­क­प्र­स­ङ्गाच्च । उपास्यानां वस्वादीनां याव­द­धि­का­र­म­व­स्थाय परावृत्तौ पुनश्च वस्व­न्त­रा­दि­सृ­ष्टि­काले पूर्वं वस्वा­द्यु­प­जी­व्या­दि­त्य­म­ण्ड­ल­ग­त­रो­हि­ता­दि­रू­पा­त्म­का­मृ­तो­पा­स­ना­कृ­तोऽपि तेषु तेष्वन्यतमभावं प्राप्नु­व­न्ती­त्येव तदर्थः पर्यवस्यतीति वसु­रु­द्रा­द्दि­त्य­म­रु­त्सा­ध्य­ग­णा­ना­मपि नित्यत्वं न युज्यते । एवञ्चान्येषामपि देवानां प्रसि­द्धा­प्र­सि­द्धानां नित्यत्वं न युज्यत इति कैमुतिकन्यायेन सिद्ध्यति । अत एव वेदेषु वेदान्तेषु इतिहासपुराणेषु च इन्द्रादीनां सर्वेषामपि देवानां सृष्टिप्रलयौ वर्ण्येते इति ।

अत्रेदमुत्तरम् – यष्टृ­य­ष्ट­व्य­भा­वस्तु नेन्द्रा­दि­भे­द­सा­धकः । देवै­र­प्य­नु­ष्ठि­तानि कर्माणि मनु­ष्यै­र­नु­ष्ठे­या­नीति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थं कल्पितो हि सर्वत्र ‘देवा वै सत्रमासत’ इत्या­द्य­र्थ­वा­द­जाते कर्मा­नु­ष्ठा­तृ­भावः ; वस्तुतो देवानां कर्मा­धि­का­रा­भा­वेन बाधित्वात् । तथा च यष्टव्या इन्द्रादयोऽपि ज्यैष्ठ्या­दि­फ­ल­मे­ता­भि­रि­ष्टिभिः प्राप्नुवन् , अन्यै­स्त­त्प्रा­प्त्य­र्थ­म­नु­ष्ठेया एता इति किमु वक्त­व्य­मि­त्ये­वं­वि­धे­नापि कैमुतिकन्यायेन प्रशंसार्थं यष्टृ­य­ष्ट­व्य­भा­वोऽपि कल्पित एव स्यात् । श्रूयते हि बृहदारण्यके साक्षा­द्ब्र­ह्मापि ब्रह्मविद्ययैव ब्रह्मभावं प्रापत् , अन्यै­र्दे­व­र्षि­म­नु­ष्या­दि­भि­र्ब्र­ह्म­भा­व­प्रा­प्त्यर्थं ब्रह्म­वि­द्याऽ­वा­प्त­व्येति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशं­सा­र्थ­म­र्थ­वादः ‘तदाहुः यद्ब्र­ह्म­वि­द्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्र­ह्मा­वे­द्य­स्मा­त्त­त्स­र्व­म­भ­वत्’ इति । ‘ब्रह्म वा इदमग्र आसी­त्त­दा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मीति तस्मा­त्त­त्स­र्व­म­भ­वत्’ इति , तथैव ‘इन्द्रो वा अकामयत’ इत्या­द­योऽ­प्य­र्थ­वादाः स्युः । तथा सति हि यष्टृ­प­रे­न्द्रा­दि­प­दानां भवि­ष्य­दि­न्द्रा­दि­भा­वेषु लक्षणा परिहृता भवति । अवश्यञ्च रोहि­णी­श्र­व­णा­र्द्रा­न­क्ष­त्रे­ष्टि­वि­ध्य­र्थ­वा­दे­ष्वे­व­मे­वो­प­पा­द­नी­यम् । तैर्हि ब्रह्म­वि­ष्णु­रुद्राः सर्व­क­ल्पा­नु­या­यिनः कल्पान्तरे ब्रह्म­वि­ष्णु­रु­द्रा­न्त­रा­भा­वे­ना­भे­देऽपि यष्टृ­य­ष्ट­व्य­भावं नीताः । ये तु ब्रह्म­वि­ष्णु­रु­द्रा­न­प्य­धि­का­रि­जी­व­वि­शे­ष­तया प्रतिकल्पं भिन्ना­न्म­न्यन्ते , तैर­प्य­भि­जि­न्न­क्ष­त्रे­ष्ट्य­र्थ­वादे इत्थमुपपादनीयम् । तेन हि साक्षात्परं ब्रह्मैव यष्टृ­य­ष्ट­व्य­भावं नीतम् ।

अस्तु वेन्द्रादीनां नक्ष­त्रे­ष्टि­ष्व­क­ल्पितो यष्टृयष्टयभावः । स त्विन्द्रा­दि­भे­दा­भा­वेऽ­प्यु­प­प­द्यत एव । न हि नक्षत्रेष्टिषु केवला इन्द्रादयो यष्टव्याः , किन्तु ज्येष्टादीनि नक्षत्राण्यपि । तथा­चे­न्द्रा­दिभिः स्वस्वा­सा­धा­र­ण­मे­का­द­श­क­पा­लादि द्रव्यं यागे ज्येष्ठा­न­क्ष­त्रा­दि­सा­धा­रणं कृतमिति निर्वोढुं शक्यत्वान्न तत्र यष्टृ­य­ष्ट­व्य­भा­वेन भेद­सि­द्धि­श­ङ्का­व­काशः । मधु­वि­द्या­या­मु­पा­स­कस्य वस्वा­दि­भा­व­श्र­वणं तु वस्वा­दि­प­द­प्रा­प्ति­पू­र्वकं तत्त­द्भो­ग­सा­म्य­प­र­मु­प­प­द्यते ‘अस्माकं भ्रातॄणां मध्ये त्वमेकः’ इति लौकिकवचनवत् । अन्य­थाऽ­ष्टा­धि­क­सं­ख्ये­षू­पा­स­केषु युग­प­दु­पा­स­ना­फ­ल­प्रा­प्त्य­र्थ­मु­प­स्थि­तेषु सर्वेषां वस्वा­दि­भा­व­प्राप्त्या तत्सं­ख्याऽ­ति­रेकः स्यात् । दृष्टञ्च ‘वैष्णवं वामनमालभेत स्पर्धमानः’ इति विधिशेषस्य ‘विष्णुरेव भूत्वेमान् लोकानभिजयति’ इत्यर्थवादस्य जेतृत्वे विष्णु­सा­म्य­मा­त्र­प­र­त्वम् । इन्द्रादीनां प्रतिकल्पं पूर्व­दे­हो­प­सं­हा­र­दे­हा­न्त­र­सृष्टी स्तः पुण्ड­री­का­क्ष­स्येव । ‘धर्म­सं­स्था­प­ना­र्थाय सम्भवामि युगे युगे’(भ.गी.४.८) इत्या­दि­स्मृ­ति­प्र­सिद्धौ पूर्व­दे­हा­न्त­र्द्धा­न­दे­हा­न्त­र­प­रि­ग्र­हा­विति स एव देव­सृ­ष्टि­प्र­ल­य­वा­क्यानां विषयः ।

एवञ्च ‘सूर्या­च­न्द्र­मसौ धाता यथा­पू­र्व­म­क­ल्प­यत्’(महानारा.५.७) इत्या­दि­श्रु­ती­ना­म­प्या­ञ्जस्यं लभ्यते । यथा राष्ट्रक्षोभे या दग्धगृहाः प्रजाः , ता एव पुन­र्गृ­हा­न्त­र­नि­र्मा­णेन राजा कल्पयति , एवं याः सूर्या­च­न्द्र­म­स­द्यु­पृ­थि­वी­प्र­भृ­तयो देवताः प्रल­ये­नो­प­सं­हृ­त­दे­हास्ता एव सर्गादौ पुन­र्दे­हा­न्त­र­नि­र्मा­णेन प्रजानां पतिरकल्पयदिति हि तदर्थः प्रतीयते । न चैवमपि देव­म­नु­ष्या­दि­श­ब्दा­ना­मि­वे­न्द्रा­दि­श­ब्दानां देह­वि­शि­ष्टा­त्म­वा­च­क­त्वस्य वक्त­व्य­त्वा­दे­क­स्ये­न्द्रादेः प्रतिमन्वन्तरं भिन्नानां बहूनां देहानां तत्त­न्मा­त्रा­नु­ग­त­जा­त्य­व­च्छि­न्न­त्वा­भा­व­दे­कै­क­दे­ह­वि­शिष्ट एवेन्द्रादौ पृथ­क्पृ­थ­क्स­ङ्के­तोऽ­ङ्गी­क­र्तव्य इति पुनरपि शब्द­वि­रो­ध­स्त­द­वस्थ इति वाच्यम् । इन्द्रा­दि­श­ब्दानां वज्रायुधादीनीव विग्रहानपि विहाय आत्म­वा­च­क­त्वो­प­पत्तेः । विष्ण्वा­दि­श­ब्दानां पर­स्प­र­वि­ल­क्ष­ण­म­त्स्या­दि­मू­र्ती­र­प­हाय व्यूहा­व­ता­रा­दि­स­क­ल­मू­र्त्य­नु­स्यू­त­प­र­मा­त्म­मा­त्र­वा­च­क­त्व­द­र्श­नात् । तस्मा­न्नि­त्य­सं­सा­रि­वा­दि­मते संसा­रि­त्व­व­न्नि­त्य­त्वे­ना­न­पा­यिन इन्द्र­त्वा­दे­र्वि­द्य­याऽ­पा­सि­तु­म­श­क्य­त्वा­दि­न्द्र­च­न्द्रा­दि­प­दानां सातिशयत्वं साति­श­य­मु­क्ति­वा­दि­मते मुक्ताविव संसार एव सोढव्यम् । तथा प्रल­य­म­न्व­न्त­रा­द्य­खि­ल­म­पीति देवानां मुक्तेः साधयितुमशक्यतया तत्सा­ध­न­सा­म­र्थ्या­भा­वात् , तदु­प­यो­गि­श्र­व­णा­दि­प्र­वृ­त्ति­क­रा­र्थि­त्वा­स­म्भ­वाच्च न मुक्ति­सा­ध­न­वि­द्या­र्थेषु श्रव­ण­म­न­न­नि­दि­ध्या­स­न­स­गु­णो­पा­स­ने­ष्व­धि­कार इति ।

नेय­मा­श­ङ्काऽ­व­काशं लभते , ‘एत इति वै प्रजा­प­ति­र्दे­वा­न­सृ­जत , असृग्रमिति मनुष्यान् , इन्दव इति पितॄन्’ ‘स भूरिति व्याहरत् स भूमिमसृजत , स भुव इति व्याहरत् सोऽन्त­रि­क्ष­म­सृ­जत’(तै.ब्रा.२.२.४.२) ‘वेदेन रूपे व्याकरोत् सतासती प्रजापतिः’ ‘सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे’ ‘नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः’(मनु.१.२१) इत्या­दि­श्रु­ति­स्मृ­ति­ग­णाभ्यां देवादिकस्य सर्वस्य जगतो वेद­श­ब्द­प्र­भ­व­त्वा­व­सा­यात् ।

ननु वेदवत् ब्रह्मप्रभवस्य जगतः कथं वेद­श­ब्द­प्र­भ­वत्वं कथञ्च ताव­ते­न्द्रा­दि­श­ब्दा­वि­रो­ध­प­रि­हार इति चेत् ; अत्राहुः – पूर्व­स्या­मि­न्द्रा­दि­व्यक्तौ विनष्टायां जगत्स्रष्टा वैदि­का­दि­न्द्रा­दि­श­ब्दा­न्म­नसि विप­रि­व­र्त­मा­ना­त्पू­र्वे­न्द्रा­द्या­का­रै­श्व­र्या­दिकं बुद्धावालिख्य तदा­का­रै­श्व­र्य­यु­क्ता­मे­वा­प­रा­मि­न्द्रा­दि­व्यक्तिं सृजति , यथा कुलालो घटा­दि­श­ब्दा­न्म­नसि विपरिवर्तमानात् प्राची­न­घ­टा­द्या­का­र­म­नु­स­न्धाय तदाकारां घटादिव्यक्तिं सृज­ती­त्य­ने­न­रू­पेण निमि­त्त­का­र­ण­भू­त­वै­दि­क­श­ब्द­प्र­भ­व­त्व­मि­हा­भि­म­तम् । तेन चेन्द्रा­दि­श­ब्दानां जाति­नि­मि­त्त­क­त्व­द्यो­त­नात् साङ्के­ति­क­त्व­श­ङ्का­मू­ल­क­श­ब्द­वि­रो­ध­प­रि­हारो लभ्यते । जाति­नि­मि­त्त­केभ्यो हि घटादिशब्देभ्य उक्तरीत्या निमि­त्त­भू­ते­भ्य­स्त­त्त­दर्थाः प्रभवन्तो दृश्यन्ते । साङ्केतिकास्तु डित्थादिशब्दाः प्रागुत्पन्नैः पित्रा­दि­भि­र्व्य­व­हा­रार्थं नामधेयापेक्षैः प्रयोज्यमानाः स्वय­मे­वा­र्थेभ्यः प्रभवन्ति । जाति­नि­मि­त्त­क­त्व­ञ्चे­न्द्रा­दि­श­ब्दानां पूर्वा­प­रे­न्द्रा­दि­ग्र­हा­नु­ग­तै­कै­क­जा­ति­स­द्भा­वा­न्म­नु­ष्य­प­शु­प­क्ष्या­दि­स­ब्द­न्या­येन , त्रिदि­व­त्वा­दि­जा­त्या­व­च्छि­न्नै­कै­क­स्था­ना­धि­प­त्य­स­द्भा­वा­न्न­र­प­त्य­मा­त्या­दि­श­ब्द­न्या­येन चोपपद्यत इति ।

अत्रे­द­मा­क्षि­प्यते – इन्द्रा­दि­श­ब्दानां उक्तरीत्या गौण­म­प्य­र्थ­सृ­ष्टि­नि­मि­त्त­त्व­म­सि­द्धम् ; अर्थ­सि­द्ध्य­र्थ­म­पे­क्षि­तस्य तदनुसन्धानस्य प्राक्त­न­त­द­नु­भ­वा­देव सम्भवेन तद्वा­च­क­श­ब्दा­न­पे­क्ष­णात् । अत एव कैश्चिदुपकरणैः किञ्चि­द­र्थ­नि­र्माणं दृष्ट्वा तद्वा­च­क­श­ब्दा­न­भिज्ञा अपि नाना­शि­ल्प­नि­पु­णा­स्तै­रु­प­क­र­णै­स्त­था­भू­त­मेव व्यक्त्यन्तरं निर्मिमाणा दृश्यन्ते । शिल्पिनां प्रति­मा­दि­नि­र्मा­णार्थं तदनुसन्धानस्य शास्त्रा­पे­क्ष­त्वेऽपि परमात्मनो जगत्सृष्ट्यर्थं जगदनुसन्धानस्य तत्सा­पे­क्ष­त्व­म­सि­द्धम् ; तस्य स्वत एव सर्वज्ञत्वात् । अत एव सास्त्र­यो­नि­त्वा­धि­क­रणे तस्य शास्त्रा­न­पे­क्ष­मेव सार्वज्ञ्यं शास्त्र­यो­नि­त्वेन साधितम् । आग­न्तु­क­सा­र्व­ज्ञ्य­श्च­तु­र्मुखो देवादीनां नामरूपस्रष्टा , न साक्षात् परमात्मा इति चेत् , न । देवादीनां नामरूपस्रष्टा परमात्मैवेति संज्ञा­मू­र्ति­क्लृ­प्त्य­धि­क­रणे निर्णीतत्वात् । अस्तु वा चतुर्मुखोऽपि, तदीयस्यापि सृज्या­नु­स­न्धा­नस्य वाच­क­श­ब्दा­पे­क्ष­त्व­म­सि­द्धम् ; ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्’ इति पूर्व­क­ल्पा­नु­ष्ठि­त­स­त्क­र्मा­धी­न­स्यापि तत्सा­र्व­ज्ञ्यस्य सहजत्वश्रव्णात् । देवादीनां वाच­क­श­ब्द­प्र­भ­व­तायां ‘एत इति वै प्रजा­प­ति­र्दे­वा­न­सृ­जत’ इत्या­दि­श्रु­त्यु­दा­ह­र­ण­म­प्य­यु­क्तम् ; ‘एते’ ‘असृग्रम्’ ‘इन्दवः’ इति पदानां देव­म­नु­ष्य­पि­तृ­वा­च­क­त्वा­भा­वात् , कथ­ञ्चि­द्यो­गा­दि­नापि तत्त­त्सृ­ष्ट्यु­प­यो­गि­त­त्त­दा­कृ­ति­वि­शे­षो­प­स्थि­ति­ज­न­क­त्वा­स­म्भ­वाच्च ।

यत्तु – एतच्छब्दो देवानां कर­णे­ष्व­नु­ग्रा­ह­क­त्वेन सन्निहितानां स्मारकः । असृग्रुधिरं ; तत्प्र­धा­न­दे­हे­र­म­मा­णानां मनुष्याणां असृग्रशब्दः । इन्दु­म­ण्ड­ल­स्थ­पि­तॄ­णा­मि­न्दु­शब्द इति , तदयुक्तम् ; कल्पादौ देवसृष्टेः पूर्वं तत्स्रष्टुः कर­णे­ष्व­धि­ष्ठा­तृ­त्वेन देवानां सन्नि­धा­ना­स­म्भ­वात् । तत्सम्भवेऽप्येत इत्येकेन सर्वनामशब्देन तत्त­द्दे­वा­सा­धा­र­णा­ग्नि­सू­र्ये­न्द्रा­दि­प­द­जा­ते­नेव तत्त­द्दे­व­जा­ती­य­व्य­क्त्य­न्त­र­सृ­ष्ट्य­नु­कू­लायाः पर­स्प­र­व्या­वृ­त्त­जा­त्य­व­च्छि­न्न­त­त्त­द्दे­वो­प­स्थि­ते­र­स­म्भ­वात् । तत्सम्भवेऽपि ‘एते असृ­ग्र­मि­न्द­व­स्तिरः पवित्रमाशवः । विश्वा­न्य­भि­सौ­भग’ इत्य­स्मि­न्मन्त्रे लता­रू­प­सो­म­दे­व­त्य­ब­हि­ष्प­व­मा­न­स्तो­त्र­वि­नि­युक्ते ‘छन्दांसि वै सोममाहरंस्तं गन्धर्वो विश्वावसुः पर्य­मु­ष्णा­त्ते­नापः प्राविशत् । तं देवता अन्वैच्छन् । तं विष्णुरप्सु पर्यपश्यत् । स ह्यकाङ्क्षादयं नु नाप्य इति । तं पुरा प्रास्फु­र­त्त­स्मात् पृथ­गि­न्द­वोऽ­सृ­ज्यन्त । स देव­ता­भ्योऽ­भि­त­स्ति­ष्ठ­न्तीभ्यः एते असृग्रमिन्दव इति प्राब्रवीत् । बहिष्पवमानेन वै यज्ञः सृज्यते । यदेते असृग्रमिन्दव इति प्रस्तौति । यज्ञमेव तत्सृष्टं देवेभ्यः प्राहेति । एत इति वै प्रजा­प­ति­र्दे­वा­न­सृ­जत’ इत्या­द्य­र्थ­वा­दा­न­न्त­र­श्रु­त­वि­नि­यो­गा­नु­रो­ध्य­र्थ­वा­दा­नु­सा­रेण , वेद­भा­ष्य­का­रा­दि­कृ­त­व्या­ख्या­ना­नु­सा­रेण च ‘एते इन्दवस्सोमाः, तिरःपवित्रं तिर्यग्भूतं दशापवित्रं प्रति , आशवः शीघ्रगामिनः , विश्वानि सौभगा सर्वाणि सौभाग्यानि अभि उद्दिश्य , असृग्रं असृज्यन्त’ इत्येवमर्थके श्रुतस्यैत इत्य­स्ये­न्दु­श­ब्दो­क्त­सो­म­वि­शे­ष­ण­तया कर­णा­धि­ष्टा­तृ­दे­व­प­रा­म­र्शि­त्वा­स­म्भ­वात् ।

विनि­यो­गा­नु­सा­र्य­र्थ­वा­द­वि­रो­धिनः ‘एते इति वै प्रजा­प­ति­र्दे­वा­न­सृ­जत’ इत्यर्थवादस्य ‘नृमेधश्च परुच्छेपश्च ब्रह्म­वा­द्य­म­व­दे­ताम्’ इत्या­द्य­र्थ­वा­दस्य अग्नि­सृ­ष्टि­सा­म­र्थ्या­धा­न­व­र्ण­नेन ‘एते असृग्रमिन्दवः’ इति मन्त्रस्तुतौ तात्प­र्यो­प­पत्तेः । अस्यार्थवादस्य प्रथमश्रुतत्वेन बल­व­त्त्वो­क्ता­व­तोऽपि प्रथमश्रुतेन ‘एते असृग्रमिन्दव इति बहुभ्यः प्रतिपदं कुर्यात्’ इति बहु­य­ज­मा­न­क­क्र­तु­ग­त­ब­हि­ष्प­व­मा­न­स्तोत्रे उदाहृतमन्त्रस्य विनियोगविधेः शेषेण ‘एते इति सर्वा­ने­वै­ना­नृध्यै भूत्या अभिवदति’ इत्यर्थवादेन ‘एते’ इत्यस्य यजमानपरत्वस्य वक्तव्यतया कर­णा­धि­ष्ठा­तृ­दे­व­प­रा­म­र्शि­त्व­स्या­नु­प­पत्तेः , अर्थ­वा­द­द्व­य­मध्ये श्रुत­स्या­प्य­स्यैव बलवत्त्वेऽपि ‘यदेत इति तस्माद्यावन्त एवाग्र देवास्तावन्त इदानीम्’ इत्यस्यैव शेष­भू­ते­ना­न­न्त­र­श्रु­ता­र्थ­वा­देन ‘एते’ इत्य­स्या­ती­त­व­र्त­मा­न­क­ल्प­यो­रष्टौ वसव एकादश रुद्रा इत्या­दि­द­व­ग­ण­सं­ख्या­सा­म्य­प­र­तया व्याख्यातत्वेन तत्त­द­सा­धा­र­ण­जा­त्य­व­च्छि­न्न­क­र­णा­धि­ष्ठा­तृ­दे­व­प­रा­म­र्शि­त्वोक्तेः कथ­म­प्य­व­का­शा­भा­वाच्च । एतेन – देवा­दि­सृ­ष्टे­र्वै­दि­क­श­ब्द­प्र­भ­वत्वे ‘स भूरिति व्याहरत्’ इत्या­दि­श्रु­ति­स्मृ­त्यु­दा­ह­र­ण­मपि निरस्तम् ; जगत्स्रष्टुः सह­ज­सा­र्व­ज्ञ्या­धी­नाया देवा­दि­सृ­ष्टे­र्वै­दि­क­शब्दाः’ इत्यनेन रूपेण वेद­स्तु­ति­प­र­त्व­स्यैव वक्तव्यत्वात् । पूर्वो­त्त­रे­न्द्रा­द्य­नु­ग­त­जा­त्यु­पा­धि­प्र­द­र्श­नेन शब्द­वि­रो­ध­प­रि­हा­रा­वि­व­क्षायां च तदेव सूत्रे साक्षा­त्प्र­द­र्श­नी­यम् , न तु तदु­प­पा­द­क­त्वे­ना­भि­मतं दुरुपपादं च इन्द्रादीनां वेद­श­ब्द­प्र­भ­व­त्वम् । तत्र श्रुति­स्मृ­ति­दि­द­र्श­यि­षायां च ‘श्रुति­स्मृ­ति­भ्याम्’ इत्येव सूत्रणीयम् , न ‘प्रत्य­क्षा­नु­मा­ना­भ्याम्’ इति ; अस्फु­टा­र्थ­त्वात् , गुरुत्वाच्च । तस्मात् सर्व­मि­द­म­स­म­ञ्ज­स­मिव भाति ।

अत्र ब्रूमः –
सृष्टिषु त्रिदशादीनां सरसीरुहभूरपि ।
कर्तैव कलशादीनां कुलाल इव सृष्टिषु ॥
अत एव तपस्तस्य सृष्टि­सा­म­र्थ्य­सि­द्धये ।
इतिहासपुराणेषु प्रपञ्चेन प्रदर्शितम् ॥
सृष्ट्वा समादिशत्तस्मै वेदानीश इतीरितम् ।
‘यो ब्रह्माणम्’ इति श्रुत्या यत्तस्यायं किलाशयः ॥
शिल्पी यथा शिल्प­शा­स्त्र­व­च­नेभ्यो मरुत्वताम् ।
विज्ञाय नामरूपाणि निर्माति प्रतिमादिकम् ॥
तथैव त्रिदशादीनां नामरूपाणि सर्वशः ।
विज्ञाय वेदशब्देभ्यो विश्वं वेधास्सृजत्विति ॥
एवं च लब्धं सार्वज्ञ्यं जातमात्रेण वेदतः ।
सहजं तेन तत्सृष्टा देवा­स्स्यु­र्वे­द­श­ब्दजाः ॥
यद्य­पी­न्द्र­स्स­ह­स्राक्ष इत्यादेरेव वैदिकात् ।
नैते असृ­ग्र­मि­त्या­दे­श्श­ब्दा­दि­न्द्रा­दि­स­म्भवः ॥
देव­स­ङ्ख्या­क्लृ­प्ति­रपि पूर्व­क­ल्पा­नु­व­र्तिनी ।
अष्टौ वसव इत्या­दे­र्नै­त­स्मा­देत इत्यतः ॥
तथापि महिमाऽन्यस्या वैदिक्याः पदसंहतेः ।
प्रत्या­स­त्त्यो­प­चा­रेण स्तुतयेऽन्यत्र वर्ण्यते ॥
कल्प­वृ­क्ष­व­ल­क्षां­शु­ल­क्ष्मी­प्र­भ­व­ता­दिकः ।
कल­शा­ब्ध्या­दि­म­हिमा लवणाम्बुनिधाविव ॥
समु­द्र­म­थ­नो­द्भू­त­श्शि­व­भू­ष­ण­ता­त्मकः ।
कलाधर्म इव व्योम्नि चरिष्णौ चन्द्रमण्डले ॥
सर्गा­द्य­का­ल­जै­कै­क­वि­प्रा­दि­व्य­क्ति­मा­त्र­गम् ।
मुख­बा­हू­रु­प­ज्जत्वं वर्णे­ष्व­द्य­त­ने­ष्विव ॥
एत इत्यादिशब्दानां देव­सं­ख्या­द्य­वा­चिनां ।
ताद­र्थ्यो­क्तिस्तु नेतव्या स्वपि­त्या­दि­नि­रु­क्ति­वत् ॥
भाष्यं तु वेदा­द्दे­वा­दि­प्र­भ­वोऽस्ति श्रुतीरितः ।
इत्येतल्लकतया साऽपि श्रुतिरुदाहृता ॥
पूर्वा­प­रे­न्द्रा­दि­ग­त­जा­ती­ना­मेव सिद्धये ।
वेदशब्दप्रभवतां देवा­दी­ना­म­सू­त्र­यत् ॥
नाम­रू­पा­ण्य­नु­स्मृत्य सृष्टानां हि घटादिवत् ।
समानमामरूपत्वं देवादीनां प्रसिद्ध्यति ॥
प्रसिद्ध्यन्ति ततस्तेषां नाम्नां व्यक्तिषु हेतवः ।
समा­ना­कृ­त्य­भि­व्यंग्या वासवत्वादिजातयः ॥
साक्षात्तु जातिवाचित्वं हेतूकर्तुं ब्न शक्यते ।
असिद्धं तद्धि शंक्येत परा­सं­प्र­ति­प­त्तितः ॥
समाननामरूपत्वं हेतूकर्तुं न शक्यते ।
तत्रापि हेतु­र­त्रो­क्त­स्सोऽ­प्यग्रे दर्शयिष्यते ॥
इन्द्रा­दि­दे­व­भा­वस्य कर्म­प्र­भ­व­ताऽऽ­त्म­कम् ।
अर्थान्तरमपि क्रोडी­क­र्तु­ञ्चे­त्थ­म­सू­त्र­यत् ॥
समाननामाकृतयो बहवस्सन्तु विग्रहाः ।
देवत्वं त्वन­पा­य्य­स्त्वि­त्या­शङ्का तेन वार्यते ॥
कर्मजत्वेऽपि देवानां यौगपद्येऽपि कर्मणां ।
अष्टौ वसव इत्यादिसंख्याया न भवेत् क्षतिः ॥
संख्या­श्रु­ति­ब­लात् कर्मविपाके कल्प्यते क्रमः ।
यौग­प­द्य­मि­वै­त­स्मिन् प्रल­यो­त्पा­त­व­र्ण­नात् ॥
यत्प्र­त्य­क्षा­नु­मा­ना­भ्या­मि­त्य­सू­त्र­य­द­स्फु­टम् ।
तदप्यर्थान्तरं तेन क्रोडीकर्तुं न तद्वृधा ॥
प्रत्यक्षं प्रति­मा­स्वे­त­च्छ­ब्दात् प्रभवतीति यत् ।
अनुमेयं विरिञ्चेन सृष्टेषु सुमनस्स्विति ॥
अयमत्र परिहारार्थः – यद्यपि संज्ञा­मू­र्ति­क्लृ­प्त्य­धि­क­रणे नामरूपव्याकरणं पर­मे­श्व­र­क­र्तृ­क­मिति निर्णीतम् , तथाऽपि घटादिसृष्टिषु कुला­ला­दि­व­द्दे­वा­दि­सृ­ष्टिषु चतुर्मुखोऽपि कर्तैव ; इतिहासपुराणेषु तस्य सृष्टि­सा­म­र्थ्य­सि­द्धये तपश्चरणस्य तल्ल­ब्ध­सा­म­र्थ्येन देवा­दि­स्र­ष्टृ­त्वस्य च वर्णनात् । ‘तं ह देव­मा­त्म­बु­द्धि­प्र­काशं मुमुक्षुर्हवै शरणमहं प्रपद्ये’(श्वे.उ.६.१८) इति श्वेता­श्व­त­रो­प­नि­ष­न्मन्त्रे श्रूयते । तत्र जग­त्सृ­ष्ट्य­धि­का­रि­तया सृष्टाय प्रथमं वेदो­प­दे­ष्टु­रि­त्थ­मा­शयो वर्णनीयः – यथेदानीं शिल्पी शिल्प­शा­स्त्र­व­च­नेभ्यो देवादीनां नामरूपाणि विज्ञाय प्रतिमादिकं निर्माति , एव­ञ्च­तु­र्मु­खोऽपि वेदा­दि­व­च­ने­भ्य­स्त­न्ना­म­रू­पाणि विज्ञाय देवादिकं सर्वं जगत्सृजतु इति । तस्य पर­मे­श्र­वो­प­दि­ष्ट­वे­द­लब्धं सार्वज्ञ्यं जातमात्रेण लब्धत्वात् सहजसिद्धमिति पौराणिकैर्गीयते । ततश्च वेद­ल­ब्ध­सृ­ष्ट्यु­प­यो­गि­ना­म­रू­प­वि­ज्ञा­नेन तेन सृष्टा देवा वेदशब्दप्रभवा इति युक्तमेव । यद्यपि इन्द्रादिनामानि सह­स्रा­क्ष­त्वा­दि­रू­प­प्र­ति­पा­द­क­प­दानि च येषु वेदवाक्येषु सन्ति , तेभ्य एवेन्द्रादीनां तत्त­न्ना­म­रू­प­वि­शि­ष्टानां प्रभवः , न तु ‘एते असृग्रमिन्दवः’ इत्यादिपदसंहतेः ; यद्यपि (च) ‘अष्टौ वसवः’ इत्या­दि­श्रु­त्य­न्त­रा­देव देव­सं­ख्या­क्लृ­प्ते­ना­त्र­त्या­दि­न्दु­वि­शे­ष­णात् ‘एत’ इति पदात् , तथाप्यन्येषामपि वैदिकपदानां महिमा वैदि­क­त्व­सा­मा­न्येन तत्स­न्नि­कृ­ष्टे­ष्व­न्ये­षू­प­चा­रेण स्तुत­येऽ­र्थ­वा­देषु वर्ण्यते ; काव्येषु यथा कल्प­वृ­क्ष­प्र­भ­व­त्वादिः क्षीरसमुद्रस्य महिमा समु­द्र­त्व­सा­मा­न्या­ल्ल­व­ण­स­मुद्रे वर्ण्यते , समु­द्र­म­थ­न­प्र­भ­व­त्वादिः कला­ध­र्म­श्च­न्द्र­त्व­सा­मा­न्यात् प्रसिद्धे चन्द्रमण्डले वर्ण्यते , मुख­ज­त्व­बा­हु­ज­त्वादिः सर्गा­द्य­का­ल­प्र­भ­वै­क­व्य­क्ति­ध­र्मोऽ­द्य­त­ने­ष्वपि ब्राह्म­ण­क्ष­त्रि­या­दिषु वर्ण्यते ।

यत्तु ‘एते असृग्रमिन्दवः’ इति मन्त्रा­म्ना­ता­ना­मेत इत्या­दि­प­दा­ना­म­र्थ­वा­देषु देव­सं­ख्या­दि­वा­चि­त्व­व­र्णनं तत् ‘स्वपिति’ इत्या­दि­नि­रु­क्ति­व­द्य­था­क­थ­ञ्चित् तत्त­त्प­द­श­क्ति­सं­पा­द­नेन स्तुत्यर्थमिति नेतव्यम् । श्रूयते हि ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपि­ती­त्या­च­क्षते स्वं ह्यपीतो भवति’(छा.६.८.१) ‘यत्रै­त­त्पु­रु­षोऽ­शि­शि­षति नाम आप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षते अशनाया’(छा.६.८.३) इत्यादि । न हि स्वश­ब्द­प्रा­ति­प­दि­का­प्यु­प­सृ­ष्टै­ति­धा­त्व­न्त­र­रू­पा­व­य­व­द्व­य­घ­टि­तः­स्व­पि­ति­शब्दः ; न वा बुभुक्षायां निपा­ति­तोऽ­श­ना­या­शब्दो गोनायादिशब्दवत् कर्मो­प­प­दा­न्न­य­ते­र­णन्तः ; तथा­प्य­क्ष­र­सा­म्य­मा­त्रेण तत्र यथाऽर्थवादेषु तत्त­द­र्थ­व­र्ण­न­मे­व­मि­हापि नेतव्यम् । यत्तु भाष्य देवानां वेद­श­ब्द­प्र­भ­व­तायां ‘एत इति वै प्रजा­प­ति­र्दे­वा­न­सृ­जत’ इत्या­दे­र­वि­व­क्षि­त­स्वा­र्थ­स्या­र्थ­वा­दस्य प्रमाणतया प्रदर्शनं तदस्मिन्नर्थे श्रुतयः सन्तीति श्रुत्य­न्त­रो­प­ल­क्ष­क­तया , न तु स एवार्थवादस्तत्र प्रमा­ण­मि­त्या­श­येन । अत एव ‘स भूरिति व्याहरत्’ इत्यादीनि श्रुत्य­न्त­रा­ण्यपि भाष्ये प्रदर्शितानि । यदुक्तम् – शब्द­वि­रो­ध­प­रि­हा­रा­र्थ­मि­न्द्रा­दि­श­ब्दा­ना­मि­न्द्र­त्वा­दि­जा­ति­वा­चित्वे , तत्त­त्प­द­वि­शे­षा­धि­प­त्य­रू­पो­पा­धि­वा­चित्वे वा हेतूकर्त्तव्ये किमर्थं सूत्रे देवानां शब्द­प्र­भ­व­त्व­व­र्ण­नम् ? इति ; तत्रेदमुत्तरम् – जातिवाचित्वं पूर्वो­त्त­रे­न्द्रा­दि­ग­त­जा­ति­सि­द्धि­सा­पे­क्षम् , उपाधिवाचित्वं तद्घ­ट­क­पू­र्वो­त्त­रे­न्द्रा­दि­प­द­ग­त­जा­ति­सि­द्धि­सा­पे­क्ष­मिति तासामेव जातीनां सिद्धये देवादीनां तत्त­त्प­द­वि­शे­षाणां च वेदो­प­व­र्णि­त­त­त्त­न्ना­म­रू­पा­नु­स­न्धा­न­पू­र्वकं प्रजापतिना सृष्टत्वं सूत्रे वर्णितम् । तेन हि पूर्वो­त्त­रे­न्द्रा­दिषु , तत्पदादिषु च घटादिष्विव नाम्ना­मा­कृ­ती­नाञ्च समानत्वं सिद्ध्यतीति तेषां नाम्नां साक्षा­दि­न्द्रा­दिषु प्रवृ­त्ति­नि­मि­त्त­भू­त­ता­दृ­शो­पा­धि­स­ङ्घ­ट­न­स­म­र्थाश्च समा­ना­कृ­त्य­भि­व्यङ्ग्या इन्द्रा­दि­ग­ता­स्त­त्प­द­वि­शे­ष­ग­ताश्च जातयः सिद्ध्यन्ति । साक्षा­ज्जा­ति­वा­चि­त्वस्य हेतूकरणे त्विन्द्र­त्वा­दि­जा­तीनां पूर्व­प­क्ष्य­स­म्म­त­त्वा­द­सि­द्धि­शङ्का स्यात् । यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूत्रयितुं शक्यम् , तस्यो­दा­ह­रि­ष्य­मा­ण­श्रु­ति­स्मृ­ति­सि­द्ध­त्वात् , तथापि तद्धे­तु­र्दा­ढ्र्यार्थं तस्याप्युपपादकं देवानां शब्दप्रभवत्वं सूत्रितम् । सोऽपि हेतु: ‘समा­न­ना­म­रू­प­त्वात्’(ब्र. सू. १. ३. ३०) इति सूत्रे दर्शयिष्यते ।

अपिच देव­त्वे­न्द्र­त्वा­दीनां कर्मा­धी­न­त्व­रू­प­म­र्था­न्तरं गर्भीकर्तुमपि ‘अतः प्रभवात्’ इति सूत्रितम् । अस्मिन्नर्थे ‘अत’ इत्यनेन पूर्व­सू­त्र­प्र­कृ­त­क­र्म­प­रा­मर्शः । प्रभवः प्रादुर्भावः कर्म­ज­न्ये­ष्वि­न्द्रा­दि­वि­ग्र­हेषु देव­त्वे­न्द्र­त्वा­दि­जा­ति­वि­शे­षा­णा­म­भि­व्यक्तिः । प्रसिद्धं हि देवत्वादीनां कर्माधीनत्वम् । तथा हि – छन्दोगब्राह्मणे तावत् ‘अतिरात्रः पृष्ट्यषडहो महाव्रतं पृष्ट्य­ष­ड­ह­स्त्र­य­य­स्त्रिं­शा­रं­भ­णोऽ­ति­रात्रः एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति’ इति देवत्वस्य कर्माधीनत्वं श्रूयते । बृह­दा­र­ण्य­को­प­नि­षदि च ‘तद्यथा पेशस्कारी पेशसो मात्रा­मु­पा­दा­यान्यं नवतरं कल्याणतरं रूपं कुरुते, एवमेवायमात्मेदं शरीरं निह­त्या­वि­द्या­ग­म­यि­त्वाऽ­न्य­न्न­व­तरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम्’(बृ. ४. ४. ४) इति कर्म­णा­मै­हि­क­श­री­र­त्या­गा­न­न्तरं पितृ­ग­न्ध­र्व­दे­वा­दि­रू­प­प्रा­प्ति­प्र­ति­पा­द­नेन देवत्वादीनां कर्म­वि­शे­षा­धी­नत्वं ख्याप्यते । इतिहासपुराणेषु चन्द्रादिभावस्य शता­श्व­मे­धा­दि­प्रा­प्य­त्व­मु­प­व­र्ण्यते । नहु­ष­च­रि­त­प­ञ्चे­न्द्रो­पा­ख्या­ना­दि­ष्वि­न्द्रा­दि­भा­व­स्या­प्रा­प्तस्य प्राप्तेः प्राप्तस्य निवृत्तेश्च प्रतिपादनेन तत्त­त्क­र्मा­धी­नत्वं ज्ञाप्यते ।

एवं देवत्वादीनां श्रुत्या­दि­प्र­सि­द्ध­क­र्मा­धी­न­त्व­सू­त्र­णे­नेयं शङ्का व्यावर्त्यते सन्तु नामेन्द्रादीनां प्रतिकल्पं नवनवा विग्र­हा­स्स­मा­ना­कृ­तयः, तथापि तेषां देव­त्वे­न्द्र­त्वा­दिकं नित्य­म­न­पा­य्यस्तु , इति । इत्थं च तद्व्यावर्तनम् – देवत्वादीनां तावत् कर्माधीनत्वं श्रुतिस्मृतिषु प्रसिद्धं , तत्तु श्रुति­स्मृ­ति­स्वा­र­स्येन तथैवाङ्गीकर्तुं युक्तम् , इन्द्रा­दि­श­ब्दा­ना­मु­क्त­रीत्या जाति­वा­चि­त्व­स­म­र्थ­नेन शब्दविरोधस्य परिहृततया तत्प­रि­हा­रा­र्थ­मि­न्द्र­त्वा­दि­नि­त्य­त्व­स्या­स­म­र्थ­नी­य­त्वेन तद­न्य­था­न­य­न­क्ले­शा­यो­गात् इति । देवानां कर्मजत्वेऽपि तत्क­र्मा­नु­ष्ठा­तॄ­णा­मा­न­न्येऽपि तेषां कर्मणां यौगपद्यसंभवेऽपि न वस्वा­दि­सं­ख्या­नि­य­म­भङ्गः प्रसज्यते । यतो वस्वा­दि­सं­ख्या­श्रु­ति­ब­लेन तेषां कर्मणां विपाकक्रमः कल्प्यते प्रलयश्रुतिबलेन भिन्नकालजानामपि सर्व­प्रा­णि­ग­त­दे­हा­दि­वि­यो­ज­क­क­र्मणां विपाकयौगपद्यवत् , उत्पा­त­श्रु­ति­ब­लेन शिथि­लि­नी­श­ल­भा­द्यु­द्ग­म­हे­तु­त­दी­य­क­र्मणां विपा­क­यौ­ग­प­द्य­वच्च ।

यत्तु – ‘श्रुति­स्मृ­ति­भ्याम्’ इति स्फुटार्थे लघुनि सूत्रे कर्तव्ये किमर्थं ‘प्रत्य­क्षा­नु­मा­ना­भ्याम्’ इति सूत्रितमिति चोद्यम् ; तत्रेदमुत्तरम् – तेनाप्यर्थातरं क्रोडीकर्तुं तथा सूत्रितमिति न तद्वैयर्थम् । अर्थान्तरं च देवादीनां शब्दप्रभवत्वे श्रुति­स्मृ­त्य­नु­ग्रा­ह­क­यु­क्ति­रू­पम् । यद्धि शास्त्रा­व­ग­म्य­रू­प­वि­शेष वस्त्वन्येन निर्मीयमाणं दृष्ट्वा केन­चि­द्बु­द्धि­पू­र्वकं निर्मीयते तच्छा­स्त्र­ज­न्य­त­न्ना­म­रू­पा­व­ग­त्यै­वेति शिल्प­शा­स्त्र­ज्ञेन निर्मीयमाणेषु प्रतिमादिषु सर्वसंवेद्यमेव तत् । तमेव प्रतिमादिषु गृहीतं नियममवलंब्य सर्गादौ विरिञ्चेन सृष्टेषु देवादिषु अनुमीयते इति । तस्मात् सर्वं समंजसमेव । एवं देवानां ब्रह्म­वि­द्या­र्थ­श्र­व­णा­द्या­धि­का­र­म­भ्यु­प­ग­च्छतः सूत्रकारस्य मते इन्द्रा­दी­ना­मे­कै­क­व्य­क्ति­ता­ङ्गी­कारे तन्मु­क्त्य­न­न्तरं यष्ट­व्ये­न्द्रा­द्य­भा­वात् कर्मणि विरोधः स्यात् । अने­क­व्य­क्ति­त्वा­ङ्गी­कारे तेषा­मि­न्द्रा­दि­प­देषु क्रमे­णा­ग­च्छ­ता­म­मा­त्य­से­ना­प­त्या­दि­प­दे­ष्वा­ग­च्छ­ता­मि­वा­नु­ग­ता­न­ति­प्र­स­क्ते­न्द्रा­दि­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­त्व­यो­ग्य­जा­ति­मत्त्वे प्रमा­णा­भा­वा­त्तेषु शक्ति­ग्र­हा­स­म्भ­वे­ने­न्द्रा­दि­शब्दे विरोधः स्यादिति शङ्का­प­रि­हा­रा­र्थ­तया ‘विरोधः कर्मणीति चेत्’ इत्या­दि­सू­त्र­द्व­यस्य भाष्या­भि­प्रे­त­यो­जना दर्शिता ।

अथ देवतानां विग्रहाङ्कीकारे कर्मणि , शब्दे च विरोधः स्यादिति शङ्का­प­रि­हा­रा­र्थ­तया सूत्रद्वयस्य योजनां भाष्ये कण्ठतः प्रद­र्शि­ता­मु­प­न्य­स्यामः । देवतानां विग्रहाभ्युपगमे यागादिकर्मणि सन्निधानेन भाव्यम् ; विग्र­ह­व­तोऽ­ङ्गस्य ऋत्विगादिवत् सन्निधाय ऋतू­प­का­र­क­त्व­नि­य­मात् । न च तासां यागादिदेशे सन्नि­धा­न­म­ङ्गी­कर्तुं शक्यम् ; युगपत् प्रवृ­त्ता­ने­क­या­ग­दे­श­ग­म­ना­स­म्भ­वात् , प्रत्य­क्ष­बा­धि­त­त्वाच्च ; इत्याद्यसूत्रे शङ्का । देवतानां योगिनामिव युग­प­द­ने­क­दे­ह­प्राप्तेः श्रुतिस्मृतिषु दर्शनात् , साम­र्थ्य­वि­शे­षे­णा­स्म­दा­द्य­दृ­श्य­त्व­स­म्भा­वाच्च यागदेशे तासां सन्निधानं सम्भवतीति तत्परिहारः । अथवा माभूद्यागदेशे देवतासन्निधानम् । स्वस्था­न­स्थि­ता­मेव देवतामुद्दिश्य युगपद्यजमानाः स्वस्वद्रव्यं त्यक्ष्यन्ति । बहु­भि­र्न­म­स्क्रि­य­मा­ण­स्यै­कस्य ब्राह्मणस्य स्वस्था­न­स्थि­त­स्यै­वा­ने­क­क­र्तृ­क­न­म­स्का­र­क­र्मणि युग­प­द­ङ्ग­भा­व­प्र­ति­प­त्ति­द­र्श­नात् तद्व­दि­हा­प्यु­प­प­त्ति­रिति परिहारः । देवतानां विग्रहवत्त्वे जन­न­म­र­णा­व­श्य­म्भा­वेन इन्द्रा­दि­ज­न­ना­न­न्तरं तत्पि­त्रा­दि­कृ­त­मि­न्द्रा­दि­नाम डित्था­दि­ना­म­व­त्पु­रु­ष­बु­द्धि­प्र­भवं भवेदिति तत्पू­र्व­क­वा­क्या­र्थ­प्र­त्य­यस्य पुरु­ष­बु­ध्य­पे­क्षि­त­मा­ना­न्त­रा­पे­क्ष­त्वा­पत्त्या वैदिकशब्दे सापे­क्ष­त्व­ल­क्ष­णा­प्रा­मा­ण्या­प­त्ति­रूपो विरोध इति द्वितीयसूत्रे शङ्का । इन्द्रा­दि­श­ब्दानां प्रागुक्तरीत्या वेदो­प­द­र्शि­त­ना­म­रू­पा­नु­स­न्धा­न­स­ष्टे­न्द्रा­दि­वि­ग्र­ह­र­त­स­मा­ना­कृ­त्य­भि­व्यं­ग्य­जा­ति­वा­चि­त्व­स­म­र्थ­नेन तत्परिहारः ।

इदमत्र चिन्त्यते –
स्यात्कर्मणि विरो­ध­श्चे­द्दे­वानां विग्रहे सति ।
विग्रहाभावपक्षे वा कथं तत्स्यान्न दूषणम् ॥
न नियमः कथमप्युपकारके क्रतुषु विग्रहवत्यपि सन्निधेः ।

अव­नि­दा­न­मु­खै­रु­प­का­रको न खलु सन्निहितो नृपतिः क्रतौ ॥

अस्ति विग्र­ह­व­तोऽ­ङ्ग­ता­जु­षः­स­न्निधौ नियम इत्युरीकृतौ ।
व्यर्थमेव नियमे विशेषणं सर्वमङ्गमयते हि सन्निधिम् ॥
जुहू­म­द­न्त्या­दिषु किं न सन्नि­धि­र्व्य­पे­क्ष्यते विग्र­ह­व­र्जि­ते­ष्वपि ।
अतः कथ­ङ्का­र­म­वि­ग्र­हाऽपि ते न सन्नि­धा­या­ङ्ग­मि­हास्तु देवता ॥
विग्रहेण रहिताऽपि देवता नो खलु क्रतुगणेषु केनचित् ।
इन्द्र­मि­त्र­व­रु­णा­दि­श­ब्दिता सन्निधिं विदधती समीक्ष्यते ॥
अपि चापरिहार्यस्ते दोषोऽयं विग्रहं प्रतिक्षिपतः ।
विग्रहवती हि कुर्या­द्यु­ग­प­त्स­न्नि­धि­म­ने­क­का­य­ब­लात् ॥
विग्रहवती च गच्छेदङ्गत्वं देवता न सन्निहिताऽपि ।
प्रवसन्निव यजमानः कर्ता कालेषु याजमानजपस्य ॥
अविग्रहं क्रिया­श­ब्द­व्य­ति­रिक्तं न वीक्ष्यते ।
यत्ख­ल्व­स­न्नि­धा­नेऽपि गच्छेत् क्रत्वङ्गतां क्वचित् ॥
यदि पुरु­षो­च्चा­र्य­त्वा­द्या­गे­ष्वि­न्द्रा­दि­शब्द एवाङ्गम् ।
न तु तत्तदर्थ इति मति­र­न­ङ्ग­म­र्थ­स्त­दाऽस्तु विग्रहवान् ॥
न हि विग्रहवत्त्वे स्याद­र्थोऽ­प्य­ङ्ग­मि­ती­दृ­शम् ।
आपादनं क्रियत इत्यवकाशवती स्पृहा ॥
शब्दे विरोधो यदि विग्रहे भवेत् कथं समा­धि­स्त­द­भा­व­स­म्मतौ ।
नास्त्यर्थ एवेति यदि प्रपद्यसे दृढीभवेत्तर्हि विरोधदुर्दशा ॥
नित्योऽर्थ इत्युपगमे त्वनि­त्या­स्सन्तु विग्रहाः ।
शब्द­वा­च्य­ब­हि­र्भूताः क विरोधः प्रसज्यते ॥
इत्या­प­त्ते­र­नि­त्यार्थे विग्र­हा­स­म्म­ता­वपि ।
वक्तव्ये सति पूर्वो­क्त­वि­रो­ध­त­द­व­स्थितिः ॥
तस्मा­दा­क्षे­प­भा­गस्य सूत्र­यो­र­न­यो­र्द्वयोः ।
देव­ता­वि­ग्र­हा­क्षे­प­प­रता नोपपद्यते ॥
अयमत्र शङ्काऽर्थः । देव­ता­वि­ग्र­हा­ङ्गी­कारे तदेव दूष­ण­मु­द्भा­व­नी­यम् , यत्तदनङ्गीकारे न प्रसरति । कर्मविरोधदूषणं तु तदनङ्गीकारेऽपि प्रसरति । तथा हि – विग्रहवतः क्रऋतूपकारकत्वे सन्नि­धा­न­नि­य­म­म­व­ष्ट­भ्य­क­र्मणि विरोध आपादितः , उत क्रत्वङ्गत्वे ? आद्ये स्वस्थान एव स्थित्वा धन­दा­न­य­ज्ञ­वा­ट­र­क्ष­णा­दिना क्रतूपकारके राज्ञि व्यभिचारः । द्वितीये विग्रहवत इति विशेषणं व्यर्थम् ; विग्र­ह­र­हि­त­स्यापि जुह्वादेः क्रत्वङ्गस्य सन्नि­धा­न­नि­य­म­द­र्श­नात् । अतो विग्रहरहिताऽपि देवता सन्निधानाभावे कर्माङ्गं न स्यादिति कथं विग्र­हा­भा­व­प­क्षेऽपि कर्मणि विरोधो न स्यात् । न हि विग्रहरहिताऽपि देव­ते­न्द्रा­दि­श­ब्दिता क्रतुषु सन्निहिता केनचिद्दृश्यते । अपिच विग्रहानङ्गीकार एवापरिहार्यः कर्मणि विरोध आपतति । न हि विग्र­ह­र­हि­त­दे­व­तायां युगपत् प्रवृत्तेषु यागेषु कायव्यूहेन सन्निधिरिति परिहारः प्रवर्तते । किञ्च विग्रहवत्त्वे देवतायाः प्रव­स­द्य­ज­मा­न­व­द­स­न्नि­धा­नेऽपि क्रत्व­ङ्ग­त्व­मु­प­पा­द­यितुं शक्यम् , न तु तद्राहित्ये । न हि विग्रहरहितं प्रव­स­द्य­ज­मा­न­ज­प्य­मा­न­म­न्त्रे­भ्य­स्त­त्त­त्क्रि­य­मा­ण­वि­ष्णु­क्र­मे­भ्य­श्चा­न्य­द­स­न्नि­हितं क्रत्वङ्गं दृश्यते । यद्युच्येत क्रतु­वि­न्द्रा­दि­शब्द एवाङ्गम् ; पुरु­षे­णो­च्चा­र्य­त­याऽ­नु­ष्ठातुं शक्यत्वात् तु तदर्थः ; अन­नु­ष्ठे­य­त्वा­दिति , तदा तदर्थस्य विग्रहवत्त्वं कथं सन्निधानाभावेन प्रत्याख्यातुं शक्यम् ? अनङ्गत्वेन सन्नि­धा­ना­न­पे­क्ष­णात् । न हि विग्र­ह­व­त्त्वेऽ­र्थोऽ­प्यङ्गं स्यादित्यापादनं सम्भवति ; विशेषाभावात् ।

शब्द­वि­रो­धा­पा­द­न­मपि विग्र­हा­भा­व­प­क्ष­सा­धा­र­णम् । कथम् ? यदि विग्र­ह­रा­हि­त्यो­क्ति­भं­ग्ये­न्द्रा­दि­श­ब्दा­ना­मर्थ एव नास्तीत्युक्तं स्यात् , तदे­न्द्रा­दि­श­ब्द­घ­टि­त­वै­दि­क­वा­क्या­र्था­नि­ष्पत्त्या शब्दविरोधः । अर्था­ङ्गी­का­रेऽपि तस्य नित्य­त्वा­भ्यु­प­गमे विग्रहवादिनाऽपि नित्य­मि­न्द्रा­दि­श­ब्दा­र्थ­म­ङ्गी­कृत्य तस्यागमापायिनां भूष­णा­यु­धा­दि­व­दि­न्द्रा­दि­श­ब्द­वा­च्य­ब­हि­र्भू­तानां विग्रहाणां स्वीकर्तुं शक्यत्वात् विरोधो न प्रसज्यत इति दोषापत्तेरनित्य एवार्थे विग्र­हा­भा­व­वा­दि­नाऽ­प्य­ङ्गी­क­र्तव्ये सती­न्द्रा­दि­शब्दे तत्स­म्ब­न्ध­स्या­ना­दि­त्वा­स­म्भ­वेन पुरु­ष­बु­द्धि­क­ल्पि­त­त्वस्य वक्त­व्य­त्वा­च्छ­ब्द­वि­रो­ध­स्त­द­वस्थः । तस्मादनयोः सूत्र­यो­रा­क्षे­प­भा­गस्य देव­ता­वि­ग्र­हा­क्षे­प­प­रता नोपपद्यत इति ।

अत्र ब्रूमः –
असा­रा­वि­त्थ­मा­क्षेपौ पूर्वमीमांसकैः कृतौ ।
देव­ता­वि­ग्र­ह­द्वे­ष­भ­रा­न्धी­कृ­त­दृ­ष्टिभिः ॥
तावे­वा­त्रा­प­ह­सितुं परिहारञ्च तात्त्विकम् ।
वक्तुं सूत्रपदारूढौ विदधे भाष्यकृन्मुनिः ॥ १.३.२८॥

एवं देवतानां ब्रह्म­वि­द्याऽ­धि­का­र­म­मृ­ष्य­माणैः परैरुद्भावितं शब्दविरोधं ‘अतः प्रभवात्’ इति हेतुना परिहत्य तद्धे­तू­क्ति­सा­म­र्थ्य­ल­ब्धेन जगत्कारणत्वेन वेद­स्या­पौ­रु­षे­य­त्व­ल­क्षणं नित्यत्वं व्यवस्थापयति –

अत एव च नित्यत्वम् ॥२९॥

२९

वेदः पौरुषेयो न भवति ; जग­त्का­र­ण­त्वा­दी­श्व­र­वत् । न चादृष्टे व्यभिचारः, स्वतन्त्रेण पुरु­षे­णा­र्थ­मु­प­लभ्य तेन हेतुना विर­चि­त­व­र्ण­प­दा­नु­पू­र्वी­वि­शे­ष­रू­प­स­न्द­र्भ­वत्त्वं पौरुषेयत्वमिति तद­भा­व­स्था­दृ­ष्टेऽपि सत्त्वात् । एव­मा­नु­ष­ङ्गि­क­वे­दा­पौ­रु­षे­य­त्व­सि­द्धि­हे­तु­वि­शे­ष­ला­भोऽपि ‘अतः प्रभवात्’ इति पूर्वसूत्रे हेतुनिर्देशस्य प्रयोजनम् । चकारः स्वत­न्त्र­क­र्त्र­स्मा­र­णा­दि­हे­त्व­न्त­र­स­मु­च्च­यार्थः । १. ३. २९ ।

समा­न­ना­म­रू­प­त्वा­च्चा­वृ­त्ता­व­प्य­वि­रोधो दर्शनात् स्मृतेश्च ॥३०॥

३०