अद्वैतशारदा

न्यायरक्षामणिः

प्रथमोऽध्यायः (३)

किमर्थमिदं सूत्रम् ? समाहितः खलु ‘शब्द इति चेन्नातः प्रभवात्’(ब्र. सू. १. ३. २८) इति सूत्रे शब्द­प्र­भ­व­त्वे­ने­न्द्रा­दीनां समाननामरूपत्वं प्रदर्ष्य तेषां नाम्नां समा­न­रू­पा­भि­व्यं­ग्य­जा­ति­वा­चि­त्वेन शब्दविरोधः । अथ महाप्रलये निरा­श्र­या­णा­मि­न्द्र­त्वा­दि­जा­ती­ना­म­व­स्था­ना­यो­गेन तत्पू­र्वा­प­र­क­ल्प­स­म्भ­वे­न्द्रा­द्य­नु­ग­ते­न्द्र­त्वा­दि­जा­त्य­स­म्भ­वा­दि­न्द्रा­दि­श­ब्दानां व्यक्ति­वा­चि­त्व­पक्ष इव जाति­वा­चि­त्व­प­क्षेऽ­प्यै­का­र्थ्या­स­म्भ­वे­ना­ने­कत्र सांकेतिकत्वस्य वक्तव्यत्वात् शब्द­वि­रो­ध­स्त­द­वस्थ इत्य­धि­का­श­ङ्कायां महा­प्र­ल­य­व्य­व­धा­नेऽपि पूर्वो­त्त­र­क­ल्प­स­म्भ­वे­न्द्रा­दीनां श्रुति­स्मृ­तिभ्यां समा­न­ना­म­रू­प­त्वा­व­श्य­म्भा­वेन तदनुगतानां महा­प्र­ल­या­व­स्था­यि­नी­ना­मि­न्द्र­त्वा­दि­जा­ती­ना­म­व­श्या­ङ्गी­क­र्त­व्य­त्वात् । सर्व­प­दा­र्था­नाञ्च शक्त्यात्मना सूक्ष्मरूपेण महा­प्र­ल­येऽ­प्य­व­स्था­न­स­त्त्वेन निरा­श्र­य­त्वा­प्र­स­क्ते­र्जा­ति­वा­चित्वं सम्भवतीति प्रदर्शनेन परिहारार्थमिदं सूत्रमिति चेत् ; महा­प्र­ल­या­ङ्गी­का­र­प्र­युक्ता खल्वियं शङ्का , नेन्द्रा­द्य­ने­क­त्व­वि­ग्र­ह­व­त्त्वा­ङ्गी­का­र­प्र­युक्ता । अत एवेयं गवा­दि­श­ब्द­सा­धा­रणी ; गोत्वा­दि­जा­ती­ना­मपि महाप्रलये निरा­श्र­या­णा­म­व­स्था­ना­यो­ग­श­ङ्का­या­स्तु­ल्य­त्वात् । न चेयं शङ्काऽत्र प्रसा­ध्य­मा­न­दे­व­ताऽ­धि­का­र­वि­रो­धिनी , येनात्र परिहार्या भवेत् । लप्स्य­मा­न­प­रि­हारा चेयं शङ्का ‘सूक्ष्मं तु तदर्हत्वात्’(ब्र. सू. १.४.२) ‘तद­धी­न­त्वा­द­र्थ­वत्’(ब्र. सू. १. ४. ३) इत्या­नु­मा­नि­का­धि­क­रण सूत्राभ्याम् ।

नन्विदं सूत्रं व्यव­हि­त­सू­त्र­प्र­सा­धि­तस्य शब्द­वि­रो­धा­भा­वस्य समर्थनार्थं माभूत् अव्यवहित सूत्रप्रसाधिते वेदनित्यत्वे विरो­ध­स­मा­धा­ना­र्थ­मस्तु । महा­प्र­ल­येऽ­ध्या­प­का­ध्ये­तृ­स­न्ता­न­वि­च्छे­दा­द्वे­दस्य नित्य­त्व­म­नु­प­प­न्न­मिति विरो­ध­श­ङ्का­स­म्भ­वा­दिति चेत् ; मैवम् । वेद­स्या­पौ­रु­षे­य­त्व­ल­क्षणं हि नित्यत्वं पूर्वसूत्रे प्रसाधितम् , न तु स्वरू­प­नि­त्य­त्वम् ; आनु­पू­र्वी­वि­शे­ष­वि­शि­ष्ट­व­र्ण­स­मु­दा­य­रू­पस्य वेदस्य स्वरू­प­नि­त्य­त्वा­स­म्भ­वात् , अदृष्टादौ व्यभिचारेण पूर्व­सू­त्र­प्र­द­र्शि­त­ज­ग­त्का­र­ण­त्व­हे­तु­क­त­त्स्व­रू­प­नि­त्य­त्व­सि­ध्य­स­म्भ­वाच्च । अवा­न्त­र­प्र­ल­य­व­र्तित्वं नित्यत्वं विवक्षितमिति न व्यभिचार इति चेत् ; तर्हि तस्य महा­प्र­ल­येऽ­ध्य­य­ना­ध्या­प­न­स­न्ता­न­वि­च्छे­देऽपि विरोधाभावात् तद्विरोधशङ्का निरालम्बना स्यात् । प्रवाहरूपेण सकलकालवर्तित्वं साध्यम् ; अदृष्टादीनाञ्च महा­प्र­ल­येऽ­प्य­व­स्था­नान्न व्यभिचारः इति चेत् ; तर्हि तस्य विरोधस्यानेनापि सूत्रेण समाधानं न स्यात् । महाप्रलये वेदा­ध्य­य­ना­ध्या­प­न­स­न्ता­न­वि­च्छे­दस्य सिद्धा­न्तेऽ­प्य­ङ्गी­का­रात् । अत्रोच्यते –

वेद­नि­त्य­त्व­मा­क्षिप्य पूर्व­सू­त्र­प्र­सा­धि­तम् ।
समाधातुं सूत्रकृता सूत्रमेतत् प्रवर्तितम् ॥
तथाहि –

मन्त्राणां ब्राह्मणानाञ्च पदानामपि तज्जुषाम् ।
कर्ता­र­स्सं­हि­ता­नाञ्च श्रूयन्ते बहवःश्रुतौ ॥
ईश्व­रा­द्य­जु­रा­दी­ना­मु­त्प­त्ति­रपि वर्ण्यते ।
यज्ञेन वाच इत्याद्या दृश्यन्ते श्रुतयो हि याः ॥
तास्त्व­वा­न्त­र­क­ल्पा­दि­वि­ष­य­त्वेन सङ्गताः ।
समा­न­ना­म­रू­प­त्व­श्रु­ति­स्मृ­ति­व­चां­स्यपि ॥
तन्मा­त्र­वि­ष­य­त्वेन प्रप­द्य­न्तेऽ­र्थ­शा­लि­ताम् ॥

‘नम ऋषिभ्यो मन्त्र­कृ­द्भ्य­स्सं­हि­ता­का­र­प­द­का­र­सू­त्र­का­र­ब्रा­ह्म­ण­का­रा­णाम्’ इत्यादिश्रुतिषु वेदान्तर्गतानां मन्त्राणां ब्राह्मणानां तदन्तर्गतपदानां तत्संहितानाञ्च कर्तारः ऋषयः श्रूयन्ते । ‘छन्दांसि जज्ञिरे तस्मात् यजु­स्त­स्मा­द­जा­यत’ ‘अस्य महतो भूतस्य निश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजुर्वेदः’(बृ. २. ४.१०) इत्यादिश्रुतिषु परमेश्वरश्च वेदानां कर्ता श्रूयते । अतो वेदो नित्य इत्ययुक्तम् । या तु यज्ञेन वाचः पदवीयमायन् ताम­न्व­वि­न्द­न्नृ­षिषु प्रविष्टाम्’(ऋ. सं. १०. ७१. ३) इति यज्ञादिपुण्येन वेद­ग्र­ह­ण­यो­ग्यतां प्राप्ता­ना­मृ­षिषु स्थिताया एव वेदवाचो लाभ इति श्रुतिः , या च युगा­न्तेऽ­न्त­र्हि­ता­न्वे­दान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्व­म­नु­ज्ञा­ता­स्व­यं­भुवा’ इति प्रल­येऽ­न्त­र्हि­ता­ना­मेव वेदानां तप­स्स­मा­रा­धि­त­च­तु­र्मुख प्रसा­दा­ल्ला­भ­स्मृतिः सा सर्वाऽ­प्य­वा­न्त­र­प्र­ल­या­न्त­र्हि­त­वे­द­प्रा­प्ति­वि­ष­य­त्वेन सङ्गच्छते ।

अत एवोदाहृतयोः श्रुतिस्मृत्योः ‘ऋषिषु प्रविष्टाम्’ इति ‘सेतिहासान्’ इति च विशेषणम् । अवान्तरप्रलये हि भूर्भु­व­स्सु­व­रिति लोक­त्र­य­मा­त्र­व्या­पिनि ब्रह्म­लो­का­दि­ग­तेषु ऋषिषु प्रविश्य वेदस्तिष्ठति , न तु महाप्रलये सकलभूतव्यापिनि । अवा­न्त­र­प्र­ल­या­न­न्त­र­मेव च ब्रह्म­लो­का­दि­स्थि­ता­ना­मि­ति­हा­सानां प्राप्तिः सम्भवति , न तु महा­प्र­ल­या­न­न्त­रम् ; महाप्रलये प्राची­न­पौ­रु­षे­य­वा­क्यानां निरन्वयविनाशात् । समा­न­ना­म­रू­प­त्व­ग­म­कानि देवादीनां वेद­प्र­भ­व­त्व­वि­ष­याणि साक्षा­त्स­मा­न­ना­म­रू­प­त्व­प्र­ति­पा­द­कानि च यानि श्रुति­स्मृ­ति­व­च­नानि सन्ति , तान्य­प्य­वा­न्त­र­क­ल्पा­दि­वि­ष­य­त्वे­नै­वा­र्थ­वत्तां प्रतिपद्यन्ते । अत एव ‘ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः’ इति स्मृती ‘शर्वर्यन्ते प्रसूतानाम्’ इति विशेषितम् । शर्वर्यन्तो हि चतु­र्मु­ख­रा­त्रि­रू­प­स्या­वा­न्त­र­प्र­ल­य­स्या­व­सा­नम् , न तु तदा­यु­स्स­मा­प्त्य­न­न्त­र­भा­विनो महाप्रलयस्य । अनेन विशेषणेनेत्थं ज्ञायते – अवा­न्त­र­क­ल्पा­दिषु सृष्टानामृषीणां वसिष्ठादीनां यानि नामधेयानि तेषां तत्त­द्वे­द­भा­ग­द­र्श­नानि च , तानि तत्त­त्क­ल्पा­न्त­र्ग­त­म­न्व­न्त­रेषु तदु­त्त­रा­वा­न्त­र­क­ल्पेषु च सृष्टेभ्यो ददाति , न तु महाकल्पादिषु सृष्टानां नामधेयानि महाकल्पान्तरे सृष्टेभ्यो ददातीति । एवं महा­क­ल्पा­वा­न्त­र­क­ल्प­भे­देन वेक­र्तृ­द्र­ष्टृ­वि­ष­यो­भ­य­वि­ध­श्रु­ति­सा­म­ञ्जस्ये सम्भवति नैका­नु­सा­रे­णा­न्य­न­य­न­क्लेशः समाश्रयणीयः ।

न च प्रतिकल्पं वेदस्य वर्ण­प­द­वा­क्य­क्र­म­स्व­रा­न्यत्वे पारायणादिभिः क्कचि­त्क­ल्पेऽ­भि­म­त­फ­ल­प्रदो वेदः कल्पान्तरे वाग्वज्रः स्यादिति धर्मा­ध­र्म­व्य­व­स्था­वि­प्लवो दोषः ; इष्टापत्तेः । प्रति­म­हा­क­ल्प­मन्य एव वेदाः अन्य एव चैषामर्थाः , अन्यान्येव च वैदिकानि पदानि तेषु तेष्वर्थेषु तत्तत्कल्पादिषु पद­का­रै­र्म­ह­र्षि­भि­स्स­ङ्के­ति­ता­नी­त्य­ङ्गी­कारे दोषाभावात् । एकस्मिन्नपि हि कल्पे हिंसा­स्ते­य­प­र­यो­षि­द­प­हा­रा­दिकं विषयभेदेन धर्मा­ध­र्मो­भ­य­रू­प­त­याऽ­भ्यु­प­ग­म्यते । कल्पभेदेन वेद­त­दु­क्त­क­र्मणां तदु­भ­य­रू­प­त्व­स्वी­कारे को दोषः किञ्चैकस्य श्राद्धकर्मणः दिने निशायाञ्च कृतस्य , एकस्यैव काम्यकर्मणः शुद्धमासे मलमासे च कृतस्यैकस्यैव गोमधुपर्कस्य कृतादिषु कलौ च कृतस्यैकस्यैव वह्नेः शिशिरे निदाघे च सेवि­त­स्या­र्था­न­र्थ­हे­तुत्वं सम्प्र­ति­प­न्न­मिति तद्व­त्प्र­ति­क­ल्प­भि­न्न­वे­द­त­दु­क्त­क­र्मणां कल्प­भे­दे­ना­र्था­न­र्थ­हे­तु­तया धर्मा­ध­र्म­रू­प­त्व­म­ङ्गी­कर्तुं शक्यमेव । तथा च वासिष्ठे वसिष्ठंप्रति भूसु­ण्डा­ख्य­स्या­ने­क­क­ल्प­जी­विनो वायसस्य वचनं दर्शितम् –
‘सुरापब्राह्मणं तात निषि­द्ध­सु­र­शू­द्र­कम् ।
स्वैर­वृ­त्त­स­ती­कञ्च कञ्चत्सर्गं स्मराम्यहम् ॥
कलौ कृतयुगाचारं कृते कलियुगस्थितिम् ।
त्रेतायां द्वापरे चैव विपर्यासं स्मरामि च’ ॥
इति । तस्मादनुपपन्नं वेदस्य नित्य­त्व­मि­त्या­क्षे­प­स­मा­धा­ना­र्थ­मिदं सूत्रम् ।

समा­धा­न­प्र­का­रस्तु – महाप्रलयानन्तरं जग­त्सृ­ष्ट्या­वृ­त्ता­वपि न वेद­नि­त्य­त्व­वि­रोधः ; सृज्यमानस्य सर्वस्य जग­त­स्त­त्पू­र्व­क­ल्प­ज­ग­त्स­मा­न­ना­म­रू­प­त्वात् , तत्स­मा­न­स्व­भा­व­ज्ञा­नै­श्व­र्या­दि­म­त्वाच्च । कुत इदमवगम्यते ? ‘सूर्या­च­न्द्र­मसौ धाता यथा­पू­र्व­म­क­ल्प­यत्’(ऋ सं. १०. १९०. ३.) इत्या­दि­श्रु­ति­द­र्श­नात् ।
‘यथ­र्तु­ष्वृ­तु­लिं­गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
तथाऽ­भि­मा­नि­नोऽ­ती­ता­स्तु­ल्यास्ते साम्प्रतैरिह ।
देवा देवैरतीतैर्हि रूपैर्नामभिरेव च ॥
तेषां ये यानि कर्माणि प्राक्सृष्टयां प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः ॥
हिंस्राहिंस्रे मृदुकरे धर्मा­ध­र्मा­वृ­ता­नृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते’ ॥
(वि.पु.)
इति स्मरणात् , देव­र्षि­म­नु­ष्य­ति­र्य­क्स्था­व­रा­दि­भा­वस्य यज्ञा­दि­फ­ल­त्वाच्च । पूर्वस्मिन् कल्पे यैर्म­हे­न्द्र­व­रु­ण­कु­बे­रा­दि­दे­व­भा­वस्य , वसि­ष्ठ­वि­श्वा­मि­त्रा­दि­ऋ­षि­भा­वस्य , ब्रह्म­क्ष­त्रि­या­दि­म­नु­ष्य­भा­वस्य वा प्रापकत्वेन वेदविहितानि यज्ञा­ध्य­य­न­दा­न­त­पांसि , उपासनानि वा यथाविधि तत्त­द्भा­व­प्रा­प्ति­स­ङ्क­ल्प­पू­र्व­क­म­नु­ष्ठि­तानि , त एव महा­प्र­ल­य­भा­वि­न्या­मपि सृष्ट्या­वृ­त्ता­वि­न्द्रा­दि­भावं प्रतिपद्यन्ते ।

यैर्ग­वा­श्व­ग­ज­ध­न­धा­न्य­गृ­ह­क्षे­त्रा­रा­मा­दि­प्रा­प­क­त्वेन विहितानि , तान्यनुष्ठितानि तत्तद्भाग्यतया तिर्य­ञ्च­स्स्था­व­राश्च जन्म प्रतिपद्यन्ते । ते चानु­ष्ठा­ता­र­स्त­स्मि­न्कल्पे प्रच­र­द्भि­र्वे­द­वा­क्यै­स्त­त्का­ल­व­र्ति­ना­मि­न्द्रा­दीनां दिव्या­वि­ग्र­है­श्व­र्य­म­हा­भो­गा­दिकं वसिष्ठादीनां दिव्य­ज्ञा­न­मा­हा­त्म्या­दि­कञ्च यादृशं वर्णितं प्रत्य­क्षा­दि­भिश्च ब्राह्म­ण­क्ष­त्रि­या­दीनां विशि­ष्ट­दे­श­जा­ति­कु­ल­रू­पा­यु­श्श्रु­ता­प­त्त­वृ­त्त­सु­ख­मे­धसां मुक्ति­प­र्य­न्त­स­क­ल­पु­रु­षा­र्थ­स­म्पा­द­ना­धि­का­र­वतां वैशिष्ट्यं गावाश्वादीनां दोह­न­वा­ह­ना­दि­कृ­त­त­दु­प­यो­गि­सं­स्था­न­वि­शे­षा­दि­कञ्च यादृशमवगतं , तादृशमेव प्राप्त­व्य­त­या­स­ङ्क­ल्प­यन्ते नान्या­दृ­श­म­व­ग­म्यते ; इष्ट­सा­ध­न­वि­ष­य­त्वा­दि­च्छायाः , तस्मिन् कल्पे प्रच­रा­द्भि­र्वे­द­वा­क्यै­स्त­त्का­ल­वर्ति देव­र्षि­म­नु­ष्या­दि­वा­च­क­प­द­व­द्भि­स्त­त्स­जा­ती­य­दे­व­भा­वा­दि­प्रा­प्ति­सा­ध­न­त्वे­नैव यज्ञा­दी­ना­मु­पा­स­नानां च विधानाच्च । तथा च तथा­स­ङ्क­ल्प­पू­र्व­क­म­नु­ष्ठि­तानां कर्मणां फलतया भवन्ती देवादिसृष्टिः पूर्व­क­ल्प­स्थि­त­दे­वा­दि­ना­म­रू­प­स्व­भा­व­प्र­भा­व­वै­भ­व­वती वज्रलेपायते ।

एतेन – समा­न­ना­म­रू­प­त्वा­दि­वि­ष­य­श्रु­ति­स्मृ­ति­व­च­न­जा­त­म­वा­न्त­र­क­ल्पा­दि­वि­ष­य­म­स्त्विति शङ्काऽपि निरस्ता । देवा­दि­भा­व­प्रा­प­क­क­र्मा­नु­ष्ठा­न­हे­तु­स­ङ्क­ल्पा­नु­सा­रेण महाकल्पभेदेऽपि समा­न­ना­म­रू­प­त्वा­व­श्य­म्भा­वात् । ‘शर्वर्यन्ते’ इति तु महा­प्र­ल­या­व­सा­न­मपि वक्तुं शक्यम् । महाप्रलयो हि पर­ब्र­ह्म­ण­स्सु­षु­प्ति­का­ल­त्वे­नौ­प­च­र्यते । उक्त­ञ्चा­चा­र्य­वा­च­स्प­तिना अस्य च सुप्ति­र्म­हा­प्र­लयः’ इति ।

नन्वस्तु श्रुति­स्मृ­ति­यु­क्ति­भि­र्म­हा­क­ल्प­भे­दे­ने­न्द्रा­दीनां समाननामरूपत्वम् । तेन वैदि­के­न्द्रा­दि­प­द­सा­ङ्के­ति­क­त्व­श­ङ्का­मू­लक एव वेद­नि­त्य­त्व­वि­रोधः समाहितो भवति , न तु पुरा­णा­दि­व­त्त­त्त­त्क­ल्पा­दिषु नवनवा वेदाः पुरुषप्रणीताः सन्त्विति शङ्कामूलक इति चेत् । सोऽपि तेन समाहितो भवत्येव । समाननामरूपत्वे पूर्वस्मिन् कल्पे यैर्वे­द­वा­क्यै­रि­न्द्रा­दि­रू­प­म­व­गम्य तद्भावप्राप्तये कैश्चि­त्क­र्मा­ण्य­नु­ष्ठि­तानि तैरेव तत्क­ल्प­स्थि­ते­न्द्रा­दि­ना­म­रू­पाणि स्मृत्वा चतुर्मुखेन महा­प्र­ल­य­व्य­व­हि­तायां पुन­स्सृ­ष्ट्या­वृत्तौ तत्स­मा­न­रू­पे­न्द्रा­दि­भा­वेन ते सृष्टा इत्य­ङ्गी­क­र्त­व्य­त्वात् , तदा­नी­न्त­न­पु­रु­ष­प्र­णी­तै­र्वे­द­वा­क्यै­स्त­न्ना­म­रू­पा­नु­स­न्धा­ना­स­म्भ­वात् । तेषां प्राची­न­क­ल्प­स्थि­त­वे­द­स­मा­ना­र्थ­त्व­स्वी­का­रेऽपि ते मन्त्र­कृ­त्त्वा­दि­प्र­सि­द्धि­म­दृ­षि­प्र­णीता इत्यङ्गीकारे तैस्तेषामृषीणां तत:पूर्वं सृज्यानां देवानाञ्च सृष्ट्युपयोगिनो नाम­रू­प­ज्ञा­ने­श्व­र्या­द्य­नु­स­न्धा­न­स्या­स­म्भ­वात् , ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति(श्वे.६.१८) ब्रह्म­सृ­ष्ट्य­न­न्त­र­मेव तत्क­र्तृ­क­दे­व­ऋ­षि­म­नु­ष्या­दि­सृ­ष्ट्य­र्थ­ना­म­रू­पा­नु­स­न्धा­नो­प­यो­गि­वे­द­प्र­दा­न­श्र­व­ण­वि­रो­धा­प­त्तेश्च । तेषां ब्रह्मसृष्टेरपि प्राक् पर­मे­श्व­र­प्र­णी­त­त्वा­ङ्गी­कारे ‘प्रजा­प­ति­र्दे­वा­न­सृ­जत’ ‘स भूमिमसृजत’ इत्यादिषु लङा­दि­श्र­व­णा­वि­रो­धा­पत्तेः । पूर्व­क­ल्प­वृ­त्ता­न्त­वि­ष­य­तया कथ­ञ्चि­ल्ल­ङा­दि­स­म­र्थ­नेऽपि पर­मे­श्व­रो­पा­दा­न­क­त्व­रू­पस्य , पर­मे­श्व­र­क­र्तृ­क­त्व­रू­पस्य वा विय­दा­दि­प्र­प­ञ्च­सा­धा­र­णस्य पर­मे­श्व­र­प्र­भ­व­त्वस्य वेदेऽभ्युपगमेन प्राङ्नि­रु­क्ता­पौ­रु­षे­य­त्व­रू­प­त­न्नि­त्य­त्व­वि­रो­धा­प्र­स­क्तेश्च , ‘अस्य भूतस्य निश्वसितमेतत्’ ‘यजु­स्त­स्मा­द­जा­यत’ इत्या­दि­श्रु­तीनां तन्मा­त्र­वि­ष­य­त­यो­प­प­न्न­त्वात् ; वेदत्वं समा­ना­नु­पू­र्वी­को­च्चा­र­ण­पू­र्व­क­त्व­र­हि­त­स्व­तन्त्र पुरु­षो­च्चा­र­ण­वि­ष­य­वृत्ति ; वाक्य­वृ­त्ति­त्वात् , सत्ता­व­दि­त्या­द्य­नु­मा­ना­ना­म­प्र­यो­ज­क­त्वात् , तत्प्रमाणस्य स्वतस्त्वेन वक्तृ­वा­क्या­र्थ­य­था­र्थ­ज्ञा­ना­दि­रू­प­गु­णा­पे­क्ष­त्वात् ।

तस्मा­त्स­र्व­दै­क­रू­पा­नु­पूर्वी विशिष्टा वेदा महा­प्र­ल­ये­ष्व­ध्या­प­का­द्य­भा­वेन खिलीभूता अपि पुनस्सर्गे प्राची­ना­नु­पूर्वी विशि­ष्ट­त­यो­द्धृत्य परमेश्वरेण हिरण्यगर्भाय प्रदीयन्ते । तेषु केचिद्भागाः कैश्चिकैश्चित् प्राची­न­पु­ण्य­फ­ला­द्वा­सि­ष्ठ­वि­श्वा­मि­त्रा­दि­ऋ­षि­पदं प्राप्तै­स्त­दा­नी­म­ध्य­य­ना­भा­वेऽपि पूर्वकल्पाधीता एवानुसन्धाय शिष्येषु प्रवर्त्यन्ते । कैश्चि­त्प­द­वि­भागं प्रदर्श्य पदा­ध्य­य­न­स­म्प्र­दायाः प्रवर्त्यन्ते कैश्चि­द्व­र्ण­प­दानां संहिताया लक्ष­ण­ग्र­न्था­न्नि­र्माय संहि­ता­स्व­रू­प­म­स­न्दिग्धं क्रियत इति त एव वेदेषु मन्त्रकृतो ब्राह्मणकाराः पदकाराः संहिताकारा इति व्यपदिश्यन्ते । वैदि­क­प­दै­र्दे­व­ता­दि­सृ­ष्टि­म­न्त्र­कृ­दा­दि­ऋ­षि­स­द्भा­वश्च प्रवा­हा­ना­दि­रि­त्य­ना­दि­ष्वपि वेदेषु ‘स भूमिमसृजत’ इत्यादयो लङादिप्रयोगाः मन्त्र­कृ­दा­दि­नि­र्दे­शाश्च क्रियन्त इत्येव युक्तमिति ।

सूत्रे महा­स­र्गा­वृ­त्ता­व­प्य­वा­न्त­र­क­ल्प­विध देव­र्षि­प्र­भृ­तीनां समा­न­ना­म­रू­प­त्वा­च्च­श­ब्द­स­मु­च्चि­तात् समा­न­स्व­भा­व­प्र­भा­व­त्वाच्च न तेषां नाम्नां घटा­दि­ना­म­व­द­नु­ग­त­ना­म­रू­पा­भि­व्यं­ग्य­जा­ति­वा­चि­त्वस्य सेना­न्या­दि­ना­म­व­द­नु­ग­ता­धि­क­वि­शे­ष­रू­पो­पा­धि­वा­चि­त्वस्य वाऽवश्यम्भावात् तदनुसारेण पदकारश्रुतिः पदा­ध्य­य­न­स­म्प्र­दा­य­प्र­व­र्त­क­त्व­प­रेति ततो वैदिकपदानां साङ्के­ति­क­त्व­रूपः शब्दविरोधो न प्रसज्यते इति न तत्कृतो वेद­नि­त्य­त्व­वि­रोधः इत्ये­व­म­वि­रो­ध­प­दा­वत्या योजनं कार्यम् । पुनश्च मन्त्र­कृ­दा­दि­श्र­व­णे­नापि नास्ति वेद­नि­त्य­त्व­वि­रोधः । महा­स­र्गा­वृ­त्ता­व­प्य­वा­न्त­र­क­ल्पा­दि­ष्विव पूर्वे­षा­मु­त्त­रेषां च मन्त्रादिकृतां वसिष्ठादीनां समा­न­ना­म­रू­पा­दि­म­त्त्वेन तत्सृष्टेः प्राक्सि­द्धै­र्वै­दि­क­श­ब्दै­रेव नाम­रू­पा­द्य­नु­स­न्धाय तेषां तेभ्यः प्राक् सृज्यानां देवादीनाञ्च स्रष्टव्यतया मन्त्र­कृ­दा­दि­श­ब्दानां मन्त्र­द्र­ष्टृ­प­र­त्वस्य कल्प­नी­य­त्वा­दि­त्ये­व­म­र्थ­क­त्वेन ‘अविरोध’ इत्य­न्त­मा­वृत्त्या योजनीयम् । पुनश्च ‘यजु­स्त­स्मा­द­जा­यत’ इत्या­दि­श्र­व­णे­नापि न वेद­नि­त्य­त्व­वि­रोधः ; वियदादीनामिव वेदानां सृष्ट्या­वृ­त्ता­वपि समा­न­ना­म­रू­प­त्वात् । न हि वेदानां प्रतिकल्पं सृष्ट्य­वृ­त्ति­व­दा­नु­पू­र्वी­वि­शे­षा­त्म­क­रू­प­भेदो वा , प्रति­पा­द्य­वि­शे­षा­त्म­क­रू­प­भेदो वा प्रवृ­त्ति­नि­मि­त्त­त्वेन रूप­भे­दा­ङ्गी­का­रा­पा­दको नामभेदो वाऽभ्युपगम्यते , येन प्रतिकल्पं भिन्ननामरूपा वेदास्तत्र तत्र कल्पे परमेश्वरेण निर्मिता वक्तव्या इति वेद­नि­त्य­त्व­वि­रोधः स्यादि­त्ये­त­द­र्थ­त्वे­ना­प्य­वि­रोध इत्य­न्त­मा­वृत्त्या योजनीयम् ।

देव­र्षि­म­नु­ष्या­दीनां वेदानाञ्च समाननामरूपत्वे स्यादेवमविरोधः , तदेव कुत इत्या­का­ङ्क्षायां ‘दर्शनात् स्मृतेश्च’ इति सूत्रशेषः । देवादीनां समाननामरूपत्वे प्राक् प्रदर्शिताः श्रुति­स्मृ­ति­यु­क्तयः , वेदानां समाननामरूपत्वे ‘वाचा विरूपनित्यया’ ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृत्तयः’ इत्या­दि­श्रु­ति­स्मृ­तयः प्रमाणानि । अत्र हि श्रुतौ नित्यत्वं स्मृता­व­ना­दि­नि­ध­न­त्वञ्च न स्वरूपतो विवक्षितम् ; आनु­पू­र्वी­वि­शे­ष­वि­शि­ष्ट­वा­क्यानां तदसम्भवात् । किन्तु वर्ण­प­द­वा­क्य­त­दा­नु­पू­र्वी­त­त्प्र­ति­पा­द्य­त­त्प्र­वृ­त्ति­नि­मि­त्त­क­ना­म­भेदं विना सर्व­क­ल्पे­ष्वै­क­रू­प्ये­णा­ध्य­य­ना­ध्या­प­न­स­म्प्र­दा­य­वि­ष­य­त्वम् । ‘अनादिनिधना नित्या’ इति स्मृत्युक्तं नित्यत्वं तु ‘अतएव च नित्यत्वम्’(ब. सू. १. ३. २९.) इति सूत्रोक्तमिव स्वत­न्त्र­पु­रु­ष­वि­श्रा­न्त्य­भा­व­रू­प­म­पौ­रु­षे­य­त्व­मिति विवेकः ।

अपि च ‘यज्ञेन वाचः पदवीयमायन्’ ‘यज्ञो म आगच्छतु’ ‘उत्तरां देव­य­ज्या­मा­शास्ते भूयो हवि­ष्क­र­ण­मा­शास्ते’ ‘पुण्यः पुण्येन कर्मणा भवति’ इत्या­दि­म­न्त्र­ब्रा­ह्म­ण­प्र­ति­प­न्न­वे­द­वै­दि­क­क­र्म­प्रा­प्त्य­र्थ­य­ज्ञा­द­स­त्क­र्मा­नु­ष्ठानं तत्प्रेप्सया वक्तव्यम् । अव­ग­ते­ष्ट­सा­ध­न­वि­षया च प्रेप्सा भवति कर्मा­नु­ष्ठा­न­काले प्रचरन्त्वेव च वेद­वै­दि­क­क­र्मा­ण्य­व­ग­तानि नान्यादृशानीति महा­प्र­ल­य­व्य­व­हि­त­पू­र्व­क­ल्पा­नु­ष्ठि­त­क­र्म­भि­स्त­द­न­न्त­र­कल्पे प्राप्याणि वेदवैदिककर्माणि पूर्व­क­ल्प­प्र­वृ­त्ता­न्येव भवन्तीत्यतोऽपि वेदानां समा­न­ना­म­रू­प­त्व­सिद्धिः। नामरूपभेदे प्रमाणाभावाच्च । तत्र प्रमाणाभावे हि लाघवात् समा­न­ना­म­रू­प­त्व­मेव सिद्ध्यति । वासिष्ठवचनं तु न वैदिककर्मभेदे प्रमाणम् ; अवा­न्त­र­क­ल्प­भे­देन वैदि­क­क­र्म­वै­रू­प्यस्य पूर्व­प­क्षि­णाऽ­प्य­न­ङ्गी­कृ­त­त्वात् , महाकल्पभेदेन तद्वैरूप्यस्य काकेनानुभूततया वक्तु­म­श­क्य­त्वात् , महा­क­ल्प­द्व­य­जी­विनः काक­स्या­प्य­भा­वात् । तस्मात् वासिष्ठे भूसु­ण्डा­ख्य­का­क­व­चनं जग­द्वै­चि­त्र्या­द्यु­क्ति­मा­त्र­प­र­मिति नेतव्यम् ।

एवं महाकल्पादौ प्राथ­मि­का­ध्य­य­न­वि­षयो वेदः पूर्व­वे­द­स­मा­न­ना­म­रूपः ; वेद­त्वा­दि­दा­नी­न्त­ना­ध्या­प­न­वि­ष­य­वे­द­वत् ; विपक्षे नाम­रू­प­भे­द­क­ल्प­नायां गौरवम् ; ‘वाचा विरूपनित्यया’ ‘अनादिनिधना दिव्या’ ‘तान्येवैभ्यो ददात्यजः’ ‘युगा­न्ते­न्त­र्हि­तान् वेदान् सेतिहासान् महर्षयः’ इत्या­दि­श्रु­ति­स्मृ­ति­व्या­को­पश्च । ‘सेतिहासान्’ इति इतिहासशब्देन ‘त्रयो होद्गीथे कुशला बभूवुः’ । ‘देवासुराः संयत्ता आसन्’ इत्यादीनि वैदिकानि पुरावृत्तानि विवक्षितानि , न तु पौरु­षे­य­प्र­ब­न्ध­वि­शेषाः । पुरावृत्तग्रहणं च वेदार्थैस्सह वेदानां लब्ध­त्व­प्र­त्या­य­ना­र्थम् । अत एव ‘यो वै वेदांश्च प्रहिणोति तस्मै’ इति श्रुतौ चकारेण सृष्ट्यु­प­यो­गी­न्द्रा­दि­ना­म­रू­प­प­रि­ज्ञा­नार्थं सर्ग­प्र­ल­या­द्य­र्थ­वा­दा­र्थ­प्र­धानं संगृहीतमिति विवरणार्थे तदुपबृंहणे ‘ब्रह्माणं विदधे पूर्वं जग­त्सृ­ष्ट्य­र्थ­मी­श्वरः । तस्मै वेदान् पुराणानि दत्त­वा­न­ग्र­ज­न्मने’ इति श्लोके पुराणशब्दः प्रयुक्तः । तत्र हि पुराणशब्दो वैदि­का­र्थ­वा­द­नि­रू­पि­त­स­र्ग­प्र­ल­य­पर एव वक्तव्यः , न तु पौरु­षे­य­प्र­ब­न्ध­परः ; महाकल्पादौ ब्रह्म­सृ­ष्ट्य­न­न्तरं तदी­य­ज­ग­त्सृ­ष्टि­सा­म­र्थ्यो­प­यो­गि­वे­द­प्र­दा­न­स­मये पौरु­षे­य­प्र­ब­न्धा­ना­म­नि­ष्पत्तेः । एवंविधाः श्रुति­स्मृ­ति­यु­क्तयो’ दर्शनात् स्मृतेश्च’ इति सूत्रशेषेण संगृहीताः । तत्र ‘श्रुतेः’ इति सूत्रणीये ‘दर्शनात्’ इति गुरुसूत्रकरणं शङ्का­न्त­र­वा­र­णा­र्थ­म­र्था­न्त­र­मपि क्रोडीकर्तुम् ।

इत्थमत्र शङ्का समुन्मिषति – मन्त्रकृदादयो मन्त्रद्रष्टारः , न तु मन्त्रादिकर्तार इत्ययुक्तम् । मन्त्रा­दि­द्र­ष्टृत्वं हि कल्पा­न्त­रा­धी­त­म­न्त्रा­दि­स्म­र्तृ­त्व­म­भि­म­तम् । तन्न सम्भवति ; सर्व­व्य­व­हा­रो­च्छे­दिना महाप्रलयेन व्यवधानात् । न च वाच्यम् – ‘‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति तदैनं वाक् सर्वै­र्ना­म­भि­स्स­हा­प्येति चक्षु­स्स­र्वै­रू­पै­स्स­हा­प्येति श्रोत्रं सर्वैश्शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाऽ­ग्ने­र्ज्व­लतः सर्वा दिशो विस्फुलिङ्गा विप्र­ति­ष्ठे­र­न्ने­व­मे­वै­त­स्मा­दा­त्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’(कौ. ३. ३.) इति श्रुत्यनुसारेण स्वापप्रबोधयोः प्रल­य­प्र­भ­व­स­त्त्वेऽपि स्वापव्यवहितं प्रबोधे स्मर्यते , तद्वत् महा­प्र­ल­य­व्य­व­हि­त­मपि स्मर्येत – इति । स्वापे मरणस्य काल विप्रकर्षस्य वा वास­नो­च्छे­द­का­र­ण­स्या­भा­वेन सत्यां वासनायां स्मरणमुपपद्यते , कस्यचित् स्वापेऽ­प्य­न्येषां प्रबोधात् तेभ्यश्च ग्रहणमुपपद्यते ; महाप्रलये सर्वेषां युगपन्मरणं भूयान् काल­वि­प्र­क­र्ष­श्चेति कथ­म­ती­त­क­ल्प­वृ­त्ता­न्ता­नु­स­न्धान सम्भवेदिति ।

तत्रेदमुत्तरं सूत्रशेषेण विवक्षितम् । मर­ण­का­ल­वि­प्र­क­र्ष­स­त्त्वेऽपि स्मृते­र्द­र्श­नात् महा­प्र­ल­य­व्य­व­धा­नेऽपि स्मृतिरुपपद्यते । तथाहि – प्राणि­ना­म­ने­क­ज­न्मा­न्त­र­व्य­व­हि­तेषु मनु­ष्य­प­क्षि­स­री­सृ­पा­दि­ज­न्मसु प्राप्तेषु तत्त­ज्जा­त्यु­चि­त­स्त­न्य­पा­ना­दि­प्र­वृ­त्तयो हिंस्रा­हिं­स्र­त्व­त­त्त­ज्जा­त्य­न्त­र­वि­ष­य­वि­रो­धा­दि­स्व­भा­व­प्र­ति­प­त्त­यश्च दृश्यन्ते । तास्स­र्वा­अ­प्य­ने­क­ज­न्म­स­ह­स्र­व्य­व­हि­त­त­त्त­त्स­जा­ती­य­ज­न्मा­न्त­रा­भ्य­स्त­स्मृतिं विना न सम्भवन्तीति तत्त­ज्जा­ति­प्रा­प­क­क­र्मा­ण्येव तत्स्मृ­ति­ज­न­क­सं­स्का­रो­द्बो­ध­का­नीति स्वीकरणीयम् । एवमेव वसि­ष्ठ­वि­श्वा­मि­त्रा­दि­प्र­भृ­ति­म­न्त्र­कृ­षि­ज­न्म­प्रा­प­काणि ज्ञानकर्माणि पूर्व­क­ल्पे­ष्व­नु­ष्ठाय महाकल्पादिषु वसिष्ठादिजन्म प्राप्नुवतां तानि कर्माणि कथं तत्त­न्म­त्रा­दि­वि­ष­य­सं­स्का­रो­द्बो­ध­कानि न स्युरिति । तस्मात् समञ्जसमिदं सूत्रम् । भाष्य­स्या­प्य­स्मि­न्नर्थे योजना सुकरैव । १. ३. ३० ।

मध्वा­दि­ष्व­स­म्भ­वा­द­न­धि­कारं जैमिनिः ॥३१॥

३१

एवं ब्रह्मविद्यायां देवा­ना­म­धि­का­रा­ङ्गी­कु­वा­र्णस्य भगवतो बादरायणस्य मतं प्रदर्शितम् । अथ तम­न­ङ्गी­कु­र्वा­णस्य जैमिनेर्मतं पूर्व­प­क्ष­त­यो­द्भा­व्यते । अत्रायं पर्व पक्षः –
वसु­रु­द्रा­दि­त्य­म­रु­त्सा­ध्याश्च गणवर्तिनः ।
रविश्च मधु­वि­द्या­या­मु­पास्या नाधिकारिणः ॥
संव­र्ग­वि­द्या­दिषु च वाय्वाद्या नाधिकारिणः ।
अग्निहोत्रादिषु तथा यष्ट­व्या­स्स­र्व­दे­वताः ॥
मधु­वि­द्याऽ­ग्नि­हो­त्रा­दि­ष्व­न्त­र्यामी सुपर्वणाम् ।
भवेदुपास्यो यष्टव्य इत्युक्तिस्तु न युज्यते ॥
तथाऽप्युपास्या वस्वाद्या नान्तर्यामीति गम्यते ।
उपजीवकतायाश्च तद्भावस्य च वर्णनात् ॥
यष्टव्याश्च महेन्द्राद्या देवा इत्यवसीयते ।
प्रसि­द्ध­वृ­त्र­ह­न्तृ­त्व­मु­खतो धर्मवर्णनात् ॥
स्वमिष्टवद्भ्यो देवे­भ्य­स्स्व­दे­वत्ये महाक्रतौ ।
तत्तद्भागाः प्रसन्नेन वितीर्णा हरिणेति चेत् ॥
तावता विष्णुदेवत्यस्स एकस्सिद्ध्यति क्रतुः ।
नाना­दे­व­त्य­ता­न्येषां भवेत् तस्यापि सम्प्रति ॥
अर्थवादांश्च निस्सा­रा­न­व­ल­म्ब्यै­ति­हा­सि­कान् ।
न युज्यते कल्पयितुं धर्मा­ध­र्म­स्थि­ति­च्युतिः ॥
अन्यथा हि श्वेत­के­तो­श्शा­पा­दा­रभ्य योषिताम् ।
सम्प्र­वृ­त्तै­क­व­र्ति­त्व­व्य­व­स्थेति प्रयुज्यते ॥
श्वेतकेतोः कोपालिङ्गात् तद्व्य­व­स्थि­त्य­ना­दिता ।
ज्ञातेति तत्कथा स्वार्थ­वि­व­क्षा­र­हि­तेति चेत् ॥
यज्ञा­ग्र­हा­रो­पा­ख्या­न­क­थाऽ­प्ये­व­मिति स्मर ।
तस्या विव­क्षि­ता­र्थत्वे यतस्स्यात् बह्वसङ्गतम् ॥
तस्मिन् सत्रे यदि तदा दीक्षणीया कृताग्निना ।
अद्य विष्णोरभागत्वं न चेदग्नेः प्रसज्यते ॥
उपसत्सु कृतश्चेत् स्यात् यागः केनापि वैष्णवः ।
तदीय एवेदानीं स्यान्न चेत्स्याद्विकल: क्रतुः ॥
सर्वै­रु­द­व­सा­नी­या­व­सा­ना­स्सर्व एव चेत् ।
अनु­ष्ठि­ता­स्त­दानीं स्युस्सर्वे स्सर्वेषु भागिनः ॥
कैश्चित् केचिद्यदि कृता­स्स­र्वे­षा­मपि स क्रतुः ।
विकलस्स्यात्ततो विष्णोः कुतः प्रीतिः कुतो वरः ॥
तद्देवताविधीनां च वैयर्थ्यं कालभेदतः ।
अदृष्टचरमन्यत्र प्रस­ज्ये­ता­नि­वा­रि­तम् ॥
एतेनेन्द्रादयो विष्णुं यजन्ति मनुजास्तु तान् ।
इत्यपास्तन्तु वैयर्थ्यं तेषां स्याद्धि तदा सदा ॥
एवमेव क्रतुभुजां यज्ञा­नु­ष्ठा­न­गो­चराः।
अर्थवादाश्च विज्ञेया विव­क्षा­र­हि­ता­र्थकाः ॥
अग्निष्टोमं कथं कुर्यात् सृष्टि­सा­म­र्थ्य­सि­द्धये ।
त्रिवृ­त्स्तो­मा­दि­सृष्टेः प्राक् प्राक् तत्सृष्टेश्च विश्वसृक् ॥
यष्टॄणां साप्तदश्यञ्च ब्राह्मण्यञ्च विना कथम् ।
चत्वा­र­स्स­त्र­मा­सी­र­न्न­ग्नी­न्द्र­प्र­मु­खा­स्सुराः ॥
कथं वैश्वसृजे सत्रे कुर्या­दा­र्त्वि­ज्य­म­ङ्गना ।
ऋत्विजां खलु पुंल्लि­ङ्गै­र्वेदैः पुंस्त्वं विवक्षितम् ॥
कथ­ञ्चो­न्ने­तृ­क­र्मैकं कुर्या­ता­मे­क­क­र्तृ­कम् ।
सर्पौ च कविशङ्काख्यौ सर्पाणामयने कृ(क्र)तौ ॥
तस्मा­द्वि­द्या­वि­शे­षेभ्यः कर्मभ्यश्च च्युतास्सुराः ।
च्यवन्ते श्रवणादिभ्यो वैदि­क­त्वा­वि­शे­षतः ॥
देवानां ब्रह्मवित्त्वं यदर्थवादेषु वर्णितम् ।
पूर्व­ज­न्मा­नु­वृत्तं तत् घटते वामदेववत् ॥
इन्द्रस्य ब्रह्म­वि­द्यार्थं ब्रह्मचर्यस्य वर्णनम् ।
यष्टृ­त्व­वा­द­व­न्नेयं शून्य­म­र्थ­वि­व­क्षया ॥
कथं हि ब्रह्मचर्यं स्यात् क्षण­म­प्य­मृ­ता­न्ध­साम् ।
सदा क्रतु­ह­वि­र्भू­त­म­धु­मां­सा­दि­भो­जि­नाम् ॥
पद्यै­स्स­म­ग्र­ही­ष्मेत्थं पद्धतिं पूर्वपक्षिणः ।
पुन­स्स्फु­टी­क­रि­ष्यामो वाक्यै­र­न­ति­वि­स्तरैः ॥

मधु­वि­द्या­या­मा­दि­त्य­व्य­पा­श्र­य­व­स्वा­दि­प­ञ्च­दे­व­ग­णो­प­जी­व्य­प­ञ्चा­मृ­तो­पा­स­नासु मध्व­ध्या­से­ना­दि­त्यो­पा­स­ना­याञ्च वस्वादीनां , संव­र्गा­दि­वि­द्या­दिषु वाय्वादीनाम् , अग्नि­हो­त्रे­ष्टि­सो­म­या­गा­दिषु अग्न्या­दि­स­र्व­दे­व­ता­नाञ्च नाधिकारः ; अभेदे उपा­स्यो­पो­स­क­भा­वस्य यष्टृ­य­ष्ट­व्य­भा­वस्य चासम्भवात् । न च तेषु वस्वा­दि­त­त्त­द्दे­वा­न्त­र्यामी पर­मा­त्मै­वो­पास्यो यष्टव्यश्च स्यादिति वाच्यम् । मधुविद्यायां हि ‘तद्यत् प्रथमममृतं तद्वसव उपजीवन्ति’ इत्यादौ वस्वा­दि­श­ब्दो­क्तानां तत्तदमृतोपजीवनं श्रुतम् , न तु तत्त­द्भो­ग­मा­त्रम् । उपजीवनं चाप्रा­प्त­प्रा­प्त्यर्थं किञ्चिदाश्रयणम् । तत्तु न परमात्मनि सम्भवति । तथा ‘वसूनामेवैको भूत्वा’ इत्युपासकस्य वसू­ना­म­न्य­त­म­भा­वा­पत्तिः श्रुता । साऽपि परमात्मनि न सम्भवति ; निर्धा­र­ण­ष­ष्ठी­ब­हु­व­च­न­स्या­र्थ­ब­हु­त्व­म­न­पे­क्ष्यै­क­स्मि­न्न­न्त­र्या­मि­ण्य­न्व­या­यो­गात् । तस्मादिह वस्वा­दि­श­ब्दोक्ता गणदेवता एवेत्यवसीयते । यथा ‘स य एतदेवमृतं वेद’(छा. ३.६.३) इत्य­त्रो­पा­स­क­त्व­लि­ङ्गा­द्य­च्छ­ब्दोक्तो जीवः नान्तर्यामी , ‘न ह वा अस्मा उदेति न निम्रोचति सकृ­द्दि­वा­है­वास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद’ इत्यौपसंहारिकं ब्रह्म­प्रा­प्ति­क­थनं वस्वा­दि­भा­व­द्वारा क्रममुक्तिपरम् , ब्रह्मो­प­नि­ष­त्पदं वेदो­प­नि­ष­द­र्थ­क­ञ्चेति युज्यते , तथा ऋतुषु यष्टव्या अपि प्रसिद्धा महेन्द्रादय इत्यवसीयते । ‘त्वष्टा हतपुत्रो वीन्द्रं सोममाहरत्’ इत्यादिश्रुतौ प्रसिद्धस्य वृत्र­ह­न्तु­रि­न्द्र­स्यैव , ‘सम्भ­व­द­ग्नी­षो­मा­व­भि­स­म­भ­वत्’ इत्यादिश्रुतौ वृत्रे­णा­भि­भ­वितुं योग्ययोः प्रसि­द्ध­यो­र­ग्नी­षो­म­यो­रेव , ‘अग्निर्वै देवानामवमः’ इत्या­दि­श्रु­ता­व­व­म­त्वादि योग्या­ना­म­ग्नि­प्र­भृ­ती­ना­मेव चेष्टिसोमादिषु देव­ता­त्व­स्या­व­ग­म्य­मा­न­स्या­प्र­त्या­ख्ये­य­त्वात् ।

ननु महाभारते –
‘ततस्ते विबुधास्सर्वे ब्रह्मा ते च महर्षयः ।
वेददृष्टेन विधिना वैष्णवं ऋतुमारभन् ॥
तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् ।
देवा महर्षयश्चैव सर्वे भागमकल्पयन् ॥
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ।
प्रापु­रा­दि­त्य­वर्णं तं पुरुषं तमसः परम् ॥’ इत्याद्यभिधाय
‘यज्ञै­श्व­र्येऽपि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥
यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः॥
इति तदनन्तरं विष्णु­व­च­न­व­र्ण­नेन पूर्वं वैष्णवानामेव सतां यज्ञभागानां तदीयवरदानेन देव­ता­न्त­र­स­म्ब­न्धित्वं ज्ञात­व्य­मि­त्य­व­ग­म्यते । तस्मा­दि­न्द्रा­दीनां ऋतुषु देवतात्वं प्रति­पा­द­य­ता­म­र्थ­वा­दानां नासाङ्गत्यमिति चेत् । कि ततः तस्मात् वैष्ण­व­स­त्रा­द­न्येषां क्रतूनां तस्या­प्य­धु­ने­न्द्रादि नाना­दे­व­त्य­ता­ङ्गी­कृ­तै­वेति कथमिन्द्रादीनां यागाधिकारः स्यात् ? किञ्चै­ता­दृ­शा­नि­ति­हा­स­दृ­ष्टा­न­र्थ­वा­दा­न­व­लम्ब्य पूर्व­म­न्य­था­प्र­वृत्तः धर्म इदानीमन्यथा प्रवृत्त इति धर्म­म­र्या­दा­वि­प्ल­वा­ङ्गी­कारो न युक्तः ; अन्यथा ह्यध­र्म­म­र्या­दाऽ­प्येवं विप्लु­ताऽ­ङ्गी­क्रि­येत । दृश्यते हि भारत एव पूर्वमनावृतानां स्त्रीणां श्वेत­के­तु­शा­प­प्र­भृ­त्ये­क­प­त्नी­त्वा­व­रणं प्रवृ­त्त­मि­त्या­दि­र­ध­र्म­वि­प्ल­वा­र्थ­वादः।

ननु श्वेव­के­तू­पा­ख्याने स्त्रीणां पूर्वमनावृतत्वे निर्ध­ने­नो­त्स­वार्थं क्रिय­मा­णा­या­मा­भ­र­ण­प्रा­र्थ­ना­या­मि­वा­प­त्नी­केन ब्राह्म­णे­ना­प­त्यार्थं क्रिय­मा­णा­या­मु­द्दा­ल­क­प­त्नी­प्रा­र्थ­नायां तत्पुत्रस्य श्वेतकेतोः कोपो न स्यात् । कोपश्च तत्रैव वर्णितः ‘मातरं तां तदा दृष्ट्वा नीयमानां बलादिव । तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे । संगृह्य मातरं हस्ते श्वेतकेतुरभाषत । दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्’ इति । तत­स्त्री­णा­मे­क­प­त्नी­त्व­नि­य­म­स्या­ना­दि­त्वा­व­ग­मात् तस्मि­न्नु­पा­ख्याने ‘अनावृता हि वर्णानां सर्वेषामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः’ इति नारीणां प्राग­ना­वृ­त­त्व­व­चनं ‘व्युच्च­रन्त्याः पतिं नार्याः अद्यप्रभृति पातकम् । भ्रूणहत्याकृतं पापं भवि­ष्य­त्य­सु­खा­व­हम्’ इति तदा­प्र­भृ­त्ये­क­प­त्नी­त्व­व्य­व­स्था­प­न­व­चनं च कुन्त्य­प­त्यार्थं पुरुषान्तरं प्रव­र्त­यि­तु­का­मस्य पाण्डो­स्स्व­क­ल्पि­ता­र्थ­वि­षयं वचनमिव प्ररो­च­ना­मा­त्र­प­र­मि­त्य­व­सी­यत इति चेत् ।

यज्ञा­ग्र­हा­रो­पा­ख्या­न­व­च­न­जा­त­म­प्ये­व­मे­वे­त्य­व­धा­रय , अन्यथा हि तत्र बह्व­स­म­ञ्ज­स­मा­प­द्यते । तथा हि – तस्मिन्सत्रे दीक्ष­णी­या­या­मा­ग्ना­वै­ष्णवः पुरोडाशोऽग्निना नानु­ष्ठि­त­श्चे­द­ग्ने­र्भागो न स्यात् । अनुष्ठितश्चेत् विष्णोरिदानीं भागानुवृत्तिर्न स्यात् । उपसत्सु वैष्णवो यागः केनापि देवे­ना­नु­ष्ठि­त­श्चेत् तदीय एवेदानीं स्यान्नवैष्णवः ; नानुष्ठितश्चेत् क्रतुर्विकलः स्यात् ; उदवसानीयावसानाः सर्वेऽपि देव­र्षि­भि­र­नु­ष्ठि­ता­श्चेत् सर्वेषु हविष्षु सर्वेऽपि भागिनः स्युः । कैश्चि­त्के­चि­त्कृ­ता­श्चे­त्स­र्वे­षा­मपि स क्रतुर्विकल इति ततो विष्णोः प्रीतिस्ततो देवानां वरलाभश्च न स्यात् । किञ्च पूर्वं वैष्णवः क्रतुः कालविशेषे नानादेवत्यो जात इत्यभ्युपगमे तस्मि­न्नु­प­दे­शा­ति­दे­शाभ्यां ‘प्रवृत्तेषु विधिषु श्रुतानां देव­ता­स­म­र्प­क­प­दानां पूर्वं विष्णु­वा­चि­त्व­मि­दानीं नाना­दे­व­ता­वा­चि­त्व­मिति क्वापि अदृष्टचरं विवि­धा­र्थ­वत्त्वं प्रसज्येत । एतेन – ‘इन्द्रादयो देवा विष्णुं यजन्तीति न यष्टृ­य­ष्ट­व्य­भा­व­वि­रोधः मनु­जा­स्त्वि­न्द्रा­दी­न्य­ज­न्तीति नेन्द्रादीनां यष्ट­व्य­त्व­प्र­सि­द्धि­वि­रो­धश्च’ इत्यपास्तम् । तदा हि विधिषु देवतावाचकपदानां नित्यमेव वैयर्थ्यं प्रसज्येत ।

एवं यज्ञा­ग्र­हा­रो­पा­ख्या­न­व­देव देवानां क्रत्व­नु­ष्ठा­ना­र्थ­वादा अप्य­वि­व­क्षि­तार्था द्रष्टव्याः , अन्यथा हि तत्रा­प्य­सा­ङ्ग­त्य­मा­प­द्येत । तथा हि – छन्दोगब्राह्मणे ‘प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एत­म­ग्नि­ष्टो­म­म­प­श्य­त्त­मा­ह­र­त्ते­नेमाः प्रजा असृजत’ इति प्रजा­प­ते­स्सृ­ष्टि­सा­म­र्थ्य­सि­ध्य­र्थ­म­ग्नि­ष्टो­मा­नु­ष्ठा­न­मुक्त्वा ‘सोऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतमसृजत तं गाय­त्री­छ­न्दोऽ­न्व­सृ­ज्य­ता­ग्नि­र्दे­वता ब्राह्मणो मनुष्या वसन्त ऋतुः’ इत्यादिना यज्ञा­नु­ष्ठा­नार्थं तदपेक्षितानां त्रिवृ­त्प­ञ्च­द­शा­दि­स्तो­मनां गाय­त्री­त्रि­ष्टु­भा­दि­च्छ­न्दसां ब्राह्म­ण­क्ष­त्रि­या­दि­म­नु­ष्याणां वस­न्त­ग्री­ष्मा­दि­ऋ­तू­नाञ्च सृष्टिरुक्ता । पुराणेषु तु ‘गायत्रञ्च ऋचश्चैव त्रिवृत्स्तोमं रथन्तरम् । अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमान्मुखात्’ इत्यादिना स्तोमा­दि­सृ­ष्टितः पृथ­ग­ग्नि­ष्टो­मा­दि­य­ज्ञ­सृ­ष्टि­र­प्युक्ता । एव­म­ग्नि­ष्टो­म­त­द­ङ्ग­क­ला­प­सृष्टेः प्रागेव ‘प्रजा­प­ति­र­ग्नि­ष्टो­म­मा­ह­रत्’ इति कथं घटते ? तथा ‘देवा व यश­स्का­मा­स्स­त्र­मा­सत अग्निरिन्द्रो वायुर्मुखः’ इति चतुर्णां देवानां सत्रा­नु­ष्ठा­न­मु­क्तम् । कथं चत्वार एव ब्राह्म­ण्य­र­हि­ता­स्स­त्र­म­नु­ति­ष्ठेयुः ? सप्तदशावराणां ब्राह्मणानामेव हि सत्रानुष्ठानम् । ‘ब्रह्म वै देवानां बृहस्पतिः क्षत्रमिन्द्रः’ इत्यादिश्रवणात् देवेष्वपि ब्राह्म­णा­दि­भा­वोऽ­स्तीति चेदस्तु नाम । तथाऽपि बृहस्पतेरेव देवेषु ब्राह्मणत्वेन निर्धारितस्य सत्राधिकारः स्यान्न त्वग्न्यादीनाम् । त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु’ इति अग्नेरपि देवेषु ब्राह्म­ण्य­नि­र्धा­रणं श्रूयते इति चेत् , तर्ह्य­र्थ­वा­द­द्व­य­म­प्य­वि­व­क्षि­ता­र्थ­मि­त्येव पर्यवस्येत् ; उभ­यो­रि­त­र­व्य­व­च्छे­देन ब्राह्म­ण्य­नि­र्धा­र­णा­यो­गात् । तथा­पी­न्द्रा­दीनां सत्राधिकारो न स्यादेव । तथा विश्वसृजामयने स्त्रिया आर्त्विज्यं श्रूयते ‘वाक् सुब्रह्मण्य (ण्या)’ इति । तथैव तैत्ति­री­य­शा­खा­या­मपि श्रूयते ‘वागेषां सुब्र­ह्म­ण्या­सी­च्छ­न्दो­यो­गा­न्वि­जा­नती’ इति । कथं स्त्रिया आर्त्विज्यम् ? होतारं वृणीते इत्या­दि­वि­धि­वा­क्य­ग­तैर्हि पुंलिङ्गैः ऋत्विजां पुंस्त्वं विवक्षितम् । तथा सर्पाणामयने चक­पि­श­ङ्ग­यो­र्द्व­यो­रु­न्ने­तृ­कर्म श्रूयते ‘चक­पि­श­ङ्गा­वु­न्ने­तारौ’ इति । कथ­मे­क­क­र्तृ­क­मु­न्ने­तृ­कर्म द्वौ कुर्याताम् ? तस्मा­द­वि­व­क्षि­तार्थ एव देवानां क्रत्व­नु­ष्ठा­ना­र्थ­वादः । अतो विद्या­वि­शे­षेभ्यः कर्मभ्यश्च प्रच्युता देवाः श्रवणादिभ्योऽपि च्यवन्त इत्येव युक्तम् ; वैदि­क­त्वा­वि­शे­षात् ।

यत्तु कठ­कौ­षी­त­की­शा­खा­दिषु यम­म­हे­न्द्रा­दीनां ब्रह्म­वि­द्यो­प­दे­ष्ट­त्व­मु­क्तम् , तत् वाम­दे­व­व­त्पू­र्व­ज­न्मा­नु­वृ­त्तया ब्रह्मविद्यया घटते । यत्तु छान्दोग्य इन्द्रस्य ब्रह्म­वि­द्या­र्थ­मे­क­श­त­व­र्ष­ब्र­ह्म­च­र्य­व­र्णनं तत् क्रत्व­नु­ष्ठा­न­व­र्ण­न­व­द­वि­व­क्षि­तार्थं नेतव्यम् । नन्विह विरोधाभावे किमि­त्य­वि­व­क्षि­ता­र्थत्वं कल्प्यते ? इहापि विरोधस्तुल्य एव । कथं हि देवानां चित्रे­ष्ट्या­दिषु , पशुयागादिषु च हविर्भूतानि मधुमांसानि तत्र तत्र यजमानैः प्रदीयमानानि सदा भुञ्जानानां क्षणमपि ब्रह्मचर्यं सम्भवेत् ? ब्रह्मचर्यकाले तद्भोजनाभावे च हविर्भोजनेन तृप्तानां देवानां फल­प्र­दा­तृ­त्व­मिति नियमस्त्यक्त एव स्यात् । तस्मान्नास्ति देवानां ब्रह्म­वि­द्याऽ­धि­कारः ।

सूत्रस्य मधु­वि­द्या­दि­ष्व­धि­का­रा­स­म्भ­वात् वैदि­क­त्वा­वि­शे­षेण ब्रह्म­वि­द्या­या­म­प्य­न­धि­कारं जैमिनिर्मेन इत्येकोऽर्थः । मधु­मां­स­भ­क्ष­ण­शी­ले­षु­ब्र­ह्म­च­र्या­स­म्भ­वात् तेष्वनधिकारं जैमिनिर्मेन इत्यपरोऽर्थः । १. ३. ३१ ।

एवं विग्र­हा­दि­प­ञ्च­क­वती देवतां सिद्धा­न्ति­री­त्याऽ­भ्यु­प­गम्य तस्याः श्रव­णा­दि­ष्व­धि­कारो निराकृतः । इदानीं तथाभूतायां देवतायां प्रमाणाभावात् तस्या­स्त­द­धि­का­र­व्य­व­स्था­पनं गगनकुसुमस्य सौरभ्यप्रदानेन तुल्य­मि­त्य­भि­प्रे­त्याह –

ज्योतिषि भावाच्च ॥३२ ॥

३२

यागा­दि­वि­धि­सा­मर्थ्यं आदि­त्या­दि­प­द­सा­मर्थ्यं मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णेषु विग्र­हा­दि­प­ञ्च­क­व­द्दे­व­ता­की­र्त­नञ्च तथा­भू­त­दे­व­ता­स्तित्वे प्रमाणत्वेन शङ्कनीयतया सम्भावितम् । तथा हि तत्त­द्दे­व­त्य­या­ग­वि­धयः श्रूयन्ते । यागाश्च तत्त­द्दे­व­ता­रा­ध­न­रूपाः ; ‘यज देवपूजायाम्’ इति स्मरणात् । फलकामिनाञ्च देवताराधनानि राजा­रा­ध­न­व­त्फ­ला­र्था­नी­त्या­रा­ध्य­मा­नानां देवतानां राज्ञामिव फल­दा­तृ­त्व­म­त्र­ग­म्यते । न च फलस्यानीशानानां फलदातृत्वं घटते । नाप्यप्रसन्नाः फलं प्रयच्छन्ति । नापि दीयमानं हविरभुञ्जानाः प्रसीदन्ति । न चैत­त्स­र्व­म­चे­त­नानां विग्र­ह­र­हि­ता­ना­मु­प­प­द्यत इति याग­वि­धि­सा­म­र्थ्या­द्वि­ग्रहो हविर्भोक्तृत्वं प्रसा­द­व­त्त्व­मै­श्वर्यं फलदातृत्वं च देवतानां कल्प्यते ।

तथा ‘यदा­ग्ने­योऽ­ष्टा­क­पालः’ इत्या­दि­ष्व­ग्न्या­दीनां भोज्येन पुरोडाशादिना सम्बन्धो योग्यतया भोक्तृत्वमेव । भोक्तृत्वे च तदुपपादको विग्र­ह­स्त­त्साध्यं प्रसादादिकं च लभ्यत इत्येवं द्रव्य­दे­व­ता­स­म्ब­न्ध­वि­धि­सा­म­र्थ्या­दपि तासां विग्रहादिपञ्चकं कल्प्यते । तथा प्रगी­ता­प्र­गी­त­म­न्त्र­सा­ध्य­गु­ण­व­च­न­रू­प­स्तो­त्र­श­स्त्र­वि­धि­सा­म­र्थ्या­दपि । गुणवचनं हि देवतानां राज्ञा­मि­वा­रा­ध­न­रूपं भवति । तेना­रा­ध्य­मा­नानां देवतानां फलदातृत्वं कल्प्यते । तेन तासां फलैश्वर्यं स्तावकेषु प्रसादो गुणवचनाकर्णनं विग्रहवत्ता चेति सर्वं कल्प्यते । तथा ’यस्य देवतायै हविर्गृहीतं स्यात्तां ध्याये­द्व­ष­ट्क­रि­ष्यन्’ इति देव­ता­ध्या­न­वि­धि­सा­म­र्थ्या­दपि विग्रहादिकं कल्प्यते । नहि विग्रहरहिता देवता ध्यान­गो­च­री­भ­व­तीति रूप­वि­शे­षा­कां­क्षायां मन्त्रा­र्थ­वा­दा­दि­प्र­सिद्धं विग्रहात्मकमेव रूपं ग्राह्यम् । हविःप्रदानसमये हवि­रु­द्दे­श्य­भू­त­वि­ग्र­ह­व­द्दे­व­ता­ध्यानं च दृष्टार्थत्वाय हविः­स्वी­क­र­णा­र्थम् । तच्च भोजनार्थम् । तेन प्रसादस्तेन फलकामनया हविस्त्यक्तवते यजमानाय फलप्रदानञ्चेति सर्वं लभ्यते ।

तथा आदि­त्योऽ­ग्नि­श्चन्द्र इन्द्र इत्यादयः शब्दा विधि­म­न्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णेषु लोके च प्रसिद्धाः । तेषाञ्च विधि­म­न्त्रा­दि­ष्वेव प्रातिपदिकात् विहि­तै­र्वि­भ­क्ति­त­द्धि­तै­र्यो­ग­द­र्श­नात् निखण्ड्वादिषु रविः सूर्यो वह्निर्ज्वलनो विधुश्चन्द्रमा मघवान् मरु­त्वा­नि­त्या­दि­प­र्या­य­स्म­र­णाच्च हुंफ­डा­दि­वै­ल­क्ष­ण्ये­ना­र्थ­व­त्त्वस्य , लोक­वे­द­प्र­सि­द्धे­न्द्रा­ण्या­दि­श­ब्देषु ‘पुंयो­गा­दा­ख्या­याम्’(पा. सू. ४. १. ४८.) इति विहि­त­स्त्री­प्र­त्य­य­यो­गा­द्वि­ग्र­ह­व­द­र्थ­व­त्त्वस्य च सिद्धौ विग्र­ह­वि­शे­षा­कां­क्षायां मन्त्रा­र्थ­वा­दा­दि­प्र­सिद्धो विग्रहः समा­न­वा­क्यो­पा­त्त­त्वा­द्ध­वि­र्भो­क्तृ­त्वा­दि­क­ञ्चेति सर्वं लभ्यते । साक्षाच्च विधि­नै­र­पे­क्ष्येण ‘वज्रहस्तः पुरन्दरः’ ‘पिबा सोममिन्द्र मन्दतु त्वा’ ‘तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति’ ‘इष्टान् भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः’ ‘ते तृप्ता­स्त­र्प­य­न्त्येनं सर्वकामफलैः शुभैः’ इत्या­दि­म­न्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णै­रपि देवतानां विग्रहादिपञ्चकं सिद्ध्यतीति ।

तत्र पदसामर्थ्यं ताव­न्नो­क्त­रू­प­दे­व­ता­स्तित्वे प्रमाणम् ; आदि­त्योऽ­ग्नि­श्चन्द्रः विद्यु­न्न­क्ष­त्रा­णी­त्ये­व­मा­दि­प­दा­ना­म­चे­त­न­ग­ग­न­प­रि­दृ­श्य­मा­न­म­ण्ड­ला­दि­रूपे प्रसिद्धे ज्योतिषि वृत्तेः । तत्रैव तेषां लोकप्रसिद्धेः , ‘न तत्र सूर्यः’ इत्या­दि­श्रु­ति­प्र­सि­द्धेश्च सद्भावात् ; इन्द्रो मित्रो वरुण इत्यादिपदानामपि ‘ज्येष्ठा नक्षत्रमिन्द्रो देवता’ इत्या­दि­श्रु­त्य­नु­सा­रेण नक्षत्ररूपे ज्योतिष्येव वृत्तेः । नक्ष­त्रे­ष्टि­या­ज्या­नु­वा­क्यासु क्वचित्क्वचित् इन्द्रो ज्येष्ठामनु नक्षत्रमेति’ इत्यादी ज्येष्ठा­दि­न­क्ष­त्रा­णा­मि­न्द्रा­दि­दे­व­ता­नाञ्च भेदनिर्देशस्य नक्ष­त्र­प­द­वा­च्य­लौ­कि­क­ते­जो­वि­शे­ष­त्व­दे­व­ता­प­द­वा­च्या­लौ­कि­क­ह­वि­रु­द्दे­श्य­त्वा­त्म­क­रू­प­भे­दे­नो­प­पत्तेः । सोऽयं गकार इति प्रत्य­भि­ज्ञा­ल­म्भि­त­स­र्व­वि­ष­य­ग­का­रा­भे­दा­नु­सा­रेण ‘द्वावेतौ गकारौ तारेण मन्द्रोऽभिभूतः तारा­न्म­न्द्रोऽन्यः’ इत्या­दि­भे­द­प्र­त्य­या­ना­मौ­पा­धि­क­रू­प­भे­द­वि­ष­य­त्व­स्या­ङ्गी­कृ­त­त्वेन तद्वदिहापि सम्भवात् । अन्येषां च लोक­वे­द­प्र­सि­द्ध­दे­व­ता­वा­चि­प­दानां ज्योति­र्म­ण्ड­ल­म­ध्य­गते क्वचि­त्क्व­चि­न्न­क्षत्रे इन्द्रादिपदवत् वर्तनसम्भवात् । इन्द्रा­ण्या­दि­श­ब्दानां नक्षत्रवाचितया पुंवि­शे­ष­यु­क्त­स्त्री­वा­चि­त्वा­भा­वेऽपि हिमा­नी­य­वा­नी­श­ब्द­वत् स्त्रीप्र­त्य­या­न्त­त्व­स­म्भ­वात् । पृथिव्यापो वायु­र­न्त­रि­क्ष­मो­ष­धयो वनस्पतयः पुष्पाणि फलान्यहोरात्रौ प्राची प्रतीची मन­श्चि­त्त­मि­त्या­दि­क­र्म­वि­शे­ष­वि­नि­यु­क्त­दे­व­ता­वा­चि­प­दानां लोक­वे­द­प्र­सि­द्ध्य­नु­सा­रेण प्रसिद्धेषु मृदादिष्वेव वृत्तेश्च । तस्मात् पदसामर्थ्यं न विग्र­हा­दि­म­द्दे­व­ताऽ­स्तित्वे प्रमाणम् ।

नापि यागा­दि­वि­धि­सा­म­र्थ्यम् ; यागविधीनां पूजाविषयत्वेन , द्रव्य­स­म्ब­न्ध­वि­धीनां द्रव्य­स­म्ब­न्धि­त्वेन , स्तोत्र­श­स्त्र­वि­धीनां स्तुतिविषयत्वेन , ध्यान­वि­धे­र्ध्या­न­वि­ष­य­त्वेन चादि­त्या­दि­ज्यो­तिषि मृदादौ च तात्पर्यात् । तथा हि –
पूज्यः फलप्रदातेति नियमो नैव विद्यते ।
दूरे तस्य फलै­श्व­र्य­प्री­ति­भो­ज­न­वि­ग्रहाः ॥
पूज्या हि राज्ञश्शिशवः पूज्या­स्त­त्पा­दु­का­दयः ।
क्रतौ सोम­श्शि­वे­ज्यायां पूजोपकरणादयः ॥
तानुद्दिश्य कृता पूजा राजादीनां भवेद्यदि ।
तदाऽस्तु यज्ञे देवानां पूजा ब्रह्मण एव नः ॥
पितु­र्मा­तु­र्गुरोः पत्युरतिथीनां त्रयीविदां ।
पूजायां गतिरेषैव ह्युपास्या सकलैरपि ॥
इष्ट्योः पार्वणहोमाभ्यां ते एव खलु कर्मणि ।
यष्टव्ये स्वीकृते तत्र का गतिः कथितेतरा ॥
तुरङ्गमेधे मेध्यस्य तुरङ्गस्य गुणक्रियाः ।
अङ्गानि च यदिज्यन्ते गतिस्तत्रापि नापरा ॥
छन्दोगानां विवाहेषु या कन्या परिणीयते ।
सैवेज्यते तदङ्गं च तत्रा­प्य­न्याऽस्ति नो गतिः ॥
श्राद्धे­ष्व­तीताः पितरः तिर्यग्जन्मगता अपि ।
इज्यन्ते नामगोत्राभ्यां तत्राप्येषा गतिस्समा ॥
चेतनत्वेऽपि देवानां भाविकल्पान्तरे फलम् ।
ईश्वरेणैव दातव्यं न तु तैर्विलयं गतैः ॥
अथवा कर्मजन्येन संस्कारेणैव केवलम् ।
न द्रव्य­दा­न­प्री­तेन देवे­ना­ख­ण्ड­ला­दिना ॥
आहूतायाप्रदानं च क्षेपं संकल्पितस्य च ।
तत्प्री­ति­मि­च्छन् कः कुर्यादाश्रयन् ब्रह्म कर्म वा ॥
यदा­ग्ने­या­दि­वा­क्येषु तद्धि­ता­दि­स­म­र्पितः ।
द्रव्य­दै­व­त­स­म्ब­न्ध­श्श­ब्द­द्वारो विवक्षितः ॥
विधि­व­द्दे­व­ता­वा­चि­श­ब्दो­च्चा­र­ण­पू­र्व­कम् ।
द्रव्यस्य त्यज्यमानत्वं सम्ब­न्ध­स्ता­भि­रस्ति हि ॥
शब्दद्वारक एवात्र सम्बन्धो विधिमर्हति ।
शक्यं पुंसामनुष्ठातुं शब्दोच्चारणमेव यत् ॥
अत एव हि पर्यायाः पदस्य विधिवर्तिनः ।
यज्ञेषु न प्रयुज्यन्ते देव­ता­स्मृ­ति­सि­द्धये ॥
अग्नये पावकायेति विहिता यत्र देवता ।
तत्र शब्दौ प्रयुज्यते पर्यायावपि तावुभौ ॥
सोमः क्रतु­ह­वि­र्भू­त­स्त­स्या­भि­ष­व­सा­धनः ।
ग्रावा च स्तूयते तद्व­द­र्ह­न्ती­न्द्रा­दयः स्तुतिम् ॥
प्रजापतेर्हि न प्रीत्यै तत्परीवादशंसनम् ।
अन्यत्र स्तोत्रशब्दस्य तादर्थ्ये कस्तवाग्रहः ॥
समु­द्र­ध्या­न­व­द्ध्यानं देवतानां प्रसिध्यति ।
तासां नाचेतनत्वेन किञ्चि­द­प्य­प­रा­ध्यते ॥
श्लोक­स्सं­गृ­ही­त­म­र्थ­जा­त­म­स्फु­टा­र्थ­क­रं­बितं वाक्यैः स्फुटीकुर्मः । पूज्यः फलप्रदातेति नास्ति नियमः ; येन यागेषु पूजनीयानां देवादीनां फलैश्वर्यादिकं सिद्ध्येत् । राज्ञ­श्शि­श­व­स्त­त्पा­दु­का­द­यश्च राज­भृ­त्यै­रु­चि­तो­प­चा­रेण पूज्यन्ते । ज्योतिष्टोमे सोमलता पयोऽन्ननिवेदनेन पूज्यते । शिवपूजायां पूजो­प­क­र­ण­नि­र्मा­ल्या­दयो गन्धपुष्पादिभिः पूज्यन्ते । न हि तेषां फलदातृत्वमस्ति । यद्युच्यते राज­कु­मा­रा­दी­ना­मु­प­चारो राजादीनामेव पूजा तेषां च फल­दा­तृ­त्व­म­स्तीति नास्ति नियमविरोध इति , तदा क्रतुषु देवानामिज्या तत्त­द्व­र्णा­श्र­मा­चा­रा­दि­रू­पा­ज्ञा­प्र­व­र्त­कस्य परब्रह्मण एव पूजा तस्य फल­दा­तृ­त्व­म­स्तीति नास्माकमपि नियमविरोधः । अवश्यञ्च पित्रादिपूजासु दर्श­पू­र्ण­मा­से­ष्ट्यो­र्द­र्श­पू­र्ण­मा­स­श­ब्दि­त­क­र्म­स­मु­दा­य­दे­व­त्य­त्वे­नात एव आग्ने­या­दि­प्र­त्ये­क­या­ग­वि­का­रेषु सौर्यादिषु अनतिदेश्यत्वेन च स्वीकृतयोः पार्व­ण­हो­म­यो­र­श्व­मेधे चाश्वस्य गुण­क्रि­या­ङ्गा­न्यु­द्दिश्य ‘कृष्णाय स्वाहा श्वेतायस्वाहा यन्मेहसि तस्मै स्वाहा यच्छकृत्करोषि तस्मै स्वाहा दद्भ्यस्स्वाहा हनूभ्यां स्वाहा’ इत्यादिमन्त्रः क्रियमाणेषु होमेषु , सामगानां परिणयनकर्मणि परिणीयमानां कन्यामुद्दिश्य लेखासंधिषु पक्ष्मसु’ इत्यादिमन्त्रैः क्रियमाणेषु होमेषु , तद­ङ्ग­वि­शे­ष­मु­द्दिश्य ‘इमं त उपस्थं मधुना संसृजामि’ इत्यादिमन्त्रेण क्रियामाणे होमे , तिर्य­ग्ज­न्म­ग­ता­नपि मृतानुद्दिश्य क्रियमाणेषु श्राद्धेषु कल्पा­व­सा­न­कृ­त­या­गा­दिषु च नान्या गतिरस्ति ; पित्रादीनां पितृ­शु­श्रू­षा­दि­वि­ध्यु­क्तै­हि­का­मु­ष्मि­क­फ­ल­दा­न­सा­म­र्थ्या­स­म्भ­वात् , चेत­न­त्वे­ना­भ्यु­प­ग­ता­ना­मपि यागेषु यष्ट­व्या­ना­मि­न्द्रा­दीनां कल्पा­न्त­रे­ष्व­नु­वृ­त्ति­र­हि­तानां भावि­क­ल्पा­न्त­र­भो­ग्य­पू­र्व­क­ल्पा­व­सा­न­कृ­त­क­र्म­फ­ल­दा­न­सा­म­र्थ्या­स­म्भ­वाच्च । तस्मादनन्यगत्या देवानामिज्यायाः परब्रह्मणैव फलं देयमिति वा ब्रह्म­वा­दा­न­भ्यु­प­गमे कर्म­ज­न्य­सं­स्का­रे­णै­वा­पू­र्व­रू­पेण फलं देयमिति वाऽऽश्रयणीयम् । द्रव्य­दा­न­प्री­तेन इन्द्रादिना फलं देयमिति त्वयुक्तमेव ; कर्मा­न्व­यि­दे­व­तानां चेत­न­त्व­फ­लै­श्व­र्य­फ­ल­दा­न­का­ल­प­र्य­न्त­स्था­यि­त्व­नि­य­मा­भा­वात् ।

किञ्च ‘ऐन्द्र­मे­का­द­श­क­पालं निर्वपेत् मारुतं सप्तकपालं ग्रामकामः’ इति विहि­ता­या­मिष्ट्यां ‘ऐन्द्र­स्या­व­द्यन् ब्रूया­दि­न्द्रा­या­नु­बृ­ही­त्या­श्राव्य ब्रूयान्मरुतो यजेति मारु­त­स्या­व­द्य­न्या­न्म­रु­द्भ्योऽ­नु­बृ­ही­त्या­श्राव्य ब्रूयादिन्द्रं यज’ इत्याहूतदेवतायै द्रव्या­प्र­दा­न­म­ना­हू­त­दे­व­तायै तत्प्रदानञ्च कर्तव्यतया श्रूयते । ‘यस्य हविर्निरुप्तं पुर­स्ता­च्च­न्द्रमा अभ्युदेति स त्रेधा तण्डु­ला­न्वि­भ­जेत्’ इत्या­दि­वा­क्य­वि­हि­ता­या­म­भ्यु­द­येष्टौ द्रव्य­सं­प्र­दा­न­त्वेन सङ्क­ल्पि­त­दे­व­ता­नि­रासो द्रव्याणां देव­ता­न्त­रो­द्दे­शेन त्यागश्च कर्तव्यतया श्रूयते । तदेतत् यागादीनां देवताप्रीणनेन ततः फला­वा­प्त्य­र्थ­पक्षे न युज्यते । को हि द्रव्यदानेन कञ्चि­त्प्री­ण­यि­तु­मि­च्छन् द्रव्यदानार्थं तमाहूय तद्द्र­व्य­म­न्यस्मै दद्यात् ? कस्मै­चि­द्द्रव्यं सङ्कल्पितं प्रति­क्षि­प्या­न्यस्मै तद्द्रव्यञ्च दद्यात् ? न ह्यप्रीणनीये प्रीण­नी­य­त्व­भ्रान्त्या तदा­ह्वा­न­स­ङ्कल्पौ ; अग्रे यष्ट­व्या­ना­मि­न्द्रा­दी­ना­म­वश्यं प्रीणनीयत्वात् , तेषामपि तथाऽऽ­ह्वा­न­स­ङ्क­ल्पाभ्यां कोपजननायोगात् । अतः कर्म­ब्र­ह्मा­न्य­त­रा­ना­श्र­येण यष्टॄणां देव­ता­प्री­ण­न­प­र­ता­या­मी­दृ­श­क­र्मा­नु­ष्ठा­ना­यो­गा­दी­दृशैः कर्मभिरात्मनो लीलारूपैः प्राप्तं ब्रह्मैव वा , अपूर्वद्वारकं कर्मैव वा विश्वसन्तो यष्टव्य देव­ता­प्री­ति­म­ना­दृत्य यथाविधि कर्मा­नु­ति­ष्ठन्ति । कर्मविधयश्च यष्ट­व्य­दे­व­ता­प्री­ति­म­द्वा­री­कु­र्वन्तः सर्व­क­र्मा­रा­ध्यस्य परब्रह्मणः फलदातृत्वे कर्मण एवा­पू­र्व­द्वा­र­कस्य फल जनकत्वे वा तात्पर्यवन्तः प्रवृत्ता इत्ये­वो­प­पा­द­नी­यम् । द्वितीयपक्षे पूज्य: फलप्रदातेति नियमश्च त्यक्तव्यः , पूजैव फल­ज­नि­के­त्य­भ्यु­पे­यम् । तस्मान्न याग­वि­धि­सा­मर्थ्यं देवतानां विग्र­हा­दि­मत्त्वे प्रमाणम् ।

नापि द्रव्य­दे­व­ता­स­म्ब­न्ध­वि­धि­सा­म­र्थ्यम् । ‘यदा­ग्ने­योऽ­ष्टा­क­पालः’ ‘अनुमत्यै पुरोडाशम्’ इत्यादिविधिषु तद्धि­त­च­तु­र्थी­स­म­र्पितः द्रव्याणां देवतासम्बन्धो न भोक्तृ­भो­ज्य­भा­व­स­म्बन्धः ; तस्य पुरु­षे­णा­नु­ष्ठा­तु­म­श­क्यस्य विध्यगोचरत्वात् । किन्तु यथाविधि तत्त­द्दे­व­ता­वा­चि­श­ब्दो­च्चा­र­ण­पू­र्व­क­त्या­ग­वि­ष­य­त्व­रूपः परम्परासम्बन्धः ; शब्दो­च्चा­र­ण­स्यैव पुरु­षे­णा­नु­ष्ठातुं शक्यस्य विध्यर्हत्वात् । अत एव द्रव्य­त्या­गा­दि­वि­षये तत्त­द्वि­धि­श्रु­त­दे­व­ता­वा­चि­श­ब्दो­चा­रण एव विधिपर्यवसानम् , न देवतायाम् , द्रव्यस्य तत्तत्सम्बन्धे वा । अत एवा­ग्ने­या­दि­या­ग­का­लेषु अग्न्या­दि­श­ब्द­प­र्याया नोच्चार्यन्ते – अन्यथा उद्दे­श्य­दे­व­ता­स्मृ­ति­मा­त्रा­र्थत्वे कदाचिदिच्छया पर्याया अपि प्रयुज्येरन् ।

यद्युच्येत – विध्यु­पा­त्त­दे­व­ता­वा­चि­श­ब्दस्य बुद्धि­स­न्नि­हि­तस्य त्यागे कारणाभावात् स एव यागकाले प्रयुज्यते – इति , तथापि ‘अग्नये पावकाय पुरोडाशम्’ इत्यादि विधि­वि­हि­त­या­गा­नु­ष्ठाने द्वयो­र­ग्नि­वा­च­क­प­दयोः प्रयोगो न स्यात् ; एके­ना­प्य­र्थ­स्मृ­ति­सिद्धेः । अतो विधि­वा­क्य­श्रु­त­या­व­द्दे­व­ता­वा­चि­श­ब्दो­च्चा­र­ण­वि­धि­ब­ला­देव स नियमो निर्वाह्य इति न देव­ता­वि­धि­सा­म­र्थ्य­मपि तासां विग्र­हा­दि­मत्त्वे प्रमाणम् । स्तुति­स्त्वि­न्द्रा­दी­ना­म­चे­त­ना­ना­मपि बहि­ष्प­व­मा­न­स्तोत्रे सोमलताया इव , ग्रावस्तुतौ तदभिषवसाधनानां प्राणामिव चोपपद्यते । किञ्च द्वादशाहे ‘प्रजापतिं परिवदन्ति’ इति विधानात् ‘अकुशलो वा अयं प्रजापतिर्यो दंशमशकान् ससृजे यस्तेनान्’ इत्यादीन् प्रजा­प­ति­प­रि­वा­दान्न तत्प्री­त्य­र्थ­म­धी­यते । निन्दानां कोपजनकत्वात् , किंत्व­दृ­ष्टा­र्थ­मि­त्ये­वो­प­पा­द­नी­यम् । एवमेवान्यस्यापि स्तुत­श­स्त्र­व­च­न­स्या­दृ­ष्टा­र्थ­त्वो­प­पत्तौ प्रीत्य­र्थ­ता­या­मा­ग्रहो न युक्तः । देवतानां ध्यानमपि बृह­त्स्तो­त्रा­दि­का­लेषु समु­द्रा­दी­ना­मि­वा­चे­त­ना­ना­मपि घटते । तस्मा­द्दे­व­ता­ना­म­चे­त­नत्वे किमपि न विरुध्यते इति न याग­दे­व­ता­स्तो­त्र­श­स्त्र­दे­व­ता­ध्या­न­वि­धीनां सामर्थ्यं तासां विग्र­हा­दि­मत्त्वे प्रमाणम् ।

नापि मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­व­च­न­जातं तत्र प्रमाणम् । ज्योति­ष्टो­मा­दि­क­र्म­त­द­ङ्ग­क­ला­पा­न्व­यिषु मन्त्रेषु तद्वि­ध्य­न्व­यि­ष्व­र्थ­वा­देषु च देवतानां सर्ग­प्र­ल­य­वि­ग्र­ह­च­रि­त्रा­दि­व­र्ण­न­स्या­नु­ष्ठे­या­र्थ­स्मृ­ति­द्वारा विधे­य­स्तु­ति­द्वारा च ज्योतिष्टोमादौ प्रधाने तदङ्गकलापे च , औप­नि­ष­द­म­न्त्रा­र्थ­वा­दे­ष्वि­ति­हा­स­पु­रा­णेषु च तद्वर्णनस्य देवतानां सृष्टि­प्र­ल­य­क­र्तरि तपश्चर्यादिभिः तासामुपास्ये तद्वै­रि­नि­ग्र­हा­दिना तासां पालके पर­ब्र­ह्म­ज्यो­तिषि , तदु­पा­स­ना­वि­शे­षेषु च तात्पर्यात् । ज्योति­ष्टो­मा­दि­क­र्म­त­द­ङ्ग­वि­धिभिः पर­ब्र­ह्म­स्व­रू­प­नि­रू­प­ण­प­र­म­हा­वा­क्यै­स्त­दु­पा­स­ना­वि­धि­भि­श्चै­क­वा­क्य­ता­प­न्नानां देव­ता­वि­ग्र­हा­दि­स­म­र्प­क­म­न्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­व­च­नानां प्रती­य­मा­नेऽ­र्था­न्तरे तात्पर्यायोगात् ।

स्यादेतत् – तेषां विध्या­द्ये­क­वा­क्य­त्वेन देवताविग्रहादी तात्प­र्या­भा­वेऽ­प्य­वा­न्त­र­प­द­सं­स­र्गतः प्रतीयमानः सोऽप्य­र्थोऽ­भ्यु­प­ग­न्तव्य एव ; प्रती­य­मा­ना­र्थ­त्यागे कारणाभावात् , ‘न सुरां पिबेत्’ इत्यत्र पदत्रयस्य पदैकवाक्यत्वात् सुरां पिबेदिति पद­द्व­य­सं­स­र्ग­तोऽ­र्थ­प्र­ती­ति­रेव नास्तीति तदनभ्युपगमः । मन्त्रादीनां तु सन्नि­हि­त­वि­ध्या­दिभिः वाक्यै­क­वा­क्य­तेति तेभ्योऽ­वा­न्त­रा­र्थ­प्र­तीतिः सर्वानुभवसिद्धा न प्रत्याख्यातुं शक्या । अत एव जैमिनिनाऽपि ‘अविशिष्टस्तु वाक्यार्थः’(जै. सू. १. २. ३२) ‘अर्थैकत्वादेकं वाक्यम्’(जै , सू. २. १. ४६) इत्या­दि­सू­त्रै­र्म­न्त्राणां वाक्या­र्थ­वत्त्वं दर्शितम् । तद्विरोधिनश्च तद­र्थ­शा­स्त्रा­दयो मन्त्राधिकरणे परिहृताः । अपरिपूर्णेषु मन्त्रवाक्येषु तद­र्थ­प्र­ती­त्यु­प­पा­दको चानु­ष­ङ्गा­ध्या­हारौ ‘अनुषङ्गो वाक्यसमाप्तिः’(जै. सू. २. १. ४८) ‘व्यवधाना(व्यवाया) नानुषज्यते’(जै. सू. २. १. ४८) इति सूत्राभ्यां दर्शितौ । मन्त्र­वा­क्या­र्थ­प्र­ती­ति­मु­प­जी­व्यैव च ‘बर्हिर्देवसदनं दामि’ इत्या­दि­म­न्त्राणां लैङ्गि­क­वि­नि­यो­गोऽ­ङ्गी­कृतः । अर्थ­वा­द­वा­क्या­ना­म­र्थ­व­त्त्व­वि­रो­धि­नश्च शास्त्र­दृ­ष्ट­वि­रो­धा­द­योऽ­र्थ­वा­दा­धि­क­रणे परिहृताः । तद­र्थ­प्र­ती­त्यु­प­पा­द­काश्च तत्का­र्य­क­र­त्वा­दि­ल­क्ष­णा­स्त­त्सि­द्धि­पे­टि­कायां दर्शिताः । अर्थ­वा­द­वा­क्या­र्थ­प्र­ती­ति­मु­प­जी­व्यैव च ज्योति­ष्टो­मा­दि­फ­ल­स­म­र्प­क­स्व­र्ग­श­ब्द­स्या­लौ­कि­क­सु­ख­वि­ष­यत्वं रात्रिसत्रस्य प्रतिष्ठाफलत्वं , ज्योति­ष्टो­म­श­ब्दस्य सोम­या­ग­मा­त्र­वि­ष­यत्वं चातुर्मास्ये द्वयोः पर्व­णो­र­प्रा­कृ­ता­ग्नि­प्र­ण­य­ना­न्त­र­वि­धा­नस्य मध्य­म­प­र्व­वि­ष­यत्वं गावा­म­य­नि­का­र­म्भ­का­ल­वि­धा­य­क­वा­क्य­ग­त­पौ­र्ण­मा­सी­श­ब्दस्य माघ­पौ­र्ण­मा­सी­वि­ष­यत्वं द्वाद­शा­ह­वि­का­रेषु तदी­य­म­ध्य­म­द­श­रा­त्रस्य प्रवृ­त्ति­र्ग­वा­म­यने त्र्यनीकायां स्वस्था­न­वि­वृद्धिः दण्ड­क­लि­त­प­दा­वृ­त्ति­रि­त्या­द्य­र्थ­जातं निर्णीतम् । किंबहुना । कृस्नमपि पूर्वतन्त्रं मन्त्रा­र्थ­वा­द­लि­ङ्गा­न्यु­प­जी­व्यैव प्रवृत्तम् । तथापि मन्त्रा­र्थ­वा­दा­दीनां विध्या­द्ये­क­वा­क्य­त­याऽ­न्यत्र तात्पर्यवतां देव­ता­वि­ग्र­हा­दि­रूपे स्वार्थे तात्प­र्या­भा­वान्न तत्र प्रमाण्यमस्तीति चेत् ;

न ; तात्पर्यविषय एवार्थे शब्दस्य प्रामाण्यमिति नियमाभावात् । प्रमाणतः प्राप्ति­वि­रो­ध­यो­र­सतोः पद­स­म­भि­व्या­हा­र­ल­भ्या­र्थ­मात्रे तस्य प्रामाण्यात् । अन्यथा ‘एतस्यैव रेवतीषु वार­व­न्ती­य­म­ग्नि­ष्टो­म­साम कृत्वा पशुकामो ह्येतेन यजेत’ इति वाक्यात् रेव­त्या­धा­र­वा­र­व­न्ती­य­सा­म­सा­ध्या­ग्नि­ष्टो­म­स्तो­त्र­वि­शि­ष्ट­क्र­तु­वि­धि­प­रात् ‘रेव­ती­र्न­स्स­ध­माद’ इत्या­दि­ऋ­क्त्र­या­धा­र­वा­र­व­न्ती­य­सा­म­रू­प­म­ग्नि­ष्टो­म­स्तो­त्रस्य विशेषणं न सिद्ध्येत् । न हि तत् ‘सोमेन यजेत’ इत्या­दि­वि­शि­ष्ट­वि­धिषु सोम­ल­ता­दि­वि­शे­ष­ण­व­ल्लो­क­सि­द्धम् । नापि ‘कवतीषु रथन्तरं गायेत्’ इति तत्प्र­मा­प­क­वि­ध्य­न्त­र­मस्ति । न चास्यैव विशिष्टगोचरस्य विधे­र्वि­शे­ष­ण­वि­धा­वपि तात्पर्यं वक्तुं शक्यम् ; विध्या­वृ­त्ति­प्र­स­ङ्गात् । न चाक्षे­पा­द्वि­शे­ष­ण­वि­धि­लाभः । लोकप्रसिद्धे हि विशेषणे विशि­ष्ट­वि­धि­वा­क्य­ग­त­सो­मा­दि­प­दा­त्प्र­तीते तद्वि­शि­ष्ट­या­गा­दि­गो­चरो विधिः विशे­ष­ण­वि­धि­मा­क्षि­पेत् । न चेह तथा विशेषणस्य लोकतः प्रसिद्धिरस्ति । न चाक्षेपादेव तस्य प्रसि­द्धि­र­प्ये­ष्टव्या । आक्षेपात् विशेषणप्रसिद्धौ सत्यां विशिष्टविधिः , विशिष्टविधिनैव च विशे­ष­ण­त­द्वि­ध्यो­रा­क्षेप इति पर­स्प­रा­श्र­या­पत्तेः । तस्मात् विशि­ष्ट­वि­धे­र्वि­शे­ष­ण­स्व­रूपे तात्प­र्या­भा­वेऽपि तस्मि­न्न­प्र­सिद्धे ‘रेवतीषु वारवन्तीयम्’ इति पद­द्व­य­स­म­भि­व्या­हा­र­स्यैव प्रामा­ण्य­म­भ्यु­प­गम्य तत­स्त­त्प्र­सि­द्धि­रा­श्र­य­णीया ।

एवं मन्त्रा­र्थ­वा­दा­दि­भि­स्ता­त्प­र्य­र­हि­तै­रपि देव­ता­वि­ग्र­हा­दिकं प्रसिद्धं न निवार्यते । अन्या­र्थ­प्र­वृ­त्त­स्यापि प्रमाणस्य प्रमा­ण­स्वा­भा­व्येन याव­त्स्व­वि­ष­य­प­रि­च्छे­द­क­त्वा­व­श्यं­भा­वात् ; ‘घटायोन्मीलितं चक्षुः पटं किं न प्रकाशयेत्’ इति न्यायात् । यदि च शब्दस्य तात्पर्यविषय एव प्रामाण्यमिति नियमस्तथाऽपि न दोषः । यागादिविधिभिः ब्रह्म­प­र­वा­क्यै­रु­पा­स­न­वि­धि­भिश्च वाक्यैकवाक्यतया तेषु महा­ता­त्प­र्य­व­ता­मपि मंत्रा­र्थ­वा­दा­दीनां प्रधा­न­वि­द्द्ये­क­वा­क्य­ता­वतां प्रया­जा­दि­वा­क्या­ना­मिव स्वखा­र्थे­ष्व­वा­न्त­र­ता­त्प­र्य­सं­भ­वात् । प्रया­जा­दी­ना­मि­ति­क­र्त­व्य­ता­रू­पेण प्रधा­न­वि­ध्या­कां­क्षि­त­त्वात् तेष्व­वा­न्त­र­ता­त्प­र्य­मस्ति , न देवताविग्रहादौ , अन­पे­क्षि­त­त्वा­दिति चेत् ; न । ‘क्लृप्तो­प­का­र­सा­कांक्षाः प्रथमं प्राकृतैस्सह । संबध्यन्ते समीपस्थं विकाराः प्रोज्झ्य चोदितम्’ इत्युक्तन्यायेन क्लृप्तो­प­का­र­प्रा­कृ­ता­ङ्ग­क­ला­प­प्रा­थ­मि­का­न्व­य­नि­रा­कां­क्षी­कृ­त­प्र­धा­न­वि­ध्य­न­पे­क्षि­ता­ङ्ग­स­म­र्प­का­णा­म­प्या­म­न­हो­मा­दि­वि­धा­नां­स्वा­र्थे­ष्व­वा­न्त­र­ता­त्प­र्या­भ्यु­प­ग­मात् । मंत्रा­र्थ­वा­द­प्र­ति­पा­द्य­ना­मा­न­पे­क्षि­त­त्व­म­प्य­सि­द्धम् ; विधी­य­न्व­य्य­र्थ­वा­दा­र्थानां यागादिषूपासनासु च परी­क्ष­क­प्र­वृ­त्त्यु­प­यो­गि­स्तु­ति­द्वा­र­त्वात् ।

यद्यपि काव्येषु पुरवर्णनादिरूपा सहृ­द­य­हृ­द­यो­ल्ला­स­प्र­यो­जना , लोके राजा­दि­हृ­द­या­व­र्ज­न­प्र­यो­जना , बाला­ना­मौ­ष­धा­दि­प्र­वृ­त्ति­प्र­यो­जना च स्तुति­र­स­द­र्था­व­लं­ब­नाऽपि दृश्यते , तथापि परीक्षकाणां यागा­दि­प्र­वृ­त्ति­प्र­यो­जना स्तुति­र­स­द­र्था­व­लं­बना न संभवत्येव । एवं ‘नकिरिन्द्र त्वदुत्तरः’ ‘विश्व­स्मा­दिन्द्र उत्तरः’ इत्या­दि­मं­त्रा­र्था­ना­मपि स्तुति­द्वा­र­त्वा­द­स­द­र्था­व­लं­ब­नता न संभवति । ये तु केव­ल­म­नु­ष्ठे­या­र्थ­प्र­का­शका मंत्रा न तु स्तावकाः तदर्था अप्य­नु­ष्ठे­या­र्थ­प्र­का­श­न­स्यैव निर्वा­हा­र्थ­म­पे­क्षिताः । तथा ब्रह्म­वा­क्या­न्व­यि­सृ­ष्टि­प्र­ल­या­दि­प्र­ति­पा­द­क­मं­त्रा­र्थ­वादा अप्य­ध्या­रो­पा­प­वा­दा­दि­भि­र्ब्र­ह्मणो निष्प्र­प­ञ्च­त्वा­दि­प्र­सि­द्ध्य­र्थ­म­पे­क्षिता एव । एव­मि­ति­हा­स­पु­रा­णार्था अपि । तस्मा­न्मं­त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णै­र्दे­व­तानां विग्रहादिकं सिद्ध्ययतीति चेत् ;

उच्यते – यदुक्तं प्राप्ति­वि­रो­ध­यो­र­भा­वात् मन्त्रा­र्थ­वा­दा­दि­भि­र­न्य­प­रै­रपि देवतानां विग्रहादिकं सिद्ध्यतीति , तत्र विरो­धा­भा­व­स्ता­व­द­सिद्धः । तथा हि – देवतानां विग्रहं प्रतिपादयतां तेषामचेतनेषु ज्योति­रा­दि­ष्वा­दि­त्या­दि­श­ब्दानां शक्ति­ग्रा­ह­कै­स्त­द­नु­सा­रि­भि­र्लौ­कि­क­वै­दि­क­प्र­यो­गैश्च विरोधः । ‘असौ योऽवसर्पति नीलग्रीवो विलोहितः उतैनं गोपा अदृ­श­न्न­दृ­श­नु­द­हार्यः उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः’ इत्यादित्यस्य विग्रहं गोपा­ल­स­लि­ला­ह­र­णी­प्र­भृ­ति­पा­म­र­ज­न­सा­धा­र­ण्येन सकलदृश्यं प्रतिपादयतो मन्त्रस्य प्रत्यक्षविरोधः । अस्य च ‘नम­स्सू­र्या­या­दि­त्याय नमो नीलग्रीवाय शितिकण्ठाय’ इति कृच्छ्रा­ङ्गा­दि­त्यो­प­स्था­न­म­न्त्रस्य च नील­ग्री­व­त्वा­दि­वि­शि­ष्ट­मा­दि­त्य­वि­ग्रहं प्रति­पा­द­य­त­स्त­था­भू­त­वि­ग्रहं शिवासाधारणं प्रति­पा­द­य­द्भि­र्म­न्त्रा­र्थ­वा­दा­दि­भि­र्वि­रोधः । ‘अर्यम्णे चरुं निर्व­पे­त्स्व­र्ग­का­मोऽसौ वा आदित्योऽर्यमा’ इत्या­दि­ब्रा­ह्म­ण­वि­हिते काम्ये­ष्टि­वि­शेषे क्रमप्रमाणेन विनियुक्तस्य अर्यमायाति वृष­भ­स्तु­वि­ष्मा­न्दाता वसूनां पुरुहूतो अर्हन् । सहस्राक्षो गोत्र­भि­द्व­ज्र­बा­हु­र­स्मासु देवो द्रविण ददातु’ इति मन्त्रस्य वज्र­ह­स्त­त्वा­दि­वि­शिष्टं विग्रहं महे­न्द्रा­सा­धा­रणं प्रति­पा­द­य­द्भि­स्तै­र्वि­रोधः । ‘एतेन वै सर्पा अप­मृ­त्यु­म­ज­य­न्न­प­मृत्युं जयन्ति य एतदुपयन्ति तस्मात्ते हित्वा जीर्णां त्वच­म­ति­स­र्प­न्त्यप हि ते मृत्यु­म­ज­य­न्सर्पा वा आदित्या आदि­त्या­ना­मे­वैषां प्रकाशो भवति य एतदुपयन्ति’ इति सर्पा­णा­म­य­ना­र्थ­वा­द­स्या­दि­त्यानां कद्रूसुतरूपत्वं प्रति­पा­य­त­स्तेषां पौरु­षे­या­न्वि­ग्र­हा­न­दि­ति­प्र­भ­वान् प्रति­पा­द­य­द्भि­स्तै­र्वि­रोधः । ‘सायं यावानश्च वै देवाः प्रात­र्या­वा­न­श्चा­ग्नि­हो­त्रिणो गृहमागच्छन्ति’ ‘अध्वर्यो द्रावय त्वं सोममिन्द्रः पिपासति । उपनूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा’ इत्यादीनां यागदेशागमनं देवतानां प्रतिपादयतां प्रत्यक्षविरोधः ; युग­प­त्प्र­वृ­त्ता­ने­क­या­ग­दे­शा­ग­म­न­वि­रो­धश्च ।

न च कायव्यूहकल्पनेन सर्व­त्रा­ग­म­न­नि­र्वाहः । माता­पि­तृ­प्र­भ­व­त्व­नि­य­तानां कर­च­र­णा­भि­ला­पा­दि­म­त्का­या­ना­मि­च्छा­मा­त्रे­णा­वि­र्भा­व­क­ल्प­ना­नु­प­पत्तेः । ‘कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा न बहूनां यजमानानाम्’ इति ब्राह्म­ण­श्रु­त­प्र­श्ना­नु­प­प­त्तेश्च । काय­व्यू­ह­प­रि­ग्रहे हि सर्वेषामपि यज्ञ­मा­ग­च्छे­यु­र­वि­रो­धात् । ‘यो वै देवताः पूर्वः परिगृह्णाति स एनाश्श्वोभूते यजते’ इति तदुत्तरमपि विरुद्धम् । पश्चा­द्दे­व­ता­प­रि­ग्रहं कृतवतां यज्ञं प्रति देवतानामनागमनेन तन्नै­ष्फ­ल्य­प्र­स­ङ्गात् , एवमपि युग­प­त्प्र­वृ­त्ता­ने­क­या­ग­दे­शा­ग­म­ना­नि­र्वा­हाच्च । तथा देवतानां यागी­य­ह­वि­र्भो­क्तृत्वं प्रतिपादयतां मन्त्रा­र्थ­वा­दा­दीनां प्रत्यक्षविरोधः । अग्नौ हुतानि हि द्रव्याणि प्रत्यक्षं भस्मीभवन्ति दृश्यन्ते । पद­हो­मा­दि­द्र­व्याणि च पांस्वादिषु निलीयमानानि दृश्यन्ते । पञ्च­शा­र­दी­यो­क्ष­ह­य­मे­ध­प­र­स्व­दा­द­यश्च यागीयाः पशवः पर्य­ग्नि­क­र­णान्ते देवतादेशेन त्यक्ता यथापूर्वं जीवन्त एव दृश्यन्ते । श्राद्धेषु विश्व­दे­वा­द्यु­द्दे­शेन त्यक्तानि चानाने निम­न्त्रि­तै­ब्रा­ह्म­णै­रेव भुज्यमानानि तेषामेव च तृप्तिं जनयन्ति दृश्यन्ते । हविषां सूक्ष्माः रसांशाः देवैर्भुज्यन्त इति मधु­क­र­भु­क्त­सू­क्ष्म­र­सां­शेषु पुष्पेष्विव नास्ति प्रत्यक्षविरोध इति चेत् ; एवमपि हविषां पर­लो­को­त्क्र­म­ण­प्र­त्या­वृ­त्ति­श्रु­ति­स्मृ­ति­वि­रोधः । तथा हि – अग्नि­हो­त्रा­हुती: प्रकृत्य वाजसनेयके श्रूयते ‘ते वा एते आहुती उत्क्रामतः ते अन्त­रि­क्ष­मा­वि­श­तस्ते अन्तरिक्षं तर्पयतः ते दिवमाविशतः ते दिवं तर्पयतः ते आवर्तेते । ते इममाविशतः ते पुरुषमाविशतः ते स्त्रियमाविशतः ततः पुत्रो जायते’ इति । स्मर्यते च ‘अग्नी प्रास्ता­हु­ति­स्स­म्य­गा­दि­त्य­मु­प­ति­ष्ठते । आदित्याज्जायते वृष्टि­र्वृ­ष्टे­रन्नं ततः प्रजाः’(मैत्रा , ६. ३७) इति ।

न च ‘दिवं तर्पयत’ इति श्रवणाद्धविषां कस्मिंश्चिदंशे देवै­र्भु­क्तेऽ­शा­न्त­रस्य प्रत्यावृत्तिः स्यादिति वाच्यम् । ‘दिवं तर्पयत’ इत्यस्य ‘अन्तरिक्षं तर्पयत’ इत्यस्य चाविशेषेण तत्त­ल्लो­क­प्री­ति­प­र­तया विशिष्य अग्नि­हो­त्र­दे­व­ता­भू­ता­ग्नि­सू­र्य­प्र­जा­प­ति­त­र्प­ण­प­र­त्वा­भा­वात् । अन्यथा ‘अन्त­रि­क्ष­मा­वि­शत’ इत्यस्यायोगात् , अग्नि­सू­र्य­प्र­जा­प­ती­ना­म­न्त­रि­क्ष­ला­के­वा­सि­त्वा­भा­वात् । अपि च हविर्भुञ्जाना देवाः खस्स्थान एव स्थित्व भुञ्जते उत यागदेशमागत्य ? आये यागदेशागमनं व्यर्थमिति ‘अध्वयों द्रावय त्वम्’ इत्या­दि­श्र­ति­वि­रोधः द्वितीये हविरग्निना देवानां स्थानं प्रति न नेतव्यमिति ‘अतन्द्रो हव्या वहसि हविष्कृतः’ ‘अग्नेस्त्रयो ज्यायांसो भ्रातर आसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त’ इत्या­दि­श्र­ति­वि­रोधः ।

एवं श्राद्धेषु तर्पणीयाः स्वस्थानस्था भुञ्जत इत्यङ्गीकारे पुराणादिषु तेषां श्राद्ध­दे­शा­ग­म­न­व­र्ण­न­वि­रोधः । उक्तं हि पद्मपुराणे श्रीरा­म­च­न्द्रे­णापि योग­वा­प्या­ङ्ग­यायां श्राद्धे क्रियमाणे दश­र­थ­त­त्पि­तृ­पि­ता­म­हास्तं देशमागत्य निम­न्त्रि­त­ब्रा­ह्म­णानां देहेषु स्थिताः सीतया दृष्टा इति । तत्र किमर्थं निमन्त्रितान् ब्राह्मणान् दृष्ट्वैव श्राद्ध देशा­द­प­क्रा­न्ताऽ­सीति पृष्टवन्तं श्रीरामचन्द्रं प्रति श्रीसीतावचनं ‘शृणु त्वं नाथ यद्दृ­ष्ट­मा­श्चर्यं हि मयेदृशम् । पिता तव मया दृष्टो ब्राह्मणाङ्गेषु राघव । सर्वा­भ­र­ण­सं­युक्तो द्वावन्यौ च तथाविधौ । दृष्ट्वा त्रपाऽन्विता चाहमपक्रान्ता तवान्तिकात्’ इति । श्राद्ध­दे­श­मा­गत्य निम­न्त्रि­त­ब्रा­ह्म­ण­मु­खे­ना­वि­ष्ट­म­नु­ष्य­मु­खेन पिशाचा इव भुञ्जत इत्यङ्गीकारे तु ‘अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा प्रादात् पितृभ्यस्वधया ते अक्षन्’ इत्या­दि­श्रु­ति­वि­रोधः । स्थाव­र­ति­र्य­ङ्म­नु­ष्या­दि­जन्म प्राप्तानां श्राद्ध­दे­श­ग­म­ना­स­म्भ­व­यु­क्ति­वि­रो­धश्च ; पूर्व­ज­न्म­पु­त्रा­दि­कृ­त­श्राद्धैः कस्यापि कदापि तृप्तेरदर्शनात् प्रत्य­क्ष­वि­रो­धश्च । भाव्यं हि हव्य­क­व्यो­द्दे­श्यानां तद्भोक्तृत्वे कदा­चि­द­प्य­क­स्मा­देव पूर्व­ज­न्म­पु­त्रा­दि­क­र्तृ­क­श्रा­द्ध­द­त्ता­न्न­पा­न­वि­शे­षो­प­यो­ग­जन्यैः प्रीतिविशेषैः ।

किञ्च देवतानां हवि­र्भो­क्तृ­त्वा­ङ्गी­कारे ‘नह वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति’ इति श्रुत्य­न्त­र­वि­रो­धश्च । प्रस्त­र­या­ग­स्व­रू­प­हो­म­वा­त­ना­म­हो­मा­दि­द्र­व्येषु कुश­का­श­दा­रु­श­क­ल­वा­य्वा­दिषु मनु­ष्या­द्य­न­द­नी­येषु युक्तिविरोधश्च । तथा स्रुवा­दि­गृ­ही­तै­रा­ज्या­दि­द्रव्यैः द्व्यव­दा­ना­दि­प­रि­मितैः पुरो­डा­शा­दि­द्र­व्यैश्च , महाविग्रहत्वेन मन्त्रा­र्थ­वा­दा­दि­प्र­ति­प­न्नानां देवतानां तृप्तिं प्रतिपादयतां तेषां युक्तिविरोधः । ‘यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्यात्मना ददात्यन्यस्मै महता पूर्णं होतव्यं तृप्त एवैनमिन्द्रः प्रजया पशु­भि­स्स­म­द्ध­र्यति’ इति श्रुतिरपि स्रुवा­द्य­ल्प­पा­त्र­प्र­वि­ष्टै­रा­ज्या­दि­द्र­व्यै­स्तृ­प्त्य­स­म्भ­व­यु­क्ति­म­नु­मो­दते ।

तथा देवानां फलदातृत्वं प्रतिपादयतां कल्पा­न्त­र­भो­ग्य­फ­ल­दा­तृ­त्वा­स­म्भ­व­यु­क्ति­वि­रोधः , ‘फलमत उपपत्तेः(ब्र.सू ३.२.३) इत्य­धि­क­र­णो­क्त­न्या­या­वि­रो­धश्च । एकै­वा­ग्नि­हो­त्र­दे­वता दध्ना प्रीतेन्द्रियं प्रयच्छति , पयसा प्रीता­प­श­मि­त्या­दि­फ­ल­व्य­व­स्थायां लोक­दृ­ष्ट­वि­रो­धश्च । लोके द्रव्यप्रदानेन प्रीणनीयानां राजादीनां प्रदे­य­द्र­व्य­भे­देन व्यव­स्थि­त­फ­ल­दा­तृ­त्वा­द­र्श­नात् । एतेन – फल­दा­तृ­त्वा­न्य­था­नु­प­पत्त्या देवतानां तत्त­त्फ­लै­श्व­र्य­क­ल्प­न­मपि निरस्तम् । तस्मादसिद्धो विरोधाभावः ।

यदु­क्त­म­न्य­प­र­वा­क्यै­रपि प्रतीयमानं देव­ता­वि­ग्र­हा­दिकं सिद्ध्यति , तात्पर्यविषय एवार्थे शब्दस्य प्रामाण्यमिति नियमाभावादिति , तदसङ्गतम् । तथा नियमाभावे ‘श्वेतो धावति’ इति श्वित्रि­क­र्तृ­क­व­श्व­नि­र्णे­ज­न­प­र­वा­क्यस्य ‘इतः सारमेयो गच्छति’ इत्य­र्था­न्त­रेऽपि प्रतीयमाने प्रामा­ण्य­प्र­स­ङ्गात् । न चेष्टापत्तिः । अविरुद्धेऽपि शब्दस्य तात्प­र्या­वि­ष­य­व्य­ति­रि­क्तेऽर्थे पर्वतो वह्नि­न­मा­नि­त्य­नु­मा­न­स्या­नु­मे­य­व्य­ति­रि­क्तेऽर्थे पर्वतादाविव शब्दस्य प्रामा­ण्य­व्य­व­हा­रा­भा­वस्य सर्व­सं­प्र­ति­प­न्न­त्वात् । व्यव­हा­रा­नु­सा­रे­णैव प्रामा­ण्य­स्या­भ्यु­प­ग­न्त­व्य­त्वात् । ननु शब्दस्य स्वतन्त्र एवार्थद्वये प्रामाण्यं नास्ति । द्वार­द्वा­रि­भा­वा­पन्ने तु अस्तीति चेत् ; न । श्लिष्टकाव्येषु विश्वतोमुखेषु सूत्रेषु च वक्तृविवक्षया शब्द­ता­त्प­र्य­वि­षये स्वत­न्त्रा­र्थ­द्व­येऽपि प्रामाण्यस्य संप्रतिपन्नतया विव­क्षि­त­वि­वे­क­त­स्ता­त्प­र्य­वि­षय एवार्थे शब्दस्य प्रामाण्यमिति पर्य­व­सा­ने­नो­क्त­व्य­व­स्थाया निष्प्र­मा­ण­क­त्वात् । ‘रेवतीषु वारवन्तीयम्’ इत्यत्र तात्प­र्या­वि­ष­येऽ­प्यर्थे शब्दस्य प्रामाण्यं दृष्टमिति चेत् न । असिद्धेः ; ‘सोमेन यजेत’ इत्या­दि­ष्वि­वा­त्रापि विशिष्टविधिनैव विशे­ष­ण­वि­ध्या­क्षे­पा­ङ्गी­का­रात् । न चोक्त­प­र­स्प­रा­श्र­य­प्र­सङ्गः ; सोम­द्र­व्य­प्र­ती­ति­वत् विशि­ष्ट­वि­धि­ग­त­प­द­लभ्यां रेव­त्या­धा­र­वा­र­व­न्ती­य­प्र­ती­ति­मु­प­जीव्य प्रवृत्तेन विशिष्टविधिना रेवतीषु वारवन्तीयं कुर्यादिति विशे­ष­ण­वि­ध्या­क्षे­प­स­म्भ­वात् । तत्प्रतीत्यभावे त्वयाऽपि तत्र प्रामा­ण्य­स्या­ङ्गी­क­र्तु­म­श­क्य­त्वेन तत्प्र­ती­ते­रे­वा­व­श्या­भ्यु­प­ग­न्त­व्य­त्वात् ।

इयांस्तु विशेषः – सोमलतादिविशेषणं मानान्तरसिद्धं पदात्प्रतीयते , इदन्तु माना­न्त­रा­सि­द्ध­मेव पद­स­म­भि­व्या­हा­रात् प्रतीयत इति । प्रतीयमानेऽपि विशेषणे तात्पर्याभावात् तत्र विशिष्टविधेः प्रामाण्याभाव उभ­य­त्रा­प्य­वि­शिष्टः । अयञ्चापरो विशेष: – सोम­ल­ता­दि­द्र­व्यस्य लोकसिद्धत्वात् तत्र याग­स­म्ब­न्धि­त्वे­नैव विधिः , कल्प्यः । ‘विश्वजित् सर्व­पृ­ष्ठोऽ­ति­रात्रो भवति’ इति विश्वजिति षाड­हि­क­पृ­ष्ठ­ग­त­स­र्व­ता­विधौ षाड­हि­क­प्र­ष्ठानां लोक­सि­द्ध­त्वा­भा­वेऽपि द्वाद­शा­ह­प्र­क­र­ण­ग­त­वि­धि­सि­द्ध­त्वा­त्ते­ष्वपि विश्व­जि­त्स­म्ब­न्धि­त्वे­नैव विधिः कल्प्यः । इह तु विशे­ष­ण­स्व­रू­प­स्यापि माना­न्त­रा­सि­द्ध­त्वा­त्प्र­ती­य­मा­नेऽपि तस्मिन् विशिष्टविधेः प्रामा­ण्या­भा­वाच्च तत्सिद्ध्यर्थं स्वरूपेण स्तोत्र­वि­शे­ष­स­म्ब­न्धि­त्वेन च विधिद्वयं कल्प्यमिति । तस्मात् तात्प­र्या­वि­ष­येऽपि शब्दः प्रमा­ण­मि­त्ये­त­द­स­ङ्ग­तम् ।

यदुक्तम् – देव­ता­वि­ग्र­हा­दी­ना­म­वा­न्त­र­वा­क्या­र्थ­त्वा­त्प्र­या­जा­म­न­हो­मा­दि­ष्विव तेष्व­वा­न्त­र­ता­त्प­र्य­म­भ्यु­प­ग­न्त­व्य­मिति , तदप्यसङ्गतम् । वेदे न्यायेन तात्पर्यं व्यवतिष्ठते , लोके वक्तृविवक्षयेव । अस्ति प्रया­जा­दी­ना­म­वा­न्त­र­ता­त्प­र्य­स­द्भा­वा­व­ग­मको न्यायः । तेषां प्रया­जा­दि­वि­धि­ता­त्प­र्या­भावे हि वैयर्थ्यं स्यात् । तथा सति प्रयाजादीनां निष्प्र­मा­ण­क­त्वा­पत्त्या दर्श­पू­र्ण­मा­सा­द्य­न्व­य्य­ङ्ग­स­म­र्प­क­त्वा­भा­वेन तद्वि­ध्ये­क­वा­क्य­त­याऽपि सार्थ­क­त्व­क­ल्प­ना­न­व­का­शात् । न चाध्य­य­न­वि­धि­प­रि­गृ­ही­तानां तेषां वैयर्थ्यं युक्तमिति । न चेह तथा मन्त्रा­र्थ­वा­दानां देव­ता­वि­ग्र­हा­दि­ष्व­वा­न्त­र­ता­त्प­र्य­क­ल्प­कोऽस्ति न्यायः । तेषा­म­नु­ष्ठा­न­का­लि­क­द्र­व्य­दे­व­ता­दि­स्व­रू­प­प्र­का­श­न­प्रा­श­स्त्य­स­म­र्प­ण­रू­प­व्या­पा­रा­न्त­र­वतां तद्द्वारेण तत्त­द्वि­ध्ये­क­वा­क्य­तया सार्थ­क­त्व­सं­भ­वात् । यदि तु तात्प­र्य­क­ल्प­क­न्या­य­म­न­पे­क्ष्यैव क्वचि­त्ता­त्प­र्य­वतां वेदवाक्यानां प्रति­प­त्तु­रि­च्छ­याऽ­न्य­त्रापि तात्प­र्य­म­भ्यु­प­ग­म्येत , तदा ‘सदेव सोम्येदमग्र आसीत्’ इत्या­दि­ज­ग­त्का­र­ण­वा­क्या­ना­मु­प­क्र­मो­प­सं­हा­रा­दि­ब­ल­व­न्न्या­य­व­शा­त्क्व­चि­दर्थे तात्पर्यवतां तत्त­द्वा­द्य­भ्यु­प­ग­त­ब्र­ह्म­वि­ष्णु­रु­द्रे­न्द्र­च­न्द्र­सू­र्या­न­ला­दि­ष्व­न्ये­ष्वपि बहुषु तात्पर्यं स्यादिति अनेकेश्वरवादो वेदसिद्धः प्रसज्येत ।

ननु मन्त्रा­र्थ­वा­दा­ना­म­स­द­र्थ­वि­ष­यत्वे तात्प­र्या­प्र­तीत्या परी­क्ष­क­प्र­वृ­त्त्यु­प­यो­गिन्या विधे­य­स्तु­ति­बु­द्धे­र्वि­हि­ता­नु­ष्ठा­नस्य चासं­भ­वा­त्त­दु­भ­य­द्वारा विध्ये­क­वा­क्यत्वं न निर्वहतीति तन्नि­र्वा­हा­र्थ­मेव तेषां सदर्थविषयकत्वं कल्पनीयमिति चेत् ; उच्यते – स्तावकवाक्यानां ताव­त्स्तु­ति­द्वा­र­का­वि­ध्ये­क­वा­क्य­त्व­नि­र्वा­हा­र्थ­म­स­द­र्थ­वि­ष­य­त्व­मेव कल्पनीयम् । तथात्व एव स्तुति­प­र­त्व­नि­श्च­येन झटिति स्तुति­बु­ध्यु­त्पत्तेः । अन्यथा स्वार्थ­बो­ध­वि­ष­यैव वाक्य­प्र­वृ­त्ति­रिति शङ्कया स्तुति­प­र­त्व­नि­श्च­या­सं­भ­वात् । अत एव स्तुति­प­र­वा­क्या­ना­म­स­दा­व­लं­ब­नत्वं सिद्धं कृत्वो­क्त­म­भि­युक्तैः ‘भूता­र्थ­व्या­हृतिः सा हि न स्तुतिः परमेष्ठिनः’ इति । भट्ट­पा­दै­र­प्या­श­ङ्का­प­रि­हा­राभ्यां तथैव दर्शितम् ‘अथोच्येत अस­द­र्था­न्वा­ख्याने कुतः­स्तु­ति­नि­न्दा­त्व­मिति सुतरां तत्र प्रतीयते काम परार्थे वक्तारो भवन्ति काऽत्र स्तुतिनिन्दा वा । सत्यमेवैतत्’ इति ।

नन्व­स­द­र्था­व­लं­ब­नया स्तुत्या परीक्षकाः कथं प्ररोचिताः प्रवर्तन्ते ? इत्थम् – आरोग्यादिफले कटु­ति­क्ता­द्यौ­ष­ध­से­वने बहुनियमपरिकरे प्रवर्तकस्य पित्रादेः प्रव­र्त­नी­ये­ष्ट­त­मा­स­त्या­ने­क­फ­लो­क्ती­ना­मिव बहु­वि­त्त­व्य­या­या­स­साध्ये कर्मणि प्रवर्तकस्य वेदस्य स्ताव­क­वा­क्या­ना­म­स­द­र्थ­वि­ष­य­त्व­म­व­ग­च्छ­न्तोऽपि प्रवर्तनीयाः परीक्षका यदस्य वास्तवं फलं तल्लं­भ­ना­र्थ­म­व­श्य­मि­द­म­नु­ष्ठा­प­नी­य­मिति स्ताव­क­वा­क्या­ना­म­स­द­र्था­व­लं­ब­नत्वे हितैषित्वेन प्रवृ­त्ति­प्र­ति­ब­न्ध­क­द्वे­षा­ल­स्या­दि­भ­ङ्ग­रू­प­प्र­रो­च­ना­र्थ­म­स­त्या­न्य­न्या­न्यपि फलान्युपन्यस्य कृत्यु­द्दे­श्य­ता­ह­मिदं कर्मेति पित्रादिवद्वेदः स्तोतीति स्ताव­क­वा­क्या­ना­म­स­दा­व­लं­ब­न­त्वेऽ­प्य­बा­धि­तायां कर्मस्तुतौ तात्पर्यं निश्चित्य प्रवर्तकस्य वेदस्य हितै­षि­त्वे­ना­न­ति­क्र­म­णी­य­त्व­वि­श्वा­सा­त्स्तु­ति­द्वा­र­भू­ता­र्था­स­त्य­त्व­म­दोषं मन्यमानाः प्रवर्तन्ते । एव­मे­वा­स­द­र्था­व­लं­ब­न­नि­न्दा­वा­क्य­श्र­व­णेन च निवर्तन्ते । एव­म­स­द­र्था­व­लं­ब­न­स्तु­ति­नि­न्दा­वा­क्यानां प्रवृ­त्ति­नि­वृ­त्ति­प­र­त्वा­स­म­र्थने भारतादिषु , गृध्र­गो­मा­यु­सं­वा­दा­दी­ना­म­स­दु­पा­ख्या­नानां का गतिः ? ते हि तियञ्चोऽपि एवं वञ्चयन्ति ; विशिष्टबुद्धयो मनुष्या वञ्च­न­प्र­वृ­त्ता­श्चे­त्कथं कथं न वञ्चयेयुः ? तस्मा­द्व­ञ्च­का­निं­गि­ता­कारैः सम्पक्संशोध्य तदनुसारेण प्रवर्तनीयं निवर्तनीयं वेत्याद्युपदेशे तात्पर्यवन्तः प्रमाणभूता इत्येव समर्थनीयम् । इयमेव ‘त्रयो होद्गीये कुशला बभूवुः’ इत्या­दि­वै­दि­को­पा­ख्या­ना­ना­मपि गतिः । न हि तेषां सद­र्थ­वि­ष­य­त्व­म­ङ्गी­कर्तुं शक्यम् ; वेद­स्या­नि­त्य­सं­यो­ग­प्र­स­ङ्गात् ।

मन्त्राणान्तु अनुष्ठानार्थं प्रकाशनीयेषु द्रव्यदेवतादिषु सद्वि­ष­य­त्व­नि­य­मेऽपि तद्विशेषणेषु च नास्ति सद्विषयत्वनियमः । ‘तस्मि­न्सी­दा­मृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ ‘जगृभ्णाते दक्षि­ण­मि­न्द्र­ह­स्तम्’ ‘धान्ते धूमो गच्छ­त्व­न्त­रि­क्ष­मर्चिः’ ‘पृथिवीं भस्मना प्रीणय स्वाहा’ ‘दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिंसीः पृथिव्या संभव’ ‘अश्वि­नो­र्बा­हुभ्यां पूष्णो हस्ताभ्यम् अग्नये जुष्टं निर्वपामि’ इत्यादि मन्त्रेषु प्रकाशनीयानां द्रव्य­दे­व­ता­क्रि­या­णा­मिव तद्विशेषणानां सौमनस्यादीनां सत्यत्वाभावात् । ‘अवचनं तेषामितरार्थं प्रयुज्यते’(जै. सू. ९. १. ३७) इति नावमिकाधिकरणे कर्म­स­म­वे­त­नि­र्वा­पा­दि­वि­शे­ष­णस्य ‘अश्वि­नो­र्बा­हु­भ्याम्’ इत्या­दे­र­स­म­वे­त­स्या­भि­धा­न­म­दृ­ष्टा­र्थ­मिति व्यव­स्था­पि­त­त्वात् । एवमेव कर्म­स­म­वे­त­दे­व­ता­प्र­का­श­केषु मन्त्रेषु विग्र­हा­दि­रू­प­त­द्वि­शे­ष­णा­भि­धा­न­म­स­म­वे­ता­भि­धानं संभवतीति न किञ्चित् हीयते । अवश्यञ्च ‘अग्निस्ते तनुवं मातिधात्’ ‘व्रीहीणां मेध सुमनस्यमानः’ इत्या­दि­म­न्त्रेषु द्रव्य­वि­शे­ष­ण­दे­हे­न्द्रि­या­द्य­नु­व­द­न­स­म­वे­ता­भि­धा­न­मि­त्ये­वा­ङ्गी­का­र्यम् । देव­ता­वि­शे­ष­ण­दे­हे­न्द्रि­या­द्य­नु­व­दने कः सद्वि­ष­य­त्वा­ग्रहः ? तस्मात् पुरो­डा­शा­दी­ना­मि­वा­चे­त­नानां देवतानामपि देहेन्द्रियादि कल्प­ना­मा­त्र­मि­त्येव वक्तुं युक्तम् । पुरो­डा­शा­दि­श­ब्दा­ना­म­पू­र्वा­दि­ष्विव आदि­त्या­दि­श­ब्दा­ना­म­प्य­चे­त­नेषु ज्योतिरादिषु व्युत्प­त्ति­ग्र­ह­स्या­वि­शि­ष्ट­त्वात् । अत एव ‘असौ योऽवसर्पति’ इति मन्त्रः पामरसाधारण्येन सक­ल­दृ­ष्टि­गो­च­र­ज्यो­ति­र्मं­ड­ल­मेव नीलग्रीवत्वेन विशेषयति । न हि तत् काल्प­नि­क­त्व­म­न­ङ्गी­कृत्य निर्वोढुं शक्यम् । तस्मा­द्दे­व­ता­वि­ग्र­हा­दि­प्र­ति­पा­द­क­मं­त्रा­र्थ­वा­दा­ना­मपि विग्र­हा­दि­क­ल्प­ना­वति ज्योतिरादावेव तात्पर्यान्न तद्बलादपि देवतानां विग्र­हा­दि­सिद्धिः । तस्मात् विग्र­हा­दि­र­हि­त­त्वेन देवतानां ब्रह्म­वि­द्या­धि­का­र­श­ङ्काऽपि नावकाशवतीति । इत्थं द्वेधा पूर्वपक्षे प्राप्ते सिद्धान्तमाह –

भावं तु बादरायणोऽस्ति हि ॥३३॥

३३

यद्यपि मधु­वि­द्या­दि­ष्व­धि­कारो नास्ति देवानाम् ।
न निवार्यते तथापि स शुद्धायां ब्रह्म­वि­द्या­याम् ॥
न हि सर्वेषां सर्वेष्वधिकारो राजसूयमुख्येषु ।
सर्वत्रानधिकारो येनैषां कुह­चि­द­न­धि­का­रा­त्स्यात् ॥
किंच मध्वादिविद्यासु देवानां नानधिक्रिया ।
भाष्ये त्वनधिकारोक्तिः कृत्वाचिन्तैव केवलम् ॥
वस्वा­द्या­स्स­मु­पा­सी­र­न्त­ना­त्मानं स्वस्वमात्मना ।
स्वस्वत्मन उपास्यत्वे को विरोधः प्रसज्यते ॥
कर्म­क­र्तृ­वि­रो­धोऽस्ति नोपा­स्यो­पा­स­क­त्वतः ।
अहंग्रहोपासनासु स्वस्यो­पा­स्य­त्व­द­र्श­नात् ॥
उपा­स­ना­वि­शे­ष्यत्वे स चेदत्रापि नास्ति सः ।
विशेषणानि ह्यमृते वस्वाद्या वर्णिताः श्रुतौ ॥
तस्यां विशेष्यत्वमपि स्वस्य नैव विरुध्यते ।
योऽहं सोऽसाविति न किं स्ववि­शे­ष्य­मु­पा­स­नम् ॥
कर्म­क­र्तृ­वि­रो­धो­क्ति­स्त­त्रा­भ्यु­च्चय एव नः ।
तत्परत्वेन हि मुहुः पूर्वपक्षाः प्रवर्तिताः ॥
वस्वादीनामपि सतां वस्वादित्वं भवान्तरे ।
प्रार्थनीयं भवत्येव पुत्रित्वं पुत्रिणां यथा ॥
देवत्वप्रापकं सत्रं देवास्सन्तोऽपि कुर्वते ।
इत्ये­व­मु­क्ति­लिं­गा­द­प्य­य­म­र्थोऽ­व­सी­यते ॥
यद्वा वस्वादिभावस्य तस्मिन्नेव भवे सतः ।
प्रार्थनीयं भवत्येव दीर्घ­का­ला­नु­व­र्त­नम् ॥
सिद्धं किञ्चि­त्फ­लां­शानां तदं­शा­न्त­र­लि­प्सया ।
रसायनादिसेवासु प्रवृत्तिः खलु दृश्यते ॥
श्लोकानामयं निष्कृष्टोऽर्थः – यदुक्तम् – देवानां मधु­वि­द्या­दि­ष्व­न­धि­का­रात् ब्रह्म­वि­द्या­या­मपि नाधिकार – इति तत्रेदमुच्यते । ब्राह्मणादीनां राज­सू­या­दि­ष्व­न­धि­का­रेऽपि यथा कर्मा­न्त­रे­ष्व­धि­कारः , एवमिहापि स्यादिति । मध्वादिविद्यासु देव­ता­ना­म­न­धि­का­रोऽ­प्य­सिद्धः । भाष्ये तदनधिकारोक्तिः कृत्वा­चि­न्तै­वा­ग्नि­हो­त्रा­द्य­न­धि­का­रेऽपि विद्या­धि­का­र­सि­ध्यर्था । तथाहि – वस्वादीनां मध्वा­द्यु­पा­स­नासु कर्म­क­र्तृ­भा­व­स्ता­वन्न विरुध्यते ; अहंग्रहोपासनासु स्वास्य स्वोपा­स्य­त्व­सं­प्र­ति­पत्तेः । यद्युच्येत – तासु स्वात्मत्वेन ब्रह्मो­पा­स­नी­य­मिति खात्मा विशेषणं विशेष्यत्वे परं कर्मकर्तृविरोध इति । तर्ह्यपि स न प्रसज्यते । वस्वा­दि­भो­ग्य­रो­हि­ता­दि­प­ञ्च­रू­पा­त्म­का­मृ­तो­पा­स­नासु वस्वादीनां विशेषणत्वात् । अथापि स्यात् मध्वा­द्य­ध्या­से­ना­दि­त्या­द्यु­पा­स­ना­स्वा­दि­त्या­दीनां विशे­ष्य­त्वा­दस्ति तत्र कर्मकर्तृविरोध इति – तत्रापि नास्तीति ब्रूमः । तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्युपासनायां स्वात्मनो विशे­ष्य­त्व­स्यापि दर्शनात् । क्व तर्हि कर्मकर्तृविरोध उपा­स्यो­पा­स­क­ता­याम् ? न क्वापि । कथं ? ‘स क्रतुं कुर्वीत’ इति वाक्यस्य जीवोपासनापरत्वे कर्मकर्तृविरोधः उक्तः अभ्यु­च्च­य­मा­त्रम् । अन्यथा तद­न­न्त­रा­धि­क­र­णेषु जीव उपास्य इति पूर्वपक्षो न क्रियेत । कृतश्च पुनः पुनस्तत्र तत्राधिकरणे तथा । तथा प्राप्त­व­स्वा­दि­भा­वानां तत्प्रेप्साऽपि न विरुद्धा । इह जन्मनि पुत्रवतां पुनः पुत्रा­न्त­रो­त्पा­द­ना­क्ष­माणां भाविजन्मन्यपि पुत्रवान् भूयासमितीच्छया तद­र्थ­क­र्मा­नु­ष्ठा­न­द­र्श­नेन तद्व­दि­हा­प्यु­प­पत्तेः । एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति’ इति देव­त्व­प्रा­प्त्य­र्थ­तया विहितस्य पञ्चदशरात्रस्य ‘एतद्वै देवानां सत्रं तदद्यापि देवा­स्स­त्र­मा­त्र­मा­सत’ इत्यर्थवादे तस्य देवा­नु­ष्ठी­य­मा­न­त्वो­क्ति­लि­ङ्गाच्च । न हि देवानां सतां देव­त्व­प्रा­प­क­स­त्रा­नु­ष्ठानं भाविजन्मनि देवत्वप्रेप्सां विना घटते । यद्यपि देवत्व प्राप्त्यनन्तरं यागा­नु­ष्ठा­न­व­र्णनं कल्पि­ता­र्थ­वि­ष­यम् , तथापि तत्र स्तुत्या­ल­म्ब­न­भूतो वाक्यार्थो भाविजन्मनि देवत्वप्रेप्सया घटनीयत्वात् कल्पितत्वेऽपि ‘ऊरूं वा एतौ यज्ञस्य यद्व­रु­ण­प्र­घा­सा­स्सा­क­मे­धाश्च’ इत्यर्थवादार्थ इव लिङ्गं भवितुमर्हत्येव ।

अपि च वस्वादीनां तस्मिन्नेव जन्मनि मन्वन्तरावसाने स्वाधि­का­र­नि­वृ­त्ति­र्मा­भूत् मन्व­न्त­रा­न्त­रेऽपि वसु­प­दा­द्य­नु­वृ­त्ति­र­स्त्विति लिप्सया तदनुष्ठानं घटते । दृष्टं हि देह­पो­ष­ण­न­य­न­पा­ट­वा­दि­म­ता­मेव अग्रे वार्धकेन तदपचयो माभूदिति तद­नु­वृ­त्ति­लि­प्सया वैद्य­को­क्त­र­सा­य­न­से­व­नम् । तस्मा­न्म­ध्वा­दि­वि­द्यासु भवत्येवाधिकारः , अग्निहोत्रादिषु परं न संभवति ; स्वोपा­स­ना­व­त्स्यो­द्दे­शेन द्रव्य­त्या­ग­स्या­यो­गात् । स्वात्मने सङ्कल्प्यमानस्य द्रव्य­स्य­स्व­त्वा­नि­वृत्तेः , त्रैव­र्णि­क­त्व­ऋ­षि­वं­श­त्व­र­हि­तानां तेषा­मा­धा­न­सा­ध्यस्य अग्नेरार्षेयस्य वरणस्य चाङ्ग­स्या­सं­भ­वाच्च । एव­म­ग्नि­हो­त्रा­दि­ष्व­न­धि­का­रेऽपि ब्रह्म­वि­द्या­धि­कार उपपादित एव ।

‘यत्तु – क्रतु­ह­वि­र्भू­त­म­धु­मां­सादि सदा भुञ्जानानां ब्रह्म­वि­द्या­धि­ग­मार्थं ब्रह्म­च­र्या­नु­ष्ठानं न संभवतीत्युक्तम् , तदप्ययुक्तम् । कायव्यूहवतां देवानां गुरुकुलवासादिना रूपेण ब्रह्मचर्यं , यज्ञदेशागतेन , स्वपदास्थितेन वा रूपेण हवि­र्भो­क्तृ­त्व­मि­त्य­वि­रो­धात् , ‘भुंजीत विषयान् कैश्चि­त्कै­श्चि­दुग्रं तपश्चरेत्’ इति स्मृत्या रूपान्तरेण भोगस्य रूपा­न्त­रा­नु­ष्ठी­य­मा­न­ब्र­ह्म­च­र्या­वि­रो­धि­त्वा­व­ग­मात् । एवं कर्मा­न­धि­का­र­प्र­युक्तो , ब्रह्म­च­र्या­सं­भ­व­प्र­यु­क्तश्च ब्रह्म­वि­द्या­न­धि­कारः समाहितः । तत्र ब्रह्म­वि­द्या­धि­का­रस्य भावं भगवान् बादरायणो मन्यत इति सूत्रनिर्दिष्टे साध्ये ‘अस्तिहि’ इति हेतुः कर्मा­धि­का­र­हे­तु­सा­म­र्थ्या­भा­वेऽपि अस्ति हि ब्रह्म­वि­द्या­धि­का­र­हे­तु­भू­त­म­र्थि­त्व­सा­म­र्थ्या­दि­क­मिति , मधु­मां­सा­दि­भो­गा­वि­रो­धा­पा­दकं गुरुकुलवासि रूपान्तरमिति च योजनीयः ।

यत्तु देवतानां चेत­न­त्व­वि­ग्र­ह­त्वा­द्य­भा­वा­त्त­द­धि­का­र­चि­न्तैव निरालंबनेति पूर्व­प­क्षा­न्त­रम् , तन्नि­रा­क­र­ण­पू­र्वि­का­या­मपि अधि­का­र­व्य­व­स्था­प­नायां ‘अस्ति हि’ इत्येव हेतुः । अस्ति हि विग्रहादिमती देवतेति – तदर्थः । तत्रायमाशयः ।
कथं देवा­न्नि­रा­कु­र्या­त्क­र्म­मी­मां­स­क­स्व­यम् ।
ज्योति­ष्टो­मा­दि­भि­स्स्वर्गे देवत्वजुष एव हि ॥
कर्म­भि­स्स्व­र्गता देवा­स्स­न्ती­न्द्रा­द्यास्तु नेति चेत् ।
ननु कर्म­भि­रे­वा­स­न्नि­न्द्राद्या अपि देवताः ॥
मयि­व­र्च­स्सा­म­गानं त्रैलो­क्यै­श्व­र्य­का­मिनः ।
विहितं हि ततोऽ­न्य­त्कि­मि­न्द्र­स्ये­न्द्र­त्व­मि­ष्यते ॥
ब्रह्मे­न्द्र­य­क्ष­रा­जा­दी­ना­व­र्त­यि­तु­मि­च्छतः ।
सुतास इति वर्गस्य गानं विहितमीक्ष्यते ॥
विहितं ब्रह्म­सा­लो­क्य­सा­र्ष्टि­सा­यु­ज्य­का­मिनः ।
सहस्रवत्सरं सत्रं वाज­पे­य­स्त­मी­प्सतः ॥
श्लोकै­स्सं­गृ­ही­त­म­र्थ­जातं स्पष्टीकुर्मः ।
किं विग्रहवंतो देवा एव नेत्युच्यते , उत विशिष्य इन्द्रादयो न संतीति । कर्ममीमांसकेन ताव­द्दे­व­सा­मान्यं निराकर्तुं न शक्यते । यतो देवभावं प्राप्तस्यैव स्वर्गः । कथम् ? स्वर्गो हि नाम सङ्क­ल्प­मा­त्रो­प­न­त­स्र­क्च­न्द­न­व­नि­ता­दि­सा­ध­न­प्र­भवः साध­ना­र्ज­न­दुः­खा­सं­भिन्नः स्वदा­र­नि­य­म­भ्रं­शा­दि­प्र­यु­क्ता­ग्रि­म­न­र­क­दुः­ख­ग्रा­स­र­हि­तश्च सुखविशेषः ‘यन्न दुःखेन संभिन्नम्’ इत्यादिश्रवणात् । स चात्र­त्य­ब्रा­ह्म­णा­दि­श­री­रा­व­च्छि­न्नस्य न संभवतीति तद्विगमनान्तरं ‘स्वर्गे लोके यजमानं हि धेहि’ ‘मां नाकस्य पृष्ठे परमे व्योमन्’ इत्या­दि­म­न्त्रा­र्थ­वा­द­प्र­ति­पन्ने लोके ‘अन्यन्नवतरं कल्याणतरं रूपं कुरुते’ इत्या­दि­श्रु­ति­प्र­ति­प­न्न­दि­व्य­श­रीरं प्राप्तेन लब्धव्य इत्ये­वो­प­पा­द­नी­यम् । तत्प्राप्तश्च देव एव । एवञ्च देव­ता­सा­मा­न्य­नि­रा­क­रणे ज्योति­ष्टो­मा­दीनां निष्फ­ल­त्व­प्र­सङ्गो दोषः । ‘सन्तु नाम कर्मदेवाः , आजानदेवा इन्द्रादयो न संभवन्ति’ इति चेत् – तत्किमिन्द्रादय इन्द्र­त्वा­दि­प्रा­प­क­क­ल्पा­न्त­रा­नु­ष्ठि­त­क­र्म­वि­शे­ष­प्र­भवा न भवन्ति ? येन तेषां निराकरणे सुकरं भवेत प्रसिद्धं हि शता­श्व­मे­धा­दि­प्रा­प्य­मि­न्द्रा­दि­प­द­मिति । श्रूयते च छन्दोगानां साम­वि­धि­ब्रा­ह्मणे ‘मयि वर्च’ इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयु­ञ्जा­ना­स्त्रा­याणां लोकानामाधिपत्यं गच्छन्तीति । ‘मयि वर्चः मयि यशः’ इत्यस्यामृचि गीतं साम प्रागु­क्त­नि­य­म­सा­हि­त्येन चत्वारि वर्षाणि जप­त­स्त्रै­लो­क्या­धि­पत्यं भवतीति । तद्धीन्द्रपदमेव ।

किञ्च तस्मिन्नेव ब्राह्मणे ‘अथ यः काम­ये­ता­व­र्त­ये­य­मि­त्ये­क­रात्रं क्षीर­सं­यु­क्त­स्ति­ष्ठे­त्सु­तासो मधुमत्तमा इति वर्गः एतेषामेकमनेकं वा सर्वाणि प्रयुञ्जानः एकरात्रेण कुटुं­बि­न­मा­व­र्त­यति द्विरात्रेण राजोपजीविनं त्रिरात्रेण राजानं चतूरात्रेण ग्रामं पञ्चरात्रेण नगरं षड्त्रेण जनपदं सप्तरात्रेण सुररक्षांसि अष्टरात्रेण पितृ­पि­शा­चा­न्न­व­रा­त्रेण यक्षान् दशरात्रेण गंध­र्वा­प्स­र­सोऽ­र्द्ध­मा­सेन वैश्रवणं मासेनेन्द्रं चतुर्भिः प्रजापतिं संवत्सरेण यत्किंञ्च जगत् सर्वं हास्य गुणीभवति’ इति ब्रह्मे­न्द्र­व­रु­णा­दि­व­शी­क­र­ण­का­मस्य ‘सुतासो मधुमत्तमाः’ इत्यस्यामृचि गीतानामष्टानां साम्नां मध्ये एकस्यानेकस्य सर्वेषां वा साम्नां जप­श्च­तु­र्मा­सा­दि­का­ल­वि­शे­षा­व­च्छिन्नो विहितः । तथा सामगानां पञ्च­विं­श­ब्रा­ह्मणे ‘ब्रह्म­ण­स्स­लो­कतां सार्ष्टितां सायुज्यं गच्छन्ति य एतदुपयन्ति’ इति विश्वसृजामयनस्य ब्रह्म­सा­लो­क्य­सा­र्ष्टि­सा­यु­ज्य­फलं चोदितम् । तत्र सालोक्यं तल्लोकावाप्तिः । ब्रह्मणो यावन्ति भोग्यानि गंध­मा­ल्य­नृ­त्य­गी­त­वा­दि­त्रा­दीनि तावता प्राप्ति­स्त­त्सार्ष्टिः तैर्नृ­त्य­गी­ता­दि­भि­स्स­ङ्गी­त­शा­स्त्रा­दिकं सम्यग्जानानस्य ब्रह्मणो याव­द्भा­ग­स्ता­व­द्भो­ग­प्रा­प्ति­स्सा­यु­ज्य­मिति भेदः।

तथा तस्मिन्नेव ब्राह्मणे ‘वाजपेययाजी वा प्रजा­प­ति­मा­प्नोति’ इति वाजपेयस्य ब्रह्मप्राप्तिः फलञ्चोदितम् । एवंच यदि ब्रह्मे­न्द्रा­दयो देवा­स्त­त्त­ल्लो­क­वि­शे­षेषु विग्रहवन्तो दिव्यभोगयुक्ता न स्युः ; तदानीं तत्त­द्दै­व­भा­वा­वा­प्त्य­भि­म­त­व­र­प्रा­र्थ­ना­र्थ­त­द्व­श­कि­र­ण­त­ल्लो­क­प्रा­प्ति­त­त्स­दृ­श­भो­ग्य­भो­गा­वा­प्ति­फ­ला­र्थ­त्वेन विहितानां कर्मणां नैफल्यप्रसङ्गः । तस्माद्यथा स्वर्गा­र्थ­ज्यो­ति­ष्टो­मा­दि­वि­धि­नि­र्वा­हाय मन्त्रा­र्थ­वा­दा­दिषु स्वर्ग­श­ब्दा­र्थ­प्र­ति­पा­द­नस्य च सत्यत्वं ज्योति­ष्टो­मा­दितः स्वर्ग­फ­ला­व­श्य­म्भा­व­वि­रो­धिनः ‘को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वा’ इति फल­स­न्दे­ह­प्र­ति­पा­द­न­स्या­स­त्यत्वं च स्वीकर्तव्यम् , तथा तत्त­द्दे­व­भा­व­त­द्व­शी­क­र­ण­त­ल्लो­क­प्रा­प्त्या­द्य­र्थ­क­र्म­वि­धि­नि­र्वा­हाय ब्रह्मे­न्द्र­व­रु­णा­दि­त­नु­भु­व­न­भो­गा­दि­प्र­ति­पा­द­नस्य सत्यत्वं तद्वि­रो­ध्य­र्थ­प्र­ति­पा­द­न­स्या­स­त्यत्वं च स्वीकर्तव्यम् । तथा ‘यः कामयेत् पिशाचान् गुणीभूतान् पश्येयमिति संवत्सरं चतुर्थे काले भुञ्चानः कपालेन भैक्षं चर­न्प्रा­ण­शि­शु­रि­त्यन्तं सदा सहस्रकृत्वः आवर्तयन् पश्य­त्य­या­चि­त­मे­तेन कल्पेन द्वितीयं प्रयुञ्जानः पितॄन् पश्यति संव­त्स­र­मि­त्य­ष्टमे काले भुञ्जानः पाणिभ्यां पात्रार्थं कुर्वाणो वृत्रस्य वा श्वसथादिषमाणा इत्येतयोः पूर्वं सदा सहस्रकृत्वः आवर्तयन् गंधर्वाप्सरसः पश्यति अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानो देवान्पश्यति’ इति देवा­दि­द­र्श­ना­र्थ­सा­म­ज­प­वि­धि­नि­र्वा­हाय तदी­य­का­य­व्यू­ह­प्र­ति­पा­द­नस्य सत्यत्वं तद्वि­रो­धि­ना­म­स­त्यत्वं च स्वीकर्तव्यम् । अन्यथा बहुषु युग­प­द्दे­वा­दि­द­र्श­नार्थं सामजपं कुर्वत्सु तावतां तत्फ­ला­ला­भ­प्र­स­ङ्गात् ।

एव­ञ्चा­जा­न­दे­वानां प्रसिद्धौ कर्मदेववत् ।
ज्योतींषि दिवि दृश्यानि यान्ति तद्दे­ह­दी­प्ति­ताम् ॥
आमनन्ति हि ऋक्षाणि ज्योतींषि सुकृतामिति ।
तद्व­दे­वा­व­ग­न्तव्यं विव­स्व­न्म­ण्ड­ला­द्यपि ॥
रविरादित्य इत्या­द्या­स्वा­र्था­धि­ष्ठा­न­भा­वतः ।
शब्दास्तत्र प्रयुज्यन्ते नेत्राद्या गोलकेष्विव ॥
देह­प्र­भा­म­ण्ड­लस्य दर्शनं देहदर्शनम् ।
कृत्वा सकलदृश्यत्वं मन्त्रे निगदितं रवेः ॥
यदस्य नील­ग्री­व­त्वा­द्युक्तं मन्त्रेषु केषुचित् ।
तदन्तर्यामिणो रूप­म­भि­प्रे­त्यां­बि­का­पतेः ॥
मन्त्रान्तरे यदस्यैव रूपमैन्द्रं प्रदर्शितम् ।
द्वाद­शा­दि­त्य­मध्ये तदिन्द्रस्यापि क्वचित्स्थितेः ॥
आदित्यत्वं तु सर्पा­णा­म­न्य­च्चै­वं­विधं श्रुतम् ।
आदित्यो यूप इत्यादिन्यायेन स्तावकं परम् ॥
एवं सिद्धे फल­वि­धि­ब­ला­च्चे­तने देववर्गे ।
काय­व्यू­हा­श्र­य­ण­नि­पुणे योगिवद्वश्यभूते ॥
आहूतस्य ऋतुषु युग­प­न्ना­ङ्ग­ताऽ­स्त्वि­त्य­युक्तिः ।
प्रातः कर्मा­द्य­नु­म­ति­परः कस्य वाहेति वादः ॥
त्यक्तस्य हविषो वृद्धिश्श्रूयते देवतेच्छया ।
पर्याप्ता देवतावृत्तेः प्रत्या­वृ­त्तेश्च सा भवेत् ॥
निर्गत्वरस्य हवि­ष­स्सू­क्ष्म­स्यैव रसस्य वा ।
सुरभीकृत्य हविषो वोढाऽग्निरिति लिङ्गतः ॥
तत्र दैवततृप्त्यर्थं रसांशो वृद्धिमाप्नुवन् ।
तेषामास्वादने योग्यं परिणामं प्रपद्यते ॥
यथा प्रत्यावर्तमानो रसांशः प्राप्य पूषणम् ।
वृष्ट्यो­यो­ष­धि­प्र­जा­रूपं परिणामं प्रपद्यते ॥
श्राद्धेषु दत्तस्यान्नस्य परिणामो मुनीश्वरैः ।
पित्रा­दि­प्रा­प्त­जा­त्यर्हः साक्षादेवं च वर्णितः॥
येष्वि­ष्टि­सो­मे­ष्वा­ह्वानं करणीयं सुपर्वणाम् ।
आगत्य भुञ्जते तेषु वहत्यन्येषु हव्यवाद् ॥
अभून्नो दूत इत्येतदाह वोढारमाहुतेः।
विप्रभोज्यं (विभज्यान्नं) च नेतव्यं पितृषु स्थावरादिषु ॥
मानु­षा­द्यै­र्य­द­न्ना­द्य­म­क­स्मा­दिव लभ्यते ।
तन्मध्यपाति श्राद्धान्नं भवा­न्त­र­सृ­ता­र्पि­तम् ॥
अशनप्रतिषेधस्तु रोहिताद्यमृते परम् ।
न हि रूपं परीणामं भोजनार्हं प्रपद्यते ॥
द्रव्य­त्वा­त्कु­श­का­शादि भुक्त्यनर्हमपि स्वयम् ।
प्रपद्यते परीणामं तदहमिति युज्यते ॥
फलप्रदातृता येषु देवानां न विरुध्यते ।
द्वारं तेष्वी­श्व­र­प्रीतिः तत्प्रीतिस्सति संभवे ॥
कर्मणैव फलोत्पत्तौ प्रीति­द्वा­र­मि­ती­ष्यते ।
पयसा पशु­रि­त्या­दि­व्य­वस्था तेन युज्यते ॥
एवं सिद्धे पञ्चके देवतायां नास्त्ये­वा­स्मि­न्वि­ग्र­हादौ विरोधः ।
यस्मि­न्क­र्म­ण्यस्ति तत्रैव वाच्या तामुद्दिश्य त्यागमात्रात् फलाप्तिः ॥
सर्वत्रापि त्याग­मा­त्रा­त्फ­लेऽपि प्रत्याख्यातुं विग्रहा नैव शक्याः ।
इंद्र­श्च­न्द्र­स्सूर्य इत्यादिकानां भोग्यं कर्मोपासनानां फलं यैः ॥
श्लोकानामयमर्थः — एवं कर्म­दे­व­व­दा­जा­न­दे­वानां सिद्धौ रविमण्डलादीनि ज्योतींषि तत्त­त्प्र­भा­म­ण्ड­लानि पर्यवस्यन्ति । आमनन्ति हि ‘सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि’ इति । तद्ब­ला­त्का­नि­चि­न्न­क्ष­त्राणि कर्मदेवानामिव रवि­च­न्द्र­ग्र­ह­ता­र­का­दि­ज्यो­तीं­ष्या­जा­न­दे­वानां प्रभा­म­ण्ड­ला­न्येव । भवन्ति रवि­रा­दि­त्य­श्चन्द्र इन्द्र इत्या­दि­श­ब्दास्तु नेत्रादिशब्दा गोलकेष्विव स्वस्व­वा­च्या­धि­ष्ठा­नेषु प्रभामण्डलेषु गौणाः । देह­प्र­भा­म­ण्ड­ल­द­र्श­न­मेव देहदर्शनं कृत्वा सर्व­ज­न­दृ­श्य­त्व­मा­दि­त्य­स्योक्तं ‘असौ योऽवसर्पति’ इति मन्त्रे । तस्मिन्नन्येषु च केचित् मन्त्रे­ष्वा­दि­त्य­रू­पस्य नील­ग्री­व­त्वा­द्युक्तिः ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः’ ‘नमो हिरण्यबाहवे हिर­ण्य­प­त­येऽ­म्बि­का­प­तये उमापतये’ इत्या­दि­म­न्त्रा­न्त­र­प्र­ति­प­न्न­मा­दि­त्या­न्त­र्या­मिण शिवस्य रूपमभिप्रेत्य । ‘अर्यमायाति’ इति मन्त्रे त्वादि­त्य­स्ये­न्द्र­रू­प­त्वो­क्ति­रि­न्द्र­स्यापि द्वाद­शा­दि­त्य­मध्ये क्वाचि­न्नि­वे­शात् । उक्तं हि हरिवंशे — ‘अदित्यां कश्यपाज्जाता आदित्या द्वादशैव हि । इन्द्रो विष्णु­र्भ­ग­स्त्वष्टा वरुणोंऽशोऽर्यमा रविः । पूषा मित्रश्च वरदो धाता पर्जन्य एव च’ इति । विष्णुपुराणेऽपि — ‘मारी­चा­त्का­श्य­पा­ज्जा­ता­स्तेऽ­दित्या दक्षकन्यया । तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च । विवस्वान्सविता चैव मित्रो वरुण एव च । अंशो भगश्चादितिजा आदित्या द्वादश स्मृताः’ इति । महा­भा­र­तेऽ­प्या­दि­प­र्वणि — ‘धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान्पूषा च सविता दशमस्तथा । एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते’ इति । ‘सर्पा वा आदित्याः’ इत्यु­क्ति­र्यू­पा­दि­त्यो­क्ति­व­त्प्र­शं­सा­परा केव­ल­मा­दि­त्या­ना­मे­वैषां प्रकाशो भवतीति फलार्थवादार्था ।

एवं निर­स्त­नि­खि­ल­वि­रो­धेन फलविधीनां सामर्थ्येन सिद्धे विग्रहवति देवतागणे युगपदारब्धेषु क्रतु­ष्वे­क­का­ल­मा­हू­तस्य युग­प­त्स­न्नि­धा­न­मपि नानुपपन्नम् ; तस्य योगि­व­द्भू­त­व­शि­तया स्वेच्छा­व­शा­द्विषे तद­प­ने­तृ­ग­रु­डो­पा­स­ना­दि­व­त्क्रि­यो­त्पा­द­न­सा­म­र्थ्य­व­त्वेन भूतानां परस्परसंयोजनया काय­व्यू­ह­नि­र्मा­ण­नि­पु­ण­त्वात् । शरीरविशेषाणां माता­पि­तृ­प्र­भ­व­त्व­नि­य­मस्तु देवा­दि­द­र्श­न­त­द्व­शी­क­र­ण­रू­पे­ष्ट­दे­व­ता­सं­प्र­यो­गा­दि­फ­ल­क­स्वा­ध्या­य­ज­पा­दि­वि­धि­वि­रो­धात् अणि­मा­द्य­ष्टै­श्व­र्या­दि­फ­ल­क­यो­ग­वि­धि­वि­रो­धाच्च स्वर्गा­प­व­र्गा­र्थ­य­ज्ञा­दि­श्र­व­णा­दि­वि­धि­वि­रो­धात् सुखस्य दुःख­सं­भि­न्न­त्वा­नि­त्य­त्व­नि­यम इव हेयः । उदाहृतो हि प्राक् साम­वि­धि­ब्रा­ह्म­ण­व­र्णितः स्वाध्या­या­दि­ष्ट­दे­व­ता­सं­प्र­योगः । योगा­भ्या­सा­दै­श्व­र्य­प्रा­प्तिश्च श्वेता­श्व­त­रो­प­नि­ष­दा­दिषु वर्णिता ; पातञ्जले च शास्त्रे विभूतिपादे च प्रपञ्चिता । वदन्ति चागमिकाः पिशा­चा­दि­हि­र­ण्य­ग­र्भा­न्ता­ना­म­ष्ट­गु­ण­षो­ड­श­गु­णा­दि­च­तु­ष्ष­ष्टि­गु­ण­पर्य न्तानै­श्व­र्य­वि­शे­षान् । एवं च यज्ञवाटेषु देवा­ना­म­दृ­श्य­त्व­म­प्यै­श्व­र्या­दु­प­प­न्नम् । ‘कस्य वाह देवा यज्ञमागच्छन्ति’ इत्या­द्य­र्थ­वा­दस्तु प्रात­र­ग्नि­हो­त्रा­न­न्त­र­मे­वा­न्वा­धाय देवतापरिग्रहः कर्तव्य इति विधेस्स्तावको न विव­क्षि­त­स्वार्थः ।

एवं हवि­र्भो­ज­ना­र्थ­मा­हू­तानां यज्ञदेशमागतानां देवतानां हवि­र्भो­क्तृ­त्व­म­प्यु­प­प­द्यते । तत्र न तावत् हवि­रु­त्क्र­म­ण­प्र­त्या­वृ­त्ति­श्रु­ति­वि­रोधः ‘यद्वै देवा हविर्जुषन्ते अल्प­म­प्ये­का­मा­हु­ति­मपि तत् गिरिमात्रं वर्धयन्ते’ इति त्यक्तस्य हविषो वृद्धिश्रवणेन कश्चि­दं­श­स्तृ­प्ति­प­र्याप्तो देवैर्भुज्यते, कश्चिदंशो वृष्ट­य­न्ना­दि­रू­पे­णा­व­र्तत इति उभ­य­वि­ध­श्रु­ति­नि­र्वा­ह­सं­भ­वात् । न च हवि­र्वृ­द्धि­त­दं­श­भो­ज­न­त­दं­शा­न्त­रो­त्क्र­म­ण­प्र­त्या­वृ­त्त्य­भ्यु­प­गमे प्रत्यक्षविरोधः । त्यक्ते हविषि ततो निर्गत्वरस्य तदी­य­सू­क्ष्म­र­सां­श­स्यैव वृद्ध­या­द्य­भ्यु­प­ग­मात् ‘अवाढव्यानि सुरभीणि कृत्वा’ इति सुर­भी­कृ­त­ह­वि­र­व­स्थाऽ­न्त­र­न­य­न­लिं­गात् । एवञ्च पर्य­ग्नि­क­र­णा­न्तो­त्सृ­ष्ट­प­श्वा­दीनां सूक्ष्मां­शा­प­ग­मेऽपि मधु­क­रो­प­भु­क्त­र­सां­शानां पुष्पाणामिव ताद­व­स्थ्य­द­र्श­न­मपि नानुपपन्नम् । तत्र च हविषः सूक्ष्मे रसे तत्त­द्दे­व­ता­तृ­प्ति­प­र्याप्तां वृद्धिमाप्नुवन् भक्ष्यां­श­स्त­त्त­दा­स्वा­द­न­यो­ग्य­रू­पेण सूर्यं प्राप्य प्रत्या­व­र्त­मा­न­स्त­दि­त­रांशो वृष्ट­य­न्न­प्र­जा­रू­पे­णेव परिणमत इति कुश­का­श­दा­रु­श­क­ला­दी­ना­म­न­द­नी­य­त्व­दोषो न प्रसज्यते । श्राद्धेषु पित्रा­द्यु­द्दे­शेन दत्तस्यान्नस्य पित्रा­दि­प्रा­प्त­जा­त्यु­चि­ता­हा­र­तया परिणामः स्मृतिपुराणेषु कण्ठोक्त्या वर्णितः । तथाहि मत्स्य­पु­रा­ण­व­च­नम् –
‘देवो यदि पिता जातः शुभकर्मनियोगतः ।
तस्यान्नममृतं भूत्वा देव­त्वेऽ­प्य­नु­ग­च्छति ॥
गांधर्वे भोग्यरूपेण पशुत्वे च तृणं भवेत् ।
श्राद्धान्नं वायुरूपेण नाग­त्वेऽ­प्यु­प­ति­ष्ठति ॥
पानं भवति यक्षत्वे राक्षसत्वे तथाऽऽमिषम् ।
दानवत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ॥
मनु­ष्य­त्वेऽ­न्न­पा­नादि नानाभोगरसो भवेत्’ इति ॥

तथैव देवतोद्देशेन त्यक्तस्यापि हवि­ष­स्त­द­भि­म­ता­स्वा­द­नी­य­द्र­व्य­तया परिणामो भविष्यति । लिङ्गञ्चत्र दृश्यते ‘एतद्वै दैव्यं मधु यद्घृतम्’ इति । उक्तं च तन्त्रवार्तिके लोकवेदाधिकरणे ‘यच्चै­त­द्घृ­त­म­स्माकं देवानां मध्विदं यदि । रस­वी­र्या­दि­भि­स्तत्र न शब्दा­र्थोऽ­न्य­था­प­तेत्’ इति । येष्वि­ष्टि­सो­मेषु ‘अग्निमग्र आवह’ ‘इन्द्रागच्छ’ इत्या­दि­म­न्त्र­वत्सु देव­ता­ना­मा­ह्वा­न­मस्ति ताएव तेष्वागत्य त्यक्तं भुञ्जते तदितरेष्वग्निना नीतं भुञ्जते’ इत्या­ग­म­न­श्रु­ति­ह­वि­र्न­य­न­श्रु­ति­रि­त्यु­भ­य­म­प्यु­प­प­द्यते । श्राद्धेषु यद्यप्यतीताः पित्रादय आगच्छन्तीति स्मर्यते, तथापि तेषामधिष्ठातार आजानपितरः सन्ति तत्पितृपितामह प्रपितामहानां वसुरुद्रादित्या वरु­ण­प्र­जा­प­त्य­ग्नयो मासर्तुसंवत्सरा विष्णु­ब्र­ह्म­म­हे­श्वराः प्रद्यु­म्न­स­ङ्क­र्ष­ण­वा­सु­देवाः स्कन्द चण्डगणेशाः । ईश­स­दा­शि­व­शा­न्ता­ञ्चा­धि­ष्ठा­तारः स्मृति­पु­रा­णा­ग­मेषु दर्शिताः । अन्ये चाग्निष्वात्ता बर्हिषद आज्यपाः सुकालिन इत्याद्या आजानपितरो वर्णिताः । तेषु च केचि­त्त­त्त­द­धि­का­रि­भे­द­व्य­व­स्थया, तदव्यवस्थया च अन्ये श्राद्धीयेषु होमपिण्डभोजनेषु भोक्तारः । यथा गर्भवृयुद्धेशेन सुहृद्भिर्दत्तं दौहृदं भुक्त्वा तृप्यन्त्यो गर्भवत्यो गर्भानपि पोषयन्ति सुहृद्भ्यश्च प्रत्यु­प­कु­र्वन्ति तथा पित्रा­दि­तृ­प्यु­द्दे­शेन पुत्रा­दि­भि­र्द­त्त­मन्नं भुक्त्वा तृप्ता­स्त­द­धि­ष्ठात्र्यो देवताः पित्रादीनपि तर्पयन्ति पुत्रादिभ्योऽपि श्राद्ध­क­ल्पो­क्त­फ­ल­प्र­दा­ने­नो­प­कु­र्वन्ति । ‘वसु­रु­द्रा­दि­ति­सुताः पित­र­श्श्रा­द्ध­दे­वताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेषु तर्पिताः । एवमेते महा­त्मा­न­श्श्राद्धे सत्कृत्य पूजिताः । सर्वा­न्का­मा­न्प्र­य­च्छन्ति शतशोऽथ सहस्रशः’ इत्या­दि­व­च­न­द­र्श­नात् तेषां सर्वेषामागमनं न स्मर्यते । अतीतपितॄणाञ्च स्थाव­र­ति­र्य­ङ्म­नु­ष्य­ना­र­क­ज­न्म­प्रा­प्ता­ना­मा­ग­मनं न संभवतीति तदर्थत्वेन ‘अवाड्ढव्यानि सुरभीणि कृत्वा’ इति श्राद्धी­य­ह­वि­र्न­य­न­श्र­व­ण­मपि सङ्गच्छते । मनु­ष्या­दि­भि­र्वि­नैव स्वय­त्न­मा­क­स्मि­क­मिव यदाहारादिकं लभ्यते तन्मध्यपाति समर्थयितुं शक्यं भवा­न्त­र­सु­ता­दि­दत्तं श्राद्धम् ; केवलपुण्येनेव भवा­न्त­र­सु­ता­दि­क­र्तृक श्राद्ध­सं­पा­द­न­द्वा­र­के­णापि पुण्येन तल्लाभसम्भवात् ।

यत्तु ‘न हवै देवा अश्नन्ति न पिबन्ति’ इति देवा­ना­म­श­ना­दि­प्र­ति­षे­धस्स प्रकृ­त­प­ञ्चा­मृ­त­मा­त्र­वि­षयः । ‘तद्य­त्प्र­थ­म­म­मृतं तद्वसव उपजीवन्ति’ इत्या­द्यु­क्त्य­न­न्तरं रोहि­त­रू­पा­दि­गु­णा­त्म­का­न्य­मृ­त­तानि कथं वस्वा­दी­ना­मु­प­जी­व्यानि स्वतोऽ­न­द­नी­य­त्वा­द­द्र­व्य­त्वेन कुश­का­शा­दि­व­द­द­नी­य­प­रि­णा­मा­सं­भ­वा­च्चेति शंकायां दर्शनमात्रेण तेषां तृप्तिप्रदानीति परिहारार्थत्वेन तदवतारात् । यागीयेषु हविष्षु स्वतोऽ­न­द­नी­ये­ष्व­द­नी­य­व­स्तु­तया परिंगतेषु च देवतानां भोक्तृत्वे नास्त्य­नु­प­पत्तिः । हविषा तेषां तृप्तिस्तु हविर्वध्येति प्रागेव दर्शितम् । यद्य­प्यै­न्द्र­मा­रु­ते­ष्ट्या­दि­ष्वा­हू­त­प्र­त्या­ख्या­तानां देवतानां पुनस्तदुद्देशेन त्यक्तैरपि हविर्भिः प्रीति­लो­क­दृ­ष्टि­वि­रुद्धा , यद्यपि च प्रीतिमतीनामपि देवतानां कल्पा­न्त­र­भा­वि­फ­ल­प्र­दा­तृत्वं न संभवति, तथापि यत्र प्रीतिः संभवति तत्र फल­प्र­दा­या­मी­श्व­र­प्रीतौ सा द्वारमिति कल्पनायां न काचिदनुपपत्तिः । ईश्वरस्यापि प्रीतिः कर्मणा , तदाश्रितकारकेण वा फलोत्पत्तौ द्वारमात्रं न तु तयो­री­श्व­र­प्री­ता­वु­प­क्षय इति कर्म­त­त्का­र­क­वै­चि­त्र्या­त्फ­ल­वै­चि­त्र्य­म­प्यु­प­प­द्यते । एवं फल­वि­धि­सा­म­र्थ्या­द्दे­वानां विग्रहस्य तदनुबन्धितया हवि­र्भो­क्तृ­त्वा­देश्च सिद्धौ न कश्चिद्विरोध इति स्वीकर्तव्यमेव तेषां विग्र­हा­दि­प­ञ्च­कम् । यत्र तु गुण­क्रि­या­व­य­वा­दि­दे­वत्ये कर्मणि तदभ्युपगमे विरोधोऽस्ति, तत्र देवतामुद्दिश्य द्रव्य­त्या­ग­मा­त्रा­दी­श्व­र­प्री­ति­द्वारा कर्मफलमिति कल्प्यते । सर्वत्रापि तथाऽस्त्विति चेदस्तु नाम । न यस्मिन्नधिकरणे देवतानां यज्ञदेशाभिगमनं हवि­र्भो­क्तृ­त्व­मि­त्या­दि­क­मपि साधनीयम् । विद्या­धि­का­र­स­म­र्थ­नाय तेषां विग्रहमात्रं साधनीयम् । विग्रहाश्च प्रागु­दा­हृ­त­फ­ल­वि­धि­जा­त­सा­म­र्थ्या­त्त­त्त­द्दे­व­प­द­प्रा­प­क­क­र्मो­पा­स­ना­फ­ल­भो­गो­प­यो­गि­तया सिद्ध्यन्तो न प्रत्याख्यातुं शक्याः । अन्यत्सिद्ध्यतु मा वा, न नः किश्चिदिह तेन प्रयोजनम् ।

अत एव भाष्ये कर्म­वि­रो­ध­स­मा­धा­न­सू­त्रां­शस्य तथैव द्वितीययोजना दर्शिता । वस्तुविचारणायां तु विग्र­हा­दि­प­ञ्च­क­मपि स्वीकर्तव्यम् । असति विरोधे मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­प्र­ती­ता­र्थ­प­रि­त्या­गा­यो­गात् , माना­न्त­र­प्रा­प्ते­र­प्य­प्रा­मा­ण्य­हे­तो­र­भा­वात् । अनुमितेस्तु पर्वतांशे प्रत्य­क्ष­ज्ञा­नतः प्राप्तिरस्तीति न तत्र प्रामाण्यम् । ‘श्वेतो धावति’ इति वाक्या­द्व­क्तृ­वि­व­क्षा­ना­स्प­द­स्या­र्थस्य प्रतीतिरेव नास्ति । अर्थवादेभ्यः स्तुति­द्वा­र­भू­ता­र्थस्य प्रती­ति­र­नु­भ­व­सिद्धा स्तुत्य­र्थ­म­पे­क्षिता च । ‘श्वेतो धावति’ इति वाक्या­द्व­क्तु­र­वि­व­क्षि­तेऽर्थे यदि कस्य­चि­त्प्र­ती­ति­स्स्यात् , प्राप्तिविरोधौ च न स्याताम् , तदा तस्य तत्र प्रामा­ण्य­मि­ष्ट­मेव । अन्यथा ‘अन­धि­ग­ता­र्थ­बो­धकः प्रमाणम्’ इति लक्षणस्य तत्रा­ति­व्या­प्ति­प्र­स­ङ्गात् । ‘एतस्यैव रेवतीषु वारवन्तीयम्’ इत्यत्रापि अस्ति रेव­त्या­धा­र­वा­र­व­न्ती­य­रू­प­वि­शे­ष­ण­प्र­ती­ति­स्त­द्घ­टि­त­वा­क्या­र्थ­प्र­ती­त्य­पे­क्षिता । नास्ति च प्राप्ति­रू­प­म­प्रा­मा­ण्य­का­र­ण­मिति तात्प­र्या­वि­ष­येऽपि तत्र तस्य प्रामा­ण्य­म­नि­वा­र्यम् । तत्क­र्त­व्य­ता­मा­त्रस्य विशि­ष्ट­वि­ध्या­क्षि­प्त­वि­शे­ष­ण­वि­धितो लाभः । संप्रतिपन्नं च स्वर्गा­र्थ­वा­दस्य तात्प­र्या­वि­ष­येऽपि स्तुति­द्वा­रार्थे प्रामाण्यम् । तस्य तत्रा­वा­न्त­र­ता­त्प­र्य­म­स्तीति चेत् , तद्व­दे­वा­र्थ­वा­दा­न्त­र­स्यापि तत्स्यात् । तदर्थस्यापि स्तुति­द्वा­र­त्वा­वि­शे­षात् । स्वर्गार्थवादः फलविध्यपेक्षित इति स्वार्थे तस्या­वा­न्त­र­ता­त्पर्यं, नान्यस्येति चेत् ; न । एकवाक्यतायामपि स्तुति­द्वा­र­भू­तेऽर्थे क्वचि­द­वा­न्त­र­ता­त्प­र्या­भ्यु­प­गमे तद्वदन्यत्रापि प्राप्ति­वि­रो­ध­यो­र­स­तो­स्त­स्या­नि­वा­र्य­त्वात् । तथा इहापि देव­ता­ह्वा­न­वि­धि­दृ­ष्टा­र्थ­त्वाय देव­ता­ग­म­न­म­पे­क्षते । तद्धविषां स्वीकरणं तद्भोजनं तत्तृप्तिं फलकामेन क्रियमाणं देवतानां तृप्तिजननं देवतायाः फलदातृत्वसिद्धय इति तदपेक्षते । फलदातृत्वं फलैश्वर्यं विनाऽनुपपन्नं फलै­श्व­र्य­म­पे­क्षत इति देव­ता­ग­म­ना­दी­ना­मपि साक्षात्परंपरया चाह्वा­न­वि­ध्य­पे­क्षि­त­त्वा­च्चे­त्यलं प्रस­क्ता­नु­प्र­सक्त्या । तस्मादुपपन्नो देव­ता­ना­म­र्थि­त्व­सा­म­र्थ्या­दि­म­त्त्वा­द्ब्र­ह्म­वि­द्या­र्थ­श्श्र­व­णा­द्य­धि­कारः।

नन्वियं चिन्ता नास्मदादीनां प्रवृ­त्ता­वु­प­युक्ता । नापि देवतानाम् ; तेषां स्वकी­य­वि­ग्र­ह­सत्त्वे तत्प्र­यु­क्त­सा­म­र्थ्या­दि­मत्त्वे च सिद्धा­न्त­न्या­य­नि­र­पे­क्ष­मे­वा­व­ग­ति­स­द्भा­वात् । न च देवाः स्वप­द­नि­त्य­त्व­श­ङ्कया तत्र न प्रवर्तेरन्निति तत्प्र­वृ­त्ता­वु­प­युक्ता ; तेषां जातिस्मरत्वेन प्राची­न­ब्रा­ह्म­ण­ज­न्मा­द्य­नु­ष्ठि­त­स­त्क­र्मा­यत्तं स्वपदं न नित्यमिति स्वत एवा­व­ग­ति­स­त्त्वात् । न चास्मदादीनामेव देवोपास्यत्वेन ब्रह्मो­पा­स­न­सि­द्धा­वु­प­युक्ता । उपासनाप्रकरणेषु देवो­पा­स्य­त्व­वि­शे­ष­ण­सत्त्वे द्युमू­र्द्ध­त्वा­दि­व­दा­रो­पि­ते­नापि तेन रूपे­णो­पा­स­नो­प­प­त्ते­रिति चेत् ।

उच्यते – देवतानामसिद्धौ मधुविद्यादीनां तत्त­द्दे­व­ता­प­द­प्राप्तिः फलं न भवेत् , वरु­ण­ग्र­ह­नि­र्मो­का­दि­व­द्बा­धि­तस्य श्रुतत्वेऽपि विधे­य­क्रि­या­फ­ल­त्वा­यो­गात् । किंत्वन्यदेव फलं कल्प्यं स्यात् । अन्त­रा­दि­त्य­वि­द्या­स्वा­दि­त्य­दे­व­ताऽ­न्त­र्व­र्ति­त्वेन ब्रह्मोपासनं न सिद्ध्येत् । ज्योति­र्म­ण्ड­ला­द्य­न्त­र्व­र्ति­त्वे­नैव तदुपासनं सिद्ध्येत् । उपकोसलविद्यायां पञ्चा­ग्नि­वि­द्यायां च अर्चि­रा­द्य­भि­मा­नि­दे­व­ता­वि­शेषा मार्गपर्वत्वेन चिन्तनीया न स्युः । अर्चि­रा­दी­न्य­चे­त­ना­न्येव तथा चिन्तनीयानि स्युः । तथा ‘तांस्तत्र देवा यथा सोमं राजा­न­मा­प्या­य­स्वा­त­क्षी­य­स्वे­ति­भ­क्ष­यं­त्ये­व­मे­नां­स्तत्र भक्षयन्ति यथा हवै बहवः पशवो मनुष्यं भुंज्यु­रे­व­मे­कैकः पुरुषो देवा­न्भु­न­क्त्ये­क­स्मि­न्नेव पशावादीयमाने अप्रियं भवति किं बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इत्यादिश्रुतिषु कर्मदेवभावं प्राप्ता­ना­म­प्रा­प्ता­नाञ्च मनुष्याणां याव­ज्जी­व­मा­जा­न­दे­व­भृ­त्य­भा­वोक्त्या वैराग्यं न सिद्ध्येत् । एता­दृ­श­स्या­भि­म­तस्य सिद्धिः प्रयोजनं देव­ता­स­द्भा­व­प्र­सा­ध­नस्य । आदि­त्य­च­न्द्रा­दि­प­द­व्यु­त्प­त्ति­ग्र­हा­दि­भि­र्वि­रो­धेऽपि ज्योति­र्म­ण्ड­ला­द्य­ति­रिक्ता देवताः सिद्ध्यन्ति ; विधिफलत्वात् , दृष्ट­सु­खा­दि­वि­रु­द्ध­स्व­भा­व­स्व­र्ग­सु­खा­दि­व­दिति देव­ता­प्र­सा­ध­नो­प­यु­क्त­न्या­य­प्र­द­र्श­नस्य तथैव दृष्टविरोधेऽपि श्रव­णा­दि­वि­धि­फ­ल­त्वात् ब्रह्मा­त्मै­क्य­मपि प्रसिद्ध्यतीति प्रदर्शनमपि प्रयोजनम् । मंत्रार्थवादाः प्राप्ति­वि­रो­ध­यो­र­सतोः प्रतीयमानार्थे प्रामाण्यं न जहतीति देव­ता­त­द्वि­ग्र­हा­दि­प­ञ्च­क­प्र­सा­ध­नो­प­यो­गि­न्या­य­प्र­ति­पा­द­नस्य ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. ८. १.६) ‘जायस्व म्रिय­स्वे­त्ये­त­त्तृ­तीयं स्थानं तेनासौ लोको न संपूर्यते तस्मा­ज्जु­गु­प्सेत’(छा. ५. १. ८) इत्या­दि­म­न्त्रा­र्थ­वादैः श्रव­णा­धि­का­रि­वि­शे­ष­ण­वि­वे­क­वै­रा­ग्या­दि­क­मपि सिद्ध्यतीति प्रदर्शनमपि प्रयोजनम् । तस्मात्सफलेयं चिन्ता । १. ३. ३३

इति देवताऽधिकरणम् । ८ ।

शुगस्य तद­ना­द­र­श्र­व­णा­त्त­दा­द्र­व­णा­त्सू­च्यते हि ॥३४॥

३४

अत्र श्रौत­लि­ङ्गा­नु­गृ­ही­ता­र्थि­त्वा­दि­स­म्भ­वात् देवानामिव शूद्रा­णा­म­प्य­धि­का­रोऽस्ति विद्यास्विति पूर्वपक्षः । अस्ति हि देवाधिकारे ‘तयो यो देवानां प्रत्यबुध्यत’(बृ. १. ४. १०) इत्यादिलिङ्गमिव शूद्राधिकारेऽपि लिङ्गं ‘अह हारे त्वा शूद्र तवैव सह गोभिरस्तु’(छा. ४. २. ३) इति ‘आज­हा­रे­मा­श्शू­द्रा­ने­नैव मुखेन मामालापयिष्यथा’(छा. ४. २. ५) इति च विद्या­र्थ­मु­प­सन्नं जानश्रुतिं प्रति ‘शूद्र’ इत्यामन्त्रणम् । न चायं शूद्रशब्दो योगेन त्रैवर्णिके वर्तनीयः ; रूढेः प्रबलत्वात् । अन्यथा ‘वर्षासु रथ­का­रोऽ­ग्नी­ना­द­धीत’ इत्यत्र रथकारशब्दस्यापि त्रैवर्णिके योगः कल्प्येत । न च रथकारशब्दो विधिवाक्ये श्रुतः शूद्र­श­ब्दोऽ­र्थ­वाद इत्यतोऽस्ति कश्चिद्विशेषः ; प्रामाण्ये विद्य­र्थ­वा­द­यो­र­वि­शे­षात् । अर्थवादस्यापि प्राप्ति­वि­रो­ध­यो­र­सतोः प्रतीयमानार्थे प्रामाण्यस्य पूर्वाधिकरणे व्यव­स्था­पि­त­त्वात् तयो­र­स­तो­र्वि­धि­वा­क्य­स्यापि प्रामा­ण्या­सं­भ­वात् । न हि ‘दध्ना जुहोति’ इति विधिवाक्यं , प्राप्तायां होमकर्तव्यतायां ‘कृष्णलं श्रपयेत्’ इति विधिवाक्यं माना­न्त­र­वि­रु­द्धायां विक्लृ­त्ति­फ­ल­क­क्रि­या­वि­शे­ष­रू­प­श्र­पि­धा­तु­मु­ख्या­र्थ­क­र्त­व्य­ता­याञ्च प्रामा­ण्य­म­श्नुते । न च रथकारशब्दस्य रूढौ बाधकं नास्ति , इह तु शूद्रशब्दस्य रूढावस्ति बाधकं अध्ययनरहितस्य शूद्र­स्या­वि­द्व­त्त्व­मिति वाच्यम् । तस्य हितैषिवचनेन विद्या­र्थ­गु­रू­प­ग­म­ना­प­क्षि­तस्य विद्या­नु­ष्ठा­ना­पे­क्षि­तस्य च विद्वत्वस्य सम्भवात् । न चाध्य­य­ना­वा­प्त­वे­द­ज­न्य­वे­दा­र्थ­ज्ञा­न­व­तैव वैदि­क­क­र्मा­ण्य­नु­ष्ठे­या­नीति नियमः । तथा नियमे मानाभावात् । रथकारस्याधाने निषा­द­स्थ­प­ते­रिष्टौ शूद्रमात्रस्य स्ववर्णधर्म त्रैव­र्णि­का­ना­म­प्यु­प­नी­ता­ना­म­ध्य­य­न­शौ­च­सं­ध्यो­पा­स­न­स­मि­दा­धा­ना­दिषु स्त्रीणा­मै­ष्टि­क­सौ­मि­का­दि­प­त्नी­क­र्मसु च वैदि­के­ष्व­नु­ष्ठे­येषु तदभावाच्च ।

नन्व­ध्य­य­न­वि­धि­स्तथा नियमे मानम् । तथाहि – ‘स्वाध्या­योऽ­ध्ये­तव्यः’ इत्य­ध्य­य­न­वि­धे­र­श्रु­त­फ­ल­क­स्या­र्थ­ज्ञानं फलत्वेन कल्पनीयम् ; ‘फल­व­द्व्य­व­हा­रा­ङ्ग­भू­ता­र्थ­प्र­त्य­या­ङ्गता । निष्फलत्वेन शब्दस्य योग्य­ता­त्व­व­धा­र्यते ॥’ इति न्यायात् , न तु विश्व­जि­न्न्या­यात् स्वर्गः । श्रुत­प­दा­न्व­य­स्वा­र­स्य­भ­ञ्ज­नस्य , गुणकर्मत्वे सम्भवति अश्रु­त­प­दा­न्व­य­ले­शे­ना­र्थ­क­र्म­त्वस्य , दृष्टफलत्वे सम्भवति अदृ­ष्ट­फ­ल­क­ल्प­नस्य चायुक्तत्वात् । स्वर्गस्य फलत्वे ’हिरण्यं धार्यम्’ इत्यत्र हिर­ण्य­नि­र्व­र्त्येन धारणेनेष्टं भाव­ये­दि­ति­व­त्स्वा­ध्या­य­नि­र्व­र्थ्ये­ना­ध्य­य­नेन स्वर्गं भावयेदिति श्रुतोऽध्ययनस्य स्वाध्यायं प्रति गुणभावो भज्यते । अर्थज्ञानफलत्वे तु श्रुत­प­दा­न्व­य­ल­भ्यस्य तव्य­प्र­त्य­या­द­ध्य­य­न­सं­स्का­र्य­त­याऽ­व­ग­म्य­मानं स्वाध्यायं प्रत्यध्ययने गुणभावस्य न भंगः । अध्ययनेन स्वाध्या­य­स्या­वा­प्ति­रू­प­सं­स्कारः अवाप्तेन स्वाध्या­ये­ना­र्था­व­बोध इति प्रणाड्या भवति ; अर्थज्ञानरूपे फले स्वाध्या­य­सं­स्का­र­स्यैव सतोऽध्ययनस्य पर्यवसानात् ।

तथा स्वर्ग­फ­ल­त्वेऽ­ध्य­य­न­ज­न्यस्य तस्य स्वरूपं तत्रा­ध्य­य­न­ज­न्यत्वं च कल्पनीयमिति गौरवमापद्यते । अर्थज्ञानफलत्वे त्वध्य­य­ना­वा­प्त­स्वा­ध्या­य­ज­न्य­तया दृष्टेऽ­र्थ­ज्ञा­नेऽ­ध्य­य­न­ज­न्य­त्व­मात्रं कल्पनीयमिति लाघवं लभ्यते । न च दृष्टफले विधिवैयर्थ्यम् । अध्ययनेनैव स्वाध्यायमवाप्य तद्द्वा­राऽ­र्थ­ज्ञानं भावयेदिति नियमार्थत्वात् । एवं च वर्ण­वि­शे­षा­दि­ग्र­ह­ण­मं­त­रे­णा­वि­शे­ष­प्र­वृत्ता वैदिककर्मविधयः कर्मा­नु­ष्ठा­ना­र्थ­म­नु­ष्ठे­या­र्थ­ज्ञा­न­स­म्प­न्ना­ना­धि­का­रि­णोऽ­पे­क्ष­माणाः स्वत एवा­ध्य­य­न­ल­ब्धा­नु­ष्ठे­या­र्थ­ज्ञा­नान् द्विजातीनासाद्य निर्वृण्वन्ति । फल­का­म­त्वा­वि­शे­षेऽपि शूद्र­स्या­धि­का­रि­त्वेन संग्र­हा­र्थ­म­नु­ष्ठे­या­र्थ­ज्ञानं नाक्षिपन्ति । यथा क्रतुविधयो याज­का­न­पे­क्ष­माणाः स्वव­र्णो­चि­त­द्र­व्या­र्ज­नो­पा­य­वति याजने स्वत एव प्रवृत्तान् ब्राह्म­णा­ना­साद्य निर्वृण्वन्ति , न त्वध्य­य­न­व­त्वेऽपि क्षत्रि­य­वै­श्य­यो­र्या­ज­क­त्व­मा­क्षि­पन्ति । ततश्च याज­ना­ध्या­प­न­प्र­ति­ग्र­है­र्ब्रा­ह्मणो धनमार्जयेत्’ इति द्रव्या­र्ज­नो­पा­य­नि­य­म­वि­धि­ब­लत् ब्राह्म­णा­ना­मे­वा­र्त्वि­ज्य­मिति निय­म­व­द­ध्य­य­न­नि­य­म­वि­धि­ब­ला­द­ध्य­य­न­ल­ब्धा­नु­ष्ठे­या­र्थ­ज्ञा­न­व­ता­मेव वैदि­क­क­र्मा­नु­ष्ठा­न­मिति नियमस्य लाभात् , तथा नियमे माना­भा­व­स्ता­व­द­सिद्धः । यत्तु रथ­का­रा­दी­ना­मा­धा­ना­द्य­नु­ष्ठा­ने­ष्व­ध्य­य­न­ल­ब्ध­म­नु­ष्ठे­या­र्थ­ज्ञानं नास्तीत्युक्तं तत्सत्यमेव । तथाऽपि विशिष्य रथ­का­रा­दी­ना­मा­धा­ना­दि­वि­धि­ब­ला­दा­प्त­व­च­नै­रे­वा­धा­ना­दि­क­र्त­व्य­ता­ज्ञानं तत्त­द­नु­ष्ठा­ना­पे­क्षि­त­म­न्त्र­ग्र­हणं च तेषा­म­भ्यु­प­ग­म्यते । अन्यथा तत्त­द्वि­धी­ना­मा­न­र्थ­क्य­प्र­स­ङ्गात् । न चेह तत्प्रसङ्गः , अध्ययनवत्सु त्रैव­र्णि­के­ष्व­ग्नि­हो­त्रा­दि­वि­धीनां विद्याविधीनाञ्च सार्थकत्वात् । तस्मा­त्क­र्म­स्विव विद्यास्वपि नाधिकार इति चेत् –

उच्यते – अर्थ­ज्ञा­न­स्या­ध्य­य­न­फ­लत्वे ह्येतदेवं भवेत् , न तु तत् तस्य फलम् , किन्तु स्वाध्या­या­वा­प्ति­रेव , तव्यप्रत्ययेन तस्या­ध्य­य­न­प्रा­प्य­त्व­श्र­व­णात् । सा न पुरुषार्थ इति चेत् – किमर्थज्ञानं पुरुषार्थः ? पशुपुत्रादिवत् पुरु­षा­र्थो­प­यो­गि­तया गौण­पु­रु­षा­र्थत्वं तु स्वाध्या­या­वा­प्ते­रपि तुल्यम् । अथा­र्थ­ज्ञा­न­म­न्त­रे­णा­नु­ष्ठा­ना­सम् भवात् तस्या­नु­ष्ठा­नो­प­यो­गि­तया गौण­पु­रु­षा­र्थत्वं सामर्थ्यादवगतं न स्वाध्या­या­वा­प्ते­रिति चेत् ; न । तां विना जप­पा­रा­य­णा­द्य­यो­गेन तस्यापि तथात्वस्य सामर्थ्यादवगतेः ।

ननु ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. १.१.१०) इति श्रुत्या सामर्थ्यतः शीघ्रगामिन्या अर्थज्ञानस्य तथात्वं प्रथममवगतमिति चेत् ; न । तस्याः श्रुतेः प्रकृ­तो­द्गी­थ­वि­द्या­वि­ष­य­त्वस्य पुरु­षा­र्था­धि­क­रणे सूत्रकृता वक्ष्य­मा­ण­त्वे­ना­र्थ­ज्ञा­न­प­र­त्वा­भा­वात् । ‘धन्यं यशस्यमायुध्यं पुण्यं स्वर्गापवर्गदम् । धारणं धर्मशास्त्रस्य वेदानां धारणं तथा ॥’ इत्यादिस्मृत्या स्वाध्या­या­वा­प्ते­रपि तथात्वस्य शीघ्र­मे­वा­व­ग­तेश्च । तत्र धारणस्य फला­र्थ­त्व­मु­क्तम् , न त्ववाप्तेरिति चेत् ; न । स्वाध्यायस्य धार­ण­म­वा­प्ति­रि­त्य­भे­दात् । स्वाधी­नो­च्चा­र­ण­क्ष­मत्वं ह्यवाप्तिः । तच्च पुरुषस्य स्वाध्या­यो­च्चा­र­णे­च्छा­या­म­स्ख­लि­त­त­दु­च्चा­र­णो­प­यो­गि­ता­लु­मू­र्धा­दि­व­र्ण­स्था­न­व­शि­त्व­स­हि­ता­वि­च्छि­न्न­स्मृ­ति­स­न्ता­न­ज­न­क­त­द­न्त­र्ग­त­या­व­द्व­र्ण­प­द­वा­क्या­व­ली­वि­ष­य­सं­स्का­र­दा­र्ढ्य­मेव । विधि­श­क्ति­वि­शे­ष­ण­गु­ण­नि­कया च संपादितं स्वाध्यायस्य धारणमपि तदेव , न वस्त्र­भू­ष­णा­दि­व­त्तस्य मुख्यं धारणमस्ति । अवश्यं चार्थज्ञानं फल­म­भ्यु­प­ग­च्छ­ताऽपि क्वचित् क्वचि­द­क्ष­रा­वा­प्ति­रपि फल­त्वे­ना­भ्यु­प­ग­न्तव्या । न खलु हुंफडादीनां स्तोभा­क्ष­रा­णा­म­र्थोऽस्ति । न वा निषे­ध­वा­क्या­ना­म­र्थ­व­त्त्वेऽपि तद­ध्य­य­न­स्या­र्थ­ज्ञानं फलमभ्युपगन्तुं शक्यम् । तथा सति निषेधविधयोऽपि निषि­द्धा­नु­ष्ठा­न­प­रि­हा­राय हिंसा­नृ­त­प­र­दा­र­ग­म­ना­दिकं प्रत्यवायकरमिति ज्ञान­व­द­धि­का­रि­सा­पेक्षाः स्वत­स्सि­द्ध­त­द्ज्ञा­नेषु त्रैव­र्णि­के­ष्वेव पर्यवस्यन्ति , न शूद्राणां तद्ज्ञा­न­मा­क्षि­प­न्तीति त्वदी­य­क­ल्प­ना­प्र­स­रेण निषे­ध­वा­क्या­ध्य­य­न­वि­धै­रु­क्त­रू­प­ज्ञा­न­वतां त्रैव­र्णि­का­ना­मेव निषि­द्धा­नु­ष्ठानं प्रत्यवायकरमिति निय­म­प­र्य­व­सा­यि­तया शूद्राणां हिंसाऽनृतादिभिः प्रत्य­वा­या­भा­व­प्र­स­ङ्गात् । त्रैव­र्णि­का­ना­मपि वेदाध्ययने सत्येतानि निषिद्धानि प्रत्य­वा­य­क­रा­णीति ज्ञाना­व­श्य­म्भा­वेन तदनुष्ठाने प्रत्यवायो भवे­दि­त्य­नि­ष्ठ­फ­ल­त्व­प्र­ति­स­न्धा­नेन तत्र प्रवृ­त्त्य­भा­व­प्र­स­ङ्गाच्च ।

अथोच्येत – निषेधवाक्येषु प्रत्यवायफलकं निषि­द्धा­नु­ष्ठानं न शास्त्रार्थः , किन्तु प्रत्य­वा­य­प­रि­हा­र­फ­लक तदननुष्ठानमिति तद्विषय एव नियमः – अध्य­य­न­पू­र्व­क­नि­षे­ध­वा­क्या­र्थ­ज्ञा­न­वत एव निषि­द्धा­न­नु­ष्ठानं प्रत्य­वा­य­प­रि­हा­राय भवतीति । तथा च निषि­द्धा­नु­ष्ठा­नेन प्रत्यवायजनने निषे­ध­वा­क्या­र्थ­ज्ञानं नापेक्षितमिति शूद्राणां तदनुष्ठाने प्रत्यवायाभावो न प्रसज्येत ; त्रैवर्णिकानां प्रत्य­वा­य­प­रि­हा­रो­प­यो­गि­ज्ञा­न­फ­ल­क­म­ध्य­यनं नानिष्टफलकमिति तेषामध्ययने प्रवृ­त्त्य­भा­वोऽपि न प्रसज्यते – इति । एवमपि अनधीतवेदानां निषि­द्धा­न­नु­ष्ठा­नेऽपि प्रत्य­वा­या­प­रि­हा­रा­द­व­श्यं­भा­वि­प्र­त्य­वा­य­स्त­द­नु­ष्ठा­ने­नै­वा­स्त्विति प्रतिसन्धानेन शूद्राणां निषि­द्धा­नु­ष्ठा­न­प्र­सङ्गो दुर्वारः । एवं च यद्यपि ब्राह्म­णा­ना­म­श्व­मे­धा­दि­भा­गा­र्थ­ज्ञानं याजनाद्युपयोगि , क्षत्रि­य­वै­श्य­यो­र्बृ­ह­स्प­ति­स­वा­दि­भा­गा­र्थ­ज्ञानं तदवगमार्थिभ्य उपदेशोपयोगि ‘आपत्कल्पो ब्राह्मणस्य अब्रा­ह्म­णा­द्वि­द्यो­प­योग’ इति स्मरणात् , जैव­लि­के­क­या­जा­त­श­त्रु­प्र­भृ­तीनां क्षत्रि­या­णा­मृ­षीन् प्रत्य­ङ्गा­व­ब­द्ध­स­गु­ण­नि­र्गु­ण­ब्र­ह्म­वि­द्यो­प­दे­ष्टृ­त्व­श्र­व­णाच्च , सर्वेषामपि तत् मीमां­सा­सा­द्ध्य­वि­चा­रो­प­योगि अश्व­मे­धा­दि­भा­ग­वि­चा­रस्य मीमांसाशास्त्रे कृतस्य न्यायसाम्येन ब्राह्म­णा­ध­नु­ष्ठे­या­र्थ­नि­र्ण­ये­ष्व­प्य­पे­क्षि­त­त्वात् , अत­स्त­त्रा­द्ध्य­य­न­ज­न्या­र्थ­ज्ञा­न­व­तैव क्रियमाणं विचारयाजनोपदेशं स्वस्य याज्यो­प­दे­श्या­नाञ्च फलाय भवतीति नियमः संभवतीति ; तथाऽपि स्तोभा­दि­ष्व­र्था­भा­वात् निषेधवाक्येषु विप­री­त­फ­ल­क­त्वाच्च तथा कश्चि­द­र्थ­ज्ञा­न­फ­ल­का­ध्य­य­न­वि­धि­लभ्यो नियमो वक्तुं न शक्यत इति तत्रा­क्ष­रा­वा­प्ति­रेव फलत्वेन स्वीकर्तव्या । एवञ्चेत् सर्वत्रापि सैव फलमस्तु व्यापित्वात् ।

ननु तथाऽ­प्य­र्थ­ज्ञा­न­मपि सम्भवस्थलेषु फलत्वेन स्वीकर्तव्यम् , अन्यथा वेदवाक्यानां तत्र तत्रार्थे तात्प­र्या­सिद्ध्या तन्नि­र्वा­हा­र्थ­ल­क्ष­णा­दि­क­ल्प­नो­च्छे­द­प्र­स­ङ्गात् ; अर्था­व­बो­ध­मु­द्दिश्य शब्दोच्चारणेन हि लोकवाक्यानां तात्पर्यमवगम्य तन्निर्वाहार्थं मुख्या­र्था­स­म्भवे लक्षणादिकं कल्प्यते , न तूच्चारणमात्रेण । अत एव ‘गौरश्वः पुरुषो हस्ती’ इति पदा­ना­मु­च्चा­र­ण­मा­त्रेण लक्षणा न कल्प्यते । यदा विशि­ष्टा­र्थ­बो­ध­मु­द्दिश्य तेषा­मु­च्चा­र­ण­मिति तात्प­र्य­म­व­ग­म्यते , तदैव तन्निर्वाहार्थं अयङ्गौः बलीवर्दः , अश्वो वेगवान् , पुरुषो नियतचेष्टः , हस्ती महाबलः , इत्य­श्वा­दि­प­दानां लक्षणा कल्प्यते । एवञ्च वेद­वा­क्या­ना­म­र्था­व­बो­ध­मु­द्दिश्य उच्चारणाभावे तात्प­र्या­सिद्ध्या तन्नि­र्वा­हा­र्थ­ल­क्ष­णा­गौ­ण­वृ­त्त्य­नु­ष­ङ्गा­ध्या­हा­र­व्य­व­हा­र­क­ल्प­नो­च्छे­द­प्र­स­ङ्गा­द­वश्यं वेदेऽ­प्य­र्था­व­बो­ध­मु­द्दिश्य उच्चारणस्य वक्त­व्य­त्वा­द्वेदे च लोक इव तमुद्दिश्य राग­प्र­यु­क्तो­च्चा­र­णा­भा­वा­वि­धि­प्र­यु­क्त­मेव तदाश्रयणीयम् । विधि­श्चा­ध्य­य­ना­वि­धे­रन्यो न दृश्यत इति तेनै­वा­र्था­व­बो­ध­मु­द्दिश्य गुरु­मु­खो­च्चा­र­णा­नू­च्चा­र­ण­रू­प­म­ध्य­यनं विधीयत इति अकामेनापि स्वीकर्तव्यम् । एवं च दृष्ट­फ­लेऽ­प्य­र्था­व­बोधे विधि­र­न्य­तोऽ­सि­द्ध्य­त­स्ता­त्प­र्यस्य सिद्ध्यर्थः , न तु स्वाध्या­या­ध्य­य­न­ज­न्या­र्थ­ज्ञा­न­वत एव तद­र्थ­क­र्मा­नु­ष्ठा­नेन तत्त­द्वा­क्योक्तं फलं भवतीति नियमार्य इति निषे­ध­या­क्ये­ष्व­प्य­र्थ­ज्ञा­न­का­मा­धि­कारे न कश्चिद्दोषः ।

अत एवाध्ययनविधावपि न दोषः । तद­ध्य­य­न­ज­न्या­र्थ­ज्ञा­न­व­तैव तद्वि­धे­य­म­ध्य­य­न­म­नु­ष्ठे­य­मिति नियमपर्यवसायी स विधि­रि­त्य­ङ्गी­कारे ह्यात्मा­श्र­य­दोषः स्यात् । स्तोभाक्षरेषु परं विशि­ष्टा­र्थ­प­रा­णा­मृचां तदन्तर्गतपदानां तद­न्त­र्ग­त­व­र्णा­नाञ्च मध्ये प्रवि­ष्ट­त्वा­त्क­थ­म­प्य­र्थ­प­र­तया वर्ण­यि­तु­म­श­क्येषु स न सम्भवतीति तेषु जप­पा­रा­य­ण­स्तो­त्र­शा­स्त्रा­द्य­र्थ­गी­ति­वि­रा­मो­प­यो­गि­न्य­क्ष­रा­वा­प्ति­रेव फलम् । न चैवं विधि­वै­रू­प्य­दो­ष­प्र­सङ्गः , यदेव किञ्चन विध्यन्तरोपयोगि स्वाध्या­य­सं­स्का­र­रू­पे­णा­ध्य­य­नेन शक्यं भावयितुं तत्सर्वमनेन भावयेदित्येकधैव वच­न­भं­ग्यो­भ­या­र्थ­त्व­ला­भात् । एवञ्च क्रमफलमपि संगृहीतं भवति । क्रम­वि­शे­ष­वि­शि­ष्ट­व­र्ण­प­द­वा­क्य­स­ङ्घातो हि स्वाध्या­य­श­ब्दार्थः । अतोऽध्ययनविधिः क्रमविशिष्टतयैव स्वाध्या­य­स्या­ध्य­यनं विधत्ते । क्रमविशेषस्य चैतत्प्रयोजनं यत्स­मि­दा­दि­वि­धि­वा­क्य­पा­ठ­क्र­मेण प्रया­जा­द्य­नु­ष्ठा­नो­प­योगी आग्ने­या­ग्नी­षो­मी­या­दि­मं­त्र­पा­ठ­क्र­मेण तदनुष्ठानोपयोगी च स्मृतिक्रमः काम्ये­ष्टि­कां­ड­स­मा­म्ना­ता­ना­मै­न्द्रा­ग्ना­दीनां याज्या­नु­वा­क्या­का­ण्ड­स­मा­म्ना­तानां ‘उभा­वा­मि­द्राग्नी आहुवध्यै’ इत्या­दि­मं­त्राणां च यथा­सं­ख्या­पा­ठ­क्र­मे­णा­ङ्गा­ङ्गि­भावः उच्चै­स्त्वा­दि­स्व­र­वि­धिषु वेदोपक्रमेण ऋगा­दि­प­दा­ना­मृ­ग्वे­दा­दिषु लक्षणा , बार्हस्पत्ये सप्तदशशरावे चरा­वा­ति­दे­शि­क­च­तु­र्मु­ष्टि­नि­र्वा­पा­सं­भ­वा­द­व­श्यं­भा­विनि संख्या­मु­ष्ट्य­न्य­त­र­बाधे च चर­म­श्रु­त­मु­ष्टि­बाध इत्यादि । यत्र तु नैतादृशं फलमस्ति , तत्रैव परं क्रमस्य जप­य­ज्ञा­दि­मा­त्रो­प­योग इति ।

नन्व­क्ष­रा­वा­प्ति­व­द­नु­ष्ठा­न­का­ला­पे­क्षि­त­श्रु­ति­स्मृ­ति­क्र­मोऽपि भवतु नाम फलमध्ययनविधेः , तथाऽ­प्य­र्थ­ज्ञानं फलं भवितुं नार्हति ; अध्य­य­ना­त्प्रा­क्त­त्का­म­नाया असंभवात् । इष्टसाधनगोचरा खलु कामना इष्ट­सा­ध­न­ता­व­च्छे­द­क­प्र­का­रेण तद्गो­च­र­ज्ञा­ना­द्भ­वति । ज्ञाने इष्ट­सा­ध­न­ता­व­च्छे­द­क­स्त­त्त­द्वा­क्या­र्थ­वि­शेष एव , न तु वाक्या­र्थ­सा­मान्यं यःक­श्चि­द­र्थोऽ­स्तीति । एतावता तज्जि­ज्ञा­साऽ­नु­द­यात् । स्वाध्या­या­न्त­र्ग­ता­न­न्त­वा­क्या­र्थ­गो­च­र­ज्ञा­नञ्च माणवकस्य स्वतो वा , हितैषिवचनाद्वा न सम्भवतीति चेत् ।

मैवम् । न वयं माण­व­क­स्या­ध्य­य­ना­र­म्भ­स­मये तत्फ­ल­भू­ता­र्थ­ज्ञा­न­वि­ष­य­का­म­नाऽ­स्तीति ब्रूमः , किन्तु यथैवार्भकमातुरं भिष­ज्य­द्भि­र्हि­त­का­रि­भि­रौ­ष­ध­से­वा­फ­ल­मा­रोग्यं जान­द्भि­र­र्भ­का­पे­क्षि­त­फ­ला­न्त­र­प्र­ति­पा­द­नेन सामादिना वाऽनु­ष्ठा­प्य­मा­नस्य औषधसेवनस्य तदीयमेवारोग्यं फल­मे­व­म­ध्य­य­न­साध्यं तत्त­द्वा­क्या­र्थ­ज्ञानं माणवकस्य श्रेय­स्क­र­म­व­ग­च्छ­द्भि­र्हि­त­का­रि­भि­र­नु­ष्ठा­प्य­मा­न­स्या­ध्य­य­नस्य माण­व­क­ग­त­म­र्थ­ज्ञानं फलमिति ब्रूमः । अक्ष­रा­वा­प्त्या­द­फ­ल­प­क्षेऽ­प्ये­व­मे­वो­प­पा­द­नी­यम् । न ह्यष्टमे वयसि वर्तमानः सर्वोऽपि माणवकः स्वाध्या­या­क्ष­रा­वाप्तिः श्रेयसी भवतीति जाना­न­स्त­त्का­म­न­याऽ­ध्य­यने प्रवर्तते । न वोप­न­य­न­त­त्पू­र्व­क­शौ­च­स­न्ध्या­व­न्द­न­स­मि­दा­धा­ना­दि­क­र्मसु तत्तत्फलकामनया प्रवर्तते । न च ताव­ताऽ­ध्य­य­ना­दी­ना­म­क्ष­रा­वा­प्त्या­दिकं फलमपि हीयते । बाल्य एव केचन मेधा­वि­नोऽ­क्ष­रा­वा­प्त्या­दि­कामाः संभवन्ति अर्थ­ज्ञा­न­का­मस्तु कोऽपि न सम्भवति इति चेत् । न । अर्थ­ज्ञा­न­क­र्मा­नु­ष्ठा­न­प्र­णा­डि­कया स्वर्गा­दि­फ­ल­प­र्य­व­सा­यि­नी­म­क्ष­रा­वाप्तिं काम­य­मा­ना­न­भ्यु­प­ग­च्छतां तेषा­मे­वा­र्थ­ज्ञा­न­का­म­नाया अप्यु­प­पा­द­नी­य­त्वात् । अन्यथा सतोऽ­पु­रु­षा­र्थ­रू­पायां तस्यां कामनोदयासंभवात् । कथं च स्वयं­वि­वि­ध­वि­चि­त्रा­र्थ­प्र­ति­पा­द­का­न्प्र­ब­न्धा­न्नि­र्माय तेषामध्येतृषु प्रच­य­ग­म­न­मि­च्छ­न्न­र्थ­ज्ञा­न­का­मनां निराकुर्यात् । न हि वेदानामिव तेषा­म­ध्य­य­ने­ष्व­क्ष­रा­वा­प्ति­कामाः प्रवर्तेरन् । न वा तद­र्थ­ज्ञा­न­का­म­ना­या­मे­व­म­स­म्भ­व­शङ्का निवर्तेरन् । तस्मा­दि­है­व­मा­द­योऽर्थाः प्रतिपाद्याः तेषामवगमस्तस्मै फलाय भवतीति हितै­षि­व­च­ना­त्सा­मा­न्य­त­स्त­द­र्था­न्वि­शिष्य तेषा­म­व­ग­म­स्ये­ष्टो­पा­य­ता­ञ्चा­व­गम्य हितै­षि­व­च­न­वि­श्वा­सा­देव विशिष्य तदर्थज्ञानं कामयन्त इत्युपपादनीयम् । तदुपपादनं प्रकृतेऽपि न दंडवारितम् । तस्मा­द्यु­क्त­म­ध्य­य­न­वि­धे­र­र्थ­ज्ञानं फलमिति ।

उच्यते – तव्यप्रत्ययेन स्वाध्याये भाव्यतया बोध्यमाने तद­वा­प्ति­म­ति­लं­ध्या­र्थ­ज्ञा­न­स्या­प्य­ध्य­य­न­वि­धि­फ­ल­त्व­क­ल्पनं ताव­त्ता­त्प­र्य­सि­द्ध्यर्थं न स्वाभि­म­त­प्र­यो­ज­न­सि­द्ध्य­र्थम् ; श्रुत­फ­ल­सा­ध्य­स्यापि वैध­फ­ल­त्व­क­ल्प­ना­यो­गात् । अन्यथा चित्रा­पु­त्रे­ष्ट्या­दि­वा­क्य­श्रु­तेषु पशु­पु­त्रा­दि­फ­लेषु प्राप्तेष्वपि तैस्संपादनीयस्य स्वभोगस्य कदा­चि­द­प्रा­प्ति­स्स्या­दिति तत्प्रा­प्ति­नै­य­त्य­सि­द्धये पशु­पु­त्रा­दि­प्र­यु­क्तस्य भोगस्यापि चित्रा­पु­त्रे­ष्ट्या­दि­वि­धि­फ­ल­त्व­क­ल्प­ना­प्र­स­ङ्गात् , लोक­व्यु­त्प­त्ति­सि­द्धस्य शब्दा­ना­म­र्थ­प­र­त्व­स्यौ­त्स­र्गि­कस्य क्वचि­त्क्व­चि­ल्लौ­कि­क­वाक्ये वक्तृ­दो­षा­द­प­वा­देऽ­प्य­पौ­रु­षेये वेदे तद­भा­वा­न्नि­र­प­वा­दस्य स्वत एव सत­स्त­स्या­र्थ­ज्ञा­नो­द्दे­श्य­क­श­ब्दो­च्चा­र­ण­वि­धि­नि­र­पे­क्ष­त्वाच्च । शब्दा­ना­म­र्थ­प­र­त्व­मात्रं व्युत्प­त्ति­सिद्धं न त्वग्नि­हो­त्रा­दि­वाक्यं तत्त­द­र्थ­वि­शे­ष­प­र­मि­त्यपि । तत्तु तत्त­द­र्थ­वि­शे­ष­मु­द्दि­श्यो­च्चा­र­ण­म­पे­क्षत इति तद­र्थोऽ­ध्य­य­न­वि­धि­स्स्या­दिति चेत् , न । अध्ययनविधिनाऽपि तदलाभात् । न ह्यध्ययनविधिः प्रतिवाक्यं तत्त­द­र्थ­वि­शे­ष­ज्ञा­न­मु­द्दिश्य तत्त­द्वा­क्यो­च्चा­र­ण­वि­धाने व्याप्रियते । स्वाध्या­या­ध्य­य­नेन यद्भावयितुं शक्यं तदनेन भावयेदिति विधाने सत्य­ग्नि­हो­त्रा­दि­वा­क्या­ध्य­य­नेन न्याय­ल­भ्य­त­त्त­द­र्थ­वि­शे­ष­ज्ञा­न­मेव भावयितुं शक्यमिति तत्र तत्रा­र्थ­वि­शे­ष­ता­त्प­र्य­म­र्थ­त­स्सि­द्ध्ये­दिति चेत् , तर्ह्य­ग्नि­हो­त्रा­दि­वा­क्या­ना­मौ­त्स­र्गि­क­म­र्थ­प­र­त्व­मेव न्याय­प­र्या­लो­च­नेन तत्त­द­र्थ­वि­शे­ष­ता­त्प­र्य­रू­प­तया पर्य­व­स्य­ती­त्ये­वास्तु , किमु­च्चा­र­ण­वि­धिना ? यदि च लोके दृष्ट­मि­त्ये­ता­वता वेदेऽ­प्य­र्था­व­बो­ध­मु­द्दिश्य उच्चा­र­ण­मा­द्रि­येत , तदा स्वत­न्त्र­व­क्तृ­वि­व­क्षि­ते­त­रा­र्था­व­बो­ध­मु­द्दिश्य श्रोतृ­भि­रु­च्चा­रणे कृतेऽपि तस्य वाक्यस्य तत्र तात्पर्यं न दृष्टं किन्तु स्वत­न्त्र­व­क्तु­र्य­द­र्था­व­बो­ध­मु­द्दि­श्यो­च्चा­रणं तत्रैव तात्पर्यं दृष्टमिति वेदस्य तात्प­र्य­सि­द्ध्यर्थं पौरुषेयत्वमपि कल्प्येत ।

वस्तुतस्तु लोकेऽपि नोच्चारणाधीनं तात्पर्यम् ; मौनिना लिखित्वा दत्ते परेणापि लिखितं दृष्ट्वा मनसाऽनुसंहिते श्लोका­दा­वु­च्चा­र­णा­भा­वात् । किन्त्व­स्मा­द्वा­क्या­दे­त­द­र्थ­प्र­ती­ति­र्भ­व­त्विति वक्तृ­वि­व­क्षाऽ­धीनं तदिति तात्प­र्य­सि­द्ध्य­र्थ­म­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­फ­ल­क­त्व­क­ल्प­नायाः कथंचिदपि नावकाशः । वक्तृविवक्षा त्वपौरुषेये वेदे न संभवतीति लोक­व्यु­त्प­त्ति­सि­द्ध­म­र्थ­प­रत्वं वक्तृविवक्षिते विशेषे पर्यवस्यति , वेदे तु न्यायलभ्ये विशेषे । तदनुसारेण च लक्ष­णा­दि­क­ल्प­न­मि­त्ये­वा­भ्यु­प­गन्तुं युक्तम् । अत एव वेदस्य तात्प­र्य­व­त्त्व­रू­प­स्वा­भि­म­त­प्र­यो­ज­न­सि­द्धि­मेव न्याय्यं मत्वा अनेनापि न्याय­तोऽ­ध्य­य­न­वि­धि­र­र्था­व­बो­ध­मपि फलत्वेन गृह्णातीति तत्तात्पर्यं निश्चित्य तद्बलेन स्वाध्या­या­वा­प्ते­रेव फल­ता­प्र­त्या­य­कस्य तव्यप्रत्ययस्य स्वार­स्य­मु­ल्ल­ङ्गि­तम् । न ह्यध्य­य­न­वि­धे­रु­क्ता­र्थ­ता­त्प­र्य­नि­श्च­योऽ­य­म­र्था­व­बो­ध­मु­द्दि­श्यो­च्चा­र­ण­वि­ध्य­धीनः ; तथा­भू­त­वि­ध्य­न्त­रा­भा­वात् अस्यैव विधे­र­पे­क्षा­या­मा­त्मा­श्र­या­पत्तेः , किंतु केवलन्यायाधीन एव वक्तव्यः । तस्मा­त्ता­त्प­र्य­सि­द्ध्य­र्थ­म­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­फ­ल­क­त्व­क­ल्प­न­मि­त्ये­तत् तावदयुक्तम् ।

क्रम­फ­ल­स­ङ्ग्र­हार्थं यदनेन शक्यं भावयितुं तद्भा­व­ये­दि­त्य­ध्य­य­न­वि­ध्य­र्थ­प­र्य­व­सा­ना­द­ध्य­य­नेन भावयितुं शक्य­म­र्थ­ज्ञा­न­मपि तद्भा­व्य­को­टा­व­नु­प्र­वि­शे­दि­त्य­प्य­यु­क्तम् ; अनु­ष्ठा­न­का­ला­पे­क्षि­तस्य समि­द्या­गा­दि­स्मृ­ति­क्र­म­स्या­ध्य­य­न­गृ­ही­त­स्वा­ध्या­य­पा­ठ­क्र­मे­णा­ध्य­य­न­वि­धि­फ­ला­क्ष­रा­वा­प्त्य­नु­नि­ष्पा­दि­तया स्वत एव संभ­व­तोऽ­ध्य­य­न­वि­धि­फ­ल­त्वेन सङ्ग्रा­ह्य­त्वा­भा­वात् । तत्संग्रहार्थं मीमां­सा­शा­स्त्र­पा­ठ­का­ला­पे­क्षि­त­क्र­म­फ­ल­स्यापि तथैव विधिफलत्वेन संग्रा­ह्य­त्वा­भा­वात् , तत्संग्रहार्थं यदनेन भावयितुं शक्यं तत्सर्वमनेन भाव­ये­दि­त्य­ध्य­य­न­वि­ध्य­र्था­ङ्गी­कारे अर्थ­ज्ञा­न­व­त्ख्या­ति­ला­भा­दीनां चार्वा­का­पा­दि­त­फ­ला­दी­ना­मपि तद्भा­व्य­को­ट्य­नु­प्र­वे­श­प्र­स­ङ्गाच्च । तेषामपि लोकतः , ‘शोभते ह्यस्य मुखं य एवं वेद’ ‘आस्य प्रजायां वाजी जायते’ इत्या­दि­श्रौ­त­लि­ङ्ग­त­श्चा­ध्य­य­नेन भावयितुं शक्यत्वावगमात् । ‘शोभतेऽस्य मुखं य एवं वेद’ इति हि गर्ग­त्रि­रा­त्र­ब्रा­ह्म­ण­ज्ञस्य तद्ज्ञा­न­फ­ला­नु­वादः शिष्यै­रु­द्वी­क्ष्य­मा­ण­त्वा­त्त­द्ज्ञस्य मुखं शोभते इति तदुपपादनं कृत­म­र्थ­वा­दा­धि­क­रणे । अनेन ख्याते­र­ध्य­य­ना­वा­प्यत्वं लब्धम् । ‘आस्य प्रजायां वाजी जायते’ इति वेदा­नु­म­न्त्र­ण­म­न्त्र­ज्ञस्य तद्ज्ञा­न­फ­ला­नु­वादः कुले सन्त­ता­ध्य­य­न­श्र­व­णात् तद्ज्ञस्य प्रजासु मेधावी वेदविज्जायते स प्रति­ग्र­हा­द­न्न­मा­प्नो­तीति तदुपपादनं कृतम् । अनेन कैमुतिकन्यायेन साक्षा­द­ध्ये­तु­र्ध­न­ला­भस्य तद­ध्य­य­ना­वा­प्यत्वं लब्धम् । विध्य­न्त­रा­पे­क्षितं यद्भावयितुं शक्यमिति विशेषितमिति चेत् , धनलाभोऽपि नन्व­र्थ­ज्ञा­न­क्र­तु­वि­धि­भि­र­पे­क्षित एव । ख्यातिरपि धनलंभनद्वारा क्रतुषूपयुज्यते । तस्मा­द­ध्य­य­न­वि­धे­स्त­व्य­प्र­त्य­यो­पा­त्ता­क्ष­रा­वा­प्ति­फ­ल­क­त्वे­ना­र्थ­ज्ञा­न­प­र्य­न्त­त्वा­भा­वा­द­न्यतो लब्ध­ज्ञा­ना­न­प­श्यन्तः क्रतुविधयो विद्या­वि­ध­य­श्चा­नु­ष्ठा­ना­पे­क्षितं ज्ञानं स्वय­मे­वा­क्षि­पन्ति ।

एवञ्च यद्यपि क्रतुविधयः शूद्रस्य स्वानु­ष्ठा­नो­प­युक्तं ज्ञानं नाक्षिपन्ति ; ‘तस्माच्छूद्रो यज्ञेऽ­न­व­क्लृप्तः’ इति तस्य क्रतु­प्र­ति­षे­धात् , तथापि विद्या­वि­ध­य­स्तस्य स्वोपयुक्तं ज्ञानं किमिति नाक्षिपेयुः ? क्रतुष्विव विद्यासु तस्य प्रतिषेधाभावात् , प्रत्युत विशिष्य तस्य क्रतुप्रतिषेधेन विद्याऽ­नु­म­त्य­व­सा­यात् । यदि ह्यध्य­य­न­वि­धि­र­र्थ­ज्ञा­न­भा­व्यकः स्यात्त­दाऽ­ध्य­य­न­वि­धि­ल­ब्ध­ज्ञा­ना­न्द्वि­जा­ती­ना­साद्य निर्वृताः क्रतु­वि­द्या­वि­धयः शूद्रस्य स्वानु­ष्ठा­नो­प­योगि ज्ञानं नाक्षिपन्तीति न्यायमूलं यज्ञा­न­व­क्लृ­प्ति­व­चनं विद्याऽ­न­व­क्लृ­प्ते­र­प्यु­प­ल­क्षणं स्यात् । न त्वय­म­र्थ­ज्ञा­न­भाव्य इत्युक्तम् ।

अस्तु वाऽय­म­र्थ­ज्ञा­न­भाव्यः, तथापि शूद्र­स्या­नि­वार्यो विद्याधिकारः ; क्रतु­वि­द्या­वि­धि­भि­स्त्रै­व­र्णि­कानां स्वशा­खे­त­र­शा­खा­वि­हि­ता­ङ्ग­गु­णो­प­सं­हा­राय तत्त­च्छा­खाऽ­ध्या­यि­भ्य­स्त­त्त­द­ङ्ग­गु­ण­ज्ञा­न­स्येव शूद्रस्यापि विद्या­वि­धि­भि­स्त­त्त­द्ज्ञा­नस्य आक्षेप्तुं शक्यत्वात् । अध्ययनविधिना ह्येकस्या एव शाखाया अध्ययनं विधीयते ; प्रतिव्यक्ति घटत्वस्येव प्रतिशाखं स्वाध्या­य­त्व­स्या­ध्य­य­नेन परिसमाप्तत्वात् । अध्य­य­न­वि­धे­र­र्थ­ज्ञा­न­फ­ल­क­त्व­पक्षे स्वाध्या­या­ध्य­य­ने­ना­र्थ­ज्ञानं भावयेदिति स्वाध्या­य­स्यो­पा­दे­य­को­टि­प्र­वे­शा­द­धी­तेन स्वाध्या­ये­ना­र्थ­ज्ञानं भावयेदिति तस्य साक्षात् , उपादेयत्वाद्वा तत्संख्याया विवक्षितत्वात् । स्वाध्या­य­स्यो­पा­दे­य­त्वेऽपि तस्या­र्थ­सि­द्ध­म­ध्य­य­न­सं­स्का­र्य­त्व­म­प्य­स्तीति तव्यप्रत्ययेन ‘चरुमुपदधाति’ इत्यत्र द्वितीयया चरो­रु­प­धा­न­सं­स्का­र्य­त्व­स्येव तस्यानुवादात् । अग्नि­प्र­क­र­णा­म्ना­तेन ‘चरुमुपदधाति’ इति विधिना चरूपधाने स्थण्डिलाङ्गतया विनियुज्यमाने तस्य साक्षा­त्स्थ­ल­नि­र्व­र्त­क­त्वा­यो­गा­दु­प­हि­तेन चरुणा तन्नि­र्वृ­त्ति­द­र्श­ना­च्चो­प­धा­नस्य स्थलाङ्गत्वं चरु­सं­स्का­र­द्वा­र­क­मि­त्य­र्थ­सि­द्ध­मेव यथा चरो­रु­प­धा­न­सं­स्का­र्यत्वं द्विती­य­याऽ­नू­द्यते , एव­मि­हा­प्य­ध्य­य­नस्य तत्स­मा­प्त्य­न­न्त­रा­र­म्भ­णी­य­मी­मां­सा­प­रि­च­यो­त्त­र­का­ल­भा­वि­न्य­र्थ­ज्ञाने साक्षा­त्का­र­ण­त्वा­यो­गा­द­ध्य­य­न­गृ­ही­त­स्वा­ध्या­येन कालान्तरे स्मृतिसमारूढेन द्वारे­णा­र्थ­ज्ञा­न­द­र्श­ना­च्चा­र्थ­सिद्धं स्वाध्या­य­स्या­ध्य­य­न­सं­स्का­र्यत्वं तव्य­प्र­त्य­ये­ना­नू­द्यत इति उपपत्तेः । संस्का­र­क­र्मा­ध्य­यनं स्वाध्या­या­वा­प्ति­फ­ल­क­मिति पक्षे स्वाध्या­य­स्या­ध्य­य­न­सं­स्का­र्य­त्वे­नो­पा­दे­य­त्वेऽपि स्वश­ब्दे­ना­त्मी­य­वा­चिना पितृ­पि­ता­म­हा­दि­प­र­म्प­रा­ग­ताया एव शाखाया अध्या­य­श­ब्दो­क्ताया अध्ययनविधानात् सर्व­शा­खा­ना­म­ध्ये­तु­म­श­क्य­तया सङ्को­चा­पे­क्षा­स­त्त्वे­नो­द्दे­श्य­स्यापि स्वीय­त्व­वि­शे­ष­ण­स­हि­ष्णु­त्वात् । एवञ्च खीये­त­र­शा­खा­वि­हि­त­म­ङ्ग­गु­ण­जातं विनैव तदध्ययनं तदध्येतृभ्यो गृही­त्वाऽ­नु­ष्ठी­यत इति त्रैवर्णिकेषु दृष्टत्वात् शूद्रं प्रति सर्वासामपि शखानां स्वीयेतरत्वात् तदध्ययनाभावेऽपि तद­ध्ये­तृ­भ्योऽ­धि­गत्य विद्यानुष्ठाने न कश्चिद्विरोधः ।

ननु शूद्रस्य विद्या­नु­ष्ठा­ना­पे­क्षितं ज्ञानं कार्त्स्न्ये­ना­पे­क्ष­णीयं त्रैवर्णिकानां स्वशा­खे­त­र­शा­खा­वि­हि­त­गु­ण­वि­ष­य­स्त­दे­क­देश इत्या­क्षे­प­ला­घ­वात् विद्या­वि­ध­य­स्त्रै­व­र्णि­का­ने­वा­धि­कुर्युः, न शूद्रमिति चेत् ; एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधानं ‘भूय­स्त्वे­नो­भ­य­श्रुति’(जै. सू. ३. ३. १०) इति न्यायेन प्रधानस्यापि विधानं शाखान्तरे तु किञ्चि­द­ङ्ग­वि­धानं तत्र कर्मणि तच्छा­खा­ध्या­यि­ना­मे­वा­धि­कारः स्यात् ज्ञाना­क्षे­प­ला­घ­वान्न तु शाखा­न्त­रा­ध्या­यि­नाम् । यस्य कर्मणस्तदङ्गस्य वा कस्यचिद्यस्यां शाखायां विधानं नास्ति किन्तु शाखान्तर एव साङ्गस्य तस्य विधानं तत्र कर्मणि तच्छा­खा­ध्या­यि­ना­म­धि­कारो न स्यात् । शूद्रवत्तेषां तद­नु­ष्ठा­नो­प­यो­गि­ज्ञा­नस्य कार्त्स्न्ये­ना­पे­क्ष­णी­य­त्वात् । सम्भवन्ति हि गुणफलविधिरूपाणि क्षुद्रकर्माणि शाखाविशेषेषु सर्व­थै­वा­नि­रू­पि­तानि । तस्मा­त्त्रै­व­र्णि­का­ना­मपि ज्ञानाक्षेपस्य संप्र­ति­प­न्न­त्वात् तद्वत् शूद्रस्यापि विद्या­नु­ष्ठा­नो­प­यो­गि­ज्ञा­ना­क्षे­प­स­म्भ­वात् वेदविद्भ्यो विज्ञाय विद्या­नु­ष्ठा­न­मु­प­प­द्यते । अन्य­थाऽ­ध्य­य­ना­भा­वेन शूद्रस्य विद्या­प्र­त्या­ख्याने मैत्रे­यी­प्र­भृ­तीनां स्त्रीणां ब्रह्म­वि­द्याऽ­वाप्तौ का गतिः ? न हि अत्रत्यस्य शूद्रशब्दस्य क्षत्रिय इव मैत्रै­य्या­दि­श­ब्दानां पुरुषेषु वृत्ति­स्सि­द्धा­न्ति­नाऽपि कल्पयितुं शक्यते ; ‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः मैत्रेयी च कात्यायनी च’(बृ. ४. ५. १) इत्या­दि­वा­क्या­न्त­र­वि­रो­धात् ।

ननु तथाऽपि निर्गु­ण­वि­द्यो­द­यार्थं शूद्रस्य वेदान्तग्रहण नोपपद्यते ‘अथ हास्य वेद­मु­प­शृ­ण्व­त­स्त्र­पु­ज­तुभ्यां श्रोत्र­प्र­ति­पू­र­ण­मु­दा­ह­रणे जिह्वाच्छेदो धारणे शरीरभेदः’ इति शूद्रस्य वेद­श्र­व­णा­दि­प्र­ति­षे­धा­दिति चेत् , न । कूपखननप्रयुक्तं पङ्किलदेहत्वं तल्लब्धजलेनेव वेदा­र्थ­वि­चा­र­प्र­युक्तं वेद­श्र­व­णो­दा­ह­र­ण­धा­र­ण­कृ­त­दु­रितं तल्ल­ब्ध­ब्र­ह्म­ज्ञा­ने­ना­प­ने­ष्यत इति धिया तस्य वेदा­न्त­श्र­व­णेऽपि प्रवृ­त्यु­प­पत्तेः । ननु शूद्रस्य सगु­ण­वि­द्या­नु­ष्ठा­नार्थं वेदा­न्ता­र्थ­वि­चा­रार्थं चोपदेष्टा न लभ्यते ‘न शूद्राय मतिं दद्यात्’ इति प्रतिषेधादिति चेत् , न । सगु­ण­वि­द्या­नु­ष्ठा­नेन निर्गु­ण­ब्र­ह्म­ज्ञा­नेन वा तदु­प­दे­ष्टृ­त्व­प्र­युक्तं दुरि­त­म­प­ने­ष्या­मीति मन्यमानस्य परमकारुणिकस्य सम्भवात् ; स्नेहा­र्थ­लो­भा­धु­पा­धि­नाऽ­ति­क्रा­न्त­नि­षे­धस्य वोप­दे­ष्ट­त्व­स­म्भ­वात् । अन्यथा सोम­वि­क्र­य्य­ला­भेन त्रैवर्णिकानां यज्ञा­नु­ष्ठा­न­स्यापि लोपप्रसङ्गात् । तस्मादस्ति शूद्रस्य सगु­ण­वि­द्याऽ­नु­ष्ठाने निर्गु­ण­वि­द्या­र्थ­श्र­व­ण­म­न­न­नि­दि­ध्या­स­ना­नु­ष्ठाने चाधिकार इति । एवं प्राप्ते पूर्वपक्षे –

सिद्धान्तमाह – ‘शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि’ । यदुक्तम् – देवानामिव शूद्राणामपि विद्याधिकारे वैदिक लिङ्गमस्तीति, तत्र तावदिदमुच्यते । न जानश्रुतौ शूद्रशब्दो रूढ्य­र्थ­वि­व­क्षया प्रयुक्तः, किन्तु योगार्थविवक्षया प्रयुक्तः । अस्य हि जानश्रुतेः शुगुत्पन्ना । कुतः कारणात् ? तदनादरश्रवणात् तस्मा­द्धं­स­वा­क्या­दा­त्म­नोऽ­ना­द­र­श्र­व­णात् । सा रैक्वेण महर्षिणा शूद्रशब्देन सूच्यते । आत्मनः परो­क्ष­ज्ञा­न­व­त्त्व­ज्ञा­प­नाय । कथं सा शूद्रशब्देन सूच्यते ? तदाद्रवणात् तया शुचा हेतुना रैक्वस्यादवणात् – विद्या­र्था­भि­ग­म­नात् । रैक्वस्याभिगमनं शुचेति चाख्यायिकयैव सूच्यते ।

एवं हि उपाख्यायते – जानश्रुतिः किल पौत्रायणः श्रद्धया बहुधनानप्रदः सर्वासु दिक्षु ग्राम­न­ग­र­मा­र्गा­र­ण्य­ती­र्था­दिषु पान्था­ना­म­ना­था­नाञ्च शीत­वा­त­व­र्षा­त­प­बा­ध­नि­वा­र­का­न्नो­द­क­श­य­ना­च्छा­द­ना­दि­भो­ग्य­जा­तस्य पूर्णा­ना­व­स­था­न्मा­प­या­ञ्चक्रे । एवं कर्मपथरसिकं विद्यापथमजानानं कर्मभिः क्षीणदुरितं तं विद्यापथे प्रव­र्त­यि­तु­कामाः केचन महर्षयः सारासारे विद्याकर्मणी क्षीरनीरे इव स्वयं विवेक्तुं कुशला इति व्यञ्जयितुं हंसरूपमास्थाय निशायां हर्म्ये शयानस्य तस्योपरि पङ्क्ति­मा­ब­ध्या­जग्मुः । तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साकूतमुवाच – भोभोयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य सम­न्दि­वा­ज्यो­ति­रा­ततं तन्मा प्रसा­ङ्क्षी­स्तत्त्वा मा प्रधाक्षीदिति । एवं भल्लाक्षेत्यनेन विपरीतलक्षणया मन्दलोचनेति सम्भ्रमेण द्विवारं सम्बोध्य जान­श्रु­ते­र­न्न­दा­ना­दि­प्र­भा­व­ज­नितं ज्योति­र्द्यु­लो­क­प­र्यन्तं व्याप्तं वर्तते तत्र त्वं लग्नो माभूरिति तेन तव प्रदग्धता मा भूदित्युक्ते तमग्रगामी हंसः प्रत्युवाच ‘कम्बर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’(छा. ४. १. ३) इति । तदिदमग्रगामिनो हंसस्य वाक्यं अरे हंस एनं राजानं कमु कमेव केनैव माहात्म्येन युक्तं एत­त्स­न्त­मे­ता­दृशं सन्तं मनु­ष्य­सा­मा­न्य­द­शा­म­न­ति­क्रम्य वर्तमानम् , सयु­ग्वा­न­मु­प­क­र­ण­न­य­ना­र्थेन शकटेन सहितं रैक्वमिव एवं सब­हु­मा­न­मा­त्थे­त्ये­त­दा­कर्ण्य तेन पृष्ठगामिना हंसेन कोऽसौ रैक्व इति पुनः पृष्टस्स एव प्रत्युवाच सर्वेषामपि यद्यावत् साधु कर्म तत्सर्वं फलतो रैक्वस्य धर्मेऽन्तर्भवति तथाऽन्योऽपि यः पुरुषधौरेयो रैक्वो­पा­स्य­मु­पास्ते तस्यापि धर्मे तत्स­र्व­म­न्त­र्भ­वति तथाभूतो रैको मयोक्त इति । तदेतद्धंसवाक्यं तथाभूतस्य रैक्वस्य हि कर्मज्ञानजनितं ज्योतिरसह्यं न त्वस्य वराकस्येति स्वनि­न्दा­ग­र्भ­मा­कर्ण्य जानश्रुतिः कथमपि निशामतिवाह्य तल्पं त्यजन्नेव क्षत्तारमाहूय सचिह्नं रैक्वमुक्त्वा तदन्वेषणाय प्रेषयित्वा क्वचिद्विविक्ते देशे शक­ट­स्या­ध­स्ता­त्पा­मानं कण्डूयमानं रैक्वमुपलभ्य प्रत्यागते तस्मिन् स्वयं रैक्वमुपसद्य गवां षट्शतानि हार­म­श्व­त­री­युक्तं रथञ्चोपहृत्य त्वदुपास्यां देवतामनुशाधीति रैक्वं प्रार्थयामास । रैक्वः स्वयो­ग­म­हि­म­वि­दि­त­स­क­ल­वृ­त्तान्तो जान­श्रु­ते­र्वि­द्या­वि­धु­र­ता­नि­मि­त्ता­ना­द­र­ग­र्भ­हं­स­वा­क्य­श्र­व­ण­ज­नितां शुचं तदनन्तरमेव विद्यार्थं स्वोपसर्पणञ्च विदित्वा चिरकालसेवां विना द्रव्यप्रदानेन मां तोष­यि­तु­का­म­स्यास्य यावच्छक्ति प्रदानं विना विद्या प्रतिष्ठिता न भवेदिति मत्वा तदनुजिघृक्षया स्वस्य परो­क्ष­ज्ञा­न­व­त्ता­रूपं स्वमहिमानं ‘शूद्र’ इति सम्बुध्या ख्यापयन्नाह ‘अह हारे त्वा शुद्र तवैव सह गोभिरस्तु’(छा. ४. २. ३) इति । अहेति निपातः । हारसहित इत्वा रथः गोभिःसह तवैवास्तु किमनेन अल्पधनेन मम सन्तोषः कलत्रहीनस्य मम एतद्धनरक्षणे वा शक्तिः, तव वा मत्प्र­यो­ज­ना­प­र्य­व­सा­य्य­ल्प­ध­न­दा­नेन ब्रह्मविद्या प्रतिष्ठिता भवेदिति भावः । पुनर्जानश्रुतौ सहस्रं गवां पूर्वानीतं हारादिकं रैक्वस्य परिणयनार्थं स्वकन्यां तत्रत्यं ग्रामञ्चोपहृत्य प्रार्थयमाने विद्या­प्र­दा­ना­र्थ­मु­प­हा­रस्य पर्या­प्त­ता­म­नु­जा­नन् पुनरपि तदेव ‘शूद्र’ इत्यामन्त्रणं पूर्वो­क्ता­नु­क­र­ण­मा­त्र­त्वे­ना­व­र्त­यन् ‘आज­हा­रे­मा:शू­द्रा­ने­नैव मुखे­ना­ला­प­यि­ष्यथाः’(छा. ४. २. ५) इति इमां दक्षिणां आजहर्थ ; अनेनैव मुखेन विद्या­ग्र­ह­णो­पा­येन मां वाच­यि­ष्य­सी­त्यर्थः ।

अस्या­मा­ख्या­यि­कायां हंस­वा­क्या­ना­द­र­श्र­व­णा­न­न्त­र­मेव क्षतृ­प्रे­ष­ण­व्य­ग्र­त्व­प्र­ति­पा­द­नेन जानश्रुतेः शुगुत्पन्ना सूच्यते । अतस्तदुत्पन्नया शुचा विद्यार्थं स्वाद्रवणं रैक्वेण शूद्रे­त्या­म­न्त्र­णेन सूच्यत इति युक्तम् । योगा­द्रू­ढे­र्ब­ली­य­स्त्वेऽपि बुद्धि­स­न्नि­हि­ता­र्थ­वि­ष­य­यो­ग­स्या­त­था­भू­त­रू­ढितः प्रति­प­त्ति­ला­घ­वेन बलीयस्त्वात् । इह च नैर­क्त­प्र­क्रि­यया ‘रुदं (जं) द्रावयति’ इत्यर्थे रुद्र­श­ब्द­व­च्छुचा दुद्राव’ इत्यर्थे शूद्रशब्दस्य निष्प­त्ति­सं­भ­वात् । उकारस्य दीर्घस्तु नैरुक्त इहाधिकः । केचित् ‘संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥’ इति वचनमुदाहरन्तः शोका­धि­क्य­द्यो­तको दीर्घ इत्याहुः ।

नन्वेवं सति सूत्रे सूच्यत इत्य­स्या­ख्या­यि­कया ‘शुगुत्पन्ना सूच्यते’ इति एषैव योजना युक्ता । रैक्वेण ‘शूद्र’ इत्यामन्त्रणेन सा सूच्यत इति योजनान्तरं तु न युक्तम् ; यौगिकेन शूद्रशब्देन शुचः कण्ठोक्त्यैव प्रतिपादनात् । नैष दोषः । हंस­वा­क्या­ना­द­र­श्र­व­ण­कृ­तया शुचा विद्यार्थं माम­भ्या­ग­त­वा­न­सी­त्ये­ता­व­तोऽ­र्थस्य रैक्वेण चिख्या­प­यि­षि­त­स्यै­क­दे­श­प्र­ति­पा­द­न­द्वारा सूचनीयत्वात् । एवञ्च यदि नैरु­क्त­प्र­क्रि­यया शुचि­धा­तो­र्व्यु­त्प­न्नोऽयं शूद्रशब्दः केवलयौगिकः, न तु ‘स्थायि­त­ञ्चि­व­ञ्चि­श­कि­क्षि­पि­क्षु­दि­सृपि’ इत्यादिसूत्रतो रप्रत्यये अनुवर्तमाने ‘शदेरूच’ इत्यौ­णा­दि­क­सू­त्रेण निष्प­न्न­श्च­तु­र्थ­वर्णे रूढः । तदा शूद्रशब्देन शुचः कण्ठोक्त्या प्रतिपादनात्कथं तेन सूच्यत इत्यु­क्त­मि­त्या­श­ङ्का­या­मपि सूत्रे ‘तदाद्रवणात्’ इत्येवोत्तरम् । ल्यब्लोपे पञ्चमीयम् ; न हि शुचमेव केवलामपेक्ष्य सूच्यत इत्युक्तम् , किन्तु तदा­द्र­व­ण­म­पेक्ष्य, तया ‘शुगस्य तदनादरश्रवणात्’ इति सूत्रभागे प्रकृतया अना­द­र­श्र­व­ण­ज­त्व­वि­शि­ष्टया शुचा हेतुना यदाद्रवणं रैक्वाभ्यागमनं तदपेक्ष्य । तत्तु सूचनीयमेवेति भावः । एवं सत्या­डु­प­स­र्गोऽ­प्य­र्थ­वान् भवति । शूद्र­श­ब्द­प्र­वि­ष्टा­व­य­वा­र्थ­मा­त्र­प्र­द­र्श­न­प­रत्वे ‘तद्द्वणात्’ इत्येव सूत्रं क्रियेत ।

केचि­दु­णा­दि­सूत्रे रक्प्रकरणे ‘शदेरूच’ इति सूत्र­पा­ठ­म­न­ङ्गी­कृत्य तदनंतरपठितात् ‘अमि­त­म्यो­र्दी­र्घश्च’ इति सूत्रादनन्तरं ‘शुचेर्दश्च इति सूत्रान्तरपाठं कल्पयन्तः तेन निष्पादितोऽयं शूद्रशब्दः केवलं शोचि­तृ­त्वा­र्थकः, न तुशु­चा­द्र­व­णा­र्थकः, औणादिकनिर्वाहे संभवति नैरु­क्त­नि­र्वा­हा­यो­गात् । पाणिनीयनिर्वाहो मुख्यः, तत औणादिकस्ततो नरुक्तः इति हि मर्यादेति वदन्ति । एवं शुद्धेषु सूत्र­को­शे­ष्व­दृष्टं वृत्ति­ग्र­न्थे­ष्व­व्या­ख्यातं पाठान्तरं कल्पयित्वा तथाव्युत्पादने नास्माकं कश्चिद्दोषः ; ‘तदाद्रवणात्’ इति सूत्रभागस्य तद्व्या­ख्या­न­भा­ष्यस्य च वैदि­क­शू­द्र­प­द­वा­च्या­र्थ­प्र­ति­पा­द­न­प­रत्वं विहाय केवलं तत्सू­त्रा­र्थ­प्र­ति­पा­द­न­प­र­त्व­क­ल्प­नो­प­पत्तेः । किन्तु औणा­दि­क­प्र­त्य­या­न्त­तायां न शोचि­तृ­त्वा­र्थ­ला­भे­नापि जात्य­र्थ­त्व­नि­रा­स­सिद्धिः । औणा­दि­क­प्र­त्य­या­न्ता­ना­म­व्यु­त्प­न्न­प्रा­ति­प­दि­क­त्वात् सर्वेषां नाम्ना­मौ­णा­दि­क­प्र­त्य­या­न्त­त्वेन जातिवाचिनः शूद्रशब्दस्यापि तथा­त्वा­व­श्यं­भा­वात् ।

अत एवाहुः शब्दविदः – ‘औणा­दि­क­प्र­त्य­या­न्ता­न्य­व्यु­त्प­न्न­प्रा­ति­प­दि­कानि’ इति ‘अतः कृक­मि­कं­स­कुं­भ­पा­त्र­कु­शा­क­र्णी­ष्व­न­व्य­यस्य’(पा. सू. ८. ३. ४६) इत्येतत्सूत्रे कमिग्रहणे सत्यपि कमे­रौ­णा­दि­क­प्र­त्य­या­न्तस्य कंसपदस्य ग्रहणेन सर्वेषां नाम्ना­मौ­णा­दि­क­प्र­त्ययैः कृदन्तानां कृत्त­द्धि­त­सू­त्रतः प्राति­प­दि­क­सं­ज्ञा­सि­द्धि­सं­भ­वेऽपि अर्थ­व­त्सू­त्र­प्र­ण­य­नेन च ज्ञापितमिति । यद्यपि ‘तदाद्रवणात्’ इत्यत्र तत्पदस्येव ‘तद­ना­द­र­श्र­व­णात्’ इत्यत्र तत्पदस्य ‘अस्य’ इति पदस्य च सूत्र­प्र­कृ­त­प­रा­म­र्शित्वं नास्ति, तथाऽपि ‘अह हारे त्वा शूद्र’ इति वैदि­क­लि­ङ्ग­म­व­लंब्य प्रत्य­व­ति­ष्ठ­मा­नस्य पूर्वपक्षिणः तस्या­मा­ख्या­यि­कायां वर्ण्यमानो जानश्रुतिः तमुद्दिश्य हंस वाक्यञ्च बुद्धि­स­न्नि­हि­त­मिति पूर्वपक्षिणं प्रति जानश्रुतौ शूद्र­श­ब्द­प्र­यो­ग­नि­र्वा­हार्थं प्रवृत्ते सूत्रे प्रयु­क्त­यो­स्त­यो­र्बो­ध्य­बु­द्धि­स­न्नि­हि­त­प­रा­म­र्शि­त्व­म­स्तीति तयोर्निर्वाहः । एव­म­प्र­ति­प­न्न­रू­ढितः प्रतिपन्नयोगस्य बलीयस्त्वात् जानश्रुतिर्न जातिशूद्र इत्युपपादितम् । १. ३. ३४ ।

अत्रैव हेत्वन्तरमाह –

क्षत्रि­य­त्व­ग­ते­श्चो­त्त­रत्र चैत्ररथेन लिङ्गात् ॥३५॥

३५

जान­श्रु­त्या­ख्या­यि­का­स­मा­प्त्य­न­न्त­र­मु­त्त­रत्र जानश्रुतये रैक्वेण उपदिष्टायाः संवर्गविद्याया वाक्यशेषे श्रूयते ‘अथ ह शौनकञ्च कापे­य­म­भि­प्र­ता­रि­णञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’(छा., ४. ३. ५) इति । तत्राभिप्रतारी चित्ररथवंश्यः क्षत्रियश्चेति तावद्वक्तव्यं ; कापे­या­ख्य­या­ज­क­यो­गात् । कापेययाजक यागो हि च्छन्दो­ग­ब्रा­ह्मणे चित्ररथस्य श्रुतः । तत्र हि द्विरा­त्र­प्र­क­रणे ‘एका­कि­न­मे­वै­न­म­न्ना­द्य­स्या­ध्यक्षं करोति’ इति फला­र्थ­वा­दा­न­न्तरं तदु­प­पा­द­क­म­र्थ­वा­दा­न्तरं श्रुतं ‘एतेन वै चित्ररथं कापेया अयाजयन् तमे­का­कि­न­म­न्ना­द्य­स्या­ध्य­क्ष­म­कु­र्वन् तस्मात् चैत्ररथी नामैकः क्षत्रपतिरजायत’(ताण्ड्य ब्रा. २०. १२. ५) इति । तेनाभिप्रतारिणः संज्ञाभेदात् चित्र­र­थ­त्वा­सि­द्धा­वपि तद्वंश्यत्वं सिद्ध्यति ; समानान्वयानां समानान्वया याजका भवन्तीति प्रायेण दर्शनात् । चित्र­र­थ­वं­श्यत्वे सति क्षत्रि­य­त्व­म­प्यु­दा­हृ­त­च्छ­न्दो­ग­ब्रा­ह्म­ण­व­च­न­ब­ला­देव सिद्ध्यति । एवं चोत्तरत्र ब्राह्मणेन कापेयेन युक्तोऽ­भि­प्र­तारी क्षत्रिय इति निश्चिते तत्स­म­भि­व्या­हा­रात् ब्राह्मणेन रैक्वेण युक्तो जानश्रुतिरपि क्षत्रियो गम्यते ।

किञ्च जान­श्रु­त्या­ख्या­यि­का­या­मेव तस्य क्षत्रियत्वे लिङ्गमस्ति । तत्र हि श्रूयते ‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आव­स­था­न्मा­प­या­ञ्चके’(छा.१.१.१) इत्यादि । तत्र यद्यपि दानं शूद्र­स्या­प्यस्ति ‘दानञ्च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेत च’ इति स्मरणात् ; शूद्रादिभ्यः पक्वान्नदानञ्च तस्य संभवति ; तथाऽपि ‘बहुदायी’ इत्युक्तं दानपतित्वं सर्व­त्रा­व­स­था­न्नि­र्मा­या­न्न­स­त्र­प्र­व­र्त­नञ्च बहुधनसाध्यं न तस्य संभवति । ‘शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः’ इति तस्य बहु­ध­न­सं­पा­द­न­नि­षे­धात् । ‘यञ्चा­र्य­मा­श्र­येत भर्तव्यस्तेन क्षीणोऽपि तेन चोत्त­र­स्त­द­र्थोऽस्य निचयस्स्यात् , इति यं द्विजातिं शुश्रूषते तस्य कदाचित् क्षीणतायां तद्भरणं कार्यमिति तन्मा­त्रो­प­यु­क्त­ध­न­स­ङ्ग्र­ह­ण­स्यै­वा­नु­म­ति­द­र्श­नात् । तथा ‘स ह प्रातः संजिहान उवाच’(छा. ४. १. ५) इत्युक्तं क्षत्तृ­प्रे­ष­ण­मपि न तस्य संभवति । राज्ञ एव हि क्षत्तृसम्बन्धः ‘वैश्या­द्ब्रा­ह्म­ण­क­न्यायां क्षत्ता नाम प्रजायते । जीविका वृत्तिरेतस्य राजाऽ­न्तः­पु­र­र­क्ष­णम्’ इति स्मरणात् । तथा रैक्वेदं सहस्रं गवामयं निष्कोऽ­य­म­श्व­त­री­रथः इयं जायाऽयं ग्रामो यस्मिन्नास्से’ इत्युक्तं यत्र ग्रामे रैक्वस्तदानीं वसति तस्य ग्रामस्य तस्मै समर्पणं ‘ते हैते रैक्व पर्णा नाम महावृषेषु यत्रास्माउवास’(छा. ४. २. ४) इति वर्णितम् । महा­वृ­षा­ख्य­दे­श­ग­तेषु येषु ग्रामेषु रैक्वेणोषितं तेषां सर्वेषामपि ग्रामाणामद्यापि रैक्वपर्णनाम्ना प्रसिद्धानां तस्मै समर्पणञ्च जन­प­दा­धि­प­त्य­साध्यं शूद्रस्य न संभवति । सर्वमेतत् क्षत्रियस्यैव संभवति । तस्मादपि क्षत्रिय एवायं न शूद्र इति गम्यते । अत्रे­द­ञ्चि­न्त्यते –
रूढेरस्त्यत्र योगस्य बलीयस्त्वे हि कारणम् ।
वर्णितं प्रतिपन्नत्वं तत्ता­व­न्नो­प­प­द्यते ॥
हंसवाक्यं श्रुतवतः क्षत्तृ­प्रे­ष­ण­क­र्मणा ।
विकारो मानसः कोऽपि गम्यते शुक्त्वसौ कुतः ॥
यथा स्वनिन्दा शोकाय तथा रैक्वप्रशंसनम् ।
तदु­पा­स्यो­पा­स­का­न्य­स्त­व­नञ्च भवेन्मुदे ॥
स्वस्यापि रैक्व­म­हि­म­प्रा­प्त्यु­पा­य­प्र­द­र्श­नात् ।
गुरोश्च तदुपायाप्तौ सचिह्नं तस्य सूचनात् ॥
महात्मनाञ्च शोकाय स्वनिन्दा नैव कल्पते ।
नतराञ्च कृता पथ्ये प्रव­र्त­यि­तु­मि­च्छता ॥
सर्व­प्रा­णि­रु­ता­भि­ज्ञ­श्श्राद्धो जानश्रुतिर्यदि ।
तस्य हंसकृता निन्दा नैव शोकाय कल्पते ॥
स्मरन्ति हि महात्मानो मन्वा­द्या­स्स्मृ­ति­का­रकाः ।
अव­मा­ना­त्त­पो­वृद्धिं सम्मानाच्च तपःक्षयम् ॥
यदि सा देवभाषेति हितैषी हंसरूपधृक् ।
ऋषिरेव समा­गा­दि­त्य­भिज्ञो नतरां तदा ॥
न चास्य निन्दा यद्दि­व्य­ज्यो­ति­र्वै­क­ल्य­व­र्ण­नम् ।
न ह्यस­म्भा­वि­त­गु­णा­भा­वोक्त्या कोऽपि निन्द्यते ॥
क्षत्रियः क्षत्रि­ये­णा­सा­व­ग्र­तोऽ­भि­प्र­ता­रिणा ।
सम­भि­व्या­हृ­त­त्वा­दि­त्ये­त­द­प्य­स­म­ञ्ज­सम् ॥
याज्य­या­ज­क­भा­वोऽत्र कापे­या­भि­प्र­ता­रिणोः ।
न श्रुतोऽ­भि­प्र­ता­र्येष येन चैत्ररथो भवेत् ॥
नाप्यन्यत्र श्रुतो नापि कल्प्यो न खलु विद्यते ।
मूलसम्बन्धनियमः कयोश्चित् क्वापि मेलने ॥
सति वा नियमे तस्मिन्याजकत्वं ततः कथं ॥
यौन­मौ­खा­दि­स­म्ब­न्धा­न­प­हा­या­न्य­गा­मिनः ।
प्रसिद्ध एव सम्बन्धो यदि सङ्ग्राह्य इष्यते ॥
एकविद्यत्वमेव स्यान्नतु याजकता तदा ।
संवर्गविद्या वित्त्वं हि कापे­या­भि­प्र­ता­रिणोः ॥
प्रसिद्धमत्रैव न तत् श्रुत्य­न्त­र­म­पे­क्षते ।
प्रायेण चैकविद्यानां च्छान्दोग्ये मेलनं श्रुतम् ॥
प्राची­न­शा­ल­शि­ल­क­प्र­भृ­तीनां निरीक्ष्यते ।
अन्यो­न्य­स्मा­द्वि­शे­षाणां ग्रहणार्थतया हि तत् ॥
निब­ध्य­मा­न­म­द्यापि विद्या­व­त्सू­प­यु­ज्यते ।
विद्याप्रकरणे याज्य­या­ज­का­दि­स­मा­गमः ॥
वर्ण्यमानः प्रपद्येत किं वा दृष्टप्रयोजनम् ।
एवञ्चाभिप्रतारी स्यात् कापेयसहपाठतः ॥
अनि­र्धा­रि­त­व­र्ण­त्वा­त्त­द्वत् ब्राह्मण एव नः ।
तस्मा­ज्जा­न­श्रु­ते­स्तेन सम­भि­व्या­हृ­त­त्वतः ॥
क्षत्रियत्वं न निर्णेतुं कथञ्चिदपि शक्यते ।
यत्तु दान­प­ति­त्वा­दि­लिङ्गं तदपि दुर्बलम् ॥
उपपादयितुं शक्यं सर्वं शूद्रेऽपि तद्यतः ।
धार्मिकस्य हि शूद्र­स्या­प्य­नु­ज्ञातं धनार्जनम् ॥
राज्या­धि­प­त्य­म­प्यस्ति तस्या­वे­ष्टि­न­यो­दि­तम् ।
दृष्टञ्च कर्णस्यात्मानं मन्यमानस्य सूतजम् ॥
अङ्ग­रा­ज्या­धि­प­त्यञ्च दातृ­त्व­ञ्चा­ति­मा­नु­षम् ।
एवञ्च शूद्र एवायं शूद्रे­त्या­म­न्त्र­णा­न्व­यात् ॥
राज्या­धि­प­त्य­दा­नादि तस्मिन् सङ्गच्छतेऽखिलम् ।
न ह्यस्य यागहोमादि किञ्चिदप्यत्र वर्णितम् ॥
न सङ्गच्छेत यच्छूद्रे तस्माच्छूद्रो भवत्वयम् ॥ इति ।
श्लोकानामयमर्थः – इह शूद्रशब्दे रूढितो योगस्य बलीयस्त्वे कारणं शुचः प्रति­प­न्न­त्व­मु­क्तम् । तन्न युज्यते ; तत्प्र­ति­प­त्त्य­सिद्धेः । हंस­वा­क्य­श्र­व­णा­न­न्त­र­मेव क्षत्तृप्रेषणेन तत्प्रेषणहेतुः कश्चिन्मानसो भावो हंस­वा­क्य­श्र­व­णा­दु­दित इत्ये­ता­व­त्प्र­ति­पत्तुं शक्यते । स भावः शुगिति कुतः प्रतिपत्तव्यम् ? हंसवाक्यं जान­श्रु­ति­नि­न्दा­त्म­क­मिति ततस्तस्य शुच एवोदयो युक्त इति चेत् , न । तद्रैक्वस्य तदन्यस्यापि तदु­पा­स्य­दे­व­तो­पा­स­कस्य स्तुति­रू­प­स­म्भ­व­तीति ततस्तोषोदयोऽपि युक्त एव । स्वस्यापि रैक्व­म­हि­म­प्रा­प्त्यु­पा­य­स्त­दु­पा­स्य­दे­व­तो­पा­स­न­मिति प्रद­र्श­ना­त्त­दु­पा­स­न­प्र­का­रो­प­दे­शार्थं प्रार्थनीयः स एव रैक्व इत्यपि ‘सयुग्वानम्’ इति सचिह्नोपन्यासेन सूचनात् । अन्यथा कोऽसौ रैक्व इति पृष्ठगामिनो हंसस्य प्रश्ने भल्लाक्षेण रैक्व­म­हि­म­मा­त्रस्य वर्णनीयतया ‘यस्तद्वेद यत्स वेद’ इत्यनेन यत्स रैक्वो वेद तद्रै­क्वा­द­न्योऽपि यो वेद तस्यापि धर्मे सकलप्रजानां साधुकर्म फल­तोऽ­न्त­र्भ­व­तीति प्रतिपादनस्य , रैक्व­चि­ह्नो­प­न्या­सस्य च वैय­र्थ्य­प्र­स­ङ्गात् । तस्मा­त्पृ­ष्ठ­गा­मिनं हंसं प्रत्युत्तरं प्रयच्छतैव भल्लाक्षेण जानश्रुतिं प्रति त्वमपि रैक्वोपास्यां देवतामुपास्व , रैक्व इव महामहिमा भविष्यसि , तदुपासनाप्रकारे च स एव रैक्वः उपदेष्टा प्रार्थनीयः तस्य चिह्नं सशकटपर्यटनं , तमन्विष्य ततो विद्यां लब्ध्वा कृतार्थो भवेति व्यंजयितुमेव तदु­भ­य­प्र­ति­पा­द­न­मति ततस्तोषोदयो युक्त एव ।

अत एव जानश्रुतिनाऽपि रैक्वान्वेषणाय क्षत्तृप्रेषणे ‘सयुग्वानम्’ इति युग्वा तच्चि­ह्न­मु­प­न्य­स्तम् । स्वयं तदु­प­स­र्प­णा­न­न्तरं ‘अनु म एतां भगवो देवतां शाधि यां देवतानुपास्से’ इति तदु­पा­स्य­वि­द्यो­प­दे­शश्च प्रार्थितः । तस्मा­द्धं­स­वा­क्य­श्र­व­णा­न­न्त­र­प्र­वृ­त्तेन क्षत्तृ­प्रे­ष­ण­का­र्ये­णास्य शोकोदयो निश्चेतुं न शक्यते । तथापि निन्दा­ल­क्ष­ण­का­र­णे­नै­वा­य­म­व­सी­यते इति चेत् ; न । महात्मनां हि येनकेनचिदपि कृता निन्दा शोकाय नावकल्पते । हिते प्रव­र्त­यि­तु­मि­च्छता कृता तु नतराम् । सा खल्वन्येषामपि शोकाय न भवत्येव । तथाहि – जानश्रुतिः ‘श्रद्धादेय’ इति विशेषितत्वात् शास्त्र­चो­दि­ते­ष्व­र्थेषु श्रद्धावान् । स यदि सर्व­प्रा­णि­रु­ता­भिज्ञ इति कृत्वा लोके येनकेनचित् पुरुषेण कृतां निन्दामवधार्य लौकिकेनैव हंसेन स्वभाषया अनूद्यमानां तामश्रौषीदिति कल्प्यते ; तदा सा निन्दाऽस्य शोकाय नावकल्पते ; यतो विवे­कि­भि­स्व­नि­न्द­न­स्या­द­र­णी­य­त्व­मेव मन्वा­द­य­स्स्म­रन्ति ‘अव­मा­ना­त्त­पो­वृ­द्धि­स्स­म्मा­नाच्च तपःक्षयः । अमृतस्येव काङ्क्षेत अवमानस्य सर्वतः’ इति । यदि तु हंस­कृ­त­नि­न्दा­वाक्यं गीर्वा­ण­भा­षा­रू­प­मिति तेन लिङ्गेन प्रागुपन्यस्तेन प्रकृ­ता­नु­प­यु­क्त­रै­क्वो­पा­स्य­दे­व­तो­पा­स­क­पु­रु­षा­न्त­र­स्त­व­न­रै­क्व­चि­ह्नो­प­न्या­स­लि­ङ्गेन च नायं लौकिको हंसः , किन्तु मम हितैषी कश्चि­दृ­षि­रे­वा­न्यै­रपि ऋषिभिस्सह खय­मु­क्ति­प्र­त्यु­क्ति­व्या­जेन मां बोधयितुमागत इत्यज्ञासीदिति कल्प्यते , तदा निन्दा कथमपि शोकाय नावकल्पते , किन्तु सम्राजमेव राजानं प्रति ‘कियदस्त्यधुना राज्यं कियदाज्ञाबलं तव । अनेन त्वमुपायेन सार्वभौमो भविष्यसि’ इत्य­धि­कै­श्व­र्यो­पाये प्रव­र्त­यि­तु­का­मेन कृता विद्य­मा­नै­श्व­र्य­नि­न्देव हर्षायैव कल्पते ।

किञ्च नेयं जानश्रुतेनिन्दा यत् भुवमारभ्य द्युलोकपर्यन्तं व्याप्तस्य काला­ग्नि­ज्वा­ला­क­ला­प­वत् स्पर्शमात्रेण दहमानस्य सूर्येऽ­प्य­स­म्भा­वि­तस्य ज्योति­ष­स्त­स्मि­न्न­भा­व­व­र्ण­नम् । सम्भा­वि­त­गु­ण­वै­क­ल्य­व­र्णनं हि निन्दा भवति , न तु ‘आकाशमयं खादितुमशक्तः’ इति­व­द­स­म्भा­वि­त­गु­ण­वै­क­ल्येन कश्चि­न्नि­न्द्य­मानो दृश्यते । यदि त्वेवंभूतं ज्योतिस्स्वस्य नासीदिति जानश्रुतेः शोकः कल्प्यते , तदानीं ‘एतत्तस्य मुखात् कियत् , कमलिनीपत्रे कणं पाथसो यन्मु­क्ता­म­णि­रि­त्य­मंस्त स जड­श्शृ­ण्व­न्य­द­स्मा­दपि । अंगु­ल्य­ग्र­ल­घु­क्रि­या­प्र­वि­ल­यि­न्या­दी­य­माने शनैस्तत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्त­श्शु­चा’(भ.्ल­ट­श­त­कम् ) इति श्लोकोक्तरीत्या तस्यातिजडत्वमेव कल्पितं स्यात् । तस्माद्विवेकी जान­श्रु­ति­र्वि­द्य­याऽपि रैक्वस्य तथाभूतं ज्योतिर्न सम्भाव्यते , स्वस्य तथा­भू­त­ज्यो­ति­र­भा­वोऽपि न दोषः , किन्तु रैक्वो­पा­स्य­वि­द्या­प्र­शंसा) कश्चिदयं कल्पनाविशेष इति जानात्येव । अत एव रैक्वान्वेषणाय क्षत्तारं प्रेषयन् शकटसाहित्यमेव तचिह्नमाह , न तु तथाभूतं ज्योतिः । क्षत्राऽपि पामानं कषमाणस्तपसा , दारिद्र्येण च कृश एव रैक्वो दृष्ट इति वर्णितं , न त्वादि­त्य­व­द्दु­र्दर्शो दृष्ट इति वर्णितमिति केनापि प्रकारेण जान­श्रु­ते­र्नास्ति शोकावकाशः । एवञ्चेह योगबलीयस्त्वे कार­ण­स्या­ख्या­यि­कया शुचः सूचितत्वस्य वर्णनं प्रथमसूत्रकृतं तावदसमञ्जसम् ।

तथा द्विती­य­सू­त्र­कृ­त­म­भि­प्र­ता­रि­स­म­भि­व्या­हृ­त­त्वेन क्षत्रि­य­त्व­नि­र्धा­र­ण­मपि । तत्ख­ल्व­भि­प्र­ता­रिणः क्षत्रि­य­त्व­नि­र्धा­रणे , तत् तस्य चैत्र­र­थि­त्व­नि­र्धा­रणे , तदपि तस्य कापे­य­या­ज्य­त्व­नि­र्धा­रणे सति भवति । तदेव कुतो निर्धार्यते ? न तावदस्यां श्रुतौ श्रुत्यन्तरे वा श्रुतमस्ति तत् । नापि कल्प्यम् ; कल्पकाभावात् । न च क्वचि­न्मि­लि­त­यो­र्मू­ल­सं­ब­न्ध­नि­य­मोऽस्ति ; नानादेशागतेषु सत्रानभोक्तृषु व्यभिचारात् । सति वा तन्नियमे याज्ययाजकभाव एव संबन्ध इति कुतः ? बान्धवरूपस्य यौनसंबन्धस्य , लौकि­क­व्य­व­हा­र­कृ­तस्य संबन्धान्तरस्य वा कल्पनोपपत्तेः । यदि संब­न्ध­स्त­यो­र्ग्रा­ह्य­स्तदा संव­र्ग­वि­द्या­वित्वं संबन्धस्सिध्यति । तद्धि संव­र्ग­वि­द्या­वा­क्य­शेष एव ब्रह्म­चा­रि­सं­वादे प्रसिद्धम् । प्रायेण छान्दो­ग्य­ग­ता­स्वा­ख्या­यि­कासु एकविद्यानामेव मेलनं वर्ण्यते । यथा वैश्वा­न­र­वि­द्यायां प्राची­न­शा­ल­स­त्य­य­ज्ञे­न्द्र­द्यु­म्न­ज­न­बु­डि­ला­रु­णीनां , उद्गीथविद्यायां सिल­क­दा­ल्भ्य­जै­व­लीनां , अस्यामेव विद्यायां कापे­या­भि­प्र­ता­रि­ब्र­ह्म­चा­रि­णाम् । विद्याऽ­ङ्ग­भू­ता­स्वा­ख्या­यि­का­स्वे­क­वि­द्यानां मेल­न­क­थ­न­म­न्यो­न्य­स्मा­द्वि­शे­ष­ग्र­ह­णार्थं सदद्यापि विद्यावद्भिः परस्परस्मात् संभा­वि­त­वि­शे­ष­ग्र­ह­णाय मिलित्वा चिन्तनीयम् , न तु विद्यो­प­दे­श­ला­भ­मा­त्रेण कृतार्थतया स्थातव्यमिति शिक्षा­दा­ने­नो­प­यु­ज्यते । तासु याज्य­या­ज­का­दि­स­मा­ग­म­क­थनं कथमुपयुज्यते ? एवञ्चाभिप्रतारी सन्दि­ग्ध­व­र्ण­वि­शेषः कापे­य­स­म­भि­व्या­हा­रा­द्ब्रा­ह्म­ण­स्सि­द्ध्य­तीति तत्स­म­भि­व्या­हा­रात् जानश्रुतेः क्षत्रि­य­त्व­नि­र्धा­र­ण­म­प्य­स­म­ञ्ज­स­मेव ।

तथा दान­प­ति­त्वा­दि­लिं­ग­जा­तेन तन्निर्धारणमपि शूद्रेऽपि दान­प­ति­त्वा­दि­सं­भ­वात् । धर्मानभिज्ञस्य तत्प्रा­व­ण्य­र­हि­तस्य हि शूद्रस्य पाप­प्र­स­क्ति­श­ङ्कया धनार्जनं निषिद्धं मानवे धर्मशास्त्रे ‘शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते’(मनु. १०.१२९) इति । धार्मिकस्य तु शूद्रस्य धर्मार्थं धना­र्ज­न­म­नु­ज्ञातं व्यासस्मृतौ शूद्रप्रकरणे ‘राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः । पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः’ इति । ग्राम­दा­ना­या­पे­क्षितं राज्याधिपत्यमपि शूद्र­स्या­वे­ष्टि­नये दर्शितम् । तत्र हि ‘राजा स्वाराज्यकामो राजसूयेन यजेत’ इति विहिते राजसूये त्रया­णा­म­पि­व­र्णा­ना­म­धि­का­रोऽस्ति ; राज­श­ब्द­स्या­र्या­व­र्त­प्र­सिद्ध्या राज­न्य­पा­ल­यि­तृ­वा­चि­त्वेन क्षत्रि­य­जा­ति­वा­चि­त्वा­भा­वा­दिति , पूर्वपक्षे राजशब्दस्य राज­न्य­पा­ल­यि­तृ­वा­चि­त्वेऽपि कथं त्रयाणां वर्णानामधिकारः ; क्षत्रियस्यैव राज्य­पा­ल­यि­तृ­त्वेन तस्य तस्मिन्नेव पर्य­व­सा­ना­दि­त्या­शंक्य उक्तं वार्तिके ‘तच्च राज्यमविशेषेण चत्वारोऽपि वर्णाः कुर्वाणा दृश्यन्ते तस्मात्सर्वेऽपि राजानः’ इति ।

सिद्धान्तेऽपि राजशब्दस्य राज्य­पा­ल­यि­तृ­वा­चित्वे शूद्र­स्या­न­ग्नि­त्वा­वे­द­त्व­प्र­ति­षे­ध­हे­तु­भि­र­धि­का­रा­प्र­स­क्ता­वपि ब्राह्म­ण­वै­श्य­यो­र­धि­कारः प्राप्नु­या­दा­ज­सूये इत्ये­त­दं­गी­कृ­त्यैव ‘राज्ञः कर्म राज्यम्’ इत्यस्मिन्नर्थे यत्प्र­त्य­य­वि­धा­य­केन पाणि­नि­स्म­र­णे­ना­नु­गृ­ही­तया दक्षि­णा­प­थ­प्र­सिध्या तस्य क्षत्रि­य­जा­ति­वा­चित्वं स्थापितम् । महाभारते सूता­त्म­ज­मा­त्मानं मन्यमानस्य कर्ण­स्या­ङ्ग­दे­शा­धि­पत्यं महोदारत्वञ्च वर्णितम् । एवञ्च जानश्रुतेः शूद्रत्वेऽपि राज्याधिपत्येन ग्राम­दा­न­क्ष­त्तृ­प्रे­ष­णा­दी­ना­मु­प­प­न्न­त्वात् ‘शूद्र’ इत्यामन्त्रणेन प्राप्तं शूद्रत्वं न हातव्यम् । अत एवास्य शूद्रत्वादेव दाना­दि­रू­प­स्सा­धा­र­ण­धर्म एव जान­श्रु­ते­रा­ख्या­यि­कायां वर्णितः , न तु त्रैव­र्णि­का­सा­धा­रणो यागादिः । तस्मा­च्छू­द्र­श­ब्द­रू­ढि­ब­ली­य­स्त्वात् शूद्र एवायं भवेदिति । एतेन – अल्प धनमाहृतमिति रुषा क्षत्रियोऽपि सन् ‘अह हारेत्वा शूद्र’ इति शूद्र­श­ब्दे­ना­म­न्त्रित: – इत्यपि कल्पनं निरस्तम् । पर्या­प्त­ध­ना­ह­र­णा­न­न्त­र­मपि ‘आजहारेमाः शूद्र’ इत्या­म­न्त्र­ण­द­र्श­नाच्च ।

अत्र ब्रूमः – भल्लाक्षस्य रैक्व­जा­न­श्रु­ति­वि­ष­या­द­रा­ना­द­र­व­चसी दिव्य­ज्यो­ति­स्त­द­भा­वा­व­ल­म्ब­न­त्वेऽपि वस्तुतो विद्या­त­द्वै­क­ल्य­प्र­युक्ते एव पर्यवस्यतः । अन्यथा ‘गगनमयं खादति , गगनं खादितुं न शक्नोत्ययं वराकः’ इत्यु­क्ति­प्र­त्यु­क्ति­वत् हंसाभ्यां कृत­यो­रु­क्ति­प्र­त्यु­क्त्यो­र­पा­र्थ­क­त्व­प्र­स­ङ्गात् । विद्या च सम्भावितगुण इति तद्वैकल्येन ‘कम्बरएनम्’ इत्यादि जान­श्रु­त्य­ना­द­र­व­चनं तन्निन्दा भवतीति तद्वचनं जान­श्रु­ते­र­त्य­न्ता­स्ति­कस्य एतावन्तं कालमेवं प्रशस्तां विद्यां नाध्यगमं येनै­व­म­त्य­न्ता­प्तेन पितृस्थानीयेन महर्षिणा वा कृतस्यावमानस्य पात्रमभूवमिति शोक­हे­तु­र्भ­व­त्येव । ‘अमृतस्येव कांक्षेत’ इत्या­दि­स्मृ­ति­व­च­न­न्त्व­सू­या­लु­भि­र्नि­न्दासु क्रियमाणासु विवेकिभिः कोपो न कर्तव्यः ; तस्यै­हि­का­मु­ष्मि­क­स­क­ल­प्र­यो­ज­न­वि­रो­धि­त्वात् , असूयया निन्दन्तस्तु स्वयमेव नंक्ष्य­न्ती­त्ये­त­त्प­रम् , न तु वेदवैदिककर्मसु प्रव­र्त­यि­तु­का­मेन पित्रादिना कृते धिग्वचनेऽपि पुनरपि तदेव काङ्क्षे­ते­त्ये­त­त्प­रम् ; पुत्रा­नु­शा­स­ना­दी­ना­म­का­र्य­क­र­त्वा­पत्तेः । एवञ्च यद्यपि भल्लाक्षवचनं प्रश­स्त­वि­द्या­त­दु­प­दे­ष्ट­गु­रु­स­द्भा­व­प्र­त्या­य­क­तया हर्षहेतुर्भवति , तथापि उक्तरीत्या ततश्शोकोऽपि भवेदिति स एव हेतुकार्याभ्यां सह शूद्रशब्देन सूच्यते महर्षिणा स्वस्य परो­क्ष­ज्ञा­न­व­त्त्व­ख्या­प­नाय , तस्य विद्याधिगमे विशि­ष्टा­धि­का­रि­त्व­ज्ञा­प­नाय च । केवलं विद्याकामाद्धि विद्या­वै­क­ल्य­कृ­ते­ना­नु­ता­पे­नापि युक्तोऽधिकारी विशेष्यते । तस्मा­द्यु­क्त­मा­ख्या­यि­कया शुचः सूचनेन प्रति­प­त्ति­ला­घ­व­स­त्त्वा­च्छू­द्र­शब्दो यौगिक इति ।

कापे­य­स­न्नि­धा­ना­द­भि­प्रा­तारी तद्या­ज्य­श्चै­त्र­र­थ­श्चे­त्ये­त­त्त­यो­र्मू­ल­स­म्ब­न्धा­पे­क्षा­नि­य­म­म­व­लम्ब्य नोच्यते , किन्त्व­वि­दि­त­पू­र्वस्य हस्तिनो निकटे पुरुषे दृश्यमाने तस्मिंश्च राज्ञो हस्तिपकोऽयमिति प्रत्य­भि­ज्ञा­य­माने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती राजकीयश्चेति बुद्धि­रौ­त्स­र्गिकी यथा जायते , एवमिहापि अभि­प्र­ता­रि­स­न्नि­धाने कापेये श्रूयमाणे तस्मिंश्च श्रुत्य­न्त­र­ब­ला­ञ्चि­त्र­र­थ­या­ज­क­त्वेन प्रत्य­भि­ज्ञा­य­माने कापे­य­या­ज्योऽ­य­म­भि­प्र­तारी चित्र­र­थ­वं­श्य­श्चेति बुद्धिर्जायमाना न निवारयितुं शक्यते । सा च बाधकाभावात् प्रमाणमवतिष्ठत इत्यौ­त्स­र्गि­क­न्या­य­म­व­लम्ब्य उच्यते । एवञ्च ब्राह्म­ण­द्वि­ती­य­स्या­भि­प्र­ता­रि­ण­श्चै­त्र­र­थ­त्वेन क्षत्रि­य­त्व­नि­श्चये तत्स­म­भि­व्या­हा­रा­द्ब्रा­ह्म­णस्य रैक्वस्य द्वितीयो जानश्रुतिरपि क्षत्रिय इति निर्धारणमपि युक्तमेव । ‘बहुदायी बहुपाक्यः’ इत्येतयोः कथञ्चन रैक्वशूद्रे सम्भवेऽपि क्षत्तृ­प्रे­ष­णस्य रैक्वा­द्ध्यु­षि­त­ग्रा­माणां तस्मै दानस्य क्षत्रि­य­ध­र्म­रा­ज्या­धि­प­त्य­सा­ध्यस्य तत्र न सम्भवोऽस्ति । राज्यपालनं हि क्षत्रियस्य वृत्तिः आप­द्वृ­त्ति­त्वे­ना­प्ये­त­द्ब्रा­ह्म­णस्य भवति न वैश्यशूद्रयोः । ‘ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥ अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः’ ‘यो मोहादधमो भूत्वा जीवेदुत्कृष्ट कर्मणा । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत्’ इत्यादिस्मरणात् । अवे­ष्टि­न­ये­त्व­ति­क्रा­न्त­नि­षे­धानां चरित्रमुदाहृतम् , तावताऽपि तत्र प्रकृ­तो­प­यो­ग­सिद्धेः । त्रयाणामपि वर्णानां राज­सू­या­धि­का­र­मु­प­पा­द­यता हि पूर्वपक्षिणा स्वाभिमतं राज­श­ब्द­प्र­वृ­त्ति­नि­मित्तं राज्यपालनं वर्णान्तरेष्वपि दर्शनीयम् । शब्द­प्र­वृ­त्ति­नि­मि­त्त­त्वञ्च धर्म्य­व­द­ध­र्म्य­स्या­प्यस्य पाच­क­त्व­या­ज­क­त्वा­दे­रि­वो­प­प­द्यते ।

अत एव तद­धि­क­र­ण­पू­र्व­प­क्ष­वा­र्तिके ‘क्षत्रि­य­सं­ब­न्धि­त्वेन राज्यं विहितं अन्यायेन इतरौ कुर्वाणौ न राजानौ स्याताम्’ इत्याशङ्क्य परिहृतम् – ‘सर्वथा ताव­द्रा­ज्य­क­र­णा­त्ता­भ्या­मपि राजत्वं लब्धम् । तावता च राजसूयचोदनायाः प्रयोजनम् । यौ तु न्यायान्यायौ तयोः पुरु­ष­ध­र्म­त्वान्न कोऽपि क्रतुना गृह्यते’ इति । एतेन – इति­हा­स­पु­रा­णा­दि­प्र­सि­द्ध­म­प्य­क्ष­त्रि­याणां राज्याधिपत्यं व्याख्यातम् । न चेदमपि जानश्रुतेः क्षत्तृ­प्रे­ष­णा­दि­लि­ङ्गा­व­गतं राज्याधिपत्यं तादृशमिति वक्तुं शक्यम् ; बाधकाभावे वैदि­क­लि­ङ्गा­व­ग­तस्य क्षत्रि­य­ध­र्म­स्यै­वां­गी­क­र्त­व्य­त्वात् । अन्यथा ‘शूद्र’ इत्यामन्त्रणेन लिंगेनावगतं शूद्रस्य विद्या­ग्र­ह­ण­म­धर्म्यं वेदेन निबद्धमित्येव वक्तुं शक्य­त­याऽ­स्मा­भि­रपि शूद्रस्य विद्याधिकारे उक्त­वै­दि­क­लिं­गा­सि­द्धे­र्व­क्ष्य­मा­ण­बा­ध­कानां चानु­प­न्य­स­नी­य­त्वा­पत्तेः ।

न च इतिहासपुराणेषु केषा­ञ्चि­द्व­र्णितं राज्याधिपत्यं तेष्वेव तेषां म्लेच्छ जाति­वा­द्युक्त्या बाध­के­ना­ध­र्म्य­म­भ्यु­प­ग­म्यते यथा , एवमिहापि शूद्रश्रुत्या बाधकेन तद­ध­र्म्य­म­भ्यु­प­ग­म्य­ता­मिति वाच्यम् । बहुलिङ्गविरोधेन शूद्र­श्रु­ते­रे­वा­न्यथा नेयत्वात् । तथा हि – क्षत्तृप्रेषणं ग्रामदानञ्च ताव­द्वि­रो­धि­लि­ङ्ग­मु­प­न्य­स्तम् । तथा रैक्वस्य जानश्रुतिराज्य एव केषु­चि­द्ग्रा­मेषु प्राङ्निवासः विद्यार्थितया समागताय तस्मै विद्यादानं तत्कन्यापरिणयनं चेत्येतदपि विरोधिलिंगम् । ‘नाधा­र्मि­कै­श्श्रिते ग्रामे न व्याधिबहुले तथा । न शूद्रराज्ये निवसेन्न पाष­ण्ड­ज­नै­र्वृते’ इति शूद्रपालिते राज्ये निवासस्य , ‘न शूद्राय मतिं दद्या­न्नो­च्छिष्टं न हविष्कृतम् । न चास्यो­प­दि­शे­द्ध­र्मा­न्न­चास्य व्रतमादिशेत्’ इति शूद्राय मतिदानस्य , ‘न ब्राह्म­ण­क्ष­त्रि­य­यो­रा­प­त्स्वपि हि तिष्ठतोः । कस्मिंश्चिदपि वृत्तान्ते शूद्र भार्योपदिश्यते’ इति शूद्राया धर्मदारत्वेन परिग्रहस्य च निषिद्धत्वात् । तस्मात् क्षत्तृ­प्रे­ष­णा­दि­लिं­ग­जा­तेन जानश्रुतेः क्षत्रि­य­त्व­स­म­र्थ­न­मपि समञ्जसमेव ।

सूत्रे ‘चैत्ररथेन लिङ्गात्’ इति भिन्न­वि­भ­क्ति­नि­र्दे­श­त­श्चै­त्र­र­थेन सम­भि­व्या­हृ­त­त्वा­दि­त्य­ध्या­हा­रा­शय उन्नीयते । ‘अभिप्रतारिणा’ इति श्रुत्यु­पा­त्त­शब्दे निर्देष्टव्ये ‘चैत्ररथेन’ इति निर्देशो नाभिप्रतारिणः कापेययाज्यत्वेन क्षत्रि­य­त्व­म­व­गन्तुं शक्यम् , तद्धि तस्य तेन चित्र­र­थ­त्व­सि­द्धि­द्वा­राऽ­व­ग­न्त­व्यम् ; श्रुत्यन्तरे चित्ररथस्यैव कापेययाज्यत्वेन निर्दिष्टत्वात् । न च तत्तस्य सिद्ध्यति ; संज्ञाभेदेन चित्र­र­था­द्भे­द­प्र­ती­ते­रि­त्या­श­ङ्का­प­रि­हा­रार्थः । चित्र­र­था­द्भे­देऽपि तद्वं­श्य­त्व­सि­द्धि­द्वारा तेन तस्य क्षत्रियत्वं सिद्ध्यति ‘समानान्वयानां समानान्वयाः याजका भवन्ति’ इति दृष्टत्वादिति परिहाराभिप्रायः । ‘अयमश्वतरीरथः’ इत्यु­क्त­चि­त्र­र­थ­वत्त्वं क्षत्रियत्वे लिङ्ग­त­यो­प­न्य­स्त­मिति मन्दानां भ्रान्ति­वा­र­णार्थ ‘उत्तरत्र’ इति विशेषणम् । अस्तु तदपि लिङ्गं को दोषः ? न । तस्य लिङ्ग­त्वा­सिद्धेः । शूद्रस्यापि रथसंभवात् शूद्रस्य वेद­नि­षे­ध­व­द्र­थ­नि­षे­धस्य प्रामा­णि­क­व­च­न­रू­ढ­स्या­द­र्श­नात् , तस्य तन्नि­षे­ध­स­त्त्वेऽपि सशकटं पर्यटतो रैक्व­स्या­श्व­त­री­रथः प्रियतरो भवेदिति तदर्थं संपा­द्या­न­य­न­सं­भ­वाच्च । स्वोपभोगार्हमेव परस्मै दातव्यमिति नियमाभावात् , तस्य तल्लिङ्गत्वेऽपि लिङ्गा­दि­त्य­ने­नैव संग्राह्यतया पृथ­ङ्नि­र्दे­शा­यो­गाच्च । एवं शूद्रस्य विद्याधिकारे वैदिकलिंगं विघटितम् । १. ३. ३५ ।

तथाऽ­प्य­र्थि­त्वा­दि­स­द्भा­वा­द­ध्य­य­ना­भा­वेपि स्त्रीणामिव विद्या­ग्र­ह­ण­स­म्भ­वाच्च तदधिकारः स्यादि­त्या­श­ङ्का­नि­रा­क­र­णार्थं सूत्रम् –

संस्का­र­प­रा­म­र्शा­त्त­द­भा­वा­भि­ला­पाच्च ॥ ३६॥

३६

ब्रह्म­वि­द्या­प्र­दे­शेषु उप­न­य­न­गु­रु­शु­श्रू­षा­दि­सं­स्काराः परामृश्यन्ते । उप­न­य­न­म­ध्य­य­ना­ङ्गात् प्रसि­द्धा­द­न्य­दस्ति विद्याङ्गं ‘तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु. १. २. १२) इति विहितं गुरूपसदनम् , ‘अधीहि भगवः’(छा. ७. १. १) इति मन्त्रपूर्वकं कुर्वाणस्य विद्या­र्थि­न­श्शि­ष्य­त्व­म­ङ्गी­कृत्य गुरुणा क्रिय­मा­ण­म­नु­ज्ञा­दा­ना­दिना स्वसमीपप्रापणम् , ‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार अधीहि भगवो ब्रह्म’(तै. ३. १. १) इति ‘अधीहि भगव इति होपससाद सनत्कुमारं नारदः’(छा. ७.१.१) इत्यादिषु श्रुतिषु , उपसन्नेभ्यो विद्यो­प­दे­शे­ना­र्था­त्सि­द्धम् ; प्रजा­प­ति­वि­द्या­दिषु ‘वसापराणि द्वात्रिशतं वर्षाणि’ इत्या­द्य­ग्रे­त­न­व­च­नै­रपि स्फुटीकृतम् । ‘तं होपनिन्ये’ इत्यादौ क्वचि­त्क­ण्ठ­त­श्चो­क्तम् । इदं च केनचिन्न क्रियते उप­स­न्ना­ना­मिष्टां विद्यां साक­ल्ये­ना­जा­नन्यः स्वस्य गुरुत्वं नाभ्युपगच्छति ।

अत एव प्राचीनशालादिषु वैश्वा­न­र­वि­द्या­र्थ­म­भ्या­ग­ते­षू­द्दा­लकः ‘प्रक्ष्यन्ति मामिमे महाशाला महा­श्रो­त्रि­या­स्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ता­न्य­म­भ्य­नु­शा­सानि’(छा. ५. ११. ३) इति मन्वानस्सन् ‘अश्वपतिर्वै भगवन्तोऽयं कैक­य­स्स­म्प्र­ती­म­मा­त्मानं वैश्वानरमध्येति तं हन्ता­भ्या­ग­च्छाम’(छा. ५.११. ४) इत्युवाच । यो वा हीनवर्णस्तेनापि ‘शिष्यस्तेऽहं शाधि माम्’ इति प्रार्थ­न­यो­प­स­न्नेषु स्वस्य गुरु­त्वा­भ्य­नु­ज्ञ­यैव तन्न क्रियते । अत एव ‘ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे’(छा. ५. ११. ७) इति तेषा­मृ­षी­णा­मु­प­स­द­न­मुक्त्वा अश्व­प­ति­नो­प­न­य­न­म­कृ­त्वैव विद्यो­प­दि­ष्टे­त्युक्तं तान्हा­नु­प­नी­यै­वै­त­दु­वाच’(छा. ५. ११. ७) इति । अजातशत्रुणा च राज्ञा विधिवदुपसन्नस्य गार्ग्य॑स्य बाला­के­र­कृ­त्वै­वो­प­न­यनं विद्यो­प­दि­ष्टे­त्युक्तं ‘‘तत इह बाला­कि­स्स­मि­त्पाणिः प्रतिचक्रामोप त्वाऽयानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेव स्याद्य­क्ष­त्रियो ब्राह्म­ण­मु­प­न­ये­देहि व्येव त्वा ज्ञापयिष्यामि’(क.षी. ४. १९) इति । अन्येन सर्वेणापि कर्त्त­व्य­मु­प­न­य­नम् । न चैतच्छूद्रस्य विधि­व­द्गु­रू­प­स­द­न­पू­र्व­क­मु­प­न­यनं शिष्य­सं­स्का­र­रूपं सम्भवति ; ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ इति मानवे धर्मशास्त्रे शूद्रस्य सक­ल­सं­स्का­रा­भा­वा­भि­ला­पात् ।

ननु तत्रैव ‘धर्मेप्सवस्तु धर्मज्ञास्सतां वृत्तिमनुव्रताः । मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च’ इति तदनन्तरश्लोकेन धार्मिकाणां शूद्राणां मन्त्र­व­र्ज­सं­स्का­रा­णा­म­भ्य­नु­ज्ञानं कृतम् । न चाम­न्त्र­सं­स्कारो न विद्योपयोगीति वाच्यम् ; स्त्रीणां विद्याऽ­न­धि­का­र­प्र­स­ङ्गात् । तासां विवाहसंस्कारस्य सम­न्त्र­क­त्वे­प्य­न्येषां संस्का­रा­णा­म­म­न्त्र­क­तया गुरू­प­स­द­न­स्या­प्य­म­न्त्र­क­स्यै­वा­ङ्गी­क­र्त­व्य­त्वा­दिति चेत् ; मैवम् । शूद्रा­णा­म­म­न्त्रकं जात­क­र्मा­दि­सं­स्का­रा­न्त­रा­भ्य­नु­ज्ञा­नेऽपि ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ इति विशि­ष्यो­प­न­य­न­सं­स्का­रा­भा­वा­भि­ला­पात् ।

न च वाच्यम् – ‘एकजातिः’ इत्यनेन द्विती­य­ज­न्म­रू­पो­प­न­य­न­स्या­भा­वोऽ­भि­ल­प्यते । गर्भाष्टमादिषु कर्त­व्य­म­ध्य­य­ना­ङ्गो­प­न­य­न­मेव च द्वितीयजन्म । तदेवोपक्रम्य तद्वितीयं जन्म’ इति स्मरणात् । तथा च विद्या­ङ्गो­प­न­य­नेन एक­जा­ति­त्व­हा­न्य­भा­वात् तच्छूद्राणामपि स्यादिति । ‘त्वं हि नः पिता योऽस्मा­क­म­वि­द्यायाः परं पारं तारयसि’(प्र. ६.८) इति वैदिकलिङ्गेन तस्यापि जन्मरूपत्वात् । न च द्विजातीनां जन्मद्वयमेवेति नियमः ; ‘मात­र्य­ग्रे­धि­ज­ननं द्वितीयं मौञ्जिबन्धनम् । तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम्’ इति मनुना यज्ञदीक्षाया अपि जन्म­त्वा­भि­धा­नात् । ‘अनृ­ता­त्स­त्य­मु­पैमि मानु­षा­दै­व­मु­पैमि’ ‘दक्षिणं पूर्वमाङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते’ इत्या­दि­म­न्त्रा­र्थ­वा­द­लि­ङ्गै­र­ग्न्या­धा­न­पू­र्वि­काया यज्ञदीक्षाया मनु­ष्य­तो­त्ती­र्ण­दे­व­ज­न्म­त्व­सू­च­नाच्च । तथा च यथा ‘तत्र यद्ब्र­ह्म­ज­न्माख्यं मौञ्जी­ब­न्ध­न­चि­ह्नि­तम् । तत्रास्य माता सावित्री पितात्वाचार्य उच्यते’ इति द्वितीये जन्मनि मातापितरौ स्मृतौ एवमिहापि ‘त्वं हि नः पिता’ इति पिता श्रुतः । अर्थाच्च ब्रह्मविद्यैव माता भवति या देह­द्व­य­वि­वि­क्त­नि­त्य­शु­द्ध­नि­र­ति­श­या­न­न्द­प­र­ब्र­ह्म­रू­प­तया प्रकाशमानं विद्वदात्मानं सूते इत्येतदपि जन्मैवेति युक्तम् । तस्मा­द­ध्य­य­ना­ङ्गो­प­न­य­ना­भा­वा­द्ध्य­यन इव विद्या­ङ्गो­प­न­य­ना­भा­वा­द्वि­द्या­या­मपि शूद्रस्य नाधिकारः । १. ३. ३६ ।

तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥

३७

इतश्च न शूद्रस्य विद्याधिकारः । यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उप­ने­तु­म­नु­शा­सि­तुश्च प्रववृत्ते ‘नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाः’(छा. ४. ४.५) इति हि गौतमवचनं श्रूयत इति । अत्रेदं चिन्त्यते – अध्य­य­ना­ङ्गो­प­न­यनं गौतमेन कृतम् , न विद्याङ्गम् । एवं ह्युपाख्यायते – शैशवे मृत­पि­तृ­क­स्स­त्य­का­मस्स्वां मातरम् ‘अह­मा­चा­र्य­मु­पेत्य ब्रह्मचर्यं चरिष्यामि , किंगोत्रोऽहम्’ इति पृष्ट्वा तया ‘त्वज्ज­न­क­प­रि­च­रणं कृत्वैव स्थितास्मि नाहं गोत्रं वेद’ इत्युक्तो गौतममासाद्य ‘ब्रह्मचर्यं भवति विव­त्स्या­म्यु­पेयां भवन्तम्’(छा., ४.४. ३) इत्युक्त्वा ‘किंगो­त्र­स्त्वम्’ , इति तेन पृष्टो ‘नाहं मम गोत्रं वेद , माताऽपि नावेदीन्माता मे जबाला सत्य­का­मोऽ­ह­मि­त्ये­ता­व­द्वेद’ इति सत्यमुवाच । अथ गौतमस्सत्यवचनेन ब्राह्मण्यं निाश्चेत्य तमुपनिन्य इति ।

अस्या­मा­ख्या­यि­का­या­मुक्तं गोत्रा­प­रि­ज्ञा­न­म­कृ­ता­ध्य­य­नां­गो­प­न­य­नस्य बालस्य संभवति , न तूप­नी­त­स्या­धी­त­सा­ङ्ग­स्वा­ध्या­यस्य ब्रह्म­वि­द्याऽ­धि­जि­ग­मि­षया गुरुमुपसीदतः । अध्ययनाङ्गोपनयन एव च गोत्रपरिज्ञानं ब्राह्म­ण्य­नि­र्धा­र­ण­ञ्चो­प­यु­ज्यते । गोत्रभेदेन ब्राह्म­णा­दि­जा­ति­भे­देन च तत्र प्रका­र­भे­द­स्म­र­णात् , विद्यांगोपनयने तदभावात् । ‘नैतदब्राह्मणः’ इति च ब्राह्म­ण्य­नि­र्धा­र­ण­मेव , न तु शूद्र­त्वा­भा­व­नि­र्धा­र­णम् । अब्रा­ह्म­ण­श­ब्दस्य क्षत्रि­य­वै­श्य­सा­धा­र­ण­त्वेन शूद्र­मा­त्र­प­र­त्वा­भा­वात् । ‘नञि­व­यु­क्त­म­न्य­स­दृ­शा­धि­क­रणे तथाह्यर्थगतिः’ इति शाब्दि­को­क्त­न्या­ये­ना­त्य­न्त­स­म­क्ष­त्रि­य­वै­श्य­मा­त्र­प­र­तया शूद्रा­स्प­र्शि­त्वाच्च ।

ननु गौत­मे­ना­ध्य­य­ना­ङ्ग­मु­प­न­यनं कृतं चेदध्यापनमग्रे कर्तव्यं स्यात् । ब्रह्म­वि­द्यो­प­देश एव कृतः ‘उप त्वा नेष्ये न सत्यादगाः’ इति गौत­मो­क्ति­प्र­द­र्श­ना­न­न्त­र­मेवं खलु श्रूयते । गौतमस्तं सत्यकाममुपनीय स्वकी­या­द्गो­यू­थात् कृशानां दुर्बलानां गवां चत्वारि शतानि पृथक्कृत्य तत्पोषणे तं नियुयुजे । स तु सत्यकामस्तासां गवां सह­स्र­सं­ख्या­पू­र­णात् प्राक् न प्रत्या­ग­च्छे­य­मिति प्रतिज्ञाय तृणो­द­क­ब­हु­ल­म­रण्यं नीत्वा ताः संरक्षन्वर्षगणं प्रोवास । ताः सहस्रं सम्पेदिरे । तद­न­न्त­र­मृ­ष­भोऽ­ग्नि­हंसो मद्गुरिति चत्वारो देव­ता­त्मा­न­स्तस्य गुरुशुश्रूषया सन्तु­ष्टा­स्तस्मै षोड­श­क­ल­ब्र­ह्म­वि­द्या­मु­प­दि­दिशुः । ततः सह गोभिराचार्यकुलं प्राप्याचार्येण ‘ब्रह्मविदिव वै सोम्य भासि कोऽनु त्वाऽनुशशास’(छा. ४. ९. २) इति पृष्टस्तं वृत्ता­न्त­मुक्त्वा देवै­रु­प­दि­ष्ट­मि­त्य­तोऽपि नाहं तृप्यामि स्वकी­या­दा­चा­र्या­देव लब्धा किल विद्या साधीयसी भवति भगवानेव मह्यं ब्रवीतु’ इति प्रार्थयामास । ततो गौतमस्तस्मै तामेव षोड­श­क­ल­वि­द्या­मु­प­दि­दे­शति । अत्राध्यापनं न ताव­द्गो­सं­र­क्ष­णात् प्राकृतमस्ति ‘तमुपनीय कृशानामबलानाञ्च चतुश्शतं गा निराकृत्योवाच’(छा. ४.४.५) इत्यु­प­न­य­ना­न­न्त­र­मेव गोसं­र­क्ष­ण­नि­यो­ग­प्र­ति­पा­द­नात् । नापि पश्चात् ‘भग­वा­ने­वो­प­दि­शतु’ इत्युपसन्नाय ऋष­भा­यु­प­दि­ष्ट­षो­ड­श­क­ल­वि­द्या­मा­त्र­म­न्यू­ना­न­ति­रि­क्त­मु­प­दि­दे­शे­त्यु­क्त­त्वात् । ‘तस्मै ह तदेवोवाचात्र हि न किञ्चन वीयाय’(छा. ४.९. ३) इति हि श्रूयते ।

उच्यते – अध्य­य­ना­ङ्ग­मु­प­न­यनं कृत­मि­त्यु­प­क्र­मतो निश्च­या­त्त­द­नु­सा­रेण ‘उपनीय’ इत्यङ्गोक्त्या प्रधा­न­भू­ता­ध्य­य­न­नि­र्व­र्त­न­मपि शौचा­चा­रा­दि­शि­क्ष­ण­व­दु­प­ल­क्ष­णी­यम् । ततस्समावर्तनात् प्राग्गु­रु­द­क्षि­णा­र्थ­तया महतीं गुरुशुश्रूषां कृत्वा तया शुद्धान्तःकरणो विद्या­धि­जि­ग­मि­षा­म­वाप्य तदर्थमस्मिन् पुनरुपसन्नः काञ्चन ब्रह्म­वि­द्या­म­प्य­धि­ग­च्छ­त्वि­त्य­भि­प्रा­येण वा गोसंरक्षणनियोगे कृते तत्सं­र­क्ष­ण­स­न्तु­ष्टा­भि­र्दे­व­ता­भि­स्तस्मै षोड­श­क­ल­वि­द्यो­प­दिष्टा । आचार्याद्विद्या लब्ध­व्ये­त्यु­प­स­न्नाय तस्मै सैव विद्या पुन­रा­चा­र्ये­णा­प्यु­प­दि­ष्टेति श्लिष्यत एव । तस्मा­च्छू­द्र­त्वा­भा­व­नि­र्धा­रणे सत्येव विद्याङ्गोपनयने विद्योपदेशे च प्रवृत्तेरिति हेतुरसिद्धः । ‘नैतदब्राह्मणो विवक्तुमर्हति’ इति निर्धा­र­ण­म­पेक्ष्य कृतस्योपनयनस्य विद्या­ङ्ग­त्वा­भा­वा­न्नि­र्धा­र­णस्य चाव­श्या­पे­क्षि­त­ब्रा­ह्म­ण्य­वि­ष­य­त्वेन शूद्र­त्वा­भा­व­वि­ष­य­त्वा­भा­वात् । गोत्रा­प­रि­ज्ञा­नेऽपि ह्याचा­र्य­गो­त्र­मा­श्रि­त्यो­प­न­यनं सम्भवति , न तु वर्ण­वि­शे­षा­नि­र्णये । त्रैवर्णिकानां प्रति­व­र्ण­मु­प­न­यने प्रका­र­भे­द­स्यो­प­दे­ष्ट­व्य­गा­य­त्री­भे­दस्य च सत्त्वात् । सिद्धावप्यस्य हेतोर्नानेन शूद्रस्य विद्याऽ­न­धि­का­रि­त्व­सिद्धिः ; तस्य विद्याऽ­धि­का­रि­त्वेऽपि ‘न शूद्राय मतिं दद्यात्’ इति प्रतिषेधमालोच्य शूद्र­त्वा­भा­व­नि­र्धा­र­णा­पे­क्षो­प­न­य­न­प्र­वृ­त्त्यु­प­पत्तेः । न हि सन्त­त­स­न्त­न्य­मा­न­षो­ड­श­म­हा­दा­नेन महाप्रभुणा समाहूता वयं वृत्तिं प्राप्तस्य प्रति­ग्र­ह­प्र­ति­षे­ध­मा­लोच्य प्रति­ग्र­ह­प्रा­र्थ­नार्थं किमयमाह्वयतीति शङ्क­मा­ना­स्त­द­भि­ग­मने प्रवृ­त्त्य­र्थ­मा­ह्वा­न­स्या­ता­द­र्थ­नि­र्धा­र­ण­म­पे­क्षा­मह इति एतावता तस्य महा­दा­ना­न­धि­का­र­सि­द्धि­रिति ।

अत्र ब्रूमः – शूद्र­त्वा­भा­व­नि­र्धा­र­ण­म­पे­क्ष्या­स्या­मा­ख्या­यि­का­या­म­भि­हि­ता­ध्य­य­ना­ङ्गो­प­न­यने प्रवृत्तिरपि शूद्रस्य विद्या­ङ्गो­प­न­य­न­त­त्पू­र्व­क­वि­द्या­ग्र­ह­ण­यो­र­यो­ग्यत्वे हेतु­र्भ­वि­तु­म­र्हति । स च हेतु­र­न­याऽ­प्या­ख्या­यि­कया लभ्यत एव । तथा हि – अब्रा­ह्म­ण­श­ब्द­स्ता­व­च्छू­द्र­स्यापि साधारणः ; ब्राह्म­ण­भि­न्न­त्वस्य प्रवृ­त्ति­नि­मि­त्त­स्या­वै­क­ल्यात् । ‘यद्ब्रा­ह्म­ण­श्चा­ब्रा­ह्म­णश्च प्रश्नमेयाताम्’ इत्या­दि­प्र­यो­ग­द­र्श­नाच्च । नञि­व­यु­क्त­न्या­ये­नापि ब्राह्म­ण­त्व­श­ङ्का­प्र­स­ञ्ज­क­त­त्सा­दृ­श्य­र­हि­तेभ्यो लोष्टादिभ्य एव व्यावर्तते , न तद्व­द्भ्य­श्शू­द्रेभ्यः । अत एव महाभाष्ये ‘अब्रा­ह्म­ण­मा­न­ये­त्युक्ते ब्राह्मणसदृशं पुरुषमानयति , नासौ लोष्टमानीय कृती भवति’ इत्य­ब्रा­ह्म­ण­श­ब्दस्य ब्राह्म­णे­त­र­पु­रु­ष­मात्रे वृत्तिरुक्ता । तस्य च साधा­र­ण­श­ब्द­स्यात्र विशिष्य शूद्रे ताव­त्ता­त्प­र्य­मे­ष्ट­व्यम् ; ‘न सत्यादगाः’ इति हेतोः शूद्र­त्व­व्या­व­र्तने एव सामर्थ्यात् । शूद्रः खलु स्वभावतो मायावीति ‘अनृ­त­ञ्चा­ति­वा­दश्च पैशुन्यमतिलोभता । निकृ­ति­श्चा­भि­मा­नश्च जन्म­त­श्शू­द्र­मा­वि­शत् । दृष्ट्वा पिता­म­ह­श्शू­द्र­मा­भि­भूतं तु तामसैः । द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् । नश्यन्ति तामसा भावाश्शूद्राणां द्विजभक्तितः’ इत्यादिस्मृतिषु प्रसिद्धः ।

एवञ्च ‘ब्रह्मचर्यं भगवति विव­त्स्या­म्यु­पेयां भगवन्तम्’ इत्य­ध्य­य­ना­र्थ­वि­द्या­र्थो­प­ग­म­न­द्व­य­सा­धा­र­ण­मु­प­ग­मनं कुर्वाणे सत्यकामे शूद्र­त्वा­भा­व­नि­र्धा­र­ण­म­पेक्ष्य या गौतमस्य तदुपनयने प्रवृत्तिः सा शूद्रस्य विद्याङ्गोपनयने विद्याग्रहणे चानधिकारं गमयितुमीष्टे । तस्य तदधिकारसत्त्वे हि शूद्रस्सन्नपि सत्यकामो विद्या­ङ्गो­प­न­य­नेन संस्कृत्य विद्यां ग्राहयितुं योग्य इति शूद्र­त्वा­भा­व­नि­र्धा­र­ण­म­पेक्ष्य समिदाहरणे न नियुज्येत । तस्य तदनधिकारे त्वस्य शूद्रत्वाभावे निश्चिते सति अकृ­ता­ध्य­य­ना­ङ्गो­प­न­य­नोऽयं प्रथमं तेन संस्कृ­त्या­ध्या­प­नी­य­स्ततो विद्या­का­म­श्चे­त्क्र­मेण तामपि ग्राहयितव्य इत्यालोचयता गौतमेन शूद्रत्वाभावे निश्चिते सत्युपनिनीषुणा समिदाहरणे नियुक्त इति श्लिष्यते । एवं सति ‘किंगो­त्र­स्त्व­मसि’ इति गोत्रप्रश्नोऽपि न तद्गो­त्र­नि­र्दि­धा­र­वि­षया ; शूद्र­त्व­प­र्य­न्त­स­न्दे­हा­नु­वृ­त्ति­स­मये ब्राह्म­ण­जा­त्यु­प­न­य­न­मा­त्रो­प­यु­क्त­गो­त्र­प्र­श्न­स्या­न­व­स­र­दु­स्थ­त्वात् । किन्तु शूद्रश्चेत् किमप्युपनयनं नार्हतीति मत्वा गोत्रप्रश्ने किमयं वक्ष्यतीति तज्जा­ति­प­री­चि­क्षि­षया ।

एवमस्य विद्या­प्र­क­र­ण­प­ठि­ता­ख्या­यि­का­स­न्द­र्भस्य विद्या­वि­ध्य­पे­क्षि­ता­धि­का­रि­वि­शे­ष­नि­र्ण­यो­प­यो­गित्वे सम्भवति तद­न­पे­क्षि­ता­र्थ­प­र­तया योजनमपि न युक्तम् ; प्रधा­न­प्र­ति­पा­द्य­वि­ध्य­पे­क्षि­ता­र्थ­स­म­र्प­कत्वे सम्भवति तद­ङ्गा­वि­द्या­स्तु­ति­द्वा­र­भू­ता­ध्य­य­ना­ङ्गो­प­न­य­ना­पे­क्षि­ता­र्थ­स­म­र्प­क­त्व­क­ल्प­न­स्या­यु­क्त­त्वात् । वर्ण­वि­शे­ष­नि­र्णयं विनाऽ­ध्य­य­ना­ङ्गो­प­न­य­न­क­र­णा­स­म्भवे तत्क­र­णा­न्य­था­नु­प­पत्त्या तन्निर्णयोऽपि यथाकथञ्चिज्जात इति कल्प्यताम् , न तु तन्निर्वाहाय गौत­म­स­त्य­का­म­प्र­श्नो­त्त­र­स­न्द­र्भस्य प्रधा­न­वि­ध्य­पे­क्षि­ता­र्थ­प­रत्वं विहा­या­न्या­पे­क्षि­ता­र्थ­प­र­त्व­क­ल्पनं युक्तम् । न हि ‘चतुरो मुष्टी­न्नि­र्व­पति’ इत्यत्र मुष्टयः स्वप­रि­च्छे­द­क­सं­ख्या­वि­शे­षा­पेक्षा इत्येतावता चतुस्संख्या निर्वा­पा­न्व­य­म­प­हाय मुष्ट्य­न्व­य­म­नु­भ­वति । तथासति सप्तदशशरावादिषु प्रधा­न­भू­त­मु­ष्ट्य­बा­धाय संख्या­बा­ध­न­प्र­स­ङ्गात् । तथाच यथा तत्र संख्यायाः शाब्दे निर्वापान्वये सति पार्ष्ठि­क­मु­ष्ट­य­न्व­य­क­ल्प­नया मुष्टी­ना­म­प्या­कांक्षा शांतिरेवं गौत­म­स­त्य­का­म­प्र­श्नो­त्त­र­स­न्द­र्भस्य विद्या­धि­का­रि­वि­शे­ष­नि­र्ण­यो­प­यो­गिनः प्रधा­न­भू­त­वि­द्या­वि­ध्य­न्वये सति प्रागेव मया गोत्रविमर्शः कृतोऽ­स्ती­त्ये­वं­रू­प­स­त्य­का­म­व­च­ना­र्थ­प­र्या­लो­च­नया ब्राह्म­ण­स्यै­वो­प­न­य­नार्थं गोत्र­वि­शे­ष­वि­म­र्श­प्र­स­क्ति­र्भ­वति , नान्य­स्ये­त्य­र्था­पत्त्या वर्ण­वि­शे­ष­नि­र्ण­या­पे­क्षस्य उप­न­य­न­स्या­प्या­कां­क्षा­शा­न्ति­र्भ­वति चेत् , सा न निवार्यते ।

एतेन – शूद्राय मतिदाननिषेधादपि तदभावनिर्धारणे प्रवृ­त्ति­रु­प­प­द्यत इति हेतो­र­सा­ध­क­त्व­श­ङ्कापि निरस्ता । तद­भा­व­नि­र्धा­र­ण­स्या­सा­धा­र­ण­वि­द्या­वि­ध्य­पे­क्षि­ता­धि­का­रि­वि­शे­ष­नि­र्ण­यो­प­यो­गि­त्व­स­म्भवे साधा­र­ण­त­द­न­पे­क्षि­ता­र्थ­प­र­त्व­क­ल्प­ना­यो­गात् । शूद्राय मतिदाननिषेधो हि कर्मणि ब्रह्मणि वा श्रुति­भि­स्स्मृ­ति­भि­रि­ति­हासैः पुरा­णै­र्लौ­कि­क­वा­क्यैर्वा ‘शूद्राय मतिर्न दातव्या’ इत्येवं साधारणो विद्या­वि­ध्य­न­पे­क्षि­तश्च । तस्मा­दु­प­प­न्नोऽयं तदभावनिर्धारणे च प्रवृत्तेरिति हेतुः । १. ३. ३७ ।

श्रव­णा­ध्य­य­ना­र्थ­प्र­ति­षे­धात् स्मृतेश्च ॥३८॥

३८

इतश्च न शूद्रस्य विद्याधिकारः । यदस्य वेदश्रवणं वेदा­ध्य­य­न­ञ्चार्थः प्रयोजनं यस्य समीपे वेदोच्चारणस्य तस्यापि प्रतिषेधो भवति ‘पद्यु ह वा एतच्छ्मशानं यच्छूद्रः तस्मा­च्छू­द्र­स­मीपे नाध्येतव्यम्’ इत्यत्र शूद्रस्य सञ्चा­रि­श्म­शा­न­त्व­वादः श्मशानवदध्ययने दूरं परि­ह­र­णी­य­त्व­प्रा­प्त्यर्थः । ‘अध्ययनं वर्जयेत्’ इत्यनुवृत्तौ ‘श्मशानं सर्व­त­श्श­म्या­प्र­सात्’ इत्युक्त्वा ‘श्मशा­न­व­च्छू­द्र­प­तितौ’ इति स्मरणात् । वेदोच्चारणे शूद्रस्य सुदूरं परि­ह­र­णी­य­त्वो­क्तिश्च मायावी शूद्रो निषे­धा­द­प्य­बि­भ्य­च्छ­द्मना वेदाक्षराणि गृह्णीयात् तदण्वपि मा ग्रहीदिति दृष्टार्थमपि , न तु श्मशा­न­व­च्छू­द्र­जा­ते­स्सा­मीप्यं दोषावहमिति केव­ल­म­दृ­ष्ट­वि­रो­ध­प­रि­हा­रा­र्थम् । अत एव शूद्र­जा­ति­सा­मा­न्येऽपि शूद्रस्त्री सवि­धो­च्चा­र्य­मा­णा­न्यपि वेदाक्षराणि ग्रहीतुं धारयितुं वा न शक्तेति ‘शूद्रायां तु प्रेक्ष­ण­प्र­ति­प्रे­क्ष­ण­यो­रे­वा­न­ध्यायः’ इति तदनन्तरमुक्तम् । एवञ्च यस्य समीपेऽपि नाध्येतव्यम् , तस्य वेदश्रवणादीनि कैमुतिकन्यायेन निरस्तानि । साक्षाच्च शूद्रस्य वेदश्रवणे तन्मूलकेऽध्ययने तस्यार्थे प्रयोजने धारणे च प्रतिषेधोऽस्ति ; ‘अथ हास्य वेदमुपशृण्वतः’ इत्यादिना शूद्रस्य वेद­श्र­व­णो­च्चा­र­ण­धा­र­णेषु प्राय­श्चि­त्त­स्म­र­णात् । ततश्च शूद्रस्य वेद­श्र­व­णा­द्य­भावे वेदार्थविचारस्य चाभावः कैमु­ति­क­न्या­य­सिद्धः।

साक्षाच्च तयोरपि प्रतिषेधोऽस्ति ‘कपि­ला­क्षी­र­पा­नेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्र­श्च­ण्डा­लतां व्रजेत् । यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतं । सोऽसंवृतं नाम तमस्सह तेनैव गच्छति’ इति वेद­वि­चा­र­त­द­र्थ­ग्र­ह­ण­यो­स्त­स्या­त्यन्तं दुर्गतिस्मरणात् । एवञ्च वेदा­र्थ­ज्ञा­ना­भावे वेदविहितानां कर्मणां विद्या­ना­ञ्चा­नु­ष्ठा­ना­स­म्भ­वोऽपि अर्थसिद्धः । साक्षा­च्चा­त्रा­धि­का­र­प्र­ति­षे­धोऽस्ति ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति । नास्याधिकारो धर्मेऽस्ति नाध­र्मा­त्प्र­ति­षे­ध­नम्’ इति मनुस्मरणात् । शूद्रमुद्दिश्य विशिष्य यन्नि­त्य­व­द्वि­हितं तदकरणे तस्य पातकं नान्यत्र । यस्संस्कारो विशिष्य विहितस्तमेव सोऽर्हति नान्यम् । यो धर्मो विशिष्य विहितस्तत्रैव तस्याधिकारो नान्यत्र । अधर्मोऽपि यो विशिष्य प्रतिषिद्धस्स एव तस्य परिहरणीयो नान्य इत्यर्थः । एवञ्च शूद्रस्य सगुणविद्यासु , निर्गु­ण­वि­द्या­र्थेषु वेदा­न्त­श्र­व­णा­दिषु च विशेषविध्यभावेन च तेषां निषेधवचनैः क्रोडी­कृ­त­त्वान्न तेषु तस्याधिकारः ।

एतेन – शूद्रस्य वेद­श्र­व­णा­ध्य­य­न­धा­र­णा­र्था­व­ग­तीनां प्रति­षि­द्ध­त्वेऽपि कूप­ख­न­न­न्या­य­मा­श्रित्य सगुणविद्यानां श्रव­णा­दी­ना­ञ्चा­नु­ष्ठा­न­मस्तु ; सगु­ण­ब्र­ह्म­वि­द्यानां वेदा­न्त­श्र­व­ण­ज­नि­त­नि­र्गु­ण­वि­द्या­याश्च प्रार­ब्धे­त­र­स­क­ल­पा­प­ध्वं­स­क­त्वेन वेद­श्र­व­णा­दि­प्र­ति­षे­धो­ल्ल­ङ्घ­न­कृ­त­पा­प­स्यापि तत एव ध्वंस­स­म्भ­वा­दि­त्यपि – निरस्तम् ; अन­धि­का­रि­णाऽ­नु­ष्ठि­तानां वैदिककर्मणां फल­प­र्य­व­सा­यि­त्वा­भा­वेन कूप­ख­न­न­न्या­या­न­व­ता­रात् । इह विद्या­ङ्गो­प­न­य­ना­भा­वेन , विशे­ष­वि­हि­ते­त­र­वै­दि­क­क­र्मा­धि­का­र­प्र­ति­षे­धेन च शूद्रा­णा­म­न­धि­का­रि­त्वस्य समर्थितत्वात् । कथं तर्हि विदु­र­ध­र्म­व्या­ध­प्र­भृ­तीनां ब्रह्मज्ञत्वम् ? पूर्व­ज­न्मा­धि­ग­त­ज्ञा­ना­प्र­मो­षात् । ‘धर्म­व्या­धा­द­योऽ­प्यन्ये पूर्वा­भ्या­सा­ज्जु­गु­प्सिते । वर्णावरत्वे संप्रा­प्ता­स्सं­सिद्धिं श्रमणी यथा’ इति हि स्मरन्ति ब्रह्मज्ञानमपि तेषाम् । हीनजातिषु जननं तु प्रारब्धबलात् ।

ननु पूर्व­ज­न्मा­नु­ष्ठि­त­य­ज्ञा­दि­क­र्मभिः शुद्धा­न्तः­क­र­ण­त­यो­त्प­न्न­ब्र­ह्म­वि­वि­दि­षा­णा­मपि साध­न­सं­प­त्त्य­भा­वे­ना­नु­त्प­न्न­ब्र­ह्म­वि­द्यानां ततःप्रारब्धबलेन शूद्रा­दि­ज­न्म­प्रा­प्तानां पूर्व­सं­स्का­रा­नु­वृत्त्या विर­क्ता­ना­म­नु­वृ­त्त­ब्र­ह्म­वि­वि­दि­षाणां किं ब्रह्म­वि­द्यो­पायो नास्ति ? अस्त्ये­वे­ति­हा­स­पु­रा­णादिः । ननु ‘श्रोत­व्य­श्श्रु­ति­वा­क्येभ्यः’ इति ब्रह्म­द­र्श­नार्थं वेदा­न्त­श्र­व­ण­नि­य­म­वि­धिना सक­लो­पा­या­न्त­र­व्या­व­र्त­नात् कथ­मि­ति­हा­स­पु­रा­णा­दे­स्त­दु­पा­य­त्वेन परिग्रहः ? न । त्रैवर्णिकान् प्रति स नियमविधिरिति तल्ल­ब्ध­नि­य­म­स्यापि तद्विषयत्वात् । एव­न्त­र्ही­ति­हा­स­पु­रा­णा­दि­व­द्वे­दा­न्ता­र्थ­ग्र­थ­न­रूपो भाषाप्रबन्धः ‘त्वमेव ब्रह्मासि’ इत्या­दि­लौ­कि­क­वा­क्यञ्च तदुपायोऽस्तु ; तस्यापि ब्रह्मा­त्मै­क्य­ज्ञा­न­ज­न­न­स­म­र्थ­त्वात् । न च – अध्या­स­नि­व­र्त­न­क्षमं तदपरोक्षज्ञानं वेदा­न्तै­स्त­न्मू­लै­रि­ति­हा­स­पु­रा­णैर्वा भवति नान्यैरिति – वाच्यम् । विषयस्वाभाव्येन ‘दशमस्त्वमसि’ इत्या­दि­लौ­कि­क­वा­क्यै­र­प्य­प­रो­क्ष­ज्ञा­नस्य सिद्धा­न्ति­नाऽ­भ्यु­प­ग­त­त्वात् । तथाऽपि लौकि­क­वा­क्य­ज­म­प­रो­क्ष­ज्ञा­न­म­स­म्भा­व­ना­वि­प­री­त­भा­व­ना­प्र­ति­ब­न्धा­ना­ध्या­स­नि­व­र्त­न­क्ष­मम् , इति चेत् ; न । वेदा­न्त­जा­प­रो­क्ष­ज्ञा­न­स्येव तस्यापि मन­न­नि­दि­ध्या­स­नाभ्यां प्रति­ब­न्ध­क­नि­व­र्त­न­स­म्भ­वात् ।

यद्वा माभू­द्भा­षा­प्र­बन्धो मा च भूल्लौ­कि­क­वा­क्यम् । मन­ना­ख्ये­ना­नु­मा­न­क­ला­पे­नैव प्रति­ब­न्ध­नि­वृ­त्त्य­र्थ­म­व­श्या­पे­क्षि­तेन ‘चिन्मात्रं तत्त्वमन्यत् सर्वमारोपितम्’ इति निर्धारणं सम्भवति । तच्च विष­य­स्वा­भा­व्या­द­प­रो­क्ष­मिति मननमात्रं निदि­ध्या­स­न­शि­रस्कं शूद्रणां ब्रह्म­वि­द्यो­पा­योऽस्तु । यदि मननं प्रमा­ण­प्र­मे­या­नु­प­प­त्ति­नि­रा­स­क­त­र्क­रू­प­तया वेदा­न्त­श्र­व­ण­स्ये­ति­क­र्त­व्य­ता­रूपं न स्वतन्त्रम् तर्हि ‘इति­हा­स­पु­रा­णाभ्यां वेदं समुपबृंहयेत्’ इति वच­ना­दि­ति­हा­स­पु­रा­ण­मपि तथैव । यदि च तद्व­च­न­म­ने­क­शा­खा­भि­ज्ञ­म­ह­र्षि­कृ­ते­ति­हा­स­पु­रा­णा­नु­सा­रि­ण्ये­वार्थे वेदस्य तात्पर्यं ग्राह्य­मि­त्ये­वं­प­रम् , न स्वातन्त्र्येण ततोऽ­र्थ­नि­र्ण­य­नि­षे­ध­प­रम् , तर्हि ‘श्रोतव्यो मन्तव्यः’ इति श्रवणाङ्गत्वेन मननविधिरपि वेदान्तेषु सम्भा­वि­त­प्र­मा­ण­प्र­मे­या­नु­प­प­त्ति­शङ्का मननेन निर­स­नी­ये­त्ये­ता­व­न्मा­त्र­प­रम् , न तु स्वात­न्त्र्ये­णा­नु­मा­ना­द्ब्र­ह्म­नि­र्णयो न भवतीत्येतत्परम् । ‘नैषा तर्केण मतिरापनेया’ इति श्रुते­र्ना­नु­मा­न­गम्यं ब्रह्मेति चेत् – ‘तन्त्वौपनिषदं पुरुषं पृच्छामि’ इति श्रुते­र्ने­ति­हा­स­पु­रा­णा­दि­ग­म्य­मि­त्यपि स्यात् । औप­नि­ष­द­त्व­श्रु­ति­रु­प­नि­ष­द्वि­रो­धि­श­ब्दा­न्त­र­ग­म्य­त्व­नि­रा­स­परा चेत् साऽपि श्रुति­स्त­द्वि­रो­धि­त­र्क­ग­म्य­त्व­नि­रा­स­प­राऽस्तु । अथवा माभू­द्भा­षा­प्र­ब­न्ध­लौ­कि­क­वा­क्या­नु­मा­न­जातं शूद्रस्य ब्रह्मा­व­ग­त्यु­पायः । मा च भूत् त्वदु­क्त­मि­ति­हा­स­पु­रा­णम् । वेदा­न्त­वा­क्य­जा­त­मेव लिखितपाठादिना गृहीतमविधिना विचारितं तदुपायोऽस्तु ; व्युत्पन्नस्य लिखि­त­पा­ठा­दि­गृ­ही­ता­दपि ततोऽ­र्थ­प्र­त्य­य­स्या­नि­वा­र्य­त्वात् । अवि­हि­त­वि­चा­र­स्या­प्या­र्द्र­क­म­री­चा­दि­वि­ष­य­स्ये­वा­स­म्भा­व­ना­नि­व­र्त­न­क्ष­म­त्वात् । अविहितविचारस्य च वैदि­का­धि­का­र­नि­र­पे­क्ष­तया तद्वैकल्येन निष्फ­ल­त्वा­प्र­सक्तेः शूद्रस्य वेद­ग्र­ह­ण­नि­षे­धो­ल्ल­ङ्घने च कूपखननन्यायेन प्रवृ­त्त्यु­प­प­त्ते­रिति चेत् ।

अत्र ब्रूमः । बहूनि मनुष्याणां ब्रह्म­वि­द्यो­त्प­त्ति­प्र­ति­ब­न्ध­कानि दुरितानि ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इत्या­दि­वै­दि­क­लि­ङ्गा­व­ग­तानि । तत्र कानि­चि­द्वि­वि­दि­षो­रपि श्रव­णा­दि­सा­ध­न­स­म्प­त्ति­वि­घ­ट­न­द्वा­र­काणि , अपराणि श्रव­णा­दि­सा­ध­न­स­म्प­त्ता­वपि बुद्धि­सा­म­र्थ्य­वि­घ­ट­न­द्वा­र­काणि , इतराणि विद्यो­द­येऽ­प्य­स­म्भा­व­ना­दि­बा­हु­ल्या­पा­द­कानि । किं बहुना ? निर­स्त­स­म­स्ता­स­म्भा­व­ना­दि­प्र­ति­ब­न्ध­नि­र्वि­चि­कि­त्स­ब्र­ह्म­वि­द्यो­द­येऽ­प्य­वि­द्याऽ­नि­वृ­त्ति­क­राणि सत्यपि विशेषदर्शने भ्रमा­नि­वृ­त्ति­क­रो­पा­धि­स­न्नि­धा­न­क­ल्पानि कान्यपि सन्ति । तानि सर्वाणि यज्ञ­दा­ना­दि­भि­स्स­न्या­सा­पू­र्वेण वेदा­न्त­श्र­व­ण­नि­य­मा­दृ­ष्टे­ने­ति­हा­स­पु­रा­णा­दि­श्र­व­ण­नि­य­मा­दृ­ष्टेन च निवर्तनीयानि । एतानि च प्रति­ब­न्ध­क­नि­व­र्त­कानि यथाऽधिकारं व्यवतिष्ठन्ते । तथा च ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः’ ‘शूद्र­स्सु­ख­म­वा­प्नु­यात्’ इत्या­दि­व­च­नै­रि­ति­हा­स­पु­रा­ण­श्र­व­ण­प­ठ­ना­धि­का­रि­त्वे­ना­व­ग­तस्य शूद्रस्य तच्छ्र­व­ण­नि­य­म­सं­पा­द्य­म­दृष्टं विना लिखि­त­पा­ठ­गृ­ही­त­वे­दा­न्ता­दिभिः कथ­म­प्र­ति­ब­द्ध­ब्र­ह्मा­व­ग­ति­स­म्भवः । सन्ति हि पुरा­णे­ति­हा­स­श्र­व­ण­सा­मान्ये केचन नियमाः विशिष्य च पुराणभेदेन भार­त­प­र्वा­दि­भे­देन चान्ये नियमाः । तत्रापि ब्रह्मा­व­ग­त्यु­पा­येषु गीतादिभागेषु ‘शिष्यस्तेऽहं शाधि माम्’ इत्या­दि­पा­र्थ­व­च­न­प्र­भृ­ति­लि­ङ्गा­व­गता गुरू­प­स­द­ना­दि­नि­यमाः । तस्मा­न्नि­य­म­र­हि­तै­र्लि­खि­त­पा­ठ­गृ­ही­त­वे­दा­न्त­भा­षा­प्र­ब­न्ध­लौ­कि­क­वा­क्य­त­र्क­क­ला­पै­र­ध्या­स­नि­व­र्त­न­क्ष­म­ब्रह्मा वग­त्या­पा­द­न­म­न­धि­ग­त­वै­दि­क­म­र्या­दा­ना­मेव शोभते ।

ननु तथाऽपि शूद्र­स्ये­ति­हा­स­पु­रा­णा­दि­नाऽपि नास्ति विद्या­धि­ग­मेऽ­धि­कारः । न हि तमुद्दिश्य विशिष्यास्ति विद्याविधानम् । विशे­ष­वि­हि­ते­त­र­ध­र्मास्तु तस्य प्रतिषिद्धा इत्युक्तम् । सत्यम् । ब्रह्मविद्यायां नास्ति विध्यपेक्षा । आन­न्द­सा­क्षा­त्का­र­त्वेन तस्याः फलत्वात् बन्ध­न­नि­वृ­त्ति­रू­प­मु­क्ति­सा­ध­न­त्वेऽपि प्रमा­ण­व­स्तु­प­र­त­न्त्र­त्वेन विध्यनर्हत्वात् , किन्तु तत्साधने । तत्र च त्रैवर्णिकानां वेदान्तश्रवणरूप इव शूद्रा­णा­मि­ति­हा­स­पु­रा­ण­श्र­व­ण­रूपे विशेषतोऽस्त्येव विधिः । ननु ‘द्रष्ट­व्य­श्श्रो­तव्यः’ इति वेदान्तश्रवणे ब्रह्म­द­र्श­न­फ­ला­नु­वा­द­व­दिह तदनुवादो नास्ति ? सत्यम् । तथाऽपि यत्र योऽर्थः प्रतिपाद्यते तदवगतिरसति बाधके तत्र फलत्वेन व्यवतिष्ठते । ‘धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इत्या­दि­व­च­नै­स्त­त्त­त्प्र­ति­पा­द्य­प्र­द­र्श­न­मपि तत्तदवगतेः फलत्वसूचनायैव । एव­ञ्चे­ति­हा­स­पु­रा­णेषु यस्याधिकारिणो यद­र्था­व­ग­ति­र्य­थो­प­यु­ज्यते , तथैव सा तस्य फलतया व्यवतिष्ठते । ततश्च यद्यपि तेभ्य­श्शु­द्ध­ब्र­ह्मा­व­ग­ति­र्वे­दा­न्त­श्र­व­ण­नि­य­म­वतां त्रैवर्णिकानां तत्र वेदा­न्त­ता­त्प­र्य­स्थि­री­क­र­णा­र्थ­तया उपयुज्यते , तथाऽपि प्रति­षि­द्ध­वे­द­श्र­व­णानां शूद्राणां साक्षा­न्मु­क्ति­सा­ध­न­त­यै­वो­प­यु­ज्यते । तस्या­स्त­त्सा­ध­न­त्व­प्र­सि­द्ध्यर्थं मनननिदिध्यासने अपि शूद्रस्य मुक्तिसाधने ब्रह्म­वि­द्या­फ­ल­के­ति­हा­स­पु­रा­ण­श्र­व­ण­वि­धि­नै­वा­क्षि­प्येते यथाऽध्ययनविधिना स्वफ­ल­स्या­र्थ­ज्ञा­नस्य क्रत्व­नु­ष्ठा­ना­दि­सा­ध­न­त्व­सि­द्ध्यर्थं विचार आक्षिप्यते । तस्मा­द्यु­क्त­मुक्तं शूद्रा­णा­मि­ति­हा­स­पु­रा­णा­दिकं मुक्ति­सा­ध­न­ब्र­ह्म­वि­द्यो­पाय इति । तथापि तत्त­ल्लो­क­वि­शे­षा­वा­प्ति­फ­ल­क­स­गु­ण­ब्र­ह्म­विद्या विधे­य­त्वा­द्वि­शिष्य शूद्रन् प्रत्यविधानाच्च तेषां न स्यादिति चेत् , मा भूत् । तदंशे यज्ञादिर्मांश इव इति­हा­स­पु­रा­णा­दि­श्र­व­ण­म­र्था­व­ग­ति­फ­लकं पापक्षयफलकमस्तु । अध्ययनविधिरपि ह्यर्था­व­बो­ध­फ­ल­क­त्व­पक्षे न सर्व­त्रा­र्था­व­बो­ध­फ­लकः ।

किञ्च शूद्रस्य क्वचि­त्क्व­चि­द­स्त्ये­वे­ति­हा­स­पु­रा­ण­प्र­ति­पा­द्यायां सगु­ण­वि­द्या­या­म­प्य­धि­कारः यत्र विशिष्य विधानं लिङ्गं वाऽस्ति यथा प्रणवरहितेन पञ्चाक्षरेण शिवोपासनायां , यथा वा नारदस्य प्राचीने शूद्रजन्मनि यति­भि­रु­प­दि­ष्टा­या­म­च्यु­तो­पा­स­ना­याम् । एवं शैव­पा­शु­प­त­पा­ञ्च­रा­त्रा­दि­दृ­ष्टेषु सगु­ण­वि­द्या­वि­शे­षे­ष्वपि शूद्रो­चि­त­सं­स्का­र­पू­र्वकं विशिष्य विहितेषु तस्याधिकारो द्रष्टव्यः । एवं शूद्रस्य इति­हा­स­पु­रा­णा­दि­मू­ल­क­वि­द्या­धि­का­र­स­त्त्वेऽपि वेद­मू­ल­क­सं­व­र्ग­वि­द्या­द्य­धि­का­र­श­ङ्का­नि­वा­र­णार्थं सूत्रे जानश्रुतेः क्षत्रि­य­त्व­स­म­र्थ­नम् । वेद­मू­ल­का­धि­का­र­नि­रा­क­र­णार्थं ह्येतदधिकरणम् । अत एव वेद­श्र­व­णा­दि­प्र­ति­षेधः सूत्रकृता हेतूकृतः इत्यलं प्रस­क्ता­नु­प्र­सक्त्या । सौत्रे श्रव­णा­ध्य­य­ना­र्थ­पदे बहुव्रीहिः । अर्थपदं प्रयोजनपरं । पुनश्च द्वन्द्वः । तदानीं तत्प्रयोजनपरं प्रतिपाद्यपरञ्च । प्रति­पा­द्य­प­रत्वे तदज्ञानस्य तदनुष्ठानस्य च लक्ष­क­मि­त्ये­त­त्सर्वं प्रागेव वर्णित प्रायम् । चतुर्ष्वपि गुणसूत्रेषु चकारस्तत्र तत्रो­द्भा­वि­त­श­ङ्का­प­रि­हा­र­द्यो­त­नाय । १. ३.३८ ।

इत्य­प­शू­द्रा­धि­क­र­णम् । ९ ।

कम्पनात् ॥ ३९॥

३९

अवसितः प्रास­ङ्गि­कोऽ­धि­का­र­वि­चारः । यथापूर्वं वाक्यार्थविचारः क्रियते । ‘‘यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एत­द्वि­दु­र­मृ­तास्ते भवन्ति’(क. २. ३. २) इति कठवल्लीमन्त्रे मुख्यप्राणो बाह्य­वा­यु­श्चो­पा­स्य­गु­ण­वि­शे­ष­वि­शि­ष्टा­वा­म्ना­येते उत ज्ञेयं ब्रह्म प्रतिपाद्यत इति संशये पूर्वः पक्षः ।

सर्वमिदं जगद्यदाश्रयं स्पन्दत इति यतः कार­णा­न्नि­स्सृ­त­ञ्चे­त्यु­च्यते स मुख्यप्राणरूपो वायुः ; प्राण­शृ­ति­मु­ख्य­त्वा­नु­रो­धेन ‘सर्वं जगत्’ इत्यस्य प्राणा­त्म­क­वा­यु­वि­का­र­रू­प­स­र्व­व­स्तु­प­र­तो­प­पत्तेः । एवं सति सर्वशब्दस्य स्वार्थैकदेशे वृत्ति­स­ङ्को­चेऽपि ब्रह्मपरत्वे प्राणशब्दस्येव सर्वधा स्वार्थ­त्या­गा­भा­वात् , ‘निस्सृतम्’ इत्यस्य ‘तच्च सर्वं जग­त्प्रा­णा­न्नि­स्सृ­तम्’ इति भिन्न­वा­क्य­त्व­म­प­हाय ‘प्राणे ततो निस्सृतं सर्वं जगदेजति’ इत्ये­क­वा­क्य­त्वा­ङ्गी­कारे निस्सृ­त­वि­शे­ष­णे­नैव सर्व­श­ब्द­स­ङ्को­चस्य लम्भनाच्च । ‘सर्वं जगत्’ इत्यस्य सर्व­प्रा­णि­प­रत्वे ‘प्राणे’ इति सप्तम्याश्च निमि­त्ता­र्थ­कत्वे सर्वस्यापि प्राणिजातस्य चेष्टायाः प्राण­स्थि­त्य­धी­न­त्वेन सङ्को­च­का­र­णा­न­पे­क्ष­णाच्च । उष­स्ति­वा­क्य­ग­त­प्रा­ण­शब्दे निर­पे­क्ष­स­र्व­ज­ग­त्का­र­ण­त्व­प्र­ति­पा­द­का­व­धा­र­णो­प­बृं­हि­तो­प­क्र­मो­प­सं­हा­र­श्रु­त­प्र­ति­पि­पा­द­यि­षि­त­दे­व­ता­श­ब्दो­दि­त­चे­त­न­त्व­लि­ङ्ग­स्ये­वात्र मुख्या­र्थ­त्या­ज­कस्य बलवतो बाधकस्याभावाच्च । तथा महद्भयकारणं वज्र­श­ब्दि­त­मु­द्यतं यदुच्यते स बाह्यवायुः ; तस्यैव धूम­ज्यो­ति­स्स­लि­ल­सं­व­लि­तस्य विद्यु­त्स्त­न­यि­त्नु­वृ­ष्ट्य­श­नि­भा­वेन परिणामितया वज्रशब्दस्य मुख्या­र्था­प्र­हा­णात् ब्रह्मपक्ष इव वज्र­स­दृ­शे­र्गौ­ण­त्व­स्या­क­ल्प­नी­य­त्वात् , ‘वायुरेव व्यष्टिः वायुस्समष्टिः अप­पु­न­र्मृ­त्यु­ञ्ज­यति य एवं वेद’(बृ. ३.३.२) इति श्रुत्य­न्त­र­द­र्श­नेन वायु­वे­द­ना­द­मृ­त­त्व­स­म्भ­वाच्च ।

स्यादेतत् – अस्मान्मंत्रात् पूर्वोत्तरौ ‘‘अङ्गु­ष्ठ­मात्रः पुरुषः’(क. २. १. १२) ‘‘अङ्गु­ष्ठ­मात्रः पुरु­षोऽ­न्त­रात्मा’(क. २. ३. १७) इति मन्त्रा­व­ङ्गु­ष्ठा­धि­क­रणे ब्रह्मपरौ निर्णीतौ । ‘‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिन् लोका­श्रि­ता­स्सर्वे तदु नात्येति कश्चन’ ।(क. २. १. ८) ‘‘भया­द­स्या­ग्नि­स्त­पति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’(क. २. २. ३) इत्य­व्य­व­हि­त­पू­र्वो­त्त­र­म­न्त्रा­व­सं­शयं ब्रह्मपरौ । तत्र चोत्तरस्मिन् मन्त्रे ‘अस्य’ इति सर्वनामशब्द एत­न्म­न्त्र­प्र­ति­पाद्यं परामृशति । ‘अत्ता चराचरग्रहणात्’(ब्र. सू. १. २. ९) इत्यधिकरणे दर्शितञ्च ब्रह्म­प्र­क­र­ण­मि­हा­नु­व­र्तते । आनुमानिकाधिकरणे च ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’(ब्र. सू. १.४. ६) इति सूत्रे कठ­व­ल्ली­ष्व­ग्नि­जी­व­ब्र­ह्मणां त्रयाणामेव प्रतिपादनं नान्यस्येति वक्ष्यते । कथमकस्मात् तन्म­ध्य­पा­ति­न्य­स्मि­न्मन्त्रे मुख्य­प्रा­ण­बा­ह्य­वा­यु­प­र­त्व­शङ्का ? एवं पूर्वा­प­र­प­र्या­लो­च­नेन ब्रह्मपरतया निर्णीतेषु प्रकरणेषु श्रुतस्य प्राणशब्दस्य ब्रह्मणि वृत्तिः प्रतर्दनाधिकरणे समर्थिता ।

अपि चैत­न्म­न्त्र­प­र्या­लो­च­न­याऽपि न पूर्वपक्षे हेतुं पश्यामः । ‘सर्वं जगदेजति’ इत्यस्य स्वशा­स­ना­ति­ल­ङ्घने किमयं करिष्यतीति भयात्कम्पत इत्ये­व­म­र्थ­क­त्वात् ‘एजृ कम्पने’ इत्य­र्थ­नि­र्दे­शा­नु­सा­रेण कम्प­सा­मा­न्य­वा­चि­नोऽपि धातोः ‘महद्भयं वज्रमुद्यतम्’ ‘भया­द­स्या­ग्नि­स्त­पति’ इत्या­द्यु­त्त­र­वा­क्य­प­र्या­लो­च­नया भयप्रयुक्तकम्पे पर्यवसानात् मुख्यप्राणस्य शासितृत्वाभावेन तत्रास्य लिङ्गस्य कथ­म­प्य­न्व­या­स­म्भ­वात् अन­न्य­था­सि­द्ध­लि­ङ्ग­वि­रोधे च श्रुतेरप्यन्यथा नेयत्वात् । अश­नि­का­र­ण­क­ला­प­मध्ये वायो­र­नु­प्र­वे­शेऽपि वायो­रे­वा­श­नि­त्वा­भा­वे­ना­श­नि­वा­चिनो वज्रशब्दस्य वायावपि लक्ष­णाऽ­व­श्य­म्भा­वात् , अमृ­त­त्व­सा­ध­न­वे­द­न­वि­ष­य­त्वस्य ब्रह्म­णोऽ­न्य­त्रा­स­म्भ­वात् ; ‘तन्निष्ठस्य मोक्षोपदेशात्’(ब्र.सू. १.१.७) इती­क्ष­त्य­धि­क­र­ण­सूत्र एव तथा व्यवस्थितेः ‘अप­पु­न­र्मु­त्यु­ञ्ज­यति’ इति वायु­वि­ज्ञा­ना­द­प­मृ­त्यु­ञ्ज­य­स्यै­वो­क्त­त्वेन मृत्यु­ञ्ज­य­रू­पा­मृ­त­त्व­प्रा­प्ते­र­नु­क्त­त्वा­च्चेति चेत् –

उच्यते – यद्यस्मिन् प्रकरणे ब्रह्मैव प्रतिपादनीयं नान्यत् कथं तर्हि ‘तदेव शुक्रं तद्ब्रह्म’ इति मन्त्रात् प्राक् ‘‘ऊर्ध्व­मू­लोऽ­वा­क्छाख एषोऽ­श्व­त्थ­स्स­ना­तनः’(क. २.३.१) इति संसा­र­वृ­क्ष­की­र्त­नम् ? तन्मूलत्वेन ब्रह्म­प्र­ति­पत्तौ तदङ्गमिति तद्वर्णनं न प्रकरणविरोधि इति चेत् , हन्त तर्हि मुख्य­प्रा­ण­बा­ह्य­वा­य्वो­रु­क्त­रू­पे­णो­पा­स­न­मपि निर्वि­चि­कि­त्स­ब्र­ह्म­प्र­ति­पत्तौ प्रति­ब­न्ध­का­दि­नि­व­र्त­क­त्वे­ना­ङ्ग­मिति तद्विधानमपि न प्रक­र­ण­वि­रो­धी­त्य­वेहि । दृष्टं ह्युप­को­स­ल­वि­द्यायां ‘प्राणो ब्रह्म’ इत्युपासनाया अङ्गत्वम् । अवश्श्चायं मन्त्रोऽ­ङ्ग­स­र्पक इत्येव सिद्धा­न्ति­नाऽ­प्यु­प­पा­द­नी­यम् ; ‘‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’(क. १. २. १४) इति निर्विशेषस्य ब्रह्मणः पृष्ट­स्यै­वो­त्तरे प्रकरणित्वेन प्रति­पा­द्य­त­याऽस्य मन्त्र­स्यै­त­त्पू­र्वा­प­र­म­न्त्रा­णा­ञ्चा­र्थस्य सवि­शे­ष­ब्र­ह्म­ध­र्मस्य निर्वि­शे­ष­प्रा­ति­प­त्त्य­ङ्ग­त्वोक्तिं विना सङ्ग­म­यि­तु­म­श­क्य­त्वात् । एवमस्य मन्त्रस्य मुख्य­प्रा­णा­यु­पा­स्य­प­रत्वे सत्य­न­न्त­र­मन्त्रे श्रुतस्यास्येति पदस्य व्यव­हि­त­म­न्त्र­प्र­कृ­त­ब्र­ह्म­प­रा­म­र्शित्वं न विरुध्यते । यथा ‘ऊर्ध्वमूलः’ इति वाक्यस्य संसा­र­वृ­क्ष­प­रत्वे सति ‘तदेव शुक्रम्’ इत्य­न­न्त­र­म­न्त्र­श्रु­तस्य तत्पदस्य प्रधानत्वेन प्रस्तुतं संसारवृक्षमपहाय तदु­प­स­र्ज­न­मू­ल­प­रा­म­र्शि­त्वम् । ‘एजति’ इति च चेष्टत इत्यर्थपरं , न तु भयात् कम्पत इत्येतत्परम् ; अग्नि­सू­र्ये­न्द्रा­दि­दे­व­वत् शासितुः पर­ब्र­ह्म­ण­स्स­द्भा­व­म­जा­ना­नस्य मनु­ष्य­प­शु­प­क्षि­स­री­सृ­प­स्था­व­र­स­हि­तस्य सर्वस्य जग­त­स्त­च्छा­स­ना­ति­ल­ङ्घ­न­प्र­यु­क्त­भ­या­भा­वात् । वज्रशब्दे च न लक्षणा प्रसज्यते ; अश­न्या­का­र­प­रि­ण­त­स्यैव वायो­रु­पा­स्य­त्वा­ङ्गी­का­रात् । यद्यपि वज्रशब्देन वज्रायुधमपि वक्तुं शक्यम् , तथाऽपि वायु­वि­शे­ष­रू­प­प्रा­ण­स­म­भि­व्या­हा­रा­द्वा­यु­वि­कार एवात्र वज्रशब्दार्थो गृह्यते । उपा­स­क­स्या­मृ­त­त्व­फ­ल­की­र्त­न­मपि न विरुध्यते ‘औदुम्बरो यूपो भवति ऊर्ग्वा उदुम्बरः ऊर्जैवास्मा ऊर्जं पशू­ना­प्नो­त्यू­र्जोऽ­व­रुध्यै’ इति पश्व­वा­प्ति­फ­ल­क­सो­मा­पौ­ष्ण­प­श्व­ङ्ग­यू­प­प्र­कृ­त्यु­दु­म्ब­र­ता­वि­ध्य­र्थ­वाद इव प्रधा­न­फ­ला­नु­वा­दो­प­पत्तेः । तस्मा­त्सं­व­र्ग­वि­द्या­या­मि­वो­पास्यौ मुख्य­प्रा­ण­बा­ह्य­वायू कीर्त्येते । प्राण­व­ज्र­श्रु­त्य­नु­सा­रात् तद्बा­ध­का­भा­वा­च्चे­त्येवं प्राप्ते राद्धान्तमाह – ‘कम्पनात् ‘ ।

‘शब्दादेव प्रमितः’ इति सूत्रतः शब्दा­दि­त्य­नु­व­र्तते मण्डू­क­प्लु­ति­न्या­येन । तेन ‘यदिदं किञ्च’ इति मन्त्रे ब्रह्मैव प्राणशब्दात् प्रतीयत इति साध्यं लभ्यते । तत्र हेतुः कम्पनात् – सक­ल­प्रा­णि­जा­त­स्प­न्द­ना­दि­त्यर्थः । यद्यपि तत्स्प­न्द­यि­तृत्वं मुख्य­प्रा­ण­स्या­प्यस्ति , तथापि निरपेक्षं तद्ब्रह्मण एव ‘‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ(क. २. २. ५) इति ‘प्राणस्य प्राणम्’(बृ. ४. ४. १८) इति च श्रुत्यन्तरात् । निरपेक्ष एव धर्मोऽ­न्त­र्या­म्य­धि­क­र­ण­न्या­येन ग्राह्यः । एव­ञ्चा­प्र­ति­प­न्न­रू­ढितः प्रतिपन्नयोगो बलीयानिति पूर्वा­धि­क­र­णो­क्त­न्या­येन निर­पे­क्ष­स­क­ल­ज­ग­त्प्रा­ण­न­व्या­पा­र­हे­तु­त्व­वा­चिना प्राणशब्देन ब्रह्मैव प्रतीयत इति साध्यं सिद्ध्यति । ततश्च ‘महद्भयं वज्रमुद्यतम्’ इत्य­ने­ना­प्य­भ्यु­द्यतं वज्रायुधमिव महद्भयं बिभेत्यस्मादिति व्युत्पत्त्या भयकारणमित्यनेन रूपेण ब्रह्मैवोच्यत इति सिद्धौ नोपासनविधानम् , उपासनस्य ब्रह्म­प्र­ति­प­त्त्य­ङ्ग­त्व­नि­र्वा­हाय दुरितक्षयस्य द्वारत्वञ्च कल्पनीयमिति लाघवम् । सर्वशब्दे च न सङ्कोचशङ्का । प्रक­र­ण­ञ्चै­व­म­ञ्जसा सङ्गच्छते , पूर्वा­प­र­म­न्त्र­स­न्नि­धा­नञ्च । पूर्वमन्त्रे ‘तस्मिन् लोका­श्रि­ता­स्सर्वे’ इति ब्रह्मणः सक­ल­ज­ग­दा­श्र­य­त्व­मा­त्र­मु­क्तम् । अस्मिन्मन्त्रे सक­ल­ज­ग­ज्जी­व­न­हे­तु­त्व­मु­क्तम् । पुन­श्चा­स्मि­न्मन्त्रे ब्रह्मणो जग­च्छा­सि­तु­र्म­हा­भ­य­हे­तु­त्व­मु­क्तम् । उत्तरमन्त्रे जगच्छासितृत्वं ब्रह्म­णोऽ­व­ग­च्छ­ता­म­ग्न्या­दि­दे­वानां ततो महता भयेन तच्छासने प्रवृ­त्ति­रु­क्तेति सर्व­सा­म­ञ्ज­स्यात् सकलजगदेजयिता प्राणः परमात्मेति सिद्धम् । १. ३. ३९ ।

इति कम्पनाधिकरणम् । १० ।

ज्योति­र्द­र्श­नात् ॥ ४० ॥

४०

छान्दोग्ये प्रजा­प­ति­वि­द्यायां श्रूयते ‘एवमेवैष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रात् समुत्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’(छा. ८. १२. ३) इति । किम­त्रा­दि­त्य­ज्यो­ति­र्वि­व­क्षि­त­मुत परं ब्रह्मेति ज्योति­श्श­ब्द­प­र­श­ब्दाभ्यां संशये पूर्वपक्षः – आदित्य इह ज्योति­र्भ­वि­तु­म­र्हति । पूर्व­स्मि­न्द­ह­र­वि­द्या­प्र­क­रणे ‘शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धा­न­म­भि­नि­स्सृ­तैका । तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’(छा. ८. ६. ६) इत्यु­पा­स­का­ना­मू­र्ध्व­नाड्या शरीरात् समुत्थानस्य ‘स यावत् क्षिप्ये­न्म­न­स्ता­व­दा­दित्यं गच्छति’(छा., ८. ६. ५) इति तद­न­न्त­र­मे­वा­दि­त्य­प्रा­प्तेश्च वर्णितत्वात् । इहापि शरीरात् समुत्थाय परं ज्योति­रु­प­स­म्प­द्येति शब्दाभ्यां तद­र्थ­प्र­त्य­भि­ज्ञा­नात् । आदि­त्य­ज्यो­ति­षश्च मार्गे प्रथ­म­प­र्व­भू­ता­र्चि­र्ज्यो­ति­र­पे­क्षया परत्वेन कथञ्चित् परशब्दोपपत्तेः । न च प्रथ­म­श्रु­त­प­र­श­ब्द­मु­ख्य­ताऽ­नु­रो­धेन ज्योतिश्शब्दो नेतुं युक्तः ; अस्मा­द्वि­ष­य­वा­क्यात् पूर्वस्मिन् ‘यथै­ता­न्य­मु­ष्मा­दा­का­शा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यन्ते’(छा. ८. १२. २) इत्युपमानवाक्ये ‘परं ज्योति­रु­प­स­म्पद्य’ इत्यस्य प्रकृ­ष्टा­दि­त्य­ते­जः­प्रा­प्ति­प­र­तया दृष्टत्वात् । तस्य ह्ययमर्थः – यथा एतानि वायुरभ्रं विद्यु­त्स्त­न­यि­त्नु­रिति पूर्वप्रकृतानि प्रावृषि वर्षा­दि­प्र­यो­ज­ना­न­न्तरं स्थूलरूपं विहाय सूक्ष्म­रू­पे­णा­काशे स्थितानि पुनः प्रावृडारम्भे किञ्चि­दु­च्छ्व­सि­तानि भूत्वा ततस्समुत्थाय ग्रीष्म­प्र­वृद्धं सौरं तेजस्सहकारि प्राप्य स्वेन पुरो­वा­ता­दि­रू­पे­णा­भि­नि­ष्प­द्यन्ते – इति । एव­ञ्चो­प­मे­य­भा­गेऽपि ‘परं ज्योति­रु­प­स­म्पद्य’ इत्यस्य आदि­त्य­ज्यो­तिः­प्रा­प्ति­रे­वार्थो वक्तव्यः । अन्यथा दहराधिकरणे दर्शितया रीत्या परं ब्रह्म साक्षा­त्कृ­त्येति तद­र्थो­क्ता­वु­प­मा­नो­प­मे­य­वै­रू­प्य­प्र­स­ङ्गात् । न च तस्य परं ब्रह्म प्राप्ये­त्ये­वार्थः । साक्षात्कारस्तु ‘अभिनिष्पद्यते’ इत्यनेन उच्यते – इति वाच्यम् । तथा सति ‘अभिनिष्पद्यते’ इति भागे उप­मा­न­वै­रू­प्य­प्र­स­ङ्गात् , ब्रह्म­सा­क्षा­त्का­रा­न­न्त­र­भा­विन्यां ब्रह्मप्राप्तौ क्त्वाप्रत्ययेन तत्पू­र्व­भा­वि­त्व­नि­र्दे­श­स्या­नु­प­प­न्न­त्वाच्च । न च ‘मुखं व्यादाय स्वपिति’ इति­व­त्त­दु­प­पत्तिः । तत्र व्यादा­नो­त्त­र­का­ला­नु­वृ­त्त­स्वा­पा­पे­क्षया व्यदानस्य पूर्वभावित्वात् , इह निर्वि­शे­ष­ब्र­ह्म­प्रा­प्त्य­न­न्तरं साक्षा­त्का­रा­नु­वृ­त्त्य­भा­वात् ।

एतेन – ‘उपसम्पद्य’ ‘अभिनिष्पद्यते’ इति द्वाभ्यामपि शब्दाभ्यां ब्रह्म­प्रा­प्ति­रे­वो­च्यते – इत्यपि निरस्तम् । तथा सत्यभेदेन क्त्वाप्र­त्य­य­बो­ध्य­पौ­र्वा­प­र्यस्य सुतरामभावात् । किञ्च ‘शरीरात् समुत्थाय’ इत्यस्य शरी­रा­द्वि­वे­क­ज्ञा­न­मर्थ इति दह­रा­धि­क­र­णो­क्ता­र्थ­स्वी­कारे तत्रा­प्यु­प­मा­न­भा­ग­वै­रूप्यं स्यादिति तत्परिहाराय शरी­रा­दू­र्ध्व­दे­शा­क्र­म­ण­मेव तदर्थो वाच्यः । अत­स्त­द­नु­सा­रे­णापि ‘परं ज्योति­रु­प­स­म्पद्य’ इत्यस्य आदि­त्य­प्रा­प्ति­रर्थो ग्राह्यः ; तस्य परशब्दादपि प्रथ­म­श्रु­त­त्वात् । एवञ्च समु­त्था­न­ज्यो­ति­रु­प­स­म्प­त्ति­श्रु­ती­ना­म­नु­ग्र­होऽपि लभ्यते । तस्मा­दु­प­मा­न­भा­ग­सा­रू­प्य­श्रु­ति­त्र­या­नु­ग्र­हा­नु­रो­धेन युक्तं परशब्दस्य कथ­ञ्चि­द­र्थ­व­र्ण­नम् ।

स्यादेतत् – प्रजापतिवाक्यं जीवस्य ब्रह्म­भा­व­प्र­ति­पा­द­न­परं नोपा­स­ना­वि­धि­प­र­मिति दर्शितं दहराधिकरणे । तत्र कः प्रस­ङ्ग­स्स­गु­ण­वि­द्या­फ­ल­प्रा­प्त्यु­पा­य­मा­र्ग­प­र्व­भू­ता­दि­त्य­प्रा­प्ति­व­र्ण­नस्य ? न च प्रकरणात् समु­त्था­ना­दि­श्रु­तयो बलीयस्य इति वाच्यम् । श्रुतीनां स्वार्थपरत्वे निष्फ­ल­त्व­प्र­स­ङ्गात् । न हि निर्गु­ण­वि­द्या­प्र­क­रणे तस्या­स्त्यु­प­योगः । नापि पञ्चा­ग्नि­वि­द्या­दि­गते विस्प­ष्टेऽ­र्चि­रा­दि­मा­र्गो­प­देशे जाग्रति तदे­क­दे­श­प­र्व­भू­ता­दि­त्य­मा­त्र­की­र्त­न­म­त्रत्यं कयाचन सगु­ण­वि­द्य­थाऽ­पे­क्ष्यते , यस्यामस्य पौष्णयागे पूषा­नु­म­न्त्र­ण­म­न्त्र­स्येव उत्कर्षः स्यात् । तस्मात् ‘आन­र्थ­क्य­प्र­ति­ह­तानां विपरीतं बलाबलम्’ इति न्यायेन श्रुति­त्र­या­द­प्य­द्वै­त­ब्र­ह्म­प्र­क­रणं बलवदिति चेत् ; स्यादेतदेवं यदि प्रजापतिवाक्यं जीवस्य ब्रह्म­भा­व­प्र­ति­पा­दकं स्यात् । तदेवासिद्धम् ; तस्य सगु­ण­ब्र­ह्मो­पा­स­ना­वि­धि­प­र­त्वात् । तथा हि – तत्र ‘य आत्मा’ इत्या­दि­प्र­थ­म­वाक्यं तावत् सगुणब्रह्मपरं , न जीवपरं ‘एष आत्माऽ­प­ह­त­पाप्मा’ इत्या­दि­द­ह­र­वा­क्या­र्था­नु­वा­द­रू­प­त्वात् । अक्षिवाक्यमपि तथा ; उप­को­स­ल­वि­द्यो­पा­स्य­प्र­त्य­भि­ज्ञा­नात् । एवं च स्वप्न­सु­षु­प्ति­वा­क्य­द्व­य­मपि तथैव ।

ननु स्वप्न­सु­षु­प्ति­स­म्ब­न्ध­लि­ङ्गा­ज्जी­व­प­रत्वं तयोर्युक्तम् । दह­र­वि­द्या­प्र­क­रणे ‘तद्य­त्र­त­त्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति’(छा. ८. ६. ३) इति जीवपरत्वेन निर्णीतं यत् सुषुप्तिवाक्यं तदेवात्रापि श्रूयत इति तत्प्र­त्य­भि­ज्ञा­ना­दपि जीवपरत्वं युक्तमिति चेत् । मैवम् । प्रति­प­र्या­य­मु­प­क्रमे ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’(छा. ८. ११. ३) इति प्रति­ज्ञा­यो­प­सं­हारे अमृ­त­त्वा­भ­य­त्व­लि­ङ्ग­ब्र­ह्म­श्रु­तीनां श्रवणेन च बह्व­नु­ग्र­ह­न्या­या­नु­रो­धेन जीवलिङ्गयोः कथ­ञ्चि­न्ने­त­व्य­त्वात् । अस्ति हि ब्रह्मणोऽपि स्वप्नसम्बन्धः ‘स्वप्ने न शारी­र­म­भि­प्र­ह­त्या­सुप्तः सुप्ता­न­भि­चा­क­शीति’(बृ. ४. ३.११) इति श्रुत्य­न्त­र­प्र­सिद्धः । स एवात्र ग्राह्यः । एवञ्च मही­य­मा­न­त्व­लि­ङ्ग­म­प्या­ञ्जस्यं लभते । सुषुप्तिवाक्यं तु यत्र यस्मिन्नाधारे समस्तोऽपि जन्तुस्सुषुप्तो भवतीति सुषु­प्ता­धा­र­ब्र­ह्म­प­र­तया नेतव्यम् ।

नन्वेवं सति स्वप्न­प­र्या­यो­प­दे­शा­न­न्तरं स्वप्ना­व­स्थ­जी­वस्य भय­शो­का­दि­द­र्श­ना­द­प­ह­त­पा­प्म­त्वा­दि­ध­र्म­का­मृ­ता­भ­य­ब्र­ह्म­भा­वोऽ­नु­प­पन्न इति शङ्का सुषु­प्ति­प­र्या­यो­प­दे­शा­न­न्तरं सुषुप्तस्य जीवस्यापि नष्ट­प्रा­य­त्वा­दु­क्त­रू­प­ब्र­ह्म­भा­वोऽ­नु­प­पन्न इति चेन्द्रकृता शङ्का निरवकाशा स्यादिति चेत् ; नैष दोषः । यथाऽक्षिपर्याये छायापुरुष उपदिष्ट इती­न्द्र­वि­रो­च­न­यो­र्भ्रान्तिः , यथा च प्रति­बि­म्बा­वे­क्षणे विरोचनस्य देह उपदिष्ट इति भ्रान्तिः , तथा स्वप्न­सु­ष­प्ति­प­र्या­य­यो­र्जीव उपदिष्ट इतीन्द्रस्य भ्रान्तिरिति कल्पनोपपत्तेः । अत एव ‘एतन्त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि नो एवा­न्य­त्रै­त­स्मात्’ इति प्रति­ज्ञा­पू­र्व­क­मु­प­क्रान्ते चतुर्थपर्याये जीवस्य ब्रह्मभाव उपदिष्ट इति इन्द्र­भ्रा­न्ति­वा­र­णा­यैव ‘तं वा एतं देवा आत्मानमुपासते’(छा.८.१२.६) इति सगुणोपासनं तत्फलञ्च जक्ष­ण­क्री­डा­दि­क­मु­प­व­र्णि­तम् । न च जक्षणादिकं दह­रा­धि­क­र­णो­क्त­रीत्या कथञ्चिन्नेतुं युक्तम् । सुषु­प्ति­प­र्या­यो­प­दे­शा­न­न्तरं ‘नाह खल्वयमेवं सम्प्र­त्या­त्मानं जाना­त्य­य­म­ह­म­स्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति । नाहमत्र भोग्यं पश्यामि’(छा. ८.११.२) इत्युक्तवतः स्वात्मानं भूतानि चाविजानन्तं सुषुप्तं जीवं विन­ष्ट­प्रा­य­म­पु­रु­षार्थं च मन्य­मा­न­स्ये­न्द्रस्य सविशेषफलमनिष्टं मत्वा ‘एवमेवैष मघवन्’ इत्युक्तवता ‘सर्वांश्च लोकनाप्नोति सर्वांश्च कामान्’(छा. ८.१२. ६) इति स्वोक्त­फ­ला­भि­ला­षे­णेन्द्रः समागत इत्यवगच्छता च प्रजापतिना सविशेषफलस्यैव वक्तव्यत्वात् सक­ल­लो­क­का­मा­वा­प्ति­फ­लस्य उप­क्र­मो­प­सं­हा­रयोः श्रुतत्वेन तत्र तात्प­र्या­व­ग­माच्च । तस्मादत्रादित्य एव ज्योतिः ।

एवं प्राप्ते राद्धान्तः । ज्योतिरिह परं ब्रह्म ; ब्रह्मणो वक्त­व्य­त्वे­नात्र प्रक­र­णेऽ­नु­वृ­त्ति­द­र्श­नात् । इह हि ‘य आत्माऽ­प­ह­त­पाप्मा’(छा. ८. ७. १) इत्यादि ‘यस्त­मा­त्मा­न­म­नु­विद्य विजानाति’(छा. ८.७. १) इत्यन्तं प्रजापतिवचनं जगति प्रसि­द्ध­मा­क­र्ण्या­न्वे­ष्ट­व्या­त्म­रू­प­वि­जि­ज्ञा­स­यो­प­से­दि­वद्भ्यां द्वात्रिशतं वर्षाणि कृत­शु­श्रू­ष­णा­भ्या­मि­न्द्र­वि­रो­च­नाभ्यां प्रजा­प­ति­र­क्षि­वा­क्ये­ना­त्मा­न­मु­प­दिश्य च्छायापुरुष आत्मेत्युपदिष्ट इति भ्रान्त्या स्वगृ­ही­ता­र्थ­दृ­ढी­क­र­णाय जला­द­र्शा­दि­प्र­ति­बि­म्बोऽ­प्य­क्षि­प्र­ति­बि­म्बा­भि­न्ना­त्मैव उत तद्भि­न्नोऽ­ना­त्मे­त्य­भि­प्रा­येण ‘अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एषः’(छा., ८ , ७. ४) इति ताभ्यां पृष्टे ‘एष उ एवैषु सर्वेष्वन्तेषु परिख्यायते’(छा. ८. ७. ४) इत्यनेन ताभ्यां गृहीतमर्थं मनसि निधाय बिम्बाभिन्नः प्रतिबिंबः प्रत्युपाधि न भिद्यत इति वा स्वोपदिष्टमर्थं मनसि निधाय यश्चक्षुषि द्रष्टा मयोक्तः स सर्वान्तरो जलादिष्वपि न भिद्यत इति चोत्तरं ददौ । तस्यायमभिप्राय: – सुरा­सु­रे­न्द्रा­वि­न्द्र­वि­रो­चनौ स्वात्म­न्य­ध्या­रो­पि­त­पा­ण्डि­त्य­म­ह­त्वा­ति­शयौ तथैव जगति प्रसिद्धौ च तद्यदि युवां भ्रान्ताविति ब्रूयां तदा चित्ता­व­सा­दा­त्पुनः प्रश्न­ग्र­ह­णा­व­धा­र­णेषु भग्नोत्साहौ स्याताम् । अतो यथा­श्रु­त­प्र­श्न­मा­त्र­स्यो­त्त­र­मि­दानीं वक्तव्यं तेना­क्षि­प्र­ति­बिं­बा­भिन्नो जला­दि­प्र­ति­बिम्बो ह्यात्मेत्यत्र तात्पर्यमिति तत्ता­त्प­र्य­भ्र­मेण प्रागुत्पन्नः प्रतिबिम्ब आत्मेत्युपदिष्ट इति तयोर्भ्रमो दृढीभवन्नुपायेन केनचिदपनेतव्य इति । तद्भ्र­मा­प­न­या­र्थ­मेव तदनन्तरं ‘उदशराव आत्मा­न­म­वे­क्ष­ताम्’ इति तौ नियुज्य द्वात्रिं­श­द्व­र्ष­ब्र­ह्म­च­र्य­दी­र्घी­भू­त­न­ख­रो­मा­दि­यु­क्त­च्छा­या­पु­रु­ष­द­र्श­ना­न­न्तरं ‘साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वा पुन­रा­त्मा­न­मु­द­श­रावे पश्यतम्’ इति न्ययोजयत् ।

तत्रैवं प्रजा­प­ते­र­भि­संधिः – आग­मा­पा­य्य­व्य­व­स्थि­त­दे­हा­नु­का­रि­गु­ण­दो­ष­व­त्त्वा­द्देह इव तत्प्र­ति­बिं­बो­प्य­ना­त्मेति जानीतामिति । एवं सत्यपि तावनिवृत्तभ्रमौ ‘किं पश्यथ’ इति प्रजापतिना पृष्टावपि यथादृष्टं कथयित्वा तूष्णीं बभूवतुः । ततः प्रजा­प­ति­भ्रा­न्ति­नि­वा­र­णार्थं मया कृतस्य द्विवि­ध­प्र­ति­बिं­ब­द­र्श­न­स्या­भि­प्रा­य­मि­मा­व­प्र­क्षी­ण­क­ल्म­ष­त्वा­न्ना­व­ग­च्छतः , प्रत्यक्षं च युवां भ्रान्ताविति वक्तुर्हो न भव­त­स्त­दि­दा­नी­मे­त­दी­य­हृ­द­या­नु­रो­धेन प्रतिबिंबमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसि निधाय ‘एष आत्मा’ इत्यु­प­दे­श­नै­त­यो­रा­कांक्षां निवर्तयिष्यामि ; कालेन कल्मषे प्रक्षीणे मद्वचनसंदर्भस्य सर्व­स्या­प्य­भि­प्रायं स्वय­मे­वा­व­ग­मि­ष्यतः , विचिकित्समानौ वा मत्स­मी­प­मा­ग­मि­ष्यतः इति मत्वोवाच ‘एष आत्मा एत­द­मृ­त­म­भ­य­मे­त­द्ब्रह्म’ इति । तत­श्चे­न्द्र­वि­रो­च­न­यो­र्नि­वृ­त्ता­कां­क्ष­तया प्रतिनिवृत्तयोः प्रजा­प­ति­र्भ्रा­न्ति­गृ­ही­ता­र्थ­श्र­द्ध­याऽपि नष्टौ माभूतामिदमपि मम वचनं ‘य आत्मा’ इत्या­दि­व­च­न­व­त्क­र्णा­क­र्णि­कया श्रुणु­ता­मि­त्य­भि­सं­धा­यो­वाच ‘अनु­प­ल­भ्या­त्मा­न­म­न­नु­विद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्ति’(छा.८.८.४) इति । तयोर्विरोचनः प्राजापत्यस्य द्विवि­ध­दे­ह­च्छा­या­द­र्श­न­नि­यो­गस्य देहा­नु­का­रि­त्वा­च्छा­याया देह आत्मेति सूचने तात्प­र्य­म­लं­कृ­त­दे­ह­च्छायां निर्दिश्यैष आत्मे­त्यु­प­दे­शस्य नीला­नी­ल­यो­रा­दर्शे दृश्य­मा­न­यो­र्वा­स­सो­र्य­न्नीलं तन्मम महार्हमिति वचनस्य छायानिमित्ते बिंबवाससी वालंकृते देहे तात्पर्यमिति मन्वानो देह एवा­त्माऽ­ल­ङ्का­रा­दिभिः परिचरणीय इति निश्चित्य राज्यं प्राप्या­सु­रे­भ्य­स्त­थै­वो­प­दे­ष्टु­मु­प­च­क्रमे । असुराश्च तदुपदेशं श्रद्दधाना देह­प­रि­च­र्या­या­मेव प्रववृतिरे ।

इन्द्रस्तु ताव­त्क­ल्म­ष­र­हि­त­तया देहस्य छाया यथा देह­गु­णा­लं­कृ­त­त्वा­दी­न­नु­वि­धत्ते एवं तद्दो­षा­न­प्या­न्ध्य­स्रा­म­च्छे­द­वि­ना­शा­दी­निति तत्रा­त्म­ल­क्ष­ण­वि­र­ह­म­मृ­ता­भ­य­ब्र­ह्म­भा­वा­नु­प­प­त्ति­च्चा­नु­सं­द­धा­नोऽ­क्षि­वा­क्यस्य प्रतिबिम्बं निर्दिश्य ‘एष आत्मा’ इति वचनस्य च तात्पर्यं जिज्ञासमानो मार्गा­त्प्र­ति­नि­वृत्य पुनः प्रजापतिमुपससाद । प्रजापतिः ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि वसापराणि द्वात्रिंशतं वर्षाणि’(छा. ८. ९. ३) इत्युक्त्वा ताव­त्का­ल­मु­षि­त­वते तस्मै स्थूल­श­री­र­दो­षा­न­नु­वि­धा­यिनं स्वप्नावस्थं जीव­मा­त्मा­न­मु­प­दि­देश । इन्द्रस्तत्रापि हन्य­मा­न­त्व­द्रा­व्य­मा­ण­त्व­ब­न्ध­न­म­र­णा­द्य­प्रि­य­द्र­ष्टृ­त्व­रो­दि­तृ­त्वा­दि­प्र­ति­भा­सेन दोषं पश्य­नु­क्ता­र्था­नु­प­प­त्ति­म­नु­स­न्द­धानः प्रजापतिं पुनरुपससाद । प्रजापतिः पूर्ववदुक्त्वा तथैव पुनरपि द्वात्रिंशतं वर्षाण्युषितवते तस्मै स्वप्ना­व­स्था­दि­प्र­ति­भा­स­प्र­यु­क्त­भ­य­शो­क­र­हितं सुषुप्तावस्थं जीव­मा­त्मा­न­मु­प­दि­देश । इन्द्र­स्त­स्मि­न्वि­शे­ष­वि­ज्ञा­न­र­हिते विन­ष्ट­प्रा­य­त्वे­ना­पु­रु­षा­र्थतां मन्यमानः प्रागु­क्ता­र्था­नु­प­प­त्त्य­नु­सं­धा­नेन पुनरपि प्रजापतिमुपससाद । ‘प्रजापतिः एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि नो एवा­न्य­त्रै­त­स्मा­द्व­सा­प­राणि पञ्च वर्षाणि’(छा. ८.११. ३) इत्युक्त्वा ताव­त्का­ल­मु­षि­त­वते एक­श­त­व­र्ष­ब्र­ह्म­च­र्य­वा­सेन सम्य­क्प्र­क्षी­ण­क­ल्म­षा­ये­न्द्राय पूर्वपर्यायानपि सङ्ग­म­य­न्नु­प­दे­ष्टु­मु­प­च­क्रमे – ‘मघवन्मर्त्यं वा इदं शरीरमाप्तं मृत्युना’(छा. ८. १२. १) इत्यादिना प्रथमपर्याये प्रतिबिम्ब उपदिष्ट इति संजातेन्द्रस्य भ्रान्तिः द्विती­य­तृ­ती­य­प­र्या­ययोः स्वप्न­सु­षु­प्त्य­व­स्थो­प­न्या­स­लि­ङ्गेन , प्रथमपर्यायेऽपि ‘अक्ष्णि दृश्यते’ इत्यनेन दर्श­न­लि­ङ्गा­दक्ष्णि सन्नि­हि­तोऽ­नु­मी­यत इत्यर्थकेन जागरावस्थो जीव उपदिष्ट इत्यवगत्या निवर्तितैव । किन्तु स्वप्नावस्थजीवे भय­शो­का­दि­म­त्त्व­दोषं पश्यत इन्द्रस्य तत्रापि तद्दोषदर्शनं स्यादिति मन्यमानः प्रजापतिः स्वप्न­जा­ग­र­यो­र्जीवो भयशोकादिमानिति तद्भ्रा­न्ति­वा­रणं तावत्करोति – इदं शरीरं स्थूल­सू­क्ष्म­दे­ह­द्वयं मरणधर्मकं मृत्युना राग­द्वे­ष­शो­क­भ­या­द्य­न­र्थ­जा­तेन आस्कंदितमिति । तेन जीवस्य साक्षा­त्सं­ब­न्धेन संसारदोषवत्त्वं व्यावर्तितम् । ‘तद­स्या­मृ­त­स्या­श­री­र­स्या­त्मनो अधिष्ठानम्’(छा. ८. १२. १) इत्य­त्रा­श­री­र­स्येति विशेषणेन कर्दमलिप्तस्य वस्त्रस्य कर्दमकायेन कार्ष्ण्य­दो­ष­व­त्व­मिव पर­से­ना­वि­जि­त­सै­न्यस्य राज्ञः विजितदोषवत्वमिव च देहद्वये संसारदोषाश्रये सति तद्वा­र­क­प­रं­प­रा­स­म्ब­न्धेन तत्स्वामित्वेन वा जीवस्यापि प्रसक्तं संसारदोषवत्त्वं व्यावर्तितम् ।

एवञ्च जीवस्य शरीरेण वस्तुतः कोऽपि संबन्धो नास्तीति तस्य तदी­यै­र्ज­रा­म­र­ण­शो­क­भ­या­दि­दो­षै­स्त­द्व­त्त्वा­नु­भवो ‘लोहितः स्फटिकः’ इत्यनुभव इवाध्यासरूप इति परि­शे­षा­द्ध­र्शितं भवति । कथं जीवस्य शरी­र­स­म्ब­न्धा­भावः ‘मम देहः’ ‘मम मनः’ इत्या­द्य­नु­भ­व­द­र्श­ना­दि­त्या­शंक्य तस्या­ध्या­स­प­रि­नि­ष्पन्नं विषयं दर्श­यि­तु­मा­त्म­नोऽ­धि­ष्ठा­न­मिति शरीरं विशेषितम् । अशरीरस्य सतः सशरीरत्वोक्त्या हि तस्य सश­री­र­त्व­म­ध्या­स­नि­ष्पन्नं लोकानुभवगोचर इति दर्शितं भवति ; अशरीरत्वेन विरोधिना सश­री­र­त्वो­प­म­र्दा­व­श्य­म्भा­वात् । न च – अंगु­ष्ठा­धि­क­र­ण­न्या­या­दिह विधेयेन सश­री­र­त्वे­नै­वा­श­री­र­त्वो­प­मर्दः स्यादिति – वाच्यम् । लोकसिद्धस्य सशरीरत्वस्य विध्यनर्हतया तदनूद्य तदु­प­म­र्दे­ना­श­री­र­त्व­वि­धाने तात्प­र्यो­न्न­य­नात् । एवं ‘‘अशरीरं शरीरेषु अन­व­स्थे­ष्व­स्थि­तम्’(क. १. २. २१) इति श्रुतेरपि तात्पर्य द्रष्टव्यम् । न च श्रुति­द्व­येऽ­प्य­श­री­र­मिति शरी­रा­न्य­त्व­मु­च्यत इति वाच्यम् । अस्यां श्रुतावात्मनः शरी­रा­धि­ष्ठा­तृ­त्व­स्या­श­री­र­मिति श्रुता­वे­क­स्या­त्म­नोऽ­ने­क­श­री­रा­नु­स्यू­त­त्वस्य च कथनेन तस्य शरी­रा­न्य­त्व­सिद्धेः । एवं जरामरणभयशोकादयः शरीरद्वयस्य धर्माः ; न जीवस्य , शरी­र­द्व­य­स­म्ब­न्धश्च जीव­स्या­ध्या­स­कृतो न स्वाभाविक इति प्रदर्शनेन जीवस्य साक्षा­द्ध­र्म­ध­र्मि­भा­व­स­म्ब­न्धेन , शरी­र­द्व­य­द्वा­र­क­प­र­म्प­रा­स­म्ब­न्धेन वा स्वस्वा­मि­भा­व­स­म्ब­न्धेन वा जरा­म­र­ण­भ­य­शो­का­दि­मत्त्वं नास्तीति स्वप्न­जा­ग­र­यो­स्त­स्या­मृ­ता­भ­य­ब्र­ह्म­भा­वा­नु­प­प­त्ति­र्नि­रस्ता ।

अथ सुषुप्तौ तस्य तद­नु­प­प­त्ति­श­ङ्का­नि­रा­सार्थं सशरीरत्वं संसा­र­दो­ष­नि­दा­न­म­श­री­रत्वं तद्विरोधीति दर्शयति – ‘आर्तो वै सशरीरः प्रिया­प्रि­याभ्यां , न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति ; अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. ८. १२. १) इति । अशरीरत्वादेव संसा­र­दो­ष­रा­हित्यं वायो­र­भ्र­वि­द्यु­त्स्त­न­यि­त्नू­ना­ञ्चे­त्यु­दा­ह­र­ण­प्र­द­र्श­न­रू­पे­णा­र्थ­वा­दे­ना­श­री­र­त्वस्य संसा­र­दो­ष­वि­रो­धित्वं दृढीकरोति ‘अशरीरो वायुरभ्रं विद्यु­त्स्त­न­यि­त्नु­रि­त्ये­तानि’(छा. ८. १२. २) इति । एतेन – सशरीरो भूत्वा स्वात्मनो भूता­ना­ञ्चा­नु­भ­वेन यत् प्रियं लभते स एव पुरु­षा­र्थ­स्त­द्र­हि­तोपि नष्टप्रायः सुषु­प्त­जी­व­स्त्व­पु­रु­षार्थ इतीन्द्रस्य भ्रान्तिस्तस्य प्रिय­स्या­प्रि­य­सं­पृ­क्त­स्व­भा­व­तया हेय­त्व­प्र­द­र्श­नेन – निरस्ता । एवञ्च पूर्वं तत्र तत्रामृतशब्देन यद्भूमाख्यं निर­ति­श­य­सु­ख­रू­प­मुक्तं तदेव सक­ला­न­र्था­ध्या­स­नि­वृ­त्ता­वा­वि­र्भूतं परमपुरुषार्थ इत्युक्तं भवति । तस्ये­दा­नी­म­ध्या­स­ति­रो­हि­तस्य कथमाविर्भाव इत्याकांक्षायां तत्प्रकारः सदृष्टान्त उच्यते – ‘यथै­ता­न्य­मु­ष्मा­दा­का­शात्’(छा. ८. १२. २) इत्यादिना ‘स उत्तमः पुरुषः’(छा. ८. १२. ३) इत्यन्तेन । अत्र शरी­रा­त्स­मु­त्थानं न शरी­रा­दू­र्ध्व­मु­त्क्र­म­णम् , किन्तु शरीरादात्मनो विवेकः ; लोकदृष्ट्या सशरीरस्यापि ज्ञानिनो विवे­क­ज्ञा­नो­प­नेयं यदशरीरत्वं तस्यैव संसारविरोधितया प्राक् प्रस्तुतत्वात् । नचो­प­मा­न­वै­रू­प्य­दोषः ; आका­शा­त्स­मु­त्था­न­स्यापि ततो विवेकरूपत्वात् ; पुरो­वा­ता­दि­स्थू­ल­रूपं विहाय सौक्ष्म्ये­णा­का­श­साम्यं प्राप्ता हि वाय्व­भ्र­वि­द्यु­त्स्त­न­यि­त्नवः स्वर्गा­द­व­रो­हन्तो जीवा वाय्व­भ्र­मे­घ­व्री­हि­य­वा­दि­का­दिव आकाशाद्विविच्य ग्रहीतुमशक्यतया स्थिताः पुनः प्रावृडारम्भे किश्चिदुछ्वसनेन ततो विविक्ता भवन्ति ।

किञ्च समु­त्था­न­स्यो­प­मा­नो­प­मे­य­यो­र्भि­न्न­भि­न्न­रू­प­त्वेऽपि न दोषः । समा­न­ध­र्मि­नि­र्दे­शस्य तत्त­द्यो­ग्य­मु­ख्य­गौ­णा­र्थ­भे­द­प­र्य­व­सा­नेऽपि शब्दै­क्य­मा­त्रे­णो­प­मा­नि­र्वा­हस्य ‘पङ्कजैरिव कुमा­र­मी­क्ष­णै­र्वि­स्म­येन विक­चै­र्व­वु­र्जनाः’ इत्यादिकाव्येषु प्रचु­र­त­र­मु­प­ल­म्भात् , वेदेऽपि ‘यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ इत्यादौ दर्शनाच्च । न हि निपत्य मत्स्याद्यादानं श्येनपक्षिण उपमानस्येव निपत्य भ्रातृव्यादानं श्येनाख्यस्य यागस्योपमेयस्य मुव्यं सम्भवति । एवञ्च ‘परं ज्योति­रु­प­स­म्पद्य’ इत्यनेन देह­द्व­य­त­द्ध­र्मा­स्पृ­ष्ट­शु­द्ध­जी­व­वि­ष­य­वि­वे­क­ज्ञा­ना­त्म­क­त्वं­प­दा­र्थ­प­रि­शो­ध­ना­न­न्त­र­भा­वि­जी­व­स्व­रू­प­भू­त­प­र­ब्र­ह्म­सा­क्षा­त्कार एवं प्रकरणानुराधेन वक्तव्यः । प्राप्ति­वा­च­क­स्यापि शब्दस्य ‘गुरोरयमर्थः प्राप्तः’ इति ज्ञाने प्रयोगदर्शनात् विशिष्य च वेदान्तमूले ब्रह्मज्ञाने तथा­भू­त­स्यो­प­नि­ष­च्छ­ब्दस्य प्रयोगदर्शनात् । ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इत्यु­क्त्त­स्व­रू­पा­भि­नि­ष्प­त्तिस्तु उक्त­रू­प­सा­क्षा­त्का­र­नि­व­र्ति­त­स­क­ला­न­र्थ­जा­त­स्या­पे­त­जी­व­भा­वस्य जीवस्य निर­ति­श­य­सु­खा­त्म­क­प­र­ब्र­ह्म­भा­वे­ना­व­स्था­न­मिति ।

नन्वनया रीत्या यदि प्रजा­प­ति­वा­क्य­जातं जीवस्य ब्रह्म­भा­व­प्र­ति­पा­दकं स्यात्तदा ज्योतिरिह परं ब्रह्म स्यादेव ; न त्वेवम् ; तस्य सगु­ण­ब्र­ह्मो­पा­स­ना­वि­धि­प­र­त्वस्य उक्तत्वात् , इति चेत् ; सत्यमुक्तम् । दुरुक्तं तु तत् । तथासति स्वप्न­सु­षु­प्ति­प­र्या­य­यो­र्भ­य­शो­क­वि­न­ष्ट­क­ल्प­त्व­दो­षो­द्धा­ट­न­म­नु­प­पन्नं स्यात् । न चेन्द्रस्य तत्तदवस्थापन्नो जीव उपदिष्ट इति भ्रान्तिः कल्पनीया । तथात्वे तद्भ्रा­न्ति­वा­र­णो­प­यो­गिन एव चतुर्थपर्याये प्रजापतिना उप­दे­ष्ट­व्य­त्वा­पत्तेः । न तु तदुपदिष्टम् ; किन्तु तस्यैव जीव­स्या­मृ­ता­भ­य­ब्र­ह्म­भा­वा­नु­प­प­त्ति­श­ङ्का­वा­र­णो­प­यो­गिनो मरणशोकभयादीनां देहद्वयधर्मत्वं तस्य देह­द्व­य­स­म्ब­न्ध­रा­हित्यं तत्स­म्बं­धा­ध्या­सा­धी­न­प्रि­या­प्रि­य­क­रं­बि­त­त्वेन हेयत्वं स्वरूपसुखस्यैव पर­म­पु­रु­षा­र्थ­त्वञ्च उपदिष्टम् । न च ‘एष उ एव एषु सर्वेष्वन्तेषु परिख्यायते’(छा. ८. ७.४) इति वच­न­व­त्प्र­ति­बिंबं निर्दिश्य ‘एष आत्मा’ इति वचनवच्च शिष्य­भ्रा­न्ति­म­नु­द्घाट्य किञ्चि­द­न्य­न्म­नसि निधाय वचनमिति योजयितुं शक्यम् । शोक­भ­या­दी­ना­मा­त्म­ध­र्म­त्व­मिति भ्रान्तेः , विषयभोगानामेव पुरु­षा­र्थ­त्व­मिति भ्रान्तेश्च निवर्तनेन जाग­र­स्व­प्न­सु­षु­प्तिषु जीव­स्या­मृ­ता­भ­य­ब्र­ह्म­भा­वो­प­पा­द­नात् । एवमपि कथञ्चिदन्यथा नीयेत यदि पूर्वं भ्रान्ति­गृ­ही­त­मे­वार्थं दृढीकृत्य निवृ­त्त­यो­रि­न्द्र­वि­रो­च­नयोः ‘अनु­प­ल­भ्या­त्मा­न­म­न­नु­विद्य व्रजतः’(छा. ८. ८. ४) इति प्रजापतिवचनमिव विरो­च­न­कृ­त­भ्रा­न्ति­गृ­ही­त­दे­हा­त्म­वा­द­प्र­व­र्त­नो­क्त्य­न­न्तरं ‘अश्र­द्द­धा­न­म­य­ज­मा­न­मा­हु­रा­सुरो बतेत्यसुराणां ह्येषोपनिषत्’(छा. ८. ८. ५) इति तन्निन्दावचनमिव इन्द्रस्य विचिकित्सया पुन­र्गु­रू­प­स­द­न­व­च­न­मिव चाग्रे किञ्चि­दे­त­द­प­वा­दकं श्रूयेत । तस्मात् ‘हेयत्वावचनात्’ इति सूत्रो­क्त­न्या­येन स्वप्न­सु­षु­प्ति­प­र्या­य­यो­र्जी­वस्य ब्रह्म­भा­व­प्र­ति­पा­द­न­प­रत्वं विफ­ल­मि­त्य­क्षि­वा­क्य­स्या­प्यु­प­को­स­ल­वि­द्या­वा­क्य­प्र­त्य­भि­ज्ञा­म­वि­ग­णय्य तदे­क­वा­क्य­ता­सं­र­क्ष­णाय जाग­रा­व­स्थो­प­ल­क्षि­तस्य जीवस्य ब्रह्म­भा­व­प्र­ति­पा­दने तात्प­र्य­म­ङ्गी­क­र्त­व्यम् ।

यद्यपि ‘य आत्माऽ­प­ह­त­पाप्मा’ इत्या­दि­प्र­थ­म­वाक्यं दह­र­वि­द्यो­पा­स्य­स­गु­ण­ब्र­ह्म­प­र­मेव ; तत्पदेन प्रकृतस्य तस्यानुवादात् , छांदोग्यभाष्ये ‘यस्योपासनाय हृद­य­पु­ण्ड­री­क­म­भि­हितं यस्मिन्कामाः समाहिताः सत्या अनृतापिधानाः यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तं यदु­पा­स­न­फ­ल­भू­त­का­म­प्रा­प्तये च मूर्धन्यनाड्या गतिरभिहिता’ इति तस्य यत्पदस्य प्रकृ­त­द­ह­र­वि­द्यो­पा­स्य­प­र­मे­श्व­र­प­र­तया व्याख्या­त­त्वाच्च , तथापि पर­मे­श्व­व­भा­वो­प­ल­क्षि­त­ब्र­ह्म­भाव एव जीवस्य ‘तत्त्वमसि’ वाक्यै­रि­वा­क्षि­वा­क्या­दि­भि­रु­प­दि­श्यत इति किमनुपपन्नम् ? नन्वेवं सति प्रजा­प­ति­वि­द्यायां जीव­स्या­प­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्टकं क्वचिदपि नोच्यत इति आयातम् ; ‘य आत्मा’ इत्यादेः पर­मे­श्व­र­प­र­त्वात् ‘एष आत्मेति होवाच’ इत्यस्य गुण­वै­शि­ष्ट्यां­श­म­पोह्य प्रकृ­त­प­र­मे­श्व­र­रू­पा­त्म­स्व­रू­पा­भे­द­मा­त्र­बो­ध­न­प­र­त्वात् । एवञ्च कथं ‘उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु’(ब्र. सू. १. ३. १९) इति सूत्रे जीवस्यापि प्रजा­प­ति­वा­क्या­व­ग­त­म­प­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्ट­क­म­स्तीति शङ्का कृता ? न च वाच्यम् – ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इत्यत्र जीव­स्या­प­ह­त­पा­प्म­त्वा­दि­रू­पे­णा­वि­र्भाव उच्यत इति तदवलंबना शङ्का ; अत एवा­वि­र्भू­त­स्व­रू­प­स्या­पे­त­जी­व­भा­व­स्यो­च्य­मा­न­म­प­ह­त­पा­प्म­त्वा­दिकं ब्रह्मण एव न जीवस्येति न तस्य ब्रह्म­लि­ङ्ग­ता­नु­प­प­त्ति­रिति परिहारोऽपि सङ्गच्छते इति । यतो जीवस्य यत्स्वरूपं प्रागुक्तं तेन रूपे­णा­वि­र्भा­व­स्त­त्रो­च्यते । न च गुणाष्टकं जीवरूपत्वेन प्रागुक्तं , किन्तु निर­ति­श­या­न­न्द­रू­प­नि­र­स्ता­न­र्थ­व्रा­त­शु­द्ध­ब्र­ह्म­भाव एव तद्रू­प­त्वे­नोक्तः । किञ्च ‘स्वेन रूपेण’ इत्यत्र स्वशब्द आत्मपरः न त्वात्मीयपर इति ‘सम्प­द्या­वि­र्भा­व­स्स्वेन शब्दात्’(ब्र. सू. ४. ४. १) इत्यधिकरणे निर्णेष्यते । न च सत्यकामत्वं सत्य­स­ङ्क­ल्प­त्वञ्च जीवस्य स्वात्मकं रूपम् ; कामशब्दोदितानां काम­ना­वि­ष­य­सृ­ज्य­प­दा­र्थानां सङ्क­ल्प­श­ब्दो­दि­तस्य तत्सृ­ष्टि­हे­तु­मा­या­वृ­त्ति­वि­शे­षस्य वस्तु­स्व­रू­प­ब­हि­र्भू­त­त्वा­दिति चेत् –

उच्यते – दहराधिकरणे दहरविद्योपास्यो जीव इति पूर्वपक्षदशायां सा शङ्का कृता । न च तस्यां दशायां ‘य आत्माऽ­प­ह­त­पाप्मा’ इत्यादेः पुरोवादानुसारेण विषयो निर्णेतुं शक्यत इत्य­क्षि­प­र्या­या­दि­वा­क्य­शे­षा­नु­सा­रेण तस्य जीवो विषय इत्याश्रित्य सा शङ्का कृता । परिहारोऽपि पूर्व­प­क्ष्या­श­य­म­भ्यु­प­गम्य जीवस्य गुणा­ष्ट­क­मु­च्यतां नाम , तथापि तत्तस्य जैवेन रूपेण नोच्यते , किन्तु मुक्तिप्राप्येण ब्राह्मेण रूपेणति न गुणाष्टकस्य ब्रह्म­लि­ङ्ग­त्वा­नु­प­प­त्ति­रिति वर्णितः । अत एव ‘उत्तराच्चेत्’ इति सूत्रे परिहारभाष्यं ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयेनं जीवं व्याचष्टे , न जैवेन रूपेण । यत् तत्परं ज्योति­रु­प­स­म्प­त्तव्यं श्रुतं तत् परं ब्रह्म । तच्चा­प­ह­त­पा­प्म­त्वा­दि­ध­र्म­कम् । तदेव च जीवस्य पारमार्थिकं स्वरूपं ‘तत्त्वमसि’ इत्या­दि­शा­स्त्रेभ्यः , नेत­र­दु­पा­धि­क­ल्पि­त­मिति ।

वस्तु­त­स्त्वे­व­मत्र वक्तुं शक्यम् – दह­र­वि­द्या­या­म­सं­कु­चि­त­म­ति­रो­हि­त­ञ्चो­पा­स्य­गतं सत्य­का­म­त्वा­दि­क­म­ङ्गी­क­र­णी­यम् ; सङ्कोचे तिरोधाने च मानाभावात् । तत्तु जीवस्य कथमपि न सम्भवतीति तत एव दहरविद्योपास्य ईश्वरः । स एव च ‘य आत्मा’ इत्या­दि­प्र­जा­प­ति­वा­क्ये­ना­नु­वाद्यः । तद्रूपत्वं च जीवस्य ‘एष आत्मा’ इति वाक्येन ‘तत्त्वमसि’ वाक्येनेव गुण­वै­शि­ष्ट्यां­श­म­पो­ह्यैव प्रतिपाद्यते । ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इत्यत्र च जीवस्य यत् स्वात्मकं रूपं प्रागु­क्त­म­मृ­ता­भ­य­ब्र­ह्म­भा­व­रूपं तेनाविर्भाव उच्यते , न तु स्वरू­प­ब­हि­र्भू­तेन गुणाष्टकेनेति प्रजा­प­ति­वि­द्यायां न केनापि वाक्येन जीवस्य गुणा­ष्ट­क­सि­द्धि­रिति ।

सूत्रे परि­हा­रां­शोऽ­प्ये­व­मेव योजयितुं शक्यः – ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इत्यत्र जीव आवि­र्भू­ता­मृ­ता­भ­य­ब्र­ह्म­स्व­रूप एवोच्यते , न त्वावि­र्भू­त­स्व­रू­प­ब­हि­र्भू­त­गु­णा­ष्टक इति । तुशब्देन च ‘य आत्मा’ इत्या­दि­प्र­थ­म­वा­क्येन ‘एष आत्मा’ इति वाक्येन च जीवस्य गुणा­ष्ट­क­सि­द्धि­शङ्का व्यावर्तनीया । परि­हा­र­भा­ष्य­म­प्ये­व­मेव योजयितुं शक्यम् । तच्चा­प­ह­त­पा­प्म­त्वा­दि­ध­र्मकं तद्ब्रह्म दह­र­वि­द्यो­पा­स्य­प­र­मे­श्व­र­रू­प­म­प­ह­त­पा­प्म­त्वा­दि­ध­र्मकं तदेव च गुण­वै­शि­ष्ट्यां­श­म­पोह्य पर­मे­श्व­र­स्व­रू­प­मा­त्र­मेव जीवस्य पार­मा­र्थि­क­स्व­रू­पम् ; ‘तत्त्वमसि’ इत्या­दि­भा­ग­त्या­ग­ल­क्ष­णा­यु­क्त­स्व­रू­प­मा­त्रा­भे­द­बो­ध­क­शा­स्त्रेभ्यः , नेत­र­त्स­त्य­का­म­त्वा­दि­क­मु­पा­धि­क­ल्पि­त­मिति । एवं सति प्रजा­प­ति­वि­द्यायां दह­र­वि­द्यो­पा­स्य­गु­णा­ष्ट­क­म­प­रा­मर्शो न ब्रह्म­ण्यु­पा­स­नार्थः ; तस्या­मु­पा­स­ना­वि­ध्य­न­ङ्गी­का­रात् । न तस्मि­न्न­व­ग­त्यर्थः ; मुक्त्यर्थतया निरू­प­णी­या­या­स्त­द­व­गतेः शुद्ध­ब्र­ह्म­वि­ष­य­त्वा­ङ्गी­का­रात् । जीवे मुक्ता­वा­वि­र्भ­वि­ष्य­त्तया तद्बोधनार्थोऽपि न भवति चेद्वै­य्य­र्थ्य­मेव प्राप्तम् । ‘तत्त्वमसि’ इत्युपदेशस्थले ब्रह्मणो जग­दु­पा­दा­न­त्वा­दि­व­र्ण­न­स्या­ध्या­रो­पा­प­वा­द­न्या­येन निष्प्र­प­ञ्च­त्व­बो­ध­ना­र्थ­त­ये­वात्र प्रकारान्तरेण सार्थ­क­त्वो­प­पा­द­ना­यो­गा­दि­त्या­श­ङ्का­प­रि­हा­रा­र्थ­त्वे­नापि ‘अन्यार्थश्च परामर्शः’(ब्र. सू. १. ३. २०) इति ‘उत्तराच्चेत्’ इति सूत्रा­न­न्त­र­सूत्रं योजनीयम् ।

मुक्त्यर्थं ब्रह्मणि गुण­वै­शि­ष्ट्यां­श­म­पो­ह्या­व­ग­न्त­व्येपि तदी­य­गु­णा­ष्ट­क­प­रा­मर्शः प्रवृ­त्ति­रु­च्यु­त्पा­द­नार्थः । अस्यां निर्गु­ण­वि­द्यायां प्रवर्तनीया हि देवादयः प्रायेण भोगासक्ता निरन्तरायं भोगं परमपुरुषार्थं मन्य­मा­ना­स्त­द­नु­गु­ण­मेव साधनमपेक्षन्ते । अतोऽ­न्वे­ष्ट­व्य­स्या­त्मनो जरा­म­र­णा­दि­रा­हित्ये सत्य­का­म­स­त्य­स­ङ्क­ल्पत्वे च वर्णिते सति तद­न्वे­ष­णा­दे­स्त­द­नु­गु­ण­सा­ध­न­त्व­भ्रान्त्या तज्जिज्ञासया मामुपैष्यन्ति । तेषां यथावद्रूपसदनेन चिर­का­ल­ब्र­ह्म­च­र्य­वा­सेन च भोगलिप्सापादके कल्मषे प्रक्षीणे तत्त्व­मु­प­दे­क्ष्यामि इत्याशयवतः प्रजापतेरयं गुड­जि­ह्वा­का­न्या­येन ब्राह्म­गु­णा­ष्ट­क­प­रा­मर्श इति । एवमेव हि सुषुप्तपर्याये जीवं विष­य­भो­ग­रा­हि­त्येन पुरुषार्थशून्यं मत्वा ‘नाहमत्र भोग्यं पश्यामि’ इत्युक्तवन्तं प्रति प्रजा­प­ति­र्गु­ड­जि­ह्वि­का­न्या­य­म­व­ल­म्ब्यैव विषयभोगात्मकं पुरु­षा­र्थ­मु­प­दे­क्ष्य­न्निव तदुक्तं ‘एवमेवैष मघवन्’ इत्यङ्गीचकार । एवमयं सूत्रभाष्ये योजनाप्रकारो दहराधिकरण एव प्रद­र्श­नी­योऽ­प्य­स्मि­न्न­धि­क­रणे प्रजा­प­ति­वि­द्यायाः सगु­ण­वि­द्या­त्व­पू­र्व­पक्ष निरासेन क्रिय­मा­ण­नि­र्गु­ण­वि­द्या­त्व­व्य­व­स्था­प­न­म­पे­क्षत इति तत्र न प्रदर्शितः ।

यद्वा दहरविद्याधिकरणे दर्शिता मुक्ता­ना­म­प­ह­त­पा­प्म­त्वा­दि­गु­ण­के­श्व­र­भा­वा­पत्तिः प्रजा­प­ति­वि­द्या­प्र­ति­पा­द्य­त्वे­ना­त्रापि विवक्षितेत्येव योजनीयम् । अस्मिन् पक्षे ‘शरीरात् समुत्थाय’ इत्यनेनैव शरी­र­वि­वि­क्त­प­र­ब्र­ह्म­भू­त­स्वा­त्म­सा­क्षा­त्कार उक्तः । ‘परं ज्योतिः’ इत्यनेन ‘य आत्माऽ­प­ह­त­पाप्मा’ इति प्रकृ­तोऽ­प­ह­त­पा­प्म­त्वा­दि­गु­णकः परमेश्वर उक्तः । ‘उपसम्पद्य’ इति तद्भा­वा­प­त्ति­रुक्ता । ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति सर्वमुक्तौ पर­मे­श्व­र­भा­व­प्र­हा­णा­न­न्त­र­म­प्य­नु­व­र्त­माना निर­ति­श­या­न­न्द­रू­प­शु­द्ध­चै­त­न्य­भा­वा­प­त्ति­रु­क्तेति विवेक्तव्यम् । एवञ्च सति ‘तद्वि­वे­क­सा­क्षा­त्कारः शरी­रा­त्स­मु­त्था­नम् , न तु शरीरापादानकं गमनम्’ इति दह­रा­धि­क­र­ण­ग­त­भा­म­ती­ग्रन्थः , ‘परमेव ब्रह्म ज्योतिश्शब्दम् , कस्मात् ? दर्शनात् , तस्य हीह प्रकरणे वक्त­व्य­त्वे­ना­नु­वृ­त्ति­र्दृ­श्यते ; य आत्माऽ­प­ह­त­पा­प्मे­त्य­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­स्या­त्मनः प्रकरणात्’ इति भाष्यग्रन्थश्च सङ्गच्छते । ‘सम्प­द्या­वि­र्भाव’ इत्य­धि­क­र­ण­ग­त­म­त्र­त्य­ज्यो­ति­श्श­ब्दा­र्थ­नि­र्ण­या­नु­वा­द­रूपं ‘आत्मा प्रकरणात्’ इति सूत्रञ्च सङ्गच्छते । ‘सम्प­द्या­वि­र्भावः’(ब्र. सू. ४. ४. १) इत्यधिकरणे मुक्तानां शुद्ध­चै­त­न्य­भा­वे­नै­वा­वि­र्भावः , न त्वागन्तुकेन केनचिद्रूपेणेति समर्थनस्य ‘ब्राह्मणे जैमिनिः’(ब्र. सू. ४. ४. ५) इत्यधिकरणे मुक्ता­ना­म­प­ह­त­पा­प्म­त्वा­दि­पा­र­मे­श्व­र­गु­णा­ष्ट­कस्य प्राप्तिरस्तीति समर्थनस्य च विरोधपरिहारोऽपि लभ्यते । विषयवाक्ये गुणा­ष्ट­क­प­रा­म­र्श­स्यापि परिपूर्णं फलं लभ्यते । न हि प्रवृ­त्ति­रु­च्यु­त्पा­दनं तस्य परिपूर्णं फलम् ; ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्’ इति फलकीर्तनेन तदुत्पादनात् , फल­की­र्त­ना­भा­वेऽ­न्वे­ष्ट­व्य­गु­ण­क­थ­न­मा­त्रेण तदु­त्पा­द­ना­स­म्भ­वात् , परि­पू­र्ण­फ­ल­स­म्भवे वायु­क्षे­पि­ष्ठ­त्वा­दि­व­र्ण­न­व­द्व्य­र्थ­प्रा­य­त्व­क­ल्प­नाऽ­यो­गात् , इह च ‘परं ज्योतिः’ इत्यनेन प्रक्रान्तं गुणा­ष्ट­क­वि­शिष्टं परमेश्वरं परामृश्य जीवस्य तद्भा­वा­प­त्ति­प्र­ति­पा­दने गुणा­ष्ट­क­प­रा­म­र्शस्य तादर्थ्येन साफ­ल्य­स­म्भ­वा­न्मु­क्ति­फ­ल­प्र­ति­पा­द­क­वा­क्येषु ब्रह्म­प्रा­प्ति­प्र­ति­पा­द­न­प­रस्य तद्भा­वा­प­त्ति­प­र­तायाः आनन्दमयाधिकरणे व्यव­स्था­पि­त­त्वा­दि­त्यलं प्रपञ्चेन ।

एवञ्चात्र ‘आत्मा­न­मु­पास्ते’ इति प्रकृ­ता­त्म­ज्ञा­न­स्यो­पा­स­ना­रू­प­त्व­श्र­वणं श्रव­ण­म­न­ना­द्या­वृ­त्त्य­भि­प्रा­यम् । जक्षणादिश्रवणं दह­रा­धि­क­र­ण­द­र्शि­तया रीत्या जक्ष­णा­दि­ली­ला­भि­न­य­वत् पर­मे­श्व­र­भा­वा­भि­प्रायं सर्वा­त्म­ता­प­त्त्य­भि­प्रायं वा । अथवा ‘सोऽश्नुते सर्वान् कामान् सह’ इति श्रुता­वा­न­न्द­म­या­धि­क­र­ण­द­र्शि­त­या­रीत्या जक्ष­णा­द्य­भि­व्यं­ग्य­वि­ष­य­सु­ख­शी­क­र­नि­क­र­म­हा­स­मु­द्रा­य­मा­ण­नि­र­ति­श­य­स्व­रू­प­सु­खा­नु­भ­वा­भि­प्रा­यम् ; तत्र सहशब्दवदत्र जक्षणादीनां ‘समिद्भारं वहन्नध्वानं पश्यन्नधीयानो गच्छति’ इत्यत्र वहनादीनामिव यौग­प­द्य­प्रा­प­कयोः शतृ­शा­न­चो­र्ज­क्ष­णा­दिषु श्रव­णा­ज्ज­क्ष­दि­त्या­दि­श­ब्दानां तत्त­द­भि­व्य­ङ्ग्य­सु­ख­ल­क्ष­क­त्वो­प­प­त्ते­र­श­री­रस्य मुख्य­ज­क्ष­णा­द्य­स­म्भ­वात् । अशरीरत्वञ्च मुक्तस्य सश­री­र­त्व­नि­न्दा­पू­र्वकं शरीरात् समुत्थानस्य प्राग्वर्णनेन ‘जक्षन् क्रीडन् रम­मा­ण­स्त्री­भिर्वा यानैर्वा ज्ञातिभिर्वा’(छा. ८. १२. ३) इत्यु­क्त्य­न­न्तरं ‘नोपजनं स्मरन्निदं शरीरम्’(छा. ८. १२. ३) इति शरी­रा­स्म­र­णोक्त्या हि तस्याध्यस्तत्वं ब्रह्मज्ञानेन तन्नि­वृ­त्ति­श्चे­त्यु­भ­य­मपि स्फुटीकृतम् । एवं ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानाति’(छा.८.१२.६) इत्यत्रापि कामशब्दोक्तानां सर्वेषां वैष­यि­क­सु­खा­ना­म­स­म्भ­व­द्यौ­ग­प­द्यानां यौगपद्यस्य ब्रह्म­सा­क्षा­का­र­तु­ल्य­का­ल­त्वस्य च लडाख्याताभ्यां प्रत्या­य्य­मा­न­त्वेन साक्षा­त्क्रि­य­मा­णस्य ब्रह्मण एव सक­ल­वि­ष­य­सु­ख­शी­क­र­नि­क­र­म­हां­बु­धि­रू­प­नि­र­ति­श­य­सु­ख­रू­पत्वे तात्प­र्य­मु­न्ने­यम् । तस्मा­ज्ज्यो­ति­रिह ब्रह्म , नादि­त्या­दि­ज्यो­ति­रिति सिद्धम् ।

सूत्रे यदि ज्योति­रि­त्य­स्या­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­मी­श्व­र­रूपं ब्रह्मेत्यर्थः , तदा ‘दर्शनात्’ इति हेतोस्तस्य प्रकरणे वक्त­व्य­त्वे­ना­नु­वृ­त्ति­द­र्श­ना­दिति भाष्यदर्शित एवार्थः । एवञ्च ‘प्रकरणात्’ इति स्पष्टे हेतौ वक्तव्ये ‘दर्शनात्’ इत्युक्तिरपि सफला । न केवलं ब्रह्म­प्र­कृ­त­मि­त्ये­ता­व­न्मात्रं , तदी­य­गु­णा­ष्ट­क­प­रा­म­र्शस्य साफल्यार्थं मुक्तौ जीवस्य तद्भा­वा­प­त्ति­र­स्ती­त्येवं वक्तव्यत्वेन तस्या­नु­वृ­त्ति­रपि दृश्यते इति । यदि सूत्रे ‘ज्योतिः’ इति निर्विशेषं ब्रह्मोच्यते , तदा ‘दर्शनात्’ इत्यनेन ‘उपसम्पद्य’ इत्यु­क्त­सा­क्षा­त्का­रोऽपि हेतूकर्तुं शक्यते । तदैवं हेतोः पर्यवसानम् । यद्यु­प­स­म्प­द्ये­त्य­नेन प्राप्तिरुच्येत , तदा मार्गपर्वतया प्राप्तव्य आदित्यः कथञ्चिज्ज्योतिः स्यादपीति , न त्वेवम् ; अत्र प्रकरणानुसारेण श्रव­ण­म­न­ना­दि­रू­पस्य शरीरात् समुत्थानस्य ब्रह्म­भा­वा­वि­र्भा­वस्य च मध्ये श्रुत­स्यो­प­स­म्प­द्ये­त्यस्य श्रव­ण­म­न­ना­धी­न­ब्र­ह्म­भा­वा­वि­र्भा­व­हे­तु­द­र्श­न­प­र­त्वा­व­श्य­म्भा­वात् । अतस्तस्य दर्शनस्य विषयभूतं ज्येति­र्ब्र­ह्मे­त्येव युक्तमिति । १. ३. ४०

इति ज्योति­र्द­र्श­ना­धि­क­र­णम् । ११

आका­शोऽ­र्था­न्त­र­त्वा­दि­व्य­प­दे­शात् ॥ ४१॥

४१

‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा’(छा. ८. १. ४) इति छान्दोग्यश्रुत आकाशो भूताकाशः , परं ब्रह्म वेत्या­का­श­ब्र­ह्म­श्रु­तिभ्यां संशये प्रथ­म­श्रु­ता­दा­का­श­श­ब्दा­द्भू­ता­काश इति पूर्वः पक्षः। ननु प्रथ­म­श्रु­त­म­प्येकं प्रमा­ण­मु­प­रि­त­ना­ने­क­प्र­मा­ण­वि­रोधे बाध्यमिति ज्योति­र­धि­क­र­णा­दिषु क्षुण्णोऽयमर्थः । सन्ति चात्र बहूनि विरोधिप्रमाणानि । ‘नाम­रू­प­यो­र्नि­र्व­हिता’ इति ताव­न्ना­म­रू­प­व्या­क­र्तृत्वं ब्रह्म­लि­ङ्ग­मु­च्यते । ‘निर्वहिता’ इत्यस्य निरुपसर्गाभावे वोढृ­त्व­प­र­त्वेऽपि तत्सत्त्वेन कर्तृवाचकत्वात् । ते नामरूपे अन्तरा मध्ये यदिति नाम­रू­पा­स्पृ­ष्टत्वं तल्लि­ङ्गा­न्त­र­मु­च्यते । नाम­रू­प­म­ध्य­स्थ­त्वो­क्ते­र­न्य­त­र­प­क्ष­पा­ता­भा­वेन तद­स्पृ­ष्ट­त्व­प­र्य­व­सा­यि­त्वात् । ‘तद्ब्रह्म तदमृतं स आत्मा’ इति च स्पष्टान्येव ब्रह्मप्रमाणानि । कथमेतावन्ति प्रमा­णा­न्य­ना­दृत्य प्रथ­म­श्रु­तै­क­श्रु­त्य­व­ल­म्ब­नेन पूर्व पक्षः क्रियते ?

अथापि क्रियेत यदि ब्रह्म­ण्या­का­श­शब्दो वर्तयितुमशक्य इति शङ्काबीजं सम्भवेत् । प्रसिद्ध एव ब्रह्म­ण्या­का­श­शब्दः ‘आकाश इति होवाच’ इति ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’(छा., ८. १. १) इति च । उच्यते । ‘वै नाम’ इति निपातद्योतिता प्रसिद्धिरिह आकाशविशेषणमिति ‘आकाशो वै नाम’ इत्यतः प्रसिद्धाकाश इति धर्मिनिर्देशो लभ्यते । अतस्तस्य विशे­ष­ण­स्या­प्र­सि­द्धा­का­श­रूपं ब्रह्म व्यावर्त्य पर्यवस्यति । न हि ब्रह्मणो वेद­प्र­ति­प­न्न­त्वेऽपि क्वचि­त्क्व­चि­द्वे­द­भागे निरूढलक्षणया आका­श­श­ब्द­वि­ष­य­त्वेऽपि भूताकाशवत् स्वरू­पे­णा­का­श­श­ब्द­वि­ष­य­त्वेन वा लोकवेदयोः प्रसिद्धम् । ‘सर्वाणि ह वा इमानि भूतानि’(छा. १. ९. १) इत्यत्र तु वैश­ब्द­द्यो­ति­त­प्र­सि­द्धे­र्ना­काशे धर्मिण्यन्वयः , किन्तु सर्व­ज­ग­त्का­र­ण­त्व­रूपे तद्धर्मे । तस्य धर्मस्य लोके प्रसि­द्धि­र्ना­स्तीति केवलं वैदिक्येव ग्राह्या , सा श्रुत्य­न्त­र­प्र­सि­द्ध­ज­ग­त्का­र­ण­त्व­रू­प­ब्र­ह्म­लि­ङ्गा­न्व­यिनि सिद्धान्त एवोपयुज्यते , इह तु प्रसि­द्धे­ध­र्मि­ण्य­न्वयः । सा तु सम्भवात् केव­ल­वे­द­प्र­सि­द्ध­ब्र­ह्मा­का­श­रू­प­व्या­व­र्त्य­स­त्त्वाच्च भूताकाशविषयिणी लोकवेदसिद्धैव ग्राह्येति सिद्धा­न्त­वि­रो­धिनी । तस्मा­द­प्र­सि­द्धा­का­श­व्या­व­र्त­नै­क­प्र­यो­ज­न­केन प्रसि­द्धि­वि­शे­ष­णेन भूताकाशे निय­म्य­मा­ने­य­मा­का­श­श्रु­ति­ब्र­ह्मणि नेतुमशक्येति तद­नु­रो­धे­ना­न्य­त्सर्वं नेयम् ।

तत्र नाम­रू­प­नि­र्वो­ढ­त्व­म­व­का­श­रू­पा­धि­क­र­ण­तया वोढृत्वेन वा स्वगु­ण­भू­त­व­र्णा­भि­व्य­ञ्ज­क­ध्व­न्यु­त्पा­द­न­द्वारा वर्ण­स­मु­दा­य­रू­पाणां नाम्नां वाय्वादिद्वारा तेजो­ज­ल­पृ­थि­व्या­दि­श्रि­ता­ना­म­रु­ण­ध­व­ल­नी­ला­दि­रू­पा­णाञ्च करणत्वेन वा योजनीयम् । गौर­कृ­ष्णा­दि­ना­म­भि­स्त­त्प्र­वृ­त्ति­नि­मि­त्त­रू­पैश्च अस्पष्टत्वेन ‘ते यदन्तरा’ इत्येतत् सङ्गमयितव्यम् । बृहत्त्वेन ब्रह्मशब्दः , आभू­त­स­म्प्ल­व­स्था­यि­त्वेन अमृतशब्दः , आप्नोतीति योगेन आत्म­श­ब्द­श्चो­प­पा­द­नीयः । ब्रह्मा­नु­वृ­त्ति­द­र्श­ना­ज्ज्यो­ति­श्श­ब्द­स्ये­वा­का­शा­नु­वृ­त्ति­द­र्श­ना­द्ब्र­ह्म­श­ब्दा­दे­रपि स्वार्थात् प्रच्या­व­नो­प­पत्तेः । अथवा नामरूपास्पृष्टं ब्रह्मा­मृ­ता­त्म­श­ब्दो­दितं परं ब्रह्मैवास्तु ; नाम­रू­प­नि­र्वो­ढु­र्भू­ता­का­शस्य नाम­रू­पा­स्पृ­ष्टस्य ब्रह्मा­दि­श­ब्दो­दि­तस्य च पुल्लि­ङ्ग­न­पुं­स­क­लि­ङ्ग­नि­र्दे­शाभ्यां भेदप्रतीतेः । तथा च नाम­रू­पा­स्पृ­ष्ट­ब्र­ह्म­प्र­ति­प­त्त्य­र्थ­त्वेन नाम­रू­प­नि­र्वो­ढु­र्भू­ता­का­शस्य पृथ­क्प्र­ति­पा­द­न­मि­त्ये­ता­वान् पूर्वः पक्षः ।

राद्धान्तस्तु ‘वै नाम’ इति निपातसमुदायो नाकाशस्य स्वरूपे प्रसि­द्धि­द्यो­तकः येन ततोऽ­प्र­सि­द्धा­का­श­व्या­वृ­त्ति­र्ल­भ्येत , किन्त्वाकाशस्य नाम­रू­प­नि­र्वो­ढृ­त्व­रू­प­वि­धे­य­व­त्त्वेन प्रसि­द्धि­द्यो­तकः ; तथैव व्युत्पत्तेः । न हि ‘देवदत्तः खलु विद्वान्’ इत्युक्ते यः प्रसिद्धो देवदत्तस्स विद्वा­नि­त्य­प्र­सि­द्ध­दे­व­द­त्त­व्या­वृत्तिः प्रतीयते , किन्तु विधेयस्य विद्वत्त्वस्यैव देवदत्ते प्रसिध्युपपादनं प्रतीयते । एवमिहापि विधेयस्य नाम­रू­प­नि­र्वो­ढृ­त्व­स्या­काशे प्रसि­द्ध्यु­प­पा­दनं क्रियत इति स्थिते नाम­रू­प­श­ब्द­यो­र­न्यो­न्य­स­म­भि­व्या­हृ­त­यो­र­स­ङ्कु­चि­ता­भि­धा­ना­भि­धे­य­मा­त्र­प­र­त्वेन निर्वोढृशब्दस्य कर्तृपरत्वेन च व्युत्प­न्न­त्वात् सक­ल­ना­म­रू­प­व्या­क­र्तृ­त्व­मा­का­शस्य प्रसि­द्ध्यो­प­प­द्यत इति पर्यवस्यति । तत्तु न लोके प्रसिद्धमिति श्रुत्य­न्त­र­प्र­सि­द्धा­व­न्वि­ष्य­मा­णायां ‘नामरूपे व्याकरवाणि’(छा. ६. ३.२) इत्या­दि­श्रु­त्य­न्तरे ब्रह्मण एव तत्प्रसिद्धमिति स्फुटमेव । एवञ्च ते इति पद­म­प्य­स­ङ्कु­चि­त­स­क­ल­ना­म­रू­प­परं ब्रह्मा­मृ­ता­त्म­शब्दा अपि स्वारसिकार्थपरा इति चरमश्रुतैरपि बहुभिः श्रुति­लि­ङ्गै­रे­कस्याः श्रुते­र्बा­धौ­चि­त्या­द­य­मा­काशो ब्रह्मैव । यदि च आका­श­श­ब्द­नि­र्दि­ष्टस्य प्रसि­द्धि­द्यो­त­कोऽयं निपा­त­स­मु­दा­यः­स्या­त्त­थापि वैदि­क­श­ब्द­नि­र्दि­ष्ट­स्यो­च्य­माना प्रसि­द्धि­र्वै­दि­के­ष्टि­नि­मि­त्त­त­यो­च्य­मा­ना­श्व­दा­न­व­द्वै­दि­क्येव ग्राह्या । वैदिकी च प्रसिद्धिर्यथा ब्रह्मणो न तथा भूताकाशस्य । अतो ब्रह्म­वि­ष­या­धि­क­वै­दि­क­प्र­सि­द्धे­रे­वात्र आकाशविशेषणतया तद्ब­ले­ना­का­श­श­ब्दस्य भूताकाशे नियमनासिद्धेर्न तदनुरोधेन उत्त­र­श्रु­ति­लि­ङ्गा­ना­म­न्य­था­न­यनं युक्तमिति तैर्ब्र­ह्मै­वा­य­मा­काशः ।

वाक्य­भे­द­पू­र्व­प­क्षोऽ­प्ये­व­मे­क­वा­क्य­त्व­स­म्भ­वा­द­युक्तः । यत्तत्पदानां प्रकृ­ता­का­श­प­रा­मा­र्शि­त्वेऽपि नपुंसकलिङ्गत्वं ब्रह्मा­मृ­त­श­ब्दा­पे­क्ष­मु­प­प­न्नम् । न च यत्त­त्प­द­प्र­कृ­तीनां प्रकृ­ता­र्थ­नि­वे­शे­नै­क­वा­क्य­ता­नु­गु­णत्वे तद्गु­ण­भू­त­प्र­त्य­या­र्थ­लि­ङ्गा­नु­रो­धेन वाक्य­भे­द­श­ङ्काऽ­प्य­व­काशं लभते । ‘गुणे त्वन्या­य्य­क­ल्पना’ इति हि न्यायसूत्रे । अर्थान्तरत्वं नाम­रू­प­प­दा­पे­क्षया । तेन ‘ते यदन्तरा’ इत्यनेनोक्तो नाम­रू­पा­स्पृ­ष्ट­त्व­हे­तु­र्ल­भ्यते । एवं व्याख्यानं विषयवाक्ये रूपशब्दस्य नाम­प्र­वृ­त्ति­नि­मि­त्त­ध­र्म­वा­चि­त्व­म­ङ्गी­कृत्य । स यदा नामविषयधर्मवाची तदा ‘ते यदन्तरा’ इत्यनेन नाम­रू­पा­न्य­त्व­मुक्तं स्यादिति स एव हेतु­र­न्त­र­त्व­श­ब्देन विवक्षितः । अर्थान्तरत्वञ्च तस्यादिश्च प्राथमिकत्वेन , तत्प­द­प­रा­म­र्श­नी­य­ना­म­रू­प­स­म­र्प­क­त्वेन वाऽऽदिभूतो नाम­रू­प­नि­र्वो­ढृ­त्व­हे­तुश्च तयोर्व्यपदेशात् प्रति­पा­द­ना­दि­त्य­र्थ­केन ‘अर्था­न्त­र­त्वा­दि­व्य­प­दे­शात्’ इत्यनेन नाम­रू­प­नि­र्वो­ढृ­त्वा­दि­लि­ङ्ग­द्व­य­ग्र­ह­णम् । अर्था­न्त­र­त्व­मा­दि­र्यस्य व्यपदेशस्य प्रतिपादकस्य शब्दजातस्य तस्मा­दि­त्य­र्थ­केन तेन ब्रह्मा­मृ­ता­त्म­श्रु­ति­त्र­य­ग्र­ह­णम् । अमृतशब्दोऽपि निखण्डुषु ब्रह्म­ण्य­नु­शि­ष्ट­त्वात् तत्र श्रुतिरेव । आका­श­श­ब्द­प्र­ति­पा­द्यस्य यदर्थान्तरत्वं भूता­का­शा­द्भि­न्नत्वं तस्यादेः कारणस्य भेदकधर्मस्य वैदि­क­प्र­सि­द्धि­रू­पस्य व्यप­दे­शा­दि­त्य­र्थ­कन तेन प्रसि­द्धि­लि­ङ्ग­ग्र­ह­णम् ।

यद्य­प्यु­दा­हृ­त­श्रु­ति­लि­ङ्गानि सर्वाण्यपि भूता­का­शा­द्भे­द­का­न्येव , तथाऽपि प्रसि­द्धे­रु­द्दे­श्य­वि­शे­ष­ण­त्व­पक्षे वेदप्रसिद्धाकाश इत्यु­द्दे­श्य­ध­र्मि­नि­र्दे­श­स­मय एव भूताकाशात्तं भिनत्तीत्यनेन विशे­षे­णा­सा­धा­र­ण­स्तस्य भेदकत्वव्यपदेशः । भेदज्ञापकेऽपि धर्मे कारणत्वोपचारेण भेद­क­व्य­व­हा­र­व­द­न्त­र­त्व­स्यादिः कारणमिति निर्देशः । एवं बह्व­र्थ­क्रो­डी­का­रार्थं विष­य­वा­क्य­ग­त­श्रु­ति­लि­ङ्गेषु नाम­रू­पा­न्य­त्वस्य प्राथ­मि­क­त्वा­भा­वेऽपि ‘अर्था­न्त­र­त्वा­दि­व्य­प­दे­शात्’ इति सूत्रितम् । विषयवाक्ये नाम­रू­प­यो­र्नि­र्वो­ढे­त्यत्र ‘सर्वाणि हवा इमानि भूतानि’ इत्यत्रेव सर्वशब्दाभावात् , ‘ते यदनन्तरा’ इत्या­दे­र्वा­क्या­न्त­र­ग­त­त्व­प्र­ती­ते­श्चा­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥१.३.४१॥

इत्या­का­शा­धि­क­र­णम् ॥१२॥

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन ॥ ४२ ॥

४२

बृहदारण्यके जन­क­या­ज्ञ­व­ल्क्य­सं­वादे ‘किंज्योतिरयं पुरुषः’(बृ. ४. ३.१) इति जीवस्य व्यव­हा­र­सा­ध­न­प्र­काशं पृष्टे­ना­दि­त्य­ञ्च­न्द्र­म­स­मग्निं वागि­न्द्रि­य­मा­त्मा­नञ्च पूर्व­पू­र्व­स्मि­न्न­स­त्यु­त्त­रो­त्तरं तस्य व्यव­हा­र­सा­ध­न­प्र­का­श­मु­क्त­वता पुनः ‘कतम आत्मा’ इति पृष्टेन याज्ञवल्क्येन ‘योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ. ४. ३. ७) इत्यारभ्य भूयानात्मविषयः प्रपञ्चः कृतः । स तावत् संसा­र्या­त्म­वि­षयः ; ‘प्राणेषु’ इति प्राणसम्बन्धस्य ‘हृदि’ इति बुध्यु­पा­धि­क­त्वस्य ‘स समानस्सन्नुभौ लोकावनुसञ्चरति’(बृ. ४. ३.७) इति बुध्यै­क्य­प्रा­प्ति­पू­र्व­क­लो­क­द्व­य­स­ञ्चा­रस्य ‘ध्यायतीव लेलायतीव’(बृ. ४. ३.७) इति बुद्धिधर्मेण ध्यानादिना ध्यानादिमत्तया प्रतीयमानत्वस्य ‘स वा अयं पुरुषो जायमानः शरी­र­म­भि­स­म्प­द्य­मानः पाप्मभिः संसृज्यते स उत्क्रा­म­म्रि­य­माणः पाप्मनो विजहाति’(बृ. ४. ३. ८) इति जन­न­म­र­ण­भा­क्त्वस्य पाप­फ­ल­भो­ग­सा­ध­न­सं­यो­ग­वि­यो­गस्य चोपक्रमे श्रवणात् , मध्ये स्वप्न­सु­षु­प्ति­जा­ग­रा­व­स्था­नाम् , अमु­मु­क्षो­रु­त्क्र­म­ण­पु­न­र्ज­न­नयोः , मुमु­क्षो­स्त­द­भा­वस्य च सप्र­प­ञ्च­मु­प­न्या­सात् , अन्ते ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. ४. ४. २२) इत्यु­प­क्रा­न्त­प्रा­ण­स­म्ब­न्धे­नो­प­सं­हा­राच्च ।

ननु स्वप्ना­व­स्थो­प­न्या­स­मध्ये ‘स्वप्नेन शारी­र­म­भि­प्र­ह­त्या­सुप्तः सुप्ता­न­भि­चा­क­शीति , शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंसः’(बृ. ४. ३. ११) इति श्लोके स्वप्नेन शारीरस्य जीव­स्या­भि­प्र­हन्ता विमोहकः परमेश्वरो वर्ण्यते । नेति ब्रूम: , ‘शुक्रमादाय पुनरेति स्थानम्’ इति शुद्ध­मि­न्द्रि­य­ग­ण­मा­दाय पुन­र्जा­ग­रि­त­स्था­न­प्रा­प्त्यु­प­न्या­सेन तस्यापि जीवविषयत्वात् । ‘तं नायतं बोधयेदित्याहुः दुर्भिषज्यं हास्मै भवति यमेष न प्रपद्यते’(बृ. ४. ३. १४) इत्यग्रे सुषुप्तस्य भृशं बोधने सम्भ्रान्ततया यमिन्द्रियदेशं अजहात् प्राक्स्व­प्ना­र­म्भ­द­शा­या­म­प­नी­ते­न्द्रियं प्रति­प­द्य­मा­न­स्तत्र तदिन्द्रियं न प्रवेशयति ; तस्या बाध्य­बा­धि­र्या­दि­दो­ष­प्राप्तौ तस्मै देशाय दुःखेन भिषक्कर्म कर्त्तव्यं भवेदिति दोषोपन्यासेन लिङ्गे­ने­न्द्रि­य­ग­ण­मा­दाय जाग­रि­त­स्था­न­प्रा­प्ते­र्जी­व­ध­र्म­त्वा­व­ग­मात् , ‘प्राणेन रक्षन्नवरं कुलायं बहि­ष्कु­ला­या­द­मृ­त­श्च­रित्वा स ईयतेऽमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः’ ‘स्वप्ना­न्त­मु­च्चा­व­च­मी­य­मानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिस्सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’(बृ. ४. ३. १२ , १३) इत्यु­त्त­र­श्लो­क­यो­र्जी­व­वि­ष­य­त्वे­ना­स्यापि तद्वि­ष­य­त्वा­व­श्य­म्भा­वाच्च । पूर्वत्र ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा खेन ज्योतिषा प्रस्व­पि­त्य­त्रायं पुरुषःस्वयं ज्योतिर्भवति’(बृ. ४. ३. ९) इति श्रवणाच्च । तत्र हि ‘विहत्य’ इति जाग्र­च्छ­री­र­स्यैव निस्सम्बोधतया मृत­प्रा­य­ता­पा­द­न­मु­च्यते ; अग्रे ‘स्वयं निर्माय’ इति स्वाप्न­श­री­र­नि­र्मा­ण­श्र­व­णात् । अत्रोऽत्रापि जीवेन हन्तव्यं शरीरमेव वाच्यमिति छान्दसो दीर्घो द्रष्टव्यः । एवं तर्हि तत्रापि परमेश्वरो वर्ण्यते ; जीवस्य शरी­र­ह­न­न­नि­र्मा­णयोः स्वयं­श­ब्दो­क्त­स्वा­त­न्त्र्या­स­म्भ­वा­दिति चेत् ; न । तयो­र्जी­व­क­र्मा­धी­न­त्वा­भि­प्रा­येण स्वय­मु­क्त्यु­प­पत्तेः , स्वपि­ति­प्र­क्रि­यायां ‘किंज्योतिरयं पुरुषः’ इत्युपक्रमे जीवे प्रयुक्तस्य ‘अयं पुरुषः’ इत्यस्य ‘अत्रायं पुरुषः’ इत्यत्र प्रत्यभिज्ञया पूर्वा­प­र­लि­ङ्ग­श­तैश्च तत्प­र­त्वा­व­श्य­म्भा­वात् ।

ननु ‘कतम आत्मा’ इति प्रश्नो न जीवविषयः ; तस्य प्रत्य­क्ष­सि­द्ध­तया ‘किंज्योतिरयं पुरुषः’ इति पृच्छतः प्रश्न­ध­र्मि­त्वे­ना­स­न्दि­ग्ध­तया च तत्र प्रश्नानवतारात् , किन्तु परमात्मविषयः । तदनुसारेण तस्य प्रश्नस्य प्रसञ्जकं ‘आत्मैवास्य ज्योतिः’ इति वचनमप्यस्य प्रकृतस्य जीवस्य परमात्मैव ज्योति­रि­त्ये­त­त्प­रम् । एव­ञ्चो­त्त­र­ग्र­न्थ­स­न्दर्भे ‘जाय­मा­न­श्श­री­र­म­भि­स­म्प­द्य­मानः’(बृ. ४. ३. ८) इत्या­दि­जी­व­लि­ङ्ग­जा­त­म­प्य­र्था­न्त­र्भा­वा­दिना कथञ्चित् परमात्मन्येव योजनीयम् । एवञ्च सति ‘हृद्य­न्त­र्ज्योतिः’ इत्यारभ्य आदिमध्यावसानेषु ज्योति­श्श­ब्दोऽपि सङ्गच्छते । स हि ‘अथ यदतः परो दिवो ज्योतिः’(छा. ३. १३. ७) इत्या­दि­श्रु­त्य­न्त­रेषु परमात्मन्येव प्रसिद्धो न जीव इति चेत् , स्यादप्येवं जीव­लि­ङ्ग­जा­त­स्या­न्य­था­न­य­न­शङ्का यदि ‘कतम आत्मा’ इति प्रश्नो जीवे नोपपद्येत । उपपद्यते त्वहं­प्र­त्य­य­सि­द्धेऽपि तस्मिन् देहे­न्द्रि­य­प्रा­ण­बु­द्धि­ष्व­न्य­त­म­स्त­दन्यो वेति निर्दिधारयिषया प्रश्नः । एवमेवायं प्रश्नः प्रवृत्त इति चोत्त­र­प­र्या­लो­च­न­याऽ­व­ग­म्यते । तत्र हि ‘योऽयं विज्ञानमयः’ इति प्रष्टुरपि प्रसिद्धं जीवमनूद्य ‘प्राणेषु’ इती­न्द्रि­य­ग­ण­प्रा­ण­वा­यु­स­मी­प­व­र्ति­त्वोक्त्या तस्य ततो व्यतिरेको ‘हृद्यन्तः’ इति बुध्य­न्त­र्ग­त­त्वोक्त्या बुद्धे­र्व्य­ति­रेकः तत एव स्थूल­दे­हा­द्व्य­ति­रे­कश्च बोध्यते ।

अपि च ‘अत्रायं पुरु­ष­स्स्व­यं­ज्योतिः’ इति वाक्यं ज्योति­स्सा­ध्य­व्य­व­हा­र­फ­ल­भाजो जीवस्यैव ज्योती­रू­प­त्व­प्र­ति­पा­द­न­प­र­मिति स्वयं­श­ब्द­ब­ला­द­व­सी­यते । ‘स्वयं होता’ ‘स्वयंदोही’ ‘स्वयं­दा­सा­स्त­प­स्विनः’ इत्या­दि­प्र­यो­गेषु होमफलादिभाजो होतृ­त्वा­दि­वि­व­क्षा­या­मेव स्वयं­श­ब्द­प्र­यो­ग­द­र्श­नात् । एवञ्च तदेकार्थपरं ‘आत्मैवास्य ज्योतिः’ इत्या­त्म­प्र­श्न­प्र­स­ञ्ज­क­वा­क्य­मपि तत्र­त्य­स्व­यं­श­ब्दै­का­र्थ्य­भा­जाऽ­व­धा­र­णे­ना­दि­त्या­द्य­भावे स्वप्नदशायां जीवः स्वयमेव स्वस्य व्यव­हा­र­सा­ध­न­मि­त्य­मु­मर्थं प्रतिपादयत् ‘कतम आत्मा’ इति प्रश्नमपि जीवविषयं व्यवस्थापयेदेव । ज्योति­श्श­ब्दस्तु प्रश्नो­त्त­र­योर्न पर­मा­त्म­वि­ष­य­त्वस्य व्यवस्थापकः ; अस्मिन् प्रकरणे तस्या­दि­त्य­च­न्द्रा­दि­सा­धा­र­ण्येन व्यव­हा­र­सा­ध­न­मा­त्र­प­र­त्वात् । अपि च ‘योऽयं विज्ञानमयः’ इत्यारभ्य यो वर्णयितुं प्रक्रान्त आत्मा यत्र च ‘हृद्य­न्त­र्ज्योतिः’ इत्या­दि­प्र­दे­शेषु ज्योतिशब्दस्स एव सुषु­प्यु­त्क्रा­न्ति­रू­प­त­दी­या­व­स्था­नि­रू­पणे पर­मे­श्व­रा­द्भे­देन व्यपदिश्यते ‘तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ. ४. ३.२१) इति ‘तद्य­थाऽ­न­स्सु­म­मा­हि­त­मु­त्स­र्ज­द्या­या­दे­व­मे­वायं शारीर आत्मा प्राज्ञे­ना­त्म­नाऽ­न्वा­रूढ उत्सर्जन्याति यत्रै­त­दू­र्ध्वो­च्छ्वासी भवति’(बृ. ४. ३. ३५) इति च । अतोऽपि हेतोः संसा­र्या­त्म­वि­ष­य­ए­वायं प्रपञ्चः , न तु परमेश्वरविषयः ।

एवं स्थिते संशयः – किमयं संदर्भः संसा­रि­त्व­रू­प­मा­त्रा­न्वा­ख्या­न­परः , उत – संसारिणमनूद्य तस्या­सं­सा­रि­ब्र­ह्म­रू­प­त्व­प्र­ति­पा­द­न­पर इति । तत्र पूर्वः पक्षः –
आदिमध्यावसानेषु संसा­र्य­त्रा­नु­व­र्ण्यते ।
तस्मात्तत्पर एवायं संदर्भ इति युज्यते ॥
नन्व­स्या­सं­सा­रि­ब्र­ह्म­रू­प­त्व­प्र­ति­पा­दका अपि शब्दा उपसंहारे श्रूयन्ते ‘एष सर्वेश्वर एष भूताधिपतिरेष लोकपाल एष सेतुर्विधरणः’(बृ.४. ४. २२) इत्याद्याः । अतोऽ­ङ्गु­ष्ठा­धि­क­र­ण­न्या­या­त्सं­सा­र्य­नु­वा­देन तस्या­सं­सा­रि­ब्र­ह्म­रू­प­त्व­प्र­ति­पा­द­न­परः संदर्भ इति युक्तम् । नेति ब्रूमः । ‘अंगुष्ठमात्रः’ इत्यत्र नोपक्रमोपसंहारौ जीवे । अतस्तत्र युक्तं ‘अंगुष्ठमात्रः’ इत्ये­ता­व­ताऽ­नू­दि­तस्य संसारिणः पर­ब्र­ह्म­स्व­रू­प­त्व­प्र­ति­पा­द­न­प­र­त्वम् , इह तूप­क्र­म­मा­र­भ्या­स­माप्ति संसारिविषय: सन्दर्भः । अतो नाम­रू­प­नि­र्वो­ढृ­त्वा­दि­ब­हु­प्र­मा­ण­ब­ला­दा­का­श­श­ब्द­स्येव संसा­रि­वि­ष­या­दि­म­ध्या­व­सा­ना­नु­वृ­त्त­ब­हु­प्र­मा­ण­ब­ला­त्क्व­चि­त्क­स्या­ल्पी­यसः पर­मे­श्व­र­ध­र्म­जा­त­स्या­न्य­था­न­यनं युक्तम् । एतेन – मध्येऽपि ‘प्राज्ञे­ना­त्मना संपरिष्वक्तः’ इति , ‘अन्वारूढः’ इति च पर­मे­श्व­र­प­रा­म­र्शोऽ­स्तीति निरस्तम् । तथाऽपि संसा­रि­ध­र्म­व­र्ण­ना­त्त­द्ध­र्म­व­र्ण­न­स्या­ल्पी­य­स्त्वात् । किञ्च तत्रत्येन परामर्शेन न परमेश्वरस्य प्रक­र­ण­प्र­ति­पा­द्यता सिद्ध्यति ; प्रक­र­ण­प्र­ति­पा­द्य­म­य­मिति परामृष्टं संसारिणं प्रत्यु­प­स­र्ज­न­त्वेन तस्यान्वयात् । नापि तेन प्रकृतस्य संसारिणः परमेश्वराभेदेन प्रतिपाद्यता सिद्ध्यति ; भेदेन व्यप­दे­श­स्या­भे­द­प्र­ति­पा­द­न­वि­रु­द्ध­त्वात् । तस्मात्तत्र पर­मे­श्व­र­प­रा­मर्शः ‘ता वा अस्यैता हिता नाम नाड्यः’ इति नाडीपरामर्शवत् ‘एव­मे­वे­म­मा­त्मा­न­म­न्त­काले सर्वे प्राणा अभिसमायन्ति’(बृ. ४. ३. ३८) इति प्राण­प­रा­म­र्श­वच्च प्रकृतस्य संसा­रि­ण­स्त­त्त­द­व­स्था­वि­शे­ष­नि­रू­प­णो­प­यो­गि­त्वे­नेति न तेन परमेश्वरस्य , जीवे तदभेदस्य वा प्रति­पा­द्य­त्व­सिद्धिः।

यद्वा ‘प्राज्ञेन’ इत्येतन्न परमेश्वरपरम् , किन्तु सुषुप्तौ मर­ण­का­ल­प्रा­प्त­मू­र्छा­याञ्च प्रकर्षेणाज्ञ इति जीवपरम् । ततश्च तथाभूतेनात्मना स्वरूपेण संपरिष्वक्त इति अन्वारूढ इति चाभेदेऽपि भेदोपचारः । अतो नात्र पर­मे­श्व­र­प­रा­म­र्श­श­ङ्का­व­काशः । नन्वेवं महान्सन्दर्भः संसा­रि­स्व­रू­प­मा­त्रा­न्वा­ख्या­न­परः सन्ननर्थकः स्यात् । नानर्थकः ; देहा­द्य­ति­रि­क्त­ध­र्मा­धि­का­रि­सि­द्ध्य­र्थ­त्वात् । ननु ‘अनन्वागतं पुण्येन अनन्वागतं पापेन’(बृ.४.३.२२) इति ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कर्मणा कनीयान्’(बृ. ४. ४. २२) इति च प्रति­पा­द्य­स्या­त्मनः पुण्यपापास्पर्श उच्यते । स कथं कर्मा­धि­का­र­सि­द्ध्यर्थः स्यात् ? नैष दोषः । सुषुप्तौ कर्म­फ­ल­भो­ग­रा­हि­त्या­भि­प्रा­येण तद्वचनात् । ‘स न साधुना’ इत्याद्यपि सुषुप्तिविषयमेव भवति ; ‘य एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते’ इत्युपक्रमात् । सुषु­प्ति­प्र­स­ङ्गा­भावे तु पुण्यपापस्पर्श उच्यत एव ‘पुण्यः पुण्येन कर्मणा भवति पापः पापेन’(बृ. ४. ४. ५) इति । अथवा वैरा­ग्य­सि­ध्य­र्थोऽयं ‘उभौ लोकावनुसञ्चरति’ इत्यारभ्य संसा­रिं­ग­ता­ग­त­व­र्ण­न­प्र­धा­न­स्सं­दर्भः । अत एव ‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्मा­ल्लो­का­त्पु­न­रैति अस्मै लोकाय कर्मणे’(बृ. ४. ४. ६) इति कर्म­फ­ल­क्ष­यि­ष्णु­त्व­मपि वर्ण्यते । अथवा पञ्चा­ग्नि­वि­द्या­व­दु­पा­स­ना­वि­शे­ष­वि­ध्य­र्थोऽयं ‘तद्यथा राजा­न­मा­या­न्त­मुग्राः प्रत्येनसः सूत­ग्रा­म­ण्योऽन्नैः पानैरावसथैः प्रतिकल्पान्ते अय­मा­या­त्य­य­मा­ग­च्छ­तीति एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पान्ते इदं ब्रह्मायाति’(बृ. ४.३. ३७) इति उक्त­प्र­का­र­सं­सा­रि­स्व­रू­प­वे­द­न­फ­ल­श्र­व­णात् , मानु­षा­न­न्दा­दि­क्र­मेण तत्प्रा­प्य­ब्र­ह्म­लो­क­भो­ग्या­न­न्द­प्र­शं­सा­द­र्श­नाच्च । तस्मा­त्सं­सा­रि­स्व­रू­पा­न्वा­ख्या­न­प­रोऽयं संदर्भ इति ।

एवं प्राप्ते सिद्धान्तः – संसारिणो जीव­स्या­सं­सा­रि­प­र­मे­श्व­रा­भे­द­प­र­त्व­मस्य संदर्भस्य कुतो नाद्रियते ? किं संसा­रि­णोऽ­र्था­न्त­र­भूतः परमेश्वरो नास्तीति , उता­स्मि­न्प्र­क­रणे सोऽर्थः कुतोऽपि शब्दान्न प्रतीयत इति ? नाद्यः । अस्ति हि संसा­रि­णोऽ­र्था­न्त­र­भूतः परमेश्वरः , जन्मा­दि­सू­त्र­मा­रभ्य प्रवृत्तानां प्रव­र्ति­ष्य­मा­णानां चाधिकरणानां विषयवाक्येषु परमेश्वरस्य ततोऽ­र्था­न्त­र­त्व­ज्ञा­प­कानां तत्स्र­ष्टृ­त्व­त­दा­न­न्द­यि­तृ­त्व­त­न्नि­य­न्तृ­त्व­त­त्सं­ह­र्तृ­त्वा­दीनां स्पष्टमेव प्रतिपादनात् । अस्मिन्नपि प्रकरणे सुषु­प्त्यु­त्क्रा­न्त्यो­स्तस्य ततो भेदेन व्यपदेशात् । न हि प्राज्ञशब्दः प्रज्ञा­प्र­क­र्ष­शा­लिनि रूढः कथंचिदज्ञे व्याख्या­तु­मु­चितः । न वा मुख्यभेदसम्भवे भेदोपचारकल्पना युक्ता । नापि द्वितीयः । पत्या­दि­श­ब्देभ्यः संसारिणः पर­मे­श्व­रा­भे­द­प्र­तीतेः ‘एष सर्वेश्वर एष सर्वभूताधिपतिः’(बृ. ४. ४.२२) इत्यादयः शब्दा हि परमेश्वरवाचकाः प्रकृ­त­सं­सा­रि­वा­चिभिः शब्दैः सामानाधिकरण्येन निर्दि­ष्टा­स्तस्य तदभेदं प्रत्याययन्ति । न च उप­क्र­मो­प­सं­हा­र­प­रा­मर्शैः प्रकरणस्य कार्त्स्न्येन संसा­रि­प­र­त्वा­व­ग­मात् तस्मिन्नेव सर्वे­श्व­रा­दि­शब्दाः कथ­ञ्चि­दा­पे­क्षि­कै­श्व­र्या­दि­प­र­तया योजनीया इति वाच्यम् ; उप­क्र­मा­दि­ष्व­भे­द­प्र­ति­प­त्त्य­र्थ­त­यैव संसा­रि­स्व­रू­प­की­र्त­नात् । तथाहि –
शुद्धस्य त्वंपदार्थस्य तत्प­दा­र्थ­त्व­सि­द्धये ।
उपक्रमे च मध्ये च त्वंपदार्थोऽत्र शोधितः ॥
उपक्रमे ताव­द्दे­हे­न्द्रि­य­प्रा­ण­बु­द्धि­व्य­ति­रे­क­प्र­द­र्श­नेन , लोक­द्व­य­स­ञ्चा­र­स्या­ध्या­सि­क­बु­द्ध्यै­क्या­प­त्ति­कृ­त­त्व­प्र­द­र्श­नेन , ध्यान­च­ल­नो­प­ल­क्षि­ता­ना­मा­त्म­न्य­व­भा­स­मा­नानां ज्ञान­क्रि­या­रू­पाणां सर्वे­षा­मा­ग­न्तु­क­रू­पाणां वह्नि­ग­त­च­तु­ष्को­ण­त्वा­दी­ना­मि­वो­पा­ध्य­व­च्छे­द­प्रा­प्त­भ्रा­न्ति­कृ­त­त्व­व­र्ण­नया वस्तु­तोऽ­सं­सा­रि­त्व­प्र­द­र्श­नेन च त्वंपदार्थः शोधितः । मध्ये सम्प्रसादात् स्वप्नाय धावति स्वप्ना­ज्जा­ग­रि­ताय ततः पुनः सम्प्र­सा­दा­ये­त्य­व­स्था­ना­म­व्य­व­स्थि­ता­ग­न्तु­क­ध­र्म­त्व­व­र्ण­नया तासा­म­ना­त्म­ध­र्म­त्व­प्र­द­र्श­नेन , साक्षाच्च ‘दृष्ट्वैव पुण्यञ्च पापञ्च’(बृ. ४. ३. १५) इति ‘स यत्तत्र किञ्चित् पश्य­त्य­न­न्वा­ग­त­स्तेन भवति असङ्गोह्ययं पुरुषः’(बृ. ४. ३. १६) इति च स्वप्न­जा­ग­रो­प­नी­त­भो­गेषु साक्षि­मा­त्र­त्व­प्र­द­र्श­नेन च शोधितः । एवं शोधनेन सर्वस्मात् सांसा­रि­का­द्वि­रु­द्ध­ध­र्मा­न्नि­ष्कृ­ष्टस्य शुद्धस्य तस्य परेणाभेद उपसंहारे ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्छेते सर्वस्य वशी सर्व­स्ये­शा­न­स्स­र्व­स्या­धि­पतिः’(बृ. ४.४.२२) इत्यादिना ‘एष सेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’(बृ. ४. ४. २२) इत्यन्तेन प्रतिपादितः । एतेन – अभ्यासाज्जीवे सांसारिकधर्मवति तात्पर्यमवसीयत इत्यपि शङ्का – निरस्ता ; साभ्या­सा­ना­मु­प­क्र­मो­प­सं­हा­र­त­न्म­ध्य­प­रा­म­र्शा­ना­म­भे­द­प्र­ति­प­त्ति­शे­ष­त्वात् तदनुरोधेन क्वचित् सांसा­रि­क­ध­र्मा­नु­वा­दस्य ततो निष्क­र्षा­र्थ­त्वात् । एवञ्च कर्मा­धि­का­र­सि­द्ध्य­र्थ­मिह देह­व्य­ति­रि­क्त­स्या­त्मनो निरूपणमित्यपि शङ्का निरवकाशा ; अक­र्त्र­भो­क्ता­त्म­नि­रू­प­णस्य कर्मा­धि­का­र­प्र­ति­कू­ल­त्वात् । क्वचित्क्वचित् ‘साधुकारी साधुर्भवति पापकारी पापो भवति’(बृ. ४. ४. ५) ‘पुण्यः पुण्येन’(बृ. ४. ४. ५) इत्यादिसत्वेपि तस्य पूर्वो­त्त­र­ग्र­न्थ­प­र्या­लो­च­नया देहा­द्य­भे­दा­दा­ध्या­स­प­रि­नि­ष्प­न्न­वि­शि­ष्टा­त्म­ध­र्मा­नु­वा­द­त्वा­व­सा­यात् । वैरा­ग्य­सि­द्धि­स्त्वा­नु­ष­ङ्गिकं प्रयोजनं भवत् पञ्चा­ग्नि­वि­द्या­या­मि­वा­त्रापि न निवार्यते ।

यत्तु पञ्चा­ग्नि­वि­द्या­या­मि­वा­त्रापि जीव­वि­ष­यो­पा­स­ना­वि­धि­र­स्त्वि­त्यु­क्तम् , तन्न युक्तम् ; ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’(बृ. ४. ३. १४) इति पदे पदे प्रश्ने­ष्व­नु­व­र्त­मा­नेषु क्षयि­ष्णु­फ­ल­को­पा­स­ना­वि­धि­प­र­त्व­क­ल्प­नाऽ­यो­गात् । उत्क्रा­न्ति­प्र­क­रणे ‘एवंविदं सर्वाणि भूतानि प्रतिकल्पन्ते’(बृ. ४. ३. ३७) इति फलमुक्त्वाऽपि ‘प्राप्यान्तं कर्मणस्तस्य’(बृ. ४. ४. ६) इत्य­ग्रे­त­न­म­न्त्रेण तस्य फलस्य क्षयि­ष्णु­त्व­प्र­ति­पा­द­नात् , तस्य मन्त्र­स्या­म्ना­ना­न­न्तरं ‘इति नु कामयमानः’(बृ. ४. ४. ६) इति प्रपञ्चेन निरू­पि­त­मु­त्क्रा­न्ति­पू­र्व­क­पा­र­लौ­कि­क­फ­ल­प्रा­प्ति­प्र­का­र­म­मु­मु­क्ष्व­धि­का­रि­क­त्वेन हेयं प्रदर्श्य ‘अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति’(बृ. ४. ४. ६) इति मुमुक्षोः पूर्वो­क्त­फ­ल­वि­प­री­तो­त्क्र­म­ण­प­र­लो­क­ग­म­ना­न­पे­क्ष­नि­त्य­सि­द्ध­ब्र­ह्म­रू­प­ता­प­त्ति­फ­ल­प्र­ति­पा­द­नाच्च । ‘एवंविदम्’ इति तु कर्मा­नु­ष्ठा­तॄ­णा­मु­प­ल­क्ष­णम् ; ‘प्राप्यान्तं कर्मणस्तस्य’ इति मन्त्रपर्यन्तेन ग्रन्थसन्दर्भेण सामान्यतः कर्मफलमात्रस्य कीर्त्य­मा­न­त्वात् ।

अस्तु वा वर्णि­तो­त्क्रा­न्ति­प्र­का­र­विदः फल­वि­शे­ष­प्र­ति­पा­द­न­परं ‘एवंविदं सर्वाणि भूतानि प्रतिकल्पन्ते’ इति वाक्यम् , न तावताऽत्र प्रक­र­ण­प­र्य­व­सा­न­श­ङ्का­व­काशः ; प्रति­पि­पा­द­यि­षि­त­ब्र­ह्मा­वा­प्ति­रू­प­नि­र­ति­श­य­फ­ल­स्तु­त्य­र्थ­क्ष­यि­ष्णु­सा­ति­श­य­फ­ल­की­र्त­ना­न्तः­पा­ति­न­स्तस्य प्रास­ङ्गि­क­फ­ल­वि­धि­रू­प­त्वात् । ‘स एको ब्रह्मलोक आनन्दः’(बृ. ४. ३. ३३) इत्येतदपि नोपा­स­न­फ­ल­भू­त­ब्र­ह्म­लो­का­न­न्द­प्र­शं­सा­प­रम् ; किन्तु पर­ब्र­ह्मा­न­न्दा­पे­क्ष­याऽ­ति­तु­च्छ­त्व­प्र­द­र्श­नेन तत्प्रशंसापरम् ; मानु­षा­न­न्दा­दि­क्र­मेण ब्रह्म­लो­का­न­न्द­प­र्य­न्त­मु­त्त­रो­त्त­र­श­त­गुणं वैष­यि­का­न­न्द­मुक्त्वा ‘अथैष एव परम आनन्दः’(बृ. ४. ३. ३३) इति पर­म­ब्र­ह्मा­न­न्द­स्यैव निर­ति­श­यो­त्क­र्ष­वि­श्रा­न्ति­भू­मि­त्वेन वर्णितत्वात् । तस्मात् संसा­रि­स्व­रू­प­व­र्ण­न­प्र­प­ञ्चोऽयं तस्या­सं­सा­रि­ब्र­ह्म­रू­प­त्व­प्र­ति­पा­द­न­पर इति युक्तम् ।

निरूपितः सर्वोऽयमर्थः सूत्रारूढः क्रियते – ‘भावं तु बादरायणोऽस्ति हि’(ब्र. सू. १. ३. ३३) इति सूत्रात् अस्ती­त्य­नु­व­र्त­नी­यम् । पूर्वसूत्रतश्च ‘अर्था­न्त­र­त्वा­दि­व्य­प­दे­शात्’ इति । पुनश्च ‘सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन’ इति सूत्रपूरणार्थं व्यप­दे­शा­दि­त्य­नु­व­र्त­नी­यम् । ‘पत्या­दि­श­ब्देभ्यः’ इति च तदनन्तरसूत्रम् । एवं स्थिते ‘कतम आत्मा’ इत्यारभ्य प्रवृ­त्तोऽ­य­मा­त्म­वि­ष­य­प्र­पञ्चः संसा­र्या­त्म­वि­षयः , न परमेश्वरविषय इति साध्ये अर्था­न्त­र­त्वा­दि­व्य­प­दे­शा­दिति हेतो­स्त­त्स­न्द­र्भ­प्र­ति­पा­द्यस्य पर­मे­श्व­रा­द­र्था­न्त­र­त्व­मा­द­दते ज्ञाप्यत्वेन गृह्णन्ति ये जाय­मा­न­त्वा­दि­हे­तवः ते अर्था­न्त­र­त्वा­दयः । ‘उपसर्गे घोः किः’(पा. सू. ३. ३. ९२) इत्या­ङ्पू­र्वा­दृ­दाते किप्रत्यये सति आदिपदमादातृवाचि । तेषां ‘स वा अयं पुरुषो जायमानः’ इत्यादिषु व्यप­दे­शा­दि­त्यर्थः । तत्रैव साध्ये ‘सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन व्यपदेशात्’ इत्यपि हेत्वन्तरम् । एत­त्स­न्द­र्भ­प्र­ति­पा­द्यस्य सुषु­प्त्यु­त्क्रान्त्योः पर­मे­श्व­रा­द्भे­देन व्यप­दे­शा­दि­त्यर्थः । यद्यपि पर­मे­श्व­र­स­म्प­रि­ष्व­क्त­त्व­त­द­न्वा­रू­ढ­त्व­व्य­प­देशो भेदकव्यपदेश एव , स च प्रथमहेतुनैव क्रोडीकर्तुं शक्यः , तथापि परमेश्वरं स्वशब्देनोपादाय ततोऽयं भेदकव्यपदेश इति पृथगुक्तिः।

अथ संसा­रि­स्व­रू­प­मा­त्रा­न्वा­ख्या­न­प­रोऽयं सन्दर्भः , न तु तस्य पर­मे­श्व­रा­भे­द­प्र­ति­पा­द­न­पर इति वादिन पूर्वपक्षिणं प्रति किं परमेश्वर एव नास्ती­त्या­द्य­वि­क­ल्प­नि­रासे , अस्तीति साध्यम् । अस्ति संसा­रि­णोऽ­र्था­न्त­र­भूतः परमेश्वर इति तस्यार्थः । तत­स्त­स्या­र्था­न्त­र­त्व­ज्ञा­प­कानां तत्स्र­ष्टृ­त्वा­दि­हे­तूनां पूर्वो­त्त­रा­धि­क­र­ण­वि­ष­य­वा­क्येषु विशिष्यापदेशात् स्पष्टं प्रतिपादनादिति तस्मिन् साध्ये प्रथमहेतोरर्थः । इहापि तस्य संसारिणो भेदेन व्यपदेशादिति द्विती­य­हे­तो­रर्थः । पर­मे­श्व­र­स्या­स्ति­त्वेऽपि तदभेदेन प्रतिपादनमिह कुतोऽपि शब्दान्नोपलभ्यत इति द्विती­य­क­ल्प­नि­रासे ‘पत्या­दि­श­ब्देभ्यः’ इति द्वितीयं सूत्रम् । सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन व्यप­दे­शेऽ­भ्यु­प­ग­म्य­माने पत्या­दि­श­ब्देभ्यः कथ­म­भे­द­प्र­ति­पत्तिः ? व्याव­हा­रि­क­भे­दस्य पार­मा­र्थि­का­भे­दा­वि­रो­धि­त्वा­दि­त्य­वेहि । इदमग्रे स्पष्टीभविष्यति । सांसा­रि­क­ध­र्मेभ्यो निष्कृष्टस्य शुद्धस्यापि जीवस्य कथं सर्वे­श्व­र­त्वा­दि­वि­शि­ष्टे­ना­भेदः प्रतिपादनीयः ? दह­रा­धि­क­र­णो­क्त­रीत्या मुक्तौ संसारिणः सर्वे­श्व­र­भा­वा­प­त्ति­स­त्त्वात् । तदनभ्युपगमे तत्प­दा­र्थ­शो­ध­न­स्यापि प्रकरणान्त उपसंहारात् । इदमप्यग्रे स्पष्टीभविष्यति । अत्रा­प्य­सि­द्ध­ब्र­ह्म­लि­ङ्गानां प्रसि­द्ध­जी­व­लि­ङ्गेभ्यो वस्तुगत्या बलवत्त्वेऽपि अति­ब­हु­ल­जी­व­लि­ङ्गा­भि­भू­त­त्वा­द­स्प­ष्टता । १.३.४२ ।

इति सुषु­प्त्यु­त्क्रा­न्त्य­धि­क­र­णम् । १३ ।
इति भार­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सूनोः श्रीम­द­प्प­य्य­दी­क्षि­तस्य कृतौ शारी­र­क­न्या­य­र­क्षा­मणौ प्रथ­म­स्या­ध्या­यस्य तृतीयः पादः ।

चतुर्थः पादः

आनु­मा­नि­क­म­प्ये­के­षा­मिति चेन्न शरी­र­रू­प­क­वि­न्य­स्त­गृ­ही­ते­र्द­र्श­यति च ॥१॥

एवं पादत्रयेण वेदान्तानां ब्रह्मणि समन्वयः प्रसाधितः । स न सङ्गच्छते । यतः कानि­चि­द्वे­दा­न्त­वा­क्यानि प्रधा­न­का­र­ण­त्वा­दि­प्र­ति­पा­द­का­न्यपि लक्ष्यन्ते । अत ईक्ष­त्य­धि­क­र­णोक्तं प्रधा­न­स्या­श­ब्द­त्व­म­प्य­यु­क्त­मि­त्या­श­ङ्का­नि­रा­सेन प्रसा­धि­त­स­म­न्व­य­दृ­ढी­क­र­ण­मस्य पादस्यार्थः । नन्वेवं सति श्रुति­वि­गा­न­प­रि­हारः पादार्थ इत्युक्तं स्यात् । स तु द्वितीयाध्याये विय­त्प्रा­ण­पा­दयोः करिष्यते । सत्यम् । तत्र कार्य­वि­ष­य­श्रु­ति­वि­गा­न­प­रि­हारः, अत्र तु जगत्कारणे ब्रह्मणि सम­न्व­य­प्र­ति­ष्ठार्थं कार­ण­वि­ष­य­श्रु­ति­वि­गा­न­प­रि­हार इति भेदः । यद्यपि सोऽप्यत्रैव कर्तुं शक्यः, तथापि कार्ये वेदान्तानां न तात्पर्यमिति गमयितुमिह न कृतः, द्वितीयाध्याये तु तर्कपादे परपक्षाणां विप्र­ति­षे­धा­दु­पे­क्ष्यत्वे वर्णिते तर्हि वेदान्तानामपि ब्रह्म­सृ­ज्य­का­र्य­त­त्क्र­मा­दि­वि­षये विप्र­ति­षे­धोऽ­स्तीति शङ्का­प­रि­हा­र­स्तत्र वेदान्तानां तात्प­र्य­म­भ्यु­पेत्य कृतः ।

‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धि­र्बु­द्धे­रात्मा महान् परः । महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क.उ.१-३-१०,११) इत्य­त्रा­व्य­क्त­पदं प्रधानपरं शरीरपरं वेति स्मार्त­क्र­म­श्रौ­त­प­रि­शे­षा­भ्या­मु­भयोः प्रत्य­भि­ज्ञा­नात् संशयः । तत्र य एव यन्नामानो यत्क्रमाश्च मह­द­व्य­क्त­पु­रुषाः साङ्ख्य­स्मृ­ति­प्र­सिद्धाः ते तथैव इह प्रत्य­भि­ज्ञा­यन्ते । अतो मह­दा­दि­स­क­ल­वि­का­र­मू­ल­का­र­ण­त्वेन महतः परं पुरुषभोग्यत्वेन पुरुषादवरञ्च यदव्यक्तनामकं स्वतन्त्रं स्मृतिप्रसिद्धं प्रधानं तदे­वा­त्रा­व्य­क्त­प­दे­नो­क्त­मिति श्रुतिसिद्धमेव प्रधानस्य स्वातन्त्र्येण जगत्प्रकृतित्वं कपि­ला­दि­भि­र्म­ह­र्षिभिः परिगृहीतमिति च ज्ञायते । एवञ्च यद्यपि प्रतिवेदान्तं ब्रह्मावगतिरूपं गतिसामान्यमस्ति , तथापि क्वचित् प्रधानमपि कारणत्वेन समन्वयविषय इति न सर्ववेदान्तानां जगत्कारणे ब्रह्मणि ऐककण्ठ्येन समन्वयः, न प्रधा­न­स्या­श­ब्दत्वं न च ब्रह्मलक्षणस्य शुद्धतेति पूर्वपक्षः । स्यादेतत् । पूर्वत्र ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हया­ना­हु­र्वि­ष­यां­स्तेषु गोचरान्’(क.उ.१-३-३,४) इत्या­दा­वा­त्म­श­री­र­बु­ध्या­दयो रथि­र­थ­सा­र­थ्या­द्या­त्मना रूपिताः । तत्र बुद्ध्या­त्म­नो­र्मध्ये शरीरस्य श्रुतत्वादिहापि तयोर्मध्ये श्रुतमव्यक्तं शरीरं भवितुमर्हति ; स्मार्तक्रमतः श्रौतक्रमस्य बलीयस्त्वात् । न च वाच्यम् – अव्यक्तमिह मह­त्पु­रु­ष­यो­र्मध्ये श्रुतम् , न तु बुद्ध्या­त्म­नो­र्मध्ये – इति । पुरु­ष­श­ब्द­स्या­त्म­वा­चि­त्वा­न्म­ह­च्छ­ब्दस्य हैर­ण्य­ग­र्भ­बु­द्धि­वा­चि­त­त्वात् , ‘मनो महा­न्म­ति­र्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः’ इति तन्नामसु पाठात् , बुद्धिशब्दस्य हिर­ण्य­ग­र्भ­बु­द्धि­सा­धा­र­ण्येऽपि व्यष्टि­स­म­ष्टि­भे­देन पृथ­ग्ग्र­ह­णो­प­पत्तेः । महच्छब्दो मह­त्त­त्त्व­वा­चीति साङ्ख्यपक्षेऽपि तथैव पृथ­ग्ग्र­ह­ण­स्यो­प­पा­द­नी­य­त्वात् । तन्मते बुद्धिशब्दस्य मह­त्त­त्त्वा­भि­धा­न­त्वा­भ्यु­प­ग­मात् ।

अपि च ‘आत्मानं रथिनं विद्धि’ इत्यारभ्य ‘‘विज्ञा­न­सा­र­थि­र्यस्तु मनः­प्र­ग्र­ह­वा­न्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ.१-३-९) इत्यन्तेन संय­त­म­नो­बु­द्ध्या­द्यु­प­क­र­ण­वता पुरुषेण प्राप्यं विष्णोः परमं पदमुक्त्वा किं तत् परमं पद­मि­त्या­का­ङ्क्षा­या­मि­न्द्रि­या­दिभ्यः परत्वेन तत्प्र­ति­पा­द­नार्थं तच्छेषत्वेन इन्द्रि­या­दी­न्य­नु­क्रा­न्तानि । तत्र पूर्वं रथि­र­था­दि­क­ल्प­नायां गृहीता एवे­न्द्रि­या­द­योऽ­त्रापि ग्राह्याः ; प्रकृतत्वात् । एवञ्च रथत्वेन रूपितं शरीरं पुरु­ष­प­र­त्व­प्र­ति­पा­द­क­वा­क्य­स्थेन केन­चि­त्प­दे­ना­भि­धा­न­म­पे­क्ष­माणं सत् स्वाभि­धे­या­व­रु­द्धा­नी­न्द्रि­या­दि­प­दानि विहाय परि­शि­ष्ट­म­व्य­क्त­प­द­म­नु­धा­वति । अव्यक्तपदञ्च रथि­र­था­दि­रू­प­क­वि­ष­या­र्थ­मध्ये कञ्चि­द­र्थ­म­भि­धा­तु­म­पे­क्ष­माणं सत् स्वश­ब्दो­पा­त्ता­नी­न्द्रि­या­दीनि विहाय परिशिष्टं शरीरमनुधावति । एव­म­न्यो­न्या­का­ङ्क्षा­ल­क्ष­णेन प्रकरणेनापि शरीरमेवाव्यक्तं भवितुमर्हतीति चेत् –

उच्यते – स्मार्तक्रमतः श्रौतक्रमस्य बलीयस्त्वं तावदसिद्धम् ; शब्दस्य स्वातन्त्र्येण प्रामा­ण्य­म­न­भ्यु­प­ग­च्छतां साङ्ख्यानां मते श्रुति­स्मृ­त्यो­र­नु­मा­न­सि­द्धा­र्था­नु­वा­दि­त्वेन तुल्यत्वात् । श्रौत­क्र­मोऽ­प्य­सिद्धः ; रूपकवाक्ये रथित्वेन रूपितस्य संसारिणः सारथित्वेन रूपितस्य तदध्यवसायस्य च मध्ये शरीरम् , पुरु­ष­प­र­त्व­वाक्ये साङ्ख्यमते मह­त्त­त्त्व­रू­पस्य सिद्धान्ते संसा­र्या­त्म­स्व­रू­पस्य च महत आत्मनः , प्राप्य­वै­ष्ण­व­प­द­रू­पस्य पुरुषस्य च मध्ये अव्यक्तमिति भेदात् । सिद्धान्ते ‘महानात्मा’ इत्यस्य प्राग्ग्र­थि­त्वेन रूपिते संसारिणि वृत्तिसम्भवे व्यष्टि­स­म­ष्टि­भे­देन बुद्धि­म­ह­द्भे­द­क­ल्प­ना­क्ले­शा­नौ­चि­त्यात् । अव्यक्तपदस्य शरीरपरत्वापादकं प्रक­र­ण­म­प्य­सि­द्धम् । प्रधा­न­स्या­कां­क्षा­वतः सन्निधावाम्नानं हि प्रकरणम् । तथा च किं तत्परं पदमिति निर्धा­र­णा­कां­क्षस्य वैष्णवपदस्य सन्नि­धा­वा­म्ना­न­रू­पेण प्रकरणेन इन्द्रियादीनि तदी­य­प­र­त्व­प्र­मि­ता­व­व­धि­त­यो­प­यो­गि­त्वेन तदङ्गानि भवन्तु नाम । इन्द्रियादयो रथि­र­था­दि­क­ल्प­नायां गृहीता एवा­न्यू­ना­न­ति­रिक्ता इहापि ग्राह्या इति केन प्रकरणेन सिद्ध्यति ? न हीन्द्रि­या­दि­भि­र­सं­य­तै­र्जीवः पुनः पुनः संसारमेव प्राप्नु­या­त्सं­य­तैस्तु मुक्तिमिति प्रदर्शनार्थे रथि­र­था­दि­रू­प­णेऽ­ङ्ग­भा­व­मा­साद्य निराकांक्षा इन्द्रियादयः पुरु­ष­प­र­त्व­प्र­ति­पा­द­नेऽ­प्य­ङ्ग­भा­व­म­पे­क्षन्ते । नापि प्रधानं वैष्णवपदं स्वकी­य­प­र­त्व­प्र­ति­पा­दने तेषा­म­व­धि­त­याऽ­ङ्ग­भा­व­म­पे­क्षते । तद्धि ‘सा काष्ठा सा परा गतिः’ इति निर­ति­श­यो­त्क­र्ष­प्र­ति­पा­द­ना­नु­सा­रेण कृत्स्नस्य जगतः पर­त्वा­व­धि­त­या­ङ्ग­भा­व­म­पे­क्षते । न च कृत्स्नं जगद्रूपकवाक्ये गृहीतम् । शरी­रे­न्द्रि­य­त­द्वि­ष­य­म­नो­बु­द्धि­भो­क्तॄ­णा­मेव तत्र ग्रहणात् । अत­स्त­दा­कां­क्षा­नु­सा­रेण साङ्ख्या­भि­म­त­पु­रु­षा­व­र­च­तु­र्विं­श­ति­त­त्त्वा­त्म­क­स­क­ल­प्र­प­ञ्च­स­म­र्प­क­त्व­मे­वात्र इन्द्रि­या­दि­श­ब्दानां युक्तम् । तत्रेन्द्रियाणि ज्ञान­क­र्मा­र्थानि दश । अर्थाः पञ्च तन्मात्राः पञ्चमहाभूतरूपा दश । मनोऽ­न्त­रि­न्द्रि­यम् । बुद्धिरहङ्कारः । महानात्मा महत्तत्त्वम् अव्यक्तं प्रधानमिति सङ्घटते तेषां चतु­र्विं­श­ति­त­त्त्व­स­म­र्प­क­त्वम् । बुद्धि­श­ब्दा­भि­धे­य­म­ह­त्त­त्त्व­प्र­भ­व­त्वा­द­ह­ङ्कारे बुद्धिशब्द उपपन्नः ।

एतेन – सन्नि­धा­ना­द्रू­प­क­वा­क्य­ग­ता­न्ये­वे­न्द्रि­या­दीनि ग्राह्याणीति निरस्तम् ; आकांक्षायाः सन्नि­धा­ना­द्ब­ली­य­स्त्वात् । ‘अर्थतो ह्यस­म­र्था­ना­मा­न­न्त­र्येऽ­प्य­सं­बन्धः’(जै.सू.४-३-११) इति जैमि­नि­सू­त्र­द­र्श­नात् ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । अर्थतो ह्यस­म­र्था­ना­मा­न­न्त­र्य­म­का­र­णम्’ इति वार्तिकोक्तेश्च । एतेनैव रूपकवाक्ये षडर्था रूपकविषयाः इहापि पर­त्वा­व­ध­य­स्ता­वन्त इति संख्या­सा­मा­न्यात्त एव ग्राह्या इत्यपि शङ्का निरस्ता । संख्या­सा­म्य­तोऽ­प्या­का­ङ्क्षाया बलीयस्त्वात् । साङ्ख्यानां पञ्च­विं­श­ति­स्त­त्त्वानि । इह पर­त्वा­व­ध­य­श्च­तु­र्विं­श­ति­स्त­त्त्वानि पुरुषः पञ्चविंशस्ततः परं तत्त्वान्तरं नास्तीति साङ्ख्या­भि­म­त­त­त्त्व­ग्र­ह­णेऽपि संख्या­सा­म्य­सं­भ­वाच्च ।

ननु वैदि­क­स्या­ङ्गा­पे­क्ष­स्या­न्यत्र निबद्धमपि वैदि­क­मे­वा­ङ्ग­जातं ग्राह्यम् , न त्वनि­ब­द्ध­म­प्य­वै­दि­क­मिति पूर्वतन्त्रे निर्णीतत्वादिह परमपदस्य पर­त्वा­व­धि­रू­प­स्व­प्र­ति­यो­ग्या­कां­क्षायां मुक्ति­सं­सा­र­प्रा­प्ति­व­र्ण­नो­प­यो­गि­रू­प­णा­र्थ­तया प्राङ्निबद्धमपि तदे­वे­न्द्रि­या­दिकं ग्राह्यं ‘एका देया षड् देया­श्च­तु­र्विं­श­ति­र्दे­या­स्स­हस्रं देयमपरिमितं देयम्’ इति श्रुता­वा­धा­न­द­क्षि­णा­क­ल्प­भे­द­प्र­ति­पा­द­के­ना­प­रि­मि­त­श­ब्देन रूढ्या समर्पितस्य बहुत्वस्य प्रति­यो­ग्या­कां­क्षा­या­मा­धा­न­द­क्षि­णा­क­ल्पा­न्त­र­त्वेन निबद्धमपि सहस्रमेव हि प्रतियोगित्वेन गृह्यते । तस्मा­त्क्व­चि­द­ङ्ग­त्वे­ना­नि­ब­द्ध­मपि साङ्ख्योदितं तत्त्वजातं न ग्राह्यमिति चेत् ; स्यादप्येवं यद्यत्र तदाम्नानं न स्यात् । अस्ति त्वत्रैव साक्षा­दि­न्द्रि­या­द्या­म्ना­नम् । तथा च यथा सोम­स्ये­ति­क­र्त­व्य­ता­कां­क्षायां स्वप्र­क­र­णा­म्नातं सोमलताया रसी­भा­वा­र्थ­म­पे­क्षितं तदा­कां­क्षा­पू­र­ण­स­म­र्थ­म­भि­ष­वा­दि­सं­स्का­र­जा­त­म­स्तीति तद­ङ्ग­भू­त­दी­क्ष­णी­या­दिषु सन्निहितमपि तदा­कां­क्षा­पू­र­णा­स­म­र्थ­मै­ष्टि­क­म­ङ्ग­जातं न गृह्यते , एवमिहापि स्ववाक्याम्नातं निर­ति­श­य­प­र­त्वा­व­ध्या­कां­क्षा­पू­र­ण­स­म­र्थ­ञ्च­तु­र्विं­श­ति­त­त्त्वा­त्मकं कृत्स्नं जगदस्तीति सन्नि­धि­मा­त्र­ल­ब्ध­मा­कां­क्षा­पू­र­णा­स­मर्थं रूपि­त­मि­न्द्रि­या­दिकं न ग्राह्यम् । किञ्च तद्ग्रहणे परि­शे­षा­द­व्य­क्त­प­देन शरीरं ग्राह्यमापतितम् ; न तु तद्युज्यते । न ह्यव्यक्तपदस्य साङ्ख्या­भि­म­त­प्र­धान इव शरीरे रूढिरस्ति । न वा तस्मि­न्प्र­त्यक्षे ‘न व्यक्तम्’ इति योगस्सम्भवति ।

ननु चतु­र्विं­श­ति­त­त्त्व­ग्र­ह­णेऽपि ‘महानात्मा’ इत्या­त्म­श्रु­तिर्न सम्भवति । नैष दोषः । व्याप­क­त्वा­द्य­र्था­न्त­र­वृ­त्ति­तया तस्य मह­त्त­त्त्व­वि­शे­ष­ण­त्वात् । अग्रे ‘महतः परमव्यक्तम्’ इति केव­ल­म­ह­च्छ­ब्दे­नैव प्रति­नि­र्दे­श­द­र्श­नात् । ‘‘यच्छे­द्वा­ङ्म­नसी प्राज्ञ­स्त­द्य­च्छे­ज्ज्ञान आत्मनि । ज्ञानमात्मनि महति निय­च्छे­त्त­द्य­च्छे­च्छान्त आत्मनि’(क.उ. १-३-१३) इत्य­ग्रे­त­न­मन्त्रे ज्ञान­श­ब्दो­दि­तायां बुद्धावपि विशे­ष­ण­त­याऽ­त्म­श­ब्द­प्र­यो­ग­द­र्श­नेन तत­श्चे­त­न­प­र­त्व­नि­र्ण­या­यो­गाच्च । तस्मा­त्त­न्त्र­सिद्धं स्वतन्त्रं जगत्कारणं प्रधा­न­मि­हा­व्य­क्त­प­दे­नो­च्यत इति जगत्कारणे ब्रह्मणि न सर्व­वे­दा­न्त­वा­क्य­स­म­न्वयः; नापि जगत्कारणत्वं ब्रह्मलक्षणमिति ।

एवं प्राप्ते सिद्धान्तः – पर­म­प­द­श­ब्दो­क्तस्य परमपुरुषस्य प्राप्यत्वेन प्रतिपादने य एवेन्द्रियादयो रूपकविषयाः संयतत्वगुणेन तत्प्रा­प्त्यु­पा­य­तया तदङ्गत्वेन वर्णितास्त एव तस्य परत्वेन प्रतिपादनेऽपि स्वरूपेण तत्प्र­मि­त्यु­पा­य­तया तदङ्गत्वेन ग्राह्याः ; सन्निहितत्वात् , प्राप्य­त्व­प्र­ति­पा­दने तदङ्गत्वेन क्लृप्तत्वात् , संख्यासाम्याच्च । तन्त्र­सि­द्ध­त­त्त्वे­ष्वा­न्त­रा­लि­क­भे­देन संख्या­सा­म्य­स­त्त्वेऽ­प्यत्र श्रुत­वि­भा­ज­को­पा­धिभिः संख्या­सा­म्या­भा­वात् ‘दशमन्वन्तराणीह तिष्ठ­ती­न्द्रि­य­चि­न्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः । बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रन्तु तिष्ठ­न्त्य­व्य­क्त­चि­न्तकाः । पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते’ इति तन्त्र­सि­द्ध­व­च­ना­न्त­र­म­नु­सृत्य इन्द्रि­य­व­र्गा­दी­ना­मे­कै­क­त्वेन परिगणनेऽपि तत्रा­व्य­क्ता­न्तानां पाञ्चविध्यमिह षाड्विध्यमिति संख्या­भे­दा­न­पा­यात् । ननु सोमाङ्गानामिव परत्वावधीनां पठितानां सत्त्वा­द्रू­प­क­वा­क्य­स­न्नि­हि­ता­नी­न्द्रि­या­दीनि दीक्ष­णी­या­दि­स­न्नि­हि­ता­न्यै­ष्टि­का­ङ्गा­नीव न ग्राह्याणीति चेत् , तर्हि नत­रा­म­स­न्नि­हि­तानि तन्त्र­सि­द्ध­त­त्त्वानि ग्राह्याणीति क्व साङ्ख्य­त­त्त्व­श­ङ्का­व­काशः ? नन्विह पठि­ता­ना­मे­वे­न्द्रि­या­दीनां तन्त्र­सि­द्ध­त­त्त्व­रू­प­तया पर्यवसानमुच्यत इति चेत् , तदेव प्राची­न­रू­प­क­वि­ष­य­रू­प­त­याऽ­स्मा­भि­रु­च्यते ; सन्नि­हि­त­त्वा­दि­हे­तुभ्यः ।

ननु सन्नि­हि­त­प­र्य­व­साने पर­त्वा­व­ध्या­का­ङ्क्षा­पू­रणं न भवति पुरु­षा­व­र­कृ­त्स्न­प्र­प­ञ्च­स­ङ्ग्र­हा­भा­वा­दिति चेत् , साङ्ख्या­भि­म­त­त­त्त्व­प­र्य­व­सा­नेऽपि तथैव । तन्मा­त्रा­दी­ना­म­ग्र­ह­णा­द­र्थ­श­ब्दस्य इन्द्रि­य­प­द­स­म­भि­व्या­हा­रे­णे­न्द्रि­येभ्यः परत्वलिङ्गेन चेन्द्रि­य­ग्रा­ह्य­प­र­त्वात् । इन्द्रि­ये­भ्योऽ­र्थानां पर­त्व­स्ये­न्द्रि­याणां पुरु­ष­व­शी­क­र्तृ­ताया अर्थो­प­हा­रा­धी­न­तया, वशीकृतानामपि तेषां निर­ति­श­य­सौ­न्द­र्य­व­द­र्थ­स­न्नि­धाने क्षोभदर्शनेन च समर्थनीयत्वात् । यद्य­प्य­न­यो­र्म­न्त्र­यो­र्ने­न्द्रि­या­दि­भ्योऽ­र्था­दी­ना­मु­त्त­रो­त्त­र­प­रत्वे तात्पर्यम् , किन्तु इन्द्रि­या­दि­भ्य­स्स­र्वेभ्यः पुरुषस्य परत्व एव तात्पर्यमिति ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३-३-१४) इत्यधिकरणे निर्णेष्यते ; तथाऽपि तात्पर्यविषयस्य तस्यैव प्रमि­ता­वु­पा­य­त्वे­नो­च्य­मा­न­मि­न्द्रि­या­दि­भ्योऽ­र्था­दीनां पर­त्व­म­र्था­दि­श­ब्दानां यस्य यस्यार्थस्य ग्रहणे सम्भवति तं तमर्थमादाय सम्भवदेव ग्राह्यम् । अर्थ­वा­द­ता­त्प­र्य­वि­ष­य­प्रा­श­स्त्य­प्र­मि­त्यु­पा­योऽपि तत्त­द­वा­न्त­र­वा­क्यार्थः स्वत­स्स­म्भ­व­न्ने­वा­र्थ­वा­द­स्थ­प­दानां तदु­चि­ता­र्थ­ग्र­ह­णेन गृह्यते । तदर्थान्येव ह्यर्थ­वा­दा­धि­क­र­ण­गु­ण­सू­त्राणि तत्सिद्ध्यादीनि च । स्वत­स्स­म्भ­व­द­र्था­भावे चार्थ­वा­दा­न्त­र­कृ­त­सं­स्त­वा­नु­सा­रेण बुद्धि­स(म्भ)वा­द­यो­ग्योऽ­र्थ­स्तेषां तदु­चि­ता­र्थ­ग्र­ह­णेन गृह्यते । यथा ‘तस्मा­द्द्वा­भ्या­मेति’ इत्य­र्थ­वा­द­स्या­र्थ­वा­दा­न्त­र­कृ­तो­रु­सं­स्त­वा­नु­सा­र्यर्थो द्वाभ्यामिति पदस्य मध्य­म­प­र्व­द्व­य­रू­पा­र्थ­ग्र­ह­णेन गृह्यते । ‘मध्यमयोर्वा गत्यर्थवादात्’(जै.सू. ७-३-२५) इति सूत्रेण तथा निर्णयात् । सर्वधाऽप्यसम्भव एवा­स­द­र्था­व­ल­म्ब­नत्वं प्राशस्त्यस्य रुद्र­रो­द­ना­द्य­र्थ­वा­देषु । इहेन्द्रियेभ्यः पर­त्व­मि­न्द्रि­य­ग्रा­ह्या­णा­मु­क्त­रीत्या सम्भवति, अर्थ­वा­दा­न्त­र­कृ­त­ग्र­हा­ति­ग्र­ह­सं­स्त­व­म­नु­स­रति च ।

नन्वस्तु नाम अर्थपदं इन्द्रि­य­ग्रा­ह्य­प­रम् । साक्षा­द्भो­ग्या­ना­मि­न्द्रि­य­ग्रा­ह्याणां पुरु­षा­व­र­त्वोक्तौ तत्साधनत्वेन परम्परया पुरु­षा­र्थ­प­र्य­व­सा­यिनां तन्मात्रादीनां तत्कै­मु­ति­क­न्या­येन सिद्ध्यतीति चेत् ; एवमेव सन्नि­हि­त­ग्र­ह­णेऽपि कण्ठोक्त्या, कैमुतिकन्यायेन च कृत्स्नस्य जगतः पुरुषावरत्वं सिद्ध्यतीति व्यर्थः सन्नि­हि­त­प­रि­त्या­ग­स्ता­न्त्रि­क­त­त्त्व­प­रि­ग्र­हश्च । अवश्यञ्च कठवल्लीष्वेव उत्त­र­त्रा­म्ना­तयोः ‘‘इन्द्रियेभ्यः परं मनः मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा मह­तोऽ­व्य­क्त­मु­त्त­मम् । अव्यक्तात्तु परः पुरुषो व्यापको लिङ्ग एव च । यद् ज्ञात्वा मुच्यते जन्तुरमृतत्वञ्च गच्छति’(क.उ.२-३-७.८) इति मन्त्रयोः कृत्स्नस्य जगतः पुरु­षा­व­र­त्व­सि­द्ध्यर्थं कैमुतिकन्यायः समाश्रयणीयः ; तत्रा­र्था­ना­म­पा­ठात् । स इहाप्यस्तु । तस्मा­दि­हे­न्द्रि­या­दि­श­ब्दानां सन्नि­हि­त­प­रि­त्यागे कारणाभावात् प्राग्द­र्शि­त­प­रि­शे­ष­ल­ब्धया शरी­रा­व्य­क्त­प­द­यो­रि­त­रे­त­रा­का­ङ्क्षया शरी­र­प­र­म­व्य­क्त­पदं न तु साङ्ख्या­भि­म­त­स्व­त­न्त्र­प्र­धा­न­प­र­मिति सिद्धम् ।

सूत्रे ‘एकेषाम्’ इत्यनेन सर्व­शा­खा­ग­त­का­र­ण­वा­क्या­ना­मी­क्ष­त्य­धि­क­रण इव प्रधानपरत्वं नाशंक्यत इति दर्शितम् । अपिशब्देन एकेषां कठानां शाखायामपि ब्रह्म­का­र­ण­त्व­प्र­ति­पा­दनं वाक्यान्तरैः क्रियमाणं नाक्षिप्यत इति दर्शितम् । तेन ब्रह्मलक्षणस्य नासम्भवः शंक्यते । नापि प्रतिवेदान्तं ब्रह्म­का­र­ण­त्वा­व­ग­ति­स­द्भा­व­रूपं गति­सा­मा­न्य­मा­क्षि­प्यते , किन्तु ब्रह्म­का­र­ण­त्व­म­भ्यु­प­ग­म्यैव ‘महतः परमव्यक्तम्’ इत्यत्र साङ्ख्य­प्र­क्रि­या­प्र­त्य­भि­ज्ञा­नात् तत्प्र­क्रि­या­नु­सा­रेण प्रधानमपि क्वचित्कल्पे स्वत­न्त्र­का­र­ण­म­भ्यु­प­ग­न्त­व्य­मिति ब्रह्म­ल­क्ष­ण­स्या­ति­व्या­प्ति­मा­त्र­मा­शं­क्यत इति सूचितं भवति । यद्यपि उदा­हृ­त­मं­त्रा­व­ष्ट­म्भेन शङ्का साङ्ख्य­प्र­क्रि­या­प्र­सि­द्ध­म­ह­दा­दि­क­मपि तथै­वा­भ्यु­प­ग­न्त­व्य­मिति प्रधा­ना­दि­स­क­ल­त­त्त्व­सा­धा­र­णम् (णा), तथापि प्रधा­न­स्वी­क­र­ण­मु­खेन ब्रह्म­ल­क्ष­णा­क्षे­पेण प्रकृ­त­स­ङ्ग­ति­रि­त्य­भि­प्रेत्य विशिष्य प्रधा­न­स्या­नु­मा­नि­क­श­ब्देन ग्रहणम् । स्वेन रूपेण रथित्वादिना उपमेयमात्मादिकं रूप­व­त्कु­र्व­न्तीति रूपकाणि उप­मे­या­त्मा­दि­सा­मा­ना­धि­क­र­ण्येन निर्दिष्टानि रथि­र­थ­सा­र­थि­प्र­ग्र­हा­श्व­गो­च­र­रू­पा­ण्यु­प­मा­नानि । रूपवच्छब्दात् ‘तत्करोति’ इति णिचि ‘णावि­ष्ठ­व­त्प्रा­ति­प­दि­कस्य’ इति इष्ठ­व­द्भा­वा­न्म­तुपो लुकि टेश्च लोपे रूपीत्यतः धातोः कर्तरि ण्वुलि ‘णेरनिटि’ इति णिलोपे च सति रूप­व­त्कु­र्व­न्ती­त्यर्थे रूप­क­श­ब्द­नि­ष्पत्तिः । रूपकात्मना विन्यस्ता आत्म­श­री­रा­द­य­स्तेषां मध्ये शरीराख्यं यद्रू­प­क­वि­न्यस्तं तस्याव्यक्तपदेन गृहीतेरिति सिद्धा­न्त­हे­त्वर्थः ।

ननु बहुषु रूपकविन्यस्तेषु विद्यमानेषु कुत­श्श­री­र­स्यै­वा­व्य­क्त­प­देन ग्रह­ण­मि­त्या­श­ङ्का­वा­र­णाय परि­शे­ष­प्र­द­र्श­ना­र्थोऽपि हेतुसाधकहेतुः ‘शरी­र­रू­प­क­वि­न्य­स्त­गृ­हीतेः’ इत्यनेनैव सङ्गृहीतः । तत्र हेतौ शरीरे अधिकरणे ये रूपकात्मना विन्यस्ता इन्द्रि­य­म­नो­बु­द्ध्या­त्मानः तेषां प्राति­स्वि­कै­रि­न्द्रि­या­दि­श­ब्दै­र्ग्र­ह­णा­दि­त्ये­कोऽर्थः । शरीररूपकस्य रथस्य ये विन्यः विशेषेण नेतारः विषयेष्वाकर्षका इन्द्रि­या­श्वा­स्ते­षा­म­स्तानि अस्यते गम्यते येष्विति गमनाधिकरणानि ‘विषयांस्तेषु गोचरान्’ इति मार्गात्मना रूपितानि तेषां रूपकवाक्ये विष­य­श­ब्दो­क्ता­ना­मि­हा­र्थ­श­ब्देन ग्रह­णा­दि­त्य­प­रोऽर्थः । अत्र द्वितीयेऽर्थे विन्य­स्ते­त्य­त्रा­स्त­शब्दः ‘क्तोऽधिकरणे च ध्रौव्य­ग­ति­प्र­त्य­व­सा­ना­र्थेभ्यः’(पा.सू.३-४-७६) इति सूत्रेण ‘अस गति­दी­प्त्या­दा­नेषु’ इति धातोरिह गत्य­र्था­द­धि­क­र­णा­र्थ­प्र­त्य­यान्तः । भूता­धि­का­र­वि­हि­तोऽयं प्रत्ययः इन्द्रि­या­श्वानां विषयमार्गेषु सञ्चा­र­स्या­ती­त­स्यापि सत्त्वा­त्त­द्वि­ष­य­त­यो­प­पन्नः । इडागमाभावस्तु ‘स्तोश्चुना श्चुः’(पा.सू. ८-४-४०) इत्यादिषु नुमागमाद्यकरणेन ‘अनि­त्य­मा­ग­म­शा­स­नम्’ इति ज्ञापि­त­त्वा­दु­प­पन्नः । अस्त­श­ब्दा­त्प्रा­चीनो विनीशब्दो विपूर्वान्नयतेः क्विबन्तः ‘शरीररूपकविनि’ इति च षष्ठी­ब­हु­व­च­नान्तं भिन्नं पदं ‘तृतीया तत्कृतार्थेन गुणवचनेन’(पा.सू.२-१-३०) इति सूत्रे तत्कृतपदमिव ‘सुपां सुलुक्’(पा.सू.७-१-३९) इत्यादिसूत्रेण लुप्तविभक्तिकम् । अधि­क­र­णा­र्थ­क्त­योगे ‘अधि­क­र­ण­वा­चि­नश्च’(पा.सू.२-३-६८) इति विहि­ता­या­ष्षष्ठ्याः ‘अधिकरणवाचिना च’(पा.सू. २-२-१३) इति समासनिषेधात् । एव­म­र्थ­द्व­य­प­रि­ग्र­हेण शरी­रा­ति­रि­क्तानां सर्वेषां प्रति­स्वि­क­श­ब्दै­र्गृ­ही­त­त्वा­च्छ­री­र­मे­वा­व्य­क्त­प­देन ग्राह्यमिति परिशेषो लभ्यते ।

एवं सिद्धा­न्त­हे­तू­प­पा­द­ना­र्थ­म­न्य­यो­रपि द्वयो­र­र्थ­यो­र्ग­र्भी­क­र­णा­यैव ‘गृहीतेः’ इत्युक्तम् । ननु पुरु­ष­प­र­त्व­वाक्ये रूप­क­वा­क्य­नि­र्दिष्टा एवेन्द्रियादयो ग्राह्या इति यदि सिद्धं स्यातदा शरी­रा­ति­रि­क्तानां स्वस्व­श­ब्दै­र्गृ­ही­त­तया परि­शे­षा­द­व्य­क्त­श­ब्देन शरीरं ग्राह्यं सिध्येत् , तदेव कुत इत्याशङ्कायां सन्नि­हि­त­त्वा­दि­हे­तुभ्य इत्येतदपि अनेनैव हेतु­वा­क्ये­ना­र्थ­त्र­य­प­रेण लभ्यते । तत्र ‘रूपकविन्यस्त’ इती­न्द्रि­या­दीनां प्राङ्नि­र्दि­ष्ट­त्व­प्र­द­र्श­नेन सन्निहितत्वं लभ्यते । तेषां प्राङ्नि­र्दि­ष्ट­त्व­मा­त्र­म­नुक्त्वा विशिष्य रूप­क­वि­न्य­स्त­त्वोक्त्या रथ­सं­य­तै­रि­न्द्रि­या­दिभिः परमपदमिति तेषां प्राप्त्यु­पा­य­तया पुरु­ष­शे­ष­त्व­क्लृ­प्ति­र्ल­भ्यते परि­शे­ष­प्र­द­र्श­नेन तु संख्यासाम्यम् । एव­म­न­न्त­रा­ती­त­ग्र­न्थ­प­र्या­लो­च­नायां नास्ति तन्त्र­सि­द्ध­त­त्त्व­ग्र­ह­ण­प्र­त्या­शे­त्यु­क्तम् । तथै­वो­त्त­र­ग्र­न्थ­प­र्या­लो­च­ना­या­म­पीति युक्त्य­न्त­र­स­मु­च्च­यार्थो ‘दर्शयति च’ इति सूत्रशेषः । तथा हि – शरी­रे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­भो­ग­सं­यु­क्तस्य संसारिणः शरीरादीनां रथा­दि­रू­प­क­त्व­क­ल्प­नया संसा­र­मो­क्ष­ग­ति­नि­रू­प­णेन यस्य परमपदशब्दितस्य परब्रह्मणो मोक्षे प्राप्य­त्व­मुक्तं यस्य च निरतिशयपरत्वं वर्णितं तथा­भू­त­ब्र­ह्म­भा­वा­व­गतिं संसा­रि­ण­स्त­द्भा­व­प्राप्तौ साक्षा­दु­पा­य­म­भि­प्रेत्य तदुपायमग्रे दर्शयति यथा ‘सा परा गतिः’ इत्येतदनन्तरम् ‘‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म­द­र्शिभिः’(क.उ.१-३-१२)इति मन्त्रेण तावत्तस्य परमपुरुषस्य परब्रह्मणः सर्वभूतेषु गूढ­त­याऽ­व­स्था­न­मु­क्त्वाऽ­त्य­न्त­दु­र­धि­ग­म­त्व­मुक्तं तत्सं­सा­रि­ण­स्त­देव परं ब्रह्म तात्त्विकं स्वरूपं न भोक्तृ­त्वा­दि­वि­शिष्टं संसारदशायां प्रकाशमानं रूपमिति विवक्षयैव । तथा सत्येव कथं भोक्तृ­त्वा­दि­वि­शि­ष्ट­स्या­त­था­भू­त­ब्र­ह्म­भाव इति विचिकित्सया तदधिगमस्य दौर्ल­भ्यो­प­पत्तेः जीव­व­ज्जी­वा­द­न्य­द्ब्र­ह्मापि भूतेषु गूढं वर्तत इति विवक्षायां हृद­य­क­म­ल­सं­स्था­ना­दि­वत् तस्मिन्नपि वेदो­क्ति­वि­श्वा­सात् सुखे­ना­धि­ग­म­स­म्भ­वात् ।

एवं दुर­धि­ग­म­त्वो­क्त्य­न­न्तरं तदधिगमोपायं दर्शयति ‘‘यच्छे­द्वा­ङ्म­नसी प्राज्ञ­स्त­द्य­च्छेद् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि’(क.उ. १-३-१३) इति । अत्र वागु­प­ल­क्षि­त­स­क­ल­बा­ह्ये­न्द्रि­य­व्य­व­हा­रस्य विष­य­वि­क­ल्पा­भि­मु­खस्य मनसो विषयप्रवणाया बुद्धे­रि­न्द्रि­य­म­नो­बु­द्धि­यो­गा­द्भो­क्तृ­त्व­मा­प­न्नस्य जीवस्य च क्रमात् पूर्व­पू­र्व­प्र­वि­ला­प­नेन जीवस्य तात्त्विके रूपे प्रकरणिनि परब्रह्मणि प्रति­ष्ठा­प­न­मु­च्यते । एवमभ्यस्यतः क्रमेण ब्रह्मभावावगतिः स्थिरीभवतीति । एव­मि­द­म­द्वै­त­प्र­क­र­ण­मिति कृत्स्न­क­ठ­व­ल्ली­प­र्या­लो­च­न­याऽपि ‘त्रयाणामेव’ इति सूत्रे व्यक्तीभविष्यति । एवञ्च देहे­न्द्रि­य­म­नो­बु­द्धीनां रथत्वादिकल्पनं पुरु­षा­व­र­त्व­व­र्ण­नञ्च न केवलं परमपदप्राप्तौ , तस्य परत्वप्रमितौ चोपायतया , किन्त्वात्मनो देहे­न्द्रि­य­म­नो­बु­द्धि­व्य­ति­रे­क­दा­र्ढ्या­र्थ­त­याऽपि । अन्यथा देहे­न्द्रि­या­दि­ध­र्मै­र्वि­रु­द्ध­ध­र्म­व­त्तया भासमाने संसारिणि ब्रह्म­भा­वा­व­ग­ति­दा­र्ढ्या­स­म्भ­वात् । अतः पुरु­ष­प­र­त्व­वाक्ये मनो­बु­द्धी­न्द्रि­या­णा­मिव देहस्यापि व्यति­रे­क­प्र­ति­प­त्त्य­र्थ­मस्ति ग्रहणाकांक्षेति ततोऽ­प्य­व्य­क्त­पदं शरीरपरमवसीयते । एवञ्च सति न्यायसाम्यात् ‘इन्द्रियेभ्यः परं मनः’ इत्य­ग्रे­त­न­वा­क्येऽ­प्य­व्य­क्त­पदं शरीरपरमेव । तत्रापि ह्यत्रोक्त एवार्थो दार्ढ्यार्थं पुनरनुवर्णितः । अर्थाः परं तत्र न कीर्तिताः । आत्मनो देहा­दि­व्य­ति­रे­क­व­द­र्थ­व्य­ति­रे­क­स्या­स्प­ष्ट­त्वा­भा­वेन कण्ठोक्त्या ततः पर­त्व­प्र­ति­पा­द­न­स्या­त्य­न्तो­प­यो­गि­त्वा­भा­वात् । एवं पूर्वा­प­र­प­र्या­लो­च­नया साङ्ख्या­न­भि­म­ता­द्वै­त­प्र­क­रणे नास्ति तत्त­न्त्र­सि­द्ध­त­त्त्व­ग्र­ह­ण­प्र­त्या­शा­व­काश इति । ‘दर्शयति च’ इति चकारो दर्शयतीत्यनेन युक्त्यन्तरं समुच्चीयते, न तु प्राची­न­हे­तु­सा­ध­क­हे­तु­रु­च्यते इति ज्ञापनार्थः । सन्नि­हि­ते­न्द्रि­या­दि­ग्र­हणे पुरु­षा­व­र­कृ­त्स्न­प्र­प­ञ्च­सं­ग्रहो नास्ती­त्या­दि­श­ङ्का­नि­रा­सार्थो वा । ।१-४-१।

ननु तथाऽप्यव्यक्तं प्रधानमित्येव युक्तम् । तत्र ह्यव्यक्तपदस्य रूढिरस्ति , न व्यक्तमिति योगोऽप्यस्ति न तु शरीर इत्याशङ्कायामाह –

सूक्ष्मं तु तदर्हत्वात् ॥२॥

साङ्ख्यानां पारिभाषिकी रूढिर्न वेदा­र्थ­नि­र्ण­यो­प­यो­गिनी । लौकिकी त्वव्यक्तपदस्य न प्रधानेऽस्ति । योगस्तु स्यात् । स त्वन्यस्यापि सूक्ष्ममात्रस्य साधारणः । तथाऽपि शरीरं स्थूलमेव इति चेत् ; सत्यम् । सूक्ष्मं त्विह कारणात्मना शरीरं विवक्ष्यते । तस्य कारणं ह्यव्याकृतं सूक्ष्मम् । तदात्मना शरीरमपि सूक्ष्मम् । यद्यपि सर्वं जग­द­व्या­कृ­ता­त्मना सूक्ष्ममेव ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सी­त्त­न्ना­म­रू­पाभ्यां व्याक्रियत’ इति(बृ.उ.१-४-७) सर्वस्य जगतः प्राग­व्या­कृ­त­भा­व­श्र­व­णात् , तथाऽप्यत्र ग्राह्या­णा­मि­न्द्रि­या­दीनां शब्दा­न्त­रै­र्गृ­ही­त­त्वात् परिशिष्टं शरीरमेकमिति तदेव कारणवाचिना उपचाराद्गृह्यते ।

स्यादेतत् – अव्याकृतमपि नाव्य­क्त­श­ब्दा­र्हम् । तद्धि मायाऽ­वि­द्या­क्ष­रा­का­शा­दि­शब्दैः श्रुतिषु प्रसि­द्ध­म­ज्ञा­न­मिति भवद्भिरिष्यते । तत्र च ‘न जानामि नावेदिषम्’ इत्या­दि­प्र­त्यक्षं प्रमा­ण­मु­प­न्य­स्यते । कथं तत्सू­क्ष्म­म­स्प­ष्टम् ? अस्पष्टवचनो ह्यव्यक्तशब्दः , न त्वनि­र्वा­च्य­व­चनः ; तथा लोक­प्र­सि­ध्य­भा­वा­त्ता­न्त्रि­क­प­रि­भा­षा­या­श्चा­ना­दि­श­ब्दा­र्थ­नि­र्ण­या­नु­प­यो­गि­त्व­स्यो­क्त­त्वात् , अनि­र्वा­च्य­व­च­नत्वे च शरी­र­स्या­प्य­नि­र्वा­च्य­त्वे­ना­भ्यु­प­ग­त­तया तत्र साक्षा­द­व्य­क्त­श­ब्दस्य वृत्त्युपपत्तौ प्राग­व­स्थि­तो­प­चा­र­स­मा­श्र­य­ण­क्ले­शा­यो­गा­दि­त्या­शं­क्योक्तं सूत्रे ‘तदर्हत्वात्’ इति । कार­ण­स्या­स्प­ष्ट­स्या­व्य­क्त­श­ब्दा­र्ह­त्वा­दि­त्यर्थः । अयमाशयः – यथा स्थूलमिदं शरीरं स्फुट­त­र­बा­ह्ये­न्द्रि­य­प्र­त्य­क्ष­सि­द्ध­म­ने­का­र्थ­क्रि­या­का­र्या­ति­स्पष्टं नैवमज्ञानम् । अत एव ‘न जानामि’ इत्या­दि­प्र­त्यक्षं क्लृप्त­ज्ञा­ना­भा­व­वि­ष­य­म­स्त्विति कद­र्थ­य­न्त­स्त­द­द्या­प्य­प­ल­पितुं प्रयतन्ते । ततश्च यथैव ‘अपरोक्षत्वाच्च प्रत्य­गा­त्म­प्र­सिद्धेः’ इति भाष्योक्तरीत्या सर्वेषां प्रत्यग्रूपतया प्रकाशमानमपि परं ब्रह्मा­वि­द्या­दो­षा­द्य­था­वत् स्फुट­त­र­म­प्र­का­श­मा­न­म­द्यापि अना­त्म­स्वा­त्म­प्र­ति­प­त्ति­म­द्भि­श्चो­रै­र्मु­ष्य­मा­ण­म­स्प­ष्ट­म­व्य­क्त­श­ब्दा­र्हम् , अत एव ‘तदव्यक्तमाह हि’(ब्र.सू.३-२-२३) इति सूत्रयिष्यते एवमिदमपीति ।१-४-२।

ननु यदि सर्व­वि­का­र­प्र­कृ­ति­भू­त­म­व्या­कृ­त­मिति किञ्चि­द­भ्यु­प­ग­म्यते हन्त भोः स एव प्रधानकारणवादः प्राप्तः । साङ्ख्यैरपि हि तदेव प्रधानमिति व्यपदिश्यत इत्याशंक्याह –

तद­धी­न­त्वा­द­र्थ­वत् ।३।

अस्म­द­ङ्गी­कृ­त­म­व्या­कृतं जगत्कारणस्य परमेश्वरस्य शक्तिरूपतया तदधीनमिति तदङ्गीकारेण न स्वत­न्त्र­प्र­धा­न­का­र­ण­वा­दा­भ्यु­प­ग­म­प्र­स­ञ्ज­ना­व­काशः । ननु यदि परमेश्वर एव जगत्कारणं कृतमव्याकृतेन तद­धी­ने­ने­त्या­शं­क्योक्तं सूत्रे ‘अर्थवत्’ इति । अर्थवत् सफलमव्याकृतम् । न हि शक्तिरूपेण तेन विना निर्वि­का­र­चै­त­न्य­रू­पस्य परमेश्वरस्य जगदुपादानत्वं जगत्स्रष्टृत्वं वा सम्भवति । तदेतत् प्रकृत्यधिकरणे स्थाप­यि­ष्य­मा­णस्य ब्रह्मणः उभ­य­वि­ध­का­र­ण­त्वस्य निर्वाहकमिह प्रसङ्गात् सूत्रितम् । तत्रैव व्यक्ती­क­रि­ष्यामः ।

ननु यदव्यक्तं शरीरं कथं तद्भो­क्तृ­भो­गा­य­त­न­तया तच्छेषभूतं ततः परं स्यादिति शङ्का­या­म­प्ये­त­दे­वो­त्तरं ‘तद­धी­न­त्वा­द­र्थ­वत्’ इति । यथा खल्वि­न्द्रि­याणां पुरु­ष­व­शी­क­र्तृ­त्व­स्या­र्था­धी­न­त्वा­द­र्था­ना­मि­न्द्रि­येभ्यः परत्वम् , जीवभावेन भोक्तृ­त्व­स्या­व्य­क्ता­धी­न­त्वात् तस्य तावत्ततः परत्वं युक्तम् । तद्रू­प­तो­प­चा­रात्तु शरीरस्य तदौपचारिकम् । इदमेव श्रुता­व­व्य­क्त­प­द­प्र­यो­गेण शरीरस्य कार­णा­व­स्था­त्म­तो­प­चा­रा­श्र­यस्य फलं यत्तदीयमेव भोक्तृतः परत्वं शरीरे परिकल्प्य तद्द्वारा पुरुषपरत्वं वर्णनीयमिति ।

ननु कैश्चिदाचार्यैः व्यक्तं शरीरं कथ­म­व्य­क्त­श­ब्दे­नो­च्यत इति शङ्कायां स्थूलशरीरं तेन नोच्यते, किन्तु लोक­द्व­य­स­ञ्चा­रा­नु­यायि स्थूल­श­री­रा­र­म्भ­क­भू­त­सू­क्ष्म­रूपं सूक्ष्म­श­री­र­मि­त्ये­त­त्प­र­तया ‘सूक्ष्मं तु’ इति सूत्रं व्याख्यातम् । ‘तद­धी­न­त्व’सू­त्रञ्च संसारित्वस्य तद­धी­न­त्वा­ल्लो­क­द्व­या­न­नु­या­यि­स्थू­ल­श­री­रा­धी­न­त्वा­भा­वा­त्त­स्यैव संसारितः परत्वमुपपद्यत इत्येतत्परतया व्याख्यातम् । युक्तं च तत् ; ‘सूक्ष्मं प्रमाणतश्च तथोपलब्धेः’(ब्र.सू. ४-२-९) इत्य­ग्रे­त­न­सू­त्रेण नाडी­नि­ष्क्र­म­णा­दि­हे­तुभ्यः सौक्ष्म्या­व­गत्या देहा­न्नि­ष्क्रा­म­त्सू­क्ष्म­श­रीरं पार्श्व­स्थै­र्नो­प­ल­भ्यत इति सम­र्थि­त­त्वे­ना­ती­न्द्रिये तस्मि­न्न­व्य­क्त­श­ब्दस्य निर्वि­श­ङ्क­वृ­त्ति­स­म्भ­वात् । ‘तदापीतेः संसा­र­व्य­प­दे­शात्’(ब्र.सू. ४-२-८) इति सूत्रेण तस्याऽऽ­सं­सा­र­मो­क्षा­नु­वृ­त्ति­रुक्ता ; संसारित्वं तद­धी­न­मि­त्य­स्यापि निर्वि­श­ङ्क­त्वात् । न च रूपकवाक्ये शरीरद्वयस्यापि प्रकृ­त­त्वा­वि­शेषे कथमिह सूक्ष्मशरीरमेव ग्राह्यमिति शङ्क्यम् । तत्रापि सूक्ष्म­श­री­र­स्यैव रथत्वेन रूपणात् । रथेन पर­लो­क­प्रा­प्ते­रपि वक्तव्यत्वात् । एवं युक्तं तद्व्याख्यानं किमिति भाष्य­कृ­द्भि­रु­पे­क्षि­तम् ? व्याख्ये­य­सू­त्रा­भ्या­मेव तत्प्र­त्या­ख्या­त­मि­त्यु­पे­क्षि­तम् । यद्यतीन्द्रियं सूक्ष्मशरीरमिह ‘सूक्ष्मं तु’ इत्यनेन गृहीतं स्यात् तदा कस्यामाशङ्कायां ‘तदर्हत्वात्’ इति सूत्रशेषः कर्तव्यो भवेत् ?

यदि च पर­लो­का­न­नु­वृ­त्त­स्थू­ल­श­री­रा­धीनं न भवति संसारित्वमिति स्थूलशरीरमिह त्यज्येत , तदा सूक्ष्मशरीरमपि किमिति न त्यक्तव्यम् ? तदपि महाप्रलये नानुवर्तते ; सर्वस्यापि तदा­नी­म­व्या­कृ­त­शे­ष­त्वात् ; पुनः सर्गादौ भूते­न्द्रि­य­सृ­ष्टि­व­र्ण­नाच्च । यत्तु स्थूलशरीरं न प्रकृ­त­मि­त्युक्तं तद्विपरीतम् । पुरु­षा­र्थ­सि­द्ध्य­र्थ­मि­च्छा­पू­र्व­क­प्र­वृत्तौ हि रथा­दि­ग­म­न­सा­धा­र­ण­प­रि­क­र­रू­पणं युज्यते , न तु स्थूल­दे­ह­वि­यो­गा­त्सं­पि­ण्डि­त­क­र­ण­ग्रा­म­स्या­ति­वा­हिकैः क्रियमाणे नयने । इच्छा­पू­र्व­प्र­वृत्तौ चेन्द्रि­या­श्वै­रा­कृ­ष्य­मा­ण­तया स्फुट­त­र­मु­प­ल­भ्य­मा­नस्य चेष्टा­भो­गे­न्द्रि­या­श्र­य­तया शरी­र­श­ब्द­मु­ख्या­र्थस्य स्थूलशरीरस्यैव रथ­त्व­रू­प­ण­मु­चि­तम् । पर­लो­का­नु­या­यि­त्वा­त्सू­क्ष्म­श­रीरं रथत्वेन रूपितमिति कल्पनाप्रसक्तौ च प्रल­येऽ­प्य­नु­या­यि­त्वा­द­व्या­कृ­त­श­रीरं तथा रूपितमित्येव कल्पना स्यात् । अस्तु वा सूक्ष्म­श­री­र­स्यापि रूपकानुप्रवेशः । स्थूलशरीरमवश्यं रूप­का­नु­प्र­वि­ष्ट­तया पुरु­ष­प­र­त्व­प­र­वा­क्येऽ­प्य­न्व­य­मा­कां­क्ष­माणं न परि­त्या­ग­म­र्ह­ती­त्यलं विस्तरेण ।१-४-३।

एवं पूर्वा­प­र­ग्र­न्थ­प­र्या­लो­च­नया वाक्य­न्या­य­वि­चा­र­णायां नास्त्यत्र साङ्ख्य­त­न्त्र­सि­द्ध­त­त्त्व­ग्र­ह­ण­श­ङ्का­व­काश इति समर्थितम् । ये त्वत्र क्रमि­क­म­ह­द­व्य­क्त­पु­रु­ष­श्र­व­ण­मा­त्र­स­न्तुष्टाः श्रद्धाजडा मन्यन्ते इदमेव वाक्यं साङ्ख्यमतस्य मूलं भवितुमर्हति ; न ह्यवे­द­मू­ल­म­त्य­न्ता­प्त­तमाः कपिलादयो महर्षयः प्रणयेयुरिति तान्प्रत्याह –

ज्ञेय­त्वा­व­च­नाच्च ॥४॥

यदीदमेव वाक्यं साङ्ख्यमतस्य मूलमभविष्यत् , तदा ‘गुण­पु­रु­षा­न्त­र­ज्ञा­नात् कैवल्यम्’ इति वदतां साङ्ख्या­ना­म­भि­मतं प्रधानस्य मुमु­क्षु­ज्ञे­य­त्व­म­प्य­त्रा­व­क्ष्यत् । तदत्र नोच्यते । विभू­ति­वि­शे­ष­प्रा­प्तये प्रधा­न­स्यो­पा­स्यत्वं तस्य स्वत­न्त्र­का­र­ण­त्व­मि­त्यादि च तेषामभिमतमत्र नोच्यते । अतो नैतन्मूलकं साङ्ख्य­त­न्त्र­मिति श्रद्धेयम् । न हि यन्मूलमेव शास्त्रं प्रणयन्ति तत्र तच्छा­स्त्र­व­र्णितं निक्तमिति युज्यते ॥१-४-४॥

नन्वसिद्धं ज्ञेयत्वावचनम् ; ‘‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’(क.उ. १-३-१५) इत्युत्तरमन्त्र एव हि तस्य ज्ञेयत्वं वद­ती­त्या­श­ङ्का­मु­द्भाव्य परिहरति –

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥

शब्दा­दि­ही­न­त्वोक्त्या महतः परत्वोक्त्या च प्रधानमिह निर्दिष्टमिति न भ्रमितव्यम् । प्राज्ञः परमात्मा हि निचाय्यत्वेन निर्दिष्ट इति ‘एष सर्वेषु भूतेषु’ इत्या­दि­त­स्त­त्प्र­क­र­णात् प्राग्द­र्शि­ता­द­व­ग­म्यते । शब्दा­दि­ही­न­त्व­म­क्ष­र­वा­क्ययोः परमात्मनोऽपि प्रसिद्धम् । महतश्चात्मनो भोक्तुः परत्वं तस्य प्रसिद्धम् ।१-४-५॥

ननु अस्तु नाम परमात्मनः प्रकरणं , तथापि यथा ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतम्’ इति मन्त्रे जीवस्य गति­व­र्ण­न­मे­व­म­श­ब्द­मिति प्रधानस्यापि मुमु­क्षु­ज्ञे­य­त्व­व­र्णनं स्यादि­त्या­श­ङ्क्याह –

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥६॥

त्रयाणामेव पदा­र्था­ना­म­ग्नि­जी­व­प­र­मा­त्मनां कठ­व­ल्ली­षू­प­न्यासो दृश्यते तद्विषय एव प्रश्नः । तत्र तावत् ‘‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्धधानाय मह्यम्’(क.उ. १-१-१३) इत्यग्निविषयः प्रश्नः । ‘‘येयं प्रेते विचिकित्सा मनु­ष्येऽ­स्ती­त्येके नायमस्तीति चैके । एत­द्वि­द्या­म­नु­शि­ष्ट­स्त्व­याऽहं वराणामेष वरस्तृतीयः’(क.उ. १-१-२०) इति जीवविषयः । ‘‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क.उ. १-२-१४) इति परमात्मविषयः । प्रतिवचनमपि ‘‘लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’(क.उ. १-१-१५) इत्यग्निविषयम् । ‘‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्यात्मा भवति गौतम । योनिमन्ये प्रपद्यन्ते’(क.उ. २-२-६) इत्यादि जीवविषयम् । ‘‘न जायते म्रियते वा विपश्चित्’(क.उ. १-२-१८) इत्यादि बहुप्रपञ्चं परमात्मविषयम् । एवञ्च मृत­जी­व­वृ­त्ता­न्त­वि­ष­य­प्र­श्न­स­त्त्वा­त्त­द्ग­ति­व­र्णनं युक्तम्, न तु प्रधानस्य मुमु­क्षु­ज्ञे­य­त्व­व­र्ण­नम् , अपृष्टत्वात् । ननु त्रया­णा­मे­वो­प­न्यास इत्यसिद्धम् ; परमात्मप्राप्तौ तदवगतौ च उपाययोरपि ‘‘विज्ञा­न­सा­र­थि­र्यस्तु’(क.उ. १-३-९) ‘‘यच्छे­द्वा­ङ्म­नसी प्राज्ञः’(क.उ. १-३-१३) ‘‘नाविरतो दुश्च­रि­ता­न्ना­शान्तः’(क.उ. १-२-२४) इत्या­दि­षू­प­न्यासो दृश्यते । एवं प्रधानस्य ज्ञेय­त्वो­प­न्या­सोऽपि स्यात् । न स्यात् संदर्भविरोधात् ।

एवं श्रूयते – वाजश्रवसो महर्षिः सर्व­वे­द­स­द­क्षि­णेन यज्ञेनेष्ट्वा जरद्गवीः दक्षिणाः प्रयच्छन् बालेन नचिकेतसा पुत्रे­णा­न­र्ह­द­क्षि­णा­दा­न­नि­मि­त्त­क्र­तु­वै­क­ल्या­त्पि­तु­र­नि­ष्ट­मा­श­ङ्क­मा­नेन तदनिष्टं स्वात्म­प्र­दा­प­ने­नापि क्रतुसंपत्तिं कारयित्वा निवारणीयमिति मन्यमानेन ‘तात कस्मै मां दास्यसि’ इति पुनः पुनः पृष्टो बहु­वा­र­प्र­श्न­नि­र्ब­न्ध­सं­जा­त­को­प­स्सन् ‘मृत्यवे त्वा ददामि’ इत्युवाच । नचिकेताः किं मयो­क्त­मि­त्य­नु­श­यानं पितरं प्रति ‘पूर्वं पितामहाद्या यथा, मृषावादं विना स्थिता यथा चापरे साधवोऽद्यापि तिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यम् । मर्त्य­स्स­स्य­व­द­ल्पे­नैव कालेन जीर्यति जीर्णश्च मृत्वा सस्यमिव पुनर्जायते । एवमनित्ये जीवलोके किं मृषाकरणेन, पालय सत्यम्, प्रेषय मां मृत्यवे’ इत्युक्त्वा तथैव पित्रा प्रेषितः प्रवसतो मृत्योर्द्वारि तिस्रो रात्री­र­न­श्न­न्नु­वास । प्रवासादागतो मृत्युरनश्नतैवं ब्राह्मणेन द्वारि स्थितमिति भीतस्तं प्रसाद्य तस्मै त्रीन्वरान्ददौ । नचिकेताः प्रथमेन वरेण पितृप्रसादं , द्विती­ये­ना­ग्नि­विद्यां, तृतीयेन मर­णा­न­न्त­र­दे­हा­ति­रि­क्ता­त्मा­नु­वृ­त्त्य­स्ति­त्व­ना­स्ति­त्व­स­न्दे­ह­नि­व­र्ति­का­मा­त्म­विद्यां वव्रे ।

यद्यपि नचिकेता देहा­ति­रि­क्ता­त्मा­स्तित्वे विश्वासवानेव , अन्यथा पितुः क्रतुकैवल्यस्य मृषावादस्य च परिहारार्थं महतः प्रयत्नस्य ‘‘सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः’(क.उ. १-१-६) इति वचनस्य स्वर्ग­फ­ल­का­ग्नि­वि­द्या­व­र­णस्य चानुपपत्तेः ; तथाऽपि हितै­षि­व­च­ना­दि­ल­ब्ध­स्या­स्यैव विश्वासस्य दृढीकरणाय विशे­षा­न्त­र­ज्ञा­नाय च प्रश्न उपपद्यते । इदानीमपि हि पार­लौ­कि­क­क­र्मा­नु­ष्ठा­न­निष्ठा एव किमवलम्बनेन देहात्मवादः , कथञ्च तन्निरसनमिति जिज्ञासमाना दृश्यन्ते । तत्प्र­का­रा­व­ग­त्यर्थं वेदा­ध्य­य­ना­न­न्तरं वैदि­क­क­र्मा­नु­ष्ठा­न­वद्भिः पठितव्येषु शास्त्रेषु देहा­त्म­वा­द­त­न्नि­रा­क­र­ण­नि­ब­न्ध­नञ्च दृश्यते । मृत्युस्तु – अस्य प्रश्नस्योत्तरं यथा­व­दा­त्म­रू­प­वि­वे­च­ने­नो­च्य­मानं परब्रह्मोपदेशः पर्यवस्येत् । वस्तुतः प्रत्य­ग्ब्र­ह्म­णो­रै­क्यात् । तदुपदेशश्च उप­दि­श्य­मा­ना­र्थ­स्या­ति­ग­ह­न­तया विष­या­स­क्त्य­न्त­रा­येण पारं प्राप्तु­म­प्र­भ­वते मध्ये पतिष्णवे न कर्तव्य इति प्रथमं शिष्यः परीक्षणीयः । विशिष्य च नचिकेता देहा­ति­रि­क्ता­त्मा­स्ति­त्व­वि­चि­कि­त्सया पृच्छन् किम­वि­द्व­द­धि­का­रि­क­र्मा­नु­ष्ठा­नार्थं पार­लौ­कि­क­क­र्म­फ­ल­भो­क्तृ­जी­व­स्व­रू­प­ज्ञा­ना­र्थीति तावन्मात्रं बोधनीयः ? किं वा मोक्षा­र्थ­ञ्जी­व­स्व­रू­प­भू­त­ब्र­ह्म­वि­द्या­र्थीति तावत्पर्यन्तं बोधनीय इत्यपि परीक्षणीय इति मत्वा ‘‘देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मासृजैनम्’(क.उ. १-१-२१) इत्युवाच । नचिकेताश्च ‘‘देवैरत्रापि विचिकित्सितं किल त्वञ्च मृत्यो यन्न सुविज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्’(क.उ. १-१-२२) इति प्रत्युवाच । अनेन प्रतिवचनेन दुरधिगमो विषय इति मध्ये न विस्र­क्ष्य­त्य­य­मिति मृत्यु­र्नि­श्चित्य मुमुक्षुर्वा बुभु­क्षु­र्वाऽ­य­मिति विवेचनार्थं मुमु­क्षा­स्थै­र्या­व­ग­त्य­र्थञ्च प्रलोभयन्नुवाच ‘‘शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्ति­हि­र­ण्य­म­श्वान् । भूमेर्महदायतनं वृणीष्व स्वयञ्च जीव शरदो यावदिच्छसि’(क.उ. १-१-२३) इत्यारभ्य ‘‘इमा रामा­स्स­र­था­स्स­तूर्या न हीदृशा लम्भनीया मनुष्यैः । आभि­र्म­त्प्र­त्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः’(क.उ. १-१-२५) इत्यन्तम् । यमेनैवं प्रलोभ्यमानोऽपि नचिकेतास्तु ‘‘श्वोभावा मर्त्यस्य यद­न्त­कै­त­त्स­र्वे­न्द्रि­या­णा­ञ्ज­र­यन्ति तेजः । अपि सर्व­ञ्जी­वि­त­म­ल्प­मेव तवैव वाहास्तव नृत्यगीते’(क.उ. १-१-२६) इति मृत्युना दित्सितान् स्त्र्यादि­वि­ष­यान् श्वस्था­यि­त्वेऽपि सन्धिग्धत्वेन सर्वे­न्द्रि­य­ते­जः­क्ष­प­यि­तृ­त्वेन च निन्दित्वा तेन दित्सि­ता­ञ्चि­र­का­ल­जी­वि­का­मपि ब्रह्मा­दि­की­टा­न्त­स­क­ल­प्रा­णि­व­र्तिनः सर्वस्यापि जीवि­त­स्या­ल्प­का­ल­त्वेन निन्दित्वा ‘‘यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्’(क.उ. १-१-२९) इति प्राची­न­प्र­श्न­मेव मृत्युना ‘मरणं मानुप्राक्षीः’ इति हेयतया उपन्यस्तमपि स्थिरीचकार ।

यदैवमतितरां तैस्तैः कामैः प्रलोभ्यमानोऽपि न चचाल नचिकेताः , तदा मृत्यु­र्निः­श्रे­य­स­म­भ्यु­द­य­ञ्चेति पुरुषानुबन्धि फलद्वयं श्रेयः­प्रे­यः­श­ब्दाभ्यां प्रविभज्य तदुभयं विविच्य धीरः श्रेयो वृणीते, मन्दस्तु प्रेय इत्याद्युक्त्या नचिकेतसो वरं प्रशस्य ‘‘विद्या­भी­प्सिनं नचिकेतसं मन्ये’(क.उ. १-२-४) इति कर्मफललिप्सया कर्मा­नु­ष्ठा­नो­प­यो­गि­भो­क्त्रा­त्म­ज्ञा­नार्थी न भवति नचिकेताः , किन्तु मुमुक्षया ब्रह्म­वि­द्यार्थी ; देहा­ति­रि­क्ता­त्म­प्र­श्नोऽयं मुमु­क्षु­ज्ञे­य­त­दी­य­ता­त्त्वि­क­रू­प­वि­षय एवेति निश्चित्य ‘‘न त्वा कामा बहवोऽलोलुपन्त’(क.उ. १-२-४) इति विविधैः प्रलो­भ­नै­र­च्छि­न्न­त­याऽ­व­गतं तस्य मुमु­क्षा­या­स्स्थै­र्य­ञ्चो­द्घाट्य ‘‘अवि­द्या­या­म­न्तरे वर्त­मा­ना­स्स्व­यं­धीराः पण्डि­त­म्म­न्य­मानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः­पु­न­र्व­श­मा­प­द्यते मे’(क.उ. १-२-५,६)इति देहा­त्मै­क्या­ध्या­स­रू­पा­वि­द्या­मू­ल­क­मेव केचि­द्दे­हा­त्म­वा­द­म­व­लम्ब्य गतानुगतिकाः परिभ्रमन्ति । तथा­भू­त­प­ण्डि­त­म्म­न्य­व­च­न­श्र­व­णा­ज्ज­ड­चि­त्तस्य पर­लो­का­नु­भा­व्य­फ­ल­स­द्भावो न प्रतिभाति । तादृशो नास्तिकः पुनःपुनः मत्का­र्य­मा­ण­या­त­ना­वि­षयो भवतीति देहा­त्म­वा­द­नि­रा­क­र­णेन तृतीयप्रश्नस्य यथा­श्रु­त­स्यो­त्त­र­मुक्त्वा मुमुक्षवेऽस्मै आत्म­या­था­त्म्य­जि­ज्ञा­सवे यथा­व­दा­त्म­स्व­रूपं ब्रह्मा­त्म­क­मु­प­दे­ष्ट­व्य­मिति देहा­ति­रि­क्त­त्वेन प्रद­र्शि­त­स्या­त्मनः ‘‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्या­दि­नाऽ­त्य­न्त­दु­र­व­गा­ह­त्व­मुक्त्वा उवाच ‘‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्या­त्म­यो­गा­धि­ग­मेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क.उ. १-२-१२) इति । अत्र बुद्धिगुहायां प्रति­बि­म्ब­भा­वे­ना­हितं गूढमनुप्रविष्टं गहनं प्राप्तं बुध्यु­पा­धि­क­वि­ष­य­ज्ञा­न­स­ह­स्र­ज­टि­ल­तया प्रच्छ­न्न­ता­त्त्वि­क­नि­र्वि­शे­ष­रूपं गह्व­रे­ष्ठ­मा­ध्या­सि­का­न­न्त­रा­ग­द्वे­ष­सु­ख­दुः­खा­द्य­न­र्थ­स­ङ्कटे स्थितं पुराणं एव­म­ना­दि­का­ल­प्र­वृ­त्ता­ध्या­सि­क­रू­पम्, अत एव तात्त्विकरूपेण दुर्दर्शं तं संसारिणम् अध्या­त्म­यो­गा­धि­ग­मेन ‘‘यच्छे­द्वा­ङ्म­नसी’(क.उ. १-३-१३) इत्या­दि­व­क्ष्य­मा­णेन देवं मत्वा परदेवतारूपं परं ब्रह्म निश्चित्य हर्षशोकौ जहातीति जीवस्य ब्रह्मरूपत्वं तथा­त्वा­व­ग­ते­र्मो­क्ष­फ­ल­ञ्चो­प­दि­देश ।

तदनन्तरम् ‘‘एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्य­म­णु­मे­त­माप्य’(क.उ. १-२-१३) इत्यादिना मयाऽत्यन्तं संक्षि­प्यो­क्त­मे­त­दे­वा­चा­र्य­मु­खा­च्छ्रुत्वा श्रद्धया सम्यक्परिगृह्य प्रवृह्य देहादिभ्यो निष्कृष्य धर्मादनपेतं देहा­त्म­व­द­ध­र्म­त्व­र­हितं सूक्ष्ममेतं देहादिभ्यो निष्कृ­ष्ट­मा­त्मानं स्वस्वरूपतया प्राप्य मोदते इत्युक्त्वा विशि­ष्या­त्म­वि­षये शुश्रू­षा­ञ्चो­त्पा­द­या­मास । एव­मु­त्पा­दि­त­शु­श्रूषो नचिकेताः प्रत्य­गा­त्म­नोऽ­सं­सा­रि­ब्र­ह्मा­त्मकं स्वरूपं विविच्य ज्ञातुं पप्रच्छ ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात्’ इति । अत्र धर्मा­ध­र्म­श­ब्दाभ्यां तत्फलं लक्ष्यते ; तथा च धर्माधर्मफलाच्च परि­दृ­श्य­मा­ना­द­स्मा­त्का­र्य­का­र­ण­प्र­प­ञ्चाच्च भूत­भ­वि­ष्य­दा­त्म­का­द­नि­त्या­च्चा­न्य­द्वस्तु प्रत्य­गा­त्म­न­स्स्व­रू­प­भूतं पश्यसि ; तथाभूतं वस्तु पश्यन्खलु त्वं ‘‘जानाम्यहं शेव­धि­रि­त्य­नित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्’(क.उ. १-२-१०) इति मन्त्रेण कर्मफललक्षणं निधिमनित्यं जानामि अनि­त्यै­र्द्र­व्य­साध्यैः कर्मभिर्नित्यं तन्न प्राप्यमिति कर्मभिर्न प्राप्यं नित्यञ्च तदवोचः । ‘‘श्रवणायापि बहुभिर्यो न लभ्य­श्श्रु­ण्व­न्तोऽपि बहवो यन्न विद्युः’(क.उ. १-२-७) इति ‘‘नैषा तर्केण मतिरापनेया प्रोक्ताऽ­न्ये­नैव सुज्ञानाय प्रेष्ठ’(क.उ. १-२-९) इत्यन्तेन ‘शृण्वन्तोऽपि न विद्युः’ इति मनुष्येण सतोक्तं ज्ञातु­म­श­क्य­मि­त्य­न­न्येन मनुष्यादिभावं हित्वा तद्रूपतां प्राप्ते­ना­चा­र्येण प्रोक्ते तस्मिन्पुनः संसा­र­ग­ति­र्ना­स्तीति तद्विषया मतिस्तर्केणापि प्राप्तु­म­श­क्येति चानीदृशं परि­दृ­श्य­मा­न­का­र्य­का­र­णा­त्म­क­प्र­प­ञ्च­वि­ल­क्ष­ण­म­वोचः । ‘तं दुर्दर्शम्’ इति मन्त्रेण प्रत्य­गा­त्म­स्व­रू­प­भूतं चावोचः तत्तथाभूतं वस्तु वदेति प्रश्नार्थः ।

आचार्येण ‘श्रवणायापि’ इत्या­र­भ्या­त्म­वि­षये वर्णितस्य सर्व­स्या­प्य­नु­वादः स्वस्यो­प­दे­श­यो­ग्य­त्व­प्र­क­ट­नेन सम्यगस्मै उपदेष्टव्यमिति स्वस्मि­न्मृत्योः प्रीत्यु­त्पा­द­नाय । अग्नि­वि­द्या­प्रा­प्त्य­न­न्तरं नचिकेतसा कृतं तदनुवादमाकर्ण्य प्रीतो मुत्युः नचिकेतसे वरान्तरमपि ददाविति प्रागुक्तं ‘‘स चापि तत्प्र­त्य­व­द­द्य­थो­क्त­म­थास्य मृत्युः पुनरेवाह तुष्टः । तम­ब्र­वी­त्प्री­य­माणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवि­ताऽ­य­म­ग्नि­स्सृ­ङ्का­ञ्चे­मा­म­ने­क­रूपां गृहाण’(क.उ. १-१-१५,१६) इति । स्रंकां रत्नमालाम् । ‘‘त्वादृङ्नो भूयान्नचिकेतः प्रष्टा’(क.उ. १-२-९) इति पुनरपि नचि­के­त­स्तु­ल्य­शि­ष्या­न्त­र­ला­भ­प्रा­र्थ­नया योग्य­शि­ष्य­प्रियो मृत्यु­रि­त्य­व­सि­तम् ।

एवं पृष्टो मृत्युः ‘‘तत्ते पदं संग्रहेण ब्रवीमि’(क.उ. १-२-१५) इति पृष्टं मुक्तप्राप्यं प्रत्य­गा­त्म­नोऽ­सं­सा­रि­स्व­रूपं वक्तव्यत्वेन प्रतिज्ञाय पुनरपि तस्य देहातिरिक्तत्वं ‘‘न जायते म्रियते वा विपश्चित्’(क.उ. १-२-१८) इत्या­दि­म­न्त्राभ्यां स्थिरीकृत्य ‘‘अणोरणीयान्’(क.उ.१-२-२०) इति मन्त्रेण परि­दृ­श्य­मा­न­श­री­रा­न्त­र्व­र्ति­गु­हा­नि­हितं जीवं महिमानमीशं कर्म­नि­मि­त्त­वृ­द्धि­क्ष­य­र­हि­त­तया नित्यमेव महान्तं परमेश्ववरं यः पश्यति , स वीतशोको भवतीति ‘‘तं दुर्दर्शम्’(क.उ. १-२-१२) इति मन्त्रो­क्त­म­र्थ­म­नु­व­द­न्दु­र्द­र्शस्य केनोपायेन दर्श­न­मि­त्या­कां­क्षा­याम् ‘अक्रतुः’ इत्यनेन निष्कामत्वं ‘धातुप्रसादात्’ इत्यनेन शरी­र­धा­र­ण­का­र­ण­म­नः­प्र­भृ­तीनां प्रसादं च तदु­पा­य­म­प्यु­प­दि­देश । मध्येऽपि ‘‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’(क.उ. २-१-१०) इत्या­दि­प्र­दे­शेषु प्रत्य­ग्ब्र­ह्मैक्यं स्फुटीचकार ।

न च वाच्यम् – इह देहे विद्य­मा­न­स्या­मु­त्रा­दि­त्य­म­ण्डले ब्रह्मलोकस्थाने वा विद्यमानस्य परमेश्वरस्यैव नानात्वं निषिध्यते , न तु देहे विद्यमानस्य जीव­स्या­दि­त्य­म­ण्ड­लादौ सतः परमेश्वरस्य भेदो निषिध्यते – इति । स्थानभेदेन पर­मे­श्व­र­भे­द­प्र­स­क्त्य­भा­वात् । अंगुष्ठमन्त्रेण जीव­ब्र­ह्मै­क्य­प्र­ति­पा­द­ना­न­न्तरं विरु­द्ध­ध­र्म­व­तो­स्तयोः कथमैक्यं सम्भ­व­ती­त्या­श­ङ्कायां ‘‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यन् ताने­वा­नु­वि­धा­वति’(क.उ. २-१-१४) इति मन्त्रेण जीवे ब्रह्मणि च पृथग्व्यवस्थिता धर्मा अभेदविरोधिनः सन्तीति पश्यतस्तथैव पृथग्धर्मवत्तया संसार एवानुवर्तत इति दोषमुक्त्वा ‘‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’(क.उ.२-१-१५) इति मन्त्रेण शुद्ध­यो­रे­वै­क्य­मिति तयो­रै­क्य­मु­प­पा­द­या­मास । अन्ते च ‘‘अङ्गु­ष्ठ­मात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात् प्रवृ­हे­न्मु­ञ्जा­दि­वे­षीकां धैर्येण । तं विद्या­च्छु­क्र­म­मृ­तम्’(क.उ.२-३-१७) इति मन्त्रेण ‘अङ्गुष्ठमात्र’ इत्या­दि­नाऽ­नू­दितं जीवं शरी­रा­न्नि­ष्कृष्य शुक्रं स्थूल­सू­क्ष्म­श­री­र­द्व­या­न्नि­ष्क­र्षेण शुद्धं विरु­द्ध­ध­र्म­र­हितं तममृतं ब्रह्म विद्यादिति प्रत्य­ग्ब्र­ह्मैक्यं सोप­पा­द­न­मु­प­स­ञ्ज­हार । ‘येयं प्रेते’ इति जीवस्य देहा­ति­रि­क्त­त्व­प्र­श्नेन ब्रह्म­वि­द्यो­प­क्र­मोऽ­प्यै­क्यो­प­पा­द­नार्थं शुद्ध­त्व­स­म्पा­द­ना­ये­त्यु­प­नि­षदा दर्शितम् ।

इत्थं नचि­के­तः­प्र­श्नो­प­क्रमा मृत्यु­न­चि­के­त­स्सं­वा­द­रू­पे­य­मु­प­नि­ष­दा­स­माप्तेः प्रत्य­ग्ब्र­ह्मै­क्य­प­रैव लक्ष्यते । एव­म­द्वै­त­प्र­क­र­णेऽ­स्मिन् कः स्वतन्त्रस्य प्रधानस्य ज्ञेय­त्व­व­र्ण­न­श­ङ्का­व­काशः ? यदीदं प्रकरणं भिन्ना­त्म­वि­ष­य­मिति शङ्कास्पदं स्यात्, तदा जीवे­श्व­र­भे­द­ज्ञा­न­मिव प्रधा­न­पु­रु­ष­भे­द­ज्ञा­न­मपि मोक्षसाधनमिति तदर्थं प्रधानस्य ज्ञेयत्वम् ‘अशब्दम्’ इति मन्त्रेण वर्ण्यत इति शंक्येतापि, न त्विदं शङ्कास्पदम् ; प्रश्नच्छायया प्रति­व­च­न­स­न्द­र्भेण च प्रक­र­ण­स्या­भे­द­प­र­तायाः प्रति­ष्ठि­त­त्वात् । तथा हि ‘येयं प्रेते’ इति प्रश्नस्तावत् प्रश्नवाक्यस्य ‘मरणं माऽनुप्राक्षीः’ इति प्रश्न­प्र­ति­षे­धस्य ‘न साम्पराये’ इति प्रश्नोत्तरस्य च पर्यालोचनया जीवविषय इति निर्वि­चि­कि­त्स­म­व­ग­म्यते । ‘अन्यत्र धर्मात्’ इति प्रश्नस्तु प्रश्नवाक्यस्य ब्रह्म­नि­रू­प­ण­प­र­त­दु­त्त­र­स­न्द­र्भस्य च पर्यालोचनया ब्रह्मविषय इति । न चायं जीव­वि­ष­य­प्र­श्ना­दन्यः स्वतन्त्र इति शक्यं वक्तुम् ; वर­त्र­यो­प­क्र­म­वि­रो­धात् । ‘वरन्तवेहाद्य ददामि भूयः’ इतिवत् पुनरत्र वर­दा­ना­न्त­रा­श्र­व­णाच्च । किन्तु विशेषजिज्ञासया जीवविषय एव प्रश्नः पुनरनुकृष्ट इति वक्तव्यः । ततश्च ब्रह्म­वि­ष­य­त्वे­ना­व­धा­र्य­मा­ण­प्र­श्नस्य जीवो विषय इति सिद्धौ प्रश्न­सा­म­र्थ्या­देव जीव­ब्र­ह्मा­भे­द­ता­त्पर्यं सिद्ध्यति ।

एवं प्रश्न­सा­म­र्थ्येन जीव­ब्र­ह्मा­भे­द­ता­त्प­र्या­वि­ष्क­रणं वेद­च्छा­या­नु­का­रिणि धर्मशास्त्रेऽपि याज्ञवल्कीये दृश्यते । तत्र हि प्राय­श्चि­त्त­काण्डे ‘क्षेत्र­ज्ञ­स्ये­श्व­र­ज्ञा­ना­द्वि­शुद्धिः परमा मता’ इति पर­मे­श्व­र­ज्ञा­नस्य सक­ल­पा­प­प्रा­य­श्चि­त्त­त्वो­प­दे­श­प्र­स­ङ्गात् सक­ल­ज­ग­त्स्र­ष्टृ­त्वा­दि­रूपं परमेश्वरस्य महिमानमुपवर्ण्य ततः कर्म­वि­पा­क­प्र­तु­ष्टू­षया ‘यद्येवं स कथं ब्रह्म पापयोनिषु जायते’ इति प्रश्नोऽवतारितः । तत्र ‘कथं पापयोनिषु जायते’ इत्युक्त्या जीव­वि­ष­य­त्वे­ना­व­ग­म्य­मा­नस्य प्रश्नस्य स इति प्रकृ­त­प­र­मे­श्व­र­वा­चिना सर्वनाम्ना प्राग्व­र्णि­त­नि­र­ति­श­य­स्वा­त­न्त्र्य­रू­प­त­दी­य­म­हि­म­प­रा­म­र्शिना ‘यद्येवम्’ इति वचनेन ब्रह्म­वि­ष­य­ता­मा­नी­या­भे­द­ता­त्प­र्य­मा­वि­ष्कृ­त­मिति विशेषः । एव­म­त्रो­प­क्र­म­ग­त­व­र­त्र­य­प्र­दा­न­रू­पा­ख्या­यि­का­क­ल्पनं ब्रह्म­वि­ष­य­प्र­श्नस्य प्राची­न­जी­व­वि­ष­य­प्र­श्ना­न­न्य­त्वा­पा­द­नेन जीव­ब्र­ह्मा­भे­द­ता­त्प­र्य­प्र­त्या­य­ना­र्थ­ता­या­मेव दृष्टार्थं भवति । इत्थमेव हि विद्या­स­न्नि­धि­प­ठि­ता­ना­मा­ख्या­यि­कानां विद्या­प्र­ति­प­त्त्य­र्थत्वं पारिप्लवाधिकरणे वक्ष्य­मा­ण­मु­प­पा­द­नी­यम् । एवं तावत् प्रश्नच्छायया जीव­ब्र­ह्मा­भे­द­परं प्रकरणमिति सिद्धम् । प्रति­व­च­न­स­न्द­र्भ­ग­तो­प­क्र­मो­प­सं­हा­र­म­ध्य­प­रा­म­र्शै­स्तस्य तत्परत्वं दर्शितमधस्तात् ।

ननु प्रतिवचनमध्ये जीव­ब्र­ह्म­भे­द­प्र­त्या­य­कोऽपि ‘ऋतं पिबन्तौ’ इति मन्त्र आम्नातः ? सत्यम् । स तु रथ­सा­र­थ्या­दि­क­ल्प­नया प्राप्तव्यत्वेन वक्ष्यमाणस्य ब्रह्मणः तदनन्तरम् ‘अत्र ब्रह्म समश्नुते’ इति अत्रैव प्राप्तव्यत्वेन विशेषणात् तन्निर्वाहाय प्राप्यस्य प्राप्तृ­स­न्नि­क­र्षा­पे­क्षायां प्राप्तु­र्जी­वस्य प्राप्त­व्य­पा­र­मा­र्थि­क­रू­प­त्वेन शरीरगुहायामेवं नित्यसन्निहितं तस्या­सं­सा­रि­स्व­रू­प­मिति प्रदर्शयितुं स मन्त्र इति व्यवस्थापितं गुहाऽधिकरणे । प्राप्तृ­प्रा­प्त­व्य­भे­दस्तु कल्पि­त­प्रा­प्तृ­रू­पा­पेक्षः । मोक्षशास्त्रेषु तद्व्यपदेशश्च ताद्रू­प्य­प्रा­प्ति­परः, न तु ग्रामा­दि­प्रा­प्ति­व­द्भे­द­सा­पेक्ष इति व्यव­स्था­पि­त­मा­न­न्द­म­या­धि­क­रणे । अतः प्राप्तृ­प्रा­प्त­व्य­भा­व­व्य­प­दे­शा­दपि न जीव­ब्र­ह्म­भे­द­सि­द्धि­प्र­त्याशा । तस्मा­द­द्वि­ती­य­ब्र­ह्म­प­र­प्र­श्न­प्र­ति­व­च­न­स­न्द­र्भा­वि­रो­धा­द­द्वि­ती­य­ब्र­ह्म­प्रा­प्त्यु­पा­यो­प­न्यास इव प्रधानस्य ज्ञेयत्वेन उपन्यासो न सङ्गच्छते ।

सूत्रस्यायमर्थः – त्रया­णा­म­ग्नि­जी­व­प­र­मा­त्म­ना­मेव एवं वक्तव्यत्वेन , ज्ञेयत्वेन च उपन्यासः । तेषां त्रयाणामेव च प्रश्नः । अतो जीवस्य मुक्ति­प्रा­प्य­पा­र­मा­र्थि­क­रू­प­तया परमात्मनि पृष्टे ‘तत्ते पदं संग्रहेण ब्रवीमि’ इति परमात्मनो वक्तव्यत्वेन प्रतिज्ञया तदनुबन्धित्वेन तत्प्रा­प्त्यु­पायो बहुधा परमात्मनो दुर­धि­ग­म­त्वोक्त्या तदवगत्युपायश्च यथाऽ­र्था­त्प्र­ति­ज्ञातो भवति ब्रह्म­वि­चा­र­प्र­ति­ज्ञ­येव साधनादिविचारः , न तथा स्वतन्त्रस्य साङ्ख्याभिमतस्य प्रधानस्य ज्ञेय­त्व­म­र्था­त्प्र­ति­ज्ञातं भवतीति ‘अशब्दम्’ इति मन्त्रस्य तत्प­र­त्व­क­ल्प­न­म­यु­क्त­मिति । ‘त्रयाणामेव’ इत्येवकारः प्रधा­न­व्या­वृ­त्त्यर्थः । चकारः पर­मा­त्मा­नु­ब­न्ध­त­त्प्रा­प्ति­त­द­व­ग­त्यु­पा­य­स­मु­च्च­यार्थः । द्वितीयश्चकारः प्रति­व­च­न­स­न्द­र्भ­व­त्प्र­श्नोऽपि पर्यालोच्यमानः शङ्कि­त­पू­र्व­प­क्ष­नि­रा­स­स­म­र्थ­स्व­तन्त्रो हेतुः , न तु त्रया­णा­मे­वो­प­न्यास इति हेतोः साधको हेतुरिति ज्ञापनाय हेतु­द्व­य­स­मु­च्च­यार्थः ।१-४-६।

साङ्ख्या­भि­म­त­म­ह­त्त­त्त्व­प­र­प्र­त्य­भि­ज्ञा­मा­त्र­म­व­ल­म्ब्या­व्यक्तं प्रध6नमि13 मन्दशङ्कायां ‘ज्ञेय­त्वा­व­च­नात्’ इत्युक्तम् । तामेव च प्रत्य­भि­ज्ञा­मा­लम्ब्य ‘महतः परं ध्रुवम्’ इत्यत्र ज्ञेय­त्व­व­च­न­म­प्य­स्तीति शङ्कायां सविशेषं प्रदर्श्य तन्नास्तीति उपपादितम् । इदानीं यां प्रत्य­भि­ज्ञा­म­व­ल­म्ब्यैव शङ्काद्वयं प्रसक्तं साऽपि असिद्धेत्याह –

महद्वच्च ।७।

उभयत्रापि महच्छब्दः साङ्ख्या­भि­म­त­त­त्त्व­वि­शे­ष­पर इति तावदयुक्तम् ; ‘‘महान्तं विभुमात्मानम्’(क.उ.२-१-४) इत्या­दि­वै­दि­क­प्र­सि­द्धि­वि­रो­धेन तस्य तत्र साङ्ख्य­क­ल्पि­ताया रूढे­स्त्या­ज्य­त्वात् । तद्व­दे­वा­व्य­क्त­प­दस्य प्रधाने रूढिरपि त्याज्या ; वैदिकेन प्रकरणादिना तस्य शरी­र­प­र­त्वा­व­धा­र­णात् , ‘महतः परं प्रधानं निचाय्यम्’ इत्येतदपि त्याज्यम् ; प्रक­र­ण­स्या­द्वै­त­प­र­त्वा­व­सा­या­दिति सूत्रार्थः । चकारेण ‘अव्यक्तात् पुरुषः परः’ इति श्रुत­पु­रु­ष­व­च्चेति समुच्चीयते । तस्यापि हि पुरुषशब्दस्य मोक्षार्थं प्रधा­न­वि­वि­क्त­त्वेन ज्ञेय इति साङ्ख्याभिमते पुरुषे वृत्ति­स्त्याज्या ; तस्य प्रकरणेन मोक्षार्थं प्रत्य­ग­भि­न्न­त्वेन ज्ञातव्ये निर्विशेषे परमात्मनि वृत्ते­रा­श्र­य­णी­य­त्वात् । तस्मा­द­व्य­क्त­श­ब्द­श्श­री­र­परो न प्रधानपर इति सिद्धम् ।१-४-७।

इत्या­नु­मा­नि­का­धि­क­र­णम् ।१।

चमसवदविशेषात् ॥८॥

श्वेता­श्व­त­र­शा­खि­न­स्स­मा­म­नन्ति – ‘अजामेकां लोहि­त­शु­क्ल­कृष्णां बह्वीः प्रजास्सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्यः’(श्वे.उ. ४.५) इति । अयं मन्त्रः किं साङ्ख्या­भि­म­त­स्व­त­न्त्र­मू­ल­प्र­कृ­ति­परः, उत तेजोऽ­ब­न्न­ल­क्ष­णा­वा­न्त­र­प्र­कृ­ति­पर इति संशये –

पूर्वपक्षः – न जायत इत्यजेति मूलप्रकृतौ युज्यते, न त्ववा­न्त­र­प्र­कृतौ । न च च्छागा­वा­च­क­स्या­जा­श­ब्द­स्या­वा­न्त­र­प्र­कृतौ गौणी वृत्तिः स्यादिति वाच्यम् । मुख्य­यो­ग­वृ­त्ति­स­म्भवे जघ­न्य­वृ­त्त्य­यो­गात् । ‘एकाम्’ इत्यपि मूलप्रकृतौ युज्यते, न तु तेजोऽबन्नेषु बहुषु । लोहि­त­शु­क्ल­कृ­ष्ण­श­ब्दैस्तु कुसु­म्भ­स­लि­ला­न्ध­का­र­ग­त­र­ञ्ज­क­त्व­प्र­स­न्न­त्वा­वा­र­क­त्व­गु­ण­यो­गा­द्र­ज­स्स­त्त्व­त­मो­गु­णा­त्मिका मूल­प्र­कृ­ति­र्ल­क्ष­यितुं शक्यते । गुणवाचिनां लोहि­ता­दि­श­ब्दानां तेजोऽबन्नेषु द्रव्येष्वपि लक्षणैव हि गतिः । ‘सृजमानाम्’ इत्युच्यमानं स्वातन्त्र्येण सृष्टिकर्तृत्वं तु साङ्ख्या­भि­म­तायां मूलप्रकृतावेव युज्यते । उत्त­रा­र्द्धा­र्थोऽपि तस्यामेव सङ्गच्छते । ‘एकोऽनुशेते, अन्यो जहाति’ इत्यात्मभेदेन साङ्ख्य­म­त­प्र­त्य­भि­ज्ञा­नात् ; औप­नि­ष­दै­रै­का­त्म्य­स्या­भ्यु­प­ग­त­त्वात् । न ह्यत्र पूर्वाधिकरण इवा­द्वै­त­प्र­क­र­ण­ता­मा­पाद्य वा स्वत­न्त्र­का­र­णत्वं नोच्यत इति वा न साङ्ख्य­म­त­प्र­त्य­भि­ज्ञेति वक्तुं शक्यते । एतेन – अस्य मन्त्रस्य मूल­प्र­कृ­ति­र­र्थ­श्चे­दौ­प­नि­ष­दा­भि­मता पर­मे­श्व­रा­धी­नाऽ­र्थोऽस्तु न तु साङ्ख्याभिमता स्वतन्त्रेत्यपि शङ्का – निरस्ता ; आत्मभेदाभिधानेन स्वात­न्त्र्या­भि­धा­नेन च साङ्ख्य­म­त­प्र­त्य­भि­ज्ञा­नात् । तस्याम् ‘एकाम्’ इत्यस्यायोगाच्च , बन्ध­मु­क्ति­व्य­व­स्थार्थं प्रति­जी­व­म­वि­द्या­भे­दा­भ्यु­प­ग­मा­व­श्य­म्भा­वात् , ‘जहाति’ इति त्यागो­क्त्य­यो­गाच्च ; मुक्तिदशायां तस्या निर­व­शे­षो­च्छे­दा­भ्यु­प­ग­मात् , अनुवर्तमानत्व एव त्यागो­क्ति­सा­ङ्ग­त्यात् । तस्मात् साङ्ख्या­भि­म­त­स्व­त­न्त्र­मू­ल­प्र­कृ­ति­रे­वास्य मन्त्रस्यार्थ इति एवं प्राप्ते –

राद्धान्तः – अस्य मन्त्रस्य स्वर­स­त­स्ता­व­दे­ता­वा­नर्थः प्रतीयते – काञ्चिच्छागां त्रिवर्णां सरू­प­ब­हु­ब­र्क­रा­मे­क­श्छागः प्रीय­मा­णोऽ­नु­व­र्तते, अन्य­स्ता­मु­प­भुक्तां त्यजति – इति । लोके सम्भ­व­न्न­प्य­य­मर्थो वेदे विशिष्य चाध्या­त्म­प्र­क­रणे न निब­न्ध­म­र्ह­ती­त्या­ध्या­त्मिके क्वचिदर्थे योजनं कार्यम् । स्वमनीषिकया च तत्कर्तुं न शक्यते ; विशे­ष­हे­त्व­भा­वा­च्च­म­स­वत् । यथा हि ‘अर्वा­ग्बि­ल­श्च­मस ऊर्ध्वबुध्नः’(बृ.उ.२-२-३) इति मन्त्रे प्रसिद्धस्य चम­स­स्यो­र्ध्व­बि­लस्य तिर्यग्बुध्नस्य ग्रहणासम्भवे सति ‘अनाकाशे कोऽयं गलि­त­ह­रि­णः­शी­त­कि­रणः’ इत्या­दि­व्य­ति­रे­का­नु­प्रा­णि­ता­ति­श­यो­क्त्यु­दा­ह­र­ण­का­व्य­व­चने प्रसि­द्ध­च­न्द्र­ग्र­ह­णा­स­म्भवे सति कविविवक्षया मुखे चन्द्रत्वकल्पना क्रियत इति­व­द­मु­ष्मिं­श्च­म­स­त्व­क­ल्पना क्रियत इति निश्चेतुं न शक्यते ; गिरि­गु­हा­गृ­ह­वि­शे­षा­दीनां बहू­ना­म­र्वा­ग्बि­ल­त्वो­र्ध्व­बु­ध्न­त्व­स­म्भ­वात् । नन्वत्र साङ्ख्या­भि­म­त­स्व­त­न्त्र­प्र­कृ­ति­ग्र­हणे विशेषहेतुरुक्तः । को विशेषहेतुः ? न ताव­त्स्र­ष्टृ­त्वम् ; अन्येन प्रेर्य­मा­ण­स्यापि स्रष्टृ­त्वा­न­पा­यात् । न ह्याधोरणेन प्रेर्यमाणो गजो गच्छन्न गच्छति । नाप्यात्मभेदः । न हि सोऽत्र प्रतिपाद्यते , किन्तु प्रसि­द्ध­न्त­म­नूद्य बन्ध­मो­क्ष­व्य­व­स्थितिः । अनूद्यमानश्च लोकप्रसिद्धो भेदः ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वञ्जातो भवसि विश्वतोमुखः’(श्वे.उ.४-३) ‘एको देवस्सर्वभूतेषु गूढः’(श्वे.उ.६-११) इति पूर्वा­प­र­म­न्त्रा­नु­रो­धेन काल्प­नि­कोऽ­ङ्गी­कर्तुं युक्तः । एतेनैक्यमपि व्याख्यातम् । तस्या­प्य­नू­द्य­मा­नस्य ‘‘यो योनि­म­धि­ति­ष्ठ­त्येकः’(क.उ.४-११) इत्य­त्र­त्य­म­न्त्रा­न्त­रा­नु­सा­रेण एक­जा­ती­य­ता­रू­प­त्व­स­म्भ­वात् , ‘चैत्र­मै­त्रा­वौ­षधं सेवमानौ स्थितौ तयो­श्चै­त्र­स्त­द­द्यापि सेवते मैत्रस्तत् जहाति’ इति व्यव­हा­र­द­र्श­नात्, ऐक्यस्य तेजोऽ­ब­न्न­स­ङ्घा­तै­क्य­रू­प­त्व­स­म्भ­वाच्च । साङ्ख्या­भि­म­त­प्र­कृ­ता­वपि हि गुण­त्र­य­स­ङ्घा­ता­भि­प्रा­ये­णै­वै­क्य­मु­प­पा­द­नी­यम् ।(१-४-८)

नन्वे­व­मि­हा­न्य­था­सि­द्ध्यु­प­न्या­सेन साङ्ख्य­त­न्त्र­प्र­त्य­भि­ज्ञाऽ­ना­दरे केन तर्हि विशेषावगतिरस्तु ? न खलु ‘अर्वा­ग्बि­ल­श्च­मस ऊर्ध्वबुध्न इति इदन्तच्छिरः’ इति चमसमन्त्र इवात्र व्याख्यानरूपो वाक्यशेषोऽस्ति । तदभावे च साङ्ख्य­स्मृ­ति­प्र­त्य­भि­ज्ञा­दर एव युक्त इति शङ्कायामाह –

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥९॥

परमेश्वराधीना तेजःप्रमुखा तेजोऽबन्नलक्षणा जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्ज­च­तु­र्वि­ध­भू­त­ग्रा­म­प्र­कृ­ति­रि­य­मजा प्रतिपत्तव्या । न तु गुण­त्र­य­स­ङ्घा­त­ल­क्षणा साङ्ख्य­त­न्त्र­सिद्धा स्वतन्त्रा प्रकृतिः । तथा हि एके शाखिनस्ताण्डिनः तेजोऽबन्नानां पर­मे­श्व­रा­दु­त्प­त्ति­मा­म्नाय तेषां रोहि­ता­दि­रू­पा­ण्या­म­नन्ति ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्रं तदपां यत्कृष्णं तदन्नस्य’ इति । तान्येवेह तेजोऽबन्नानि रोहि­ता­दि­श­ब्द­सा­मा­न्या­त्प्र­त्य­भि­ज्ञा­यन्ते । श्रुत्य­न्त­र­प्र­त्य­भि­ज्ञैव च ग्राह्या; सर्व­शा­खा­प्र­त्ययं ब्रह्मेति स्थितेः, न तु स्मृति­प्र­त्य­भिज्ञा; बहिरङ्गत्वात् । एवञ्च रोहि­ता­दि­श­ब्दा­ना­मपि सामञ्जस्यं भवति; गुणवत्सु गुणवाचकशब्दानां लक्षणायाः लोके वेदे च निरूढत्वात् रञ्जकत्वादिभिः सत्त्वादिषु लक्षणाया विप्र­कृ­ष्ट­त्वात् । (१.४.९)

स्यादेतत् – तेजोऽ­ब­न्ना­त्मि­कायां प्रकृ­ता­व­जा­श­ब्दस्य रूढिनिर्वाहिका नास्ति छागत्वजातिः । नापि योगनिर्वाहको जन्माभावः । न च तस्यां छागजातिकल्पनया गौणी वृत्ति­स्स्या­दिति वाच्यम्; प्रयोजनाभावेन कल्पनानुपपत्तेः । न हि शरीरादिषु रथ­त्वा­दि­क­ल्प­न­प्र­यो­ज­न­व­दिह प्रकृतौ छागजातिकल्पनस्य किञ्चि­त्प्र­यो­ज­न­मस्ति । ‘चमसवत्स्यात्’ इति चेत् , न । तस्यापि ‘चमु भक्षणे’ इति धातो­र्नि­ष्प­न्नस्य भक्षणसाधने शिरसि योग­वृ­त्त्यु­प­पत्तेः । किञ्च चरा­च­रा­त्म­क­स­क­ल­प्र­प­ञ्च­का­र­ण­भू­तायाः सर्वेषां चेतनानां बहु­वि­ध­पु­रु­षा­र्थो­प­यो­गि­न्या­स्ते­जोऽ­ब­न्ना­त्मि­कायाः प्रकृतेः कति­प­य­प्र­जो­त्पा­द­क­क­ति­प­य­चे­त­ना­का­ङ्क्षि­ता­त्य­ल्प­प्र­यो­ज­नो­प­यो­गि­च्छा­ग­त्व­क­ल्प­न­म­प्य­यु­क्तम् । कल्पनायां विव­क्षि­त­सा­ध­र्म्य­सत्त्वे यथा­क­थ­ञ्चि­द्वै­धर्म्यं न दोषाय । अन्यथा शरीरादीनामपि रथ­त्वा­दि­क­ल्प­ना­नु­प­पत्तेः इति चेत् ; सत्यम् । तथापि तत्र रूपकानङ्गीकारे रूप्य­रू­प­क­वा­चि­प­द­द्व­य­श्र­वणं व्यर्थं स्यादिति तत्परिहाराय यथा­क­थ­ञ्चि­त्स­म्भा­वि­त­सा­ध­र्म्य­म­व­लम्ब्य रूपकनिर्वाहः क्रियते । न चेह तथा रूप्य­रू­प­क­वा­चि­प­द­द्व­य­श्र­व­ण­मस्ति, केव­ल­स्त्व­जा­शब्दो योगेन मूलप्रकृतौ वर्तयितुं शक्यः । योगाच्च मुख्य­वृ­त्ति­रू­पा­द्गौणी वृत्तिर्जघन्या । क्लृप्त­श्चा­त्रैव मन्त्रे ‘अजो ह्येको’ ‘अजोऽन्य’ इति अजाशब्दयोर्योगः । तयोरपि गौण­त्व­क­ल्प­ना­या­म­त्य­न्त­मेव प्रकृ­ति­स­म्ब­न्ध­वि­मु­क्तस्य पर­ब्र­ह्म­स्व­रू­पतां प्राप्तस्य पुन­श्छा­गा­सं­स­र्ग­यो­ग्या­त्य­न्ता­वि­वे­क­प्रा­णि­प्र­थ­मो­दा­ह­र­ण­च्छा­ग­त्व­प­रि­क­ल्प­न­म­यु­क्तम् । ‘अजोऽन्य’ इत्यस्य औप­नि­ष­दा­भि­म­त­मु­क्त­प­रत्वे च ‘जहाति’ इत्ये­त­द­यु­क्त­मि­त्या­श­ङ्का­या­माह –

कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥१०॥

१०

कल्प­नो­प­दे­शोऽ­य­म­जा­मन्त्रः । तत्र ‘अजाम्’ इति तेजोऽ­ब­न्ना­त्मि­कायां प्रकृतौ छागत्वकल्पना । ‘प्रजा’ इति तत्कार्येषु छागापत्यकल्पना । मुक्तौ विद्यया तदुच्छेदे मुच्य­मा­न­क­र्तृ­क­त्या­ग­त्व­क­ल्पना, मुक्त­सं­सा­रि­णो­र­ज­त्व­क­ल्पना च । कुतः कल्पनोपदेश इति अवसीयते ? ‘द्वा सुपर्णा’(श्वे.४.६) इत्य­ग्रि­म­मन्त्रे प्राग्दृ­ष्टा­न्त­त­यो­पात्ते चमसमन्त्रे च कल्पनोपदेशात् । ‘द्वा सुपर्णा’ इति मन्त्रे हि शरीरे वृक्षत्वकल्पना तदा­श्रि­त­यो­र्जी­वा­न्तः­क­र­णयोः पक्षित्वकल्पना, कर्मफले वृक्ष­फ­ल­त्व­क­ल्पना च दृश्यते । ‘अर्वा­ग्बि­ल­श्च­मस ऊर्ध्व­बु­ध्न­स्त­स्मिन् यशो निहितं विश्वरूपम् । तस्यासते ऋषयस्सप्त तीरे वागष्टमी ब्रह्मणा संविदाना’(बृ.२.२.३) इति चमसमन्त्रे च कण्ठा­दु­प­रि­भा­ग­रूपे शिरसि चमसत्वकल्पना, तद्गते मुखविवरे बिलत्वकल्पना, तदूर्ध्वभागे मूर्द्धावयवे घट­च­म­स­पा­द­पा­दि­स्थू­ल­मू­ल­भा­ग­रू­प­बु­ध्न­त्व­क­ल्पना, तस्मि­न्वि­सृ­म­र­तया स्थितेषु प्राणादिवायुषु यशस्त्वकल्पना, तस्मिन् परितस्थितेषु श्रोत्रा­दि­ष्वि­न्द्रि­येषु ऋषित्वकल्पना च दृश्यते । न च – चमसादिशब्दानां शिरःप्रभृतिषु यथासम्भवं कथञ्चिद्योगो रूढिश्च कल्प्यतामिति – वाच्यम् । अग्रे ‘इमावेव गौतमभरद्वाजौ’ इत्यादिना श्रोत्र­च­क्षु­र्घ्रा­ण­यु­ग­ल­र­स­नानां सप्तानां गौत­म­भ­र­द्वा­ज­वि­श्वा­मि­त्र­ज­म­द­ग्नि­व­सि­ष्ठ­का­श्य­पा­त्रि­रू­प­त्वेन वर्णयिष्यमाणतया ‘तस्यासते ऋषयस्सप्त तीरे’ इत्यत्र श्रोत्रादिषु ऋषि­त्व­क­ल्प­ना­नि­श्चये सति ततः प्रागपि कल्पनोपदेश इति निश्चयात् , बिल­बु­ध्न­श­ब्द­यो­रा­का­र­सा­म्येन मुखविवरे मूर्द्धनि च यशश्शब्दस्य विव­र­ण­क्रि­या­सा­म्येन प्राणवायुषु च गौणत्वं विना योग­रू­ढ्यो­र­स­म्भ­वाच्च । तत्र ‘द्वा सुपर्णा’ इति मन्त्रे लोके सम्भवन्त्या रीत्या प्रति­प­त्ति­सौ­कर्यं विना न प्रयो­ज­ना­न्त­र­मस्ति । तत्प्र­यो­ज­न­मि­हापि च समानम् । चमसमन्त्रे तु लोकविलक्षणया रीत्या विस्मयनीयया कौतुकमुत्पाद्य प्रति­प­त्ति­सौ­कर्यं प्रयोजनमिति विशेषः । प्रसिद्धो हि चमस ऊर्ध्व­बि­ल­स्ति­र्य­ग्बु­ध्नश्च । तस्मिंश्च सोमरसो निधीयते, न तु यशः । सोमरसपूरितश्च तद्बिलस्य जलपूर्णस्य कूपस्येव तीर­स्था­नी­या­त्प­रितो वर्त­मा­ना­दू­र्ध्व­भा­गा­द्ब­हि­रेव सप्तहोतृका ब्राह्मणा ऋत्विजा सह यां काञ्चन संविदं कुर्वा­णा­श्चा­सते, न तु तीरस्थानीये चमसावयवे । अनयोश्च मन्त्र­यो­र्वि­ष­य­वि­ष­यि­सा­मा­ना­धि­क­रण्यं विनैव कल्प­ना­द­र्श­ना­द­जा­म­न्त्रेऽपि तथैव युक्तम् ।

काव्येष्वपि विष­य­वि­ष­यि­सा­मा­ना­धि­क­रण्यं विना कल्पनादर्शनाच्च तच्छा­या­प­न्न­त्वा­द­प्ययं कल्पनोपदेशः । न हि रूप­को­दा­प­र­णे­ष्वि­वा­ति­श­यो­क्त्यु­दा­ह­र­णेषु तत्सा­मा­ना­धि­क­र­ण्य­मस्ति, यथा –‘वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपा­ना­ली­म­धि­ग­त­वती काञ्च­नी­मै­न्द्र­नीली। तस्यां शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्नि­धा­ना­त्सु­धांशोः॥’ इति । यत्तूक्तं योगवृत्तिसम्भवे गौणीवृत्तिर्न कल्पनीयेति तद्विपरीतम् । प्रथ­म­प्र­ती­त­रू­ढि­पू­र्व­क­गौ­णी­वृ­त्ति­स्वी­का­र­स­म्भवे रूढिपरित्यागेन योग­प­रि­ग्र­हा­यो­गात् । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इति प्रैषे उद्गातृशब्दस्य बहुवचनान्तस्य बहुषु वृत्तौ वक्तव्यायां सुब्र­ह्म­ण्य­सा­धा­रणं योगं परि­त्य­ज्या­न्त­र­ङ्ग­प्र­त्या­सत्त्या सदःप्रवेशवत्सु त्रिषु रूढिपूर्विका लक्षणाऽङ्गीकृता ।

मुक्तस्य छागत्वकल्पनं बहूपकारिण्याः प्रकृ­ते­श्छा­ग­त्व­क­ल्पनं च विरुद्धम्, इति चेत्; नास्त्ययं विरोधो मध्वादिवत् । आदित्यस्य हि त्रयीमयस्य देदी­प्य­मा­न­दि­व्य­ज्यो­ति­र्म­ण्ड­लस्य मधुत्वं कल्प्यते । तद्वत् प्रही­ण­जा­ति­क­ल्प­नायां नास्ति विरोधः । छागः पुनश्छागया संसर्गयोग्यः मुक्तः प्रकृत्या न संसर्गयोग्य इत्ययमपि न विरोधः । रथः प्राप­णी­य­दे­श­प­र्यन्तं नीत­स्त­त्प्रा­प्त्यु­पायो भवति शरीरं तु न तथा; ‘अत्र ब्रह्म समश्नुते’(बृ.४.४.७) इति श्रुतेः, ब्रह्म­लो­का­दि­स्था­न­स्थि­तस्य परब्रह्मणो मुक्त­प्रा­प्य­त्वा­ङ्गी­का­रेऽपि ज्ञानसाधनतया मुक्त्युपायस्य वशी­कृ­ते­न्द्रि­य­म­नो­बु­द्ध्या­श्र­यस्य शरीरस्य तावत्पर्यन्तं नयनाभावादिति विशेषे सत्यपि यथाकथञ्चित् प्राप्त्यु­पा­य­त्व­मा­त्रेण शरीरस्य रथ­त्व­क­ल्प­ना­द­र्श­नात् ।

सूत्रे ‘कल्पनोपदेशात्’ इति प्रथमान्तं पदं ‘सुपां सुलु­क्पू­र्व­स­व­र्णां­च्छे­या­डा­ड्या­या­जालः’(पा.सू.७.१.३९) इति सूत्रविहितेन प्रथमाविभक्तेः आदादेशेन लब्धरूपम् । कल्प­नो­प­दे­शोऽ­य­म­जा­मन्त्र इति तेन प्रतिज्ञा लभ्यते । तेनैव पञ्चम्यन्ततया पुनर्विवक्षितेन तत्र हेतुरुच्यते । स्वयमेव स्वस्मिन् हेतुर्भवितुं नार्हतीति साम­र्थ्या­द­न्य­स्मिन् कल्पनोपदेशे हेतूकर्तव्ये सन्निहितत्वात् ‘द्वा सुपर्णा’ इत्य­ग्रि­म­क­ल्प­नो­प­देशः प्राग्दृ­ष्टा­न्ती­कृ­त­तया बुद्धिस्थत्वात् ‘अर्वाग्बिलः’ इति कल्पनोपदेशश्च हेतुर्लभ्यते । चकारः काव्येषु कल्प­ना­द­र्श­न­रू­प­हे­त्व­न्त­र­स­मु­च्च­यार्थः । ‘मध्वादि’ इत्यादिशब्दो रथा­दि­रू­प­क­प­रि­ग्र­हार्थः । तस्मा­द­जा­म­न्त्र­स्ते­जोऽ­ब­न्न­रू­पा­वा­न्त­र­प्र­कृ­ति­परः, न तु साङ्ख्या­भि­म­त­स्व­त­न्त्र­प्र­धा­न­पर इति सिद्धम् ।

स्यादेतत् – स्वत­न्त्र­प्र­कृ­ति­परो न भवतीति युक्तमेव, अवा­न्त­र­प्र­कृ­ति­पर इति न युक्तम् । यतोऽस्य मन्त्रस्य पर­मे­श्व­रा­धी­न­मू­ल­प्र­कृ­ति­प­र­त्व­मेव ‘ज्ञाज्ञौ द्वाव­जा­वी­शा­नी­शा­वजा ह्येका भोक्तृ­भो­गा­र्थ­युक्ता’(श्वे.१.९), ‘क्षरं प्रधा­न­म­मृ­ता­क्षरं हरः क्षरा­त्मा­ना­वी­शते देव एकः’(श्वे.१.१०) ‘छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । तस्मान्मायी सृजते विश्व­मे­त­द­स्मिं­श्चान्यो मायया सन्निरुद्धः। मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। तस्या­व­य­व­भू­तैस्तु व्याप्तं सर्वमिदं जगत्’(श्वे.४.९,१०), ‘स विश्वं­कृ­द्वि­श्व­वि­दा­त्म­योनिः ज्ञःकालकालो गुणी सर्वविद्यः। प्रधा­न­क्षे­त्र­ज्ञ­प­ति­र्गु­णेशः संसा­र­मो­क्ष­स्थि­ति­ब­न्ध­हेतुः’(श्वे.६.१६) इत्या­दि­पू­र्वा­प­र­म­न्त्र­स­न्द­र्भ­प­र्या­लो­च­नया स्पष्टमेव प्रतीयते । शाखा­न्त­रो­क्त­रो­हि­ता­दि­श­ब्द­प्र­त्य­भि­ज्ञा­ना­नु­रो­धा­दपि पूर्वा­प­र­म­न्त्रा­नु­रोध एव युक्ततरः । सत्यम् । पूर्वा­प­र­म­न्त्र­प­र्या­लो­च­नायां मूलप्रकृतिपर एवायं मन्त्रः । तत्प­र्या­लो­च­नायां च नास्ति पूर्वपक्षावकाशः । तैत्ति­री­य­शा­खा­या­मपि अजामन्त्रस्य जग­त्स्र­ष्टृ­प­र­मे­श्व­र­प्र­क­र­ण­प­ठि­त­त्वात् स्फुट­त­र­पू­र्वा­प­र­म­न्त्र­नि­य­मि­त­प­र­मे­श्व­रा­धी­न­प्र­कृ­ति­ता­त्प­र्य­कै­त­न्म­न्त्र­स­रू­प­त्वाच्च नास्ति पूर्वपक्षावकाशः । तथाऽपि न्याय­व्यु­त्पा­द­नाय प्रकरणं करेण पिधाय कृत्वा­चि­न्ता­रू­पेण न्याय­ब­ला­द­वा­न्त­र­प्र­कृ­ति­प­र­त्व­नि­र्ण­या­र्थ­मि­द­म­धि­क­र­णम् । अत एव भाष्ये प्रक­र­णा­नु­सा­रे­णास्य मन्त्रस्य मूल­प्र­कृ­ति­प­र­त्व­प­क्ष­मपि प्रदर्श्य कृत्वा­चि­न्तो­द्घा­टनं कृतमिति सर्वमनवद्यम् । १.४.१०

इति चमसाधिकरणम् ।२।

न सङ्ख्यो­प­स­ङ्ग्र­हा­दपि नाना­भा­वा­द­ति­रे­काच्च ॥११॥

११

बृहदारण्यके श्रूयते – ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान् ब्रह्मा­मृ­तोऽ­मृ­तम्’(बृ.४.४.१७) इति । अयं मन्त्रः साङ्ख्याभिमतानि पञ्च­विं­श­ति­त­त्त्वानि ‘पञ्च पञ्चजना’ इति प्रतिपादयति, उत वाक्यशेषगतान् प्राणादीनीति सन्देहे पूर्वपक्षः – पञ्चशब्दद्वयेन पञ्च­विं­श­ति­स­ङ्ख्या­नि­ष्पत्तेः तया सङ्ख्यया सङ्ख्ये­या­का­ङ्क्षिण्या साङ्ख्य­त­न्त्र­सि­द्धा­न्येव तत्त्वा­न्यु­प­स­ङ्ग्रा­ह्याणि । तावन्त्येव हि तत्त्वानि साङ्ख्यैः परिगण्यन्ते ।

स्यादेतत् – कथमत्र पञ्च­विं­श­ति­स­ङ्ख्या­नि­ष्पत्तिः । यदि ‘पञ्चपञ्च’ इति पञ्च­क­द्व­य­मु­च्यते तदाऽवयवद्वारेण समु­दा­य­ल­क्ष­णा­श्र­य­णेऽपि दशसङ्ख्यैव निष्पद्यते ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इत्यत्र यथा द्वादशसङ्ख्या । यदि तु वीप्सा, तदाऽपि पञ्चसङ्ख्यानि पञ्चकानि ग्राह्या­णी­त्यत्र गमकाभावात् पञ्च­विं­श­ति­सङ्ख्या न निष्पद्यत एव । यथा ‘दश दशै­कै­क­ञ्च­म­स­म­नु­प्र­स­र्पन्ति’ इत्य­त्रा­नु­प्र­स­र्प­णी­यानां चमसानां दश­स­ङ्ख्य­त्वा­द­नु­प्र­स­र्प­काणां पुरुषाणां शतसङ्ख्या निष्पद्यते । एवं ‘यस्मिन् पञ्च पञ्चजना’ इत्य­त्रा­धि­क­र­णानि यदि पञ्च स्युस्तदा प्रत्य­धि­क­र­ण­मा­धेया जनाः पञ्च­स­ङ्ख्या­वी­प्सया लभ्यन्त इति तेषां पञ्च­विं­श­ति­सङ्ख्या निष्पद्येत, न त्वत्रा­धि­क­र­ण­प­ञ्च­क­श्र­व­ण­मस्ति । ननु पञ्चसङ्ख्यतया प्रति­प­न्ने­ष्व­र्थेषु पुनः पञ्च­स­ङ्ख्याऽ­न्त­र­वि­शे­ष­णो­पा­दा­नात् पञ्च­विं­श­ति­सङ्ख्या लभ्यत इति चेत्; किं प्रथमं पञ्चसङ्ख्यया विशेषिता एवार्थाः पुनरपि पञ्चसङ्ख्यया विशेष्यन्ते, उत तद्विशेषणीभूता पञ्चसङ्ख्या? न तावत् पञ्चसङ्ख्या । विशेष्यं विहाय विशे­ष­ण­यो­र­न्व­या­स­म्भ­वात् । नापि तद्विशेषिताः; आका­ङ्क्षाऽ­भा­वात् । रक्तपटन्यायेन उत्था­पि­ता­काङ्क्षा स्यात् इति चेत् ; न । श्रुत­वि­शे­ष­ण­स­जा­तीये तद्विरोधिनि चाका­ङ्क्षो­त्था­प­ना­स­म्भ­वात् । न हि ‘रक्तो रक्तः पटो भवति’ इत्यत्र ‘मृण्मयो हिरण्मयो घटो भवति’ इत्यत्र वा भवत्याकाङ्क्षा । ननु ‘पञ्च पञ्चपूल्य’ इत्यत्र पञ्चविंशतिपूलाः प्रतीयन्ते । नेति ब्रूमः । तत्र समस्ता पञ्चसङ्ख्यैव पूलानां विशेषणं व्यस्ता तु तत्समाहाराणाम् । न चात्र तथा समाहारार्थः समासोऽस्ति ‘पञ्चजन्य’ इति स्त्रीलि­ङ्ग­नि­र्दे­शा­भा­वा­दिति चेत् ;

उच्यते – अने­का­वा­न्त­र­नि­र्देशे सति महासङ्ख्यालाभो यथा ‘पञ्च सप्त च वर्षाणि’ इत्य­त्रा­व­य­व­द्वा­रेण समुदायलक्षणया, यथा ‘दश दशैकैकम्’ इत्यत्र वीप्सया तथैव तस्मिन्सत्येकया सङ्ख्यया विशे­षि­ता­ना­म­र्थानां, सङ्ख्याया एव वा सजातीयेन विजातीयेन वा सङ्ख्यान्तरेण विशे­ष­णा­त्सं­व­र्ध­नेन महा­स­ङ्ख्या­ला­भोऽपि वैदिकेषु लौकिकेषु च प्रयोगेषु प्रसिद्धो नापह्नोतुं शक्यते । दृश्यन्ते हि ‘वयसो वयसः सप्तदशसप्तदशानि ददाति’ ‘पञ्च पञ्चा­श­त­स्त्रि­वृतः संवत्सरा’ इत्यादयः प्रयोगाः । प्रथ­मा­न्वि­त­वि­शे­ष­ण­स­जा­ती­यस्य तद्विरोधिनो वा यत्रै­ते­षू­दा­ह­र­णे­ष्विव विव­क्षि­त­म­हा­स­ङ्ख्या­ला­भा­र्थ­त्वेन पौनरुक्त्यस्य विरोधस्य वा परिहारो न सम्भवति तत्रैव तदनाकाङ्क्षा विशे­ष­ण­यो­र­न्व­योऽपि साक्षादेव न सम्भवति । विशिष्टान्वयिनो विशेषणस्य विशे­ष्या­न्व­या­नु­प­पत्तौ विशेषणे सङ्क्रमस्तु ‘दध्ना जुहोति’ इत्यादौ सुप्रसिद्ध एव । यदि च एवमप्यपरितोषः, तदा ‘पञ्च पञ्चपूल्य’ इतिवदिहापि समा­हा­र­वि­व­क्षाऽस्तु । तद्विवक्षायामपि स्त्रीलि­ङ्गा­भा­वस्तु छान्द­स­त्वे­नो­प­पा­द­नीयः । ‘ऊका­लोऽ­ज्झ्र­स्व­दी­र्घ­प्लुतः’(पा.सू.१.२.२७) इत्यत्र ‘स नपुंसकम्’(पा.सू.२.४.१७) इति नपुं­स­क­लि­ङ्गा­भा­व­व­च्छ­न्दो­व­द्भा­वेन । तस्मादिह प्रतिपन्नया पञ्च­विं­श­ति­स­ङ्ख्य­यो­प­स­ङ्ग्र­हात् ‘पञ्च पञ्चजनाः’ इत्ये­त­त्सा­ङ्ख्या­भि­म­तानि तत्त्वानि प्रतिपादयतीति युक्तम् ।

एतेन - ‘पञ्च पञ्चजनाः’ इत्येतत्कथं साङ्ख्य­त­त्त्वानि प्रतिपादयेत्, न हि तेषु पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्च­विं­श­ते­र­न्त­राले पञ्च पञ्च सङ्ख्या निविशेरन् । एकै­क­ध­र्मा­व­च्छे­द­नि­ब­न्धनो हि महा­स­ङ्ख्या­या­म­वा­न्त­र­स­ङ्ख्या­नि­वेशः यथा ‘त्रय­स्त्रिं­श­द्दे­वता’ इति महा­स­ङ्ख्या­या­मष्टौ वसव इत्या­द्य­वा­न्त­र­स­ङ्ख्या­नि­वेश इति – निरस्तम् ; ‘पञ्च सप्त च वर्षाणि’ ‘पञ्च पञ्चा­श­त­स्त्रि­वृतः संवत्सरा’ इत्यादिषु विनाऽ­प्ये­कै­क­म­व­च्छे­दकं विव­क्षि­त­म­हा­स­ङ्ख्या­ला­भो­पा­य­ता­मा­त्रेण यत्कि­ञ्चि­द­वा­न्त­र­स­ङ्ख्या­नि­वे­श­द­र्श­नात् । न हि द्वाद­श­वा­र्षि­क्या­म­ना­वृष्टौ पञ्चसु सप्तसु च वर्षेषु , विश्वसृजामयने पञ्चा­श­दु­त्त­र­द्वि­श­त­स­ङ्ख्यानां त्रिवृतां संवत्सराणां मध्ये पञ्चाशति पञ्चाशति संवत्सरेषु चैकैको धर्मोऽस्ति । इह तु भूतानि तन्मात्राणि ज्ञाने­न्द्रि­याणि कर्मेन्द्रियाणि अवशिष्टानि प्रकृ­ति­पु­रु­ष­म­ह­द­ह­ङ्का­र­म­नांसि च पञ्च पञ्चेति पञ्चशः पञ्च­श­स्सा­धा­र­ण­ध­र्मोऽपि लभ्यते ।

ननु यदि ‘पञ्च पञ्चजना’ इत्येतावदेव साङ्ख्य­त­न्त्र­सि­द्धानि सर्वाणि तत्त्वानि प्रति­पा­द­ये­त्त­र्ह्या­त्मा­का­शाभ्यां सङ्ख्याऽतिरेकः स्यात् । न स्यात् । सेश्व­र­सा­ङ्ख्य­प­क्षेऽ­धि­क­र­ण­त्वेन निर्दि­ष्ट­स्या­त्मन ईश्व­र­त्व­स­म्भ­वात् । पक्षान्तरेऽपि तस्य ‘स्वे महिम्नि प्रतिष्ठित’ इति­व­दा­धे­य­त्वे­नापि निर्देशसम्भवात् । आकाशशब्दोक्तस्य भूताकाशस्य प्रधानस्य वा स्वेत­र­स­क­ल­व­स्त्वा­धा­र­तया विशि­ष्ट­त्वा­दा­द­रेण पुनः कीर्तनसम्भवात् । ‘ग्रामीणाः सर्वेऽपि त्वां द्रष्टुमागताः, साक्षा­द्व­सि­ष्ठ­क­ल्प­श्चै­त्रोऽपि समागतः’ इति यथा । यद्वा गुण­स­ङ्घा­त­रू­पायां प्रकृतौ सत्त्वा­दि­गु­णानां प्रत्ये­क­प­रि­ग­ण­नया विनैवात्मानं भूताकाशञ्च पञ्च­विं­श­ति­सङ्ख्या सम्पादनीया । नन्वेवं कथ­ञ्चि­ल्ल­ब्ध­याऽपि पञ्च­विं­श­ति­स­ङ्ख्यया साङ्ख्य­त­त्त्वो­प­स­ङ्ग्रहः पक्षद्वयेऽपि क्लिष्ट एव । कस्त­तोऽ­प्य­क्लिष्टः ‘पञ्च पञ्चजना’ इत्यस्यार्थो वर्णनीयः? न हि पञ्चजनशब्दस्य मनुष्यरूढिं परिगृह्य पञ्च मनुष्या यस्मिन् प्रतिष्ठिता इत्यर्थो वर्णयितुं शक्यते ; आत्मनस्तावता कस्य­चि­द­ति­श­य­स्या­ला­भेन वाक्यस्य निस्ता­त्प­र्य­त्व­प्र­स­ङ्गात् । अतोऽ­ध्या­त्म­प्र­क­रणे छागाया अन­न्व­या­द­जा­म­न्त्र­स्या­जा­श­ब्द­रू­ढि­वि­ष­या­द­न्य­स्मि­न्नि­वा­स्यापि मन्त्रस्य पञ्च­ज­न­श­ब्द­रू­ढि­वि­ष­या­द­न्य­स्मि­न्नर्थे पर्यवसाने वक्तव्ये तद्वदिह शाखा­न्त­रा­न्वे­ष­णेन पूर्वा­प­र­प­र्या­लो­च­नया वा लभ्यस्य कस्य­चि­द­र्थ­स्या­भा­वात् ‘पञ्चपञ्च’ इत्यस्य पञ्च­विं­श­ति­स­ङ्ख्या­प­रतां जनशब्दस्य जाय­मा­ना­जा­य­मा­नेषु छत्रिन्यायेन लक्षणां चाङ्गीकृत्य साङ्ख्य­त­न्त्र­त­त्त्वा­न्येव ग्राह्याणि ।

ननु वाक्यशेषे ‘प्राणस्य प्राणमुत चक्षु­ष­श्च­क्षु­रुत श्रोत्रस्य श्रोत्र­म­न्न­स्यान्नं मनसो ये मनो विदुः’(बृ.उ. ४-४-१८) इति प्राणादयः पञ्च वर्ण्यन्ते । ते पञ्च­ज­न­श­ब्द­लक्ष्या भवितुमर्हन्ति ; तद्वा­च्य­पु­रु­ष­स­म्ब­न्धि­त्वात्, ‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा.उ.३-१३-६) इति पुरुषशब्दस्य तत्र प्रयोगदर्शनाच्च । यद्वा वाक्य­शे­ष­द­र्श­ना­दा­ज्य­श­ब्द­स्या­न्यत्र रूढस्यापि स्तोत्र­वि­शे­षे­ष्विव प्राणादिषु पञ्चजनशब्दस्य शक्तिरस्तु । एवं वाक्य­शे­षा­म्ना­त­प्रा­णा­दि­प­र­त्व­क­ल्प­नायां न कोऽपि क्लेश इति चेत् ; उच्यते । ‘यस्मिन् पञ्च पञ्चजनाः’ इत्ये­त­द­न­न्त­र­मु­त्त­र­स्मिन् मन्त्रे माध्यन्दिनानां प्राणादयः पञ्च पठिताः सन्ति, न तु काण्वानाम् । ते हि ‘प्राणस्य प्राणमुत चक्षु­ष­श्च­क्षु­रुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचि­क्यु­र्ब्रह्म पुराणमग्र्यम्’(बृ.उ.४.४.१८) इत्यन्नं विनैव पठन्ति । न च तेषां ‘यस्मा­द­र्वा­क्सं­व­त्स­रोऽ­होभिः परिवर्तते तं देवा ज्योतिषां ज्योति­रा­यु­र्हो­पा­स­तेऽ­मृ­तम्’(बृ.उ ४-४-१६) इति पूर्व­म­न्त्र­प­ठि­तेन ज्योतिषा पञ्च­सं­ख्या­नि­र्वाहः ; काण्वानामपि पूर्व­म­न्त्र­पा­ठ­स­त्त्वेन तेषां ज्योतिषा षट्सं­ख्या­प्र­स­ङ्गात् । न हि समाने ज्योतिराम्नाने तत्के­षा­ञ्चि­द्गृ­ह्यते केषाञ्चिन्नेति वैषम्यं सम्भवति । तथाऽपि केषांचिदन्नेन संख्यापूरणं केषां­चि­ज्ज्यो­ति­षेति विरो­धोऽ­प­रि­हार्यः । न च विकल्पितः ; वस्तुनि तदयोगात् । न चेदमुपासनम् । तस्मादिह गत्यन्तराभावात् पञ्च­विं­श­ति­सं­ख्यया उक्तप्रकारेण निष्पादितया साङ्ख्य­त­त्त्वो­प­सं­ग्रह एव कार्यः इति ।

एवं प्राप्ते राद्धान्तः – उक्तप्रकारेण निष्पादितया पञ्च­विं­श­ति­सं­ख्यया तावतां संख्ये­या­ना­मु­प­सं­ग्र­हा­दपि न साङ्ख्य­त­न्त्र­सि­द्धानां तत्त्वानां श्रुति­मू­ल­प्र­त्याशा कर्तव्या । नाना­भा­वा­द­ति­रे­काच्च । नानाभावः पञ्चशः पञ्चशः क्रोडी­का­र­कै­क­ध­र्मा­भा­वेन सर्वेषां पृथग्भावः । अतिरेक आत्माकाशाभ्यां संख्याऽतिरेकः । तदुभयमपि पूर्वपक्षिणा यद्यपि क्लेशेन समाहितम् , तथापि पञ्च­विं­श­ति­सं­ख्या­नि­र्वा­हार्थं नैवं साङ्ख्य­त­त्त्वा­न्यु­प­सं­गृह्य क्लेशः समाश्रयणीयः ; ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इति शाखान्तरे पुरुषावरत्वेन वर्णि­तै­रि­न्द्रि­या­दि­भि­रपि तन्नि­र्वा­ह­स­म्भ­वात् । तत्र हि ज्ञाने­न्द्रि­याणि कर्मेन्द्रियाणि भूतानि तन्मात्राणि ततोऽवशिष्टानि मनो­बु­द्धि­भो­क्तृ­स्थू­ल­सू­क्ष्म­श­री­राणि च पञ्च­प­ञ्चे­त्य­क्ले­शे­नैव पञ्चशः पञ्चशो विभागार्हाः पञ्चविंशतिरर्था वर्णिताः । तेषा­मि­हो­प­सं­ग्रहे च नास्त्य­ति­रे­क­शङ्का । तेभ्यः परस्य पुरु­ष­स्ये­हा­त्म­श­ब्देन निर्देशः , तेष्व­गृ­ही­त­स्या­व्या­कृ­त­स्या­का­श­श­ब्दे­ने­त्यु­प­पत्तेः , तत्रा­व्य­क्त­श­ब्द­स्या­ज­ह­ल्ल­क्ष­णया स्थूल­सू­क्ष्म­श­री­र­द्व­य­मा­त्र­प­र­त्वो­प­प­त्तेश्च । एव­म­न्त­र­ङ्ग­शा­खा­न्त­र­दृ­ष्ट­सं­ख्यो­प­सं­ग्रह एव युक्तः , न तु बहि­र­ङ्गा­प्रा­मा­णि­क­स्मृ­ति­दृ­ष्ट­त­त्त्वो­प­सं­ग्रहः । एवं च संख्ये­या­ना­मा­त्मनि प्रति­ष्ठि­त­त्व­व­र्ण­न­मपि सङ्गच्छते । न हि साङ्ख्य­त­त्त्वा­ना­मा­त्मनि प्रति­ष्ठि­त­त्व­मस्ति ; प्रधानस्य स्वत­न्त्र­त्वा­द­न्येषां प्रधा­ना­श्रि­त­त्वात् ।

अपि च देवाः पितरो गन्धर्वा दैत्या दानवा राक्षसा भूताः प्रेताः पिशाचाश्चत्वारो वर्णाः स्वर्ण्य­म्ब­ष्ठो­ग्र­नि­षा­द­दौ­ष्य­न्त­पा­र­श­वा­ष्प­ड­नु­लोमाः सूत­मा­ग­धा­यो­ग­व­क्ष­त्तृ­वै­दे­ह­क­च­ण्डालाः षट् प्रतिलोमाश्चेति पञ्च­विं­श­ति­र्जनाः संख्येया इत्यपि निर्वाहः सम्भवति । एवं च जनशब्दोऽपि सङ्गच्छते । तिर्य­क्स्था­व­रा­ति­रि­क्तेषु वागि­न्द्रि­य­पा­ट­व­वत्सु देवा­दि­म­नु­ष्य­प­र्य­न्ते­ष्वेव हि जनशब्दः प्रयुज्यते । अपि चात्र ‘पञ्च पञ्च’ इति पञ्च­विं­श­ति­सं­ख्येति कुतो निर्धार्यते येन तदु­प­सं­ग्रा­ह्याणि साङ्ख्य­त­त्त्वा­नीति शक्येतापि । तस्य पञ्चकद्वयपरतया दशसंख्याऽस्तु । तत्संख्येयाः ‘ते वा एते पंञ्चान्ये पञ्चान्ये दश सन्त’(छा.उ.४-३-८) इति संव­र्ग­वि­द्या­या­मु­क्तानि वायौ लय­व­न्त्य­ग्नि­सू­र्य­च­न्द्रां­भांसि वायुना सह पञ्च, लयवन्ति वाक्चक्षुः श्रोत्रमनांसि प्राणेन सह पञ्चेत्येवं दश पदार्थास्सन्तु ।

अथवा तस्य वीप्साऽर्थतया प्रतिपुरुषं पञ्चा­त्म­नाऽ­व­स्थिताः प्राण­वृ­त्त­य­स्त­त्सं­ख्येयाः सन्तु ‘‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ’(क.उ २-५-५) इति श्रुत्यन्तरे प्राणा­पा­न­श­ब्दो­प­ल­क्षि­तानां सर्व­पु­रु­ष­स­म्ब­न्धि­नीनां सर्वासां प्राणवृत्तीनां ब्रह्मा­श्रि­त­त्व­श्र­व­णात् । यद्वा एकस्य पञ्चशब्दस्य जन­सं­ख्या­प­र­त­याऽ­न्य­स्यै­कै­क­ज­न­ग­त­प­ञ्चा­त्म­क­त्व­प­र­तया च शिरः­प­क्षा­द्य­व­यवैः प्रत्येकं पञ्चात्मनो ये पञ्चसंख्या जना अन्नमयादयस्ते संख्येयाः सन्तु । तेषां पञ्चानां सर्व­प्र­ति­ष्ठा­रू­प­पु­च्छ­ब्र­ह्मा­श्रि­त­त्वा­दे­कै­क­स्मि­न्न­प्य­न्न­म­यादौ पाश­व­द­व­य­व­ग­त­ब­हु­त्वो­प­चा­र­स­म्भ­वात् । साङ्ख्य­त­त्त्व­ग्र­ह­णेऽपि अह­ङ्का­रा­दी­ना­मा­न्त­र्ग­णि­क­भे­द­स­त्त्वे­ना­ह­ङ्का­र­त्वा­दि­ग­तै­क्यो­प­चा­र­क­ल्प­ना­व­श्य­म्भा­वात् । आनन्दमयपुच्छस्य ब्रह्मा­श्रि­त­त्वा­भा­वेन पञ्चा­त्म­क­त्व­वि­शि­ष्टानां ब्रह्मा­श्रि­त­त्वा­स­म्भ­वेऽपि चित्रगुन्यायेन तदुपलक्षितानां तत्सम्भवात् । एवं च ‘चमसवदविशेषात्’ इति प्रागुक्तस्यैव न्यायस्य विष­येऽ­स्मि­न्मन्त्रे कः साङ्ख्य­त­त्त्व­ग्र­ह­ण­प्र­त्या­शा­व­काशः ? एत­द­भि­प्रा­ये­णै­वोक्तं भाष्ये ‘कथं च संख्या­मा­त्र­श्र­वणे सति अश्रुतानां पञ्च­विं­श­ते­स्त­त्त्वा­ना­मु­प­सं­ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वे­ष्व­रू­ढ­त्वा­द­र्था­न्त­रो­प­सं­ग्र­हेऽपि संख्योपपत्तेः’ इति । तत्र कथं तत्त्वा­ना­मु­प­सं­ग्रहः ? शाखा­न्त­रो­क्ता­ना­मि­न्द्रि­या­दीनां जनिमतां देवा­दि­प्र­ति­लो­मा­न्तानां जनशब्दविषयत्वेन प्रसिद्धानां वा संख्येयत्वेऽपि पञ्च­विं­श­ति­सं­ख्यो­प­पत्तेः । कथं च पञ्च­विं­श­ते­रु­प­सं­ग्रहः ? ‘पञ्च पञ्च’ इत्यस्य पञ्चकद्वयपरतया वाय्वा­दि­प्रा­णा­दि­वि­ष­य­द­श­सं­ख्यो­प­पत्तेः । तस्य वीप्सार्थतया प्रतिपुरुषं पञ्चधा विभ­क्त­प्रा­णा­दि­वृ­त्ति­वि­ष­य­पं­च­सं­ख्यो­प­प­त्ते­श्चेति तस्याभिप्रायो द्रष्टव्यः ।

अङ्गीकृत्य ‘पञ्च पञ्च’ इत्यस्य संख्यापरत्वं तल्लब्धसंख्यया संख्ये­यो­प­सं­ग्रहं चेदं सर्वमुक्तम् । वस्तु­त­स्त­दे­वा­सि­द्धम् । तथा हि – पञ्च­ज­न­श­ब्द­स्ता­व­द­न्ता­नु­दा­त्त­स्व­रेण भाषि­का­ख्य­श­त­प­थ­ब्रा­ह्म­ण­स्व­र­वि­धा­य­क­ग्र­न्थ­वि­हि­तेन ‘पञ्चानां त्वा पञ्चजनानां यंत्राय धर्त्राय गृह्णामि’ इति श्रुत्य­न्त­र­प्र­यो­ग­द­र्श­नेन च समस्तोऽवसीयते । समासश्च न समाहारद्विगुः सम्भवति । गत्यन्तरे छान्द­स­रू­प­क­ल्प­नाऽ­यो­गात् , किन्तु पञ्च­भि­र्भू­तै­र्ज­न्म­वन्त इति व्यधि­क­र­ण­त­त्पु­रुषो वा पञ्च च ते जनाश्चेति समा­ना­धि­क­र­ण­त­त्पु­रुषो वा वक्तव्यः । तत्राद्यपक्षे सम­स्त­प­ञ्च­श­ब्दस्य जना­न्व­यि­सं­ख्या­प­र­त्व­श­ङ्कैव नास्ति । द्वितीयपक्षेऽपि तथैव ‘दिक्संख्ये संज्ञायाम्’(पा.सू.२-१-५०) इति सूत्रेण प्रत्य­स्त­मि­ता­व­य­वा­र्थायां संज्ञायामेव सप्त­र्षि­श­ब्द­व­त्तस्य समासस्य विधानात् । न हि सप्तर्षय इति संज्ञासमासे सप्तशब्दस्य संख्यासमर्पणे तात्पर्यमस्ति, किन्तु व्युत्प­त्ता­वु­प­ल­क्ष­ण­मात्रं संख्या गोश­ब्द­व्यु­त्पत्तौ गमनमिव । अत एव यथा ‘गौस्तिष्ठति’ इत्यत्र न व्याघातः ‘गौर्गच्छति’ इत्यत्र न पुनरुक्तिः, एवमिहापि ‘सप्त सप्तर्षयः’ इत्यत्र न पुनरुक्तिः , वसिष्ठ एकस्मिन् सप्त­र्षि­श­ब्द­प्र­योगे च न व्याघातः । एवं च यथा ‘सप्त सप्तर्षयोऽमलाः’ इति विष्णु­पु­रा­ण­प्र­योगे बहुवचनेन बहुत्वेऽवगतेऽपि सम­स्त­स­प्त­श­ब्दस्य सप्त­सं­ख्या­प­र­त्वा­भा­वात् ते कती­त्या­का­ङ्क्षायां पुन­स्स­प्त­श­ब्द­प्र­योगः एवमिहापि समस्तपंचशब्दस्य पञ्च­सं­ख्या­प­र­त्वा­भा­वात् ते कती­त्या­का­ङ्क्षायां पुनः पञ्चशब्द इत्यसमस्तमेकमेव पञ्चपदं संख्यापरमिति युक्तम् ।

सूत्रस्यायमर्थः - पञ्च पञ्चे­ति­श­ब्दाभ्यां संख्यापराभ्यां ताव­त्सं­ख्ये­यो­प­सं­ग्र­हा­दपि न साङ्ख्य­त­त्त्व­ग्र­ह­ण­सिद्धिः ; साङ्ख्य­त­त्त्वानां परस्परं पृथग्भावात् पञ्चशः पञ्चशः क्रोडी­का­र­क­ध­र्म­र­हि­त­त्वात्, आत्माकाशाभ्यां संख्याऽतिरेकात् । चकारः स्वत­न्त्र­हे­तु­द्व­य­स­मु­च्च­यार्थः । अपि चात्मनि प्रति­ष्ठि­त­त्वोक्त्या इह संख्येयानामपि स्वतन्त्रेभ्यः साङ्ख्य­त­त्त्वेभ्यः पृथग्भावादपि न साङ्ख्य­त­त्त्व­ग्र­ह­ण­सिद्धिः । किञ्च ‘पञ्च पञ्च’ इति पञ्च­क­द्व­य­ग्र­ह­णेन वीप्साया वा नाना­वि­ध­सं­ख्या­न्त­र­स­म्भ­वान्न साङ्ख्य­त­त्त्व­ग्र­ह­ण­सि­द्धि­रि­त्यपि हेतुद्वयं ‘नानाभावात्’ इत्यनेन विवक्षितम् । अपिशब्देन पञ्चजनशब्दस्य संज्ञा­स­मा­स­रू­प­त्वात् पञ्च­श­ब्द­द्व­य­ल­ब्ध­सं­ख्या­सं­ख्ये­यो­प­सं­ग्रहो वस्तुतो नास्तीत्यपि सूचितम् ॥१-४-११॥

स्यादेतत् – उक्तरीत्या पञ्चजनशब्दस्य व्यधि­क­र­ण­त­त्पु­रु­षा­ङ्गी­कारे पञ्च­भू­त­प्र­भ­व­श­री­र­युक्ताः पञ्च­ज­न­श­ब्द­रू­ढि­वि­ष­य­त्वेन प्रसिद्धा मनुष्या इह ग्राह्याः स्युः । ते च चातु­र्व­र्ण्या­नु­लो­म­रू­पा­न्त­र­प्र­भ­व­भे­देन पञ्चविधा इति पञ्चेत्यपि विशेषणं तेषु योजयितुं शक्यम् । समानाधिकरणसमासे तु ‘सप्तर्षय’ इतिवत् पञ्चजनाः नाम केचन वक्तव्याः स्युः । किमत्र तत्त्व­मि­त्या­का­ङ्क्षा­या­माह –

प्राणादयो वाक्यशेषात् ॥१२॥

१२

वाक्यशेषे तावत् प्राणादयः पञ्चाम्नायन्ते । तेषु च मनु­ष्य­स­म्ब­न्धिषु पञ्चजनशब्दो लक्षणया वर्तयितुं शक्यते । वाक्य­शे­षा­नु­सा­रेण वाऽऽज्या­दि­श­ब्द­वत् तस्य शक्त्यन्तरं कल्पयितुं शक्यते । एवं वाक्यशेषे सन्निहितेषु प्राणादिषु ग्रहीतुं योग्येषु न युक्तं स्वबु­द्ध्यु­प­स्था­प­नी­यानां मनुष्याणां ग्रहणम् ॥१-४-१२॥

ननु प्राणादयो नात्र ग्रहणयोग्याः । काण्वपाठे पञ्चा­ना­म­ना­म्ना­ना­दि­त्या­श­ङ्का­या­माह -

ज्योति­षै­के­षा­म­स­त्यन्ने ॥१३॥

१३

काण्वा­ना­म­स­त्यन्ने पूर्व­म­न्त्र­प­ठि­तेन ज्योतिषा संख्यापूरणमस्तु । न ह्यना­म्ना­ता­न्नानां पञ्च­सं­ख्या­पू­र­णार्थं ज्योतिर्ग्रहणे सति आम्ना­ता­न्ना­ना­मपि तद्ग्रहणेन भाव्यमिति राजाज्ञा , येन तेषां षट् पञ्चजनाः स्युः । आका­ङ्क्षा­स­द्भा­वा­स­द्भा­वाभ्यां हि ग्रहणाग्रहणे युज्येते । विरोधस्तु विकल्पेन समाधेयः । न च वस्तुनि विकल्पायोगः । न ह्यत्र ब्रह्माश्रिताः पञ्च पञ्चजनाः प्रति­पि­पा­द­यि­षि­तानि वस्तूनि, किन्त्वद्वितीयं निर्विशेषं प्रत्यगभिन्नं ब्रह्मैकमेवात्र प्रति­पि­पा­द­यि­षि­तम् । पञ्चजनास्तु कल्पि­ता­स्त­त्प्र­ति­प­त्त्यु­पायाः । न ह्यक­ल्पि­ता­र्थ­प्र­ति­प­त्त्यु­पा­येषु कल्पि­ते­ष्वै­क­रू­प्य­नि­य­मोऽस्ति; नानाप्रकारेण भिन्न­व्या­क­र­ण­नि­ष्पाद्यैः कल्पि­त­श­ब्दै­रु­पा­यै­र­क­ल्पि­त­सि­द्ध­श­ब्द­प्र­ति­प­त्ति­द­र्श­नात् । अत्र च मन्त्रे पञ्चजनाः केव­ल­प्र­ति­प­त्त्यु­पायाः, न तु ज्ञेय­व­स्त्व­न्त­र्गता इत्येतत् सुषु­प्त्यु­त्क्रा­न्त्य­धि­क­र­ण­वि­ष­य­वा­क्य­भू­त­नि­ष्प्र­प­ञ्च­प्र­त्य­ग­भि­न्न­ब्र­ह्म­प्र­क­र­ण­म­ध्य­पा­तेन ‘मन­सै­वा­नु­द्र­ष्टव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ.उ.४-४-१९) इत्या­दि­म­न्त्रा­न्त­र­स­न्नि­धा­नेन च स्पष्टम् । उत्त­रा­र्द्धे­नापि स्पष्टम् । तत्र हि ‘तमेव’ इत्येवकारेण तत्र प्रति­ष्ठि­ता­न्वे­द्य­को­टे­र्ब­हि­र्भाव्य तमेव निष्प्र­पं­च­मा­त्मा­न­म­मृतं ब्रह्म मन्ये न चाहं तमात्मानं ततोऽन्यः सन्वेद्मि, किन्तु विद्वान् सन् अहमप्यमृत एव अमृतशब्दोक्तं ब्रह्मैव , अज्ञानमात्रेण तु प्राक् मर्त्य आसमिति मन्त्र­द्र­ष्टु­रुक्तिः प्रतिपाद्यते । एवमेव विवृतं वार्तिकेऽपि ‘कार्य­का­र­ण­यो­स्तत्त्वं यस्मादात्मैव निर्द्वयम् । मन्य आत्मानमेवातः कार्य­का­र­ण­व­ज्ज­गत् । प्रध्व­स्त­भे­द­हे­तु­त्वा­त्का­र­णा­दे­र­स­म्भ­वात् । अमृ­तोऽ­मृ­त­मि­त्याह विद्वानिति श्रुतिस्स्वयम्’ इति । केचित्तु निष्प्र­प­ञ्च­प्र­त्य­ग­भि­न्न­ब्र­ह्म­सा­क्षा­त्का­रो­पा­य­त्वेन उपासनाऽत्र विव­क्षि­ते­त्याहुः । तदा सुतरां विकल्पो युज्यते ।

अत्रे­द­मा­लो­च­नी­यम् – ‘प्राणादयो वाक्यशेषात्’ इति सूत्रं तावदयुक्तम् । सन्दिग्धे हि वाक्य­शे­षा­न्नि­र्णयः । न चात्र सन्देहोऽस्ति ; पञ्च­ज­न­श­ब्द­रूढ्या प्रथमं मनुष्याणामेव तदर्थतया निश्चयात् । न च पञ्च मनुष्या यस्मिन् प्रतिष्ठिता इत्यर्थपरिग्रहे वाक्यस्य निस्ता­त्प­र्य­त्व­प्र­स­ङ्गा­द­र्था­न्त­रा­कां­क्षा­या­मा­कां­क्षि­ता­र्थ­स­म­र्पको वाक्यशेषः स्यादिति वाच्यम् । पञ्चशब्दस्य व्यक्ति­सं­ख्या­प­रत्वं विहाय ब्राह्म­ण­त्वा­द्य­न्त­र­प्र­भ­व­त्वा­न्त­क्रो­डी­का­र­क­ध­र्मो­पा­धि­क­सं­ख्या­प­र­त्व­प­रि­ग्र­हो­प­पत्तेः । अपि च नात्र वाक्य­शे­ष­न्या­या­व­त­र­णम् । एका­र्थ­प्र­ति­पा­द­कत्वे हि स न्यायः । अत एव ‘सन्दिग्धे तु [षु] वाक्यशेषात्’(जै.सू १-४-२४) इति पूर्व­त­न्त्र­सू­त्रात् कथं वाक्यशेषस्य सन्दि­ग्धा­र्थ­नि­र्णा­य­क­त्व­मि­त्या­कां­क्षा­याम् ‘अर्थाद्वा कल्प­नै­क­दे­श­त्वात्’(जै.सू. १-४-२५) इत्यु­त्त­र­सू­त्र­ग­त­मे­क­दे­श­त्वा­दि­त्यं­श­म­स्यापि सूत्रस्य शेषं कृत्वा एकोऽर्थो दिश्यते – प्रतिपाद्यते याभ्यां विध्य­र्थ­वा­दाभ्यां तत्त्वा­दे­का­र्थ­प्र­ति­पा­द­क­त्वा­दिति व्याख्यातम् । वार्तिकेऽपि ‘विधि­स्तु­त्यो­स्स­दा­वृ­त्ति­स्स­मा­न­वि­ष­ये­ष्यते । तस्मादेकत्र सन्दि­ग्ध­मि­त­रे­णा­व­धा­र्यते’ इति विध्य­र्थ­वा­द­यो­रे­का­र्थ­प्र­ति­पा­द­क­त्व­म­नयोः क्वचित् सन्दि­ग्ध­स्या­न्येन निर्णये हेतुत्वेनोक्तम् । न चात्र पञ्चजनमन्त्रस्य प्राणमन्त्रस्य चैका­र्थ­प्र­ति­पा­द­क­त्व­मस्ति । एकः पञ्च­ज­ना­का­शा­धा­र­त्वेन उपायेन ब्रह्म­प्र­ति­प­त्ति­परः, अन्यस्तु प्राणादीनां प्राण­न­व्या­पा­रा­दि­सा­मर्थ्यं यदधीनं तं प्रत्यगात्मानं ये विदुः ते ब्रह्म निरचैषुरिति महा­वा­क्या­र्थ­नि­श्च­यस्य त्वंप­दा­र्था­व­ग­त्य­धी­न­त्व­प्र­ति­पा­द­न­पर इति भिन्न­प्र­स्था­न­त्वात् । एवं च ‘ज्योति­षै­के­षाम्’ इति सूत्र­म­प्य­नु­प­प­न्नम् ; पूर्व­म­न्त्र­स्यापि कालापरिच्छिन्नं ज्योति­षा­मा­दि­त्या­दीनां ज्योतिरमृतं ब्रह्म आयु­ष्य­गु­ण­वि­शिष्टं देवा उपासत इति पुरा­क­ल्प­प्र­द­र्श­न­मु­खेन आयु­ष्का­म­स्त­द्गु­ण­वि­शिष्टं ब्रह्मोपासीतेति निर्गु­ण­प्र­क­र­णेऽ­प्य­स्मिन् प्रास­ङ्गि­को­पा­स­ना­वि­धि­प­र­त्वात् ।

अपि च सर्व­शा­खा­प्र­त्य­य­न्या­या­न्मा­ध्य­न्दि­न­शा­खा­प­ठि­ता­न्नो­प­सं­हा­रे­णैव काण्वशाखायां पञ्च­सं­ख्या­पू­र­ण­स­म्भ­वा­द­प्य­नु­प­प­न्नम् । पञ्च­सं­ख्या­पू­र­णार्थं ज्योति­र­पे­क्षा­या­मपि ‘ज्योतिर्भिः’ इति सूत्रं प्रणेतव्यम् ; पूर्वमन्त्रे बहु­व­च­न­नि­र्दि­ष्टा­ना­मेव ज्योतिषामिह पञ्चजनमध्ये ग्राह्यत्वात् द्विती­या­नि­र्दि­ष्टस्य ब्रह्मतया तस्य तदाश्रितमध्ये परिगणनायोगात् । अपि च साङ्ख्य­त­त्त्वेषु पञ्चशः पञ्चशः क्रोडी­का­र­कै­क­ध­र्मा­भा­वा­त्त­त्प­रि­ग्रहो न युज्यत इति ‘नानाभावात्’ इति सूत्रभागेन दूषितवता सूत्रकृता प्राणादिषु ज्योतिः­प­ञ्च­मे­ष्व­न्न­प­ञ्च­मेषु च पृथक् पृथक् क्रोडी­का­र­क­मे­कै­क­धर्मं दृष्ट्वेदं सूत्रद्वयं प्रणी­त­मि­त्यु­प­पा­द­नी­यम् । तमपि धर्मं न पश्यामः । न हि महासंख्यायां विभ­ज्या­वा­न्त­र­सं­ख्या­नि­वे­शन एव क्रोडी­का­र­क­ध­र्मा­पेक्षा, न तु संख्या­नि­वे­श­न­मात्र इति विशेषे प्रमाणमस्ति । तस्मा­द­स­म­ञ्ज­स­मे­वेदं सूत्रद्वयं प्रतिभाति ।

अत्र ब्रूमः – ‘पञ्च पञ्चजनाः’ इत्यत्र मनुष्यपरिग्रहे पञ्च­ज­न­श­ब्द­स्वा­रस्यं लभ्यते । पञ्चसंख्या तु पुरु­ष­बु­द्ध्यु­प­स्था­प­नी­येन ब्राह्म­ण­त्वा­द्यु­पा­धिना निर्वहणीया । प्राणा­दि­प­रि­ग्रहे मन्त्रा­न्त­र­श्रु­तेन प्राण­त्वा­द्यु­पा­धिना पञ्च­सं­ख्या­नि­र्वा­हा­त्प­ञ्च­श­ब्द­स्वा­रस्यं लभ्यते । पञ्चजनशब्दस्तु प्राणादिषु लक्षणया शक्त्य­न्त­र­क­ल्प­नेन वा नेतव्यः । किमत्र युक्तमिति विवक्षायां प्रथ­म­श्रु­त­प­ञ्च­श­ब्द­स्वा­र­स्य­म­नु­रुध्य पञ्चजनशब्दस्य प्राणादिषु वृत्त्य­न्त­र­क­ल्पनं युक्त­मि­त्य­भि­प्रेत्य भगवता सूत्रितं ‘प्राणादयो वाक्यशेषात्’ इति । एवमेव हि जैमिनिनाऽपि सप्तदशशरावे चरौ ‘चतुरो मुष्टी­न्नि­र्व­पति’ इत्यस्य प्राप्तौ संख्या­मु­ष्ट्य­न्य­त­र­बाधे चावश्यंभाविनि प्रथ­म­श्रु­त­सं­ख्या­बा­ध­प­रि­हा­राय मुष्टि­बा­धोऽ­ङ्गी­कृतः । यद्यदि पञ्चजनवाक्यस्य प्राणवाक्यं विधेरर्थवाद इव शेषो न भवति, तथापि अपरिमितवाक्यस्य सह­स्र­वा­क्य­मि­वा­कां­क्षि­त­मर्थं सन्निधानमात्रेण समर्पयत् शेष इव भवतीति ‘वाक्यशेषात्’ इत्युक्तम् । श्रुतावपि हि पर्य­ग्नि­क­र­णा­न्तो­त्सृ­ष्टस्य पात्नी­व­त­प­शो­स्त­द­न­न्तरं क्रियमाणः पत्नीवद्देवत्य आज्ययागः संस्था­प्य­मा­न­श्शेष इव भव­ती­त्ये­ता­व­तोक्तं ‘पर्यग्निकृतं पत्नी­व­त­मु­त्सृ­ज­त्या­ज्येन शेषं संस्थापयति’ इति । एतेन – ज्योतिषा संख्या­पू­र­णा­नु­प­प­त्ति­रपि – परिहृता । ‘ज्योतिषां ज्योतिः’ इत्यस्य पञ्च­ज­न­वा­क्य­शे­ष­त्वा­भा­वेऽपि अप­रि­मि­ता­धि­क­र­ण­न्या­या­त्स­न्नि­धा­न­मा­त्रे­णा­कां­क्षि­ता­र्थ­स­म­र्प­क­त्व­स­म्भ­वात् । यत्तु माध्यंदिनशाखात उपसंहृतेऽन्ने सति ज्योतिषा संख्यापूरणं नापेक्षितमिति तत्तथैव । कृत्वाचिन्तया तु सूत्रं प्रणीतम् । कृत्वा­चि­न्ते­त्ये­त­दपि ‘असत्यन्न’ इत्यनेनैव दर्शितम् । यदि शाखा­न्त­रा­दु­प­सं­हृ­त­मन्नं न स्यात्तदानीं ज्योतिषा संख्यापूरणं कार्य­मि­त्ये­त­दर्थ एव हि ‘असत्यन्न’ इति सूत्रशेषः , न तु तस्य प्रयो­ज­ना­न्त­र­मस्ति । यदि हि शाखा­न्त­रा­द­न्नो­प­सं­हारं सूत्रकारो नान्वमंस्यत ‘असत्यन्न’ इति सूत्रशेषं नावक्ष्यत्; काण्व­शा­खा­या­म­न्ना­भा­वस्य स्पष्टत्वात् । शाखा­न्त­रा­द­न्नो­प­सं­हा­रा­भा­व­प्र­ति­पा­द­ना­र्थत्वे ‘अन्नाभावात्’ इत्येवावक्ष्यत् , न तु ‘असत्यन्न’ इति ‘ज्योतिषा’ इत्येकवचनं तु ‘ज्योतिः’ इति मन्त्रे बहु­व­च­न­नि­र्दि­ष्टानां ज्योतिषां ज्योतिष्ट्वेन एकीकृत्य परिग्रहणं सूचयितुम् । अन्यथा हि पञ्चजनानां संख्याऽतिरेकः स्यात् । प्राणा­दी­ना­म­न्न­प­ञ्च­मानां क्रोडीकारकं ब्रह्मा­धी­न­स्व­व्या­पा­र­त्वेन उत्त­र­मं­त्रा­म्ना­त­त्वम् । ज्योतिः­प­ञ्च­मानां ब्रह्मा­धी­न­स्व­व्या­पा­र­त्वेन सन्नि­हि­त­म­न्त्रा­म्ना­त­त्वम् । संख्या­नि­वे­श­ना­र्थ­मे­त­द­न­पे­क्षा­या­मपि ‘प्राणादय’ इति सूत्रगतेन तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हिणा तेषां वाच्यत्वस्य, लक्ष्यत्वस्य वा सिद्ध्य­र्थ­म­वश्यं तेष्वनुगतमेकं रूपमेतदन्यद्वा वक्तव्यमेव । कृत्वाचिन्ता किमर्थेति चेत् न्याय­व्यु­त्पा­द­ना­र्थम् । यथा शर्करांजनवाक्ये द्रव­द्र­व्य­मा­कां­क्षितं वाक्य­शे­षा­द्गृ­ह्यते , यथा वा अपरिमितवाक्ये स्ववा­क्य­शे­षा­भा­वेऽपि अन्या­र्थ­प्र­वृ­त्ता­त्स­न्नि­हि­ता­त्स­ह­स्र­वा­क्या­दा­कां­क्षितं बहुत्वप्रतियोगि गृह्यते , एव­मे­क­स्मा­द­न्या­र्थ­प्र­वृ­त्ता­त्स­न्नि­हि­त­वा­क्या­दा­कां­क्षि­तस्य सर्वस्यालाभे तथा­भू­ता­द­ने­क­स्माद्वा कुत­श्चि­त्किं­चि­दि­त्य­नेन प्रकारेण तद्ग्राह्यमिति न्यायो ह्यनेन सूत्रेण व्युत्पादितो भवति ।१-४-१३।

इति नसं­ख्यो­प­सं­ग्र­हा­धि­क­र­णम् ।३।

कारणत्वेन चाकाशादिषु यथा­व्य­प­दि­ष्टोक्तेः ॥१४॥

१४

एवं त्रिभिरधिकरणैः किञ्चि­त्कि­ञ्चि­द्वे­द­वा­क्य­म­व­लम्ब्य प्रधा­न­का­र­ण­वा­दिनां प्रत्यवस्थानं निराकृतम् । इह तु प्रायः­का­र­ण­वा­क्यानां मिथो विल­क्ष­ण­का­र­ण­स­म­र्प­का­णा­म­न्यो­न्य­वि­रो­धा­द­प्रा­मा­ण्य­प्र­सङ्गे तानि स्मृति­न्या­य­प्र­सिद्धे प्रधाने लाक्षणिकानीति कल्पनं युक्तमिति तेषां प्रत्यवस्थानं निराक्रियते । तथा हि – तैत्तिरीये तावदसत्पूर्विका सृष्टिराम्नायते ‘असद्वा इदमग्र आसीत् ततो वै सदजायत’(तै.उ. २-७-१) इति । बृहदारण्यकेऽपि ‘असदेवेदमग्र आसीत् तत्सदासीत्’ इति । छान्दोग्ये त्वस­त्का­र­ण­प­क्ष­प्र­ति­क्षे­पेण सत्पूर्विका सृष्टिः प्रतिज्ञायते – ‘तद्धैक आहुरसदेवेदमग्र आसी­दे­क­मे­वा­द्वि­तीयं तस्मा­द­स­त­स्स­ज्जा­यत इति । कुतस्तु खलु सोम्य एवं स्यादिति होवाच । कथ­म­स­त­स्स­ज्जा­य­तेति सत्त्वेव सोम्येदमग्र आसीत्’(छा.उ.६-२.१-२) इति । बृहदारण्यक एव क्वचि­त्स्व­यं­क­र्तृका जगद्व्याक्रिया निगद्यते ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सी­त्त­न्ना­म­रू­पाभ्यां व्याक्रियत’(बृ.उ.१-४-७) इति । एवमनेकधा विप्रतिपत्तेः उदि­ता­नु­दि­त­हो­म­व­द्व­स्तुनि विक­ल्पा­यो­गा­त्का­र­ण­व­स्तु­स­द­स­त्त्व­वि­प्र­ति­प­त्तेश्च तत्प्र­ति­प­त्त्यु­पा­य­वि­य­दा­दि­का­र्य­त­त्क्र­मा­दि­वि­ष­य­वि­प्र­ति­प­त्ति­व­द­दो­ष­त्वस्य वक्तु­म­श­क्य­त्वात् मिथो व्याह­ता­र्थै­र्वे­दा­न्तैर्न जगत्कारणं ब्रह्मे­त्य­व­धा­र­यितुं शक्यम् । शक्यं तु साङ्ख्यस्मृत्या तदु­प­पा­दि­त­न्या­यैश्च प्रधानं जग­त्का­र­ण­मि­त्य­व­धा­र­यि­तुम् । अतः कारणवाक्यानां प्रामाण्यं रिरक्षिषता स्मृति­न्या­य­स­म­र्पिते प्रधान एव तेषामपि पर्यवसानं वाच्यम् । ईक्षणादयोऽपि कथं­चि­द्गौ­ण­वृत्त्या तत्रैव नेतव्या इति पूर्वः पक्षः ।

स्यादेतत् – तैत्तिरीये यज्ज्ञा­ना­न्नि­र­ति­श­या­न­न्दा­वाप्तिः तत्स­त्य­ज्ञा­ना­दि­ल­क्षणं ब्रह्म प्रस्तु­त्या­न्न­म­या­दि­को­श­प­र­म्प­रया सर्वान्तरं तत्प्रत्यग्रूपं निर्धार्य ‘असन्नेव’(तै.उ.२-६.१) इति मन्त्रेण तस्य सत्त्वा­स­त्त्व­वे­द­न­यो­र्वे­दितुः साधु­त्वा­सा­धु­त्व­प्रा­प्ति­रू­प­गु­ण­दो­षा­भि­धा­ने­ना­स­द्वादं निराकृत्य ‘सोऽकामयत’(तै.उ.२-६.१) इत्यादिना तस्यैव कामनापूर्वकं सक­ल­प्र­प­ञ्च­स्र­ष्टृ­त्व­मुक्त्वा ‘तत्स­त्य­मि­त्या­चक्षे’(तै.उ.२-६.१) इति चोपसंहृत्य ‘तदप्येष श्लोको भवति’(तै.उ.२-६.१) इति तस्मिन्नेवार्थे श्लोकोऽ­य­म­व­ता­रितः ‘असद्वा इदमग्र आसीत्’(तै.उ.२-७.१) इति । कथमयमसत्कारणपरः स्यात् ? कथं चासतः ‘आसीत्’ इत्य­स्ति­त्व­मु­च्येत । तस्मा­न्ना­म­रू­प­व्या­क­र­णात् प्राक् सदपि ब्रह्मा­स­दि­वे­त्यु­प­चा­रा­द­स­दि­त्यु­क्तम् । एषैव असदेवेदमग्र आसीत् इत्यत्रापि योजना स्यात् । असच्छब्दस्य ब्रह्मपरतायाः क्वचि­द्दृ­ष्ट­त्वा­दि­हापि तत्सदासीत् इत्यग्रे वचनाच्च । शून्यत्वे हि किं ‘सदासीत्’ इति परामृश्येत । छान्दोग्येऽपि अस­द्वा­दोऽ­नु­दि­त­होम इव न श्रुत्य­न्त­र­प्राप्तो निराकृतः येन तैत्ति­री­य­बृ­ह­दा­र­ण्य­क­श्रु­त्यो­र­स­त्का­र­ण­प­रत्वं वाच्यं स्यात् । किन्तु सर्व­श्रु­ति­प­रि­गृ­ही­त­स­त्का­र­ण­प­क्ष­दा­र्ढ्याय मन्द­म­ति­प­रि­क­ल्पित एवानूद्य निराकृतः । ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्’ इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते ; अग्रे ‘स एष इह प्रविष्ट आनखाग्रेभ्यः’(बृ.उ. १-४-७) इत्यध्यक्षस्य व्याकृ­त­का­र्या­नु­प्र­वे­श­श्र­व­णात् ।

किञ्च ‘व्याक्रियत’ इत्ययं लकारः कर्मणि वा स्यात्क­र्म­क­र्तरि वा । कर्मणि चेद्गम्यते ग्राम इत्य­त्रे­वा­क्षे­पतः कर्तृलाभः स्पष्टः । कर्मकर्तरि चेदपि तथैव । कर्त्रा क्रियमाणमेव यत्कर्म स्वगुणैः सुकरं भवति तत्सौ­क­र्य­म­पेक्ष्य कर्तृत्वेन विवक्ष्यमाणं हि कर्म­क­र्ते­त्यु­च्यते । यथाऽऽहुः ‘क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति । सुकरैः सुगुणैर्युक्तं कर्मकर्तेति तद्विदुः’ इति । एवं च यथा करणस्य , अधिकरणस्य वा गुणसौष्ठवेन कर्तृ­त्व­वि­व­क्षया ‘साध्व­सि­श्च्छ­नत्ति’ ‘साधु स्थाली पचति’ इति कर्तृ­त्व­व्य­व­हा­रेऽपि वस्तुतः कर्तृ­व्या­पा­र­वि­ष­यत्वं न हीयते , एवमिहापि । इयांस्तु विशेषः – कर्मणः कर्तृ­त्व­वि­व­क्षायां ‘कर्मवत् कर्मणा तुल्यक्रियः’(पा.सू. ३-१-८७) इति सूत्रेण कर्मवत् कार्यविधानात् ‘लूयते केदारः स्वयमेव’ इत्या­दि­प्र­यो­गेषु यगात्मनेपदादयः । करणाधिकरणयोः कर्तृ­त्व­वि­व­क्षायां तथा विशे­ष­वि­धा­ना­भा­वात् कर्तरि विहिताः श्नम्शबादयः प्रत्ययाः । तस्मात् कार­ण­वा­क्या­ना­म­वि­रो­धेन सद्रूपे ब्रह्मणि कारणे तात्पर्यस्य निर्धारयितुं शक्यत्वान्न प्रधानपरत्वं कल्पनीयम् । कथं चान­न्द­म­या­धि­क­र­णा­दृ­श्य­त्वा­धि­क­र­णा­दिषु बहुभिर्न्यायैः प्रधा­ना­द्व्य­व­च्छिद्य ब्रह्मपरत्वेन निर्णीतानां तैत्ति­री­य­च्छा­न्दो­ग्य­मु­ण्ड­को­प­नि­ष­दा­दि­ग­त­का­र­ण­वा­क्यानां पुनरिह प्रधानपरत्वमिति शङ्कोन्मज्जनं लभेत ? तस्मान्नायं पूर्वपक्षो युक्त इति चेत् –

अत्र ब्रूमः – तैत्तिरीये यत् कारणं ब्रह्म प्रतिपादितं तत् प्राक् ‘असद्वा’ इति श्लोकावतरणात् सदसदिति वा न निर्धारयितुं शक्यम् । ‘असन्नेव स भवति’ इति श्लोकस्य असद्ब्रह्मेति वेद चेत् स्वभा­वि­का­स­द्रू­प­ता­प­त्ति­रूपां सक­ल­सां­सा­रि­क­दुः­ख­र­हितां मुक्तिं प्राप्तो भवति । ब्रह्मणः कल्पि­त­स­द्रू­प­त्व­वे­दने तु स्वयमपि सद्रू­प­ता­नु­वृत्त्या सक­ल­सां­सा­रि­क­दुः­ख­स्व­भा­जनं भवे­दि­त्ये­व­म­भि­प्रा­य­व­र्ण­नो­प­पत्तेः । ‘सोश्नुते सर्वान् कामान्’(तै.उ.२-१-१) इति मुक्तौ सर्व­का­मा­वा­प्ति­व­च­नस्य मुक्तः सम्प्रा­प्त­स­क­ल­काम इव निर्दुःखो भव­ती­त्ये­त­द­र्थ­ल­क्ष­क­त्वो­प­पत्तेः निर­ति­श­य­ब्र­ह्मा­न­न्द­प्रा­प्ति­प­र­त्व­प­क्षेऽपि तस्य तत्र लक्ष­णाऽ­व­श्य­म्भा­वात् । उपक्रमे वाक्यशेषे च श्रुतस्य सत्यशब्दस्य ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ.८-१-५) ‘यच्चिकेत सत्यमित्तन्न मेघम्’ इत्या­दि­प्र­यो­ग­द­र्श­ना­द­मो­घ­म­स­द्रूपं ब्रह्म यस्मात् सद्रूपं जगदवश्यञ्जायत इत्येकमपि तात्प­र्य­व­र्ण­नो­प­पत्तेः । सिद्धान्ते चेतनब्रह्मणः काल्प­नि­का­चे­त­न­प्र­प­ञ्च­स्ये­वा­स­द्रू­पा­द्ब्र­ह्मणः काल्प­नि­क­स­द्रू­प­प्र­पं­चस्य जननोपपत्तेश्च कार्य­प्र­प­ञ्च­प­र­श­ब्दानां काल्प­नि­क­प­र­त्व­वत् कार­ण­ब्र­ह्म­प­र­श­ब्दा­ना­म­स­त्प­र­त्वो­प­प­त्तेश्च । सिद्धान्तेऽपि वैदिकशब्दानां सद­र्थ­प­र­त्व­नि­य­मा­भा­वात् । तस्मात् ‘पञ्च पञ्चजना’ इत्यस्येव तैत्ति­री­य­ग­त­का­र­ण­वा­क्य­स्या­ने­क­धाऽ­र्थ­व­र्ण­न­स­म्भ­वा­द­नि­र्ण­य­प्र­सङ्गे वाक्य­शे­षा­द­र्थ­नि­र्णयो युक्तः । एवम् ‘असद्वा इदमग्र आसीत्’ इति वाक्य­शे­षा­नु­सा­रे­णा­स्या­स­त्का­र­प­रत्वे सति ‘असदेवेदम्’ इति बृह­दा­र­ण्य­क­वा­क्य­म­प्य­स­त्का­र­ण­प­र­मे­वा­व­ति­ष्ठते । न चोभयत्रापि ‘आसीत्’ इति अस्तित्वोक्त्या सत्ये­वा­स­च्छ­ब्द­यो­र्ल­क्षणा स्वीकर्तव्येति शंक्यम् । ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इति छान्दोग्ये निरा­क­र­णी­या­स­त्का­र­ण­प­क्षा­नु­वादे अत्यन्तासत्येव ‘आसीत्’ इति प्रयोगदर्शनात् । एवं च उदाहृतं छान्दो­ग्य­वा­क्य­मपि श्रुत्य­न्त­र­प्र­ति­पा­दि­ता­स­त्का­र­ण­प­क्ष­नि­रा­क­र­ण­प­र­मे­वा­व­ति­ष्ठते ।

यत्तु ‘व्याक्रियत’ इत्यत्र ‘स एष इह प्रविष्ट आनखाग्रेभ्यः’ इत्यग्रे कर्तृ­श्र­व­ण­म­स्ती­त्यु­क्तम् ; तन्न । तत्र ‘स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत्’(बृ.उ,१-४-१) इति प्राक् प्रकृतस्य जीवस्य व्याकृ­त­श­री­रा­नु­प्र­वे­श­स्यैव प्रति­पा­द्य­मा­न­तया जग­त्क­र्तु­र­प्र­ति­पा­द­नात् । यदप्याक्षेपतः कर्तृलाभोऽस्ति ‘लूयते केदारः स्वयमेव’ इत्या­दा­वि­वे­त्युक्तं तदपि न युक्तम् । ‘भिद्यते कुसूलेन’ इत्यादिषु व्यभिचारेण कर्म­क­र्तृ­वि­व­क्षायां कर्त्र­न्त­रा­क्षे­प­नि­य­मा­भा­वात् । अत एव महाभाष्ये कर्मणः कर्तृ­त्व­रू­प­स्वा­त­न्त्र्य­वि­व­क्षा­स्थले ‘किं सत­स्स्वा­त­न्त्र्यस्य विवक्षा उत विवक्षामात्रम्’ इति पक्षं परिगृह्य तत्र ‘भिद्यते कुसूलेन’ इत्युदाहृत्य तत्रापि कुसूलातिरेकेण भेदने कर्तारो वातातपवर्षकालाः सन्तीत्याशंक्य ‘यस्य खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलः स्वयमेव भिद्यते तस्य नान्यः कर्ताऽस्ति अन्यदतः कुसूलात्’ इति परिहृतम् । पुनश्च यत्र तर्हि ‘लूयते केदारः स्वयमेव’ इत्यत्र कर्त्रन्तरमस्ति तत्र केदारे लवनं प्रति सत­स्स्वा­त­न्त्र्यस्य विवक्षा न सम्भ­व­ती­त्या­शंक्य ‘अत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ताऽस्ति अन्यदतः केदारात्’ इति परिहृतम् । एवं कर्म­क­क्तृ­प्र­यो­गेषु कर्त्रन्तराभावे कृत्स्न­स्वा­त­न्त्र्य­वि­वक्षा, तत्सद्भावे सौक­र्यां­श­मा­त्र­स्वा­त­न्त्र्य­वि­व­क्षेति द्वैविध्यं वर्णयता भगवता पतञ्जलिना कर्त्रा­क्षे­प­नि­यमो नास्तीति स्पष्टमेव दर्शितम् । एवञ्च सति द्वैविध्ये ‘व्याक्रियत’ इत्यत्र कृत्स्न­स्वा­त­न्त्र्य­वि­व­क्षैव न्याय्या, अन्यथा कर्त्रा­क्षे­प­गौ­र­व­प्र­स­ङ्गात् । अत एव कृत्स्न­स्वा­त­न्त्र्य­युक्ते कर्म­क­र्त­र्ये­वायं लकारः न तु कर्मणि ; तथात्वेऽपि कर्त्रा­क्षे­प­गौ­र­व­प्र­स­ङ्गात् । तस्मात् तत्का­र­ण­वा­क्य­स्वा­र­स्य­प­र्या­लो­च­ना­या­म­व­श्य­म­स्त्येव विरोध इति तत्परिहारेण प्रामा­ण्य­सं­र­क्षा­णार्थं तेषां स्मृति­न्या­य­सिद्धे प्रधाने पर्यवसानं कल्पयितुं युक्तम् ।

आन­न्द­म­या­धि­क­र­णा­दिषु तन्निराकृतम् , इति चेत् ; सत्य­मा­न­न्द­म­या­धि­क­रणे ‘कामाच्च नानुमानापेक्षा’(ब्र.सू.१-१-१८) इति निराकृतम् । ‘सोऽकामयत’ इति श्रुतः कामः प्रधान इव ब्रह्म­ण्य­नु­प­पन्नः । स हि ‘कामस्सङ्कल्पो विचिकित्सा’(बृ.उ.१-५-३) इत्या­दि­श्रु­ता­व­न्तः­क­र­ण­ध­र्म­त्वेन प्रतिपन्नः । न च ब्रह्म­णोऽ­न्तः­क­र­ण­मस्ति । एतेन – ईक्षत्यधिकरणे वर्णितमीक्षणमपि – व्याख्यातम् । तदपि खलु ‘ह्रीर्द्धी­र्भी­रि­त्ये­त­त्सर्वं मन एव’(बृ.उ.१-५-३) इत्य­न्तः­क­र­ण­ध­र्म­त्वेन श्रुतम् । ब्रह्म­ण­स्स्व­रू­प­ज्ञा­नेन सर्वज्ञत्वं सम्भवति इति चेत् ; सत्यं ‘यस्स­र्व­ज्ञ­स्स­र्व­वित्’ इति श्रुतं सर्वज्ञत्वं सम्भवति , न तु ‘तदैक्षत’ इति सर्गा­द्य­का­लो­त्प­न्न­त्वे­ने­दा­नी­म­ती­त­त्वेन च श्रुत­म­नि­त्य­मी­क्ष­णम् । किञ्चे­च्छा­मात्रे अनि­त्य­ज्ञा­न­मात्रे च शरीरस्यापि कारणत्वावगमात् सर्गाद्यकाले भूतसृष्टेः प्रागशरीरस्य ब्रह्मणः कामेक्षणे सुतरां न सम्भवतः । गौणे तु प्रधानेऽपि सम्भवतः । एतेन – कार­ण­वा­क्य­ग­ता­त्म­ब्र­ह्मा­दि­श­ब्दा­स्त­त्त्व­म­सी­त्या­द्य­भे­द­व्य­प­दे­शाश्च व्याख्याताः ।

किञ्च पञ्चजनशब्दस्य प्राणा­दि­ष्वि­वा­त्मा­दि­श­ब्दानां प्रधाने वृत्तिः कल्प्यत इत्यपि वक्तुं शक्यम् । ‘तस्य तावदेव चिरम्’(छा.उ.६ – १४ - २) इति मोक्षोपदेशस्तु न जीव­ज­ग­त्का­र­णा­भे­द­नि­ष्ठस्य, किन्तु केवलं जग­त्का­र­ण­नि­ष्ठ­स्येति प्रधानेऽपि सङ्गच्छते । मोक्षाय प्रधानमपि हि साङ्ख्यमते ज्ञेयम् । अत एवा­नु­मा­नि­का­धि­क­रणे ‘ज्ञेय­त्वा­व­च­नाच्च’(ब्र.सू.१-४-४) इति सूत्रितम् । ‘स्वमपीतो भवति’ इत्यत्र स्वशब्दः स्वीयपरोऽस्तु । भिन्नेऽप्यप्ययः प्रसिद्धो ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति’(श.ब्रा.१०-३-३-६) इत्यत्र । मुण्डके जगत्कारणमक्षरं प्रधानं अक्षरात्परः पुरुषो जीव इत्येवं प्रकारेण सर्वाणि कारणवाक्यानि यथा­क­थं­चि­द्गौ­ण­ल­क्ष­णा­ध्या­हा­रा­नु­ष­ङ्ग­वा­क्य­भे­द­व्य­व­धा­र­ण­क­ल्प­ना­दिभिः स्मृति­न्या­य­प्राप्ते प्रधान एव नेतव्यानि । तत्त­त्का­र­ण­वा­क्य­स्वा­र­स्य­ल­भ्या­र्थ­प­रि­ग्रहे तेषां पर­स्प­र­वि­ल­क्ष­ण­का­र­ण­स­म­र्प­क­त्वा­द­प्रा­मा­ण्य­मेव प्रसज्यते । वरं चाध्य­य­न­वि­धि­प­रि­गृ­ही­तानां वैदि­क­श­ब्दा­ना­म­ति­क्ले­शा­श्र­य­णे­नापि ‘सृण्येवजर्भरि’ इत्या­दि­मं­त्रा­णा­मिव प्रामा­ण्य­सं­र­क्ष­ण­मि­त्येवं सर्वाक्षेपेण पूर्वपक्षे प्राप्ते –

राद्धान्तः – श्वेता­श्व­त­रा­दिषु प्रदर्शितानि बहूनि कारणवाक्यानि प्रधा­न­पु­रु­षा­ति­रिक्तं तयोर्नियामकं सर्वज्ञं सर्वेश्वरं सर्वेषां प्रत्यग्रूपं जगत्कारणं प्रतिपादयन्ति । यत्रा­प्या­न­न्द­व­ल्या­म­स­त्का­र­ण­वाद इव दृश्यते , साऽपि तथैव सर्वज्ञं सर्वेश्वरं सर्वान्तरं सर्वेषां प्रत्यग्रूपं कारणं प्रतिपादयत्येव । तथैव हि छान्दो­ग्य­श्रु­ति­रपि चेतनं प्रत्यगभिन्नं कारणं प्रतिपादयति यत्रा­स­त्का­र­ण­वा­द­नि­रा­क­र­ण­म­ति­स्फुटं श्रूयते । एवं च पर­मे­श्व­र­का­र­ण­त्व­प्र­ति­पा­द­कानां कारणवाक्यानां बाहुल्ये सति बहू­ना­मे­क­वि­ष­याणां पर­स्प­र­वि­रो­धे­ना­र्था­नि­र्ण­य­प्राप्तौ प्रमा­णा­न्त­रा­नु­सा­रेण सर्वेषां शब्दानां लाक्ष­णि­क­त्वा­दि­क­ल्प­ना­द्वरं स्वान्त­र्व­र्ति­ब­हु­श­ब्दा­नु­सा­रेण कति­प­य­श­ब्द­ल­क्ष­णा­क­ल्पनं लाघवादिति प्रधाने सर्वेषां कारणवाक्यानां क्लेशेन नयनं परित्यज्य क्वाचि­त्क­स्या­स­च्छ­ब्दस्य ब्रह्म­ल­क्ष­णा­श्र­यणं कामे­क्ष­ण­श­ब्द­योश्च श्रुति­ब­ला­च्छ­री­रा­न­पे­क्षो­त्प­त्ति­क­मा­या­वृ­त्त्यु­पा­धि­प्रा­प्ता­नि­त्य­भा­व­स्व­रू­प­ज्ञा­ना­त्म­क­स­ङ्क­ल्प­वि­शे­ष­प­र­त्व­क­ल्प­नम् । एवं च जीव­ज­ग­त्का­र­णा­भे­द­स्वा­प्य­या­दि­श्रु­त­योऽपि न क्लेशेन नेतव्याः ।

एवं बृह­दा­र­ण्य­केऽ­प्य­स­च्छ­ब्दस्य गतिर्द्रष्टव्या । प्रायेण व्याकृ­त­व­स्तु­वि­षयः खलु सच्छब्दः प्रसिद्धः । ब्रह्म तु प्राग्ज­ग­दु­त्प­त्ते­र्व्या­क­र­णा­भा­वा­पे­क्षया सदे­वा­स­दि­त्यु­प­च­र्यत इति । ‘व्याक्रियत’ इति कर्मणि लकारो न तु कर्मकर्तरि । ‘अव्या­कृ­त­मा­सीत्’ इति कर्मण्येव निष्ठांतस्य प्राक्प्र­यो­गात्, एकविषययोः ‘प्रागव्याकृतम् , पश्चा­द्व्या­क्रि­यत’ इति प्रयोगयोः ‘प्रागच्छिन्नं वन­मि­दा­नी­म­च्छि­द्यत’ इति प्रयो­ग­यो­रि­वै­का­र्थ्य­प­र­त्वा­व­श्यं­भा­वात् । न चाव्या­कृ­त­मि­त्यपि कर्मकर्तरि प्रयोग इति शङ्कनीयम् । तदा­नी­म­ने­ना­व्या­कृ­त­मिति तृती­या­प्र­यो­ग­प्र­स­ङ्गा­दि­द­मिति प्रथ­माऽ­नु­प­पत्तेः । कर्मणः कर्तृ­त्व­वि­व­क्षायां हि धातो­र­क­र्म­क­त्वा­द्भावे निष्ठेति कर्तु­र­न­भि­हि­त­त्वात् तृतीययैव भाव्यम् । न च ‘कर्मवत्कर्मणा तुल्यक्रियः’(पा.सू.३-१-८७) इति सूत्रेण कर्मकर्तुः कर्म­व­द्भा­वा­ति­दे­शा­न्नि­ष्ठया कर्तु­र­भि­हि­त­त्वेन प्रथमा स्यात् यथा ‘लूयते केदारस्स्वयमेव’ इत्यत्र कर्तु­र­भि­हि­त­त्वेन केदार इति प्रथमेति वाच्यम् । ‘लिङ्याशिष्यङ्’(पा.सू.३-१-८६) इति पूर्वसूत्रे द्विलकारको निर्देश इत्येकस्य लका­र­स्या­नु­वृत्त्या लान्तस्य यः कर्मणा तुल्यक्रियः कर्ता तस्यैव कर्म­व­द्भा­व­वि­धा­ना­त्कृ­त्य­क्त­ख­ल­र्थेषु कर्मकर्तुः कर्म­व­द्भा­वा­भा­वात् । तस्मात् कर्मण्येवायं लकार इत्यनिवार्यः कर्त्राक्षेपः ।

सूत्रे कारणत्व इति सप्तमी नेति प्रतिषेधः । पुनश्च कारणत्वेनेति तृतीया । चस्त्वर्थः । तथा चायमर्थः – आकाशादिषु कार्येषु क्रमादिविषये विगाने सत्यपि न ब्रह्मणः कारणत्वे अस्ति विगानम् । कुतः ? यथा­व्य­प­दि­ष्टोक्तेः ; यथाभूतो ह्येकस्मिन् वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वा­त्म­कोऽ­द्वि­तीयः कारणत्वेन व्यपदिष्टः तथाभूतस्यैव वेदा­न्ता­न्त­रे­ष्वपि कारणत्वेनोक्तेः । तथा च बहुशब्दानुसारेण क्वाचि­त्क­स्या­स­च्छ­ब्दस्य व्याकृ­त­प्र­प­ञ्चा­त्म­नाऽ­न­भि­व्यक्ते ब्रह्मणि लक्षणा न्याय्या । न हि तत्र कारणमेव नास्तीति प्रतिक्षिप्यते , किन्तु कारणमभ्युपेत्य तत्रासच्छब्दः प्रयुज्यते । तथापि व्याक्रि­य­ते­त्यत्र कार­णा­न्त­र­प्र­ति­क्षे­पोऽ­स्तीति शङ्का­नि­वा­र­णा­र्थ­श्च­कारः । तन्नि­रा­क­र­ण­प्र­कारो दर्शित एव ॥१-४-१४॥

एवं प्रक­र­णा­न्त­र­ग­त­ब­हु­का­र­ण­वा­क्या­नु­सा­रेण ब्रह्म­का­र­ण­वा­द­वि­रोधी क्वाचित्कः शब्दो लक्षणादिना नेतव्य इत्युक्तम् । इदानीं पूर्वा­प­र­वा­क्या­नु­सा­रे­णापि तथा नेतव्य इत्याह –

समाकर्षात् ॥१५॥

१५

आन­न्द­व­ल्या­मु­प­क्रमे वाक्यशेषे च श्रूयमाणः सत्य­श­ब्द­स्त्रि­का­ला­बा­ध्य­रू­प­प­र­मा­र्थ­वाची ; तत्रैव तस्य शब्दस्य व्युत्प­न्न­त्वात् । अमोघे तत्प्रयोगस्तु लाक्षणिकः । प्रायः शुक्ति­र­ज­ता­दे­र्बा­ध्यस्य कार्य­क­र­त्वा­द­र्श­ने­ना­मो­घ­त्व­स्या­बा­ध्य­स­म्ब­न्धि­त्वा­व­ग­मात् लक्षणया तत्र प्रयोगनिर्वाहे शक्त्य­न्त­र­स्या­क­ल्प­नी­य­त्वात् । ‘असन्नेव’ इति मन्त्रोऽ­प्यु­प­क्र­मो­प­सं­हा­रा­नु­रो­धा­च्छ­न्दो­ग­श्रु­ता­व­स­द्वा­द­नि­रा­क­र­णस्य क्लृप्तत्वेन तद­नु­रो­धा­च्चा­स­द्वा­द­नि­रा­क­र­ण­परः । एवञ्च सद्रूपं ब्रह्म प्रकृत्य तस्मात् प्रत्य­ग्रू­पा­दा­का­शा­द्यु­त्प­त्ति­मुक्त्वा तस्य सर्वा­न्त­र­त्व­मु­प­पाद्य तस्या­स­त्य­त्व­प­क्षञ्च निराकृत्य सक­ल­ज­ग­त्स्र­ष्टृ­त्व­ञ्चोक्त्वा ‘तत्स­त्य­मि­त्या­च­क्षते’ इति चोपसंहृत्य ‘तदप्येष श्लोको भवति’ इति अनया तस्मिन्नर्थे श्लोकोऽ­य­मि­त्य­व­ता­रि­कया तदेव सद्रूपं कारणं ब्रह्मानुकृष्य पठ्यमानोऽयं ‘असद्वा इदमग्र आसीत्’ इति श्लोकः कथमसत्कारणपरः स्यात् । अतः सत्स­मा­क­र्षा­नु­रो­धा­द­स­च्छब्दः सत्ये­वा­न­भि­व्य­क्त्य­भि­प्रायो लाक्षणिकः कल्पनीयः । ‘असदेवेदम्’ इति श्रुतावपि ‘तत्सदासीत्’ इति सद्भावविधाने तत्प­दे­ना­स­च्छ­ब्दो­क्त­स्यैव समा­क­र्षा­द­त्य­न्ता­स­तश्च ‘नासतो दृष्टत्वात्’ इति न्यायेन सद्रू­प­ता­प­त्त्य­यो­गा­द­स­च्छब्दः पूर्व­व­ल्ला­क्ष­णिकः कल्पनीयः । ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्’ इत्याद्यनन्तरं ‘स एष इह प्रविष्ट’ इति वाक्ये तच्छब्देन व्यव­हि­त­प्र­कृ­त­पु­रु­ष­स्ये­वै­त­च्छ­ब्दे­ना­व्य­व­हि­त­प्र­कृ­ता­व्या­कृ­त­स्यापि समा­क­र्षा­द­व्या­कृ­त­रू­प­तया प्रवि­ष्ट­पु­रु­षा­भि­धा­न­सा­म­र्थ्या­द­व्या­कृ­त­श­ब्दोऽ­न­भि­व्य­क्त­ब्र­ह्म­पर इति तत्र न चेतनस्य कर्तुः प्रतिक्षेपः । तस्मात् ‘नामरूपाभ्यां व्याक्रियत’ इत्यत्र स्वेनेत्येव कर्तृ­वा­चि­प­द­म­ध्या­हा­र्यम् ; ‘तदात्मानं स्वयमकुरुत’ इत्य­ने­नै­का­र्थ्यात् । तस्मात् सिद्धं सर्वेषां कार­ण­वा­क्या­ना­म­वि­रो­धेन ब्रह्मपरत्वम् ॥१-४-१५॥

इति कारणत्वाधिकरणम् ।४।

जगद्वाचित्वात् ॥१६॥

१६

कौषी­त­कि­ब्रा­ह्मणे अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य ‘‘ब्रह्म ते ब्रवाणि’(कौ. ब्रा.४-१) इत्युक्तवन्तं बालाकिं गार्ग्यं ‘‘सहस्रन्दद्म एतस्यां वाचि जनको जनक इति वै जना धावन्ति’(कौ. ब्रा.४-१) इति प्रशस्य बालाकिना ‘‘य एवैष आदित्ये पुरु­ष­स्त­मे­वा­ह­मु­पासे’(कौ. ब्रा.४-३) इत्या­दि­भि­र्वा­क्यै­र्ब्र­ह्म­त्वे­नो­प­दि­ष्टा­ना­दि­त्य­च­न्द्र­वि­द्यु­त्स्त­न­यि­त्न्वा­का­श­वा­य्व­ग्न्या­दि­ग­तान् पुरु­षा­न­ब्र­ह्म­त्वेन तत्त­त्पु­रु­षो­क्त्य­न­न्त­र­मेव प्रत्याख्याय ततस्तूष्णींभूते तस्मि­न्कि­मे­ता­व­देव तत्र परिज्ञानमिति पृष्ट्वा तेनै­ता­व­दे­वे­त्य­भि­हिते ‘‘मृषा वै किल मा संवदिष्ठाः ब्रह्म ते ब्रवाणि’(कौ. ब्रा.४-१९) इत्युक्त्या तमपोद्य ‘‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’(कौ. ब्रा.४-१९) इति स्वयमुपदिदेश इति श्रूयते । अत्र यो वेदितव्य उपदिष्टः उपसंहारे च ‘सर्वा­न्पा­प्म­नोऽ­प­हत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वारा­ज्य­मा­धि­पत्यं पर्येति य एवं वेद’ इति यद्वेदनस्य फलं वर्णितं स किं जीवः , उत मुख्यप्राणरूपो हिरण्यगर्भः , अथवा परं ब्रह्मेति ‘यस्य वै तत्कर्म’ इत्यत्र कर्म­श­ब्द­रू­ढि­यो­गाभ्यां संशये जीव इति तावत्प्राप्तम् । ब्रह्मणि पारि­स्प­न्द­रू­पस्य, यज्ञादिरूपस्य वा कर्मणः सम्बन्धाभावात् जीवे यज्ञा­दि­स­म्ब­न्ध­स­त्त्वात् । न च ब्रह्मण्यपि तदाराधनरूपेण यज्ञादिना सम्बन्धोऽस्तीति वाच्यम् ; पुण्या­पु­ण्य­सा­धा­र­ण­क­र्म­मा­त्रस्य तदा­रा­ध­न­त्वा­भा­वात् । न च क्रियत इति व्युत्पत्त्या यस्यै­त­त्कृत्स्नं जगत्कार्यमिति यस्य वै तत्क­र्मे­त्य­स्यार्थो ग्राह्यः । तथा सति ‘एतेषां पुरुषाणां कर्ता’ इति पृथ­ङ्नि­र्दे­श­वै­य­र्थ्यात् ।

जीवपक्षे एते­षा­मा­दि­त्य­म­ण्ड­ला­द्य­धि­का­रिणां भोगोपकरणभूतानां पुरुषाणां यः कर्ता एतत्कर्तृभावे द्वारभूतं पुण्या­पु­ण्य­ल­क्षणं च कर्म यस्यास्ति स वेदितव्य इत्युपपत्तेः योगाद्रूढेः प्रबलत्वाच्च । कर्मशब्दस्य परिस्पन्द एव रूढिः , तत्सा­ध्य­त्वात्तु पुण्यापुण्यरूपे कर्मणि लक्षणा इति चेत् , न । परि­स्प­न्दा­सा­ध्ये­ष्वपि दर्श­न­स्प­र्श­न­श्र­व­णा­दि­सा­ध्य­पु­ण्य­पा­पेषु कर्म­श­ब्द­प्र­यो­ग­द­र्श­नात् । तत्रापि यथा­क­थ­ञ्चि­त्प­र­म्प­रया परि­स्प­न्द­सा­ध्य­त्वा­श्र­य­णेन लक्ष­णे­त्य­ङ्गी­का­रेऽपि योगा­द्रू­ढि­पू­र्व­ल­क्ष­णायाः प्रबलत्वात् , जीवस्यापि तत्प्रे­र्य­दे­हा­श्र­य­प­रि­स्प­न्दे­ना­सा­धा­र­ण­स­म्ब­न्ध­स­त्त्वाच्च । अग्रेऽपि जीव­लि­ङ्ग­द­र्श­नाच्च । तत्र ह्यजातशतृणा वेदि­त­व्य­त­यो­प­न्य­स्तस्य पुरु­षा­णा­ङ्क­र्तु­र्वे­द­ना­यो­पेतं बालाकीं प्रति बुबो­ध­यि­षु­र­जा­त­शत्रुः सुप्तं पुरुषं प्राणा­दि­सं­बो­ध­नै­रा­मन्त्र्य आम­न्त्र­ण­श­ब्दा­श्र­व­णा­त्प्रा­णा­दी­ना­म­भो­क्तृत्वं प्रतिबोध्य यष्टि­घा­ते­नो­त्था­प­ना­त्प्रा­णा­दि­व्य­ति­रिक्तं जीवं भोक्तारं प्रत्यबोधयदिति श्रूयते ‘‘तं ह पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतुस्तं हाजा­त­श­त्रु­रा­म­न्त्र­या­ञ्चके बृह­न्पा­ण्ड­र­वा­स­स्सो­म­रा­ज­न्निति सह तूष्णीमेव शिश्ये । तत उ हैनं यष्ट्या व्याचिक्षेप । स तत एव समुत्तस्थौ’(कौ. ब्रा.४-१९) इति । नन्विदं जीवसङ्कीर्तनं जीवस्य वेदि­त­व्य­पु­रु­ष­रू­प­त्व­प्र­ति­प­त्त्यर्थं न भवति , किन्तु जीवस्य सुषु­प्ति­प्र­बो­ध­यो­र­धि­क­र­णा­पा­दा­न­तया ब्रह्म­प्र­ति­प­त्त्य­र्थम् । यष्टिघातेन जीवे प्रबोधिते ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदगात्’ इत्यजातशत्रोः प्रश्नस्य बालाकिना तस्मि­न्न­वि­ज्ञाते पृष्टेऽर्थे ‘यदा सुप्तस्स्वप्नं कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति’ इति अजातशत्रुणैव कृतस्य स्वपृ­ष्टा­र्थ­वि­व­र­णस्य च दर्शनादिति चेत् ; मैवम् । न हि सुषु­प्ति­स्था­न­तया ब्रह्म तत्र प्रतिपाद्यते , किन्तु नाड्य एव । ‘‘हिता नाम हृदयस्य नाड्यः’(कौ. ब्रा.४-१९) इति नाडीः प्रक्रम्य ‘तासु तदा भवति’ इत्युक्त्वा हि कदे­त्या­कां­क्षायां ‘यदा सुप्तः स्वप्नं कञ्चन पश्यति’ इत्युक्तम् । ‘अथास्मिन्प्राण एवैकधा भवति’ इत्यनेन तु ब्रह्मणि जीव एकधा भवतीति नोच्यते , प्राणशब्दोऽपि न ब्रह्मपरः , किन्तु नाडीस्थे जीवे कारणग्राम एकी­भ­व­ती­त्यु­च्यते । ‘तदैनं वाक्स­र्वै­र्ना­म­भि­स्स­हा­प्येति, चक्षुस्सर्वै रूपै­स्स­हा­प्ये­ति,श्रोत्रं सर्वै­श्श­ब्दै­स्स­ह­प्येति मन­स्स­र्वै­र्ध्या­नै­स्स­हा­प्येति’ इत्यग्रे तद्वि­व­र­ण­द­र्श­नात् । प्राणशब्दोऽपि प्राण­भृ­त्त्व­नि­ब­न्धनो जीवपरः ; ‘स यदा प्रतिबुध्यते’ इति प्राण­श­ब्द­नि­र्दि­ष्टस्य प्रबो­धो­प­न्या­सात् ; ब्रह्मणः सुप्ति­प्र­बो­ध­यो­र­स­म्भ­वात् ।

ननु नाड्य­स्सु­प्ति­स्था­न­तया नोच्यन्ते , किन्तु स्वप्नस्थानतया ‘क्वैष तद्बालाके पुरुषोऽशयिष्ट’ इति स्वप्नस्थानस्य ‘क्व वा एतदभूत्’ इति सुषु­प्ति­स्था­नस्य च प्राक्पृ­ष्ट­त्वात् । अन्यथा प्रथ­म­प्र­श्न­स्यैव सुषु­प्ति­स्था­ना­वि­ष­यत्वे यत्र प्रसु­प्त­स्त­त्रैव याव­त्प्र­बो­ध­म­भू­दि­त्य­स्या­र्थ­सि­द्ध­तया द्विती­य­प्र­श्न­वै­फ­ल्य­प्र­स­ङ्गात् साफल्यसम्भवे च तद­ङ्गी­का­रा­यो­गात् तत्र ‘तासु तदा भवति’ इति स्वप्न­स्था­न­प्र­श्नस्य प्रतिवचनं ‘यदा सुप्तः’ इत्यादि ‘एकधा भवति’ इत्यन्तं सुप्ति­स्था­न­प्र­श्नस्य । युक्तं ह्यन­न्त­र­श्रु­त­प्र­ति­षे­ध­प्र­स­क्त­स्व­प्न­वि­ष­यत्वं पूर्ववाक्यस्य । युक्तं च ‘न पश्यति’ ‘एकधा भवति’ इत्य­न­यो­स्स­मा­न­क­र्तृ­क­त्वम् । अन्यथा ‘एकधा भवति’ इत्यत्र करणग्राम इत्यध्याहारः कार्यः , अथशब्दश्च तदार्थं नेतव्यः । ‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ इत्यस्य ‘तासु तदा भवति’ इत्यनेनान्वये हि सुषु­प्ति­प्रा­प्त्य­न­न्तरं कारणग्रामप्यय इत्यर्थः स्यात् । न च सोऽर्थो युक्तः ; सुषुप्तेः सर्वे­न्द्रि­यो­प­र­ति­ल­क्ष­त्वे­ना­नयोः पौर्वा­प­र्या­यो­गात् । तस्मा­त्प्रा­ण­शब्दो जीवस्य सुषुप्तिस्थानं वदन् जीवातिरिक्तं वेदितव्यं पुरुषं परामृशतीत्येव वक्तव्यम् । ‘स यदा प्रबुध्यते’ इति तच्चब्दस्तु य एकधा भवति तं सुषुप्तं जीवं परामृशति, न तु यत्रैकधा भवति तं वेदितव्यं पुरुषमतो न किञ्चिदवद्यमिति चेत् –

उच्यते – ‘क्वैष एतद्बालाके पुरुषोऽशयिश्ट’ इति प्रश्न उत्थापितस्य सुषु­प्ति­स्था­न­वि­षयः । ‘क्व वा एतत्’ इति प्रश्न­स्त­दु­त्था­प­नात् पूर्व­मु­प­र­त­व्या­पा­रस्य तदनन्तरं व्याप्रि­य­मा­ण­त­याऽ­नु­भू­य­मा­नस्य तदीयकरणग्रामस्य सुषु­प्ति­का­लि­का­धि­क­र­ण­वि­षयः । ‘कुत एतदागात्’ इति प्रश्नस्तस्यैव कर­ण­ग्रा­म­स्यो­द्ग­म­ना­पा­दा­न­वि­षयः । एवञ्च ‘तासु तदा भवति यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ प्रथमप्रश्नस्य प्रतिवचनम् । ‘अथास्मिन् प्राण एव एकधा भवति’ इति द्विती­य­प्र­श्नस्य । ‘तदैनं वाक्’ इत्यादि तद्विवरणम् । ‘स यदा प्रतिबुध्यते यथाऽ­ग्ने­र्वि­स्फु­लिङ्गा विप्र­ति­ष्ठे­र­न्ने­व­मे­वै­त­स्मा­दा­त्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ इति तृतीयप्रश्नस्य प्रतिवचनमिति सङ्गच्छते । अन्यथा प्रश्न­त्र­य­स्यापि जीव­सु­षु­प्त्य­धि­क­र­ण­त­द्भ­व­ना­धि­क­र­ण­त­दु­द्ग­म­ना­पा­दा­न­वि­ष­यत्वे तान्येव प्रतिवचनेषु वक्तव्यानि स्युः । न च प्रतिवचनेषु कुत­श्चि­द­पा­दा­ना­ज्जी­व­स्यो­द्ग­म­न­प्र­ति­पा­दकं किञ्चिदस्ति, किन्त्वे­त­स्मा­दा­त्मनः प्राणा इति जीवा­दि­न्द्रि­यो­द्ग­म­न­वि­ष­य­मेव प्रतिवचनं दृश्यते । न च - ‘अथास्मिन् प्राण एवैकधा भवति’ इत्यस्य जीवः प्राणशब्दिते ब्रह्मण्येकधा भव­ती­त्य­र्था­ङ्गी­कारे ‘एतस्मादात्मनः’ इत्यस्य प्रकृ­त­ब्र­ह्म­प­रा­म­र्शि­तया प्राणशब्दस्य जीवपरतया चैतदेव जीवो­द्ग­म­ना­पा­द­न­प्र­श्न­प्र­ति­व­चनं स्यादिति – वाच्यम् । ‘एतस्मात्’ इत्यनेन ‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ इति प्राधान्येन प्रकृतस्य सुषुप्तस्य परामर्शसम्भवे सप्त­मी­नि­र्दि­ष्ट­स्यो­प­स­र्ज­नस्य परामर्शायोगात् । ‘कुत एतदागात्’ इति प्रश्नस्य यष्टि­घा­तो­त्था­पि­त­जी­व­मा­त्रो­द्ग­म­ना­पा­दा­न­वि­ष­य­त्वा­ङ्गी­कारे आत्मनः प्राणशब्दितानां बहू­ना­मु­द्ग­म­न­प्र­ति­पा­द­नस्य तत्प्र­ति­व­च­न­त्वा­यो­गाच्च , ‘स यदा प्रबुध्यते’ इति तत्प्रबोधस्य प्राणो­द्ग­म­न­का­लो­प­ल­क्ष­ण­त­यो­पा­त्त­त्वेन प्राणानां ततोऽ­न्य­त्व­प्र­ती­तेश्च, ‘‘तद्यथा क्षुरः क्षुर­धा­नेऽ­व­हि­त­स्स्यात् विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आत्मेदं शरी­र­मा­त्मा­न­म­नु­प्र­विष्टः आ लोमभ्य आनखेभ्यः’(कौ. ब्रा.४-२०) इति समनन्तरवाक्ये ‘शरीरमात्मानम्’ इति निर्देशेन शरी­रा­त्मा­भि­मा­नि­त्वेन ज्ञापितस्य जीवस्य प्रकृ­त­प्रा­णा­द्यु­द्ग­म­ना­पा­दा­न­प­रा­म­र्शिना ‘एष प्राज्ञ आत्मा’ इत्येतच्छब्देन परामर्शाच्च ‘‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रे­ष्ठिनं भुञ्जन्ति एवमेवैष प्राज्ञ आत्मा एतै­रा­त्म­भि­र्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’(कौ. ब्रा. ४-२०) इति तद­न­न्त­र­वा­क्येऽ­प्या­लो­क­दा­ना­दिना भोगोपकारकैः प्राक् ‘एतेषां पुरुषाणाम्’ इति प्रकृतैः आदि­त्या­दि­पु­रु­षै­र्हे­तु­भि­र्वि­ष­य­भो­क्तृ­त्वेन लिङ्गेन ज्ञापितस्य जीवस्य पूर्ववत् प्रकृ­त­प­रा­म­र्शि­नै­त­च्छ­ब्देन निर्देशाच्च ।

एवं कर्म­स­म्ब­न्ध­य­ष्टि­घा­तो­त्था­न­श­री­रा­त्मा­भि­मा­न­भो­क्तृ­त्व­लि­ङ्गै­र्जीव एव वेदितव्यः पुरुषोऽस्मिन् प्रकरणे प्रतिपाद्यत इति निश्चये सति ‘अथास्मिन् प्राण एवैकधा भवति’ इति वाक्ये कर्त्र­ध्या­हा­रोऽ­थ­श­ब्दा­स्वा­र­स्यञ्च न दोषः । किञ्च न कर्त्तव्योऽत्र कर्त्रध्याहरः । ‘क्व वा एतदभूत्’ इति प्रश्नवाक्ये एतच्छब्देन निर्दिष्टस्य करणमण्डलस्य कर्तृ­स्त­त्प्र­ति­व­च­नेऽपि क्व चैत्र इति प्रश्नस्य कांच्यामिति प्रतिवचने चैत्रस्येव स्वयमेवान्वयात् । नाप्य­थ­श­ब्द­स्त­दाऽ­र्थ­म­स्मा­भि­र्ने­तव्यः ‘तदैनं वाक्’ इत्या­दि­वि­व­र­ण­वा­क्य­स्थ­त­दा­श­ब्दा­नु­सा­रेण स्वयमेव तदाऽर्थे पर्यवसानात् । बृहदारण्यके बाला­क्य­जा­त­श­त्रु­सं­वा­द­रूपे समानप्रकरण एव ‘तानि यदा गृह्णात्यथ हैतत् पुरुषस्स्वपिति नाम’(बृ.उ.२-१-१७) इति स्वाप­क­र­ण­ग्रा­मो­प­र­म­यो­र्वि­प­री­त­पौ­र्वा­प­र्य­श्र­व­णेन पर­स्प­र­वि­रो­ध­प­रि­हा­रा­यो­भ­य­त्रा­प्य­थ­श­ब्द­स्त­दा­र्थ­पर इत्यवश्यं वक्तव्यत्वाच्च । ‘यदा सुप्त’ इत्यादेः ‘एकधा भवति’ इत्यन्तस्य सुषु­प्त­जी­वा­धा­र­प्र­श्न­प्र­ति­व­च­न­रू­प­त्वेऽपि यदा­श­ब्द­प्र­ति­नि­र्दे­श­त­याऽ­थ­श­ब्दस्य तदा­र्थ­प­र्य­व­सा­यि­त्वा­व­श्य­म्भा­वाच्च । तस्या­न­न्त­र्या­र्थ­त्वेऽपि सुषु­प्ते­रे­क­धा­भा­वस्य च पौर्वा­प­र्या­भा­वेन ‘तासु तदा भवति’ इत्येतदनन्तरं तस्य योजनीयतया व्यव­हि­त­यो­ज­ना­क्ले­श­स­त्त्वाच्च ।

नन्वेवमपि ‘तदैनं वाक्’ इत्यादिना प्रतिपाद्यमानः सुषुप्तौ विषयैः सह करणग्रामस्य लयो न जीवे सम्भवति , प्रबोधे तैः सह तदुत्पत्तिश्च न जीवात् सम्भवतीति चेत् ; न । सुषुप्तौ वागा­दी­ना­मु­प­र­त­व्या­पा­राणां जीवेऽवस्थानस्य प्रबोधे जीवान्निर्गत्य स्वस्वा­य­त­न­प्रा­प्तेश्च सम्भवात् । तावत्येवार्थे ‘तदैनं वाक्’ इत्या­दे­स्ता­त्प­र्यात् । प्रत्य­क्षा­दि­वि­रो­धेन विषयैः सहेन्द्रियाणां सुषुप्तौ लयस्य प्रबोधे पुनरुत्पत्तेश्च तद­र्थ­त्वा­ङ्गी­का­रा­यो­गात् । प्रत्य­क्ष­वि­रु­द्धोऽ­प्यर्थो यथाश्रुति ग्राह्य इति चेत् , तर्हि प्रकरणस्य जीव­वि­ष­य­त्व­स्वा­र­स्या­नु­रो­धेन सुषुप्तौ जीवे सवि­ष­या­णा­मि­न्द्रि­याणां लयः प्रबोधे जीवात् तेषां पुन­रु­त्प­त्ति­रि­त्ये­वा­ङ्गी­क्रि­य­ताम् । प्रत्य­क्ष­वि­रो­ध­स्या­कि­ञ्चि­त्क­र­त्वे­ना­स­म्भ­वा­भा­वात् ।

यदि च ‘यदा सुषुप्त’ इत्याद्येकधा भवतीत्यन्तं सुषु­प्त­जी­वा­धा­र­प्र­श्न­प्र­ति­व­चनं ‘तदैनं वाक्’ इत्यादि सुषुप्तजीवाधारे विष­ये­न्द्रि­याणां लयस्य ततस्तेषां पुनरुत्पत्तेश्च प्रति­पा­द­क­मि­त्येव वक्तव्यम् । कौषीतकिब्राह्मण एव पूर्व­स्या­मि­न्द्र­प्र­त­र्द­ना­ख्या­यि­कायां प्राणशब्देन ब्रह्मोपक्रम्य ‘‘तस्यैषैव दृष्टि­रे­त­द्वि­ज्ञा­नम्’(कौ. ब्रा.३-३) इति तज्ज्ञ­प्ति­प्र­कारं प्रतिज्ञाय ‘‘यत्रै­त­त्पु­रुषः सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति’(कौ. ब्रा.३-३) इति सुषु­प्त­जी­वा­धा­र­त्वेन ‘तदैनं वाक् सर्वै­र्ना­म­भि­स्स­हा­प्येति’ इत्यादिना वागा­दि­ल­यो­द्ग­मा­पा­दा­न­त्वेन च प्रति­पा­द­ना­द­स्यापि तदैकार्थ्यस्य वक्तव्यत्वादिति निर्बन्धः , तथाऽपि सुषुप्तजीवाधारो वेदितव्यः पुरुषो भवन् सम­ष्टि­प्रा­णात्मा हिरण्यगर्भ एव स्यात् , न तु ततोऽतिरिक्तं परं ब्रह्म । प्राणशब्दात् प्राणात्मना परिस्पन्दरूपस्य तद­भि­मा­नि­जी­वा­त्मना पुण्या­पु­ण्य­रू­पस्य च कर्मणस्तत्र सम्भवात् । बृह­दा­र­ण्य­क­श्रुतौ ‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ.उ.१-४-१) इत्युपक्रम्य देव­म­नु­ष्या­दि­स­क­ल­मि­थु­न­स्र­ष्टृ­त्वे­नो­क्तस्य तस्या­दि­त्या­दि­पु­रु­ष­क­र्तृ­त्व­स्यापि सम्भवात् । तत्रैव तदनन्तरं यथा क्षुरो नापि­तो­प­क­र­ण­भू­त­स्त­त्कोशे भवत्यवहितः, यथा वा पचनादिना विश्वं बिभ्र­द­ग्नि­र­र­ण्यादौ तन्नीड इति दृष्टा­न्तो­प­न्या­स­स­हि­तस्य नख­प­र्य­न्त­कृ­त्स्न­श­री­रा­नु­प्र­वे­शस्य हिरण्यगर्भे प्रति­पा­दि­त­स्या­त्रापि वाक्यशेषे दर्शनाच्च ।

स्यादेतत् – वेदितव्यः पुरुषो जीवः प्राणात्मा हिरण्यगर्भो वेति पक्ष­द्व­य­म­प्य­यु­क्तम् ; वेदि­त­व्य­पु­रु­ष­का­र्य­त्वेन श्रुतानां बाला­क्यु­प­दि­ष्ट­पु­रु­षाणां मध्ये ‘य एव एष शारीरः पुरु­ष­स्त­मे­वा­ह­मु­पासे’ इति सामान्यतो जीवमात्रस्यापि परिगणितत्वेन तत्कारणस्य वेदि­त­व्य­पु­रु­षस्य तद­न्य­त्व­प्र­तीतेः । प्राण­ना­म­भि­रा­म­न्त्र­णेऽपि सुषु­प्त­स्यो­त्था­ना­भा­वेन प्राणा­न्य­त्व­प्र­ती­ते­श्चेति चेत् ; उच्यते – ‘य एवैष शारीरः पुरुषः’ इति पर्यायः स्थूल­श­री­रा­भि­मा­नि­जा­ग्र­द­व­स्थ­पु­रु­ष­वि­षयः ‘य एवैष प्राज्ञ आत्मा येनै­त­त्सु­षु­प्त­स्स्व­प्न्यया चरति तमेवाहमुपासे’ इति तदन्तरपर्यायस्य स्वप्ना­व­स्थ­जी­व­वि­ष­य­त्व­द­र्श­नात् । एवं च शोक­भी­त्या­दि­क­लु­षितौ जाग्र­त्स्व­प्न­दृशौ प्रत्याख्याय सुषुप्त्यवस्थः पुरुषो वेदितव्य उपदिष्टो भविष्यति । अत एव उप­दि­ष्ट­वे­दि­त­व्य­पु­रु­ष­प्र­दि­द­र्श­यि­षया सुषु­प्त­पु­रु­ष­ग­म­न­मग्रे वर्ण्यते । ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यति’ इत्यनेन दीर्घस्वप्नं जाग्र­त्प्र­प­ञ्च­म­वा­न्त­र­स्वप्नं स्वप्नप्रपञ्चं वा न कञ्चन पश्यतीति शोक­भी­त्या­दि­का­र­ण­प्र­प­ञ्च­द­र्श­ना­भा­वेन सुषुप्तस्य वेदि­त­व्य­त्व­मु­प­पा­द्यते ।

यदपि प्रश्न­प्र­ति­व­च­नाभ्यां सुषुप्तस्य नाडी­स्थ­त्व­व­र्ण­नम् , तदपि पाप्मा­स्पृ­ष्ट­तया तन्मू­ल­क­शो­क­भी­त्या­दि­रा­हि­त्य­प्र­द­र्श­नेन वेदि­त­व्य­त्वो­प­पा­द­ना­र्थम् । ‘तद्य­त्रै­त­त्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कञ्चन पाप्मा स्पृशति’(छा.उ.८-६-३) इति छान्दोग्ये हि सौषु­प्ति­क­ना­डी­रु­प­ग­तस्य पाप्मास्पर्शः श्रूयते । पुनः प्रश्न­प्र­ति­व­च­नाभ्यां करणग्रामस्य जीवे वृत्ति­वि­ल­य­प्र­ति­पा­द­न­मपि सक­ल­सां­सा­रि­का­न­र्थ­स­म्पा­द­कस्य करणग्रामस्य विलयेन सुषुप्तः शुद्ध इति तस्य वेदि­त­व्य­त्वो­प­पा­द­ना­र्थ­मेव । पुनरन्याभ्यां प्रश्न­प्र­ति­व­च­नाभ्यां करणग्रामस्य पुन­रु­द्ग­म­न­प्र­ति­पा­दनं तु जाग्र­त­स्स्व­प्न­दृ­श­श्चे­न्द्रि­य­व्या­पारैः कलु­षि­त­त्वे­ना­वे­दि­त­व्य­त्व­स्थि­री­क­र­णा­र्थ­मिति सर्वं सङ्गच्छते ।

यत्तु प्राण­ना­म­भि­रा­म­न्त्र­णेऽ­प्य­नु­त्था­नेन प्राणा­न्य­त्व­प्र­द­र्शनं, तेन सुप्त­पु­रु­ष­स­म्ब­न्धि­व्य­ष्टि­प्रा­णा­न्य­त्व­मात्रं सिद्ध्यति, न तु सम­ष्टि­प्रा­णा­भि­मा­नि­दे­व­ता­रू­प­हि­र­ण्य­ग­र्भा­न्य­त्व­मपि । ननु प्रसिद्धानि प्राणादिनामानि विहा­या­प्र­सिद्धैः बृह­न्नि­त्या­दि­ना­म­भि­रा­म­न्त्रणं देव­ताऽ­न्य­त्व­सि­द्ध्यर्थं स्यादिति चेत् , तर्हि तेन चन्द्र­दे­व­ता­न्य­त्व­मेव सिद्ध्येत् । अस्मिन्नेव प्रकरणे ‘य एवैष चन्द्रमसि पुरु­ष­स्त­मे­वा­ह­मु­पासे’ इति चन्द्रपर्याये ‘‘मामैतस्मिन् संवादयिष्ठा बृह­न्पा­ण्ड­र­वा­सा­स्सोमो राजा अन्नस्यात्मेति वा अहमुपासे’(कौ. ब्रा.४-१९) इति तेषां नाम्नां चन्द्र­वि­ष­य­त्व­श्र­व­णात् पाण्ड­रै­रं­शु­भि­श्च्छा­दि­त­त्वेन तत्र पाण्ड­र­वा­स­स्त्वो­प­चा­रस्य सम्भवात् ।

वस्तुतस्तु सुषुप्तपुरुषं गत्वा कैश्चि­न्ना­म­भि­र्द्वि­रा­म­न्त्र­णेऽ­प्य­नु­त्था­न­प्र­द­र्शनं सुषुप्तजीवस्य तन्ना­म­वि­ष­या­न्य­त्व­ज्ञा­प­ने­नैव सप्रयोजनं वाच्यम् । तत्र च चन्द्र­ता­दा­त्म्य­स्या­प्र­स­क्त­त्वा­त्त­द­न्यत्वं न ज्ञापनीयम् । सुषु­प्ति­द­शा­या­मु­प­र­त­व्या­पा­रेभ्यः शरी­रे­न्द्रि­ये­भ्योऽ­न्यत्वं सुज्ञानमिति तस्यामपि दशा­या­म­नु­प­र­त­व्या­पा­रात् प्राणा­द­न्य­त्व­मेव ज्ञापनीयम् । तदा हि तत्प्र­यो­ज­न­व­त्तरं भवति । सम्भवति च बृहदादिशब्दानां श्रुत्य­न्त­र­प्र­सि­द्ध्य­नु­रो­धेन प्राणे वृत्तिः । प्राणः खलु बृहन्महान् ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’ इति प्राणविद्यायां श्रैष्ठ्य­श्र­व­णात् ‘स एषोऽसपत्न’ इति सप्ता­न्न­ब्रा­ह्मणे तस्या­स­प­त्न­त्व­श्र­व­णाच्च । पाण्डरवासाश्च प्राणः । पाण्डरवर्णाः खल्वापोऽस्यः वासः । प्राणविद्यायां ‘किं मे वासः’(बृ.उ.६-१-१४) इति प्राणप्रश्ने ‘आपो वासः’ इत्यु­त्त­र­श्र­व­णात् , सप्ता­न्न­ब्रा­ह्मणे ‘अथैतस्य प्राणस्य आपश्शरीरं ज्योतीरूपमसौ चन्द्रः’(बृ.उ.१-५-१३) इत्य­प्श­री­र­त्वोक्त्या तद्वा­स­स्त्वो­प­चा­र­स­म्भ­वाच्च । अत एव चन्द्र­रू­प­त्वा­दे­वायं सोमराजश्च । यदि च ‘बृहन् पाण्डरवासाः’ इत्या­दि­च­न्द्र­प­र्या­य­वा­क्या­नु­सा­रे­णा­त्रापि चन्द्र­ना­मा­न्ये­तानि तदापि सप्ता­न्न­ब्रा­ह्म­णो­क्त­रीत्या चन्द्ररूपे प्राण एवैतेषां पर्यवसानं वाच्यम् ; सप्र­यो­ज­न­त्वा­येति सर्वधा हिर­ण्य­ग­र्भा­म­न्त्र­ण­स्यात्र न प्रसक्तिः । किं चाम­न्त्र­णेऽ­प्य­नु­त्था­नेन हिर­ण्य­ग­र्भा­न्यत्वं सिद्ध्यदपि यष्टि­घा­तो­त्था­प्यस्य सुषुप्तजीवस्यैव सिद्ध्येत् , न तु सुषुप्तौ तदाधारतया प्रतिपाद्यस्य प्राणस्य । किन्तु तन्ना­म­भि­रा­म­न्त्र­णेऽपि तदनुत्थानेन चेतनस्य जीवस्य तदन्यत्वसिद्धौ तदुपपादकतया तस्याचेतनत्वमपि सिद्ध्ये­दि­त्य­ल­म­ति­प्र­प­ञ्चेन ।

स्यादेतत् – जीवो, हिरण्यगर्भो वा वेदितव्यपुरुष इति पूर्वपक्षे यद्यपि वेदि­त­व्य­पु­रु­षस्य जीवान्यत्वं हिर­ण्य­ग­र्भा­न्यत्वं च न प्रतिपन्नमिति बाधकं नास्ति ; तथाऽपि ब्रह्मोपक्रमः सक­ल­पा­प­प्र­दा­ह­पू­र्व­का­न­न्या­धी­न­त्व­रू­प­स्वा­रा­ज्या­त्म­क­मो­क्ष­फ­लो­प­सं­हा­र­श्चेति बाधकद्वयं जागर्तीति चेत् ; उच्यते । येन बालाकिना ‘ब्रह्म ते ब्रवाणि’ इति प्रतिज्ञातं न तेन ब्रह्मोक्तम् , अन्य­द­न्य­दे­वो­क्तम् । येनाजातशत्रुणा वेदितव्यः पुरुष उपदिष्टः न तेन ब्रह्माभिधानं प्रतिज्ञातम् । अतो न ब्रह्म­प­र­म­जा­त­श­त्रु­वा­क्यम् । ननु ब्रह्मो­प­क्र­मा­द्बा­ला­कि­वा­क्या­देव तदपि वाक्यं ब्रह्मपरं स्यादु­प­को­स­ल­वि­द्या­या­म­ग्नि­वा­क्या­दि­वा­चा­र्य­वा­क्यम् । न । वैषम्यात् । तत्र हि वक्तृ­भे­देऽ­प्ये­क­वा­क्य­ता­पा­द­क­म­ग्नि­वा­क्य­मस्ति ‘आचार्यस्तु ते गतिं वक्ता’ इति ; न त्वत्र तथाभूतं वाक्यमस्ति । तर्हि किं बालाकिवचसि ब्रह्मापक्रमेः सर्वथा निरर्थकः ? निरर्थक एव ; भ्रान्त­वा­क्य­त्वात् । किमर्थं श्रुतौ भ्रान्त­वा­क्यो­प­न्यासः ? असद्वादवत् पूर्व­प­क्ष­नि­रा­क­र­णा­र्थम् । तद्वादस्य निराकरणं न दृश्यत इति चेत् , दृश्यत एव वाक्य­च्छा­या­वि­म­र्श­च­तुरैः । ब्रह्म ते ब्रवाणि इति प्रतिज्ञातवता बालाकिना उपदिष्टान् पुरुषान् तत्त­त्स्व­रू­पो­प­न्या­सेन निराकृत्य ततः परं ब्रह्मत्वेन वक्त­व्य­पु­रु­षा­भा­वात् तूष्णींभूते तस्मिन् पुण्य­पा­प­क­र्म­स­म्ब­न्धि­न­मेव पुरुषं मोक्षाय वेदि­त­व्य­मु­प­न्य­स्य­न्न­जा­त­श­त्रु­स्त­द­ति­रे­केण मुमु­क्षु­भि­र्ज्ञा­तव्यं ब्रह्म नाम किञ्चि­न्ना­स्तीति मन्यत इत्येव हि स्पष्टतरं प्रतीयते । यथा ‘रसवादिनं ब्रवाणि’ इति प्रति­ज्ञा­त­व­तो­दा­हृ­तान् पुरुषान् विप्र­ल­म्भ­क­त्वा­दि­त­त्त­त्स्व­रू­पो­प­न्या­सेन प्रत्याख्याय ततः पर­मु­दा­ह­र­णी­य­पु­रु­षा­भा­वा­त्तू­ष्णीं­भूते तस्मिन् राजानमेव धना­र्थि­भि­रु­प­स­र्प­णी­य­मु­प­न्य­स्य­न्नु­त्त­र­वादी रसवादी नाम कोऽपि नास्तीत्येव मन्यत इति प्रतीयते ।

एतेन – इदं निरस्तम् – गार्ग्यस्य भ्रान्तत्वेऽपि ब्रह्मोपक्रमो न भ्रान्तः ; ‘ब्रह्म ते ब्रवाणि’ इति प्रतिज्ञामात्रे प्राज्ञा गोसहस्रस्य दत्तत्वात् । अतो वक्तुं प्रतिज्ञातं ब्रह्म यथा­व­द्व­क्तु­म­जा­नन्तं गार्ग्यं प्रति राज्ञा यथा­व­त्त­दु­प­दि­ष्ट­मि­त्येव गार्ग्य­रा­ज­वा­क्य­यो­रे­क­वा­क्य­त्व­मु­प­पा­द­यितुं युक्तम् । अन्यथा ‘ब्रह्म ब्रवाणि’ इति प्रति­ज्ञा­या­ब्र­ह्माणि ब्रह्मत्वेन वदन्तं गार्ग्यं मृषा­वा­दी­त्य­पोह्य स्वयं राजा जीवं प्राणं वा वदति चेत् स्वय­म­प्य­स­म्ब­न्ध­प्र­लापी स्यात् । जीवं प्राणं वा ब्रह्मत्वेन वदति चेत् तद्वदेव मृषावादी स्यात् । ततश्च यथा केन­चि­न्म­णि­त­त्त्व­ज्ञा­ना­भि­मा­निना काचं प्रदर्श्य ‘मणिरेष’ इत्युक्ते ‘काचोऽयं न मणिः’ इति तं प्रत्याख्याय ततः आत्मनो विशेषं जिज्ञा­प­यि­ष­ताऽ­न्येन वस्तुतो मणिरेव प्रदर्शनीयः ; एवं राज्ञाऽपि ब्रह्मो­प­दे­ष्ट­व्यम् । अतो गार्ग्य­व­च­न­ग­त­ब्र­ह्मो­प­क्र­म­सा­म­र्थ्या­देव राजवाक्यस्य ब्रह्म­प­र­त्व­म­व­सी­यत – इति । न हि राज्ञा गोसहस्रं दत्तम् , किन्तु ‘सहस्रं दद्मः’ इत्युक्तम् । तत्तु असम्भावितमेव ब्रह्मनाम किञ्चि­द्व­क्तु­म­य­मा­र­भत इति मन्यमानस्य राज्ञः परि­हा­स­वा­क्य­मि­त्यपि सङ्गच्छते ; ‘जनको जनक इति वै जना धावन्ति’ इति परि­हा­स­वा­क्य­स­म­भि­व्या­हा­रात् । तथाऽपि ‘दद्मः’ इति प्रतिश्रुतं ‘दत्तमेव स्यात्’ इति चेत् ; न । ‘अदत्तन्तु भय­क्रो­ध­शो­क­मो­ह­रु­जाऽ­न्वितैः । तथो­त्को­च­प­री­हा­स­व्य­त्या­स­फ­ल­यो­गतः’ इति परिहासेन दत्तस्यापि प्रत्या­ह­र­णा­र्ह­त्वे­ना­द­त्तेषु परिगणनात् । ब्रह्मा­न्य­स्या­भि­धा­नेऽपि न राज्ञोऽ­स­म्ब­न्ध­प्र­ला­पि­त्व­मा­प­तति । मोक्षार्थं वेदितव्यं ब्रह्म नाम किञ्चिन्नास्ति , किन्तु मुमु­क्षू­णा­मु­प­दिष्टः पुरुष एव वेदितव्य इति साङ्गत्यात् , रस­वा­दि­व­च­न­प्र­त्या­ख्या­तृ­व­च­न­स्यापि तद­न्य­वि­ष­य­स्यै­व­मेव साङ्ग­त्य­द­र्श­नात् । मणि­प्र­व­क्तृ­दृ­ष्टा­न्त­स्त्वत्र न प्रवर्तते । न हि ‘काचो मणिर्न भवति किन्त्वयं मणिः’ इति प्रतिवक्तृवचने मणिशब्दवदिह राजवचने ब्रह्म­श­ब्दोऽस्ति ‘आदि­त्या­दि­पु­रुषा ब्रह्माणि न भवन्ति किन्त्विदं ब्रह्म’ इति ।

यदि च गार्ग्य­व­च­ना­ग­तो­प­क्र­मा­नु­सा­रेण राजवचनमप्यवश्यं ब्रहपरं वक्तव्यम् , तदप्युपपद्यत एव । आदित्यादिपुरुषा ब्रह्म न भवन्ति , किन्तु तेषां कर्ता पुण्या­पु­ण्य­वा­न्जीवः प्राणो वा ब्रह्मेति राज­व­च­ना­भि­प्रा­य­व­र्ण­नो­प­पत्तेः । अस्ति हि जीवे ब्रह्म­श­ब्द­स्सि­द्धा­न्ति­नोऽपि सम्मतः ‘इदं ब्रह्मायाति इदमागच्छति’(बृ.उ.४-३-३७) इति श्रुतौ । अस्ति च प्राणात्मनि हिरण्यगर्भे ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदि­त्या­च­क्षते’(बृ.उ.३-९-९) इति श्रुतौ । एवञ्च सर्व­पा­पा­ह­ति­पू­र्व­क­स्वा­रा­ज्य­फ­ल­प्र­ति­पा­द­क­स्यो­प­सं­हा­र­स्यापि जीवे, प्राणे वा नानुपपत्तिः । तस्मा­द्बा­ला­क्य­जा­त­श­त्रु­सं­वा­द­रू­प­स्यास्य प्रकरणस्य जीवः प्राणो वा ब्रह्म , न तदतिरिक्तं ब्रह्मा­स्ती­त्य­स्मि­न्नर्थे पर्यवसितत्वात् सर्वेषां वेदान्तानां विय­दा­दि­स­र्व­ज­ग­त्स्र­ष्टृ­त्वो­प­ल­क्षिते निर्विशेषे ब्रह्मणि समन्वय इत्येतदयुक्तम् । ब्रह्मलक्षणं चायुक्तम् ; तदुपलक्षणीयस्य निर्विशेषस्य ब्रह्मण एवास्मिन् प्रकरणे प्रति­क्षे­प­प्र­ती­ते­रिति ।

एवं प्राप्ते सिद्धान्तमाह – ‘जग­द्वा­चि­त्वात्’ इह वेदितव्यः पुरुषो जीवसामान्यात् तद्व्य­ति­रि­क्ता­द्धि­र­य­ग­र्भा­च्चा­ति­रिक्तं परं ब्रह्म ; ‘यस्य वैतत्कर्म’ इति वाक्ये एतच्छब्दस्य कर्मशब्दस्य च जगद्वाचित्वात् । एतदुक्तं भवति – अत्रैतच्छब्दः प्रत्य­क्षा­दि­स­न्नि­धा­पि­त­स­क­ल­ज­ग­द्वाची ; विशिष्य कस्य­चि­त्पु­रु­ष­स­म्ब­न्ध­नि­र्दे­शा­कां­क्षस्य नपुं­स­कै­क­व­च­ना­न्त­नि­र्दे­शा­र्हस्य प्रकृतस्याभावेन तस्य संकु­चि­त­वृ­त्ति­क­ल्प­का­भा­वात् । तथा कर्मशब्दोऽपि कार्यत्वाकारेण सकलजगद्वाची ; चल­ना­दृ­ष्ट­रू­ढ्यो­र­न्य­त­र­प­रि­ग्रहे नियामकाभावेन क्रियते इति कर्मेति योगस्य समा­श्र­य­णी­य­त्वात् , रूढिद्वयस्य परस्परपराहतौ लब्धोन्मेषस्य योगस्य प्रबलत्वात् । न च चलन एव रूढि­स्त­त्सा­ध्य­त्वा­द­दृष्टे लक्षणेति शक्यं वक्तुम् ; मान­स­पु­ण्य­पा­प­रू­प­स्या­दृ­ष्टस्य चल­न­सा­ध्य­त्वा­भा­वे­ना­दृ­ष्ट­सा­मान्ये कर्मशब्दस्य रूढ्य­न्त­र­स्वी­का­रा­व­श्य­म्भा­वात् । अपि च कर्मशब्दस्य चल­ना­ष्टा­न्य­त­र­प­रत्वे ‘यस्य कर्म स वेदितव्य’ इत्येतावदेव वक्तव्यं स्यात् । प्रत्य­क्षा­दि­स­न्नि­धा­पि­त­वाची एत­च्च­ब्दोऽ­व­धा­र­णार्थो वाश­ब्द­श्चा­न­र्थकः स्यात् । तस्य कार्यपरतायां ‘एतेषां पुरुषाणां कर्ता’ इति वाक्यमेव व्यर्थं स्यात् इति चेत् , न । बालाकिना ब्रह्मत्वेन कीर्तितानां पुरु­षा­णा­म­ब्र­ह्म­त्व­ख्या­प­नेन तस्य सप्रयोजनत्वात् । तथा च वाक्य­द्व­य­स्या­प्ये­व­मर्थः सम्पद्यते । य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्त्ता किमनेन विशेषेण यस्य वा प्रत्य­क्षा­दि­स­न्नि­धा­पितं कृत्स्नमेव जगत्कार्यमिति । एवञ्च वाशब्द एक­दे­शा­व­च्छि­न्न­क­र्तृ­त्व­व्या­वृ­त्त्यर्थो भवति । तस्मा­दे­त­त्क­र्म­प­द­यो­र्ज­ग­द्वा­चि­त्वेन तल्लब्धात् सप्रा­ण­स­जी­व­स­क­ल­ज­ग­दी­क्षा­पू­र्व­क­स्र­ष्टृ­त्व­रू­पात् तत्क­र्तृ­त्व­लि­ङ्गात् प्राण­जी­वा­ति­रिक्तं परं ब्रह्म वेदितव्यः पुरुष इति सिद्धम् ॥१-४-१६॥

ननु जीव­मु­ख्य­प्रा­णा­ति­रि­क्त­ब्र­ह्म­लि­ङ्ग­व­ज्जी­व­मु­ख्य­प्रा­ण­लि­ङ्ग­म­प्यत्र दृश्यते इत्या­श­ङ्का­मु­द्भाव्य परिहरति –

जीव­मु­ख्य­प्रा­ण­लि­ङ्गा­न्नेति चेत्त­द्व्या­ख्या­तम् ।१७।

१७

तद्व्या­ख्या­त­मिति ‘नोपा­सा­त्रै­वि­ध्या­दा­श्रि­त­त्वा­दिह तद्योगात्’(ब्र.सू.१-१-३१) इति प्रतर्दनाधिकरणे परिहृतमित्यर्थः । एतदुक्तं भवति – यथा ‘तद्यथा श्रेष्ठी’ इत्यादिवाक्ये प्रधानपुरुषस्य स्वैर्भृ­त्यै­रि­वा­दि­त्या­दि­पु­रु­षै­रा­लो­क­दा­ना­दि­नो­प­का­र­कै­रा­त्मनो भोक्तृत्वं प्रधानपुरुषं प्रति भृत्या­ना­मि­वा­दि­त्या­दि­पु­रु­षा­णा­मा­त्मानं प्रति स्वोचि­तै­रु­प­कारैः पालयितृत्वञ्च वर्ण्यमानं जीवलिङ्गमस्ति , यथा वा ‘तद्यथा क्षुर’ इत्यादिवाक्ये बृह­दा­र­ण्य­क­प्र­ति­पन्नं मुख्य­प्रा­णा­त्म­हि­र­ण्य­ग­र्भ­लि­ङ्ग­मस्ति , एवं वेदि­त­व्य­पु­रु­षो­प­दे­श­वाक्य एवा­सं­कु­चि­त­प्र­त्य­क्षा­दि­सि­द्ध­स­क­ल­का­र्य­क­र्तृत्वं तद­ति­रि­क्त­ब्र­ह्म­लि­ङ्गम् । तद्धि सजी­व­स­हि­र­ण्य­ग­र्भ­स­र्व­ज­ग­त्क­र्तृ­त्व­रू­पम् ; ‘यथा सुदी­प्ता­त्पा­व­का­द्वि­स्फु­लिङ्गाः’(मु.उ.२-१-१) ‘इदं सर्वमसृजत यदिदं किञ्च’(तै.उ. २ - ६.१) ‘यस्स­र्व­ज्ञ­स्स­र्व­वित्’(मु.उ.१-१-९) ‘हिरण्यगर्भं पश्यत जायमानम्’(श्वे.उ.४-१२) इत्या­दि­श्रु­त्य­न्त­रेऽपि जीव­मु­ख्य­प्रा­ण­यो­रपि कार्य­त्व­प्र­सि­द्धि­स­त्त्वात् । एवं च जीव­मु­ख्य­प्रा­ण­लि­ङ्ग­यो­र­प्य­नु­रोधे ब्रह्म­जी­व­मु­ख्य­प्रा­णानां त्रिविधमुपासनं विवक्षितमत्र वक्तव्यमिति वाक्यभेदः प्रसज्येत । न चात्र वाक्यभेदो न्याय्य इति वर्णितं प्रतर्दनाधिकरणे । ननु तत्रो­प­क्र­मो­प­सं­हा­राभ्यां ब्रह्मविषयत्वं वाक्य­स्या­व­ग­त­मिति वाक्यभेदः परिहरणीयः , न त्वत्रेति चेत् । अत्रापि परिहरणीय एव ; ‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमेण ‘सर्वा­न्पा­प्म­नोऽ­प­हत्य’ इत्या­द्यु­प­सं­हा­रेण च वाक्यस्य ब्रह्म­वि­ष­य­त्वा­व­ग­मात् । वेदि­त­व्य­पु­रु­षो­प­दे­श­वा­क्यस्य गार्ग्य­प्र­ति­ज्ञा­त­ब्र­ह्मा­न्य­वि­ष­य­त्वा­व­गमे हि रस­वा­दि­क­थ­न­प्र­त्या­ख्या­तृ­व­च­न­दृ­ष्टान्तः क्रमते । इह जग­त्क­र्तृ­त्व­लि­ङ्गेन तस्य ब्रह्म­वि­ष­य­त्वा­व­ग­मा­न्म­णि­त­त्त्व­व­क्तृ­व­च­न­दृ­ष्टान्त एव प्रवर्तते ।

एतेन – ब्रह्मो­प­क्र­मोऽपि जीव­मु­ख्य­प्रा­णा­न्य­त­र­वि­षयः ; तयोरपि क्वाचि­त्क­ब्र­ह्म­श­ब्द­प्र­यो­ग­द­र्श­नात् ; उपसंहारोऽपि तद्वे­द­न­फ­ल­प्र­ति­पा­द­न­पर इति शङ्काऽपि - निरस्ता । श्रुत्यन्तरेषु जीव­मु­ख्य­प्रा­णा­ति­रिक्ते परब्रह्मण्येव ब्रह्मशब्दस्य तद्वेदनादेव पर­म­पु­रु­षा­र्थ­ला­भस्य च प्रसि­द्ध­त­र­त्वाच्च । ‘सहस्रं दद्म’ इत्यपि परि­हा­स­वा­क्य­त्वेन न योजनीयं , किन्तु ब्रह्म­व­च­न­प्र­वि­ज्ञा­पू­ज­ना­र्थ­त्वे­नैव योजनीयम् । परि­हा­स­वा­क्य­त्वेन योजनेऽपि बालाकिरयं ब्रह्मतत्त्वं वक्तुं न प्रभवतीत्येव परिहासाभिप्रायो वर्णनीयः , न तु जीवातिरिक्तं ब्रह्मनामकं किञ्चि­न्ना­स्ती­त्ये­व­म­भि­प्रायः ; स्वयमेव सक­ल­जी­व­व्या­वृ­त्ता­स­ङ्कु­चि­त­स­र्व­ज­ग­त्क­र्तृ­त्व­रू­प­त­ल्लि­ङ्ग­व­र्ण­नात् । एव­ञ्चै­क­स्मि­न्वाक्ये ब्रह्मा­ब्र­ह्म­लि­ङ्गेषु सन्नि­वि­ष्टे­ष्व­ब्र­ह्म­लि­ङ्गानि ब्रह्मणि योजनीयानि , न तु ब्रह्म­लि­ङ्गा­न्य­ब्र­ह्म­णीति प्रतर्दनाधिकरणे दर्शितन्यायेनैव जीव­मु­ख्य­प्रा­ण­लि­ङ्गानि अभेदाभिप्रायेण ब्रह्मणि योजनीयानि ।

नन्वेवं प्रत­र्द­ना­धि­क­र­णेन गता­र्थ­मि­द­म­धि­क­र­णम् । नेति ब्रूमः । ‘यस्य वैतत्कर्म’ इत्यस्य ब्रह्म­लि­ङ्ग­प­र­त्वो­प­पा­द­क­न्या­य­व्यु­त्प­त्त्य­र्थ­त्वा­द­स्या­धि­क­र­णस्य तद­धी­न­त्वा­च्चो­प­क्र­मो­प­सं­हा­र­यो­र्ब्र­ह्म­वि­ष­य­ता­त्म­का­र्थ­ला­भस्य । ननु तथाऽपि पूर्वा­धि­क­र­ण­न्या­ये­नैव निर्णेतुं शक्यमिदं वाक्यं नैत­द­धि­क­र­ण­व्यु­त्पाद्यं कर्मशब्दस्य जग­द्वा­चि­त्वो­प­पा­दकं न्यायमपेक्षते । पूर्वाधिकरणे हि ब्रह्म­का­र­ण­त्व­प्र­ति­पा­द­क­ब­हु­वा­क्या­नु­रो­धेन तद्वि­रो­धि­ना­म­स­त्का­र­ण­त्वा­दि­प्र­ति­पा­द­क­क­ति­प­य­वा­क्यानां नयनं कृतम् , ततः कथमिह सक­ल­जी­वा­ति­रि­क्त­त­त्सृ­ष्टि­स्थि­ति­सं­हा­र­त­न्नि­य­म­ना­दि­स्व­त­न्त्रा­ना­दि­सि­द्ध­प­र­ब्र­ह्म­प्र­ति­पा­द­क­ब­हु­वा­क्या­नु­रो­धे­ना­स्यै­कस्य वाक्यस्य पूर्वपक्षे वर्णितं जीव­मु­ख्य­प्रा­णा­ति­रि­क्त­प­र­ब्र­ह्म­नि­रा­क­र­ण­प­रत्वं तयोरन्यतरस्य वेदितव्यपरत्वं च प्रत्याख्याय परब्रह्मपरतया नयनं कर्तुमशक्यम् ? सत्यम् । न्याय­व्यु­त्पा­द­नार्थं कृत्वा­चि­न्त­ये­द­म­धि­क­र­णम् । तदे­त­द­न­न्त­र­सूत्रे स्फुटीकरिष्यामः ॥१-४-१७॥

जीव­मु­ख्य­प्रा­णा­ति­रि­क्त­प­र­ब्र­ह्म­प­र­मिदं बाला­क्य­जा­त­श­त्रु­सं­वा­द­रूपं प्रकरणमित्येतत् हेत्वन्तरेणापि द्रढयति –

अन्यार्थं तु जैमिनिः प्रश्न­व्या­ख्या­ना­भ्या­मपि चैवमेके ॥१८॥

१८

अन्यार्थं जीव­मु­ख्य­प्रा­णा­भ्या­म­न्य­द्ब्रह्म तदर्थमेवेदं प्रकरणं , न तु तन्नि­रा­क­र­णा­र्थ­मिति जैमिनिराचार्यो मन्यते । कुतः , प्रश्न­व्या­ख्या­ना­भ्याम् । प्रश्न­स्ता­व­द­जा­त­श­त्रो­र्ब्र­ह्म­त्वेन बाला­कि­नो­प­दि­श­ष्टे­ष्वा­दि­त्या­दि­पु­रु­षेषु प्रत्याख्यातेषु ततः­प­र­म­वि­ज्ञा­ना­त्तूष्णीं भूते च बालाकौ बालाकिं प्रति ‘एतावन्नु बालाके’ इति । ‘एतावद्धि’ इति बालाकेः प्रतिवचनानन्तरं ‘मृषा वै किल मा संवदिष्ठा ब्रह्म ते ब्रवाणि’ इत्य­जा­त­श­त्रो­र्व­चनं मृषा­त्व­व्या­ख्या­नम् । एताभ्यां प्रश्न­व्या­ख्या­नाभ्यां ब्रह्म­प्र­ति­पा­द­ना­र्थ­मे­वेदं प्रकरणं , न तु तस्य निरा­क­र­णा­र्थ­मि­त्य­व­सी­यते । यदि हि तन्निराकरणार्थं स्यात्तदा ब्रह्मनाम किञ्चि­न्ना­स्ती­त्य­भि­म­न्य­मा­न­स्त­न्नि­रा­क­र­ण­प्र­वृत्तो राजा बाला­के­र्व­क्त­व्य­पु­रु­षां­त­र­स­द्भा­वेऽपि तत्प्रतिज्ञाया मृषात्वं प्रति­ज्ञा­का­ल­मा­रभ्य मन्येतैवेति ‘एतावन्नु’ इति प्रश्नपूर्वकं ‘एतावदेव’ इत्यु­त्त­र­म­पेक्ष्य तन्मृषात्वं न व्याचक्षीत । ब्रह्म­प्र­ति­पा­द­ना­र्थत्वे तु ब्रह्मा­स्ती­त्य­व­ग­च्छ­न्राजा किमयं गार्ग्यः स्थूला­रु­न्ध­ती­न्या­ये­ना­ब्र­ह्माणि ब्रह्म­त्वे­नो­पा­दि­क्षत् , किं वा भ्रान्त्येति निश्चे­तु­म­श­क्नु­व­न्नु­दा­हृ­त­प्र­श्न­प्र­ति­व­च­नेन गार्ग्यस्य भ्रान्तत्वं निश्चित्य तत्प्रतिज्ञाया मृषात्वं व्याचष्ट इति युज्यते ।

अपि च एवमेके शाखिनो वाज­स­ने­यि­नोऽ­स्मिन् बाला­क्य­जा­त­श­त्रु­सं­वा­देऽ­स्मि­न्नेव स्थले प्रश्न­व्या­ख्या­नाभ्यां प्रकरणमिदं ब्रह्म­प्र­ति­पा­द­नार्थं , न तु तन्नि­रा­क­र­णा­र्थ­मिति स्पष्टयन्ति । ‘सहो­वा­चा­जा­त­श­त्रु­रे­ता­वन्नु.... इति एतावद्धीति । नैतावता विदितं भवति’(बृ.उ.२-१-१४) इति । अत्र हि आदि­त्य­पु­रु­षा­दि­वे­द­न­मा­त्रेण ब्रह्म विदितं न भवतीति व्याचक्षाणो राजा वेदि­त­व्य­म­न्य­द्ब्र­ह्मा­स्तीति मन्यत इति स्पष्टमेव प्रतीयते । ननू­दा­हृ­त­प्र­श्न­व्या­ख्या­न­ब­ला­द्ब्र­ह्म­प्र­ति­पा­द­नार्थं प्रक­र­ण­मि­त्य­व­स­यितां नाम । प्रति­पि­पा­द­यि­षितं ब्रह्म जीव­मु­ख्य­प्रा­ण­यो­र­न्य­त­र­द्भ­वि­ष्यति । तयोरपि ब्रह्म­श­ब्द­प्र­यो­ग­स्यो­दा­हृ­त­त्वा­दिति द्विती­य­पू­र्व­प­क्षेऽ­प्ये­त­दे­वो­त्त­रम् ‘अन्यार्थं तु जैमिनिः प्रश्न­व्या­ख्या­ना­भ्या­मपि चैवमेके’ इति । इह जीव­मु­ख्य­प्रा­ण­प्र­स­ञ्ज­न­म­न्यार्थं , ब्रह्म­प्र­ति­प­त्त्यर्थं , न तु प्राधान्येन जीवस्य , मुख्यप्राणस्य वा प्रति­पा­द­ना­र्थ­मिति जैमिनिर्मन्यत इति । कुतः ‘क्वैष एतद्बालाके’ इत्यादिना ‘प्राण एवैकधा भवति’ इत्यन्तेन ग्रन्थेन वर्णिताभ्यां प्रश्न­व्या­ख्या­ना­भ्याम् । ‘क्वैष एतद्बालाके’ इति प्रश्न­स्ता­व­ज्जीवो वेदितव्य इति प्रतिपादनार्थं न भवति । तथा सति तत्स्वरूपस्यैव प्रष्टव्यतया तदा­धा­र­प्र­श्ना­यो­गात् । न च तस्य नाड्या­धा­र­त्व­व­र्ण­नेन पापास्पृष्टतया तन्मू­ल­शो­क­भी­त्या­दि­रा­हि­त्य­प्र­द­र्श­नेन वेदि­त­व्य­त्वो­प­पा­द­ना­र्थ­मा­धा­र­प्रश्न इति वाच्यम् । तथा सति ‘तासु तदा भवति’ इति नाडी­स्थ­त्व­व­त्पा­पा­स्प­र्श­स्यापि बालाकिं प्रति वर्ण­नी­य­त्वा­पत्तेः । न च सौषुप्तिकनाडीः प्रविष्टस्य पापा­स्प­र्श­श्छा­न्दोग्ये श्रुतः प्रसिद्ध इति तदवर्णनमिति वाच्यम् । ‘क्वैष एतत्’ इति प्रश्नानन्तरं ‘तदुह बालाकिर्न विजज्ञौ’ इत्युक्तत्वेन सुषुप्तौ नाडी­प्र­वे­श­मे­वा­जा­नतो बाला­के­स्त­त्प्र­वे­श­कृ­त­पा­पा­स्प­र्श­प्र­सि­द्ध्य­भा­वात् । तस्माज्जीवाधारो वेदितव्यः पुरुष इति प्रतिपादनार्थ एव स प्रश्नः । ‘प्राण एवैकधा भवति’ इत्येतदेव च तस्योत्तरं , न तु ‘तासु तदा भवति’ इत्येतत् ; नाडीनां वेदि­त­व्य­पु­रु­ष­त्वा­भा­वात् । तत्तु ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ.उ.२-१-१९) इति श्रुत्य­न्त­रा­नु­सा­रेण हृद­या­व­च्छि­न्न­ब्र­ह्म­प्रा­प्तये मार्गोपदेशपरं नेतव्यम् ।

एवञ्च द्वितीयप्रश्नः कर­ण­ग्रा­मा­धि­क­र­ण­वि­षय इति न युक्तम् ; अग्रे तदु­त्त­रा­द­र्श­नात् । ‘जीवाधिकरणविषय इत्यपि न युक्तम् ; प्रथमप्रश्नेन पुन­रु­क्ति­प्र­स­ङ्गात्’ इति चेत् ; न । तयोरेकः कस्मिन्नधिकरणे शयितोऽभूदिति जीवा­धि­क­र­ण­ध­र्मि­वि­शे­ष­वि­षयः , अपरस्तु जीवः किमन्यः सन्नन्यस्मिन् शयि­तोऽ­भू­दु­ता­नन्यः सन्ना­त्म­नी­त्य­धि­क­र­ण­ग­ता­न्य­त्वा­न­न्य­त्व­रू­प­वि­शे­ष­ण­वै­शि­ष्ट्य­वि­षय इति भेदोपपत्तेः । अत एव प्रश्न­द्व­य­स्यापि व्याख्यानार्थं ‘प्राण एवैकधा भवति’ इत्युक्तम् । अत्र हि ‘प्राणे’ इत्य­धि­क­र­ण­भू­त­ध­र्मि­वि­शे­ष­प्र­श्नस्य प्रतिवचनम् ‘एकधा भवति’ इति धर्म­वि­शे­ष­वै­शि­ष्ट्य­प्र­श्नस्य । एकधा भवति एकीभवतीत्यर्थः ; ‘स्वमपीतो भवति’ इति हि श्रुत्यन्तरम् । ‘तदैनं वाक्’ इत्यत्र ‘एतस्मादात्मनः प्राणः’ इत्यत्र च एतत्पदं प्राणपरामर्शि । प्राणस्य सप्त­म्य­न्त­नि­र्दि­ष्ट­त्वेऽपि प्रति­पि­पा­द­यि­षि­त­त्वेन प्राधान्यात् ‘तप्ते पयसि दध्यानयसि सा वैश्व­दे­व्या­मिक्षा’ इत्यत्र सप्त­म्य­न्त­नि­र्दि­ष्ट­स्यापि पयस एव व्याप्य­क­र्म­त्वेन प्रधानस्य सर्वनाम्ना परामर्शदर्शनात् । अत्र च वाक्यद्वये प्राणानां वृत्ति­ल­यो­द्ग­म­मात्रं न प्रतिपाद्यते ; विषयैः सह लयो­द्ग­म­प्र­ति­पा­द­नात् । न हि सुषुप्तौ विषयाणां व्यापारविलयः प्रबोधे तदु­द्भ­व­श्चा­नु­भ­वा­नु­रोधी । श्रुतौ भारनिवेशे तु यथाश्रुति इन्द्रियाणां तद्विषयभूतस्य नामरूपात्मकस्य कृत्स्न­प्र­प­ञ्चस्य लयः स्वीकर्तुं युक्तः । एवं जीवै­की­भा­वा­धि­क­र­णस्य प्राणस्य सुषुप्तौ सेन्द्रि­य­स­क­ल­प्र­प­ञ्च­ल­या­धि­क­र­ण­तया, प्रबोधे तदु­द्ग­मा­पा­दा­न­तया, प्रतिपादनं तस्य गार्ग्यो­प­दि­ष्टेभ्य आदि­त्या­दि­पु­रु­षे­भ्योऽ­न्यत्वं दृढीकर्तुम् । तत एव – जीवो , मुख्यप्राणो वा वेदितव्यः पुरुष इति पूर्वपक्षोऽपि निरस्तो भवति । न हि यतः कुत­श्चि­ज्जी­वा­द्धि­र­ण्य­ग­र्भाद्वा सर्वे लोकास्सर्वे देवा­श्चो­द्भ­व­न्तीति युज्यते ।

यदि च देवशब्द इन्द्रि­या­धि­ष्ठा­तृ­दे­व­परः , तदाऽपि हिर­ण्य­ग­र्भ­व्या­वृ­त्ति­र­स्त्येव ; ‘बुद्धि­र­ध्यात्मं बोद्धव्यमधिभूतं ब्रह्म तत्राधिदैवतम्’ इति तस्या­न्त­रि­न्द्रि­या­धि­ष्टा­तृ­त्वोक्तेः । ‘स यदा प्रबुध्यते यथाऽ­ग्ने­र्वि­स्फु­लिङ्गा विप्र­ति­ष्ठे­र­न्ने­व­मे­वै­त­स्मा­दा­त्मनः प्राणा’ इत्यादिनैव ‘कुत एतदागात्’ इति प्रश्नस्य प्रति­व­च­न­म­प्य­र्था­ल्ल­ब्धम् । तथा हि ‘कुत एतदागात्’ इति प्रश्नो न जीवा­ग­म­ना­पा­द­न­वि­षयः ; यत्र धर्मिणि शयितोऽभूत् तत आगादिति स्वयमेव ज्ञातुं शक्यत्वात् , किन्तु किमन्यस्मादागत उतात्मन्येव भेद­को­पा­धि­वि­ल­या­दे­की­भूय स्थितः पुनः प्रबोधसमये भेद­को­पा­ध्यु­द्भ­वा­त्ततो भेदेनागत इत्य­पा­दा­न­स्या­न्य­त्वा­न­न्य­त्व­ध­र्म­वि­शे­ष­वै­शि­ष्ट्य­वि­षयः । यद्य­प्य­धि­क­र­णा­न्य­त्वा­न­न्य­त्व­वि­ष­यस्य प्राची­न­प्र­श्नस्य प्रतिवचनं यद्धर्मविषयं वक्ष्यते तद्ध­र्म­वि­शि­ष्टा­द­य­मा­गा­दि­त्ये­त­दपि निश्चेतुं शक्यम् , तथा­प्य­न­न्य­त्व­प­क्षस्य प्रतिवचने वक्तव्यत्वेन विवक्षितत्वात् , तस्य चालौ­कि­क­त्वे­ना­स­म्भा­व­नी­य­त्वात् तद्दृ­ढी­क­र­णा­र्थ­म­धि­क­र­ण­त्व­द­शा­या­मि­वा­पा­दा­न­त्व­द­शा­या­म­प्य­न­न्यत्वं वक्तव्यमिति तद्विषयः प्रश्नो घटते । तत्प्र­ति­व­च­न­ला­भार्थं सुषुप्तौ यदा प्रबुध्यते , तदानीमात्मनः सुषु­प्त­भू­ता­दे­त­स्मात् प्राण­श­ब्दो­क्ता­दि­न्द्रि­या­दयो विप्रतिष्ठन्त इति व्याख्येयम् । एव­ञ्चो­दा­हृ­त­प्र­श्न­प­र्या­लो­च­नया , तत्प्र­ति­व­च­न­प­र्या­लो­च­नया च प्रक­र­ण­मि­द­म­न्यार्थं , न तु जीवो हिरण्यगर्भो वा वेदितव्यः पुरुष इति प्रति­पा­द­ना­र्थ­मिति सिद्धम् ।

अपि चैवमेके शाखिनो वाज­स­ने­यि­नोऽ­स्मि­न्प्र­क­रणे प्रक­र­ण­मि­द­म­न्या­र्थ­मिति स्पष्टयन्ति । तत्र हि ‘यत्रैष एत­त्सु­प्तोऽ­भूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्कुत एतदागात्’(बृ.उ.२-१-१६) इति प्रश्नद्वयं श्रूयते । तदनन्तरं च ‘यत्रैष एत­त्सु­प्तोऽ­भूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्च्छेते’(बृ.उ.२-१-१७) इति प्रथमप्रश्नस्य प्रतिवचनम् । द्विती­य­प्र­श्नस्य प्रतिवचनं तु ‘एव­मे­वा­स्मा­दा­त्म­न­स्सर्वे प्राणास्सर्वे लोकास्सर्वे देवास्सर्वाणि भूतानि व्युच्चरन्ति’(बृ.उ.२-१-१०) इत्यग्रिमवाक्ये । अत्र ‘क्वैष तदाऽभूत्’ इति प्रश्ने कर­ण­ग्रा­मा­धि­क­र­ण­वि­ष­य­त्व­श­ङ्काया नास्त्यवकाशः ; ‘य एष विज्ञानमयः पुरुषः’(बृ.उ.२-१-१६) इति प्राङ्नि­र्दे­शात् । तदधिकरणविषयस्य प्रतिवचनस्य च नास्ति मुख्य­प्रा­ण­वि­ष­य­त्व­श­ङ्का­व­काशः ; आका­श­श­ब्दे­ना­धि­क­र­ण­नि­र्दे­शात् । अस्याकाशशब्दस्य एतत्स्थाने कौषी­त­कि­ब्रा­ह्म­ण­प­ठि­तस्य प्राणशब्दस्य चैकार्थ्यस्य वक्तव्यतया तयो­र्ब्र­ह्म­वि­ष­य­त्वा­व­श्य­म्भा­वात् । ब्रह्मण्येव तयो­श्श्रु­त्य­न्त­रेषु निरूढिदर्शनात् आनन्दवल्यां ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२-७.१) इत्या­का­श­श­ब्द­नि­र्दि­ष्टस्य चाप­रि­च्छि­न्ना­न­न्दस्य ब्रह्मण उत्त­रो­त्त­र­श­त­गु­ण­मा­त्र­प­रि­च्छि­न्ना­न­न्द­शा­लिषु परि­ग­णि­ता­न्मु­ख्य­प्रा­ण­रू­पात् हिर­ण्य­ग­र्भा­द्भि­न्न­त्वा­व­ग­मात् । तस्मा­त्प्र­क­र­ण­मिदं जीव­मु­ख्य­प्रा­णा­ति­रि­क्त­ब्र­ह्म­वि­ष­य­मिति तत्रैव तयोर्लिङ्गं सार्वा­त्म्या­भि­प्रा­येण योजनीयम् ।

ननु वाजसनेयिशाखायां ‘नैतावता विदितं भवति’ इति राजवाक्येन गार्ग्यो­प­क्रा­न्त­ब्र­ह्म­वि­ष­य­मे­वा­ग्रे­तनं सुषु­प्त­पु­रु­षो­त्था­प­नो­प­क्रमं कृत्स्नं राज­वा­क्य­मि­त्य­व­ग­तम् । तच्च ब्रह्म जीवो न भवतीति सुषु­प्त­जी­वा­धि­क­र­ण­प्र­श्ने­ना­व­ग­तम् । तदधिकरणं ब्रह्म मुख्यप्राणो न भवतीति प्रति­व­च­न­ग­ता­का­श­श­ब्देन सर्व­भू­त­लो­क­दे­वो­द्ग­मा­पा­दा­न­त्व­प्र­ति­पा­द­नेन चावगतम् । अतस्तदेकार्थं कौषी­त­कि­ब्रा­ह्म­ण­वा­क्य­मपि जीव­मु­ख्य­प्रा­णा­ति­रि­क्त­वि­ष­य­मिति निश्चेतुं शक्यमेव । किम­र्थ­मि­द­म­धि­क­र­ण­मिति चेत् ; उक्तमेवोत्तरं कृत्वा­चि­न्त­ये­द­म­धि­क­रणं प्रवृत्तमिति । तदेव उत्तरमत्रापि द्रष्टव्यम् । ‘अपि चैवमेक’ इत्यस्याः कृत्वाचिन्ताया उद्घाटनं कृतम् । प्राची­न­सू­त्र­द­र्शि­ता­यास्तु कृत्वाचिन्ताया ‘वाक्यान्वयात्’ इत्य­ग्रि­म­सू­त्र­म­स्मि­न्न­प्य­धि­क­रणे प्रविष्टं मत्वा तेन बहूनां वेदा­न्त­वा­क्यानां जीव­व­र्गा­त्त­द्वि­शे­षा­द्धि­र­ण्य­ग­र्भाच्च भिन्ने ब्रह्मणि समन्वितत्वादपि प्रक­र­ण­मि­द­म­न्या­र्थ­मि­त्ये­वं­प­रे­णो­द्घा­टनं कृत­मि­त्य­नु­स­न्धे­यम् । यत्तु भाष्ये प्राण­नि­रा­क­र­ण­स्यापि सुषु­प्त­पु­रु­षो­त्था­प­नेन प्राणा­दि­व्य­ति­रि­क्तो­प­दे­शोऽ­भ्यु­च्चय इत्युक्तं , तद्धि­र­ण्य­ग­र्भ­नि­रा­क­र­णार्थं न भवति , किन्तु प्रत­र्द­ना­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन मन्दशङ्कनीयः प्राण­वा­यु­रे­वात्र वेदितव्यः पुरुषोऽस्तु तत्र परिस्पन्दरूपस्य कर्मणस्सदा सत्त्वादिति सर्वमनवद्यम् ॥१-४-१८॥

इति जग­द्वा­चि­त्वा­धि­क­र­णम् ॥५॥

वाक्यान्वयात् ॥१९॥

१९

बृहदारण्यके मैत्रे­यी­ब्रा­ह्मणे याज्ञवल्क्यः स्वयं प्रविव्रजिषया मैत्रे­यी­का­त्या­यन्योः स्वभा­र्य­यो­र्वि­त्तस्य विभागं चिकी­र्ष­न्वि­त्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या पृष्टो ‘यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेन’(बृ.उ.२-४-२) इत्युक्त्वा ‘येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि’(बृ.उ.२-४-३) इति तया पुनरमृतत्वसाधनं पृष्टो ‘न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति’(बृ.उ.२-४-५) इत्यादिभिः ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियम्भवति’(बृ.उ.२-४-५) इत्यन्तैः वाक्यैः पति­जा­या­पु­त्र­वि­त्त­प­शु­ब्र­ह्म­क्ष­त्र­लो­क­दे­व­वे­द­भू­त­प्र­भृति सर्वं यस्य भोगार्थतयैव प्रियं भवति, तत्प­त्या­दि­स­र्व­भो­क्ता­र­मा­त्मा­न­मु­प­क्रम्य ‘आत्मा वा अरे द्रष्ट­व्य­श्श्रो­तव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ.उ.२-४-५) इत्य­मृ­त­त्व­सा­ध­न­मा­त्म­द­र्शनं दर्शनसाधनानि श्रवणादीनि चोपदिश्य ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्’(बृ.उ.२-४-५) इत्या­त्म­वि­ज्ञा­नेन सर्वविज्ञानं प्रतिजज्ञे । तत्र यद्द­र्श­न­म­मृ­त­त्व­सा­ध­न­मु­प­दि­देश सोऽयमात्मा किं जीव उत परमात्मेति जीव­ब्र­ह्म­लि­ङ्गाभ्यां संशये –

पूर्वपक्षः – जीव एवायमात्मा । उपक्रमे पति­जा­या­दि­प्रि­य­त्व­लि­ङ्गात् , मध्ये ‘विज्ञानमय एवैतेभ्यो भूते­भ्य­स्स­मु­त्थाय तान्ये­वा­नु­वि­श्यति’(बृ.उ.२-४-१२) इत्यु­त्प­त्ति­वि­ना­श­लि­ङ्गात् , अन्ते ‘विज्ञातारमरे केन विजानीयात्’(बृ.उ.२-४-१४) इति विज्ञा­तृ­त्व­लि­ङ्गाच्च । तद्विज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञानं तु भोग्यजातस्य भोक्तृ­शे­ष­त्वा­दौ­प­चा­रिकं योजनीयम् । युक्तं ह्युप­क्र­मो­प­सं­हा­र­प­रा­म­र्शा­नु­सा­रेण पूर्वा­धि­क­र­ण­वि­ष­य­वाक्ये जीवलिङ्गस्य ब्रह्मणीवात्र ब्रह्मलिङ्गस्य जीवे योजनम् ।

स्यादेतत् – उपक्रमादीनां जीवनिष्ठत्वे भवेदेवं , तदेवासिद्धम् । तथाहि – उपक्रमे ‘न वा अरे पत्युः कामाय’ इत्यादिकम् आत्मैव द्रष्टव्य इति वक्ष्य­मा­णा­र्थ­स्यो­प­पा­द­क­तया वर्ण्यते । न च – जीवात्मनः कामाय पत्यादयः प्रिया भवन्तीति वचनं प्रियं पत्यादिकं परित्यज्य तद्वियुक्तं केवलं जीवा­त्म­स्व­रू­प­म­न्वे­ष्ट­व्य­मि­त्य­त्रो­प­पा­दकं भवति । प्रियमेव ह्यन्वेष्टव्यं , न प्रियवियुक्तं स्वरूपं । परमात्मनः कामा­ये­ष्ट­नि­र्वृ­त्तये पत्यादयः प्रिया भवन्तीति वचनं तु पत्यादिकं परित्यज्य परमात्मैव द्रष्टव्य इत्यत्र भवत्युपपादकम् । परमात्मा खलु ‘एष ह्येवानन्दयाति’ इति श्रुतः पतिजायादीनां कादाचित्कं प्रिय­त्व­मा­पा­द­यति । तस्मात् स एव निर­ति­श­या­न­न्द­रू­पोऽ­न्वे­ष्टव्य इति । एवञ्च पति­जा­या­दि­वा­क्या­ना­मि­त्थ­मर्थो ग्राह्यः – न हि पति­जा­या­पु­त्र­वि­त्ता­दयो मदि­ष्ट­नि­र्वृ­त्तये अहमस्य प्रियः स्यामिति स्वसङ्कल्पतः प्रिया भवन्ती , किन्तु परमात्मनः तत्त­ज्जी­व­प्रि­य­प्र­ति­ल­म्भ­न­रू­पे­ष्ट­नि­र्वृ­त्तये अहमस्य प्रियः स्यामिति स्वसङ्कल्पतः प्रिया भवन्तीति । परमात्मा हि तत्त­त्क­र्मा­नु­सा­रेण जीवात्मनः प्रिय­म­नु­भा­व­यि­तु­मि­च्छन् प्रति­नि­य­त­दे­श­का­ल­प­रि­माणं तत्तद्वस्तुषु प्रिय­त्व­मा­पा­द­यति । एव­मु­प­क्र­म­ग­तो­प­पा­द­क­स­हि­तस्य द्रष्ट­व्य­वा­क्यस्य परमात्मपरत्वे सति मध्ये जीवो­त्प­त्ति­वि­ना­श­स­ङ्की­र्तनं मुण्डके ‘तथाऽ­क्ष­रा­द्वि­वि­धा­स्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’(मु.उ.२-१-१) इति तदु­त्प­त्ति­ल­य­स­ङ्की­र्त­न­मिव प्रकृ­त­ब्र­ह्म­भा­व­प्र­ति­प­त्त्य­र्थ­तया , तत्स्तु­त्य­र्थ­तया वा सम्भवदन्वयं न प्रकरणस्य जीवपरतामापादयति । ‘विज्ञातारम्’ इति श्रुतं विज्ञा­न­क­र्तृत्वं तु ब्रह्मण्यपि प्रसिद्धमेव ‘तदैक्षत’ ‘स ईक्षांचक्रे’ ‘यस्सर्वज्ञः’ इत्या­दि­श्रु­ति­ष्विति ; चेत् –

उच्यते – परमात्मनः पुण्या­पु­ण्य­क­र्मण इव पतिजायादिषु कदा­चि­त्प्रि­य­त्वा­पा­द­ने­ना­न­न्द­रू­पत्वं कदा­चि­द­प्रि­य­त्वा­पा­द­नेन दुःखरूपत्वमिव न सिद्ध्यति । नतरां निर­ति­श­या­न­न्द­त्वम् । नतरां पत्यादिकं परित्यज्य द्रष्टव्यत्वम् । तस्मा­त्प­ति­जा­या­दि­वा­क्यानां पर­मा­त्म­वि­ष­य­त्व­व­र्णनं परमात्मैव द्रष्टव्य इत्यस्योपपादकम् । तेषां जीवा­त्म­वि­ष­य­त्व­व­र्ण­न­मपि जीवात्मैव द्रष्टव्य इत्यस्योपपादकं न भवतीत्युक्तम् , इति चेत् , सत्यमुक्तम् । विमृश्य तु नोक्तम् । तेषां जीवा­त्म­वि­ष­य­त्व­व­र्णने तस्य पति­जा­या­द्य­पे­क्ष­याऽ­ति­श­यि­त­पु­रु­षा­र्थ­त्वा­लाभे हि पतिजायादिकं परित्यज्य तस्यै­वा­न्वे­ष्ट­व्यत्वे तदुपपादकं न भवेत् , तत्तु लभ्यत एव । तथा हि – सर्वेषामपि स्वात्मा प्रियः , पतिजायादयोऽपि प्रिया इत्य­नु­भ­व­सा­क्षि­क­मे­तत् । तत्र पतिजायादीनां स्वात्म­व्य­ति­रि­क्तानां सर्वेषां प्रियत्वं पति­त्वा­दि­प्र­युक्तं न भवति , किन्तु स्वात्म­प्र­यु­क्त­मिति अस्मिन्नर्थे तेषां स्वेष्ट­सं­पा­द­क­त्व­द­शा­या­मिव स्वानि­ष्ट­सं­पा­द­क­त्व­द­शायां प्रिय­त्वा­द­र्श­नेन सर्व­स­म्प्र­ति­प­त्ति­योग्ये वर्ण्यमाने स्वात्मनः पति­जा­या­दी­न्प्रति इष्ट­सं­पा­द­क­त्व­द­शा­या­म­नि­ष्ट­सं­पा­द­क­त्व­द­शा­या­ञ्चा­वि­शे­षेण प्रियस्य कथं पति­जा­या­द्य­पे­क्ष­याऽ­ति­श­यि­त­पु­रु­षा­र्थत्वं न लभ्यते । तस्मा­दा­त्मा­ना­त्म­नो­र्लो­क­प्र­सि­द्ध्य­नु­सा­रि­मु­ख्य­गौ­ण­पु­रु­षा­र्थ­त्व­रूपं तत्त्वमालोच्य गौणं परित्यज्य मुख्यमेव समा­श्र­ये­दि­त्य­य­मर्थः पति­जा­या­दि­वा­क्य­स­हि­तेन द्रष्ट­व्य­वा­क्येन वर्ण्यते इत्येव युक्तम् । उक्तञ्च सुरे­श्व­रा­चार्यैः ‘दृष्ट्वाऽ­नु­भ­व­त­स्त­त्त्व­मा­त्मा­ना­त्म­प­दा­र्थयोः । उपादित्सा जिहासा च तत्कृ­तै­वा­नु­पा­ल्य­ताम्’ इति । ‘स्वत एवा­प्रि­योऽ­नात्मा ह्यात्म­प्री­त्य­र्थ­सा­ध­नात् । जायादिः स्यात्प्रियो भवत्या बन्धक्याः कामुको यथा । निर्हेतुका स्वतः प्रीति­रा­त्म­न्येव यतस्ततः । भाक्तं प्रियं परित्यज्य मुख्यं प्रिय­मु­पा­श्र­येत्’ इति च ।

एवञ्च ‘न वा अरे पत्युः कामाय’ इत्यादिवाक्येषु प्रसि­द्धि­द्यो­तको वैशब्दोऽपि सङ्गच्छते । प्रसिद्धं ह्येतल्लोके यत्पत्यादयो जायादीनां पत्या­दि­प्र­यो­ज­नाय प्रिया न भवन्ति, किन्तु जायादीनामेव प्रयोजनायेति । पति­जा­या­दि­वा­क्यानां परमात्मविषयत्वे तु स न सङ्गच्छेत । न हि पर­मा­त्मे­च्छा­धीनं पतिजायादीनां कादाचित्कं प्रिय­त्व­मि­त्ये­त­ल्लो­क­प्र­सि­द्धम् । ‘श्रुति­प्र­सिद्धं तत्’ इति चेत् ; न । अन­धी­ति­नी­म­वि­ज्ञा­त­श्रु­त्यर्थां केव­ल­म­मृ­त­त्वा­र्थिना पत्या सह चिरसंवासेन तच्च­र­ण­प­रि­च­र­ण­बा­हु­ल्य­ल­ब्ध­याऽ­न्तः­क­र­ण­शुद्ध्या च स्वय­म­प्य­मृ­त­त्वा­र्थिनीं मैत्रेयीं प्रत्य­मृ­त­त्वो­पा­य­मु­प­दि­दि­क्षुणा पत्या तद­धि­का­रि­वि­शे­ष­ण­वै­रा­ग्य­दृ­ढी­क­र­णाय तद्बु­ध्यु­पा­रू­ढाया लोकप्रसिद्धेरेव तेन द्योतनीयत्वात् । पति­जा­या­दि­वा­क्येषु पति­वा­क्य­प्रा­थ­म्येन मैत्रेयीं प्रति तद्बु­ध्यु­पा­रू­ढ­मर्थं प्रथमं प्रदर्श्य तद्दृष्टान्तेन तत्स­म्म­ति­यो­ग्या­न्ये­वा­र्था­न्त­रा­ण्यपि पतिरवर्णयदिति प्रतीतेश्च । तस्मादुपक्रमस्य पर­मा­त्म­वि­ष­य­त्व­व­र्णनं तावदयुक्तम् ।

यत्तू­त्प­त्ति­वि­ना­श­वाक्यं प्रकृ­त­द्र­ष्ट­व्या­त्म­वि­षयं न भवति; किन्तु तत्सृ­ज्या­त्म­वि­ष­य­मिति ; तदपि न युक्तम् । षष्ठे मैत्रे­यी­ब्रा­ह्मणे ‘स यथा सैन्ध­व­घ­नोऽ­न­न्त­रोऽ­बाह्यः कृत्स्नो रसघन एवैवं वा अरेऽ­य­मा­त्माऽ­न­न्त­रोऽ­बाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूते­भ्य­स्स­मु­त्थाय’(बृ.उ.४-५-१३) इत्यादिना प्रकृतस्य द्रष्टव्यात्मन एव ‘अयमात्मा’ इति परा­मृ­ष्ट­स्यो­त्प­त्ति­वि­ना­श­व­र्ण­नात्, ‘एवं वा अरे इदं मह­द्भू­त­म­न­न्त­म­पारं विज्ञानघन एवैतेभ्यो भूतेभ्यः’(बृ.उ.२-४-१२) इत्यादौ चतुर्थे मैत्रे­यी­ब्रा­ह्मणे ‘अयमात्मा’ इति शब्दाभावेऽपि प्रकृतपरामर्शिन इदंशब्दस्य सत्त्वाच्च । मुण्ड­क­वा­क्य­दृ­ष्टा­न्तो­प­न्या­सस्तु विषमः ; तत्र ‘तथाऽक्षरात्’ इति विशेषणेन सृज्यात्मना प्रकृ­ता­क्ष­र­ब्र­ह्मो­पा­दा­न­क­त्व­प्र­ति­पा­द­नात् । यत्तु विज्ञातृत्वं ब्रह्मणोऽपि प्रसि­द्ध­मि­त्युक्तं , तदपि न युक्तम् ; विजा­ना­मी­त्य­नु­भ­व­सि­द्धस्य मनो­वृ­त्ति­वि­शे­ष­रूपं विज्ञानं प्रति कर्तृत्वस्य मुख्यस्य जीव इव ब्रह्म­ण्य­स­म्भ­वात् । तस्मा­न्मै­त्रे­यी­ब्रा­ह्म­णेन प्रतिपाद्यमान आत्मा जीव एवेति जग­त्का­र­ण­त्वो­प­ल­क्षितो मुमु­क्षु­भि­र्वि­ज्ञेयः परमात्मा , तत्रैव वेदान्तानां समन्वय इत्येतन्न युक्तमिति । एवं प्राप्ते पूर्वपक्षे राद्धान्तः –

परमात्मैवायम् ; वाक्यान्वयात् । वाक्यं हीदं मैत्रे­यी­ब्रा­ह्म­ण­रूपं विमृश्यमानं पर­मा­त्म­न्ये­वा­न्वि­ता­व­यवं लक्ष्यते । तथा हि – ‘अमृतत्वस्य तु नाशाऽस्ति वित्तेन’ इति याज्ञ­व­ल्क्य­व­च­नेन वित्तसाध्यैः कर्मभिरमृतत्वं न प्राप्यत इति निश्चित्य वित्त­म­ना­दृ­त्या­मृ­त­त्व­प्रा­प्त्यु­पा­यो­प­दे­श­मा­शं­स­मा­नायै मैत्रेय्यै तत्प्रा­प्त्यर्थं विज्ञे­य­मा­त्मा­न­मु­प­दि­देश याज्ञवल्क्यः । तद्वि­ज्ञा­न­मे­वा­मृ­त­त्व­सा­ध­न­मि­त्यु­प­स­ञ्ज­हार च षष्ठे मैत्रे­यी­ब्रा­ह्म­णान्ते ‘एतावदरे खल्वमृतत्वम्’ इति । जीवा­त्म­वि­ज्ञा­नात्तु नामृ­त­त्व­प्राप्तिः ; ‘नान्यः पन्थाः’ इति श्रुतेः । अहंप्रत्ययरूपे जीवात्मविज्ञाने सर्वदा अनुवर्तमानेऽपि अमृ­त­त्व­प्रा­प्त्य­द­र्श­नाच्च जीवस्य यदलोकसिद्धं तात्त्विकं रूपम् , तद्वि­ज्ञा­न­म­मृ­त­त्व­सा­ध­न­मि­त्यस्य सिद्धा­न्तेऽ­प्य­ङ्गी­क्रि­य­मा­ण­त्वात् । तथा मध्येऽपि ब्रह्मलिङ्गानि वर्णयामास । तत्र एकविज्ञानेन सर्वविज्ञानं तावदेकं लिङ्गम् । न चैतदौपचारिकं नेतुं युक्तम् ; अग्रे भेददर्शननिन्दया सार्वा­त्म्य­प्र­ति­पा­द­नेन दुन्दु­भ्या­दि­दृ­ष्टा­न्तैश्च तदुपपादनाच्च । तत्र ‘ब्रह्म तं परा­दा­द्योऽ­न्य­त्रा­त्मनो ब्रह्म वेद’(बृ.उ.२-४-६) इत्यादिभिः ‘सर्वं तं परा­दा­द्योऽ­न्य­त्रा­त्म­न­स्सर्वं वेद’(बृ.उ.२-४-६) इत्य­न्तै­र्वा­क्यै­र्ब्र­ह्म­क्ष­त्र­लो­क­दे­व­वे­द­भू­ता­दि­कस्य सर्वस्य ब्रह्मा­न्य­त्व­द­र्श­न­निन्दा कृता । ब्रह्म ब्राह्मणजातिः ‘ब्राह्मणोऽहम्’ इत्य­भि­मा­न­वि­ष­य­भूता तं पराकुर्यात् पुरुषार्थात् प्रच्या­व­ये­द्यस्तां ब्राह्म­ण­जा­ति­मा­त्मनो भिन्नां वेदेति प्रथमवाक्यार्थः । एवं क्षत्रा­दि­वा­क्या­ना­म­प्यर्थो द्रष्टव्यः । सर्वेष्वेतेषु वाक्येषु सार्व­वि­भ­क्ति­क­स्त्र­ल्प्र­त्ययः ‘समं समा­धा­न­म­न्य­त्रा­भि­नि­वे­शात्’ ‘अन्यत्र भीष्मा­द्गा­ङ्गे­यात्’ इत्यादिप्रयोग इव प्रथमार्थो द्रष्टव्यः । ‘इदं ब्रह्म इदं क्षत्रमिमे लोकाः इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा’(बृ.उ.२-४-६) इति सार्वात्म्यं दर्शितम् । एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­तिज्ञां तदुपपादनार्थां भेद­द­र्श­न­नि­न्दा­पू­र्विकां सार्वा­त्म्य­प्र­ति­ज्ञा­ञ्चो­प­पा­द­यितुं दुन्दु­भ्या­दि­दृ­ष्टान्ता दर्शिताः ।

‘स यथा दुन्दु­भे­र्ह­न्य­मा­नस्य न बाह्याञ्छब्दान् शक्नु­या­द्ग्र­ह­णाय दुन्दुभेस्तु ग्रहणेन दुन्दु­भ्या­घा­तस्य वा शब्दो गृहीतः’(बृ.उ.२-४-७) इति दुन्दु­भि­दृ­ष्टान्तः चिद्रू­पा­त्म­स्फु­रणं विना स्फुरणशून्यं जगच्चिदात्मनो न व्यतिरिच्यत इति प्रति­ज्ञा­पे­क्षिते ‘यत् यस्य स्फुरणं विना न स्फुरति, तत्ततो न व्यतिरिच्यते’ इति नियमे दृष्टान्तोऽयम् । तत्र ‘दुन्दु­भे­र्ह­न्य­मा­नस्य’ इत्यनेन हन्य­मा­न­दु­न्दु­भि­प्र­भ­व­श­ब्द­सा­मान्यं लक्ष्यते । ‘दुन्दुभेस्तु’ इत्यनेनापि तदेव लक्ष्यते । दुन्दुभ्याघातः – संग्रामभूमिषु वीररसाद्यनुकूलः दुन्दु­भि­ध्व­नि­वि­शेषः । ततश्चायमर्थः – यथा दुन्दु­भि­श­ब्द­सा­मा­न्य­वि­शे­ष­भू­तान् शब्दान् दुन्दु­भि­श­ब्द­सा­मा­न्या­द्बा­ह्य­त्वेन ततो निष्कृष्य न कश्चिदपि ग्रहीतुं शक्नुयात् ; किन्तु दुन्दु­भि­श­ब्द­सा­मा­न्य­ग्र­ह­णे­नैव तद्विशेषशब्दो गृहीतो भवति ; दुन्दु­भ्या­घा­त­सं­ज्ञ­कस्य शब्दविशेषस्य ग्रहणेन वा तद­वा­न्त­र­वि­शे­ष­शब्दो गृहीतो भवति ; दुन्दुभिशब्द इत्येव हि तद्विशेषो गृह्यते , दुन्दु­भ्या­घा­त­श­ब्द­सा­मा­न्याच्च तथा तद्विशेषा न भिद्यन्ते , एवं चिद्रूपादात्मनः प्रपञ्च इत्याशयः । शंख­वी­णा­दृ­ष्टा­न्ता­व­प्ये­व­मेव योजनीयौ । यद्यपि दृष्टा­न्ता­ना­म­र्था­न्तरं वर्णयितुं शक्यम् ; तथा हि – यथा दुन्दुभौ हन्यमाने ततो बहि­र्नि­स्स­र­त­श्श­ब्दान्न कश्चिदपि निरोद्धुं शक्नुयात् ; किन्तु दुन्दु­भे­र्नि­रो­धेन , तदा­ह­न्तृ­पु­रु­ष­नि­रो­धेन वा दुन्दुभिशब्दो निरुद्धो भवति – इत्यादि , तथाऽपि नैता­दृ­ग­र्था­न्तरं प्रकृतोपयोगि । सार्वात्म्यं हि प्रकृतं दृष्टा­न्ते­नो­प­पा­द­नी­यम् , न त्वन्यत् । तत्तु नैता­दृ­शा­र्थे­नो­प­पा­दितं भवति । प्रकृ­ता­नु­प­यो­ग्य­र्था­न्तरं त्वितोऽपि समञ्जसमुन्नेतुं शक्यम् – दुन्दुभौ हन्यमाने बाह्या­न्दु­न्दु­भि­श­ब्द­व्य­ति­रि­क्ता­न्मा­नु­षा­दि­श­ब्दा­न्दु­न्दु­भि­श­ब्दा­भि­भू­ता­न्ग्र­हीतुं न शक्नुयात् ; दुन्दु­भे­स्त­दा­ह­न्तृ­पु­रु­षस्य वा निरोधेन मानुषादिशब्दो गृहीतो भवति – इति ।

यद्वा हन्य­मा­न­दु­न्दु­भि­म­ना­दृत्य तद्द­र्श­न­म­न­पेक्ष्य बाह्या­न्पि­हि­त­क­र्ण­त्वेन कर्ण­पु­ट­म­प्र­वि­ष्ट­तया कर्ण­पु­टा­द्ब­हि­रेव वर्त­मा­ना­न्दु­न्दु­भि­श­ब्दा­न्ग्र­हीतुं न शक्नुयात् । कर्णपुटस्य पिहितत्वेन तत्प्र­त्य­क्षा­स­म्भ­वात् हन्य­मा­ना­न्दु­न्दु­भि­रू­प­का­र­ण­लि­ङ्गा­द­र्श­ने­ना­नु­मा­ना­न­व­ता­राच्च । किन्तु प्रागु­क्त­ह­न्य­मा­न­त्व­वि­शे­षि­तस्य दुन्दुभेर्वा तदा­ह­न­न­व्या­पृ­तस्य पुरुषस्य वा कारणलिङ्गस्य ग्रह­णे­ना­नु­मा­ना­व­तारे सति दुन्दुभिशब्दो गृहीतो भवतीति । अत्र हि पक्षद्वयेऽपि प्रथमपक्ष इव बाह्यशब्दः सप्रयोजनः । बहिर्निस्सरत इत्यर्थवर्णने तु निष्प्रयोजनः ; दुन्दुभिशब्दो ततो बहिर्निस्सरणस्य स्वाभाविकत्वेन व्याव­र्त्या­भा­वात् । शब्दान्वयी ग्रहणशब्दश्च ज्ञानपरः सन्युक्तार्थः । निरोधार्थवर्णने त्वयुक्तार्थः । न हि ग्रहणशब्दस्य ज्ञान­व­दु­पा­दा­न­वच्च निरोधार्थः प्रसिद्धः , न वा चोरादाविव शब्दे निरोधोऽन्वेति । दुन्दुभिर्यथा नाहन्येत तथा तन्निरोधेन वा पुरुषो यथा तं नाहन्यात्तथा पुरुषनिरोधेन वा शब्द­स्यो­त्प­त्ति­प्र­ति­ब­न्ध­मात्रं हि भवति , न तु द्रव्यविषयत्वेन प्रसिद्धो निरोधः । प्रथमपक्षे ‘दुन्दुभेः’ इति शब्दस्य दुन्दु­भि­प्र­भ­व­शब्दे लक्षणा तु ग्रह­णा­न्व­या­नु­रो­धा­द्भ­वन्ती न दोषाय । शब्दस्य ह्युपादानं न सम्भवतीति ज्ञानमेवात्र ग्रहणं वाच्यम् । दुन्दुभिज्ञाने च तदी­य­श­ब्द­वि­शे­षाणां स्फुरणं न भवति, किन्तु दुन्दु­भि­श­ब्द­सा­मा­न्य­ज्ञान एव । उक्तञ्च वार्तिके ‘दुन्दु­भि­ध्व­नि­रि­त्ये­त­त्कुतो लब्धं विशेषणम् । दुन्दु­भे­र्ग्र­ह­णे­नेति लब्ध­मे­त­द्वि­शे­ष­णम् । दुन्दुभेस्तु रवा एत इत्येवं ग्रहणे सति । गृही­ता­स्त­द्वि­शे­षा­स्स्यु­स्तेषां तादा­त्म्य­का­र­णात्’ इति । दुन्दु­भ्या­घा­त­श­ब्दस्तु यद्यपि कर्मो­प­प­द­प्र­त्य­यान्तो दुन्दु­भ्या­ह­न्तृ­वाची, तथाऽपि घञन्तो दुन्दु­भि­ध्व­नि­शे­ष­वा­च्य­प्य­स्तीति तद्ग्रहणं युज्यते । तदप्युक्तं वार्तिके ‘भेर्या­घा­त­ग्र­हा­द्वाऽपि तद्विशेषग्रहो भवेत् । वीरा­दि­र­स­सं­युक्तो दुन्दुभ्याघात उच्यते’ इति । तस्मात् ‘चमसवदविशेषात्’(ब्र.सू.१-४-८) इति न्यायेनानेकधा योजयितुं शक्यं दृष्टा­न्त­वा­क्यस्य प्रकृ­त­सा­र्वा­त्म्यो­प­पा­द­क­दा­र्ष्टा­न्ति­का­नु­गुण एवार्थो ग्राह्यः ।

ननु शङ्का­ग्र­न्थ­द­र्शि­तोऽ­प्यर्थः किञ्चि­द्दा­र्ष्टा­न्ति­क­म­ध्या­हृत्य तद्दृष्टान्ततया वर्णयितुं शक्यः, दुन्दु­भ्या­ह­न­न­व्या­पा­रा­नु­वृत्तौ दुन्दुभिशब्द इव इन्द्रि­य­व्या­पा­रा­नु­वृत्तौ बाह्या­र्थ­प्र­त्ययो निरोद्धुं न शक्य इति । तत­श्चा­त्म­द­र्श­ना­र्थिना तद्वि­रो­धि­बा­ह्या­र्थ­प्र­त्यय इन्द्रियनिरोधेन तद्वि­जृ­म्भ­ण­हे­तु­म­नो­नि­रो­धेन वा निरोद्धव्यम् इति प्रकृतोपयोगश्च सम्भवति इति चेत् ; मैवम् । श्रुत­सा­र्वा­त्म्यो­प­पा­द­ना­र्थ­त­यैव यथाकथञ्चन दृष्टा­न्त­न­य­न­स­म्भवे दृष्टा­न्त­स्वा­र­स्या­नु­रो­धेन दार्ष्टा­न्ति­का­न्त­रा­ध्या­हा­रा­यो­गात् । श्रुत एव ह्यवकाविधौ स्तावकत्वेन ‘आपो वै शान्ताः’ इत्यर्थवादः यथा­क­थ­ञ्चि­न्नी­यते, न तु तत्स्वा­र­स्या­नु­रो­धे­नापां विधि­र­ध्या­ह्रि­यते । यदि च दृष्टा­न्त­स्वा­र­स्य­म­नु­रो­द्ध­व्यम् , तदाऽ­प्य­न­न्त­र­द­र्शि­ता­र्थ­द्व­य­मध्य एव कश्चिदर्थो ग्राह्यः , न तु शङ्का­ग्र­न्थ­द­र्शि­तोऽर्थः, तयोः प्राक्प्र­स्तु­त­म­न­ना­दि­वि­धा­नो­प­यो­ग­व­र्ण­न­स­म्भ­वात् । तथा हि – प्राक् ‘आत्मा द्रष्टव्यः’ इत्युपदिश्य तद्द­र्श­न­सा­ध­न­श्र­व­णा­दी­न्यु­प­दि­ष्टानि । अत्रेयमाशङ्का भवति – पति­जा­या­दि­प्रि­य­सं­सू­चि­तस्य जीवस्येदं द्रष्ट­व्य­त्व­मु­प­दि­श्यते न चैतदुपपद्यते ; अहंप्रत्ययेन नित्यमेव तस्य दृश्यमानत्वात् ।

अथोच्येत – अहंप्रत्यये प्रका­श­मा­ना­त्क­र्तृ­त्व­भो­क्तृ­त्वा­दि­वि­शि­ष्टा­द्रू­पा­द­न्य­दस्ति निर­ति­श­या­न­न्द­रूपं ब्रह्मात्मकं जीवस्य रूपं तद­भि­प्रा­ये­णा­मृ­त­त्वा­र्थिना द्रष्ट­व्य­त्व­मु­प­दि­श्यते – इति । तदाऽपि ‘मन्तव्यो निदि­ध्या­सि­तव्यः’ इति न वक्तव्यम् ; मनसा नित्यमहमिति गृह्यमाणे जीवे तद­गृ­ही­त­सू­क्ष्म­रू­प­स­द्भावे तद्वेदान्तेभ्यः श्रुतवता पुरुषेण तेनैव मनसा पुनरवहितेन तस्य ग्राह्य­त्वो­प­पत्तेः । चक्षुषा गृह्यमाणे तारकादौ तद्गते सूक्ष्मे विशेषे केनचित्कथिते तद्ग्रहणाय तदेव हि चक्षुः पुनः सावधानं व्यापार्यते – इति । तत्रेदमुत्तरम् – यथा दुन्दुभिशब्दे प्रतिबन्धे सति मानुषादिशब्दो ग्रहीतुं न शक्यत इति तद्ग्रहणाय दुन्दुभिशब्दस्य निरो­ध­क­म­पे­क्ष्यते , एव­मि­हा­प्य­स­म्भा­व­ना­दि­प्र­ति­बन्धे सति जीवस्य ब्रह्मात्मकं रूपं ग्रहीतुं न शक्यत इति तन्नि­व­र्त­क­म­न­ना­दि­क­म­पे­क्ष्यत इति । यद्वा यथा कर्णस्य पिधानादिदोषेण दुन्दु­भि­श­ब्द­ग्र­ह­णा­सा­मर्थ्ये सति तद्ग्रहणाय दुन्दु­भ्या­ह­न­ना­दि­लि­ङ्ग­म­पे­क्ष्यते, एवमिहापि ‘‘पराञ्चि खानि व्यतृ­ण­त्स्व­यम्भूः’(क.उ.२-१-१) ‘‘यन्मनसा न मनुते’(कौ. ३-५) इत्या­दि­श्रु­ते­र्म­नसः स्वत एव ब्रह्म­द­र्श­ना­सा­मर्थ्ये सति तद्दर्शनाय उपा­या­न्त­र­म­न्वे­ष­णी­य­मिति ।

वस्तुतस्तु ‘इदं सर्वं यदयमात्मा’ इति सार्वा­त्म्या­भि­धा­ना­न­न्त­र­मु­च्य­मानो दृष्टा­न्त­स्त­दु­प­पा­द­ना­र्थ­त­यैव योजयितुं युक्त इति प्राग्दर्शित एव दृष्टा­न्त­व­च­न­स्यार्थ इति तत्त्वम् । एव­मु­प­प­त्त्यु­प­बृं­हितं सर्व­वि­ज्ञा­न­प्र­ति­ज्ञानं तावदेकं ब्रह्मलिङ्गम् । तदुपपादकं सार्वा­त्म्य­म­प­रम् । तथा ‘स यथाऽऽ­र्द्रै­धा­ग्ने­र­भ्या­हि­तस्य पृथग्धूमा विनि­श्च­र­न्त्येवं वा अरेऽस्य महतो भूतस्य निश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजु­र्वे­द­स्सा­म­वे­दोऽ­थ­र्वा­ङ्गि­रस इतिहासः पुराणं विद्या उप­नि­ष­द­श्श्लो­का­स्सू­त्रा­ण्य­नु­व्या­ख्या­नानि व्याख्यानानि इष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकस्सर्वाणि च भूतान्यस्यैव तानि सर्वाणि निश्वसितानि’(बृ.उ.४-५-११) इति वर्णितं नाम­रू­पा­त्म­क­स­क­ल­प्र­प­ञ्च­का­र­णत्वं ‘स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनम्’(बृ.उ.४-५-१२) इत्यादिना ‘सर्वेषां वेदानां वागेकायनम्’(बृ.उ.४-५-१२) इत्यन्तेन प्रतिपादितं ज्ञाने­न्द्रि­य­क­र्मे­न्द्रि­य­वि­ष­य­रू­प­स­क­ल­प्र­प­ञ्च­ल­या­धा­रत्वं च ब्रह्मलिङ्गम् । ननु ‘सर्वासामपाम्’ इत्यादिना सदृ­ष्टा­न्त­मि­न्द्रि­याणां स्वस्व­वि­ष­या­य­त­न­मा­त्र­त्व­मु­च्यते, न तु ब्रह्मणः प्रप­ञ्च­ल­या­धा­र­त्व­मिति ।

उच्यते । ‘यथा सर्वासामापाम्’ इत्या­दि­दृ­ष्टा­न्त­व­च­नेन समुद्रस्य नद्या­दि­स­क­ल­स­लि­ल­ल­या­धा­र­त्व­मु­च्यते ; ‘यथा नद्य­स्स्य­न्द­मा­ना­स्स­मु­द्रेऽ­स्त­ङ्ग­च्छन्ति नामरूपे विहाय’(मु.उ.३-२-८) ‘यथेमा नद्य­स्स्य­न्द­मा­ना­स्स­मु­द्रा­य­णा­स्स­मुद्रं प्राप्या­स्त­ङ्ग­च्छन्ति भिद्येते चासां नामरूपे समुद्र इत्येवं प्रोच्यते’(प्र.उ.६-५) इत्या­दि­श्रु­त्य­न्त­रेषु तथैव समु­द्र­स­लि­ल­दृ­ष्टा­न्त­व­र्ण­न­द­र्श­नात् । ततश्च तदनुसारेण दार्ष्टा­न्ति­क­व­च­नेन त्वगा­दि­श­ब्दै­स्त्व­गि­न्द्रि­या­दि­ग्रा­ह्याणि स्पर्श­र­स­ग­न्ध­रू­प­श­ब्द­स­ङ्क­ल्प­नी­या­दि­सा­मा­न्यानि लक्षणीयानि । तथा च यथा नद्यादिसलिलानि समुद्रे विलीय समुद्रात्मतां प्राप्नुवन्ति एवं महाप्रलये मृदु­क­र्क­शा­द­य­स्स्प­र्श­वि­शेषा मधुराम्लादयो रसविशेषा गन्धा­दि­वि­शे­षाश्च स्पर्शा­दि­सा­मा­न्येषु विली­ना­स्स­न्त­स्त­त्त­त्सा­मा­न्या­त्मतां प्राप्नु­व­न्ती­त्यर्थः । एवञ्च क्रमेण परमकारणे ‘अस्य महतो भूतस्य’ इत्यादिना प्राग्वर्णिते विलीयन्त इति तात्पर्यम् ; महाप्रलये भूतलयस्य पर­म­का­र­ण­प­र्य­न्त­तया श्रुत्यन्तरेषु पुराणेषु च प्रति­प­न्न­त्वात्, ब्रह्म­वि­द्या­नि­मि­त्ता­त्य­न्ति­क­प्र­ल­य­व­र्ण­न­परे ‘यथा सैन्धवघनः’ इत्यादिवाक्ये ‘एतेभ्यो भूते­भ्य­स्स­मु­त्थाय तान्ये­वा­नु­वि­न­श्यति’ इति वर्णितस्य भूतलयस्य ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’ इति पर­म­का­र­ण­प­र्य­न्त­त्वेन विवरणाच्च । एवञ्च त्वगादिशब्दानां स्पर्शा­दि­सा­मा­न्येषु लक्षणा न दोषाय ; त्वगि­न्द्रि­या­दीनां स्पर्शा­दि­ल­या­धा­र­त्वस्य बाधितत्वाच्च । तस्मा­दु­प­क्र­मो­प­सं­हा­र­प­रा­मर्शैः परमात्मैवात्र द्रष्टव्य आत्मा ॥१-४-१९॥

स्यादेतत् – जीवविषया अप्यु­प­क्र­मो­प­सं­हा­र­प­रा­मर्शा उदाहृताः । कस्ते­षा­न्नि­र्वाहः ? ननु सुषु­प्त्यु­त्क्रा­न्त्य­धि­क­र­णा­दि­द­र्शितो निर्वाहः स्यात् । तत्र ह्युक्त­मे­क­स्मि­न्वाक्ये ब्रह्मा­ब्र­ह्म­लि­ङ्गेषु करम्बितेषु प्रसि­द्ध­जी­वा­नु­वा­दे­ना­प्र­सि­द्ध­ब्र­ह्मा­त्म­त्व­वि­धा­न­म­ङ्गी­क­र्त­व्य­मिति । सत्यमुक्तम् । दुरुक्तं तु तत् ; अत्यन्ताभेदे भेद­सा­पे­क्ष­स्यो­द्दे­श्य­वि­धे­य­भा­व­स्या­यो­गा­दि­त्या­श­ङ्का­या­मे­क­दे­शि­म­तेन तावत्परिहारमाह –

प्रति­ज्ञा­सि­द्धे­र्लि­ङ्ग­मा­श्म­रथ्यः ॥२०॥

२०

‘यथा सुदी­प्ता­त्पा­व­का­द्वि­स्फु­लि­ङ्गा­स्स­ह­स्रशः प्रभवंते सरूपाः’(मु.उ.२-१-१) इत्यादिश्रुतेः पर­मा­त्म­का­र्य­भूता जीवाः परमात्मनो नात्यन्तभिन्नाः , किन्तु वह्निकार्यभूता विस्फुलिङ्गा वह्नेरिव ततो भिन्ना­भि­न्नास्ते । तथाऽपि परमात्मनि द्रष्ट­व्य­त्वे­नो­प­दे­ष्टव्ये यदा­दि­म­ध्या­व­सा­नेषु जीवा­त्म­त्व­व­र्ण­नेन पर­मा­त्म­न­स्त­द­भे­द­प्र­द­र्श­नम् , तत्प्र­ति­ज्ञा­सि­द्धे­र्लि­ङ्गम् । सर्व­वि­ज्ञा­न­प्र­तिज्ञा ह्यभे­दां­शे­नो­प­पा­द­नीया , न तु भेदां­शे­ने­त्या­श्म­रथ्य आचार्यो मन्यते ॥१-४-२०॥

अथै­क­दे­श्य­न्त­र­म­तेन परिहारान्तरमाह –

उत्क्रमिष्यत एवं­भा­वा­दि­त्यौ­डु­लोमिः ॥२१॥

२१

औडु­लो­मि­स्त्वा­चार्यो मन्यते – संसारदशायां परमात्मनो भिन्न एव जीवः स्वभाविकानां कर्तृ­त्व­भो­क्तृ­त्वा­दि­ध­र्मा­णा­मा­श्र­य­स्त­त्त­द्ध­र्म­प्र­वृ­त्ति­नि­मि­त्त­कानां नाम्नाञ्च विषयभूतः स मुक्तिकाले स्वकीयं नामरूपजातं विहाय परमात्मनैक्यं प्राप्नोति ‘यथा नद्य­स्स्य­न्द­मा­ना­स्स­मु­द्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वा­न्ना­म­रु­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्यम्’(मु.उ.३-२-८) इति श्रवणात् । तथा च मुक्तिकाले देहे­न्द्रि­य­सं­घा­ता­दु­त्क्रा­मि­ष्यतो जीवस्य परमात्मैक्यं भविष्यतीति भवि­ष्य­दै­क्य­म­पेक्ष्य भेद­का­लेऽ­प्य­भे­द­व­र्ण­न­मिति । एतदेव मतं पाञ्चरात्रिका अप्यास्थिषत ‘आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः’ इति ॥१-४-२१॥

अथा­स्मि­न्म­त­द्व­येऽ­प्य­प­रि­तु­ष्य­न्ना­चा­र्य­स्स्वा­भि­मतं मतमाह –

अवस्थितेरिति काशकृत्स्नः ॥२२॥

२२

रज्जोरेव भुजङ्गरूपेणेव व्याध­कु­ल­सं­प्र­वृ­द्धस्य राजपुत्रस्यैव व्याधभावेनेव च परमात्मन एव जीव­भा­वे­ना­व­स्थि­ते­रा­दि­म­ध्या­व­सा­नेषु जीववर्णनमिदं पर­मा­त्म­प्र­द­र्श­न­मेव भवति । स्थूल­द­र्शि­लो­क­प्र­ती­ति­सौ­क­र्यार्थं जीव­रू­पे­णो­प­क्रम्य मध्यावसानयोरपि जीव­रू­प­प्र­द­र्श­न­मिति काशकृत्स्न आचार्यो मन्यते । न खलु जीवस्य तेजः­प्र­भृ­ति­व­द­न­न्यो­पा­धिकं कार्य­त्व­मु­प­प­द्यते ; विना­शि­त्व­प्र­स­ङ्गात् । नन्विष्टापत्तिः ; अत्रैव ‘तान्ये­वा­नु­वि­न­श्यति न प्रेत्य संज्ञाऽस्ति’(बृ.उ.४-५-१३) इत्यु­क्त­त्वा­दिति चेत् ; मैवम् । तदनन्तरम् ‘अत्रैव मा भग­व­न्मो­हा­न्त­मा­पी­प­दत् न वा अहमिदं विजानामि’(बृ.उ.४-५-१४) इति वाक्येन कथ­मु­प­क्रा­न्ता­मृ­त­फ­ल­भा­क्त्वेन विव­क्षि­त­स्या­त्मनो विनाशित्वं , कथञ्च विज्ञा­नै­क­स्व­भा­व­त्वे­नो­क्तस्य तस्य संज्ञाऽभाव इत्य­भि­प्रा­य­वत्या मैत्रेय्या शङ्किते याज्ञवल्क्येन ‘न वा अरे अहं मोहं ब्रवीमि’(बृ.उ.४-५-१४) इत्यारभ्य तस्य विना­श­सं­ज्ञाऽ­भा­व­व­च­न­यो­र­भि­प्रा­या­न्त­रस्य स्वयमेव वर्णितत्वात् । तत्र ‘अविनाशी वा अरेऽयमात्मा अनु­च्छि­त्ति­धर्मा’(बृ.उ.४-५-१४) इति विना­श­व­च­न­स्या­भि­प्रायो वर्णितः । ‘अविनाशी’ इति विना­श­का­र­ण­शू­न्य­त्व­ल­क्षणं विना­शा­यो­ग्य­त्व­मु­च्यते । विपू­र्वा­न्न­शे­र्णि­ज­न्ता­त्प­चा­द्यचि ‘णेरनिटि’ इति णिलोपे सति विनाशशब्दो विनाशकारणवाची । एव­म­वि­ना­शि­श­ब्दस्य विना­श­का­र­ण­व­द्व्य­ति­रि­क्त­प­रत्वं बृहदारण्यक एव जन­क­या­ज्ञ­व­ल्क्य­सं­वा­देऽपि दृश्यते ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते अविनाशित्वात्’(बृ.उ.४-३-२३) इति । ‘अनु­च्छि­त्ति­धर्मा’ इत्यत्र धर्मशब्दः स्वभाववचनः , ‘धर्माः पुण्य­य­म­न्या­य­स्व­भा­वा­चा­र­सो­मपाः’ इति, ‘सहजं निजमाजानं धर्मः सर्गो निसर्गवत्’ इति च तस्य स्वभा­व­वा­चि­त्व­स्म­र­णात् । उच्छि­त्ति­र्वि­नाशो धर्मः स्वभावो यस्य सोय­मु­च्छि­त्ति­धर्मा, स न भव­ती­त्य­नु­च्छि­त्ति­धर्मा – स्वाभा­वि­क­वि­ना­श­र­हित इत्यर्थः । अनेन औपा­धि­क­वि­ना­शोऽस्य व्यपदेष्टुं शक्योऽस्तीति तदभिप्रायं प्राग्वि­ना­श­व­च­न­मि­त्युक्तं भवति ।

माध्यन्दिनपाठे तु ‘अनु­च्छि­त्ति­धर्मा’ इत्ये­त­द­न­न्त­र­मु­पा­धि­रपि विशिष्य दर्शितः ‘मात्राऽ­सं­स­र्ग­स्त्वस्य भवति’ इति । मात्रा – देहेन्द्रियादयः संसारदशायां जीवोपाधित्वेन स्थितास्तासां ब्रह्मविद्यया समूलं नाशा­न्मु­क्ति­काले ताभि­र­सं­स­र्गोऽस्य भवतीत्यर्थः । तथा च देहे­न्द्रि­या­दि­ना­शो­पा­धि­कोऽस्य नाशव्यपदेश इति भावः । ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति’(बृ.उ.४-५-१५) इत्यादिना ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत् तत्केन कं जिघ्रेत्’(बृ.उ.४-५-१५) इत्यादिना च संसा­र­द­शा­या­मे­वा­पा­र­मा­र्थि­क­भे­द­प्र­ति­भा­स­वत्यां कर्तृ­क­र­ण­क­र्म­क्रि­या­दि­भे­द­स­द्भा­व­व­द्रू­प­ग­न्ध­र­सा­दि­वि­शे­ष­वि­ज्ञा­न­मस्ति , मुक्तिदशायां तु सर्वस्य भेदप्रपञ्चस्य विद्यया प्रविलयेन कर्तृ­क­र­ण­क­र्म­क्रि­या­दि­भे­दा­भा­वात् तद्वि­शे­ष­वि­ज्ञानं नास्ती­त्युक्त्या संज्ञाऽभाववचनं विशे­ष­वि­ज्ञा­ना­भा­व­प­र­मिति तदभिप्रायो वर्णितः । एतेन – आश्मरथ्याभिमतं जीवस्य परमात्मनो भिन्ना­भि­न्न­त्व­मपि – निरस्तम् । ‘यत्र हि द्वैतमिव’ इतीवकारेण द्वैत­स्या­पा­र­मा­र्थि­क­त्व­द्यो­त­केन सर्वथैव भेदस्य निषिद्धत्वात् , ‘तत्केन कं पश्येत्’ इत्या­दि­भि­र्भि­न्न­व­स्तु­द­र्श­नस्य निषिद्धत्वाच्च ।

ये तु ब्रह्म­नि­य­म्य­त्व­र­हि­तस्य स्वतन्त्रस्य द्वैतस्य , तद्दर्शनस्य च निषेध एभिर्वाक्यैः क्रियते ; ब्रह्मनियम्यस्य द्वैतस्य श्रुति­वि­हि­त­त्वेन तस्य तद्दर्शनस्य च निषेधायोगादिति वदन्तो व्याचक्षते – ‘यस्यामवस्थायां द्वैतं ब्रह्मात्मकं स्वतन्त्रमिव भाति, तदानीं स्वतन्त्र इतरः स्वत­न्त्र­व­स्तु­द­र्श­न­सा­ध­नेन चक्षुरादिना स्वत­न्त्र­व­स्त्व­न्त­र­म­नु­भ­वति । यदा तु सर्वं ब्रह्मात्मकं प्रकाशते , तदा कश्चेतनः केन करणेन कं स्वत­न्त्र­म­र्थ­म­नु­भ­वेत्’ इत्यर्थः । मुक्तः सर्वं ब्रह्मा­त्म­क­त्वे­ना­नु­भ­व­तीति मुक्ति­द­शा­या­म­ब्र­ह्मा­त्म­क­त्वेन भासमानं वस्तु तद्दर्शनसाधनं तद्द्रष्टा च नास्तीति तात्पर्यम् – इति । तेषां व्याख्या­न­मे­ता­व­द­ध्या­हा­र­क्लेश एव निराकुर्यात् । अपि च षष्ठे जन­क­या­ज्ञ­व­ल्क्य­सं­वादे स्वप्नावस्थायां जीवस्य स्वयं­ज्यो­तिष्ट्वे सुषु­प्त्य­व­स्थायां तस्य बाह्या­न्त­र­वे­द­न­रा­हित्ये चोक्ते कथं ज्योतिः­स्व­रू­पस्य वेदनराहित्यमिति शङ्कायां विषयाभावान्न तु द्रष्टृ­स्व­रू­पाया दृष्टे­र्वि­प­रि­लो­पा­दि­त्ये­त­त्प्र­ति­पा­द­नार्थं प्रवृत्तेषु ‘यदद्वैतं न पश्यति पश्यन्वैतं न पश्यति । न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते अविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत्पश्येत्’(बृ.उ.४-३-२३) इत्यादिवाक्येषु श्रुतं द्वैतं ताव­त्स्वा­त­न्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ स्वतन्त्रस्येव परतन्त्रस्यापि द्वैतस्य प्रतीत्यभावात् । ततश्च तेषु श्रुतं द्वितीयमपि तेन विशेषयितुं न शक्यते ; द्वैत­मा­त्र­प्र­ती­त्य­भा­वस्य द्वैत­वि­शे­षा­भा­वे­नो­प­पा­द­यि­तु­म­श­क्य­त्वात् । एवं च तदनन्तरश्रुतेः ‘यत्र वान्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्ये­द­न्योऽ­न्य­ज्जि­घ्रे­द­न्योऽ­न्य­द्र­स­ये­द­न्यो­न्य­द्व­दे­द­न्योऽ­न्य­च्छृ­णु­या­द­न्योऽ­न्य­न्म­न्वी­ता­न्योऽ­न्य­त्स्पृ­शे­द­न्योऽ­न्य­द्वि­जा­नी­यात्’ इति वाक्ये अन्यदपि स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ यस्य विषयस्य व्यति­रे­का­त्प्र­ती­त्य­भाव उक्तस्तस्यैव स्वप्न­जा­गा­र­यो­र­न्व­या­त्प्र­ती­ते­र्व­क्तु­मु­प­क्रा­न्त­त्वात् ।

ननु स्वप्न­जा­ग­र­यो­स्सु­षुप्तौ च विष­य­प्र­ती­ति­त­द­भावौ कर­ण­व्या­पा­र­स­त्त्वा­स­त्त्वाभ्यां सूपपादौ , किमर्थं विष­य­स­त्त्वा­स­त्त्व­प्र­द­र्श­न­मिति चेत् , श्रुतिमुपालभस्व , या सुषुप्तौ कर­ण­व्या­पा­रा­णा­मिव दृश्या­व­घ्रे­य­र­स­नी­य­श्रो­त­व्य­म­न्त­व्य­स्प्र­ष्ट­व्य­ज्ञा­त­व्य­वि­ष­या­णा­म­प्य­भावं मन्यमाना विष­या­भा­वे­ना­प्यु­प­पा­द­यितुं शक्य­स्त­त्प्र­ती­त्य­भाव इत्यभिप्रेत्य ‘यद्वै तन्न पश्यति’ इत्या­दि­ष्व­ष्ट­स्वपि वाक्येषु द्रष्टु­र­न्य­त्वेन विभक्तं यद्द्रष्टोपलभेत तथाभूतं तस्य द्वितीयमेव नास्ती­त्यु­द्घु­ष्यति । ततश्च सुषु­प्त्य­व­स्था­वि­ष­ये­षू­दा­हृ­त­वा­क्येषु स्वात­न्त्र्य­वि­शे­ष­णा­भावे व्यवस्थिते मुक्त्य­व­स्था­वि­ष­ये­ष्वपि वाक्येषु तद्विशेषणं विव­क्षि­तु­म­यु­क्तम् ; उभयेषामपि वाक्या­ना­मे­क­प्र­का­रेण प्रवृत्तत्वात् । किञ्च तद्वि­शे­ष­ण­वि­व­क्षा­या­मपि नार्थ­स­ङ्ग­ति­र्ल­भ्यते ; मुक्तिदशायामपि ब्रह्मण एवा­ब्र­ह्मा­त्म­कस्य तद्दर्शनस्य च सत्त्वेन तयो­र्नि­षे­धा­यो­ग्य­त्वात् । तस्मात् ‘यत्र हि द्वैतम्’ इत्या­दि­वा­क्यानां सर्वात्मना द्वैतनिषेध एव तात्पर्यमिति युक्तम् ।

ननु नैतद्युक्तम् ; श्रुतिविहितस्य द्वैतस्य स्वरूपेण निषेधायोगादिति चेत् ; न । द्वैतस्य श्रुति­वि­हि­त­त्वा­सिद्धेः , केवलं प्रत्यक्षादिना सिद्धस्य तत्र तत्र प्रयो­ज­ना­न्त­रो­द्दे­शेन श्रुत्याऽ­नू­द्य­मा­न­त्वात् ।

तस्मात् ‘यत्र हि द्वैतम्’ इत्या­दि­वा­क्य­वि­रो­धा­ज्जी­वस्य परमात्मना न युक्तो भेदाभेदः । किञ्चायं भेदाभेदो मुक्ति­द­शा­या­म­पी­ष्यते ; उत तदानीं केवलाभेदः ? आद्ये ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’(बृ.उ.४-५-१५) इत्यवधारणेन ‘ब्रह्म वेद ब्रह्मैव भवति’(मु.उ.२-२-९) इति साव­धा­र­ण­श्रु­त्य­न्त­रेण च विरोधः । द्वितीये स्ववि­रो­ध्य­भे­द­ज्ञा­न­नि­व­र्त्यस्य; स्वाश्र­य­ग­ता­भे­द­का­ल­रू­प­मु­क्ति­का­ला­नु­वृ­त्ता­त्य­न्ता­भा­व­प्र­ति­यो­गि­नश्च संसारदशायां प्रतीतस्य भेदस्य मिथ्या­त्व­मे­वा­प­त­ती­त्येषा दिक् ।

एवं संसारदशायां जीवपरयोः केवलं भेदः , मुक्तौ केवलमभेद इति पक्षोऽप्ययुक्तः ; पति­जा­या­दि­प्रि­य­सं­सू­चि­तस्य जीवात्मन एव द्रष्ट­व्य­त्वो­क्ति­पू­र्वकं तद्विज्ञानेन सर्वविज्ञानस्य सर्वकारणत्वस्य च ब्रह्मलिङ्गस्य वर्णनेन संसा­र­द­शा­या­म­प्य­भे­द­प्र­तीतेः । भवि­ष्य­न्त­म­भे­द­म­पेक्ष्य भेद­का­लेऽ­प्य­भे­द­व्य­प­देश इति तु न युक्तम् ; ‘तत्त्वमसि’(छा.उ.६-१४-३) ‘अथ योऽन्यां देवतामुपास्ते अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथापशुरेवं स देवानाम्’(बृ.उ.१-४-१०) ‘त्वं स्त्री त्वं पुमानसि’(श्वे ४-३) इत्या­दि­श्रु­त्य­न्त­रा­नु­सा­रे­णास्या अपि श्रुतेः संसा­र­द­शा­सा­धा­र­णा­भे­द­वि­ष­य­त्वौ­चि­त्यात् । किञ्च मुक्तौ भेदस्य निवृत्तिः किं जीव­ब्र­ह्मा­भे­द­ज्ञा­ने­ने­ष्यते, उत जीवज्ञानेन , अथवा ब्रह्मज्ञानेन ? आद्ये प्रागपि सत्त्व­म­भे­द­स्या­का­मे­नापि स्वीकरणीयम् ; भवि­ष्य­द­भे­द­स्या­प­रो­क्ष­ज्ञा­न­वि­ष­य­त्वा­यो­गात् । ततश्च पूर्वो­क्त­प्र­का­रेण मिथ्या­त्व­म­प्य­ङ्गी­क­र­णी­यम् । द्वितीये किं कर्तृ­त्वा­दि­वि­शि­ष्ट­जी­व­ज्ञा­ना­द्भे­द­नि­वृत्तिः , उत अक­र्त्र­भो­क्तृ­जी­व­ज्ञा­नात् ? आद्ये सांसा­रि­का­द­हं­प्र­त्य­या­दपि भेद­नि­वृ­त्ति­प्र­सङ्गः । द्वितीये कर्तृ­त्वा­दि­रा­हि­त्यस्य प्रागपि सत्त्व­म­ङ्गी­क­र­णी­य­मिति कर्तृ­त्वा­दे­र्भे­द­कस्य, तत्प्र­यु­क्त­भे­दस्य च मिथ्यात्वमेव पर्यवस्यति । तृतीये पति­जा­या­दि­प्रि­य­सं­सू­चि­तस्य जीवस्य द्रष्ट­व्य­त्वो­क्ति­वि­रोधः । एवमन्यदपि सार्व­दि­क­भे­दा­भे­द­पक्षे काल­भे­द­व्य­व­स्थि­त­भे­दा­भे­द­पक्षे च दूषणं द्वितीयाध्याये प्रपञ्चयिष्यते । नदीसमुद्रयोरपि पूर्वं भिन्नयोः पश्चादभेदो नास्तीति दर्शयिष्यते । तस्मात् काश­कृ­त्स्नी­य­स्सा­र्व­दि­का­त्य­न्ता­भे­द­पक्ष एव सक­ल­श्रु­ति­स्मृ­ति­न्या­या­नु­गु­ण्यात् सूत्र­का­र­स्या­भि­मतः ।

न चात्य­न्ता­भे­द­पक्षे भेदापेक्ष उद्दे­श्य­वि­धे­य­भावो न स्यादिति वाच्यम् । भेदो हि न वाक्या­र्थ­त­याऽ­पे­क्ष्यते , नापि वाक्या­र्थ­ज्ञा­न­का­र­ण­तया, किन्तु यस्य वाक्यस्यार्थः संसर्गो भेदनियतस्तत्र तद्व्यापकतया परमवतिष्ठते । यत्र तु प्रमेयत्वे प्रमेयत्वं , प्रमेयत्वं प्रमेयत्ववदिति प्रमेयत्वस्य स्वेन सहा­भे­देऽ­प्या­धा­रा­धे­य­भावो विशे­ष­ण­वि­शे­ष्य­भावो वा संसर्गो वाक्यार्थः , न तत्र कथञ्चिदपि भेदापेक्षा । एवञ्च तत्त्व­म­स्या­दि­वा­क्येषु जीवब्रह्मणोरभेद एव वाक्यार्थः , न तु ‘दण्डी देवदत्तः’ इत्यादाविव पदा­र्थ­द्व­य­सं­सर्गः, एक­प­दा­र्थ­वि­शि­ष्टोऽ­प­र­प­दार्थो वा वाक्यार्थः , ‘तत्त्वंपदार्थौ निर्णीतौ वाक्या­र्थ­श्चि­न्त्य­तेऽ­धुना । तादात्म्यमत्र वाक्या­र्थ­स्त­यो­रेव पदार्थयोः । संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः’ इत्या­चा­र्य­व­च­ना­दि­त्यत्र को भेदा­पे­क्षा­श­ङ्काऽ­व­काशः । यदि तु अप­र्या­य­श­ब्दा­ना­मे­क­प्रा­ति­प­दि­का­र्थ­नि­ष्ठत्वं वेदा­न्ता­ना­म­ख­ण्डा­र्थ­त्व­मिति लक्षणानुसारेण जीव­ब्र­ह्म­णो­र्नो­द्दे­श्य­वि­धे­य­भावः ; किन्तु प्राति­प­दि­का­र्थ­स्व­रू­प­मात्रं महावाक्यानामर्थ इतीष्यते, तदा सुतरां न भेदा­पे­क्षा­श­ङ्काऽ­व­काशः ।

केचित्तु ‘अवस्थितेरिति काशकृत्स्नः’(ब्र.सू.१-४-२२) इति सूत्र­स्थ­स्या­व­स्थि­ते­रिति पदस्य ‘य आत्मनि तिष्ठन्’ इत्या­दि­श्रु­त्यु­क्तायां जीवात्मनि परमात्मनः स्थितौ स्वारस्यं मन्यमानाः परिदृश्यमाने शरीरे जीवात्मन इव जीवात्मनि परमात्मन आत्म­त­याऽ­व­स्थितेः जीवशब्देन पर­मा­त्मा­भि­धा­न­मु­प­प­न्न­मिति सूत्रार्थं वर्णयन्ति । अत्र विपरीतमपि वक्तुं शक्यम् – अस्मिन्नर्थे ‘अवस्थितेः’ इति पदस्य स्वारस्यं नास्तीति । तदा हि ‘स्थितेः’ इत्येव सूत्रणीयं ‘य आत्मनि तिष्ठन्’ इति मूल­श्रु­त्य­नु­रो­धा­ल्ला­घ­वाच्च ‘स्थाना­दि­व्य­प­दे­शात्’ इति अवो­प­स­र्गा­भा­वाच्च । तस्मा­दि­हा­वो­प­स­र्ग­स­त्त्वा­त्त­तोन्य एव कश्चिदर्थो विवक्षितः परमात्मन एव जीवा­त्म­भा­वे­ना­व­स्था­ना­दि­त्ये­वं­रूपः ‘सर्वं तं परादात्’ ‘इदं सर्वं यदयमात्मा’ ‘यत्र हि द्वैतमिव भवति’ ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’ इति स्वप्रकरण एव भेद­द­र्श­न­नि­न्दा­द्यु­प­ल­म्भा­दिति अयमेव पारमार्थिकोऽस्य सूत्रस्यार्थः ।

यदि ह्यस्मिन् प्रकरणे श्रूय­मा­णा­न्यु­दा­हृ­तानि वाक्या­न्य­द्वै­त­प्र­व­णा­न­न्यांश्च श्रुति­स्मृ­ति­प्र­वा­दा­न­वि­ग­णय्य जीवपरयोर्भेद एव पक्षपाती सूत्र­का­रोऽ­भ­वि­ष्य­त्तदा अस्मिन्प्रकरणे जीव­श­ब्दै­र्ब्र­ह्मा­भि­धानं सिद्धं कृत्वा तदु­प­पा­द­ना­र्थ­मित्थं यत्नं नाकरिष्यत् । शक्यते हि तयो­र्भे­द­स्या­भि­म­तत्वे तैर्जी­वा­भि­धा­न­म­ङ्गी­कृत्य प्रकरणं सङ्गमयितुम् । तथा हि – यस्मा­त्प­ति­जा­या­दयः पति­जा­या­दि­प्र­यो­ज­नाय प्रिया न भवन्ति , किन्तु स्वप्रयोजनायैव तस्माद्यस्य स्वप्रयोजनस्य पतिजायादिविषयो रागः प्रति­कू­ल­स्त­स्या­मृ­तस्य सिद्ध्यर्थं पतिजायादिभ्यो विरज्य परमात्मैव द्रष्टव्य इत्यु­प­क्र­म­स्ता­व­त्स­ङ्ग­म­यितुं शक्यः । अस्मिन्पक्षे द्रष्ट­व्य­वा­क्य­ग­ता­त्म­श­ब्दस्य प्रकृ­ता­त्म­प­रत्वं नास्तीति तत्स्व­र­स­हा­नि­मा­त्र­मस्ति । तत्तु जीव­ब्र­ह्म­णो­र्भेदे निश्चिते पति­जा­या­दि­वा­क्यस्य लिङ्गा­ज्जी­व­प­रत्वे द्रष्ट­व्य­वा­क्यस्य ‘नान्यः पंथाः’ इति श्रुतेः परमात्मपरत्वे चावश्यवक्तव्ये सति ‘स्याच्चैकस्य ब्रह्मशब्दवत्’ इति न्यायेनापि तत्सोढव्यमिति वक्तुं शक्यम् । एता­व­द­द्वै­त­श्रु­ति­स्मृ­ति­जा­ल­म­हा­प्रा­सा­द­नि­ग­र­ण­प्र­वृ­त्तस्य किमे­का­त्म­श­ब्द­स्व­र­स­नि­ग­र­ण­म­श­क्यम् ।

एवं मध्ये सैन्ध­व­घ­न­दृ­ष्टा­न्त­मा­रभ्य जीवो­त्प­त्ति­वि­ना­श­व­चनं तद्वि­ना­श­व­च­ना­भि­प्रा­य­व­र्ण­नञ्च पर­मा­त्म­प्र­मि­त्य­र्थ­तया सङ्गमयितुं शक्यम् । तत्र ‘अयमात्मा’ इति शब्दस्य ‘इदं महद्भूतम्’ इति इदंशब्दस्य च व्यव­हि­त­प्र­कृ­त­जी­व­प­रा­म­र्शित्वं ‘महद्भूतम्’ इत्यादेश्च मुक्तिभाक्त्वेन जीवस्य पार­मा­र्थि­क­त्वात् ‘नित्य­स्स­र्व­ग­त­स्स्थाणुः’ इति श्रवणाच्च तद्विषयत्वं वक्तुं शक्यम् । एवं जीवे, परमात्मनि च प्राक् प्रस्तु­तेऽ­ङ्गी­कृते ‘येनेदं सर्वं विजानाति तं केन विजानीयात्’ इत्यु­प­सं­हा­र­वाक्यं ‘येन’ इति तृतीयान्तस्य परामर्शनीयं परमात्मानं विजानातेः कर्तारं जीवञ्चासाद्य समञ्जसं भवति । जीवस्य ब्रह्माभेदेन प्रस्तु­त­त्वा­ङ्गी­कारे तु ‘येन’ इति तृतीया प्रथमार्थे योजनीयेति क्लेशस्स्यात् । ‘ग्राह­का­दि­ज­ग­त्सर्वं येन कूटस्थसाक्षिणा । लोकस्सर्वो विजानाति जानीयात् केन तं वद’ इति वार्ति­को­क्त­प्र­का­रेण वा ब्रह्माभिन्नतया प्रस्तुत एव जीवो निष्कृष्य साक्षिरूपतया ‘येन’ इति परामृश्यते । अन्तः­क­र­णा­दि­वि­शि­ष्ट­रू­पेण तु विजानतेः कर्ता भवतीति क्लेशेन योजनीयम् । ‘विज्ञातारम्’ इत्येतत्तु परमात्मन्यपि योजयितुं शक्यम् ; बहु­प्र­यो­ग­द­र्स­नात् । एवमादौ मध्ये च जीवरामर्शस्य जीव­वि­ष­य­त्व­म­ङ्गी­कृ­त्यैव भेदपक्षे तदुपपादनस्य कर्तुं शक्यत्वेऽपि तस्य ब्रह्मविषयत्वं सिद्धं कृत्वा यत्तदुपपादनाय यत्नमस्थितवान् सूत्रकारः तेन ज्ञायते जीवपरयोरभेद एवास्य सिद्धान्तः । ‘येनेदं सर्वं विजानाति’ इत्यस्य योजनाक्लेशोऽपि अद्वै­त­प्र­स्ता­वा­नु­रो­धा­र्थ­त्वान्न दोषायेत्याशय इति ।

ननु मोक्षधर्मे जन­क­या­ज्ञ­व­ल्क्य­सं­वादे ‘पश्य­न्त­थै­वा­प­श्यञ्च पश्य­त्य­न्य­स्त­थाऽ­नघ । षड्विंशः पञ्चविंशञ्च चतुर्विशञ्च पश्यति’ इति चतु­र्विं­श­प­ञ्च­विं­श­त­त्त्व­रू­प­यो­र्ज­ड­चे­त­न­तया पर­स्प­र­वि­ल­क्ष­णयोः प्रकृ­ति­पु­रु­ष­यो­र्द्र­ष्टारं पर­मा­त्मा­न­मु­प­क्रम्य ‘यदा तु मन्य­तेऽ­न्योऽ­ह­मन्य एष इति द्विज । तदा स केव­ली­भू­त­ष्ष­ड्विं­श­म­नु­प­श्यति’ इति प्रकृ­ति­पु­रु­ष­वि­वे­क­ज्ञा­ना­न­न्तरं जीव­वि­ल­क्ष­ण­प­र­मा­त्म­ज्ञा­न­मुक्त्वा ‘अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः । तत्स्थ­त्वा­द­नु­प­श्यन्ति एक एवेति साधवः’ इति परमात्मनो जीव­स्थ­त्व­नि­ब­न्धन ऐक्यव्यवहार इति प्रदर्श्य ‘तेनैतं नाभिजानन्ति पञ्च­विं­श­क­म­च्यु­तम्’ इति जीवस्थत्वादेव हेतोर्जीवस्य पर­मा­त्म­न­श्चा­च्यु­त­श­ब्द­वा­च्यस्य स्वरूपैक्यं साधवो न पश्य­न्ती­त्यु­प­न्यस्य ‘जन्म­मृ­त्यु­भ­या­द्भी­ता­स्साङ्ख्या योगाश्च काश्यप । षड्विं­श­म­नु­प­श्यन्ति शुच­य­स्त­त्प­रा­यणाः । यदा सार्वा­र्थ­सि­द्ध­त्वान्न पुनर्जन्म विन्दति’ इति प्राज्ञानां पञ्च­विं­श­वि­ल­क्ष­ण­ष­ड्विं­श­द­र्शनं तद्व­त­स्त­तोऽ­प­व­र्ग­ञ्चो­प­दिश्य ‘एव­म­प्र­ति­बु­द्धश्च बुध्यमानश्च तेऽनघ । अर्थश्चोक्तो यथातत्त्वं यथा­श्रु­ति­नि­द­र्श­नात्’ इति प्रकृ­ति­पु­रु­ष­प­र­मा­त्मानः पर­स्प­र­वै­ल­क्ष­ण्येन निरूपिता इत्युपसंहृतम् । एवं सूत्रकारेणैव प्रबन्धान्तरे तत्स्थ­त्व­नि­ब­न्धन एकत्वव्यवहार इति समर्थिते कथमवस्थितेरिति सूत्रस्य स एवार्थो न स्यात् । कथञ्चास्य सूर्य­प्र­सा­दा­द­वा­प्त­य­जु­र्वे­देन शत­प­थ­ब्रा­ह्म­ण­प्र­व­र्त­के­ना­त्रापि जन­क­या­ज्ञ­व­ल्क्य­सं­वादे ‘यथार्षेणेह विधिना चरतावमतेन ह । मयाऽऽ­दि­त्या­द­वा­प्तानि यजूंषि मिथिलाऽधिप । कर्तुं शतपथं वेदमपूर्वं काङ्क्षितञ्च मे’ इत्या­दि­व­च­नै­स्स्व­य­मेव तमर्थं वर्णितवता च याज्ञवल्क्येन प्रतिपाद्यमानः ‘तत्स्थ­त्वा­द­नु­प­श्यन्ति’ इत्ययमर्थः शतपथान्तर्गतस्य याज्ञ­व­ल्क्य­व­क्तृ­कस्य च मैत्रे­यी­ब्रा­ह्म­णस्य तात्पर्यगोचरो न स्यादिति चेत् -

उच्यते – जन­क­या­ज्ञ­व­ल्क्य­सं­वा­दोऽयं प्रकृ­ति­वि­वि­क्त­जी­व­या­था­त्म्य­नि­रू­पणे पर्यवसितः , न तु तदु­भ­या­ति­रि­क्त­प­र­मा­त्म­स्व­रू­प­नि­रू­प­णेऽपि तात्पर्यवान् । तथा हि – उपक्रमे तावत् ‘किमव्यक्तं परं ब्रह्म तस्मात्तु परतस्तु किम्’ इत्य­व्य­क्त­श­ब्दि­ताया ‘मम योनि­र्म­ह­द्ब्रह्म’ इति प्रसि­द्धा­या­श्च­तु­र्विं­श­त­त्त्व­रू­पायाः प्रकृतेस्ततः परस्य पञ्च­विं­श­त­त्त्व­रू­पस्य च प्रश्नवत्ततः परमात्मनः प्रश्नो न दृश्यते । उत्त­र­वा­क्य­स­न्दर्भे च प्रकृ­ति­का­र्य­दे­ह­द्व­य­ता­दा­त्म्या­ध्या­सेन तत्स­म्पि­ण्डि­त­रू­पस्य पुरुषस्यैव ‘अन्यस्स पुरु­षोऽ­व्य­क्ता­द­ध्रु­वा­द्ध्रु­व­सं­ज्ञकः । यथा मुञ्ज इषी­का­या­स्त­थै­वै­त­द्वि­जा­यते’ इति मुञ्जे­षी­का­न्या­येन तद्विविक्ततया ग्राह्य­त्व­मु­प­दि­श्यते । तदनन्तरं च ‘अन्यं तु मशकं विद्यादन्यं चोदुम्बरं तथा । न चोदुम्बरसंयोगे मशकस्तत्र लिप्यते’ इत्यादिना उदु­म्ब­र­ज­लो­खा­स­लि­लानां दोषसंयोगेन तेषु स्थितानां मश­क­म­त्स्या­न­ल­क­म­ला­ना­मिव जीवो­पा­धे­र्दे­ह­द्व­यस्य दोषसंयोगेन तत्स्थस्य पुरुषस्य लेपाभावः प्रतिपाद्यते । पुनश्च ‘अव्यक्तस्थं परं ब्रह्म यत्त­त्पृ­ष्ट­स्तेऽहं(यत्पृष्टोऽहं) नराधिप । परं गुह्यमिमं प्रश्नं श्रुणुष्वावहितो नृप’ इत्युपक्रम्य तत्र च गन्धर्वराजस्य विश्वा­व­सो­र्या­ज्ञ­व­ल्क्यस्य चास्मिन् विषये प्राक् प्रवृत्तां प्रश्नो­त्त­र­प­र­म्प­रा­मु­प­क्षिप्य तन्मध्ये प्रकृ­ति­पु­रु­ष­यो­र्वि­श्वा­वि­श्व­ज्ञा­ज्ञ­वि­द्याऽ­वि­द्या­दि­रू­पेण बहुशो वैलक्षण्यं प्रतिपाद्य ‘द्रष्टव्यौ नित्यमेवैतौ तत्प­रे­णा­न्त­रा­त्मना । अथास्य जन्मनिधने न भवेतां पुनः पुनः’ इति तयोः पर­स्प­र­वि­ल­क्ष­ण­तया दर्शनं मुक्तिफलकं विधाय कथं तद्दर्शनं मुक्तिफलकं ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिना श्रुतिषु ब्रह्म­सा­क्षा­त्का­रस्य मुक्ति­फ­ल­क­त्व­प्र­सि­द्धे­रि­त्या­कां­क्षायां ‘यदा तु पश्यतेऽन्यं तमहन्यहनि केवलम् । तदा स केवलीभूतं षड्विं­श­म­नु­प­श्यति’ इति श्लोकेन प्रकृ­ति­वि­वि­क्त­मत एव तद्ध­र्म­क­र्तृ­त्वा­दि­र­हि­त­तया केवलं जीवं दिने दिनेऽ­नु­स­न्द­धा­न­स्त­मेव केवलीभूतं षड्विंशं परं ब्रह्म पश्यति , न तु तद्व्य­ति­रि­क्त­ब्र­ह्म­सा­क्षा­त्का­रा­पे­क्षाऽ­स्ती­त्यु­प­दिश्य कथं जीवः कर्तृ­त्वा­दि­र­हितः केवलः ; तस्य स्वाभा­वि­क­क­र्तृ­त्वा­दि­म­त्तया तान्त्रिकैरपि कैश्चि­द­ङ्गी­कृ­त­त्वात् इत्या­श­ङ्का­नि­रा­सा­र्थम् ‘अन्यच्च शश्वदव्यक्तं तथाऽन्यः पञ्चविंशकः । तत्स्थं समनुपश्यन्ति तमेक इति साधवः’ इति श्लोकेन वस्तुतः कर्तृ­त्वा­दि­म­द­न्तः­क­र­ण­रू­पा­प­न्ना­द­व्य­क्ता­दन्य एव जीवः, स तु तत्स्थ­त्वो­पा­धिना जपा­कु­सु­म­स­न्नि­धा­नो­पा­धिना स्फटिको लोहितात्मनेव कर्त्रात्मना लोके भासत इति तमेव लोकानुभवं श्रद्धधानाः केचन साधवो लोका­नु­भ­व­प्र­व­ण­बु­द्ध­यस्तं जीवं कर्तृ­त्वा­दि­म­द­व्य­क्ता­भिन्नं पश्य­न्ती­त्युक्त्वा ‘तेनै­त­न्ना­भि­जा­नन्ति पञ्च­विं­श­क­म­च्यु­तम् । जन्म­मृ­त्यु­भ­या­द्यो­गा­स्सा­ङ्ख्याश्च परमर्षयः’ इति श्लोकेन साङ्ख्या योगाश्च पर­म­र्ष­य­स्त्व­व्य­क्त­पु­रु­षयोः पर­स्प­र­भि­न्न­त्व­हे­तुना पञ्चविंशं पुरुषमच्युतं वस्तुतः परमात्मभूतमेतं नाभिजानन्ति , कर्तृ­त्वा­दि­म­द­व्य­क्ता­त्मना न पश्य­न्ती­त्यु­प­दि­श्यते । ततश्च कथं जीवस्य लोका­नु­भ­व­सि­द्ध­क­र्तृ­त्वा­दि­रा­हित्यं कथञ्च तद­सि­द्ध­प­र­मा­त्म­रू­प­त्व­मि­त्य­भि­प्रा­य­वता विश्वावसुना ‘पञ्चविंशे यदेतच्च प्रोक्तं ब्राह्मणसत्तम । तदहं न तथा वेद्मि तद्भ­वा­न्व­क्तु­म­र्हति’ इत्यारभ्य पञ्चविंशस्यैव स्वरूपे पृष्टे सति तत्रोत्तरं याज्ञवल्क्येन ‘पश्यं तथैवापश्यञ्च’ इत्या­र­भ्यो­प­दि­ष्टम् । तत्कथं पञ्च­विं­श­वि­ल­क्ष­ण­प­र­मा­त्म­प्र­ति­पा­द­न­परं स्यात् ? तस्मात् प्रकृतिं तदुपहितं पुरुषञ्च निष्कृ­ष्ट­सा­क्षि­रू­प­तया ततोऽन्यो वस्तु­त­स्त­त्स्व­रू­प­भूत एव षड्विंशः पश्यतीत्यर्थो ग्राह्यः ।

पुनश्च जीवस्य कर्तृ­त्वा­दि­म­त्त्व­भ्रा­न्ति­वा­र­णा­यैव ‘पञ्च­विं­शोऽ­भि­म­न्येत नान्योऽस्ति परमो मम । न चतुर्विंशको ग्राह्यो मनु­जै­र्ज्ञा­न­द­र्शिभिः’ इति श्लोके­ना­ध्या­सिकं कर्तृ­त्वा­दि­म­च्च­तु­र्विं­श­ता­दात्म्यं स्वस्य स्वाभाविकं मन्यमानस्सन् मम परमः कर्तृ­त्वा­दि­स­क­ल­सां­सा­रि­क­ध­र्म­नि­र्वा­ह­क­त­यो­त्कृष्टो मदन्यो नास्ती­त्य­भि­म­न्यते पञ्चविंशः ; वस्तुतो न तथा ; ज्ञान­द­र्शि­भि­र्म­नु­जैस्तु स्वात्मा चतुर्विंशैक्येन न ग्राह्य इत्युक्त्वा ‘स निमज्जति कालास्ये यदेकत्वेन बुध्यते । उन्मज्जति च काला­स्या­न्म­म­त्वे­ना­भि­सं­वृतः’ इति श्लोकेन चतुर्विंशे स्वात्मै­क­त्व­बुद्धेः संसारदोषावहत्वं तत्र स्वव्य­ति­रि­क्त­तया स्वात्मी­य­त्व­बु­द्धे­र्मु­क्ति­हे­तु­त्व­ञ्चो­प­दिश्य तदनन्तरं पठितो ‘यदा तु मन्य­तेऽ­न्योऽ­हम्’ इति श्लोकः प्राक् पठितेन ‘यदा तु मन्य­तेऽ­न्योऽ­हम्’ इति श्लोकेन समानार्थो ग्राह्यः । ‘अन्यच्च राजन् स परः’ इति श्लोकस्तु ‘अन्यच्च शश्वदव्यक्तम्’ इति श्लोकेन समानार्थः । तत्र परशब्दः परमात्मपर इति न भ्रमितव्यं ‘महतः परमव्यक्तम्’ इति श्रुत्यन्तरे जीवा­त्प­र­त्वे­ना­व्य­क्तस्य प्रतिपादनात् , इहापि ‘नान्योऽस्ति परमो मम’ इति पर­म­श­ब्द­स्या­व्यक्ते प्रयोगाच्च । ‘तेनैतं नाभिजानन्ति’ इति श्लोकोऽपि तेनैव प्राक् पठितेन समानार्थः । ‘एव­म­प्र­ति­बु­द्धश्च’ इत्यु­प­सं­हा­र­श्लोके बुध्य­मा­न­श्च­तु­र्विं­शै­क्या­भि­मानी संसारे निमग्नः ; बुद्धः चतु­र्विं­शा­ति­रिक्तं परमात्मस्वरूपं पञ्च­विं­श­म­व­ग­च्छन् संसारादुन्मग्नः ; ‘निस्सन्दिग्धं प्रबुद्धस्त्वं बुद्ध्य­मा­न­श्च­रा­चर’ इति पूर्वं याज्ञवल्क्यं प्रति विश्वा­व­सु­व­च­न­द­र्श­नात् । तस्मात् ‘अन्यश्च स परो राजन्’ इति श्लोकस्य पूर्वा­प­र­प­रा­म­र्श­वि­क­लै­रु­त्प्रे­क्षि­तोऽ­र्थोऽ­ग्राह्य इत्य­व­स्थि­ति­सू­त्रस्य जन­क­या­ज्ञ­व­ल्क्य­सं­वा­द­स्वा­र­स्या­दपि यथोक्त एवार्थः । तदेवं मैत्रे­यी­ब्रा­ह्म­णस्य जीवपरामर्शिनोपि ब्रह्म­प­र्य­व­स­न्न­त्वा­न्नास्ति प्रति­ज्ञा­त­स­म­न्व­य­वि­रोध इति सिद्धम् ॥१-४-२२॥

इति वाक्या­न्व­या­धि­क­र­णम् ॥६॥

प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात् ॥२३॥

२३

जन्मादिसूत्रे जग­न्नि­मि­त्तो­पा­दा­न­रू­पो­भ­य­वि­ध­का­र­णत्वं लक्ष­ण­त्वे­नोक्त्वा तदुपलक्षिते निष्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयः प्रसाधितः । इदानीं ब्रह्मणो निमित्तत्वमेव न तु उपादानत्वम् । उपादानं तु जगतः साङ्ख्याभिमतं प्रधा­न­म­भ्यु­प­ग­न्त­व्यम् । ततश्च नोक्तरूपं ब्रह्मणो लक्षणं युक्तं , न वा तदुपलक्षिते निष्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयो युक्तः इत्याक्षिप्य समाधीयते ।

तथा हि – ईक्षा­पू­र्व­क­स्र­ष्टृ­त्व­श्र­व­णात् निमित्तत्वं ताव­द­भ्यु­प­ग­न्त­व्यम् । लोके घटपटादिषु निमित्तानां कुला­ल­कु­वि­न्दा­दीनां तदुपादानत्वं न दृष्टम् , क्वचिदपि चेतनानां द्रव्यो­पा­दा­नत्वं न दृष्टम् , तद्वदिहापि भवितुमर्हति ।

ननु कुलालादीनां घटा­द्यु­पा­दा­न­त्व­ग्रा­ह­क­प्र­मा­णा­भा­वात् तत्र तथा भवतु नाम । इह तु जग­न्नि­मि­त्त­स्यैव सतः पर­ब्र­ह्म­ण­स्त­दु­पा­दा­न­त्व­म­प्या­वे­द­यन्ति सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­दयः । तथा हि – छान्दोग्ये तावत् ‘स्तब्धोऽस्युत तमा­दे­श­म­प्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा.उ.६-१-१) इत्येकेन ब्रह्मणा विज्ञातेन सर्व­म­न्य­द­वि­ज्ञा­त­मपि विज्ञातं भवतीति प्रतिज्ञायते । ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वा­चा­र­म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वा­चा­र­म्भणं विकारो नामधेयं लोहमित्येव सत्यम् । यथा सोम्यैकेन नखकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’(छा.उ.६-१-४) इति तत्र दृष्टान्ता अप्युपादीयन्ते ।

एवं बृहदारण्यकेऽपि ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्’(बृ.उ.४-५-६) इति सर्व­वि­ज्ञा­न­प्र­तिज्ञा ‘स यथा दुन्दु­भे­र्ह­न्य­मा­नस्य’(बृ.उ.४-५-८) इत्या­दि­दृ­ष्टा­न्त­व­र्णनं च दृश्यते । मुण्डकेऽपि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु.उ.१-१-३) इति तत्प्रतिज्ञा ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु.उ.१-१-७) इति दृष्टा­न्तो­प­न्या­सश्च दृश्यते । तथा ‘तदैक्षत बहु स्यां प्रजायेय’ इति ईक्षितुरेव बहुभवनाभिधानात् । ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’(छा.उ.१-९-१) इत्युत्पादकस्य सतः प्रल­या­धा­र­त्व­स्यापि प्रतिपादनात् ‘तदात्मानं स्वयमकुरुत’(तै.उ.२-७) इति कर्तुः सतः कर्मत्वस्यापि वर्णनात् ‘सच्च त्यच्चाभवत्’ इति ब्रह्मण एव विकारात्मना परिणामोपदेशात् ‘यद्भूतयोनिं परिपश्यन्ति धीराः’(मु.उ.१-१-६) इति ब्रह्मणि उपा­दा­न­वा­च­क­यो­नि­श­ब्द­श्र­व­णाच्च ब्रह्म उपा­दा­न­मि­त्य­व­सी­यते । एवं सत्यपि निमित्तस्यैव उपा­दा­न­त्व­ग्रा­ह­क­प्र­माणे , लोके तन्न दृष्टमिति निमि­त्तो­पा­दा­न­यो­र्भेद एव दृष्टः इति च तत्परित्यागे , लोके कति­प­य­का­र्य­कर्तुः कार्या­न्त­रा­क­र्तृ­त्व­द­र्श­नात् ‘इदं सर्वमसृजत’ इत्या­दि­श्रु­ति­प्र­ति­पन्नं ब्रह्मणः सर्वकर्तृत्वमपि परित्यज्येत । ततः श्रुति­प्र­ति­प­न्न­त्वा­वि­शे­षात् अलोकदृष्टं सर्वकर्तृत्वमिव ब्रह्मणः सर्वो­पा­दा­न­त्व­मपि अङ्गीकरणीयम् – इति चेत् –

उच्यते – छान्दोग्ये तावत् सर्व­वि­ज्ञा­न­प्र­तिज्ञा सह दृष्टा­न्त­व­च­नै­र्गौणी । ब्रह्मज्ञानेन वियदादेः सर्वस्य मृत्पि­ण्ड­लो­ह­म­णि­न­ख­नि­कृ­न्त­न­ज्ञा­नै­र्घ­ट­श­रा­व­क­ट­क­म­कु­ट­ख­नि­त्र­कु­द्दा­ला­दीनां च तज्ज्ञा­ना­न­न्त­र­मपि संश­य­वि­ष­य­त्वे­ना­नु­भू­य­मा­नानां मुख्यवृत्त्या ज्ञात­त्वा­स­म्भ­वात् । प्रतिज्ञावाक्ये ‘अश्रु­त­म­म­त­म­वि­ज्ञा­तम्’ इति ब्रह्म­श्र­व­णा­दिषु सत्स्वपि अश्रु­त­त्वा­द्यु­प­न्या­सेन दृष्टा­न्त­वा­क्येषु घट­क­ट­क­कु­द्दा­ला­दि­वत् मृल्लो­हा­यः­का­र्य­वि­शे­ष­तया घटा­द्य­नु­पा­दा­नानां मृत्पि­ण्ड­लो­ह­म­णि­न­ख­नि­कृ­न्त­नानां ज्ञानेन घटादीनां ज्ञात­त्वो­प­न्या­सेन च तदमुख्यत्वस्य श्रुत्यैव स्फुटीकरणाच्च । तस्मात् अन्य­वि­ष­य­ज्ञा­नै­र्यत् फलं प्राप्तव्यं तत् सर्वं निर­ति­श­या­न­न्द­रू­प­ब्र­ह्म­ज्ञा­नेन प्राप्यते इति फलतस्तज्ज्ञानेन अज्ञातान्यपि ज्ञातानि भवन्तीति गौणं तेषां ज्ञातत्वं प्रतिज्ञायते ; यथा ‘अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वेऽपि दृष्टा भवन्ति’ इति अदृष्टानामेव फलतो दृष्टत्वं व्यवह्रियते । दृष्टा­न्त­व­च­नैश्च मृल्लो­हा­दि­ज्ञा­नै­र­ज्ञाता अपि घटादयो मृद्रू­प­त्वा­दि­सा­दृ­श्येन ज्ञातप्रायाः इति गौणमेव ज्ञातत्वं दृष्टान्ततया उपन्यस्यते । यथा ‘एतेन गवादयोऽपि व्याख्याताः’ इति ज्योति­ष्टो­म­व्या­ख्या­नेन अव्या­ख्या­ता­ना­मपि गवादीनां तद्विकृतितया तत्सदृशानां व्याख्यातत्वं व्यवह्रियते । एतेन – मुण्ड­क­बृ­ह­दा­र­ण्य­क­यो­रपि सर्व­वि­ज्ञा­न­प्र­तिज्ञा – व्याख्याता । दुन्दु­भ्यू­र्ण­ना­भि­दृ­ष्टान्ता न सर्व­वि­ज्ञा­नो­प­पा­दकाः ; एकेन दुन्दु­भि­श­ब्द­सा­मा­न्य­ज्ञा­ना­दिना याव­त्त­द्वि­शे­षा­दी­ना­म­गृ­ह्य­मा­ण­त्वात् । नापि निमि­त्तो­पा­दा­नै­क्यो­प­पा­दकाः ; शब्दसामान्यस्य शब्दविशेषान् प्रत्य­नु­पा­दा­न­त्वा­द­नि­मि­त्त­त्वाच्च । ऊर्णनाभिदेहः तन्तुषूपादानं जीवो निमित्त इति तत्र निमि­त्तो­पा­दा­न­भे­दात् । केशलोमस्वपि जडोपादानकेषु चेतनस्य निमि­त्त­मा­त्र­त्वात्, पृथि­व्या­श्चौ­षधीः प्रति निमि­त्तो­पा­दा­न­भा­वा­भा­वात् । बहु­भ­व­न­स­ङ्क­ल्पोऽपि न निमि­त्तो­पा­दा­नैक्ये प्रमाणम् । तेजःप्रभृतीनां नियामकरूपे ‘बहु स्याम्’ इति सङ्कल्प्य नियामकबहुभावस्य निय­म्य­ब­हु­भा­व­सा­पे­क्ष­त्वेन तदर्थं निय­म्य­ते­जः­प्र­भृ­ति­सृ­ष्टे­रु­प­पत्तेः ।

एतेन – ‘तदात्मानं स्वयमकुरुत’ इत्यपि व्याख्यातम् ; ‘तदात्मानं सृजाम्यहम्’ इत्या­दि­व­दु­प­पत्तेः । न ह्यत्र आत्मानं वियदादिरूपेण अकुरुत इति श्रूयते । लया­धा­र­त्व­म­नु­पा­दा­नेऽपि सम्भवति । ‘भूतले घटो ध्वस्तः’ इत्या­दि­व्य­व­हा­रात् । ‘यथोर्णनाभिः सृजते गृह्णते च’ इति सृष्टिनिमित्ते तन्तु­ल­य­प्र­ति­पा­द­नाच्च । ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति जग­त्सृ­ष्टि­त­द­नु­प्र­वे­शा­न­न्त­र­भा­वि­तया श्रूयमाणं सदादिभवनं ब्रह्मणो विकारात्मना परिणाम इति वक्तुमयुक्तम् ; तस्य जग­दु­त्प­त्ति­रू­प­त्वेन जग­त्सृ­ष्ट्या­द्य­न­न्त­र­भा­वि­त्वा­नु­प­पत्तेः । योनिशब्दस्तु नोपादाने नियतः । ‘योनिष्ट इंद्र निषदे अकारि’ इति स्थानेऽपि तत्प्र­यो­ग­द­र्श­नात् । योनिः स्थानं ते निषदे तवोपवेशाय अकारि इति हि मन्त्रस्यार्थः । स्थानवचनश्च योनिशब्दो ब्रह्म­ण्यु­प­पन्नः ; तस्य अनुपादनत्वेऽपि सर्व­भू­ता­धा­र­त्वात् । एतेन ‘सर्वं खल्विदं ब्रह्म’ ‘इदं सर्वं यदयमात्मा’ इत्या­दि­श्रु­त­योऽपि – व्याख्याताः । सार्वा­त्म्य­श्रु­तीनां ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति तद्व्या­ख्या­न­रू­प­स्मृ­त्य­नु­सा­रेण सर्वाधारतया सर्वानुस्यूते ब्रह्मणि तात्पर्यात् । अत एव ‘इदं सर्वं यदयमात्मा’ इत्यतः प्राचीने सर्वं तं परादात् योऽन्य­त्रा­त्म­न­स्सर्वं वेद’ इति त्रल्प्र­त्य­य­स्स­प्त­म्यर्थ एव ग्राह्यः । दुन्दु­भ्या­दि­दृ­ष्टा­न्तास्तु यथाकामं योजयितुं शक्याः ; न पूर्वा­धि­क­र­णो­क्त­रीत्या सार्वा­त्म्यो­प­पा­द­क­त्वेन योजनीयाः । यदि सार्वात्म्यं प्राक् प्रास्तोष्यत तदा ते तदु­प­पा­द­क­त्वे­नै­वा­यो­ज­यि­ष्यन्त । न तु सार्वात्म्यं प्रकृतं , किन्तु सर्वाधारत्वमेव इत्युक्तम् । तत्तु ‘आत्मन आकशस्सम्भूतः’ ‘तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नञ्च जायते’ इत्या­दि­श्रु­ति­ग­त­प­ञ्च­मी­ब­लात् ब्रह्म जगदुपादानं सिद्ध्येदिति ; तन्न । कारणसामान्ये पञ्चमीविधानात् । ननु ‘जनिकर्तुः प्रकृतिः’(पा.सू. १-४-३०) इत्यु­पा­दा­न­का­र­ण­स्यै­वा­पा­दा­न­संज्ञा स्मर्यते, न कारणमात्रस्य । मैवम् । ‘पुत्रात् प्रमोदो जायते’ इत्यपि व्यवहारदर्शनेन सूत्रे प्रकृतिग्रहणस्य कार­ण­सा­मा­न्य­प­र­त्वात् ‘प्रकृतिः कारणं हेतुः’ इत्येव वृत्ति­का­रा­दि­भि­र्व्या­ख्या­त­त्वाच्च । तस्माल्लोके द्रव्येषु कर्तु­रु­पा­दा­न­त्वा­दृष्टेः तद्भिन्नस्यैव च उपा­दा­न­त्व­दृष्टेः श्रुतिष्वपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे.उ.४-१०) इत्यादिश्रुतिषु उपा­दा­ना­न्त­र­प्र­ति­पा­द­नात् ‘कूटस्थमचलं ध्रुवम्’ इति ब्रह्मणो निर्वि­का­र­त्व­श्र­व­णाच्च साङ्ख्याभिमतं प्रधानम् उपादानम्, ब्रह्म तु निमित्तमात्रम् इति युक्तम् । अतो निमि­त्तो­पा­दा­न­रू­पो­भ­य­वि­ध­ज­ग­त्का­र­णत्वं ब्रह्मणो लक्षणमिति तदुपलक्षिते ब्रह्म­ण्य­द्वि­तीये वेदान्तानां समन्वयः इति च न युक्तम् इति पूर्वपक्षः ।

सिद्धान्तस्तु – प्रकृतिश्च उपादानकारणञ्च ब्रह्मा­भ्यु­प­ग­न्तव्यं , न केवलं निमित्तकारणमेव । कुतः ? प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात् । एवं हि सर्व­वि­ज्ञा­न­प्र­ति­ज्ञायाः मृत्पि­ण्डा­दि­दृ­ष्टा­न्तस्य च अनुपरोधो भवति । अन्यथा तावु­प­रु­ध्ये­या­ताम् । न च तौ गौणाविति वक्तुं युक्तम् । ब्रह्मज्ञानेन प्रपञ्चस्य ज्ञात­त्व­म­नु­प­प­न्न­मि­त्या­श­य­वतः श्वेतकेतोः ‘कथं नु भगवः स आदेशः’ इति प्रश्नेन तदुपपादनार्थं प्रवृत्तेन पितु­रु­त्त­र­वा­क्येन च प्रति­पि­पा­द­यि­षि­तस्य एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नस्य तदुपपादयतो दृष्टान्तस्य च गौणत्वायोगात् । न च ब्रह्मज्ञानेन प्रपञ्चस्य मृत्पि­ण्ड­ज्ञा­नेन घटादीनां च ज्ञातत्वस्य अन­नु­भ­वा­दि­प­रा­ह­त­त्वात् गौण­त्व­मे­वा­व­श्य­म­भ्यु­प­ग­न्त­व्य­मिति वाच्यम् । मृत्सु­व­र्ण­का­ला­य­सानां पिण्ड­म­णि­न­ख­नि­कृ­न्त­ना­द्या­त्म­का­ने­क­रू­प­शा­लि­ना­मु­पा­दा­नानां तत्तत्कार्येषु तादात्म्यं येन मृत्सु­व­र्ण­का­ला­य­स­रू­पेण ‘मृत् घटः’ ‘सुवर्णं कुण्डलं’ ‘कालायसं खनित्रम्’ इत्या­दि­लौ­कि­क­प्र­ती­ति­ष्व­व­भा­सते तेन कार्यानुविद्धेन रूपेण तत्त­दु­पा­दा­न­वि­षयं ज्ञानं तेन रूपेण तत्त­त्का­र्य­वि­ष­य­मपि भवति । न ह्युपा­दा­न­भू­त­मृ­दा­दि­व्य­ति­रि­क्तानि ‘मृत् घटः’ इत्या­दि­प्र­ती­ति­ष्व­व­भा­स­मा­नानि मृदादीनि , येन तस्य ज्ञानस्य तानि विषया न स्युः ।

एवं सच्चि­दा­न­न्द­रू­पस्य ब्रह्मणः प्रपञ्चे तादात्म्यं सदात्मना ‘सन् घटः’ इत्या­दि­प्र­ती­ति­ष्व­व­भा­सते इति सदात्मना ब्रह्मज्ञानं सदात्मना प्रपञ्चविषयमपि भवति । ब्रह्मज्ञाने प्रतीयमानस्य ब्रह्मरूपस्यैव सतः ‘सन् घटः’ इत्या­दि­प्र­ती­ति­ष्व­व­भा­स­स­म्भवे तद­ति­रि­क्त­स­त्ता­जा­त्या­दि­क­ल्प­नाऽ­यो­गात् इत्य­भि­प्रा­य­व­र्ण­नेन उभयोरपि मुख्य­त्वो­प­पा­द­न­स­म्भ­वात् । अत एव श्वेतुकेतुं प्रति जग­त्का­र­ण­त्वे­नो­प­दि­श्य­माने ब्रह्मणि सच्छब्द एव प्रयुक्तः , न तु ब्रह्मादिशब्दः , सद्रूपेण ब्रह्म­ज्ञा­न­मा­श्रित्य हि कृत­प्र­ति­ज्ञा­नि­र्वाहः कार्य इति । ‘आत्मनो वा अरे दर्शनेन’(बृ.उ.२-४-५) इत्या­दि­बृ­ह­दा­र­ण्य­क­श्रुतौ तु छान्दोग्यगतस्य सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­ष­य­गो­च­रस्य जगत्कारणे प्रयुक्तस्य सच्छब्दस्य मैत्रे­यी­ब्रा­ह्म­ण­प्र­ति­पाद्ये आत्मनि उपसंहारो दर्शितः । तत्र षष्ठा­ध्या­य­श्रुतः खलुशब्दः चतु­र्था­ध्या­य­श्रुतो वैशब्दश्च प्रसिद्ध्यर्थः । तथा च यस्य दर्शनादिना सर्वं विज्ञातं भवतीति श्रुत्यन्तरे प्रसिद्धं स सच्छब्दवाच्यः एतत्प्रतिपाद्य आत्मेति तस्यार्थः । मुण्डके यज्ज्ञानेन सर्वविज्ञानं श्रुत्यन्तरे प्रसिद्धं तत्किं सच्छब्दवाच्यं जगत्कारणं वस्त्विति प्रश्ने ‘यत्त­द­द्रे­श्यम्’(मु.उ.१-१-६) इत्यादिना विशिष्य तत्स्वरूपं निरूपितमिति सर्वं समञ्जसम् ।

स्यादेतत् – मृत्पिण्डादीनां घट­श­रा­वा­द्यु­पा­दा­नत्वे सर्व­मे­त­दु­प­प­द्यते – तदेवानुपपन्नम् । पिण्डादीनामपि घटादिवत् मृदा­दि­का­र्य­वि­शे­ष­त्वात् , घटादिषु पिण्डा­द्या­का­रा­नु­वृ­त्त्य­भा­वाच्च । यदि तु यदी­य­पू­र्वा­का­रो­प­म­र्देन आका­रा­न्त­र­मु­प­जा­यते तदुपादानमित्येव नियममाश्रित्य मृत्पिण्डादीनां घटा­द्यु­पा­दा­नत्वं समर्थ्येत तदा ब्रह्मणः प्रप­ञ्चो­पा­द­नत्वं न स्यात् । तदीयेषु सच्चि­दा­न­न्दा­का­रेषु कस्याप्याकारस्य उपमर्दाभावात् । ननु मृत्पिण्डादीनां घटादिवत् मृत्का­र्या­न्त­र­त्वेऽपि मृत्त्वाकारेण तज्ज्ञानं तदाकारेण उपादानज्ञानमिव घटा­दि­स­र्व­मृ­द्वि­का­र­वि­षयं स्यात् इति चेत् ; न । वैषम्यात् । यस्या मृदो यावन्तो विकाराः तेषु सर्वेषु सैव मृत् केनचित् केन­चि­दं­शे­ना­नु­व­र्तत इति तज्ज्ञानेन सर्वे तद्विकारा ज्ञाता भव­न्ती­त्यु­प­प­द्यतां नाम । कार्य­वि­शे­षेऽ­नु­व­र्त­माना मृत्तु कार्य­वि­शे­षा­न्त­रा­द्व्या­वृ­त्तेति तज्ज्ञानात् कथमन्ये विकाराः ज्ञाताः स्युः ? तस्मात् दृष्टान्तभागे मृत्पि­ण्डा­दि­ज्ञा­नेन घटादीनां ज्ञातत्वं गौणं वाच्यमिति तदनुसारेण सर्वविज्ञानमपि सह तद­नु­वा­द­क­श्रु­त्य­न्तरैः गौणमेव स्यात् इति चेत् –

उच्यते – कार्योत्पत्तौ क्वचि­दु­पा­दा­न­ग­तस्य कस्यचिदाकारस्य तिरोधानं भवति क्वचिदुपमर्दो भवति इति द्वैविध्यं लोके दृश्यते । तद्यथा – प्राका­र­गृ­ह­प­ट­ला­द्यु­पा­दा­ना­ना­मि­ष्टि­का­तृ­ण­वि­शे­षा­दीनां चतु­र­श्र­त्व­त­नु­दी­र्घ­त्वा­द्या­का­र­ति­रो­धा­न­मात्रं भवति , न कस्या­प्या­का­र­स्यो­प­मर्दः । ऋष­भ­त­रु­णी­म­हा­पा­द­पा­द्यु­पा­दानां तर्ण­क­कु­मा­रि­कां­कु­रा­दीनां ककु­द­कु­चो­न्न­ति­फ­ल­पु­ष्पा­दि­र­हि­त­स्व­ल्प­प­रि­मा­णा­द्या­का­र­स्यो­प­मर्दो भवति , न तु कस्याप्याकारस्य स्थितस्य तिरोधानम् । न चेष्टकादय उपादानानि प्रका­रा­द­य­स्त­दु­पा­दे­य­द्र­व्याणि इत्यत्र विवादः कार्यः । पूर्वतन्त्रे ‘अग्निधर्मः प्रतीष्टकं सङ्घातात् पौर्णमासीवत्’ इति नावमिकाधिकरणे ‘हिर­ण्य­श­क­लै­रग्निं प्रोक्षति’ इति विहि­त­म­ग्नि­प्रो­क्षणं प्रतीष्टकं कर्त्तव्यं ‘चतुर्होत्रा पौर्ण­मा­सी­म­भि­मृ­शेत्’ इति विहि­त­म­भि­म­र्श­न­मिव प्रतिपुरोडाशं , संह­ता­ना­मि­ष्ट­का­ना­मे­वा­ग्नि­श­ब्देन उक्तत्वात् , इष्ट­का­स­ङ्घा­त­व्य­ति­रे­केण अग्न्याख्यस्य एकद्रव्यस्य अभावात् , तत्सत्त्वे पटस्यैकदेशे कृष्यमाणे कृत्स्न­प­टा­क­र्ष­ण­वत् एकेष्टकाकर्षणे कृत्स्न­स्थ­ण्डि­ला­क­र्ष­ण­प्र­स­ङ्गात् , इति पूर्वपक्षं कृत्वा ‘एकमिदं स्थण्डिलम्’ इत्ये­क­बु­द्धि­वि­ष­य­त्वा­द­ने­क­त­न्त्वा­र­ब्ध­प­ट­व­द­ने­के­ष्ट­का­र­ब्ध­म­ग्न्याख्यं स्थण्डिलमेकं द्रव्य­म­भ्यु­प­ग­न्त­व्यम् । तथा सत्येव ‘इष्ट­का­भि­र­ग्नि­ञ्चि­नुते’ इति श्रुति­र­प्यु­प­प­द्यते । अन्यथा ‘इष्ट­का­भि­श्चि­नुते’ इत्येवं श्रुतिः स्यात् । आकर्षणं तु वृक्षा­दि­ष्व­नै­का­न्ति­कम् । वृक्षे हि या शाखा आकृष्यते सैवायाति । तस्मा­द­ग्न्यु­द्दे­शेन सकृदेव प्रोक्षणमिति सिद्धा­न्ति­त­त्वात् ।

पाणिनीयेऽपि ‘तदर्थं विकृतेः प्रकृतौ’(पा.सू.५-१-१२) इति सूत्रेण विकृत्यर्थायां प्रकृ­ता­व­भि­धे­यायां विकृतिवाचिनः प्रातिपदिकात् प्रत्ययविधाने ‘प्राकारीया इष्टका’ इत्यु­दा­हृ­त­त्वात् । तत्रैवाधिकारे ‘छदि­रु­प­धि­ब­ले­र्ढञ्’(पा.सू.५-१-१३) इति सूत्रेण छदि­श्श­ब्दा­द्गृ­ह­प­ट­ला­र्थ­कात् तदर्थायां प्रकृ­ता­व­भि­धे­यायां ढञ्प्र­त्य­य­वि­धाने ‘छदिषेयाणि तृणानि’ इत्यु­दा­हृ­त­त्वात् । तत्रैवाधिकारे ‘ऋष­भो­पा­न­होर्ञ्यः’(पा.सू.५-१-१४) इति सूत्रेण ऋषभार्थायां प्रकृ­ता­व­भि­धे­यायां ञ्यप्र­त्य­य­वि­धाने ‘आर्षभ्यो वत्सः’ इत्यु­दा­हृ­त­त्वाच्च । एवञ्च घटाद्युत्पत्तौ मृदा­द्या­त्म­नाऽ­नु­वृ­त्तेषु मृत्पिण्डादिषु सतां पिण्ड­त्व­म­णि­त्व­न­ख­नि­कृ­न्त­न­त्वा­का­रा­णा­मु­प­म­र्देऽपि तेषां घटा­द्यु­पा­दा­नत्वं वत्सा­दी­ना­मृ­ष­भा­द्यु­पा­दा­न­त्व­व­दु­प­प­द्यते ।

ननु ऋष­भा­द्य­व­स्थो­त्पत्तौ वत्सादीनां नोपमर्दः किन्त्व­व­य­वो­प­च­या­दि­गु­णा­न्त­रम् । अतो यत्र पूर्वा­का­रो­प­म­र्दोऽस्ति तस्योपादानत्वे नेदमुदाहरणम् । तथाभूतस्य नोपा­दा­न­त्व­मि­ष्यते । अत एव महाभाष्ये ‘छदि­रु­प­धि­ब­ले­र्ढञ्’ ‘ऋष­भो­पा­न­होर्ञ्यः’ इति सूत्रयोः ‘तदर्थं विकृतेः प्रकृतौ’ इति सूत्रात् प्रकृ­ति­वि­कृ­ति­ग्र­ह­णा­नु­वृत्तौ बल्यृ­ष­भ­यो­स्त­ण्डु­ल­व­त्स­वि­का­र­त्वा­भा­वात् तयोर्न सिद्ध्यतीति शङ्कामुद्भाव्य ‘कं पुनर्भवान् विकारं मत्वाऽऽह बल्यृषभयोर्न सिद्ध्यतीति’ इति शङ्कितुराशयं पृष्ट्वा ‘यदि तावत् य एव प्रकृ­त्यु­प­म­र्देन भवति स विकारः’ इति तस्या­श­य­मु­द्भाव्य ‘वैभीतको यूपः खादिरञ्चषालम्’ इति न सिद्ध्यतीति तत्पक्षे दूषणमुक्त्वा ‘अथ मतमेतत् तदेव गुणांतरयुक्तं विकार इति’ इति स्वाभिमतं पक्षं प्रदर्श्य ‘बल्यृषभयोरपि सिद्धं भवति , गुणान्तरयुक्ता हि तण्डुला बालेयाः गुणा­न्त­र­यु­क्तश्च वत्स आर्षभ्यः’ इति समाहितं इति चेत् –

उच्यते – विभी­त­क­व­त्सा­दी­ना­म­ष्टा­श्रि­त­त्वा­व­य­वो­प­च­या­दि­गु­णां­त­र­प्रा­दु­र्भावे तद्विरुद्धस्य वृत्ता­का­र­त्वा­ल्प­प­रि­मा­णा­दे­र्गु­ण­स्यो­प­मर्दः प्रत्य­क्षे­णा­नु­भू­य­मानो नास्ती­त्य­प­ल­पितुं न शक्यते । अत­स्त­त्रो­प­म­र्दा­भा­वा­भ्यु­प­गमः कुण्डलं विनाश्य कटकनिर्माणे इव सर्वात्मना पूर्वा­का­र­स्यो­प­मर्दो नास्ती­त्य­भि­प्रा­येण । यत्र सर्वा­त्म­नो­प­म­र्द­स्त­त्रा­प्यु­पा­दा­न­त्व­मि­ष्यत एव ‘कुण्डलमेव कटकं कृतम्’ इत्या­दि­प्र­त्य­भि­ज्ञा­न­स­त्त्वात् । किन्तु तदेवोपादानं न त्वल्पोपमर्देन गुणां­त­रा­वि­र्भा­व­वत् इत्येतत् परं शङ्कितुरभिमतं नेष्यते । तदेव च ‘य एव प्रकृ­त्यु­प­म­र्देन भवति स विकारः’ इत्यनूद्य निराक्रियते । अत एव तत्र ‘य एव’ इत्येवकारः उपमर्दनीये प्रकृ­ति­प­द­प्र­यो­गश्च । तस्मात् मृत्पिण्डादीनां घटा­द्यु­पा­दा­न­त्वात् तज्ज्ञानेन घटादीनां ज्ञातत्वं मुख्यमिति तद्व­द्ब्र­ह्म­ज्ञा­नेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­न­मपि मुख्यमेव ।

इयांस्तु विशेषः – मृत्पिण्डादीनां घटादिभावापत्तौ पिण्ड­त्वा­द्या­का­र­स्यो­प­मर्दः ; ब्रह्मणः प्रप­ञ्च­भा­वा­पत्तौ तु आन­न्द­त्वा­द्या­का­रस्य तिरोधानम् इति ।

एवं मृत्पि­ण्डा­दि­ज्ञा­नेन घटादीनां ब्रह्मज्ञानेन प्रपञ्चस्य च ज्ञातत्वस्य मुख्यतायामेव कृत्स्नोऽयं श्रुतिसन्दर्भः समञ्जसो भवति । एवं ह्युपाख्यायते – उद्दालको महर्षिः स्वपुत्रं श्वेतकेतुं स्वनियोगात् द्वादशवर्षाणि गुरुकुले स्थित्वा सर्वान् वेदानधीत्य प्रतिनिवृत्तं वैदुष्यगर्वेण स्तब्धं सर्वानवधीरयन्तं अवि­नी­तोऽ­य­म­प्रा­प्त­ब्र­ह्म­विद्य इति निश्चित्य तं विनतं ब्रह्म­वि­वि­दु­षुञ्च कर्तुं ‘यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमा­दे­श­म­प्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा.उ.६-१-२,३) इति पृष्ट्वा ‘कथन्नु भगवः स आदेशः’(छा.उ.६-१-३) इत्येकविज्ञानेन सर्वविज्ञानं कथमुपपद्यत इत्याशयवता तेन पुनः पृष्टो मृत्पि­ण्डा­दि­दृ­ष्टा­न्तै­स्त­दु­प­पा­द­या­मा­सेति । यद्यत्र सर्व­वि­ज्ञा­न­प्र­ति­ज्ञानं प्राधा­न्या­भि­प्रायं गौणं स्यात् , तदा प्रधानज्ञानेन सर्व­म­न्य­द­प्र­धा­न­म­वि­दि­त­मपि फलतो विदितप्रायं भव­ती­त्य­स्या­र्थस्य लोक­सि­द्ध­त्वा­दे­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­स्या­नु­प­प­त्ति­म­प­श्यतः ‘कथन्नु भगवः स आदेशः’ इति प्रश्नो न स्यात् ।

ननु ‘तमादेशम्’ इत्य­त्रा­दे­श­शब्दः आदिश्यते प्रशिष्यते अनेनेति व्युत्पत्त्या प्रशास्तृपरः । तथा च प्रशास्तृत्वेन प्राधा­न्य­प्र­त्या­य­केन तद्विज्ञानतः सर्वविज्ञानं भाक्तमिति ख्याप्यते । अतस्तदनुसारेण ‘कथं नु भगवस्स आदेशः’ इति प्रश्न­स्त­था­भू­त­व­स्तु­वि­शे­ष­नि­र्दि­धा­र­यि­षया , न तु तद्विज्ञानेन सर्व­वि­ज्ञा­न­म­नु­प­प­न्न­मि­त्या­श­येन इति कल्पनीयमिति चेत् ।

मैवम् – आदेशशब्दस्य आदिश्यते उपदिश्यते इति कर्मणि व्युत्पन्नस्य आचा­र्यो­प­दे­शा­व­ग­न्त­व्य­त्व­प­र­त्वात् । तत्प्रतिपादनं हि यद्विज्ञानात् सर्वविज्ञानं पिता प्रतिजानीते तम­र्थ­म­ह­मे­वा­धी­त­वे­दा­लो­च­नेन ज्ञास्यामीति स्वय­म­न्य­नि­र­पे­क्ष­वि­द्व­त्त्वा­भि­मा­निनः श्वेत­के­तो­र्भ्रा­न्ति­स्स­म्भा­वि­तेति तद्वारणेन प्रकृतोपयुक्तम् । अत एव ‘तमा­दे­श­म­प्राक्ष्यः’ इत्येव पिता प्रपच्छ न त्वज्ञासीरिति । अग्रे च वक्ष्यति ‘आचार्यवान् पुरुषो वेद’ इति । एवञ्च आदेशशब्दस्य कर्तरि कर­ण­त्वो­प­चा­र­मा­श्रित्य कर­ण­व्यु­त्पत्त्या प्रशा­स्तृ­प­र­त्व­क्ले­शा­श्र­य­ण­मपि परिहृतं भवति । यदि च सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­ष­य­व­स्तु­नि­र्दि­धा­र­यि­षया प्रश्नः स्यात् ; तदा ‘ को नु भगवः’ इत्येव प्रश्नशरीरं स्यात् , न तु ‘कथं नु भगवः’ इति । प्रश्नोत्तरे च तत्स्व­रू­प­नि­र्धा­र­ण­मेव कार्यं स्यात् न तु सर्व­वि­ज्ञा­न­प्र­ति­ज्ञो­प­पा­द­नम् । तस्मात् कथमन्येन श्रुतेन मतेन विज्ञातेन च ततोऽ­न्य­द­श्रु­त­म­म­त­म­वि­ज्ञा­तञ्च सदेव श्रुतं मतं विज्ञातञ्च स्यात् इत्यभिप्रायेण प्रश्नः , उत्तरे ‘एवं सोम्य स आदेशो भवति’ इत्यन्ते मृत्पि­ण्डा­दि­दृ­ष्टा­न्तै­स्त­दु­प­पा­द­नम् इत्येव युज्यते । अत एव तदनन्तरं ‘न वै नूनं भगवन्तस्ते एत­द­वे­दि­षु­र्य­द्ये­त­द­वे­दि­ष्यन् कथं मे नावक्ष्यन्’(छा.उ.६-१-७) इति ‘भगवांस्त्वेव मे तद्ब्रवीतु’ इति तत्स्व­रू­प­प्रश्नः, ‘सदेव सोम्येदमग्र आसीत्’(छा.उ.६-२-१) इत्याद्युत्तरे तन्निरूपणञ्च दृश्यते । तस्मात् सर्व­वि­ज्ञा­न­प्र­ति­ज्ञानं तावत् मुख्यम् ।

एवं दृष्टान्तवचनेषु मृत्पि­ण्डा­दि­भि­र्ज्ञा­तै­र्घ­टा­दीनां ज्ञात­त्व­व­र्ण­न­मपि मुख्यमेव , मुख्य­स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञो­प­पा­द­क­त्वात् । ‘एते दृष्टान्ता अप्यनुपपन्नाः ; मृत्पि­ण्डा­दि­भि­र्ज्ञा­तै­स्त­द्व्य­ति­रि­क्तानां घटादीनां ज्ञात­त्वा­स­म्भ­वात्’ इत्यु­पा­दा­नो­प­दे­य­भे­द­दृष्ट्या शङ्कायां ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’ ‘लोहमित्येव सत्यम्’ ‘कृष्णा­य­स­मि­त्येव सत्यम्’ इति वच­नै­स्ते­षा­म­प्यु­प­पा­द­न­द­र्श­नाच्च । तत्र दृष्टा­न्तो­प­पा­द­क­व­च­ना­ना­म­य­मर्थः – योऽयं मृदा­दि­व्य­ति­रिक्त इव अवभासमानो घटशरावादिरूपो विकारः स सर्वोऽपि वाचाऽऽरम्भणम् आरभ्यत इत्यारम्भणं , वाचाया आरम्भणमिति षष्ठीसमासः । पुंल्लि­ङ्ग­वि­शे­ष­ण­त्वेऽपि लिङ्ग­सा­मा­न्य­वि­व­क्षया नपुंसकनिर्देशः, ‘द्विगु­रे­क­व­च­नम्’ इतिवत् । वाचा केवलमारभ्यते इत्यर्थः । ननु मृदा­दि­भि­रा­र­म्भ­णीयो विकारः कथं वाचारम्भण इत्याशङ्कायां वाचा­र­म्भ­ण­मि­त्यस्य आशयं स्फोरयति ‘नामधेयम्’ इति । नामधेयमात्रं विकारः न त्वर्थ­तोऽ­स्ती­त्यर्थः । लोकेऽपि ह्यर्था­स­त्त्व­वि­व­क्षायां नाम­मा­त्र­मे­त­दि­त्यु­च्यते । यद्यपि श्रुतौ मात्रपदं नास्ति , तथाऽपि नामधेयवाच्यस्य विकारस्य नाम­धे­य­त्वोक्त्या तदर्थो लभ्यते । ननु किं असन्नेव विकारो भासते ? इत्याशङ्क्याह ‘मृत्तिकेत्येव सत्यम्’ इत्यादि । मृदादिरेव सत्यः तद्व्य­ति­रि­क्त­त­याऽ­व­भा­स­मानो घट­श­रा­वा­दि­ना­म­धे­य­वि­शे­ष­गो­चरः तत्त­द­र्थ­क्रि­या­वि­शे­ष­कारी विकारस्तु असत्योऽपि रज्जु­स­र्प­व­द­नि­र्व­च­नीयो मायामयोऽवभासते इत्यर्थः । मृत्पि­ण्ड­लो­ह­म­णि­न­ख­नि­कृ­न्त­न­श­ब्दै­रु­पा­त्ता­ना­मु­पा­दा­नानां मृत्ति­का­लो­ह­कृ­ष्णा­य­स­शब्दैः प्रत्यवमर्शस्तु तेषु पिण्डा­द्य­व­स्थाया अप्य­स­त्य­त्व­ज्ञा­प­नाय ।

अत्रायं भावः – नैया­यि­का­दि­प्र­क्रि­यया मृदा­दि­व्य­ति­रिक्तं तदारभ्यं घटशरावादि यदि द्रव्यान्तरं सत्यं स्यात् तदा कार­ण­गु­ण­प्र­क्र­मेण तस्य गुरु­त्वा­न्त­रा­धि­क­र­ण­तया गुरु­त्व­द्वै­गु­ण्य­मु­प­ल­भ्येत । अपि च महति कनकसूत्रे कालायसश्रृङ्खले वा लोहकारैः सङ्ग्रथ्यमाने तत्रान्तरान्तरा खण्डसूत्राणि खण्डश्रृङ्खलानि च जायन्ते इत्य­भ्यु­प­ग­न्त­व्यम् । अन्यथा किञ्चि­द्ग्र­थ­ना­न­न्त­र­मु­प­रि­सू­त्र­श्रृ­ङ्ख­ल­ग्र­थने परित्यक्ते सति ग्रथितभागे सूत्र­श्रृ­ङ्ख­ल­व्य­व­हारो न स्यात् । महा­सू­त्र­श्रृ­ङ्ख­ल­ग्र­थ­ना­न­न्तरं खंडिते तस्मिन्खण्डेषु सूत्र­श्रृ­ङ्ख­ल­व्य­व­हा­रश्च न स्यात् । एवञ्च यत्रो­प­र्यु­प­रि­ख­ण्ड­सू­त्र­श्रृ­ङ्ख­ल­ग्र­थ­न­क्र­मेण महा­सू­त्र­श्रृ­ङ्ख­ल­ग्र­थ­न­स­माप्तिः तत्र यदि खण्ड­सू­त्र­श्रृ­ङ्ख­ल­वृ­न्दा­रब्धं महा­सू­त्र­श्रृ­ङ्ख­ल­म­भ्यु­प­ग­म्येत तदा सूत्र­श्रृ­ङ्ख­ल­नि­र्मा­णार्थं यावत् सुवर्णकालायसं लोहकारहस्ते दत्तं तावत उपादानस्य गुरुत्वं तदा­र­ब्ध­ख­ण्ड­सू­त्र­श्रृ­ङ्ख­लानां प्रत्ये­क­गु­रु­त्वानि तदा­र­ब्ध­म­हा­सू­त्र­श्रृ­ङ्ख­ल­गु­रु­त्वञ्च इत्यतिमहत्तरं गुरु­त्व­मु­प­ल­भ्येत । तस्मात् मृत्पि­ण्ड­ख­ण्ड­सू­त्र­श्रृ­ङ्ख­ल­व्य­ति­रिक्तं घट­श­रा­व­म­हा­सू­त्र­शृ­ङ्ख­ल­रूपं द्रव्यान्तरं तत्त्वतो नास्तीति, तथैव मृत्पि­ण्ड­ख­ण्ड­सू­त्र­शृ­ङ्ख­ला­द्यपि मृल्लो­ह­कृ­ष्णा­य­सा­दि­व्य­ति­रिक्तं द्रव्यान्तरं नास्ती­त्यु­प­ग­न्त­व्यम् । एवं सति मृल्लो­ह­का­ला­य­सा­द्यपि तत्त­दु­पा­दा­न­व्य­ति­रिक्तं सत्यं न स्यादिति चेत् , कः सन्देहः ?

कथं तर्हि ‘मृत्तिकेत्येव सत्यम्’ इत्या­द्यु­क्त­मिति चेत् , उच्यते । नेमानि वाक्यानि मृदा­दि­स­त्य­त्त्व­वि­धि­त्सया प्रवृत्तानि ; ‘षड्विं­श­ति­रि­त्येव ब्रूयात्’ इति­व­दे­व­का­रो­प­ह­त­वि­धि­श­क्ति­क­त्वात् । किन्तु तद्वि­का­र­स­त्य­त्व­नि­षि­षे­ध­यि­षया । ततश्च यथा षड्विं­श­ति­प­द­ग्र­हणे तात्पर्याभावात् षड्विं­श­ति­प­द­स्थाने तूप­र­गो­मृ­ग­यो­र­श्वस्य च वङ्क्रीणां सम­स्य­सं­ख्या­वा­चि­प­द­नि­वे­श­नस्य न्यायप्राप्तस्य न प्रतिक्षेपः, एवं ‘मृत्तिकेत्येव सत्यं’ ‘लोहमित्येव सत्यम्’ ‘कृष्णा­य­स­मि­त्येव सत्यम्’ इति वाक्यानां विका­र­स­त्य­त्व­नि­षेधे एव तात्पर्यवतां मृदा­दि­स­त्य­त्व­वि­धाने तात्पर्याभावात् घट­श­रा­वा­दि­न्या­य­प्रा­प्तस्य मृदा­दी­ना­म­स­त्य­त्वस्य न प्रतिक्षेपः । प्रत्युत मृत्ति­का­दि­श­ब्दा­ना­मि­ति­श­ब्द­शि­र­स्क­त्वेन मृदा­दी­ना­म­स­त्य­त्व­मेव सूच्यते ; ‘मनो ब्रह्मे­त्यु­पा­सीत’ इत्यादिवाक्येषु मनःप्रभृतीनां ब्रह्मभावस्येव । एवञ्च दृष्टान्तेषु उपा­दा­ना­ति­रि­क्त­वि­का­र­स­त्य­त्वा­भा­व­प्र­ति­पा­द­नस्य दार्ष्टा­न्ति­केऽपि तथात्वमिति प्रत्या­य­ना­र्थ­त्वात् तदनुरोधेन ‘येनाश्रुतं श्रुतं भव­त्य­म­त­म­त­म­वि­ज्ञातं विज्ञातम्’ इति वाक्येषु अश्रु­त­श्रु­ता­दि­प­दानां ‘योऽयं स्थाणुरयं पुमान्’ इत्या­दि­व्य­व­हा­रेषु स्थाणु­पु­रु­षा­दी­ना­मिव बाधायां सामानाधिकरण्यं , न तु तत्त्व­म­स्या­दि­वा­क्ये­ष्विव अभेदे । अतो येन श्रुतेन मतेन विज्ञातेन च लोकदृष्ट्या अतदात्मकमपि तदात्मकमेव भवतीति दृष्टान्तैः ‘येनाश्रुतम्’ इत्या­दि­वा­क्या­न्यु­प­पा­दि­तानि भवन्ति । युक्तश्च उक्थ्या­ग्नि­ष्टो­मा­धि­क­र­ण­न्या­येन विधे­य­श्रु­त­म­त­वि­ज्ञा­त­स­द्रू­पो­पा­दा­न­ब्र­ह्मा­त्म­क­त्व­वि­रु­द्धस्य अश्रु­ता­म­ता­वि­ज्ञा­त­रू­पस्य भूत­भौ­ति­क­प्र­प­ञ्च­स्यो­प­मर्दः । तस्मात् प्रति­ज्ञा­दृ­ष्टा­न्त­यो­र्मु­ख्य­तया तदनुपरोधात् ब्रह्म प्रकृतिश्चेति युक्तम् । चकारेण निमित्तञ्चेति समुच्चीयते । तदपि प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धा­देव । उपा­दा­ना­ति­रि­क्त­क­र्तृ­स­द्भावे हि तद्विज्ञानेन सक­ल­वि­ज्ञा­ना­स­म्भ­वात् पुनरपि प्रतिज्ञोपरोधे च तदानुगुण्येन वर्णनीयस्य दृष्टा­न्त­स्या­प्यु­प­रोधः स्यात् । तस्मात् प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धा­न्नि­मि­त्त­मु­पा­दा­नञ्च ब्रह्म ।

यत्तु दुन्दु­भ्या­दि­दृ­ष्टा­न्त­जातं सर्व­वि­ज्ञा­न­प्र­ति­ज्ञो­प­पा­दकं न भवतीत्युक्तं तत् तथैव । किन्तु सर्व­वि­ज्ञा­न­प्र­ति­ज्ञो­प­पा­द­क­तया ‘इदं सर्वं यदयमात्मा’ इति वर्णितस्य सार्वात्म्यस्य उपपादनद्वारा तदुपपादकं , न तु साक्षात् । तथैव पूर्वाधिकरणे व्याख्यातम् । ततश्च ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतयः ‘सर्वं समाप्नोषि’ इत्या­दि­स्मृ­त्य­नु­सा­रेण सर्वगतत्वपरा इति शङ्काप्यनवकाशा । तासां दृष्टा­न्त­दा­र्ष्टा­न्ति­क­सा­म­ञ्ज­स्या­नु­रो­धेन सार्वा­त्म्य­प­र­त्वा­व­श्य­म्भा­वात् । तदनुसारेण ‘सर्वं समाप्नोषि’ इति समु­प­स­र्गा­नु­सा­रेण च स्मृतेरेव सार्वा­त्म्य­प­र­त्वात् । ऊर्ण­ना­भे­र्ज­डां­शेन उपादानत्वं चेतनांशेन निमित्तत्वमिति भेदे सत्यपि कार्य­क­र­ण­स­म्पि­ण्डि­त­चे­त­न­वि­शे­ष­रू­पस्य तस्य आध्या­सि­का­वि­शि­ष्ट­रू­पे­णै­क्य­मा­श्रित्य स्रष्टृ­त्व­ल­या­धा­र­त्वा­भ्या­मे­क­स्यैव निमि­त्तो­पा­दा­न­भावः सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­म­नू­दि­ता­मु­प­पा­द­यितुं ‘यथोर्णनाभिः’ इति मन्त्रे दर्शितः । तत्र द्विती­य­तृ­ती­य­दृ­ष्टान्तौ उपा­दा­न­त्व­मा­त्र­वि­षयौ ब्रह्मज्ञानेन कृत्स्नस्य कार्यवर्गस्य ज्ञातत्वोपपादकौ । ननु दृष्टान्तवाक्ये मृल्लो­ह­कृ­ष्णा­य­स­पृ­थि­व्या­दीनां तत्त­द्वि­का­रो­पा­दा­नत्वं वर्ण्यते, कथं दृष्टा­न्त­ब­ला­द्ब्र­ह्म­ण­स्स­र्वो­पा­दा­न­त्व­सिद्धिः ? उच्यते । घटादिषु कुलालादीनां कर्तृत्वेऽपि ब्रह्मणोऽपि कर्तृत्ववत् मृदा­दी­ना­मु­पा­दा­न­त्वेऽपि ब्रह्म­णोऽ­प्यु­पा­दा­नत्वं प्रमा­ण­ब­ला­दु­प­प­द्यते । तस्माद्यथाऽर्हं प्रति­ज्ञा­दृ­ष्टा­न्त­ब­ला­न्नि­मि­त्त­मु­पा­दा­नञ्च ब्रह्म ॥१-४-२३ ॥

अभिध्योपदेशाच्च ॥२४॥

२४

‘तदैक्षत बहु स्यां प्रजायेय’(छा.उ.६-२-३) इति बहु­भ­व­न­स­ङ्क­ल्पो­प­दे­शा­द­प्ये­वम् । न च निय­न्तृ­स्व­रू­पै­र्ब­हु­भ­व­न­रू­प­वि­ष­य­स­ङ्कल्पो , न तु तेजः­प्र­भृ­ति­रूपैः इति वाच्यम् । सर्वज्ञस्य सर्वगतस्य च एकस्य ब्रह्मणः स्रष्टृ­त्व­व­न्नि­य­न्तृ­त्व­स्यापि सम्भवेन निय­न्तृ­त्व­सि­द्ध्यर्थं निय­न्तृ­रू­प­ब­हु­त्व­स्या­न­पे­क्षि­त­तया ‘तत्तेजोऽसृजत’(छा.उ.६-२-३) इत्यादिना सृज्य­त्वे­ना­न­न्त­र­व­क्ष्य­मा­ण­ते­जः­प्र­भृ­त्या­त्मना बहु­भ­व­न­स­ङ्क­ल्पो­प­दे­शात् प्राक् ‘एक­मे­वा­द्वि­ती­यम्’(छा.उ.६-२-१) इति श्रवणादपि निमि­त्त­मु­पा­दा­नञ्च ब्रह्म, निमि­त्त­स्यो­पा­द­नस्य वा ब्रह्मणोऽन्यस्य सद्भावे सृष्टेः प्रागे­क­त्वा­व­धा­र­णा­यो­गात् इति युक्त्य­न्त­र­स­मु­च्च­यार्थः सूत्रे चकारः ॥१-४-२४॥

साक्षा­च्चो­भ­या­म्ना­नात् ॥२५॥

२५

न केवलं प्रति­ज्ञा­दृ­ष्टा­न्त­ब­ला­द­भि­ध्यो­प­दे­शाच्च अर्था­न्नि­मि­त्त­मु­पा­दा­नञ्च ब्रह्म , किन्तु साक्षादेव तस्य निमि­त्त­त्वो­पा­दा­न­त्वा­म्ना­ना­दपि । तथा हि – निमित्तत्वं ताव­दी­क्षा­पू­र्व­क­स्र­ष्टृ­त्व­रूपं ‘तदैक्षत’ ‘तत्तेजोऽसृजत’(छा.उ.६-२-३) इत्यादिश्रुतिषु स्पष्टमाम्नातम् । उपादानत्वम् ‘आत्मन आकाशः सम्भूतः’(तै.उ. २-१) ‘यतो वा इमानि भूतानि जायन्ते’(तै.उ. ३-१) इत्यादिश्रुतिषु पञ्च­मी­वि­भ­क्त्याऽऽ­म्ना­तम् । ‘जनिकर्तुः प्रकृतिः’(पा.सू.१-४-३०) इति सूत्रेण प्रकृ­ति­श­ब्द­गो­च­र­तया प्रसि­द्ध­स्यो­पा­दा­नस्य अपा­दा­न­सं­ज्ञा­वि­धा­नात् । न च तत्र कारणमात्रपरः प्रकृतिशब्द इति युक्तम् । तथात्वे तस्य वैय­र्थ्य­प्र­स­ङ्गात् । ‘ध्रुव­म­पा­येऽ­पा­दा­नम्’(पा.सू.१-४-२४) इति सूत्रात् अवधिपरस्य ध्रुवपदस्य अनुवर्तमानतया तेनैव जायमानं प्रत्यवधिभूतस्य कारणमात्रस्य लाभात् ।

नन्वसति प्रकृतिग्रहणे प्रत्या­स­त्ते­रु­पा­दा­न­का­र­ण­स्यैव ग्रहणं स्यान्न तु बहिरङ्गस्य निमित्तकारणस्य , अतः कार­ण­मा­त्र­सं­ग्र­हार्थं प्रकृतिग्रहणम् इति न्यासकृता उक्तमिति चेत् ; सत्यमुक्तम् । दुरुक्तं तु तत् । अनुवर्तमानं ध्रुवपदं हि जायमानावधिभूतं कारणसामान्यं प्रत्याययति । कार­ण­सा­मा­न्य­प्र­त्या­य­क­पदे सति च बहि­र­ङ्ग­का­र­ण­सं­ग्र­हार्थं सूत्रकृता यत्नान्तरं कृतं न दृश्यते , यथा ‘हेतौ’(पा.सू.४-३-२३) इति तृतीयाविधायके सूत्रे । अथापि यद्यत्र तत्संग्रहार्थं यत्ना­न्त­र­म­का­रि­ष्यत, तदा तत्साधारणमेव पदं प्रायोक्ष्यत । इह तु तद्व्यावर्तकं ‘मायान्तु प्रकृतिं विद्या­न्मा­यि­नन्तु महेश्वरम्’(श्वे.उ.४-१०) ‘प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात्’(ब्र.सू.१-४-२३) इत्या­दि­वे­द­वै­दि­क­व्य­व­हा­रेषु ‘तदर्थं विकृतेः प्रकृतौ’(पा.सू.५-१-१२) इति पाणिनीये उपादाने एव प्रसिद्धं प्रकृतिपदं प्रयुक्तम् । ततश्च कार­ण­सा­मा­न्य­प्र­त्या­यकं ध्रुव­प­द­म­प्य­वि­ग­णय्य अभ्य­र्हि­त­त्वा­दु­पा­दाने निपतन्ती मतिः कथ­मु­पा­दा­न­मा­त्रा­सा­धा­र­णेन प्रकृतिपदेन ततो व्यावर्त्य कारणसामान्ये स्थापनीया । सा हि मतिस्तेन तथैव दृढीकृता स्यात् । यदि च कारणसामान्यपरं प्रकृतिपदं , तदा ‘कारके’(पा.सू.१-४-२३) इत्य­धि­का­र­सू­त्र­म­न­न्वितं स्यात् । तत्र हि कारकशब्दः कारणसामान्यपरः सप्तमी च निर्धारणार्था इति व्याख्यातम् । तथा च प्रकृतिशब्दस्य कार­ण­सा­मा­न्या­र्थ­कत्वे कारकाणां मध्ये या प्रकृतिः तत्रा­पा­दा­न­सं­ज्ञा­वि­धा­नस्य कारणानां मध्ये यत् कारणं तत्रा­पा­दा­न­सं­ज्ञे­त्य­र्थ­स्स्यात् । न चैतद्युज्यते । निर्धा­र­ण­प्र­ति­यो­गि­ता­व­च्छे­द­का­व­च्छि­न्न­स्यैव निर्धा­र­ण­वि­ष­य­त्वा­नु­प­पत्तेः ।

ननु कारकं क्रियां निर्व­र्त­य­दा­श्रि­त­व्या­पारं , कारणं तु हेत्वपरपर्यायं फल­सा­ध­न­त्व­यो­ग्य­मा­त्रम् इति भेदोऽस्ति, ‘द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । अनाश्रिते तु व्यापारं निमित्तं हेतुरुच्यते’ इति वचनादिति चेत् ; एतदपि न युज्यते ; विव­क्षि­त­क्रि­या­नि­र्व­र्त­न­व्या­पा­राणां मध्ये अवि­व­क्षि­त­क्रि­या­नि­र्व­र्त­न­व्या­पा­रस्य तद्विरुद्धस्य निर्धारणायोगात् । सामा­न्य­ध­र्मा­क्रा­न्तानां मध्ये कस्य­चि­द्वि­शे­ष­स्यैव निर्द्धा­र­णी­य­त्वात् । न च ‘जनिकर्तुः प्रकृतिः’ इति सूत्रे कारकाधिकारो मा भूदिति वाच्यम् । ‘प्राग्री­श्व­रा­न्नि­पाताः’(पा.सू.१-४-५६) इत्ये­त­त्प­र्यन्तं तद­धि­का­र­स­त्त्वात् , अन्यथा ‘अकथितञ्च’(पा.सू.१-४-५१) इति सूत्रतः ‘माणवकं पन्थानं पृच्छति’ इत्यत्रेव ‘माणवकस्य पितरं पन्थानं पृच्छति’ इत्यत्रापि माणवकस्य प्रश्न­क्रि­या­या­म­का­र­क­त्वेऽपि अक­थि­त­त्वा­वि­शे­षेण कर्म­सं­ज्ञा­प्र­स­ङ्गात् । अपि च यद्येतत्सूत्रं कारणसामान्यरूपे हेतौ पञ्चमीविधायकं स्यात् , तदा ‘हेतु­म­नु­ष्य­भ्योऽ­न्य­त­रस्यां रूप्यः’(पा.सू.४-३-८१) इति सूत्रे अस्मादेव ज्ञाप­का­द्धे­तु­प­ञ्च­मी­सि­द्धि­रिति न्यासो­क्त­म­स­म­ञ्जसं स्यात् । तथा हि – ‘तत आगतः’(पा.सू. ४-३-७४) इत्यधिकारे पठितस्य तस्य सूत्रस्य हेतुवाचिभ्यो मनु­ष्य­वा­चि­भ्यश्च शब्दे­भ्योऽ­न्य­त­रस्यां रूप्यप्रत्ययो भवतीत्यर्थः । तत्र समादागतं समरूप्यम् इति वृत्तिकृता उदाहरणं लिखितम् । तस्य न्यासकृता ‘समा­द्धे­तो­रा­ग­तम्’ इत्यर्थमुक्त्वा ‘केन पुनरिह पञ्चमी’ इति पञ्च­म्य­स­म्भ­व­श­ङ्का­मु­द्भाव्य ‘अस्मादेव ज्ञापकात्’ इति परिहृतम् ।

तत्रायं शङ्काऽर्थः । यदि समशब्दोक्तस्य च आगतशब्दोक्तस्य च हेतु­हे­तु­म­द्भा­व­स­म्ब­न्ध­वि­वक्षा तदा­नी­म­स्ये­द­म्भावे षष्ठ्यां प्राप्तायां तदपवादत्वेन ‘हेतौ’(पा.सू.२-३-२३) इति सूत्रे विहितया तृतीययैव भाव्यं , न तु पञ्चम्येति । परि­हा­रा­भि­प्रा­य­स्त्व­यम् । ‘तत आगतः’ इति प्रकृतस्य पञ्च­म्य­न्ता­र्थस्य अस्मिन् सूत्रे हेतोरिति विशेषणेन हेतु­हे­तु­म­द्भा­व­वि­व­क्षायां पञ्चम्यपि भवतीति ज्ञाप्यते इति । एवं न्यासकृता हेतौ पञ्चमीसद्भावे ज्ञापकान्वेषणं न कर्त्तव्यं स्यात् यदि ‘जनिकर्तुः प्रकृतिः’ इति सूत्रमेव आहत्य पञ्चमीविधायकं स्यात् । ननु विव­क्षि­त­क्रि­या­नि­र्व­र्त­न­व्या­पारे निमि­त्तो­पा­दा­न­सा­धा­रणे कारणमात्रे ‘जनिकर्तुः’ इति सूत्रेण पञ्चमीविधानम् , अवि­व­क्षि­त­त­द्व्या­पारे तस्मिन् पञ्चमीलाभार्थं ज्ञाप­का­न्वे­ष­ण­मिति चेत् ; न । हेतु­म­नु­ष्य­सूत्रे लिखितस्य ‘समाज्जातम्’ इत्यर्थे पर्यवसितस्य ‘समादागतम्’ इत्यु­दा­ह­र­ण­स्यापि विव­क्षि­त­व्या­पा­र­हे­तु­वि­ष­य­त्व­स­म्भवे तस्य अवि­व­क्षि­त­व्या­पा­र­हे­तु­वि­ष­य­त्व­म­ङ्गी­कृत्य तत्र पञ्चमीलाभार्थं ज्ञाप­का­न्वे­ष­णस्य व्यर्थत्वात् । न च हेतु­म­नु­ष्य­सू­त्र­ग­त­हे­तु­श­ब्दोऽ­ना­श्रि­त­व्या­पा­र­वि­षयः; ‘अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते’ इति वचनादिति वाच्यम् । तथाऽपि वृत्तिकृता जनिकर्तृसूत्रे प्रकृतिशब्दस्य हेतुपदेन व्याख्याततया तत एव अवि­व­क्षि­त­व्या­पारे हेतौ पञ्चमी सिद्धेति तत्र ज्ञाप­का­न्वे­ष­ण­वै­य­र्थ्यस्य तादवस्थ्यात् ।

किञ्च प्रकृतिपदस्य कार­ण­सा­मा­न्य­प­रत्वे ध्रुवा­नु­वृ­त्ति­म­ङ्गी­कृत्य तत्र ‘जनिकर्तुः’ इत्यस्यान्वयो नाभ्युपगन्तव्यः । जाय­मा­ना­व­धि­त्वस्य कारणत्वरूपतया कारणवाचिना प्रकृतिपदेन सह प्रयो­गा­नु­प­पत्तेः । किन्तु तदनुवृत्तिं परित्यज्य प्रकृ­ति­प­दे­नै­वा­न्व­योऽ­भ्यु­प­ग­न्तव्यः । तथैव चान्वयो दर्शितो वृत्तिकृता ‘जन्यर्थस्य जन्मनः कर्त्ता जायमानः , तस्य या प्रकृतिः कारणं हेतुः’ इति । तत्र ‘जनिकर्तुः’ इति व्यर्थम् , अर्थात् सिद्धेः । जायमानस्यैव हि कारणं भवति । अत एव ‘हेतौ’ इति सूत्रे ‘जनिकर्तुः’ इति न विशेषितम् । ननु प्रकृ­ति­रु­पा­दा­न­मिति पक्षेऽपि तुल्योऽयं दोषः । तत्रापि हि ध्रुवपदं नानुवर्तनीयम् । ततो विव­क्षि­त­व्या­पा­र­का­र­ण­ला­भा­श्र­यणे कारकाधिकारेण पौनरुक्त्यात् , अवि­व­क्षि­त­व्या­पा­र­का­र­ण­ला­भा­श्र­यणे कारकाधिकारेण विरोधात् । अतस्तत्रापि पक्षे प्रकृत्यैव जनिकर्तुरन्वय इति समानो वैयर्थ्यदोषः , जायमानस्यैव ह्युपादानं भवतीति । यथा वैयर्थ्यदोषो न प्रसरति तथा उपपादयामः । प्रकृतिशब्दः स्वभावविषययैव शक्त्या उपादाने प्रयुज्यते । क्लृप्तशक्त्या प्रयोगनिर्वाहे शक्त्य­न्त­र­क­ल्प­नाऽ­नु­प­पत्तेः । निर्वहति च क्लृप्तशक्त्यैव तत्र प्रयोगः । कार्या­भि­न्न­स्यो­पा­दा­नस्य तत्स्व­भा­व­रू­प­त्वात् । अत एव ‘मृत्स्वभावो घटः मृत्स्वरूपो घटः’ इति व्यवह्रियते ।

यद्यप्युपादाने स्वभावशक्त्या प्रकृ­ति­प­द­प्र­योगे ‘कार्यस्य प्रकृतिरूपं कारणम्’ इति एतावत् प्रयोक्तव्यम् । तथाऽपि लोके वेदे च निरूढ्या प्रकृ­ति­प­द­मा­त्रस्य तत्र प्रयोगः । दृष्टो हि न्याय­शा­स्त्र­व्य­व­हारे कार्यं प्रति समवायिनि कारणे सम­वा­यि­प­द­मा­त्रस्य प्रयोगः । पाणिनिना तु प्रकृ­ति­रि­त्ये­ता­वति सूत्रे विवक्षितार्थः स्पष्टो न भवतीति जायमानस्य स्वभावरूपं यत् कारकं तस्या­पा­दा­न­संज्ञा विधीयते इत्य­र्थ­स्प­ष्टी­क­र­णाय ‘जनिकर्तुः’ इति विशेषितम् । न च वाच्यम् – ‘तदर्थं विकृतेः प्रकृतौ’ इति सूत्रे विनैव ‘जनिकर्तुः’ इति विशे­ष­ण­मु­पा­दा­न­परं प्रकृतिपदं प्रयुक्तमिति । तत्र विकृ­ति­प­द­स­न्नि­धा­नेन प्रकृतिपदस्य उपादाने व्यव­स्थि­ति­ला­भात् । तदर्थमेव हि तत्र विकृतिपदमिति प्रयोजनमुक्तं वृत्त्या­दि­ग्र­न्थेषु ‘अक्रियमाणे विकृतिग्रहणे या काचित् प्रकृ­ति­र्गृ­ह्येत नोपादानकारणमेव’ इत्यादिना । तस्मा­द­भ्य­र्हि­त­स्यो­पा­दा­न­स्यैव ग्रहणं मा भूदिति कार­ण­सा­मा­न्य­ग्र­ह­णाय प्रकृतिपदमिति न्यासो­क्त­म­यु­क्तम् ।

ननु महाभाष्ये जनि­क­र्तृ­सू­त्रस्य प्रत्या­ख्या­न­मु­प­क्रम्य ‘गोलो­मा­वि­लो­मभ्यः दूर्वा जायन्ते’ इति तत्रोदाहरणं प्रदर्श्य ‘अपक्रामन्ति तास्तेभ्यः’ इत्युक्त्या ‘ध्रुव­म­पा­येऽ­पा­दा­नम्’(पा.सू.१-४-२४) इति सूत्रत एव अत्रा­पा­दा­न­संज्ञा सिद्ध्येदिति तत् सूत्रं प्रत्याख्याय यतो यदपक्रामति तत् पुनस्तत्र न दृश्यते, इह तु लोमसु अस्ति दूर्वादर्शनमिति कथं ततोऽ­प­क्र­म­ण­मु­च्यत इत्यभिप्रायेण ‘यद्यपक्रामन्ति किं नात्य­न्ता­या­प­क्रा­मन्ति’ इति शङ्कित्वा ‘सन्ततत्वात्’ इति परिहृतम् । कैयटेन च ‘यथा बिलाद्दीर्घभोगो भोगी निष्क्रा­म­न्न­प्य­वि­च्छे­दात् तत्रोपलभ्यते एवं दूर्वा अपि’ इति परिहाराभिप्रायो दर्शितः । एवञ्च गोलोमादीनां दूर्वादीन् प्रत्य­व­धि­त्व­म­ङ्गी­कृत्य सूत्र­प्र­त्या­ख्या­नात् ‘गोलो­मा­वि­लो­मभ्यो दूर्वा जायन्ते’ ‘श्रुङ्गाच्छरो जायते’ इत्याद्युदाहरणं निमि­त्त­वि­ष­य­मे­वे­त्य­व­सी­यते । उपादानस्य कार्यात्मतां प्रतिपद्यमानस्य कार्य­वि­श्ले­षा­व­धि­त्वा­यो­गात् । सम्भवति च शृङ्ग­गो­लो­मा­दीनां शर­दू­र्वा­द्यु­पा­दा­न­भूतो य एकदेशः तत्सं­सृ­ष्ट­मे­क­दे­शा­न्तरं शर­दू­र्वा­दि­नि­मित्तं , माषां­कु­रो­पा­दा­नेन तुषा­न्त­र­व­स्थि­त­मा­ष­भा­गेन संसृष्टो माषां­कु­र­नि­मि­त्त­भू­त­स्तु­ष­भाग इव । स एवा­प­रि­ण­त­शृ­ङ्गा­द्ये­क­देशः ‘शृङ्गात्’ इत्या­दि­प­ञ्च­म्य­न्तेन उच्यते इति युक्तं कल्पयितुमिति चेत् –

उच्यते – इदं लोमादीनां दूर्वा­द्य­व­धि­त्व­म­भ्यु­प­गम्य सूत्र­प्र­त्या­ख्यानं लोकदृष्ट्यैव, न तु तान्त्रि­क­म­र्या­द­येति व्याचक्षाणेन कैयटेन लोक­दृ­ष्टि­प्र­द­र्शने अस्य सूत्रस्य सर्व­का­र­णा­वि­ष­यत्वं तान्त्रि­क­म­र्या­दा­प्र­द­र्शने विशि­ष्यो­पा­दा­न­वि­ष­य­त्व­ञ्चा­वि­ष्कृ­तम् – ‘अपक्रामन्ति ता इति प्रसि­ध्या­श्र­य­णे­नै­त­दु­च्यते । लोके हि यद्यस्माज्जायते तत् तस्मा­न्नि­र्ग­च्छ­ती­त्यु­च्यते । तर्काश्रयास्तु प्रक्रिया भिद्यन्ते । वैशेषिकदर्शने पर­मा­ण्वा­दि­स­म­वेतं कार­णे­भ्योऽ­पृ­थ­ग्देशं कार्यमुत्पद्यत इति नास्ति कार्य­स्या­प­क्रमः’ इति । अत्र हि जायमानं कार्यं यस्मात् कारणात् निर्गच्छतीति लोकदृष्टिरस्ति तदेवास्य सूत्रस्य विषयः , न तु दण्ड­च­क्रा­दि­सा­धा­रणं सर्वं कारणमिति लोक­दृ­ष्टि­प्र­द­र्श­क­वा­क्ये­ना­वि­ष्कृ­तम् । वैशे­षि­क­म­र्या­दा­प्र­द­र्श­क­वा­क्येन तु नास्ति कार्यस्यापक्रम इत्यत्र पर­मा­ण्वा­दि­स­म­वे­तस्य कार्य­स्यो­दा­ह­र­णेन विशि­ष्यो­पा­दा­न­वि­ष­य­त्व­मा­वि­ष्कृ­तम् । तेन शरां­कु­रा­द्य­ध­स्थि­ता­च्छृ­ङ्ग­गो­लो­म­बी­जा­द्ये­क­दे­शात् शरांकुरादिकं निर्गच्छतीति लोकदृष्टिरस्ति तस्या­प्यु­पा­दा­न­त्व­मे­वा­भि­म­त­मिति तस्याशय उन्नीयते ।

युक्तञ्चैतत् । अस्ति हि यः कार्त्स्न्येन कार्या­त्म­ता­मा­प­द्यते तस्येव यस्य एकदेशः कार्या­त्म­ता­मा­प­द्यते तस्या­प्यु­पा­दा­न­त्व­व्य­व­हारः । अत एव एकस्य मृत्पिण्डस्य एकदेशानां घट­श­रा­वा­द्य­ने­क­का­या­त्म­ता­पत्तौ तस्यैव घटशरावादिकं प्रत्यु­पा­दा­नत्वं सिद्धं कृत्वा तद्विज्ञानेन घट­श­रा­वा­दि­स­र्व­त­त्का­र्य­वि­ज्ञा­न­मु­दा­प­हा­र­श्रुतिः । सूत्रकारश्च ‘कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्व­श­ब्द­कोपो वा’(ब्र.सू.२-१-२६) इति सूत्रे ब्रह्मण एकदेशस्य जग­द्रू­प­ता­प­त्त्य­ङ्गी­कारे निर­व­य­व­त्व­श्रु­ति­व्या­को­प­मेव दूषणमुवाच , न तु ब्रह्मण उपा­दा­न­त्व­श्रु­ति­व्या­को­पम् । भाष्यकारश्च ‘योनिश्च हि गीयते’(ब्र.सू. १-४-२७) इति सूत्रे योनिशब्दस्य उपादानवाचकत्वं समर्थयमानः ‘स्त्रीयोनेरपि अस्त्ये­वा­व­य­व­द्वा­रेण गर्भं प्रत्यु­पा­दा­न­त्वम्’ इति ब्रुव­न्ने­क­दे­शस्य कार्या­त्म­ता­पत्तौ एकदेशिन उपा­दा­न­त्व­म­नु­मेने । लोकश्च दीर्घै­स्त­न्तु­भि­रा­रब्धे खण्डपटे पटा­का­र­ब­हि­र्भू­तस्य तन्तू­ना­मे­क­दे­शस्य सद्भावेऽपि तन्तून् पटोपादानत्वेन व्यवहरन्ति, न तु तेषां पटा­नु­प्र­वि­ष्टा­ने­क­दे­शा­नेव तदुपादानत्वेन मन्यमानास्तत्र तन्तू­ना­मु­पा­दा­नत्वं प्रतिक्षिपन्ति । वैदि­क­ता­न्त्रि­क­लौ­कि­क­व्य­व­हा­रा­नु­सा­रेण च निमि­त्तो­पा­दा­न­व्य­व­स्थाऽ­ङ्गी­क­र­णीया । तथा च शृङ्ग­गो­लो­मा­दीनां शर­दू­र्वा­द्या­त्म­ता­ना­प­न्नै­क­दे­श­स­द्भा­वेऽपि कृत्स्न­श्रृ­ङ्ग­गो­लो­मा­द्य­व­य­व्येव उपादानम् । अतः ‘श्रुङ्गाच्छरो जायते’ इत्युदाहरणं जनि­क­र्तृ­सू­त्रञ्च उपा­दा­न­वि­ष­य­मे­वेति युक्तम् ।

यत्तु न्यासकृतोक्तं ‘पुत्रात् प्रमोदो जायते’ इत्यत्र पञ्चमीनिर्वाहाय तस्य कार­ण­सा­मा­न्य­वि­ष­यत्वं वक्तव्यमिति तदप्यसङ्गतम् । तेन ‘हेतु­म­नु­ष्येभ्य’ इति सूत्रे हेतुपञ्चम्यां ज्ञापकस्य उपन्यस्ततया तत एव तन्निर्वाहात् । ननु तर्हीहापि ‘यतो वा इमानि भूतानि’ इत्यादौ ज्ञापकलब्धा हेतुपञ्चम्यस्तु । न च वाच्यं – ज्ञापकेन विध्यु­न्न­य­ना­ल्ल­ब्ध्विव प्रत्य­क्ष­सू­त्र­वि­हि­तो­पा­दा­न­प­ञ्च­मी­ग्र­ह­णम् – इति । पाणिनिव्याकरणे ज्ञापकेन सिद्धस्य व्याकरणान्तरेषु प्रत्य­क्ष­वि­धि­वि­हि­त­त्व­स­म्भ­वात् । पाणिनीयस्यैव वेदा­र्थ­नि­र्ण­यो­प­जी­व्य­त्वा­भा­वा­दिति चेत् । स्यादेतदेवं यदि पाणिनीये हेतुपञ्चम्यां ज्ञापकं किञ्चिदुपलभ्येत । तदुपलंभे हि तत्र प्रत्य­क्ष­वि­धि­रपि व्याकरणान्तरे सम्भावनीयो भवेत् , न चैतदुपलभ्यते । ‘हेतु­म­नु­ष्येभ्य’ इति सूत्रे हेतुग्रहणस्य ‘विभाषा गुणेऽ­स्त्रि­याम्’(पा.सू.२-३-२५) इति सूत्र­वि­हि­त­गु­ण­वि­ष­य­प­ञ्च­मी­मा­दाय चरितार्थत्वात् ‘जाड्यादागतं जाड्यरूप्यम्’ इति तदु­दा­ह­र­ण­स­म्भ­वात् । न चैवमपि ‘समादागतं समरूप्यम्’ इति वृत्ति­का­र­द­र्शि­त­स्यो­दा­ह­र­ण­स्या­नि­र्वाहः । तत्र उपादानपञ्चमीति तन्नि­र्वा­हो­प­पत्तेः । न च सूत्रे हेतु­ग्र­ह­णा­द्धे­तु­प­ञ्च­म्यैव भाव्यमिति नियमः । वृत्तिकृतैव ‘हेतु­म­नु­ष्येभ्य’ इति बहुवचनं स्वरू­प­नि­रा­सा­र्थ­मि­त्यु­क्त­त्वात् । मनुष्यग्रहणस्य ‘देवदत्तादागतं देवदत्तरूप्यम्’ इति मनु­ष्य­वि­शे­ष­वि­ष­यस्य उदाहरणस्य दर्शितत्वाच्च । हेतुग्रहणस्यापि हेतु­वि­शे­षो­पा­दा­न­वि­ष­य­मु­दा­ह­रणं दर्शि­त­मि­त्यु­प­पत्तेः ।

एतेन – जनि­धा­तो­र्ड­प्र­त्य­य­वि­धा­यके ‘पञ्चम्यामजातौ’(पा.सू.३-२-९८) इति सूत्रे पञ्च­म्य­न्त­स्यो­प­प­द­स्या­जा­ति­त्व­वि­शे­षणं जातिशब्देभ्यो हेतौ पञ्च­म्य­स्ती­त्यत्र ज्ञापकमित्यपि शङ्का – निरस्ता । ‘जनिकर्तुः प्रकृतिः’ इति सूत्रतस्तेभ्य उपा­दा­न­प­ञ्च­मी­स­द्भा­वेन जाति­श­ब्द­प­र्यु­दा­सस्य तद्वि­ष­य­त्वो­प­पत्तेः , हेतुपञ्चम्यभावे ‘पुत्रात् प्रमोदो जायते’ इत्यत्र कथं निर्वाहः ? निमित्तकारणे पुत्रे उपा­दा­न­त्वा­रो­पात् पञ्चमी भविष्यति ‘रामो जामदग्न्यः’ ‘व्यासः’ पाराशर्यः’ इत्यत्र समनन्तरापत्ये गोत्र­रू­पा­ध्या­रो­पा­द्य­ञ्प्र­त्य­य­वत्’ ‘पर्वतो वह्निमान् धूमवत्त्वात्’ इत्यादौ कथं पञ्चमीनिर्वाहः ? हेतु­प­ञ्च­मी­स­द्भावे वा कथं निर्वाहः ? न हि धूमवत्त्वं वह्नेः कारणम् । ज्ञापकं तदिति चेत् ; न हि ज्ञापकहेतौ पञ्च­मी­वि­धा­न­मस्ति । तस्मात् ‘तदशिष्यं संज्ञा­प्र­मा­ण­त्वात्’(पा.सू. १-२-५३) ‘लुब्यो­गा­प्र­ख्या­नात्’(पा.सू.१-२-५४) इति सूत्र­का­र­प्र­यो­गाद् ज्ञापकादेव ज्ञापकहेतौ पञ्चमी । कारकहेतौ तु तृतीयैव न पञ्चमी । उक्तञ्च भामत्यां ‘पञ्चमी न कारणमात्रे स्मर्यते , अपि तु प्रकृतौ इति ।

अस्तु वा हेतु­प­ञ्च­मी­स­द्भावः । तथा­प्यु­प­प­द­वि­भ­क्तितः कार­क­वि­भ­क्ते­र्ब­ली­य­स्त्वात् ‘यतो वा इमानि’ इत्यादौ उपादानविषयैव पञ्चमी ग्राह्या । न च ‘ध्रुवमपाये’ इति सूत्रा­दि­हा­पा­दा­न­संज्ञा भवितुमर्हति । सर्वगतस्य ब्रह्मणः विश्ले­षा­व­धि­त्वा­स­म्भ­वात् । तस्मादिह जनिकर्तृसूत्रत एवापादानसंज्ञा वक्तव्या । तच्चो­पा­दा­न­मा­त्र­वि­ष­य­मि­त्यु­क्तम् । यदि च न्यासोक्तरीत्या कार­ण­सा­मा­न्य­वि­षयं स्यात् , तदाऽ­प्य­त्रो­पा­दा­न­वि­ष­यैव पञ्चमी सिद्ध्यति । उपादानस्य प्रत्यासन्नतया निमि­त्तो­पा­दा­न­सा­धा­र­ण­श­क्ति­क­स्यापि शब्दस्य उपादाने पर्य­व­सा­न­मौ­त्स­र्गि­क­मिति न्यास­कृ­तै­वो­क्त­त्वात् । यदि च उपा­दा­न­प्र­त्या­स­त्ति­न्या­योऽपि नाद्रियेत , तदा विनिगमनाविरहात् ‘यतो वा इमानि भूतानि जायन्ते’ ‘आकाशादेव समुत्पद्यन्ते’ ‘तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नञ्च जायते’ इत्यादिश्रुतिषु आन­न्त्य­स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञा­द्य­नु­रो­धाच्च उभ­य­वि­ध­का­र­ण­त्व­परा पञ्चमी , न तु निमि­त्त­मा­त्र­प­रे­त्यलं प्रपञ्चेन । यत्तु भाष्ये ‘साक्षा­च्चो­भ­या­म्ना­नात्’ इति सूत्रस्य ब्रह्मैव कारणमुपादाय ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’ इति प्रभ­व­प्र­ल­यो­भ­या­म्ना­ना­दि­त्यर्थं दर्शयित्वा ‘यद्धि यस्मात् प्रभवति यस्मिंश्च लीयते तत्तस्य उपादानं प्रसिद्धं यथा व्रीहियवादीनां पृथिवी’ इति उपादानत्वमात्रे हेतुपरतया व्याख्यानं तत्पू­र्व­व्या­ख्यानं सिद्धं कृत्वा पञ्च­मी­वि­भ­क्ते­रु­पा­दा­न­वि­ष­य­त्वा­व­श्य­म्भावे हेत्व­न्त­र­प्र­द­र्श­ना­र्थ­मि­त्य­व­धे­यम् । तत्र ब्रह्म­णोऽ­नु­पा­दा­न­त्वेऽ­प्यु­पा­दा­नस्य ब्रह्मा­धी­न­त्वा­द्ब्र­ह्मण उपादानत्वोपचार इत्यपि शङ्का मा भूदित्येवमर्थं ‘साक्षात्’ इति सौत्रपदेन ‘आकाशादेव’ इत्यवधारणलब्ध उपा­दा­ना­न्त­र­व्य­व­च्छेदो दर्शितः ॥(१-४-२९)

आत्मकृतेः परिणामात् ॥२६॥

२६

‘सोऽकामयत बहु स्यां प्रजायेय’(तै.उ. २-६) इति बहु­भ­व­न­स­ङ्क­ल्प­व­त्त्वेन प्रकृतस्य ब्रह्मणः ‘तदात्मानं स्वयमकुरुत’(तै.उ. २-७) इति अनन्तरवाक्ये ‘आत्मानम्’ इत्यात्मन एव सृष्टि­क­र्म­त्वस्य ‘स्वयम्’ इति स्वस्यैव सृष्टि­क­र्तृ­त्वस्य च वर्णनात् ब्रह्मण एव प्रपञ्चात्मना परिणामेन प्रपञ्चात्मना कर्मत्वं स्वरूपेण कर्तृत्वमिति एकस्य कर्मकर्तृभावे विरो­धा­भा­वा­दु­भ­य­वि­ध­का­रणं ब्रह्म । यत्तु ‘तदात्मानं सृजाम्यहम्’ इत्या­दि­व­दे­त­दु­प­प­द्यत इत्युक्तम् ; तन्न । तत्रापि कर्म­क­र्तृ­भा­व­श्र­व­णा­वि­शे­षात् । इयांस्तु विशेषः – तत्रा­व­ता­र­श­री­र­रू­पेण स्वात्मनस्स्वेन सृष्टिरुच्यते ‘यदा यदा हि धर्मस्य’ इति धर्म­सं­स्था­प­ना­र्थ­त्वोक्तेः , इह प्रपञ्चरूपेण प्रपञ्चसृष्टिः प्रकरणात् – इति । भाष्ये ‘परिणामात्’ इति सूत्रभागो विरो­धा­भा­व­प्र­द­र्श­ना­र्थ­मे­त­त्सू­त्र­शे­ष­तया व्याख्याय पुनः पृथक्सूत्रतया व्याख्यातः ‘सच्च त्यच्चाभवत्’ इति श्रुतौ मूर्ता­मू­र्ता­त्म­क­प्र­प­ञ्च­रू­पेण परि­णा­मा­द­प्यु­पा­दानं ब्रह्मेति ।

योनिश्च हि गीयते ॥२७॥

२७

‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु.उ.३-१-३) इत्यादिश्रुतिषु ‘योनिः’ इत्यपि ब्रह्म गीयते । योनिशब्दश्च उपादानविषयः प्रसिद्धो लोके । यद्यपि स्थान­व­च­नोऽ­प्य­य­मस्ति ; तथाऽपि पूर्वा­प­र­प्र­ति­ज्ञा­दृ­ष्टा­न्ता­द्य­नु­रो­धा­दि­हो­पा­दा­न­व­चन एव ग्राह्यः । चका­रा­न्नि­मि­त्त­ञ्चेति समुच्चीयते । तत्र हेतुः ‘कर्तारमीशं’ ‘यस्स­र्व­ज्ञ­स्स­र्व­वित्’ इत्या­दि­वि­शे­ष­ण­मि­त्य­नु­क्त­सि­द्धम् । ननु ब्रह्मण उपादानतया सदा­दि­प­रि­णा­मा­ङ्गी­कारे माया­रू­पो­पा­दा­ना­न्त­र­श्रु­ते­र्ब्र­ह्मणो निर्वि­का­र­त्व­श्रु­तेश्च विरोधः स्यादि­त्या­श­ङ्का­या­म­प्ये­त­दे­वो­त्तरं योनिश्च हि गीयते’ इति । ‘प्रकृतिश्च’ इति सूत्रात् प्रकृतिपदं मण्डू­क­प्लु­त्याऽ­नु­व­र्तते । ततश्चायमर्थः – न केवलं ब्रह्मैव जगदुपादानं , किन्तु ‘यो योनिं योनि­म­धि­ति­ष्ठ­त्येकः’(श्वे उ ४-११) इत्यादिश्रुतिषु योनिशब्देनोक्ता मायाऽ­प्यु­पा­दा­न­मि­त्या­म्ना­यते ‘मायां तु प्रकृतिं विद्यात्’ इत्यादिश्रुतिषु । ‘सन् घटः’ इत्या­दि­प्र­ती­तिषु प्रपञ्चे ब्रह्मसत्ताया इव ‘जडो घटः’ इत्या­दि­प्र­ती­तिषु माया­जा­ड्य­स्या­प्य­नु­ग­ति­द­र्श­ना­दु­भ­यो­र­प्यु­पा­दा­नत्वं युक्तम् ।

इति प्रकृत्यधिकरणम् ।७।

एतेन सर्वे व्याख्याता व्याख्याताः ॥२८॥

२८

स्पष्टोऽर्थः ।१-४-२८।

इति श्रीम­द्भा­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­री­न्द्र­व­र­सूनोः चतु­र­धि­क­श­त­प्र­ब­न्ध­नि­र्मा­ण­च­णस्य श्रीम­द­प्प­य्य­दी­क्षि­तस्य कृतौ शारी­र­क­न्या­य­र­क्षा­मणौ प्रथ­म­स्या­ध्या­यस्य चतुर्थः पादः ।

अध्यायश्च समाप्तः

ओम् तत्सत्