अद्वैतशारदा

पञ्चपादिका

अध्यासभाष्यविषयाः ।

व्याख्याः

अथ प्रथमं वर्णकम्

’युष्म­द­स्म­त्प्र­त्य­य­गो­च­रयोः’ इत्यादि ‘अहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः’ इत्यन्तं भाष्यम् ‘अस्यानर्थहेतोः प्रहा­णा­या­त्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये सर्वे वेदान्ता आरभ्यन्ते’ इत्यनेन भाष्येण पर्यवस्यत् शास्त्रस्य विषयः प्रयोजनं चार्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति । एतच्च ‘तस्मात् ब्रह्म जिज्ञासितव्यम्’ इत्यादिभाष्ये स्पष्टतरं प्रदर्शयिष्यामः ॥

अत्राह यद्येवम् , एतावदेवास्तु भाष्यम् ‘अस्यानर्थहेतोः प्रहा­णा­या­त्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये सर्वे वेदान्ता आरभ्यन्ते’ इति ; तत्र ‘अनर्थहेतोः प्रहाणाय’ इति प्रयो­ज­न­नि­र्देशः, ‘आत्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये’ इति विषयप्रदर्शनं, किमनेन ‘युष्मदस्मद्’ इत्यादिना ‘अहं मनुष्यः’ इति देहे­न्द्रि­या­दिषु अहं ममे­द­मि­त्य­भि­मा­ना­त्म­कस्य लोकव्यवहारस्य अवि­द्या­नि­र्मि­त­त्व­प्र­द­र्श­न­प­रेण भाष्येण ? उच्यते — ब्रह्मज्ञानं हि सूत्रितं अन­र्थ­हे­तु­नि­ब­र्ह­णम् । अनर्थश्च प्रमा­तृ­ता­प्र­मुखं कर्तृ­त्व­भो­क्तृ­त्वम् । तत् यदि वस्तुकृतं, न ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम् । तत् यदि कर्तृ­त्व­भो­क्तृ­त्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अन­र्थ­हे­तु­नि­ब­र्ह­ण­मु­च्य­मा­न­मु­प­प­द्येत । तेन सूत्रकारेणैव ब्रह्म­ज्ञा­न­म­न­र्थ­हे­तु­नि­ब­र्हणं सूचयता अविद्याहेतुकं कर्तृ­त्व­भो­क्तृत्वं प्रदर्शितं भवति । अतः तत्प्र­द­र्श­न­द्वा­रेण सूत्रा­र्थो­प­प­त्त्यु­प­यो­गि­तया सक­ल­त­न्त्रो­पो­द्घातः प्रयोजनमस्य भाष्यस्य । तथा चास्य शास्त्रस्य ऐदम्पर्यं सुखै­क­ता­न­स­दा­त्म­क­कू­ट­स्थ­चै­त­न्यै­क­र­सता संसा­रि­त्वा­भि­म­त­स्या­त्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम् । तच्च अहं कर्ता सुखी दुःखी इति प्रत्य­क्षा­भि­म­तेन अबाधितकल्पेन अवभासेन विरुध्यते । अतः तद्वि­रो­ध­प­रि­हा­रार्थं ब्रह्म­स्व­रू­प­वि­प­री­त­रूपं अविद्यानिर्मितं आत्मन इति यावत् न प्रतिपाद्यते, तावत् जर­द्ग­वा­दि­वा­क्य­व­द­न­र्थकं प्रतिभाति ; अतः तन्नि­वृ­त्त्य­र्थम् अविद्याविलसितम् अब्र­ह्म­स्व­रू­प­त्वम् आत्मन इति प्रति­पा­द­यि­त­व्यम् । वक्ष्यति च एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः ‘तद्गु­ण­सा­र­त्वात्’(ब्र. सू. २-३-२९) इत्यादिना ॥

यद्येवमेतदेव प्रथममस्तु, मैवम् ; अर्थ­वि­शे­षो­प­पत्तेः । अर्थविशेषे हि समन्वये प्रदर्शिते तद्वि­रे­धा­श­ङ्कायां तन्नि­रा­क­र­ण­मु­प­प­द्यते । अप्रदर्शिते पुनः समन्वयविशेषे, तद्विरोधाशङ्का तन्निराकरणं च निर्विषयं स्यात् । भाष्यकारस्तु तत्सिद्धमेव आदिसूत्रेण सामर्थ्यबलेन सूचितं सुख­प्र­ति­प­त्त्यर्थं वर्णयतीति न दोषः ॥

ननु च ग्रन्थ­क­र­णा­दि­का­र्या­रम्भे कार्यानुरूपं इष्ट­दे­व­ता­पू­जा­न­म­स्का­रेण बुद्धि­स­न्नि­धा­पि­ता­थ­वृ­द्ध्या­दि­शब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं च मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति च निःश्रे­य­स­प्र­यो­जने ग्रन्थ­मा­र­भ­मा­णस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं च `श्रेयांसि बहु­वि­घ्नानि' इति । विज्ञायते च-'तस्मा­देषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां च यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्म­द­स्मद्' इत्यादि `तद्धर्माणामपि सुत­रा­मि­त­रे­त­र­भा­वा­नु­प­पत्तिः' इत्यन्तमेव भाष्यम् । अस्य च अय­म­र्थः—स­र्वो­प­प्ल­व­र­हितो विज्ञानघनः प्रत्यगर्थः इति । तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निर­स्त­स­म­स्तो­प­प्लवं चैत­न्यै­क­ता­न­मा­त्मानं प्रतिपद्यमानस्य कुतो विघ्नो­प­प्ल­व­स­म्भवः? तस्मात् अग्रणीः शिष्टा­चा­र­प­रि­पा­लने भगवान् भाष्यकारः ।

अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम् ।
मिथ्या­ज्ञा­न­नि­मित्तः इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति च जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यते । तन्निमित्तः तदुपादानः इत्यर्थः ॥

कथं पुनः नैमि­त्त­क­व्य­व­हा­रस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्या­ध्या­त्मि­केषु वस्तुषु तत्स्व­रू­प­स­त्ता­मा­त्रा­नु­ब­न्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्या­र्था­व­भा­सा­नु­प­पत्तेः । सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमा­ण­वै­क­ल्या­देव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं च सत्यामपि तस्यां स्वरू­प­ग्र­ह­ण­द­र्श­नात् , अतः तत्र रूपा­न्त­रा­व­भा­स­हे­तु­रेव केवलम् । प्रत्यगात्मनि तु चिति­स्व­भा­व­त्वात् स्वय­म्प्र­का­श­माने ब्रह्म­स्व­रू­पा­न­व­भा­सस्य अन­न्य­नि­मि­त्त­त्वात् तद्ग­त­नि­स­र्ग­सि­द्धा­वि­द्या­श­क्ति­प्र­ति­ब­न्धा­देव तस्य अनवभासः । अतः सा प्रत्यक्चिति ब्रह्म­स्व­रू­पा­व­भासं प्रतिबध्नाति, अह­ङ्का­रा­द्य­त­द्रू­प­प्र­ति­भा­स­नि­मित्तं च भवति, सुषुप्त्यादौ च अह­ङ्का­रा­दि­वि­क्षेप संस्का­र­मा­त्र­शेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अह­ङ्का­र­म­म­का­रा­त्मको मनु­ष्या­द्य­भि­मानो लोकव्यवहारः मिथ्या­ज्ञा­न­नि­मित्तः उच्यते, न पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन न विरुध्यते ॥

‘अन्यो­न्य­ध­र्मांश्च’ इति
पृथक् धर्मग्रहणं धर्ममात्रस्यापि कस्यचिदध्यास इति दर्शयितुम् ।

कस्य धर्मिणः कथं कुत्र च अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति ।
‘अहमिदं ममेदम् इति’
अध्यासस्य स्वरूपं दर्शयति । अहमिति तावत् प्रथमोऽध्यासः । ननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, न अंशान्तरम् अध्यस्तं वा । यथा अध्य­स्तां­शा­न्त­र्भावः, तथा दर्शयिष्यामः । ननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति च अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः । तत्र न किञ्चित् अध्यस्तमिव दृश्यते । उच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदा­त्म­क­त्व­सिद्धिः । न हि स्वप्ना­वा­प्त­रा­ज्या­भि­षे­कस्य माहे­न्द्र­जा­ल­नि­र्मि­तस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अह­ङ्क­र्तृ­त्व­प्र­मुखः क्रिया­का­र­क­फ­ला­त्मको लोकव्यवहारः अध्यस्तः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावे आत्मनि । अतः तादृ­ग्ब्र­ह्मा­त्मा­नु­भ­व­प­र्य­न्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृ­त्ति­रु­प­प­द्यते, इति तद­र्थ­वि­ष­य­वे­दा­न्त­मी­मां­सा­रम्भः उपपद्यते ॥

‘आह — कोऽयमध्यासो नाम’
इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम् । तत्रापि

ननु एवमपि तल्लक्षणस्य वस्तुनः सद्भावमात्रम् इह कथनीयम् ; न हि यत्र यस्य सद्भावः प्रमाणतः प्रतिपन्नः, तत्रैव तस्य असम्भावनाशङ्का, येन तद्विनिवृत्तये तत्सम्भावना अपरा कथ्येत ; सत्यमेवं, विषयविशेषस्तु प्रयत्नेन अन्विच्छद्भिरपि अनु­प­ल­भ्य­मा­न­का­र­ण­दोषे विज्ञाने अवभासमानोऽपि पूर्वप्रवृत्तेन सकललोकव्यापिना निश्चितेन प्रमाणेन असम्भाव्यमानतया अपोद्यमानो दृश्यते । तद्यथा — औत्पातिकः सवितरि सुषिः, यथा वा माहे­न्द्र­जा­ल­कु­श­लेन प्रासादादेः निगरणम् । एवम् अविषये असङ्गे केनचिदपि गुणादिना अध्यासहेतुना रहिते निष्क­ल­ङ्क­चै­त­न्य­तया अन्यगतस्यापि अध्यासस्य अपनोदनसमर्थे अध्यासावगमः अवि­भा­व्य­मा­न­का­र­ण­दोषः विभ्रमः इति आशङ्क्येत, तत् मा शङ्कि इति, सद्भावातिरेकेण सम्भवोऽपि पृथक् कथनीयः ; तदुच्यते ;

‘स्मृतिरूपः परत्र पूर्व­दृ­ष्टा­व­भासः’ इति
प्रश्न­वा­क्य­स्थि­तम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयते । तत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धा । तस्य विशेषणं स्मृतिरूपत्वम् । स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात् । स्मर्यमाणरूपमिव रूपम् अस्य, न पुनः स्मर्यते एव ; स्पष्टं पुरोऽ­व­स्थि­त­त्वा­व­भा­स­नात् । पूर्व­दृ­ष्टा­व­भासः इति उपपत्तिः स्मृतिरूपत्वे । न हि पूर्वम् अदृष्टरजतस्य शुक्ति­स­म्प्र­योगे रजतम् अवभासते । यतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवति । कथम् ? तदुच्यते — स्मृतेः रूपमिव रूपमस्य, न पुनः स्मृतिरेव ; पूर्व­प्र­मा­ण­वि­ष­य­वि­शे­षस्य तथा अनवभासकत्वात् । कथं पुनः स्मृतिरूपत्वम् ? पूर्व­प्र­मा­ण­द्वा­र­स­मु­त्थ­त्वात् । न हि अस­म्प्र­यु­क्ता­व­भा­सिनः पूर्व­प्र­वृ­त्त­त­द्वि­ष­य­प्र­मा­ण­द्वा­र­स­मु­त्थ­त्व­म­न्त­रेण समुद्भवः सम्भवति ॥

अपर आह — ननु अन्य­स­म्प्र­युक्ते चक्षुषि अन्यविषयज्ञानं स्मृतिरेव, प्रमोषस्तु स्मरणाभिमानस्य । इन्द्रियादीनां ज्ञानकारणानां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषस्य स्मृतिसमुद्बोधः क्रियते । सम्प्रयुक्तस्य च दोषेण विशे­ष­प्र­ति­भा­स­हे­तुत्वं करणस्य विहन्यते । तेन दर्शनस्मरणयोः निर­न्त­रो­त्प­न्नयोः करणदोषादेव विवेकानवधारणाद् दूरस्थयोरिव वनस्पत्योः अनुत्पन्ने एव एकत्वावभासे उत्पन्नभ्रमः । ननु अना­स्वा­दि­त­ति­क्त­र­स­स्यापि बालकस्य पित्तदोषात् मधुरे तिक्तावभासः कथं स्मरणं स्यात् ? उच्यते — जन्मा­न्त­रा­नु­भू­त­त्वात् , अन्यथा अन­नु­भू­त­त्वा­वि­शेषे अत्यन्तम् असन्नेव कश्चित् सप्तमो रसः किमिति नावभासेत । तस्मात् पित्तमेव मधुराग्रहणे तिक्तस्मृतौ तत्प्रमोषे च हेतुः ; कार्यगम्यत्वात् हेतुभावस्य । एतेन अन्यसम्प्रयोगे अन्यविषयस्य ज्ञानस्य स्मृति­त्व­त­त्प्र­मोषौ सर्वत्र व्याख्यातौ द्रष्टव्यौ ॥ उच्यते — कोऽयं स्मरणाभिमानो नाम ? न तावत् ज्ञाना­नु­वि­द्ध­तया ग्रहणम् । न हि अतिवृत्तस्य ज्ञानस्य ग्राह्य­वि­शे­ष­ण­तया विषयभावः । तस्मात् शुद्धमेव अर्थं स्मृतिरवभासयति, न ज्ञानानुविद्धम् । तथा च पदात् पदार्थस्मृतौ न दृष्टो ज्ञानसम्भेदः ; ज्ञानस्यापि शब्दा­र्थ­त्व­प्र­स­ङ्गात् । तथा इष्ट­भू­भा­ग­वि­ष­या­स्मृतिः ‘स सेव्यः’ इति ग्राह्य­मा­त्रस्था, न ज्ञानपरामर्शिनी । अपि च भूयस्यः ज्ञान­प­रा­म­र्श­शून्या एव स्मृतयः । नापि स्वगतो ज्ञानस्य स्मरणाभिमानो नाम रूपभेदः अवभासते । न हि नित्यानुमेयं ज्ञानम् अन्यद्वा वस्तु स्वत एव रूपसम्भिन्नं गृह्यते । अत एवोक्तम् ‘अनाकारामेव बुद्धिं अनुमिमीमहे’ इति । अनाकाराम् अनि­रू­पि­ता­का­र­वि­शे­षाम् ; अनि­र्दि­ष्ट­स्व­ल­क्ष­णाम् इत्यर्थः । अतो न स्वतः स्मर­णा­भि­मा­ना­त्म­कता । नापि ग्राह्य­वि­शे­ष­नि­मित्तः स्मरणाभिमानः ; प्रमा­ण­ग्रा­ह्य­स्यैव अविकलानधिकस्य गृह्यमाणत्वात् , नापि फलविशेषनिमित्तः ; प्रमा­ण­फ­ल­वि­ष­य­मा­त्रा­व­च्छि­न्न­फ­ल­त्वात् । यः पुनः क्वचित् कदाचित् अनुभूतचरे ‘स्मरामि’ इत्यनुवेधः, सः वाच­क­श­ब्द­सं­यो­ज­ना­नि­मित्तः, यथा सास्नादिमदाकृतौ गौः इत्यभिमानः । तस्मात् पूर्व­प्र­मा­ण­सं­स्का­र­स­मु­त्थ­तया तद्वि­ष­या­व­भा­सि­त्व­मात्रं स्मृतेः, न पुनः प्रतीतितः अर्थतो वा अधिकोंशः अस्ति, यस्य दोषनिमित्तः प्रमोषः परिकल्प्येत । न चेह पूर्व­प्र­मा­ण­वि­ष­या­व­भा­सि­त्व­मस्ति ; पुरोऽ­व­स्थि­ता­र्थ­प्र­ति­भा­स­नात् , इत्युक्तम् । अतः न अन्यसम्प्रयोगे अन्यविषयज्ञानं स्मृतिः, किन्तु अध्यासः ॥

ननु एवं सति वैप­री­त्य­मा­प­द्यते, रजतमवभासते शुक्तिरालम्बनम् इति, नैतत् संविदनुसारिणाम् अनुरूपम् । ननु शुक्तेः स्वरूपेणापि अवभासने संवि­त्प्र­यु­क्त­व्य­व­हा­र­यो­ग्य­त्व­मेव आलम्बनार्थः, सैव इदानीं रज­त­व्य­व­हा­र­योग्या प्रतिभासते, तत्र किमिति आलम्बनं न स्यात् ? अथ तथारूपावभासनं शुक्तेः पारमार्थिकं ? उताहो न ? यदि पारमार्थिकं, नेदं रजतमिति बाधो न स्यात् नेयं शुक्तिः इति यथा । भवति च बाधः । तस्मात् न एष पक्षः प्रमाणवान् । अथ शुक्तेरेव दोषनिमित्तो रजतरूपः परिणाम उच्यते, एतदप्यसारम् ; न हि क्षीरपरिणामे दधनि ‘नेदं दधि’ इति बाधो दृष्टः ; नापि क्षीरमिदम् इति प्रतीतिः, इह तु तदुभयं दृश्यते । किञ्च रजतरूपेण चेत् परिणता शुक्तिः, क्षीरमिव दधिरूपेण, तदा दोषापगमेऽपि तथैव अवतिष्ठेत । ननु कम­ल­मु­कु­ल­वि­का­स­प­रि­णा­म­हेतोः सावित्रस्य तेजसः स्थिति­हे­तु­त्व­मपि दृष्टं, तदपगमे पुनः मुकु­ली­भा­व­द­र्श­नात् , तथा इहापि स्यात् , न ; तथा सति तद्वदेव पूर्वा­व­स्था­प­रि­णा­म­बुद्धिः स्यात् , न बाधप्रतीतिः स्यात् । अथ पुनः दुष्ट­का­र­ण­ज­न्यायाः प्रतीतेरेव रजतोत्पादः इति मन्येत, एतदपि न सम्यगिव ; कथम् ? यस्याः प्रतीतेः तदुत्पादः तस्यास्तावत् न तत् आलम्बनम् ; पूर्वोत्तरभावेन भिन्नकालत्वात् , न प्रतीत्यन्तरस्य ; पुरु­षा­न्त­र­प्र­ती­ते­रपि तत्प्रसङ्गात् । ननु किमिति पुरु­षा­न्त­र­प्र­ती­ते­रपि तत्प्रसङ्गः ? दुष्ट­सा­म­ग्री­ज­न्मनो हि प्रतीतेः तत् आलम्बनम् , मैवम् ; प्रती­त्य­न्त­र­स्यापि तद्विधस्य रज­ता­न्त­रो­त्पा­द­ने­नैव उपयुक्तत्वात् प्रथमप्रत्ययवत् । अतः अनुत्पन्नसममेव स्यात् । तदेवं पारिशेष्यात् स्मृतिप्रमोष एव अवतिष्ठेत ॥

ननु स्मृतेः प्रमोषो न सम्भवति इत्युक्तं, तथा च तन्त्रान्तरीया आहुः — ‘अनु­भू­त­वि­ष­या­स­म्प्र­मोषा स्मृतिः’ इति । का तर्हि गतिः शुक्ति­स­म्प्र­योगे रजतावभासस्य ? उच्यते — न इन्द्रि­य­ज­ज्ञा­नात् संस्कारजं स्मरणं पृथगेव स्मर­णा­भि­मा­न­शून्यं समुत्पन्नं, किन्तु एकमेव संस्कारसहितात् इन्द्रियात् । कथमेतत् ? उच्यते — कारणदोषः कार्यविशेषे तस्य शक्तिं निरुन्धन्नेव संस्कारविशेषमपि उद्बोधयति ; कार्यगम्यत्वात् कारणदोषशक्तेः । अतः संस्का­र­दु­ष्ट­का­र­ण­सं­व­लिता एका सामग्री । सा च एकमेव ज्ञानम् एकफलं जनयति । तस्य च दोषो­त्था­पि­त­सं­स्का­र­वि­शे­ष­स­हि­त­सा­म­ग्री­स­मु­त्प­न्न­ज्ञा­नस्य उचितमेव शुक्ति­ग­त­मि­थ्या­र­ज­त­मा­ल­म्ब­न­म­व­भा­सते । तेन मिथ्यालम्बनं ज्ञानं मिथ्याज्ञानम् , न स्वतो ज्ञानस्य मिथ्यात्वमस्ति, बाधाभावात् । भिन्न­जा­ती­य­ज्ञा­न­हे­तु­सा­मग्र्योः कथ­मे­क­ज्ञा­नो­त्पा­द­न­मिति चेत् , नैष दोषः ; दृश्यते हि लिङ्ग­ज्ञा­न­सं­स्का­रयोः सम्भूय लिङ्गि­ज्ञा­नो­त्पा­दनं, प्रत्य­भि­ज्ञा­नो­त्पा­द­नञ्च अक्षसंस्कारयोः । उभयत्रापि स्मृति­ग­र्भ­मे­क­मेव प्रमाणज्ञानम् ; संस्का­रा­नु­द्बोधे तदभावात् । तस्मात् लिङ्गदर्शनमेव सम्ब­न्ध­ज्ञा­न­सं­स्का­र­मु­द्बोध्य तत्सहितं लिङ्गिज्ञानं जनयतीति वक्तव्यम् । अयमेव च न्यायः प्रत्य­भि­ज्ञा­नेऽपि । न पुनः ज्ञानद्वये प्रमाणमस्ति । तथा भिन्न­जा­ती­य­ज्ञा­न­हे­तुभ्यो नीलादिभ्य एकं चित्रज्ञानं निदर्शनीयम् । तत्र लैङ्गि­क­ज्ञा­न­प्र­त्य­भि­ज्ञा­चि­त्र­ज्ञा­ना­ना­म­दु­ष्ट­का­र­णा­र­ब्ध­त्वाद् यथा­र्थ­मे­वा­व­भासः, इह तु कार­ण­दो­षा­द­त­था­भू­ता­र्था­व­भासः इति विशेषः । एवंच सति नानुभवविरोधः ; प्रतिभासमानस्य रज­त­स्यै­वा­व­ल­म्ब­न­त्वात् , अतो मायामयं रजतम् । अथ पुनः पारमार्थिकं स्यात् , सर्वैरेव गृह्येत ; यतो न हि पारमार्थिकं रजतं कारणदोषं स्वज्ञा­नो­त्प­त्ता­व­पे­क्षते । यद्यपेक्षेत, तदा तदभावे न तत्र ज्ञानोत्पत्तिः ; आलोकाभावे इव रूपे । मायामात्रत्वे तु मन्त्रा­द्यु­प­ह­त­च­क्षुष इव दोषो­प­ह­त­ज्ञा­न­क­रणा एव पश्यन्तीति युक्तम् । किञ्च नेदं रजतम् इति बाधोऽपि मायामयत्वमेव सूचयति । कथम् ? तेन हि तस्य निरु­पा­ख्य­ता­पा­द­न­पू­र्वकं मिथ्यात्वं ज्ञाप्यते । ‘नेदं रजतं मिथ्यै­वा­भा­सिष्ट’ इति । न च तत् केनचिद्रूपेण रूप­व­त्त्वेऽ­व­क­ल्पते ; सम्प्र­यु­क्त­शु­क्ति­वत् निर­स्य­मा­न­वि­ष­य­ज्ञा­न­वच्च ॥ ननु न व्यापकमिदं लक्षणम् ; स्वप्न­शो­का­दा­व­स­म्भ­वात् , न हि स्वप्नशोकादौ केनचित् सम्प्र­यो­गोऽस्ति, येन परत्र परावभासः स्यात् । अत एव वास­ना­ति­रि­क्त­का­र­णा­भा­वात् स्मृतिरेव, न स्मृतिरूपता, अत्रोच्यते न तावत् स्मृतित्वमस्ति ; अप­रो­क्षा­र्था­व­भा­स­नात् । ननु स्मृतिरूपत्वमपि नास्ति ; पूर्व­प्र­मा­ण­सं­स्का­र­मा­त्र­ज­न्य­त्वात् , अत्रोच्यते ; उक्तमेतत् पूर्व­प्र­मा­ण­वि­ष­या­व­भा­सि­त्व­मात्रं स्मृतेः स्वरूपमिति । तदिह निद्रा­दि­दो­षो­प­प्लुतं मनः अदृ­ष्टा­दि­स­मु­द्बो­धि­त­सं­स्का­र­वि­शे­ष­स­ह­का­र्या­नु­रूपं मिथ्यार्थविषयं ज्ञानमुत्पादयति । तस्य च तद­व­च्छि­न्ना­प­रो­क्ष­चै­त­न्य­स्था­वि­द्या­श­क्ति­रा­ल­म्ब­न­तया विवर्तते । ननु एवं सति अन्तरेव स्वप्ना­र्थ­प्र­ति­भासः स्यात् ? को वा ब्रूते नान्तरिति ? ननु विच्छि­न्न­दे­शोऽ­नु­भू­यते स्वप्नेऽपि जागरण इव, न तद­न्त­र­नु­भ­वा­श्र­यत्वे स्वप्ना­र्थ­स्यो­प­प­द्यते, ननु देशोऽपि तादृश एव, कुत­स्त­त्स­म्ब­न्धात् विच्छेदोऽवभासते ? अयमपि तर्ह्यपरो दोषः, नैष दोषः ; जागरणेऽपि प्रमा­ण­ज्ञा­ना­द­न्त­र­प­रो­क्षा­नु­भ­वात् न विषयस्था अपरोक्षता भिद्यते ; एकरूपप्रकाशनात् । अतोऽ­न्त­र­प­रो­क्षा­नु­भ­वा­व­गु­ण्ठित एव जाग­र­णेऽ­प्य­र्थोऽ­नु­भू­यते ; अन्यथा जडस्य प्रका­शा­नु­प­पत्तेः । यथा तमसाऽवगुण्ठितो घटः प्रदी­प­प्र­भा­व­गु­ण्ठ­न­म­न्त­रेण न प्रकाशीभवति, एवम् । यः पुन­र्वि­च्छे­दा­व­भासः, स जागरेऽपि मायाविजृम्भितः ; सर्वस्य प्रपञ्चजातस्य चैत­न्यै­का­श्र­य­त्वात् , तस्य च निरंशस्य प्रदे­श­भे­दा­भा­वात् । प्रपञ्चभेदेनैव हि तत् कल्पितावच्छेदं सदवच्छिन्नमिव बहिरिव अन्तरिव प्रकाशते । अथवा दिगाकाशौ मनोमात्रगोचरौ सर्व­त्रा­ध्या­सा­धारौ विद्येते इति न परत्रेति विरुध्यते ॥

कथं तर्हि नामादिषु ब्रह्माध्यासः ? किमत्र कथम् ? न तत्र कारणदोषः, नापि मिथ्या­र्था­व­भासः, सत्यम् ; अत एव चोदनावशात् इच्छा­तोऽ­नु­ष्ठे­य­त्वात् मानसी क्रियैषा, न ज्ञानं ; ज्ञानस्य हि दुष्ट­का­र­ण­ज­न्यस्य विषयो मिथ्यार्थः । न हि ज्ञानमिच्छातो जनयितुं निवर्तयितुं वा शक्यं ; कार­णै­का­य­त्त­त्वा­दि­च्छा­नु­प्र­वे­शा­नु­प­पत्तेः । ननु स्मृति­ज्ञा­न­मा­भो­गेन जन्यमानं मनोनिरोधेन च निरुध्यमानं दृश्यते । सत्यं ; न स्मृत्यु­त्प­त्ति­नि­रो­ध­यो­स्त­यो­र्व्या­पारः, किन्तु कारणव्यापारे तत्प्रतिबन्धे च चक्षुष इवो­न्मी­ल­न­नि­मी­लने, न पुन­र्ज्ञा­नो­त्पत्तौ व्यापार इच्छायाः । तस्मात् ब्रह्मदृष्टिः केवला अध्यस्यते चोदनावशात् फलायैव, मातृबुद्धिरिव रागनिवृत्तये परयोषिति । तदेवम् अनवद्यमध्यासस्य लक्षणं —
स्मृतिरूपः परत्र पूर्व­दृ­ष्टा­व­भासः इति ॥

‘तं केचित्’
इत्यादिना अध्यासस्वरूपे मता­न्त­र­मु­प­न्य­स्यति स्वमतपरिशुद्धये ।

अन्ये तु यत्र यदध्यासः तस्यैव विप­री­त­ध­र्म­त्व­क­ल्प­ना­मा­च­क्षते इति ।
यत्र शुक्तिकादौ, यस्य रजतादेरध्यासः, तस्यैव शुक्तिशकलादेः, विप­री­त­ध­र्म­त्वस्य रज­ता­दि­रू­प­त्वस्य, कल्पनाम् अवि­द्य­मा­न­स्यै­वा­व­भा­स­मा­न­ताम् , आचक्षते ।

ननु रजते संवित् , संविदि रजतमिति परस्पराधिष्ठानो भविष्यति, बीजाङ्कुरादिवत् , नैतत् सारं ; न तत्र यतो बीजात् योऽङ्कुरः तत एव तद्बीजम् , अपि तु अङ्कुरान्तरात् , इह पुनः यस्यां संविदि यत् रजतमवभासते, तयो­रे­वे­त­रे­त­रा­ध्यासः, ततो दुर्घटमेतत् । बीजा­ङ्कु­रा­दि­ष्वपि न बीजा­ङ्कु­रा­न्त­र­प­र­म्प­रा­मा­त्रेण अभि­म­त­व­स्तु­सिद्धिः ; प्रतीतितो वस्तु­त­श्चा­नि­वृ­त्ता­का­ङ्क्ष­त्वात् , तथा च ‘कुत इदमेवं’ इति पर्यनुयोगे ‘दृष्टत्वादेवं’ इति तत्र एव दूरं वा परिधाव्य स्थातव्यम् ; अन्यथा हेतु­प­र­म्प­रा­मे­वा­व­लम्ब्य क्वचि­द­प्य­न­व­ति­ष्ठ­मानो नान­व­स्था­दो­ष­म­ति­व­र्तेत । अपि च न क्वचिन्निरवधिको ‘न’ इत्येव बाधावगमो दृष्टः, यत्रा­प्य­नु­मा­ना­दा­प्त­व­च­नाद्वा न सर्पः इत्येवावगमः, तत्रापि ‘किं पुनरिदम् ? ’ इत्य­पे­क्षा­द­र्श­नात् पुरोऽवस्थितं वस्तु­मा­त्र­म­व­धि­र्वि­द्यते । प्रधानादिष्वपि जगत्कारणे त्रिगु­ण­त्वा­दि­बाधः अधिगतावधिरेव । अथवा सर्व­लो­क­सा­क्षि­क­मे­तत् केशो­ण्ड्र­का­दा­वपि तद्बाधे तदनुषङ्ग एव बोधे बाध्यते, न बोधः । अतः तदवधिः सर्वस्य बाधः ; तेन तन्मात्रस्य बाधाभावात् , स्वतश्च विशेषानुपलब्धेः कूट­स्था­प­रो­क्षै­क­र­स­चै­त­न्या­वधिः सर्वस्य बाधः । नाप्य­ध्य­स्त­म­प्य­स­देव ; तथात्वे प्रतिभासायोगात् ॥

ननु सर्वमेवेदमसदिति भवतो मतम् । क एवमाह ? अनि­र्व­च­नी­या­ना­द्य­वि­द्या­त्म­क­मि­त्यु­द्घो­षि­त­म­स्माभिः । अथ पुनर्विद्योदये अविद्याया निरु­पा­ख्य­ता­म­ङ्गी­कृ­त्या­स­त्त्व­मु­च्येत, काममभिधीयताम् । तथा च बाधकज्ञानं ‘नेदं रजतम्’ इति विशि­ष्ट­दे­श­का­ल­स­म्बद्धं रजतं विलोपयदेवोदेति, न देशा­न्त­र­स­म्ब­न्ध­मा­पा­द­यति ; तथाऽनवगमात् । तथा च दूरवर्तिनीं रज्जुं सर्पं मन्यमानस्य निक­ट­व­र्ति­नाऽऽ­प्तेन ‘नायं सर्पः’ इत्युक्ते सर्पाभावमात्रं प्रतिपद्यते, न तस्य देशा­न्त­र­व­र्तित्वं ; तत्प्र­ति­प­त्ता­व­सा­म­र्थ्यात् वाक्यस्य । नार्थापत्त्या ; इह भग्नघटाभाववत् तावन्मात्रेणापि तत्सिद्धेः । यत्रापि सर्पबाधपूर्वको रज्जु­वि­धि­र­क्ष­जन्यः तादृशवाक्यजन्यो वा, तत्रापि स एव न्यायः ; तथाऽनवगमात् , तदेवं न क्वचि­न्नि­र­धि­ष्ठा­नोऽ­ध्यासः ? तस्मात् साधूक्तं परत्र इति ॥ यद्येवं ‘परत्र पूर्व­दृ­ष्टा­व­भासः’ इत्येतावदस्तु लक्षणम्, तथाविधस्य स्मृति­रू­प­त्वा­व्य­भि­चा­रात् , सत्यम् ; अर्थलभ्यस्य स्मृतित्वमेव स्यात् , न स्मृतिरूपत्वम् । न च स्मृति­वि­ष­य­स्या­ध्या­स­त्व­मि­त्यु­क्तम् । यद्ये­व­मे­ता­व­दस्तु लक्षणं परत्र स्मृति रूपावभासः इति, तत्र परत्रेत्युक्ते अर्थलभ्यस्य परावभासस्य स्मृतिरूपत्वं विशेषणं, न हि पर­स्या­स­म्प्र­यु­क्तस्य पूर्व­दृ­ष्ट­त्वा­भावे स्मृति­रू­प­त्व­स­म्भवः, सत्यम् ; विस्पष्टार्थं पूर्व­दृ­ष्ट­ग्र­ह­ण­मिति यथान्यासमेव लक्षणमस्तु ।

ननु न शुक्तिका प्रतिभासते, रजतमेव प्रतिभासते, तेन शुक्तिकेति, रजतवदिति चोभयं नोपपद्यते, उच्यते — शुक्ति­का­ग्र­ह­ण­मु­प­रि­त­न­स­म्य­ग्ज्ञा­न­सिद्धं परमार्थतः शुक्ति­का­त्व­म­पेक्ष्य, वतिग्रहणं तु सम्प्र­यु­क्त­स्या­र­ज­त­स्व­रू­पस्य मिथ्यारजतसम्भेद इवा­व­भा­स­न­म­ङ्गी­कृत्य । मिथ्यात्वमपि रजतस्य आग­न्तु­क­दो­ष­नि­मि­त्त­त्वा­द­न­न्त­र­बा­ध­द­र्श­नाच्च कथ्यते, न पुनः परमार्थाभिमतात् रज­ता­द­न्य­त्व­मा­श्रित्य । तत्र अस­म्प्र­यु­क्त­त्वा­द्र­ज­तस्य नेद­न्ता­व­भा­स­स्त­द्गतः, किन्तु सम्प्रयुक्तगत एव । अप­रो­क्षा­व­भा­सस्तु संस्का­र­ज­न्म­नोऽपि रजतोल्लेखस्य दोष­ब­ला­दि­न्द्रि­य­ज­ज्ञा­ना­न्त­र्भा­वा­च्चे­ति­द्र­ष्ट­व्यम् । तत्र शुक्तिकोदाहरणेन सम्प्र­यु­क्त­स्या­नात्मा रजतमिति दर्शितम् । निरञ्जनस्य चैतन्यस्य अस्मदर्थे अनिदमंशस्य अनात्मा तदवभास्यत्वेन युष्म­द­र्थ­ल­क्ष­णा­पन्नः अहङ्कारः अध्यस्तः इति प्रदर्शनार्थं द्विच­न्द्रो­दा­ह­र­णेन जीवेश्वरयोः जीवानां चानात्मरूपो भेदावभासः इति दर्शितम् । ननु बहिरर्थे कारणदोषोऽर्थगतः सादृश्यादिः इन्द्रियगतश्च तिमि­रा­दि­रु­प­ल­भ्यते, तन्नि­मि­त्त­श्चा­र्थस्य सांश­त्वा­दं­शा­न्त­रा­व­ग्र­हेऽपि अंशा­न्त­र­प्र­ति­बन्धो युज्येत, न त्विह कारणान्तरायत्ता सिद्धिः, येन तद्दो­षा­द­न­व­भा­सोऽपि स्यात् , निरंशस्य चैतन्यस्य स्वय­ञ्ज्यो­ति­ष­स्त­द­यो­गात् । ननु ब्रह्म­स्व­रू­प­म­न­व­भा­स­मा­न­म­स्त्येव, न तद­न­व­भा­स­ना­ज्जी­वेऽ­न­व­भा­स­वि­प­र्यासौ भवतः । न हि शुक्तेरग्रहणात् स्थाणावग्रहणं विपर्यासो वा । ननु न ब्रह्मणोऽन्यो जीवः, ‘अनेन जीवेनात्मना’(छा. उ. ६-३-२) इति श्रुतेः, अतः तदग्रहणमात्मन एव तत् , एवं तर्हि सुत­रा­म­वि­द्या­या­स्त­त्रा­स­म्भवः ; तस्य विद्या­त्म­क­त्वात् , ‘तस्य भासा सर्वमिदं विभाति’(क. उ. २-२-१५) इति तच्चैतन्येनैव सर्वस्य भासमानत्वात् , उच्यते — विद्यत एव अत्रा­प्य­ग्र­ह­णा­वि­द्या­त्मको दोषः प्रका­श­स्या­च्छा­दकः । कथं गम्यते ? श्रुतेः तदर्थापत्तेश्च । श्रुतिस्तावत् — ‘अनृतेन हि प्रत्यूढाः’ ‘अनीशया शोचति मुह्यमानः’ इत्येवमाद्या । तदर्थापत्तिरपि विद्यैव सर्वत्र श्रुतिषु ब्रह्मविषया मोक्षाय निवेद्यते, तेना­र्था­दि­द­म­व­ग­म्यते जीवस्य ब्रह्म­स्व­रू­प­ता­न­व­ग­मोऽ­वि­द्या­त्मको बन्धो निसर्गत एवास्तीति ॥

ननु न जीवो ब्रह्मणोऽन्यः इत्युक्तम् ॥ बाढम् ; अत एवाऽर्थाज्जीवे ब्रह्म­स्व­रू­प­प्र­का­शा­च्छा­दिका अविद्या कल्प्यते ; अन्यथा पर­मा­र्थ­त­स्त­त्स्व­रू­पत्वे तदवबोधोऽपि यदि नित्यसिद्धः स्यात् , तदा तादात्म्योपदेशो व्यर्थः स्यात् । अतः अना­दि­सि­द्धा­वि­द्या­व­च्छि­न्ना­न­न्त­जी­व­नि­र्भा­सा­स्प­द­मे­क­रसं ब्रह्मेति श्रुति­स्मृ­ति­न्या­य­को­वि­दै­र­भ्यु­प­ग­न्त­व्यम् । तथा च स्मृतिः — ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’(भ . गी १३ - १९) इति क्षेत्र­क्षे­त्र­ज्ञ­त्व­नि­मि­त्ता­म­ना­दि­सि­द्धा­म­विद्यां प्रकृतिशब्देनाह ; ‘मायां तु प्रकृतिं विद्यात्’(श्वे. उ. ४-१०) इति श्रुतेः । अतो माया­व­च्छि­न्न­रू­प­त्वा­द­न­न्य­दपि ब्रह्म­रू­प­मा­त्मनो न वेत्ति । तथा चोक्तम् — ‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अज­म­नि­द्र­म­स्व­प्न­म­द्वैतं बुध्यते तदा’(गौ.का.१/१६) इति ॥

ननु प्रमा­णा­न्त­र­वि­रोधे सति श्रुतिः तदर्थापत्तिर्वा नाविद्यां निवेदयितुमलम् ? किं तत् प्रमाणं ? येन सह विरोधः, निरंशस्य स्वयञ्ज्योतिषः स्वरू­पा­न­व­भा­सा­नु­प­पत्तिः । ननु भोक्तुः कार्य­का­र­ण­स­ङ्घा­तात् व्यावृत्तता स्वय­ञ्ज्यो­ति­षोऽपि न प्रकाशते, ननु न भोक्ता स्वयञ्ज्योतिः, किं त्वहं­प्र­त्य­ये­ना­व­भा­स्यते । यथा स्वय­म्प्र­का­श­मा­नता, अहङ्कारो न प्रत्ययस्तथा वक्ष्यते ॥

कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्य­क­र­ण­स­ङ्घा­तात् व्यावृत्तो न प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात् । ननु गौणोऽयं, न मिथ्या ? यथा न गौणः, तथा भाष्यकार एव वक्ष्यति ॥

ननु ‘अहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, न तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्य­य­स्या­भा­वात् , आगमानुमानयोरपि तद्विरोधे प्रमा­ण­त्वा­यो­गात् । मिथ्यात्वात् तस्य न विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽ­न्या­श्र­यता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरिति । तस्मात् देहा­दि­व्य­ति­रि­क्त­वि­षय एवायमहङ्कारः इत्या­त्म­वा­दि­भि­र­भ्यु­पे­यम् ; अन्यथा आत्म­सि­द्धि­र­प्रा­मा­णिकी स्यात् , अतो गौणो मनु­ष्य­त्वा­भि­मानः । उच्यते — यद्यपि देहा­दि­व्य­ति­रि­क्त­भो­क्तृ­वि­षय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्ध­र्मा­ना­त्म­न्य­ध्य­स्यति । दृश्यते हि स्वरू­पे­णा­व­भा­स­मा­नेऽपि वस्त्व­न्त­र­भे­दा­न­ध्य­व­सा­यात् तत्स­म्भे­दे­ना­व­भासः, यथा एक­स्मि­न्न­प्य­कारे हृस्वादिसम्भेदः ॥

अथ पुनरेकान्ततो भिन्न एव देहादेरहङ्कर्ता अवभासेत, रसादिव गन्धः, ततः तत्सद्भावे न विप्र­ति­प­त्ति­रिति, तत्सिद्धये जिज्ञासा नावकल्पेत । जिज्ञा­सो­त्त­र­कालं तर्हि गौण एव युक्तः, कथम् ? जिज्ञासा नाम युक्त्य­नु­स­न्धा­नम् । न हि युक्तिः पृथक् ज्ञानान्तरजननी, किन्तु सिद्ध­स्यै­वा­हं­प्र­त्य­यस्य विषयविवेचिनी । तस्मात् विवि­क्त­वि­ष­य­त्वात् व्यति­रि­क्ता­त्मा­नु­भ­व­प­र्यन्त एवाहङ्कारो जिज्ञा­सो­त्त­र­कालं युक्तः, न युक्तः ; अकार इव हृस्वत्वाभिमानः । ननु तत्रापि कथम् ? अनुभव एव । एवमहङ्कारेऽपि समानश्चर्चः । ननु अनुभवः तर्क­ब­ला­द्य­था­व­भा­सि­न्य­प्य­कारे सम्भवति ; हृस्वादेः पृथ­क्स­त­स्त­था­न­व­ग­मात् , तन्न ; एकस्य पृथक्त्वेऽपि अर्थादितरस्यापि पृथक्त्वात् ॥

ननु मह­दे­त­दि­न्द्र­जालं यत् तर्कानुगृहीतात् प्रमाणात् यथा­य­थ­म­सा­धा­र­ण­रू­प­यो­रे­वा­व­भा­स­मा­न­यो­रे­क­त्वा­व­गमो न गौण इति, बाढम् ; इन्द्र­जा­ल­मे­वै­तत् , अवि­द्या­कृ­त­त्वात् । तथाहि — अहंप्रत्ययस्य स्ववि­ष­य­प्र­ति­ष्ठि­त­स्यैव सतः तदे­क­प्र­ति­ष्ठि­तता प्रति­ब­न्ध­कृ­द­ना­द्य­वि­द्या­कृतं देहा­दि­प्र­ति­ष्ठि­त­त्व­मपि दृष्टम् ; अतो देहा­दि­वि­ष­य­त्वा­वि­रो­धि­स्व­वि­ष­य­प्र­ति­ष्ठ­त्व­म­हं­प्र­त्य­यस्य । अतो युक्त्या विषयविवेचनेऽपि स्ववि­ष­यो­प­द­र्श­नेन तत्प्र­ति­ष्ठ­त्व­मात्रं कृतं नाधिकमादर्शितम् । स्ववि­ष­य­प्र­ति­ष्ठत्वं च देहादिषु अहंममाभिमानेन न विरुध्यते इत्युक्तम् । अतः न्यायतो विष­य­वि­वे­च­ना­दू­र्ध्व­मपि न प्रागवस्थातो विशिष्यते अहंप्रत्ययः । तेन न कदाचिदपि ‘मनुष्योऽहमि’ति प्रत्ययो गौणः । तदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्य­क­र­ण­स­ङ्घा­त­व्य­ति­रि­क्त­तायाः तथा अनवभासदर्शनात् ’मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मा­त्मै­क­त्व­स्यापि तत्स्व­रू­प­स्या­न­व­भा­सनं पूर्व­का­ल­को­टि­र­हि­त­प्र­का­शा­च्छा­दि­त­त­मो­नि­मित्तं श्रुति तद­र्था­प­त्ति­स­म­र्पितं, तन्नि­मि­त्ता­ह­ङ्का­रा­ध्या­सश्च सम्भाव्यते । अनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं च । पृथ­ग्भो­क्तृ­वि­ष­या­नु­भ­व­फ­ला­भा­वात् भोक्तृ­चै­त­न्य­सं­व­लि­तै­का­नु­भ­व­फ­ल­त्वाच्च परत्र परा­व­भा­स­स्या­न्यो­न्य­स­म्भे­दस्य विद्य­मा­न­त्वा­द­ध्या­स­ल­क्ष­ण­व्या­प्ति­रि­हा­प्यु­प­प­द्यते ॥

‘कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे च समानवर्तिनो विशेषानुपलब्धेः ‘पृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनः ‘आक्षिप्तं मये’त्यभिप्रायं विवृणोति —
कथं पुनः प्रत्य­गा­त्म­न्य­वि­षये अध्यासो विष­य­त­द्ध­र्मा­णा­मिति ॥

ननु विष­यि­ण­श्चि­दा­त्मनः कथं विषयभावः ? पराग्भावेन इद­न्ता­स­मु­ल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्य­ग्रू­पे­णा­नि­द­म्प्र­काशो विषयी ; तत् कथमेकस्य निरंशस्य विरु­द्धां­श­द्व­य­स­न्नि­वेशः ? अत्रोच्यते — अस्म­त्प्र­त्य­य­त्वा­भि­म­तोऽ­ह­ङ्कारः । स चेद­म­नि­दं­रू­प­व­स्तु­गर्भः सर्वलोकसाक्षिकः । तमवहितचेतस्तया निपु­ण­त­र­म­भि­वीक्ष्य रूपकपरीक्षकवत् स्वानु­भ­व­म­प्र­च्छा­द­यन्तो वदन्तु भवन्तः परीक्षकाः — किमुक्तलक्षणः ? न वा ? इति ॥

ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमि­त­य­स्ता­व­द­प­रोक्षाः, प्रमेयं कर्म­त्वे­ना­प­रो­क्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , न कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयः । तत्र ‘अहमिदं जानामी’ति प्रमा­तु­र्ज्ञा­न­व्या­पारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते ॥

ननु नायं विष­या­नु­भ­व­नि­मि­त्तोऽ­ह­मु­ल्लेखः, किं तु अन्य एव आत्ममात्रविषयः ‘अहमि’ति प्रत्ययः । तस्मिंश्च द्रव्य­रू­प­त्वे­ना­त्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमा­तृ­प्र­मे­य­नि­र्भा­स­रू­प­त्वा­द­हं­प्र­त्य­यस्य ग्राह्य­ग्रा­ह­क­रूप आत्मा । तस्मा­दि­द­म­नि­दं­रूपः ; प्रमे­यां­श­स्ये­दं­रू­प­त्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य न चैतद्युक्तम् ; अनंशत्वात् , अप­रि­णा­मि­त्वा­च्चा­त्मनः, प्रमेयस्य चेदंरूपतया परा­ग्रू­प­त्वा­द­ना­त्म­त्वात् । तस्मा­न्नी­ला­दि­ज्ञा­न­फ­ल­म­नु­भवः स्वय­म्प्र­का­श­मानो ग्राह्य­मि­द­न्तया, ग्राहकं चानि­द­न्त­याऽ­व­भा­स­यति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यते — तत्रेदं भवान् प्रष्टव्यः, किमात्मा चैत­न्य­प्र­का­शोऽ­नु­भवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा स एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र न तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्व­स्या­न­व­भा­स­प्र­स­ङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति न विश्व­स्या­न­व­भा­स­प्र­सङ्गः, तन्न ; स्वय­ञ्चै­त­न्य­स्व­भा­वोऽपि सन् विष­य­प्र­मा­णे­ना­चे­त­ने­ना­नु­गृ­हीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं च प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं च चेतयते, तदा चेतयति क्रिया­न­व­स्था­प्र­सङ्गः ॥

द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विष­या­नु­भ­व­म­पे­क्षेत ? अथ चैत­न्य­स्व­भा­व­त्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । न हि चैतन्यस्वभावः सन् स्वयं परो­क्षोऽ­न्य­तोऽ­प­रोक्ष इति युज्यते । किं च सम­त्वा­न्ने­त­रे­त­रा­पे­क्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनि­च्छ­तोऽ­प्या­त्मैव चिति प्रकाश आपद्यते, न तद­ति­रि­क्त­त­था­वि­ध­फ­ल­स­द्भावे प्रमाणमस्ति । कथम् ? प्रमा­ण­ज­न्य­श्चे­द­नु­भवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं च गोत्व­व­द­नु­भ­व­त्व­म­प­र­मी­क्ष्येत । न च ‘नीलानुभवः पीतानुभवः’, इति विष­य­वि­शे­ष­प­रा­म­र्श­शून्यः स्वगतो विशेषो लक्ष्यते ॥

ननु विन­ष्टा­वि­न­ष्ट­त्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा च जन्यत्वे सति, तस्यां च सिद्धायां जन्यत्वम् इति पर­स्प­रा­य­त्त­स्थि­ति­त्वेन एकमपि न सिध्येत् । एतेन अति­सा­दृ­श्या­द­नु­भ­व­भेदो न विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । न हि चित्प्रकाशस्य स्वगतो भेदो न प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । न च यथा जीवस्य स्वय­ञ्ज्यो­ति­षोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं न प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । न हि सामा­न्य­तो­दृ­ष्ट­म­नु­भ­व­वि­रोधे युक्तिविरोधे च समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमे­य­भे­दे­नो­प­धी­य­मा­नोऽ­नु­भ­वा­भि­धा­नी­यकं लभते, अवि­व­क्षि­तो­पा­धि­रा­त्मा­दि­श­ब्दै­र­भि­धी­यते ; अव­धी­रि­त­व­ना­भि­धा­न­नि­मि­त्तै­क­दे­शा­व­स्थाना इव वृक्षा वृक्षादिशब्दैः इत्य­भ्यु­प­ग­न्त­व्यम् , बाढम् ; अत एव विष­या­नु­भ­व­नि­मि­त्तोऽ­नि­द­मा­त्म­कोऽ­ह­ङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपि ‘अह­मि’त्यु­ल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, स नीलभोगः, नासा­व­ह­मु­ल्ले­खार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विष­या­नु­ष­ङ्गा­भा­वा­दिदं जानामी’ति विष­य­त­द­नु­भ­व­प­रा­मर्शो नास्ति, मा भूत् ; अह­मि­त्या­त्म­मा­त्र­प­रा­मर्शः किमिति न भवेत् ?

ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समु­त्का­लि­तो­पा­धि­वि­शेषं चैत­न्य­मा­त्र­म­स्म­दर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैत­न्य­म­ह­मि­त्यु­ल्लि­ख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सि­द्धि­नि­मित्तः, न स्वरू­प­सि­द्धि­हेतुः स्वमा­हा­त्म्ये­नैव तु स्वरूपसिद्धिः । ततश्च विष­यो­प­रा­गा­नु­भ­वा­त्म­त्व­शून्यः स्वरूपतः अहमिति सुषु­प्तेऽ­प्य­व­भा­सेत ; दृशि­रू­प­त्वा­वि­शे­षात् । भवत्येवेति चेत् , न ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् न स्मर्यते इति चेत् , ह्यस्तनोऽपि न स्मर्येत ॥

ननु अस्त्येव सुषुप्ते अहमनुभवः ‘सुख­म­ह­म­स्वा­प्समि’ति ; सुषु­प्तो­त्थि­तस्य स्वाप­सु­खा­नु­भ­व­प­रा­म­र्श­द­र्श­नात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; न तत् स्वापे सुखा­नु­भ­व­सं­स्का­रजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखा­भा­व­नि­मित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशः । तदभावश्च कर­ण­व्या­पा­रो­प­र­मात् । यदि पुनः‘सुप्तः सुखम्’ इति च तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, न च तदस्ति । व्यपदेशोऽपि ‘सुखं सुप्ते न किञ्चिन्मया चेतितम्’ इति हि दृश्यते । यत् पुनः सुप्तोत्थितस्य अङ्ग­ला­घ­वे­न्द्रि­य­प्र­सा­दा­दिना सुखा­नु­भ­वो­न्न­य­न­मिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, न तत्र लिङ्गेन प्रयोजनम् । यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यते— जागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापः । तत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीति । तदेवं नायं नीला­दि­प्र­त्य­या­दन्य एवा­त्म­वि­ष­योऽ­हं­प्र­त्ययः, नापि विष­या­नु­भ­वा­दे­वा­ह­मु­ल्लेखः । तस्मात् ब्रह्म­वि­दा­मे­क­पु­ण्ड­री­कस्य लोका­नु­ग्र­है­क­र­स­तया सम्य­ग्ज्ञा­न­प्र­व­र्त­न­प्र­यो­ज­न­कृ­त­श­री­र­प­रि­ग्र­हस्य भगवतो भाष्यकारस्य मतमागमयितव्यम् ॥

तदुच्यते — येयं श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति च तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवा­व­स्थि­त­ल­क्ष­ण­ब्र­ह्म­स्व­रू­प­ता­व­भासं प्रतिबध्य जीवत्वापादिका अवि­द्या­क­र्म­पू­र्व­प्र­ज्ञा­सं­स्का­र­चि­त्र­भित्तिः सुषुप्ते प्रका­शा­च्छा­द­न­वि­क्षे­प­सं­स्का­र­मा­त्र­रू­प­स्थि­ति­र­ना­दि­र­विद्या, तस्याः पर­मे­श्व­रा­धि­ष्ठि­त­त्व­ल­ब्ध­प­रि­णा­म­वि­शेषो विज्ञा­न­क्रि­या­श­क्ति­द्व­या­श्रयः कर्तृ­त्व­भो­क्तृ­त्वै­का­धारः कूट­स्थ­चै­त­न्य­सं­व­ल­न­स­ञ्जा­त­ज्योतिः स्वय­म्प्र­का­श­मा­नोऽ­प­रो­क्षोऽ­ह­ङ्कारः, यत्सम्भेदात् कूट­स्थ­चै­त­न्योऽ­नि­द­मंश आत्मधातुरपि मिथ्यै­व’भोक्ते’ति प्रसिद्धिमुपगतः । स च सुषुप्ते समु­त्खा­त­नि­खि­ल­प­रि­णा­मा­या­म­वि­द्यायां कुतस्त्यः ? न चैवं मन्तव्यम् , आश्रि­त­प­रि­ण­ति­भे­द­त­यै­वा­ह­ङ्का­र­नि­र्भा­सेऽ­न­न्त­र्भू­तैव तन्निमित्तमिति ; तथा सति अपा­कृ­ता­ह­ङ्कृ­ति­सं­सर्गो भोक्तृ­त्वा­दि­स्त­द्वि­शेषः केव­ल­मि­द­न्त­यै­वा­व­भा­सेत, न च तथा समस्ति ॥ स च परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धि­र­हं­प्र­त्ययी इति च विज्ञा­न­श­क्ति­वि­शे­ष­मा­श्रित्य व्यपदिश्यते, परि­स्प­न्द­शक्त्या च प्राणः इति । तेन अन्तः­क­र­णो­प­रा­ग­नि­मित्तं मिथ्यै­वा­ह­ङ्क­र्तृ­त्व­मा­त्मनः, स्फटि­क­म­णे­रि­वो­प­धा­न­नि­मित्तो लोहितिमा ॥

कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यते — यदि स्फटि­क­प्र­ति­स्फा­लिता नयनरश्मयो जपा­कु­सु­म­मु­प­स­र्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः । न हि रूप­मा­त्र­नि­ष्ठ­श्चा­क्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्र­य­म­ना­क­र्ष­द्रू­प­मात्रं प्रतिबिम्बितं क्वचि­दु­प­ल­ब्ध­पू­र्वम् । ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येत । अथ प्रभैव लोहितोऽवभासते, न स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेत । अथ प्रभया अपसारितं तदिति चेत् , स तर्हि नीरूपः कथं चाक्षुषः स्यात् ? न च रूपि­द्र­व्य­सं­यो­गात् ; वायोरपि तथा­त्व­प्र­स­ङ्गात् । न प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात् । अभ्युपगम्य प्रभामिदमुक्तम् । यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, न तथा जपाकुसुमादेः ॥ तदेवं स्फटि­क­म­णा­वु­प­धा­नो­प­राग इव चिदा­त्म­न्य­प्य­ह­ङ्का­रो­प­रागः । ततः सम्भि­न्नो­भ­य­रू­प­त्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते ।

तत्र जड­रू­प­त्वा­दु­प­र­क्तस्य न तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्वि­ष­य­व्या­पा­र­वि­र­हि­णोऽपि तद्बलात् प्रकाशते ॥ तेन लक्षणत इदमंशः कथ्यते, न व्यवहारतः । व्यवहारतः पुनः यदु­प­रा­गा­द­नि­द­मा­त्म­नोऽ­ह­ङ्क­र्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रि­य­मा­ण­स्यैव व्यापारपूर्वको यस्य परिच्छेदः, स एवेदमात्मको विषयः । अत एव 'अह­मि’त्य­स­म्भि­न्ने­द­मा­त्म­कोऽ­व­भासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्य­व­हा­रा­र्होऽपि तमननुपतन् । तद्यथा अङ्कु­रा­दि­फ­ल­प­र्यन्तो वृक्षविकारो मृत्प­रि­णा­म­प­र­म्प­रा­प­रि­नि­ष्प­न्नोऽपि घटवल्मीकवत् न मृण्म­य­व्य­व­हा­र­म­नु­प­तति, व्युत्प­न्न­म­त­यस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपु­ण­त­र­म­भि­वीक्ष्य रूप­क­प­री­क्ष­क­व­द­ह­ङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुख­च­न्द्रा­दि­प्र­ति­बि­म्बो­दा­ह­र­णम् , तत् अह­ङ्क­र्तु­र­नि­द­मंशो बिम्बादिव प्रतिबिम्बं न ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृ­थ­ग­व­भा­स­वि­प­र्य­य­स्व­रू­प­ता­मात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एक­स्व­ल­क्ष­ण­त्वा­व­ग­मात् ।

तथा च यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मा­न्तः­प्र­वि­ष्टोऽपि प्रतीयते, तथा दर्प­ण­त­ल­स्थि­तोऽपि ; न तत् वस्त्वन्तरत्वे युज्यते । अपि च अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरु­द्ध­प­रि­मा­ण­त्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्ब­ला­ञ्छि­त­त्वा­नु­प­पत्तेः, तथा सति बिम्ब­स­न्नि­धि­ल­ब्ध­प­रि­ण­ति­रा­दर्शः तदपायेऽपि तथैवावतिष्ठेत । न खलु संवेष्टितः कटो निमि­त्त­ल­ब्ध­प्र­सा­र­ण­प­रि­णतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यत­श्चि­र­का­ल­सं­वे­ष्ट­ना­हि­त­सं­स्कारः तत्र पुनः­सं­वे­ष्ट­न­नि­मि­त्तम् । तथा च याव­त्सं­स्का­र­क्षयं प्रसा­र­ण­नि­मि­त्ता­नु­वृत्तौ पुनः­सं­वे­ष्ट­नो­प­जनः, एवं चिर­का­ल­स­न्नि­हि­त­बि­म्ब­नि­मि­त्त­त­दा­का­र­प­रि­ण­ति­रा­दर्शः तथैव तदपायेऽपि याव­दा­यु­र­व­ति­ष्ठेत, न च तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विका­स­प­रि­ण­ति­हेतोः सावित्रस्य तेजसो दीर्घ­का­ला­नु­वृ­त्त­स्यापि विगमे तत्समकालं पुन­र्मु­कु­ली­भावः, स प्रथ­म­त­र­मु­कु­ल­हे­तु­पा­र्थि­वा­प्या­व­य­व­व्या­पा­र­नि­मित्तः ; तदुपरमे जीर्णस्य पुन­र्मु­कु­ल­ता­नु­प­लब्धेः, नादर्शे पुनस्तथा पूर्व­रू­प­प­रि­णा­म­हे­तु­रस्ति । अत्राह — भवतु न वस्त्वन्तरं, तदेव तदिति तु न क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्य­र­ज­तै­क­रू­पा­व­भा­सि­त्व­द­र्श­नात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह स बाधो दृश्यते । यः पुनः दर्पणापगमे तदपगमः, न स बाधः ; दर्पणेऽपि तत्प्रसङ्गात् ॥

ननु तत्त्व­म­सि­वा­क्यात् बाधो दृश्यते, मैवम् ; तत्र’त­त्त्वमि’ति बिम्ब­स्था­नी­य­ब्र­ह्म­स्व­रू­प­ता­प्र­ति­बि­म्ब­स्था­नी­यस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘न रजतमस्ती’तिवत् । किं च शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयति ‘नेक्षे­तो­द्य­न्त­मा­दित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्’ इति ॥ यस्तु मन्यते न परा­क्प्र­व­ण­प्र­वृ­त्त­न­य­न­र­श्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्प­ण­प्र­ति­स्फा­लितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, न पराक्रम्यते । कथं पुनः परि­च्छि­न्न­मे­क­मे­क­स्व­भावं विच्छि­न्न­दे­श­द्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? न वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः । न हि माया­या­म­स­म्भा­व­नीयं नाम ; अस­म्भा­व­नी­या­व­भा­स­च­तुरा हि सा ॥

ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छे­दा­दि­मि­थ्या­व­भासः, तथा ब्रह्मै­क­ता­व­ग­मेऽपि जीवस्य विच्छे­दा­दि­मि­थ्या­व­भासो न निव­र्ति­तु­म­र्हति, उच्यते — देव­द­त्त­स्या­चे­त­नां­श­स्यैव प्रति­बि­म्ब­त्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामा­दि­ध­र्मे­णेव जाड्ये­ना­प्या­स्क­न्दि­त­त्वात् न तत् प्रतिबिम्बं बिम्बै­क­रू­प­ता­मा­त्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः ‘न बिम्बचेष्टया विना प्रतिबिम्बं चेष्टते’ इति । यस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रति­बि­म्ब­स्या­त्म­नोऽ­भि­न्नत्वं, न स तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पार­मा­र्थि­क­त्वात् । जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां न प्रत्य­क्ष­श्चि­द्रूपः नान्तः­क­र­ण­जा­ड्ये­ना­स्क­न्दितः । स चाह­ङ्क­र्तृ­त्व­मा­त्मनो रूपं मन्यते, न बिम्ब­क­ल्प­ब्र­ह्मै­क­रू­प­ताम् ; अतो युक्त­स्त­द्रू­पा­व­गमे मिथ्यात्वापगमः ॥

ननु तत्र विभ्राम्यतो विभ्र­म­हे­तु­र्द­र्प­णा­ल­क्त­का­दि­प­र­मा­र्थ­वस्तु सन्निहितमस्ति, न तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्र­म­वि­ला­सा­भि­मा­निन इति मा भूदाशङ्केति रज्जु­स­र्प­मु­दा­ह­रन्ति ॥

ननु तत्रापि यदि नामे­दा­नी­म­स­न्नि­हितः सर्पः, तथापि पूर्व­नि­र्वृ­त्त­त­द­नु­भ­व­सं­स्कारः समस्त्येव, बाढम् ; इहा­प्य­ह­ङ्क­र्तृ­ता­त­त्सं­स्का­र­यो­र्बी­जा­ङ्कु­र­यो­रि­वा­नादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यते । तत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भे­द­यो­ग्य­स्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटि­क­प्र­ति­बि­म्ब­मु­त्प्रे­क्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, न तत्स­म्भि­न्न­त्व­म­स­म्भि­न्नत्वं वा तस्याम् । तेन ‘असङ्गो न हि सज्जते’(बृ. उ. ३-९-२६) ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४-३-१५) इत्या­दि­श्रु­ति­स­म­र्पि­ता­स­ङ्गता आत्मनो न स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम् । तत्र हि तत्परामर्शादृते न भेद­रू­प­का­र्य­स­माख्याः स्वगता दृश्यन्ते । एतच्च सर्वमुदाहरणजातं श्रुति­त­न्न्या­या­नु­भ­व­सि­द्धस्य तद­स­म्भा­व­ना­प­रि­हा­राय बुद्धि­सा­म्यार्थं च, न वस्तुन एव साक्षात् सिद्धये । तदेवं यद्यपि चैत­न्यै­क­र­सोऽ­नि­द­मा­त्म­क­त्वा­द­वि­षयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्म­त्प्र­त्य­य­वि­ष­य­तो­च्यते ; प्रमेयस्य च व्यव­हा­र­यो­ग्य­त्वा­व्य­भि­चा­रात् ॥

ननु व्यव­हा­र­यो­ग्यत्वे अध्यासः, अध्या­स­प­रि­नि­ष्प­न्ना­हं­प्र­त्य­य­ब­लात् व्यव­हा­र­यो­ग्य­त्वम् इति प्राप्त­मि­त­रे­त­रा­श्र­य­त्वम् , न ; अनादित्वेन प्रत्यु­क्त­त्वात् । तत्र एवंभूतस्य अह­ङ्क­र्तु­रि­द­मं­शस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चि­द­व­स्था­वि­शे­ष­मा­द­धाति ; स्वाश्र­य­वि­का­र­हे­तु­त्वात् क्रियायाः । स च प्राप्नो­ति­क्रि­या­हि­त­क­र्तृ­स्थ­वि­शे­ष­वत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयते । तेन विष­य­वि­शे­ष­स­म्ब­द्ध­मे­वा­न्तः­क­रणे चैत­न्य­स्या­व­च्छे­द­कम् । कर्मकारकमपि प्रधा­न­क्रि­या­सिद्धौ स्वव्या­पा­रा­विष्टं चैत­न्य­वि­व­र्त्त­त्वात् प्रधा­न­क्रि­या­हि­त­प्र­मा­त्र­व­स्था­वि­शे­षा­व­च्छि­न्ना­प­रो­क्ष­तै­क­रू­पा­म­प­रो­क्ष­ता­म­भि­व्य­नक्ति । तत­श्चा­त्म­नोऽ­न्तः­क­र­णा­व­स्था­वि­शे­षो­पा­धि­ज­नितो विशेषः विष­या­नु­भ­व­सं­श­ब्दितो विष­य­स्था­प­रो­क्षै­क­रसः फलमिति क्रियैकविषयता फलस्य युज्यते । एवं चाहङ्कर्ता स्वांश­चै­त­न्य­ब­लेन व्यापा­रा­वि­ष्ट­तया च प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यते । तत्र च प्रमातुः स्वयञ्ज्योतिषो विष­य­स­म्ब­न्ध­स­ञ्जा­त­वि­शे­षोऽ­नु­भ­वोऽ­प­रो­क्ष­तया सर्वान् प्रत्य­वि­शि­ष्टोऽपि कारकाणां सम्भूय प्रधा­न­क्रि­या­सा­ध­न­त्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्र । कर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य ॥

ननु नीलादिविषयोऽपि चेद­प­रो­क्ष­स्व­भावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः स एव माहायानिकपक्षः समर्थितः, मैवम् — पर­स्प­र­व्या­वृत्तौ नील­पी­ता­व­व­भा­सेते, अपरोक्षता तु न तथा, एक­रू­पा­व­ग­मा­द्वि­च्छे­दा­व­भा­सेऽपि, अतः न तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृ­त्त­स्व­भा­व­ताऽ­प्य­व­भा­सेत, न च तथा । किं च तैरपि नीला­त्म­क­सं­वि­दोऽन्य एव परा­ग्व्या­वृ­त्तोऽ­प­रोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते च नीलसंवित् प्रत्य­ग्व्या­वृ­त्ते­द­न्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्य­ग्रा­ह­क­रू­प­मि­त­रे­त­र­व्या­वृत्तं सिद्धम् ॥

नैतत् — द्वयोरपि स्वरू­प­मा­त्र­नि­ष्ठयोः कुतो विषयविषयिभावः ? कथं पुनः ‘इदमहं जानामी’ति तयो­र्ग्रा­ह्य­ग्रा­ह­क­ता­व­भासः ? नायं तदवभासः, किन्तु ‘अहमि’ति ‘इदमि’ति ‘जानामी’ति च पर­स्प­र­व्या­वृत्ता विकल्पा एते । कथं पुनः तेषु कटा­क्षे­णा­प्य­न्यो­न्य­म­नी­क्ष­मा­णे­ष्वयं सम्बन्धावगमः ? तद्वा­स­ना­स­मे­त­स­म­न­न्त­र­प्र­त्य­य­स­मुत्थं सङ्कलनात्मकं प्रत्य­या­न्त­र­मे­तत् ; नेह सम्बन्धावगमः ? किं पुनः एव­म­नु­भ­वा­ना­रू­ढा­मेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्य­ह­मु­ल्ले­ख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीला­दे­र­प्य­प­रो­क्षता स्यात् , न च स्थायित्वमस्ति । यद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, स किं विद्यते ? न वेति ? स्वसं­वि­द­म­गू­ह­मा­नै­रे­वा­भि­धी­य­ताम् ! अथ अत्य­न्त­सा­दृ­श्यात् न भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आया­त­मा­न्ध्य­म­शे­षस्य जगतः ! अपि च तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका च ! तद्रूपप्रतीतेः व्यामोहत्वात् न प्रमा­ण­वि­रु­द्धता, नाप्य­प्रा­मा­णि­कता ; निर्बी­ज­भ्रा­न्त्य­यो­गा­दिति चेत् , न इत­रे­त­रा­श्र­य­त्वात् । सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमा­ण­वि­रो­धा­भा­वात् , प्रमा­ण­स­द्भा­वाच्च, सिद्धे च सादृश्ये तन्निमित्ता व्यामोहसिद्धिः ॥

स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे च तद्रू­प­प्र­ती­ते­र­व्या­मो­ह­त्वम् , अव्यामोहत्वे चास्याः सादृ­श्य­क­ल्प­नायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रती­ते­र­न­पे­क्षम् । तथा च तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा च, न तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामा­ण्य­मा­व­हेत् , अप्रा­मा­ण्य­पू­र्वि­कैव सा । अथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्ता­द­र्श­ना­द­न्तेऽपि सा किं नानुमीयते ? क्षया­नु­भ­व­वि­रो­धा­दिति चेत् , इहापि तद्रू­प­स­त्त्वा­द­नु­भ­व­वि­रोधः ; न ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिर­त्वे­ना­भि­म­तोऽ­ह­मु­ल्लेखः, स किं काञ्चि­द­र्थ­क्रियां कुर्याद्वा ? न वा ? यदि न कुर्यात् अस­ल्ल­क्ष­ण­प्रा­प्तेर्न परमार्थवस्तु ; अथ कुर्यात् , न तर्हि स्थायी ; स्थायि­नोऽ­र्थ­क्रि­याऽ­यो­गात् । कथमयोगः ? इत्थमयोगः — स तां कुर्वन् क्रमेण कुर्या­द्यौ­ग­प­द्येन वा ? न तावत् क्रमेण ; पूर्वो­त्त­र­का­लयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्त­र­का­ल­भा­वि­नी­मपि न कुर्यात् ? नापि यौगपद्येन ; याव­ज्जी­व­कृ­त्य­मे­क­स्मि­न्नेव क्षणे कृत­मि­त्यु­त्त­र­काले तद्वि­र­हा­द­स­ल्ल­क्ष­ण­त्व­प्राप्तेः । अतोऽ­र्थ­क्रि­या­का­रि­त्वा­देव न स्थायी । तेन प्रतिक्षणं भिन्ने­ष्व­ह­मु­ल्ले­खेषु तद्बुद्धिः सादृ­श्य­नि­ब­न्ध­नेति, उच्यते — अथ केयमर्थक्रिया ? यद­भा­वा­द­स­ल्ल­क्ष­ण­त्व­प्राप्तिः । स्ववि­ष­य­ज्ञा­न­ज­न­नम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसं­वि­दि­त­रू­प­त्वेन स्ववि­ष­य­ज्ञा­ना­ज­न­ना­द­स­ल्ल­क्ष­ण­त्वम् । न सन्तानान्तरेऽपि तज्जननम् ; अनै­न्द्रि­य­क­त्वात् , अनुमानेऽपि अर्थ­ज­न्य­त्वा­भा­वात् । सार्वज्ञ्येऽपि न साक्षात् स्वसंविदं जनयति ; संसा­र­सं­वि­दे­क­रू­प­त्व­प्र­स­ङ्गात् , अतद्रूपत्वे तद्वि­ष­य­त्वा­यो­गात् ॥ अथ क्षणा­न्त­रो­त्पा­दोऽ­र्थ­क्रिया ? चर­म­क्ष­ण­स्या­स­ल्ल­क्ष­ण­त्व­प्र­सङ्गः, न च सर्व­ज्ञ­ज्ञा­न­ज­न­ने­ना­र्थ­व­त्त्वम् ; चर­म­त्वा­नु­प­पत्तेः मुक्त्य­भा­व­प्र­स­ङ्गात् । न च संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम् । किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वका­र­ण­नि­ष्प­न्नस्य कार्यजननात् । अतः प्रतीतिः वक्तव्या । तत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् न क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत् । ननु स्वज्ञा­ना­र्थ­क्रि­यायाः स्वयं­सि­द्ध­त्वात् न अनवस्था ? न तर्ह्य­र्थ­क्रि­यातः सत्तावगमः ; न हि स्वरूपमेव स्वस्या­र्थ­क्रिया ॥ यत् पुनः क्रमे­णा­र्थ­क्रिया न युज्यते ; पूर्वो­त्त­र­का­लयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सह­का­रि­स­व्य­पे­क्षस्य जनकत्वात् विशे­षा­भा­वा­दि­त्य­यु­क्तम् । अथ कार­ण­स्या­न्या­पेक्षा न युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात् । अथाकारणं कार­णो­त्प­त्त­येऽ­पे­क्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापे­क्षि­तु­म­र्हति । अकारणं चेत् नतराम् । अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सह­का­र्य­पे­क्षत्वं हेतूनाम् । तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केना­प्य­त­र्क­णी­येन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम् ॥

यस्तु मन्यते — सह­का­रि­ज­नि­त­वि­शेषो हेतुः कार्यं जनयति ; अन्य­थाऽ­नु­प­का­रि­णोऽ­पे­क्षा­यो­गा­दिति ; स वक्तव्यः — विशेषस्य स हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशे­ष­मु­त्पा­द­येयुः, ततश्च कार्यं स्यात् । अथ हेतुः ? सह­का­रि­भि­र­ज­नि­त­वि­शे­ष­स्त­मेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्था । अथ मतं — न सर्वं कार्यं सह­का­रि­ज­नि­ता­त्म­भे­द­हे­तु­ज­न्यम् , समग्रेषु हेतुषु ताव­त्ये­वा­भ­व­द­ङ्कु­रादि ; तथा किञ्चि­त्स­न्नि­हि­त­स­ह­का­रि­हे­तु­जन्यं, यथा अक्षे­प­का­री­न्द्रि­या­दि­ज्ञा­नम् ; तत्र आद्यो विशेषः सह­का­रि­स­न्नि­धा­न­मा­त्र­लभ्यः ; अक्षे­प­का­री­न्द्रि­या­दि­ज्ञा­न­व­दिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत । न हि तत्र हेतोः सहकारिभ्य आत्मभेदः । नानु­प­कु­र्व­न्न­पे­क्ष्यते ; अतिप्रसङ्गात् । स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सि­द्धे­स्त­न्ना­न्त­री­य­क­त्वात् ? नित्योपि तर्ह्य­ना­धे­या­ति­शयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; साम­ग्री­सा­ध्य­त्वात् , तथा नित्योऽपि स्वरू­पा­नु­प­यो­गि­त्वेऽपि सहकारिसमवधानं कार्यो­प­यो­गा­द­पे­क्षेत ॥ अथ मतम् — क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वय­म­न्या­पे­क्षा­नु­प­पत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्या­न्य­स­न्नि­धा­वेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गः । को हेतु­र­न्या­पे­क्षायाः ? क्षणिकस्तु यो जनको भावः स न पुरस्तात् , न पश्चादिति न पूर्वो­त्त­र­का­लयोः कार्योत्पादः ॥

इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम् । तथा हि — यः कश्चित् कस्यचित् क्वचिन्नियमः, स तद­पे­क्षा­प्र­भा­वितः ; अनपेक्षत्वे नियमानुपपत्तेः । एवं हि कार्य­का­र­ण­भा­व­सिद्धिः । कार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम् । तत्र यदि न क्षणिकं कारणं सह­का­रि­ण­म­पे­क्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हि — हेतु­प­र­म्प­रा­प्र­ति­ब­न्धात् न हेतुः स्वरूपे सह­का­रि­ण­म­पे­क्षते, न कार्ये ; स्वयञ्जननशक्तेः । नापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सह­का­रि­स­न्नि­धि­नि­य­मोऽ­न­र्थकः स्यात् । काकतालीयमुच्यते ? तथा च कार्य­का­र­ण­व्य­व­हाराः सर्व एवोत्सीदेयुः । तस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरू­पा­नु­प­यो­गि­न्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा साम­ग्री­सा­ध्य­त्वात् , तत्र नियमात् ; तथा नित्येऽपीति न विशेषं पश्यामः ॥ तदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायि­त्वेऽ­प्य­र्थ­क्रि­या­स­म्भ­वात् न नीलस्य स्वग­ता­प­रो­क्ष­त्व­मा­त्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राह­क­स्या­ह­ङ्क­र्तु­रा­त्मनः स्थायिनोऽभावे । स चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितः । ननु नानु­मे­या­दि­ष्व­प­रो­क्षता दृश्यते ? उच्यते — नानु­मे­या­दि­ष्व­प­रो­क्ष­त्वम् ; स्वज्ञा­नो­त्प­त्ता­व­व्या­पृ­त­त्वात् , लिङ्गादीनामेव कुतश्चित् सम्ब­न्ध­वि­शे­षा­द्वि­शि­ष्टै­का­र्थ­ज्ञा­न­हे­तु­त्वात् , प्रमेयस्य च स्वज्ञा­नो­त्प­त्ति­हे­तुत्वे प्रमाणाभावात् । अलं प्रस­ङ्गा­ग­त­प्र­प­ञ्चेन । स्वावसर एवैतत् सुग­त­म­त­प­री­क्षायां निपुणतरं प्रपञ्चयिष्यामः ॥

तदे­व­म­ह­ङ्का­र­ग्र­न्थि­र­स्म­च्छ­ब्द­सं­श­ब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनि­द­ञ्चि­त्स­म्व­लि­त­त्वेन तस्या­भि­व्य­क्ति­हे­तु­त्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनि­द­ञ्चि­दा­त्म­धा­तु­र­स्म­त्प्र­त्य­य­वि­षय उच्यते । स पुनरेवंभूतो जाग्र­त्स्व­प्न­यो­र­ह­मु­ल्ले­ख­रू­पेण, सुषुप्ते तत्सं­स्का­र­र­ञ्जि­ता­ग्र­ह­णा­वि­द्या­प्र­ति­ब­द्ध­प्र­का­श­त्वेन च गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति च श्रुति­स्मृ­ति­प्र­वा­देषु गीयते ।

ननु न क्वचि­द­प­रो­क्ष­मा­त्रेऽ­ध्यासो दृष्टपूर्वः, सर्व­त्रा­क्षि­स­म्प्र­यो­गि­तया पुरो­व­स्थि­ता­प­रोक्ष एव दृश्यते, इत्याशङ्क्याह —
न चायमस्ति नियमः इति ॥

ननु ब्रह्म­वि­द्या­म­न­र्थ­हे­तु­नि­ब­र्हणीं प्रतिजानता अविद्या अनर्थहेतुः सूचिता, ततः सैव कर्तृ­त्वा­द्य­न­र्थ­बी­ज­मु­प­द­र्श­नीया, किमिदमध्यासः प्रपञ्च्यते ? इत्याशङ्क्य आह —
तमे­त­मे­वं­ल­क्ष­ण­म­ध्यासं पण्डिताः
प्रमाणकुशलाः

एवं तावत् ‘युष्म­द­स्म­दि’त्या­दिना ‘मिथ्या­ज्ञा­न­नि­मित्तः सत्यानृते मिथु­नी­कृ­त्या­ह­मिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः’ इत्यन्तेन भाष्येण सिद्ध­व­दु­प­न्य­स्त­मा­त्मा­ना­त्म­नो­रि­त­रे­त­र­वि­ष­य­म­वि­द्या­ख्य­म­ध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भा­व­नि­श्च­य­मु­प­प­त्तित उप­पा­द­यि­तु­मि­च्छ­न्नाह —
तमे­त­म­वि­द्या­ख्य­मा­त्मा­ना­त्म­नो­रि­त­रे­त­रा­ध्यासं पुरस्कृत्य सर्वे प्रमा­ण­प्र­मे­य­व्य­व­हारा लौकिका वैदि­का­श्च­प्र­वृत्ताः, सर्वाणि च शास्त्राणि विधि­प्र­ति­षे­ध­मो­क्ष­प­रा­णीति ॥
मोक्षपरत्वं च शास्त्रस्य विधि­प्र­ति­षे­ध­वि­र­हि­त­तया उपा­दा­न­प­रि­त्या­ग­शू­न्य­त्वात् स्वरू­प­मा­त्र­नि­ष्ठ­त्व­म­ङ्गी­कृत्य पृथक् क्रियते ।

अपर आह — आत्मे­च्छा­नु­वि­धा­यित्वं कार्य­क­र­ण­स­ङ्घा­त­स्या­त्मना सम्बन्धः, तस्यापि तस्य यथे­ष्ट­वि­नि­यो­ज­कत्वं तेन सम्बन्धः, तत आत्मनः प्रमात्रादिकः सर्वः क्रिया­का­र­क­फ­ल­व्य­व­हारः । तथा च उत्तिष्ठामीति इच्छ­यो­त्ति­ष्ठ­त्यु­प­वि­शति च । न च भृत्यादिषु तदस्ति । तेन तत्र प्रमा­त्रा­दि­व्य­व­हा­रा­भावो न मिथ्या­मु­ख्या­भि­मा­ना­भा­वा­दिति । नैतत् संविदि बहुमानवतो युक्तम् । तथाहि — ‘मनुष्योऽहमि’ति स्वसाक्षिका संवित् , ‘न मे मनुष्यः’ इति गौणीति चेत् , भवानेवात्र प्रमाणम् । अपि च इच्छापि परिणामविशेषः, स कथमपरिणामिन आत्मनः स्यात् परि­णा­म्य­न्तः­क­र­ण­स­म्व­लि­ता­ह­ङ्क­र्तृ­त्व­म­न्त­रेण । तथा चानुभवः ‘अह­मु­त्ति­ष्ठामी’ति ; इच्छ­यो­त्ति­ष्ठ­त्यु­प­वि­शति च । तस्मात् यत्किञ्चिदेतत् । अतः स्वय­म­स­ङ्ग­स्या­वि­का­रि­णोऽ­वि­द्या­ध्या­स­म­न्त­रेण न प्रमा­तृ­त्व­मु­प­प­द्यते । तेन यद्यपि प्रमा­तृ­त्व­श­क्ति­स­न्मात्रं प्रमाणप्रवृत्तौ निमित्तम् , तदेव तु अवि­द्या­ध्या­स­वि­ल­सि­त­मि­त्य­वि­द्या­व­द्वि­ष­यता प्रमा­णा­ना­मु­च्यते । तथा निरपेक्षाणां स्वसा­म­र्थ्ये­ना­र्थ­सिद्धिं विदधतां बाधानुपलब्धेः प्रामाण्यम् अवि­द्या­व­द्वि­ष­यत्वं च विधि­मु­खो­प­द­र्शितं ‘न ने’ति शक्यमपह्नोतुम् । दोषस्तु आगन्तुक एव मिथ्यात्वे हेतुः, न नैसर्गिकः ; तथोपलब्धेः । न च सर्वसाधारणे नैसर्गिके दोषबुद्धिः । तथाहि — क्षुत्पि­पा­सो­प­ज­निते सन्तापे शश्वदनुवर्तमाने जाठ­रा­ग्नि­कृ­त­वि­कारे अन्न­पा­न­नि­ष्यन्दे वा न रोग­बु­द्धि­र्ज­नस्य, मुहू­र्त­मा­त्र­प­रि­व­र्तिनि मन्दे ज्वरे प्रतिश्याये वा अल्प­क­फ­प्र­सू­ता­वपि रोगबुद्धिः ; अनैसर्गिकत्वात् । अनैसर्गिकं च दोष­म­भि­प्रे­त्योक्तं ‘यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्यः’ इति ॥

इतश्चैतदेवं —
पश्वा­दि­भि­श्चा­वि­शे­षात् ।
तथा च पश्वादयः प्रमा­तृ­त्वा­दि­व्य­व­हा­र­काले प्रवृ­त्ति­नि­वृ­त्त्यौ­दा­सीन्यं भजमानाः कार्यकारणसङ्घात एवाहंमानं कुर्वन्तीति प्रसिद्धं लोके । तदे­क­रू­प­यो­ग­क्षेमा हि मनुष्या जन्मत एव पश्वा­दि­भ्योऽ­धि­क­त­र­वि­वे­क­म­तयः शास्त्रा­धे­य­सा­म्प­रा­यि­क­म­ति­सा­मर्थ्या अपि ; अतः तदे­क­रू­प­का­र्य­द­र्श­नात् कार्य­का­र­ण­स­ङ्घा­तेऽ­प्या­त्मा­भि­मानः समानो युक्तः । ननु पश्वादीनामपि कार्य­का­र­ण­स­ङ्घाते अहङ्कारानुबन्ध इति कुतोऽवसीयते ? येन सिद्धवदभिधीयते, उच्यते — प्रौढमतिभ्य एव प्रत्य­क्षा­दि­वृ­त्त­कु­श­लै­रात्मा व्युत्पाद्यते ; अन्यथा तद­न­र्थ­क­त्व­प्र­स­ङ्गात् । एवमेव प्रमा­ण­वि­चा­र­वि­रहं सर्वः सम्प्रतिपद्येत ॥

ननु गोपालाङ्गनादयः प्रमाणविरहमेव वर्त­मा­न­दे­ह­पा­तेऽपि स्थायिनं भोक्तारं मन्यमानाः तदर्थमाचरन्ति न तद­भि­ज्ञ­व्य­व­हा­र­मा­त्र­प्र­मा­ण­क­त्वात् । तथा च ते पृष्टाः कः परलोकसम्बन्धीति ? ‘न विद्मो विशेषतः, प्रसिद्धो लोके’ इति प्रतिब्रुवन्ति । तस्मात् युक्तमुक्तं, पश्वादीनां च प्रसि­द्धोऽ­वि­वे­क­पू­र्वकः प्रत्य­क्षा­दि­व्य­व­हारः, तत्सा­मा­न्य­द­र्श­नात् व्युत्प­त्ति­म­ता­मपि पुरुषाणां प्रत्य­क्षा­दि­व्य­व­हा­र­स्त­त्कालः समानः इति ।

ननु फल­नै­य­मि­क­नै­मि­त्ति­क­प्रा­य­श्चि­त्त­चो­दना वर्त­मा­न­श­री­र­पा­ता­दू­र्ध्व­का­ल­स्था­यिनं भोक्ता­र­म­न्त­रे­णापि प्रमाणतामश्नुवत एव । यथा चैतदेवं, तथा — ‘एक आत्मनः शरीरे भावात्’(ब्र. सू. ३-३-५३) इत्यधिकरणारम्भे दर्शयिष्यामः, सत्यमेवम् ; तथापि सक­ल­शा­स्त्र­प­र्या­लो­च­ना­प­रि­नि­ष्पन्नं प्रामा­णि­क­म­र्थ­म­ङ्गी­कृ­त्याह भाष्यकारः । तथा च विधि­वृ­त्त­मी­मां­सा­भा­ष्य­का­रोऽ­प्यु­त्सू­त्र­मे­वा­त्म­सिद्धौ पराक्रान्तवान् । तत् कस्य हेतोः ? ‘धर्म­जि­ज्ञासे’ति कार्यार्थविचारं प्रतिज्ञाय तदवगमस्य प्रामाण्ये अनपेक्षत्वं कारणमनुसरता सूत्रकारेण विशेषाभावात् स्वरू­प­नि­ष्ठा­ना­मपि वाक्यानां प्रामा­ण्य­म­नु­सृतं मन्यते, तथा ‘चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्र­कृ­ष्ट­मि­त्ये­वं­जा­ती­य­क­मर्थं शक्नो­त्य­व­ग­म­यि­तुम्’ इति वदन् चोद­ना­शे­ष­त्वे­नापि स्वरू­पा­व­ग­मेऽ­न­पे­क्ष­त्व­म­वि­शि­ष्ट­म­व­ग­च्छ­ती­त्य­व­ग­म्यते । स च स्वरूपावगमः कस्मिन् कथं वेति धर्ममात्रविचारं प्रतिज्ञाय, तत्रैव प्रयतमानेन भगवता जैमिनिना न मीमांसितम् ; उपयोगाभावात् , भगवांस्तु पुनर्बादरायणः पृथक् विचारं प्रतिज्ञाय व्यचीचरत् समन्वयलक्षणेन । तत्र च देहा­न्त­रो­प­भोग्यः स्वर्गः स्थास्यति । तच्च सर्वं कार्य­क­र­ण­स­ङ्घा­ता­द­न्येन भोक्त्रा विना न सिध्यति । तत्सिद्धिश्च न आगममात्रायत्ता ; प्रमा­णा­न्त­र­गो­च­रस्य तदभावे तद्विरोधे वा शिला­प्ल­व­न­वा­क्य­व­द­प्रा­मा­ण्य­प्र­स­ङ्गात् । अतस्तत्सिद्धौ पराक्रान्तवान् । तेन सत्यं विनापि तेन सिध्येत् प्रामाण्यम् , अस्ति तु तत् । तस्मिन् विद्यमाने न तेन विना प्रमाण्यं सिध्यति फलादिचोदनानाम् इति मत्वा आह —
शास्त्रीये तु व्यवहारे यद्यपि विद्यमाने बुद्धिपूर्वकारी नाविदित्वात्मनः पर­लो­क­स­म्ब­न्ध­म­धि­क्रि­यते इति ॥

तथापि न वेदा­न्त­वे­द्य­मिति ॥

तदेव दर्शयति —
तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्रा­ण्या­त्म­न्य­त­द­ध्या­स­मा­श्रित्य प्रवर्तन्ते । वर्णवयोऽध्यासः
‘अष्टवर्षं ब्राह्म­ण­मु­प­न­य­नी­ते’त्यादिः । आश्रमाध्यासः — ‘न ह वै स्नात्वा भिक्षेते’ति । अवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् स एतामिष्टिं निर्वपेदि’ति । आदि­श­ब्दे­न‘या­व­ज्जीवं जुहुयादि’ति जीवनाध्यासः ।

ननु प्रणव एव विस्वरः ; न हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; स एव निदर्श्यते । कथम् ? तद्यथा बालके प्राति­वे­श्य­मा­त्र­स­म्ब­न्धिना केनचित् वस्त्रा­ल­ङ्का­रा­दिना पूजिते निरु­प­च­रि­त­मा­त्मा­न­मेव पूजितं मन्यते पिता । पूजयितापि पित­र­मे­वा­पू­पु­ज­मिति मन्यते । यतो न बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजा­न­मु­प­ह­न्तु­का­मोऽ­न­न्तरो विजिगीषुः तद्राष्ट्रे ग्राम­मा­त्र­म­प्यु­प­हत्य तमे­वो­प­घ्न­न्त­मा­त्मानं मन्यते, सोऽप्यु­प­ह­तोऽ­स्मीति सन्तप्यते । तदेवं प्रसि­द्ध­व्य­ति­रे­क­स्या­त्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृश­स्थू­ला­द्य­भि­मा­नस्य मुख्यत्वमिति कथयितुमाह —
अहमेव विकलः सकलो वेति बाह्य­ध­र्मा­ना­त्म­न्य­ध्य­स्य­तीति ॥
बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्म­द­र्थ­स्या­ध्यासः ॥ अस्म­द­र्थ­श्चा­हं­प्र­त्य­यि­स­म्भिन्न एवानिदञ्चिदंशो विषयः, न पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्या­सा­न्त­रा­ना­स्क­न्दितः ।

यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा न प्रकाशेत ; न हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशते । प्रकाशते चेह चैत­न्य­म­ह­ङ्का­रादौ । तथा यदि चैत­न्य­स्यै­वा­ह­ङ्का­रा­दा­व­ध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदि­त्य­नु­भ­व­मे­वा­नु­स­र­न्नाह —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्वि­प­र्य­ये­णा­न्तः­क­र­णा­दि­ष्व­ध्य­स्य­तीति ॥
नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् न मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः । न हि दृष्टेऽनुपपन्नं नाम ॥

ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्ध­स्या­ध्यासः, अन्यत्र पुनः चैत­न्या­ध्या­स­प­रि­नि­ष्प­न्ना­प­रो­क्ष्य­म­न्तः­क­र­ण­मे­वा­ध्य­स्यते, अत एव ‘तद्विपर्ययेण विष­यि­ण­स्त­द्ध­र्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम्’ इत्युक्तम् ; अन्यथा चैत­न्य­मा­त्रै­क­र­सस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्य­त्रा­न्तः­क­रणं सचि­त्क­मे­वा­ध्य­स्य­मानं यत्राध्यस्यते, तस्यैवात्मनः कार्य­क­र­ण­त्व­मा­पाद्य स्वय­म­वि­द्य­मा­न­मिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा न विशिष्यते, तेनोच्यते —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्वि­प­र्य­ये­णा­न्तः­क­र­णा­दि­ष्व­ध्य­स्य­तीति ॥
अत एव बुद्ध्यादिष्वेव चिद्रू­प­म­नु­स्यू­त­मु­त्प्रे­क्ष­माणा बुद्धि­म­नः­प्रा­णे­न्द्रि­य­श­री­रे­ष्वे­कै­क­स्मिन् चेत­न­त्वे­ना­ह­ङ्क­र्तृत्वं योजयन्तो भ्राम्यन्ति ॥

ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्त­त्प्र­हा­णाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेः । तस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते ।
‘मिथ्या­प्र­त्य­य­रूप’
इति रूपग्रहणं लक्षणतस्तथा रूप्यते, न व्यवहारतः इति दर्शयितुम् ।

एवं तावत् सूत्रे­णा­र्था­दु­पा­त्तयोः विषयप्रयोजनयोः सिद्धये जीव­स्या­ब्र­ह्म­स्व­रू­प­त्व­म­ध्या­सा­त्म­क­मु­प­दर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहा­णि­रा­त्य­न्तिकी यतः । ननु अन­र्थ­हे­तु­र­ध्या­सोऽ­नादिः, स कथं प्रहीयते ? तथा हि — मनु­ष्या­दि­जा­ति­वि­शे­ष­मा­त्रा­ध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्तते । नायं दोषः ॥

तत्त्व­म­सी­त्या­दि­वा­क्या­द्ब्र­ह्म­रू­पा­व­गा­हि­ज्ञा­ना­न्त­रो­त्प­त्ते­रि­ष्ट­त्वात् । तद्धि ब्रह्म­णोऽ­व­च्छि­द्यैव चैतन्यस्य ब्रह्म­रू­प­त्व­प्र­च्छा­द­नेन जीव­रू­प­त्वा­पा­दि­का­म­ना­दि­सि­द्धा­म­वि­द्या­म­ह­ङ्का­रा­दि­वि­क्षे­प­हेतुं निरा­कु­र्व­दे­वो­त्प­द्यते । ततः कारणनिवृत्तौ तत्कार्यम् ‘अहमि’ति जीवे भोक्तृत्वरूपता सपरिकरा निवर्तत इति युज्यते । अहंप्रत्ययः पुन­र­ना­दि­सि­द्धोऽ­ना­दि­सि­द्धे­नैव कार्यकरणमात्रेण सहभावादविरोधात् न स्वरू­प­वि­वे­क­मा­त्रेण निवर्तते । नापि ज्ञाना­न्त­र­मु­त्प­न्न­मिति विशेषः ॥

ननु निरतिशयानन्दं ब्रह्म श्रूयते, ब्रह्मा­वा­प्ति­सा­धनं च ब्रह्मविद्या ‘स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भव­ती’त्या­दि­श्रु­तिभ्यः ; तस्मा­न्नि­र­ति­श­य­सु­खा­वा­प्तय इति वक्तव्यम् , किमिदमुच्यते — ‘अनर्थहेतोः प्रहाणाये’ति ? ननु चानर्थस्यापि समूलस्य प्रहाणं श्रूयते ब्रह्मविद्याफलं ‘तरति शोकमात्मवित्’(छा. उ. ७-१-३) ‘जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः’(मु. उ. ३-१-२) इति च ॥ उभयं तर्हि वक्तव्यं ; श्रूयमाणत्वात् पुरु­षा­र्थ­त्वाच्च ? न वक्तव्यम् ॥ कथम् ? ‘आत्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये’ इत्यात्मनो जीवस्य ब्रह्मात्मकता शास्त्रस्य विषयः, तेना­न­न्दा­त्म­क­ब्र­ह्म­स्व­रू­प­ता­प्राप्तिः जीवस्य विषयतयैव संवृत्ता । न च सा विषयाद्बहिः, येन पृथङ्निदेशार्हा स्यात् , समू­ला­न­र्थ­हा­निस्तु बहिः शास्त्र­वि­ष­या­द्ब्र­ह्मा­त्म­रू­पात् । अन­र्थ­हे­तु­प्र­हा­ण­मपि तर्हि न पृथ­ङ्नि­र्दे­ष्ट­व्यम् ? यतः सर्वेषु वेदा­न्ते­ष्व­लौ­कि­क­त्वा­द्ब्र­ह्म­ण­स्त­त्प्र­ति­पा­द­न­पू­र्व­क­मेव जीवस्य तद्रूपता प्रतिपाद्यते । तद्यथा — ‘सदेव सोम्येदमग्र आसी­दि’त्यु­प­क्रम्य ‘ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मे’त्यवसानं निर­स्त­स­म­स्त­प्र­पञ्चं वस्तु तत्पदाभिधेयं समर्पयदेकं वाक्यम् ; तथा सति तादृशेन तत्पदार्थेन संसृज्यमानः त्वम्पदार्थः पराकृत्यैव निर्ले­प­म­न­र्थ­हे­तु­म­ग्र­ह­ण­म­न्य­था­ग्र­हणं च तथा निश्चीयत इति । यद्येवं ब्रह्मा­त्मा­व­ग­ति­ना­न्त­री­य­कम् अन­र्थ­हे­तो­र­वि­द्यायाः प्रहाणं, न शब्दस्य तत्र व्यापारः, तेन पृथङिनर्दिश्यते । युक्तं चैतत् — न हि विपर्यासगृहीतं वस्तु तन्निरासादृते तत्त्वतो निर्णेतुं शक्यम् । तस्मात् पूर्वा­व­सि­त­म­त­द्धर्मं निरस्यदेव तत्त्वावद्योति वाक्यं तत्त्वमवसाययति ॥

ननु च नञादेः निरासकृतो निर­स्य­मा­न­वा­चि­नश्च पदस्याश्रवणात् कथं तन्निरस्यदेवेति ? उच्यते — नेदं रजतमिति यत्र विपर्यासमात्रं निरस्यते, न वस्तु­त­त्त्व­म­व­बो­ध्यते ; तत्र तथा भवतु ; इह पुनः विज्ञानमेव तादृशमुत्पन्नं, यद् विरो­धि­नि­रा­क­र­ण­म­न्त­रेण न स्वार्थं साधयितुमलम् , तुलो­न्न­म­न­व्या­पार इव आनमननान्तरीयकः । तथा हि — उन्नमनव्यापारः स्वविषयस्य तुला­द्र­व्य­स्यो­र्ध्व­दे­श­स­म्बन्धं न साधयितुमलं, तत्कालमेव तस्या­धो­दे­श­स­म्ब­न्ध­म­ना­पाद्य । न चोन्नमनकारकस्य हस्त­प्र­य­त्ना­दे­रा­न­म­नेऽपि कारकत्वं ; प्रसि­द्ध्य­भा­वा­द­नु­भ­व­वि­रो­धाच्च । तदेवं विपर्यासगृहीते वस्तुनि तत्त्वा­व­द्यो­ति­श­ब्द­नि­मित्त आत्मनो ज्ञानव्यापारो ‘नाहं कर्ता ब्रह्माहमि’ति ग्राहयति ; ‘नेदं रजतं शुक्तिकेयमि’ति यथा । तस्मात् ‘शुक्ति­के­य­मि’त्येव निराकाङ्क्षं वाक्यम् , ‘नेदं रजतमि’त्यनुवादः । अत एवाख्यातपदस्य वाक्यत्वे क्रियाज्ञानादेव तत्सा­ध­न­मा­त्रेऽपि प्रतीतिसिद्धेः पदान्तराणि नियमायानुवादाय वेति न्यायविदः । तथा चाहुः — ‘यजतिचोदना द्रव्य­दे­व­ता­क्रियं समुदाये कृता­र्थ­त्वादि’ति ।

अपरे तु ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः’ इति । कथं ? क्रिया­मा­त्र­वा­चिनो द्रव्य­दे­व­ता­भि­धानं नान्तरीयकं तद्वि­ष­य­ज्ञा­न­नि­मि­त्तत्वं विहाय । प्रत्य­क्ष­बा­ध­स्या­प्य­य­मेव प्रकारः, अस­म्प्र­यु­क्त­वि­ष­य­त्वा­द्बा­धस्य । तदे­व­म­शा­ब्द­म­वि­द्या­वि­लयं मन्वानः श्रुति­न्या­य­को­विदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति —
अस्यानर्थहेतोः प्रहाणायेति ॥
चतु­र्थी­प्र­यो­गोऽपि विद्या­सा­म­र्थ्य­सि­द्धि­म­भि­प्रेत्य, न तदर्थमुपादानम् । प्रयोजनत्वं च पुरु­षा­का­ङ्क्षाया एवास्तु । न हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेत । सा हि वेदित्राश्रया वेद्यं तस्मै प्रका­श­य­न्त्ये­वो­देति । सत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि न प्रतिष्ठां लभते ; अस­म्भा­व­ना­भि­भू­त­वि­ष­य­त्वात् । तथा च लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव न सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैव­व­शा­दु­प­ल­भ्येत, तदा स्वय­मी­क्ष­मा­णोऽपि ताव­न्ना­ध्य­व­स्यति, यावत् तत्सम्भवं नानुसरति । तेन सम्यग्ज्ञानमपि स्ववि­ष­येऽ­प्र­ति­ष्ठि­त­म­न­वा­प्त­मिव भवति । तेन तत्स्व­रू­प­प्र­ति­ष्ठायै तर्कं सहायीकरोति । अत एव प्रमा­णा­ना­म­नु­ग्रा­ह­क­स्तर्कः इति तर्कविदः ॥

अथ कोऽयं तर्को नाम ? युक्तिः । ननु पर्याय एषः ? स्वरू­प­म­भि­धी­य­ताम् । इदमुच्यते — प्रमा­ण­श­क्ति­वि­ष­य­त­त्स­म्भ­व­प­रि­च्छे­दात्मा प्रत्ययः । ननु एवं तर्कसापेक्षं स्वमर्थं साध­य­तोऽ­न­पे­क्ष­त्व­हा­ने­र­प्रा­माण्यं स्यात् , न स्यात् ; स्वमहिम्नैव विष­या­ध्य­व­सा­य­हे­तु­त्वात् , क्व तर्हि तर्कस्योपयोगः ? विष­या­स­म्भ­वा­श­ङ्कायां तथा अनु­भ­व­फ­ला­नु­त्पत्तौ तत्स­म्भ­व­प्र­द­र्श­न­मु­खेन फल­प्र­ति­ब­न्ध­वि­गमे । तथा च तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्प­दा­र्थ­ब्र­ह्म­स्व­रू­प­ता­मा­त्म­नोऽ­स­म्भा­व­यन् विपरीतं च रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो न सम्भावयति । अतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवति । अवा­प्ति­प्र­का­रश्च वेदान्तेष्वेव निर्दिष्टः साक्षा­द­नु­भ­व­फ­लो­द्दे­शेन । तेनोच्यते —
विद्या­प्र­ति­प­त्तये इति ॥
ननु आत्मै­क­त्व­वि­द्या­प्र­ति­पत्तिः नान­र्थ­हे­तु­प्र­हा­णाय प्रभवति ; तथाहि — जीवस्य कार्य­का­र­ण­स­ङ्घा­ता­द­न्य­त्व­प्र­ति­पत्तेः ब्रह्म­स्व­रू­प­ता­प्र­ति­पत्तिः न विशिष्यते ; उभ­य­त्रा­प्य­ह­ङ्का­र­ग्रन्थेः मनु­ष्या­भि­मा­न­प­र्य­न्त­स्या­वि­क­ल­म­नु­व­र्त­मा­न­त्वात् , उच्यते — भवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुन­र­प­सा­रि­ता­वि­द्या­दोषं ब्रह्मा­त्म­ज्ञा­न­मु­द­य­मा­सा­द­यत् कथं तन्निमित्तं भोक्त्रा­दि­ग्र­न्थि­प्र­वाहं नापनयति ? न हि जीवस्य ब्रह्मात्मावगमः तद्वि­ष­या­न­व­ग­म­म­बा­ध­मानः उदेति ॥

ननु ब्रह्म­ज्ञा­ना­द­ग्र­ह­णा­पाये तन्नि­मि­त्त­स्या­ह­ङ्का­र­ग्रन्थेः तत्कालमेवाभावः प्रसज्येत ? न ; संस्का­रा­द­प्य­ग्र­ह­णा­नु­वृत्तेः सम्भवात् ; भयानुवृत्तिवत् । तथाहि — सम्यग्ज्ञानात् निवृत्तमपि भयं स्वसं­स्का­रा­द­नु­व­र्तते, कम्पादिनिमित्तं च भवति । तथा ग्रहणमपि स्वसं­स्का­रा­द­नु­व­र्तते अह­ङ्का­र­ग्र­न्थेश्च निमित्तं भवतीति न किञ्चि­द­नु­प­प­न्न­मस्ति ॥

ननु न सर्वे वेदान्ता विद्या­र्थ­मे­वा­र­भ्यन्ते, तदेकदेशः क्रममुक्तिफलाय ऐश्वर्याय अभ्युदयार्थं कर्मसमृद्धये चोपासनानि विवि­धा­न्यु­प­दि­शन् उपलभ्यते । सत्यम् ; उपासनाकर्म तु ब्रह्म, तच्च अपा­कृ­ता­शे­ष­प्र­पञ्चं जीवस्य निजं रूपमिति निरूपयितुम् अखि­ल­प्र­प­ञ्च­ज­न्मा­दि­हे­तु­तया प्रथमं सर्वात्मकं सर्वज्ञं सर्वशक्ति च ब्रह्म लक्षितम् । अस्यां चाव­स्था­या­म­न­पा­कृ­त्यैव ब्रह्मणि प्रपञ्चं तेन तेन प्रप­ञ्चे­नो­प­धी­य­मानं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधीयते, दर्श­पू­र्ण­मा­सा­र्था­प्प्र­ण­य­न­मिव गोदोहनोपरक्तं पशुभ्यः ; तस्मात् तद­र्थो­प­जी­वि­त्वा­दि­त­रस्य
आत्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये सर्वे वेदान्ता आरभ्यन्त
इति न विरुध्यते ॥

ननु अब्र­ह्मो­पा­स­ना­न्यपि वेदान्तेषु दृश्यन्ते प्राणा­दि­वि­ष­याणि, सत्यं, तान्यपि कार्य­ब्र­ह्मा­वा­प्ति­क्र­मेण मुक्तिफलान्येव । वक्ष्यत्येतत् सूत्रकारः — ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्’ इति ।
यथा चायमर्थः सर्वेषां वेदान्तानां, तथा वयमस्यां शारी­र­क­मी­मां­सायां प्रदर्शयिष्यामः इति
प्रति­ज्ञा­तेऽर्थे वेदान्तानां तात्प­र्य­मु­प­द­र्श­यितुं सम­न्व­य­सू­त्र­प्र­मुखैः सूत्रवाक्यैः ग्रथितो न्यायः इति दर्शयति । शरीरमेव शरीरकं, शरीरके भवः शारीरको जीवः । तमधिकृत्य कृतो ग्रन्थः शारीरकः । तदिह वेदान्तानां जीवस्य तत्त्वमधिकृत्य प्रवृत्तानां ब्रह्मरूपतायां पर्यवसानमिति कथयितुं प्रणीतानां शारीरकं जीव­त­त्त्व­म­धि­कृत्य कृतत्वमस्तीति शारीरकाभिधानम् ।