पञ्चपादिका
जिज्ञासाधिकरणविषयाः
अथ द्वितीयवर्णकम्
अत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथक् आरभन्ते । केयमत्राभ्यधिका ॥ शङ्का चोदनालक्षणोऽर्थो धर्मः इति ब्रुवता विधेः प्रामाण्यं दर्शितम् । अत्र केषुचिद्वाक्येषु विधिरेव न श्रूयते, ‘सदेव सोम्येदमग्र आसीत्’(छा. उ. ६-२-१) इत्येवमादिषु ; यत्रापि विधिः श्रूयते ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २-४-५) ‘तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’(छा.उ.५-१०-५) इति तत्र यद्यपि कृत्या अविशेषेण विधौ स्मर्यन्ते ; तथापि, यो भावाभिधायी तव्यप्रत्ययः, स क्रियायां पुरुषं नियोक्तुं शक्नोति । यत्र पुनः कर्म प्राधान्येनोच्यते, तत्र द्रव्ये गुणभूतां क्रियां न कार्यान्तरसम्बन्धित्वेन विधातुं शक्नोति । द्रव्यपरत्वे चानुत्पाद्यत्वात् , अविकार्यत्वात् , अनाप्यत्वात् , असंस्कार्यत्वात् , संस्कृतस्य च कार्यान्तरे उपयोगाभावादसंस्कार्यत्वम् । अतः ‘आत्मानमुपासीते’त्यात्मन ईप्सिततमत्वं न सम्भवति ॥ अथ पुनर्विपरीतो गुणप्रधानभावः सक्तुन्यायेन कल्प्येत, तत्रापि न ज्ञायते किं तदुपासनम् ? कथं चात्मना तत् क्रियत इति ? अथ ज्ञायते ज्ञानमुपासनम् , आत्मा च विषयभावेन तन्निर्वर्तयतीति, एवं तर्हि तदेवायातं ज्ञानेनात्माऽऽप्यत इति, तच्च कृतकरणमनर्थकम् ; नित्याप्तत्वादात्मनः । संस्कार्यत्वे चोपयोगाभाव उक्तः । अतो विध्यभावादविवक्षितार्था वेदान्ताः, इति धर्मजिज्ञासानन्तरं स्नाने प्राप्त इदमारभ्यते — अथातो ब्रह्मजिज्ञासेति ॥ अनन्तरं ब्रह्म जिज्ञासितव्यं, न स्नातव्यमित्यभिप्रायः । कर्माभिधायिनोऽपि कृत्यप्रत्ययान्नियोगसंप्रत्ययान्न नियोक्तृत्वं निराकर्तुं शक्यते ; ‘कटस्त्वया कर्तव्यः’ ‘ग्रामस्त्वया गन्तव्यः’ इतिवत् । यत्तूक्तं — द्रव्यपरत्वे प्रयोजनाभावादानर्थक्यं नियोगस्येति, तदसत् ; अविद्योच्छेदस्योपलभ्यमानत्वात् । अविद्या च संसारहेतुभूता ॥
अपरे पुनरेवमारभन्ते — ब्रह्मणि प्रत्यक्षादिप्रत्ययान्तराणामसम्भवात् परिनिष्पन्ने वस्तुनि प्रतिपत्तिहेतुतया सम्भावितसामर्थ्यानामपि आम्नायस्य पुनः कार्यविषयतया सुतरामसम्भवं मन्वानस्य भवति सङ्कर्षपर्यन्ते एव वेदार्थविचारावसानामिति बुद्धिः, तन्निरासार्थं पुनः प्रतिज्ञातम् । इहापि सर्वेष्वेवात्मज्ञानविधानेषु कार्यनिष्ठतां वर्णयन्ति समाम् । तत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् इति ; ततः तद्विचारार्थं शास्त्रमारब्धव्यमिति ॥
अत्रोच्यते — नारब्धव्यम् ; गतार्थत्वात् । कथम् ? यस्तावत् प्रथम आरम्भप्रकारः कर्मणि कृत्यप्रत्यये न नियोगसंप्रत्यय इति, तत् स्वयमेव विधायकत्वं दर्शितम् । प्रसिद्धं चैतत् ‘स्वाध्यायोऽध्येतव्यः’ इत्येवमादीनां विधायकत्वम् । नात्राधिकाशङ्काकारणं किञ्चित् । ननु चतुर्विधस्यापि क्रियाफलस्यात्मन्यसम्भव उक्तः । यद्येवं सक्तुन्यायो भविष्यति ? तदपि न ; आत्मविषयज्ञानस्य नित्यसिद्धत्वादित्युक्तम् । सिद्धस्यैव पुनरभ्यासो विधिनिमित्त उपासनाख्यो भविष्यति ; अभ्युदयफले हिरण्यधारणवत् । ननु न विधानतोऽप्यात्मविषयज्ञानसन्तानः कर्तव्यः, स तु नित्यमात्मनि जाग्रतः सिद्धः ? एवं तर्ह्यर्थाविरुद्धेषु कालेष्वात्मन्येव चेतस्समाधानं भविष्यति ॥
यत् पुनरात्मज्ञानादविद्योच्छेदः तदुच्छेदात् संसारनिवृत्तिः फलमित्युपन्यस्तम् , तदसत् ; अहमित्यात्मानं नित्यमेव जानाति सर्वो लोकः । न च संसारो निवृत्तः । अथ पुनरहंप्रत्ययावसेयादन्यदेवात्मरूपं पराकृतभोक्तृभोक्तव्यभोगग्रन्थिज्ञेयत्वेनात्मज्ञानविधिना ज्ञाप्यत इति, तदसत् ; विधिर्हि सामान्यतः सिद्धस्य क्रियात्मनो विशेषसिद्धौ प्रभवति, नात्यन्तमसिद्धसद्भावे । तद्यदि नाम ज्ञानं लोके सिद्धं, तथापि निरस्तप्रपञ्चात्मविषयमसिद्धं आकाशमुष्टिहननवत् न विधातुं शक्यम् । अथ तादृगात्मज्ञानं सिद्धम् ? किं विधिना ? यदपि मतान्तरं प्रत्यक्षादेरगोचरत्वात् शास्त्रस्य च कार्यार्थत्वात् सङ्कर्षपर्यन्त एव विचारे वेदार्थपरिसमाप्तौ प्राप्तायां वेदान्तेष्वपि कार्यनिष्ठता समाना, ब्रह्मतत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् ; अतः तद्विचाराय शारीरकारम्भः इति, तदप्युक्तेन न्यायेन ब्रह्मावगमस्य सिद्धत्वे असिद्धत्वे च कार्यत्वासम्भवेन प्रत्युक्तम् ॥
अपरं मतम् — सत्यं कार्यविषयो वेदः, न तु तावन्मात्रे ; तस्मिन् सति यो योऽर्थोऽवगम्यते स स वेदार्थः, यथा रूपे सति चक्षुषः प्रवृत्तिः, न च रूपमात्रं चक्षुषो विषयः, किं तु तस्मिन् सति द्रव्यमपि ; एवमिहापि वस्तुतत्त्वमपि विषयः । कथम् तत् ? उच्यते — ‘इदं सर्वं यदयमात्मा’(बृ. उ. २-४-६) इति न तावत् सर्वात्मरूपता आत्मन उपदिश्यते । यदि सर्वरूपता आत्मन उपदिश्येत, ततः सर्वस्य अचेतनत्वात् तद्रूपत्वे बोद्धृत्वहानौ बोधकत्वं शब्दस्य हीयेत ; अतः सर्वस्य आत्मस्वभावता विधीयते । अनात्मस्वरूपविलयेन हि वस्तुनोऽवगतिर्दृष्टा । ननु अत्र विधिः न श्रूयते ; कल्प्यतां तर्हि विधिः । किं प्रतीते विध्यर्थे विधिः कल्प्यते ? उत अप्रतीते ? यदि प्रतीते कल्प्यते, कल्पनावैर्यथ्यम् । अर्थप्रतीत्यर्थं हि शब्दो मृग्यते । प्रतीतेऽर्थे शब्दं कल्पयता किं कृतं स्यात् ? अथाप्रतीत एव विध्यर्थे विधिं कल्पयित्वा ततोऽर्थः प्रतिपत्तव्य इति, अपूर्वं प्रमाणकौशलम् । ननु अश्रूयमाणविधिष्वपि ‘तस्मात् पूषा प्रपिष्टभागोऽदन्तको हि’ इत्यादिषु विधिः कल्पितः । सत्यम् ; युक्तं तत्र पूष्णः पिष्टद्रव्यसम्बन्धः समासाभिहितो न सिद्धो वर्तते, नापि कुतश्चिद्भविष्यतीति ; प्रमाणाभावात् । नापि विधिना केनचित् पदैकवाक्यता, येन वपोत्खननादिवत् कथञ्चिदालम्बनं कल्प्येत ; अतो निरालम्बनत्वपरिहाराय कार्यपरता कल्प्यत इति ॥ ननु इहाप्यात्मपदं चेतनस्य भोक्तुर्वाचकम् ; स च नियोज्यत्वान्नियोगमाक्षिपति, नैतत् सारम् ; नियोगो हि पुरुषविशेषमनाश्रित्य अनुपलब्धो लोके तमाक्षिपेत् विश्वजिदादिषु । पुरुषः पुनः किं नियोगमन्तरेण नोपलब्धो लोके ? येन विधिकल्पना भवेत् । अथापि भवतु नाम विधिः, नासौ धातुना विना केवलो लभ्यते, धातुनैव सह कल्प्यते । कोऽसौ धातुः ? यदि तावत् कर्तव्यमिति, तत्र अनात्मस्वभावता न निवृत्ता प्रपञ्चस्य । यथा — ‘अमी पिष्टपिण्डाः सिंहाः क्रियन्तामि’ति पिष्टस्वभावता न निवृत्ता । इतिकर्तव्यता चानिर्दिष्टा ; तत्र साकाङ्क्षं वचनमनर्थकं स्यात् । अथ ज्ञातव्य इत्यध्याह्रियेत ? एवमपि स एव दोषः ; अनात्मस्वभावता न निवृत्तेति, अशक्यार्थोपदेशश्च । न हि वस्तु वस्त्वन्तरात्मना ज्ञातुं शक्यते । एवं तर्हि ज्ञातव्य इत्यध्याह्रियेत, तत्र धात्वर्थोनुवादः, प्रत्ययो विधायकः । कुतः प्राप्तेरनुवादः ? अभिधानत इति ब्रूमः । एवं तर्हि विधानमनर्थकं, स्वाध्यायकाले एव निष्पन्नत्वात्ज्ञानस्य । पुनः कर्तव्यतया चोद्यते, यथा मन्त्रेषु । प्रयोगवचनः तत्र विधायकः इति । इहापि प्रयोगवचनो विधायकः ? ननु मन्त्रेषु स्वार्थस्यान्यतः सिद्धत्वात् प्रत्ययपरत्वं युज्यते, इह तु स्वार्थविधिपराणां शब्दानां प्रत्ययपरत्वं विरुध्यते, नैष दोषः ; अन्यार्थमपि कृतमन्यार्थं भवति, तद्यथा — शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते च ; एवमिहापि । यथा पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवं स्वार्थस्य विधायकः शब्दः प्रत्ययस्यापि विधायको भविष्यति ॥
तदेतदनिरूपितमिव दृश्यते । कथम् ? मन्त्राः स्वाध्यायविधिनोपादापिताः स्वार्थस्यान्यतः सिद्धत्वात् तं प्रमातुमशक्नुवन्तः प्रमाणत्वात् प्रच्युताः व्रीह्यादिवत् प्रमेयतामापन्नाः श्रुत्यादिप्रमाणैः, युक्तं यद्विनियुज्येरन् , विनियुक्ताश्चानुष्ठेयस्यानुष्ठानकाले स्मृत्यपेक्षस्य स्मारकतया गृह्येरन्निति, इह तु ‘इदं सर्वं यदयमात्मेति यत् पदसमन्वयनिमित्तं सर्वस्यात्मस्वभावताग्राहिविज्ञानं, तत् स्वविषयस्य अन्यतोऽसिद्धत्वात् प्रमेयपरत्वात् न विधेर्विषयः । अथ विधेर्विषयो न प्रमेयमवगमयितुमलम् । न युगपदुभयं सम्भवति ; वैरूप्यप्रसङ्गात् ॥
ननु एवं सति गुणकर्मणां सर्वत्र विधानं निराकृतं स्यात् । न निराकृतं स्यात् ; यत्र प्रमाणान्तरसिद्धं गुणकर्मणः कर्मकारकं, तत्र तस्योत्पत्त्याद्यन्यतमं फलं, तद्विधीयते ; यत्र पुनः प्रमाणान्तरादसिद्धो ज्ञानस्य कर्मभूतो विषयः, स तेनैव प्रमीयमाणो न सिद्धवदुद्देश्यः, येन तदुद्देशेन तत्रातिशयाधानाय ज्ञानं विधीयते ॥ तस्मादत्र युगपदुभयासम्भवात् भवत्येव वैरूप्यप्रसङ्गः । न च स एव समन्वयः स्वावयवाद्विधेर्विभक्तः कार्यक्षमः ; अवान्तरवाक्यस्य प्रमाणत्वायोगात् । अथ अर्थवादपदानामिव परस्परतः संसृज्य कञ्चिदर्थमवबोध्य विधिसम्बन्धमनुभवेदित्यभिप्रायः ? तदसत् ; युक्तमर्थवादपदानि स्वार्थफलरहितानि तत्र पर्यवसानाभावात् फलवदङ्गतामश्नुवीरन्निति, इह पुनरपरामृष्टविधिः पदसमन्वयः स्वार्थमवगमयन् निरस्तनिखिलप्रपञ्चावग्रहमपास्तातिशयानन्दनित्यानुभवैकरसं शिवमद्वैतमात्मतत्त्वमवगमयेत् , तत्र कुतो विधिशेषता कृतं कृत्यं प्राप्तं प्रापणीयम् ? ‘आत्मलाभान्न परं विद्ययते’ इति स्मृतेः ॥
अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; ‘न चक्षुषा गृह्यते’(मु. उ. ३-१-८) इत्यादिमन्त्रवर्णात् । शाब्दं च नेष्यते भवता, सत्यम् न शाब्दज्ञानं विधिविकलमनुभवायालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्यायाध्ययनविधिग्राहितात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधिविषयत्वानुपपत्तेरित्युक्तम् । अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपास्तिध्यायत्योः ज्ञानसन्तानवाचिनोरन्यतरस्याप्युपादानमन्तरेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साहचर्याद्यव्यभिचरितसम्बन्धाभावात् । नाप्यभ्यासात् साक्षाद्भावः सिद्धः । नापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेत । ननु किमत्र श्रवणेन ? स्वयमेव साक्षात्कारकरणाय पुरुषार्थत्वादभिमुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्तते । यत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् । स च न्यायो न युगपत् सम्भवतीत्युक्तम् । यदपीदमुक्तं — पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम् । यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः न तेषामेव विधानम् । नापि ते क्रमशब्दाभिधेयाः । प्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते । न ते क्रम इत्युक्तम् ॥ न च क्रमो नाम एकान्ततो नास्त्येव ; तद्बुद्धिशब्दयोः निरालम्बनत्वप्रसङ्गात् । तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव । त एव केनचिदुपाधिना वनवत् क्रमबुद्धिशब्दालम्बनं भवेयुः । स्मृतिविज्ञानमेव वा अनुष्ठानकाले यथोपलब्धिपदार्थान् परामृशेत् । सर्वथा अस्ति तावत् एकैकपदार्थालम्बनज्ञानातिरिक्तं ज्ञानान्तरम् ॥ तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युगपदनुष्ठानासम्भवादपेक्षितं सन्निहितं च प्रयोगवचनेन गृह्यत इति युक्तम् । न तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे च वर्तेत । तस्मादिह विधेयाभावाद्विधानाश्रवणादध्याहारे च प्रमाणाभावात् न प्रयोगवचनोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यते । तस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इति ॥ यत् पुनः निदर्शनं — चक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीति । युक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, न यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम् । आह — मा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, स विधिविषय एव भवतु । तस्मिन् विहिते अर्थात् सर्वस्यात्मस्वभावता सिध्यति ; सविषयत्वादवगमस्य । एवमपि अविवक्षितोऽर्थः शब्दात् , विवक्षितस्त्वर्थादिति शोभतेतरां वाक्यार्थवित्ता ? न च नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयति । भवन्ति हि परिकल्पितविषया अपि प्रतिपत्तयश्चोदनालक्षणाः फलवत्यः ‘वाचं धेनुमुपासीते’त्येवमाद्याः । एतदेवात्र युक्तम् ; अतत्परस्य प्रत्यक्षादिविरोधे तथाध्यवसायहेतुत्वायोगात् । तस्मात् कार्यनिष्ठे वेदे वस्तुतत्त्वसिद्धिः मनोरथ एव । अतो अहंप्रत्ययावसेय एवात्मा । न तस्य शब्दावसेयमतीन्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात् । एवं च सति ‘अयमात्मा ब्रह्म’(बृ. उ. २-५-१९) ‘एष त आत्मान्तर्याम्यमृतः’(बृ. उ. ३-७-३) इति ब्रह्मान्तर्याम्यादिशब्दा अहंप्रत्ययावसेय एवात्मनि कथञ्चिद्वर्तन्ते । तेन ‘स आत्मा तत्त्वमसि’(छा. उ. ६-८-७) इति विद्यमानैरारोपितैश्च गुणैरात्मोपासनं मोक्षफलं च विधीयते इति, युक्तम् । अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य च सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्मजिज्ञासारम्भं प्रयुञ्जीत, उच्यते — स्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेन ‘अथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, न वस्तुतत्त्वनिष्ठः ॥
तथा हि — शास्त्रारम्भो व्याख्यातृभिरेवं निरूपितः । कथम् ? धर्मो नाम कश्चित् साधयितुः कालान्तरे श्रेयस्साधनो लोकाख्यप्रमाणाभासोत्थेन ज्ञानेन सामान्यतो विषयीकृतः । तद्विशेषं प्रति विप्रतिपन्नाः परीक्षकाः केचिदग्निहोत्रादिकं धर्ममाचक्षते ; केचिच्चैत्यवन्दनादिकम् । तत्र अग्निहोत्रादिलक्षण एव धर्मोऽभिप्रेतः । न तत्प्रतिपादकानां वेदवाक्यानां विचारावसरो नापि विवक्षितार्थत्वम् । अतः चैत्यवन्दनादीनामेवान्यतमो धर्मः । तत्प्रतिपादकानां बुद्धादिवाक्यानामेवान्यतमं विचार्यम् ; न वा तदपि । न हि पौरुषेये वाक्ये शब्दशक्त्यनुसारेणार्थः, अपि तु तेन विवक्षितः इत्येवमाशङ्किते धर्माय वेदवाक्यानि विचारयिष्यन् तदर्थविवक्षाविचारावसरप्रदर्शनार्थम् ‘अथातो धर्मजिज्ञासा’ इति सूत्रयामास जैमिनिः । वेदमधीत्य अनन्तरं धर्मजिज्ञासा कर्तव्या, न स्नानं गुरुकुलनिवृत्तिरूपमिति दर्शयितुमिति । एवं स्थिते शास्त्रारम्भे, न सर्ववेदार्थविषयं शास्त्रमिति प्रतीतिः, किन्तु धर्मातिरिक्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, स च पर्युदस्तो जैमिनिना ; न्यायान्तरविषयत्वादिति, गम्यते ॥
तत् कथम् ? यत् तावदिदम् उच्यते ; धर्मो नाम लोकप्रवादात् सामान्यतः सिद्धः । तस्य स्वरूपप्रमाणयोः विप्रतिपत्तावग्निहोत्रादिरपि वेदार्थो धर्मतया विचारपदवीमुपारोहति ; यतः तस्यापि विचारावसरो विद्यते, तेन विवक्षितोऽसौ । न चाध्ययनमात्रात् कृतकृत्यता । अतोऽध्ययनानन्तरं न गुरुकुलान्निवर्त्तितव्यं, किन्तु वेदार्थो धर्मः, किं वा अन्य एवेति जिज्ञासामर्हतीति वदितुं धर्मग्रहणं युक्तम् अथातो धर्मजिज्ञासेति, न वेदार्थजिज्ञासेति ; यतो न वेदार्थतया ज्ञाने प्रवृत्तिः । यत् पुनः धर्मस्य स्वरूपप्रमाणकथनाय द्वितीयं सूत्रं, तत् वेदप्रमाणको धर्म इति स्यात् किमिदं ‘चोदनालक्षणः’ इति ? तत् नूनं न सर्वो वेदो धर्म एव कार्यात्मके पर्यवस्यति, कश्चिदस्य भागः कार्यताशून्ये वस्तुतत्त्वेऽपि वर्तते इति मन्यते ॥ ननु चोदनाग्रहणस्यान्यदेव प्रयोजनं, ‘चुद प्रेरणे’ इति प्रेरणकर्मणश्चोदनेति रूपम् ; ततः प्रेरणात्मको विधिरपुरुषार्थे प्रेरयितुमशक्नुवन् पदान्तराभिहितमपि स्वर्गादिकं भावनाकर्मतामापादयति एकपदोपादानात् संनिहिततरं धात्वर्थं विहायेति कथयितुमिति, नैतत् सारम् , अध्ययनविधिरध्ययने माणवकं प्रेरयन् अध्ययनस्य पुरुषार्थरूपार्थावबोधकत्वमनापाद्य न शक्नोति प्रेरयितुम् ; पारम्पर्येणाप्यपुरुषार्थे विधेरपर्यवसानात् , अतः तदर्थं न चोदनाग्रहणम् ; वेदग्रहणेनापि तत्सिद्धेः । अपि च वेदग्रहणमेव युक्तम् ; असन्देहात् , चोदनाग्रहणे हि सन्देहः स्यात् ; लोकेऽपि विद्यमानत्वात् । अथ वेदाधिकरणे ‘वेदांश्चैके सन्निकर्षमि’ति विशेषाभिधानात् वैदिकत्वसिद्धिरिति, सोऽयमाभाणको लोके ‘पिण्डमुत्सृज्य करं लेढी’ति, सूत्रकारस्याप्यकौशलं प्रदर्शितं स्यात् । ततश्चोदनाग्रहणादचोदनात्मकोऽपि वेदभागोऽभिप्रेत इति गम्यते, येन वेदार्थमात्रस्य धर्मत्वं मा भूदिति चोदनेत्यवोचत् । तदेवं सूत्रकार एव स्वशास्त्रविषयातिरिक्तं वेदभागमविचारितमसूसुचत् ॥ ननु ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ ‘तद्भूतानां क्रियार्थेन समाम्नायः’ ‘आम्नायस्य क्रियार्थत्वात्’ इति च सर्वस्य कार्यार्थत्वं दर्शितं, सत्यम् ; तत् प्रक्रमबलात् तन्निष्ठो वेदभाग इति गम्यते, न सर्वत्र । अपि च ‘दृष्टो हि तस्यार्थः कर्मावबोधनमि’ति न सर्वस्य कर्मावबोधनमर्थ उच्यते, कथम् ? वेदाध्ययनानन्तरं स्नानविधायकमाम्नायमुपलभ्य वेदस्यानर्थकत्व आशङ्किते ‘अतिक्रमिष्याम इममाम्नायम् , अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम ; दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इत्यर्थसद्भावः प्रदर्शितो नार्थान्तरासद्भावः । सोऽयमयोगव्यवच्छेदो नान्ययोगव्यवच्छेदः । कर्मशब्देन धर्म एव कार्यत्वादभिहितः ; यतः तदवबोधप्रवृत्तो वेदस्यार्थवत्त्वं मृगयते, किं वेदस्यार्थो विद्यते ? न वा ? स च धर्मत्वेनावगन्तुं शक्यते ? न वा इति ? तस्मात् न कर्मावबोधनमेव वेदार्थोऽभिप्रेतो भाष्यकृतः । यत् पुनः ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’ति, तत्र यद्यानर्थक्यमर्थाभावः, तदसत् ; यतः एवमेवभूतार्थमनुवदन्तीति दर्शितोऽर्थः । अथ निष्प्रयोजनत्वम् ; स्वाध्यायाध्ययनविधिर्निष्प्रयोजनमक्षरमात्रमपि न ग्राहयतीति, भवतु ‘सोऽरोदीतित्यादीनाम् ; अपुरुषार्थप्रतिपादकत्वात् एकवाक्यत्वात् पृथक्कार्यकल्पनानुपपत्तेः, कल्पयितुं चाशक्यत्वात् । यानि पुनः अपास्ताशेषाशिवमात्मानमनुभवपर्यन्तम् अवबोधयन्ति वाक्यानि, तान्यनवद्यप्रयोजनत्वाद्भवन्तितरामेव प्रयोजनवन्ति । अतः स्वयमपुरुषार्थत्वात् तदर्थोपकारितया कथञ्चित् पुरुषार्थस्तावकत्वेन प्रयोजनवत्त्वमुक्तं, न सर्वस्यैवाक्रियार्थत्वेन आनर्थक्यमाशङ्क्य क्रियार्थत्वेनार्थवत्वमुक्तम् । तथा च तद्विधान्येव तत्र वाक्यान्युदाहृतानि ॥
यदपि केचित् — शास्त्रप्रस्थानमन्यथा वर्णयन्ति । न हि किलैवं शास्त्रं प्रस्थितं, किं वेदलक्षणो धर्मः ? उत बुद्धवाक्यादिलक्षणः ? इति । किं तर्हि ? अधीतवेदस्य योऽर्थोऽवगतः, तत्रैव विप्रतिपत्तयः सन्ति, किमयमसौ ? उतायम् इति ? तन्निराकरणार्थः शास्त्रारम्भः इति ॥ तत्रापि न निखिलवेदार्थविचारप्रतीतिः । तत् कथम् ? तथा सति ‘अथातो वेदार्थजिज्ञासा’ इति स्यात् ; यतो न धर्म इति कृत्वा विचारः, किन्तु वेदार्थ इति, सत्यं, तथापि शास्त्रकाराणां पुरुषार्थसिद्ध्यर्थं शास्त्रप्रणयनं, ततश्च पुरुषार्थकथनार्थं धर्मग्रहणमिति । एवं तर्हि धर्म इत्येव कृत्वा विचारो भवतु ; तस्य पुरुषार्थत्वात् सन्दिग्धत्वाच्च । तथा च उत्तरमपि सूत्रमनुगुणं भवति ‘चोदनालक्षणोऽर्थो धर्मः’ इति धर्मस्वरूपविप्रतिपत्तिनिरासपरं ; इतरथा वेदार्थविप्रतिपत्तौ तन्निरासार्थं ‘चोदनालक्षणो वेदार्थः’ इति स्यात् , यतो न धर्मग्रहणे सति वेदार्थविप्रतिपत्तिः शक्या निराकर्तुम् । कथम् ? यत् तावत् चोदनालक्षणो योऽर्थः, स धर्म इति धर्मत्वं ज्ञाप्येत, तदा स एव वेदार्थो नान्य इति न लभ्यते । अथ पुनः स धर्म इति नामनामिसम्बन्धो विधीयते, तदप्रक्रान्तम् ; निष्प्रयोजनम् , अतिप्रसङ्गश्च आपद्येत ॥ अथापि कथञ्चित् धर्मशब्देन वेदार्थ एवोच्यते इति कल्प्येत, तथा सति चोदनालक्षणो वेदार्थो नार्थवादादिलक्षणः, इति सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात् , उत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत ॥ ‘वृत्तं प्रमालक्षण’मिति च मन्त्रार्थवादेषु च कार्यार्थत्वे विप्रतिपत्तिः न स्यात् । सा चोत्तरत्रैव निरस्यते । अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च, न वस्तुनिष्ठः ; इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यते -
अथातो ब्रह्मजिज्ञासा इति ॥