अद्वैतशारदा

पञ्चपादिका

जिज्ञासाधिकरणविषयाः

व्याख्याः

अथ द्वितीयवर्णकम्

अत्र केचि­द­भ्य­धि­का­शङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथक् आरभन्ते । केयमत्राभ्यधिका ॥ शङ्का चोद­ना­ल­क्ष­णोऽर्थो धर्मः इति ब्रुवता विधेः प्रामाण्यं दर्शितम् । अत्र केषु­चि­द्वा­क्येषु विधिरेव न श्रूयते, ‘सदेव सोम्येदमग्र आसीत्’(छा. उ. ६-२-१) इत्येवमादिषु ; यत्रापि विधिः श्रूयते ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २-४-५) ‘तस्मिन् यद­न्त­स्त­द­न्वे­ष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्यम्’(छा.उ.५-१०-५) इति तत्र यद्यपि कृत्या अविशेषेण विधौ स्मर्यन्ते ; तथापि, यो भावाभिधायी तव्यप्रत्ययः, स क्रियायां पुरुषं नियोक्तुं शक्नोति । यत्र पुनः कर्म प्राधा­न्ये­नो­च्यते, तत्र द्रव्ये गुणभूतां क्रियां न कार्या­न्त­र­स­म्ब­न्धि­त्वेन विधातुं शक्नोति । द्रव्यपरत्वे चानु­त्पा­द्य­त्वात् , अविकार्यत्वात् , अनाप्यत्वात् , असं­स्का­र्य­त्वात् , संस्कृतस्य च कार्यान्तरे उप­यो­गा­भा­वा­द­सं­स्का­र्य­त्वम् । अतः ‘आत्मा­न­मु­पा­सी­ते’त्या­त्मन ईप्सिततमत्वं न सम्भवति ॥ अथ पुनर्विपरीतो गुणप्रधानभावः सक्तुन्यायेन कल्प्येत, तत्रापि न ज्ञायते किं तदुपासनम् ? कथं चात्मना तत् क्रियत इति ? अथ ज्ञायते ज्ञानमुपासनम् , आत्मा च विषयभावेन तन्नि­र्व­र्त­य­तीति, एवं तर्हि तदेवायातं ज्ञाने­ना­त्माऽऽ­प्यत इति, तच्च कृतकरणमनर्थकम् ; नित्या­प्त­त्वा­दा­त्मनः । संस्कार्यत्वे चोपयोगाभाव उक्तः । अतो विध्य­भा­वा­द­वि­व­क्षि­तार्था वेदान्ताः, इति धर्म­जि­ज्ञा­सा­न­न्तरं स्नाने प्राप्त इदमारभ्यते — अथातो ब्रह्म­जि­ज्ञा­सेति ॥ अनन्तरं ब्रह्म जिज्ञासितव्यं, न स्नात­व्य­मि­त्य­भि­प्रायः । कर्मा­भि­धा­यि­नोऽपि कृत्य­प्र­त्य­या­न्नि­यो­ग­सं­प्र­त्य­यान्न नियोक्तृत्वं निराकर्तुं शक्यते ; ‘कटस्त्वया कर्तव्यः’ ‘ग्रामस्त्वया गन्तव्यः’ इतिवत् । यत्तूक्तं — द्रव्यपरत्वे प्रयो­ज­ना­भा­वा­दा­न­र्थक्यं नियोगस्येति, तदसत् ; अवि­द्यो­च्छे­द­स्यो­प­ल­भ्य­मा­न­त्वात् । अविद्या च संसारहेतुभूता ॥

अपरे पुनरेवमारभन्ते — ब्रह्मणि प्रत्य­क्षा­दि­प्र­त्य­या­न्त­रा­णा­म­स­म्भ­वात् परिनिष्पन्ने वस्तुनि प्रति­प­त्ति­हे­तु­तया सम्भा­वि­त­सा­म­र्थ्या­ना­मपि आम्नायस्य पुनः कार्यविषयतया सुतरामसम्भवं मन्वानस्य भवति सङ्कर्षपर्यन्ते एव वेदा­र्थ­वि­चा­रा­व­सा­ना­मिति बुद्धिः, तन्निरासार्थं पुनः प्रतिज्ञातम् । इहापि सर्वे­ष्वे­वा­त्म­ज्ञा­न­वि­धा­नेषु कार्यनिष्ठतां वर्णयन्ति समाम् । तत्त्वावबोधश्च कार्यम् ; अधि­का­रि­नि­यो­ग­वि­ष­य­तया अवगमात् इति ; ततः तद्विचारार्थं शास्त्र­मा­र­ब्ध­व्य­मिति ॥

अत्रोच्यते — नारब्धव्यम् ; गतार्थत्वात् । कथम् ? यस्तावत् प्रथम आरम्भप्रकारः कर्मणि कृत्यप्रत्यये न नियोगसंप्रत्यय इति, तत् स्वयमेव विधायकत्वं दर्शितम् । प्रसिद्धं चैतत् ‘स्वाध्या­योऽ­ध्ये­तव्यः’ इत्येवमादीनां विधायकत्वम् । नात्रा­धि­का­श­ङ्का­का­रणं किञ्चित् । ननु चतुर्विधस्यापि क्रिया­फ­ल­स्या­त्म­न्य­स­म्भव उक्तः । यद्येवं सक्तुन्यायो भविष्यति ? तदपि न ; आत्म­वि­ष­य­ज्ञा­नस्य नित्य­सि­द्ध­त्वा­दि­त्यु­क्तम् । सिद्धस्यैव पुनरभ्यासो विधिनिमित्त उपासनाख्यो भविष्यति ; अभ्युदयफले हिरण्यधारणवत् । ननु न विधा­न­तोऽ­प्या­त्म­वि­ष­य­ज्ञा­न­स­न्तानः कर्तव्यः, स तु नित्यमात्मनि जाग्रतः सिद्धः ? एवं तर्ह्य­र्था­वि­रु­द्धेषु काले­ष्वा­त्म­न्येव चेतस्समाधानं भविष्यति ॥

यत् पुन­रा­त्म­ज्ञा­ना­द­वि­द्यो­च्छेदः तदुच्छेदात् संसारनिवृत्तिः फल­मि­त्यु­प­न्य­स्तम् , तदसत् ; अहमित्यात्मानं नित्यमेव जानाति सर्वो लोकः । न च संसारो निवृत्तः । अथ पुन­र­हं­प्र­त्य­या­व­से­या­द­न्य­दे­वा­त्म­रूपं परा­कृ­त­भो­क्तृ­भो­क्त­व्य­भो­ग­ग्र­न्थि­ज्ञे­य­त्वे­ना­त्म­ज्ञा­न­वि­धिना ज्ञाप्यत इति, तदसत् ; विधिर्हि सामान्यतः सिद्धस्य क्रियात्मनो विशेषसिद्धौ प्रभवति, नात्य­न्त­म­सि­द्ध­स­द्भावे । तद्यदि नाम ज्ञानं लोके सिद्धं, तथापि निर­स्त­प्र­प­ञ्चा­त्म­वि­ष­य­म­सिद्धं आका­श­मु­ष्टि­ह­न­न­वत् न विधातुं शक्यम् । अथ तादृगात्मज्ञानं सिद्धम् ? किं विधिना ? यदपि मतान्तरं प्रत्य­क्षा­दे­र­गो­च­र­त्वात् शास्त्रस्य च कार्यार्थत्वात् सङ्कर्षपर्यन्त एव विचारे वेदा­र्थ­प­रि­स­माप्तौ प्राप्तायां वेदान्तेष्वपि कार्यनिष्ठता समाना, ब्रह्म­त­त्त्वा­व­बो­धश्च कार्यम् ; अधि­का­रि­नि­यो­ग­वि­ष­य­तया अवगमात् ; अतः तद्विचाराय शारीरकारम्भः इति, तदप्युक्तेन न्यायेन ब्रह्मावगमस्य सिद्धत्वे असिद्धत्वे च कार्य­त्वा­स­म्भ­वेन प्रत्युक्तम् ॥

अपरं मतम् — सत्यं कार्यविषयो वेदः, न तु तावन्मात्रे ; तस्मिन् सति यो योऽर्थोऽवगम्यते स स वेदार्थः, यथा रूपे सति चक्षुषः प्रवृत्तिः, न च रूपमात्रं चक्षुषो विषयः, किं तु तस्मिन् सति द्रव्यमपि ; एवमिहापि वस्तुतत्त्वमपि विषयः । कथम् तत् ? उच्यते — ‘इदं सर्वं यदयमात्मा’(बृ. उ. २-४-६) इति न तावत् सर्वात्मरूपता आत्मन उपदिश्यते । यदि सर्वरूपता आत्मन उपदिश्येत, ततः सर्वस्य अचेतनत्वात् तद्रूपत्वे बोद्धृत्वहानौ बोधकत्वं शब्दस्य हीयेत ; अतः सर्वस्य आत्मस्वभावता विधीयते । अना­त्म­स्व­रू­प­वि­ल­येन हि वस्तु­नोऽ­व­ग­ति­र्दृष्टा । ननु अत्र विधिः न श्रूयते ; कल्प्यतां तर्हि विधिः । किं प्रतीते विध्यर्थे विधिः कल्प्यते ? उत अप्रतीते ? यदि प्रतीते कल्प्यते, कल्प­ना­वै­र्य­थ्यम् । अर्थ­प्र­ती­त्यर्थं हि शब्दो मृग्यते । प्रतीतेऽर्थे शब्दं कल्पयता किं कृतं स्यात् ? अथाप्रतीत एव विध्यर्थे विधिं कल्पयित्वा ततोऽर्थः प्रतिपत्तव्य इति, अपूर्वं प्रमाणकौशलम् । ननु अश्रू­य­मा­ण­वि­धि­ष्वपि ‘तस्मात् पूषा प्रपि­ष्ट­भा­गोऽ­द­न्तको हि’ इत्यादिषु विधिः कल्पितः । सत्यम् ; युक्तं तत्र पूष्णः पिष्ट­द्र­व्य­स­म्बन्धः समासाभिहितो न सिद्धो वर्तते, नापि कुत­श्चि­द्भ­वि­ष्य­तीति ; प्रमाणाभावात् । नापि विधिना केनचित् पदैकवाक्यता, येन वपोत्खननादिवत् कथञ्चिदालम्बनं कल्प्येत ; अतो निरा­ल­म्ब­न­त्व­प­रि­हा­राय कार्यपरता कल्प्यत इति ॥ ननु इहाप्यात्मपदं चेतनस्य भोक्तुर्वाचकम् ; स च नियो­ज्य­त्वा­न्नि­यो­ग­मा­क्षि­पति, नैतत् सारम् ; नियोगो हि पुरु­ष­वि­शे­ष­म­ना­श्रित्य अनुपलब्धो लोके तमाक्षिपेत् विश्वजिदादिषु । पुरुषः पुनः किं नियोगमन्तरेण नोपलब्धो लोके ? येन विधिकल्पना भवेत् । अथापि भवतु नाम विधिः, नासौ धातुना विना केवलो लभ्यते, धातुनैव सह कल्प्यते । कोऽसौ धातुः ? यदि तावत् कर्तव्यमिति, तत्र अनात्मस्वभावता न निवृत्ता प्रपञ्चस्य । यथा — ‘अमी पिष्टपिण्डाः सिंहाः क्रियन्तामि’ति पिष्टस्वभावता न निवृत्ता । इतिकर्तव्यता चानिर्दिष्टा ; तत्र साकाङ्क्षं वचनमनर्थकं स्यात् । अथ ज्ञातव्य इत्यध्याह्रियेत ? एवमपि स एव दोषः ; अनात्मस्वभावता न निवृत्तेति, अश­क्या­र्थो­प­दे­शश्च । न हि वस्तु वस्त्व­न्त­रा­त्मना ज्ञातुं शक्यते । एवं तर्हि ज्ञातव्य इत्य­ध्या­ह्रि­येत, तत्र धात्व­र्थो­नु­वादः, प्रत्ययो विधायकः । कुतः प्राप्तेरनुवादः ? अभिधानत इति ब्रूमः । एवं तर्हि विधानमनर्थकं, स्वाध्यायकाले एव निष्प­न्न­त्वा­त्ज्ञा­नस्य । पुनः कर्तव्यतया चोद्यते, यथा मन्त्रेषु । प्रयोगवचनः तत्र विधायकः इति । इहापि प्रयोगवचनो विधायकः ? ननु मन्त्रेषु स्वार्थ­स्या­न्यतः सिद्धत्वात् प्रत्ययपरत्वं युज्यते, इह तु स्वार्थ­वि­धि­प­राणां शब्दानां प्रत्ययपरत्वं विरुध्यते, नैष दोषः ; अन्यार्थमपि कृतमन्यार्थं भवति, तद्यथा — शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते च ; एवमिहापि । यथा पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवं स्वार्थस्य विधायकः शब्दः प्रत्ययस्यापि विधायको भविष्यति ॥

तदेतदनिरूपितमिव दृश्यते । कथम् ? मन्त्राः स्वाध्या­य­वि­धि­नो­पा­दा­पिताः स्वार्थ­स्या­न्यतः सिद्धत्वात् तं प्रमा­तु­म­श­क्नु­वन्तः प्रमाणत्वात् प्रच्युताः व्रीह्यादिवत् प्रमे­य­ता­मा­पन्नाः श्रुत्या­दि­प्र­माणैः, युक्तं यद्वि­नि­यु­ज्ये­रन् , विनि­यु­क्ता­श्चा­नु­ष्ठे­य­स्या­नु­ष्ठा­न­काले स्मृत्यपेक्षस्य स्मारकतया गृह्येरन्निति, इह तु ‘इदं सर्वं यदयमात्मेति यत् पद­स­म­न्व­य­नि­मित्तं सर्व­स्या­त्म­स्व­भा­व­ता­ग्रा­हि­वि­ज्ञानं, तत् स्वविषयस्य अन्य­तोऽ­सि­द्ध­त्वात् प्रमेयपरत्वात् न विधेर्विषयः । अथ विधेर्विषयो न प्रमे­य­म­व­ग­म­यि­तु­म­लम् । न युगपदुभयं सम्भवति ; वैरू­प्य­प्र­स­ङ्गात् ॥

ननु एवं सति गुणकर्मणां सर्वत्र विधानं निराकृतं स्यात् । न निराकृतं स्यात् ; यत्र प्रमा­णा­न्त­र­सिद्धं गुणकर्मणः कर्मकारकं, तत्र तस्यो­त्प­त्त्या­द्य­न्य­तमं फलं, तद्विधीयते ; यत्र पुनः प्रमा­णा­न्त­रा­द­सिद्धो ज्ञानस्य कर्मभूतो विषयः, स तेनैव प्रमीयमाणो न सिद्ध­व­दु­द्देश्यः, येन तदुद्देशेन तत्रातिशयाधानाय ज्ञानं विधीयते ॥ तस्मादत्र युग­प­दु­भ­या­स­म्भ­वात् भवत्येव वैरूप्यप्रसङ्गः । न च स एव समन्वयः स्वाव­य­वा­द्वि­धे­र्वि­भक्तः कार्यक्षमः ; अवान्तरवाक्यस्य प्रमा­ण­त्वा­यो­गात् । अथ अर्थवादपदानामिव परस्परतः संसृज्य कञ्चि­द­र्थ­म­व­बोध्य विधि­स­म्ब­न्ध­म­नु­भ­वे­दि­त्य­भि­प्रायः ? तदसत् ; युक्त­म­र्थ­वा­द­प­दानि स्वार्थ­फ­ल­र­हि­तानि तत्र पर्यवसानाभावात् फल­व­द­ङ्ग­ता­म­श्नु­वी­र­न्निति, इह पुन­र­प­रा­मृ­ष्ट­विधिः पदसमन्वयः स्वार्थमवगमयन् निर­स्त­नि­खि­ल­प्र­प­ञ्चा­व­ग्र­ह­म­पा­स्ता­ति­श­या­न­न्द­नि­त्या­नु­भ­वै­क­रसं शिव­म­द्वै­त­मा­त्म­त­त्त्व­म­व­ग­म­येत् , तत्र कुतो विधिशेषता कृतं कृत्यं प्राप्तं प्रापणीयम् ? ‘आत्मलाभान्न परं विद्ययते’ इति स्मृतेः ॥

अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; ‘न चक्षुषा गृह्यते’(मु. उ. ३-१-८) इत्या­दि­म­न्त्र­व­र्णात् । शाब्दं च नेष्यते भवता, सत्यम् न शाब्दज्ञानं विधि­वि­क­ल­म­नु­भ­वा­यालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्या­या­ध्य­य­न­वि­धि­ग्रा­हि­तात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधि­वि­ष­य­त्वा­नु­प­प­त्ते­रि­त्यु­क्तम् । अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपा­स्ति­ध्या­यत्योः ज्ञान­स­न्ता­न­वा­चि­नो­र­न्य­त­र­स्या­प्यु­पा­दा­न­म­न्त­रेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साह­च­र्या­द्य­व्य­भि­च­रि­त­स­म्ब­न्धा­भा­वात् । नाप्यभ्यासात् साक्षाद्भावः सिद्धः । नापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेत । ननु किमत्र श्रवणेन ? स्वयमेव साक्षा­त्का­र­क­र­णाय पुरु­षा­र्थ­त्वा­द­भि­मुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्तते । यत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् । स च न्यायो न युगपत् सम्भ­व­ती­त्यु­क्तम् । यदपीदमुक्तं — पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम् । यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः न तेषामेव विधानम् । नापि ते क्रम­श­ब्दा­भि­धेयाः । प्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते । न ते क्रम इत्युक्तम् ॥ न च क्रमो नाम एकान्ततो नास्त्येव ; तद्बु­द्धि­श­ब्दयोः निरा­ल­म्ब­न­त्व­प्र­स­ङ्गात् । तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव । त एव केनचिदुपाधिना वनवत् क्रम­बु­द्धि­श­ब्दा­ल­म्बनं भवेयुः । स्मृति­वि­ज्ञा­न­मेव वा अनुष्ठानकाले यथो­प­ल­ब्धि­प­दा­र्थान् परामृशेत् । सर्वथा अस्ति तावत् एकै­क­प­दा­र्था­ल­म्ब­न­ज्ञा­ना­ति­रिक्तं ज्ञानान्तरम् ॥ तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युग­प­द­नु­ष्ठा­ना­स­म्भ­वा­द­पे­क्षितं सन्निहितं च प्रयोगवचनेन गृह्यत इति युक्तम् । न तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे च वर्तेत । तस्मादिह विधे­या­भा­वा­द्वि­धा­ना­श्र­व­णा­द­ध्या­हारे च प्रमाणाभावात् न प्रयो­ग­व­च­नोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यते । तस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इति ॥ यत् पुनः निदर्शनं — चक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीति । युक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, न यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम् । आह — मा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, स विधिविषय एव भवतु । तस्मिन् विहिते अर्थात् सर्व­स्या­त्म­स्व­भा­वता सिध्यति ; सवि­ष­य­त्वा­द­व­ग­मस्य । एवमपि अविवक्षितोऽर्थः शब्दात् , विव­क्षि­त­स्त्व­र्था­दिति शोभतेतरां वाक्यार्थवित्ता ? न च नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयति । भवन्ति हि परिकल्पितविषया अपि प्रति­प­त्त­य­श्चो­द­ना­ल­क्षणाः फलवत्यः ‘वाचं धेनु­मु­पा­सी­ते’त्ये­व­माद्याः । एतदेवात्र युक्तम् ; अतत्परस्य प्रत्य­क्षा­दि­वि­रोधे तथा­ध्य­व­सा­य­हे­तु­त्वा­यो­गात् । तस्मात् कार्यनिष्ठे वेदे वस्तु­त­त्त्व­सिद्धिः मनोरथ एव । अतो अहंप्रत्ययावसेय एवात्मा । न तस्य शब्दा­व­से­य­म­ती­न्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात् । एवं च सति ‘अयमात्मा ब्रह्म’(बृ. उ. २-५-१९) ‘एष त आत्मा­न्त­र्या­म्य­मृतः’(बृ. उ. ३-७-३) इति ब्रह्मा­न्त­र्या­म्या­दि­शब्दा अहंप्रत्ययावसेय एवात्मनि कथ­ञ्चि­द्व­र्तन्ते । तेन ‘स आत्मा तत्त्वमसि’(छा. उ. ६-८-७) इति विद्य­मा­नै­रा­रो­पि­तैश्च गुणैरात्मोपासनं मोक्षफलं च विधीयते इति, युक्तम् । अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य च सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्म­जि­ज्ञा­सा­रम्भं प्रयुञ्जीत, उच्यते — स्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेन ‘अथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, न वस्तु­त­त्त्व­निष्ठः ॥

तथा हि — शास्त्रारम्भो व्याख्या­तृ­भि­रेवं निरूपितः । कथम् ? धर्मो नाम कश्चित् साधयितुः कालान्तरे श्रेयस्साधनो लोका­ख्य­प्र­मा­णा­भा­सो­त्थेन ज्ञानेन सामान्यतो विषयीकृतः । तद्विशेषं प्रति विप्रतिपन्नाः परीक्षकाः केचि­द­ग्नि­हो­त्रा­दिकं धर्ममाचक्षते ; केचि­च्चै­त्य­व­न्द­ना­दि­कम् । तत्र अग्नि­हो­त्रा­दि­ल­क्षण एव धर्मोऽभिप्रेतः । न तत्प्र­ति­पा­द­कानां वेदवाक्यानां विचारावसरो नापि विव­क्षि­ता­र्थ­त्वम् । अतः चैत्य­व­न्द­ना­दी­ना­मे­वा­न्य­तमो धर्मः । तत्प्र­ति­पा­द­कानां बुद्धा­दि­वा­क्या­ना­मे­वा­न्य­तमं विचार्यम् ; न वा तदपि । न हि पौरुषेये वाक्ये शब्द­श­क्त्य­नु­सा­रे­णार्थः, अपि तु तेन विवक्षितः इत्येवमाशङ्किते धर्माय वेदवाक्यानि विचारयिष्यन् तद­र्थ­वि­व­क्षा­वि­चा­रा­व­स­र­प्र­द­र्श­ना­र्थम् ‘अथातो धर्मजिज्ञासा’ इति सूत्रयामास जैमिनिः । वेदमधीत्य अनन्तरं धर्मजिज्ञासा कर्तव्या, न स्नानं गुरु­कु­ल­नि­वृ­त्ति­रू­प­मिति दर्शयितुमिति । एवं स्थिते शास्त्रारम्भे, न सर्व­वे­दा­र्थ­वि­षयं शास्त्रमिति प्रतीतिः, किन्तु धर्मा­ति­रि­क्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, स च पर्युदस्तो जैमिनिना ; न्याया­न्त­र­वि­ष­य­त्वा­दिति, गम्यते ॥

तत् कथम् ? यत् तावदिदम् उच्यते ; धर्मो नाम लोकप्रवादात् सामान्यतः सिद्धः । तस्य स्वरूपप्रमाणयोः विप्र­ति­प­त्ता­व­ग्नि­हो­त्रा­दि­रपि वेदार्थो धर्मतया विचा­र­प­द­वी­मु­पा­रो­हति ; यतः तस्यापि विचारावसरो विद्यते, तेन विवक्षितोऽसौ । न चाध्ययनमात्रात् कृतकृत्यता । अतोऽ­ध्य­य­ना­न­न्तरं न गुरु­कु­ला­न्नि­व­र्त्ति­तव्यं, किन्तु वेदार्थो धर्मः, किं वा अन्य एवेति जिज्ञा­सा­म­र्ह­तीति वदितुं धर्मग्रहणं युक्तम् अथातो धर्मजिज्ञासेति, न वेदा­र्थ­जि­ज्ञा­सेति ; यतो न वेदार्थतया ज्ञाने प्रवृत्तिः । यत् पुनः धर्मस्य स्वरू­प­प्र­मा­ण­क­थ­नाय द्वितीयं सूत्रं, तत् वेदप्रमाणको धर्म इति स्यात् किमिदं ‘चोदनालक्षणः’ इति ? तत् नूनं न सर्वो वेदो धर्म एव कार्यात्मके पर्यवस्यति, कश्चिदस्य भागः कार्यताशून्ये वस्तुतत्त्वेऽपि वर्तते इति मन्यते ॥ ननु चोद­ना­ग्र­ह­ण­स्या­न्य­देव प्रयोजनं, ‘चुद प्रेरणे’ इति प्रेर­ण­क­र्म­ण­श्चो­द­नेति रूपम् ; ततः प्रेरणात्मको विधिरपुरुषार्थे प्रेर­यि­तु­म­श­क्नु­वन् पदा­न्त­रा­भि­हि­त­मपि स्वर्गादिकं भाव­ना­क­र्म­ता­मा­पा­द­यति एकपदोपादानात् संनिहिततरं धात्वर्थं विहायेति कथयितुमिति, नैतत् सारम् , अध्य­य­न­वि­धि­र­ध्य­यने माणवकं प्रेरयन् अध्ययनस्य पुरु­षा­र्थ­रू­पा­र्था­व­बो­ध­क­त्व­म­ना­पाद्य न शक्नोति प्रेरयितुम् ; पार­म्प­र्ये­णा­प्य­पु­रु­षार्थे विधे­र­प­र्य­व­सा­नात् , अतः तदर्थं न चोदनाग्रहणम् ; वेदग्रहणेनापि तत्सिद्धेः । अपि च वेदग्रहणमेव युक्तम् ; असन्देहात् , चोदनाग्रहणे हि सन्देहः स्यात् ; लोकेऽपि विद्यमानत्वात् । अथ वेदाधिकरणे ‘वेदांश्चैके सन्निकर्षमि’ति विशेषाभिधानात् वैदि­क­त्व­सि­द्धि­रिति, सोऽयमाभाणको लोके ‘पिण्डमुत्सृज्य करं लेढी’ति, सूत्र­का­र­स्या­प्य­कौ­शलं प्रदर्शितं स्यात् । तत­श्चो­द­ना­ग्र­ह­णा­द­चो­द­ना­त्म­कोऽपि वेदभागोऽभिप्रेत इति गम्यते, येन वेदार्थमात्रस्य धर्मत्वं मा भूदिति चोदनेत्यवोचत् । तदेवं सूत्रकार एव स्वशा­स्त्र­वि­ष­या­ति­रिक्तं वेद­भा­ग­म­वि­चा­रि­त­म­सू­सु­चत् ॥ ननु ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ ‘तद्भूतानां क्रियार्थेन समाम्नायः’ ‘आम्नायस्य क्रिया­र्थ­त्वात्’ इति च सर्वस्य कार्यार्थत्वं दर्शितं, सत्यम् ; तत् प्रक्रमबलात् तन्निष्ठो वेदभाग इति गम्यते, न सर्वत्र । अपि च ‘दृष्टो हि तस्यार्थः कर्मावबोधनमि’ति न सर्वस्य कर्मावबोधनमर्थ उच्यते, कथम् ? वेदा­ध्य­य­ना­न­न्तरं स्नान­वि­धा­य­क­मा­म्ना­य­मु­प­लभ्य वेदस्यानर्थकत्व आशङ्किते ‘अतिक्रमिष्याम इममाम्नायम् , अनतिक्रामन्तो वेदमर्थवन्तं सन्त­म­न­र्थ­क­म­व­क­ल्प­येम ; दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इत्यर्थसद्भावः प्रदर्शितो नार्था­न्त­रा­स­द्भावः । सोऽय­म­यो­ग­व्य­व­च्छेदो नान्य­यो­ग­व्य­व­च्छेदः । कर्मशब्देन धर्म एव कार्य­त्वा­द­भि­हितः ; यतः तदवबोधप्रवृत्तो वेद­स्या­र्थ­वत्त्वं मृगयते, किं वेदस्यार्थो विद्यते ? न वा ? स च धर्म­त्वे­ना­व­गन्तुं शक्यते ? न वा इति ? तस्मात् न कर्मावबोधनमेव वेदा­र्थोऽ­भि­प्रेतो भाष्यकृतः । यत् पुनः ‘आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­नामि’ति, तत्र यद्या­न­र्थ­क्य­म­र्था­भावः, तदसत् ; यतः एव­मे­व­भू­ता­र्थ­म­नु­व­द­न्तीति दर्शितोऽर्थः । अथ निष्प्र­यो­ज­न­त्वम् ; स्वाध्या­या­ध्य­य­न­वि­धि­र्नि­ष्प्र­यो­ज­न­म­क्ष­र­मा­त्र­मपि न ग्राहयतीति, भवतु ‘सोऽरो­दी­ति­त्या­दी­नाम् ; अपु­रु­षा­र्थ­प्र­ति­पा­द­क­त्वात् एकवाक्यत्वात् पृथ­क्का­र्य­क­ल्प­ना­नु­प­पत्तेः, कल्पयितुं चाशक्यत्वात् । यानि पुनः अपा­स्ता­शे­षा­शि­व­मा­त्मा­न­म­नु­भ­व­प­र्य­न्तम् अवबोधयन्ति वाक्यानि, तान्य­न­व­द्य­प्र­यो­ज­न­त्वा­द्भ­व­न्ति­त­रा­मेव प्रयोजनवन्ति । अतः स्वय­म­पु­रु­षा­र्थ­त्वात् तदर्थोपकारितया कथञ्चित् पुरु­षा­र्थ­स्ता­व­क­त्वेन प्रयो­ज­न­व­त्त्व­मुक्तं, न सर्व­स्यै­वा­क्रि­या­र्थ­त्वेन आन­र्थ­क्य­मा­शङ्क्य क्रिया­र्थ­त्वे­ना­र्थ­व­त्व­मु­क्तम् । तथा च तद्विधान्येव तत्र वाक्या­न्यु­दा­हृ­तानि ॥

यदपि केचित् — शास्त्र­प्र­स्था­न­म­न्यथा वर्णयन्ति । न हि किलैवं शास्त्रं प्रस्थितं, किं वेदलक्षणो धर्मः ? उत बुद्ध­वा­क्या­दि­ल­क्षणः ? इति । किं तर्हि ? अधीतवेदस्य योऽर्थोऽवगतः, तत्रैव विप्रतिपत्तयः सन्ति, किमयमसौ ? उतायम् इति ? तन्निराकरणार्थः शास्त्रारम्भः इति ॥ तत्रापि न निखि­ल­वे­दा­र्थ­वि­चा­र­प्र­तीतिः । तत् कथम् ? तथा सति ‘अथातो वेदा­र्थ­जि­ज्ञासा’ इति स्यात् ; यतो न धर्म इति कृत्वा विचारः, किन्तु वेदार्थ इति, सत्यं, तथापि शास्त्रकाराणां पुरु­षा­र्थ­सि­द्ध्यर्थं शास्त्रप्रणयनं, ततश्च पुरु­षा­र्थ­क­थ­नार्थं धर्मग्रहणमिति । एवं तर्हि धर्म इत्येव कृत्वा विचारो भवतु ; तस्य पुरुषार्थत्वात् सन्दिग्धत्वाच्च । तथा च उत्तरमपि सूत्रमनुगुणं भवति ‘चोद­ना­ल­क्ष­णोऽर्थो धर्मः’ इति धर्म­स्व­रू­प­वि­प्र­ति­प­त्ति­नि­रा­स­परं ; इतरथा वेदा­र्थ­वि­प्र­ति­पत्तौ तन्निरासार्थं ‘चोदनालक्षणो वेदार्थः’ इति स्यात् , यतो न धर्मग्रहणे सति वेदा­र्थ­वि­प्र­ति­पत्तिः शक्या निराकर्तुम् । कथम् ? यत् तावत् चोदनालक्षणो योऽर्थः, स धर्म इति धर्मत्वं ज्ञाप्येत, तदा स एव वेदार्थो नान्य इति न लभ्यते । अथ पुनः स धर्म इति नामनामिसम्बन्धो विधीयते, तदप्रक्रान्तम् ; निष्प्रयोजनम् , अतिप्रसङ्गश्च आपद्येत ॥ अथापि कथञ्चित् धर्मशब्देन वेदार्थ एवोच्यते इति कल्प्येत, तथा सति चोदनालक्षणो वेदार्थो नार्थ­वा­दा­दि­ल­क्षणः, इति सिद्ध­प्रा­मा­ण्य­वे­दा­र्थ­वि­चा­रोऽयं स्यात् , उत्तरलक्षणवत् । तत्रानन्तरं प्रामा­ण्य­प्र­ति­पा­दनं न युज्येत ॥ ‘वृत्तं प्रमालक्षण’मिति च मन्त्रा­र्थ­वा­देषु च कार्यार्थत्वे विप्रतिपत्तिः न स्यात् । सा चोत्तरत्रैव निरस्यते । अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च, न वस्तुनिष्ठः ; इत्यतो वस्तु­त­त्त्व­निष्ठं वेदभागं विचा­र­यि­तु­मि­द­मा­र­भ्यते -
अथातो ब्रह्मजिज्ञासा इति ॥