अद्वैतशारदा

पञ्चपादिका

३ परिच्छेदः

व्याख्याः

अथ तृतीयं वर्णकम्

अयं तु जिज्ञासाशब्दो विचारवचनो मीमां­सा­प­र­प­र्यायः प्रयु­क्तोऽ­भि­युक्तैः — ‘इदमतो जिज्ञासन्ते, किं क्रतु­गु­ण­क­मु­पा­सनं स्वामिकर्म ? उत­र्त्वि­क्कर्मे’ति । इदन्तु जिज्ञास्यम् , किं नु खल्विमौ तप्य­ता­प­का­वे­क­स्या­त्मनो भेदौ ? उत जात्यन्तरम् ? इति । धर्म­मी­मां­सा­भा­ष्य­का­रोऽपि सङ्घातमेव प्रायुङ्क्त ‘धर्मं जिज्ञा­सि­तु­मि­च्छेदि’ति, सङ्घा­त­वा­च्य­त्वा­द्वि­चा­रस्य ; अन्य­थै­व­म­व­क्ष्यत् — ‘धर्मं ज्ञातु­मि­च्छेदि’ति । अत एवं धर्माय जिज्ञासा ‘धर्म­जि­ज्ञासे’ति सङ्घा­त­स्या­र्थ­व­त्त्व­म­ङ्गी­कृत्य चतुर्थीसमासो दर्शितः । तदनुसारेण चैतानि भाष्याणि — ‘एवं वेद­वा­क्या­न्ये­वै­भि­र्वि­चा­र्यन्ते’ ‘वेदवाक्यानि विचारयितव्यानि’ ‘कथं वेदवाक्यानि विचारयेदि’ति च ; पुनश्च ‘क्रत्व­र्थ­पु­रु­षा­र्थ­यो­र्जि­ज्ञासा’ ‘क्रत्व­र्थ­पु­रु­षार्थौ जिज्ञास्येते’ इति । इहापि भाष्यकारो वक्ष्यति — ‘तस्माद् ब्रह्म जिज्ञा­सि­त­व्यमि’ति । पुनश्च ‘वेदा­न्त­वा­क्य­मी­मांसा तद­वि­रो­धि­त­र्को­प­क­रणा निःश्रे­य­स­प्र­यो­जना प्रस्तूयते’ इति । अतः सङ्घा­त­स्या­र्थ­व­त्त्वा­द­धि­का­रा­र्थता युज्यते । शास्त्रवचनो हि जिज्ञासाशब्दः ; तेन ब्रह्म­जि­ज्ञा­साऽ­धि­कृता वेदितव्येति ॥ उच्यते — नायं जिज्ञासाशब्दः परि­त्य­क्ता­व­य­वार्थः केव­ल­मी­मां­सा­प­र्यायः प्रयुज्यमानो दृश्यते । नापि स्मरणमस्ति । न चाव­य­वा­र्थे­ना­र्थ­वत्त्वे सम्भवति समु­दा­य­स्या­र्था­न्त­र­क­ल्पना युक्ता । ननु न वयं कल्पयामः ; दर्शितः शिष्टप्रयोगः, न ; तस्या­न्य­था­सि­द्ध­त्वात् । कथ­म­न्य­था­सि­द्ध­त्वम् ? अन्त­र्णी­त­वि­चा­रा­र्थ­त्वा­ज्जि­ज्ञा­सा­श­ब्दस्य । तथाहि — विचा­र­पू­र्व­क­सा­ध्य­ज्ञा­न­वि­ष­येच्छा जिज्ञासाशब्दात् प्रतीयते, नोप­दे­श­मा­त्र­सा­ध्य­ज्ञा­न­वि­षया ; एवं प्रयो­ग­प्र­त्य­य­यो­र्द­र्श­नात् , तेन जिज्ञा­सा­श­ब्द­स्या­व­य­वा­र्थे­ना­र्थ­व­त्त्वाद् युक्तमुक्तम् — ब्रह्म­जि­ज्ञा­साया अन­धि­का­र्य­त्वा­दिति ॥

ननु एवमपि कुत एतत् ? अन्तर्णीतं विचारमाश्रित्य शब्दतो गुण­त्वेऽ­प्य­र्थ­ल­क्ष­णेन प्राधान्येन ब्रह्म­त­ज्ज्ञा­न­यो­र­धि­का­र­यो­ग्य­त्वा­च्चा­धि­क्रि­य­मा­ण­त्व­म­ङ्गी­कृ­त्या­धि­का­रा­र्थत्वं किमिति न गृह्यते ? येन शब्दलक्षणेन प्राधा­न्ये­ने­च्छाया अन­धि­का­र्य­त्वा­दा­न­न्त­र्या­र्थ­त्व­मेव परिगृह्यत इति, उच्यते — शास्त्र­स्या­ना­र­म्भ­प्र­स­ङ्गा­द­धि­का­रा­र्थ­त्वा­नु­प­पत्तेः । अधिकारार्थत्वे ह्यप्रयोजनं शास्त्रं काक­द­न्त­प­री­क्षा­व­द­ना­रभ्यं स्यात् , तत्र कस्याधिकार उच्येत ?

ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, न ; ब्रह्म­ज्ञा­नेऽ­र्थि­त्वा­नु­प­पत्तेः, ब्रह्म­ज्ञा­नाद्धि मनसोऽपि वियो­गा­न्नि­खि­ल­वि­ष­या­नु­ष­ङ्ग­नि­वृत्तिः श्रूयते । सा च सार्वभौमोपक्रमं ब्रह्म­लो­का­व­सा­न­मु­त्कृ­ष्टो­त्कृ­ष्ट­सुखं श्रूयमाणं सोपायं निवर्तयति । अतो ब्रह्म­ज्ञा­ना­दु­द्वि­जते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्म­ज्ञा­ना­दा­प्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; न हि ब्रह्मा­न­न्दोऽ­न­नु­भू­त­पू­र्वोऽ­नु­भू­त­भो­ग्य­सु­खा­भि­लाषं मन्दी­क­र्तु­मु­त्स­हते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेत । ननु परि­तृ­प्त­रू­प­ताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृ­प्ति­नि­मि­त्त­क­त्वात् कामस्य ; तथा च श्रुतिः — ‘आप्तकामः आत्मकाम’ इति । स्मृतिरपि ‘आत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति । न ; तृप्ते­रे­वो­द्वे­ग­द­र्श­ना­द्वि­ष­य­वि­च्छे­दा­त्मि­कायाः । तथा च वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं न बभूव ? यत् सर्वमेव भोक्तुं साम­र्थ्य­म­तृ­प्ति­र्भो­ग्यानां चाक्षयः — इति । रागिगीतं श्लोक­म­प्यु­दा­ह­रन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति ।

मा भूद् ब्रह्म­ज्ञा­ना­र्थिता, वेदार्थत्वादेव ब्रह्मज्ञानं कर्तव्यम् ; स्वाध्या­या­ध्य­य­न­स्या­र्था­व­बो­ध­फ­ल­क­त्वात् । स्यादेतदेवम् ; यद्य­र्था­व­बो­ध­फ­ला­ध्य­य­न­क्रिया स्यात् , सा ह्यधी­य­मा­ना­वा­प्ति­फ­ल­त्वा­द­क्ष­र­ग्र­ह­णान्ता । अथाक्षरग्रहणं निष्प्रयोजनमिति न तत्र पर्यवसानं विधेः, भवतु तर्हि सक्तूनां गतिः । तदपि न ; अक्षरेभ्यः प्रयो­ज­न­व­द­र्था­व­बो­ध­द­र्श­नात् । न तर्हि निष्प्र­यो­ज­ना­न्य­क्ष­राणि ; अत­स्त­त्प­र्य­न्त­म­ध्य­यनं न निष्फलम् ; अतोऽ­क्ष­र­ग्र­ह­णा­देव नियोगसिद्धेः फलप्रयुक्त एवार्थावबोधः । अपि च अक्षरग्रहणान्तो विधि­र्नि­ष्प्र­यो­जनः, इति न सर्वत्र, प्रयो­ज­न­व­द­र्था­व­बो­ध­प­र्य­न्तता कल्पयितुमपि शक्यते । तत्रावश्यं कल्प­नी­याऽ­क्ष­र­ग्र­ह­णा­न्तता । तद्यथा राजन्यस्य सत्र­वै­श्य­स्तो­म­बृ­ह­स्प­ति­स­वा­ना­मा­म्नानं वैश्यस्य चाश्व­मे­ध­रा­ज­सू­य­स­त्राणां पाठः । न च तेषामनध्ययनमेव ; स्वाध्यायशब्देन सक­ल­वे­द­वा­चि­नाऽ­ध्य­य­नस्य विहितत्वात् । ननु चाश्रू­य­मा­णा­धि­का­रोऽ­ध्य­य­न­विधिः, दृष्ट­श्चा­क्ष­र­ग्र­ह­णेऽ­र्था­व­बोधः, स कल्पनामधिकारस्य निरुन्धन् स्वयमधिकारस्य हेतुः सम्पद्यते । दृष्टाधिकारेषु प्रत्य­क्ष­त­स्त­दु­प­ल­ब्धा­व­धि­का­र­सिद्धिः । अतोऽ­र्था­व­बो­ध­प­र्यन्तः स्वाध्या­या­ध्य­य­न­नि­योगः ; तेन नियो­ग­सि­ध्य­र्थ­मेव सक­ल­वे­दा­र्थ­वि­चारः, अत्रोच्यते — भवे­द­ध्य­य­न­वि­धे­र­र्था­व­बोधः प्रयोजनम् , नाधिकारहेतुता, अध्य­य­ना­त्प्रा­ग­सि­द्ध­त्वात् । प्राक् चाधिकारज्ञानेन प्रयोजनम् ; अतो न विधे­र्दृ­ष्टा­धि­का­र­त्वे­ना­र्था­व­बो­ध­सिद्धिः ।

यद्ये­व­म­धि­का­र­श्र­व­णा­द­र्था­व­बोधे च प्रति­प­क्ष­क­ल्प­ना­नु­प­प­त्ते­स्तस्य चाधि­का­र­हे­तु­त्वा­न­भ्यु­प­ग­मा­द­प्र­वृ­त्ति­रे­वा­ध्य­यने प्राप्ता । अत्र केचिदाहुः — आचा­र्य­क­र­ण­वि­धि­प्र­यु­क्त­स्या­ध्य­य­न­स्या­नु­ष्ठा­नम् आधानस्येव काम­श्रु­ति­प्र­यु­क्तस्य इति । तदयुक्तमित्यपरे । कथम् ? ‘अष्टवर्षं ब्राह्म­ण­मु­प­न­यीते’ति यद्ययमाचार्यस्य नियोगः ? माणवको न नियुक्तो भवति । अनियुक्तस्य च स्वाध्या­या­ध्य­यने प्रवृत्तिर्न सम्भवति । किञ्चान्यत् — आचा­र्य­क­र­ण­वि­धि­र­नित्यः, ‘ब्राह्म­ण­स्या­धिकाः प्रवचन याज­न­प्र­ति­ग्रहाः’ इति वृत्त्य­र्थोऽ­धि­कारः ; अतः स्वेच्छातः प्रवृत्तिः । उपनयनाख्यस्तु संस्कारो नित्यः ; अकरणे दोषश्रवणात् — ‘अत ऊर्ध्वं त्रयोऽप्येते यथा­का­ल­म­सं­स्कृताः । सावित्रीपतिता व्रात्या भव­न्त्या­र्य­वि­ग­र्हिताः ॥ नैतै­र­पू­तै­र्वि­धि­व­दा­प­द्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचिदि’ति ॥ संस्कारश्च स्वाध्या­या­ध्य­य­नार्थः । एवं च स्वाध्या­या­ध्य­य­न­मपि नित्यम् । तथा च निन्दाश्रवणम् — ‘अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्ती’ति । एवं चेत् कथं नित्यमनित्येन प्रयुज्यते ? इति वाच्यम् । ननु कथ­मा­चा­र्य­क­र­ण­वि­धि­र­नित्यः ? यावता वृत्त्यर्थो हि सः । न हि कश्चिद्विना धनेन जीविष्यति । तथा चोक्तं — ‘जीविष्यति विना धने­ने­त्य­नु­प­प­न्नमि’ति । अतः सर्वेषां सर्वदा समीहितफलः सन् कथमनित्यः स्यात् ? भवेदेवं नित्यता फलवशेन, न शब्दात् । तथाहि — फलस्य नित्य­स­मी­हि­त­त्वा­द­व­श्य­क­र्त­व्यता वास्तवी । तत्रासति शब्दव्यापार इच्छातः कर्त­व्य­ता­प्र­ति­पत्तिः स्यात् , न कर्त­व्य­ता­प्र­ति­प­त्ते­रिच्छा । शाब्द्यां हि नित्य­क­र्त­व्य­ता­प्र­ति­पत्तौ शब्दस्य सर्वदा सर्वान् प्रत्ये­क­रू­प­त्वा­दि­च्छाऽपि तद्वशवर्तिनी तथैव स्यात् ; औचि­त्या­दि­भा­वेऽपि कस्यचित् कथञ्चित् क्वचित् कदाचिदिच्छायाः । प्रमा­ण­त­स्ता­वा­न्नित्यः । तेन नित्येन तथाविधमेव प्रयुज्यते, इति न नित्या­नि­त्य­सं­यो­ग­वि­रोधः फलवशात्तु तत्क­र्त­व्य­ता­प्र­ति­पत्तौ यद्यपि नित्याभिलषितं फलम् ; तथाऽ­प्यु­पा­या­न्त­रा­दपि तत्सिद्धेः, तदे­को­पा­य­त्वेऽ­प्या­ल­स्या­दा­या­सा­स­हि­ष्णु­तया वा कामस्य कुण्ठीभावे न कर्तव्यतायाः प्रतिपत्तिः, इत्यनित्यत्वे सति न तेन नित्यस्य प्रयो­ज्य­त्व­मु­प­प­द्यते ॥

ननु पितुः पुत्रो­त्पा­द­न­वि­धि­र­नु­शा­स­न­प­र्यन्तः श्रूयते — ‘तस्मा­त्पु­त्र­म­नु­शिष्टं लोक्य­मा­हु­स्त­स्मा­दे­न­म­नु­शा­सती’ति । अतः पुत्रोत्पादनस्य नित्यत्वात् तस्य चानु­शा­स­न­प­र्य­न्त­त्वात् तदा­क्षि­प्त­त्वा­च्चो­प­न­य­ना­ध्य­य­नयोः कथ­मा­चा­र्य­क­र­ण­वि­धि­र­नित्यः स्यात् ? कथं वाऽध्य­य­न­स्या­र्था­व­बो­ध­प­र्य­न्तता न भवेत् ? उच्यते — नानेन पुत्रानुशासनं विधीयते, पुत्रो­त्पा­द­न­वि­धि­शे­ष­त्वेन स्वतन्त्रमेव वा, किन्तु सम्प­त्ति­क­र्म­वि­धि­शे­षोऽ­य­म­र्थ­वादः ; तेनै­क­वा­क्य­त्वात् । अतो यथा­प्रा­प्त­म­नु­शा­स­न­म­नु­व­दति । किं तदनुशासनम् ? कथं वा तत् प्राप्त­व­द­नू­द्यते ? उच्यते — नित्यस्य पुत्रो­त्पा­द­न­विधेः प्रयोजनं यत् पितॄणां लुप्त­पि­ण्डो­द­क­क्रि­याणां नरकपातश्रवणात् पितृ­पि­ण्डो­द­क­क्रि­या­द्य­नु­ष्ठा­नेन नरकपातत्राणम् । न च शास्त्रीयेण परिज्ञानेन विना तदनुष्ठानं सम्भवति । तेन पित्रा नित्यमात्मनः पुत्रो­त्पा­द­ना­धि­कारं परिसमापयितुं पुत्र­स्या­व­श्य­क­र्त­व्या­र्थ­वि­षयं गर्भाष्टवर्षेण ब्राह्मणेन त्वयोपनयनाख्यः संस्कारः कारयितव्यः, यः स्वाध्या­या­ध्य­य­नार्थो विहित इति यदनुशासनम् , तदिहानूद्यते — ‘तस्मा­दे­न­म­नु­शा­स­तीति’ ॥ तथाच लिङ्गं — ‘श्वेत­के­तु­र्हाऽऽ­रु­णेय आस । तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्य­स्म­त्कु­ली­नोऽ­न­नूच्य ब्रह्मबन्धुरिव भवती’ति । तदे­व­म­नि­त्ये­ना­चा­र्य­क­र­ण­वि­धिना कथं नित्यं प्रयुज्यत इति वाच्यम् । किं च आचार्ये प्रेत आचार्यान्तरकरणं न प्राप्नोति ; नह्यधिकारी प्रतिनिधीयते, नाप्यधिकारः । अधिकारी स्वाधि­का­र­सि­ध्यर्थं साधनान्तरभ्रेषे साधनान्तरं प्रतिनिधाय स्वाधिकारं निर्वर्तयतीति युक्तम् ; एवमेषा बहुदोषा कल्पना दृश्यते । तस्माद् माणवकस्यैवैष नियोगः । कथं गुण­क­र्तृ­व्या­पा­र­स­म्बद्धो विधिः प्रधानकर्तृस्थो भवति ? यथा — ‘एतया ग्रामकामं याजयेदि’ति ग्रामकामस्य यागो विधीयते, गुण­क­र्तृ­व्या­पारः प्राप्तोऽ­नू­द्यते ; तस्य याजनस्य वृत्त्य­र्थ­त्वात् , एवमिहापि गुण­क­र्तृ­व्या­पारो वृत्त्यर्थत्वेन प्राप्तोऽ­नू­द्यते ॥

अत्रैके प्रत्य­व­ति­ष्ठन्ते — युक्तं ‘याजयेदि’ति प्रधा­न­क­र्तृ­व्या­पा­रा­भि­धा­यिनो यजतेः परस्य गुण­क­र्तृ­व्या­पा­रा­भि­धा­यिनः शब्दान्तरस्य णिच उपादानात् तस्य चाविधेयत्वात् प्रधा­न­क­र्तृ­व्या­पा­र­स्या­भि­धा­नम् , इह पुनरेको नयतिर्माणवकस्य व्यापारं ब्रूयात् ? आचार्यस्य वा ? न तावद् माणवकस्य नय­त्य­र्थ­क­र्तृ­त्वम् ; कर्मकारकत्वात् तस्य । अतोऽ­न­भि­धे­य­व्या­पारः कथं नियुज्येत ? न हि परव्यापारे परो नियोक्तुं शक्यते । स्वव्यापारे हि पुरुषस्य नियोगः । तस्मान्नैष माणवकस्य नियोगः । तदे­व­मा­चा­र्य­क­र­ण­वि­धि­प्र­यु­क्त­त्वा­द­ध्य­य­नस्य नात्रा­धि­का­र­चि­न्तया मनः खेदयितव्यम् इति । उच्यते — माणवकस्यैवायं नियोगः, नाचार्यस्येह किञ्चि­द्वि­धे­य­मस्ति । कथम् ? यत्तावत् ‘उप­न­यी­ते’त्य­स्या­भि­धा­नतो न्यायतश्च निरूप्यमाणोऽर्थ एतावान् प्रतीयते, आत्मानमाचार्यं कर्तुं कञ्चि­दा­त्म­स­मी­प­मा­नी­या­ध्या­प­येत् ? इति । एतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्म­ण­स्या­न्यत एव प्राप्तम् , नात्र विधातव्यम् । तत्र कमध्यापयेत् ? इति विशे­षा­का­ङ्क्षायां ‘ब्राह्म­ण­म­ष्ट­व­र्षमि’ति विशेषस्य विधायकमेतत् स्यात् । तत्र प्राप्ते व्यापा­रेऽ­र्थ­द्व­य­वि­धा­न­मे­क­स्मिन् वाक्ये न शक्यते वक्तुम् ; वाक्य­भे­द­प्र­स­ङ्गात् । अतो नाचार्यस्य किञ्चिद् विधेयमिहास्ति । ननु माणवकस्यापि न किञ्चिद् विधेयमस्ति, अस्तीति ब्रूमः । कथम् ? यदैव ‘उपनयीते’ति शब्दतो न्याय­त­श्चा­त्मा­न­मा­चार्यं कर्तुमुपनयनेन संस्कृत्य कञ्चि­द­ध्या­प­ये­दिति प्रतीयते, तदैव यागश्रुतौ द्रव्य­दे­व­ता­मा­त्र­प्र­ती­ति­व­द­ध्य­य­ना­र्थो­प­न­य­न­सं­स्का­र्योऽपि सामान्यतः प्रतीयते । तस्य च प्रेक्षावतो निष्प्रयोजने प्रव­र्त­यि­तु­म­श­क्य­त्वात् , विद्य­मा­न­स्या­प्य­ध्य­य­नेऽ­र्था­व­बो­धस्य प्रागसिद्धेः प्रवृ­त्ति­हे­तु­त्वा­सिद्धेः, विधि­तोऽ­व­श्य­क­र्त­व्यतां प्रतिपद्य स्वयमेव प्रवर्तते । तेन ‘अष्टवर्षं ब्राह्म­ण­मु­प­न­यी­ते’त्य­ष्ट­वर्षो ब्राह्मण उप­स­र्पे­दा­चा­र्य­मि­त्यर्थः ; ग्रामकामं याजयेद् ग्रामकामो यजेतेति यथा । ननु एवमप्यधिकारो न लभ्यते, अस्त्य­त्रा­धि­का­र­हे­तु­र्नित्यं निमित्तं वयोविशिष्टा जातिः, जातिविशिष्टं वयो वा । ननु जातिवयसी विशे­ष­ण­मु­पा­दे­यस्य, अनु­पा­दे­य­वि­शे­ष­ण­म­धि­का­र­हे­तु­रिति स्थितिः, सत्यमस्तीयं स्थितिः ॥

किन्तु कर्तुरधिकार इत्यपि स्थिता न्यायविदः । किं चेह न माणवको जातिवयोविशिष्ट उपादेय उपनयने, किं तूपनयनमेव तदर्थं विधीयते ; संस्कारस्य संस्का­र्यो­द्दे­शेन विधानात् । अतः संस्का­र्य­स्या­व­च्छे­द­कत्वं वयो­जा­त्य­व­च्छिन्नं सद् भवति नित्यनिमित्तं माणवकस्य संस्कार्यत्व इति । तदे­व­मु­प­न­य­न­स्या­ध्य­य­ना­र्थ­त्वात् तस्य च साधिकारत्वात् तेन चाधिकारेण साधि­का­रोऽ­ध्य­य­न­विधिः । अक्ष­र­ग्र­ह­ण­मा­त्रेण चाधिकारसिद्धिः, अर्थावबोधस्तु कारणान्तरादिति ॥

ननु चैवमधीतो वेदो धर्मजिज्ञासाया हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः, इति वेद एवा­धी­तो­न्य­नि­र­पेक्षो धर्मजिज्ञासाया हेतुरिति वदन्ति, सत्यम् ; तथैव तत् , को वाऽन्यथा वदति ? अधीतवेदो ह्यवश्यकरणीयानि नित्य­नै­मि­त्ति­का­न्य­क­रणे प्रत्यवायजनकानि कर्माणि प्रतिपद्यते, तान्य­न­न्त­र­मे­वा­व­श्य­वि­चा­र­णी­यानि, कथ­मे­ता­न्य­नु­ष्ठे­या­नीति । अतः प्राग­ध्य­य­ना­द­प्र­ति­प­त्ते­र­यो­ग्य­त्वा­द­धी­त­वे­द­त्व­मे­वा­न्य­नि­र­पे­क्ष­म­र्था­व­बो­ध­हे­तु­रिति गीयते । न तथा ब्रह्म­ज्ञा­न­म­व­श्य­क­र्त­व्यम् , अकरणे प्रत्य­वा­य­हे­तु­रिति प्रमाणमस्ति । तस्मा­द­धी­त­वे­दे­ना­व­श्य­क­र्तव्या धर्मजिज्ञासा, नैवं ब्रह्मजिज्ञासा । तदेव ब्रह्म­जि­ज्ञा­साया अधि­का­रा­न­र्ह­त्वा­द­र्ह­योश्च ब्रह्म­त­ज्ज्ञा­न­यो­र­न­र्थ्य­मा­न­त्वाद् जिज्ञा­साऽ­नु­प­पन्ना ॥

मङ्गलस्यापि वाक्यार्थे समन्वयाभावात् श्रुति­मा­त्रो­प­यो­गाच्च साधूक्तम् —
अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ इति ॥

ननु प्रक्रियमाणात् पूर्वप्रकृतमपि किञ्चिद् नियमेन प्रती­य­तेऽ­थ­श­ब्दात् , तत­स्त­त्प्र­ति­प­त्त्यर्थं किमिति न गृह्यते ? उच्यते — नैतदानन्तर्याद् व्यतिरिच्यते । कथम् ? एवम् — तत् प्रक्रियमाणस्य नियमेन पूर्ववृत्तं भवति, यदि तस्यानन्तरं तन्मात्रापेक्षं तत्प्रक्रियेत, एवं सति प्रक्रियमाणस्य हेतुभूतोऽर्थः पूर्वनिर्वृत्तो भवति ; अन्यथा यस्मिन् कस्मिंश्चित् पूर्व­वृ­त्ता­पे­क्षा­या­म­नु­वा­दा­दृ­ष्टा­र्थ­त्व­यो­र­न्य­त­र­त्व­प्र­स­ङ्गात् , अतो हेतु­भू­तोऽ­र्थोऽ­पे­क्षि­तव्यः, तदेतदाह —
पूर्व­प्र­कृ­ता­पे­क्षा­याश्च फलत आन­न्त­र्या­व्य­ति­रे­का­दिति । सति चान­न्त­र्या­र्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्म­जि­ज्ञा­साऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम् । स्वाध्या­या­न­न्त­र्यन्तु समानमिति ॥

येन विना नियमेनानन्तरस्य न प्रक्रिया स तादृशो हेतुः पूर्वनिर्वृत्तो वक्तव्यः ; यस्यानन्तर ब्रह्मजिज्ञासा प्रक्रियते । स्वाध्या­या­ध्य­य­नन्तु समानम् साधारणो हेतु­र्ध­र्म­ब्र­ह्म­जि­ज्ञा­सयोः । अतश्च ‘अथातो ब्रह्म­जि­ज्ञासे’ति पुनरथशब्देन तन्मा­त्रा­पे­क्षणं व्यर्थं स्यात् । अथवा समानं नात्य­न्त­म­पे­क्षितं, न स्वयमेव सामर्थ्यं जनयितुं प्रयोक्तुं च शक्तम् । अतः समानो हेतुः, नावश्यं निष्पादक इत्यर्थः ॥

नन्विह कर्मा­व­बो­धा­न­न्तर्यं विशेषः ॥ तथाच वृत्त्यन्तरे वर्णि­त­म्-'क­र्म­णा­म­धि­का­र­प­र­म्प­रया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमाद् निःश्रे­य­स­प्र­यो­ज­न­त्वा­च्चा­न­न्त­र्य­व­च­नोऽ­थ­श­ब्दोऽ­धि­ग­ता­न­न्त­रमि'ति । अन्यैरपि स्ववृत्तौ वर्णि­त­म्—'त­त्रा­था­तः­शब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति पूर्वप्रकृतां धर्म­जि­ज्ञा­सा­म­पे­क्ष्या­न­न्तरं ब्रह्म­जि­ज्ञा­सा­प्रा­र­म्भार्थः । अत इति पूर्व­नि­र्दि­ष्ट­स्यै­वा­र्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रती'ति । अत्राह-
न ; धर्मजिज्ञासायाः प्राग­प्य­धी­त­वे­दा­न्तस्य ब्रह्म­जि­ज्ञा­सो­प­प­त्ते­रिति ॥
वेदान्ताध्ययनं यद्यपि केवलं न पुष्कलं कारणम् ; तथाऽपि न तेन विनोत्पद्यते ब्रह्मजिज्ञासा, उपपद्यते तु धर्मावबोधनं विनाऽ­पी­त्य­भि­प्रायः । कथम्? तत्र तावद् धर्मजिज्ञासायां त्रयं वृत्त­म्-द्वा­द­श­ल­क्षणे प्रति­पा­दि­त­न्या­य­स­ह­स्रम् , तद­नु­ग्र­हो­प­जा-तश्च वाक्या­र्थ­नि­र्णयः, वाक्या­र्थ­श्चा­ग्नि­हो­त्रा­दिकं कर्म । तत्र यः प्रथ­म­सू­त्रेऽ­थ­श­ब्दो­पा­दा­न­सू­चितो न्यायः स्वाध्या­य­स्या­र्था­व­बो­धो­प­यो­ग­प्र­ति­प­त्ति­हेतुः, यद­प्यौ­त्प­त्ति­क­सूत्रे शब्दार्थयोः सम्ब­न्ध-नि­त्य­त्त्वेन वेदान्तानां चापौरुषेयत्वेन कार­णे­ना­न­पे­क्षत्वं नाम प्रामा­ण्य­का­र­ण­मु­क्तम् , तदु­भ­य­मि-हा­प्यु­प­यु­ज्यते ; अपेक्षितत्वात् , इतरस्य पुर्न­न्या­य­क­ला­पस्य न ब्रह्म­जि­ज्ञा­सा­या­मु­प­यो­गोस्ति, यतो न निर­स्ता­शे­ष­प्र­पञ्चं ब्रह्मा­त्मै­कत्वं प्रतिज्ञातं तत्र । न तत्प्रतिपादने तत्प्र­ति­पा­द­न­सा­मर्थ्ये वा शब्दानां कश्चित् न्यायोऽभिहितः । यत्पुनः प्रथ­म­त­न्त्र­सि­द्ध­न्या­यो­प­जी­व­न­म­स्मि­न्नपि तन्त्रे , तत् सगु­ण­वि­द्या­वि­ष­यम् । तत्र च मानसी क्रियोपासना विधेयाऽनित्यफला धर्मविशेष एव । तदेवं न्यायकलापस्य न ब्रह्म­जि­ज्ञा­सा­या­मु­प­योगः । अतो न तदपेक्षोऽथशब्दः । यत्पुनः स्वाध्या­य-स्या­र्था­व­बो­धो­प­यो­गेऽ­न­पे­क्ष­त्वेन स्वतः­प्रा­मा­ण्य­सिद्धौ च न्यायद्वयम् , तत् अपेक्षितमपि न केवलं ब्रह्म­जि­ज्ञा­सा­का­र­णम् ; स्वाध्यायवदेव, तेन न तदपेक्षोऽथशब्दः । यः पुन­र्वा­क्या­र्थ­नि­र्णयः, स न कथमपि ब्रह्म­जि­ज्ञा­सा­या­मु­प­यु­ज्यते । न ह्यन्यविषयं ज्ञानमन्यत्र प्रवृत्तौ हेतुः । प्रतिपत्तौ कदाचित् स्यादपि यथाऽनुमानादौ, तदपीह नास्ति ; धर्मब्रह्मणोः सम्ब­न्धा­नि­रू­प­णात् , अतः कर्मणामुप-योगः परिशिष्यते । तथा च तैर­प्यु­क्त­म्—क­र्म­णा­म­धि­का­र­प­र­म्प­रया शब्दतो वा संस्कारतया वा यथाविभागं तार्द­थ्या­व­ग­मात्' इति । अत्रेदं निरूप्यते- केय­म­धि­का­र­प­र­म्परा? कथं वा तार्दथ्य-मिति? यथा तावत् प्रासा­द­मा­रु­रुक्षोः सोपानपरम्परा क्रमशः प्राप्यमाणा प्रासा­दा­रो­ह­ण­हेतुः, न तथेह ब्रह्मजिज्ञासां चिकीर्षोः कर्माणि सह­स्र­सं­व­त्स­र­प­र्य­न्तानि तत्क्रि­या­हे­तु­तया स्थितानि ; प्रमाणाभावात् । अथ कामो­प­ह­त­म­ना­स्त­द­भि­मुखो ब्रह्म­जि­ज्ञा­सायां नावतरति, कर्मभिस्तु कामा-वाप्तौ तदुपशमाद् ब्रह्व­जि­ज्ञा­सा­या­म­व­त­रति । तथाच सार्व­भौ­म­त्वा­द्यु­त्त­रो­त्त­र­श­त­गु­णो­त्क­र्षा­व­स्थि­तान् ब्रह्म­लो­का­वा­प्ति­प­र्य­न्तान् कामा­न­वा­प­य­न्त्य­धि­का­र­प­र­म्प­रया कर्माणि ; ब्रह्मलोकात् परं काम­यि­त­व्या­भा­वात् , निर्विषयस्य च काम­स्या­नु­प­प­त्ते­र्द­ग्धे­न्ध­ना­ग्नि­वत् कामोपशमे ब्रह्मजिज्ञासां करोति ; कर्मा­नु­ष्ठा­ना­न­न्तर्यं तर्हि वक्तव्यम् न धर्मा­व­बो­धा­न­न्त­र्यम् ॥

कथं वा कामाप्तिः कामोपशमहेतुः? दृष्टा­न्त­सा­म­र्थ्यात् , यथा हविषा कृष्णवर्त्मा वर्धमानोऽपि सर्व­ह­विः­प्र­क्षेपे सर्वं दग्ध्वा स्वयं शाम्यति, एवं विषयेन्धनः कामो यावद्विषयं वर्धमानोऽपि तत्क्षये क्षीणे­न्ध­ना­ग्नि­वत् स्वयं शाम्यतीति युक्तम् , सत्यं युक्तम् ; यदि हैरण्यगर्भो भोगो न क्षीयेत, क्षीयते तु कृतकत्वात् परि­च्छि­न्न­वि­ष­य­त्वाच्च ; तत्क्षये पूर्व­व­द­न­वा­प्तोऽ­वा­प्तव्यः, इति कामः समुल्लसत्येव । अतो विषयस्य क्षया­दि­दो­ष­द­र्श­नात् कामोपशमो हिर­ण्य­ग­र्भ­स्यापि । तथा­चो­क्त­म्-'ज्ञा­न­म­प्र­तिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' ॥ इति । तस्मात् सर्वत्र कामस्य विष­य­दो­ष­द­र्श­न­मे­वो­च्छे­द­का­र­णम् , नित्य­व­स्तु­द­र्शनं च ; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति स्मृतेः । नचैवंलक्षण आग­मोऽ­स्ति—हि­र­ण्य­ग­र्भो­प­भो­गाद् निखि­ल­वि­ष­या­वाप्तौ कामोच्छेदो भवतीति । ननु कामावाप्तौ स्वस्थहृदयः कार्यान्तरक्षमो भवतीति सर्वेषां स्वसंवेद्यमेतत् , सत्यम् ; तदु­त्क­लि­को­प­श­मात् , तदु­त्क­लि­को­प­श­मश्च तदा सामर्थ्यहानेः ; सति च सामर्थ्ये स्वच्छ­न्दो­प­भो­ग­स­म्भ­वात् । यदि पुनरेकान्ततो निवृत्तकामो भवेत् , न तं विषयं पुनः सङ्गोपायेत् । तस्माद् न कर्मणां काम­नि­र्ब­ह­ण­द्वा­रेण ब्रह्म­जि­ज्ञा­सा­यो­ग्य­ता­पा­द­नम् ; अतो न कर्मा­व­बो­धा­पे­क्षोऽ­प्य­थ­शब्दः ।

भवतु तर्हि संस्कारद्वारेण कर्मणां पूर्व­वृ­त्त­त्वम्? `यस्यै­तेऽ­ष्टा­च­त्वा­रिं­श­त्सं­स्काराः, अष्टौ चात्मगुणाः स ब्रह्मणः सायुज्यं गच्छती'ति `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरि'ति `ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽ­द­र्श­त­ल­प्रख्ये पश्य­न्त्या­त्मा­न­मा­त्मनी'ति च स्मृतेः ; `विविदिषन्ति यज्ञेन दानेन तप­साऽ­ना­श­केने'ति `येन केनचन यजेतापि दर्वि­हो­मे­ना­नु­प-ह­त­मना एव भवती'ति च श्रुतेः । वक्ष्यति च सूत्र­का­रः—'अत एवा­श्र­म­क­र्मा­पेक्षा' `सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वदि'ति च । सत्यमेवम् ; यदि समा­न­ज­न्मा­नु­ष्ठि­त­मेव कर्म संस्कुर्वद् ब्रह्म­जि­ज्ञा­सा-यो­ग्य­त्व­हेतुः स्यात् । न च नैयोगिके फले कालनियमोऽस्ति । तेव पूर्व­ज­न्मा­नु­ष्ठि­त­क­र्म­सं­स्कृतो धर्मजिज्ञासां तदनुष्ठानं चाप्रतिपद्यमान एव ब्रह्म­जि­ज्ञा­सायां प्रवर्तते, इति न नियमेव तदपेक्षोऽथशब्दो युज्यते । एतेन —ऋणा­पा­क­र­ण­द्वा­रे­णापि नियमेन पूर्व­वृ­त्त­त्वम्— प्रत्युक्तम् ॥ तथाच श्रुति-स्मृती `यदि वेतरथा ब्रह्मचर्यादेव प्रव्र­जेत्' `तस्या­श्र­म­वि­क­ल्प­मेके ब्रुवते' इति ॥ तस्मात् साधूक्तम्— धर्मजिज्ञासायाः प्राग­प्य­धी­त­वे­दा­न्तस्य ब्रह्म­जि­ज्ञा­सो­प­प­त्ते­रिति ॥ अथापि स्यात् —न हेतु­त्वे­ना­न­न्त­र­वृ­त्त­क­र्मा­व­बो­धा­पे­क्ष­म­थ­शब्दं ब्रूमः, अपितु क्रम­प्र­ति­प­त्त्य­र्थम् ; यथा `हृद­य­स्या­ग्रेऽ­व­द्य­त्यथ जिह्वाया अथ वक्षसः' इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युग­प­द­नु­ष्ठा­ना­स­म्भ­वा­द­व­श्य­म्भा­विनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेष-शेषिणोः शेषाणां च बहू­ना­मे­क­शे­षि­स­म्ब­द्धा­ना­म­धि­का­रा­न्त­र­प्र­यु­क्त्त्यु­प-जी­विनां च भवति, नेतरथा । न हि धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­रे­ते­षा­म­न्य­त­मत्वे प्रमाणमस्ति, तदिदिमाह- - यथा च हृद­या­द्य­व­दा­ना­ना­मा­न­न्त­र्य­नि­यमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेष­शे­षि­त्वे(१)ऽ­धि­कृ­ता­धि­कारे वा प्रमाणाभावाद् धर्म-ब्र­ह्म­जि­ज्ञा­स­यो­रिति ॥

अथापि स्यात् न हेतु­त्वे­ना­न­न्त­र­वृ­त्त­क­र्मा­व­बो­धा­पे­क्ष­म­थ­शब्दं ब्रूमः, अपि तु क्रम­प्र­ति­प­त्त्य­र्थम् ; यथा ‘हृद­य­स्या­ग्रेऽ­व­द्य­त्यथ जिह्वाया अथ वक्षसः’ इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युग­प­द­नु­ष्ठा­ना­स­म्भ­वा­द­व­श्य­म्भा­विनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेषशेषिणोः शेषाणां च बहू­ना­मे­क­शे­षि­स­म्ब­द्धा­ना­म­धि­का­रा­न्त­र­प्र­यु­क्त्त्यु­प­जी­विनां च भवति, नेतरथा । न हि धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­रे­ते­षा­म­न्य­त­मत्वे प्रमाणमस्ति, तदिदमाह —
यथा च हृद­या­द्य­व­दा­ना­ना­मा­न­न्त­र्य­नि­यमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेष­शे­षि­त्वेऽ­धि­कृ­ता­धि­कारे वा प्रमाणाभावाद् धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­रिति ॥

अथापि स्यात् , यथाऽऽ­ग्ने­या­दीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­र­प्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नि­य­मा­र्थोऽ­थ­शब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रति­ल­क्ष­ण­मं­शा­न्त­र­प­रि­शो­ध­नया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशा­न्त­र­प­रि­शो­ध­नेन लक्षणानां क्रम नियमः । एवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रम­नि­य­मा­र्थोऽ­थ­शब्द इत्याशङ्क्याह —
फल­जि­ज्ञा­स्य­भे­दाच्च ॥

किं च
चोद­ना­प्र­वृ­त्ति­भे­दाच्च ।
इदमपरं प्रमाणोपाधि प्रमे­य­वै­ल­क्ष­ण्यम् । धर्मचोदना हि प्रेरयन्ती पुरुषमसति विषये प्रेर­यि­तु­म­स­मर्था सती विषयमप्यवबोधयति । ब्रह्मप्रमाणं पुनर्बोधयत्येव केवलं नावबोधे पुरुषः प्रेर्यते । अवबोधो हि यथावस्तु यथाप्रमाणं चोदेति, न पुरु­ष­स्ये­च्छा­म­प्य­नु­व­र्तते ।

उक्तं पुरस्ताद् अधि­का­रा­र्थ­त्वेऽ­थ­श­ब्दस्य शास्त्रा­र­म्भ­वै­य­र्थ्यम् ; प्रवृ­त्त्य­भा­वा­दिति, प्रवृत्त्यभावे च कारणमुक्तम् , अखि­ल­सु­ख­भो­गा­द्धि­र­ण्य­ग­र्भा­वा­प्ति­प­र्य­न्ता­न्नि­व­र्त­यति ब्रह्मजिज्ञासा क्रियमाणा, तेन तत उद्वेगो लोकस्य, कुतस्तत्र प्रवृत्तिरिति ? तस्माद् यावदस्य हिर­ण्य­ग­र्भा­वा­प्ति­प­र्य­न्तस्य भोग­स्यो­त्पा­द­प­रि­च्छे­दाभ्यां विना­शि­त्वा­द­नि­त्यत्वं नावैति । विनश्यदपीदं कूट­स्थ­नि­त्य­व­स्तु­प­र्य­न्त­मेव विनश्यति ; अन्यथा निरुपादानस्य पुन­रु­त्प­त्त्य­स­म्भवः, इति वर्त­मा­न­स्या­प्य­स­म्भ­वा­द­भा­वोऽ­भ­वि­ष्य­दिति निरूपणाद् नित्या­नि­त्य­व­स्तु­वि­वेको यावन्न जायते । याव­च्चा­भि­मु­ख­वि­ना­श­द­र्श­नाद् भुञ्जानस्यापि भोगान् स्रक् - चन्दन - वस्त्रालङ्कार - भोगा­नि­वा­ग्नि­प्र­वे­शार्थं भोगा­र्थ­व्या­पा­र­ज­नि­त­दुः­खा­नु­भ­वाच्च तन्निमित्तां निर्वृ­ति­म­प्य­ल­भ­मानो भोगाद् विरक्तः । ततो मुमुक्षुत्वं तत्सा­ध­न­श­म­द­मो­प­र­म­ति­ति­क्षा­स­मा­धा­न­स­म्पन्नो भूत्वा यावन्नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत ? कथञ्चिद् वा दैववशात् कुतूहलाद्वा बहु­श्रु­त­त्व­बुद्ध्या वा प्रवृत्तोऽपि न निर्विचिकित्सं ब्रह्म आत्म­त्वे­ना­व­गन्तुं शक्नोति ; यथो­क्त­सा­ध­न­स­म्प­त्ति­वि­र­हात् , अनन्तर्मुखचेता बहि­रे­वा­भि­नि­वि­श­मानः । तस्माद् वर्णि­त­व­स्तु­क­ला­पा­न­न्त­र्य­म­भि­प्रे­त्या­थ­शब्दं प्रयु­क्त­वा­ना­चार्यः । तदाह भाष्यकारः —
तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये । तस्मादथशब्देन यथो­क्त­सा­ध­न­स­म्प­त्त्या­न­न्त­र्य­मु­प­दि­श्यत इति ॥

अतःशब्दो हेत्वर्थ इति ॥
स्यादेतत् , कृत­क­त्व­प­रि­च्छेदौ नैकान्ततः क्षयिष्णुतां गमयतः ; परमाणुषु पाकजलोहितस्य कृतकस्य, तेषां च परिच्छिन्नानां नित्य­त्वा­भ्यु­ग­मात् , वेदेऽपि ‘अक्षय्यं ह वै चातु­र्मा­स्य­या­जिनः सुकृतं भवति’ ‘अपाम सोमममृता अभू­मे’त्या­दि­पु­ण्य­फ­ल­स्या­क्ष­यि­त्व­श्र­व­णात् , अतो विषयभोगाद् न नियमेन विरागो विवेकिनामपि । नापि कूट­स्थ­नि­त्य­व­स्त्व­व­ष्ट­म्भेन मुमुक्षुत्वम् । ततश्च न शम­द­मा­दि­प­रि­ग्रहः, यतो न तादात्म्यं भोक्तुः सम्भाव्यते । नापि तदवाप्तिः ; दुःखाभावेऽपि सुख­भो­गा­भा­वा­न्ना­न­वद्यः पुरुषार्थः । अतोऽ­जी­र्ण­भ­या­न्ना­हा­र­प­रि­त्यागः, भिक्षुभयान्न स्थाल्या अनधिश्रयणं दोषेषु प्रति­वि­धा­त­व्य­मिति न्यायः । अतो न तस्य ब्रह्म­जि­ज्ञा­सायां हेतु­त्व­मि­त्य­त­स्तस्य हेतु­त्व­प्र­द­र्श­ना­र्थोऽ­तः­शब्दः । कथम् ?

अत उपसंहरति —
तस्मा­द्य­थो­क्त­सा­ध­न­स­म्प­त्त्य­न­न्तरं ब्रह्मजिज्ञासा कर्तव्येति ॥
यतः परिपूर्णो हेतु­र­न­न्त­र­म­वश्यं कार्यमारभते, अतः कर्त­व्ये­त्या­व­श्य­क­ता­माह भाष्यकारः । यतो द्वैता­नु­ष­ङ्गा­द­ति­त­रा­मु­द्वि­ज­मा­नेन ब्रह्मात्मत्वं च हस्तप्राप्तमिव मन्यमानेन प्रवर्तितव्यमेव ब्रह्म­जि­ज्ञा­सा­याम् ; प्रदीप्तशिरसेव जलराशौ, स्पृशतेव च सुस्वादु फल­म­ङ्गु­ल्य­ग्रे­णा­ग्र­पा­द­स्थेन । एवं सत्यर्थाद् धर्मजिज्ञासाया नियमेन पूर्व­वृ­त्त­त्व­म­थ­श­ब्देन पूर्वोक्तेन न्यायेन निराक्रियते ॥

ब्रह्मणो जिज्ञासा ब्रह्म­जि­ज्ञा­सेति ॥
अन्त­र्णी­त­वि­चा­रा­र्था­न्वये हि चतुर्थीसमासः स्यात् , न शब्दाभिधेय इत्य­व­य­वा­र्थ­म­ङ्गी­कृत्य षष्ठीसमासो दर्शितः ॥

ब्रह्म­श­ब्द­स्या­र्थ­नि­र्दे­शा­व­सरे प्राप्ते सूत्रकार एव निर्देक्ष्यतीति कथयति —
ब्रह्म च वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति ॥

तत्र यद­न्यै­र्वृ­त्ति­का­रै­र्ब्र­ह्म­श­ब्द­स्या­र्था­न्त­र­मा­शङ्क्य निरस्यते । न खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्य­क्ष­सि­द्ध­त्वाद् जिज्ञा­स्य­त्वा­भा­वात् , नापि तत्कर्तृका जिज्ञासा ; त्रैव­र्णि­का­धि­का­रात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशे­ष­णा­न­र्थ­क्यात् , कर्मत्वे नित्य­सि­द्ध­त्वात् , न शब्द­रा­शे­र्ग्र­ह­णम् ; तस्य धर्म­जि­ज्ञा­सौ­त्प­त्ति­क­सू­त्रा­भ्या­म­र्थ­व­त्त्व­प्र­मा­ण­त्व­यो­र्नि­रू­पि­त­त्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्म­जि­ज्ञा­सो­प­दे­शात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि न कर्तव्यमित्याह —
अत एव न ब्रह्मशब्दस्य जात्या­द्य­र्था­न्त­र­मा­श­ङ्कि­त­व्य­मिति ॥

ब्रह्मण इति कर्मणि षष्ठी ॥

अथापि स्यात् अन्यत् जिज्ञास्यमिति, तदर्थमाह —
जिज्ञा­स्या­न्त­रा­नि­र्दे­शा­च्चेति ॥

ननु किमिति व्यर्थः ? शेष­ष­ष्ठी­प­रि­ग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं न भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो न विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्या­प्य­न्त­र्भ­वा­दिति यद्युच्यते, तदाह —
न व्यर्थः ; ब्रह्मा­श्रि­ता­शे­ष­वि­चा­र­प्र­ति­ज्ञा­ना­र्थ­त्वा­दिति चेति ॥

यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञाने­ना­प्तु­मि­ष्ट­त­मम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना न सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, न पृथगभिधानेन कृत्यमस्ति । यथा ‘राजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं न सम्पद्यते, तावतो गम­न­मा­क्षि­प्त­मिति न पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्म­ज्ञा­न­प­रि­पू­र्ण­ता­र्थ­म­र्था­देव जिज्ञा­स्य­त्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्र­प्र­वृ­त्ति­रेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्र­मा­र­ब्ध­व्यम् । ‘पुण्यचितो लोकः क्षीयते’(छा. उ. ८-१-६) इत्या­दि­श्रु­ते­र्न्या­य­तश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्य ‘ब्रह्म­वि­दा­प्नोति पर­मि’त्या­दि­श्रु­ते­र्ब्र­ह्म­ज्ञा­ना­त्पु­रु­षा­र्थ­सिद्धिः परेति । अत­स्त­ज्ज्ञा­तु­मि­च्छतः श्रुत्या ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१)‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्येवमाद्यया तत्प्र­ति­पा­द­न­पू­र्वकं ‘तद्वि­जि­ज्ञा­सस्व’(तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेय­त्वे­ना­नु­शा­सनं यत् , तदिदम् — ‘अथातो ब्रह्म­जि­ज्ञासे’ति सूचितम् । तेन कर्म­ष­ष्ठी­प­रि­ग्रहे श्रुति­न्या­य­सू­च­न­परं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्या­न­नु­ग­त­म­स­म्बद्धं स्यात् । तदाह — श्रुत्य­नु­ग­मा­च्चेति वस्तु­स­ङ्ग्र­ह­वा­क्यम् । तत्प्रपञ्चः —
‘यतो वा इमानि भूतानि जायन्ते’ इत्याद्याश्च श्रुतयः ‘तद्वि­जि­ज्ञा­सस्व तद् ब्रह्मेति’(तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञा­सा­क­र्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी ॥

ज्ञातुमिच्छा जिज्ञासेति जिज्ञा­सा­प­द­स्या­व­य­वार्थं कथ­य­ती­च्छा­प्र­द­र्श­ना­र्थम् । ततश्चेच्छायाः फलविषयत्वात् तज्ज्ञा­न­स्या­प­व­र्ग­प­र्य­न्तता सूचिता भवति । तदाह —
अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म ; फल­वि­ष­य­त्वा­दि­च्छाया इति ॥
अवगतिरिति साक्षादनुभव उच्यते । ज्ञानन्तु परो­क्षेऽ­नु­भ­वा­ना­रू­ढेऽपि सम्भवति । सन्नि­हि­तेऽ­प्य­स­म्भा­वि­त­वि­ष­येऽ­न­व­सि­त­रू­प­मि­त्युक्तं पुरस्तात् ; तदाह —

तदे­त­च्छा­स्त्रा­न्त­र्भूतं सूत्रम् । अनेन च प्रयो­ज्य­स­म्ब­न्धि­नो­र्जि­ज्ञा­सा­मु­मु­क्षा­क्रि­य­यो­रे­कस्याः कार­णा­न्त­र­सि­द्धायाः पूर्ववृत्ततया हेतु­त्व­म­र्था­दु­पा­त्त­मि­त­र­स्या­स्त­द­न­न्तरं तत्प्रयुक्तायाः कर्तव्यता श्रुत्याऽभिहिता । तत्र जानात्येवासौ मयैतत् कर्तव्यमिति, उपायन्तु न वेद । ततस्तस्योपायः कथनीयः । शास्त्रस्य च सम्ब­न्धा­भि­धे­य­प्र­यो­ज­नानि वक्तव्यानि ; इतरथा प्रेक्षारहितमिव सर्वमापद्येत । अतोऽनेनैव सूत्रेणेदमपि सर्वं सूचितमिति कथयितुमाह —
तस्माद् ब्रह्म जिज्ञा­सि­त­व्य­मिति ॥
अन्तर्णीत विचा­रा­र्थ­वि­धे­य­त्वा­ङ्गी­का­रेण मीमां­सि­त­व्य­मि­त्यर्थः । एतदुक्तं भवति — ब्रह्म­ज्ञा­न­का­मे­नेदं शास्त्रं श्रोतव्यम् ; यस्माद् ब्रह्मज्ञानमनेन शास्त्रेण निरूप्यते । तेन प्रयो­ज्य­स्या­भि­म­तो­पायः शास्त्रम् , इत्यर्थात् शास्त्रस्य सम्ब­न्धा­भि­धे­य­प्र­यो­जनं कथितं भवति ॥