पञ्चपादिका
३ परिच्छेदः
अथ तृतीयं वर्णकम्
अयं तु जिज्ञासाशब्दो विचारवचनो मीमांसापरपर्यायः प्रयुक्तोऽभियुक्तैः — ‘इदमतो जिज्ञासन्ते, किं क्रतुगुणकमुपासनं स्वामिकर्म ? उतर्त्विक्कर्मे’ति । इदन्तु जिज्ञास्यम् , किं नु खल्विमौ तप्यतापकावेकस्यात्मनो भेदौ ? उत जात्यन्तरम् ? इति । धर्ममीमांसाभाष्यकारोऽपि सङ्घातमेव प्रायुङ्क्त ‘धर्मं जिज्ञासितुमिच्छेदि’ति, सङ्घातवाच्यत्वाद्विचारस्य ; अन्यथैवमवक्ष्यत् — ‘धर्मं ज्ञातुमिच्छेदि’ति । अत एवं धर्माय जिज्ञासा ‘धर्मजिज्ञासे’ति सङ्घातस्यार्थवत्त्वमङ्गीकृत्य चतुर्थीसमासो दर्शितः । तदनुसारेण चैतानि भाष्याणि — ‘एवं वेदवाक्यान्येवैभिर्विचार्यन्ते’ ‘वेदवाक्यानि विचारयितव्यानि’ ‘कथं वेदवाक्यानि विचारयेदि’ति च ; पुनश्च ‘क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ ‘क्रत्वर्थपुरुषार्थौ जिज्ञास्येते’ इति । इहापि भाष्यकारो वक्ष्यति — ‘तस्माद् ब्रह्म जिज्ञासितव्यमि’ति । पुनश्च ‘वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते’ इति । अतः सङ्घातस्यार्थवत्त्वादधिकारार्थता युज्यते । शास्त्रवचनो हि जिज्ञासाशब्दः ; तेन ब्रह्मजिज्ञासाऽधिकृता वेदितव्येति ॥ उच्यते — नायं जिज्ञासाशब्दः परित्यक्तावयवार्थः केवलमीमांसापर्यायः प्रयुज्यमानो दृश्यते । नापि स्मरणमस्ति । न चावयवार्थेनार्थवत्त्वे सम्भवति समुदायस्यार्थान्तरकल्पना युक्ता । ननु न वयं कल्पयामः ; दर्शितः शिष्टप्रयोगः, न ; तस्यान्यथासिद्धत्वात् । कथमन्यथासिद्धत्वम् ? अन्तर्णीतविचारार्थत्वाज्जिज्ञासाशब्दस्य । तथाहि — विचारपूर्वकसाध्यज्ञानविषयेच्छा जिज्ञासाशब्दात् प्रतीयते, नोपदेशमात्रसाध्यज्ञानविषया ; एवं प्रयोगप्रत्यययोर्दर्शनात् , तेन जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वाद् युक्तमुक्तम् — ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति ॥
ननु एवमपि कुत एतत् ? अन्तर्णीतं विचारमाश्रित्य शब्दतो गुणत्वेऽप्यर्थलक्षणेन प्राधान्येन ब्रह्मतज्ज्ञानयोरधिकारयोग्यत्वाच्चाधिक्रियमाणत्वमङ्गीकृत्याधिकारार्थत्वं किमिति न गृह्यते ? येन शब्दलक्षणेन प्राधान्येनेच्छाया अनधिकार्यत्वादानन्तर्यार्थत्वमेव परिगृह्यत इति, उच्यते — शास्त्रस्यानारम्भप्रसङ्गादधिकारार्थत्वानुपपत्तेः । अधिकारार्थत्वे ह्यप्रयोजनं शास्त्रं काकदन्तपरीक्षावदनारभ्यं स्यात् , तत्र कस्याधिकार उच्येत ?
ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, न ; ब्रह्मज्ञानेऽर्थित्वानुपपत्तेः, ब्रह्मज्ञानाद्धि मनसोऽपि वियोगान्निखिलविषयानुषङ्गनिवृत्तिः श्रूयते । सा च सार्वभौमोपक्रमं ब्रह्मलोकावसानमुत्कृष्टोत्कृष्टसुखं श्रूयमाणं सोपायं निवर्तयति । अतो ब्रह्मज्ञानादुद्विजते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्मज्ञानादाप्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; न हि ब्रह्मानन्दोऽननुभूतपूर्वोऽनुभूतभोग्यसुखाभिलाषं मन्दीकर्तुमुत्सहते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेत । ननु परितृप्तरूपताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृप्तिनिमित्तकत्वात् कामस्य ; तथा च श्रुतिः — ‘आप्तकामः आत्मकाम’ इति । स्मृतिरपि ‘आत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति । न ; तृप्तेरेवोद्वेगदर्शनाद्विषयविच्छेदात्मिकायाः । तथा च वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं न बभूव ? यत् सर्वमेव भोक्तुं सामर्थ्यमतृप्तिर्भोग्यानां चाक्षयः — इति । रागिगीतं श्लोकमप्युदाहरन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति ।
मा भूद् ब्रह्मज्ञानार्थिता, वेदार्थत्वादेव ब्रह्मज्ञानं कर्तव्यम् ; स्वाध्यायाध्ययनस्यार्थावबोधफलकत्वात् । स्यादेतदेवम् ; यद्यर्थावबोधफलाध्ययनक्रिया स्यात् , सा ह्यधीयमानावाप्तिफलत्वादक्षरग्रहणान्ता । अथाक्षरग्रहणं निष्प्रयोजनमिति न तत्र पर्यवसानं विधेः, भवतु तर्हि सक्तूनां गतिः । तदपि न ; अक्षरेभ्यः प्रयोजनवदर्थावबोधदर्शनात् । न तर्हि निष्प्रयोजनान्यक्षराणि ; अतस्तत्पर्यन्तमध्ययनं न निष्फलम् ; अतोऽक्षरग्रहणादेव नियोगसिद्धेः फलप्रयुक्त एवार्थावबोधः । अपि च अक्षरग्रहणान्तो विधिर्निष्प्रयोजनः, इति न सर्वत्र, प्रयोजनवदर्थावबोधपर्यन्तता कल्पयितुमपि शक्यते । तत्रावश्यं कल्पनीयाऽक्षरग्रहणान्तता । तद्यथा राजन्यस्य सत्रवैश्यस्तोमबृहस्पतिसवानामाम्नानं वैश्यस्य चाश्वमेधराजसूयसत्राणां पाठः । न च तेषामनध्ययनमेव ; स्वाध्यायशब्देन सकलवेदवाचिनाऽध्ययनस्य विहितत्वात् । ननु चाश्रूयमाणाधिकारोऽध्ययनविधिः, दृष्टश्चाक्षरग्रहणेऽर्थावबोधः, स कल्पनामधिकारस्य निरुन्धन् स्वयमधिकारस्य हेतुः सम्पद्यते । दृष्टाधिकारेषु प्रत्यक्षतस्तदुपलब्धावधिकारसिद्धिः । अतोऽर्थावबोधपर्यन्तः स्वाध्यायाध्ययननियोगः ; तेन नियोगसिध्यर्थमेव सकलवेदार्थविचारः, अत्रोच्यते — भवेदध्ययनविधेरर्थावबोधः प्रयोजनम् , नाधिकारहेतुता, अध्ययनात्प्रागसिद्धत्वात् । प्राक् चाधिकारज्ञानेन प्रयोजनम् ; अतो न विधेर्दृष्टाधिकारत्वेनार्थावबोधसिद्धिः ।
यद्येवमधिकारश्रवणादर्थावबोधे च प्रतिपक्षकल्पनानुपपत्तेस्तस्य चाधिकारहेतुत्वानभ्युपगमादप्रवृत्तिरेवाध्ययने प्राप्ता । अत्र केचिदाहुः — आचार्यकरणविधिप्रयुक्तस्याध्ययनस्यानुष्ठानम् आधानस्येव कामश्रुतिप्रयुक्तस्य इति । तदयुक्तमित्यपरे । कथम् ? ‘अष्टवर्षं ब्राह्मणमुपनयीते’ति यद्ययमाचार्यस्य नियोगः ? माणवको न नियुक्तो भवति । अनियुक्तस्य च स्वाध्यायाध्ययने प्रवृत्तिर्न सम्भवति । किञ्चान्यत् — आचार्यकरणविधिरनित्यः, ‘ब्राह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाः’ इति वृत्त्यर्थोऽधिकारः ; अतः स्वेच्छातः प्रवृत्तिः । उपनयनाख्यस्तु संस्कारो नित्यः ; अकरणे दोषश्रवणात् — ‘अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचिदि’ति ॥ संस्कारश्च स्वाध्यायाध्ययनार्थः । एवं च स्वाध्यायाध्ययनमपि नित्यम् । तथा च निन्दाश्रवणम् — ‘अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्ती’ति । एवं चेत् कथं नित्यमनित्येन प्रयुज्यते ? इति वाच्यम् । ननु कथमाचार्यकरणविधिरनित्यः ? यावता वृत्त्यर्थो हि सः । न हि कश्चिद्विना धनेन जीविष्यति । तथा चोक्तं — ‘जीविष्यति विना धनेनेत्यनुपपन्नमि’ति । अतः सर्वेषां सर्वदा समीहितफलः सन् कथमनित्यः स्यात् ? भवेदेवं नित्यता फलवशेन, न शब्दात् । तथाहि — फलस्य नित्यसमीहितत्वादवश्यकर्तव्यता वास्तवी । तत्रासति शब्दव्यापार इच्छातः कर्तव्यताप्रतिपत्तिः स्यात् , न कर्तव्यताप्रतिपत्तेरिच्छा । शाब्द्यां हि नित्यकर्तव्यताप्रतिपत्तौ शब्दस्य सर्वदा सर्वान् प्रत्येकरूपत्वादिच्छाऽपि तद्वशवर्तिनी तथैव स्यात् ; औचित्यादिभावेऽपि कस्यचित् कथञ्चित् क्वचित् कदाचिदिच्छायाः । प्रमाणतस्तावान्नित्यः । तेन नित्येन तथाविधमेव प्रयुज्यते, इति न नित्यानित्यसंयोगविरोधः फलवशात्तु तत्कर्तव्यताप्रतिपत्तौ यद्यपि नित्याभिलषितं फलम् ; तथाऽप्युपायान्तरादपि तत्सिद्धेः, तदेकोपायत्वेऽप्यालस्यादायासासहिष्णुतया वा कामस्य कुण्ठीभावे न कर्तव्यतायाः प्रतिपत्तिः, इत्यनित्यत्वे सति न तेन नित्यस्य प्रयोज्यत्वमुपपद्यते ॥
ननु पितुः पुत्रोत्पादनविधिरनुशासनपर्यन्तः श्रूयते — ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासती’ति । अतः पुत्रोत्पादनस्य नित्यत्वात् तस्य चानुशासनपर्यन्तत्वात् तदाक्षिप्तत्वाच्चोपनयनाध्ययनयोः कथमाचार्यकरणविधिरनित्यः स्यात् ? कथं वाऽध्ययनस्यार्थावबोधपर्यन्तता न भवेत् ? उच्यते — नानेन पुत्रानुशासनं विधीयते, पुत्रोत्पादनविधिशेषत्वेन स्वतन्त्रमेव वा, किन्तु सम्पत्तिकर्मविधिशेषोऽयमर्थवादः ; तेनैकवाक्यत्वात् । अतो यथाप्राप्तमनुशासनमनुवदति । किं तदनुशासनम् ? कथं वा तत् प्राप्तवदनूद्यते ? उच्यते — नित्यस्य पुत्रोत्पादनविधेः प्रयोजनं यत् पितॄणां लुप्तपिण्डोदकक्रियाणां नरकपातश्रवणात् पितृपिण्डोदकक्रियाद्यनुष्ठानेन नरकपातत्राणम् । न च शास्त्रीयेण परिज्ञानेन विना तदनुष्ठानं सम्भवति । तेन पित्रा नित्यमात्मनः पुत्रोत्पादनाधिकारं परिसमापयितुं पुत्रस्यावश्यकर्तव्यार्थविषयं गर्भाष्टवर्षेण ब्राह्मणेन त्वयोपनयनाख्यः संस्कारः कारयितव्यः, यः स्वाध्यायाध्ययनार्थो विहित इति यदनुशासनम् , तदिहानूद्यते — ‘तस्मादेनमनुशासतीति’ ॥ तथाच लिङ्गं — ‘श्वेतकेतुर्हाऽऽरुणेय आस । तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्यस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती’ति । तदेवमनित्येनाचार्यकरणविधिना कथं नित्यं प्रयुज्यत इति वाच्यम् । किं च आचार्ये प्रेत आचार्यान्तरकरणं न प्राप्नोति ; नह्यधिकारी प्रतिनिधीयते, नाप्यधिकारः । अधिकारी स्वाधिकारसिध्यर्थं साधनान्तरभ्रेषे साधनान्तरं प्रतिनिधाय स्वाधिकारं निर्वर्तयतीति युक्तम् ; एवमेषा बहुदोषा कल्पना दृश्यते । तस्माद् माणवकस्यैवैष नियोगः । कथं गुणकर्तृव्यापारसम्बद्धो विधिः प्रधानकर्तृस्थो भवति ? यथा — ‘एतया ग्रामकामं याजयेदि’ति ग्रामकामस्य यागो विधीयते, गुणकर्तृव्यापारः प्राप्तोऽनूद्यते ; तस्य याजनस्य वृत्त्यर्थत्वात् , एवमिहापि गुणकर्तृव्यापारो वृत्त्यर्थत्वेन प्राप्तोऽनूद्यते ॥
अत्रैके प्रत्यवतिष्ठन्ते — युक्तं ‘याजयेदि’ति प्रधानकर्तृव्यापाराभिधायिनो यजतेः परस्य गुणकर्तृव्यापाराभिधायिनः शब्दान्तरस्य णिच उपादानात् तस्य चाविधेयत्वात् प्रधानकर्तृव्यापारस्याभिधानम् , इह पुनरेको नयतिर्माणवकस्य व्यापारं ब्रूयात् ? आचार्यस्य वा ? न तावद् माणवकस्य नयत्यर्थकर्तृत्वम् ; कर्मकारकत्वात् तस्य । अतोऽनभिधेयव्यापारः कथं नियुज्येत ? न हि परव्यापारे परो नियोक्तुं शक्यते । स्वव्यापारे हि पुरुषस्य नियोगः । तस्मान्नैष माणवकस्य नियोगः । तदेवमाचार्यकरणविधिप्रयुक्तत्वादध्ययनस्य नात्राधिकारचिन्तया मनः खेदयितव्यम् इति । उच्यते — माणवकस्यैवायं नियोगः, नाचार्यस्येह किञ्चिद्विधेयमस्ति । कथम् ? यत्तावत् ‘उपनयीते’त्यस्याभिधानतो न्यायतश्च निरूप्यमाणोऽर्थ एतावान् प्रतीयते, आत्मानमाचार्यं कर्तुं कञ्चिदात्मसमीपमानीयाध्यापयेत् ? इति । एतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्मणस्यान्यत एव प्राप्तम् , नात्र विधातव्यम् । तत्र कमध्यापयेत् ? इति विशेषाकाङ्क्षायां ‘ब्राह्मणमष्टवर्षमि’ति विशेषस्य विधायकमेतत् स्यात् । तत्र प्राप्ते व्यापारेऽर्थद्वयविधानमेकस्मिन् वाक्ये न शक्यते वक्तुम् ; वाक्यभेदप्रसङ्गात् । अतो नाचार्यस्य किञ्चिद् विधेयमिहास्ति । ननु माणवकस्यापि न किञ्चिद् विधेयमस्ति, अस्तीति ब्रूमः । कथम् ? यदैव ‘उपनयीते’ति शब्दतो न्यायतश्चात्मानमाचार्यं कर्तुमुपनयनेन संस्कृत्य कञ्चिदध्यापयेदिति प्रतीयते, तदैव यागश्रुतौ द्रव्यदेवतामात्रप्रतीतिवदध्ययनार्थोपनयनसंस्कार्योऽपि सामान्यतः प्रतीयते । तस्य च प्रेक्षावतो निष्प्रयोजने प्रवर्तयितुमशक्यत्वात् , विद्यमानस्याप्यध्ययनेऽर्थावबोधस्य प्रागसिद्धेः प्रवृत्तिहेतुत्वासिद्धेः, विधितोऽवश्यकर्तव्यतां प्रतिपद्य स्वयमेव प्रवर्तते । तेन ‘अष्टवर्षं ब्राह्मणमुपनयीते’त्यष्टवर्षो ब्राह्मण उपसर्पेदाचार्यमित्यर्थः ; ग्रामकामं याजयेद् ग्रामकामो यजेतेति यथा । ननु एवमप्यधिकारो न लभ्यते, अस्त्यत्राधिकारहेतुर्नित्यं निमित्तं वयोविशिष्टा जातिः, जातिविशिष्टं वयो वा । ननु जातिवयसी विशेषणमुपादेयस्य, अनुपादेयविशेषणमधिकारहेतुरिति स्थितिः, सत्यमस्तीयं स्थितिः ॥
किन्तु कर्तुरधिकार इत्यपि स्थिता न्यायविदः । किं चेह न माणवको जातिवयोविशिष्ट उपादेय उपनयने, किं तूपनयनमेव तदर्थं विधीयते ; संस्कारस्य संस्कार्योद्देशेन विधानात् । अतः संस्कार्यस्यावच्छेदकत्वं वयोजात्यवच्छिन्नं सद् भवति नित्यनिमित्तं माणवकस्य संस्कार्यत्व इति । तदेवमुपनयनस्याध्ययनार्थत्वात् तस्य च साधिकारत्वात् तेन चाधिकारेण साधिकारोऽध्ययनविधिः । अक्षरग्रहणमात्रेण चाधिकारसिद्धिः, अर्थावबोधस्तु कारणान्तरादिति ॥
ननु चैवमधीतो वेदो धर्मजिज्ञासाया हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः, इति वेद एवाधीतोन्यनिरपेक्षो धर्मजिज्ञासाया हेतुरिति वदन्ति, सत्यम् ; तथैव तत् , को वाऽन्यथा वदति ? अधीतवेदो ह्यवश्यकरणीयानि नित्यनैमित्तिकान्यकरणे प्रत्यवायजनकानि कर्माणि प्रतिपद्यते, तान्यनन्तरमेवावश्यविचारणीयानि, कथमेतान्यनुष्ठेयानीति । अतः प्रागध्ययनादप्रतिपत्तेरयोग्यत्वादधीतवेदत्वमेवान्यनिरपेक्षमर्थावबोधहेतुरिति गीयते । न तथा ब्रह्मज्ञानमवश्यकर्तव्यम् , अकरणे प्रत्यवायहेतुरिति प्रमाणमस्ति । तस्मादधीतवेदेनावश्यकर्तव्या धर्मजिज्ञासा, नैवं ब्रह्मजिज्ञासा । तदेव ब्रह्मजिज्ञासाया अधिकारानर्हत्वादर्हयोश्च ब्रह्मतज्ज्ञानयोरनर्थ्यमानत्वाद् जिज्ञासाऽनुपपन्ना ॥
मङ्गलस्यापि वाक्यार्थे समन्वयाभावात् श्रुतिमात्रोपयोगाच्च साधूक्तम् —
अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ इति ॥
ननु प्रक्रियमाणात् पूर्वप्रकृतमपि किञ्चिद् नियमेन प्रतीयतेऽथशब्दात् , ततस्तत्प्रतिपत्त्यर्थं किमिति न गृह्यते ? उच्यते — नैतदानन्तर्याद् व्यतिरिच्यते । कथम् ? एवम् — तत् प्रक्रियमाणस्य नियमेन पूर्ववृत्तं भवति, यदि तस्यानन्तरं तन्मात्रापेक्षं तत्प्रक्रियेत, एवं सति प्रक्रियमाणस्य हेतुभूतोऽर्थः पूर्वनिर्वृत्तो भवति ; अन्यथा यस्मिन् कस्मिंश्चित् पूर्ववृत्तापेक्षायामनुवादादृष्टार्थत्वयोरन्यतरत्वप्रसङ्गात् , अतो हेतुभूतोऽर्थोऽपेक्षितव्यः, तदेतदाह —
पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकादिति । सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम् । स्वाध्यायानन्तर्यन्तु समानमिति ॥
येन विना नियमेनानन्तरस्य न प्रक्रिया स तादृशो हेतुः पूर्वनिर्वृत्तो वक्तव्यः ; यस्यानन्तर ब्रह्मजिज्ञासा प्रक्रियते । स्वाध्यायाध्ययनन्तु समानम् साधारणो हेतुर्धर्मब्रह्मजिज्ञासयोः । अतश्च ‘अथातो ब्रह्मजिज्ञासे’ति पुनरथशब्देन तन्मात्रापेक्षणं व्यर्थं स्यात् । अथवा समानं नात्यन्तमपेक्षितं, न स्वयमेव सामर्थ्यं जनयितुं प्रयोक्तुं च शक्तम् । अतः समानो हेतुः, नावश्यं निष्पादक इत्यर्थः ॥
नन्विह कर्मावबोधानन्तर्यं विशेषः ॥ तथाच वृत्त्यन्तरे वर्णितम्-'कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमाद् निःश्रेयसप्रयोजनत्वाच्चानन्तर्यवचनोऽथशब्दोऽधिगतानन्तरमि'ति । अन्यैरपि स्ववृत्तौ वर्णितम्—'तत्राथातःशब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्यानन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थः । अत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रती'ति । अत्राह-
न ; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ॥
वेदान्ताध्ययनं यद्यपि केवलं न पुष्कलं कारणम् ; तथाऽपि न तेन विनोत्पद्यते ब्रह्मजिज्ञासा, उपपद्यते तु धर्मावबोधनं विनाऽपीत्यभिप्रायः । कथम्? तत्र तावद् धर्मजिज्ञासायां त्रयं वृत्तम्-द्वादशलक्षणे प्रतिपादितन्यायसहस्रम् , तदनुग्रहोपजा-तश्च वाक्यार्थनिर्णयः, वाक्यार्थश्चाग्निहोत्रादिकं कर्म । तत्र यः प्रथमसूत्रेऽथशब्दोपादानसूचितो न्यायः स्वाध्यायस्यार्थावबोधोपयोगप्रतिपत्तिहेतुः, यदप्यौत्पत्तिकसूत्रे शब्दार्थयोः सम्बन्ध-नित्यत्त्वेन वेदान्तानां चापौरुषेयत्वेन कारणेनानपेक्षत्वं नाम प्रामाण्यकारणमुक्तम् , तदुभयमि-हाप्युपयुज्यते ; अपेक्षितत्वात् , इतरस्य पुर्नन्यायकलापस्य न ब्रह्मजिज्ञासायामुपयोगोस्ति, यतो न निरस्ताशेषप्रपञ्चं ब्रह्मात्मैकत्वं प्रतिज्ञातं तत्र । न तत्प्रतिपादने तत्प्रतिपादनसामर्थ्ये वा शब्दानां कश्चित् न्यायोऽभिहितः । यत्पुनः प्रथमतन्त्रसिद्धन्यायोपजीवनमस्मिन्नपि तन्त्रे , तत् सगुणविद्याविषयम् । तत्र च मानसी क्रियोपासना विधेयाऽनित्यफला धर्मविशेष एव । तदेवं न्यायकलापस्य न ब्रह्मजिज्ञासायामुपयोगः । अतो न तदपेक्षोऽथशब्दः । यत्पुनः स्वाध्याय-स्यार्थावबोधोपयोगेऽनपेक्षत्वेन स्वतःप्रामाण्यसिद्धौ च न्यायद्वयम् , तत् अपेक्षितमपि न केवलं ब्रह्मजिज्ञासाकारणम् ; स्वाध्यायवदेव, तेन न तदपेक्षोऽथशब्दः । यः पुनर्वाक्यार्थनिर्णयः, स न कथमपि ब्रह्मजिज्ञासायामुपयुज्यते । न ह्यन्यविषयं ज्ञानमन्यत्र प्रवृत्तौ हेतुः । प्रतिपत्तौ कदाचित् स्यादपि यथाऽनुमानादौ, तदपीह नास्ति ; धर्मब्रह्मणोः सम्बन्धानिरूपणात् , अतः कर्मणामुप-योगः परिशिष्यते । तथा च तैरप्युक्तम्—कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमात्' इति । अत्रेदं निरूप्यते- केयमधिकारपरम्परा? कथं वा तार्दथ्य-मिति? यथा तावत् प्रासादमारुरुक्षोः सोपानपरम्परा क्रमशः प्राप्यमाणा प्रासादारोहणहेतुः, न तथेह ब्रह्मजिज्ञासां चिकीर्षोः कर्माणि सहस्रसंवत्सरपर्यन्तानि तत्क्रियाहेतुतया स्थितानि ; प्रमाणाभावात् । अथ कामोपहतमनास्तदभिमुखो ब्रह्मजिज्ञासायां नावतरति, कर्मभिस्तु कामा-वाप्तौ तदुपशमाद् ब्रह्वजिज्ञासायामवतरति । तथाच सार्वभौमत्वाद्युत्तरोत्तरशतगुणोत्कर्षावस्थितान् ब्रह्मलोकावाप्तिपर्यन्तान् कामानवापयन्त्यधिकारपरम्परया कर्माणि ; ब्रह्मलोकात् परं कामयितव्याभावात् , निर्विषयस्य च कामस्यानुपपत्तेर्दग्धेन्धनाग्निवत् कामोपशमे ब्रह्मजिज्ञासां करोति ; कर्मानुष्ठानानन्तर्यं तर्हि वक्तव्यम् न धर्मावबोधानन्तर्यम् ॥
कथं वा कामाप्तिः कामोपशमहेतुः? दृष्टान्तसामर्थ्यात् , यथा हविषा कृष्णवर्त्मा वर्धमानोऽपि सर्वहविःप्रक्षेपे सर्वं दग्ध्वा स्वयं शाम्यति, एवं विषयेन्धनः कामो यावद्विषयं वर्धमानोऽपि तत्क्षये क्षीणेन्धनाग्निवत् स्वयं शाम्यतीति युक्तम् , सत्यं युक्तम् ; यदि हैरण्यगर्भो भोगो न क्षीयेत, क्षीयते तु कृतकत्वात् परिच्छिन्नविषयत्वाच्च ; तत्क्षये पूर्ववदनवाप्तोऽवाप्तव्यः, इति कामः समुल्लसत्येव । अतो विषयस्य क्षयादिदोषदर्शनात् कामोपशमो हिरण्यगर्भस्यापि । तथाचोक्तम्-'ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' ॥ इति । तस्मात् सर्वत्र कामस्य विषयदोषदर्शनमेवोच्छेदकारणम् , नित्यवस्तुदर्शनं च ; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति स्मृतेः । नचैवंलक्षण आगमोऽस्ति—हिरण्यगर्भोपभोगाद् निखिलविषयावाप्तौ कामोच्छेदो भवतीति । ननु कामावाप्तौ स्वस्थहृदयः कार्यान्तरक्षमो भवतीति सर्वेषां स्वसंवेद्यमेतत् , सत्यम् ; तदुत्कलिकोपशमात् , तदुत्कलिकोपशमश्च तदा सामर्थ्यहानेः ; सति च सामर्थ्ये स्वच्छन्दोपभोगसम्भवात् । यदि पुनरेकान्ततो निवृत्तकामो भवेत् , न तं विषयं पुनः सङ्गोपायेत् । तस्माद् न कर्मणां कामनिर्बहणद्वारेण ब्रह्मजिज्ञासायोग्यतापादनम् ; अतो न कर्मावबोधापेक्षोऽप्यथशब्दः ।
भवतु तर्हि संस्कारद्वारेण कर्मणां पूर्ववृत्तत्वम्? `यस्यैतेऽष्टाचत्वारिंशत्संस्काराः, अष्टौ चात्मगुणाः स ब्रह्मणः सायुज्यं गच्छती'ति `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरि'ति `ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतलप्रख्ये पश्यन्त्यात्मानमात्मनी'ति च स्मृतेः ; `विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति `येन केनचन यजेतापि दर्विहोमेनानुप-हतमना एव भवती'ति च श्रुतेः । वक्ष्यति च सूत्रकारः—'अत एवाश्रमकर्मापेक्षा' `सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदि'ति च । सत्यमेवम् ; यदि समानजन्मानुष्ठितमेव कर्म संस्कुर्वद् ब्रह्मजिज्ञासा-योग्यत्वहेतुः स्यात् । न च नैयोगिके फले कालनियमोऽस्ति । तेव पूर्वजन्मानुष्ठितकर्मसंस्कृतो धर्मजिज्ञासां तदनुष्ठानं चाप्रतिपद्यमान एव ब्रह्मजिज्ञासायां प्रवर्तते, इति न नियमेव तदपेक्षोऽथशब्दो युज्यते । एतेन —ऋणापाकरणद्वारेणापि नियमेन पूर्ववृत्तत्वम्— प्रत्युक्तम् ॥ तथाच श्रुति-स्मृती `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' `तस्याश्रमविकल्पमेके ब्रुवते' इति ॥ तस्मात् साधूक्तम्— धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ॥ अथापि स्यात् —न हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपितु क्रमप्रतिपत्त्यर्थम् ; यथा `हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः' इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेष-शेषिणोः शेषाणां च बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युप-जीविनां च भवति, नेतरथा । न हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदिमाह- - यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेषशेषित्वे(१)ऽधिकृताधिकारे वा प्रमाणाभावाद् धर्म-ब्रह्मजिज्ञासयोरिति ॥
अथापि स्यात् न हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपि तु क्रमप्रतिपत्त्यर्थम् ; यथा ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेषशेषिणोः शेषाणां च बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युपजीविनां च भवति, नेतरथा । न हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदमाह —
यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावाद् धर्मब्रह्मजिज्ञासयोरिति ॥
अथापि स्यात् , यथाऽऽग्नेयादीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्मब्रह्मजिज्ञासयोरप्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नियमार्थोऽथशब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रतिलक्षणमंशान्तरपरिशोधनया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशान्तरपरिशोधनेन लक्षणानां क्रम नियमः । एवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रमनियमार्थोऽथशब्द इत्याशङ्क्याह —
फलजिज्ञास्यभेदाच्च ॥
किं च
चोदनाप्रवृत्तिभेदाच्च ।
इदमपरं प्रमाणोपाधि प्रमेयवैलक्षण्यम् । धर्मचोदना हि प्रेरयन्ती पुरुषमसति विषये प्रेरयितुमसमर्था सती विषयमप्यवबोधयति । ब्रह्मप्रमाणं पुनर्बोधयत्येव केवलं नावबोधे पुरुषः प्रेर्यते । अवबोधो हि यथावस्तु यथाप्रमाणं चोदेति, न पुरुषस्येच्छामप्यनुवर्तते ।
उक्तं पुरस्ताद् अधिकारार्थत्वेऽथशब्दस्य शास्त्रारम्भवैयर्थ्यम् ; प्रवृत्त्यभावादिति, प्रवृत्त्यभावे च कारणमुक्तम् , अखिलसुखभोगाद्धिरण्यगर्भावाप्तिपर्यन्तान्निवर्तयति ब्रह्मजिज्ञासा क्रियमाणा, तेन तत उद्वेगो लोकस्य, कुतस्तत्र प्रवृत्तिरिति ? तस्माद् यावदस्य हिरण्यगर्भावाप्तिपर्यन्तस्य भोगस्योत्पादपरिच्छेदाभ्यां विनाशित्वादनित्यत्वं नावैति । विनश्यदपीदं कूटस्थनित्यवस्तुपर्यन्तमेव विनश्यति ; अन्यथा निरुपादानस्य पुनरुत्पत्त्यसम्भवः, इति वर्तमानस्याप्यसम्भवादभावोऽभविष्यदिति निरूपणाद् नित्यानित्यवस्तुविवेको यावन्न जायते । यावच्चाभिमुखविनाशदर्शनाद् भुञ्जानस्यापि भोगान् स्रक् - चन्दन - वस्त्रालङ्कार - भोगानिवाग्निप्रवेशार्थं भोगार्थव्यापारजनितदुःखानुभवाच्च तन्निमित्तां निर्वृतिमप्यलभमानो भोगाद् विरक्तः । ततो मुमुक्षुत्वं तत्साधनशमदमोपरमतितिक्षासमाधानसम्पन्नो भूत्वा यावन्नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत ? कथञ्चिद् वा दैववशात् कुतूहलाद्वा बहुश्रुतत्वबुद्ध्या वा प्रवृत्तोऽपि न निर्विचिकित्सं ब्रह्म आत्मत्वेनावगन्तुं शक्नोति ; यथोक्तसाधनसम्पत्तिविरहात् , अनन्तर्मुखचेता बहिरेवाभिनिविशमानः । तस्माद् वर्णितवस्तुकलापानन्तर्यमभिप्रेत्याथशब्दं प्रयुक्तवानाचार्यः । तदाह भाष्यकारः —
तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये । तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यत इति ॥
अतःशब्दो हेत्वर्थ इति ॥
स्यादेतत् , कृतकत्वपरिच्छेदौ नैकान्ततः क्षयिष्णुतां गमयतः ; परमाणुषु पाकजलोहितस्य कृतकस्य, तेषां च परिच्छिन्नानां नित्यत्वाभ्युगमात् , वेदेऽपि ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ ‘अपाम सोमममृता अभूमे’त्यादिपुण्यफलस्याक्षयित्वश्रवणात् , अतो विषयभोगाद् न नियमेन विरागो विवेकिनामपि । नापि कूटस्थनित्यवस्त्ववष्टम्भेन मुमुक्षुत्वम् । ततश्च न शमदमादिपरिग्रहः, यतो न तादात्म्यं भोक्तुः सम्भाव्यते । नापि तदवाप्तिः ; दुःखाभावेऽपि सुखभोगाभावान्नानवद्यः पुरुषार्थः । अतोऽजीर्णभयान्नाहारपरित्यागः, भिक्षुभयान्न स्थाल्या अनधिश्रयणं दोषेषु प्रतिविधातव्यमिति न्यायः । अतो न तस्य ब्रह्मजिज्ञासायां हेतुत्वमित्यतस्तस्य हेतुत्वप्रदर्शनार्थोऽतःशब्दः । कथम् ?
अत उपसंहरति —
तस्माद्यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्येति ॥
यतः परिपूर्णो हेतुरनन्तरमवश्यं कार्यमारभते, अतः कर्तव्येत्यावश्यकतामाह भाष्यकारः । यतो द्वैतानुषङ्गादतितरामुद्विजमानेन ब्रह्मात्मत्वं च हस्तप्राप्तमिव मन्यमानेन प्रवर्तितव्यमेव ब्रह्मजिज्ञासायाम् ; प्रदीप्तशिरसेव जलराशौ, स्पृशतेव च सुस्वादु फलमङ्गुल्यग्रेणाग्रपादस्थेन । एवं सत्यर्थाद् धर्मजिज्ञासाया नियमेन पूर्ववृत्तत्वमथशब्देन पूर्वोक्तेन न्यायेन निराक्रियते ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति ॥
अन्तर्णीतविचारार्थान्वये हि चतुर्थीसमासः स्यात् , न शब्दाभिधेय इत्यवयवार्थमङ्गीकृत्य षष्ठीसमासो दर्शितः ॥
ब्रह्मशब्दस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देक्ष्यतीति कथयति —
ब्रह्म च वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति ॥
तत्र यदन्यैर्वृत्तिकारैर्ब्रह्मशब्दस्यार्थान्तरमाशङ्क्य निरस्यते । न खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्यक्षसिद्धत्वाद् जिज्ञास्यत्वाभावात् , नापि तत्कर्तृका जिज्ञासा ; त्रैवर्णिकाधिकारात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशेषणानर्थक्यात् , कर्मत्वे नित्यसिद्धत्वात् , न शब्दराशेर्ग्रहणम् ; तस्य धर्मजिज्ञासौत्पत्तिकसूत्राभ्यामर्थवत्त्वप्रमाणत्वयोर्निरूपितत्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्मजिज्ञासोपदेशात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि न कर्तव्यमित्याह —
अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति ॥
ब्रह्मण इति कर्मणि षष्ठी ॥
अथापि स्यात् अन्यत् जिज्ञास्यमिति, तदर्थमाह —
जिज्ञास्यान्तरानिर्देशाच्चेति ॥
ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं न भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो न विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह —
न व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति ॥
यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञानेनाप्तुमिष्टतमम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना न सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, न पृथगभिधानेन कृत्यमस्ति । यथा ‘राजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं न सम्पद्यते, तावतो गमनमाक्षिप्तमिति न पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्मज्ञानपरिपूर्णतार्थमर्थादेव जिज्ञास्यत्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्रप्रवृत्तिरेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्रमारब्धव्यम् । ‘पुण्यचितो लोकः क्षीयते’(छा. उ. ८-१-६) इत्यादिश्रुतेर्न्यायतश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्य ‘ब्रह्मविदाप्नोति परमि’त्यादिश्रुतेर्ब्रह्मज्ञानात्पुरुषार्थसिद्धिः परेति । अतस्तज्ज्ञातुमिच्छतः श्रुत्या ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१)‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्येवमाद्यया तत्प्रतिपादनपूर्वकं ‘तद्विजिज्ञासस्व’(तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेयत्वेनानुशासनं यत् , तदिदम् — ‘अथातो ब्रह्मजिज्ञासे’ति सूचितम् । तेन कर्मषष्ठीपरिग्रहे श्रुतिन्यायसूचनपरं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्याननुगतमसम्बद्धं स्यात् । तदाह — श्रुत्यनुगमाच्चेति वस्तुसङ्ग्रहवाक्यम् । तत्प्रपञ्चः —
‘यतो वा इमानि भूतानि जायन्ते’ इत्याद्याश्च श्रुतयः ‘तद्विजिज्ञासस्व तद् ब्रह्मेति’(तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी ॥
ज्ञातुमिच्छा जिज्ञासेति जिज्ञासापदस्यावयवार्थं कथयतीच्छाप्रदर्शनार्थम् । ततश्चेच्छायाः फलविषयत्वात् तज्ज्ञानस्यापवर्गपर्यन्तता सूचिता भवति । तदाह —
अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म ; फलविषयत्वादिच्छाया इति ॥
अवगतिरिति साक्षादनुभव उच्यते । ज्ञानन्तु परोक्षेऽनुभवानारूढेऽपि सम्भवति । सन्निहितेऽप्यसम्भावितविषयेऽनवसितरूपमित्युक्तं पुरस्तात् ; तदाह —
तदेतच्छास्त्रान्तर्भूतं सूत्रम् । अनेन च प्रयोज्यसम्बन्धिनोर्जिज्ञासामुमुक्षाक्रिययोरेकस्याः कारणान्तरसिद्धायाः पूर्ववृत्ततया हेतुत्वमर्थादुपात्तमितरस्यास्तदनन्तरं तत्प्रयुक्तायाः कर्तव्यता श्रुत्याऽभिहिता । तत्र जानात्येवासौ मयैतत् कर्तव्यमिति, उपायन्तु न वेद । ततस्तस्योपायः कथनीयः । शास्त्रस्य च सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ; इतरथा प्रेक्षारहितमिव सर्वमापद्येत । अतोऽनेनैव सूत्रेणेदमपि सर्वं सूचितमिति कथयितुमाह —
तस्माद् ब्रह्म जिज्ञासितव्यमिति ॥
अन्तर्णीत विचारार्थविधेयत्वाङ्गीकारेण मीमांसितव्यमित्यर्थः । एतदुक्तं भवति — ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यम् ; यस्माद् ब्रह्मज्ञानमनेन शास्त्रेण निरूप्यते । तेन प्रयोज्यस्याभिमतोपायः शास्त्रम् , इत्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवति ॥