पञ्चपादिका
४ परिच्छेदः
अथ तुरीयं वर्णकम्
अस्ति तावद् ब्रह्म इत्यादिना
त्रितयमपि समाधत्ते श्रोतृप्रवृत्त्यर्थम् । ननु प्रेक्षावताऽविसंवादकेन प्रणीतं शास्त्रम् । नेदृशो निष्प्रयोजनं निर्विषयमसम्बद्धं चारभते, इति तद्गौरवादेव प्रवर्तन्ते श्रोतारः ; किमनेन प्रयासेन ? सत्यं भवति सामान्येन प्रयोजनवत्त्वप्रतीतिः प्रणेतृगौरवात् , न तु तावन्मात्रेण प्रवृत्तिः । अभिप्रेतप्रयोजनाय हि प्रवर्तन्ते, न तत् निर्देशादृते शक्यतेऽवगन्तुम् । एवमपि प्रयोजनविशेष एव निर्दिश्यताम् । न च विषयभावमनापन्नमशक्यप्रतिपादनं च प्रयोजनं भवति, छिदिक्रियाविषय एव वृक्षश्छिन्नः प्रयोजनमित्युच्यते, दण्डादेरपि मृद्विषयस्य मृदेव घटावस्था प्रयोजनं, सत्यमेवम् ; तथाऽपि यथा चिकित्साज्ञानस्य चरकसुश्रुतात्रेयप्रभृतीनि बहूनि, यथा वा तण्डुलनिष्पत्तिप्रयोजना अवघातनखनिर्भेददलनक्रिया बह्व्यः, तत्र नावश्यमेकत्रैव प्रवृत्तिः, तथेहाप्यन्यस्मादपि कथञ्चिद् ब्रह्मावगतिसिद्धौ नावश्यमत्रैव प्रवृत्तिः ; अतोऽनन्यसाधारणो विषयो वक्तव्यः, यथाऽर्जुनस्यायं विषय इत्यनन्यसाधारणता प्रतीयते । तेनानन्यसाधारणत्वाय विषयो निर्देश्यः प्रवृत्त्यङ्गत्वेन । सम्बन्धोऽपि वक्तव्यः प्रवृत्त्यङ्गत्वेनैव । यथा साधुशब्दपरिज्ञानं व्याकरणारम्भात् प्राक् न केनचित्साध्यते, तेन न केनचित् सम्बद्धम् ; अतस्तदर्थी न क्वचित् प्रवर्तते, यथा वौदननिष्पत्तिरेकक्रिया नियताऽपि न गमनाद्येकक्रियासाध्या, तेन न तया सम्बन्धः । ततश्च न गमनादिक्रियायामोदनार्थी प्रवर्तते, तेन पुरुषार्थरूपताऽनन्यसिद्धता तत्प्रतिपाद्यता चेति भिद्यन्ते विषयसम्बन्धप्रयोजनानि । तानि च त्रीण्यपि प्रवृत्त्यङ्गम् ; नापुरुषार्थे काकदन्तपरीक्षायां तुषकण्डने वा प्रवर्तते प्रेक्षावान् । नापि पुरुषार्थे चिकित्साज्ञाने सुश्रुतादिसिद्धे, चरके नियमेन प्रवर्तते । नापि तण्डुलेषु दलनसिद्धेष्ववघाते । नाप्यनन्यसिद्धेऽपि साधुशब्दपरिज्ञाने पुरुषार्थे, अतत्साधने वैद्यकादौ कश्चित् प्रवर्तते, गमने वाऽनोदनसाधने । तत्र विप्रतिपत्त्यैकान्ततः प्रसिद्धतामप्रसिद्धतां च निरस्य शक्यप्रतिपाद्यमानतामनन्यसिद्धतां च दर्शयन् विषयसम्बन्धौ समर्थितवान् ,
ननु ब्रह्म वेदान्तानां विषयः, शास्त्रं च तेषां ब्रह्मप्रतिपादनानुसरणोपायन्यायविषयं, तत् कथं शास्त्रस्य विषयसम्बन्धौ भवतः ? प्रयोजनन्तु कदाचित् स्यादपि प्रणाड्या धर्मार्थविषययोरिव शास्त्रयोः कामावाप्तिः । ननु आग्नेयादीनां स्वर्गफलानां प्रयाजादीतिकर्तव्यतावत् वेदान्तानामप्यर्थमवबोधयतामितिकर्तव्यता मीमांसा, तेनार्थावबोधे वेदान्तानामुपकारकत्वाद् भवति शास्त्रमपि तद्विषयम् । न हि शालिबीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम् । तेन यद्यपि वेदान्ता एव ब्रह्मावबोधे कारणं, मीमांसा चेतिकर्तव्यताभागं पूरयति ; तथाऽपि ब्रह्मविषयैव । न हि छेत्तुरुद्यमननिपातनलक्षणो व्यापारः परशुविषयो न वृक्षविषयः ; तदर्थत्वात् , करणस्य च द्वारत्वात् ; अन्यथाऽन्यत्र कर्तृव्यापारोऽन्यत्र फलमिति वैयधिकरण्यं स्यात् , उच्यते — विषय उपन्यासः ; युक्तं यत्र यदुपकारमन्तरेण फलोत्पत्तिरेव न सिध्यति, तस्यापि तद्विषयत्वम् , इह पुनर्विनाऽपि मीमांसया सम्बन्धग्रहणतदनुस्मरणबुद्धिसन्निधानमात्रोपकृतं वाक्यमर्थमवगमयति, नापरमपेक्षते । ननु संशयविपर्यासनिरासद्वारेण निर्णयहेतुत्वान्निर्णयस्य च निर्णेयप्रधानत्वाद्भवति निर्णेयं वस्तु निर्णयहेतोर्विषयः, नैतत्सारम् ; यत्र ह्यनेकं विज्ञानं वाक्यश्रवणे सति जायते मीमांसानिरपेक्षमेव, तत्रैकं वाक्यजन्यम् ; एकार्थनियतत्वादेकस्मिन् प्रयोगे वाक्यस्य, इतराणि पुनः सामान्यतोदृष्टनिबन्धनानि । तत्र मीमांसया लोकप्रसिद्धशब्दशक्त्यनुसारिण्येदं शब्दजनितं ज्ञानमिति तदालम्बनं वेदार्थ इति ज्ञात्वाऽन्यदुपेक्षते, न पुनर्निर्णयज्ञानोत्पत्तौ व्यापारः शास्त्रस्य । यथा चक्षुः कुतश्चिन्निमित्तात्सम्प्रयुक्तेऽपि स्थाणुः पुरुषो वेति संशयात्मकं पुरुष एवेति वा विपर्ययस्वरूपं ज्ञानमुत्पाद्य पुनर्निमित्तान्तरानुगृहीतं सन्निर्णयात्मकं सम्यग्रूपं ज्ञानमुत्पादयति, नैवं शब्दो मीमांसायाः प्राक् संशयितं विपर्यस्तं वा ज्ञानमुत्पाद्य पुनस्तदनुमहान्निर्णयात्मकं सम्यग्ज्ञानं वा जनयति ; किन्तु प्रागेव मीमांसानुग्रहात् स्वसामर्थ्यजन्यं ज्ञानमजीजनदेव । तस्मान्न ब्रह्मविषयं शास्त्रम् , अत्रोच्यते — यद्यपि वाक्यार्थज्ञानं शास्त्रानुग्रहात्प्रागेवोदेति ; तथाऽपि स्वोत्पत्तिसमकालसमुत्थेन तत्र सामान्यतोदृष्टनिबन्धनेनार्थान्तरनिवेशिना समकक्षाभिमतेन ज्ञानेन विरोधादुन्मज्जननिमज्जनमिवानुभवदस्यामवस्थायां संशयज्ञानकोटिनिक्षिप्तं सत् मीमांसया शब्दशक्त्यनुसरणे सति प्रतिपक्षज्ञानस्यानुत्पत्तौ निमज्जनाभावान्निश्चलं निर्णयज्ञानमिव जातमिति लक्षणया मीमांसया निर्णयः क्रियत इत्युच्यते, न पुनः साक्षान्निर्णयज्ञानहेतुत्वात् । तदेवं लक्षणया वेदान्तानां ब्रह्मविषयाणां सहकारिकारणं मीमांसा इति ब्रह्मज्ञानविषयं शास्त्रमभिधीयते । तच्चेदं त्रयमप्यवश्यं वक्तव्यं प्रयोजनं विषयः सम्बन्धश्च शास्त्रादौ श्रोतुः प्रवृत्त्यङ्गत्वेन । यद्यपि प्रणेतृगौरवादेव सप्रयोजनत्वं शास्त्रस्य ; तथाऽपि न प्रयोजनविशेषसिद्धिस्तत्प्रत्ययमात्रेण निर्देशादृते । तस्मात्तन्निर्देश्यम् । निर्दिष्टेऽपि तस्मिंस्तस्याशक्यप्रतिपादनतां मन्वानो विहतश्रद्धत्वान्न प्रवर्तेतेति साध्यो निर्देश्यः । शक्यप्रतिपादनप्रतिपत्तावप्यन्यतः सिद्धेऽर्थे निर्दिष्टे नैव प्रवृत्तिरित्यनन्यसाध्योऽपि निर्देश्यः । तदेतत् त्रयमेकत्र समवेतं विभक्तं चोपलभ्यत इत्यलमतिविस्तरेण ॥
‘अस्ति तावद् ब्रह्मे’त्यादिना प्रसिद्धत्वप्रदर्शनेनाप्रसिद्धतां निराकुर्वञ्छक्यप्रतिपाद्यतया सम्बन्धं समर्थितवान् । कथम् ? ब्रह्मशब्दस्तावज्जातिजीवकमलासनशब्दराशीनां नान्यतमाभिप्रायेण सूत्रे प्रयुक्तः ; अनुपपत्तेरित्युक्तम् ; अतो नूनमन्यदेव किञ्चिदभिधेयमभिप्रेत्यायं प्रयुक्त इति गम्यते । तेन स्वर्गापूर्वदेवताद्यर्थवत्पदप्रयोगादेव कश्चिदर्थोऽस्तीत्यवसीयते । नैतत्सारम् ; न हि पदं चक्षुरादिवदप्रतीतपूर्व एवार्थे झटिति विज्ञानं जनयति, येनापूर्वमन्यतोऽसिद्धमर्थं पदप्रयोगादेव प्रतीमः ; स्वर्गाद्यर्थोऽपि नैव पदप्रयोगादेव सिद्धः, अत्रोच्यते — यस्मिन् वाक्य एकं पदं मुक्त्वेतरेषां पदानामर्थः प्रसिद्धः, स किमेकपदार्थानवगमापराधेन त्यज्यताम् ? उत बहुपदार्थप्रसिद्धिबलेनाप्रसिद्धोऽपि कथञ्चिदगम्येतेति ? तत्र निगमनिरुक्तव्याकरणानामेवंरूपपदार्थानुगमहेतूनां विद्यमानत्वात् तद्बलेनार्थमनुगम्य वाक्यार्थावगतिर्युक्ता, न पुनरेकाप्रसिध्या प्रसिद्धपदार्थसंसर्गस्त्यक्तुं युक्तः । न हि प्रसिद्धिरप्रसिध्या त्यज्यते ; प्रसिद्धिबलेनाप्रसिद्धमपि कल्प्यत इति न्यायात् । ननु निगमादिवशेनार्थानुगमे सर्वत्रैव कथञ्चिदर्थान्वयस्यानुगन्तुं शक्यत्वादव्यवस्थितः पदार्थः स्यात् ; ततश्च वाक्यार्थो नावधार्येत, न तर्हि निगमादीनामर्थवत्ता । भवत्यर्थवत्ता, यत्र स्वार्थादन्यत्रापि विनियोगात् प्रयोगस्तत्र कथमभिदध्यात् ? इत्यपेक्षायां तद्गतस्यैवावयवार्थान्वयलेशस्यानुगमात् । एवं तर्हि, एकार्थनियमाय प्रयोगपरतन्त्रता मृग्यते, तदन्तरेणापि प्रयोगमेकार्थनियम एव कथञ्चिन्निगमादिव्याप्रियेतेति न कश्चिद् दोषः । तदत्र ब्रह्मशब्दे व्युत्पाद्यमाने बृंहतेर्धातोर्वृद्धिकर्मणोऽर्थानुगमात् , प्रयोगानुगमे चासति विशिष्टार्थविषयस्यापेक्षिकमहत्त्वस्यापरिग्रहात् सर्वतो निरवग्रहमहत्त्वसम्पन्नं वस्तु वाक्यार्थान्वयि ब्रह्मपदादनुगम्यते । ततश्च कालकृतावच्छेदनिमित्तस्याल्पत्वस्याभावात् सदा सत्त्वान्नित्यं किञ्चिद्वस्तु ब्रह्मपदात् प्रतीयते । तथा रूपान्तरसद्भावे तद्रूपविकलत्वात् तदवच्छेदकृतमल्पत्वं स्यात् , तच्च ब्रह्मपदादेवापास्यते । तस्मादेकरसमद्वैतं वस्तु ब्रह्मपदात् प्रतीयते । एतेन देशकृतोऽपि परिच्छेदो निराकृतोवेदितव्यः ॥ वस्त्वन्तरसद्भावे हि तदपेक्षयैतावति सद्भावः, नातः परमस्ति, इति स्यात् एतस्माद् व्यावृत्त इति, तदभावे न परिच्छिन्नबुद्धिर्भवति । बुद्धत्वं च बृहत्यर्थान्वयादेव कथम् ? अबोधात्मकं हि वस्तु भोग्यम् , अतो भोक्तारं प्रति शेषत्वान्निकृष्टम् । चेतनः पुनर्न कस्यचिद्गुणभावमेति । तेनोत्कृष्टं सर्वस्माद् बुद्धस्वरूपं किञ्चित् , इति बृहत्त्यर्थान्वयमेवानुसृत्य गम्यते । ’मुक्तमिति’ चाविद्याकामकर्मपरतन्त्रस्तैरितश्चामुतश्च पशुवन्नीयमानो निकृष्टो भवति । ब्रह्मशब्दस्तु स्वार्थप्रक्षेपेण वाच्यं किञ्चिद्गमयन् सदैवाविद्यादिसंसारबीजानाकलिततया तस्योत्कृष्टमहत्त्वमावेदयति । ‘सर्वज्ञं सर्वशक्तिसमन्वितं च तदि’ति ब्रह्मशब्दादेवावगम्यते । कथम् ? यदि किञ्चिदविदितं तेन, कुतश्चिद्वा कार्याद् व्यावर्तते शक्तिः, आपेक्षिकस्तदोत्कर्षः स्यात् । न तद्युक्तमन्यतोऽसिद्धस्य वस्तुनः पदप्रयोगादेव प्रतिपत्तौ । सिद्धे हि वस्तुनि प्रयोगे तस्य यथासिद्धमेव महत्त्वं निरुच्यते ।
शब्दादेव तदर्थान्वयप्रतीतौ निरङ्कुश एवार्थोऽभ्युपेतव्यः । एवं च बृंहतेरर्थः परिपूर्णो भवति, यदि सर्वमस्य साक्षादेव संविद्गोचरे वशे च वर्तेत, तदेतदाह —
अस्ति तावद् ब्रह्म नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृंहतेर्धातोरर्थानुगमादिति ॥
ननु एवमपि व्युत्पत्त्यनुसरणेन भवत्येवमात्मके वस्तुनि प्रतीतिः, न पुनरेतावता तस्य सिद्धिः, पदमात्रस्याप्रमाणत्वात् , सत्यमेवम् ; अत एव जिज्ञासा धर्मस्येव लोकाख्यप्रमाणाभाससिद्धस्य । इदमपरं ब्रह्मशब्दार्थस्य सिद्धत्वे कारणमुच्यते साध्यत्वसिध्यर्थम् —
सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिरिति ॥
यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा च ब्रह्मेति ॥
कथं पुनरात्मा ब्रह्म ? वेदान्तेष्वात्मनि ब्रह्मशब्दप्रयोगात् । आत्मानमेव च लोकः अहमिति व्यपदिशति । तदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्रसिद्धिशङ्का ॥
यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति
विषयमाक्षिपति । असिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु न पुनः साध्यते, इति न शास्त्रस्य विषयः ॥
सत्यमहमित्यात्मनि प्रत्ययः, आत्मा च ब्रह्म, किन्तु तस्मिन्नेव विप्रतिपत्तयः अयमसौ, अयमसाविति । ताश्च वस्तुतो ब्रह्मपदार्थविषया एव ; तदेकार्थत्वाद् ब्रह्मशब्दस्य । ततः सामान्यतः प्रसिद्धमपि विशेषतोऽसिद्धेरसिद्धकल्पमेव, इति भवत्यस्य विशेषसिद्धिहेतोर्विषयः ; सामान्यतः सिद्धत्वाच्च शक्यते विशेषतः प्रतिपादयितुम् , इति भवति तस्य शास्त्रं साधनम् , इति सम्बन्धोऽपि समर्थितः । विप्रतिपत्तिं दर्शयति —
देहमात्रमित्यादि ॥
एवम् इन्द्रियाण्येव चेतनान्यात्मेत्यपरे ॥
इन्द्रियाणां चक्षुरादिमनःपर्यन्तानामेकैकस्मिन्नसत्यपि शरीरे रूपादिज्ञानानामभावात् तेषामेव व्यस्तानां चेतनत्वमहंप्रत्ययविषयत्वं च मन्यन्ते, क्रमेण वरगोष्ठीवदितरेतरगुणभावम् । तथा चेन्द्रियधर्मसामानाधिकरण्यमहंप्रत्ययस्य दृश्यते ‘काणोऽहं मूकोऽहमि’त्यादि ॥
विज्ञानमात्रं क्षणिकमित्येक इति
मात्रग्रहणेन नाहमित्याकारादिवर्णत्रयातिरिक्तं किञ्चिदवभासते, यदहंप्रत्ययस्य विषयः कल्प्येत । तेन विज्ञानमेव स्वरसभङ्गुरमविरतोदयमखिललोकयात्रानिलयमनुभवभग्नपक्षान्तरमहमित्युत्पद्यत इत्यन्ये मन्यन्ते ॥
शून्यमित्यपर इति ॥
सुषुप्ते विज्ञानलेशस्याप्यभावादकस्मादेवाहमिति समुदयदर्शनादकारणस्य कादाचित्कस्य परमार्थवस्तुत्वाभावादसदवभास एवाहङ्कार इत्यपरे सङ्गिरन्ते ॥
अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपर इति ॥
अहमुल्लेखशून्यस्य भोक्तृत्वस्यादर्शनात् , तस्य च प्रत्यभिज्ञानात् स्थिरत्वसिद्धेः, स्थिरस्य चावधिहेत्वनुपलब्धेर्नित्यत्वम् । निर्विकारस्य च भोगासम्भवात् , विकारस्य च क्रियाफलत्वात् , क्रियावेशात्मकत्वाच्च कर्तृत्वस्य, एवमात्मकत्वाच्च संसारित्वस्य, देहादेश्च बुद्धिपर्यन्तस्य भोक्तृत्वानुपपत्तेः, तद्व्यतिरिक्तः संसारी कर्ता भोक्ताऽहंप्रत्ययविषय इत्यपरे प्रतिजानते । कथं पुनस्तद्व्यतिरिक्तत्वं मन्यन्ते । तस्य भोक्तृत्वानुपपत्तेरित्युक्तम् ॥
कथं तस्य भोक्तृत्वानुपपत्तिरिति ? उच्यते — भूतसङ्घातस्तावत् शरीरम् । तत्र व्यस्तानां समस्तानां वा युगपत् क्रमेण वा भोगः परिकल्प्येत, सर्वथाप्यसम्भवः । यदि तावत् व्यस्तानां युगपत् परिकल्प्येत, ततः स्वार्थप्रयुक्तत्वात् प्रवृत्तेरङ्गाङ्गिभावो नावकल्पेत । न चाङ्गाङ्गिभावमन्तरेण सङ्घात उपपद्यते । तस्मान्न व्यस्तेषु युगपद् भोगः । अस्ति तर्हि क्रमेण विरोधाद्वरगोष्ठीवदिति, नैतदेवं युक्तम् ; तत्र भोग्यस्यासाधारणत्वात् , असाधारणत्वञ्च प्रतिपुरुषनियमात् , इह पुनर्विपरीतम् ; बहूनां सन्निधौ साधारणे च भोग्ये प्रतिनियतभोगव्यवस्थाहेत्वसम्भवात् । अस्तु तर्हि समूहस्य ; तिलज्वालावच्चेतनासमन्वयोपपत्तेः, मा भूत् प्रत्येकं युगपत् क्रमेण वा, नैतदेवम् ; भोगेषु समूहासम्भवात् । कथमसम्भवः ? भोक्तुर्भोगं प्रति प्राधान्यात् । ननु भोगेऽपि समूहो दृष्टः, यथा स्त्रीपुंसयोः, नैतत् सारम् ; सन्दिग्धत्वात् , समूहस्य ? उत तद्व्यतिरिक्तस्येति । तिलज्वालायान्तु विपरीतम् ; समूहकार्ये समूहिनां गुणभावोपपत्तेः । अस्त्वेकस्य तर्हि नियतो भोगः, न ; तत्रापि कस्यैकस्येत्यनवधारणात् । किमवधारणेन ? विनाऽपि तेन विवक्षितार्थोपपत्तेः ? यद्येवं, समेषु केषाञ्चिद्गुणभावानुपपत्तेरयुक्तः कार्यात्मकेषु । एवं कारणात्मकेष्वपि समानश्चर्चः ; भूतस्वाभाव्याविशेषात् । तथोभयात्मके समूहे । तस्माद् देहादिव्यतिरिक्तमहंप्रत्ययविषयं मन्यन्ते ॥
भोक्तैव केवलं न कर्तेत्येक इति ॥
पूर्वोक्तस्यैव देहादिव्यतिरिक्तस्य कर्तृत्वमतत्स्वभावं मन्वाना भोक्तैव केवलोऽहंप्रत्ययविषय इत्येके प्रस्थिताः । करोमि, जानामि, भुञ्जे चेति न सर्वदाऽहंप्रत्ययेनानुषङ्गः, तेन नायं तद्विषयः । यदि स्यात् , न तदुल्लेखविकल उदियात् । ननु भोक्तापि तर्हि नासौ ; तदुल्लेखाभावात् , नैतदेवम् ; अहमिति चेतनत्वसमुल्लेखात् , तदर्थत्वात्सर्वस्य, तदात्मकमेव भोक्तृत्वम् , इति भोक्तैव केवलमिति युक्तं मन्यन्ते ।
आत्मा स भोक्तुरित्यपर इति ॥
योऽयमहमित्युल्लिख्यमानश्चेतनो भोक्ता, स ब्रह्मेति कैश्चित्प्रतिपन्नः, तस्याहंप्रत्ययसिद्धो भोक्तृत्वावभासः । स मिथ्यैवानिर्वचनीयानाद्यविद्याविलसितः । परमार्थतस्तु यः सर्वज्ञ ईश्वरोऽहंप्रत्ययेऽनन्तर्भूतः प्रमाणान्तरानवसितः, सोऽस्यात्मा स्वरूपम् । एवमसौ बृंहत्यर्थान्वयाद् ब्रह्मशब्दाभिधानीयतां लभते ; इतरथा तद्रूपविकलस्य न निरङ्कुशं बृहत्त्वम् , इति न ब्रह्मशब्दाभिधेयः स्यात् ।
तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थञ्चेयादिति ॥
तत्रैवं स्थिते मुमुक्षुर्ब्रह्मज्ञानेन परं निःश्रेयसमाप्तुकामोऽविचार्य एतच्छास्त्रमश्रुत्वा प्रवर्तमानोऽन्त्यपक्षादर्वाचीनं कञ्चित् पक्षं परिगृह्णीयात् , तदा मोक्षस्य सम्यग् ज्ञानफलत्वात् , तस्य चातथाभावान्निःश्रेयसात् प्रतिहन्येत मोक्षफलं न प्राप्नुयात् । अनर्थञ्च प्रतिपद्येत ; ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः’ इति श्रुतेः । अनात्मदर्शनेनात्मनोऽसत्कल्पत्वापादनमात्महननम् । एवंरूपस्यात्महननस्य कृतत्वात् , अन्यथाऽऽत्मनो हननासम्भवात् , प्राणत्यागस्य प्रकृतानुपयोगादिति ॥
तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयत इति ॥
ब्रह्मजिज्ञासोपन्यासव्याजेन जिज्ञासापदेनान्तर्णीतमीमांसावेदान्तवाक्यानामारभ्यते । अथवा ब्रह्मज्ञाने कर्तव्यतयोपदिष्टे तज्ज्ञानाय प्रवृत्तेभ्योऽर्थादेव तत्प्रतिपादनं प्रतिज्ञातम् , इति तदर्थं वेदान्तमीमांसाऽऽरभ्यते ।