अद्वैतशारदा

पञ्चपादिका

५ परिच्छेदः

व्याख्याः

अथ पञ्चमं वर्णकम्

युक्तिरपि लक्ष­ण­नि­र्ण­येऽ­र्थात् सूत्रितैव ।
जन्म उत्पत्तिः आदिरस्येति तद्गु­ण­सं­वि­ज्ञानो बहुव्रीहिरिति

अस्य जगतः
इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।

मन­साऽ­प्य­चि­न्त्य­र­च­ना­रू­प­स्येति ॥
न ह्यर्वाग्दर्शी क्वचि­द्ब­हि­र्लो­क­स­न्नि­वे­श­प्र­का­र­म­ध्यात्मं च प्रति­नि­य­ता­र्थ­क्रि­या­स­म­र्था­व­य­व­शि­रा­जा­ल­स­न्नि­वेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम् ॥

ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति न सङ्गृह्यन्ते ? इत्याशङ्क्याह —
अन्येषामपीति ॥
न क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्य­नि­र्वृ­त्त­ज­न्म­नोऽ­स्थित स्वभावस्य विनाशः । अत­स्त्रि­ष्वे­वा­न्त­र्भा­वान्न पृथ­गु­प­न्या­स­स्ते­षाम् ।

ननु श्रुति­नि­र्दि­ष्ट­ग्र­हणे सूत्रमर्थशून्यं स्यात् ; न हीमां पृथिवीं जायमानां पश्यामः, नापो न तेजः, कथं सिद्ध­व­ल्ल­क्ष­ण­त्वो­नो­पा­दी­ये­तेति ? उच्यते, तेज­स­स्ता­व­द­र­णि­नि­र्म­थ­ना­दिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्र­का­न्ता­दिषु जन्म, क्रमेण च शोषः । पृथिव्या अप्य­व­य­व­सं­यो­ग­वि­भा­ग­द­र्श­नात् तन्निमित्तौ जन्म­वि­ना­शा­व­नु­मी­येते । दृश्येत चाद्याऽ­प्य­व­य­व­सं­यो­ग­वि­भा­ग­कृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वा­का­श­का­ल­दि­शा­मपि ‘यावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।
न यथो­क्त­वि­शे­ष­ण­स्ये­त्या­दिना
भाष्येण युक्तिरपि ब्रह्म­स्व­रू­प­नि­र्ण­या­या­ने­नैव सूत्रेण तन्त्रे­णा­वृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।

अचे­त­ना­त्ता­व­द­चे­त­न­त्वा­दे­वा­नु­प­प­न्नम् । चेतनादपि ; परि­च्छि­न्न­ज्ञा­न­क्रि­या­श­क्ति­त्वात् । अभावात् पुन­र्ना­चे­त­न­त्वा­देव केव­ला­द­नु­प­पत्तिः, अपि तु निरु­पा­ख्य­त्वा­द­ती­त­क­ल्प­सं­स्का­रा­भा­वात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति न क्वचित् कश्चि­न्नि­य­मोऽ­भ­वि­ष्यत् ।

एतदेवानुमानमिति ॥
येयं युक्तिरभिहिता यथो­क्त­वि­शे­ष­ण­मी­श्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वत­न्त्र­म­नु­मा­न­मी­श्व­र­सिद्धौ सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्व­सिद्धौ च तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।

जन्मा­दि­सू­त्र­ल­क्षि­ता­न्यपि वाक्यानि ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्यादीनि परा­र्था­नु­मा­न­वा­क्य­स­मानि दृश्यन्त इति वदन्तः ।

सम­न्व­य­सू­त्र­प्र­मु­खो­पात्तैः शब्द­श­क्त्य­नु­सा­रि­भि­र्न्या­यै­र्वा­क्यानां ब्रह्मणि तात्प­र्या­ध्य­व­सा­न­नि­र्वृत्ता ब्रह्मावगतिः ।
नानु­मा­ना­दि­प्र­मा­णा­न्त­र­नि­र्वृत्ता । सत्सु तु वेदान्तवाक्येषु तद­वि­रो­ध्य­नु­मा­न­मपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्क­स्या­प्य­भ्यु­पे­त­त्वात् ॥ तथा हि ‘श्रोतव्यो मन्तव्यः’ इति ।
श्रुत्या यथा श्रवणं ब्रह्मा­व­ग­ति­हे­तु­र­नू­द्यते, तथा मननस्यापि सिद्ध­व­द­नू­द्य­मा­न­त्वात् । तथाऽपरा श्रुतिः ‘पण्डितो मेधावी’त्यादिः ‘आचार्यवान् पुरुषो वेदे’ति पुरु­ष­बु­द्धि­सा­हा­य्य­मा­त्मनो दर्शयति । यदाचार्येण श्रुत्यनुसारिणा स्फटि­का­दि­नि­द­र्श­नेन शिष्येभ्यः प्रत्य­य­दा­र्ढ्या­पा­दनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते ।

न त एव ब्रह्मणि प्रमाणं, किन्त्व­नु­भ­वा­द­योऽपि । तत्र हेतुमाह —
अनु­भ­वा­व­सा­न­त्वाद् भूत­व­स्तु­वि­ष­य­त्वाच्च ब्रह्म­ज्ञा­न­स्येति ॥
सिद्धे वस्तुनि सम्भवत्यनुभवः, तदवसाना आकाङ्क्षा निवृत्तिर्यतः ।

अपरः परिचोदयति —
ननु भूतवस्तुविषयत्व इत्यादिना ॥
अयमभिप्रायः — भूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेद­वा­क्यै­र्वि­चा­रितैः ? यथा­हु­री­श्व­र­का­र­णिनः, तथा भवतु पूर्वसूत्रेण प्रति­ज्ञा­नि­र्दे­शोऽ­नेन च हेत्वभिधानमिति ।

नन्वेवं सति कथं युक्ति­र­ब्र­ह्म­वि­षया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदा­दि­दृ­ष्टा­न्ते­र्यु­क्तस्य उपन्यस्यन्ते । ताश्च विधि­प्र­ति­षे­ध­वा­क्ययोः प्रव­र्त­क­त्व­नि­व­र्त­क­त्वा­का­ङ्क्षि­त­स्तु­ति­नि­न्दा­र्थ­वा­द­वत् स्वरूपवाक्यस्य फल­प­र्य­न्ता­पे­क्षि­त­स­म्भा­व­ना­र्थ­वा­दतां प्रति­प­द्य­मा­ना­स्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।
किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति ॥
सर्वत्र वेदान्तवाक्ये ब्रह्म­प­द­स्या­प्र­सि­द्ध­त्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे सम­र्प­यि­तु­म­ल­मि­त्या­क्षि­पति । येषां वेदा­न्त­वा­क्यानां येन सन्निवेशक्रमेण ब्रह्म­प्र­ति­पा­दने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।

प्रसि­द्धा­व­द्यो­त­केन हिशब्देन संयु­क्त­मा­न­न्दा­व­द्यो­त­क­मु­प­प­द्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्म­श­ब्द­प्र­योगो न युज्यते । न हि तस्योपेक्षणीये विषये स्वार्थ­प्र­क्षे­पेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मा­दि­ध­र्म­जा­त­स्यो­प­ल­क्ष­ण­त्वाद् ब्रह्म­सं­स्प­र्शा­भा­वात् सर्वज्ञं सर्व­श­क्ति­स­म­न्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम् ॥