अद्वैतशारदा

पञ्चपादिका

५ वर्णकम्

व्याख्याः

अथ पञ्चमं वर्णकम्

‘ब्रह्म जिज्ञा­सि­त­व्य­मि’त्यु­क्त­मिति
ब्रह्म­ज्ञा­न­का­मे­नेदं शास्त्रं श्रोत­व्य­मि­त्यु­क्त­मि­त्यर्थः ।

यदै­वे­द­मि­त्युक्तं तदैव ब्रह्मणो लक्षणं प्रमाणं युक्तिः साधनं प्रयोजनमिति सर्वं व्याख्येयत्वेन प्रतिज्ञातम् । तत्र स्वरू­प­स्या­भ्य­र्हि­त­त्वात् तत् प्रथमं वक्तव्यम् ।
किं लक्षणं पुनस्तद् ब्रह्मेति ?

अत आह भगवान् सूत्रकारः —
जन्माद्यस्य यत इति ॥

युक्तिरपि लक्ष­ण­नि­र्ण­येऽ­र्थात् सूत्रितैव ।
जन्म उत्पत्तिः आदिरस्येति तद्गु­ण­सं­वि­ज्ञानो बहुव्रीहिरिति

पदच्छेदः पदार्थः पदविग्रह इत्येतत् त्रितयमपि व्याख्यानाङ्गं सम्पादयति । तद्गु­ण­सं­वि­ज्ञाने प्रयोजनमाह —
जन्मस्थितिभङ्गं समासार्थ इति ॥
तृती­य­लि­ङ्ग­नि­र्दे­शात् संहतिप्रधानं समासार्थः ।

ननु आदिः पूर्वकालकोटिमतो भवति, तदभावे प्रपञ्चस्य को नामाऽऽदिः ? इत्याशङ्क्याह —
जन्मनश्चादित्वं श्रुति­नि­र्दे­शा­पेक्षं वस्तु­वृ­त्ता­पेक्षं चेति ॥
यदनेन सूत्रेण लक्षितं ब्रह्म, तत्स्वरूपकथनपरं वाक्यम् । तत्रादौ जन्म निर्दिष्टमिति तस्यादित्वम् । वस्तु­स्व­भा­वा­पे­क्ष­मपि । न हि वस्तु प्रलीय तिष्ठति । स्थित्वा वा जायते । नापि जनित्वैव प्रलीयते ; क्षणि­क­त्व­नि­रा­क­र­णात् । अतो जनित्वा स्थित्वा प्रलीयते । एवमनादिरयं प्रपञ्चः ।

‘अस्य’ इति भाष्येण पदभागस्येदमः प्रकृ­ति­मा­त्र­स्या­र्थ­नि­र्देशः । तथाहि सर्वत्र सर्व­ना­म­प्र­क्र­मा­दि­का­र­णा­न्त­र­ब­लेन कतिपयाभिधेयपरं, तदभावे स्वमहिम्ना प्रमा­ण­वि­ष­य­मा­त्रा­भि­धा­यकं, तेनाह —
प्रत्य­क्षा­दि­स­न्नि­धा­पि­तस्य धर्मिण इदमा निर्देश इति ॥

षष्ठी जन्मा­दि­ध­र्म­स­म्ब­न्धा­र्थेति ।
सर्व एवेह सम्बन्धः सम्भवति, न तद्विशेष आदरणीय इति कथयति । यत इति कारणनिर्देश इति प्रकृ­ति­त्व­नि­ब­न्धना हि पञ्चमी, नान्यनिबन्धनेति दर्शयति ॥

अस्य जगतः
इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।

द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं च । तत्रेदं लक्षणं प्रप­ञ्च­ध­र्म­त्वात् पृथग्भूतमेव कारणमुपलक्षयति न विशेषणत्वेन । अतः पृथक् स्वलक्षणकथनम् ।
नामरूपाभ्यां व्याकृतस्येति ॥

कार्यप्रपञ्चं केचित् स्वप्र­क्रि­या­नु­सा­रेण विभजन्ति, तद्व्युदासाय प्रसि­द्धा­र्था­नु­वा­द­श्रु­ति­ब­लेन द्वैराश्यं कृत्वाऽऽह —
नामरूपाभ्यामिति ॥
इत्थम्भावे तृतीया ॥

व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत् ।
अने­क­क­र्तृ­भो­क्तृ­सं­यु­क्त­स्येति ॥

कर्तृ­त्व­भो­क्तृ­त्व­मपि नाम­रू­पा­त्म­क­त्वा­त्प्र­प­ञ्चा­नु­या­यीति दर्शयति —
प्रति­नि­य­त­दे­श­का­ल­नि­मि­त्त­क्रि­या­फ­ला­श्र­य­स्येति ॥
प्रति­क­र्म­फ­लो­प­भोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम् । कालोऽपि स्वर्गफलस्य देह­पा­ता­दूर्ध्वं, पुत्रफलस्य बालभावात् । निमित्तमपि उत्त­रा­य­णा­दि­म­र­णस्य ।

मन­साऽ­प्य­चि­न्त्य­र­च­ना­रू­प­स्येति ॥
न ह्यर्वाग्दर्शी क्वचि­द्ब­हि­र्लो­क­स­न्नि­वे­श­प्र­का­र­म­ध्यात्मं च प्रति­नि­य­ता­र्थ­क्रि­या­स­म­र्था­व­य­व­शि­रा­जा­ल­स­न्नि­वेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम् ॥

जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति
साकाङ्क्षस्य सूत्र­वा­क्य­स्या­का­ङ्क्षि­त­प­द­पू­र­णम् , उप­ल­क्षि­त­ब्र­ह्म­स्व­रूपं लक्षणं च दर्शयति ॥

ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति न सङ्गृह्यन्ते ? इत्याशङ्क्याह —
अन्येषामपीति ॥
न क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्य­नि­र्वृ­त्त­ज­न्म­नोऽ­स्थित स्वभावस्य विनाशः । अत­स्त्रि­ष्वे­वा­न्त­र्भा­वान्न पृथ­गु­प­न्या­स­स्ते­षाम् ।

ननु षड् भावविकारा इति नैरुक्ताः । तेषां ग्रह­णेऽ­न्त­र्भा­वो­क्ति­प्र­या­सोऽपि परिहृतः स्यादि­त्या­श­ङ्क्याह —
यास्क­प­रि­प­ठि­तानां तु जाय­तेऽ­स्ती­त्या­दी­ना­मिति ॥
पृथिव्यप्तेजःसु जग­द्र­च­ना­रू­प­स्थि­तेषु तन्मयानामेव ते सम्भाव्यन्ते । ततस्तद्ग्रहणे तेषामेव ब्रह्मत्वेन लक्षितत्वाशङ्का स्यात् , न च तद्युक्तम् ; अतः सूत्रा­र्थ­व­त्त्वाय श्रुति­नि­र्दिष्टा एवोत्पत्त्यादयो गृह्यन्ते ; तद­र्थ­नि­र्ण­या­र्थ­त्वा­त्सू­त्रा­णाम् । अतो यदवष्टम्भो विश्वो विवर्तते प्रपञ्चः, तदेव मूलकारणं ब्रह्मेति सूत्रार्थः ॥

ननु श्रुति­नि­र्दि­ष्ट­ग्र­हणे सूत्रमर्थशून्यं स्यात् ; न हीमां पृथिवीं जायमानां पश्यामः, नापो न तेजः, कथं सिद्ध­व­ल्ल­क्ष­ण­त्वो­नो­पा­दी­ये­तेति ? उच्यते, तेज­स­स्ता­व­द­र­णि­नि­र्म­थ­ना­दिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्र­का­न्ता­दिषु जन्म, क्रमेण च शोषः । पृथिव्या अप्य­व­य­व­सं­यो­ग­वि­भा­ग­द­र्श­नात् तन्निमित्तौ जन्म­वि­ना­शा­व­नु­मी­येते । दृश्येत चाद्याऽ­प्य­व­य­व­सं­यो­ग­वि­भा­ग­कृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वा­का­श­का­ल­दि­शा­मपि ‘यावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।
न यथो­क्त­वि­शे­ष­ण­स्ये­त्या­दिना
भाष्येण युक्तिरपि ब्रह्म­स्व­रू­प­नि­र्ण­या­या­ने­नैव सूत्रेण तन्त्रे­णा­वृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।

अस्य जगतो नामरूपाभ्यां व्याकृ­त­स्ये­त्या­द्य­भि­हि­त­वि­शे­ष­ण­च­तु­ष्ट­यस्य,
यथो­क्त­वि­शे­ष­ण­मी­श्वरं मुक्त्वेति

सर्वज्ञं सर्वशक्तिं विहाय
नान्यतः

परपरिकल्पितात्
प्रधा­ना­दे­र­चे­त­नात् ,

चेतनादपि परि­च्छि­न्न­ज्ञा­न­क्रि­या­शक्तेः
संसारिणो

हिरण्यगर्भात्
उत्पत्त्यादि सम्भावयितुमपि शक्यम् ॥

अचे­त­ना­त्ता­व­द­चे­त­न­त्वा­दे­वा­नु­प­प­न्नम् । चेतनादपि ; परि­च्छि­न्न­ज्ञा­न­क्रि­या­श­क्ति­त्वात् । अभावात् पुन­र्ना­चे­त­न­त्वा­देव केव­ला­द­नु­प­पत्तिः, अपि तु निरु­पा­ख्य­त्वा­द­ती­त­क­ल्प­सं­स्का­रा­भा­वात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति न क्वचित् कश्चि­न्नि­य­मोऽ­भ­वि­ष्यत् ।

न च स्वभावतः विशि­ष्ट­दे­श­का­ल­नि­मि­त्तो­पा­दा­ना­दिति ॥
स्वभावो नामान्यानपेक्षः । तेना­पे­क्षै­वा­नु­प­पन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कार­ण­त्व­स­म्भा­व­ना­नि­रा­क­र­णेन पारि­शे­ष्या­त्पू­र्वो­क्त­वि­शे­षण ईश्वर एव कारणमिति सिद्धम् ॥

एतदेवानुमानमिति ॥
येयं युक्तिरभिहिता यथो­क्त­वि­शे­ष­ण­मी­श्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वत­न्त्र­म­नु­मा­न­मी­श्व­र­सिद्धौ सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्व­सिद्धौ च तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।

जन्मा­दि­सू­त्र­ल­क्षि­ता­न्यपि वाक्यानि ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्यादीनि परा­र्था­नु­मा­न­वा­क्य­स­मानि दृश्यन्त इति वदन्तः ।

नन्विहापि तदे­वो­प­न्य­स्त­मिति ॥
यथा धूम­वि­शे­ष­स्या­ग­रु­स­म्भ­वत्वं, तथा प्रप­ञ्च­स­न्नि­वे­श­वि­शे­षस्य सर्व­ज्ञ­त्वा­दि­गु­ण­का­र­ण­क­त्व­मिति ।

न वेदा­न्त­वा­क्य­कु­सु­म­ग्र­थ­ना­र्थ­त्वात् सूत्राणामिति ॥
सत्यं तदे­वो­प­न्य­स्त­मु­प­क­र­ण­त्वेन, न तत्र तात्पर्यं, तात्पर्यन्तु वेदवाक्यग्रथने ।

तदेव प्रपञ्चयति —
वेदा­न्त­वा­क्या­नीति ॥

सम­न्व­य­सू­त्र­प्र­मु­खो­पात्तैः शब्द­श­क्त्य­नु­सा­रि­भि­र्न्या­यै­र्वा­क्यानां ब्रह्मणि तात्प­र्या­ध्य­व­सा­न­नि­र्वृत्ता ब्रह्मावगतिः ।
नानु­मा­ना­दि­प्र­मा­णा­न्त­र­नि­र्वृत्ता । सत्सु तु वेदान्तवाक्येषु तद­वि­रो­ध्य­नु­मा­न­मपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्क­स्या­प्य­भ्यु­पे­त­त्वात् ॥ तथा हि ‘श्रोतव्यो मन्तव्यः’ इति ।
श्रुत्या यथा श्रवणं ब्रह्मा­व­ग­ति­हे­तु­र­नू­द्यते, तथा मननस्यापि सिद्ध­व­द­नू­द्य­मा­न­त्वात् । तथाऽपरा श्रुतिः ‘पण्डितो मेधावी’त्यादिः ‘आचार्यवान् पुरुषो वेदे’ति पुरु­ष­बु­द्धि­सा­हा­य्य­मा­त्मनो दर्शयति । यदाचार्येण श्रुत्यनुसारिणा स्फटि­का­दि­नि­द­र्श­नेन शिष्येभ्यः प्रत्य­य­दा­र्ढ्या­पा­दनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते ।

न धर्म­जि­ज्ञा­सा­या­मि­वे­त्या­दिना
युक्ति­सा­हा­य्या­पे­क्षणे कारणमाह ।

श्रुत्यादय इति ॥
श्रुतिः पदा­न्त­र­नि­र­पेक्षः शब्दः । आदिशब्देन लिङ्गवाक्यादयः शब्दप्रकारा गृह्यन्ते ।

न त एव ब्रह्मणि प्रमाणं, किन्त्व­नु­भ­वा­द­योऽपि । तत्र हेतुमाह —
अनु­भ­वा­व­सा­न­त्वाद् भूत­व­स्तु­वि­ष­य­त्वाच्च ब्रह्म­ज्ञा­न­स्येति ॥
सिद्धे वस्तुनि सम्भवत्यनुभवः, तदवसाना आकाङ्क्षा निवृत्तिर्यतः ।

ननु धर्मजिज्ञासायां विनाऽप्यनुभवेन शब्द­श­क्त्य­नु­स­र­ण­मा­त्रे­णैव निराकाङ्क्षं फलपर्यन्तं ज्ञानं भवति, न तर्क­ग­न्ध­म­प्य­पे­क्षते, तथेहापि स्यात् ; प्रमा­ण­त्वा­वि­शे­षा­द्वे­दा­न्त­वा­क्या­नाम् , इत्याशङ्क्य विशेषमाह —
कर्तव्ये हि विषय इत्यादिना ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूत­व­स्तु­वि­ष­य­त्वा­दि­त्य­न्तेन भाष्येण ॥
कथम् ? कर्तव्यं हि कर्त­व्य­त्वा­दे­वा­सि­द्ध­स्व­भावं नानुभवितुं शक्यमिति न तदाकाङ्क्षा, इह तु सिद्धस्य साक्षाद्रूपेण विप­र्या­स­गृ­ही­तस्य सम्यग्ज्ञानेन साक्षा­त्क­र­ण­म­न्त­रेण न मिथ्या­ज्ञा­नो­द­य­नि­वृत्तिः ; द्विचन्द्रादिषु तथा दर्शनात् । न हि कर्त­व्य­सि­द्धा­र्थ­नि­ष्ठयोः प्रमा­ण­त्व­सा­म्या­द­व­बो­ध­न­प्र­का­रेऽपि साम्यम् । यदि स्यात् , पुरु­षे­च्छा­व­श­नि­ष्पा­द्य­मपि स्यात् । ततो विधि­प्र­ति­षे­ध­वि­क­ल्प­स­मु­च्च­यो­त्स­र्गा­प­वा­द­बा­धा­भ्यु­च्च­य­व्य­व­स्थि­त­वि­क­ल्पा­द­योऽपि प्रसज्येरन् । न वस्तुनि युक्तमेतत् ; निःस्व­भा­व­त्व­प्र­स­ङ्गात् । तथा चैकस्मिन् वस्तुनि स्थाणुः पुरुषो वेति विकल्पः, न वैक­ल्पि­क­द्र­व्य­त्या­ग­वद् सम्यग्ज्ञानं भवति स्थाणुरेवेति निश्चितैकार्थता परमार्थे । यतो वस्तु­स्व­भा­व­प­र­तन्त्रं सिद्ध­व­स्तु­ज्ञानं, न ज्ञानपरतन्त्रं वस्तु । यदि स्यात् , शुक्तिरजतमपि तथा स्यात् । कर्तव्यज्ञानं पुन­र्वै­प­री­त्येऽपि सम्यगेव ; ‘योषा वाव गौतम अग्नि­रि’त्या­दिषु दर्शनात् ।

तत्रेवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूत­व­स्तु­वि­ष­य­त्वात् ।
अतो युक्तो युक्ते­र­नु­प्र­वेशः, अनुभवापेक्षा च नेतरत्र ॥

अपरः परिचोदयति —
ननु भूतवस्तुविषयत्व इत्यादिना ॥
अयमभिप्रायः — भूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेद­वा­क्यै­र्वि­चा­रितैः ? यथा­हु­री­श्व­र­का­र­णिनः, तथा भवतु पूर्वसूत्रेण प्रति­ज्ञा­नि­र्दे­शोऽ­नेन च हेत्वभिधानमिति ।

उत्तरमाह —
नेन्द्रि­या­दि­वि­ष­य­त्वेन सम्ब­न्ध­ग्र­ह­णा­दि­त्या­दिना ॥
इन्द्रियाणि प्रपञ्चमात्रं गृह्णन्ति, न तत्कारणम् । यदि तद्ग्रहणमपि स्यात् , नानु­मा­नो­प­न्या­सेन कृत्यमस्ति । सामा­न्य­तो­दृ­ष्ट­मपि न प्रमा­ण­म­ती­न्द्रिये ब्रह्मणि,

अत उपसंहरति —
तस्मा­ज्ज­न्मा­दि­सूत्रं नानु­मा­नो­प­न्या­सार्थं, किं तर्हि ? वेदा­न्त­वा­क्य­प्र­द­र्श­ना­र्थ­मिति ॥
युक्तिमपि तदुपकरणां तद­र्था­नु­भ­व­प्र­यो­जनां सूचयतीत्युक्तम् ॥

नन्वेवं सति कथं युक्ति­र­ब्र­ह्म­वि­षया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदा­दि­दृ­ष्टा­न्ते­र्यु­क्तस्य उपन्यस्यन्ते । ताश्च विधि­प्र­ति­षे­ध­वा­क्ययोः प्रव­र्त­क­त्व­नि­व­र्त­क­त्वा­का­ङ्क्षि­त­स्तु­ति­नि­न्दा­र्थ­वा­द­वत् स्वरूपवाक्यस्य फल­प­र्य­न्ता­पे­क्षि­त­स­म्भा­व­ना­र्थ­वा­दतां प्रति­प­द्य­मा­ना­स्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।
किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति ॥
सर्वत्र वेदान्तवाक्ये ब्रह्म­प­द­स्या­प्र­सि­द्ध­त्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे सम­र्प­यि­तु­म­ल­मि­त्या­क्षि­पति । येषां वेदा­न्त­वा­क्यानां येन सन्निवेशक्रमेण ब्रह्म­प्र­ति­पा­दने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।

तथैवोदाहणमाह —
भृगुर्वै वारुणिरिति ।
अथ­श­ब्दो­पा­त्त­न्या­येन प्रथ­म­सू­त्र­स्यो­दा­ह­रणं — ‘यतो वा इमानि भूतानी’ति जन्मादिसूत्रस्य । कथम् ? पूर्वोक्तेन न्यायेन पृथिव्यादीनां जन्मादिदर्शनात् तत्कारण एक­त्व­ना­ना­त्व­यो­र­न्य­त­रा­व­गमे प्रमाणाभावाद् बुद्धि­म­त्का­र­ण­पू­र्व­ता­मात्रे प्रतिपन्ने ‘यतो वा इमानी’ति कार­ण­स्यै­क­व­च­न­नि­र्दे­शा­त्त­द­र्थ­मा­त्र­स्यैव विधि­त्सि­त­त्वा­द­र्था­त्स­र्वज्ञं सर्व­श­क्ति­ज­ग­त्का­र­ण­मिति कारणविशेषो वाक्यादवगम्यते । पुन­स्त­द्वि­जि­ज्ञा­स­स्वे­त्य­नूद्य तद् ब्रह्मेति तत्र ब्रह्म­श­ब्द­प्र­यो­गाद् बृह­त्य­र्था­न्व­येन सर्व­तोऽ­न­व­च्छि­न्न­स्व­भावं जगत्कारणं ब्रह्मपदार्थ इति गम्यते । तस्य च निर्ण­य­वा­क्य­मा­न­न्दा­द्ध्येव खल्विति ॥

प्रसि­द्धा­व­द्यो­त­केन हिशब्देन संयु­क्त­मा­न­न्दा­व­द्यो­त­क­मु­प­प­द्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्म­श­ब्द­प्र­योगो न युज्यते । न हि तस्योपेक्षणीये विषये स्वार्थ­प्र­क्षे­पेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मा­दि­ध­र्म­जा­त­स्यो­प­ल­क्ष­ण­त्वाद् ब्रह्म­सं­स्प­र्शा­भा­वात् सर्वज्ञं सर्व­श­क्ति­स­म­न्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम् ॥

इति पर­म­हं­स­प­रि­व्रा­ज­कादि - श्रीश­ङ्क­र­भ­ग­व­त्पा­दा­न्ते­वा­सि­वर - श्रीप­द्म­पा­दा­चा­र्य­कृतौ पञ्चपादिकायां जन्माद्यधिकरणं नाम पञ्चमवर्णकं समाप्तम् ॥