पञ्चपादिका
५ परिच्छेदः
अथ पञ्चमं वर्णकम्
युक्तिरपि लक्षणनिर्णयेऽर्थात् सूत्रितैव ।
जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति
अस्य जगतः
इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।
मनसाऽप्यचिन्त्यरचनारूपस्येति ॥
न ह्यर्वाग्दर्शी क्वचिद्बहिर्लोकसन्निवेशप्रकारमध्यात्मं च प्रतिनियतार्थक्रियासमर्थावयवशिराजालसन्निवेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम् ॥
ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति न सङ्गृह्यन्ते ? इत्याशङ्क्याह —
अन्येषामपीति ॥
न क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्यनिर्वृत्तजन्मनोऽस्थित स्वभावस्य विनाशः । अतस्त्रिष्वेवान्तर्भावान्न पृथगुपन्यासस्तेषाम् ।
ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; न हीमां पृथिवीं जायमानां पश्यामः, नापो न तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्रकान्तादिषु जन्म, क्रमेण च शोषः । पृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेते । दृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वाकाशकालदिशामपि ‘यावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।
न यथोक्तविशेषणस्येत्यादिना
भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।
अचेतनात्तावदचेतनत्वादेवानुपपन्नम् । चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात् । अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति न क्वचित् कश्चिन्नियमोऽभविष्यत् ।
एतदेवानुमानमिति ॥
येयं युक्तिरभिहिता यथोक्तविशेषणमीश्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वतन्त्रमनुमानमीश्वरसिद्धौ सर्वज्ञत्वसर्वशक्तित्वसिद्धौ च तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।
जन्मादिसूत्रलक्षितान्यपि वाक्यानि ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्यादीनि परार्थानुमानवाक्यसमानि दृश्यन्त इति वदन्तः ।
समन्वयसूत्रप्रमुखोपात्तैः शब्दशक्त्यनुसारिभिर्न्यायैर्वाक्यानां ब्रह्मणि तात्पर्याध्यवसाननिर्वृत्ता ब्रह्मावगतिः ।
नानुमानादिप्रमाणान्तरनिर्वृत्ता । सत्सु तु वेदान्तवाक्येषु तदविरोध्यनुमानमपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्कस्याप्यभ्युपेतत्वात् ॥ तथा हि ‘श्रोतव्यो मन्तव्यः’ इति ।
श्रुत्या यथा श्रवणं ब्रह्मावगतिहेतुरनूद्यते, तथा मननस्यापि सिद्धवदनूद्यमानत्वात् । तथाऽपरा श्रुतिः ‘पण्डितो मेधावी’त्यादिः ‘आचार्यवान् पुरुषो वेदे’ति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । यदाचार्येण श्रुत्यनुसारिणा स्फटिकादिनिदर्शनेन शिष्येभ्यः प्रत्ययदार्ढ्यापादनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते ।
न त एव ब्रह्मणि प्रमाणं, किन्त्वनुभवादयोऽपि । तत्र हेतुमाह —
अनुभवावसानत्वाद् भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्येति ॥
सिद्धे वस्तुनि सम्भवत्यनुभवः, तदवसाना आकाङ्क्षा निवृत्तिर्यतः ।
अपरः परिचोदयति —
ननु भूतवस्तुविषयत्व इत्यादिना ॥
अयमभिप्रायः — भूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेदवाक्यैर्विचारितैः ? यथाहुरीश्वरकारणिनः, तथा भवतु पूर्वसूत्रेण प्रतिज्ञानिर्देशोऽनेन च हेत्वभिधानमिति ।
नन्वेवं सति कथं युक्तिरब्रह्मविषया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदादिदृष्टान्तेर्युक्तस्य उपन्यस्यन्ते । ताश्च विधिप्रतिषेधवाक्ययोः प्रवर्तकत्वनिवर्तकत्वाकाङ्क्षितस्तुतिनिन्दार्थवादवत् स्वरूपवाक्यस्य फलपर्यन्तापेक्षितसम्भावनार्थवादतां प्रतिपद्यमानास्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।
किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति ॥
सर्वत्र वेदान्तवाक्ये ब्रह्मपदस्याप्रसिद्धत्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलमित्याक्षिपति । येषां वेदान्तवाक्यानां येन सन्निवेशक्रमेण ब्रह्मप्रतिपादने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।
प्रसिद्धावद्योतकेन हिशब्देन संयुक्तमानन्दावद्योतकमुपपद्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्मशब्दप्रयोगो न युज्यते । न हि तस्योपेक्षणीये विषये स्वार्थप्रक्षेपेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मादिधर्मजातस्योपलक्षणत्वाद् ब्रह्मसंस्पर्शाभावात् सर्वज्ञं सर्वशक्तिसमन्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम् ॥