अद्वैतशारदा

पञ्चपादिका

८ परिच्छेदः

व्याख्याः

अथाष्टमं वर्णकम्

ननु अपौरुषेयत्वात् तज्जन्यं स्वार्थ­प­रि­च्छे­देऽ­न­पेक्षं कथमप्रमाणम् ? सत्यम् ; तथाऽपि यथा चाक्षुषं स्पर्श­न­गो­च­र­चि­त्र­नि­म्नो­न्न­त­ज्ञानं तेना­सं­वा­दा­द­प्र­माणं, तथेहापि स्यात् । किं च पुरु­षा­र्थ­शू­न्य­त्वा­द­प्य­प्रा­मा­ण्यम् । पुरुषार्थो हि नाम सुखा­वा­प्ति­र्दुः­ख­प­रि­हा­रश्च । तौ च सिद्धत्वाद् हानोपादानविषयौ न सिद्ध­व­स्तु­न्य­क्रि­या­शेषे सम्भवतः । ततो
न क्वचिद् वेदवाक्यानां विधि­सं­स्प­र्श­म­न्त­रे­णा­र्थ­वत्ता दृष्टोपपन्ना वा ॥
किं च प्रत्य­क्षा­द्य­वि­षये न शब्दमात्रस्य प्रामाण्यम् । शास्त्रस्यैष स्वभावो यद­न­व­ग­ता­र्था­व­बो­ध­क­त्वम् । शब्दमात्रस्य पुनः प्रमा­णा­न्त­र­गृ­ही­ता­र्थ­प्र­का­शन एव सामर्थ्यं दृष्टं, नान­व­ग­ता­र्थ­प्र­का­शने । तस्मादनर्थका वेदान्ताः ; न तेषां ब्रह्मणि प्रामाण्यमिति । अत एव ‘वेदोषरा वेदान्ताः’ इति केषा­ञ्चि­दु­द्गारः ॥ यत्पु­न­र्भा­ष्य­का­रेण कर्तृ­दे­व­ता­स्व­रू­प­प्र­का­श­नेन क्रिया­वि­धि­शे­षत्वं वेदान्तानां प्रक­र­णा­न्त­र­भ­या­द­न­भ्यु­प­गम्य स्ववा­क्य­ग­तो­पा­स­ना­क­र्म­प­र­त्व­मुक्तं, तदयुक्तम् ; उपा­स­ना­वि­धि­शे­ष­त्वेऽपि संवादाभावाद् जगत्कारणे न सर्व­ज्ञ­त्वा­दि­सिद्धिः । सत्यम् ; अनु­मा­न­तोऽ­नि­र्दि­ष्ट­वि­शेषे तस्मिन्नवगते समा­रो­पि­तै­र्ध­र्मै­रु­पा­स­ना­नि­योगः सेत्स्यति । एवं चाध्य­य­न­वि­धि­ग्रा­हि­तानां वेदा­न्ता­ना­मे­का­न्ततो नानर्थक्यं भवि­ष्य­ती­त्य­भि­प्रायः । फलं च तत्र कल्प्य­मा­र्थ­वा­दि­कम् ।

तत्तु समन्वयात्
तत् ब्रह्म सर्व­ज्ञ­त्वा­दि­गु­णकं वेदा­न्त­शा­स्त्रा­त्प्र­ती­यत इति प्रतिजानीते ।

ननु इन्द्रि­या­गो­च­र­त्वा­देव प्रत्य­क्षा­द्य­वि­ष­य­त्वान्न शब्दमात्रस्य तत्र प्रामा­ण्य­मि­त्यु­क्तम् , उच्यते ; यद्यपि शब्दमात्रस्य प्रत्य­क्षा­दि­वि­षय एव प्रयोगो दृष्टः, व्युत्पत्ता तु कथं व्युत्पद्यते ? इति वाच्यम् । श्रोतृव्यवहारो हि मूलं बालानां व्युत्पत्तेः । स च श्रोतु­र्ज्ञा­ना­न्त­रा­नि­मि­त्त­ता­प­रि­शुद्धः शब्द­सा­म­र्थ्या­व­ग­म­हेतुः । अतो न प्रति­प­त्तु­र्ज्ञा­ना­न्त­रा­सि­द्धा­र्था­व­बो­ध­कत्वं साम­र्थ्या­व­ग­म­का­लेऽ­व­ग­तम् । तेनानवगम्यैव तद्विषयं ज्ञानं सामर्थ्यावगमः, यथाऽवगमं च विज्ञा­नो­त्पत्तिः । यदा पुन­र्व्यु­त्पन्नः स स्वयं प्रयुयुक्षते परप्रतिपत्तये, तदा ज्ञाना­न्त­र­स­न्नि­धा­पितं स्वसाक्षिकं विवक्षन् साम­र्थ्या­व­ग­म­का­लेऽपि तयोः सत्तां प्रतिपद्यते केवलं, न ज्ञानोत्पत्तौ तयोरुपयोगम् । तस्मान्न शब्दस्य प्रमा­णा­न्त­र­गृ­ही­ता­र्थ­प्र­का­शने सामर्थ्यं व्युत्प­त्ति­का­लेऽ­व­गतं, किन्तु चक्षु­रा­दि­व­द­न्य­नि­र­पेक्षो यथा­व­ग­त­सा­म­र्थ्यश्च शब्दो विज्ञानं जनयति । तस्मान्न प्रमेयस्य प्रत्य­क्षा­दि­वि­ष­यत्वं शब्दस्य विज्ञानजनन उपयुज्यते । अपि चापौरुषेये शब्दे चक्षुषीव विज्ञा­नो­त्प­त्ता­व­न­पेक्षे कथ­म­प्रा­मा­ण्य­मा­श­ङ्क्येत ? ननु उक्त­मा­श­ङ्का­का­रणं स्पर्श­न­गो­च­र­चि­त्र­नि­म्नो­न्न­त­वि­ष­यस्य चाक्षुषस्य प्रत्ययस्य तत्सं­वा­दा­भा­वा­द­प्र­मा­णत्वं, न तत्साधूक्तम् ; अदु­ष्ट­क­र­ण­त्वा­दस्य, तस्य च तदभावात् । तथाहि शब्द­स्ता­व­द­पौ­रु­षे­य­त्वा­द­दुष्टः । प्रमेयस्य पुन­र्ज्ञा­न­हे­तुत्वे न प्रमाणमस्ति ; शब्दस्यैव तदेकनिष्ठत्वेन तन्नियमात् , चित्रस्य तु चाक्षुषज्ञाने साम­ग्र्य­न्तः­पा­तिनः श्यामा­दि­रे­खा­स­न्नि­वे­श­वि­शेषो दोषः ; तदभावे तिमिराभाव इव सम्य­ग्द­र्श­नो­त्पत्तेः । अतः प्रवर्तमानमपि प्रमाणं संवादकमेव, इति नाप्रा­मा­ण्य­मा­व­हति । न च संवादलक्षणं प्रामाण्यम् , अपि तु बोधलक्षणमिति प्रमाणविदां स्थितिः । अतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम् , एवं स्वरू­प­वा­क्या­ना­मपि ; अन­व­ग­ता­र्थ­प­रि­च्छे­द­सा­मा­न्यात् ॥

ननु विधिवाक्यानामेव प्रामाण्यं युक्तम् ; क्रिया­र्थ­त्वा­दा­म्ना­यस्य, न ; इत­रे­त­रा­श्र­य­त्वात् । विधिवाक्यानामेव हि प्रामाण्ये सिद्धे क्रिया­र्थ­त्व­मा­म्ना­यस्य सिद्ध्येत् , क्रियार्थत्वे च सिद्धे तेषामेव प्रामा­ण्य­मि­ती­त­रे­त­रा­श्र­यत्वं स्यात् , न ह्येकमप्यन्यतः सिद्धम् ; अतो यद­व­ग­म­य­त्या­म्ना­य­स्त­दर्थः सः । तस्माद् यथा­का­र्य­म­व­ग­म­य­न्स्त­दर्थः, एव­मै­का­त्म्य­म­प्य­व­ग­म­यं­स्त­दर्थो भवितुमर्हति । प्रती­ति­कृ­त­त्वा­त्प्रा­मा­ण्यस्य, प्रतीतिस्तु कार्यै­का­त्म्य­यो­स्तुल्या । प्रत्य­क्षा­दि­ष्व­प्ये­त­देव प्रमाणवृत्तं, यदनवगतमवगम्यते ॥

आह — युक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपे­क्षा­न्त­रा­भा­वात् , आम्नायस्य त्वध्य­य­न­वि­धि­नो­पा­दा­पि­तस्य न पुनः पुरु­षा­र्थ­म­प्राप्य पर्यवसानं लभ्यते ; विधा­ना­न­र्थ­क्य­प्र­स­ङ्गात् । तस्मा­दै­का­त्म्य­वा­क्यानां स्वार्थ­मा­त्र­नि­ष्ठता न युक्ता ; उच्यते, पुरुषो ह्येता­व­द­पे­क्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, न त्वित्थमन्यथा वेति । न चास्य स्वयमीष्टे । द्विविधं चेष्टं प्रेप्सति, किञ्चि­त्प्रा­प्यम् ; यथा ग्रामादि । किञ्चि­त्प्रा­प्त­मपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृ­त­सु­व­र्णादि । अनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यं — यथागर्तादि किञ्चि­त्प­रि­हृ­त­मपि ; भ्रान्त्या यथा रज्ज्वादि सर्पा­दि­बु­द्धि­गृ­ही­तम् । तत्र प्राप्य­प­रि­हा­र्ययोः साध­न­ज्ञा­ना­य­त्त­त्वा­त्पु­रु­षा­र्थस्य विधि­प्र­ति­षे­धा­व­र्थ­वन्तौ । इतरयोस्तावद् भ्रान्ति­मा­त्र­व्य­व­हि­त­त्वान्न तदपनयादन्यत् पुरु­षा­र्थ­त्वे­ना­पे­क्षते । तदपनयश्च तत्त्वज्ञानाद् भवति नान्यथा । एवमपि लभ्यमानं पुरु­षा­र्थ­म­नु­म­न्यत एव पुरुषः, सुतरां चाभिनन्दति । सधनायत्तो ह्याया­सा­ल्ल­भ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियते । तेना­ने­का­न­र्थ­क­लु­षि­त­मि­वा­त्मानं मन्यमानस्य भ्रान्तस्य सर्वा­न­र्थ­शू­न्या­त्म­त­त्त्व­प्र­ति­पा­द­ना­देव पुरु­षा­र्थ­सि­द्धे­रै­का­त्म्य­वा­क्यानां स्वार्थ­मा­त्र­नि­ष्ठ­त्वेऽपि न विध्या­न­र्थ­क्य­प्र­सङ्गः । तस्मात् सिद्धं ब्रह्मणः शास्त्र­प्र­मा­ण­त्वम् ॥