पञ्चपादिका
९ वर्णकम्
अथ नवमं वर्णकम्
अत्रापरे प्रत्यवतिष्ठन्ते —
यद्यपि शास्त्रेण प्रमीयते ब्रह्म ; तथाऽपि विधिसंस्पर्शिना, न तद्रहितेन । कस्मादेवम् ? अन्यथा शब्दप्रयोगानुपपत्तेः । पुरुषेच्छासमुत्थापितो हि शब्दप्रयोगः । सा चेष्टानिष्टप्राप्तिपरिहारविषया । न च पारम्पर्येणापि सुखदुःखे विहायेष्टानिष्टे सम्भवतः । न च विस्मृतसुवर्णारोपितसर्परशनाप्रतिपत्ताविव तदनन्तरं शास्त्रादपि ब्रह्मात्मप्रतिपत्तौ सुखावाप्तिर्दुःखपरिहारश्च दृश्यते ; पूर्ववत् संसारित्वोपलब्धेः, प्रतीत्युत्तरकालं च ध्यानोपदेशात् । तस्मात् सन्तु नाम लोके विधिरहितान्यपि पुरुषार्थपर्यन्तानि वाक्यानि, वेदे तु न तद्रहितानां तत्पर्यन्तता । तस्माद् यद्यपि जिज्ञास्यवैलक्षण्यं धर्मब्रह्मजिज्ञासयोः सिद्धसाध्यविषयत्वेन ; तथाऽपि ‘सोऽन्वेष्टव्यः’(छा. उ. ८-७-१) ‘स विजिज्ञासितव्यः’(छा. उ. ८-७-१) इत्यादि विधिषु कोऽसावात्मेत्याकाङ्क्षायां सर्व एव ब्रह्मस्वरूपपरः पदसमन्वयस्तत्समर्पकत्वेनोपयुक्तः, न स्वतन्त्रमेव ब्रह्म प्रतिपादयितुमलम् । अतो विधीयमानज्ञानकर्मकारकत्वेनैव ब्रह्म प्रतिपाद्यत इति ॥ यः पुनः ‘तस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमि’ति भाष्ये पूर्वपक्षोपसंहारः, तत्र प्रतिपत्तिशब्दः सर्व एव मनोव्यापारः प्रमाणात्मक इतरो वा ब्रह्मसंस्पर्शित्वेन विधेयः कैश्चित् कथञ्चित् कल्पितः, तस्य सर्वस्य सङ्ग्रहार्थो द्रष्टव्यः ॥
अत्रोच्यते, किमिदं ज्ञानं ब्रह्मकर्मकं विधीयते ? न तावच्छब्दजन्यम् । स्वाध्यायपाठादेव तत्सिद्धेः, अथ शब्दजन्यस्यैव ज्ञानस्याभ्यासो विधीयत इति, न तस्य प्रयोजनं पश्यामः ॥ ननु इष्टविषयस्य ज्ञानसन्तानस्य सुखसन्तानहेतुत्वं दृश्यते, यद्येवं तद्वदेव विध्यानर्थक्यम् । अथ पुनः साक्षात्करणाय ज्ञानसन्तानविधिरुच्यते, नैतद्युक्तम् ; न हि दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवति । न हि लैङ्गिकोऽर्थो लिङ्गजन्मनैव ज्ञानेन सहस्रशोऽप्यभ्यस्यमानेन साक्षात्क्रियते । मा भूत् शाब्दज्ञानादेवाभ्यस्यमानात्साक्षाद्भावः, तज्जन्मनो ज्ञानान्तराद्भविष्यति, नेत्थम्भावे प्रमाणमस्ति ॥
अस्तु तर्हि शब्दात् प्रतिपन्नस्य यथाप्रतिपत्ति ध्यानं नाम मनोव्यापारो विधीयत इति, किमर्थं तस्य विधानम् ? ध्येयसाक्षात्काराय चेत् , न तस्य सम्भवः । न हि परोक्षं ध्यायमानं साक्षाद्भावमापद्यमानं दृष्टम् । ननु दृष्टं परोक्षमपि ध्यायमानं साक्षाद्भावमापन्नं कामाद्युपप्लवे, मैवम् ; न तद् ध्यायमानम् , अपित्वविद्यात्मकम् , अन्यथा बाधो न भवेत् ॥
ननु ‘द्रष्टव्यः’ इति दर्शनमनूद्य ‘निदिध्यासितव्यः’ इति ध्यानं दर्शनफलं विधीयते, उक्तमेतद् न दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवतीति । न हि ध्यानं ध्येयसाक्षाद्भावहेतुः क्वचिद् दृष्टम् । अथापि भवतु नाम ध्यानाद् ध्येयसाक्षाद्भावो ध्येयस्य तथात्वे किं प्रमाणम् ? शब्दस्तावत्साक्षात्करणोपायोपासनविधाने पर्यवसितो न तत्सद्भावे, सत्यम् ; तथाऽपि तत्त्वं सिध्यति वक्ष्यमाणेन देवताविग्रहवत्त्वन्यायेन । विषम उपन्यासः तत्र हि न तथात्वे साधकं बाधकं वेति प्रतीतिशरणैस्तथाऽभ्युपेयते ; न तथेह सर्वस्यात्मत्वे ; प्रत्यक्षादिविरोधात् , आरोपितरूपेणापि ध्यानोपपत्तेः । पूर्वोक्तेष्वपि ज्ञानविधिपक्षेष्वनयैव दिशा वस्तुतथात्वसिद्धिर्निराकार्या ॥
यत्पुनः कैश्चिदुच्यते — शाब्दज्ञानादन्यदेव ज्ञानान्तरमलौकिकं वेदान्तेषु कर्तव्यत्वेन विधीयत इति, तत्र वदामः, तत्पुनः किंसाधनं किङ्कर्म चेति वक्तव्यम् । न ह्यनवगतकर्मकारकं ज्ञानं विधातुं शक्यम् ; अवगते च तस्मिन् विधानानर्थक्यम् । साधनमपि न विहितम् ; तेन विना साकाङ्क्षं वचनमनर्थकं भवेत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’त्यादिना वचनेन साधनं वेदानुवचनादि विहितमेवेति चेत् , प्रमाणान्तरस्य तर्हि प्रमाणं शब्दो नात्मतत्त्वस्य, नैतदुपपद्यते ; कार्यगम्यं हि प्रामाण्यं न विधिगम्यम् । तदुक्तम् — ‘गुणाद्वाऽप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वादि’ति । तदेवमयुक्तमेतत् , विधिसमन्वये शास्त्रप्रमाणत्वं ब्रह्मणः ॥
अथापि ‘अथ यदतः परो दिवो ज्योतिरि’ति प्रपञ्चातिरिक्तब्रह्माभ्युपगमे देवताविग्रहवत्त्वन्यायसम्भवात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा च श्रुतिः ‘विद्यया तदारोहन्ती’ति, न च साध्यत्वेऽप्यन्तवत्त्वम् ; शब्दगम्यत्वादनावृत्तेः ‘न च पुनरावर्तते’(छा. उ. ८-५-१) इति । न ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्थेति मन्वानस्योत्तरमाह भाष्यकारः —
न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति ॥
वस्तुसङ्ग्रहवाक्यमेतत् ।
अस्यैव प्रपञ्चः
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम् ॥
अस्याममर्थः — सङ्क्षेपतः श्रुतितो न्यायतश्च मोक्षस्य नित्यसिद्धत्वप्रतीतेर्न क्रियासाध्यो मोक्ष इति । कथम् ? यदि सन्ध्योपासनवन्मानसं ब्रह्मकर्मकमुपासनं नाम धर्मो मोक्षफलः स्वर्गादिफलयागवद्विधीयते, तथा सति शरीरवतैव तत्फलं भोक्तव्यम् इति ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. उ. ८-१२-१) इत्यशरीरमोक्षानुवादो योग्यप्रियाप्रियस्पर्शनाभावानुवादश्च निरालम्बनौ स्याताम् । न चाशरीरत्वमेव धर्मकार्यम् ; स्वाभाविकत्वात्तस्य । तेनानुष्ठेयविलक्षणं मोक्षाख्यमशरीरत्वं स्वभावसिद्धं नित्यमिति सिद्धम् ॥
तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयते । तत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः ‘तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत ।
न च तथाभ्युपगमो मोक्षवादिनाम् ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः ॥
यत्पुनः ‘न च पुनरावर्तते’(छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं न तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्तमानापदेशत्वेन तथाभावे प्रमाणापेक्षणात् । न च कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रियामात्रसिद्धत्वात् । किं च तेषामिह न पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्ते’ इति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नानवधिकामनावृत्तिम् । अपि च अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्षस्यानित्यत्वदोष उक्तः, न तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयः । तथा च ‘ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेदनब्रह्मभवनयोरेककालत्वनिर्देशात् । अतो न विदितस्य क्रियायां विनियोगः । तथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे’(बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वात्मभावयोरेककालत्वनिर्देशाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाः’ इति क्रियाया हेतुभूताद्धातोः शतृप्रत्ययस्मरणात् , क्रियायाश्चाव्यवहिते हेतुमति हेतुत्वात् । यथा ‘तिष्ठन् गायती’ति तिष्ठतिगायत्योर्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत् । अत्र न स्थितिक्रियासामर्थ्यादेव गीतिक्रियानिर्वृत्तिः, अपि तु प्रयत्नान्तरात् । शब्दतो न तयोर्मध्ये क्रियान्तरप्रतीतिरित्येतावतोदाहरणम् । इह पुनर्न सर्वात्मभावस्य ब्रह्मदर्शनातिरेकेण प्रयत्नान्तरापेक्षा विद्यते ॥
किं च ‘तस्मै मृदितकषायाय तमसः पारं दर्शयती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्षव्यवधायिनोऽपनयनमात्रं दर्शयन्ति, न मोक्षं क्रियासाध्यम् । इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, न क्रियातः । कथं गम्यते ? ‘इन्द्रो मायाभिः पुरुरूप ईयते’(बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रतिपक्षादभेदावभासादपनय इति गम्यते ॥
अथापि स्यान्नैकत्वविज्ञानं यथावस्थितवस्तुविषयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्पन्नामाल्पमपि वस्त्वालम्बनीकृत्य केनचित्सामान्येन दर्शनमात्रान्महद्वस्तुसम्पादनम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्यनन्तत्वसामान्येनानन्तविश्वदेवसम्पादनं कृत्वाऽनन्तलोकजयः । एवं जीवस्य चिद्रूपसामान्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्यासस्वब्रह्मणि मन आदित्यादौ ब्रह्मदृष्ट्योपासनं, जीवस्यापि ब्रह्मदृष्ट्योपासनम् । सम्पाद्य आलम्बनमविद्यमानसमं कृत्वा सम्पाद्यमानस्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधान्येनानुचिन्तनं, क्रियायोगो वायोरग्न्यादीनां सम्हरणात्संवर्गगुणत्वेनोपासनम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मेत्युपासनम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्यस्येवावेक्षणम् ॥ अत्रोत्तरम् —
सम्पदादिरूपे हीत्यादि ॥
तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं च मिथ्याज्ञानापायपूर्विका विस्मृतहस्तगतसुवर्णावाप्तिवद्ब्रह्मावाप्तिः फलमनुभवारूढमपह्नूयेत । ‘नेह नानास्ति किञ्चने’ति च भेदाभावश्रुतिरुपरुद्ध्येत । तस्मान्न सम्पदादिवत्पुरुषव्यापारतन्त्रा ब्रह्मविद्या, किन्तु प्रत्यक्षादिजनितज्ञानवदपरामृष्टहानोपादानवस्तुस्वरूपमात्रनिष्ठेत्यभ्युपगन्तव्यम् ॥ तत्रेवं सति कथं ब्रह्म प्रतिपत्युत्तरकालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तदधिगमफलपर्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रतिपक्षादभेदावभासादपनयः । तस्माद् मिथ्याज्ञाननिवृत्तिमात्रं मोक्ष इति श्रुतिन्यायाभ्यां सिद्धम् ॥
ननु विधिक्रियाकर्म तावद्भवति ब्रह्म, ततः क्रियासम्बन्धे सम्भाविते भवति विधेरवसर इत्याशङ्क्याह —
न च विधिक्रियाकर्मत्वेनेत्यादि ॥
आह सोऽयं शान्तिकर्मणि वेतालोदयः ब्रह्मणः क्रियानुप्रवेशं निराकर्तुं ज्ञानक्रियाया अपि विषयत्वं निराकुर्वता तत एव शास्त्रयोनित्वमपि निराकृतमेव, तदाह —
अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेदिति ॥
अत्रोत्तरं —
नाविद्याकल्पितेत्यादि ॥
शास्त्रं हि सोऽयमित्यादिलौकिकवाक्यवद् ब्रह्मणि प्रमाणम् । तथाहि सोऽयमिति देशकालभेधोपाधिप्रविलयेनाभेदोऽवगम्यते । तथा त्वम्पदार्थोऽप्यात्मानमहंरूपं मन्यमानस्तत्त्वमसिवाक्यात्तत्पदार्थैकतामुपगच्छन् सोऽयमितिवदहमात्मकेदमंशोपाधिकृतवेद्यवेदितवेदनात्मकप्रपञ्चेनार्थात्प्रलीयमानेनावच्छिद्यविच्छिद्यमानानिदम्प्रकाशः प्रमाणफलं दर्शितः । तदप्यवच्छेदकविनाशे तदैव विजहन्निर्विशेषतामापद्यते । तेन प्रमाणादिचतुष्टयस्य युगपत्प्रलयेऽपि तदवच्छेदानुभवफलं वाक्यनिबन्धनम् । अतो वेदैकगोचरो निर्वाणमिति वेदविदः प्रतिपेदिरे । तथा चैवंविधस्य प्रमाणव्यापारस्य प्रकाशकामन्त्रब्राह्मणवादा भाष्ये दर्शिताः । एवं च नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः ।
यस्य तूत्पाद्यो मोक्ष इत्यादिना तस्माद् ज्ञानमेकं मुक्त्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते इत्यन्तेन भाष्येण
अविद्यानिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणं मोक्षं विहाय क्रियानुप्रवेशं कल्पयतोऽपि न तस्य तत्र सम्भव इति दर्शितम् । कथम् ? यदि तावदुत्पाद्यो विकार्यो वा मोक्षः ? तदा यद्यपि क्रियानुप्रवेशो युक्तः ; तथापि मोक्षस्य ध्रुवमनित्यत्वमित्युक्तं ‘न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि’त्यादि भाष्येण । अथानित्यत्वपरिहाराय स्थितस्यैवाऽऽप्यत्वमुच्यते, तदपि न ; आत्मस्वरूपस्य क्रियापूर्वकाप्यत्वानुपपत्तेः ।
व्यतिरेकेऽपि सर्वगतत्वेन नित्यप्राप्तत्वदाकाशेनेव न क्रियापेक्षा प्राप्तिः । अथ विकारावर्तिनोऽपि ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’(छा. उ. ३-१३-७) इति श्रूयमाणस्य प्राप्तये क्रियापेक्षेति, न ; विकारदेशेऽपि ब्रह्मणो विकारसंस्पर्शाभावादविशेषात् । अथ विकारावर्त्येव ब्रह्म न विकारदेशेऽस्ति, तेन तत्प्राप्तये क्रियापेक्षेति, सा तर्हि तत्प्राप्तिरात्मनस्तादात्म्यापत्तिः ? उत स्वेनैव रूपेण तत्रावस्थानम् ? यदि पूर्वकल्पः, तदा स्वरूपनाशः । अथ द्वितीयः, संयोगस्य विप्रयोगावसानत्वात् पुनरावृत्तिः । न चापुनरावृत्तिश्रुतिर्वर्तमानापदेशिनी ; तथाभावे प्रमाणान्तरमपेक्षमाणा स्वयं प्रमाणीभवति । संस्कार्यत्वमपि न सम्भवति ; गुणदोषयोराधेयापनेययोस्तत्रासम्भवात् । अथ विद्यमानस्याभिव्यक्तिरादर्शस्येव निघर्षणेन, तच्च न ; आत्मनः क्रियारहितत्वात् । अन्याश्रयायास्तु न विषयः ; प्रत्यग्रूपत्वात् ।
ननु ईश्वराभिध्यानान्मलापगमो भविष्यति दीपप्रभयेव घटावगुण्ठनेन तमोऽपनयः, उच्यते — किमसौ मलः परमार्थः सन् ? उताविद्यात्मकः । यदि परमार्थः सन् , न तर्हि स्वाश्रयविकारमन्तरेणापसारयितुं शक्यः । न हि विकार आत्मनः सम्भवति ; अविकारित्वश्रुतेः । अथाविद्यात्मकः, न तर्ह्यविद्यावद्गतेन सम्यग्ज्ञानेन विना तस्यापनयः ; लोके तथा दृष्टत्वात् , अन्यथा चादृष्टत्वात् । न च स्नानादिक्रिययेव संस्कार्यत्वसम्भवः ; अहङ्कर्तुरिदमंशस्यैव तत्र संस्कार्यत्वात् ।
तस्मान्न संस्कार्योऽपि मोक्षः
इत्युपसंहरति । अथापि त्वन्यदपि क्रियाफलमस्ति, तद्द्वारेण मोक्षस्य क्रियानुप्रवेशः स्यादित्याशङ्क्याह —
अतोऽन्यन्मोक्षं प्रतीत्यादि ॥
न हि दृष्टमदृष्टं वा क्रियाफलमुत्पत्त्यादिचतुष्टयातिरिक्तं शक्यं केनचिद् दर्शयितुम् । तस्माज्ज्ञानस्यैव मोक्षो गोचरः, न क्रियायाः ॥
ननु ज्ञानस्यापि न गोचरो ब्रह्मेत्युक्तं
‘न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः’ इति
वदता । सत्यं कर्मत्वं ज्ञानं प्रति निषिद्धम् ; न पुनरनुपयोग एवैकान्ततो ज्ञानस्याभिहितः ।
तथा च तत्रैवोपयोगप्रकारो दर्शितः —
अविद्यापरिकल्पितभेदनिवृत्तिपरत्वादित्यादिना भाष्येण ।
मा तर्हि वोचः क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यत इति,
ननु ज्ञानं मानसी क्रिया, न वैलक्षण्यादित्युत्तरम् ।
कथं वैलक्षण्यम् ? अजन्यफलत्वात् , उक्तमजन्यफलत्वमहङ्कारटीकायाम् । इदमपरं वैलक्षण्यं — ज्ञानं न चोदनाजन्यं, वस्तुजन्यं हि तत् । वस्तु च ज्ञानात्प्रागेव स्वरूपे व्यवस्थितम् । अतस्तत्तन्त्रं ज्ञानम् । न तद् ज्ञानेनान्यथा कर्तुं शक्यम् । अथापि स्यात् भवेत्प्रत्यक्षं वस्तुजन्यम् , अनुमानादिषु कथम् ? तत्रापि लिङ्गादिपरतन्त्रम् , न चोदनायास्तत्रानुप्रवेशः । किं च न चोदनाजन्यं ज्ञानमेकान्ततो वस्तुपरिच्छेदकम् ; योषादिष्वग्न्यादिदृष्टिविधानदर्शनात् । अतो वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि न चोदनाजन्यत्वं, न वा पुरुषतन्त्रत्वम् , अपि तु प्रमाणवस्तुपरतन्त्रत्वम् , एवं सम्यग्ज्ञानत्वोपपत्तेरग्नाविवाग्निज्ञानस्य । एवं सति ब्रह्मात्मैकत्वविज्ञानस्यापि यथाभूतवस्तुविषयत्वान्न चोदनाजन्यत्वम् । अतो न विधेरत्रावकाशः ॥
अतः श्रूयमाणा अपि विधयः केवलप्रमाणवस्तुपरतन्त्रे ज्ञानेऽकिञ्चित्करत्वात् कुण्ठीभवन्ति । अतोऽर्थवादतयाऽऽत्मज्ञानस्तावकत्वेन तदुन्मुखीकरणात् सामर्थ्यसिद्धबहिर्मुखतानिरोधाच्च विधिकार्यलेशस्य विद्यमानत्वाद्विधय इव लक्ष्यन्ते ॥
तथा च श्रवणं नाम आत्मावगतये वेदान्तवाक्यविचारः, शारीरकश्रवणं च । मननं वस्तुनिष्ठवाक्यापेक्षितदुन्दुभ्यादिदृष्टान्तजन्मस्थितिलयवाचारम्भणत्वादियुक्तार्थवादानुसन्धानं, वाक्यार्थाविरोध्यनुमानानुसन्धानं च । निदिध्यासनं मननोपबृंहितवाक्यार्थविषये स्थिरीभावः, विधेयस्योपासनापर्यायस्य निष्फलत्वात् । दर्शनम् अतो वाक्यार्थे स्थैर्यान्निरस्तसमस्तप्रपञ्चावभासविज्ञानघनैकतानुभवः । कः पुनरत्रार्थवादः ? इदमत्र प्रस्तुतं — क्रियाकारकफलात्मकात् संसाराद्विरक्तायै मैत्रेय्यै मुमुक्षवे मोक्षसाधनमात्मज्ञानं प्रतिपिपादयिषन् ‘न वा अरे पत्युः कामाय पतिः प्रियो भवती’ति पत्यादेरीप्सितत्वं प्रतिषिध्यात्मन ईप्सिततमत्वमाह । ननु नैवात्मन ईप्सिततमत्वमुच्यते, किन्तु पत्यादीनामेवात्मार्थतयेप्सितत्वमुच्यते — ‘आत्मनस्तु कामाय पतिः प्रियो भवती’ति, मैवम् ; न हि तस्मिन्ननिष्टे तदर्थमिष्टं भवति । तस्मादनेनोपायेनात्मन एवेप्सितत्वमुक्तम् । ईप्सितश्चेत् , ‘द्रष्टव्यः श्रोतव्यः’ इत्येषोऽर्थवादः । एतच्च सर्वं प्रथमसूत्रेणैव सूत्रितं, विवृतं च भाष्ये ॥
अपि च नैवायं विधौ कृत्यः, किं तर्हि ? ‘अर्हे कृत्यतृचश्चे’त्यर्हे कृत्यः । एतेन (छा. उ. ८-१२-१)‘आत्मेत्येवोपासीत’(बृ. उ. १-४-१५) ‘आत्मानमेव लोकमुपासीते’त्येवमादीनि विधिच्छायानि वाक्यानि व्याख्यातानि वेदितव्यानि ॥
अतो हानोपादानशून्यात्मावगमादेव कृतकृत्यता प्रतीयते श्रुतिस्मृतिवादानां च तथा प्रस्थितत्वात् ।
तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणमित्युपसंहरति ॥
तस्यायमर्थः — न प्रमाणात्मकेनेतरेण वा ज्ञानव्यापारेण विधीयमानत्वेन कल्पितेन संस्पर्शो ब्रह्मण इति ॥
यदपि केचिदाहुरित्यादि ॥
अस्यायमर्थः — यदि स्वरूपमात्रनिष्ठोऽपि वेदभागोऽस्ति, तत इदं पूर्वोक्तं प्रतिष्ठां लभते ; अन्यथा क्रियानुप्रवेशातिरिक्तमवेदार्थ एव स्यादिति,
अस्योत्तरं —
तन्न ; औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति
वस्तुसङ्ग्रहवाक्यम् ।
अस्यैव प्रपञ्चः
योऽसावुपनिषत्स्वेवाधिगत इत्यादिः ॥
अस्यायमर्थः — योऽयमहंप्रत्ययविषयात् क्रियासम्बन्ध्यात्मनोऽतिरिक्तः सम एकः सर्वभूतेष्वहङ्कर्तुरपि साक्षिभूतः, न स केनचित्प्रमाणेन सिद्धः, येन क्रियाशेषतां नीयेत । न हि प्रमाणान्तरासिद्धः क्रियासम्बन्धितयोपदेष्टुं शक्यः । न च स न प्रतीयत इति युक्तं वक्तुं, तत्प्रतिपादकोपनिषत्पदसमन्वयस्य दर्शितत्वात् । अत एवौपनिषदत्वविशेषणम् ; अनन्यविषयत्वात् । तच्च वेदान्तानां तत्परत्वेऽवकल्पते । नैष प्रतीयमानोऽपि शुक्तिरजतवन्मिथ्येति शक्यं वक्तुम् ; बाधाभावात् ॥ इतश्च न शक्यते मिथ्येति विदितुं तस्मिन्नौपनिषदे पुरुषे ‘स एषः’ ‘नेति नेत्या’त्मशब्दप्रयोगात् । आत्मनश्चानिराकार्यत्वात् , य एव निराकर्ता तस्यैवात्मत्वप्रसङ्गात् ॥
न च तस्य कदाचिदभावः सम्भवति ; अभावहेतूनामविषयत्वात् । न च निर्हेतुको विनाशः चितेरेकरूपावभासेन क्षणभङ्गनिराकरणात् । अतोऽवच्छेदत्रयशून्ये तस्मिन् स्वयम्प्रकाशमाने सर्वस्य पुरुषावधिर्विनाशः । सा काष्ठा सा परा गतिः ॥ तदेवमसंसार्यात्मनि प्रमाणान्तरागोचरे वेदान्तवाक्यसमन्वयात् प्रतीयमाने कथं तत्परो वेदभागो न भवेत् ? कथं वा प्रतीयमानो निराक्रियेत ?
ननु ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’त्यक्रियार्थानां पदानामर्थशून्यत्वं शास्त्रतात्पर्यविद आहुः । तस्मात्प्रवृत्तिनिवृत्तिव्यतिरिक्तार्थवादिनां निरालम्बनत्वाद् ततो वस्त्ववगमः सामान्यतोदृष्टनिबन्धनो भ्रमः । तेन प्रवृत्तिनिवृत्त्यनुपयोगि वस्तु न शब्दादवगम्यते, अत एव तन्मिथ्येति शक्यते वक्तुम् ; प्रमाणान्तरस्यापि तद्विषयस्यासम्भवात् । कथं पुनः प्रवृत्तिनिवृत्त्यनुपयोगि वस्तु न शब्दादवगम्यते ? शब्दस्य तत्र सामर्थ्याग्रहणात् । न चागृहीतसामर्थ्य एव शब्दश्चक्षुरादिवद्विज्ञानं जनयति । सामर्थ्यग्रहणं च ज्ञानकार्योन्नेयम् । ज्ञानं च विशिष्टार्थविषयं तद्विषयप्रवृत्त्याऽवगम्यते । तदभावे कुतः सामर्थ्यकल्पना स्यात् ? अक्लृप्तसामर्थ्यश्च शब्दोऽक्रियाशेषेऽर्थे कथं विज्ञानं जनयेत् ?
उच्यते । नैव सूत्रकारभाष्यकारयोरभिप्रायो लौकिको वा न्यायः सम्यगवगतो भवता । पश्यतु भवान् देवदत्त ! ‘गामभ्याज’ ‘शुक्लां दण्डेने’ति प्रवर्तकाभ्याजेतिपदातिरेकिणां देवदत्तादिभूतार्थवादिनामप्रवर्तकानामपि प्रवर्तकादेव वाक्याद्भूतवस्तुविषयमपि सामर्थ्यं प्रतीयते ? न वेति ? प्रतीयते चेत् , निष्प्रयोजनत्वमानर्थक्यं, न निरालम्बनत्वम् ।
तदाह भाष्यकारः —
अपि च आम्नायस्य क्रियार्थत्वादित्यादिना भाष्येण ।
प्रयोजनं चानन्तरं पारम्पर्येण वा सुखावाप्तिर्दुःखपरिहारो वा स्यात् । अतस्तदर्थक्रियानुपयोग्यर्थवाचिनां ‘सोऽरोदीदि’त्यादिपदानां भवत्वानर्थक्यं, ब्रह्मात्मत्वावगतिसमन्वितानां तु परमपुरुषार्थफलानां कथं निष्प्रयोजनत्वम् । स्यादेतत् यद्यपि प्रवर्तकादेव वाक्याद्भूतार्थविषयमपि सामर्थ्यं प्रतीयते ; तथाऽपि नाप्रतिपन्नभूतार्थावगतेः सम्भवः । क्रियार्थतयैव संसर्गावगमात् । न हि गोपदात्तदर्थः सास्नादिमत्पिण्डधर्मत्वेनावगतो व्युत्पत्तिकाले पुनः प्रयोगान्तरेष्वप्रतिष्ठितः केसरादिमत्पिण्डधर्मत्वेन वा प्रतीयते ।
विषम उपन्यासः ; गोपदस्याभिधेयसम्बन्धेन नानाविधसामर्थ्यमुपलब्धम् । अतो युक्तैकरूपैव प्रतीतिः । शब्दान्तरार्थान्वये पुनः प्रतिविभक्ति प्रतिपदार्थान्तरं च प्रयोगभेदादन्यथान्यथा च सम्बन्धग्रहणकालएवाऽऽवापोद्वापनिबन्धनः समन्वयो दृश्यते । तेन द्रव्यगुणक्रियाभिधायिभिः पदैः सम्बन्धयोग्यताभिधायिविभक्तिसंयुक्तैः प्रयोगैदम्पर्यवशादनियतः सम्बन्धो व्युत्पत्तिकाले निरूपितः । तथा च ‘वषट्कर्तुः प्रथमभक्षः’ ‘तस्मात्पूषा प्रपिष्टभागः’ इत्येवमादौ क्रियाशून्यानां समन्वयो दृश्यते । यस्तु कर्तव्य इति क्रियासम्बन्धः स समन्वयनिमित्तो न तन्निमित्तः समन्वयः । यत्तु तद्भूतानां क्रियार्थेन समाम्नाय इति सूत्रयामास जैमिनिः, तदपि सिद्धेषु रूपादिष्वर्थेषु वर्तमानानां सामानाधिकरण्याद्यर्थत्वेन समाम्नायः समुच्चारणमिति यतो दर्शितः समन्वयो विशेषणविशेष्यत्वेनापि क्रियार्थेनेति तु धर्मजिज्ञासोपक्रमात्प्रकृतोपयोगितया सूचितम् । तथा च भाष्यकारोऽपि ‘दृष्टो हि तस्यार्थः कर्मावबोधनमि’त्यर्थसद्भावमात्रे कथनीये कर्मावबोधनमिति प्रकृतोपयोगित्वेनैवोक्तवान् ।
तदेतदाह भाष्यकारः —
यदपि शास्त्रतात्पर्यविदामनुक्रमणमित्यादिभाष्येण ।
अत एव पूर्वेण तन्त्रेणागतार्थत्वाच्छारीरकारम्भः । तत्र हि वेदस्य विवक्षितार्थत्वं स्वतःप्रामाण्यं स्वरूपे च विज्ञानोत्पत्तौ शब्दस्य सामर्थ्यमित्येतत्सर्वमवगतम् । क्रियार्थेन समाम्नाय इति तु धर्मजिज्ञासाप्रतिज्ञानुसारेण सूत्रितम् । इह पुनः ‘तत्तु समन्वयादि’ति विशेषणविशेष्यात्कमपि गौणमपि सामानाधिकरण्यं विहायैकस्मिन्निरंशे ‘तत्त्वमसी’ति समन्वयो मुख्यः प्रदर्शितः । तथा च भगवान् पाणिनिरव्यतिरिक्ते प्रातिपदिकार्थमात्रे प्रथमां स्मरति, नाऽस्तिक्रियाकर्तर्येवातिरिक्तेऽर्थे । तेन च कात्यायनस्य ‘अस्तिर्भवन्तीपरः’ इति मतं नानुमन्यते । दृश्यते च ‘फलिता अमी द्रुमाः’ ‘राज्ञोऽयं पुरुषः’ इत्यस्तिक्रियाशून्यः समन्वयः । नात्रापि ये फलिताद्रुमास्ते सन्ति, यो राज्ञः पुरुषः सोऽस्तीति विवक्षितम् अपित्वेते द्रुमाः फलिताः, अयं पुरुषो राज्ञ इति सम्बन्धमात्रावसितं वाक्यम् । एवं सामान्यतः सिद्धस्य जगत्कारणस्य सर्वज्ञत्वादिस्वभावत्वे त्वम्पदार्थस्य च ब्रह्मात्मतायां समन्वयो वेदान्तवाक्यानां सिद्धः, न तत्रास्तिक्रियाया वस्तुस्वरूपान्तर्वर्तिन्या अप्यनुप्रवेशो दूरत एव बाह्यायाः ॥
किञ्च ‘ब्राह्मणो न हन्तव्यः’ इति प्रतिषेधवाक्यसमन्वये न क्रिया क्रियार्थो वाऽवगम्यते, किन्तु क्रियानिवृत्तिरेव नियमेन प्रतीयते । व्रतशब्दसमन्वयात्तु प्रजापतिव्रतादिषु ‘नेक्षेतोद्यन्तमादित्यमि’त्यादिष्वनीक्षणं मानसी सङ्कल्पक्रिया प्रतीयते अनीक्षणं कुर्यात् , नेक्षेऽहमिति सङ्कल्पयेदिति, न नञः समन्वयमात्रात् , तस्य समन्वीयमानार्थाभावकरत्वात् ।
न च स्वभावप्राप्तहन्त्यर्थानुरागेण
इत्यादिभाष्यस्यायमर्थः — स्वभावत एव रागादिनिमित्ताच्छास्त्रमन्तरेणैव हननक्रिया प्राप्ता यदि नञाऽनुरज्यते, विशेष्यते, तदा भवत्यहननमिति । ततश्चाहननं कुर्यादिति वाक्यार्थः स्यात् , न ‘हननं न कुर्यादि’ति हननक्रियानिवृत्त्यौदासीन्यम् । अतो न हन्यामिति मानसी सङ्कल्पक्रियाऽपूर्वाऽभिहिता स्यात् । न चैतद्युक्तम् ; नञः सम्बन्ध्युपमर्दरूपत्वात् । अनीक्षणे तु व्रतशब्दबलात्तथा समन्वयः, न नञः सामर्थ्यादित्युक्तम् ॥
ननु नञर्थे नियोगः प्रतिषेधेषु, तेन यागाद्यनुष्ठानादिव नञर्थानुष्ठानान्नियोगः साध्यः, किमुच्यते क्रियानिवृत्त्यौदासीन्यं प्रतीयत इति ? वार्तमेतत् । नञर्थो हि नाम न क्रिया, नापि साधनम् , अपि तु येन संसृज्यते तस्याभावो न तत्सिद्धिहेतुः । एवं प्रतिषेधस्य विधेरन्यत्वं सिध्यति । अन्यथा विधिरेव सर्वं स्यात् । तस्माद् संसृज्यमानाभावमात्रे प्रतिषेधवाक्यं पर्यवस्यति । तत्र न विधिगन्धोऽपि विद्यते । तच्च संसृज्यमानं विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नाभ्यनुज्ञानानामभावात्प्रतिपाद्यधर्मः । प्रतिषिध्यमानक्रियाफलं प्रार्थना प्रतिषेधवाक्ये लिङाद्यर्थः । तेन तदभावः प्रतिषेधार्थः, स च प्रागभावः स्वभावसिद्धः । तस्मात्संस्कारोद्बोधनिमित्तसन्निधावपि तत्प्रतिबन्धे प्रयत्न आस्थेयः । स च यद्यपि साध्यः ; तथाऽप्यन्वयव्यतिरेकगम्यो न शब्दार्थः ; तत्प्रतिपादकपदाभावाच्च, एकवाक्ये संसृष्टपदार्थव्यतिरेकेणान्यत्र वाक्यार्थत्वाभावाच्च । अतो यश्चार्थादर्थो न स चोदनार्थः । वाक्यन्तु क्रियाशून्यमेवावसितम् । न साध्यं किञ्चित्तेन विषयीकृतम् ; औदासीन्यमात्रावसितत्वात्तस्य ॥
अथ पुनर्नञर्थविषयो नियोग एव प्रतिषेधेऽपि वाक्यार्थ इत्यभिनिवेशः, भवतु ; तथाऽपि प्रतिषिध्यमानक्रियानिवृत्त्या स सिध्यति, क्रियोपादाने च तत्फलप्रार्थनैव हेतुरिति तत्कारणप्रतिबन्धे प्रयत्नास्थानान्नियोगसिद्धिः । तच्चान्वयव्यतिरेकावसेयमिति पूर्वोक्तान्मार्गान्न विशिष्यते । तदेवं वृद्धव्यवहारानुसारेणैव समन्वयानुसरणे सति तद्गम्यं ब्रह्म न धर्मवच्चोदनागम्यम् । दर्शितानि च वेदान्तवाक्यानि कारणसामान्ये सिद्धे तद्विशेषावगमाय समन्वितानि ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्यादीनि तत्त्वमसीत्यादीनि च ।
यत् पुनरुक्तं — प्रतिपन्नब्रह्मात्मभावस्यापि पूर्ववत्संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमस्य समन्वयस्य, ततो न तन्मात्रे तस्य पर्यवसानमिति, अत्रोत्तरम् —
नावगतब्रह्मात्मभावस्येत्यादि ॥
अस्यायमर्थः — न कर्मनिमित्तस्तावच्छरीरसम्बन्धः ; इतरेतराश्रयदोषात्क्रियादिरहितत्वाच्च चैतन्यस्य । अनादित्वेऽप्यन्धपरम्परावदप्रतिष्ठितत्वात् । तन्निमित्तत्वे च पुत्रादिशरीरेष्विव गौणत्वप्रसङ्गात् , तथानुभवाभावात् , प्रसिद्धगौणत्वप्रकारासम्भवात् , पुत्रादिशरीरेणेव स्वशरीरेणापि प्रमातृत्वाभावप्रसङ्गात् । पारिशेष्यादविद्यानिमित्तः शरीरसम्बन्धः । तस्यां च निवृत्तायां तत्सम्बन्धनिवृत्तौ कथं पूर्ववत्त्वनिमित्तः सुखदुःखानुभवः ? तथाच श्रुतिस्मृतिवादा ब्रह्मविदः सर्वसंसारप्रवृत्त्यभावं दर्शयन्त उदाहृता भाष्ये । तस्मान्न ब्रह्मात्माभिमानिनः पूर्ववत्संसारित्वम् ; तदभिमानविरोधात् । वैषयिकस्तु साक्षादनुभवाभिमानः संसारविषय आरब्धकर्मशेषनिमित्तः तिमिरनिमित्तद्विचन्द्रवत् । मनननिदिध्यासनयोर्न ब्रह्मावगत्युत्तरकालीनता, किन्तु श्रवणवदवगत्युपायतया पूर्वकालतैवेत्युक्तम् ॥
तदेवं सिद्धस्य वस्तुनः स्वरूपसत्तामात्रेणाप्रतिपन्नस्य प्रमाणविषयतया प्रमेयत्वाद्विधीयमानक्रियाकर्मत्वे तु कारकत्वस्य प्रमाणान्तरसिद्ध्यपेक्षत्वात्ततः सिद्ध्यनुपपत्तेर्वाक्यभेदप्रसङ्गात्प्रत्यक्षादिविरोधे देवताधिकरणन्यायासिद्धेर्वाक्यान्तरसिद्धस्य कर्मकारकत्वे चतुर्विधस्यापि कर्मकार्यस्य तत्रासम्भवात् , तत्कर्मकोपासनाद्देवताकर्मयागादिवत्स्वर्गोपमो मोक्षः फलं कल्प्येत ; तस्य तद्वदेवानित्यत्वप्रसङ्गात् , ‘ब्रह्म वेद ब्रह्मैव भवती’त्यादिभ्यो ब्रह्मवेदनमोक्षफलयोः निरन्तरत्वप्रतिपादकेभ्यो वाक्येभ्योऽर्थादन्तराले क्रियानुप्रवेशनिराकरणात् , ‘तरति शोकमात्मविदि’त्यादिश्रुतिभ्यो मोक्षप्रतिबन्धनिवृत्तिमात्रस्यैवात्मज्ञानफलस्य दर्शितत्वात् , साध्यान्तराभावे क्रियानुपपत्तेर्ब्रह्मात्मावगमस्य च मुख्यैक्याधिकरणस्य सम्पदादिवद्विकल्पनानुपपत्तेः, प्रमाणजन्याया अपि विदिक्रियायः कर्मत्वनिषेधाद्विधीयमानोपास्तिक्रियाविषयत्वस्य दूरनिरस्तत्वाद् विदिक्रियाविषयत्वेऽपि समारोपितनिवर्तनमुखेन नित्यसिद्धचैतन्यस्य ब्रह्मस्वरूपतासमर्पणाद् वाक्यविषयत्वोपपत्तेः, सत्यपि वा विधिक्रियाकर्मत्वे तस्य च विध्यनायत्तत्वाद्विधिच्छायानां संस्तावकत्वेनाहार्यत्वात् संसारनिवृत्तेश्च ज्ञानफलस्य दृष्टत्वात् । अतो विधिनिरपेक्षं स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् ॥
एवं च सति पदानां परस्परसमन्वयजनितविज्ञानातिरेकेण चक्षुरादिवत्प्रवर्तकत्वस्याभावात् तद्विषयः शास्त्रारम्भः पृथगुपपद्यते । अन्यथाऽत्रापि बोधकत्वातिरेकेण प्रवर्तकत्वमपि चेत् , ‘अथातो धर्मजिज्ञासे’त्येवारब्धत्वान्न पृथगारभ्येत । अथाप्यबहिःसाधनत्वात्ततः परिशेषितमिति, तथाप्यथातः परिशिष्टधर्मजिज्ञासेति प्रतिज्ञा स्यात् ; प्रवर्तकविशेषजिज्ञासनात् । तदेवं ब्रह्मावगमात् प्रागेव विधिविधेयप्रमाणप्रमेयव्यवहारः । परतस्तु प्रमातुर्विधिविषयस्य चाभावान्न तत्सद्भाव इति ।
अपिचाहुरिति ।
प्रसिद्धमेतद् ब्रह्मविदामिति पूर्वोक्तं न्यायं सङ्क्षेपतः श्लोकैः सङ्गृह्णाति
गौणमिथ्यात्मन इति ॥
गौणोऽहंमानो ममत्वेन सम्बन्धात्पुत्रदारादौ । अतः स गौण आत्मा । मिथ्यादेहादारभ्याहङ्कर्तुरिदमंशपर्यन्तोऽहंमानो नात्मन्यात्माभिमानात् ; अतः स मिथ्यात्मा । तस्योभयस्याप्यात्मनो मुख्यपरमार्थब्रह्मात्मावगमेन तदाधारपुत्रदेहादिबाधनादसत्त्वं तन्निमित्तं शास्त्रीयं नियोज्यत्वं शारीरं च भोक्तृत्वं निमित्ताभावान्न कथञ्चिदुद्भवेदित्यर्थः । तदेतद्द्रढयन्नाह —
अन्वेष्टव्यात्मेति ॥
‘सोऽन्वेष्टव्यः’(छा. उ. ८-७-१) इत्याद्युपक्रमेणोपदिष्टापास्ताशेषसंसाररूपब्रह्मात्मावगमात्प्रागेव प्रमातृत्वाभिमानः प्रत्यक्चितेर्यदा पुनस्तद्रूपं विस्मृतसुवर्णवदवाप्तं, तदा स एव प्रमातृत्वाभिमतो निरस्तसंसारदोषः सम्पन्नः । कुतस्तस्य कर्तृत्वभोक्तृत्वे भवतः । यद्ययमहमुल्लेखप्रमुखप्रमातृत्वादिव्यवहारः कल्पितः, कथमिदानीमस्य प्रामाण्यम् ? इत्याशङ्क्याह —
देहात्मप्रत्यय इति ।
यथा देहे विशिष्टजातीये तद्व्यतिरिक्तस्याहङ्कर्तुरहंमानसम्बन्धः कल्पितोऽपि स्वनिबन्धने लोकशास्त्रव्यवहारे यथाऽवगतितत्त्वहेतुः, तथाऽयं कल्पितोऽप्यलौकिकात्मस्वरूपप्रतिपत्तेः प्राक् प्रमाणम् ; निश्चितप्रत्ययोत्पादनाद्बाधानुपलब्धेश्चेति ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नाम नवमं वर्णकं समाप्तम् ॥