अद्वैतशारदा

पञ्चपादिका

९ परिच्छेदः

व्याख्याः

अथ नवमं वर्णकम्

अत्रोच्यते, किमिदं ज्ञानं ब्रह्मकर्मकं विधीयते ? न तावच्छब्दजन्यम् । स्वाध्या­य­पा­ठा­देव तत्सिद्धेः, अथ शब्दजन्यस्यैव ज्ञानस्याभ्यासो विधीयत इति, न तस्य प्रयोजनं पश्यामः ॥ ननु इष्टविषयस्य ज्ञानसन्तानस्य सुख­स­न्ता­न­हे­तुत्वं दृश्यते, यद्येवं तद्वदेव विध्यानर्थक्यम् । अथ पुनः साक्षात्करणाय ज्ञान­स­न्ता­न­वि­धि­रु­च्यते, नैतद्युक्तम् ; न हि दृष्टाधिकारो विधि­र­स­म्भा­वि­त­दृ­ष्ट­फलो भवति । न हि लैङ्गिकोऽर्थो लिङ्गजन्मनैव ज्ञानेन सह­स्र­शोऽ­प्य­भ्य­स्य­मा­नेन साक्षात्क्रियते । मा भूत् शाब्द­ज्ञा­ना­दे­वा­भ्य­स्य­मा­ना­त्सा­क्षा­द्भावः, तज्जन्मनो ज्ञाना­न्त­रा­द्भ­वि­ष्यति, नेत्थम्भावे प्रमाणमस्ति ॥

अस्तु तर्हि शब्दात् प्रतिपन्नस्य यथाप्रतिपत्ति ध्यानं नाम मनोव्यापारो विधीयत इति, किमर्थं तस्य विधानम् ? ध्येय­सा­क्षा­त्का­राय चेत् , न तस्य सम्भवः । न हि परोक्षं ध्यायमानं साक्षा­द्भा­व­मा­प­द्य­मानं दृष्टम् । ननु दृष्टं परोक्षमपि ध्यायमानं साक्षा­द्भा­व­मा­पन्नं कामाद्युपप्लवे, मैवम् ; न तद् ध्यायमानम् , अपि­त्व­वि­द्या­त्म­कम् , अन्यथा बाधो न भवेत् ॥

ननु ‘द्रष्टव्यः’ इति दर्शनमनूद्य ‘निदि­ध्या­सि­तव्यः’ इति ध्यानं दर्शनफलं विधीयते, उक्तमेतद् न दृष्टाधिकारो विधि­र­स­म्भा­वि­त­दृ­ष्ट­फलो भवतीति । न हि ध्यानं ध्येय­सा­क्षा­द्भा­व­हेतुः क्वचिद् दृष्टम् । अथापि भवतु नाम ध्यानाद् ध्येय­सा­क्षा­द्भावो ध्येयस्य तथात्वे किं प्रमाणम् ? शब्द­स्ता­व­त्सा­क्षा­त्क­र­णो­पा­यो­पा­स­न­वि­धाने पर्यवसितो न तत्सद्भावे, सत्यम् ; तथाऽपि तत्त्वं सिध्यति वक्ष्यमाणेन देव­ता­वि­ग्र­ह­व­त्त्व­न्या­येन । विषम उपन्यासः तत्र हि न तथात्वे साधकं बाधकं वेति प्रती­ति­श­र­णै­स्त­थाऽ­भ्यु­पे­यते ; न तथेह सर्वस्यात्मत्वे ; प्रत्य­क्षा­दि­वि­रो­धात् , आरोपितरूपेणापि ध्यानोपपत्तेः । पूर्वोक्तेष्वपि ज्ञान­वि­धि­प­क्षे­ष्व­न­यैव दिशा वस्तु­त­था­त्व­सि­द्धि­र्नि­रा­कार्या ॥

यत्पुनः कैश्चिदुच्यते — शाब्द­ज्ञा­ना­द­न्य­देव ज्ञाना­न्त­र­म­लौ­किकं वेदान्तेषु कर्तव्यत्वेन विधीयत इति, तत्र वदामः, तत्पुनः किंसाधनं किङ्कर्म चेति वक्तव्यम् । न ह्यन­व­ग­त­क­र्म­का­रकं ज्ञानं विधातुं शक्यम् ; अवगते च तस्मिन् विधानानर्थक्यम् । साधनमपि न विहितम् ; तेन विना साकाङ्क्षं वचनमनर्थकं भवेत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विवि­दि­ष­न्ती’त्या­दिना वचनेन साधनं वेदानुवचनादि विहितमेवेति चेत् , प्रमाणान्तरस्य तर्हि प्रमाणं शब्दो नात्मतत्त्वस्य, नैतदुपपद्यते ; कार्यगम्यं हि प्रामाण्यं न विधिगम्यम् । तदुक्तम् — ‘गुणा­द्वाऽ­प्य­भि­धानं स्यात्स­म्ब­न्ध­स्या­शा­स्त्र­हे­तु­त्वादि’ति । तदेवमयुक्तमेतत् , विधिसमन्वये शास्त्र­प्र­मा­णत्वं ब्रह्मणः ॥

अथापि ‘अथ यदतः परो दिवो ज्योतिरि’ति प्रप­ञ्चा­ति­रि­क्त­ब्र­ह्मा­भ्यु­प­गमे देव­ता­वि­ग्र­ह­व­त्त्व­न्या­य­स­म्भ­वात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा च श्रुतिः ‘विद्यया तदारोहन्ती’ति, न च साध्य­त्वेऽ­प्य­न्त­व­त्त्वम् ; शब्द­ग­म्य­त्वा­द­ना­वृत्तेः ‘न च पुनरावर्तते’(छा. उ. ८-५-१) इति । न ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्व­व्य­व­स्थेति मन्वा­न­स्यो­त्त­र­माह भाष्यकारः —
न कर्म­ब्र­ह्म­वि­द्या­फ­ल­यो­र्वै­ल­क्ष­ण्या­दिति ॥
वस्तु­स­ङ्ग्र­ह­वा­क्य­मे­तत् ।

तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदा­चि­द्ध­र्म­का­र्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽ­भि­प्रे­यते । तत्र यदि हस्त­ग­त­वि­स्मृ­त­सु­व­र्णा­दि­वद् भ्रान्ति­मा­त्र­व्य­व­हितं मोक्षं प्रत्याख्याय, ब्रह्म­वि­ष­य­ध्या­न­क्रि­यातो देव­ता­वि­ष­य­या­गा­दि­व­त्प्री­ति­वि­शेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तार­त­म्या­व­स्थि­तेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः ‘तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. उ. ८-१-६) इति लिङ्ग­द­र्श­नो­प­बृं­हि­त­न्या­या­व­ग­ता­नि­त्यत्वो मोक्षः प्रसज्येत ।
न च तथाभ्युपगमो मोक्षवादिनाम् ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः ॥

यत्पुनः ‘न च पुनरावर्तते’(छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं न तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्त­मा­ना­प­दे­श­त्वेन तथाभावे प्रमा­णा­पे­क्ष­णात् । न च कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रि­या­मा­त्र­सि­द्ध­त्वात् । किं च तेषामिह न पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्ते’ इति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नान­व­धि­का­म­ना­वृ­त्तिम् । अपि च अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्ष­स्या­नि­त्य­त्व­दोष उक्तः, न तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयः । तथा च ‘ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्म­वि­द्या­न­न्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेद­न­ब्र­ह्म­भ­व­न­यो­रे­क­का­ल­त्व­नि­र्दे­शात् । अतो न विदितस्य क्रियायां विनियोगः । तथा ‘तद्धै­त­त्प­श्य­न्नृ­षि­र्वा­म­देवः प्रतिपेदे’(बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वा­त्म­भा­व­यो­रे­क­का­ल­त्व­नि­र्दे­शाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाः’ इति क्रियाया हेतुभूताद्धातोः शतृ­प्र­त्य­य­स्म­र­णात् , क्रिया­या­श्चा­व्य­व­हिते हेतुमति हेतुत्वात् । यथा ‘तिष्ठन् गायती’ति तिष्ठ­ति­गा­य­त्यो­र्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत् । अत्र न स्थिति­क्रि­या­सा­म­र्थ्या­देव गीति­क्रि­या­नि­र्वृत्तिः, अपि तु प्रयत्नान्तरात् । शब्दतो न तयोर्मध्ये क्रिया­न्त­र­प्र­ती­ति­रि­त्ये­ता­व­तो­दा­ह­र­णम् । इह पुनर्न सर्वात्मभावस्य ब्रह्म­द­र्श­ना­ति­रे­केण प्रय­त्ना­न्त­रा­पेक्षा विद्यते ॥

किं च ‘तस्मै मृदितकषायाय तमसः पारं दर्श­य­ती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्ष­व्य­व­धा­यि­नोऽ­प­न­य­न­मात्रं दर्शयन्ति, न मोक्षं क्रियासाध्यम् । इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्या­ज्ञा­ना­पाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्या­ज्ञा­ना­पा­यश्च ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­ना­द्भ­वति, न क्रियातः । कथं गम्यते ? ‘इन्द्रो मायाभिः पुरुरूप ईयते’(बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रति­प­क्षा­द­भे­दा­व­भा­सा­द­प­नय इति गम्यते ॥

अथापि स्यान्नै­क­त्व­वि­ज्ञानं यथा­व­स्थि­त­व­स्तु­वि­षयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्प­न्ना­मा­ल्प­मपि वस्त्वा­ल­म्ब­नी­कृत्य केन­चि­त्सा­मा­न्येन दर्श­न­मा­त्रा­न्म­ह­द्व­स्तु­स­म्पा­द­नम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्य­न­न्त­त्व­सा­मा­न्ये­ना­न­न्त­वि­श्व­दे­व­स­म्पा­दनं कृत्वाऽ­न­न्त­लो­क­जयः । एवं जीवस्य चिद्रू­प­सा­मा­न्येन ब्रह्म­रू­प­स­म्पा­दनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्या­स­स्व­ब्र­ह्मणि मन आदित्यादौ ब्रह्म­दृ­ष्ट्यो­पा­सनं, जीवस्यापि ब्रह्म­दृ­ष्ट्यो­पा­स­नम् । सम्पाद्य आल­म्ब­न­म­वि­द्य­मा­न­समं कृत्वा सम्पा­द्य­मा­न­स्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधा­न्ये­ना­नु­चि­न्तनं, क्रियायोगो वायो­र­ग्न्या­दीनां सम्ह­र­णा­त्सं­व­र्ग­गु­ण­त्वे­नो­पा­स­नम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मे­त्यु­पा­स­नम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्य­स्ये­वा­वे­क्ष­णम् ॥ अत्रोत्तरम् —
सम्पदादिरूपे हीत्यादि ॥
तथा सति तत्त्व­म­स्या­दि­वा­क्यानां निरु­प­च­रि­त­ब्र­ह्मा­त्मै­क­त्वा­व­ग­म­परः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं च मिथ्या­ज्ञा­ना­पा­य­पू­र्विका विस्मृ­त­ह­स्त­ग­त­सु­व­र्णा­वा­प्ति­व­द्ब्र­ह्मा­वाप्तिः फल­म­नु­भ­वा­रू­ढ­म­प­ह्नू­येत । ‘नेह नानास्ति किञ्चने’ति च भेदा­भा­व­श्रु­ति­रु­प­रु­द्ध्येत । तस्मान्न सम्प­दा­दि­व­त्पु­रु­ष­व्या­पा­र­तन्त्रा ब्रह्मविद्या, किन्तु प्रत्य­क्षा­दि­ज­नि­त­ज्ञा­न­व­द­प­रा­मृ­ष्ट­हा­नो­पा­दा­न­व­स्तु­स्व­रू­प­मा­त्र­नि­ष्ठे­त्य­भ्यु­प­ग­न्त­व्यम् ॥ तत्रेवं सति कथं ब्रह्म प्रति­प­त्यु­त्त­र­कालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तद­धि­ग­म­फ­ल­प­र्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रति­प­क्षा­द­भे­दा­व­भा­सा­द­प­नयः । तस्माद् मिथ्या­ज्ञा­न­नि­वृ­त्ति­मात्रं मोक्ष इति श्रुति­न्या­याभ्यां सिद्धम् ॥

ननु विधिक्रियाकर्म तावद्भवति ब्रह्म, ततः क्रियासम्बन्धे सम्भाविते भवति विधेरवसर इत्याशङ्क्याह —
न च विधि­क्रि­या­क­र्म­त्वे­ने­त्यादि ॥

आह सोऽयं शान्तिकर्मणि वेतालोदयः ब्रह्मणः क्रियानुप्रवेशं निराकर्तुं ज्ञानक्रियाया अपि विषयत्वं निराकुर्वता तत एव शास्त्र­यो­नि­त्व­मपि निराकृतमेव, तदाह —
अविषयत्वे ब्रह्मणः शास्त्र­यो­नि­त्वा­नु­प­प­त्ति­रिति चेदिति ॥

व्यतिरेकेऽपि सर्वगतत्वेन नित्य­प्रा­प्त­त्व­दा­का­शे­नेव न क्रियापेक्षा प्राप्तिः । अथ विका­रा­व­र्ति­नोऽपि ‘अथ यदतः परो दिवो ज्योति­र्दी­प्यते’(छा. उ. ३-१३-७) इति श्रूयमाणस्य प्राप्तये क्रियापेक्षेति, न ; विकारदेशेऽपि ब्रह्मणो विका­र­सं­स्प­र्शा­भा­वा­द­वि­शे­षात् । अथ विकारावर्त्येव ब्रह्म न विकारदेशेऽस्ति, तेन तत्प्राप्तये क्रियापेक्षेति, सा तर्हि तत्प्रा­प्ति­रा­त्म­न­स्ता­दा­त्म्या­पत्तिः ? उत स्वेनैव रूपेण तत्रावस्थानम् ? यदि पूर्वकल्पः, तदा स्वरूपनाशः । अथ द्वितीयः, संयोगस्य विप्र­यो­गा­व­सा­न­त्वात् पुनरावृत्तिः । न चापु­न­रा­वृ­त्ति­श्रु­ति­र्व­र्त­मा­ना­प­दे­शिनी ; तथाभावे प्रमा­णा­न्त­र­म­पे­क्ष­माणा स्वयं प्रमाणीभवति । संस्कार्यत्वमपि न सम्भवति ; गुण­दो­ष­यो­रा­धे­या­प­ने­य­यो­स्त­त्रा­स­म्भ­वात् । अथ विद्य­मा­न­स्या­भि­व्य­क्ति­रा­द­र्श­स्येव निघर्षणेन, तच्च न ; आत्मनः क्रिया­र­हि­त­त्वात् । अन्या­श्र­या­यास्तु न विषयः ; प्रत्य­ग्रू­प­त्वात् ।

ननु ईश्व­रा­भि­ध्या­ना­न्म­ला­प­गमो भविष्यति दीपप्रभयेव घटावगुण्ठनेन तमोऽपनयः, उच्यते — किमसौ मलः परमार्थः सन् ? उताविद्यात्मकः । यदि परमार्थः सन् , न तर्हि स्वाश्र­य­वि­का­र­म­न्त­रे­णा­प­सा­र­यितुं शक्यः । न हि विकार आत्मनः सम्भवति ; अवि­का­रि­त्व­श्रुतेः । अथाविद्यात्मकः, न तर्ह्य­वि­द्या­व­द्ग­तेन सम्यग्ज्ञानेन विना तस्यापनयः ; लोके तथा दृष्टत्वात् , अन्यथा चादृष्टत्वात् । न च स्नाना­दि­क्रि­य­येव संस्का­र्य­त्व­स­म्भवः ; अह­ङ्क­र्तु­रि­द­मं­श­स्यैव तत्र संस्कार्यत्वात् ।
तस्मान्न संस्कार्योऽपि मोक्षः

ननु ज्ञानस्यापि न गोचरो ब्रह्मेत्युक्तं
‘न च विदि­क्रि­या­क­र्म­त्वेन कार्यानुप्रवेशो ब्रह्मणः’ इति
वदता । सत्यं कर्मत्वं ज्ञानं प्रति निषिद्धम् ; न पुनरनुपयोग एवैकान्ततो ज्ञानस्याभिहितः ।

अतः श्रूयमाणा अपि विधयः केव­ल­प्र­मा­ण­व­स्तु­प­र­तन्त्रे ज्ञानेऽ­कि­ञ्चि­त्क­र­त्वात् कुण्ठीभवन्ति । अतोऽ­र्थ­वा­द­त­याऽऽ­त्म­ज्ञा­न­स्ता­व­क­त्वेन तदुन्मुखीकरणात् साम­र्थ्य­सि­द्ध­ब­हि­र्मु­ख­ता­नि­रो­धाच्च विधिकार्यलेशस्य विद्य­मा­न­त्वा­द्वि­धय इव लक्ष्यन्ते ॥

तथा च श्रवणं नाम आत्मावगतये वेदा­न्त­वा­क्य­वि­चारः, शारीरकश्रवणं च । मननं वस्तु­नि­ष्ठ­वा­क्या­पे­क्षि­त­दु­न्दु­भ्या­दि­दृ­ष्टा­न्त­ज­न्म­स्थि­ति­ल­य­वा­चा­र­म्भ­ण­त्वा­दि­यु­क्ता­र्थ­वा­दा­नु­स­न्धानं, वाक्या­र्था­वि­रो­ध्य­नु­मा­ना­नु­स­न्धानं च । निदिध्यासनं मन­नो­प­बृं­हि­त­वा­क्या­र्थ­वि­षये स्थिरीभावः, विधे­य­स्यो­पा­स­ना­प­र्या­यस्य निष्फलत्वात् । दर्शनम् अतो वाक्यार्थे स्थैर्या­न्नि­र­स्त­स­म­स्त­प्र­प­ञ्चा­व­भा­स­वि­ज्ञा­न­घ­नै­क­ता­नु­भवः । कः पुनरत्रार्थवादः ? इदमत्र प्रस्तुतं — क्रिया­का­र­क­फ­ला­त्म­कात् संसा­रा­द्वि­र­क्तायै मैत्रेय्यै मुमुक्षवे मोक्ष­सा­ध­न­मा­त्म­ज्ञानं प्रतिपिपादयिषन् ‘न वा अरे पत्युः कामाय पतिः प्रियो भवती’ति पत्या­दे­री­प्सि­तत्वं प्रतिषिध्यात्मन ईप्सिततमत्वमाह । ननु नैवात्मन ईप्सि­त­त­म­त्व­मु­च्यते, किन्तु पत्या­दी­ना­मे­वा­त्मा­र्थ­त­ये­प्सि­त­त्व­मु­च्यते — ‘आत्मनस्तु कामाय पतिः प्रियो भवती’ति, मैवम् ; न हि तस्मिन्ननिष्टे तदर्थमिष्टं भवति । तस्मा­द­ने­नो­पा­ये­ना­त्मन एवे­प्सि­त­त्व­मु­क्तम् । ईप्सितश्चेत् , ‘द्रष्टव्यः श्रोतव्यः’ इत्येषोऽर्थवादः । एतच्च सर्वं प्रथमसूत्रेणैव सूत्रितं, विवृतं च भाष्ये ॥

अपि च नैवायं विधौ कृत्यः, किं तर्हि ? ‘अर्हे कृत्य­तृ­च­श्चे’त्यर्हे कृत्यः । एतेन (छा. उ. ८-१२-१)‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १-४-१५) ‘आत्मानमेव लोक­मु­पा­सी­ते’त्ये­व­मा­दीनि विधिच्छायानि वाक्यानि व्याख्यातानि वेदितव्यानि ॥

यदपि केचि­दा­हु­रि­त्यादि ॥
अस्यायमर्थः — यदि स्वरू­प­मा­त्र­नि­ष्ठोऽपि वेदभागोऽस्ति, तत इदं पूर्वोक्तं प्रतिष्ठां लभते ; अन्यथा क्रिया­नु­प्र­वे­शा­ति­रि­क्त­म­वे­दार्थ एव स्यादिति,

न च तस्य कदाचिदभावः सम्भवति ; अभा­व­हे­तू­ना­म­वि­ष­य­त्वात् । न च निर्हेतुको विनाशः चिते­रे­क­रू­पा­व­भा­सेन क्षण­भ­ङ्ग­नि­रा­क­र­णात् । अतोऽ­व­च्छे­द­त्र­य­शून्ये तस्मिन् स्वय­म्प्र­का­श­माने सर्वस्य पुरु­षा­व­धि­र्वि­नाशः । सा काष्ठा सा परा गतिः ॥ तदे­व­म­सं­सा­र्या­त्मनि प्रमा­णा­न्त­रा­गो­चरे वेदा­न्त­वा­क्य­स­म­न्व­यात् प्रतीयमाने कथं तत्परो वेदभागो न भवेत् ? कथं वा प्रतीयमानो निराक्रियेत ?

ननु ‘आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­ना­मि’त्य­क्रि­या­र्थानां पदा­ना­म­र्थ­शू­न्यत्वं शास्त्र­ता­त्प­र्य­विद आहुः । तस्मा­त्प्र­वृ­त्ति­नि­वृ­त्ति­व्य­ति­रि­क्ता­र्थ­वा­दिनां निरालम्बनत्वाद् ततो वस्त्ववगमः सामा­न्य­तो­दृ­ष्ट­नि­ब­न्धनो भ्रमः । तेन प्रवृ­त्ति­नि­वृ­त्त्य­नु­प­योगि वस्तु न शब्दादवगम्यते, अत एव तन्मिथ्येति शक्यते वक्तुम् ; प्रमा­णा­न्त­र­स्यापि तद्वि­ष­य­स्या­स­म्भ­वात् । कथं पुनः प्रवृ­त्ति­नि­वृ­त्त्य­नु­प­योगि वस्तु न शब्दादवगम्यते ? शब्दस्य तत्र साम­र्थ्या­ग्र­ह­णात् । न चागृहीतसामर्थ्य एव शब्द­श्च­क्षु­रा­दि­व­द्वि­ज्ञानं जनयति । सामर्थ्यग्रहणं च ज्ञान­का­र्यो­न्ने­यम् । ज्ञानं च विशि­ष्टा­र्थ­वि­षयं तद्वि­ष­य­प्र­वृ­त्त्याऽ­व­ग­म्यते । तदभावे कुतः सामर्थ्यकल्पना स्यात् ? अक्लृ­प्त­सा­म­र्थ्यश्च शब्दोऽ­क्रि­या­शे­षेऽर्थे कथं विज्ञानं जनयेत् ?

उच्यते । नैव सूत्र­का­र­भा­ष्य­का­र­यो­र­भि­प्रायो लौकिको वा न्यायः सम्यगवगतो भवता । पश्यतु भवान् देवदत्त ! ‘गामभ्याज’ ‘शुक्लां दण्डेने’ति प्रव­र्त­का­भ्या­जे­ति­प­दा­ति­रे­किणां देव­द­त्ता­दि­भू­ता­र्थ­वा­दि­ना­म­प्र­व­र्त­का­ना­मपि प्रवर्तकादेव वाक्या­द्भू­त­व­स्तु­वि­ष­य­मपि सामर्थ्यं प्रतीयते ? न वेति ? प्रतीयते चेत् , निष्प्र­यो­ज­न­त्व­मा­न­र्थक्यं, न निरालम्बनत्वम् ।

विषम उपन्यासः ; गोप­द­स्या­भि­धे­य­स­म्ब­न्धेन नाना­वि­ध­सा­म­र्थ्य­मु­प­ल­ब्धम् । अतो युक्तैकरूपैव प्रतीतिः । शब्दा­न्त­रा­र्था­न्वये पुनः प्रतिविभक्ति प्रति­प­दा­र्था­न्तरं च प्रयो­ग­भे­दा­द­न्य­था­न्यथा च सम्ब­न्ध­ग्र­ह­ण­का­ल­ए­वाऽऽ­वा­पो­द्वा­प­नि­ब­न्धनः समन्वयो दृश्यते । तेन द्रव्य­गु­ण­क्रि­या­भि­धा­यिभिः पदैः सम्ब­न्ध­यो­ग्य­ता­भि­धा­यि­वि­भ­क्ति­सं­युक्तैः प्रयो­गै­द­म्प­र्य­व­शा­द­नि­यतः सम्बन्धो व्युत्पत्तिकाले निरूपितः । तथा च ‘वषट्कर्तुः प्रथमभक्षः’ ‘तस्मात्पूषा प्रपिष्टभागः’ इत्येवमादौ क्रियाशून्यानां समन्वयो दृश्यते । यस्तु कर्तव्य इति क्रियासम्बन्धः स समन्वयनिमित्तो न तन्निमित्तः समन्वयः । यत्तु तद्भूतानां क्रियार्थेन समाम्नाय इति सूत्रयामास जैमिनिः, तदपि सिद्धेषु रूपादिष्वर्थेषु वर्तमानानां सामा­ना­धि­क­र­ण्या­द्य­र्थ­त्वेन समाम्नायः समुच्चारणमिति यतो दर्शितः समन्वयो विशे­ष­ण­वि­शे­ष्य­त्वे­नापि क्रियार्थेनेति तु धर्म­जि­ज्ञा­सो­प­क्र­मा­त्प्र­कृ­तो­प­यो­गि­तया सूचितम् । तथा च भाष्यकारोऽपि ‘दृष्टो हि तस्यार्थः कर्मा­व­बो­ध­न­मि’त्य­र्थ­स­द्भा­व­मात्रे कथनीये कर्मावबोधनमिति प्रकृ­तो­प­यो­गि­त्वे­नै­वो­क्त­वान् ।

किञ्च ‘ब्राह्मणो न हन्तव्यः’ इति प्रति­षे­ध­वा­क्य­स­म­न्वये न क्रिया क्रियार्थो वाऽवगम्यते, किन्तु क्रिया­नि­वृ­त्ति­रेव नियमेन प्रतीयते । व्रत­श­ब्द­स­म­न्व­यात्तु प्रजा­प­ति­व्र­ता­दिषु ‘नेक्षे­तो­द्य­न्त­मा­दि­त्य­मि’त्या­दि­ष्व­नी­क्षणं मानसी सङ्कल्पक्रिया प्रतीयते अनीक्षणं कुर्यात् , नेक्षेऽहमिति सङ्कल्पयेदिति, न नञः समन्वयमात्रात् , तस्य सम­न्वी­य­मा­ना­र्था­भा­व­क­र­त्वात् ।

ननु नञर्थे नियोगः प्रतिषेधेषु, तेन यागा­द्य­नु­ष्ठा­ना­दिव नञ­र्था­नु­ष्ठा­ना­न्नि­योगः साध्यः, किमुच्यते क्रिया­नि­वृ­त्त्यौ­दा­सीन्यं प्रतीयत इति ? वार्तमेतत् । नञर्थो हि नाम न क्रिया, नापि साधनम् , अपि तु येन संसृज्यते तस्याभावो न तत्सिद्धिहेतुः । एवं प्रतिषेधस्य विधेरन्यत्वं सिध्यति । अन्यथा विधिरेव सर्वं स्यात् । तस्माद् संसृ­ज्य­मा­ना­भा­व­मात्रे प्रतिषेधवाक्यं पर्यवस्यति । तत्र न विधिगन्धोऽपि विद्यते । तच्च संसृज्यमानं विधि­नि­म­न्त्र­णा­म­न्त्र­णा­धी­ष्ट­स­म्प्र­श्ना­भ्य­नु­ज्ञा­ना­ना­म­भा­वा­त्प्र­ति­पा­द्य­धर्मः । प्रति­षि­ध्य­मा­न­क्रि­या­फलं प्रार्थना प्रतिषेधवाक्ये लिङाद्यर्थः । तेन तदभावः प्रतिषेधार्थः, स च प्रागभावः स्वभावसिद्धः । तस्मा­त्सं­स्का­रो­द्बो­ध­नि­मि­त्त­स­न्नि­धा­वपि तत्प्रतिबन्धे प्रयत्न आस्थेयः । स च यद्यपि साध्यः ; तथाऽ­प्य­न्व­य­व्य­ति­रे­क­गम्यो न शब्दार्थः ; तत्प्र­ति­पा­द­क­प­दा­भा­वाच्च, एकवाक्ये संसृ­ष्ट­प­दा­र्थ­व्य­ति­रे­के­णा­न्यत्र वाक्या­र्थ­त्वा­भा­वाच्च । अतो यश्चार्थादर्थो न स चोदनार्थः । वाक्यन्तु क्रिया­शू­न्य­मे­वा­व­सि­तम् । न साध्यं किञ्चित्तेन विषयीकृतम् ; औदा­सी­न्य­मा­त्रा­व­सि­त­त्वा­त्तस्य ॥

अथ पुनर्नञर्थविषयो नियोग एव प्रतिषेधेऽपि वाक्यार्थ इत्यभिनिवेशः, भवतु ; तथाऽपि प्रति­षि­ध्य­मा­न­क्रि­या­नि­वृत्त्या स सिध्यति, क्रियोपादाने च तत्फलप्रार्थनैव हेतुरिति तत्का­र­ण­प्र­ति­बन्धे प्रय­त्ना­स्था­ना­न्नि­यो­ग­सिद्धिः । तच्चा­न्व­य­व्य­ति­रे­का­व­से­य­मिति पूर्वो­क्ता­न्मा­र्गान्न विशिष्यते । तदेवं वृद्ध­व्य­व­हा­रा­नु­सा­रे­णैव समन्वयानुसरणे सति तद्गम्यं ब्रह्म न धर्म­व­च्चो­द­ना­ग­म्यम् । दर्शितानि च वेदान्तवाक्यानि कारणसामान्ये सिद्धे तद्विशेषावगमाय समन्वितानि ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्यादीनि तत्त्व­म­सी­त्या­दीनि च ।

यत् पुनरुक्तं — प्रति­प­न्न­ब्र­ह्मा­त्म­भा­व­स्यापि पूर्व­व­त्सं­सा­रि­त्व­द­र्श­नान्न रज्जु­स्व­रू­प­क­थ­न­व­द­र्थ­व­त्त्व­मस्य समन्वयस्य, ततो न तन्मात्रे तस्य पर्यवसानमिति, अत्रोत्तरम् —
नाव­ग­त­ब्र­ह्मा­त्म­भा­व­स्ये­त्यादि ॥
अस्यायमर्थः — न कर्म­नि­मि­त्त­स्ता­व­च्छ­री­र­स­म्बन्धः ; इत­रे­त­रा­श्र­य­दो­षा­त्क्रि­या­दि­र­हि­त­त्वाच्च चैतन्यस्य । अना­दि­त्वेऽ­प्य­न्ध­प­र­म्प­रा­व­द­प्र­ति­ष्ठि­त­त्वात् । तन्निमित्तत्वे च पुत्रा­दि­श­री­रे­ष्विव गौण­त्व­प्र­स­ङ्गात् , तथानुभवाभावात् , प्रसि­द्ध­गौ­ण­त्व­प्र­का­रा­स­म्भ­वात् , पुत्रा­दि­श­री­रे­णेव स्वशरीरेणापि प्रमा­तृ­त्वा­भा­व­प्र­स­ङ्गात् । पारि­शे­ष्या­द­वि­द्या­नि­मित्तः शरीरसम्बन्धः । तस्यां च निवृत्तायां तत्स­म्ब­न्ध­नि­वृत्तौ कथं पूर्व­व­त्त्व­नि­मित्तः सुखदुःखानुभवः ? तथाच श्रुति­स्मृ­ति­वादा ब्रह्मविदः सर्व­सं­सा­र­प्र­वृ­त्त्य­भावं दर्शयन्त उदाहृता भाष्ये । तस्मान्न ब्रह्मा­त्मा­भि­मा­निनः पूर्व­व­त्सं­सा­रि­त्वम् ; तदभिमानविरोधात् । वैषयिकस्तु साक्षा­द­नु­भ­वा­भि­मानः संसारविषय आर­ब्ध­क­र्म­शे­ष­नि­मित्तः तिमि­र­नि­मि­त्त­द्वि­च­न्द्र­वत् । मन­न­नि­दि­ध्या­स­न­योर्न ब्रह्मा­व­ग­त्यु­त्त­र­का­ली­नता, किन्तु श्रव­ण­व­द­व­ग­त्यु­पा­य­तया पूर्व­का­ल­तै­वे­त्यु­क्तम् ॥

तदेवं सिद्धस्य वस्तुनः स्वरू­प­स­त्ता­मा­त्रे­णा­प्र­ति­प­न्नस्य प्रमाणविषयतया प्रमे­य­त्वा­द्वि­धी­य­मा­न­क्रि­या­क­र्मत्वे तु कारकत्वस्य प्रमा­णा­न्त­र­सि­द्ध्य­पे­क्ष­त्वा­त्ततः सिद्ध्य­नु­प­प­त्ते­र्वा­क्य­भे­द­प्र­स­ङ्गा­त्प्र­त्य­क्षा­दि­वि­रोधे देव­ता­धि­क­र­ण­न्या­या­सि­द्धे­र्वा­क्या­न्त­र­सि­द्धस्य कर्मकारकत्वे चतुर्विधस्यापि कर्मकार्यस्य तत्रासम्भवात् , तत्क­र्म­को­पा­स­ना­द्दे­व­ता­क­र्म­या­गा­दि­व­त्स्व­र्गो­पमो मोक्षः फलं कल्प्येत ; तस्य तद्व­दे­वा­नि­त्य­त्व­प्र­स­ङ्गात् , ‘ब्रह्म वेद ब्रह्मैव भवती’त्यादिभ्यो ब्रह्म­वे­द­न­मो­क्ष­फ­लयोः निर­न्त­र­त्व­प्र­ति­पा­द­केभ्यो वाक्ये­भ्योऽ­र्था­द­न्त­राले क्रिया­नु­प्र­वे­श­नि­रा­क­र­णात् , ‘तरति शोक­मा­त्म­वि­दि’त्या­दि­श्रु­तिभ्यो मोक्ष­प्र­ति­ब­न्ध­नि­वृ­त्ति­मा­त्र­स्यै­वा­त्म­ज्ञा­न­फ­लस्य दर्शितत्वात् , साध्यान्तराभावे क्रिया­नु­प­प­त्ते­र्ब्र­ह्मा­त्मा­व­ग­मस्य च मुख्यै­क्या­धि­क­र­णस्य सम्प­दा­दि­व­द्वि­क­ल्प­ना­नु­प­पत्तेः, प्रमाणजन्याया अपि विदिक्रियायः कर्म­त्व­नि­षे­धा­द्वि­धी­य­मा­नो­पा­स्ति­क्रि­या­वि­ष­य­त्वस्य दूरनिरस्तत्वाद् विदि­क्रि­या­वि­ष­य­त्वेऽपि समा­रो­पि­त­नि­व­र्त­न­मु­खेन नित्य­सि­द्ध­चै­त­न्यस्य ब्रह्म­स्व­रू­प­ता­स­म­र्प­णाद् वाक्य­वि­ष­य­त्वो­प­पत्तेः, सत्यपि वा विधि­क्रि­या­क­र्मत्वे तस्य च विध्य­ना­य­त्त­त्वा­द्वि­धि­च्छा­यानां संस्ता­व­क­त्वे­ना­हा­र्य­त्वात् संसा­र­नि­वृ­त्तेश्च ज्ञानफलस्य दृष्टत्वात् । अतो विधिनिरपेक्षं स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदा­न्त­वा­क्य­स­म­न्व­या­दिति सिद्धम् ॥

एवं च सति पदानां पर­स्प­र­स­म­न्व­य­ज­नि­त­वि­ज्ञा­ना­ति­रे­केण चक्षु­रा­दि­व­त्प्र­व­र्त­क­त्व­स्या­भा­वात् तद्विषयः शास्त्रारम्भः पृथगुपपद्यते । अन्यथाऽत्रापि बोधकत्वातिरेकेण प्रवर्तकत्वमपि चेत् , ‘अथातो धर्म­जि­ज्ञा­से’त्ये­वा­र­ब्ध­त्वान्न पृथगारभ्येत । अथा­प्य­ब­हिः­सा­ध­न­त्वा­त्ततः परिशेषितमिति, तथाप्यथातः परि­शि­ष्ट­ध­र्म­जि­ज्ञा­सेति प्रतिज्ञा स्यात् ; प्रव­र्त­क­वि­शे­ष­जि­ज्ञा­स­नात् । तदेवं ब्रह्मावगमात् प्रागेव विधि­वि­धे­य­प्र­मा­ण­प्र­मे­य­व्य­व­हारः । परतस्तु प्रमा­तु­र्वि­धि­वि­ष­यस्य चाभावान्न तत्सद्भाव इति ।

अपिचाहुरिति ।