अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

श्रीलक्ष्मीनृसिंहपञ्चरत्नम्

त्वत्प्र­भु­जी­व­प्रि­य­मि­च्छसि चेन्नरहरिपूजां कुरु सततं प्रति­बि­म्बा­लं­कृ­ति­धृ­ति­कु­शलो बिम्बा­लं­कृ­ति­मा­त­नुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मी­न­र­सिं­हा­नघ पदसरसिजमकरन्दम् ॥ १ ॥

शुक्तौ रजतप्रतिभा जाता कट­का­द्य­र्थ­स­मर्था चेत् दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मी­न­र­सिं­हा­नघ पदसरसिजमकरन्दम् ॥ २ ॥

आकृ­ति­सा­म्या­च्छा­ल्म­लि­कु­सुमे स्थल­न­लि­न­त्व­भ्र­म­म­करोः गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मी­न­र­सिं­हा­नघ पदसरसिजमकरन्दम् ॥ ३ ॥

स्रक्च­न्द­न­व­नि­ता­दी­न्वि­ष­या­न्सु­ख­दा­न्मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेऽमी भोगा­न­न्त­र­दुः­ख­कृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मी­न­र­सिं­हा­नघ पदसरसिजमकरन्दम् ॥ ४ ॥

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं स्वप्ने दृष्टं सकलं हि म्रुषा जाग्रति च स्मर तद्वदिति ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मी­न­र­सिं­हा­नघ पदसरसिजमकरन्दम् ॥ ५ ॥