अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

हनुमत्पञ्चरत्नम्

वीता­खि­ल­वि­ष­येच्छं जाता­न­न्दा­श्रु­पु­ल­क­म­त्य­च्छम् ।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥

तरुणारुणमुखकमलं करु­णा­र­स­पू­र­पू­रि­ता­पा­ङ्गम् ।
संजीवनमाशासे मञ्जु­ल­म­हि­मा­न­म­ञ्ज­ना­भा­ग्यम् ॥ २॥

शम्ब­र­वै­रि­श­रा­ति­ग­म­म्बु­ज­द­ल­वि­पु­ल­लो­च­नो­दा­रम् ।
कम्बु­ग­ल­म­नि­ल­दिष्टं बिम्ब­ज्व­लि­तो­ष्ठ­मे­क­म­व­लम्बे ॥ ३॥

दूरी­कृ­त­सी­तार्तिः प्रक­टी­कृ­त­रा­म­वै­भ­व­स्फूर्तिः ।
दारि­त­द­श­मु­ख­कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥

वान­र­नि­क­रा­ध्यक्षं दान­व­कु­ल­कु­मु­द­र­वि­क­र­स­दृ­क्षम् ।
दीनजनावनदीक्षं पव­न­त­पः­पा­क­पु­ञ्ज­म­द्रा­क्षम् ॥ ५॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखि­ला­न्भो­गा­न्भुङ्क्त्वा श्रीरा­म­भ­क्ति­भा­ग्भ­वति ॥