अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

उपदेशपञ्चकम्

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।
पापौघः परिधूयतां भवसुखे दोषोऽ­नु­स­न्धी­यतां आत्मेच्छा व्यवसीयतां निजगृहत्तूर्णं विनिर्गम्यताम् ॥ १॥

सङ्गः सत्सु विधीयतां भगवतो भक्ति­र्दृ­ढा­धी­यतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् ।
सद्वि­द्वा­नु­प­स­र्प्य­ता­म­नु­दिनं तत्पादुका सेव्यतां ब्रह्मै­का­क्ष­र­म­र्थ्यतां श्रुति­शि­रो­वाक्यं समाकर्ण्यताम् ॥ २॥

वाक्यार्थः सुविचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्त­र्का­त्सु­वि­र­म्यतां श्रुति­म­त­स्त­र्कोऽ­नु­सं­घी­य­ताम् ।
ब्रह्मास्मीति विभा­व्य­ता­म­ह­र­ह­र्गर्वः परित्यज्यतां देहेऽ­ह­म्म­ति­रु­ज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ ॥

क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाद्वन्नं न तु याच्यतां विधि­व­शा­त्प्रा­प्तेन संतुष्यताम् ।
औदा­सी­न्य­म­भी­प्स्यतां जन­कृ­पा­नै­ष्ठु­र्य­मृ­त्सृ­ज्यतां शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम् ॥ ४॥

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्भाधितं दृश्यताम् ।
प्राक्कर्म प्रविलाप्यतां चिति­ब­ला­न्ना­प्यु­त्तरैः श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥