अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

अद्वैतपञ्चरत्नम्

नाहं देहो नेन्द्रि­या­ण्य­न्त­रङ्गो नाहंकारः प्राणवर्गो न बुद्धिः ।
दारा­प­त्य­क्षे­त्र­वि­त्ता­दि­दूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥

रज्ज्व­ज्ञा­ना­द्भाति रज्जुर्यथाहिः स्वात्मा­ज्ञा­ना­दा­त्मनो जीवभावः ।
आप्तो­क्त्याऽ­हि­भ्रा­न्ति­नाशे स रज्जु- र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥

आभातीदं विश्व­मा­त्म­न्य­सत्यं सत्य­ज्ञा­ना­न­न्द­रूपे विमोहात् ।
निद्रा­मो­हा­त्स्व­प्न­व­त्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥ ३ ॥

नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः ।
कर्तृ­त्वा­दि­श्चि­न्म­य­स्यास्ति नाहं- कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥

मत्तो नान्य­त्कि­ञ्चि­द­त्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लुप्तम् ।
आद­र्शा­न्त­र्भा­स­मा­नस्य तुल्यं मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥