अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

मायापञ्चकम्

निरु­प­म­नि­त्य­नि­रं­श­केऽ­प्य­खण्डे मयि चिति सर्व­वि­क­ल्प­ना­दि­शून्ये ।
घटयति जगदीशजीवभेदं त्वघ­टि­त­घ­ट­ना­प­टी­यसी माया ॥ १ ॥

श्रुति­श­त­नि­ग­मा­न्त­शो­ध­का­न­प्य­हह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतु­ष्प­दा­द्य­भि­न्नान् अघटितघटनापटीयसी माया ॥ २ ॥

सुख­चि­द­ख­ण्ड­वि­बो­ध­म­द्वि­तीयं विय­द­नि­ला­दि­वि­नि­र्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं त्वघ­टि­त­घ­ट­ना­प­टी­यसी माया ॥ ३ ॥

अप­ग­त­गु­ण­व­र्ण­जा­ति­भेदे सुखचिति विप्र­वि­डा­द्य­हं­कृतिं च ।
स्फुटयति सुतदारगेहमोहं त्वघ­टि­त­घ­ट­ना­प­टी­यसी माया ॥ ४ ॥

विधिहरिहर भेदमप्यखण्डे बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरि­ह­र­वि­भे­द­भा­वान् अघटितघटनापटीयसी माया ॥ ५ ॥