अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

मीनाक्षीपञ्चकम्

उद्य­द्भा­नु­स­ह­स्र­को­टि­स­दृशां केयू­र­हा­रो­ज्ज्वलां बिम्बोष्ठीं स्मित­द­न्त­प­त्ङ्कि­रु­चिरां पीता­म्ब­रा­लं­कृ­ताम् ।
विष्णु­ब्र­ह्म­सु­रें­द्र­से­वि­त­पदां तत्त्चस्वरुपां शिवां मीनाक्षीं प्रणतोऽस्मि संततमहं कारु­ण्य­वा­रां­नि­धिम् ॥ १ ॥

मुक्ता­हा­र­ल­स­त्कि­री­ट­रु­चिरां पूर्णे­न्दु­व­क्त्र­प्रभां शिञ्ज­न्नू­पु­र­किं­कि­णी­म­णि­धरां पद्म­प्र­भा­भा­सु­राम् ।
सर्वा­भी­ष्ट­फ­ल­प्रदां गिरिसुतां वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि संततमहं कारु­ण्य­वा­रां­नि­धिम् ॥ २ ॥

श्रीविद्यां शिववामभागनिलयां ह्रींका­र­म­न्त्रो­ज्ज्वलां श्रीच­क्रा­ङ्कि­त­बि­न्दु­म­ध्य­व­सतिं श्रीम­त्स­भा­ना­यि­काम् ।
श्रीम­त्ष­ण्मु­ख­वि­घ्न­रा­ज­ज­ननीं श्रीम­ञ्ज­ग­न्मो­हिनीं मीनाक्षीं प्रणतोऽस्मि संततमहं कारु­ण्य­वा­रां­नि­धिम् ॥ ३ ॥

श्रीम­त्सुं­द­र­ना­यिकां भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कम­ला­स­ना­र्चि­त­पदां नारा­य­ण­स्या­नु­जाम् ।
वीणा­वे­णु­मृ­द­ङ्ग­वा­द्य­र­सिकां नाना­वि­धा­ड­म्बिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारु­ण्य­वा­रां­नि­धिम् ॥ ४ ॥

नाना­यो­गि­मु­नी­न्द्र­हृ­न्नि­व­सतिं नाना­र्थ­सि­द्धि­प्रदां नाना­पु­ष्प­वि­रा­जि­तां­घ्रि­यु­गलां नारा­य­णे­ना­र्चि­ताम् ।
नादब्रह्ममयीं परात्परतरां नाना­र्थ­त­त्त्वा­त्मिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारु­ण्य­वा­रां­नि­धिम् ॥ ५ ॥