अद्वैतशारदा

कल्पतरुपरिमलः

जिज्ञासाधिकरणविषयाः

गुरु­भि­रु­प­दि­ष्ट­मर्थं विस्मृतमपि तत्र बोधितं प्राज्ञैः।
अवलम्ब्य शिवमधीयन्यथामति व्याकरोमि कल्पतरुम्॥ १॥
कल्प­क­त­रु­मु­प­कुर्यां कम­धि­क­मा­का­ङ्क्षि­ता­र्थ­मु­प­हृत्य।
तद्द­त्तै­रे­वा­र्थै­र्मम मतिमीहे परिष्कर्तुम्॥ २॥
यावन्तो निविशन्ते विदुषां व्याख्या­न­चा­तु­री­भेदाः।
सर्वेषामपि तेषामयमवकाशं ददाति पुष्पकवत्॥ ३॥
इत्थमिहातिगभीरे कियदाशयवर्णनं मया क्रियते।
तुष्यन्ति ततोऽपि बुधाः कति­प­य­र­त्न­ग्र­हा­दि­वा­म्बु­निधेः॥ ४॥
यदिति ।
अत्र प्रत्यगिति ब्रह्मविशेषणेन शास्त्रस्य विषयं प्रदर्श्य तत्र सर्वेषां वेदान्तानां समन्वयः प्रथ­मा­ध्या­यार्थः । श्रुति­श­ते­त्या­दि­वि­शे­ष­णेन दर्शितः । शतशब्दः आनन्त्यपरः । 'विश्वं शतं सहस्रं च सर्व­म­क्ष­य­वा­च­क'मिति महाभारतवचनात् । ब्राह्मणशतं भोज्यतामित्यत्र भोजनस्येव शिरसां संख्यो­प­स­र्ज­न­सं­ख्ये­ये­ना­न्वयः । सक­ल­प्र­प­ञ्चा­श्र­यस्य ब्रह्मणः परि­मि­त­क­र्तृ­त्वा­द्या­श्र­यस्य जीवस्य च अभेदम् अविरोधेन उपपादयितुम् उभयत्र विरुद्धधर्माणां मिथ्यात्वं यदज्ञातम् इत्यादिविशेषणेन दर्शितम् । जीवै­र्य­द­वि­ज्ञा­त­तत्त्वं सत् बहुविधस्य प्रतिजीवं व्यव­स्थि­त­क­र्तृ­त्वा­दि­रू­पस्य साधारणस्य घटपटादिरूपस्य च प्रपञ्चविलासस्य धरं धारकम् । कलितम् अहं कर्ता अहं भोक्ता सन् घटः सन् पटः इत्या­दि­रू­पे­णा­व­ग­तम् । यथा वियत् बालै­र­वि­ज्ञा­त­तत्त्वं सत् तलमलिनतायोगि कलितमित्यर्थः । एव­म­व्या­ख्या­या­मु­प­मा­नो­प­मेये वैरूप्येण निर्दिष्टे स्यातां, नेया­र्थ­त्व­दो­षश्च प्रसज्यते । स्फुटं हि वैरूप्यं यद्ब्रह्म जीवैरज्ञातं सत् बहुविधानां जग­द्वि­ष­य­वि­भ्र­माणां धारकम्, यथा वियद्बालैः तल­म­लि­न­ता­यो­गि­त्वेन कलितं भ्रान्त्याऽ­नु­भू­त­मिति यथा­श्रु­त­यो­ज­ना­याम् । अत्र जीवास्तावत् उप­मे­य­ब्र­ह्म­वि­ष­या­ज्ञा­ना­श्र­य­त्वेन निर्दिष्टाः, बालास्तु उप­मा­न­वि­य­द­ध्य­स्त­त­ल­म­लि­न­ता­वि­ष­य-वि­भ्र­मा­श्र­य­त्वेन इत्येकं वैरूप्यम् । ब्रह्म प्रप­ञ्च­वि­ष­य­वि­भ्र­म­ध­र­त्वेन निर्दिष्टं, वियत्तु तल­म­लि­न­ता­यो­गि­त्वेन तद्वि­ष­य­वि­भ्र­मस्तु कलितमिति पश्चात्तदन्वयी निर्दिष्ट इत्य­न्य­द्वै­रू­प्यम् । ब्रह्म विभ्रमधरमिति क्रियायां कर्तृत्वेन निर्दिष्टं, वियत्तु कलितमिति तस्यां कर्मत्वेन इत्यपरं वैरूप्यम् । विभ्रमधरशब्दश्च विभ्रमविषये न शक्तः, अप्रसिद्धौ तादृशलक्षणा च नेयार्था । एवंविधम् उपमानोपमेययोः निर्देशवैरूप्यं नेयार्थलक्षणां च काव्यसरणिविदो नानुमन्यन्ते इत्ये­व­मा­श­ङ्का­स्पदं दोष­च­तु­ष्ट­य­म­प्य­ज्ञा­त­मि­त्यस्य वियत्यप्यन्वयेन कलितमित्यस्य ब्रह्म­ण्य­प्य­न्व­येन जग­द्वि­भ्र­म­श­ब्दस्य जग­द्रू­प­का­र्य­प­र­त्वेन च परिहृतं भवति । वियदुदाहरणेन विरु­द्ध­ध­र्मा­णाम् अध्य­स्त­त्व­वि­भा­व­न­म­नै­न्द्रि­यके कथमपरोक्षाध्यास इति शङ्कानिराकरणं च कृतम् । यद्य­प्य­ज्ञा­त­मि­त्यस्य 'मति­बु­द्धि­पू­जा­र्थे­भ्यश्च' (पा. ३ ।२ ।१८८) इति वर्त­मा­ना­र्थ­वि­हि­त-क्त­प्र­त्य­या­न्तत्वे 'क्तस्य च वर्तमाने' (पा. २ ।३ ।६७) इति षष्ठ्या भाव्यम्; तथापि भूता­र्थ­त­प्र­त्य­या­न्त­त्व­मिह ग्राह्यम् । न च क्तस्य मत्या­द्य­र्थेभ्यो विशिष्य वर्तमानार्थे विधानात् तक्र­कौ­ण्डि­न्य­न्या­येन भूतार्थत्वबाधः स्यादिति वाच्यम्; 'तेन' (पा. ४ ।२ ।१ ।४ ।३ ।१०१) इत्यधिकारे 'दृष्टं साम' 'उप­ज्ञाते' इति सौत्रनिर्देशेन भाष्यादिषु 'कलिना दृष्टं साम कालेयं' 'पाणिनिना उपज्ञातं पाणि­नी­य'मिति तदुदाहरणदर्शनेन च बुद्ध्यर्थेभ्यो भूतार्थेऽपि क्तप्र­त्य­या­नु­म­त्य­व­ग­मात् । केन­चि­द्रू­पे­णा­व­गते रूपा­न्त­रे­णा­न­व­गते शुक्त्या­दा­व­ध्यासो दृष्टः, अतो निर्विशेषे स न सम्भ­व­ती­त्या­श­ङ्का­नि­रा­सा­यो­न्मु­द्रे­त्या­दि­वि­शे­ष­णम् । न केवलं सदेव ब्रह्म किन्तु चिदानन्दरूपमपि । यद्यपि तत्र चिदा­न­न्द­रू­प­त्व­मपि बाह्या­ध्या­त्मि­क­स­क­ल­वि­ष­य­सा­क्षि­त्वात् पर­म­प्रे­मा­स्प­द­त्वाच्च कर्तृ­त्वा­द्य­ध्या­स­का­लेऽपि भासत एव; तथापि ज्ञानं विष­य­वि­शे­षा­न­व­च्छिन्नं सुखमपरिच्छिन्नं च सत् तदा न भासत इति दर्श­यि­तु­मु­न्मु­द्र­त्व­प्र­त­त­त्व­वि­शे­षणे॥ १॥ यद्यपि सकलप्रपञ्चकारणं मायाशबलं सवि­शे­ष­मी­श्व­र­रूपं ब्रह्म नमस्कार्यं, न तु निर्विशेषं निर­स्त­क­र्तृ­क­र्म­भावं; तथापि तत्र तत्त्वदृष्ट्या प्रत्य­ग­भे­दा­नु­स­न्धानं युज्यते । अत एव अह­ङ्ग्र­हो­पा­स­नासु सर्वा­स्व­भे­दा­नु­स­न्धा­न­मि­ष्यते ।
चिदानन्दघनस्य ब्रह्मणः प्राप्तौ साधनं 'फलमत उपपत्तेः' (ब्र.अ.३.पा.२.सू.३८) इति न्याये­नो­पा­स­ना­प्र­सा­दितं ब्रह्मैवेति दर्शयति –
बोधेति ।
अत्र शङ्करमित्यनेन मुक्ति­सु­ख­प्र­दत्वं, संसा­रे­त्या­दि­वि­शे­ष­णेन मुक्ति­सु­खा­भि­व्य­क्त्यु­प­पा­दकं तदा­व­र­का­न­र्थ­नि­वृ­त्ति­हे­तुत्वं, निर्म­ले­त्या­दि­वि­शे­ष­णेन उक्तफलार्थं संसारोद्विग्नैः भजनीयत्वं, दक्षि­णा­मू­र्ति­मि­त्य­नेन उक्तार्थस्य 'अजात इत्येवं कश्चिद्भीरुः प्रपद्यते' 'रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य'मिति श्वेता­श्व­त­रो­प­नि­ष­न्म­न्त्र­प्र­मा­ण­कत्वं च दर्शितम् । उक्तफलं न श्रवणादिकं विनेति तत्संपादकत्वं पूर्वार्धेन दर्शितम् । यथा खलु अमृतांशुः तत्त­द्ग­ग­न­प्र­दे­शा­व­च्छि­न्न­स्वां­श­रू­पै­रं­शु­भि­र्ग­ग­न­गतं तिमिरमपनयन् वारिधिं चोद्वेलयन् प्रतिदिनमुदेति, एवं बहुशः अने­क­वे­दा­न्त­वा­क्य-श्र­व­ण­ज­न्या­न्तः­क­र­ण­वृ­त्त्य­व­च्छे­द­क­कृ­त-भे­द-स्वां­श­रू­प­चि­त्प्र­ति­बिम्बैः अन्तः­क­र­ण­ग­त-त­त्त­द्वा­क्या­र्था­ज्ञा­नम् अपनयन् ऊहा­पो­ह­कौ­श­ल­सा­ध्य-म­न­न­चि­त्तै­का­ग्र्य­सा­ध्य-नि­दि­ध्या­स­न­रूपां प्रज्ञां चाभिवर्धयन् उमया 'तत्राकाशे स्त्रियमाजगाम उमां हैमवतीं बहु शोभ­मा­ना'मिति तल­व­का­रि­णा­मु­प­नि­षदि ब्रह्म­वि­द्या­प्र­द­त्वेन प्रसिद्धया सहितः सन् यः सदोदेति नित्यमेव स्फुरतीति तदर्थः । अत्र सोम इति श्लेषोत्थापितो बोधा­भी­ष्वि­त्या­दिषु रूपकालङ्कारः॥ २॥
अथ कृत­श्र­व­ण­म­न­न­नि­दि­ध्या­स­नस्य साक्षा­त्का­रो­द­येन प्राप्यं फलमपि ब्रह्मैवेति दर्शयति –
माद्यदिति ।
माद्यन् प्रप­ञ्च­रू­पे­णो­ज्जृ­म्भ­माणो मोह एव महेभः तस्य कुम्भ इव कुम्भः मूलाविद्याभागः; वक्ष्य­मा­ण­मौ­क्ति­क­द्यो­ता­ल­ङ्का­र्य­क­र्तृ­क-द­ल­न­वि­ष­य­त्व­सा­म्यात् । अत एव महेभत्वरूपणस्य मोह­व­त्कु­म्भ­त्व­रू­प­ण­स्या­धि­ष्ठा­न­रूपः कश्चित्तदंशो नोक्त इति न्यूनता न शङ्कनीया; 'मयू­ख­न­ख­र­त्रु­ट­त्ति­मि­र­कु­म्भि-कु­म्भ­स्थ­लो­च्च­ल­त्त­र­ल-ता­र­का­क­प­ट­की­र्ण­मु­क्ता­गण' इत्यत्र प्रत्य­ग्रो­दि­त­च­न्द्र­म­यू­ख­सं­सृ­ष्ट-ति­मि­र­पु­रो­भा­ग­स्येव अत्र ब्रह्म­सा­क्षा­त्का­र­द­ल­नी­य-मू­ला­वि­द्या­भा­गस्य अतिशयोक्त्या कुम्भ­त्वे­ना­ध्य­व­सा­नात् । तस्य दलनं निवर्त्तकम् प्रोद्भूतं जननं यस्य तथाभूतः सन्नुत्तमो, मौक्तिको मुक्तिप्रयोजनः, द्योतः प्रकाशो वृत्ति­सा­क्षा­त्कारः, तेना­ल­ङ्कृ­त­म­भि­व्यक्तं सत्, सुखात्मकं वपुः स्वरूपमस्येति तथोक्तः । मुक्तिः प्रयो­ज­न­म­स्ये­त्यर्थे 'प्रयो­ज­नम्' (पा. ५ ।१ ।१०९) इति सूत्रेण ठक्प्रत्ययान्तो मौक्तिकशब्दः । यद्वा माद्य­न्मो­ह­म­हे­भ­कु­म्भस्य दलनेन निवर्त्तनेन, प्रोद्भूतः अभिव्यक्तः, सन्मौक्तिकसदृशः घर्ष­ण­नि­र्म­ली­भू­त-मु­क्ता­फ­ल­स­दृशः, द्योतः स्वरू­प­सा­क्षा­त्कारः, तेनालङ्कृतं प्रकाशमानं, सत् सुखाद्वयं वपुरस्येति तथोक्तः । सन्मौ­क्ति­क­द्यो­ते­त्यत्र शाक­पा­र्थि­वा­दि­वत् मध्य­म­प­द­लो­पि­स­मासः । द्योतस्य सुखाभेेदेऽपि राहोः शिर इति­व­द्भे­द­व्य­प­देशः । माद्यन्मदशाली, मोहयति मदगन्धमात्रेण प्रतिगजादीनिति मोहः । मोहयतेः पचाद्यच् । 'णेर­निटि' (पा. ६ ।४ ।५१) इति णिलोपः । तथाभूतस्य महेभस्य कुम्भदलनेन प्रोद्भूतानां निर्गतानां शुद्ध­मौ­क्ति­कानां नखाग्रलग्नानां प्रका­शे­ना­ल­ङ्कृतं सत् सुखं रिपुसंहरणेन जाय­मा­ना­न­न्द­म­द्वयं शौर्ये द्वितीयरहितं वपुरस्येति तथोक्तः । पूर्ववदलङ्कारः । एव­मे­भि­स्त्रि­भि­र्न­म­स्का­र­श्लोकैः सामान्यतः शास्त्रस्य विषयोऽध्यायानां चार्थः सूचितः॥ ३॥
ललितैरिति ।
अत्र वद­न­र­ङ्गा­दि­रू­प­णस्य शाब्दतया विशिष्य वाच्यत्वेन वर्तमानत्वात् सरस्वत्यां नर्तकीरूपणस्य तद्ग­म्य­त्वा­च्चै­क­दे­श­वि­व­र्ति­रू­प­का­ल­ङ्कारः॥ ४॥
भजमानेति ।
भजमानानां विघ्न एव भित्तिः तस्याः प्रभित्तिः नाशकरणं कुद्दालमिवेति स्वरू­पो­त्प्रेक्षा । दशभुजस्य महागणपतेः वामाधःकरेण स्वविषाणधारणं शुण्डा­ग्र­धृ­त­क­ल­श­स्थि­त-र­त्न­व­र्षेण भक्तेभ्यः सकलसंपत्प्रदानं च मन्त्र­शा­स्त्र­प्र­सि­द्धम् । प्रभिद्यते नाश्यतेऽनेनेति प्रभि­त्ति­श­ब्दोऽत्र नाशकरणवाची, न तु विदा­र­ण­क्रि­या­वाची । अतो विदारणे भिदान्यत्र भित्तिरिति शाब्दि­क­म­र्या­दाया न विरोधः॥ ५॥ ६॥ ७॥ ८॥ ९॥
ग्रन्थेति ।
ग्रन्थग्रन्थय इत्य­भि­धा­न­मा­त्रेण भेदः । मुकुला एवैते इत्य­न­भि­व्य­क्त­त्व­सा­म्यात् मुकु­ल­त्वा­ध्य­व­सा­न­रू­पा­ति­श­योक्तिः । यस्योदये स्फुटन्तीत्यनेन अस्यो­द­या­त्पूर्वं शास्त्रेषु केचन कठिनप्रदेशाः, केनापि नोद्घाटिता; मुद्रिता एव स्थिता इति प्रतीतेः अस्यान्येभ्यो व्याख्यातृभ्य उत्कर्षरूपो व्यति­रे­का­ल­ङ्कारो व्यज्यते ।
व्याकु­र्व­त्य­पीति ।
अनेनास्य शब्दश्रवणतोऽपि तिमिरं शाम्यति, न तु प्रादु­र्भा­व­म­पे­क्षते इति प्रसि­द्ध­च­न्द्रा­दु­त्क­र्ष­रूपो व्यति­रे­का­ल­ङ्कारो व्यज्यते ।
प्रोद्यदिति ।
प्रोद्यन्ती प्रसर्पन्ती तारकेषु प्रणवेषु दिव्यस्य द्युसंबन्धिनः, 'यः पुनरेतं त्रिमा­त्रेण' इतिश्रुतौ ब्रह्म­लो­का­ख्यो­क्त-द्यु­लो­क­प्रा­प्ति­फ­ल­क­त्वेन श्रुतस्य त्रिमा­त्र­प्र­व­णस्य, दीप्तिः प्रका­श­न­श­क्ति­र्य­स्मिं­स्त­त्त­थो­क्तम् । यद्वा प्रोद्यन्ती तार­क­श­ब्दो­प­ल­क्षि­तानां 'न तत्र सूर्यो भाती'त्या­दि­श्रु­त्यु­क्तानां सूर्य­च­न्द्र­वि­द्यु­न्न­क्ष­त्राणां दिव्या दिवि भवा गगने प्रसृता दीप्तिर्येन तत्तथोक्तम् । यद्वा प्रोद्यन्त्यः उन्नमन्त्यः तारकाः जना­ना­म­क्षि­क­नी­निकाः यया सा तथोक्ता तथाभूता दिव्या दिवि प्रसृता दीप्तिरुक्ता दीप्तिः यस्य तत्तथोक्तम् । 'अथ यदतः परो दिवो ज्योति­र्दी­प्यते' इति श्रुतौ हि ब्रह्मणो दिवि प्रसता दीप्तिरुक्ता, तद्वि­शि­ष्ट­ब्र­ह्मो­पा­स­नस्य फलं श्रुतं 'चक्षुष्यः श्रुतो भवती'ति । अत इयं दीप्तिरुपासकस्य चक्षु­ष्य­त्व­फ­ल­प्र­दा­न­द्वारा तमवलोकयतां सुन्द­र­व­स्तु­द­र्श­न­कौ­तु­केन चक्षु­र्वि­स्फा­र­ण­हे­तु­र्भ­व­ती­त्य­य­मर्थः प्रोद्य­त्ता­र­केति दीप्ति­वि­शे­ष­णे­नोक्तः । परमं व्योम 'सैषा भार्गवी वारुणी विद्या परमे व्योम­न्प्र­ति­ष्ठिते'ति श्रुतिप्रसिद्धं परं ब्रह्म । चन्द्रपक्षे प्रोद्यन्त्या नक्षत्राणां दिव्यया स्वर्लोकभवया दीप्त्या परा प्रकृष्टा मा शोभा यस्य तथाभूतं व्योमेति योज्यम् । नीराज्यते प्रकाश्यते॥ १०॥
रूढ इति ।
वेदस्यैकदेशः काण्डं ब्रह्मकाण्ड एव काण्डः समुद्रसलिलं तस्मा­त्प्रा­दु­र्भूतः । 'काण्डोऽस्त्री दण्ड­बा­णा­र्व­व­र्गा­व­स­र­वा­रिषु' इति निघण्टुः । वृक्षपक्षे भूरिः शाखासु वीनां पक्षिणां चारोऽ­स्ये­त्यर्थः ।
वीन्द्र इति ।
जीवेश्वरयोः प्रधा­न­प­क्षि­त्वोक्त्या वृक्षपक्षे तेन विशेषणेन अपौनरुक्त्यम् । कल्पवृक्षः सर्वेषां विबुधानामिवायं ग्रन्थः सर्वेषां वेदान्तानां तात्प­र्य­वि­ष­य­स्या­र्थस्य प्रतिपादने समर्थ इति कल्प­वृ­क्ष­त्वा­ध्य­व­सा­नम्॥ १२॥
ईश्वरायेति ।
सर्वज्ञायेत्यपि शक्यं व्याख्यातुम् । 'मेधावी तु विधाता स्याद्वेधाः सर्वज्ञ उच्यते' इति, 'वेधा­स्त्रिषु स्यात्सर्वज्ञे नरि विष्णु­वि­रि­ञ्च­यो'रिति च नैघण्टुकाः ।
अवतारः प्राप्ति­र्य­स्मि­न्निति ।
ननु ज्ञान­श­क्त्य­व­ता­रा­ये­त्यत्र अवतारशब्दस्य प्राप्त्य­र्थ­त्व­मा­श्रित्य बहु­व्री­हि­स­मा­स­प्र­द­र्श­न­म­युक्तं; 'समा­ना­धि­क­र­णानां बहु­व्री­हि'रिति वार्तिककारेण नियमितत्वात् । 'न धातुलोप आर्ध­धा­तुके' (पा. ११४) इति पाणिनिसूत्रे धातुलोपशब्दे षष्ठी­ग­र्भ­व्य­धि­क­र­ण­ब­हु­व्री­ह्या­श्र­य­णात् तद्वदिह तदुपपादनेऽपि 'ॠदो­रब्' (पा. ३ ।३ ।५७) इत्य­ब­न्त­स्या­व­ता­र­श­ब्द­स्येव घञ­न्त­स्या­व­ता­र­श­ब्दस्य भावा­र्थ­त्वा­भा­वात् । 'अवे तॄस्त्रो­र्घञ्' (पा. ३ ।३ ।१२०) इति सूत्रे­णा­व­पू­र्वा­त्त­रतेः करणाधिकरणयोरेव घञ्-विधानात् । अतोऽवतारशब्दस्य अधि­क­र­णा­र्थ­त्व­मा­श्रित्य ज्ञान­श­क्ते­र­व­ता­रा­येति षष्ठीतत्पुरुषः प्रदर्शयितुं युक्त इति चेद्, यद्येवं स एव अत्राचार्यैः प्रदर्शित इति ब्रूमः । प्राप्ति­र्य­स्मि­न्नि­त्यु­भ­य­म­प्य­व­ता­र­प­द­व्या­ख्या­नार्थं, न तु प्राप्ति­प­द­मात्रं, प्राप्ति­र्य­स्मि­न्सोऽ­व­तार इत्यर्थः ।
अथशब्द इति ।
मङ्गलश्लोके शास्त्री­य­वि­ष­य­प्र­यो­ज­न­प्र­द­र्श­नेन तथाभूते ब्रह्मणि भाष्यस्य तात्पर्यमिति कृत्स्नं भाष्यं सामान्यतो व्याख्यातम् । इदानीं प्रतिग्रन्थं व्याख्यानं प्रारभ्यते इत्ये­त­द­र्थोऽ­थ­शब्द इत्यर्थः । यद्यपि प्रारभ्यत इत्यनुक्तेऽपि प्रारम्भादेवेदं प्रारभ्यत इत्यवगन्तुं शक्यं; तथापि श्रोतॄणां श्रद्धे­य­त्व­प्र­ति­प­त्त्यर्थं तदुक्तिः । दृश्यते हि तदर्थमेव लोकेऽप्याप्ता: किंचिदहं वक्ष्या­मी­त्युक्त्वा हितमुपदिशन्तीति ।
मुमुक्षुणेति ।
ननु हेतु­सा­ध्य­यो­र्मु­मु­क्षु­वि­शे­षणं किमर्थम् । न च अमुमुक्षोः सर्व­प्र­प­ञ्च­वि­षयो येन केनचित्प्रकारेण सन्देहः तन्निवर्तनार्थं विचारश्च सम्भवतीति कुम्भा­ह­म­र्थ­यो­रपि तद्वि­ष­य­त्वा­व­श्यं­भा­वात् दृष्टान्ते हेतु­सा­ध्य­वै­कल्यं, पक्षे हेत्वसिद्धिबाधौ च स्यातामिति तद्वारणार्थं मुमु­क्षु­वि­शे­ष­ण­मिति वाच्यम्; मुमुक्षोरपि तथा­वि­ध­स­न्दे­ह­वि­चा­रयोः संभवेन तत उक्त­दो­षा­नि­वा­र­णात्, न च यस्य मुमुक्षोस्तौ न स्तः सोऽत्र विशेषणमिति वाच्यम् । ब्रह्म­वि­चा­रा­र्थ­मिदं शास्त्र­मा­र­म्भ­णी­य­मिति वदतः सिद्धान्तिनो मते, प्रपञ्चः सत्यो मिथ्या वा, सन् असन्वा, जीवः स्वाभाविकचैतन्य आगन्तुकचैतन्यो वेत्या­दि­सं­दे­हस्य तत्त­द­धि­क­र­ण­नि­रू­पि­त­न्या­या­नु­सं­धा­न­नि­व­र्त्त­नी­यस्य अवश्यंभावेन प्रतिवादिनं प्रति पक्ष­दृ­ष्टा­न्त­यो­र्हे­त्व­सि­द्धे­र­नि­वा­र­णात्, मुमु­क्षु­ज्ञा­त­व्येन रूपेण असंदिग्धत्वं हेतुर्विवक्षित इति चेत्, न; स्वाभा­वि­क­चै­त­न्य­त्वा­दे­रपि मुमु­क्षु­ज्ञा­त­व्य­तायाः सिद्धान्तिना वाच्यत्वात्, अन्यथा तेन मोक्षा­र्थ­मा­र­भ्य­मा­णेऽ­स्मिन् शास्त्रे तद्वि­चा­रा­नु­प­पत्तेः इति चेत्, उच्यते; मोक्ष­ज­न­क­त्वा­भि­म­त­ज्ञा­न­वि­ष­येण रूपे­णा­सं­दि­ग्धत्वं हेतुः । न च अहं­त्वा­द­न्य­न्मो­क्ष­ज­न­क­त्वा­भि­म­त­ज्ञा­न­वि­षय इति सिद्धान्तिना वक्तुं शक्यम् । ब्रह्मज्ञानं मोक्षहेतुरिति वदतः सिद्धान्तिनो मते अहमिति ज्ञानमेव मुक्तिहेतु: स्यादित्यापाद्य पूर्व­प­क्ष­प्र­वृत्तेः । पक्ष­दृ­ष्टा­न्तयोः बाध­सा­ध्य­वै­क­ल्य­प­रि­हा­रार्थं साध्येऽपि मुमु­क्षु­वि­शे­ष­णम्; अन्यथा सर्व­प्र­प­ञ्च­वि­ष­य­स­त्य­त्व-मि­थ्या­त्वा­र­म्भ­प­रि­णा­मा­दि­वि­चारं मुमु­क्ष्व­मु­मु­क्षु­कृतं प्रति­प­क्ष­दृ­ष्टा­न्ती­कृ­ता­ह­म­र्थ­कु­म्भ­व्य­क्त्यो­रपि विष­य­त्वा­व­श्यं­भा­वात् बाधसाध्यवैकल्ये स्याताम् । न च मुमु­क्षु­वि­शे­ष­ण­लभ्ये मोक्ष­ज­न­क­त्वा­भि­म­त­ज्ञा­न­वि­ष­येण रूपेण विचार्यत्वाभावे विवक्षितेऽपि साध्ये दोषतादवस्थ्यम् । पक्षे अहंन्त्वस्य दृष्टान्ते तद्व्यतिरेकस्य च लोक­सि­द्ध­त्वेऽ­प्य­नु­मि­त्सया विचारसंभवादिति वाच्यम्; मोक्ष­ज­न­क­ज्ञा­न­प्र­का­र­प्र­का­र­क­सं­दे­ह­नि­वृ­त्त्य­र्थ­वि­चा­र­वि­ष­य­त्वा­भा­वस्य साध्यार्थस्य विवक्षितत्वात् । एवं चाहमिति सदावभासमानं ब्रह्म नाहं­त्व­प्र­का­र­क­सं­दे­ह-नि­व­र्त्त­क­वि­चा­र­वि­षयः; अहंत्वेन निश्ची­य­मा­न­त्वाद्, यो यदा येन प्रकारेण निश्चीयते, स तदा न तत्प्र­का­र­क­सं­दे­ह­नि­व­र्त्त­क­वि­चा­र­वि­षयः; यथा सम­न­स्के­न्द्रि­य­स­न्नि­कर्षे स्फीता­लो­क­म­ध्य­व­र्ति­ता­द­शायां घट इत्य­नु­मा­न­नि­ष्कर्षः । न च प्रति­यो­ग्य­प्र­सिद्ध्या साध्या­प्र­सि­द्धि­र्दोषः, साध्य­वि­शे­ष­प्र­सिद्धिं विनापि घटे सामा­न्य­व्या­प्ति­ग्र­हो­प­पत्तेः । विशि­ष्ट­वै­शि­ष्ट्य­ज्ञा­न­रू­पायाः प्रति­यो­गि­वि­शि­ष्टा­भा­व­रू­प­सा­ध्य­वि­शि­ष्टा­नु­मितेः अहं­त्व­प्र­का­र­क­त्व­सं­दे­ह­नि­व­र्त्त­क­वि­चा­र­वि­ष­य­त्वयोः विश­क­लि­त­प्र­सिद्ध्या, विशेष्ये विशेषणं तत्र च विशेषणान्तरम् इत्यु­क्त­रू­प­वि­शि­ष्ट­वै­शि­ष्ट्य­ज्ञा­न­सा­म­ग्र्यो­प­पत्तेः । न च प्रति­यो­ग्य­प्र­सि­द्धि­रपि; देहेन्द्रियेषु तत्प्रसिद्धेः सुलभत्वात् ।
देहादात्मन इति ।
मम देह इत्य­भि­ज्ञा­रू­पोऽपि भेदग्रहो विवक्षितः ।
परिमाणभेदेऽपीति ।
काष्ठपाषाणादिषु तक्षणादिना शरीरेषु कालभेदेन च परिमाणभेदेऽपि अभे­द­प्र­त्य­भि­ज्ञो­द­य­स्त­था­भि­मा­न­बी­जम् ।
कृत्रिमेति ।
योगमहिम्ना 'ह्रस्वता स्थूलता बाल्यं वार्धकं यौवनं तथा । नानाजातिस्वरूपं च तथा सुरभिगन्धता॥ पार्थिवांशं विना भूतै­श्च­तु­र्भि­र्दे­ह­धा­र­णम् । गन्ध­त­न्मा­त्र­त­त्त्वो­त्थ­मे­त­द­ष्ट­गुणं महत्॥' इत्यु­क्त­रू­प­पा­र्थि­वै­श्व­र्या­ष्ट­क­ला­भा­ल्ली­ला­द्यर्थं व्याघ्रशरीरं कृत्वा तदभिमन्यमान इत्यर्थः । तद्व्याघ्रशरीरं योगिसंकल्पकरणेन कृत्रिमम् ।
पटः शुक्ल इति ।
गुणशब्दः तद्वति निरूढलक्षणया प्रयुज्यते । रथाङ्गशब्दः चक्र­वा­क­श­ब्दै­क­दे­श­प­र्या­य­स्त­द्वाच्ये सांप्र­ति­क­ल­क्ष­णया प्रयुज्यते । एवं चाहमेव त्वमित्यत्रेव भाष्यकारीयेऽपि युष्मत्प्रयोगे सांप्रतिकी गौणी वृत्तिः । सा चात्य­न्त­भे­दा­व­भा­स­द्यो­त­नार्था । इदं­का­र­स्या­हं­का­रा­वि­रो­ध­श­ङ्कया स्फुट­भे­दा­न­व­भा­सा­दिति भावः । 'अय­म­ह­मस्मी'ति छन्दो­ग­तै­त्ति­री­याणां श्रुतिः ।
अविवेकादिति ।
येषां तु तमः­प्र­का­श­यो­र्वि­वेको भेदग्रहोऽस्ति तेषां तयो­र­न्यो­न्या­त्म­त्वे­ना­स्फु­रणं नियतमेवेति भावः ।
नन्वि­त­रे­त­र­भा­वा­नु­प­प­त्ति­स्त­त्प्र­ती­त्य­नु­प­प­त्ति­रिति किमर्थमिदं क्लिष्ट­व्या­ख्या­नम्, अधि­ष्ठा­न­सा­मा­न्यां­शा­ध्य­स्य­मा­न­वि­शे­षां­शयोः क्वचि­द्वा­स्त­व­ता­दात्म्ये सत्येव तत्प्र­मि­ति­ज­न्य­सं­स्का­रा­पेक्ष इदं रज­त­मि­त्या­द्य­ध्यासो दृष्टः, तदसंभव इहा­ध्या­सा­सं­भ­व­हे­तु­त्वे­नो­च्यत इत्य­स्त्वि­त्या­श­ङ्क्याह –
तन्मा­त्रा­नु­प­प­त्ति­सा­धने इति ।
आत्मा­ना­त्म­नो­र्वा­स्त­व­ता­दा­त्म्या­सं­भ­वस्य सिद्धान्तिनापि अङ्गी­कृ­त­त्वा­द्वि­रो­ध­हे­तुना तत्साधनं सिद्ध­सा­ध­न­दू­षि­त­मि­त्यर्थः ।
ननु बुद्धि­पू­र्वि­कायां गृह­क्षे­त्रा­दि­प­रि­व­र्त­नायां प्रसिद्धस्य विनिमयशब्दस्य कथमत्र प्रयोग इत्याशङ्क्य व्यत्यासमात्रे लक्षणयेत्याह –
विनिमय इति ।
ननु रूपवत एव प्रतिबिम्ब इति नास्ति नियमः, जानुदघ्ने कूपजले दूर­वि­शा­ल­त­ल­म­लि­न­ता­दि­यु­क्त-ग­ग­न­प्र­ति­बि­म्ब­द­र्श­ना­दि­त्या­श­ङ्क्याह –
गगनस्येति ।
ननु रूपवत एव प्रतिबिम्ब इति नियममादृत्य आलोकप्रतिबिम्बे गग­न­प्र­ति­बि­म्ब­त्व­वि­भ्र­म­मात्रं, न तु गगनस्य प्रति­बि­म्बोऽ­स्तीति कल्पने, रूपवत एव चाक्षुषत्वमिति नियममनुरुध्य गगनप्रसृतालोके एव तलमलिनताध्यासः, गगने तलमलिनताध्यास इति विभ्र­म­मा­त्र­मि­त्यपि कल्प्येत; तथा­चा­प्र­त्य­क्षेऽपि ह्याकाशे बाला­स्त­ल­म­लि­न­ता­द्य­ध्य­स्य­न्तीति भाष्यविरोधः । यदि रूपवदेव चाक्षुषमिति न नियमः, किन्तु रूपवदरूपं वा रूपोपधानेन चाक्षुषमिति नियमः, अतो नीरूपस्यापि गग­न­स्या­ध्य­स्य­मा­न­त­ल­म­लि­न­ता­द्यु­प­धा­नेन चाक्षु­ष­त्व­मु­प­प­द्यत इत्युच्येत, तर्हीहापि रूपवतः प्रतिबिम्ब इति न नियमः, किन्तु रूपोपधानेन प्रति­बि­म्ब­वि­भ्रम इति; अतोऽ­ध्य­स्य­मा­न­त­ल­म­लि­न­ता­द्यु­प­धा­नेन गग­न­प्र­ति­बि­म्ब­वि­भ्रम उपपादयितुं शक्यः, तथैव देहे चेत­न­प्र­ति­बि­म्ब­वि­भ्र­मोऽ­प्यु­प­पा­द­यितुं शक्यः; चेतनेऽपि देहगतरूपेणैव रूपोपधानसंभवात् मलिनदर्पणादिषु उपा­धि­ग­त­श्या­मि­को­प­धा­ने­नापि प्रति­बि­म्ब­वि­भ्र­म­द­र्श­नात्, इति चेत्, उच्यते; जले गग­न­प्र­ति­बि­म्ब­म­भ्यु­प­ग­च्छ­तापि आलो­क­प्र­ति­बि­म्बोऽ­व­श्य­म­भ्यु­प­ग­न्तव्यः । अन्यथा कूपा­धि­क­प­रि­मा­ण­रू­पस्य प्रति­बि­म्ब­ग­त­वि­शा­ल­त्वस्य अचा­क्षु­ष­त्व­प्र­स­ङ्गात्, यत्र रूपं भासते तत्रैव परिमाणस्य चाक्षुषत्वात् । एवं च गग­ना­लो­क­यो­रु­भ­यो­रपि प्रति­बि­म्बा­व­ङ्गी­कृत्य आलोकप्रतिबिम्बे भासमानस्य विशालत्वस्य गग­न­प्र­ति­बि­म्ब­ग­त­त्वेन विभ्रम इति कल्प­ना­द्व­र­मा­लो­क­प्र­ति­बिम्ब एव अधःप्रदेशे तल­म­लि­न­ता­द्य­ध्यासः । अन्यत्र तदी­य­रू­प­वि­शा­ल­ताभ्यां सह स्फुरणं तत्रैव गग­न­प्र­ति­बि­म्ब­त्व­वि­भ्रम इति कल्पनम्, बहिस्तु नीलं नभः विशालं नभ इत्या­दि­प्र­त्य­य­स्या­लो­क­वि­ष­यत्वं न कल्पनीयम्; जलमध्ये नभः­प्र­ति­बि­म्ब­स्येव बहि­र्न­भ­सोऽ­सं­प्र­ति­प­त्त्य­भा­वेन यथाव्यवहारं नभसि नीलिमाध्यासस्य तस्मिन्नेव तत्प्र­सृ­ता­लो­क­ग­त­रू­पा­ध्या­सेन तदी­य­वि­शा­ल­ता­नु­भ­वस्य चाङ्गीकारे बाधकाभावात् । अतो रूपवत एव प्रतिबिम्ब इति नियमे व्यभिचाराभावात् नात्मन: प्रतिबिम्बो घटत इति भावः । गग­न­प्र­ति­बि­म्ब­त्व­वि­भ्र­म­वि­ष­या­लो­क­प्र­ति­बि­म्ब­वत् आत्म­प्र­ति­बि­म्ब­त्व­भ्र­म­वि­षये देहादौ रूपवतः कस्यचित् प्रति­बि­म्बोऽस्ति चेत्, तस्माच्च प्रति­बि­म्बो­पा­धे­र्दे­हस्य जपा­कु­सु­म­प्र­ति­बि­म्बात् स्फटिकस्येव विवे­का­ग्र­होऽ­प्यस्ति चेत्, अध्य­स्त­ग­ग­न­ध­र्मस्य नीलिम्नो जलमध्ये भासमानस्य आलो­क­प्र­ति­बि­म्ब­ध­र्म­त्वे­नेव अध्य­स्ता­त्म­ध­र्मस्य चैतन्यादेः देहमध्ये भासमानस्य आत्म­प्र­ति­बि­म्ब­त्व­भ्र­म­वि­ष­या­न्य­प्र­ति­बि­म्ब­ध­र्म­त्वेन प्रतिभासः संभवेत् ।
एवं प्रति­भा­स­त­स्त­द्ध­र्मस्य चैतन्यादेः प्रति­बि­म्ब­ग्रा­हिणि देहा­दा­व­ध्या­स­श्चो­प­प­द्यते; जपा­कु­सु­म­प्र­ति­बि­म्बा­रु­णिम्न इव स्फटिके न तवा­त्म­प्र­ति­बि­म्ब­त्व­भ्र­म­वि­षयः कस्य­चि­त्प्र­ति­बि­म्बोऽस्ति देहादावित्याह –
आत्मनस्त्विति ।
नन्वि­त­रे­त­र­भा­वा­नु­प­पत्तिः, इत­रे­त­र­भा­वा­प्र­ती­त्य­नु­प­प­त्ति­रिति व्याख्यातम् ।
अतः सैवाध्यासाभाव इति, तेनैव तत्साधने साध्या­वै­शि­ष्ट्य­मि­त्या­शङ्क्य हेतु­सा­ध्य­यो­र्भेदं दर्शयति –
अध्या­सा­नु­प­प­त्ति­मु­क्त्वेति ।
अनुपपत्तिः अन्यो­न्या­ना­त्म­ता­स्फु­र­णेन प्रतिबन्धात् उत्प­त्त्य­न­र्हत्वं स हेतु: अध्यासाभावस्ततो भिन्नः साध्य इति भावः । अथवा अहं मनुष्य इत्यादिप्रतीतौ अत­स्मिं­स्त­त्प्र­ती­ति­त्व­स्या­ध्या­स­ल­क्ष­ण­स्या­भावे उक्ते लक्ष्या­ध्या­स­रू­प­त्वस्य अभा­व­प्र­द­र्श­ना­र्थम् अतोऽ­स्म­त्प्र­त्य­ये­त्या­दि­भा­ष्य­मिति व्याख्यान्तरं केषुचित्कोशेषु दृष्टम् । अस्यां व्याख्या­या­म­तोऽ­स्म­त्प्र­त्य­ये­त्यतः प्राची­न­ग्र­न्थोऽहं मनुष्य इत्या­दि­प्र­ती­ता­व­ध्या­स­ल­क्ष­णा­भा­व­स­म­र्थने फलतः पर्यवसन्नो द्रष्टव्यः ।
ज्येष्ठस्यापीति ।
अपच्छेदन्यायेन (जै० अ. ६ पा. ५ सू. ५४) पूर्वस्य परेण बाधमाशङ्क्य तदपेक्षस्येति विशेषितम् । तेनोत्तरस्य पूर्वा­पे­क्षा­या­मु­प­क्र­मा­धि­क­र­ण­न्याय एव प्रवर्तत इति सूचितमित्यर्थः । आद्यद्वयं निरस्येति अपौ­रु­षे­य­त­ये­त्या­दि­ष­ष्ठ्य­न्त­वि­शे­ष­ण­द्व­ये­नेति शेषः ।
एवमप्रामाण्यं निराकृत्येति ।
ननू­त्पा­द­का­प्र­ति­द्व­न्दि­त्वात् इत्य­प्रा­मा­ण्य­नि­रा­क­र­ण­हे­तु­नैव उप­च­रि­ता­र्थ­त्व­मपि निराकृतं, किमर्थं पुन­स्त­न्नि­रा­क­र­णाय प्रागु­प­पा­दि­त­म­न­न्य­प­रत्वं स्मार्यते, इत्याशङ्क्याह –
पूर्वमिति ।
ननु इह का पुन­र­प्यु­प­जी­व्य­वि­रो­ध­शङ्का, यन्नि­रा­सा­या­न­न्य­प­र­त्व­हे­त्व­न्वे­ष­णम्; उत्पा­द­का­प्र­ति­द्व­न्द्वि­हे­तु­वि­व­र­ण­ग्रन्थ एव हि यदुपजीव्यं न तेन विरोधः, येन विरोधः न तदु­प­जी­व्य­मि­त्यु­प­जी­व्य­वि­रो­ध­शङ्का निरस्ता, उच्यते । उप­जी­व्यो­प­जी­व­क­वि­रो­धोऽत्र द्वेधा समाधातुं शक्यते; उपजीव्यं प्रत्यक्षम् औत्सर्गिकात् तत्त्वा­वे­द­क­प्र­मा­ण­भा­वात् प्रच्याव्य तस्य सांव्य­व­हा­रि­क­वि­ष­य­स­म­र्प­णेन वा, उपजीवकं वाक्यजातम् औत्सर्गिकात् मुख्या­र्था­त्प्र­च्याव्य तस्यौ­प­चा­रि­क­वि­ष­य­स­म­र्प­णेन वा । तत्रो­प­जी­व्यो­प­म­र्दात् उपजीवकोपमर्दो वरमिति न्यायम् अवलम्ब्य शङ्कायां तत्स­मा­धा­ना­र्थ­म­न­न्य­प­र­त्वस्य पुनरनुकीर्तनम् । इत्थं च तत्स­मा­धा­न­प्र­कारो विवक्षितः; अस्त्यु­प­जी­व्य­स्यापि बलवता उपजीवकेनोपमर्दः पूर्वतन्त्रे निर्णीतः । यथा 'विप्र­ति­षेधे कर­ण­स­म­वा­य­वि­शे­षा­दि­त­र­म­न्य­स्तेषां यतो विशेषः स्यात्' (जै० अ. ३ पा. ८ सू. २१) इत्यधिकरणे चिन्तितम्, कुण्डपायिनामयने श्रूयते 'यो होता सोऽध्व­र्यु'रिति; तत्र होत्र­ध्व­र्यु­श­ब्दयोः भिन्न­पु­रु­ष­वा­चिनोः मुख्य­सा­मा­ना­धि­क­र­ण्या­यो­गात् अन्यतरस्य लक्षकत्वे कल्पनीये प्रथमश्रुतस्य होतृशब्दस्य मुख्यवृत्त्या चरमश्रुतस्य अध्वर्युशब्दस्य अध्व­र्यु­क­र्म­ल­क्ष­क­त्व­मिति तल्ल­क्षि­तेऽ­ध्व­र्यु­क­र्मणि कर्तृत्वेन होतुर्विधिः । तेन प्रकृतितः प्राप्त­यो­र­ध्व­र्यु­हो­त्रो­र­ध्व­र्यो­र्नि­वृत्तिः, होत्रै­वा­ध्व­र्य­व­मपि कर्तव्यमिति व्यवस्था । तत्र यूपपरिव्याणकाले 'परि­वी­रसि' 'युवा सुवासा' इत्यनयोः परिव्याणे क्रिय­मा­णा­नु­वा­दि­क­र­ण­म­न्त्र­यो­र­ध्व­र्युणा होत्रा च प्रयोज्ययोः परि­व्या­णा­सं­क­ल्प­प्र­भृति तत्स­मा­प्ति­प­र्य­न्त­म­नु­व­र्त­मानः क्रियमाणानुवादी तन्मध्यपाती परि­व्या­णा­र­म्भ­स­न्नि­पाती करणमन्त्र इति कालै­क्य­मा­प­न्नयोः तथैव कुण्ड­पा­यि­ना­म­य­नेऽपि प्राप्तावेकेन होत्रा युगपदुभयोः प्रयो­क्तु­म­श­क्य­तया अवश्यमन्यतरबाधे वक्तव्ये, प्रत्य­क्ष­श्रु­ति­वि­धी­य­मा­ना­ध्व­र्यु­क­र्म­बा­धा­यो­गात् आनु­मा­नि­क­प्र­कृ­ति­व­च्छ­ब्द­प्रा­प्त­हो­तृ­क­र्म­बाध इति । तत्र होतुः प्रकृ­ति­व­च्छ­न्देन प्राप्तिः प्रत्य­क्ष­व­च­न­स्यो­प­जीव्या; विकृतौ पदा­र्थ­प्रा­प्ति­रु­प­का­र­मु­खे­नेति होतृ­क­र्म­प्रा­प्ति­रपि होतृ­प्रा­प्त्य­र्थ­त्वे­नो­प­जीव्या; सा चोप­जी­व्य­हो­तृ­क­र्म­प्रा­प्ति­र­वि­शे­ष­प्र­वृत्ता 'युवा सुवासा' इति मन्त्रप्रयोगमपि स्पृशति । अध्व­र्यु­श­ब्द­श्चा­ध्व­र्यु­क­र्मणि लक्षयन् 'परि­वी­रसी'ति मन्त्रप्रयोगमपि स्पृशति; उभयोरपि उदा­हृ­त­म­न्त्र­द्व­य­प्र­यो­गा­ति­रि­क्त­वि­ष­य­त्वेन साव­का­श­ता­प्यस्ति; एवं सत्य­प्यु­प­जी­व­कस्य प्रत्य­क्ष­व­च­न­त्वेन प्राबल्यात् उप­जी­व्य­स्यै­वो­प­मर्दः संश्रितः । तथा 'हिर­ण्य­गर्भे पूर्वस्य मन्त्र­लि­ङ्गात्' (जै. अ. १० पा.३ सू. १३) इत्यधिकरणे चिन्तितम् । वायव्यपशौ श्रूयते, 'हिर­ण्य­गर्भः समवर्तताग्र इत्या­घा­र­मा­घा­र­यती'ति तत्र किममन्त्रके प्रजापतिदेवताके प्रथमाघारे मन्त्रो विधीयते, उत मन्त्र­व­ती­न्द्र­दै­व­त्य­द्वि­ती­या­घारे प्राकृ­त­म­न्त्रा­प­वा­दकं मन्त्रान्तरं विधीयत इति संशये, हिर­ण्य­ग­र्भ­श­ब्दस्य प्रजा­प­ति­ना­म­त्व­प्र­सिद्धेः 'प्रजा­प­तिर्वै हिर­ण्य­गर्भ' इति वाक्यशेषाच्च विनि­यो­ज्य­म­न्त्र­स्वा­र­स्या­नु­रो­धेन प्रथमाघार इति पूर्वः पक्षः; द्वितीयाघारे मन्त्र­का­र्य­नि­य­मा­दृ­ष्टस्य क्लृप्त­वा­द­क्लृ­प्त­त्वाच्च प्रथमाघारे तदकल्पना लाघवानुसारेण द्वितीयाघारे मन्त्रविधिरिति सिद्धान्त इति॥ अत्रा­घा­र­म­न्त्र­विधौ मन्त्र उपजीव्यः; प्रसिद्धं मन्त्रमादाय तद्विनियोगस्य कार्यवात्, आघारे तद्विधिरुपजीवकः । तत्र मन्त्रः कथंचिदिन्द्रे योगकल्पनया सावकाशः, तदु­प­जी­व­क­वि­धि­ग­ता­घा­र­श­ब्दस्तु द्वितीयाघार इव प्रथमाघारेऽपि प्रसि­द्ध­वृ­त्त्यैव सावकाशः; एवं सत्यपि लाघ­वा­नु­गृ­ही­त­स्यो­प­जी­व­कस्य प्राब­ल्ये­नो­प­जी­व्यस्य क्लिष्ट­वृ­त्ति­रा­श्रिता, एवमिहापि अद्वै­त­वा­क्य­जा­तस्य उप­क्र­मा­दि­ता­त्प­र्य­लि­ङ्ग­यु­क्त­त्वेन प्राब­ल्या­त्त­दु­प­जी­व्यस्य प्रत्यक्षस्यैव व्याव­हा­रि­क­वि­ष­य­स­म­र्प­णे­नो­प­मर्दः कल्पयितुं युक्त इति । एतेन उपजीव्यविरोधे तात्प­र्य­व­त्त्व­मेव न सिद्ध्यतीत्यपि शङ्का निरस्ता; तदु­प­जी­व्य­वि­रो­धेऽपि तात्पर्यवता वाक्ये­नो­प­जी­व्यो­प­म­र्दस्य दर्शितत्वात् ।
विधायके इति ।
ननु एतदयुक्तम्; सोमेन यजेतेति विधिवाक्ये सोमवता यागेनेति मत्व­र्थ­ल­क्ष­णा­ङ्गी­का­रात् । तत्तु­ल्य­मि­त्ये­द­प्य­यु­क्तम्; तत्त्वमसिवाक्ये भाग­त्या­ग­ल­क्ष­णा­ङ्गी­का­रा­दिति चेत्, उच्यते; विधिवाक्यं तत्तुल्यं वा तात्प­र्य­व­द्वाक्यं यत्किं­चि­द­नु­ग्र­हा­र्थम् अन्यमर्थं नेतुमयुक्तमिति तदभिप्रायः । एवं च विशिष्टविधिपरे सोमवाक्ये सोम­द्र­व्य­ता­दा­त्म्य­वि­शि­ष्ट­या­ग­वि­ध्य­भ्यु­प­गमे तस्य विशिष्टस्य विधेयस्य दध्या­दि­व­ल्लो­क­सि­द्ध­त्वा­भा­वेन विधिवाक्यादेव देवताधिकरणे (ब्र.अ.१ पा.३ सू.३३) उदा­ह­रि­ष्य­मा­ण­रे­व­त्या­धा­र­वा­र­व­न्ती­य­वि­शे­ष­ण­स्येव विना तात्पर्यं सिद्धिरेष्टव्या । न च तात्पर्यरहितात् आग­मा­द्या­ग­सो­म­ल­ता­भे­द­ग्रा­हि­प्र­त्य­क्ष­वि­रु­द्धार्थः सिद्ध्यतीति; तत्र तदविरोधाय मत्व­र्थ­ल­क्ष­णा­श्र­य­णम्; अद्वै­त­श्रु­तेस्तु तात्प­र्य­वि­ष­या­द­न्यत्र नयनमेव नास्तीति न कश्चिद्दोषः ।
ननु प्रत्य­क्ष­ज्ञा­न­प्रा­माण्यं ज्ञान­स­मा­न­वि­त्ति­वे­द्य­तया ज्ञाने प्रकाशमाने विशिष्य नियमेन प्रतीतं नाद्वैतश्रुत्या बाध­न­म­र्ह­ती­त्या­शङ्क्य विशिष्य नियमेन प्रतीतस्यापि पूर्वस्य परेण बाधे टीका­या­म­प­च्छे­द­न्यायो(जै. अ. ६ पा. ५ सू. ५४)दाहारणं कृतम्; तत्र पूर्वस्य परोपजीव्यत्वं नास्तीति वैष­म्या­श­ङ्का­नि­रा­क­र­ण­पू­र्वकं तदवतारयति –
एवं तावदिति ।
किमद्वैतश्रुतेः प्रत्यक्षं प्रमाणं सदुपजीव्यमिति प्रामाण्यस्य प्राब­ल्य­मु­च्यते, उता­नु­प­जी­व्य­त्वेऽपि प्रथ­म­प्र­ती­त­त्व­मा­त्रेण ।
आद्यपक्षो न शङ्कार्ह इत्याह –
उपजीव्यत्वमिति ।
प्रत्यक्षस्य प्रमाणस्य सत इति शेषः ।
द्विती­य­प­क्ष­नि­रा­क­र­णा­र्थ­मु­त्त­र­ग्रन्थ इत्याह –
मुख्य­त्व­मा­त्र­स्येति ।
ज्योतिष्टोमे बहिष्पवमानार्थं हवि­र्धा­ना­न्नि­र्ग­च्छतां ऋत्वि­ग्य­ज­मा­ना­नाम् अन्वारम्भणं विहितम् । 'अध्वर्युं प्रस्तो­ताऽ­न्वा­र­भते प्रस्तो­ता­र­मु­द्गाता, उद्गातारं प्रति­ह­र्ते'त्या­दिना । तद्विच्छेदे प्राय­श्चि­त्त­मा­म्ना­यते 'यद्यु­द्गा­ताऽ­प­च्छि­द्ये­ता­द­क्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत, तत्र तद्द­द्या­द्य­त्पू­र्व­स्मि­न्दा­स्य­न्स्यात्, यदि प्रति­ह­र्ता­प­च्छि­द्येत सर्ववेदसं दद्या'दिति । तत्र पूर्व­नि­मि­त्त­क­र्त­व्य­ता­बुद्धिः पर­नि­मि­त्त­क­र्त­व्य­ता­बुद्ध्या यथा बाध्यते, तथा श्रुति­ज­न्या­द्वै­त­बुद्ध्या परया पूर्व­प्र­त्य­क्ष­जन्या कर्तृ­त्वा­दि­बु­द्धि­र्बा­ध्यते । बाधितापि सा तदु­चि­त­वि­ष­य­स­म­र्प­णेन शुक्ति­रू­प्या­दि­बु­द्धि­वत् अनुग्राह्येति याव­द्ब्र­ह्म­ज्ञा­नाऽ­बा­ध्य­व्या­व­हा­रि­क-वि­ष­या­ङ्गी­का­रात् तद्विषयं प्रत्यक्षादि व्याव­हा­रि­क­प्र­मा­ण­मिति व्यपदिश्यते; व्यावहारिकमेव प्रत्य­क्षा­दि­सिद्धं तत्त­त्का­र­ण­स्व­रूपं प्रमि­त्यु­त्प­त्ता­व­पे­क्षि­त­मिति तदबाधात् । तद्ग­त­ता­त्त्वि­कां­श­बा­धेऽपि शरशास्त्रस्य वेद्या­स्त­र­ण­प्रा­प्त्यर्थं प्रकृ­ति­व­च्छ­ब्दा­पे­क्षस्य तत्प्रा­प्त­कु­शां­श­बाध इव अप­रा­मृ­ष्ट­प्र­कृ­ति­व­च्छ­ब्द­ज­न्य­बुद्धौ कुशां­श­प्रा­मा­ण्य­बाध इव च नोपजीव्यविरोध इत्याशयः । यत्तु एकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां तत्त­न्नै­मि­त्ति­क­क­र्त­व्य­त­यो­र्ब­द­र­फले श्याम­र­क्त­रू­प­यो­रिव क्रमेणोत्पादात् रूपज्ञानद्वयवत् कर्त­व्य­ता­ज्ञा­न­द्व­य­मपि प्रमाणमेवेति न परेण पूर्व­ज्ञा­न­बा­धेऽ­प­च्छे­द­न्याय उदाहरणम् इति । तन्न; अङ्गस्य सतः कर्तव्यत्वं, न च पश्चा­द्भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­वति पूर्व­वृ­त्तो­द्गा­त्र­प­च्छे­द­प्रा­य­श्चि­त्त­स्या­ङ्ग­त्व­मस्ति; आह­व­नी­य­शा­स्त्रस्य पद­हो­मा­ति­रि­क्त­हो­म­वि­ष­य­त्व­वत् तद­ङ्ग­त्व­बो­ध­क­शा­स्त्रस्य पश्चा­द्भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­र­हि­त­क्र­तु­वि­ष­य­तायाः सिद्धा­न्ति­त­त्वात् । उक्तं हि न्याय­र­त्न­मा­लायां - तत्रैवं सति शास्त्रार्थो भवति, पश्चा­द्भा­व्यु­द्गा­त्र­प­च्छे­द­वि­धु­र­प्र­ति­ह­र्त्र­प­च्छे­द­वतः क्रतोः सर्व­वे­द­स­दा­न­म­ङ्ग­मे­व­मु­द्गा­त्र­प­च्छे­देऽपि द्रष्टव्यमिति । न च मीमां­स­क­म­र्या­दा­म­ति­क्रम्य पर­क­र्त­व्य­ता­नि­वर्त्यं पूर्व­क­र्त­व्यत्वं निर्वक्तुमपि शक्यम्; न हि कृति­सा­ध्य­त्व­यो­ग्यवं तत्; तस्य पश्चादपि सत्त्वात् । नापि फल­मु­ख­कृ­ति­सा­ध्य­त्वम् । तस्य पूर्वमप्यजननात् । नाप्यङ्गत्वम्; तस्य सन्नि­प­त्यो­प­का­र­क­त्व­फ­लो­प­का­र­क­त्वा­न्य­त­र­रू­प­का­र­ण­ता­वि­शे­ष­त्वेन तत्र योग्य­त्व­फ­ल­मु­ख­त्व­वि­कल्पे पूर्वो­क्त­दो­षा­न­ति­वृत्तेः । न च कर्तव्यत्वं नाम धर्मा­न्त­र­मा­ग­मा­पायि कल्पनीयं मानाभावात् ।
सत्यपि प्रत्यक्षे सन्निहिते शराम्नाने कल्प्या­ति­दे­श­वा­क्य­प्रा­प­णी­यानां दूरस्थितानां कुशानां ततः प्रागेव ग्रहणे हेतुगर्भं विशेषणम् –
उप­का­रा­का­ङ्क्षि­ण्या­मिति ।
अस्यार्थः - फलजनकत्वेन कर्माणि बोधयतां प्रधानविधीनां कथमनेन फलं जन­नी­य­मि­त्य­नि­र्ज्ञा­त­प्र­का­र­तया प्रधा­न­ग­त­फ­ल­ज­न­न­सा­म­र्थ्यो­द्बो­ध­का­ङ्ग­ज­न्य­दृ­ष्टा­दृ­ष्ट­का­र्य­स­मु­दा­य­रूपे उपकारे एव प्रथममाकाङ्क्षा भवति, तन्मु­खे­नो­प­का­र­ज­न­क­प­दा­र्थ­रू­पे­ष्व­ङ्गे­ष्वा­काङ्क्षा । एवं च प्राकृ­त­प्र­धा­न­विधिः प्रथ­मा­का­ङ्क्षि­त­म­प्यु­प­कारं क्वचिदपि क्लृप्त­म­प­श्य­न्न­गत्या प्रक­र­णा­म्ना­ता­न्प­दा­र्था­न्गृ­हीत्वा तत्प­दा­र्थ­श­क्त्य­नु­सा­रेण दृष्टा­दृ­ष्ट­का­र्य­वि­शे­ष­क­ल्प­नया तत्स­मु­दा­य­रू­प­मु­प­कारं लब्ध्वा निवृत्तो भवति । वैकृतविधयस्तु स्वसन्निधौ क्लृप्त­मु­प­का­र­म­प­श्य­न्तोऽपि प्रकृतौ क्लृप्तं तं पश्यन्तः स्वाकाङ्क्षया दूरस्थितमपि तमेव गृह्णन्तः तन्मुखेन तज्ज­न­न­श­क्त­त्वे­ना­व­धृतं प्राकृ­त­प­दा­र्थ­जा­त­मेव प्रथमं गृह्णन्ति । यदाहुः 'क्लृप्तो­प­का­र­सा­काङ्क्षाः प्रथमं प्राकृतैः सह । संबध्यन्ते समीपस्थं विकारः प्रोज्झ्य चोदितम्॥ इति । ततश्च वैकृ­त­वि­धि­स­न्नि­ध्या­म्ना­तस्य शरा­दे­र्वै­शे­षि­का­ङ्ग­जा­तस्य पश्चादन्वय इति ।
निरपेक्षैरिति ।
प्रत्य­क्ष­श्रु­त­त्वेन पुरु­ष­बु­द्धि­मू­ल­प्रा­प­क­प्र­मा­ण­क­ल्प­नाऽ­न­पे­क्षै­रि­त्यर्थः । यद्वा शर­प्रा­प्ति­नि­र­पे­क्षै­रि­त्यर्थः । ननु पूर्वनिमित्तवति प्रयोगे तन्नि­मि­त्त­क­क­र्त­व्य­ता­बुद्धेः पर­नै­मि­त्ति­क­क­र्त­व्य­ता­बुद्ध्या भ्रम­त्वा­पा­द­नेऽपि पूर्व­नै­मि­त्ति­क­शा­स्त्रस्य नात्यन्तबाधः; पूर्व­नि­मि­त्त­मा­त्र­वति प्रयोगान्तरे चारितार्थ्यात्, अहंप्रत्ययस्य कर्तृ­त्व­भो­क्तृ­त्वा­दि­वि­ष­य­स्या­त्म­न्य­द्वै­त­वा­क्य­जा­तेन बाधे तु तन्मूलस्य प्रमाणस्य न क्वचिदपि चारितार्थ्यम् ।
न च व्याव­हा­रि­क­वि­ष­या­ल­म्ब­न­तया तत्रैव चारितार्थ्यं स्यादिति वाच्यम्; व्याव­हा­रि­क­वि­ष­यस्य शुक्ति­रू­प्या­दि­वत् कदा­चि­द्बा­ध्य­त्वा­भ्यु­प­ग­मात् बाध्यविषये च व्यावहारिकं प्रामाण्यमिति व्यवहारस्य अद्वै­त­प­रि­भा­षा­मा­त्र­सि­द्ध­त्वा­दि­त्या­शङ्क्य निर्दोषत्वेन क्लृप्त­शा­स्त्र­स्यैव विष­या­न्त­र­प्र­द­र्श­नेन चारि­ता­र्थ्य­मु­प­पा­द­नीयं, न तु दोष­मू­ल­स्या­हं­प्र­त्य­यस्य तस्य पश्चा­द्भा­व्यु­द्गा­त्र­प­च्छे­द­वत् प्रयो­ग­वि­ष­य­त­द­प­रा­म­र्श­दो­ष­मू­ल­स­र्व­स्व­दा­न­क­र्त­व्य­ता­बु­द्ध्या­दि­व­द्भ्रा­न्ति­त्वो­प­पत्तिः इति विवेचनाय तस्य दोषमूलत्वं दर्शयितुं प्रवृ­त्त­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
एवं तावदिति ।
ताद­र्थ्य­प्र­कृ­ति­वि­का­र­यो­रिति ।
ताद­र्थ्य­प्र­कृ­ति­वि­का­र­भा­व­यो­रि­त्यर्थः । पूर्वमीमांसकमते हविषो देवतार्थत्वं हवि­र्दे­व­त­यो­र्हि­र­ण्य­कु­ण्ड­ल­वत् प्रकृ­ति­वि­का­र­भा­व­श्चे­त्यु­भ­य­मपि नास्ति । सिद्धान्ते हविषो देवताभोज्यस्य ताद­र्थ्य­स­द्भा­वेऽपि हविर्देवतयोः प्रकृ­ति­वि­का­र­भावो नास्तीत्यर्थः । ननु अत्र पूर्वपक्षिणा अग्नये होत्र­म­स्मि­न्निति बहुव्रीहिसमासः शङ्कितः, न तु बहुव्रीहौ ताद­र्थ्य­प्र­कृ­ति­वि­का­रा­पे­क्षास्ति; तत्पुरुषाधिकारे एव 'चतुर्थी तदर्थार्थ (२ ।१ ।३६) इत्यादिसूत्रेण तदर्थसमासस्य विहित्वात्, तस्यैव च तदर्थसमासस्य तस्मिन् सूत्रे बलि­र­क्षि­त­ग्र­ह­णेन ज्ञापकेन प्रकृ­ते­स्ता­द­र्थ्यस्य स्फुटत्वेन वार्ति­क­कृ­द्व­च­नेन च प्रकृ­ति­वि­कृ­ति­वि­ष­य­त्व­नि­य­म­सिद्धेः, समानाधिकरणानां बहुव्रीहिरिति शाब्दि­क­नि­य­मा­द­ला­क्ष­णि­क­श्च­तु­र्थी­ग­र्भ­व्य­धि­क­र­ण­ब­हु­व्री­हि­रिति चेत्, तर्हि स एव शङ्कि­त­स­मा­सा­सं­भवे हेतुर्वक्तव्यो न ताद­र्थ्य­प्र­कृ­ति­वि­का­र­भा­वा­भावे इति चेत्, सत्यम्: यदि पूर्वपक्षी चतु­र्थी­ग­र्भ­व्य­धि­क­र­ण­ब­हु­व्री­हि­म­ला­क्ष­णिकं मन्यमानः सन् प्रत्ययस्य भावा­र्थ­ता­म­व­ल­म्ब्या­ग्नये होत्रं हवनमिति चतु­र्थी­त­त्पु­रु­ष­मा­श्र­येत, तदा तदसंभवे हेतु­रा­चा­र्यै­रु­प­न्यस्त इति न विरोधः । ननु सिद्धान्ते प्राप्त­दे­व­ता­सं­ब­न्ध­प्र­वृ­त्ति­नि­मि­त्तकं यौगि­क­म­ग्नि­हो­त्र­ना­मे­ष्यते, बहु­व्री­हि­स­मा­सश्च प्रदर्यते, स कथमुपपद्यत इति चेत्, उच्यते; नात्यन्तं व्यधि­क­र­ण­ब­हु­व्री­हे­र­सं­भवः; 'सप्तमी विशेषणे बहुव्रीहौ' (पा. २ ।२ ।३५) इति । सप्तमीग्रहणेन ज्ञापकेन कण्ठेकाल इत्यादौ तस्या­भ्यु­प­ग­मात्, तदेव व्याप्तिन्यायेन विभ­क्त्य­न्त­र­ग­र्भ­व्य­धि­क­र­ण­ब­हु­व्री­हे­रपि ज्ञापकमाश्रित्य वामनेन 'आवर्त्यो बहु­व्री­हि­र्व्य­धि­क­रणो जन्मा­द्यु­त्त­र­पद' इति 'सच्छा­स्त्र­जन्मा हि विवेकलाभ' इत्या­दि­प्रा­मा­णि­क­प्र­यो­ग­दृ­ष्टस्य पञ्च­म्या­दि­ग­र्भ­व्य­धि­क­र­ण­ब­हु­व्रीहेः साधु­त्व­प्र­ति­पा­द­नाच्च, किन्त्वेवं ज्ञापकसिद्धो व्यधि­क­र­ण­ब­हु­व्रीहिः प्रामा­णि­क­प्र­यो­ग­द­र्शने सति समर्थनीयो न सर्वत्र; अन्यथा 'शेषो बहुव्रीहि' (पा. रा२ ।२३) रिति सूत्रे शेष­ग्र­हे­णे­ना­हत्य वार्तिकवचनेन च सिद्धस्य समानाधिकरणानां बहु­व्री­हि­रि­त्यौ­त्स­र्गि­क­नि­य­मस्य निर्हे­तु­क­भ­ङ्गा­पत्तेः । ततश्च सिद्धान्ते यदग्नये चेत्या­दि­वा­क्या­न्त­र­प्रा­प्ता­ग्नि­दे­व­ता­सं­ब­न्धा­नु­वा­दकं यौगि­क­म­ग्नि­हो­त्र­ना­मेति प्रतीतेः तदुपपादनार्थः प्रमाणमूलो युज्यते व्यधि­क­र­ण­ब­हु­व्रीहिः । गुणविधिरिति पूर्वपक्षे तु यदग्नये चेत्यादि शास्त्र­म­ग्नि­प्र­जा­प­ति­रू­पा­ने­क­गु­ण­वि­शि­ष्ट­हो­मा­न्त­र­वि­धा­य­कम्, अग्नि­र्ज्यो­ति­रिति मन्त्र­स्त्व­स्यैव होमा­न्त­र­स्या­ङ्ग­मिति तयो­र्वि­ष­या­न्त­र­प्र­द­र्श­नेन विधि­त्सि­त­गु­ण­प्रा­प­क­त्वा­भा­वस्य सम­र्थ­नी­य­त्वा­द­ग्नि­दे­व­ताया अप्रा­प्ते­र­क­स्मा­द­भ्यु­प­ग­म्य­मानो व्यधि­क­र­ण­ब­हु­व्री­हिर्न प्रमाणमूल इति स न युज्यते । तत्प्रख्यसूत्रे (जै. अ.१ पा.४ सू.४) यस्मिन् गुणोपदेश (जै. अ.१ पा.४ सू.३) इति पूर्व­सू­त्रा­द्य­स्मि­न्नि­त्य­स्यापि वा, नामधेय(जै. अ. १ पा. ४ सू. २)मिति तत्पू­र्व­सू­त्रा­न्ना­म­धे­य­मि­त्यस्य चानुषङ्गः, तथा च तस्य विधित्सितगुणस्य प्रख्यं प्रख्यापकमन्यत् शास्त्रं यस्मिं­स्त­द­ग्नि­हो­त्रा­दिकं नामधेयमित्यर्थः ।
कुण्डेति ।
कुण्ड­पा­यि­ना­म­य­नाख्ये सत्रे श्रुतं 'यन्मा­स­म­ग्नि­होत्रं जुहोती'ति वाक्यं तत्रेत्यर्थः ।
अस्मिन्वाक्ये श्रुतगुणस्य विधेयत्वसंभवे विशि­ष्ट­वि­धि­गौ­र­व­प­रि­हा­रार्थं विधि­श­क्ते­र्गु­ण­सं­क्रान्त्या धात्व­र्थ­वि­धा­नात् तद्विधानापेक्षः कर्मभेदो न सिद्ध्येदतो धात्व­र्थ­वि­धा­न­सि­द्ध्यर्थं मासगुणस्य विध्यनर्हत्वमाह –
न तावदिति ।
ननु काल­स्या­वि­धे­य­त्वेऽपि विहितमेव नित्या­ग्नि­होत्रं काल­सं­ब­न्ध­सि­द्ध्यर्थं तदुद्देशेन पुनर्विधीयतां, सायं प्रातश्च जुहोतीति वाक्ये इवेत्याशङ्क्य तद्वैषम्यमाह –
नापीति ।
सिद्धार्थबोधिना नाम्नेति ।
'यदा त्वाद्य­प­रि­स्प­न्दा­त्प्र­भृत्या फललाभतः । क्रिया पूर्वापरीभूता लक्ष्यते वर्तते तदा॥' इत्युक्तरीत्या पूर्वापरीभूतेन क्रियारूपेण स्वार्थं धातु­रु­प­स्था­प­यति, न तेन रूपेण नाम तद­र्थ­मु­प­स्था­प­यितुं शक्नोतीति न नाम्ना धात्व­र्थ­प्र­त्य­भिज्ञा संभवतीत्यर्थः । उक्तं च वार्तिके – 'यादृशी भावनाऽऽख्याते धात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित्॥' इति ।
भावनान्यत्वमिति ।
नित्या­ग्नि­हो­त्रस्य मासा­ग्नि­हो­त्रस्य च जुहो­ति­धा­त्व­र्थस्य भेदो भेद­ल­क्ष­ण­द्वि­ती­या­ध्या­या­र्थ­भा­व­ना­भे­दो­प­पा­द­क­तया प्रसाधित इति तत्प्रयोजनभूतो भावनाभेदः प्रयो­ज­ना­न्य­त्व­मिति सौत्रपदेन विवक्षित इत्य­भि­प्रे­त्यैवं व्याख्यातम् । यद्वा नाम्ना यथा कथंचित् नित्या­ग्नि­हो­त्र­प्र­त्य­भि­ज्ञया धात्व­र्था­भे­दो­प­पा­द­नेऽ­प्य­ग्नि­हो­त्र­हो­मस्य नित्यत्वेन प्राधान्ये कुण्ड­पा­यि­ना­म­य­ना­ङ्गत्वे च भाव्यभेदेन भाव­ना­प्र­त्य­भि­ज्ञा­प­का­भा­वेन च भाव­ना­न्य­त्व­म­नि­वा­र्य­मि­त्य­भि­प्रे­त्यैवं व्याख्यातम् । उक्तं च शास्त्र­दी­पि­कायां 'ननु नामधेयेन भवति पूर्व­क­र्मो­प­स्था­प­नम्, भवतु, धात्वर्थस्य भावना तु तेना­नु­प­स्था­ना­द्भि­द्यत एव । धावर्थोऽपि यादृशो धातु­नाऽऽ­ख्या­त­व­र्तिना पूर्वापरीभूतो विधेरुपनीयते, न तादृशो नाम्नोपस्थाप्यत इति तस्यापि युक्तो भेदः । तदभेदेऽपि भावना तावद्भिन्नेति सिद्ध'मिति । धात्वर्थस्य नाम्ना प्रत्य­भि­ज्ञा­न­मा­चा­र्यै­रपि वेधाद्यधिकरणे (ब. अ.३ पा.३ सू.२५) स्वीकृत्य व्यवहृतम् । तत्रैव तदुपपादनं करिष्यामः ।
तत्र सिद्धे कर्मभेदे इति ।
यदि प्रकरणभेदेन भावनामात्रभेदः, तदा साप्तमिकाधिकरणे (जै.अ.पा.३ सू. १) अग्नि­हो­त्र­श­ब्दस्य मासाग्निहोत्रे गौणत्वाभिधानमेव गौणमित्येतदपि वेधाद्यधिकरण एवोपपादयिष्यामः ।
अभिज्ञारूपेति ।
मम देह इति देहत्वाकारेण विवेकग्रहः परि­च्छि­न्न­त्वा­का­रेण देहभेदाध्यासेन विरोधी, चैत्रमैत्रयोः सन्नि­हि­त­यो­र­य­म­स्मा­द्भिन्न इति स्वरूपेण भेदग्रहे इव मैत्र­चै­त्र­त्वा­का­रेण तदभेदाध्यासे । अर्थः विषयः ।
भिन्नाभ्यामिति ।
बाल­स्थ­वि­र­श­री­रयोः परस्परभिन्नत्वं ताभ्याम् एकस्यात्मनो भेद­श्चे­त्यु­भ­य­म­प्य­नु­मा­ना­दि­त्यर्थः । परिमाणभेदे तस्य अव­य­वा­प­च­यो­प­च­य­सा­ध्य­त्वा­द­व­य­वा­प­चये सम­वा­यि­का­र­ण­ना­शात् पूर्वावयविनाशतः स्थितावयवैः सूक्ष्मा­व­य­व्य­न्त­रो­त्प­त्ति­र­व­य­वो­प­चये पश्चा­दा­प­त­ता­म­व­य­वानां पूर्व­सि­द्धेऽ­व­य­विनि कारणत्वायोगतः पूर्व­सि­द्धा­व­य­वि­स­हितैः अवयवान्तरैः महा­व­य­व्य­न्त­रो­त्प­त्तिश्च अवश्यंभाविनीति बाल­स्थ­वि­र­श­री­र­यो­र्भि­न्नत्वं तावदानुमानिकं न प्रत्यक्षम्, प्रत्यक्षेण तु योऽयं मम देहो बाल्ये तथा पुष्ट आसीत् स एवेदानीं वार्धके कृश इत्यभेद एव तयोः प्रतीयते । ततश्च बाल्य­स्था­वि­र­द­श­यो­र्भि­न्नाभ्यां देहाभ्यां दशाद्वयाभिन्न आत्मा भिन्न इति विरु­द्ध­ध­र्म­लि­ङ्ग­क­भे­द­ज्ञा­न­म­प्या­नु­मा­नि­क­मिति भावः । ननु देहयोः पर­स्प­र­भे­द­स्या­नु­मा­नि­क­त्वेऽपि ताभ्याम् आत्मनो भेदकस्यैक्यस्य प्रत्य­क्ष­त्वा­दा­त्मनि देहभेदः प्रत्यक्ष एव स्याद्; भेद­क­सा­क्षा­त्का­रस्य भेद­सा­क्षा­त्का­र­नि­य­त­त्वात्, अतो न तत्र परी­क्ष­क­कृ­त्या­नु­मा­ना­पे­क्षेति चेद्, मैवम्; तथापि प्रथ­मा­नु­मा­ना­पे­क्ष­त्वेन परी­क्ष­क­कृ­त्य­त्वा­न­पा­यात् ।
वस्तुतस्त्वत्र प्रत्य­भि­ज्ञा­मा­त्रेण निर्वि­चि­कि­त्स­मैक्यं न सिद्ध्यतीति न भेद­क­सा­क्षा­त्का­र­श­ङ्का­पी­त्याह –
तच्च शास्त्रादृते इति ।
तत्प्र­त्य­भि­ज्ञा­वि­ष­य­भू­त­म­प्या­त्मैक्यं शास्त्रं विना न सिध्यति; परिमाणभेदेन देहभेदे सत्यपि तद­भे­द­प्र­त्य­भि­ज्ञा­द­र्श­नेन योऽहं बाल्ये पुष्टः पितरावन्वभूवं स एव स्थाविरे कृशः प्रण­प्तॄ­न­नु­भ­वा­मीति परि­मा­ण­भे­द­भि­न्न­ध­र्मि­ग­त­त­यैव पितृ­प्र­ण­प्त्र­नु­भ­व­वि­ष­या­भे­द­प्र­त्य­भि­ज्ञा­द­र्श­नेन च तथा­भू­त­प्र­त्य­भि­ज्ञा­मा­त्रात् ऐक्यासिद्धेरिति भावः । ननु तथापि योऽहं स्वप्ने व्याघ्रदेहः स एवेदानीं मनुष्यदेह इति प्रत्यभिज्ञया स्फुट­त­र­भे­दाभ्यां देहाभ्यां तदु­भ­या­नु­वृ­त्त­स्या­त्मनो भेदः प्रत्यक्ष एव स्यात्, तत्र निर्वि­चि­कि­त्स­भे­द­क­सा­क्षा­त्का­र­स­त्त्वा­दिति चेत्, न; भेद­क­सा­क्षा­त्का­रस्य भेद­सा­क्षा­त्का­र­नि­य­त­त्वा­भा­वात् । अपी­त­त्व­व्या­प्य­श­ङ्ख­त्व­द­र्श­नेऽपि तत्सा­क्षा­त्का­रा­नु­द­यात्, स्वप्नदृष्टेषु लौकिकानां मिथ्या­त्व­सं­प्र­ति­पत्त्या योऽयं स्थाणुः पुमानेष इतिवत्तत्र बाधायां सामानाधिकरण्यं न त्वभेद इति भेद­क­सा­क्षा­त्का­रा­सि­द्धेश्च ।
काकतालीयेति ।
यद्यपि 'समासाच्च तद्वि­षया'(पा. ५ ।३ ।१०६)दिति सूत्रेण इवा­र्थ­वि­ष­या­त्स­मा­सात् इवार्थेन छप्रत्ययेन निष्पादितः काकतालीयशब्द उपमाद्वयगर्भः, तथा च काकतालयोरिव यादृच्छिको दस्युदेवदत्तयोः समागम इत्येका समासार्थोपमा, तदानीमेव पतता तालेन काकस्येव दस्युना देवदत्तस्य वधः कृत इत्यन्या तद्धितार्थोपमा चेति, यत्रोपमाद्वयं तत्रैवास्य शब्दस्य संपूर्णार्थता; तथापि यादृ­च्छि­क­स­मा­ग­म­मा­त्रेऽ­प्यस्य प्रचुरः प्रयोगो दृश्यत इत्ययमपि प्रयोगो यादृ­च्छि­क­स­मा­ग­म­मा­त्र­वि­षयः ।
नन 'कृशोऽ­ह­म­न्धोऽ­ह'मि­त्या­दी­ना­म­ध्या­स­त्वो­क्तिर्न युक्ता; पर­स्प­र­भि­न्न­त्वेन निश्चितानां देहेन्द्रियाणां रङ्गरजतादीनां शुक्तिशकले इवै­क­स्मि­न्ना­त्म­न्य­ध्या­सा­सं­भ­वात्, अतस्तेषां गौणत्वमेव युक्तम् इत्याशङ्कां निवर्त्तयति –
विवे­का­सि­द्धा­विति ।
गौणत्वे हि न देवदत्तः सिंह इतिवत्, कदाचिदपि नाहं कृशो नाहमन्ध इत्यादिरूपेण विवेको लौकिकसाधारणो दृश्येत, अतोऽध्यास इत्ये­वा­भ्यु­पे­यम् । भेद­क­सा­क्षा­त्का­रेऽपि दोष­ब­ला­द­भे­दा­ध्यासः पीतशङ्खादिस्थले संप्रतिपन्नः । किञ्च येन रूपेण देह­त्व­च­क्षु­ष्ट्वा­दिना देहे­न्द्रि­य­भे­द­नि­श्चयः, तेन रूपेणात्मनि तदु­भ­या­ध्या­सा­सं­भ­वेऽपि कृश­त्वा­न्ध­त्वा­दि­रू­पा­न्त­रेण तदु­भ­या­भे­दा­ध्यासे न काचिदनुपपत्तिः । न हि कृशादन्धोऽन्य इत्या­दि­रू­पोऽस्ति भेदप्रत्ययः; दृश्यते च देव­द­त्त­स­मी­प­ग­त­यो­र­धी­या­ना­न­धी­या­नयोः पुरु­ष­त्व­सा­मा­न्येन गृह्य­मा­ण­यो­श्चै­त्र­मै­त्रयोः परस्परभेदग्रहे ताभ्यां देवदत्ते दृश्यमानेन रूपेण भेदग्रहे च सत्य­प्य­धी­या­नोऽयं मैत्र­स्ति­ष्ठ­ती­त्य­धी­या­न­त्व­मै­त्र­त्वा­का­र­द्व­येन देवदत्ते तदुभयाध्यासः । ननु तथाप्यन्धो बधिरः काणो मूक इत्या­दी­ना­मा­त्मनि तत्त­दि­न्द्रि­या­ध्या­स­रू­पत्वं न सिद्ध्यति; अर्श­आ­दि­ग­ण­सं­गृ­ही­तात् विक­ला­ङ्ग­वा­चि­नोऽ­न्धा­दि­श­ब्दात् 'अर्श­आ­दि­भ्योऽच् (पा. ५ ।२ ।१२७) इति सूत्रेण मत्वर्थीयस्याचः प्रत्ययस्य विधानात् अहं­श­ब्द­स­मा­ना­धि­क­र­णा­न्धा­दि­व्य­व­हा­रस्य मत्व­र्थी­य­प्र­त्य­या­न्ता­न्धा­दि­प­द­यु­क्त­त्वेन विक­ल­च­क्षु­रा­दि­वै­शि­ष्ट्य­प­र­त्वो­प­पत्तेः, कृशोऽ­ह­मि­त्या­दी­ना­म­प्यपि अर्श­आ­दे­रा­कृ­ति­ग­ण­त्वेन मत्व­र्थी­य­प्र­त्य­या­न्त­तया कृशा­दि­रू­प­दे­ह­वै­शि­ष्ट्य­वि­ष­य­त्वो­प­प­त्ते­र्ना­ध्या­स­रू­पत्वं कल्पनीयमिति शङ्का­नि­व­र्त्त­नार्थं टीका­या­मु­प­न्यस्तं गच्छा­मी­त्ये­व­मा­दि­क­मु­दा­ह­र­णा­न्तरं कृशोऽ­ह­मि­त्या­दी­ना­मि­त्या­दि­श­ब्देन संगृहीतम् । गच्छामि कृश्या­मी­त्या­द्या­ख्या­त­प्र­योगे गन्तृ­कृ­शा­दि­रू­प­दे­हा­भेद एवार्थो वाच्यः; तथा कुणि­र­ह­मि­त्या­दि­व्य­व­हारे विक­ले­न्द्रि­या­भेद एवार्थो वाच्यः; तादृक्षु प्रयोगेषु मत्व­र्थी­य­प्र­त्य­या­भा­वात्, तत्सामान्यात् अन्धोऽ­ह­मि­त्या­दि­प्र­यो­गा­णा­म­प्य­ध्या­स­मू­ल­त्व­मेव युक्तमित्यर्थः । अर्श­आ­द्य­ज्वि­धानं 'चित' (पा. ६ ।१ ।१६३) इत्य­न्तो­दा­त्त­स्व­रार्थं, नत्वात्मनि प्रयो­ग­नि­र्वा­हा­र्थ­मिति योज्यम् । दृश्यते स्वर­वि­शे­ष­सि­द्ध्यौ­प­यि­क­त­यैव तद्विधानार्थं गुणविशेषवाचिनां शुक्ला­दि­श­ब्दा­ना­मपि अर्शआदिगणे संग्रहः । न हि शुक्ला­दि­गु­ण­वै­शि­ष्ट्य­प्र­ती­ति­नि­र्वा­हार्थं तत्; गुणा­न्त­र­वा­चि­सा­धा­र­ण्येन गुणवचनेभ्यो मतुपो लुग्विधानेनैव तन्निर्वाहात् । न च शुक्ला­दि­गु­ण­शा­लिभिः प्रासा­दै­र्वि­शिष्टे नगरे शुक्लं नग­र­मि­त्या­दि­प्र­यो­ग­नि­र्वा­हार्थं शुक्ला­दि­श­ब्देभ्यो मतु­ब्लो­पा­न­न्त­र­म­ज्वि­धा­न­मिति वाच्यम्; संख्या­स­न्नि­वे­श­वि­शे­ष­वि­शि­ष्टानां गृहाणामेव नग­र­श­ब्द­वा­च्यत्वे साक्षादेव नगरे शुक्ला­दि­गु­ण­वै­शि­ष्ट्य­स­त्त्वेन, तथा­भू­त­गृ­हा­धि­क­र­ण­स्थ­लस्य नगरत्वे तद­भे­दो­प­चा­र­सं­भ­वेन च तद­र्थ­म­ज्वि­धा­ना­न­पे­क्ष­णात् । अन्यथा ह्यश्वे­त­न­ग­र­म­पु­ष्प्य­द्व­न­मि­त्या­द्या­ख्या­त­प्र­योगे का गतिः । एवमहंप्रत्ययस्य केषुचिदंशेषु दृष्टविसंवादतया दृष्ट­कौ­ट­सा­क्ष्य­पु­रु­ष­व­च­न­वत् अप्रा­मा­ण्य­श­ङ्का­क­लु­षि­तस्य परि­मा­ण­त्व­ग्र­ह­ण­प्र­ति­ब­न्धक (जै. अ.६ पा.५ सू.४४) दूर­त्व­दो­ष­स­द्भा­व­स­मु­दि­ता-अ­प्रा­मा­ण्य­श­ङ्का­क­ल­ङ्कि­त­च­न्द्र­प्रा­दे­शि­क­त्व­ज्ञा­न­व­दा­ग­म­बा­ध­ना­क्ष­मत्वे सति आगमेनैव तद्बाध्यते । आगमबाधितस्य च तस्य पूर्वा­प­च्छे­द­शा­स्त्र­स्येव (जै. अ. ६ पा. ५ सू. ५४) प्रामा­ण्य­सं­र­क्ष­णाय न विषयान्तरं गवेषणीयम्; चन्द्र­प्रा­दे­शि­क­त्व­ज्ञा­न­वद् दोषजन्यत्वेन सर्व­थै­वा­प्रा­मा­ण्यो­प­प­त्ते­रि­त्ये­ता­व­द­स्मि­न्न­धि­क­रणे शास्त्रा­र­म्भो­प­यो­गि-वि­ष­य­प्र­यो­ज­न­स­म­र्थ­नार्थं सूत्रसूचितं व्युत्पाद्यम् । इत्थं तत्त्वा­वे­द­क­प्र­मा­ण­भा­वात् प्रच्यावितस्य कर्तृ­त्व­भो­क्तृ­त्वा­दि­प्र­त्य­क्षस्य प्रवृ­त्ति­नि­वृ­त्त्या­दि­व्य­व­हा­रो­प­यो­गि­सां­व्य­व­हा­रिकं प्रामाण्यं सर्व­प्र­प­ञ्च­सा­धा­र­ण्ये­ना­र­म्भ­णा­धि­क­रणे (ब्र. अ. २ पा. १ सू. २४) व्युत्पादनीयम्; श्रोतृ­बु­द्धि­सौ­क­र्यार्थं प्राग­नू­दि­त­मि­त्य­नु­सं­धे­यम् ।
अध्या­सा­भि­धा­न­क्रि­य­यो­रिति ।
अध्यासक्रियैव तावन्न संभवति, दुरेऽ­ध्या­सा­भि­धा­न­क्रि­ययोः पौवोपर्यं; क्रियाया आश्र­या­धी­ना­त्म­ला­भ­त्वात्, शुद्धाया निर्वि­का­रा­या­श्चितः क्रिया­श्र­य­त्वा­यो­गाद्, अध्य­स­नी­य­बु­द्धि­ता­दा­त्म्या­प­ना­याश्च चितोऽ­ध्या­सा­धी­न­सि­द्धि­क­त्वा­दिति प्रथमाशङ्कार्थः ।
इमां शङ्कां स्वयं परिहरति –
पूर्वपूर्वेति ।
ननु मिथ्या­ज्ञा­न­नि­मि­त्त­वि­शे­ष­ण­वि­व­र­ण­टी­कया द्वितीयशङ्काया इव नैस­र्गि­क­वि­शे­ष­ण­वि­व­र­ण­टी­कया अस्याः प्रथमशङ्कायाः परिहारो लभ्यते । यद्यपि 'अध्यासो वस्तु­स­तो­र्भे­दा­ग्र­हा­धीनः, न च देहे­न्द्रि­या­दिकं त्वया वस्तु­स­दि­ष्यत' इत्य­ध्या­सा­सं­भ­व­श­ङ्का­याम्, प्रातीतिकेनापि सत्त्वेन आरो­प्या­धि­ष्ठा­न­यु­ग­ल­सं­पा­द­न­मु­प­प­द्यते इत्येवं सत्यानृते मिथु­नी­कृ­त्ये­त्य­नेन परिहृतायां प्राती­ति­क­स­त्त्व­म­प्य­ध्या­सा­धी­न­मिति पुन­र­न्यो­न्या­श्र­य­शङ्का नैस­र्गि­क­वि­शे­ष­णेन परिहृतेति योजयता टीकाग्रन्थेन देहे­न्द्रि­य­बु­द्ध्यादेः स्वरूपमात्रस्य पूर्व­पू­र्वा­ध्या­सतः सिद्धिरुक्ता, न चितो बुद्धि­ता­दा­त्म्या­प­त्ते­रपि; तथापि तत एव साप्य­र्था­त्सि­द्ध्यति; प्रवा­हा­ना­दि­त्वे­नो­च्य­मा­न­स्या­ध्या­सस्य परत्र पर­ता­दा­त्म्या­व­भा­स­रू­प­त्वा­दिति चेत्, उच्यते; नैस­र्गि­क­त्वोक्त्या नोक्तशङ्कायाः परिहारो लभ्यते; सर्गादौ प्रथमाध्यासात् पूर्व­मा­ध्या­सि­कस्य बुद्धि­ता­दा­त्म्य­स्या­सिद्धेः । न च तदभावेऽपि पूर्वा­ध्या­स­सं­स्का­र­स­त्त्वा­त्त­दु­प­धा­नेन चितः प्रथ­मा­ध्या­स­क्रि­या­श्र­यत्वं स्यादिति वाच्यम्; प्रथ­मा­ध्या­सेऽ­ध्या­स­सं­स्का­रो­प­धानं प्रयोजकं, द्विती­या­द्य­ध्या­से­ष्व­ध्या­स­प­रि­नि­ष्पन्नं बुद्धि­ता­दात्म्यं प्रयो­ज­क­मि­त्य­न­नु­ग­मा­पत्तेः, संस्कारस्य च निराश्रयस्य प्रलये स्थित्यसंभवात्, शुद्ध­चि­त­स्त­दा­श्र­य­त्वा­यो­गाद्, बुद्धी­न्द्रि­या­दीनां सर्गा­दा­वु­त्प­त्ति­श्र­व­णेन प्रल­येऽ­ध्या­स­स­न्ता­न­वि­च्छे­देन च तदा­नी­मा­ध्या­सि­क­बु­द्धि­ता­दा­त्म्या­प­न्न­चि­तोऽपि तदाश्रयतया वक्तु­म­श­क्य­त्वा­दि­त्ये­ता­व­त्प­र्यन्तं प्रथमशङ्का धावे­दि­त्या­लो­च्या­चार्यैः स्वयं परिहारोऽभिहितः । तत्रायमाशयः - प्रलये संस्काराश्रयस्य तावन्नासंभवः, अविद्यायाः सत्त्वात्, सर्वोऽपि हि प्रप­ञ्च­स्त­दा­नी­म­वि­द्या­चि­त्र­भित्तौ संस्का­र­मा­त्र­शेषं स्थित्वा पुन­रु­द्भ­व­ती­त्य­ङ्गी­क्रि­यते । अत एव बीजा­ङ्कु­र­प्र­वा­हा­ना­दि­ताया अपि प्रलये तत्सं­स्का­र­स­त्त्वे­नैव निर्वाहः । नाप्यननुगमः; सर्वे­ष्व­प्य­ध्या­सेषु पूर्व­पू­र्व­भ्र­म­सं­स्का­र­स­चि­वा­वि­द्यो­प­धा­न­मेव प्रयोजकं न तु बुद्धि­ता­दा­त्म्या­प­त्ति­र­पी­त्य­भ्यु­प­गमे दोषाभावादिति । प्रतीयमानतैव परमार्थसत्तेति मन्यमानस्य शङ्कावादिनः प्रती­ति­मा­त्र­मा­रो­पो­प­योगि, न पर­मा­र्थ­स­त्ते­त्य­भ्यु­प­गमो विरुद्ध, इत्याशङ्क्य पर­मा­र्थ­स­त्ते­त्ये­त­दन्तः सिद्धा­न्त्यु­क्ता­नु­वादः, तत्राद्धेत्यनेन सूचितः ।
प्रती­ति­मा­त्र­मा­रोपे उपयुज्यते इति युक्तं प्रतीयमानस्य सत्ता नोपयुज्यत इति तु न युक्त­मि­त्ये­वं­रू­पो­र्द्धा­ङ्गी­कारः प्रतीतिरेव त्वित्यादिना स्फुटीकृत इति विभज्य तात्पर्यं प्रद­र्श­य­न्न­व­ता­र­यति –
सत्यानृते मिथु­नी­कृ­त्ये­त्य­त्रेति ।
उक्तमिति ।
तदिहाऽनूदितमिति शेषः ।
विवेकाग्रहादिति ।
अनृतस्य प्रती­ति­म­ङ्गी­कृत्य भेद­ग्र­हा­द­ध्या­सा­क्षेपः पूर्वं कृतः, इदानीं प्रती­ति­वि­ष­य­स्या­नृ­त­त्व­मेव न युक्त­मि­त्या­क्षेप इति भेद इत्यर्थः ।
प्रका­श­मा­न­त्व­मि­तीति ।
प्रती­ति­वि­ष­य­त्व­मि­त्यर्थः । असतः प्रतीतिविषयत्वं पूर्वपक्षी न मन्यते ।
अध्या­स­सा­मा­न्य­ल­क्ष­ण­क­थेति ।
ननु सामा­न्य­ल­क्ष­णत्वे गोत्वा­दि­प्र­त्य­भि­ज्ञापि द्वैत­व­स्त्व­व­भा­स­त्वेन व्याव­हा­रि­का­ध्या­स­रूपा तेन संग्राह्येति कथमग्रे तत्रा­ति­व्या­प्ति­शङ्का । न च सामा­न्य­ल­क्ष­ण­त्वो­क्ति­रियं संक्षि­प्त­ल­क्ष­ण­वि­षया, विस्तृतलक्षणं तु प्रति­भा­सि­का­ध्या­स­मा­त्र­वि­ष­य­मिति तद­ति­व्या­प्ति­क­थनं युज्यत इति वाच्यम्; तस्यो­प­व्या­ख्या­न­मिति टीकाग्रन्थेन तद्व्याख्यानेन च संक्षि­प्त­वि­स्तृ­त­ल­क्ष­णयोः एक­वि­ष­य­त्वा­व­ग­मात्, सन् घट इत्याद्यवभासे सत्या­नृ­त­ता­दा­त्म्या­व­भा­सत्वे पर्यवसन्नस्य विस्तृतलक्षणस्य सत्त्वे­ना­ति­व्या­प्त्या­प­त्ते­श्चेति चेत्, सत्यम्; स्मृति­प्र­त्य­भि­ज्ञा­ति­व्या­प्ति­क­थनं तयो­र­धि­ष्ठा­न­स­द्रू­प­ब्र­ह्म­ता­दा­त्म्या­प­न्न-अ­नृ­त­व­स्तु­वि­ष­य­त­यै­वा­ध्या­स­रू­पत्वं, न तु समा­न­स­त्ता­क­जा­ति­व्य­क्ति­ता­दा­त्म्य­वि­ष­य­त­येति तेन रूपेण तयो­र­ल­क्ष्य­त्वा­भि­प्रा­यम् । यदि जाति­व्य­क्ति­ता­दा­त्म्य­वि­ष­य­त्वांशे सत्या­नृ­त­मि­थु­नी­क­र­णा­भा­वेऽपि बाध्य­त्व­रू­प­सं­क्षि­प्त­ल­क्ष­णा­नु­ग­ति­स­द्भा­वात्, तत्र विस्तृ­त­ल­क्ष­णे­नापि भाव्यं, तदा पूर्वदृष्टस्य परत्रावभास इत्येतल्लक्षणं परमते गोत्वा­दि­प्र­त्य­भि­ज्ञाया इव प्रमा­त्वे­ना­प्यु­प­प­द्यत इति तेन स्वाभि­म­ता­ध्या­स­रू­प­त्व­सि­द्ध्य­भा­वा­भि­प्रायं योज्यम् । एवमपि हि लक्ष­ण­दू­ष­ण­मा­क­र­ग्र­न्थेषु दृश्यते । यथा स्वश्चासौ प्रकाशश्चेति स्वप्र­का­श­नि­र्व­चनं ज्ञानस्य वेद्य­त्वेऽ­प्यु­प­प­द्यते; स्वशब्दार्थस्य ज्ञानस्य परवेद्यत्वेऽपि प्रका­श­त्वा­क्षतेः । ब्रह्मभिन्नत्वं मिथ्यात्वमिति लक्षणं सत्य­त्वेऽ­प्यु­प­प­द्यते; वियदादेः सत्यत्वपक्षेऽपि ब्रह्म­भि­न्न­त्वा­क्ष­ते­रि­त्यादि । अस्मिन् दूष­णेऽ­ति­व्या­प्ति­त्व­व्य­व­हा­रश्च तत्र तत्र दृश्यते । उच्छेदो बाध­क­ज्ञा­नो­द­या­न­न्तरं भ्रम­वृ­त्त्य­न्त­रो­त्प­त्ति­प्र­ति­बन्धः, स पीत­श­ङ्ख­वि­भ्र­मा­दि­वि­ष­य­व्याप्त इति तत्साधारणं पक्षान्तरमुक्तं टीकायां अवमतो वेति ।
तत्रा­व­मा­न­श­ब्दा­र्थ­माह –
यौक्तिकेति ।
तिरस्कारः इच्छा­प्र­वृ­त्त्या­दि­का­र्या­क्ष­म­त्वा­पा­द­नम् ।
ननु संक्षि­प्त­ल­क्ष­णे­नै­वे­त­र­व्या­वृ­त्त­ल­क्ष्य­व्य­व­हा­र­सिद्धेः किं विस्तृ­त­ल­क्ष­णे­ने­त्या­शङ्क्य तत्प्रयोजनमाह –
पर­त्रे­त्या­दि­प­दै­रिति ।
पर­त्रा­स­न्नि­हि­त­स्या­व­भास इति लक्ष­ण­वा­क्य­घ­ट­क­प­दै­रि­त्यर्थः ।
लक्ष­ण­वा­क्या­र्थेऽ­ति­व्या­प्ति­मा­हेति ।
एवं लक्षणवाक्यार्थे वर्ण्यमाने प्रत्य­भि­ज्ञा­या­म­ति­व्या­प्ति­मा­हे­त्यर्थः ।
तादात्म्यावभास इति ।
धर्म्य­ध्या­स­ल­क्ष­ण­वा­क्या­र्थ­म­भि­प्रे­त्या­ति­व्या­प्ति­मा­हेति पाठो दृष्टश्चेदृजुः स पाठः ।
अस­न्नि­धा­न­सि­द्ध­व­त्का­रे­णेति ।
अस­न्नि­धा­न­म­धि­ष्ठाने पर­मा­र्थ­तोऽ­स­त्त्व­मिति वक्ष्यते, तेनानृतत्वलाभः । एतेन टीकायां परत्रेत्यस्य 'सत्ये' इत्य­र्थ­स्यो­क्त­त्वात् स्मृति­रू­प­वि­शे­ष­ण­र­हि­तस्य सत्ये पूर्व­दृ­ष्ट­स्या­व­भास इति लक्षणस्य पूर्वं यस्यां गवि गोत्वं दृष्टं तस्यामेव गोत्व­ज्ञा­नेऽ­ति­व्याप्तौ शङ्कितुं शक्या­या­म­ति­व्या­प्त्यर्थं गोव्यक्त्यन्तरे गोत्व­ज्ञा­न­स्या­न्वे­षणं व्यर्थमित्यपि शङ्का निरस्ता; आरो­प्या­नृ­त­त्व­स­म­र्प­क­स्मृ­ति­रू­प­प­द­स­म­भि­व्या­हारे हि परशब्दस्य तत्प्र­ति­द्व­न्द्वि­स­त्या­र्थ­कत्वं लभ्यते, तदभावे तु पूर्व­दृ­ष्ट­प­द­स­म­भि­व्या­हा­रात् परशब्दः पूर्व­दृ­ष्ट­दे­शा­द­न्य­देशं बोध­ये­दि­त्य­ति­व्या­प्त्यर्थं गोव्य­क्त्य­न्त­र­वि­ष­य­गो­त्व­प्र­त्य­भि­ज्ञा­न्वे­षणं युक्तमेवेति ।
ननु स्मृता­व­ति­व्या­प्ति­वा­र­णार्थं परत्रेति विशे­ष­ण­मि­त्य­यु­क्तम्; प्रत्य­भि­ज्ञा­या­मिव स्मृता­व­प्य­ति­व्या­प्ते­र­ति­व्या­प्ति­श­ब्द­ल­क्षि­तायाः प्रमा­त्वे­ना­न्य­था­सि­द्धेर्वा स्मृति­रू­प­वि­शे­ष­णे­नैव वारणात्; तद­र्थ­स्या­धि­ष्ठाने पर­मा­र्थ­तोऽ­स­त्त्व­मिति निरुक्तस्य अधि­ष्ठा­न­स­म­स­त्ता­क­त्वा­भा­व­रू­पस्य प्रत्य­भि­ज्ञा­वि­ष­य­गोत्व इव तत्ता­या­म­प्य­भा­वाद्, उभयोरपि गोव्य­क्त्य­न्त­र­स्म­र्य­मा­ण­ध­र्मि­रू­पा­धि­ष्ठा­न­स­म­स­त्ता­क­त्वाद्, अधि­ष्ठा­न­स­त्य­त्वा­र्थ­केन परत्रेत्यनेन स्मृति­व्या­व­र्त­ना­सं­भ­वाच्च, तत्राधिष्ठानस्य स्मर्य­मा­ण­स्या­प्य­प्रा­ति­भा­सि­क­तया शुक्तिकादेरिव सत्य­श­ब्दा­र्थ­त्वा­दि­त्या­श­ङ्क्याह –
स्मृतिरूपपदेन चेति ।
यदि यथा­श्रु­त­टी­का­नु­सा­रात् स्मृतिरूपपदेन अस­न्नि­हि­त­वि­ष­य­त्व­मात्रं विवक्षितं, न तु आचार्यैः निर्व­क्त­व्य­म­धि­ष्ठा­न­स­म­स­त्ता­क­त्व­र­हि­त­वि­ष­यत्वं, तदेयं स्मृता­व­ति­व्या­प्ति­शङ्का परत्रेत्यनेन तन्निरासोऽपि भवति । अनृ­तो­प­स्था­प­क­प­द­स­म­भि­व्या­हा­रा­भा­वेन परशब्दस्य पूर्व­दृ­ष्ट­दे­शा­न्य­दे­श­प­र­त्वस्य अस­न्नि­हि­त­स­म­भि­व्या­हा­रात् सन्नि­हि­त­प­र­त्वस्य वा प्राप्तेरिति भावः । एवं चाप­सि­द्धा­न्त­प­रि­हा­रा­र्थम् अस­न्नि­हि­त­त्व­म­धि­ष्ठाने पर­मा­र्थ­तोऽ­स­त्त्व­मि­त्य­वश्यं विव­क्ष­णी­य­त्वात्, तत एव प्रत्यभिज्ञाया इव स्मृतेरपि व्यावृ­त्ति­सिद्धेः, परत्रेति विशे­ष­णा­न­पे­क्ष­णेन लक्षणे तद­नि­वे­श­न­सू­च­नात्, शङ्कान्तरमपि व्यावर्तितं भवति । तन्निवेशने हीत्थं शङ्का स्यात् यदि परशब्दः पूर्व­दृ­ष्ट­स­म­भि­व्या­हा­रात् पूर्व­दृ­ष्ट­दे­शा­न्य­दे­श­परः, तदा­ह­ङ्का­रा­ध्या­सा­व्याप्तिः, तदधिष्ठानस्य साक्षिणः पूर्व­दृ­ष्ट­दे­श­त्वात्, रज­ता­द्य­ध्या­सा­व्या­प्तिश्च; तत्राध्यसनीयस्य पूर्व­दृ­ष्ट­त्वा­भा­वात् । पूर्व­दृ­ष्ट­स­जा­ती­य­त्व­वि­व­क्षायां यथा कथं­चि­त्सा­जा­त्यस्य सर्वत्र सत्त्वेन पूर्व­दृ­ष्ट­वि­शे­ष­णस्य अव्या­व­र्त­क­त्वा­पत्तिः । यद्ध­र्मा­व­च्छे­दे­ना­व­भा­स­वि­ष­यत्वं तेन धर्मेण साजा­त्य­वि­व­क्षायां गोव्यक्त्यन्तरे गोत्वस्य किंचि­द्ध­र्मा­व­च्छे­देन अनवभासमानतया तत्प्र­त्य­भि­ज्ञा­या­म­ति­व्या­प्त्यु­क्ते­र­सा­म­ञ्ज­स्या­पत्तिः । यदि त्वनृ­तो­प­स्था­प­क­प­द­स­म­भि­व्या­हा­रात् परशब्दः सत्यार्थकः, तदा विय­दा­दि­वि­ष­या­नु­मि­ति­श­ब्द­ज्ञा­न­रू­प­व्या­व­हा­रि­का­ध्या­से­ष्व­व्याप्तिः, तेषु प्रत्यक्षेष्वपि सद्रू­पा­धि­ष्ठा­न­ब्र­ह्म­स्फु­र­णा­भा­वात् । देहा­दा­व­ना­त्म­न्या­त्मा­ध्यासे चाव्याप्तिः; तत्र स्वरू­प­तोऽ­प्य­ध्यस्तो देहादिः सत्यः, शब­लि­त­रू­प­मा­त्रे­णा­ध्यस्त आत्मा त्वसत्य, इत्येवं सत्ये अनृतावभास इति लक्षणानुगमस्य कर्तु­म­यु­क्त­त्वात् । अध्या­स­सं­क्षि­प्त­ल­क्ष­ण­को­डी­कृ­तेषु विस्तृ­त­ल­क्ष­णा­नु­ग­त्य­व­श्यं­भा­वश्च इति॥ तस्मा­द­धि­ष्ठा­ना­स­म­स­त्ता­क­स्या­व­भा­सोऽ­ध्यास इत्येवानुगतं लक्षणम् । यद्गतमवभास्यं तदधिष्ठानम् । तथा च गोत्वादिषु गोव्य­क्त्या­दि­रू­पा­धि­ष्ठा­न­स­म­स­त्ता­क­त्व­स­द्भा­वेऽपि ब्रह्म­रू­पा­धि­ष्ठा­न­स­म­स­त्ता­क­त्व­स­द्धावो नास्तीति लक्षणस्य न क्वाप्यध्यासे अननगतिः । एवं परत्रेति विशे­ष­ण­र­हि­त­म­स­न्नि­हि­त­स्या­व­भास इत्येतावदेव लक्ष­ण­मि­त्या­चा­र्यै­र­स­न्नि­हि­त­प­द­स्या­धि­ष्ठाने पर­मा­र्थ­तोऽ­स­त्त्व­मि­त्य­र्थ­वि­व­क्षायां पत्रेति विशेषणस्य फलं नास्तीति सूचनेन, अथ­वाऽ­स­न्नि­धा­ने­नेति श्लोके अस­न्नि­धा­ना­व­भा­सा­भ्या­मेव परत्रेति विशे­ष­ण­नि­र­स­नी­य­त्वेन टीकोक्ताया अस­त्ख्या­ते­र­न­भि­म­त­स­क­ल­ख्या­त्य­न्त­राणां च निरसनेन च सूचितं टीकाकाराभिमतं परत्रेति विशेषणसहितं लक्षणं प्राक् प्रदर्शितम् । इदानीं तद्रहितलक्षणं स्वाभि­म­त­म­भि­प्रेत्य तद­नु­प्र­वि­ष्टा­भ्याम् अस­न्नि­धा­ना­व­भा­सा­भ्या­मेव अन­भि­म­त­स­क­ल­ख्या­त्य­न्त­र­नि­र­सनं क्रियत इति टीकाकारमतात् स्वमतस्य भेदं सूचयितुम् अथवेत्युक्तिः । अथवा अस­न्नि­हि­त­स्या­व­भास इत्येतावदेव लक्षणम् । तत्रासन्निधानेन अस­त्ख्या­ति­व्य­ति­रि­क्ता­ख्या­त्या­दि­स­क­ल­स­त्ख्या­ति­वा­र­णम्, अव­भा­से­ना­स­त्ख्या­ति­वा­र­ण­मिति श्लोकार्थः । भ्रम­वि­ष­य­र­ज­ता­दिकं तादात्म्येन वा ताद्धर्म्येण वा यद्गतं तत् अधिष्ठानम् । तथा­चा­ख्या­त्य­न्य­था­ख्या­ति­म­त­यो­र्दे­शा­न्त­र­स्थ­म­धि­ष्ठा­नम्, आत्मख्यातिमते ज्ञानम्, सत्ख्यातिमते पुरोवर्ति शुक्त्यादिकम्, अस्मि­न्म­त­च­तु­ष्ट­येऽपि सदेव रजतादिकं तत्त­द­धि­ष्ठा­न­स­म­स­त्ता­क­मि­त्य­स­न्नि­धा­न­वि­शे­ष­णेन चतुर्विधाप्येषा सत्ख्या­ति­र्वा­र्यत इत्यर्थः । अवभासाद् इत्य­स्या­प­रो­क्षा­व­भा­सा­दि­त्यर्थः ।
अत एवाह –
नृशृङ्गे तददर्शनादिति ।
नृशृङ्गेऽपि हि परोक्षावभासः प्रागा­चा­र्यै­र­ङ्गी­कृतः । यद्य­प्या­प­रोक्ष्यं न लक्ष­णा­नु­प्र­विष्टं तथापि रजताध्यासे लक्षणानुगतो क्रियमाणायां तत्र लक्ष­ण­स्थ­म­व­भा­स­पदं वस्तु­तोऽ­प­रो­क्षा­व­भासे पर्य­व­स्य­दा­प­रो­क्ष्य­स्फु­र­ण­नि­य­त­मिति तल्लाभः । इदं त्ववधेयं शुक्तावसद्रजतं भासत इति सदु­प­र­क्ता­स­त्ख्या­ते­र­प­रो­क्षा­व­भा­सेन निरासः, शून्य­वा­द्य­भि­म­त­नि­र­धि­ष्ठा­ना­स­त्ख्या­ते­स्त्व­स­न्नि­धा­ने­नापि निरासः; तदर्थस्य स्वाधिष्ठानेन सम­स­त्ता­क­त्वा­भा­व­स्या­सति स्वाधि­ष्ठा­ना­प्र­सिद्धौ निरू­प­यि­तु­म­श­क्य­त्वात्, एवंच सिद्धा­न्त्य­भि­मता शश­शृ­ङ्गा­दि­श­ब्द­जन्या असत्प्रतीतिः न शुक्ति­र­ज­ता­दि­ज्ञा­न­व­द­ध्यासः, नापि घटा­दि­ज्ञा­न­व­त्प्रमा, किंतूभयविलक्षणं ज्ञानमात्रमिति॥
पूर्व­दृ­ष्ट­ग्र­हणं तु न ख्यात्यन्तर निरासार्थं, पूर्व­दृ­ष्टि­स­द्भा­व­प्र­ति­पा­द­नार्थं वा; रजतविभ्रमादिषु पूर्व­दृ­ष्ट्य­पे­क्षायाः सर्व­सं­प्र­ति­प­न्न­त्वात्, किन्तु टीको­क्त­प्र­यो­ज­न­मा­त्रा­र्थ­मि­त्याह –
असन्निहितस्येति ।
पूर्व­प्र­मि­त­त्व­श­ब्देन पूर्व­प्र­मि­त­त्व­स­ह­च­रिता सत्ता लक्ष्यते, आक्षे­प­भा­ष्य­टी­का­नु­सा­रात् ।
स्वप्नज्ञाने इति ।
स्वप्नः प्राति­भा­सि­क­वि­भ्रम इति न तत्रा­त्मा­धि­ष्ठानं, पार­मा­र्थि­का­धि­ष्ठा­नत्वे विय­दा­दि­वि­भ्र­म­वद् व्याव­हा­रि­का­ध्या­स­त्वा­पत्तेः, न च रजतविभ्रमादिषु शुक्तिकादिवत् तत्र व्याव­हा­रि­क­म­धि­ष्ठा­न­म­स्ती­त्य­व्या­प्ति­शङ्का ।
अनुभूयमाने इति ।
प्रागनुभूयमाने पित्रादौ यत्सं­नि­हि­त­त्व­म­नु­भूतं, तत्स्वप्ने तात्का­लि­क­त्वे­ना­नु­भू­यते; अतः पाकरक्ते घटे इदानीं श्याम इति प्रत्ययवत् स्वप्नस्य विभ्रमत्वमिति भावः । नैया­यि­क­म­ते­ना­य­म­व्या­प्ति­प­रि­हारः । स्वमते तु स्वप्नदृष्टः पित्रादिः स्वरूपत एव प्रातिभासिकः, तस्या­त्माऽ­धि­ष्ठा­नम् । न च तावता व्याव­हा­रि­क­त्वा­पत्तिः; अप्रयोजकत्वात्, साक्षि­ण्य­ध्य­स्ता­ना­म­वि­द्या­न्तः­क­र­ण­त­द्ध­र्मा­दीनां यावत्सत्त्वं प्रतिभासमानानां प्राति­भा­सि­क­त्वा­भ्यु­प­ग­माच्च । तदेतत्, आत्मनि चैवं विचित्राश्च हीति (ब्र. २ ।१ ।२८) सूत्र­व्या­ख्या­नेन स्फुटं भविष्यतीत्यत्र नोद्घाटितं टीकायाम् । पीत­श­ङ्ख­वि­भ्र­मा­दि­स्थले सन्नि­कृ­ष्ट­पि­त्त­पी­ति­मा­दि­वि­शि­ष्ट­श­ङ्खा­दि­वि­ष­यम् अध्यासरूपमेव ज्ञानं जायते, न तत्रारोप्यस्य पीतिमादेः पूर्वदर्शनमस्ति । न च तत्र कनकादिषु पीतिमानुभवरूपं पूर्व­द­र्श­न­म­स्तीति वाच्यम्; अन­नु­भू­त­पी­त­व­र्णस्य पित्तोपहतनयनस्य पुंसः प्रथमं पीत­श­ङ्ख­वि­भ्र­मा­त्मके एव जायमाने पीतिमानुभवे तद­सं­भ­वा­दि­त्या­शङ्क्य तत्रापि पूर्व­द­र्श­न­स­द्भावः समर्थ्यते ।
इदं किमर्थं तस्य लक्ष­णा­न­नु­प्र­वि­ष्ट­त्वेन तदभावेऽपि लक्ष­णा­व्या­प्त्य­प्र­सक्तेः इत्या­श­ङ्क्या­व­ता­र­यति –
अन्यार्थमिति ।
अध्यासेषु पूर्व­दृ­ष्टि­मा­त्र­म­पे­क्ष्यते, न तु सत्ते­त्य­ध्य­स­नी­य­स­त्ता­नि­रा­क­र­णार्थं तेषु पूर्वदृष्टिः सार्वत्रिकी व्यवहृता; तत्सा­र्व­त्रि­क­त्वा­भ्यु­प­गमो न युक्त इत्याशङ्क्य परिहरतीत्यर्थः । टीकायां पीत­श­ङ्ख­वि­भ्र­म­स्थले तदानीन्तनं नय­न­र­श्मि­ग­त­पि­त्त­पी­ति­मा­नु­भ­व­रूपं प्राचीनं तप­नी­य­पि­ण्डा­दि­ग­त­पी­ति­मा­नु­भ­व­रूपं च पूर्व­द­र्श­न­म­स्तीति समर्थितम् । तत्राद्यपक्षो न युक्तः; नय­न­र­श्मि­भि­र्नि­र्गत्य शङ्खमावृण्वतः पित्तद्रव्यस्य पीतिमाऽनुभूयत इत्यङ्गीकारे कनकलिप्तशङ्ख इव अन्येषामपि पीत­श­ङ्ख­वि­भ्र­म­प्र­स­ङ्गात्, शङ्ख-न­य­ना­न्त­रा­ल­व­र्ति­र­श्मि­ग­त­पि­त्त­पी­तिमा अनुभूयते इत्यङ्गीकारे अन्तरालदेशे अन्येषामपि तद्ग्र­ह­ण­प्र­स­ङ्गात् ।
अतोऽ­ती­न्द्रि­य­न­य­न­र­श्मि­ग­त­पि­त्त­पी­तिम्नो नानुभवः संभवति इत्य­स्वा­र­स्या­त्प्रा­ची­ना­नु­भ­व­पक्ष उपन्यस्त इत्येतत्सूचयति –
गृह्य­मा­ण­वि­ष­य­त्वेन प्रसि­द्ध­भ्र­मे­ष्विति ।
गृह्यमाणविषयतया तार्कि­क­प्र­सि­द्धि­मात्रं, वस्तुतः पीतशङ्खविभ्रमो न तथेति भावः । न च तस्य गृह्य­मा­णा­रो­प­त्वा­भावे स्मर्य­मा­णा­रो­पत्वं वक्तव्यं, न तु तद्युज्यते स्मर­ण­स्या­नि­य­त­तया कदा­चि­त्पि­त्तो­प­ह­त­न­य­नस्य पीति­म­स्मृ­त्य­नु­दये श्वेतः शङ्ख इत्य­नु­भ­व­प्र­स­ङ्गात्, इति वाच्यम्; अति­ध­व­ल­सि­क­ता­त­ल­प्र­व­ह­द­च्छ­न­दी­ज­ल­नै­ल्या­ध्यासे नीलिम्न इवात्रापि पीतिम्नः स्मृति­नि­य­म­क­ल्प­नो­प­पत्तेः । पूर्वा­नु­भ­व­ज­न्य­सं­स्का­र­मा­त्रेण नैल्या­ध्या­स­स­म­र्थ­ने­त्वि­हापि तथास्तु । अन­नु­भू­त­पी­त­व­र्णस्य पीतशङ्खविभ्रमे तु जन्मा­न्त­रा­नु­भू­त­पी­ति­म­स्म­र­ण­मु­पा­स­नी­यम् । एतादृशेषु जन्मा­न्त­रा­नु­भू­त­स्म­रणं गतिरिति व्युत्पा­द­यि­तु­मेव पञ्चपादिकायां शिशोः स्तन्ये तिक्तताध्यासो जन्मा­न्त­रा­नु­भू­त­ति­क्त­र­स-स्म­र­ण­कृत इत्युक्तम् । इत्थं पीतशङ्खविभ्रमो नानुभूयमानारोप इति मतानुसारेण व्याख्यातम् । ये तु नय­न­र­श्मि­ग­त­पि­त्त­पी­ति­म्नोऽ­नु­भ­व­म­ङ्गी­कृत्य अनुभूयमानारोपः स इति मन्यन्ते, तन्मते तु पित्त­पी­ति­म्नोऽ­नु­भ­वो­प­न्यास आरोपार्थः । तप­नी­य­पि­ण्डा­दि­ग­त­पी­ति­म­प्रा­ची­ना­नु­भ­वो­प­न्या­सस्तु पूर्व­दृ­ष्ट­प­द­य­था­श्रु­ता­र्थ­स्वा­र­स्य­ला­भार्थ इति योज्यम् । टीकायां सामानाधिकरण्यं पीति­म­ता­दा­त्म्य­मेव, न तु पीति­म­सा­मा­ना­धि­क­र­ण्यम् । तदेतत् टीकायां नय­न­र­श्मि­ग­त­पि­त्त­पी­ति­म­मा­त्रा­नु­भ­वस्य शङ्खे पीति­माऽ­सं­स­र्गा­ग्र­हस्य पीतः शङ्ख इति विभ्रमाकारस्य चोपन्यासेन स्पष्ट­मि­त्य­भि­प्रेत्य तथा न व्याख्यातम् । एवं च सति टीकायां पूर्वदृष्टं सामानाधिकरण्यं पीत­त्व­श­ङ्ख­यो­रा­रो­प्या­हेति युक्ततरः पाठः, न तु पीत­त्व­श­ङ्ख­यो­रा­रो­प्या­हेति पाठः । यद्वा पीति­म­श­ङ्ख­त्व­यो­स्ता­दा­त्म्य­सं­ब­न्धेन शङ्खवर्तित्वे शङ्खगतैकत्वे च भासमाने तयोः सामा­ना­धि­क­र­ण्य­मपि संसर्गमर्यादया भासत इत्यभिप्रायस्स पाठः । अत एव पक्ष­ता­व­च्छे­द­क­सा­मा­ना­धि­क­र­ण्येन साध्य­सि­द्धि­र­नु­मा­न­फ­ल­मिति तार्किका अपि वदन्ति॥
पीत­त्व­श­ङ्ख­यो­रिति ।
अत्र सारूप्यमित्यनेन पीति­म­ता­दा­त्म्य­प्र­ती­ता­व­न्यत्र संप्र­ति­प­न्न­का­र­ण­सा­म्य­मुक्तं, न तु तच्चा­क­च­क्या­दि­वद् भ्रमहेतुदोषरूपं सादृश्यम् । अयं चासं­स­र्गा­ग्र­ह­रू­प­का­र­ण­स­द्भावः प्रायिकतयोक्तः । अयं शङ्खः पीतो न भवति शङ्ख­त्वा­दि­त­र­श­ङ्ख­व­दि­त्या­नु­मा­नि­क­पी­ति­मा­सं­स­र्ग­ग्रहे सत्यपि पित्तो­प­ह­ति­दो­ष­प्रा­ब­ल्यात् पीत­श­ङ्ख­वि­भ्र­मोऽ­वश्यं भवत्येव ।
अव्या­प्ति­मा­श­ङ्क्या­हेति ।
अव्या­प्ति­रि­त्या­श­ङ्क्या­हे­त्यर्थः । आद­र्शा­दि­क­म­धि­ष्ठा­न­मिति हि पूर्व­प­क्षि­श­ङ्का­मात्रं, सिद्धान्ते तु मुख­मे­वा­धि­ष्ठा­न­मिति वक्ष्यते । अत इत्थं व्याख्या, पूर्व­दृ­ष्टा­भि­मु­खा­द­र्शो­द­क­दे­श­ता­मिति टीकायां पूर्व­दृ­ष्ट­त्व­मा­द­र्शो­द­क­दे­श­ताया न विशेषणम्; आदर्शे मुखमिति प्रतीतौ संसर्गविधया प्रती­य­मा­ना­या­स्तस्याः शुक्ति­र­ज­त­ता­दा­त्म्य­स्येव पूर्व­दृ­ष्ट्य­न­पे­क्ष­णात् । पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामा­ना­धि­क­र­ण्यम्, पीत­त्व­श­ङ्ख­यो­रा­रो­प्या­हेति टीकायां पीति­म­ता­दा­त्म्य­स्यापि पूर्वदर्शनं संभ­व­मा­त्रे­णो­प­न्य­स्तम् । अत एव पित्त­पी­ति­मा­नु­भ­व­रू­प­पू­र्व­द­र्श­न­स­म­र्थने तन्नोक्तम् ।
तस्मा­द­धि­क­र­ण­त्वेन मुख­वि­शे­ष­ण­त­याऽऽ­रो­प्य­यो­रा­द­र्शो­द­क­यो­रेव तद्वि­शे­ष­ण­मि­त्य­भि­प्रेत्य विगृह्णाति –
पूर्व­दृ­ष्ट­यो­रिति ।
ननु यत्र पूर्व­म­दृ­ष्ट­यो­रा­द­र्शो­द­कयोः प्रति­बि­म्ब­वि­भ्रमः, तत्र कथं पूर्व­दृ­ष्ट­वि­शे­षणं, तत्रापि प्रथ­म­स­न्नि­कृ­ष्टा­द­र्शो­द­क­द­र्शने जाते पश्चात् परावर्तितेन चाक्षुषेण तेजसा मुखसन्निकृष्टेन मुखग्रहणे सति तस्मिन् प्रतिबिम्ब विभ्रमो जायत इति तदुपपत्तिः । ननु यदी­न्द्रि­य­स­न्नि­कृ­ष्टम् अनु­भू­य­मा­ना­द­र्शो­द­क­म­धि­क­र­ण­त्वेन मुखे समारोप्यत इतीष्यते, तदाऽ­न्य­था­ख्या­त्या­पत्तिः; रज­त­व­द­नि­र्व­च­नी­यस्य आदर्शान्तरस्य मुखान्तरस्य वोत्प­त्त्य­न­ङ्गी­का­रात् इति चेद, न; तत्रा­द­र्श­मु­ख­यो­रा­धा­रा­धे­य­भा­वस्य अनि­र्व­च­नी­य­स्यो­त्पत्त्या अन्य­था­ख्या­ति­वै­ष­म्यात् । अन्यथा अन्ये­ष्व­नु­भू­य­मा­ना­रो­पेषु का गतिः । यद्यपि रक्तः पट इत्याद्यनुभवो महा­र­ज­ना­दि­सं­ब­न्धात् पटे वर्णा­न्त­रो­त्प­त्त्यापि समर्थयितुं शक्यः; दृष्टा हि हरि­द्रा­सं­ब­न्धात् चूर्णे रक्तिम्नः सलिलसंबन्धाद् भूतले नीलि­म्न­श्चो­त्पत्तिः, तत्र हरि­द्रा­स­लि­ल­व­र्ण­वै­ल­क्ष­ण्या­द्व­र्णा­न्त­रो­त्प­त्ति­रि­ष्यते चेदिहापि तुल्यो न्यायः; रञ्ज­क­द्र­व्य­सं­बन्धे सति तद्व­र्ण­वि­ल­क्ष­ण­स्यैव रञ्ज­क­द्र­व्य­ब­ह्व­ल्प­भा­व­नो­त्क­र्षा­प­क­र्षा­प­न्नस्य वर्णस्य पटे दर्शनात्; तथापि चूर्ण­लि­प्त­शु­क्ल­घ­टा­दिषु वर्णा­न्त­रो­त्प­त्त्य­भा­वात् तेषु शुक्लो घट इत्या­दि­र­नु­भू­य­मा­न­चू­र्ण­शु­क्लि­मा­द्या­रो­प­रूप एव वाच्यः । टीकायां देशतामनभिमुखतां च मुख­स्या­ग्रा­ह­य­दिति क्वचि­त्सं­भ­व­मा­त्रे­णो­क्तम् । वस्तुतः प्रति­बि­म्ब­वि­भ्रमे विरोध्यग्रहणं नापेक्षितम्; तट­स्थ­त्वो­र्ध्वा­ग्र­त्वा­दिना दृश्यमानेऽपि तरौ तटा­क­ज­ल­स्थ­त्वा­धो­ग्र­त्वा­द्या­रो­प­द­र्श­नात् । वंशेषु वंशवणेषु चेति पाठः । वसावर्णेष्विति पाठस्तु चक्षुस्तेजसा सह पित्त­द्र­व्य­व­द्व­सा­व­य­वस्य निर्गमेन कथंचिदुपपादनीयः । पूर्व­दृ­ष्टो­र­ग­त­द्व­र्णा­रोप इति पाठः । तद्व­र्ण­सा­मा­ना­धि­क­र­ण्या­रोप इति पाठे तु सामानाधिकरण्यं तादात्म्यम् ।
नासत्ख्यातिरिति शङ्कते इति ।
ननु न प्रकाशमानता सत्ता; मरीचिषु तोया­त्म­त्व­स्या­सतः प्रका­शा­दि­त्युक्ते कथं तेषु तोयानात्मत्वस्य सद्रू­प­त्व­प्र­ति­पा­द­ने­ना­स­त्ख्या­त्य­भा­व­शङ्का, सत्यम्; इदमेव दूषणमत्र ब्रूम इत्यादिटीकया प्रतिपादयिष्यते । ननु स्फुटे वैयधिकरण्यदूषणे कथमनालम्बना शङ्का, व्यधि­क­र­णो­त्त­रे­णैव सत्ख्या­ति­वा­द­नि­र्वाह इत्युपहासार्थं तदी­य­श­ङ्को­द्भा­विता ।
पूर्व­ज्ञा­ना­धी­नत्वं सत्त्वमिति ।
शून्यवादिमते ज्ञान­स्या­प्य­स­त्त्वात् तस्य पूर्व­ज्ञा­ना­धी­नत्वं यदस्ति, तत् परं सत्त्वमिति व्यपदिश्यते; अतोऽ­ग्रि­म­टी­का­ग्रन्थे तन्मते ज्ञानविषययोः सद­स­त्त्व­व्य­व­हारो न विरुद्ध इति भावः ।
सति हि कस्मिंश्चिदिति ।
तेनेति शेषः । असत्यप्यायतते । असदधीनमपि भवति । असतीति विषयसप्तमी । क्वचिदायतत इत्ये­त­द­न­न्त­र­मा­या­तीति पदान्तरं दृष्टं तत्प्रामादिकम् । आयतत इत्यस्य आग­म­ना­र्थ­त्वा­भा­वात् । असतः सका­शा­दा­या­ती­त्ये­त­द­र्थकं फलितार्थकथनपरं वा तद् द्रष्टव्यम् ।
न च प्रत्यय इति वाक्यस्याथेमाह –
न च स्वोपकारिणीति ।
अतोऽतिसुखीति ।
स्वयं कस्य­चि­द­नु­प­कु­र्व­न्नेव तेनोपक्रियत इत्य­य­त्न­ल­भ्यो­प­का­रोऽ­य­मि­त्य­ति­सु­खी­त्यु­प­हासः ।
तदात्मना न सतत्त्वा इति साध्ये हेतोः साध्या­वि­शे­ष­मा­शङ्क्य, हेतुं विशिनष्टि –
तदा­त्म­नाऽ­स­त्त्व­स्येति ।
ममा­पी­ष्ट­त्वा­दिति सर्व­सं­प्र­ति­प­त्त्यर्हः शुद्धः पाठः ।
किं तुच्छमसत् सदन्तरं वेति ।
अस­च्छ­ब्द­स्या­ली­क­म­र्थ­म­भि­प्रे­त्याद्यो विकल्पः । अभा­व­म­र्थ­म­भि­प्रेत्य द्वितीयो विकल्पः । एवं हि टीकायां द्विती­य­वि­क­ल्प­वि­व­रणे भावान्तरमभाव इति तन्मतप्रदर्शनं सङ्गच्छते ।
अस­त्ख्या­ति­नि­रा­स­मिति ।
ननु सत्ख्या­ति­वा­द्यु­प­न्य­स्ताऽ­स­त्ख्या­ति­वा­द­नि­रासो न सिद्धा­न्त्य­नु­मो­द­नार्हः 'अत्य­न्ता­स­त्यपि ज्ञानमर्थे शब्दः करोति ही'ति सिद्धान्ते शाब्दा­स­त्प्र­ती­त्य­ङ्गी­का­रात्, अनि­र्वा­च्य­त्व­नि­र्व­च­न­प्र­वि­ष्टा­स­द्वै­ल­क्षण्य इव असं­ज्ञा­नेऽ­प्य­स­न्नि­रू­पि­त­त्वो­प­प­त्तेश्च इति चेत्, सत्यम्; शब्दस्य अस­त्प्र­ति­पा­द­न­क्ष­म­त्वेऽपि इन्द्रियस्य अस­नि­कृ­ष्ट­ग्रा­ह­क­त्वा­भा­वात् असन्निहितस्येव असतोऽपि नाप­रो­क्ष­त्व­मु­प­प­द्यत इति तात्पर्यम् ।
मुधाऽमुष्येति ।
ननु देशा­न्त­र­स्थ­र­ज­तस्य भ्रम­वि­ष­य­त्वो­प­पत्तौ मुधाऽ­भि­न­व­र­ज­त­क­ल्प­न­मिति विपरीतमेव वक्तुं युक्तम्, न च अस­न्नि­हि­ता­प­रोक्ष्ये सन्नि­क­र्ष­का­र­णा­भावो दोषः, ज्ञानस्य सन्निकर्षत्वे वह्न्य­नु­मि­ति­स्थले प्रत्य­क्षो­द­य­प्र­स­ङ्गात्, समाने विषये प्रत्य­क्ष­सा­मग्र्या बलवत्त्वात्, अलौ­कि­क­प्र­त्य­क्ष­सा­म­ग्र्य­पे­क्ष­याऽ­नु­मि­ति­सा­म­नग्र्या बलवत्त्वे संश­यो­त्त­र­भ्र­म­रू­प­पु­रु­ष­प्र­त्य­क्ष­स्थले अनु­मि­ति­प्र­स­ङ्गात्; तस्य सन्नि­क­र्ष­त्वा­भ्यु­प­ग­मेऽपि यत्र यत्पूर्वमवगतं तस्मिन्नेव पुनर्दृश्यमाने तज्ज्ञानस्य, यदवच्छेदेन यत्पूर्वमवगतं तद्वत्त्वेन दृश्यमाने तज्ज्ञानस्य वा, तदुपनायकत्वेन पूर्व­र­ज­त­त्व­व­त्त्वेन रज­त­त्वा­व­च्छे­द­क­व­त्त्वेन वा अनवगते शुक्तिशकले रजतज्ञानस्य सन्नि­क­ष­त्वा­यो­गा­च्चेति वाच्यम्; रज­ता­न्त­रो­त्प­त्ता­वपि संप्र­ति­प­न्न­र­ज­त­का­र­णा­भा­वस्य तुल्यत्वात् । तदभावेऽपि दोषवशात् प्रसि­द्ध­व्या­व­हा­रि­क­र­ज­त­वि­ल­क्षणं प्रातिभासिकं रजतमुत्पद्यत इति कल्प्यते चेत्, सन्नि­क­र्षा­भा­वेऽपि दोष­व­शा­द­स­न्नि­हि­त­र­ज­त­वि­षयं प्रसि­द्ध­प्र­मा­रू­प­ज्ञा­न­वि­ल­क्षणं भ्रम­रू­प­ज्ञा­न­मु­त्प­द्यत इत्येव कल्प्यताम्; लाघवात् इति चेत्, उच्यते; अस्ति ताव­त्प्र­ता­र­क­वा­क्यात् 'शशस्य शृङ्ग­मस्ति' 'तदे­वं­ल­क्ष­ण­म­रण्ये पतितमन्विष्य लब्धुं शक्यं' 'तेन चेदं प्रयोजनं भव­ती­त्ये­वं­रू­पा­द­वा­प्त­मो­हस्य तथैवारण्यं गत्वा तदन्वेषमाणस्य उक्त­ल­क्ष­ण­का­ष्ठ­शृ­ङ्गा­न्त­रा­दि­द­र्शने शश­शृ­ङ्ग­मि­द­मि­त्य­नु­भवः, अस्ति च स्वप्ने मनु­ष्य­प­शु­प­क्षि­वृ­क्षा­द्य­ने­क­रू­प­स्यै­क­स्या­व­य­वि­नोऽ­नु­भवः, न च तत्रा­स­न्नि­हि­त­वि­ष­यवं कल्पयितुं शक्यमित्यगत्या दोषवशात् प्राति­भा­सि­क­स्यैव तस्यो­त्प­त्ति­र­ङ्गी­क­र­णीया; एवमन्यत्र भ्रमस्थले दोषस्य विष­यो­त्प­त्ति­का­र­ण­त्व­क्लृप्तौ तथैव रजतभ्रमेऽपि संभवति । ज्ञान­प्र­त्या­स­त्त्या­द्य­ज­न्य­र­ज­त­चा­क्षु­ष­प्र­त्य­क्ष­मात्रे क्लृप्तस्य रज­त­च­क्षुः­सं­यो­गस्य रजतालोकसंयोगस्य च कारणत्वं परित्यज्य तस्या­स­न्नि­हि­त­र­ज­त­वि­ष­यत्वं न कल्पनीयम् । ननु चैत्रा­दि­व्य­क्ति­वि­शे­ष­भ्र­मस्य अस­न्नि­हि­त­प्र­सि­द्ध­चै­त्रा­दि­वि­ष­य­त्वम् अवश्यं कल्पनीयं; रज­त­सा­मा­न्या­र्थि­प्र­वृत्तेः प्राति­भा­सि­क­र­ज­त­ज्ञा­ना­दिव प्रसि­द्ध­चै­त्रो­द्दे­श्य­क­प्र­वृत्तेः प्राति­भा­सि­क­चै­त्र­ज्ञा­ना­दु­त्प­त्त्य­सं­भवा इति चेद, न; प्राति­भा­सि­क­र­ज­त­ज्ञाने रज­त­त्व­प्र­का­र­त्व­स्येव प्राति­भा­सि­क­चै­त्र­ज्ञाने चैत्र­त्व­प्र­का­र­क­त्वस्य सत्त्वेन इष्ट­ता­व­च्छे­द­क­प्र­का­र­कात् तत­स्त­दु­द्दे­श्य­क­प्र­वृ­त्त्यु­प­पत्तेः । ननु तदेवेदं रजतमिति व्यक्ति­वि­शे­ष­वि­ष­य­प्र­त्य­भि­ज्ञा­रू­प­भ्र­मस्य व्यव­हि­त­पू­र्व­दृ­ष्ट­र­ज­त­वि­ष­य­त्वम् अवश्यं कल्पनीयं, तद्र­ज­त­मि­ह­के­ना­नी­त­मि­त्यपि व्यवहारदर्शनात् इति चेद, न; तस्य व्याव­हा­रि­क­र­ज­ता­न्तर इव प्राति­भा­सि­क­र­ज­तेऽपि दुष्ट­क­र­ण­स­ह­का­रि­सं­स्का­रो­प­नी­त­त­त्ता­वि­ष­य­त्वो­प­पत्तेः । न च अभि­न­व­र­ज­तो­त्प­त्त्य­ङ्गी­कारे जलबुद्बुदादेरिव तस्य उत्प­त्ति­ना­शा­नु­भ­व­प्र­सङ्गः; भ्रमकाले तस्य प्राक्सि­द्ध­पु­रो­व­र्ति­ता­दा­त्म्येन अनुभूयमानतया उत्प­त्त्य­प्र­ती­त्यु­प­पत्तेः, बाधावतारे त्रैका­लि­क­नि­षे­धस्य अनुभूयमानतया नाशा­प्र­ती­त्यु­प­प­त्तेश्च । न च क्वचिदुत्पद्य कंचित्कालं स्थितस्य तत्र त्रैका­लि­क­नि­षे­धा­नु­प­पत्तिः; फलबलात् समानसत्ताकयोरेव प्रति­यो­गि­त­द­त्य­न्ता­भा­व­यो­र्वि­रोधः, न तु प्राति­भा­सि­क­व्या­व­हा­रि­क­यो­रिति कल्पनोपपत्तेः । एतेन यस्य प्रथमं शुक्तिशकले रजतभ्रमानन्तरं बाधो नोत्पन्नः, तत्र शुक्ति­सा­धा­र­ण­चा­क­च­क्या­व­च्छे­देन रज­त­त्वा­नु­भ­व­स्या­न­पो­दि­त­त्वात् पुनः शुक्तिशकलान्तरे रज­त­भ्र­मो­द­येऽ­न्य­था­ख्यातिः संभवति; तत्र यद­व­च्छे­दे­ने­त्या­द्यु­क्त­रू­पो­प­न­य­भा­न­सा­म­ग्री­स­त्त्वात्, पाकरक्ते घटे श्यामोऽयमिति भ्रमोदये चान्यथाख्यातिः संभवति; यत्र यद­नु­भू­त­मि­त्या­द्यु­क्त­रू­पो­प­न­य­सा­म­ग्री­स­त्त्वा­दि­त्यपि शङ्का निरस्ता; क्वचिद्विभ्रमे देश­घ­टि­त­सा­म­ग्री­ब­लात् आवि­द्य­क­वि­ष­यो­त्प­त्ति­क्लृप्तौ अन्यत्रापि तदु­त्प­त्ते­र­नि­वा­र­णात्; पाकरक्ते स्मृत्यु­प­नी­त­श्या­म­व­र्ण­प्र­त्य­क्षस्य पूर्वा­नु­भू­त­सौ­रभे पश्चाद् निखननादिना गतसौरभे चन्दनखण्डे सुरभीदं चन्दनखण्डमिति स्मृत्यु­प­नी­त­सौ­र­भ­वि­ष­य­चा­क्षु­ष­प्र­त्य­क्ष­स्येव प्रमात्वाद्, इदानीं श्याम इति प्रत्य­क्ष­भ्र­मस्य विरोधिनि रक्तरूपे स्फुर­त्य­सं­भ­वात्, श्याममृल्लिप्ते रक्तघटे इदानीं श्याम इति प्रत्य­क्ष­भ्र­मस्य अनु­भू­य­मा­न­मृ­द्व­र्णा­रो­प­त्व­सं­भ­वेन स्मृत्यु­प­नी­त­वि­ष­य­त्वस्य अकल्पनीयत्वात् ।
देहादिः सन्निति ।
टीकायां शङ्का­ग्र­न्थ­लि­खि­तेऽ­नु­माने नासन्त इति साध्यं निर्दिष्टम् । तत्रा­स­त्त्व­म­ली­कत्वं चेत् तद्व्य­ति­रे­क­सा­ध­नम् अनि­र्व­च­नी­य­त्व­वा­दिनः सिद्धसाधनम्; असतः प्रती­त्य­वि­ष­य­त्वस्य सत्ख्या­ति­वा­द्य­भि­म­त­त्वात्, साध्या­प्र­सि­द्धिश्च । अनिर्वचनीयत्वं चेत्, अत्रापि साध्या­प्र­सिद्धिः; तस्य तन्मते शश­शृ­ङ्गा­य­मा­न­त्वा­दि­त्य­भि­प्रेत्य सदिति साध्यं निर्दिष्टम् । ननु किमिह सत्त्वं साध्यं; प्राक् सद्वाद्युक्तं प्रकाशमानत्वं चेत्, हेतोः साध्याविशेषः । स्वरूपसत्त्वं, सत्ता जातिः, अर्थ­क्रि­या­का­रि­त्वम्, इत्येतानि सिद्ध­सा­ध­न­ग्र­स्तानि । अबाध्यत्वं त्वात्मनि सत्त्वे प्रयो­ज­क­मि­त्यु­पा­धि­त्वेन वक्ष्यते । प्रकाशमानत्वं च भासमानत्वं चेत्, असति प्रतिवादिगते न व्यभिचारः । अपरोक्षतया भासमानत्वं चेत्, आदि­श­ब्द­ग्रा­ह्ये­ष्वि­न्द्रि­येषु भागासिद्धिरिति चेत्, उच्यते; प्रमाविषयत्वं ज्ञाना­नि­व­त्यत्वं वा सत्त्वमिह साध्यं; भास­मा­न­त्व­सा­मान्यं हेतुः, सद्वादिना तस्यासति प्रत्या­ख्या­त­त्वात् प्रसाध्याङ्गको हेतुरिति नात्र व्यभिचारशङ्का । यद्यपि सिद्धान्तिना कृतं मरी­चि­को­द­क­स्या­नि­र्व­च­नी­य­त्वो­प­पा­दनं; प्रकाशमानतैव न सत्ता मरीचिकोदकस्य प्रका­श­मा­न­त्वेऽपि सत्त्वा­भा­वा­दिति, तयो­र्व्य­ति­रे­क­प्र­द­र्श­नेन अभेदनिरासार्थं; देहे­न्द्रि­या­दि­बा­ध्य­त्व­व­र्णनं 'प्रका­श­मा­नत्वं सत्त्वं न भवति चेत्, किं तर्हि सत्त्व­मि­त्या­का­ङ्क्षा­याम् अबाध्यत्वं सत्त्व­मि­त्य­भि­प्रेत्य देहे­न्द्रि­या­दिषु तद्व्य­ति­रे­क­प्र­द­र्श­नार्थं देहे­न्द्रि­या­द्य­ध्या­सेषु अध्या­स­वि­स्तृ­त­ल­क्ष­णा­नु­ग­ति­प्र­द­र्श­ना­न­न्तरं तत्सं­क्षि­प्त­ल­क्ष­णा­नु­ग­ति­प्र­द­र्श­नार्थं चेति, व्याख्यातुं शक्यं, तथापि तद्व्याख्यानं स्पष्टमिति मत्वा पूर्व­प­क्ष्या­श­य­स्थ­म­नु­मा­न­मु­द्घाट्य तत्र व्यभि­चा­रो­पा­धि­प्र­द­र्श­ना­र्थ­त्वेन सैद्धान्तिकमिदं ग्रन्थद्वयं व्याख्यातम् ।
स्वयं­प्र­का­श­त्वा­दिति ।
स्वयं­प्र­का­श­मा­त्मनः स्वरूपं केनापि बाधितुं न शक्यम्; अन्ततो बाधसाक्षिण एव स्वयं­प्र­का­श­मा­न­स्या­त्म­त्व­प­र्य­व­सा­ना­दिति भावः ।
दृग्दृश्येति ।
दृश्यध्यस्तत्वं विना दृशा दृश्यस्य संब­न्धा­न्त­रा­नि­रू­प­णा­दि­त्यर्थः ।
सत्य­स्या­त्म­व­दिति ।
विषादेरिति ।
ननु सर्वः प्रपञ्चो मिथ्येति त्वन्मते विषस्य सत्य­त्वा­सि­द्धि­रस्तु नाम; तथापि विषस्य मिथ्यात्वं न तार्क्ष्य­ध्या­न­नि­व­र्त्य­त्व­प्र­युक्तं त्वयेष्यते, किन्तु प्रप­ञ्च­मि­थ्या­त्व­सा­ध­क­प्र­मा­णा­न्त­र­प्र­यु­क्त­मि­ष्यते; तथा च तार्क्ष्य­ध्या­न­नि­व­र्त्यत्वं विषस्येव ब्रह्म­ज्ञा­न­नि­व­र्त्यत्वं संसारस्य मिथ्यात्वे प्रयोजकं न स्यादि­त्या­श­ङ्क्याह –
ध्यानस्य चेति ।
ब्रह्मज्ञानं हि परी­क्षि­त­प्र­मा­ण­मू­लकं प्रमारूपमेव संसा­र­नि­व­र्त्त­कम्; 'वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्था' इत्यादिश्रुतेः, ब्रह्म­वि­द्यो­प­क्र­मा­म्ना­त­गु­रु­शि­ष्य­नि­ब­न्ध­वत् उपा­ख्या­न­ग­त­या­व­त्सं­श­य­नि­वृ­त्ति­प्र­श्नो­प­दे­श-त­त्त­दु­प­प­त्त्यु­प­न्या­स­लि­ङ्गाच्च, तार्क्ष्य­ध्या­नस्य कल्पा­ता­क­ल्पि­त­सा­धा­र­ण­य­थो­प­दि­ष्टा­र्थ­वि­ष­यस्य विष­नि­व­र्त्त­कत्वे प्रमात्वं नापे­क्षि­त­मि­त्यर्थः ।
ननु सेतुदर्शनं प्रमा­रू­प­मे­वा­घ­नि­व­र्त्त­कम्; अन्यत्र सेतुभ्रमेण तदनिवृत्तेः, अतः प्रमा­त्वा­पे­क्ष­मपि निवर्त्यत्वं न मिथ्या­त्व­प्र­यो­ज­क­मि­त्या­श­ङ्क्याह –
सेतुदर्शनं चेति ।
यद्वि­ष­य­प्र­मा­त्व­मात्रं यन्नि­व­र्त­क­ता­प्र­यो­जकं तत् तत्राध्यस्तमिति नियमस्य न व्यभिचार इत्यर्थः । यद्यपि शुक्तौ रजताध्यासस्य रङ्गाध्यासेनापि निवृत्तिरस्ति; तथापि समू­ल­स­क­ला­ध्या­स­नि­वृ­त्ति­र­धि­ष्ठा­न­प्र­मा­पेक्षा, तदन्यानपेक्षा च दृष्टाः तन्न्याय इहापि ग्राह्य इति भावः ।
ननु सेतुदर्शनवद् विध्यायत्तं ब्रह्मज्ञानस्य निवर्त्तकत्वं, न शुक्ति­ज्ञा­न­व­द­धि­ष्टा­न­प्र­मा­त्वा­य­त्तम् इत्याशङ्क्याह –
आत्मप्रमा त्विति ।
विरोधिविषयतया दृष्ट­द्वा­रे­णा­ज्ञा­न­नि­वृ­त्ति­र्ज्ञा­नो­द­या­न­न्त­र­मेव भवन्ती निव­र्त्त­क­ज्ञा­न­स­मा­न­काला भवतीति शुक्ति­ज्ञा­न­ज­न्य­र­ज­त­नि­वृत्तौ दृष्टं, तद्वदिहापि 'ब्रह्म वेद ब्रह्मैव भव­ती'त्या­दि­श्रु­तिषु ब्रह्म­वे­द­न­नि­वृ­त्त­सं­सा­र­ब्र­ह्म­भा­वा­प­त्त्यो­र्ल­डा­ख्या­ताभ्यां समानकालता प्रतिपाद्यते । न च 'प्रति­ति­ष्ठन्ति ह वा य एता रात्री­रु­प­य­न्ती'त्यत्र सत्रा­नु­ष्ठा­न­प्र­ति­ष्ठा­फ­ल­यौ­ग­प­द्य­प्र­त्या­य­क­ल­डा­ख्या­त­यो­रि­वा­न्य­था­न­यने कारणं किंचि­द्बा­ध­क­मस्ति । तस्मा­द्ब्र­ह्म­ज्ञानं दृष्टद्वारेणैव संसारं निवर्त्तयति शुक्तिज्ञानमिव रज­ता­ध्या­स­मि­त्य­व­सी­यत इति भावः ।
मतभेदेनेति ।
बाह्या­स्ति­त्व­वा­दि­नो­र्वै­भा­षि­क­सौ­त्रा­न्ति­कयोः सत् शुक्ति­श­क­ला­दि­क­म­धि­ष्ठा­नम्, तन्ना­स्ति­त्व­वा­दिनो योगाचारस्य त्ववि­द्या­क­ल्पितं तदधियानमित्येवं मत­भे­दे­ना­धि­ष्ठा­न­भे­द­मा­हे­त्यर्थः ।
ननु प्राति­भा­सि­का­ध्या­से­ष्व­धि­ष्ठा­न­ग्र­हणं नियतं; तद्बा­ह्य­प्र­त्य­क्ष­त्व­वा­दिनो वैभाषिकस्य सुघटं, न तु तद­ती­न्द्रि­य­त्व­वा­दिनः सौत्रा­न्ति­क­स्ये­त्या­शङ्क्य तस्यानुमानिकं तदस्तीत्याह –
वैभाषिकवदिति ।
अस्त्य­धि­ष्ठा­न­मिति ।
स्फुर­द­धि­ष्ठा­न­म­स्ती­त्यर्थः ।
भ्रान्ति­ज्ञा­ना­का­र­स­दृ­श­स्येति ।
भ्रान्तिज्ञाने सविकल्पके य आकारो रजतादिः तस्य वस्तुतो बाह्यस्य शुक्ति­ग­त­स्या­भा­वा­दि­त्यर्थः ।
समानाधिकरणे पञ्चम्याविति ।
षष्ठी­प­ञ्च­म्य­न्त­त्वेन व्यधिकरणे चेत्, रजतस्य विज्ञानाकारत्वे अहं रजतमिति स्यादि­त्या­पा­द­न­स्या­यु­क्त­त्व­शङ्का विज्ञा­ना­ह­म­र्थ­भे­द­प्र­यु­क्तैव वारिता स्यात्; तथा विज्ञानाकारतया रजतस्य विज्ञा­न­ध­र्म­त्वा­दहं रजतवानित्यनुभवः स्यादि­त्या­पा­द­नी­यम् इत्ये­त­त्प्र­युक्ता तत उपरि संभवन्ती न वारिता स्यात्, समानाधिकरणे चेत् शङ्काद्वयमपि वारितं भव­ती­त्य­भि­प्रे­त्यैवं व्याख्यातम् ।
भ्रान्ति­रू­प­वि­क­ल्पस्य हीति ।
विकल्पः सविकल्पकं तस्य द्वौ विषयौ; ग्राह्या­ध्य­व­से­य­भे­दात् । तस्याकारेभ्यो निकृष्टं यदविकल्पं स्वरूपमस्ति; तद् ग्राह्यं स्ववि­ष­य­त्व­ल­क्ष­ण­स्व­प्र­का­श­त्वा­ङ्गी­का­रात् । तस्य रज­ता­का­र­स्यो­प­र्य­व­सेयो बाह्य­त्व­श­ब्दो­क्त­इ­द­न्त्वा­कारो विक­ल्प­रू­पोऽ­ध्य­व­सेय इति साकारवादिनां प्रक्रिया । तथा च पुरो­व­र्ति­न्य­धि­ष्ठाने ज्ञानाकाररूपं रज­त­मि­द­न्त्वे­ना­रो­प्यत इति नाह­न्त्वो­ल्ले­ख­प्र­स­क्ति­रिति भावः ।
ननु रजतज्ञाने शुक्तेः कारणत्वेन विषयत्वं नाख्यातिमते शङ्कार्हम्; अन्यथाख्यातिमत एव तस्य विशेष्यत्वेन कार­ण­त्वा­दि­त्या­श­ङ्ख्याऽ­ख्या­ति­म­तेऽपि रजतज्ञाने शुक्तेः कार­ण­त्व­मु­प­पा­द­य­न्न­व­ता­र­यति –
अथ रजतसदृशेति ।
मिथ्या­ज्ञा­न­म­पीति ।
ननु मिथ्या­ज्ञा­न­नि­ह्नवो न च रजतमेव शुक्तिकायां प्रस­ञ्जि­त­मि­त्या­दि­पू­र्व­ग्र­न्थे­नापि कृतः, स ग्रन्थ­स्त­थै­वा­व­ता­रि­तश्च, सत्यम्; स ग्रन्थोऽ­र्था­ध्या­स­नि­ह्न­व­स्यापि साधारणः; यतः शुक्ते­र्दे­शा­न्त­र­स्थ­र­ज­ता­त्म­नेव तद्दे­शो­त्प­न्न­र­ज­ता­त्मना भाना­ङ्गी­का­रेऽ­प्य­न्या­त्मना भानमन्यालम्बनम् इत्ये­त­द­नु­भ­व­वि­रु­द्ध­मिति अर्था­ध्या­स­नि­ह्न­वोऽपि तेन लभ्यते । इन्द्रि­य­सा­म­र्थ्य­रू­प­का­र­णा­भा­वो­प­पा­दनं तु मिथ्या­ज्ञा­न­नि­ह्नव एवा­सा­धा­र­ण­यु­क्ति­रिति तात्प­र्ये­णै­व­म­व­ता­रि­तम् ।
गृहीतमिदमिति ।
पूर्वा­नु­भ­व­वि­ष­यत्वं तत्तेति भावः ।
नाश्र­या­सि­द्धि­रिति ।
एतदुपलक्षणम्, साध्यमपि सर्व­वि­ष­या­व­च्छि­न्न­या­थार्थ्यं वा, विसं­वा­दी­च्छा­प्र­वृ­त्ति­रू­प­व्य­व­हा­र­प्र­सि­द्धा­या­था­र्थ्य­रा­हित्यं वेति धर्म्यं­श­या­था­र्थ्य­मा­दाय न सिद्ध­सा­ध­न­मि­त्यपि द्रष्टव्यम् ।
पुरोवर्तिनि साधने इति ।
ननु फल­ज्ञा­न­व­दु­पा­य­ज्ञा­न­मपि न नियमेन प्रवर्तकं; फलस्य नानो­पा­य­सा­ध्य­त्वा­दे­वेति हेतोरसिद्धिः । व्यक्तिनियमेन हेतुसमर्थने व्यभि­चा­र­ता­द­व­स्थ्यम्; यत्पक्षीकृतं रजतज्ञानं पुरोवर्तिनि नियमेन प्रवर्तकमिष्यते तत्र­त्य­फ­ल­ज्ञा­न­स्यापि तस्मिन्नियमेन प्रवर्तकत्वात् । एवं च तत्रेति विशेषणेन न स्मृतेरपि व्यावृत्तिः, आरो­प­प्रा­ची­न­स्या­रो­प्य­स्म­र­ण­स्यापि फल­सा­ध­न­ता­ज्ञा­न­प्रा­ची­न­फ­ल­ज्ञान तुल्यन्यायतया नियमेन पुरोवर्तिनि प्रवर्तकत्वात् । एवं तावन्नियमेनेति तत्रेति च विशेषणमयुक्तम् । बाधा­दि­व्या­वृ­त्त्यर्थं रजतार्थिन इति विशे­ष­ण­मि­त्य­प्य­यु­क्तम्; तृण­प­र्ण­ज­ला­दि­क­मिव स्ववे­ग­ब­ला­त्पु­रुषं नयता वाय्वादिना पुरुषे फला­ख्य­प्र­वृ­त्ते­र­ज­न­नात्, प्रवृत्तिपदस्य शरी­र­क्रि­या­सा­धा­र­ण­व्या­पा­र­मा­त्र­प­र­त्वेऽपि शरी­रा­त्म­का­ला­दृ­ष्टा­दि­व्य­भि­चा­र­वा­र­णाय प्रव­र्त­क­ज्ञा­न­त्वा­दिति हेतो­र्वि­व­क्ष­णी­य­त्वेन टीका­या­मु­दा­ह­र­ण­वाक्ये ज्ञानपदनिवेशनया तद्विवक्षायाः सूचितत्वेन च तत एव तन्नि­रा­स­ला­भाच्च, नियमविशेषणेनैव काला­दृ­ष्टा­दि­व्या­वृत्तौ तत एव वायोरपि व्यावृ­त्ति­सि­द्धेश्च इति चेत्, उच्यते; टीकायां फल­सा­ध­न­ता­नु­मि­ति­हे­तु­प­रा­म­र्श­रूपं यद्र­ज­त­त्व­हे­तु­वि­षयं ज्ञान­मा­व­श्य­क­मिति प्रतिपादितं तदत्र पक्षः । तस्य पुरो­व­र्ति­वि­ष­यत्वं साध्यम् । स च परामर्शः पुरो­व­र्ति­वि­ष­या­मेव फलसाधनतानुमितिं तद्द्वारा प्रवृत्तिं च जनयति; फलस्य वस्तुतो नानो­पा­य­सा­ध्य­त्वेऽपि तदन्यत्र तदु­पा­य­त्वा­नु­स­न्धा­ना­भा­वात्, फलज्ञानं तु तटस्थं न नियमेन पुरोवर्तिनि प्रवर्तकं तस्यो­पा­या­न्त­र­ग­त­फ­ल­सा­ध­न­ताऽ­नु­मि­ति­द्वा­रा­न्य­त्रापि प्रव­र्त­क­त्व­सं­भ­वात्, तथै­वा­रो­प­प्रा­ची­न­र­ज­त­स्म­र­ण­मपि; सत्यपि तस्मिन्नन्यत्र फल­सा­ध­न­ता­नु­मित्या प्रवृ­त्ति­सं­भ­वात् । तत्रेति विशेषणं तु स्वयं गेहा­दि­नि­हि­त­र­ज­ता­र्थि­प्र­वृ­त्ति­नि­य­त-त­द्र­ज­त­ग­त­फ­ल­सा­ध­न­ता­दि­स्मृतौ व्यभि­चा­र­नि­रा­सा­र्थम् । प्रवर्तकत्वं शरी­र­व्या­पा­र­प्र­यो­ज­क­त्व­मेव विवक्षितमिति रजतार्थिन इति विशेषणं सफलम्, (हेतौ ज्ञानत्वं न निवेश्यं; नियमविशेषणेन तत्प्र­यो­ज­न­ला­भात् । उदाहरणे ज्ञानमिति निय­म­वि­शे­ष­ण­ल­ब्धा­र्था­नु­वादः । साध्ये पुरोवर्तिपदं विसं­वा­दि­प्र­वृ­त्ति­वि­ष­य­शु­क्त्या­दि-व्य­क्ति­वि­शे­ष­प­रम् । अत एव रजतज्ञाने दृष्टान्ते साध्यवैकल्यं मा भदिति यत्तद्भ्यां सामा­न्य­व्या­प्ति­रु­प­न्यस्ता । यदि अर्थिन इत्येतावतैव बाधा­दि­व्या­व­र्त­ना­द्र­ज­त­वि­शे­षणं न निवेश्यते, तदा रज­त­भ्र­म­ज­न्य­प्र­वृ­त्ति­वि­षये पुरोवर्तिनि शुक्त्य­र्थि­प्र­व­र्त­क­शु­क्ति­त्व­प्र­का­र­क­ज्ञानं दृष्टान्तीकृत्य विशे­ष­व्या­प्ति­र­प्यु­प­पा­द­यितुं शक्या ।) न तु प्रय­त्न­प्र­यो­ज­क­त्वम्; अख्यातिवादिना तत्रे­च्छा­प्र­य­त्ना­वपि न पुरोवर्तिविषयौ, किन्तु तन्मू­ल­र­ज­त­ज्ञा­न­व­द्दे­शा­न्त­र­स्थ­वि­षयौ इत्यपलपितुं शक्यत्वेन हेत्व­सि­द्धि­प्र­स­ङ्गात् । अन्यथा तत्र नियमेन रज­ते­च्छा­का­र­ण­त्व­स्यैव हेतुत्वसंभवेन रज­ता­र्थि­प्र­व­र्त­क­त्व­प­र्य­न्त­हे­त्व­न­पे­क्ष­णात्, तदपेक्षणेऽपि तत्र­त्य­र­ज­ते­च्छायां विशे­ष­व्या­प्त्यु­दा­ह­र­ण­सं­भ­वेन समीचीनरजतज्ञाने सामा­न्य­व्या­प्त्यु­दा­ह­र­णा­यो­गाच्च । एवंच वायु­का­ला­दृ­ष्ट­प्रा­ग­भा­वा­दि­व्या­व­र्त­नाय रजतार्थीति विशेषणम् । यद्यपि वाय्वादीनां पुरो­व­र्ति­वि­ष­य­प्र­वृत्तिं प्रत्य­सा­धा­र­ण­का­र­ण­त्वा­भा­वाद् नियमविशेषणेनापि भवति व्यावृत्तिः; तथापि प्रागभावस्य न भवति । तस्य प्रतियोगिनि तत्त­त्प्रा­ग­भा­व­त्वेन कार­ण­त्वा­ङ्गी­का­रात्, तद्व्या­वृ­त्तिस्तु पुरो­व­र्ति­वि­ष­य­र­ज­ता­र्थि­प्र­वृ­त्ति­त्वा­च्छि­न्न-का­र्य­प्र­यो­ज­क­त्वस्य हेतु­त्व­वि­व­क्ष­येति न किंचिदवद्यम्॥ टीका­या­मु­दा­ह­र­ण­वाक्ये ज्ञानप्रदं रजतप्रमैव सामान्यव्याप्तौ दृष्टान्तः, न तु विसं­वा­दि­प्र­वृ­त्ति­स्थ­लेच्छा शङ्कि­ता­न्य­वि­ष­य­भावा विशेषव्याप्तौ दृष्टान्त इति सूचनाय । यत्र यद्य­द­र्थि­न­मि­त्यत्र यद्र­ज­ता­र्थि­न­मि­त्यर्थो ग्राह्यः । इत्थम् इष्ट­सा­ध­न­ता­नु­मि­ति­हे­तु­प­रा­म­र्श­रू­पस्य रज­त­त्व­प्र­का­र­क­ज्ञा­नस्य पक्षत्वम् इष्ट­सा­ध­न­त्वा­नु­मि­ति­हे­तो­र­प­क्ष­ध­र्म­त्व­प्र­स­ङ्ग­मत्र विप­क्ष­बा­ध­क­मु­प­न्य­स्यता टीकाग्रन्थेन सूचितम् । ननु अत्र हेतो­र­प­क्ष­ध­र्मत्वं न दोषः, नह्य­ख्या­ति­वा­दि­भि­र्भ्र­म­स्थले प्रवृ­त्ति­वि­ष­य­वि­ष­य­के­ष्ट­सा­ध­न­ता­नु­मितिः अभ्युपगम्यते; अन्य­था­ख्या­त्या­पत्तेः । किन्तु इष्ट­सा­ध­न­त्व­व्या­प्त­र­ज­त­त्वा­श्र­य­भे­दा­ग्र­हात् उप­स्थि­ते­ष्ट­सा­ध­न­भे­दा­ग्र­ह­मात्रं रज­त­भे­दा­ग्र­ह­व­दा­व­श्यकं, तत एव प्रवृत्तिरिति कल्प्यते; लाघवादिति चेत्, यद्ये­व­म­नु­मि­ता­वपि पक्षे लिङ्ग­व­द्भे­दा­ग्रह एव कारणं स्याद्; न्यायतौल्याद्, न तु लिङ्ग­वि­शि­ष्ट­प­क्ष­ज्ञा­नम् । तथा च विसं­वा­दि­प्र­वृ­त्ति­स्थले पक्षे इष्ट­सा­ध­न­त्व­व्या­प्त­र­ज­त­त्वा­श्र­य­भे­दा­ग्र­हात् इष्ट­सा­ध­न­त्वा­नु­मि­ति­र्भ­वन्ती केन वार्यते । तस्मा­द्भ­क्षि­तेऽपि लशुने न व्याधि­शा­न्ति­रिति न्याये­ना­न्य­था­ख्या­ति­प­रि­जि­ही­र्षया भ्रमस्थले विशि­ष्ट­ज्ञा­न­म­प­लप्य प्रवृत्तौ भेदाग्रहं कार­ण­मा­श्र­य­तोऽ­नु­मि­ता­वपि स एव कारणं स्यादि­त्य­न्य­था­ख्या­ति­रू­पा­नु­मितेः अश­क्य­प्र­ति­क्षे­प­त्वात् अभावरूपं भेदाग्रहं परित्यज्य भावतया लघु लिङ्ग­वि­शि­ष्ट­प­क्ष­ज्ञा­न­मेव अनुमितौ कार­ण­म­भ्यु­पे­य­मिति युक्तोऽत्र हेतो­र­प­क्ष­ध­र्म­ल­प्र­सङ्गो विप­क्ष­बा­ध­क­स्तर्कः । एवम् इष्ट­सा­ध­न­त्वा­नु­मि­ति­हे­तु­प­रा­म­र्श­रू­प­र­ज­त­ज्ञा­न­प­क्ष­क­वत् केव­ल­र­ज­त­ज्ञा­न­प­क्ष­क­मपि निरु­क्त­हे­तु­सा­ध्य­क­म­नु­मानं युक्तमेव; तत्रापि विशिष्टज्ञानस्य प्रवृ­त्ति­का­र­णत्वे संभ­व­त्य­भा­व­रू­प­भे­दा­ग्र­हस्य तत्का­र­ण­त्व­क­ल्पने गौरवमिति विप­क्ष­बा­ध­क­स­द्भा­वात् । ननु अत्र विपरीतं गौरवम्; इष्ट­पु­रो­व­र्ति­ज्ञा­न­मा­त्र­स्या­व­श्य­क­भे­दा­ग्र­ह­वि­शि­ष्टस्य प्रव­र्त­क­त्वो­प­पत्तौ मिथ्या­ज्ञा­न­त­द्वि­ष­य­क­ल्प­ना­यो­गात्, ततश्च प्रति­कू­ल­त­र्क­प­रा­ह­त­म­नु­मा­नम्; न च मिथ्या­ज्ञा­ना­प­लापे भ्रमस्थले भेदा­ग्र­ह­सा­हि­त्येन प्रवृ­त्ति­व­द­भे­दा­ग्र­ह­सा­हि­त्येन निवृत्तेरपि प्रसङ्गः; रजतस्मरणस्य रज­ता­भे­द­वि­ष­य­त्वेन अभे­दा­ग्र­हा­सि­द्धे­रिति चेद्, मैवम्, मिथ्या­ज्ञा­ना­प­लापे सत्यस्थले इष्ट­पु­रो­व­र्ति­भे­द­ग्र­हा­प्र­सि­द्धितः तद­भा­वा­प्र­सिद्ध्या सत्य­र­ज­त­ज्ञा­ना­द­प्र­वृ­त्ति­प्र­स­ङ्गात् । भेदाग्रहशब्देन पुरो­व­र्ति­नी­ष्ट­भि­न्न­त्व­प्र­का­र­क­ज्ञा­न­वि­ष­य­त्वा­भावो विवक्षित इति चेत्, तर्हि तव भ्रमस्थले पुरोवर्तिनि इष्टा­भि­न्न­त्व­प्र­का­र­क­ज्ञा­न­वि­ष­य­त्व­स्या­प्य­भा­वोऽ­स्तीति ततो निवृत्तिरपि स्यात् । टीकायामिदमेव दृषणम् 'अथ तथा­त्वे­ना­ग्र­ह­णा­त्क­स्मा­न्नो­पे­क्ष­तेति ग्रन्थेन दर्शितम् । किञ्चैवं सति रजते नेदं रजतमिति भ्राम्यतोऽपि रजतार्थिनस्तत्र प्रवृ­त्ति­प्र­सङ्गः, रजते रजतभेदग्रहे मिथ्या­ज्ञा­न­प्र­स­ङ्गेन तत्रापीदमिति न रजतमिति च ज्ञानद्वयस्य कल्पनीयत्वात् । स्वात­न्त्र्य­मिष्टे विशेषणं; तच्च भेद­प्र­ति­यो­गि­त­यो­प­स्थि­त्य­वि­ष­य­त्व­मिति चेत्, तथा विशेषणे कृते स दोषो नितरां दृढीकृतः स्यात् । नेदं रजतमिति भ्रमस्थले पुरोवर्तिगतस्य विशिष्टाभावस्य इष्ट­भि­न्न­त्व­प्र­का­र­क­ज्ञा­न­वि­ष­य­त्व­रू­प­वि­शे­ष्या­भा­व­मा­त्रा­दपि सिध्यतः स्वात­न्त्र्य­रू­प­वि­शे­ष­ण­स्या­प्य­भावे सुतरां सिद्धेः । नेदं रजतमिति प्रमास्थलेऽपि रज­ता­र्थि­प्र­वृत्तिः स्यादिति दोष­श्चा­त्रा­धिकः; तत्र विशेषणाभावाद् विशि­ष्टा­भा­व­सिद्धेः । वस्तुतस्तु स्वातन्त्र्यं उक्त­वि­शि­ष्टा­भा­व­प्र­ति­यो­गि­को­टा­वि­ष्ट­वि­शे­षणं न युक्तम्; इष्ट­भि­न्न­त्व­ज्ञा­न­द­शा­याम् इष्टस्य भेद­प्र­ति­यो­गि­तो­प­स्थि­ति­वि­ष­य­त्व­नि­य­मेन तद­भा­व­वि­शि­ष्टे­ष्ट­वि­शे­षि­तस्य प्रति­यो­गि­नोऽ­प्र­सिद्ध्या तद­भा­वा­प्र­सि­द्ध्या­पत्तेः॥ ननु तर्हि स्वातन्त्र्यमपि प्रवृत्तौ पृथ­क्का­र­णा­न्त­र­मस्तु, अतस्तदभावाद् नेदं रजतमिति प्रमा­भ्र­म­स्थ­ल­योर्न प्रवृ­त्ति­प्र­सङ्गः, प्रति­यो­गि­वि­शे­ष­ण­त्वे­ना­नि­वे­श­नाच्च न विशि­ष्टा­प्र­सिद्ध्या तद­भा­वा­प्र­सि­द्ध्या­प­त्ति­रिति चेद, न; तथा सतीदं रजतं घट­नि­ष्ठ­भे­द­प्र­ति­यो­गीति ज्ञाना­द­प्र­वृ­त्त्या­पत्तेः । यद्ये­त­द्दो­ष­प­रि­हा­राय पुरो­व­र्ति­नि­ष्ठ­भे­द­प्र­ति­यो­गि­त्वे­ना­नु­प­स्थि­तत्वं स्वातन्त्र्यम् इति निरुच्येत, तदा नेदं रजतमिति भ्रमस्थले रज­ता­र्थि­प्र­वृत्तिः स्यादिति दोषः पुनरुन्मज्जेत् । ननु पुरो­व­र्त्य­गृ­हीता संस­र्ग­भे­द­प्र­ति­यो­गि­त्वे­ना­नु­प­स्थि­तत्वं स्वातन्त्र्यम्, अत­स्त­द­भा­वा­न्नेदं रजतमिति भ्रमेण न प्रवृ­त्ति­प्र­सङ्गः, तत्र पुरोवर्तिनि रज­त­भे­दा­सं­स­र्गा­ग्र­ह­स­त्त्वेन तद्वि­शे­षि­त­भे­द­प्र­ति­यो­गि­तो­प­स्थितेः विद्यमानतया तदभावाभावात्, नापीदं रजतं घट­नि­ष्ठ­भे­द­प्र­ति­यो­गीति ज्ञाने­ना­प्र­वृ­त्ति­प्र­सङ्गः तत्र पुरोवर्तिनि रज­त­भे­दा­सं­स­र्ग­रू­प­र­ज­ता­भे­द­ग्र­ह­स­त्त्वेन तद­भा­व­वि­शे­षि­त­भे­द­प्र­ति­यो­गि­तो­प­स्थि­त्य­भा­व­स­त्त्वा­दिति चेद्, न; एवमपि यत्रेदं नेति भेद­वि­शि­ष्ट­पु­रो­व­र्ति­ज्ञानं रजतस्मरणं चेति ज्ञानद्वयरूपो नेदं रजतमिति भ्रमः, तत्र रज­ता­र्थि­प्र­वृ­त्ति­प्र­स­ङ्गात्, न रज­त­मि­त्य­धि­क­र­ण­वि­शे­षा­नु­ल्ले­खिन इव इदं नेति प्रति­यो­गि­वि­शे­षा­नु­ल्ले­खि­नोऽपि भेदज्ञानस्य संभवात् । स्यादेतत् पुरो­व­र्त्य­गृ­ही­ता­सं­स­र्ग­भे­द­प्र­ति­यो­गि­त्वा­सं­स­र्गा­ग्र­हा­भा­व­वत्त्वं स्वातन्त्र्यम् । एवंच न कोऽपि दोषः, तथा हि इदमिति न रजतमिति च ज्ञान­द्व­या­त्म­कस्य नेदं रजतमिति भ्रमस्योदये पुरोवर्तिनि रजतभेदस्य असं­स­र्गा­ग्र­होऽस्ति, इदं रजतमितिभ्रमोदये रजतस्येव । तथा च तत्र पुरो­व­र्त्य­गृ­ही­ता­सं­स­र्ग­भे­द­प्र­ति­यो­गि­त्वेन रजतस्य ग्रहणात् तत्प्र­ति­यो­गि­त्वा­सं­स­र्गा­ग्र­होऽ­स्तीति तदभावाभावाद् न तत्र रज­ता­र्थि­प्र­वृ­त्ति­प्र­सङ्गः । नापीदं नेति रजतमिति च ज्ञान­द्व­या­त्म­कस्य नेदं रजतमिति भ्रमस्योदये तत्प्रसङ्गः, तत्र पुरोवर्तिनि गृही­त­सं­स­र्ग­त्वे­ना­गृ­ही­ता­सं­सर्गो यो भेदः तत्प्र­ति­यो­गि­त्वस्य असंसर्ग इष्टे यद्यपि विद्यते; तथापि तस्य नेदं रजतमिति भ्रम­द­शा­या­म­ग्र­हस्य सत्त्वेन तदभावाभावात् । इदं रजतं घट­नि­ष्ठ­भे­द­प्र­ति­यो­गीति ज्ञानोदये च नाप्र­वृ­त्ति­प्र­सङ्गः, तत्र रजते भेद­प्र­ति­यो­गि­त्व­सं­स­र्गा­ग्र­ह­णेन तद­सं­स­र्गा­ग्र­ह­रू­प­वि­शे­ष्य­स­द्भा­वेऽपि पुरोवर्तिनि भेदा­सं­स­र्ग­रू­पा­भे­द­ग्र­ह­णेन विशे­ष­णा­भा­वा­त्त­द्वि­शि­ष्टस्य भेद­प्र­ति­यो­गि­त्वा­सं­स­र्गा­ग्र­हस्य अभावसद्भावादिति चेद्, मैवम्; एवमपि यत्रेदं रजतमिति भ्रमकाले रजतं घट­नि­ष्ठ­भे­द­प्र­ति­यो­गी­त्यपि स्मरणं तत्रा­प्र­वृ­त्ति­प्र­सङ्गः । तत्र पुरोवर्तिनि रज­त­भे­दा­सं­स­र्ग­ग्रहे मिथ्या­ज्ञा­न­प्र­स­ङ्गेन तद­सं­स­र्गा­ग्र­होऽ­स्तीति पुरो­व­र्त्य­गृ­ही­ता­सं­स­र्ग­भे­द­प्र­ति­यो­गि­त्व­सं­स­र्ग­ग्र­ह­स­त्त्वेन तद­सं­स­र्गा­ग्र­हस्य प्रतियोगिनो विद्यमानतया तदभावाभावात् । अरजतरजतयोरिमे रजतारजते इति भ्रमादरजते रज­ता­र्थि­प्र­वृ­त्त्य­भा­व­प्र­स­ङ्गश्च तत्र पुरो­व­र्ति­न्य­र­जते रज­त­भे­दा­सं­स­र्ग­ग्रहे मिथ्या­ज्ञा­न­प्र­स­ङ्गेन अर­ज­त­रू­प­पु­रो­व­र्त्य­गृ­ही­ता­सं­स­र्ग­भे­द­प्र­ति­यो­गि­त्वेन रजतस्य गृह्यमाणतया तद­सं­स­र्गा­ग्र­हस्य प्रतियोगिनः सत्त्वेन तदभावाभावात् । किं बहुना इदं रज­त­मि­त्ये­ता­व­न्मा­त्र­रू­पात् प्रसि­द्ध­र­ज­त­भ्र­मा­दपि प्रवृ­त्त्य­भा­व­प्र­सङ्गः । तत्र हि रजतभेदः पुरो­व­र्त्य­गृ­ही­ता­सं­सर्गो भवति; तत्र तदसंसर्गग्रहे मिथ्या­ज्ञा­ना­पत्तेः । रजते तथा­भू­त­भे­द­प्र­ति­यो­गि­त्वा­सं­स­र्गा­ग्र­होऽ­प्यस्ति; तत्र रजते भेद­प्र­ति­यो­गित्वं नास्तीति भेद­प्र­ति­यो­गि­त्वा­सं­स­र्ग­ग्र­हो­द­या­भा­वात् । अतो विशिष्टस्य प्रतियोगिनः सत्त्वेन तद­भा­व­रू­प­स्वा­त­न्त्र्या­भा­वाद् न प्रवृत्तिर्घटते । तस्मा­न्मि­थ्या­ज्ञा­ना­प­ला­पेन भेदाग्रहात् प्रवृ­त्त्यु­प­पा­द­न­म­यु­क्त­मेव ।
नन्वनाश्वासदोषे परेणोद्भाविते निराकर्तव्ये सति अव्यभिचारस्य प्रामा­ण्य­रू­प­त्वा­दि­वि­कल्पः क्वोपयुज्यत इत्याशङ्क्याह –
येन क्वचिदिति ।
अयमाशयः, प्रामा­ण्य­नि­श्च­या­देव प्रवृ­त्त्या­दि­का­र्यो­प­पत्तेः अव्य­भि­चा­र­नि­श्च­यस्य नास्त्युपयोग इति परो­द्भा­वि­ता­ना­श्वा­स­दो­ष­नि­रा­क­रणे कृते परेणैवं वाच्यम् । अव्य­भि­चा­रा­नि­श्चयः प्रामा­ण्या­नि­श्च­य­प­र्य­व­सायी, तत्पर्यवसानं च त्रेधा संभवति, प्रामा­ण्य­स्या­व्य­भि­चा­रि­ता­रू­प­त्वेन, तद्धेतुकत्वेन, तद्व्याप्यत्वेन वा । तद्व्या­प्य­त्वेऽपि हि व्यापकनिवृत्तौ व्याप्यं निवर्तेत । एवं प्रकृ­तो­प­यो­गि­न­म­न्वीक्ष्य त्रेधा विकल्पः कृत इति ।
अव्य­भि­चा­रि­णा­म­पीति ।
इदं व्यति­रे­क­व्य­भि­चा­र­दू­ष­ण­मिव न विक­ल्प­त्र­य­सा­धा­रणं; सहकारिविरहेण प्रतिबन्धेन वा हेतोरपि कार्याजनिसंभवेन द्वितीयविकल्पे अन्व­य­व्य­भि­चा­रस्य तृतीयविकल्पे व्याप­क­व्य­भि­चा­रस्य चादोषत्वात् । अतः प्रथ­म­वि­क­ल्प­मात्रे द्विती­य­दू­ष­ण­मि­द­मिति द्रष्टव्यम् । ननु 'अहो बत महानेष प्रमादो धीमतामपि ।
ज्ञानस्य व्यभिचारित्वे विश्वासः किंनि­ब­न्धनः॥' इति परेण ज्ञानस्यैव व्यभिचारो दोषत्वेनोक्तः, स च कर­ण­व्य­भि­चा­र­स्या­दो­ष­त्वो­प­पा­द­नेन परिहृतो न भवतीत्याशङ्कते –
भवत्विति ।
अव्य­भि­चा­रोऽ­पेक्ष्य इति ।
अव्यभिचारश्च ज्ञानानां प्रामाण्यमेवेति भावः ।
यदि प्रामाण्यस्य परतस्वमिष्यते, तत्राह –
अव्य­भि­चा­र­ग्रा­हिण इति ।
अर्थ­क्रि­या­सं­वा­दा­दि­ज्ञा­न­स्येति ।
अर्थ­क्रि­या­सं­वादो दूरे वह्निज्ञाने जाते समी­पो­प­स­र्प­णा­न­न्तरं दाह­सा­म­र्थ्या­नु­भवः । आदिशब्देन तद्वह्निज्ञानं, प्रमा, दाहसमर्थे तद्व­ह्नि­त्व­प्र­का­र­क­त्वा­दि­त्य­नु­माने यत् प्रवृ­त्ति­सं­वा­द­रू­प­ज्ञा­न­घ­ट­नीयं लिङ्गज्ञानं, यच्च तज्ज­न्या­नु­मि­ति­रूपं प्रामा­ण्य­ज्ञानं, तदुभयमपि गृह्यते ।
नन्व­न­व­धृ­त­प्रा­मा­ण्य­मेव संवादिज्ञानं स्ववि­ष­य­नि­श्च­या­त्मकं भवत्वित्यत्राह –
अनिश्चये वेति ।
प्रामा­ण्या­सि­द्धे­रिति ।
अन­व­धृ­त­प्रा­मा­ण्या­दपि ज्ञाना­द्वि­ष­य­सिद्धौ दूरत्वादिदोषेण शङ्कि­ता­प्रा­मा­ण्यात् चन्द्र­प्रा­दे­शि­क­त्वा­दि­ज्ञा­ना­दपि तत्सिद्धिः स्यात् । यदि प्रामा­ण्या­ग्र­ह­णेऽपि अप्रा­मा­ण्य­श­ङ्का­वि­र­ह­मा­त्रेण संवादादिज्ञानं स्ववि­ष­य­नि­श्च­या­त्मकं भवेत, तदा तथैव प्रथमज्ञानमपि स्ववि­ष­य­नि­श्च­या­त्मकं सत् प्रवृ­त्त्या­दि­का­र्यो­प­योगि भवेदिति भावः ।
ननु अप्रा­मा­ण्य­श­ङ्का­वि­र­हा­पे­क्षया प्रामा­ण्य­नि­श्चयो लघीयान्, अतो निश्चि­त­प्रा­मा­ण्य­मेव संवादादिज्ञानं स्ववि­ष­य­नि­श्च­य­रू­प­मिति संवा­दा­दि­ज्ञा­नस्य तथा­त्व­सि­द्ध्यर्थं स्वतः­प्रा­मा­ण्य­मि­ष्यत इति चेत्, तत्राह –
स्वतःप्रामाण्ये चेति ।
संवादादिज्ञाने स्वविषये स्फुरति तद्वि­ष­य­वि­शे­ष्य­प्र­का­र­क-त­दु­भ­य­वे­शि­ष्ट्य­घ­टितं योग्यधर्मरूपं तत्प्रामाण्यं ज्ञान­त्व­व­दु­त्स­र्गतः स्फुरति । यत्र तु क्वचि­द­न­भ्या­स­द­शा­दि­दो­षाद् विशे­ष्य­प्र­का­र­वै­शि­ष्ट्यांशे ज्ञानस्य न सत्ता­नि­श्च­य­रू­पत्वं तत्र तद्घटितस्य प्रामाण्यस्य स्थाणुत्वादेरिव स्फुरणं नास्ति तत्र परं प्रामाण्यसंदेह इति खलु संवादादिज्ञाने प्रामाण्यस्य स्वतस्त्वं समर्थनीयं; तन्न्यायः प्रथमज्ञानेऽपि तुल्य इति भावः । ननु अयं प्रामाण्यस्य स्वत­स्त्वा­भ्यु­प­गमो न युक्तः; तथाहि सिद्धान्ते ज्ञानं स्वप्रकाशम् । अत इदं जलमिति इदं जलत्वेन जानामीति च व्यवहारहेतौ प्रथमज्ञाने एव तत्प्रामाण्यस्य स्फुरणं वाच्यम् । तत्र प्रामा­ण्य­घ­ट­क­स­र्वो­पा­धि­स्फु­र­णा­भ्यु­प­ग­मात्, ततश्च तत्र प्रामा­ण्य­व­द्वि­शे­ष्य­क­प्रा­मा­ण्य­प्र­का­र­क­त्व­रूपं प्रामा­ण्या­न्त­र­मपि संपद्यत इति तदपि तत्र स्फुरेद्, न्यायतौल्यात्, नचेष्टापत्तिः; तथा सति द्विती­य­प्रा­मा­ण्य­घ­टि­त­प्रा­मा­ण्या­न्त­रस्य तत्त­त्प्रा­मा­ण्य­घ­टि­त­प्रा­मा­ण्या­न्त­राणां च स्वप्रकाशज्ञाने स्फुरणापत्त्या तस्या­नु­भ­व­वि­रु­द्धा­प­र्य­व­सि­ता­न­न्त­वि­ष­या­भ्यु­प­ग­मा­पत्तेः इति चेत्, उच्यते; स्वप्रकाशज्ञाने प्रामा­ण्य­स्फु­रणे सति प्रामा­ण्य­व­द्वि­शे­ष्य­क­प्रा­मा­ण्य­प्र­का­र­क­त्व­रू­प­प्रा­मा­ण्या­न्तरं संपद्यते चेत्, संपद्यतां नाम, न तस्यापि तत्र स्फुरणमिष्यते, प्रामा­ण्य­त­दा­श्र­ययोः तदु­भ­य­वै­शि­ष्ट्यस्य च तत्र स्फुरणेऽपि तत्प्र­का­र­क­त्व­त­द्वि­शे­ष्य­क­त्वयोः तत्रास्फुरणात् । न हि जलज्ञानानन्तरम् 'इदं जल'मिति 'इदं जलत्वेन जानामीति च व्यवहारवदिदं ज्ञानं प्रमाणत्वेन जानामीत्यपि व्यवहारो दृश्यते; येन तयोरपि तत्र स्फुरणमिष्येत । न च स्वप्र­का­श­ज्ञा­न­ग­त­त्वेन तत्स्फु­र­णा­व­श्यं­भावः; तद्ग­त­गु­ण­त्व­द्र­व्य­त्वा­दि­वत् अस्फुरणसंभवात् । तथापि प्रामाण्यस्य स्वाश्र­य­स­ह­भा­न­नि­य­म­रू­प­स्व­त­स्त्वा­भ्यु­प­ग­मात् स्फुरणावश्यंभाव इति चेद्, न; यत्र प्रामा­ण्य­घ­ट­क­स­र्वो­पा­धि­स्फु­र­ण­मस्ति, तत्र प्रामाण्यस्य स्फुर­ण­मि­त्यु­त्स­र्ग­रू­पस्य नियमस्य यत्र तद्घटकस्य कस्यचिदस्फुरणं तत्रा­प­वा­दा­भ्यु­प­ग­मात् । तस्मात् स्वप्रकाशज्ञाने प्रामा­ण्य­स्फु­र­णौ­त्स­र्गि­क­त्वा­भ्यु­प­गतौ न काचिदनुपपत्तिः ।
प्रस­ङ्गा­दु­त्प­त्ता­वपि स्वतस्त्वं निरूपयितुं पृच्छति –
ननु किमिति ।
यद्वा ज्ञान­मु­त्प­द्य­मा­न­मु­त्स­र्गतः प्रमा­रू­प­मे­वो­त्प­द्यते चेदेवं प्रमा­प्रा­यि­क­त्वा­धी­न­स­मु­त्क­ट­त­द्वा­स­ना­व­शा­द­प्रा­मा­ण्य­श­ङ्का­नु­दयः प्रामा­ण्य­स्फु­रणं चेत्यु­भ­य­मौ­त्स­र्गिकं भवति, अतः स्वतःप्रामाण्ये चेति पूर्व­वा­क्ये­नो­प­क्षि­प्त­मौ­त्स­र्गि­क­त्व­रूपं ज्ञप्ति­स्व­त­स्त्व­मु­प­पा­द­यि­तु­मु­त्प­त्ता­वपि स्वतस्त्वं निरूपयितुं पृच्छति –
ननु किमिति ।
इयं रूपप्रमेति ।
ननु स्वत­स्त्व­नि­र्व­च­न­प्रश्ने तदप्रदर्श्य किमिति प्रमा­ण­मु­प­न्य­स्यते; अथ ज्ञान­सा­म­ग्री­मा­त्र­ज­न्य­त्व­मेव स्वतस्त्वं, तत्तु प्रामाण्यस्य नेष्यते, किन्तु तद­धि­क­र­ण­ज्ञा­न­व्यक्तेः, अतो नोक्तदोष इति प्रमापक्षीकरणेन सूचितमिति चेत्, न; उप­न्य­स्त­नि­र्व­च­नस्य पर­त­स्त्व­सा­धा­र­ण्यात् । न हि परतस्त्वपक्षे प्रमा न ज्ञानं; येन सा ज्ञान­सा­म­ग्री­मा­त्र­जन्या न स्यात् । अथ ज्ञान­सा­मा­न्य­सा­म­ग्री­मा­त्र­ज­न्यत्वं विवक्षितमिति चेद्, न; ज्ञान­सा­मा­न्य­सा­म­ग्र्य­नु­प्र­वि­ष्टा­त्म­म­नः­सं­यो­गा­द्य­ति­रि­क्ते­न्द्रि­य­लि­ङ्ग­प­रा­म­र्शा­दि­ज­न्यासु प्रत्य­क्षा­नु­मि­त्या­दि­प्र­मा­स्व­सं­भ­वा­पत्तेः इति चेद्, मैवम्; ज्ञान­सा­म­ग्री­श­ब्देन प्रमा­भ्र­म­सा­धा­र­ण­ज्ञा­न­का­र­ण­क­ला­पस्य विवक्षितत्वात्, इन्द्रियादीनां च प्रमावद् भ्रमेष्वपि कारणत्वात्, चक्षुषा रजतं पश्यामीति प्राति­भा­सि­क­स्यापि चाक्षु­ष­त्वा­नु­भ­वात् । प्रमायाः प्रमा­भ्र­म­सा­धा­र­ण­का­र­णा­ति­रि­क्त­का­र­ण­ज­न्य­त्वा­भा­व­रूपं स्वतस्त्वं यथा सिद्ध्यति तथा साध्यं दर्शयति –
अर्थेति ।
अत्र साध्ये संयु­क्त­स­म­वा­या­न्त­र्ग­त­सं­यो­ग­रू­प­च­क्षु­र्गु­ण­ज­न्य­त्वेन विष­य­भू­त­रू­प­गु­ण­ज­न्य­त्वेन च बाधवारणय असं­प्र­यो­ग­त्वा­न­धि­क­र­णेति चक्षुर्गतेति च गुणविशेषणम् । सामा­न्या­भा­व­वि­व­क्षया चक्षु­र­न्त­र­ग­त­गु­ण­ज­न्य­त्वा­भा­वेन अर्था­न्त­र­वा­र­णा­यै­त­दिति चक्षुर्विशेषणं, तदविवक्षायां तु नोपादेयम् । न चैवमपि व्यञ्ज­क­ते­जो­रू­प­त्वात् आलो­क­रू­प­व­च्च­क्षू­रू­प­मपि रूप­प्र­मा­हे­तु­रिति बाधः; तेजो­ग­त­मु­द्भू­त­रू­प­मेव रूपा­दि­ज्ञा­न­हेतुः न तु ऊष्म­रू­प­व­द­नु­द्भूतं चक्षूरूपमिति मतानुसरणात् । मतान्तरे तु रूपभिन्नेत्यपि विशेषणं देयम् । ननूक्तरूपं स्वतस्त्वं कथमनेन साध्यनिर्देशेन सिध्यति, न हि प्रमा­भ्र­म­सा­धा­र­ण­ज्ञा­न­सा­मा­न्य­का­र­ण­क­ला­पा­न­नु­प्र­वि­ष्ट­प्र­मायां विशेषकारणं संप्र­यो­गा­ति­रि­क्त­च­क्षु­र्गु­ण­रूपं पर­त­स्त्व­वा­दि­भि­रि­ष्यते, येन तज्ज­न्य­त्वा­भा­व­सा­धनं स्वतस्त्वसाधनं भवेत्; पर­त­स्त्व­वा­दि­भिर्हि स्थूला­व­य­वि­प्र­त्य­क्ष­प्र­मायां भूयोऽ­व­य­वे­न्द्रि­य­स­न्नि­कर्षो जन्य­प्र­त्य­क्ष­प्रा­माण्यं, याव­द्वि­ष­य­स­न्नि­कर्षो जन्य­प्र­मा­मात्रे, ग्राह्य­य­था­र्थ­ज्ञानं च विशे­ष­का­र­ण­मि­ष्यते; न तद्व्या­व­र्त­न­मु­दा­हृ­त­सा­ध्य­नि­र्दे­शेन लभ्यते, तत्रादिमस्य विशे­ष­का­र­ण­द्व­यस्य व्यावर्तनं चक्षु­र्ग­त­वि­शे­ष­ण­लभ्यं संप्र­यो­गा­ति­रि­क्त­वि­शे­ष­णेन विरुद्धम्, संप्र­यो­गा­ति­रि­क्त­वि­शे­ष­ण­लभ्यं तृतीयस्य व्यावर्तनं चक्षु­र्ग­त­वि­शे­ष­णेन विरुद्धम्; तस्माद् नानेनानुमानेन स्वत­स्त्व­सि­द्धि­रिति चेत्, उच्यते; चक्षु­र्ग­त­पि­त्त­दो­षा­भावे शङ्खे श्वैत्यप्रमा तदभावे न, चक्षु­र्ग­त­म­ण्डू­क­व­सा­ञ्ज­ना­भावे वंशवर्णप्रमा तदभावे नेत्य­न्व­य­व्य­ति­रे­काभ्यां रूप­चा­क्षु­ष­प्र­मायां विशेषकारणत्वेन शङ्कार्हस्तथैव परतस्त्ववादिभिः इष्य­मा­ण­श्च­क्षु­र्दो­षा­भा­व­रूपो यस्त­द्ध­र्म­स्त­ज­न्य­त्वा­भाव इह साध्यः । अन्यत्तु प्रमायां विशेषकारणत्वेन शङ्कार्हमेव न भवति । न हि भूयोऽ­व­य­वे­न्द्रि­य­स­न्नि­कर्षं विना स्थूला­व­य­वि­प्र­त्य­क्ष­प्रमा नोत्पद्यते; तदभावेऽपि सन्नि­कृ­ष्ट­किं­चि­त्प्र­दे­शा­व­च्छे­देन तदु­त्प­त्ति­द­र्श­नात् । अत­स्त­त्त­त्प्र­दे­श­प्र­त्य­क्ष­मा­त्रार्थं तत्त­त्प्र­दे­श­स­न्नि­क­र्षा­पे­क्षेति न भूयोऽ­व­य­वे­न्द्रि­य­स­न्नि­क­र्षस्य स्थूला­व­य­वि­प्र­त्य­क्ष­प्र­मायां विशेषकारणत्वे मानमस्ति । एतेन स्थूला­व­य­वा­व­च्छे­देन सन्नि­क­र्ष­स्तस्यां विशे­ष­का­र­ण­मि­त्यपि निरस्तम्; स्थूलावयविनि पर­मा­णु­द्व्य­णु­क­रू­प­सू­क्ष्मा­व­य­वा­व­च्छे­देन सन्निकर्षे भ्रम­स्या­प्य­नु­द­यात्, याव­द्वि­ष­य­स­न्नि­क­र्षोऽपि न प्रमायां विशेषकारणम्; असन्निकृष्टभाने अतिप्रसङ्गेन शुक्ति­र­ज­ता­दि­ष्वपि संस्कारस्य स्मृतेर्वा सन्निकर्षत्वस्य अभ्युपेयत्वात्, असन्निकृष्टमपि रजतादिकं दोषाद्भासत इति समर्थने तथै­वा­स­न्नि­कृ­ष्ट­मपि निध्या­दि­क­म­ञ्ज­ना­दि­गु­णाद् भासत इति समर्थयितुं शक्यत्वेन प्रमायामपि तस्या­नु­ग­त­वि­शे­ष­का­र­ण­त्वा­भा­व­प्र­स­ङ्गात् । विशे­ष्य­वृ­त्ति­वि­शे­ष­ण­स­न्नि­क­र्षोऽपि न जन्य­प्र­त्य­क्ष­प्र­मा­नु­गतो गुणः परंपरासंबन्धेन स्फटि­क­वृ­त्ते­र्लौ­हि­त्यस्य तत्र साक्षा­त्सं­ब­न्धा­व­गा­हिनि भ्रमे तस्य साधारण्यात्, तत्त­त्सं­ब­न्ध­वि­शे­षेण वृत्ति­वि­व­क्षा­या­म­न­नु­ग­मात् । एतेन विशे­ष­ण­व­द्वि­शे­ष्य­स­न्नि­कर्षः तस्यां गुण इत्यपि निरस्तम्; ग्राह्य­य­था­र्थ­ज्ञा­नस्य तु जन्यप्रमामात्रे नान्व­य­व्य­ति­रे­काभ्यां विशेषकारणत्वं, व्यभिचारेण तदसिद्धेः । लोके शाब्दप्रमायां वक्तृ­वा­क्या­र्थ­य­था­र्थ­ज्ञा­नस्य कार­ण­त्व­द­र्श­नात्, यद्विशेषयोः कार्यकारणभावः बाधकं विना तत्सा­मा­न्य­यो­र­पीति व्याप्त्या तत्र तस्य कारणत्वसिद्धिः । न च व्यभिचारः; यत्रा­स्म­दा­दि­ग­त­ग्रा­ह्य­य­था­र्थ­ज्ञानं नास्ति, तत्र सर्व­त्रो­क्त­व्या­प्ति­ब­लेन पर­मे­श्व­र­ज्ञा­नस्य तथात्वेनापि कार­ण­त्व­क­ल्प­नो­प­प­त्ते­रिति चेद्, न; अप्रयोजकत्वात् । न च जन्य­प्र­मा­त्वा­व­च्छि­न्न­का­र्य­स्या­क­स्मि­क­त्व­प्र­सङ्गो विप­क्ष­बा­ध­क­स्तर्कः; जन्य­ज्ञा­न­त्वा­व­च्छि­न्न­ज्ञा­न­सा­मा­न्य­का­र­ण­क­ला­पस्य सत्त्वात्, तत्र तद्व­द्वि­शे­ष्य­क­त­त्प्र­का­र­क­त्व­स्या­व्य­व­स्थि­त­घ­ट­त्व­प­ट­त्वा­दि­प्र­वे­शेन अननुगतस्य अव­च्छे­द­क­को­टि­प्र­वे­शा­यो­गात् । अन्यथा वक्तृ­वा­क्या­र्था­य­था­र्थ­ज्ञा­नस्य शाब्दभ्रमे कारणत्वाद् 'यद्वि­शे­ष­यो'रि­त्यु­क्त­व्या­प्त्यैव भ्रममात्रे ग्राह्यभ्रमो हेतुः कल्पनीय इति परमेश्वरे नित्यप्रमावद् नित्य­भ्रा­न्ति­र­प्य­ङ्गी­क­र­णीया स्यात् । यत्तु तदभाववति तत्प्र­का­र­क­ज्ञा­न­म­पेक्ष्य लघु तद­भा­व­व­ज्ज्ञा­न­मेव भ्रमेषु दोषोस्तु, तत्तु भ्रमे धर्मिज्ञानरूपं सर्वत्र सुलभमिति नेश्वरे भ्रान्तिकल्पना प्रसज्यते, न चैवं प्रमायामपि लघु तद्वज्ज्ञानमेव गुणः स्यादिति वाच्यम्; इष्टापत्तेः, तावतापि पर­त­स्त्व­सि­द्धे­स्त­त्फ­ले­श्व­र­सि­द्धे­श्चा­प्र­त्यू­ह­त्वात् इति । तन्न; तदभाववत्त्वेन ज्ञानस्य भ्रम­वि­रो­धि­न­स्तत्र कारणत्वायोगात्, वस्तुतो यत् तदभाववत् तज्ज्ञानस्य विशे­ष­ण­ज्ञा­ना­दि­रू­पस्य प्रमासाधारण्येन भ्रमा­सा­धा­र­ण­का­र­ण­त्व­रू­प­दो­ष­त्वा­यो­गात् । तद­भा­व­व­द्वि­शे­ष्यकं ज्ञानं दोष इति चेद्, न; तद­भा­व­व­द्वि­शे­ष्य­का­ना­मपि ज्ञानानां प्रमाकारणानां बहुलमुपलम्भात् । तद­भा­व­व­द्भ्र­म­वि­शे­ष्य­वि­शे­ष्यकं ज्ञानं दोष इति चेद्, न; तद­भा­व­व­त्त्व­वि­शे­ष­ण­वै­य­र्थ्यात्, भ्रम­वि­शे­ष्य­स्या­रो­प्या­भा­व­व­त्त्व­नि­य­मात् । अस्तु तर्हि भ्रम­वि­शे­ष्य­वि­शे­ष्य­क­मेव ज्ञानं दोष इति चेद्, न; एतदपेक्षया भ्रम एव भ्रमे दोष इति कल्पनाया लघीयस्त्वात् । तस्माद् भूयोऽ­व­य­वे­न्द्रि­य­स­न्नि­क­र्षा­दीनां शङ्कानर्हत्वात् प्रमा­न्व­य­व्य­ति­रे­क­शा­लि­तया तदर्हस्य इन्द्रि­य­दो­षा­भा­व­स्यैव अधि­क­का­र­ण­त्व­नि­रा­क­र­णम् अनेनानुमानेन कृतम् । चक्षु­र्दो­षा­भा­वस्य तन्निराकरणमिदम् इन्द्रि­या­न्त­र­दो­षा­भा­वा­नाम् अधि­क­का­र­ण­त्व­नि­रा­क­र­णा­र्था­ना­मपि एत­च्छा­या­प­न्ना­नाम् अनु­मा­ना­न्त­रा­णा­मु­प­ल­क्ष­णम् । का तर्हि दोषा­भा­वा­न्व­य­व्य­ति­रे­क­यो­र्गतिः? दोषस्य प्रमा­प्र­ति­ब­न्ध­क­त्व­मेव । सत्यां सामग्र्यां कार्यविरोधि हि प्रतिबन्धकं लोके प्रसिद्धं, न तु नैयायिककल्पितं कार­णी­भू­ता­भा­व­प्र­ति­योगि; तैरपि साक्षादविरोधिनो ज्ञानस्य जन­क­ज्ञा­न­वि­घ­ट­क­स्यैव प्रतिबन्धकत्वम् इत्यादि वदद्भिः कार­णी­भू­ता­भा­व­प्र­ति­यो­गि­त­त्वे­ना­न­भ्यु­प­ग­त­मपि कार्या­नु­त्प­त्ति­व्या­प्य­मात्रं प्रति­ब­न्ध­क­मि­ष्यत एवेत्यलं विस्तरेण॥
ज्ञप्ति­स्व­त­स्त्व­मपि अनुमानारूढं करोति –
तथेति ।
उक्तविधेति ।
चक्षु­र्ग­त­गु­ण­ज्ञा­ना­धी­न­प्र­थ­म­प्रा­मा­ण्य­ज्ञानं न भवतीत्यर्थः । स्वतस्त्ववादे प्रथमं प्रामाण्यस्य कर­ण­गु­ण­ज्ञा­ना­न­पे­क्ष­ज्ञा­त्वेऽपि पश्चात् करणगुणेनापि तदनुमानं संभवतीति बाधवारणाय प्रथमविशेषणम् । परतस्त्ववादे प्रथममपि प्रमा­रू­प­ध­र्मि­ज्ञानं कर­ण­गु­ण­ज्ञा­ना­न­धीनं संभवतीति सिद्धसाधनवारणाय प्रामाण्यपदम् । गुणपदं पूर्ववद् निर्दो­ष­त्व­ध­र्म­प­रम् । ननु परतस्त्ववादिभिः कर­ण­दो­षा­भा­व­लि­ङ्गा­दिव सम­र्थ­प्र­वृ­त्ति­लि­ङ्ग­सं­वा­दा­भ्या­मपि प्रथमं प्रामाण्यस्य शेयत्वमिष्यते, तदु­भ­य­ज्ञे­य­त्व­नि­रा­सोऽ­ने­ना­नु­मा­नेन न सिध्यतीति चेत्, सत्यम्; सम­र्थ­प्र­वृ­त्ति­सं­वादौ तद­यो­ग्य­वै­दि­का­र्था­दि­ज्ञा­न­प्रा­मा­ण्या­व­धा­रणे न संभवतः, कर­ण­दो­षा­भा­वा­ज्ञानं तु सर्वत्र संभवतीति तद­धी­न­प्र­थ­म­ज्ञा­न­त्व­म­ने­ना­नु­मा­नेन निरस्तम् । तथा च यस्यां प्रमायां कर­ण­दो­षा­भा­व­लि­ङ्ग­क­मेव पर­त­स्त्व­वा­द्य­भि­मतं प्रामा­ण्य­ग्रा­हकं प्रवर्तते सैवात्र पक्षो, न तु सम­र्थ­प्र­वृ­त्ति­सं­वा­दा­व­सि­त­प्रा­मा­ण्येति न सिद्धसाधनम् । तद­व­सि­त­प्रा­मा­ण्यायां तु प्रमायां स्वतस्त्वे एतद्घटप्रमा, एत­द्घ­ट­वि­ष­य­स­म­र्थ­प्र­वृ­त्ति­सं­वा­दा­धी­न­प्र­थ­म­प्रा­मा­ण्य­नि­श्चया न भवति, प्रमात्वात् पट­प्र­मा­व­दि­त्य­न­यैव रीत्या तत्रा­प्य­नु­मा­न­मु­न्नेतुं शक्यमिति न प्रदर्शितम् । एवंच परतस्त्वनिषेधे प्रामाण्यस्य स्वाश्र­य­स­ह­भा­न­नि­य­म­रू­प­स्व­त­स्त्व­सिद्धिः । ननु एवं सति यस्यां रूपप्रमायां करणदोषशङ्कया प्रामाण्यसंशये सति तन्नि­र्दो­ष­त्व­नि­श्च­येन प्रामा­ण्य­नि­श्चयः, तत्र साध्यस्य बाधः स्यादिति चेद्, न; अतथाभूताया इह पक्षीकरणात्, तत्प्र­ति­प­त्त्य­र्थ­त्वा­दे­षेति प्रक्षविशेषणस्य ।
तथाविधेति ।
ननु इह साक्षा­त्प्र­वृत्तेः कर­ण­गु­ण­ज्ञा­ना­धी­नत्वं न निषेध्यम्; पर­त­स्त्व­वा­दि­भि­रपि तस्याः साक्षा­त्स­मा­न­वि­ष­य­र­ज­ता­दि­ज्ञा­न­ज­न्य­त्व­स्यैव अभ्युपगतत्वात् । नापि प्रामा­ण्य­नि­श्च­य­द्वारा; प्रामा­ण्य­नि­श्चयो न प्रवृ­त्त्य­र्थ­म­पे­क्षितः, अन­व­स्था­प्र­स­ङ्गात्, किंत्व­प्रा­मा­ण्य­श­ङ्का­शून्यं समा­न­वि­ष­य­ज्ञा­न­मे­वेति तैर­भ्यु­प­ग­त­त्वात् । न च वाच्यं करणदोषसंशयेन प्रव­र्त­क­ज्ञा­न­स्या­प्रा­मा­ण्य­श­ङ्कया प्रवृ­त्ति­प्र­ति­बन्धे प्रसक्ते निर्दो­ष­त्व­रू­प­क­र­ण­गु­ण­ज्ञा­न­ज­न्येन प्रामा­ण्य­नि­श्च­येन तच्छ­ङ्का­नि­रा­स­पू­र्विका यत्र प्रवृत्तिः तत्र तस्याः कर­ण­गु­ण­ज्ञा­ना­धी­नत्वं पर­त­स्त्व­वा­द्य­भि­मतं निषेध्यम् इति; स्वत­स्त्व­वा­दि­भि­रपि तस्या­ङ्गी­क­र्त­व्य­त्वेन तन्निषेधे बाधापत्तेरिति चेत्, सत्यम्; प्रामा­ण्य­नि­श्च­य­वत् प्रवृत्तिरपि करणगुण ज्ञानाधीनेति परतस्त्ववादिषु केषां­चि­न्म­त­मा­लक्ष्य तन्नि­षे­धा­र्थ­मि­द­म­नु­मा­नम् ।
सर्व­त­न्त्र­सि­द्धार्थ इति ।
यद्य­प्य­ख्या­ति­मते अन्य­स्या­न्या­त्म­तया भानमेव न सिद्धम् । अन्यथाख्यातिमते तत्सिद्धावपि अन्या­त्म­ताऽ­नि­र्व­च­नी­ये­त्ये­त­द­सि­द्धम्; तथापि प्रागु­क्त­युक्त्या तथाऽ­व­श्या­भ्यु­प­ग­न्त­व्य­ता­मा­पाद्य सर्व­त­न्त्र­सि­द्धा­र्थ­त्वोक्तिः ।
रजतवदिति न सादृ­श्य­वि­व­क्षेति ।
ननु 'तेन तुल्यं क्रिया चेद्व­ति'रिति सूत्रेण क्रियया सदृशे वतिरनुशिष्टः, न तु मिथ्याभूते, अथ सदृशवाचिनो मिथ्याभूते लक्ष­णे­त्यु­च्येत, नैतद्युक्तम्; यथा रजतं रजतात्मना भासते, तथा शुक्तिकापि रजतात्मना भासत इति वतिना रज­त­ता­दा­त्म्य­भा­न­वि­ष­य­त्व­रूपे रजतसादृश्ये शुक्तिकायाः प्रतिपादिते सति असन्निहितस्य रजतस्य तत्तादात्म्यस्य चात्र प्रत्य­क्षा­यो­गे­ना­र्था­न्मि­थ्या­भू­त­र­ज­त­त­त्ता­दा­त्म्य­सि­द्धि­सं­भ­वा­दिति चेत्, सत्यम्; अर्थतः सिध्यति, रज­त­त­त्ता­दा­त्म्य­मि­थ्यात्वे रजतवदवभासत इति व्यवहर्तुलोकस्य तात्पर्यं, न तु द्वारभूते शुक्ति­का­ग­त­र­ज­त­सा­दृश्ये इत्याशयेन सादृश्ये न विवक्षा किन्तु मिथ्यात्वे इत्युक्तम् । यद्वा यथा सादृश्यवाचिन इवशब्दस्य वतेश्च दूरादागच्छन् देव­द­त्त­व­द्भा­ती­त्या­दि­प्र­यो­गा­दु­त्क­ट­को­टि­क­सं­श­य­रूपा तादा­त्म्य­सं­भा­व­नाऽ­प्यर्थः । एवं शुक्तिका मिथ्या­र­ज­ता­त्म­नाऽ­व­भा­सत इत्य­र्थ­वि­व­क्षा­वतां रजतवदवभासत इत्या­दि­व्य­व­हा­र­द­र्श­नात् मिथ्यात्वमपि तदर्थ इत्याशयेन तथोक्तमिति सर्वमनवद्यम् ।
स्वप्र­का­श­फ­ल­स्येति ।
ननु तथा हीत्या­दि­ग्र­न्थेन प्रथमं संविदः स्वप्र­का­श­त्व­मे­वो­प­पा­द्यते, तत्कथं प्रतिपाद्यत्वेन नावतार्यते? कथं च स्वप्र­का­श­त्व­प्रति पादनानन्तरं प्रतिपाद्यमानः परपक्षे संवि­दोऽ­र्थ­प्र­का­श­त्वा­सं­भवः, स्वपक्षे एवार्थजातस्य संविद्विवर्ततया संविदभेदेन संविदः स्वाभि­न्ना­र्थ­प्र­का­श­त्व­सं­भ­वश्च प्रतिपाद्यत्वेन नावतार्यते? तदनन्तरं संविदो जन्मादिनिषेधेन प्रतिपाद्यमानम् आत्मत्वमेव केवलं प्रति­पा­द्य­त्वे­ना­व­ता­र्यते? उच्यते; संविदाश्रयत्वेन आत्मसिद्धिं वदतां संविदः स्वप्र­का­श­त्व­म­भि­म­त­मे­वेति तदुपपादनम् अनु­वा­द­मा­त्र­मि­त्या­श­येन तत् स्वप्र­का­श­फ­ल­स्ये­त्य­नु­वा­द्य­कोटौ निवेशितम् । संविदः परपक्षे अर्थ­प्र­का­श­त्वा­सं­भ­व­प्र­द­र्श­न­पू­र्व­कम् अर्थ­जा­त­स्या­नि­र्व­च­नी­य­त्व­पक्ष एव तत्संभवोपपादनम् अर्थजातस्य अनि­र्व­च­नी­य­व­व्य­व­स्था­प­न­प­र्य­व­सन्नं सत्स्व­रू­प­तोऽ­न­नु­भ­य­मा­न­भे­दायाः संविदो नार्थोपाधिको भेदस्तस्य मिथ्यात्वादिति संविदो नित्या­त्म­स्व­रू­प­त्वो­प­पा­द­क­त­यैव प्रकृतोपयोगिता । अन्यथा कथं 'सत्यं ज्ञानमिति' श्रुते­र्ज्ञा­ना­त्मा­भेदे तात्पर्यं द्रागेव निश्चेतुं शक्यम्? इह हि ज्ञान­प­द­म­न्तो­दा­त्त­म­धी­यते । अन्तो­दा­त्त­स्व­रश्च केवलं ल्युडन्ततायां नोपपद्यते । तथाहि ल्युडादेशस्य अन इत्यस्य 'आद्यु­दा­त्तश्चे'ति प्रत्ययस्वरेण प्रथमाकारे उदात्ते 'लितीति' लित्स्वरेण प्रकृत्याकारे चोदात्ते 'अनुदात्तं पद­मे­क­व­र्ज'मिति शेषनिघातस्वरेण प्रत्य­य­स्थ­यो­र­का­र­यो­र­नु­दा­त्तयोः 'एकादेश उदा­त्ते­नो­दात्त' इत्ये­का­दे­श­स्व­रेण प्रकृ­त्या­का­र­प्र­त्य­या­द्य­का­र­यो­रे­का­देशे चोदात्ते सति प्रत्य­या­न्त्या­का­र­स्या­नु­दा­त्तस्य विभक्त्यकारस्य च 'अनुदात्तौ सुप्पि­ता'विति सुप्स्व­रे­णा­नु­दा­त्तस्य 'अमि पूर्व' इत्येकादेशो भवन् स्थानेऽन्तरतम इति परि­भा­ष­याऽ­नु­दात्तः स्यात् । तस्य चानुदात्तस्य 'उदा­त्ता­द­नु­दा­त्तस्य स्वरित' इति स्वरितादेशो भवेत् । अत एतद् ज्ञानमिति पदं केव­ल­ल्यु­ड­न्तत्वे स्वरितान्तं स्यात् । यथा काठके 'संज्ञानं विज्ञानं प्रज्ञा­न'मिति । तस्मा­द­न्तो­दा­त्त­नि­र्वा­हा­र्थ­मिदं ज्ञानपदं ल्युडनन्तरं मत्व­र्थी­या­च­प्र­त्य­यान्तं वाच्यम् । अर्श­आ­दे­रा­कृ­ति­ग­ण­त्वात् । तथा सत्य­न्तो­दा­त्त­स्वर उपपद्यते । अश­आ­द्य­च्प्र­त्यये 'यस्येति चेति' प्रकृ­ता­व­न्त्य­स्या­का­रस्य लोपे 'चित' इति चित्स्वरेण मत्व­र्थी­य­प्र­त्य­य­स्यो­दा­त्तत्वे च सति तस्य विभक्त्यकारस्य चैकादेशस्यापि 'एकादेश उदा­त्ते­नो­दात्त' इत्युदात्तस्यैव भावात् । एवमिह ज्ञान­प­द­प्र­क्रि­या­श्र­यणे ज्ञान­व­त्त्व­मे­वा­त्मनः सिध्येद्; न ज्ञानरूपत्वं, किं त्वौणा­दि­क­न­प्र­त्य­या­न्त­त्वेन तत्सिध्येत् । ज्ञाधातोराहत्य नप्र­त्य­य­वि­धा­ना­भा­वेऽपि 'जणादयो बहुलमि'ति बहुलग्रहणेन यतो विहि­ता­स्त­तोऽ­न्य­त्रापि ते भवन्तीति सिद्धेः । औणा­दि­क­प्र­त्य­या­न्तत्वे भावा­र्थ­त्व­म­प्यु­प­प­द्यते, अर्श­आ­दि­सू­त्र­वि­हि­त­म­न्प्र­त्य­या­न्तस्य होमशब्दस्येव अन्तो­दा­त्त­स्व­रश्च युज्यते; नप्रत्ययाकारस्य प्रत्य­य­स्व­रे­णो­दा­त्तवे सति तस्य तद्वि­भ­क्त्य­का­रेण भवत एका­दे­श­स्या­प्यु­दा­त्त­स्यैव भावात् । एवमुभयथेह ज्ञान­प­द­प्र­क्रि­या­श्र­य­ण­सं­भवे कथमस्याः श्रुतेः संविदात्माभेदे तात्पर्यं निर्णीयत इत्या­का­ङ्क्षायां तत्र तत् तात्प­र्य­नि­र्ण­या­र्था­मु­प­प­त्ति­मु­प­प­द्यते चेति प्रतिज्ञाय तामेवोपपत्तिं प्रदर्शयितुं टीकायां तथा हीत्यादिग्रन्थः प्रवर्तितः ।
अतोऽत्र स्वप्र­का­श­त्वा­दि­व्य­व­स्था­प­नस्य न साक्षा­द­न्व­य­सं­घ­ट­ने­ती­त्थ­म­व­ता­रिका –
नन्वभ्युपेयते इति ।
ननु चाभ्युपगमे को हेतुः, स्वयमभासमानमपि ज्ञान­म­र्थ­प्र­का­श­रू­प­मस्तु, न च तथात्वे तस्य चक्षु­रा­दि­व­द­र्थ­प्र­का­श­क­त्व­मेव स्याद्, न तु तत्प्र­का­श­रू­प­त्व­मि­त्य­न­व­स्थेति वाच्यम्; अप्रयोजकत्वेन उक्त­नि­य­मा­सि­द्धे­रिति चेद्, न; तथा सति घटज्ञानादिषु सत्सु कदा­चि­त्सं­दे­ह­वि­प­र्या­सा­पत्तेः प्रका­शा­व्य­भि­चा­रि­ण्येव सुखादौ संश­य­वि­प­र्या­सा­नु­द­य­द­र्श­नात्, एतावन्तं कालं मनसा रुदा­नु­वा­का­ना­व­र्त­य­न्ना­स­मिति परा­म­र्शा­नु­प­प­त्तेश्च । न हि तत्त­द्व­र्ण­स्मृ­तीनां स्वस्वकाले भानाभावे साम­ग्री­म­प­रा­मर्शो भवितुमर्हति । न च इच्छा­घ­टि­त­सा­म­ग्री­ज­न्य­नि­र­न्त­र­क्र­मि­क­व­र्ण­वि­ष­य­स्म­र­ण­स­न्ता­नो­द­य­काले मध्ये मध्ये प्रति­स्म­र­ण­म­नु­व्य­व­सा­यो­त्पत्तिः संभवति ।
आत्म­स्व­प्र­का­श­त्व­वा­द्या­हेति ।
अभ्युपेतव्या इत्ये­त­द­न्त­मु­क्त­वा­ना­त्म­स्व­प्र­का­श­वा­द्येव । आत्मनः प्रकाशमानत्वं स्वप्र­का­श­फ­ला­भे­दे­नैव उपपादनीयं, नान्यथा । तस्य प्रकाशमानत्वं भव­ती­त्ये­व­मु­प­पा­द­यि­तु­मा­हे­त्यर्थः ।
अनुपयोग उक्त इति ।
सहभावस्य प्रका­श­मा­न­ता­या­म­नु­प­योग उक्तः । उपयोगमङ्गीकृत्य तस्या­व्या­प­क­त्व­मा­हे­त्यर्थः ।
विशे­ष­ण­स्या­सि­द्धि­मा­हेति ।
बाधदोषः स्फुट इति मत्वा दोषा­न्त­र­मा­हे­त्यर्थः ।
तां परिहरतीति ।
असिद्धिं परिहरन् पूर्ववादी शङ्कत इत्यर्थः ।
जड­त्वा­न्ना­र्थ­वि­ष­य­प्र­का­श­श्चे­दिति ।
अर्थ­वि­ष­य­हा­ना­दि­ज­न­क­त्व­मात्रं न ज्ञान­स्या­र्थ­वि­ष­य­ता­नि­या­मकं, किन्तु तज्ज­न­क­प्र­का­श­त्वम्; तथा च जडे देहात्मसंयोगे न प्रसङ्ग इति शङ्कार्थः ।
स्वप्रकाशत्वात् स्वमात्रे साक्षीति ।
दृश्यवर्गस्य संवि­द्भि­न्न­ता­भ्यु­प­गमे संविदः स्वात्मानं प्रति प्रकाशत्वं ह्यभे­द­सं­ब­न्धे­नैव क्लृप्तमिति तं प्रति सा जडरूपा देहा­त्म­सं­यो­ग­तुल्या न प्रकाशरूपेति नोक्तनियामकेन तस्या दृश्य­व­र्ग­वि­ष­य­त्व­सि­द्धि­रि­त्यर्थः । ननु यद्वि­ष­य­त्व­नि­या­म­क­म­न्वि­ष्यते तं प्रति प्रकाशत्वं प्रकाशशब्देन न विवक्षितम्; तथा सति ह्यात्माश्रयः स्यात्, किन्तु ज्ञान­त्व­सा­मान्यं विवक्षितम्, अतो नोक्तदोष इति चेद्, न; एवमपि गग­ना­दी­ना­म­ती­ता­ना­ग­त­योश्च हाना­द्य­वि­ष­य­त्वेन तद्वि­ष­य­ज्ञा­ना­व्या­प­नात्, ताम्रादिज्ञाने तदु­प­ष्ट­म्भ­क­का­लि­का­दे­र­प्यु­पा­दा­न­ज­नके कालि­का­दि­वि­ष­य­त्व­स्या­प्या­प­त्तेश्च । एतेन परो­क्षा­प­रो­क्ष­वृ­त्ती­ना­मि­च्छा­द्वे­ष­वृ­त्तीनां हाना­दि­व्या­पा­राणां च तत्तद्भिन्नेऽपि तद्विषये विष­य­त्व­नि­य­मार्थं कस्य­चि­न्नि­या­म­कस्य अव­श्या­न्वे­ष्य­त्वेन तथाभूतं नियामकं संविद्भिन्नेऽपि संविदः तत्त­द्वि­ष­य­त्व­नि­या­मकं भविष्यतीत्यपि शङ्का निरस्ता; संविदः स्वप्र­का­श­ता­या­म­भे­दस्य नियामकस्य क्लृप्तत्वेन दृश्य­व­र्ग­प्र­का­श­तायां निया­म­का­न्त­र­स्या­न­नु­ग­मा­व­हस्य कल्प­यि­तु­म­यु­क्त­त्वात् ।
ननु संविदः स्वभिन्ने नास्ति प्रकाशरूपतेति ब्रूषे, संवि­त्प्र­प­ञ्च­यो­र­भेदं च तात्त्वि­क­म­पा­कु­रुषे, अध्या­स­प्र­ति­क्षे­पार्थं प्रवृत्तश्च नाध्यासिकं तमङ्गीकुरुषे, किन्तु जगदान्ध्यमेव वक्तु­म­ध्य­व­सि­तोऽ­सी­त्या­श­ङ्क्याह –
सिद्धा­न्त्य­भि­म­ता­मिति ।
सर्वोऽयं सिद्धान्त्यभिमत एवार्थ आत्मनः अधि­ष्ठा­न­त्वा­सं­भ­वो­प­पा­द­ना­र्थ­म­नू­द्यते । सिद्धान्ती खलु संवित् स्वप्रकाशेति तस्याः स्वाभिन्न एव प्रकाशरूपत्वस्य क्लृप्तत्वात् खभिन्ने दृश्यवर्गे तस्याः प्रकाशरूपता न संभवति, तात्त्विकश्च दृग्दृ­श्य­यो­र­भेदो न युज्यते, अतो दृश्यवर्गस्य संवि­द्वि­व­र्त­त­याऽ­नि­र्व­च­नी­येन तदभेदेन प्रकाशमानता । एवं चानु­भ­वा­मी­त्ये­क­रू­प­प्र­त्य­य­द­र्श­नेन संविदां स्वात्मे भेदा­प्र­ती­ते­र­र्था­ना­म­नि­र्वा­च्य­तया तद्भेदेन रङ्ग­र­ज­ता­दि­भ्र­म­वि­ष­य­भे­देन भ्रमा­धि­ष्ठा­न­शु­क्ति­श­क­ल­स्येव भास्करमतरीत्या औपा­धि­क­व­स्तु­कृ­त­भे­दा­सं­भ­वाच्च नित्या संविदिति नित्य­सं­वि­द­ति­रे­केण आत्मकल्पनायां प्रमाणाभावात् संवित्प्रकाश एव स्वयंप्रकाश एकः कूटस्थो निरंशः प्रत्यगात्मेति मन्यते । तस्य मते प्रत्य­गा­त्म­रू­पस्य प्रकाशस्य करणदोषाजन्यतया निरंशतया च सामा­न्य­ग्र­ह­ण­वि­शे­षा­ग्र­ह­णा­सं­भ­वात् कथ­म­ध्या­सा­धि­ष्ठा­न­ते­त्येवं सिद्धा­न्ति­म­ता­नु­सा­रे­णै­वा­यम् अध्यासाक्षेपः क्रियत इत्याशयः ।
आजानतः स्वभावत इति ।
तथा च स्वाभाविकभेदो नानुभूयते, किंत्व­नु­भ­वा­मी­त्ये­क­रू­प­प्र­त्य­येन अभेद एवावसीयते । न चानुगतप्रत्ययो जात्यैक्यविषयः; व्यक्ति­भे­दा­प्र­तीतौ लाघवेन तस्य व्यक्त्यै­क्य­वि­ष­य­त्व­क­ल्प­नौ­चि­त्यात् । न च इच्छाया अपि इच्छा­मी­त्य­नु­ग­त­प्र­त्य­यात् स्वतो भेदाप्रतीतेश्च नित्य­त्व­प्र­सङ्गः, ममैतदिच्छा नष्टा एतदिच्छा उत्पन्नेति नाशो­त्प­त्त्य­नु­भ­व­वि­रो­धेन अनुगतप्रत्ययस्य जाति­वि­ष­य­त्व­क­ल्प­नात् । न च ज्ञान इवेच्छायामपि नाशो­त्प­त्त्य­नु­भ­वस्य अव­च्छे­द­क­वृ­त्ति­वि­ष­यत्वं कल्पयितुं शक्यम्; इच्छायाम् अव­च्छे­द­क­वृ­त्ति­क­ल्पने प्रमाणाभावात् । ज्ञाने तत्कल्पने त्वस्ति प्रमाणम् । सर्वस्य हि प्रपञ्चस्य नित्यै­क­दृ­ग­ध्य­स्त­त्वेन प्रका­श­मा­न­तो­प­यो­ग्य­भेद उपपादनीयः, न तु तत्तद्विषयस्य तत्त­दृ­ग­ध्य­स्त­त्वेन; लब्धात्मनि अधिष्ठाने भासमाने पश्चादध्यासस्य वक्तव्यत्वेन विषयाध्यासात् पूर्वं चाक्षु­षा­दि­ज्ञा­नानां विषयं विनापि भानप्रसङ्गात् । न च सर्वस्य प्रपञ्चस्य एकदृगध्यस्तत्वे तत्तज्ज्ञानानां विषयनियमासंभवः; अव­च्छे­द­क­वृ­त्ति­कृ­त­वि­ष­य­नि­य­मो­प­प­त्ते­रिति भावः ।
नन्व­हं­वृ­त्ति­रू­प­सा­क्षा­त्का­रे­णा­र्था­न्त­र­दु­ष्ट­म­नु­मानं; सुख­म­ह­म­स्वा­प्स­मिति परा­म­र्शा­नु­प­पत्त्या सुषु­प्ता­व­हं­वृत्तेः अव­श्या­भ्यु­प­ग­न्त­व्य­त्वात् तथा­भू­त­प­रा­म­र्श­द­र्श­न­स्यैव अनुमानग्राहकतया तवा­प्यु­प­जी­व्य­त्वात्, इत्याशङ्क्याह –
न च सुप्ताविति ।
सुषु­प्ता­व­न्तः­क­र­ण­ल­यस्य श्रुति­सि­द्ध­त्वेन तदा­नी­म­हं­वृ­त्त्य­सं­भ­वात् स्वरूपतः सुषुप्तौ साक्षात्कृते प्रत्यगात्मनि सुप्तो­स्थि­त­प­रा­म­र्श­स्ता­त्का­लि­का­ह­म­र्था­नु­रा­ग­वि­षयो वक्तव्य इत्याशयः ।
यथा खल्व­भि­ज्ञा­या­मिति ।
ननु देव­द­त्तोऽ­य­मि­त्य­भि­ज्ञा­या­मि­द­मर्थे यद् देवदत्तैक्यं भासते, तद्वि­वि­क्त­मु­ल्लि­ख्यत एव; यत्तु तत्र तत्ता­वि­शि­ष्टैक्यं विविक्तं नोल्लिख्यते, तन्नभासत एव; अतो भासमानस्य विवि­क्तो­ल्ले­खा­भावे नेदमुदाहरणमिति चेद्, न; एक­स्मि­न्नि­द­मर्थे ऐक्यद्वयाभावेन भासमान एव देवदत्तैक्ये तत्तो­पा­धि­प­रा­म­र्शा­भा­वेन तत्ते­द­न्ता­वि­शि­ष्टा­भे­द­रू­प­तया उल्ले­खा­भा­व­रू­पस्य विवि­क्ता­नु­ल्ले­खस्य विवक्षितस्य सत्त्वात् ।
दुःख­प्र­त्य­नी­क­त्वा­दि­रू­पे­णेति ।
ननु दुःख­प्र­त्य­नी­कत्वं दुःखविरोधित्वं, दुःख­व्या­व­र्त­क­सु­खत्वं वा । नाद्यः स्रक्चन्दनादि विषयभोगदशायां दुःख­स्म­र­ण­र­हि­तानां तज्जन्यानन्दे दु:खवि­रो­धि­त्व­प­रा­म­र्शा­सं­भ­वात्, तदनुभवस्य अस­त्क­ल्प­त्वे­ना­पु­रु­षा­र्थ­त्व­प्र­स­ङ्गात्, मुक्तौ कथमपि दुःख­स्म­र­ण­प्र­स­क्त्य­भा­वेन मुक्त्या­न­न्दा­नु­भ­व­स्या­पु­रु­षा­र्थ­त्व­प्र­स­ङ्गाच्च । अत एव न द्वितीयोऽपि, मुक्तौ सुख­त्वा­दि­प्र­का­र­का­नु­भ­वा­भा­वात् इति चेत्, उच्यते; निरतिशये स्वरूपानन्दे संसारदशायां अवि­द्या­न्तः­क­र­णो­प­धा­न­दो­षात् अस्त्य­ध्य­स्तोऽ­प­क­र्षस्तं विनाऽ­नु­भ­वा­भा­वा­दिति विवक्षितम् । तथा चाध्य­स्ता­प­क­र्ष­यु­क्त­तया गृही­तोऽ­प्या­नन्दो मेघा­व­र­ण­कृ­ता­प­क­र्ष­सौ­रा­लो­क­व­द­गृ­हीत इव भातीति तात्पर्यम् । यद्वा सक­ल­सां­सा­रि­क­दुः­ख­वि­रोधि यत् स्वरूपानन्दे निर­ति­श­या­न­न्दत्वं तदनुभवाभावादिति विवक्षितम् । तच्च स्वरूपाभिन्नमेव मुक्त्या­न­न्दा­नु­भवे प्रकारो महा­वा­क्य­ज­न्य­ब्र­ह्मा­भि­न्न­स्व­स्व­रू­प­सा­क्षा­त्कार इव अभे­द­प्र­ति­यो­गि­ब्र­ह्म­रू­प­मिति न कश्चिद्दोषः । आनन्दादय इत्यादिशब्देन नित्यत्वादयो गृह्यन्ते ।
आनन्दादीनामिति ।
ननु आनन्दादीनामिव बुद्ध्या­दि­भे­द­स्यापि वास्तवत्वेन अद्वि­ती­य­चै­त­न्यै­क­र­स­ताऽ­व­श्या­भ्यु­प­ग­न्तव्या; आत्मनि बुद्ध्या­द्य­भे­दा­ध्या­स­वा­दि­न­स्तत्र तद्भे­दोऽ­प्य­ध्यस्त इत्यु­क्त्य­यो­गात्, अभेदाभावे तदा­त्म­क­भे­द­प्र­ति­क्षे­पा­सं­भ­वात् । न च बुद्ध्यादेः स्वरू­प­तोऽ­ध्य­स्त­त्वा­दा­त्मनि वस्तुतो न तद्भेदो, नापि तदभेद इति वाच्यम् । अध्यस्तादपि रजतात् शुक्तौ तज्ज्ञा­ना­बा­ध्य­बा­ध­गो­च­र­भे­द­द­र्श­नात् इति चेद्, न; शुक्त्या­दि­ग­त­र­ज­ता­दि­भे­द­स्यापि सर्व­प्र­प­ञ्च­नि­व­र्त्त­क­ब्र­ह्म­ज्ञा­न­बा­ध्य­त्वा­भ्यु­प­ग­मेन तद्वत् संसा­र­द­शा­या­म­बा­ध्य­स्यापि बुद्ध्या­दि­भे­दस्य तद्बा­ध्य­त्वो­प­पत्तेः । यदि च स वास्तव एवा­द्वि­ती­य­चै­त­न्यै­क­र­सस्य इष्यते, तथापि न दोषः; बुद्ध्या­दि­प्र­ति­यो­गि­क­त्वा­प­रा­म­र्शात् सोऽप्यगृहीत इव भातीति वक्तुं शक्यत्वात् । अयमपि टीका­का­रा­णा­मा­चा­र्याणां च संमतः पक्षः ।
अत एव सौत्रा­थ­श­ब्द­वि­चा­र­प्र­स्तावे अन्तः­क­र­णा­द्य­भा­वस्य ब्रह्म­स्व­रू­पा­न­ति­रि­क्त­तया वास्तवत्वेनैव शुद्ध­त्वा­द्य­व­गा­हि­ब्र­ह्म­सा­क्षा­त्का­र­वि­ष­यत्वं समर्थयिष्यते –
अस्म­त्प्र­त्य­य­वि­ष­य­त्व­म­पीति ।
ननु चैतन्यस्य अख­ण्डा­न­न्दा­त्म­क­शु­द्ध­स्व­रू­पेण अहं­वृ­त्त्य­वि­ष­य­त्वेऽ­प्यौ­पा­धि­क­रू­पेण तद्विषयत्वं प्राग­नु­प­द­मे­वोक्तं, वक्ष्यते च शब्दा­प­रो­क्ष­नि­रा­क­रणे, औपा­धि­क­रू­पा­प­न्नश्च जीवः, तस्य कथमिह तद्विषयत्वम् औप­चा­रि­क­मि­त्यु­च्यते, तस्य तद्विषयत्वाभावे च तस्या­स्म­दु­ल्लेखो न स्याद­न्तः­क­र­ण­मा­त्र­वि­ष­य­त्वा­दि­द­मु­ल्लेख एव स्यात्, सत्यम् । अह­म­र्था­नु­प्र­वि­ष्टा­नि­द­मं­श­रू­पस्य सुखादिसाक्षिणः स्वप्र­का­श­स्या­ज्ञा­नो­पा­धि­कस्य जीव­स्या­हं­वृ­त्ति­वि­ष­यत्वं प्रागुक्तं, वक्ष्यते च, इह तु तस्येदमंशस्येव अहं­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­वि­ष­यत्वं मुख्यं नास्तीति तदौ­प­चा­रि­क­मि­त्यु­च्यते । एवं च न कर्म­क­र्तृ­त्व­वि­रोध इति चैत­न्य­क­र्म­त्व­प्र­यु­क्तस्य विरोधस्य परिहारः । वृत्ति­क­र्म­त्व­प्र­यु­क्तस्य तु पञ्चा­ग्नि­वि­द्या­या­मु­पा­स­ना­क­र्म­त्व­प्र­यु­क्त­स्येव कथंचिद्रूपभेदेन परिहार आस्थेयः । अहं सुखी­त्या­द्य­नु­भ­वात् सुखा­दि­वि­शि­ष्ट­रू­पेण कर्मत्वम्, अन्तः­क­र­ण­वि­शि­ष्ट­रू­पेण कर्तृत्वमिति ।
अप्र­का­श­स­म­र्थ­ने­नेति ।
निर­ति­श­या­न­न्दा­त्म­कस्य शुद्ध­त्व­रू­प­स्येति शेषः ।
अभिव्यक्तं स्वरूपज्ञानमिति ।
चर­म­सा­क्षा­त्का­र­रू­पायां वृत्ता­व­भि­व्यक्तं स्वरूपज्ञानमेव अवि­द्या­नि­व­र्त्त­कम्; यथा सूर्यकान्तारूढं सौरं तेज एव तृणदाहकं तद्वत्, न तु वृत्ति­र­वि­द्या­नि­व­र्तिका जड­त्वा­दि­त्या­श­येन कर्मधारयोक्तिः ।
स्वयमेवेति स्वभाववादिन इति ।
वत्स­वि­वृ­द्ध्यर्थं क्षीरमिव पुरु­ष­भो­गा­प­व­र्गार्थं प्रधानं स्वयमेव प्रवर्तते इति वदतः साङ्ख्यस्य शङ्कायाः विवरणार्थत्वेन योजयितुं शक्यत्वेऽपि साङ्ख्यमते पुरु­ष­स­न्नि­धा­न­मा­त्रस्य अपेक्षितत्वात् तस्या­पे­क्षा­म­व­दतः स्वभाववादिनो मते स्वय­मे­वे­त्ये­व­का­रस्य स्वारस्यमस्तीति स्वभा­व­वा­दि­म­त­प­र­तया योजितम् ।
प्रमा­श्र­य­त्वे­नापि समर्थयतीति ।
न च प्रमा­तृ­त्व­म­न्त­रे­णेति भाष्यं पूर्व­भा­ष्य­शे­ष­त्वेन प्रतीयमानमपि प्रमा­तृ­त्वा­नु­प­पत्तौ प्रमा­ण­प्र­वृ­त्य­नु­प­प­त्ते­रिति पूर्व­भा­ष्य­ग­त­वा­क्येन पौन­रु­क्त्य­प­रि­हा­राय युक्त्य­न्त­प­र­त्वेन व्याख्यायत इति भावः ।
प्रमाश्रयत्वं हीति ।
नही­न्द्रि­या­ण्य­नु­पा­दा­ये­त्या­दि­भाष्ये प्रमातृत्वं प्रमा­क­र­णा­दि­प्र­यो­क्तृ­त्व­रूपं प्रमा­क­र्तृ­त्व­मिति प्रमा­ण­प्रे­र­क­त्वेन अध्या­स­स­म­र्थ­ना­र्थ­मु­क्तम्, इह तु चिद्र­प­त­याऽ­प­रि­णा­म­त्वे­ना­चि­द्रू­प­तया च चिद­चि­त्सं­व­ल­न­रूपा या प्रमा तदाश्रयत्वं केवलचितः केवलाचितश्च न संभवतीति प्रमा­श्र­य­त्वे­ना­ध्या­स­स­म­र्थ­नार्थं प्रमातृत्वं प्रमा­श्र­य­त्व­मिति व्याख्यायते । यद्य­प्यु­भ­य­था­प्य­ध्या­स­स­म­र्थनं प्रत्यगात्मनः कौटस्थ्यं सिद्धं कृत्वा, प्रवृत्तं तत्कौटस्थ्ये विप्रतिपद्यमानं प्रति नोपन्यासार्हम्; तथापि श्रुतिसिद्धं तत्कौटस्थ्यं प्रामाणिकानां न विप्र­ति­प­त्त्य­र्ह­मिति तात्पर्यम् ।
अनेनेति ।
नावि­द्या­व­न्त­मिति शङ्काग्रन्थो हि विरोधाभिप्रायः । स तु विद्याया एवा­चि­त्सं­व­लि­त­रू­प­त्वे­ना­वि­द्या­ग­र्भ­त्वा­न्नास्ति विरोध इति परिहृत इत्यर्थः । अनु­प­यो­ग­प­रि­हा­रा­र्थ­स्ता­मे­वेति ग्रन्थः ।
अध्यासमपेक्ष्य प्रमा­ण­प्र­वृ­त्ते­स्तेन प्रमोपयोगकथनात् इत्यवतारयति –
तत्त्वेति ।
इह यदि प्रमातृत्वं प्रमा­क­र­णा­दि­प्रे­र­क­त्व­रूपं प्रमायां स्वातन्त्र्यं, तदा प्रमा­ण­प्रे­र­क­त्वे­ना­ध्या­स­स­म­र्थ­न­मे­वा­स्यापि भाष्यस्यार्थः स्यादिति पूर्वभाष्येण पौनरुक्त्यं भवेद्; यदि तु तत्प्रे­र­णा­नु­कूला शक्तिरिह प्रमातृवं तत्राह –
प्रमा­तृ­त्व­श­क्ति­रिति ।
न च प्रेरणव्यापारेण कल्पितया शक्त्याध्यास उपपाद्यतामिति वाच्यम् । प्रथमोपस्थितेन तस्य कल्पकेनैव तदु­प­पा­द­न­सं­भ­वात्, तस्य च कृतत्वादिति भावः ।
प्रमा त्विति ।
तुशब्दः प्रमा­ण­प्रे­र­ण­व्या­पा­रो­प­स्थि­त्य­न­पे­क्षो­प­स्थि­ति­क­त्व­वि­शे­ष­द्यो­त­नार्थः ।
उद्दे­श­त्या­गा­त्म­केति ।
यज­मा­न­द्र­व्य­स्व­त्व­त्या­गोऽ­न्येन कर्तुमशक्य इति तस्मिन्प्रधाने यजमानस्यैव कर्तृवं, तथैव ऋत्विगानमनार्थे दक्षिणादानेऽपि । उपलक्षणमेतत्, फल­प्र­ति­ग्र­ह­यो­ग्य­ता­पा­द­क­त­पः­प्र­भृ­तेश्च । एवकारः तदि­त­रा­ङ्ग­क­ला­प­व्य­व­च्छे­दार्थः ।
भावनाक्षिप्तेति ।
ननु पचन्ति पाचका इत्यत्र भाव­ना­क्षि­प्त­पा­च­क­रू­प­क­र्तृ­गा­मित्वं पाकफलस्य नास्तीति दृष्टमिति चेद्, न; तत्रा­क­र्तृ­गा­मि­क्रि­या­फ­ला­र्थ­क­प­र­स्मै­प­द­ब­लात् पाकफलस्य अन्य­गा­मि­त्वेऽ­प्यत्र बाधकाभावेन औत्स­र्गि­क­क­र्तृ­गा­मि­त्व­त्या­गा­यो­गा­दिति भावः ।
न केवलं कर्तृगामित्वे बाधकाभावमात्रं, तत्र साध­का­न्त­र­म­प्य­स्ती­त्याह –
आत्मनेपदेन चेति ।
अनर्थकं स्यादिति ।
भूतिदानं हि स्वफलार्थं कर्म परैः कारयितुमित्येवं लोके दृष्टार्थमवगतम् । अतो दृष्टा­र्थ­प­रि­क्र­य­वि­धि­ब­लात् परिक्रीतैः कर्म कारणीयमिति नियमोऽवसीयत इति भावः ।
आध्व­र्य­वा­दि­क­मिति ।
आध्व­र्य­वा­दि­स­मा­ख्या­यु­क्त­का­ण्डा­म्ना­त­म­ङ्ग­जातं समाख्यावशात् अध्वर्य्वादिभिः कर्त­व्य­मि­त्य­धि­क­र­णा­न्त­र­व्यु­त्पा­द­नी­या­र्थस्य बुद्धि­सौ­क­र्या­र्थ­मि­हो­प­न्यासः ।
प्रयो­ज­क­क­र्तृ­त्वा­दिति ।
स्वत­न्त्र­प्र­यो­ज­क­सा­धा­र­ण­क­र्तृ­सा­मा­न्य­परं साङ्ग­प्र­धा­ना­नु­ष्ठा­प­क­प्र­यो­ग­वि­धि­ग­तम् आख्यातमिति भावः ।
अप्रयोकेत्यनेन पौन­रु­क्त्य­प­रि­हा­रा­याह –
अकर्ता कर्तृ­त्व­श­क्ति­र­हित इति ।
पातकं ब्रह्मवधादीति ।
अत्र पातकशब्देन महापातकमतिपातकं समपातकं चेति त्रिविधं पातकं गृह्यते । जातिभ्रंशकरादि इत्यादिशब्देन प्रकीर्णकं गृह्यते । अनु­क्रा­न्ता­ष्ट­वि­ध­पा­पा­न­न्त­भूतं पापं प्रकीर्णकम् । एवमेकैकसंज्ञया केषां­चि­त्के­षां­चित् पापानां कोडीकारस्तेषु तेष्वे­क­रू­प­न­र­का­दि­फ­ल­प्रा­य­श्चि­त्तो­प­दे­शार्थः ।
देह­ग­त­स्वा­मि­त्व­स्येति ।
ननु पुत्र­भा­र्या­दि­स्वा­मित्वं देहगतं न भवति; तस्य पुत्र­भा­र्या­द्यु­प­चा­रा­धी­न­भो­गा­भा­वात्, तद­धी­न­भो­ग­भा­क्त्व­व्य­ति­रे­केण तद्वै­क­ल्य­सा­क­ल्य­प्र­यु­क्त­वै­क­ल्य­सा­क­ल्या­र्हस्य स्वामि­त्व­स्या­भा­वात् इति चेद्, न; तदु­प­चा­रा­धी­न­यो­षा­दि­भा­क्त्व­रू­पस्य तथाभूतस्य स्वामित्वस्य देहेऽपि संभवात् ।
प्रमे­य­स्व­रू­पा­लो­च­न­यापि तमाहेति ।
न च अहं­प्र­त्य­य­सि­द्धेन कर्तृ­त्व­भो­क्तृ­त्वा­दिना निश्चितस्यापि भोक्तृरूपस्य नित्य­त्व­वि­भु­त्वा­दिना संदिग्धतया विषयत्वं स्यादिति वाच्यम्; सिद्धान्ते तन्निर्णयस्य मोक्ष­फ­ल­त्वा­न­ङ्गी­का­रा­दिति भावः॥ अथातो ब्रह्मजिज्ञासा॥ १॥ ननु सूत्रे जिज्ञा­सा­प­द­प्र­कृ­ति­प्र­ति­पाद्यं किम्? अख­ण्डा­न­न्द­रू­प­ब्र­ह्म­स्व­रू­प­ज्ञानं, किं वा विचारसाध्यं ब्रह्म­नि­र्ण­य­रूपं वृत्तिज्ञानम्? नाद्यः; संशयानाक्षेपेण विष­य­सू­च­ना­ला­भ­प्र­सं­गात् । न हि बहुशो दृष्टेऽपि पुन: पुनरुदित्वरी विष­य­सौ­न्द­र्य­प्र­युक्ता जिज्ञासा संशयमूला ।
न द्वितीयः; प्रयो­ज­न­सू­च­ना­ला­भ­प्र­स­ङ्गात् इत्याशङ्क्य उभयमपि विवक्षितं, सौत्रपदानाम् अने­का­र्थ­त्व­स्या­ल­ङ्का­र­त्वा­दि­त्याह –
वृत्तिव्यक्तेति ।
वृत्तिश्च व्यक्त­स्व­रू­प­ज्ञानं चेति द्वन्द्वै­क­व­द्भावः । स्वरू­प­ज्ञा­न­वि­व­क्षायां ब्रह्मणो यज्ज्ञानं तदि­च्छे­त्य­र्थ­क­थने 'राहोः शिर' इतिवदुपचारो द्रष्टव्यः ।
ब्रह्म­त­ज्ज्ञा­न­प्रा­र­म्भार्थ इति ।
ब्रह्म तावत् स्वरूपतो जन्मादिसूत्रेण (ब्र.अ.१ पा.१ सू.२) प्रयोजनरूपतया फलाध्यायेन च प्रतिपाद्यते । तद्विषये प्रमाणयुक्ती ब्रह्म­त­ज्ज्ञा­ने­त्यत्र कर­ण­व्यु­त्प­त्ति­मता ज्ञानपदेन संगृहीते सम­न्व­या­वि­रो­ध­ल­क्ष­णाभ्यां प्रतिपाद्येते । मुक्ति­सा­ध­न­ब्र­ह्म­ज्ञानं भाव­व्यु­त्प­त्ति­मता तेनैव ज्ञानपदेन संगृहीतं सपरिकरं साधनाध्यायेन प्रतिपाद्यते । तस्मा­दि­हा­थ­श­ब्दस्य ब्रह्म­त­ज्ज्ञा­न­प्र­ति­पा­द­न­प्रा­र­म्भा­र्थत्वं वक्तुं शक्यमिति शङ्कार्थः॥
दण्डी प्रैषानिति ।
इष्टिषु प्रैष­स्या­ध्वर्युः कर्ता, अनुवचनस्य होता; तद्विकृतौ पशावुभयोरपि मैत्रावरुणः कर्ता विधीयते –
मैत्रावरुणः प्रैष्यति चान्वाह चेति ।
तेन प्राप्तत्वात् दण्डिवाक्ये मैत्रा­व­रु­ण­क­र्तृके प्रैषानुवचने विध्यन्वयित्वेन न विवक्षा, किन्तु प्रैषा­नु­व­च­नाङ्गे दण्डग्रहण इत्यर्थः । यद्यपि "क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति” विहितस्य दण्डदानस्य मैत्रा­व­रु­ण­का­र्या­र्थ­त्वा­व­ग­मात् तेन स्थित्वोच्चैः कर्तव्ये प्रैषानुवचने बला­र्थ­म­व­ष्ट­म्भ­तया दण्डग्रहणस्य सामर्थ्यादपि प्राप्ति­र्भ­वेत्; तथापि साम­र्थ्या­द्भ­वन्ती प्राप्तिस्तेन कर्तव्ये रात्रि­सं­चा­रा­दा­वपि भवेत्, सा मा भूदिति कार्या­न्त­र­प­रि­सं­ख्या­फ­लकः प्रैषानुवचनरूपे कार्ये तस्य दण्डविधिरिति दण्ड एव विध्यन्वयित्वेन विवक्षित इति भावः॥
प्रत्युत तदविवक्षायामिति ।
ननु विध्य­न्व­यि­त्वे­ना­वि­व­क्षि­त­मपि प्रैषा­नु­व­च­न­म­नु­वा­द्य­तया यथा विधे­य­द­ण्डा­न्वयि, एवमिच्छापि प्रार­भ्य­मा­ण­ब्र­ह्म­ज्ञा­ना­न्व­यिनी सती ब्रह्मज्ञानस्य प्रयोजनत्वं ब्रह्मणः संदिग्धत्वं च गमयेत्; इच्छे­ष्य­मा­ण­स­म­भि­व्या­हारे चेष्य­मा­ण­प्रा­धान्यं 'यजेत स्वर्गकाम' इत्यादौ क्लृप्तम्, अत इहा­पी­च्छा­प्रा­धान्यं विहाय इष्य­मा­ण­प्रा­धा­न्य­म­भ्यु­प­गन्तुं युक्तम्; तस्मात् प्रार­म्भा­र्थ­तायां न कश्चिद्दोष इति चेत्; उच्यते, एवं सति वृत्त्य­भि­व्य­क्त­नि­र­ति­श­या­न­न्द­रू­प­स्व­रू­प­ज्ञा­नस्य इच्छाविषयत्वेन अग्रहणात् परमपुरुषार्थः सूत्रेण साक्षाद्दर्शितो न स्याद्, विवि­दि­ष­न्ती­त्य­त्रेव मुक्ति­सा­ध­न­ज्ञा­नस्य गौण­पु­रु­षा­र्थ­ता­ज्ञा­प­ना­र्थेन इच्छा­स­म­भि­व्या­हा­रेण निर्णि­नी­षो­क्त्यैव संदे­हा­ना­क्षे­पा­द्वि­ष­य­सू­चनं च न सिद्ध्येत् । अतः स्वरू­प­ज्ञा­न­प्रे­प्सा­प्र­ति­पा­द­नेन तस्य पर­म­पु­रु­षा­र्थ­त्व­ब्र­ह्म­वि­ष­य­नि­र्ण­ये­च्छा­प्र­ति­पा­द­नेन ब्रह्मणः प्रागविज्ञाततया संदिग्धत्वेन विषयत्वं च सूचयितुं पूर्वोक्तरीत्या जिज्ञासापदस्य स्वरू­प­ज्ञा­न­नि­र्ण­य­ज्ञा­ने­च्छा­द्व­य­प्रा­धा­न्य­मे­वा­भ्यु­पे­य­मिति भावः ।
स्वतो नान्तस्य त्विति ।
यद्यपि तस्य पूजि­त­वि­चा­र­व­च­नत्वं न व्याक­र­ण­स्मृ­ति­सिद्धं 'मान पूजा­या'मिति धातोः पूजा­मा­त्र­वा­चि­त्वात्, 'मान विचारे' इति चुरादिपठितस्य धातो­र्वि­चा­र­मा­त्र­वा­चि­त्वात्; तथापि तयोरन्यतरस्य ग्रहणे धात्वर्थतया विशे­ष­ण­वि­शे­ष्या­न्य­त­र­त­ला­भोऽस्ति इत्य­भि­प्रा­ये­णै­व­मु­क्तम् । प्रवर्त्स्यति प्रवर्तिष्यते । 'वृद्भ्यः स्यस­नो'रिति वैकल्पिकं परस्मैपदम् । परस्मैपदे 'न वृद्भ्य­श्च­तुर्भ्य' इति प्रति­षे­धा­दि­डा­ग­मा­भावः ।
किं पूर्व­प्र­कृ­ता­दिति ।
किमयमथशब्द आनन्तर्यार्थम् इति प्रथ­म­वि­क­ल्पो­प­न्या­स­परे पूर्ववाक्ये विक­ल्प­ध­र्मि­त्वेन प्रकृ­ता­दि­त्यर्थः ।
द्वितीये इति ।
अथ­श­ब्द­वि­शि­ष्टात् पूर्वो­क्त­क­ल्पात् आन­न्त­र्य­शु­द्ध­क­ल्पाद्वा इत्यर्थः । पूर्वप्रकृतस्य अथशब्दस्य अवश्यमपेक्षणे तमेवापेक्ष्य अथशब्दस्य तादर्थ्ये कल्पा­न्त­रो­प­न्या­सा­र्थ­कत्वे संभ­व­त्य­र्था­न्त­रस्य विशिष्टापेक्षया आनन्तर्यस्य कल्पनानवकाशात् । यद्वा पूर्वप्रकृतस्य प्रथ­म­क­ल्प­स्या­पे­क्षाया आवश्यकत्वे द्विती­या­थ­श­ब्दस्य तादर्थ्ये तन्मा­त्रा­पे­क्षया आन­न्त­र्या­र्थ­कत्वे संभवति अर्थान्तरस्य विशि­ष्टा­न­न्त­र्यस्य कल्प­ना­न­व­का­शा­दि­त्यर्थः ।
आन­न्त­र्य­रू­प­त्व­पक्षे विक­ल्पा­प्र­ति­भा­ना­दिति ।
यत्र विकल्पप्रतिभानं तत्रैव पूर्वं विक­ल्प­प्र­कृ­त­त­द्ध­र्म्य­पे­क्षा­र्थको विक­ल्पा­न्त­र­मु­खेऽ­थ­शब्दः प्रसिद्धो नान्य­त्रे­त्या­शयः । ननु 'अथैष ज्योतिरेतेन सहस्रदक्षिणेन यजे­ते'त्यत्र प्रकृ­त­ज्यो­ति­ष्टो­मा­नु­वा­देन सह­स्र­द­क्षि­णा­ल­क्ष­ण­गु­ण­वि­धानं, न तु तद्वि­शि­ष्ट­क­र्मा­न्त­र­वि­धा­न­मिति पूर्व­प­क्षो­प­पा­द­क­त्वेन पूर्व­प्र­कृ­ता­पे­क्षा­र्थ­त्व­म­थ­श­ब्दस्य वार्ति­क­कृ­तो­क्तम् । (तन्त्रवार्तिके जै. अ. २ पा. २ सू. २२) अतो विकल्पाभावेऽपि ताद­र्थ्य­प्र­सि­द्धि­र­स्तीति चेद्, न; तत्रा­न­न्त­र्या­र्थ­त्व­मेव पूर्व­प­क्षेऽ­भि­म­तम् । आनन्तर्यमपि हि पूर्व­प्र­कृ­त­म­पेक्ष्य वर्ण्यते । अत एव तृती­या­ध्या­य­टी­कायां संज्ञाधिकरणा (ब्र.अ.३पा.३सू.६-८) नुक्रमणे अथशब्दस्य आनन्तर्यार्थस्य असं­ब­न्धेऽ­नु­प­पत्तेः इत्या­न­न्त­र्या­र्थ­मा­दा­यैव पूर्व­प­क्ष­स­म­र्थनं कृतम् । आचार्यैश्च तद्व्या­ख्या­न­स­मये वार्ति­क­का­री­य­पू­र्व­प्र­कृ­ता­पे­क्षो­क्ते­रा­न­न्तर्य एव पर्य­व­सा­न­मु­क्ति­भङ्ग्या दर्शितम् आनन्तर्यं हि पूर्व­प्र­कृ­ता­पेक्षं, गुणविधिपरत्वे चाश्र­य­दा­ना­र्थ­मस्ति ज्योति­ष्टो­मा­पेक्षा, न कर्मान्तरत्वे; न हि क्रतुः क्रत्व­न्त­र­म­पे­क्षत इत्यर्थ इति ।
यस्मिन् सति भवन्ती भवत्येवेति ग्रन्थ­म­ध्या­हा­र­व्य­व­हि­त­यो­ज­नाभ्यां व्याचष्टे –
अन्यदपीति ।
ब्रह्म­जि­ज्ञा­साया अपि योग्यत्वादिति ग्रन्थ­म­पे­क्षि­ता­ध्या­हा­रेण व्याचष्टे –
स्वाध्या­या­ध्य­य­ना­न­न्त­र­मिति ।
इत्थं प्रतीकमनुपादाय व्याख्यानं, व्याख्यानेनैव व्याख्ये­य­मू­लांशो ज्ञातुं शक्य इति ग्रन्थ­ला­घ­वा­र्थम् । एवमुत्तरत्रापि तत्र तत्र दृश्यते ।
नन्विति ।
धर्म­जि­ज्ञा­सा­सूत्रे ब्रह्म विचार्यत्वेन नोपात्तं, किन्तु धर्ममात्रम्; अत­स्त­त्र­त्या­थ­श­ब्दस्य धर्म­प­र­वे­दा­ध्य­य­ना­न­न्त­र्य­मर्थः, इह तु ब्रह्मविचारे वेदा­न्ता­ध्य­य­न­म­पे­क्षि­त­मिति तत्सा­धा­र­णा­ध्य­य­ना­न­न्तर्यं ब्रह्मविचारस्य प्रति­पा­द­यि­तु­मिदं सूत्र­मा­र­ब्ध­व्य­मिति शङ्कार्थः । ननु धर्मशब्दस्य वेदा­र्थ­मा­त्रो­प­ल­क्ष­ण­त्व­म­ङ्गी­कृत्य तेन तत्र­त्या­थ­श­ब्दस्य सक­ल­वे­दा­ध्य­य­ना­न­न्त­र्य­म­र्थ­मु­प­पाद्य अस्य अथशब्दस्य तेन गता­र्थ­त्व­प­रि­हा­रा­र्थम् अर्थान्तरं वर्ण­नी­य­मि­त्यु­प­पा­द­न­म­यु­क्तम् । तथा सति हि सक­ल­वे­दा­र्थ­वि­चा­र­प्र­ति­ज्ञानं तत्रैव कृतमिति स्यात्, एवं च कृत्स्नमेवेदं शास्त्रं गता­र्थ­त्वे­ना­ना­रभ्यं भवेदिति कुतो अस्याथशब्दस्य अर्था­न्त­र­व­र्ण­न­प्र­त्याशा । न हि कृत्स्न­वे­दा­र्थ­वि­चारं प्रतिज्ञाय तदे­क­दे­श­वि­चा­र­स्त्यक्तो बुद्धिपूर्वमिति वक्तुं शक्यम्; न वा धर्मविचारार्थं द्वादशलक्षणीं कृत्वा तत्रासूत्रितान् कांश्चि­न्न्या­या­ना­लक्ष्य तत्संग्रहार्थं द्वादशलक्षणीं शेषं संकर्षकाण्डमपि कृतवतो महर्षिवरस्य भगवतो जैमि­ने­र्ब्र­ह्म­प­र­वे­द­भा­ग­वि­चारे विस्मरणं विघ्नजातं वोत्प्रेक्षितुं शक्यमिति चेत्, उच्यते; धर्म­जि­ज्ञा­सा­सू­त्रस्य (जै. अ. १ पा.१ सू. १) सक­ल­वे­दा­र्थ­वि­चा­र­प्र­ति­ज्ञा­प­र­त्व­मा­त्रे­णास्य शास्त्रस्य गतार्थत्वं नापद्यते; इह व्युत्पा­द­यि­ष्य­मा­णानां सिद्ध­ब्र­ह्म­प­र­वा­क्या­र्थ­नि­र्णा­य­क­न्या­यानां पूर्व­त­न्त्र­व्यु­त्पा­दि­तेभ्यः कर्म­प­र­वा­क्या­र्थ­नि­र्णा­य­क­न्या­येभ्यो विलक्षणत्वात्, किन्तु शास्त्रा­र­म्भ­प्र­ति­ज्ञै­क्येन वक्तृ­भे­देऽ­प्ये­क­प्र­ब­न्ध­ता­मात्रं तदानीमापद्यते; सम­य­ब­न्ध­पू­र्व­का­ने­क­क­वि­क­र्तृ­कै­क­का­व्य­वत् । तदपि सिद्धान्ते प्रौढ्या­भ्यु­प­गम्य मतान्तरमिष्यत एव; तदाश्रित्य हि भाष्य­टी­क­यो'रेक आत्मनः शरीरे भावात्' (जै. ब्र. अ.३ पा.२ सू.५३) इत्यधिकरणे देहा­ति­रि­क्ता­त्मा­स्ति­त्वस्य शास्त्र­प्र­थ­म­पादे व्यवस्थापनादत्र तद्व्यवस्थापनं पुनरुक्तमिति शङ्कोद्घाटनं, भाष्यकृता शबरस्वामिना तत्र तत्कृतं न तत्सू­त्रा­रू­ढ­मिति समाधानं च करिष्यते । ननु प्रौढ्यापि कथ­मै­क­शा­स्त्र­म­भ्यु­प­गतं; विरु­द्ध­यो­रे­क­प्र­ब­न्ध­त्वा­यो­गात्, अस्ति हि जैमि­नि­बा­द­रा­य­ण­म­त­यो­र्वि­रोधः, बादरायणेन हि 'शेष­त्वात्; पुरुषार्थवादो यथान्येष्विति जैमिनिः' (ब्र.अ.३ पा.४ सू.२) 'परामर्शं जैमिनिः' (ब्र.अ.३ पा.४ सू.१८) इति च सूत्रे ब्रह्म­सं­न्या­सा­प­ल­पनं जैमि­न्य­भि­म­त­म­नूद्य दूषितं, न च जैमि­ने­र­न्वा­रु­ह्य­वा­द­मा­त्र­म­नूद्य दूषितं, न तु तन्मतम्, 'पर जैमि­नि­र्मु­ख्य­त्वात्' (ब्र.अ.४ पा.३ सू.१२) 'तद्भूतस्य तु नातद्भावो जैमिनेरपि' (ब्र.अ.३ पा.४ सू.४०) इत्यादिसूत्रैः जैमि­ने­र्ब्र­ह्म­सं­न्या­सा­भ्यु­प­ग­मस्य बादरायणेनैव प्रति­पा­दि­त­त्वा­दिति वाच्यम् । 'तस्य विप्रतिषेधा च्चास­म­ञ्ज­सम्' (ब्र.अ.२ पा.२ सू.१०) इति साङ्ख्या­धि­क­र­णो­क्त­न्या­येन जैमिनिमतस्य पर­स्प­र­वि­रु­द्ध­त­या­नु­पा­दे­य­त्व­सू­च­ना­र्थ­त्वो­प­पत्तेः । किञ्च देवताधिकरणे (ब.अ.१ पा.३. सू.२६-३३) जैमिन्यभिमतं बहुशो देव­ता­प्र­त्या­ख्या­न­म­नूद्य दूषितम् । 'आम्नायस्य क्रिया­र्थ­त्वात्' (जै.सू.अ.१ पा.२ सू.१) इत्यादिसूत्रेण वेदस्य क्रिया­र्थ­त्वे­नैव प्रामाण्यं वक्त­व्य­मि­त्य­वि­शे­षे­णा­क्रि­या­र्था­ना­म­प्रा­मा­ण्य­मा­शङ्क्य 'विधिना त्वेक­वा­क्य­त्वात्' (जै.अ.१ पा.२ सू.७) इति सूत्रेण केव­ल­सि­द्धा­र्थ­वि­ष­य­त्वेन भासमानानां वाक्यानां विध्येकवाक्यतया क्रिया­र्थ­ता­मु­प­पाद्य जैमिनिना यत्प्रा­मा­ण्य­स­म­र्थनं कृतं, तदपि बादरायणेन समन्वयसूत्रे (ब्र.अ.१ पा.१ सू.४) ब्रह्मविषयाणां वाक्या­ना­म­न­पेक्ष्य विधि­शे­ष­ता­म­क्रि­या­र्था­ना­मेव सतां प्रामा­ण्य­स­म­र्थ­नेन प्रत्याख्यातम्; एवं विरु­द्ध­यो­रे­क­प्र­ब­न्धत्वं प्रौढ्यापि कथमभ्युपगतमिति चेत्, उच्यते; ब्रह्म­सं­न्या­स­दे­व­ता­प­ला­प­वि­षये विरोधस्तावद् नैका­प्र­ब­न्ध­त्वा­प­वा­दकः; तस्य द्वाद­श­ल­क्ष­ण्या­म­सू­त्रि­त­त्वेन पर­स्प­र­वि­रु­द्ध­म­ता­भि­मा­न्य­ने­क­क­वि­कृ­त­रा­मा­य­णा­दि­व­दे­क­प्र­ब­न्ध­तो­प­पत्तेः । किञ्च जैमिनिना तिर्यगधिकरणे 'न देवता देव­ता­न्त­रा­भा­वा­दिति' सूत्रेण देवताः कर्मसु नाधिक्रियन्ते; इन्द्रादीनां हविः त्यागो­द्दे­श्यस्य इन्द्रा­न्त­रा­दे­र­भा­वात्, स्वात्मने संकल्प्यमानस्य द्रव्यस्य स्वत्व­त्या­गा­सं­भ­वेन यागा­द्य­नि­र्वृत्तेः, इत्येवमुपपादयता देवताभ्युपगम एव स्पष्टीकृतः । देवतानां युग­प­द­ने­क­या­ग­दे­श­स­न्नि­धा­न­मपि आधा­न­प­व­मा­ने­ष्टि­ज­न्य­सं­स्का­र­नि­च­यम्, आह­व­नी­या­दि­श­ब्दा­र्थ­म­भ्यु­प­ग­च्छता तस्य संप्रतिपन्नमेव; आह­व­नी­या­द्य­भि­मा­नि­दे­वतां विना निरु­क्त­सं­स्का­रा­धा­रस्य वक्तु­म­श­क्य­त्वाद्, न हि प्रत्य­क्षा­ग्नि­स्त­दा­धारः; आधानकाले निहि­त­स्या­ह­व­नी­यादेः पाव­मा­ने­ष्ट्य­न­न्तरं त्यागेन तद्गतस्य संस्कारस्य तन्नाशतो नाशा­दा­ह­व­नी­या­द्य­न­नु­वृ­त्ति­प्र­स­ङ्गात्, अज­स्र­प­क्षेऽ­प्य­नु­ग­तस्य मथनादिना पुनरुत्पादने तद­नु­वृ­त्त्य­भा­व­प्र­स­ङ्गात् । न च प्रण­य­न­म­थ­ना­दि­ज­न्य­सं­स्कारः अपि आह­व­नी­या­दि­श­ब्द­स्यार्थः; अने­का­र्थ­त्व­प्र­स­ङ्गात् । पशा­वौ­त्त­र­वे­दि­क­न­ण­य­ना­न­न्त­रम् आह­व­नी­य­गा­र्ह­प­त्य­ता­प्राप्त्या प्रणयनस्य आह­व­नी­य­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­त्वा­यो­गाच्च । तस्मात् आह­व­नी­या­द्य­भि­मा­नि­दे­वता एव तत्त­दा­य­त­न­वि­शे­ष­नि­हि­तेषु संभारेषु मथि­ता­ग्नि­नि­धा­न­रू­पे­णा­धा­नेन संस्क्रियन्ते । ताश्च संस्कृता देवता अजस्रपक्षे यजमानशरीरे अग्नि­दा­न­प­र्यन्तं, मध्ये अग्नि­सं­स्का­र­वि­च्छे­द­नि­मि­त्तो­प­जने तत्पर्यन्तं च तेष्वग्निषु सन्निदधते । अग्नी­ना­म­ज­स्र­धा­र­णा­भावे तत्त­त्क­र्मा­व­सा­नेषु आहवनीयादिदेवता गार्ह­प­त्य­म­नु­प्र­वि­शन्ति । पशा­वौ­त्त­र­वे­दि­क­प्र­ण­यने क्रियमाणे तमा­ह­व­नी­योऽ­नु­प्र­वि­शति, तेन प्राग­धि­ष्ठि­त­मग्निं गार्हपत्य इत्ये­व­मा­दि­क­म­भ्यु­प­गन्तुं युक्तम् । एवं सत्येव 'नान्त­राग्निं संचरति यदि पूर्वोऽनुगतः संचर्यं पश्चाद्धि स तर्हि गत' इति 'गार्ह­प­त्यात् ज्वल­न्त­मा­ह­व­नी­य­मु­द्ध­रती'ति च कल्प­सू­त्र­का­र­व­चनं साम­ञ्ज­स्य­म­श्नुते । न हि संस्कारमात्रस्य पश्चाद्गमनं संभवति । नाप्याहवनीयस्य गार्ह­प­त्या­नु­प्र­वे­शा­भावे गार्हपत्यात् तत्र सत आह­व­नी­य­स्यो­द्ध­रणं संभवति । न च तथा सति अग्नि­द्व­य­सं­स­र्ग­नि­मि­त्त­क­प्रा­य­श्चि­त्त­प्र­सङ्गः, तस्य प्रत्य­क्षा­ग्नि­सं­स­र्ग­नि­मि­त्त­क­त्वात् । न च देवतानाम् आह­व­नी­या­दि­श­ब्दा­र्थ­तायां "आहवनीये जुहोति” "गार्ह­पत्ये हवींषि श्रपयति' इत्या­दि­वा­क्य­श्रुतं हविः­प्र­क्षे­प­श्र­प­णा­द्या­धा­र­त्व­मपि तासां भवेदित्ययं दोषः; इष्टापत्तेः, 'अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वेति' मन्त्रवर्णतः पाकेन हविषां सुरभीकरणस्य उद्दे­श्य­दे­व­तार्थं नयनस्य चैक­क­र्तृ­क­त्वा­व­ग­तेश्च । तत्रा­भि­मा­न्य­भि­मा­न­वि­ष­या­णाम् अभेदाध्यवसायेन समा­न­क­र्तृ­क­त्व­व्य­प­देश इति चेद्, इहापि तर्ह्यभेदाध्यास एव गतिरस्तु । एव­म­ग्नि­सं­स्का­रा­धा­र­दे­व­ता­ना­मिव हवि­रु­द्दे­श्य­दे­व­ता­ना­मपि बहुषु यागदेशेषु सन्निधानम् आवा­ह­ना­दि­म­न्त्रा­र्थ­वा­दा­व­गतं जैमि­नि­ना­प्यु­क्त­प्रा­य­मेव; माना­न्त­र­प्रा­प्ति­बा­धा­भावे मन्त्रा­र्थ­वा­दा­दि­प्र­ति­प­न्नस्य देव­ता­दे­स्ते­ना­प्य­भ्यु­प­ग­त­त्वात् । न च तथापि देवतानां कर्मसु गुण­त्व­प्रा­धा­न्याभ्यां विरोधः, बादरायणमतेऽपि फलकरणत्वेन प्रधानतया शब्दबोधितं यागादिकं प्रत्यु­द्दे­श्य­तया तच्छ­री­र­नि­व­र्त्त­क­त्वेन देवतानां सन्नि­पा­त्य­ङ्ग­त्व­रू­प­त­द्गु­ण­त्व­स­त्त्वात् । सिद्धा­र्थ­वि­ष­य­वा­क्यानां विधिशेषत्वं तु जैमिनिनोक्तं विधि­स­म­भि­व्या­हृ­त­वा­यु­क्षे­पि­ष्ठा­दि­वा­क्य­मा­त्र­वि­ष­यम् । तथाहि धर्म­जि­ज्ञा­सा­सूत्रे (जै.अ.१ पा.१ सू.१) ब्रह्म­मी­मां­सा­सा­धा­रणी वेदा­र्थ­वि­चा­र­प्र­तिज्ञा धर्म­मी­मां­सा­मा­त्रा­सा­धा­रणी धर्म­वि­चा­र­प्र­तिज्ञा चेति द्विविधा प्रतिज्ञा विवक्षिता; सूत्रा­णा­मा­वृत्त्या अने­का­र्थ­प्र­ति­पा­द­क­त्वस्य अलंकारत्वात् । अत एव 'अथातः शेष­ल­क्ष­णम्' (जै.अ.३ पा.१ सू.१) इति तृती­या­ध्या­या­द्य­सूत्रं वार्तिककृता 'द्विल­क्षण्याः परं शिष्टं यावत्किंचन लक्षणम् । सत्सर्वं वक्तु­मा­र­ब्ध­म­थातः शेष­ल­क्ष­णम्' इत्य­व­शि­ष्ट­द­शा­ध्या­या­र्थ­वि­चा­र­प्र­ति­ज्ञा­परं व्याख्या­या­न­न्तरं तृती­या­ध्या­या­र्थ­शे­ष­शे­षि­भा­व­वि­चा­र­प्र­ति­ज्ञा­प­र­त्वे­नापि व्याख्यातम् । एवं च यथा शेषः परार्थत्वादिति द्विती­य­सू­त्र­मा­रभ्य तृती­या­ध्या­य­सू­त्राणि शेष­शे­षि­भा­व­मा­त्र­वि­ष­याणि, एवं चोदनासूत्रम् (जै.अ.१ पा.१ सू.२) आरभ्य द्वाद­श­ल­क्ष­णी­सू­त्राणि धर्म­मा­त्र­वि­ष­याणि । अत एव चोदनासूत्रे धर्मस्यैव विधिगम्यत्वं लक्षणमुक्तं, न हि ब्रह्मणो विधि­ग­म्य­त्व­मस्ति, अतः 'तस्य निमित्तपरीष्टि: (जै.अ.१ पा.१ सू.३) इति सूत्रे धर्मप्रमाणमेव परीक्ष्यत्वेन प्रतिज्ञातमिति तदनुसारेण 'आम्नायस्य क्रिया­र्थ­त्वात्' (जै.अ.१ पा.२ सू.१) इति सूत्रं धर्म­प्र­मा­ण­त्वे­ना­भि­म­तस्य क्रिया­र्थ­त्वे­नैव तत्र प्रामाण्यं वक्त­व्य­मि­त्ये­त­त्प­रम् । 'विधिना त्वेक­वा­क्यत्वा'(जै.अ.१ पा.२ सू.७)दिति सूत्रमपि धर्म­प्र­मा­ण­त्वा­भि­म­त­क्रि­या­वि­धि­स­म­भि­व्या­हृ­त­वा­यु­क्षे­पि­ष्ठा­दि­वा­क्य­मा­त्र­वि­ष­य­मिति न कश्चिद्विरोधः । न चैवं कर्म­ब्र­ह्म­वि­चा­र­शा­स्त्र­यो­रै­क­शा­स्त्र्या­भ्यु­प­गमे ब्रह्म­जि­ज्ञा­सा­सू­त्र­ग­ता­थ­श­ब्दस्य कर्म­वि­चा­रा­न­न्त­र्य­मर्थः स्यादिति वाच्यम्; भाष्योक्तरीत्या ब्रह्मविचारे कर्मा­नु­ष्ठा­न­स्या­पे­क्षा­नि­य­मा­भा­वेन तदप्रसक्तेः । न हि ज्वरा­दि­वा­जी­क­र­णा­न्त­चि­कि­त्सा­प्र­ति­पा­द­कानां वैद्य­क­सं­हि­ता­ग्र­न्था­नाम् एक­ग्र­न्थ­त्व­मा­त्रेण वा तच्चि­कि­त्सा­प्र­क­रणं विचारयिष्यता ज्वर­चि­कि­त्सा­मा­रभ्य विचारणीयम् । तत्त­द्वि­चा­रा­धि­का­रि­वै­ल­क्ष­ण्य­मि­हापि तुल्यम् । तस्मादनपेक्षितं हि वेदा­र्थ­वि­चा­र­त्वो­पा­धि­क­ल्प्य­मै­क­शास्त्र्यं नातिविरुद्धमिति प्रौढ्या तदभ्युपगमे न कश्चिद्दोषः । यद्वा धर्म­श­ब्द­स्ये­त्या­दि­टी­का­ग्र­न्थेन जिज्ञा­स्य­स­म­र्प­णा­र्थस्य धर्मशब्दस्य वेदा­र्थ­मा­त्रो­प­ल­क्ष­णत्वं नोक्तं; किन्तु अतःशब्दोक्ते वेदस्य विव­क्षि­ता­र्थ­त्व­रूपे धर्म­वि­चा­र­प्र­ति­ज्ञा­हेतौ धर्म­रू­प­स्यै­वा­र्थस्य विवक्षितत्वं न विशेषणं, किं तर्हि, कृत्स्नस्य वेदार्थस्य अतो धर्म­वि­चा­र­प्र­ति­ज्ञायां यागा­दि­का­र्य­स­म­र्प­कोऽपि धर्मशब्दो हेतु­श­री­र­ग­त­म­थ­शब्दं सम­भि­व्या­हा­र­व­शा­त्ता­व­न्मा­त्र­परं न कुर्याद्, अपि तु वेदा­र्थ­सा­मा­न्य­प­र­मेव कुर्या­दि­त्ये­ता­व­दु­क्तम् । तदे­त­त्प्र­थ­म­सू­त्रा­र्थ­व्या­ख्या­ना­व­साने टीकावाक्यैः आचार्यवाक्यैः तद्व्याख्यानेन च स्पष्टीभविष्यति । ननु च विव­क्षि­ता­र्थत्वे हेतौ वेदा­र्थ­सा­मा­न्यस्य प्रवेशोपदर्शनेन कृत्स्न­वे­दा­ध्य­य­ना­न­न्त­र्य­म­थ­श­ब्दार्थ इति प्रकृते सिषा­ध­यि­षि­तोऽर्थः कथं सिध्येदिति चेत्, इत्थम्; धर्म­श­ब्द­स­म­भि­व्या­हारे विद्यमानेऽपि यथा हेतावर्थशब्दो वेदा­र्थ­मा­त्र­प­रोऽ­ङ्गी­कृतः, विशिष्य धर्म­प­र­वे­द­भा­ग­स्या­र्थ­वि­व­क्षो­प­न्यासे वेदा­न्त­भा­ग­स्या­र्थ­वि­वक्षा नाङ्गीकृतेति तद्व­द्ध­र्म­प­र­भा­गोऽ­प्य­वि­व­क्षि­ता­र्थोऽ­स्त्विति शङ्का­नि­रा­सो­प­यो­गात्; एव­म­ध्य­य­ना­न­न्त­र्य­मपि कृत्स्नवेदस्य अध्य­य­ना­न­न्त­र्य­रू­प­म­ङ्गी­क­र्त­व्यम् । अध्ययनविधेः एक­दे­शा­ध्य­य­ना­नु­ष्ठा­प­नेन पर्य­व­सा­ना­भा­वा­दिति दृष्टान्तमुखेन सिद्ध्येदित्यलं विस्तरेण ।
अर्थतः प्राधान्यादिति ।
प्रत्ययार्थः प्रधानमिति सामान्यन्यायात् इच्छे­ष्य­मा­ण­स­म­भि­व्या­हृ­ता­वि­ष्य­माणं प्रधानमिति स्वर्ग­का­म­प­दा­दिषु क्लृप्तो विशेषन्यायो बलवानिति भावः ।
साक्षा­त्का­रो­प­यो­ग­मिति ।
ब्रह्मो­पा­स­ना­का­लेऽपि तदङ्गतया कर्मा­ण्य­नु­ष्ठे­या­नीति समुच्चयवादी तद­नु­ष्ठा­ना­पे­क्षि­त­क­र्मा­व­बो­धा­न­न्त­र्य­म­थ­श­ब्दा­र्थ­मि­च्छति । अतस्तस्य ताद­र्थ्य­सि­द्ध्यर्थं कर्म­णा­मु­पा­स­ना­ङ्ग­त्व­मु­प­पा­द­यितुं तेषा­मु­पा­स­ना­ज­न्य­सा­क्षा­त्का­रो­प­यो­ग­मा­हे­त्यर्थः ।
असिद्ध इत्याहेति ।
शङ्कावादीति शेषः ।
प्रमा­ण­त्व­प्र­सि­द्ध्य­भा­वा­दिति ।
यद्यपि प्रमा­ण­त्वा­भा­वेऽपि असं­भा­व­ना­दि­मू­ल­क­ल्म­ष­नि­र्ह­र­ण­द्वारा योग्यतावधारणे तज्ज­न्य­म­हा­वा­क्या­र्थ­ज्ञाने वा प्रमा­ण­स­ह­का­रि­त्वेन कार­ण­त्व­मु­प­प­द्यते, अन्यथा वक्ष्यमाणस्य कर्मणां साक्षा­त्का­रो­प­यो­ग­स्यापि निर्वो­ढु­म­श­क्य­त्वात्; तथापि विवि­दि­ष­न्ती­त्यत्र फल­रू­प­वे­द­न­मा­न­न्द­सा­क्षा­त्का­र­तया मुख्य­पु­रु­षा­र्थ­रू­प­मेव ग्राह्यं, मुख्यसंभवे गौण­ग्र­ह­ण­स्या­न्या­य्य­त्वा­दिति तात्पर्यम् ।
संस्कारद्वारेति ।
यद्यपि कल्म­ष­नि­ब­र्ह­ण­मृ­ण­त्र­या­पा­क­र­ण­मिति संस्का­र­प­क्षा­द्भि­न्न­मपि पक्षद्वयमुक्तं तथापि तदपि पक्षद्वयं सामान्यतः संस्कारपक्ष एवानुप्रविशति, प्रथ­मा­धा­न­व­त्क­ल्म­ष­नि­ब­र्ह­णा­दे­रपि संस्का­र­त्वाऽ­वि­शे­षा­दिति तात्पर्यम् । किं काम्यैव खाादिरता नित्येऽपि स्यादिति सिद्धान्तकोटिः पूर्व­प­क्षा­द्वि­शेष सिद्धये । काम्यै­वे­त्य­व­धा­र­णम् । अन्यथा यदा क्वचित्प्रयोगे वीर्यकामनया काम्या खादिरतोपादीयते, तदा तया पशुनियोजनरूपस्य नित्यो­प­का­र­स्यापि प्रस­ङ्गा­त्सिद्धेः काम्या क्वचि­न्नि­त्येऽपि भव­ती­त्य­त­स्मि­न्नर्थे पूर्वपक्षिणोऽपि संप्रतिपत्त्या ततः सिद्धा­न्त­को­टे­र्वि­शेषो न सिध्येत् ।
किं केवलकाम्यैव खादिरता इत्यङ्गीकृत्य सा सर्वत्र नित्येऽपि स्यादि­त्यु­च्यते, अथवा यथा खादिरता वीर्यकामवाक्येन फलार्थतया काम्या, एवं खादिरे पशुमिति वाक्येन क्रत्वर्थतया नित्या­पी­त्य­भ्यु­पे­त्येति विकल्प्य, आद्यं नित्या­नि­त्य­सं­यो­ग­वि­रो­धेन निराकृत्य द्वितीयमाशङ्कते –
यत्त्विति ।
सिद्धरूपः खदि­र­त­रु­र­न­नु­ष्ठी­य­मानो वीर्यफलाय न प्रभवेदिति तस्य पशु­ब­न्ध­न­यु­क्त­यू­प­रू­पा­श्र­या­नु­रा­गेण साध्यतोपपादनीया । यद्यपि यूप­प्रा­ति­प­दि­का­र्थोऽपि सिद्धरूपः; तथापि पशु­ब­न्ध­न­क्रि­या­यु­क्त­त्वा­का­रेण भवति खदिरतरोरपि तदनुरागे सति साध्यता । एवं च खदिरस्य फलसंबन्धं बोधयद् वीर्यकामवाक्यं तस्या­श्र­य­सं­ब­न्ध­मपि बोधयितुं न शक्नोति, वाक्य­भे­द­प्र­स­ङ्गात् इत्या­श्र­य­सं­ब­न्धस्य अन्यतः प्राप्त्य­पे­क्षा­याम् अपे­क्षि­त­स­म­र्प­णेन फलवाक्यान्वयि खादिरे पशुमिति वाक्यं न खदिरस्य क्रत्वर्थतामपि बोधयितुं शक्नोतीति न ततः क्रत्व­र्थ­त्व­सि­द्धि­रि­त्यर्थः । न च यथा 'अपः प्रणयन्ति' इत्यस्य सन्निधाने 'गोदोहनेन पशु­का­म­स्येति' फलार्थं विधीयमानस्य सिद्धरूपस्य गोदोहनस्य अपां प्रणयनं सन्नि­धा­ना­दा­श्रयो भवति, एवमिहापि सन्निधानादेव यूप आश्रयो लभ्यत इति वाच्यम् । अपां हि गार्हपत्यदेशे ग्राह्या­णा­मा­ह­व­नी­य­देशं प्रति नयनरूपं यत् प्रकृष्टनयनं प्रण­य­न­श­ब्द­वाच्यं तस्य गोदोहपात्रस्य चाधाराधेयभावो लोकसिद्ध इति युक्तस्तत्र योग्यतया सन्नि­हि­त­स्या­श्र­य­त्व­लाभः, इह त्वती­न्द्रि­या­ति­श­य­वि­शे­ष­वि­शि­ष्टस्य यूप­स्या­ह­व­नी­य­व­द­लौ­कि­क­त्वात् तं प्रति न लोकसिद्धः खदिरस्य प्रकृतिभाव इति खादिरे पशुमिति वाक्येनैव तस्या­श्र­य­सं­बन्धो बोधनीय इति भावः । अत्र खादिरे पशुमित्यस्य नित्यवाक्यत्वं सिद्धा­न्त्य­भि­म­त­म­नू­दि­तम्; पूर्वपक्षे फल­वा­क्यै­क­वा­क्य­ता­प­न्नस्य तस्य नित्य­वा­क्य­त्वा­भा­वात् । एकस्य खादि­र­त्व­स्ये­त्या­दिना एक­स्यो­भ­या­त्म­कत्वे नित्या­नि­त्य­सं­यो­ग­वि­रोधो नास्ति, विनि­यो­ज­क­प्र­मा­ण­भे­दा­दिति सिद्धा­न्त­यु­क्ति'रे­कस्य तूभयत्वे' (जै.अ.४ पा.३ सू.५) इति सूत्रारूढा दर्शिता ।
सन्निधानादेवेति ।
यूप­श­ब्दा­र्थ­स्या­लौ­कि­क­त्वेऽपि यस्मि­न्न­ष्टा­श्रि­त्वा­द्या­कृ­ति­वि­शिष्टे काष्ठविशेषे यूपशब्दो वर्तते, तस्य खदिरतरोश्च प्रकृ­ति­वि­कृ­ति­भावो लोकसिद्ध इति तावतैव सन्निधानात् पशुबन्धनार्थो यूप आश्र­य­त्वे­ना­न्वेतुं योग्य इति भावः ।
शेषलक्षणादिति ।
शेषलक्षणं तृतीयाध्यायः । तत आरभ्य चतुर्भिरध्यायैः शेष­त्व­प्र­यु­क्ति­क­र्मा­धि­का­र­नि­रू­प­णा­र्थै­रु­प­दे­श­वि­चारः । सप्त­मा­द्यै­श्च­तुर्भिः सामा­न्या­ति­दे­श­वि­शे­षा­ति­दे­शो­ह­बा­ध­नि­रू­प­णा­र्थै­र­ति­देश विचारः । एका­द­श­द्वा­द­शा­भ्याम् उप­दे­शा­ति­दे­श­सा­धा­र­ण­त­न्त्र­प्र­स­ङ्ग­वि­चारः ।
चातुर्थिकेति ।
यद् येन प्रयुज्यते अनुष्ठाप्यते, तत्तेन सहि­त­मु­प­का­र्यो­प­का­र­क­भा­व­रू­प­सं­ब­न्ध­व­द्भ­वति; अनुपकार्येण अनु­प­का­र­क­स्या­न­नु­ष्ठा­प­ना­दिति साहित्योक्त्या चातु­र्थि­क­प्र­यु­क्ति­सं­ग्रहः ।
संस्का­र­क­र्म­त्वेति ।
संस्का­र­क­र्म­ण­स्तानि द्वैधाधिकरण (जै.अ.२ पा.१ सू.६-८) निरू­पि­त­गु­ण­क­र्म­वि­शे­ष­त्वेऽपि दृष्ट­प्र­यो­ज­ना­भा­वेन त्रिवि­ध­गु­ण­क­र्म­वै­ष­म्यात्, धर्ममात्रे तु कर्म स्यात् (जै.अ.२ पा.१ सू.९) इत्य­धि­क­र­णा­न्त­र­वि­ष­य­त्वाच्च पृथग्ग्रहणम् ।
द्विरवत्तेति ।
इदं भाष्यकारमतम्, यत्साक्षाद् द्व्यवदानसाधनको यागः पुरोडाशः, तत्प्रकृतितया यागसाधनमिति । आचार्यमते तु कृत्स्नः पुरोडाशो यागसाधनं, द्विर­व­त्त­स्याग्नौ प्रक्षेपरूपो होमस्तु हविष एकदेशद्वारा संस्कारकर्म । तथा च होमकाले कृत्स्नः पुरोडाशो देवतोद्देशेन मनसा त्यक्तव्यः; वच­न­ब­ला­द­न्यो­द्दे­शेन त्यक्तैकदेशस्य स्विष्टकृति पुन­र्दे­व­ता­न्त­रो­द्दे­शेन त्याग इत्येवं विशेषः ।
जडं स्यादिति ।
दृग्भिन्नस्य प्रकाशमानत्वं दृगध्यस्ततया तद­भे­दे­नो­प­पा­द­नी­य­मिति प्राक् प्रसा­धि­त­त्वा­द­ध्य­स्तस्य च जडत्वनियमादिति भावः ।
ननु टीको­क्त­प्रा­मा­ण्या­यो­ग­यु­क्ति­र­युक्ता; इन्द्रि­य­श­ब्दा­दि­प्र­मा­क­र­ण­ज­न्य­त्वेन प्रामा­ण्यो­प­प­त्ते­रि­त्या­शङ्क्य तामुपपादयति –
तच्चे­न्द्रि­या­द्य­गो­चर इति ।
'न चक्षुषा गृह्यते' 'यन्मनसा न मनुत' इत्या­दि­श्रु­ते­रिति भावः ।
तथाविधमिति ।
दिङ्मोहेऽपि पुरुषविशेषस्य अप­रि­शी­लि­त­प्र­दे­श­वि­शे­ष­प्रा­प्ति­रु­पाधिः ।
शाब्दा­प­रो­क्ष­श­ङ्का­मु­प­स्कु­र्व­न्न­व­ता­र­यति –
अपरोक्षे ब्रह्मणीति ।
अयमर्थः, अभि­व्य­क्त­चै­त­न्या­भि­न्न­त्व­म­र्थ­स्या­प­रो­क्ष्यम्, तत्तु नित्या­भि­व्य­क्त­जी­व­चै­त­न्या­भिन्ने ब्रह्मणि स्वाभाविकम् । अत एव 'यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्मे'ति श्रुतिः । घटादीनाम् अप­रो­क्ष­चै­त­न्या­भे­दा­ध्या­सो­पा­धि­कम्, तदेव प्रत्यक्षोऽयं घटः, प्रत्यक्षं घटं पश्यामि इत्या­दि­व्या­हा­रा­ल­म्ब­नम् । ज्ञान­स्या­प­रो­क्ष्यम् अप­रो­क्षा­र्थ­व्य­व­हा­रा­नु­कू­ल­ज्ञा­नत्वं तत्स्वस्य सुखादेश्च प्रकाशरूपे नित्या­भि­व्य­क्त­सा­क्षि­चै­तन्ये वा अनुगतं स्वाभाविकम् । चाक्षु­षा­दि­वृ­त्तिषु तत्त­द­भि­व्य­क्त­चै­त­न्या­भे­दा­ध्या­सो­पा­धि­कम् । न तु जातिरूपम् इन्द्रि­य­ज­न्य­त्वा­द्यु­पा­धि­रूपं वा ज्ञाना­ना­मा­प­रो­क्ष्यम् । अप­रो­क्ष­ज्ञा­न­वि­ष­य­त्व­म­र्था­प­रो­क्ष्य­मिति न युक्तम्; तत्तां­श­वि­ष­य­प्र­त्य­भि­ज्ञायां तत्तांशे चातिप्रसक्तेः, साक्ष्य­व्या­प­नाच्च । एवं च तत्त्व­म­स्या­दि­श­ब्द­ज­न्यम् अप­रो­क्ष­जी­वा­भि­न्न­ब्र­ह्म­ज्ञा­न­म­प­रो­क्ष­मेव भवति । न चैवं सति अनु­मि­ते­र­प्य­प­रो­क्ष­प­र्व­ता­दा­वा­प­रोक्ष्यं स्यादिति वाच्यम्;
इष्टापत्तेरिति ।
शब्द एव इत्येवकारेण प्रथमं श्रवणजन्ये ब्रह्मज्ञाने क्लृप्त­क­र­ण­भा­वस्य शब्द­स्यै­वा­वि­द्या­नि­व­र्त्तके चर­म­सा­क्षा­त्का­रेऽपि कर­ण­त्वो­प­प­त्तेर्न तत्र करणान्तरं कल्पनीयमिति सूचितम् । नन्व­प­रो­क्ष­जी­वा­भे­दतः श्रुते­श्चा­प­रो­क्षेऽपि ब्रह्मणि परोक्षत्वावगाहि ज्ञानं लोक­सि­द्ध­म­नु­भू­यते, अत एव निर­ति­श­या­न­न्द­रूपं ब्रह्म ममापरोक्षं न प्रकाशत इति व्यवहारः ।
एवं श्रुतितोऽपि ब्रह्मणि परोक्षत्वावगाहि परोक्षमेव ज्ञानं भवे­दि­त्या­श­ङ्क्याह –
अन्यथेति ।
लोकत इव श्रुतितो नापरोक्षे ब्रह्मणि परोक्षत्वावगाहि भ्रमरूपं ज्ञानं युक्तमिति भावः ।
स्वतोऽ­प­रो­क्ष­स्या­पीति ।
यदि ब्रह्म स्वतोऽ­प­रो­क्ष­मिति तद्वि­ष­य­श­ब्द­ज­न्य­मपि ज्ञानमपरोक्षं भवेत्, तदा श्रव­ण­ज­न्य­ज्ञा­न­म­प्य­प­रो­क्ष­मिति श्रुतवेदान्तस्य पुंसः तस्मि­न्पा­रो­क्ष्य­भ्र­मा­नु­वृ­त्तिर्न स्यात् । अनुवर्तते च तदनन्तरमपि भ्रमगृहीतं ब्रह्मणि पारोक्ष्यमिति न शब्दा­द­प­रो­क्ष­ज्ञा­नम् । तस्मात् अप­रो­क्ष­ज्ञा­न­ज­न­न­स­म­र्था­द­न्यत एव तदेष्टव्यम् । क्लृप्तं चान्तःकरणस्य तत्सामर्थ्यं; ब्राह्म­लौ­कि­क­भो­गा­नु­भवे 'मनसैतान् कामान् पश्यन् रमते, य एते ब्रह्मलोके मनोऽस्य दैवं चक्षु'रिति श्रुतेः । विशिष्य चाहंवृत्तिरूपे स्वात्म­ज्ञा­नेऽपि तस्य करणत्वं क्लृप्तम्; चर­म­सा­क्षा­त्का­रस्य शब्द­ज­न्य­त्वा­भ्यु­प­ग­मेऽपि तस्य व्यापा­रोऽ­व­श्य­म­पे­क्ष­णीयः । तस्मा­दा­व­श्य­के­ना­न्तः­क­र­णे­नैव तदु­त्प­त्त्यु­प­पत्तौ तदर्थं तत्त्व­म­स्या­दि­वा­क्यस्य तत्कालेऽपि पुन­र­नु­सं­धा­न­क­ल्पन एव गौरवमिति भावः ।
ननु तर्हि तत्त्व­म­स्या­दि­वा­क्य­श्र­व­ण­नि­र­पे­क्ष­मे­वा­न्तः­क­रणं ब्रह्मा­त्मै­क्य­म­प­रो­क्ष­ये­दि­त्य­त्राह –
तत्तु शब्दजनितेति ।
उक्तं च गीताविवरणे भाष्यकारैः शास्त्रा­चा­र्यो­प­दे­श­श­म­द­मा­दि­सं­स्कृतं मन आत्मदर्शने करणमिति ।
नन्व­प­रो­क्ष­ब्र­ह्म­वि­ष­यस्य शब्द­स्या­प­रो­क्ष­प्र­मा­हे­तुत्वं न शक्यं प्रत्या­ख्या­तुम्, श्रव­ण­ज­न्या­प­रो­क्ष­ज्ञाने सत्यपि पारो­क्ष्य­भ्र­मा­नु­वृ­त्ति­स्त्व­सं­भा­व­ना­दि­दो­ष­प्र­ति­ब­द्धस्य भ्रम­नि­व­र्त्त­न­का­र्या­क्ष­म­तया भवे­दि­त्या­श­ङ्क्याह –
शब्दस्त्विति ।
अभि­व्य­क्त­चै­त­न्या­भि­न्न­त्व­म­र्था­प­रो­क्ष्य­मिति तावन्न युक्तम्; स्वरू­प­स­द­भे­द­मा­त्र­वि­व­क्षायां चाक्षु­ष­वृ­त्त्य­भि­व्य­क्त­प­र्व­ता­व­च्छि­न्न­चै­त­न्येन व्यव­हि­त­व­ह्न्य­व­च्छि­न्न­चै­त­न्यस्य तेन व्यवहितवह्नेश्च स्वाभा­वि­का­ध्या­सि­का­भे­द­स­त्त्वेन व्यव­हि­त­व­ह्ने­र­प्य­प­रो­क्ष­त्वा­पत्तेः, निर­स्त­भे­दो­पा­धि­का­भे­द­वि­व­क्षायां चर­म­सा­क्षा­त्का­र­नि­व­र्त्या­वि­द्यो­पाधेः चर­म­सा­क्षा­त्का­रो­त्प­त्ति­द­शा­या­मपि सत्त्वेन ब्रह्मणः तदानीम् आप­रो­क्ष्या­भा­वा­पत्तेः, स्फुर­द­भे­द­वि­व­क्षायां ताद्ध­र्म्या­ध्या­स­वि­षये दुःखशोकादौ तदानीं सद्रू­प­ब्र­ह्मा­भे­दा­स्फु­र­णात् आप­रो­क्ष्या­भा­वा­पत्तेः, स्वव्य­व­हा­रा­नु­कूलं यद­भि­व्य­क्त­चै­तन्यं तद­भे­द­वि­व­क्षा­याम् अनु­मे­य­व­ह्न्या­दि­व्य­व­हा­रा­नु­कू­लेन जीवचैतन्येन प्रागु­क्त­री­त्यै­वा­भि­न्नस्य वह्न्या­दे­रा­प­रो­क्ष्या­पा­तात्, स्वव्य­व­हा­रा­नु­कूलो योऽभि­व्य­क्त­चै­त­न्या­भेदः तद्व­त्त्व­वि­व­क्षायां तत्त­दा­का­र­धी­वृ­त्ति­स­मु­ल्ला­स­मा­त्रा­दपि भवति व्यवहारे चैतन्याभेदस्य अन­पे­क्षि­त­त्वे­ना­सं­भ­वा­पत्तेः, स्वाव­र­ण­नि­वृ­त्त्य­नु­कूले चैत­न्या­भे­द­व­त्त्व­वि­व­क्षा­या­मा­व­र­ण­नि­व­र्त्त­क­त्व­ग्र­ह­णा­धी­न­मा­प­रो­क्ष्य­ग्र­ह­णम् आप­रो­क्ष्य­ग्र­ह­णा­धी­न­मा­व­र­ण­नि­व­र्त्त­क­त्व­ग्र­ह­ण­मिति पर­स्प­रा­श्र­या­पत्तेः, एव­मु­क्त­रू­पा­र्था­प­रो­क्ष्य­नि­र्व­च­ना­यो­गात् तदपेक्षम् अप­रो­क्षा­र्थ­व्य­व­हा­रा­नु­कू­ल­ज्ञा­नत्वं ज्ञाना­प­रो­क्ष्य­मिति निर्व­च­न­म­प्य­यु­क्तम्; तस्मा­त्स्वा­वि­ष­य­वि­ष­य­क­ज्ञा­ना­ज­न्य­ज्ञा­नत्वं ज्ञाना­प­रो­क्ष्य­मिति निर्वक्तव्यम् । तच्चा­क्षु­षा­दि­वृ­त्त्य­भि­व्य­क्त­चै­त­न्येषु नित्या­भि­व्य­क्त­सा­क्षि­चै­त­न्येषु चानुगतम्, अनु­मि­ति­शा­ब्द­ज्ञा­ना­दि­भ्यश्च तत्त­द­वि­ष­य­लि­ङ्ग­श­ब्दा­दि­ज्ञा­न­ज­न्येभ्यो व्यावृत्तम् । न च विशिष्टज्ञानं विशे­ष­ण­ज्ञा­न­ज­न्य­मि­त्य­भ्यु­प­गमे दण्ड­कु­ण्ड­लो­भ­य­स्मृ­ति­ज­न्य­द­ण्डि­प्र­त्य­क्षा­व्याप्तिः; वस्तुगत्या यः स्वाविषयः तद्विषयत्वं यस्य ज्ञानस्य जन­क­ता­या­म­व­च्छे­द­क­को­टि­प्र­विष्टं तदजन्यत्वस्य विवक्षितत्वात्, उक्त­स्मृ­ते­र्द­ण्डि­प्र­त्यक्षे तद­वि­ष­य­कु­ण्ड­ल­वि­ष­य­त्वे­ना­ज­न­क­तया तत्रापि लक्षणसत्त्वात् । यदी­श्व­र­ज्ञा­न­मु­पा­दा­न­गो­च­र­ज्ञा­न­तया 'बहु स्यां प्रजा­ये­ये'ति­वत् इदं ज्ञानमस्य स्यादिति संकल्परूपतया वा कारणमिष्यते, तदा तज्ज­न्ये­षू­क्त­ज्ञा­ने­ष्व­व्या­प्ति­वा­र­णाय समानाधिकरणत्वं ज्ञाने विशेषणं देयम् । न च कोलाहले बुभु­त्सि­त­श­ब्द­ग्रहो बुभुत्साजन्यः तन्मू­ल­बो­धे­ष्ट­सा­ध­न­ता­ज्ञा­ने­नापि जन्य इति तत्राव्याप्तिः; बुभु­त्स­याऽ­न्य­था­सि­द्धस्य तस्य शब्दग्रहे कारणत्वाभावाद्, बुभु­त्स­ये­त­र­श­ब्द­ग्र­ह­प्र­ति­बन्धे सति क्लृप्तकारणादेव बुभु­त्सि­त­श­ब्द­ग्रह इति तत्र बुभुत्साया अप्यकारणत्वाच्च । न च व्याप्ति­ज्ञा­न­त्वा­व­च्छिन्नं सर्वमनुमितिजनकं व्याप्ति­ज्ञा­न­त्वा­दि­त्य­नु­मि­ता­व­ति­व्याप्तिः; तत्रानुमितेः सामान्यतः सर्व­व्या­प्ति­वि­ष­यायाः स्वका­र­ण­ज्ञा­न­वि­ष­य­व्या­प्ति­वि­ष­य­त्व­स­त्त्वेऽपि स्वका­र­ण­व्या­प्ति­ज्ञा­न­वत् प्रकृ­त­हे­तु­सा­ध्य­वि­शे­षो­प­र­क्त­तया तद्वि­ष­य­त्वा­भा­वेन तस्याः स्वावि­ष­य­वि­ष­य­क­ज्ञा­न­ज­न्य­त्वात् । नचैवमपि हेतु­ता­व­च्छे­द­क­सा­ध्य­ता­व­च्छे­द­क­वि­शे­षा­व­च्छि­न्न­हे­तु­सा­ध्यो­प­र­क्त­व्या­प्ति­ज्ञा­न­त्वा­व­च्छि­न्न­स­र्व­प­क्षी­क­रणे सत्यु­क्ता­नु­मि­ता­व­ति­व्याप्तिः, सामा­न्य­ध­र्म­मा­त्रा­न­व­च्छि­न्न­तया यः स्वविषयो न भवति तद्विषयत्वस्य विवक्षितत्वात्, तस्यामनुमितौ हेतु­ता­व­च्छे­द­क­सा­ध्य­ता­व­च्छे­द­कयोः सामा­न्य­ध­र्म­मा­त्रा­व­च्छि­न्न­त्वेन विषयतया सामा­न्य­ध­र्म­मा­त्रा­न­व­च्छि­न्न­तया तदविषयत्वस्य सत्त्वात् । न चानु­प­ल­ब्धि­प्र­मा­ण­ज­न्या­भा­व­ज्ञा­नेऽ­ति­व्याप्तिः, योग्यानुपलब्धेः प्रमाणत्वात्, योग्यतायाश्च यद्यत्राधिकरणे प्रति­यो­ग्य­भ­वि­ष्यत्, तदा भूत­ल­मि­वा­द्र­क्ष्य­तेति तक­रू­प­त्वे­ना­नु­प­ल­ब्धि­ज्ञा­नस्य स्वावि­ष­य­वि­ष­य­क­त­र्क­रू­प­ज्ञा­न­ज­न्य­त्वात्, स्मृतौ स्वस­मा­न­वि­ष­य­पू­र्वा­नु­भ­व­सं­स्का­र­ज­न्या­या­म­ति­व्या­प्ति­वा­र­णा­र्थ­म­ग्रि­म­ज्ञा­न­प­दम् अनुभवपरं बोध्यम् । एवं च प्रत्य­भि­ज्ञा­या­स्त­त्तां­शेऽपि नातिव्याप्तिः; तस्यास्तदंशे स्मृति­त्वा­ङ्गी­का­रात् । एव­म­प­रो­क्ष­ज्ञा­न­ल­क्ष­ण­व्य­व­स्थितौ तज्ज­न्य­व्य­व­हा­र­यो­ग्य­त्वम् अर्था­प­रो­क्ष्य­मिति तन्निर्वचनं द्रष्टव्यम् । एवं च शब्दप्रमाणं स्वावि­ष­य­वि­ष­य­क­ज्ञा­न­जन्यां परोक्षप्रमामेव जनयतीति नाप­रो­क्ष­प्न­मा­हे­तु­रिति भावः ।
ननु दश­म­स्त्व­म­सी­त्यादौ शब्द­स्या­प्य­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं सिद्ध­म­स्ती­त्या­श­ङ्क्याह –
दशम इति ।
एवमनुमितेरपि पर्वताद्यंशे नापरोक्ष्यं, तत्रा­प­रो­क्ष­भ्र­मस्तु तदा­नी­न्त­ना­प­रो­क्ष­ज्ञा­न­भे­दा­ग्र­हा­दिति द्रष्टव्यम् ।
अन्धादेस्विति ।
अभ्युपेत्यायं परिहारः । दश­मोऽ­ह­म­स्मी­त्य­प­रो­क्ष­ज्ञा­नम् अन्तःकरणे न संभवति; शरीरविषयं चेत्, स्पर्श­ने­न्द्रि­येण वा ज्ञाना­न्त­रो­प­न­य­स­हि­ता­न्तः­क­र­णेन वा संभवति ।
ननु भाव­ना­ज­न्य­सा­क्षा­त्कारः कामि­नी­सा­क्षा­त्का­र­व­द्भ्रमः स्याद्, न चान्तः­क­र­ण­सा­हि­त्येन विशेषः; तत्रापि तत्स­त्त्वा­दि­त्यत आह –
अपि चेति ।
ननु ब्रह्म­सा­क्षा­त्का­रस्य मनः­क­र­ण­क­त्वा­भ्यु­प­गमो 'यन्मनसा न मनुत' इति श्रुतिविरुद्ध इत्यत्राह –
दृश्यत इति ।
प्रागु­प­न्य­स्त­न्या­यो­प­बृं­हि­तायां 'दृश्यत' इति श्रुताग्र्यया सूक्ष्मयेति विशेषणात् यन्मनसा इति श्रुतिः अनवहितमनोविषया, यथा 'तं त्वौप­नि­ष­द'मिति श्रुता­वौ­प­नि­ष­द­मिति विशेषणात् 'यद्वा­चा­न­भ्यु­दि­त'मिति श्रुति­र्वि­शि­ष्ट­श­क्ति­क­श­ब्द­वि­ष­येति भावः ।
साक्षा­द­प­रो­क्षा­दिति ।
यथा प्रत्य­क्ष­स्प­र्शा­श्र­य­त्वा­दि­लि­ङ्ग­जन्या वायोः प्रत्य­क्ष­त्वा­नु­मितिः स्वयं प्रत्य­क्ष­र­हि­ते­त्ये­ता­व­देव, न तु वायौ प्रत्य­क्ष­त्वा­भा­व­म­व­गा­हत इति न भ्रमत्वं प्रतिपद्यते, एवमिहापि योजनीयम् ।
स्वरू­प­प्र­का­श­स्येति ।
आवि­र्भा­व­य­ती­त्य­न्तेन ग्रन्थेन जीव­स्व­रू­प­प्र­का­शस्य ब्रह्मा­भे­द­सा­क्षा­त्का­रेण तद­भे­द­ति­रो­धा­य­का­वि­द्या­नि­वृ­त्ति­रू­पा­भि­व्य­क्ति­सं­स्का­र­मु­प­पाद्य अभिव्यञ्जकस्य तस्य साक्षात्कारस्य न चासा­व­नु­त्पा­दि­त­ब्र­ह्मा­नु­भ­वेति टीकया प्रागु­प­क्षि­प्ता­मु­त्पा­द्य­ता­म­न्तः­क­र­ण­वृ­त्ति­रू­प­त्व­प्र­द­र्श­ने­नो­प­पा­द­य­ती­त्यर्थः । असमुच्चयमते कर्मोपासनयोः कालैक्येन समुच्चयो नास्तीति ।
सिद्धान्ते परि­हा­र­सा­म्य­मा­हेति ।
वृत्तिविषयत्वं स्वप्रकाशत्वं च विरु­द्ध­मि­त्या­श­ङ्का­याम् उप­हि­ता­नु­प­हि­त­रू­प­भे­देन समाधानं मतद्वयेऽपि समानं दर्शयतीत्यर्थः । नन्वेवं सति - अविद्योपहितो जीवः कथं स्वप्रकाशः स्यादिति चेत्, उच्यते; उपहितमुपधानकाले स्वरूपेणापि न स्वप्रकाशमिति नार्थः, किंतूपहितरूपेण न स्वप्रकाशमिति, अतो न दोषः । ननु निरुपाधि ब्रह्मेति उपहितं वृत्तिविषय इति न युक्तं ब्रह्म शुद्धं निरुपाधिकमिति हि वृत्ति­रू­प­सा­क्षा­त्का­र­स्या­कार इष्यते, न चोपाधौ विद्यमाने तदाकारः संभवितुमर्हतीति शङ्कार्थः ।
मिथ्या­भू­ते­षू­पा­धिषु विद्यमानेष्वपि न वास्तव. निरु­पा­धि­क­त्वा­का­र­सा­क्षा­त्का­रो­दयो निरुच्यत इति समा­धा­ना­भि­प्रा­य­माह –
निरुपाधीति ।
ननु मिथ्याभूतानां तेषामुपाधीनां केन निवृत्तिः साक्षा­त्का­रे­णेति चेत्, तस्य केन निवृ­त्ति­रि­त्या­का­ङ्क्षा­या­माह –
स्वस्वेतरेति ।
अनेन चरमवृत्युदयकाले उपा­ध्य­न्त­रा­ण्यपि सन्त्येव । टीकायां - वृत्ते­रे­वो­पा­धि­त्व­व­र्ण­नम् अन्ततो वृत्ति­मा­त्र­म­स्ती­त्य­भ्यु­पे­त्य­वाद इति सूचितम् ।
ननूपाधीनां निवृ­त्ता­व­नु­प­हि­त­मेव साक्षात्कार विषय इति स्यादि­त्या­शङ्क्य साक्षा­त्का­र­द­शायां विन­श्य­द­व­स्थ­ता­मात्रं, न तु विनाशोदय इत्याह –
ततः स्वसत्तायामिति ।
वृत्युपहितं वृत्त्या विशिष्टं, तदुपलक्षितं वा ।
आद्यं दूषयित्वा द्वितीयं दूषयति –
उपलक्षितस्य त्विति ।
अवि­द्य­मा­ने­ना­प्यु­प­ल­क्षि­तत्वं भवति, यथोड्डीय गतेनापि काकेन गृहस्य; वृत्त्या तु विद्य­मा­न­यै­वो­प­हि­तता विष­य­ता­घ­ट­ना­र्थ­मि­ष्यते; अतः प्रसि­द्धो­प­ल­क्ष­ण­वै­ल­क्ष­ण्याद् न वृत्ति­रु­प­ल­क्ष­ण­मिति विद्य­मा­न­व्या­व­र्त­क­त्व­नि­य­मात् विशेषणमेव वाच्या, अतः पूर्वो­क्त­दो­ष­द्वयं प्रादुष्यादिति भावः ।
वृत्त्यु­प­रा­गो­त्रेति ।
नन्वत्र - विशे­ष­णो­प­ल­क्ष­ण­प­क्षयोः कं पक्षं परिगृह्य परिहारो वर्ण्यते, उच्यते, सत्तयोपयुज्यते इत्य­वि­द्य­मा­न­व्या­व­र्त­क­त्व­नि­षे­धात् नोपलक्षणं; न प्रतिभास्यतयेति कार्या­न्व­य­नि­षे­धान्न विशेषणं, किन्तु कार्यानन्वयः असत्त्वनियत उपाधिः विशे­ष­णो­प­ल­क्ष­णा­भ्याम् अन्यस्तृतीयः प्रकार इति वाक्या­न्व­या­धि­क­रणे (ब्र. अ. १ पा. ४ सू. १९) वक्ष्यमाणं तृतीयं प्रकारं परिगृह्य परिहारः । विष­य­वि­ष­यि­त्व­ल­क्षणः विष­य­वि­ष­यि­त्वो­पा­धि­क­स्त­त्प्र­योज्य इति यावत् । एवं हि इतरेतराश्रय इति घटते । लक्षणशब्दस्य स्वरूपवाचित्वे तु विषयविषयिभाव एव तत्प्रयोजक उक्त इत्यात्माश्रय एव भवेत् ।
चैत­न्य­प्र­ति­वि­म्बि­त­त्व­मिति ।
प्रति­बि­म्बि­त­चै­त­न्य­क­त्व­मि­त्यर्थः । आहि­ता­ग्न्या­दे­रा­कृ­ति­ग­ण­त्वा­न्नि­ष्ठा­न्तस्य पूर्व­नि­पा­ता­नि­यमः । संजा­त­चै­त­न्य­प्र­ति­बि­म्ब­त्व­मिति वाऽर्थः; तार­का­दे­रा­कृ­ति­ग­ण­त्वात् तारकितं नभ इति­व­दि­त­च्प्र­त्ययः । तथा च चैतन्यवृत्त्योः प्रति­बि­म्ब­त­दु­पा­धि­त्व­ल­क्ष­ण­सं­बन्धो न विष­य­वि­ष­यि­भा­व­प्र­योज्यः, स्वयमेव तु तत्प्रयोजक इति नान्योन्याश्रय इत्यर्थः ।
भ्रमत्वमिति ।
संसा­र­द­शा­या­म­प्र­का­श­मानं ब्रह्म परोक्षमिति तत्र अप­रो­क्ष्या­व­गा­हि­तया भ्रम­त्व­म­भि­प्रे­तम् । वेदान्तजज्ञानेन वेदा­न्त­ज­न्य­ज्ञा­न­मू­ल­भा­वना परि­पा­क­स­हि­ता­न्तः­क­र­ण­ज­न्य­ज्ञा­ने­ने­त्यर्थः । तत्तद्रूपेण षड्जत्वादिरूपेण । यद्यपि गान्ध­र्व­शा­स्त्रा­भ्या­स­र­हि­तै­रपि सूक्ष्ममतिभिः श्रूयमाणाः स्वराः किंचि­त्प­र­स्प­र­वै­ल­क्ष­ण्ये­ना­नु­भू­यन्ते, तदेव षड्ज­स्व­रा­दि­क­मिति तैस्तदवगम्यत एव, षड्जा­दि­श­ब्द­वि­शे­ष­वा­च्यत्वं परं न ज्ञायते; तथापि ये स्थूलमतयः स्वरा­ना­क­र्ण­य­न्तोऽपि समवर्णपरिमाणान् केशादीनिव पर­स्प­र­वि­वि­क्त­तया अवगन्तुं न प्रभवन्ति, तेषामपि गान्ध­र्व­शा­स्त्र­प­रि­चये सति क्रमेण विविक्तोल्लेखो दृश्यते स इहोदाहरणम् ।
निषादेति ।
वीणादिषु प्रथ­म­भू­य­मा­ण­श्रु­त्या­ख्य­श­ब्दा­व­य­वा­नु­र­ण­ना­त्मका घण्टा­ना­दा­नु­र­ण­न­स­दृशाः स्वराः सप्त । तेषां स्वराणां समुदायाः षड्ज­म­ध्य­म­गा­न्धा­र­स्व­र­प्र­भवा नन्द्या­व­र्त­जी­मू­त­सु­भ­द्राख्याः त्रिविधा ग्रामाः, तेषु ग्रामेषु क्रमेण स्वरा­णा­मा­रो­हाऽ­व­रो­हाभ्यां निवेशाः प्रतिग्रामं सप्तधा भिन्ना एक­विं­श­ति­मू­र्च्छनाः । तदुक्तम् -'प्रथ­म­श्र­व­णा­च्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा॥ श्रुत्य­न­न्त­र­भावी यः शब्दोऽ­नु­र­ण­ना­त्मकः । स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते॥ श्रुतिभ्यः स्युः स्वराः षड्जर्षभा गान्धारमध्यमाः । पञ्चमो धैवतश्चापि निषाद इति सप्तमः॥ यथा कुटुम्बिनः सर्वेऽ­प्ये­की­भूता भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते॥ षड्जग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्ये­त­द्ग्रा­म­त्र­य­मु­दा­हृ­तम्॥ नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः । षड्ज­म­ध्य­म­गा­न्धा­रा­स्त्र­याणां जन्महेतवः॥ क्रमात्स्वराणां सप्ता­ना­मा­रो­ह­श्चा­व­रो­ह­णम् । मूर्च्छ­ने­त्यु­च्यते ग्रामस्था एताः सप्त सप्त च॥' इति ।
क्यषन्तस्य रूपमिति ।
लोहि­ता­दे­रा­कृ­ति­ग­ण­त्वा­दिति भावः । ननु क्यषन्तत्वे विद्वदाभास इत्यर्थो न लभ्यते; यथा पूर्वमलोहितः पश्चाल्लोहितो भवन् लोहितायमानः, एवं पूर्वमविद्वान् पश्चाद्विद्वान् भवन् विद्वस्यमान इत्येतदर्थो लभ्यते, अभूततद्भावे क्यषो विधानात्, विद्वदाभास इत्यर्थस्तु क्यङन्तत्वे लभ्यते; कर्तुः क्यङ् सलोपश्चेति सूत्रेण हि उपमानात् कर्तु­स्त­द्व­दा­च­र­ती­त्यर्थे क्यङ्प्रत्ययो विहितः, श्येनायते काक इत्यादि च तदुदाहरणं लिखितं, तथेह क्यङन्तत्वे विद्वा­नि­वा­च­र­न्न­वि­द्वान् विद्वस्यमान इत्यस्य सोऽर्थो लभ्यते । न च-'ओज­सोऽ­प्स­रसो नित्यं पयसस्तु विभाषयेति' वृत्ता­वु­क्त­त्वाद् ओजो­प्स­रः­प­यो­व्य­ति­रि­क्तेभ्यः सकारान्तेभ्यः क्यङ् न भव­ती­ति-श­ङ्क­नी­यम्; तेभ्यः सलोपो न भवतीत्येव ततः सिद्ध्या क्यङ­भा­वा­प्र­सक्तेः वार्तिककृता सलोपो वेति सामान्यतः सलोपस्य विक­ल्पि­त­त्व­मुक्त्वा ओजसोऽप्सरसो नित्यमिति सका­रा­न्त­वि­शे­षयोः तन्नि­त्य­त्व­स्यो­क्त­तया तदनुसारेण तत्र पयोग्रहणस्य ओजो­प्स­रो­व्य­ति­रि­क्त­स­क­ल­स­का­रा­न्तो­प­ल­क्ष­ण­तया वक्तव्यत्वाच्च इति चेत्, उच्यते; क्रिया­क­र्त्रा­दि­स्व­रू­प­वि­भागं च विद्वस्यमानः इह विद्वानभिमत इति टीका­वा­क्येऽ­स्मिन् विद्वस्यमान इत्यस्य क्यङ्प्र­त्य­या­न्तता न संभवति; विद्वानिव आचरन् इत्यु­प­मे­य­ग­त­सा­दृ­श्यो­प­स­र्ज­नस्य प्रकृत्यर्थस्य विदुषः क्रिया­क­र्त्रा­दि­स्व­रू­प­वि­भा­ग­मिति निर्दि­ष्ट­क­र्म­सा­पे­क्ष­त्वे­ना­सा­म­र्थ्यात्, सविशेषणानां वृत्तिर्नेति महाभाष्यवचनात् । अत एव महान्तं पुत्रमिच्छतीति वाक्यस्यार्थे महान्तं पुत्रीयतीति न वृत्तिः । ननु क्यषन्तत्वेऽपि विद्वदाभास इत्यर्थालाभ उक्तः, नैष दोषः; शास्त्रसिद्धेन मिथ्यात्वेन क्रिया­क­र्त्रा­दि­वि­भा­ग­म­वि­द्वा­नेव सन् यः कर्मा­नु­ष्ठा­नो­प­यो­गिनं तं सत्सत्वेन वेत्ति स विद्वस्यमान इत्युक्त्या विद्वदाभास इत्यर्थलाभात् । एवमेव ह्युक्त­मा­चार्यैः अविद्वानेव विद्वान् भवन्नित्यनेन । न ह्येकेनैव रूपेण क्वचिदर्थे कस्य­चि­त्स­मा­न­काले विद्याऽविद्ये संभवतः । अतोऽस्य वाक्यस्य रूप­भे­दा­भि­प्रा­य­त्व­सिद्धौ सत्य­त्व­मि­थ्यात्वे एवं विद्याऽ­वि­द्याऽ­वि­ष­य­रूपे पर्यवस्यतः । विद्वदाभास इत्यर्थ इति वाक्यशेषात्, क्रिया­क­र्त्रा­दि­वि­भागे सत्य­त्व­बु­द्धे­रेव कर्मा­नु­ष्ठा­नो­प­यो­गि­त्वाच्च, तस्या­श्चा­भू­त­त­द्भावः कादाचित्कत्वेन प्राग­भू­त­त­यो­प­पा­द­नीयः । न चालोहितो लोहितो भवतीत्यत्रैव अभूततद्भावे सर्वत्र उपा­त्त­पू­र्वा­व­स्थो­प­म­र्द­नि­यमः; मृदं घटीकरोति तपनो लोहि­ता­य­ती­त्या­द्यु­दा­ह­रणे घटाद्यवस्थासु मृत्त्वा­द्यु­प­म­र्दा­भा­वात् । तस्मादविद्वानेव विद्वा­न्भ­व­न्निति क्यषन्तस्य रूपमिति च युक्तमेव । यदि तु लोहितादिसूत्रे भाष्यकारैर्नायं हलन्ताद्विधीयत इति हलन्तात् क्यषोऽ­न­ङ्गी­कृ­त­त्वा­दिह न भवति क्यषि­त्य­प­रि­तोषः, तदा विदेः कर्मणि नित्या­पे­क्षा­स­त्त्वात् नित्यसापेक्षेषु चासामर्थ्येऽपि तत्र तत्र भूयसा समा­सा­दि­वृ­त्ति­द­र्श­नात् 'सुड­न­पुं­स­कस्य' इति सौत्राऽ­स­म­र्थ­स­मा­स­रू­प­ज्ञा­प­काच्च विद्वस्यमानशब्द आचारक्यङन्त इत्येव समर्थनीयम् ।
नकारोऽयं प्रतिषेधवाचीति ।
पर्यु­दा­स­वा­चित्वे समासनियमस्य वार्तिककारेण उक्तत्वादिह च नञः समासाभावात् प्रति­षे­ध­वा­च्ये­वा­यम् । ततश्च प्रति­षे­ध्य­क्रि­याया यत्तदोश्च अध्याहारेण यः श्रद्दधानो न भवति स नाधिक्रियत इति वाक्यं पूरणीयमित्याशयः । पर्यु­दा­स­वा­चि­त्व­मपि शक्य­मु­प­पा­द­यि­तुम् सूत्रकारपक्षे महा­वि­भा­षा­धि­का­रेण तद्वाचित्वेऽपि नञः समासनियमाभावात् । मीमां­स­कै­र्य­ज­तिषु ये यजामहं करोति नानू­या­जे­ष्वि­त्यस्य अनू­या­ज­व्य­ति­रि­क्तेषु यज्ञेषु ये यजामहं करोति इत्यर्थनिर्णयेन दीक्षितो न जुहोतीत्यस्य अदीक्षितो जुहो­ती­त्य­र्थ­नि­र्ण­येन च नञः समासाभावेऽपि पर्यु­दा­स­वृ­त्ति­त्व­स्या­ङ्गी­कृ­त­त्वात्, 'वृत्ता­नु­पूर्वे च न चाति­दीर्घे' इत्या­दि­म­हा­क­वि­प्र­यो­ग­द­र्श­नाच्च, समासनियमेऽपि गमि­क­र्मी­कृ­त­नै­क­नी­वृ­ते­ति­वत् न समास इति कल्पनोपपत्तेश्च ।
अत एव ज्ञानानन्तरमिति ।
ननु सगु­ण­ज्ञा­ना­न­न्तरं तदु­पा­स­ना­नि­ष्ठस्य कर्मानुष्ठानं संभवति; फलभूयस्त्वार्थं सहकारित्वेन तदपेक्षितं च भवति । तथैव चाचार्यैः 'अग्नि­हो­त्रादि तु तत्कार्यायैव तद्द­र्श­नात्' इत्यधिकरणे (ब्र. अ. ४ पा. १ सू. १६) वक्ष्यते, सगु­ण­त­दु­पा­स­ना­त्फ­ल­वि­चा­र­श्चा­त्रैव शास्त्रे महता प्रबन्धेन करिष्यते । तद्विचारसाध्यं च तदनुष्ठानमतः सगु­णो­पा­स­ना­स­ह­का­रि­क­र्मा­नु­ष्ठा­ना­पे­क्षितः कर्मावबोध इति तदा­न­न्त­र्य­म­थ­श­ब्दार्थः कुतो न भवेत्? सगुणविचारस्य आनुषङ्गिकत्वात् प्रधा­न­नि­र्गु­ण­वि­चा­रा­पे­क्षि­ता­न­न्त­र्य­मेव वक्तव्यमिति चेत्, तर्हि सगु­ण­वि­द्या­नु­ष्ठानं कस्यापि न सिद्ध्येत् । एत­च्छा­स्त्र­वि­चा­र­म­न्त­रेण हि तदनुष्ठानं न संभवति, एत­च्छा­स्त्र­वि­चारे च ब्रह्म­लो­क­प्रा­प्य­न्त­स­क­ल­फ­ल­वि­र­क्तस्य त्यक्त­स­म­स्त­क­र्मणो निर्वि­शे­ष­प्रे­प्सया तज्जि­ज्ञा­सो­रे­वा­धि­कार इष्यते, तस्मा­द्वि­रु­द्ध­मि­द­मा­प­ति­त­मिति चेत्, उच्यते; सगु­ण­वि­द्या­पे­क्षि­णाम् अङ्गा­व­ब­द्धो­पा­स­ना­पे­क्षिणां केवलकर्मठानां च तद­नु­ष्ठा­न­प्र­का­रा­द्य­व­गतिः विचा­रि­त­त­च्छा­स्त्रेभ्यो गुरु­भ्योऽ­न्वे­ष­णीया, गत्यन्तराभावात् । अभ्युपगम्यते हि कर्म­वि­चा­र­प्रा­ची­न­सं­ध्या­व­न्द­ना­ध्य­य­न­नि­य­मा­द्य­नु­ष्ठा­नार्थं निषा­द­र­थ­का­र­क­र्तृ­क­स्थ­प­ती­ष्ट्या­धा­ना­नु­ष्ठा­नार्थं च तत्तदवगतिः स्वय­म­वि­चा­रि­त­त­त्त­द्वा­क्या­ना­मेव हितै­षि­व­च­न­मा­त्रा­दिति ।
ननु श्रुतौ धनशब्दस्य देव­लो­का­वा­प्ति­हे­त्व­प­र­विद्या वाच्येति कुतोऽ­व­ग­त­मि­त्या­का­ङ्क्षा­या­माह –
तथा हि श्रुत्यन्तरमिति ।
प्रधानेन प्रत्य­या­र्थे­नेति ।
विवि­दि­ष­न्ती­त्यत्र पञ्च­म­ल­का­र­क­ल्प­नया विध्यवरुद्धायां यज्ञ­दा­ना­दि­क­र­णा­न्वि­तायां भावनायां धात्वर्थस्य भाव्या­का­ङ्क्षा­पू­र­क­त्वेन अन्वये वक्तव्ये प्राधा­न्या­दि­च्छाया एव तथान्वयो न वेदनस्येति भावः । ननु यजेत' 'दद्याज्' 'जुहु­या­दि­त्यादी सर्वत्र धात्वर्थस्य भावनायां कार­ण­त्वे­ना­न्व­यस्य दृष्टत्वादिहापि वेद­ने­च्छा­या­स्त­थै­वा­न्वयो युक्तः, यज्ञादिषु तृतीयाश्रवणं तु सोमेन यजे­ते­त्या­दि­ष्विव धात्व­र्थ­वि­शे­ष­ण­तया भविष्यति । न च सोम­प­यो­द­ध्या­दीनां याग­हो­म­नि­र्व­र्त­क­तया क्रियाकारकभावो लोकसिद्ध इति युक्तस्तत्र विशे­ष्य­वि­शे­ष­ण­भावः, इह वेदनेच्छाया यज्ञादीनां च स न लोकसिद्ध इति न युक्तो विशे­ष­ण­वि­शे­ष्य­भाव इति - वाच्यम्; देवताधिकरणे (ब्र, अ.१पा. ३सू. २६-३२) वक्ष्यमाणेन न्यायेनैतस्यैव रेवतीषु वारवन्तीयमिति वाक्ये रेवतीनां वारवन्तीयस्य चाधा­रा­धे­य­भा­व­स्येव यज्ञादीनां विविदिषायाश्च क्रिया­का­र­क­भा­व­स्यापि समभिव्याहारादेव सिद्ध्युपपत्तेः । एवं च भाव्या­का­ङ्क्षा­या­मि­च्छा­वि­ष­य­भूतं वेदनमेव भाव्यत्वेन अन्वेति । न च वेदनतदिच्छयोः कार्यकारणभावस्य लोके सिद्धत्वात् विधिवैयर्थ्यं शङ्कनीयम्; प्रति­ब­न्ध­क­पा­पा­प­नो­द­न­द्वारा यज्ञादिभिः संपन्नया स्थिरविविदिषया वेदनं भावयेत् इत्येतदर्थकतया विधि­सा­र्थ­क्या­दिति - चेत्, उच्यते, भावनायाः प्रथमं भाव्या­का­ङ्क्षायां समानपदोपात्ता प्रधानभूता वेदनासाधनत्वेन निर्ज्ञा­त­गौ­ण­पु­रु­षा­र्थ­भावा विविदिषा भाव्यत्वेन अन्वेतीति युक्तं, यागादिस्तु समा­न­प­दो­पा­त्त­त्वेऽपि स्वयं क्लेशा­त्म­क­त्वात् फलसाधनत्वेन अन्य­तोऽ­न­व­ग­त­त्वाच्च भाव्य­त्वे­ना­न्वे­तु­म­योग्य इति तमतिक्रम्य स्वर्गा­दे­र्भा­व्य­त्वेन ग्रहणे सति तं केन भाव­ये­दि­त्या­का­ङ्क्षायां फल­शि­र­स्क­भा­व­ना­क­र­ण­त्वे­ना­न्वितो भवति । इह यदि भावनायां करणान्तरं श्रुतं न लभ्येत, तदा विविदिषामेव करणं गृहीत्वा तत्साध्यं वेदनं फलं कल्पयेद्, न त्वेतदस्ति; यज्ञादीनां तृतीयया करणत्वेन समर्पणात् । तेषां भाव­ना­क­र­ण­त्वे­ना­न्वये मत्वर्थलक्षणा च परिहृता भवति । अन्यथा तेषां करणविशेषणत्वे सोमवता यागेनेतिवद् यज्ञवत्या विवि­दि­ष­ये­त्या­दि­रू­पेण यज्ञे­ने­त्या­दि­स­र्वेषु तृतीयान्तेषु मत्वर्थलक्षणा प्रसज्येत । एवं क्लिष्ट­यो­ज­ना­या­मपि विविदिषा भाव्येति पक्षात् फलतो न विशेषः । दध्ना जुहोति इति­द­धि­वि­शि­ष्ट­हो­म­विधेः प्राप्ता­प्रा­प्त­वि­वे­केन होमसाधनतया दधिविधान इव स्थिर­वि­वि­दि­षा­सा­ध­न­तया यज्ञादिविधान एवास्य पर्यवसानात् । तस्मात् यज्ञा­दि­भि­र्वि­वि­दिषां भावयेदिति वेदनेच्छायाः फलत्वेनान्वय इत्येव युक्तम् । ननु इच्छायाः प्रधानत्वेऽपि फलत्वेन नान्वयः, किं त्विष्य­मा­ण­स्यै­वेति स्वर्ग­का­मा­दि­वा­क्येषु संप्रतिपन्नं; तत्कस्य हेतोः? लिङादिभिः विधिशब्दैः कर्म­णा­मि­ष्ट­सा­ध­नत्वे प्रतीते किं तत्कर्मसाध्यं इष्टमिति इष्ट­वि­शे­षा­का­ङ्क्षायां यदि­च्छा­वि­ष­य­त्वेन निबद्धं विशिष्योपात्तं च तदेव फलत्वेनान्वेतुं योग्यमिति योग्य­ता­व­धा­र­णाद्, योग्य­ता­नु­सा­रे­णे­च्छा­मु­ल्लङ्घ्य तद्विषये करणान्वयस्य अश्वेन जिगमिषतीत्यादौ क्लृप्तत्वाच्च, अयं हेतुरिहापि तुल्य इति चेत्, उच्यते; यज्ञादीनां ज्ञाने विनियोगेऽपि जिज्ञासा यज्ञा­दि­द्वा­र­व­र्ग­मध्ये अवश्यं निवेशनीया, निवेशिता च टीकायाम् । तथा च जिज्ञासाया यज्ञादिफलत्वेन अव­श्या­भ्यु­प­ग­न्त­व्य­त्वात् कामोपबन्धेषु यागादिवाक्येषु स्वर्गादेः भाव्य­त्वे­ना­न­न्व­येऽ­न्यतः स्वर्गा­दि­सा­ध­ना­न­व­गत्या कामनाया निर्ज्ञा­त­स्व­वि­ष­य­सा­ध­न­प्र­व­र्त­क­त्वेन गौण­पु­रु­षा­र्थ­त्वा­प्र­तीत्या तस्या भाव्य­त्वे­ना­न्व­याऽ­यो­ग्य­त्वात् । नामो­पा­त्त­स्व­र्ग­का­म­ना­वै­ल­क्ष­ण्येन इहा­ख्या­तो­पा­त्ताया इच्छायाः फल­त्वा­न्व­य­यो­ग्य­त्वात्, हेतु­सा­ध्य­त्व­प्र­ती­ति­स­द्भा­वाच्च प्रधानभूतां तामुलङ्घ्य ज्ञानस्य फलवाभ्युपगमो न युक्तः । तदभ्युपगमे शास्त्रा­न्त­र­सि­द्ध­पा­प­क्ष­य­रू­प­द्वा­रा­ति­रि­क्त­स्या­पू­र्व­रू­पस्य कर्मणां द्वारा­न्त­र­स्यापि कल्प­ना­प­त्ते­र्व­क्ष्य­मा­ण­त्वात् । ननु जिज्ञासायाः फल­त्वा­न्व­य­यो­ग्य­त्व­म­सि­द्धम्, स्वतः फल­त्व­र­हि­ता­या­स्तस्याः फलत्वं हि ज्ञान­रू­प­फ­ल­ज­न­क­त्वो­पा­धिकं वाच्यम् । तथा च जिज्ञासाफले ज्ञाने प्रागेव इच्छासत्त्वे सैव जिज्ञासेति तस्याः सिद्ध­त्वा­त्प्राक् तदसत्त्वे तस्याः फल­ज­न­क­त्वो­पा­धि­क­पु­रु­षा­र्थ­त्वाऽ­प्र­ती­ते­श्चेति न तस्याः फल­त्वा­न्व­य­यो­ग्य­तेति - चेत्, उच्यते; द्विविधा ब्रह्म­ज्ञा­ने­च्छा­रूपा जिज्ञासा; एका साङ्गा­ध्य­य­ना­दि­प्र­यु­क्त­ब्र­ह्म­ज्ञा­न­पु­रु­षा­र्थ­वा­व­ग­ति­मा­त्र­मूला, साऽनित्यदुःखमये संसारे नित्य­सु­ख­म­य­त्व­भ्र­म­मु­त्पाद्य चित्तसत्त्वं मलिनयता पाप्मना प्रतिबद्धा सती ज्ञानोद्देशेन तदुपायेषु प्रवृत्तिं जनयितुं न प्रभवति । यदा प्रवृ­त्ति­प­र्य­न्त­जि­ज्ञा­सा­दि­प्र­ति­ब­न्ध­क­पा­प्म­स­द्भावं शास्त्रतः पुरुषोऽवगच्छति, तदा तथा­भू­त­जि­ज्ञा­सो­पा­य­म­न्वि­च्छन् विविदिषावाक्येन तदुपायं यज्ञादिकमुपलभ्य तथा­भू­त­जि­ज्ञा­सो­द्दे­शेन यज्ञा­दी­न­नु­ष्ठाय, ततः संसा­र­सु­ख­म­य­त्व­प्र­द­र्श­क­पा­प्म­नि­वृत्त्या तस्य वस्तु­स­द्दुः­खै­क­रू­पत्वं निश्चित्य, तदसहमानः तज्जि­हा­सा­मू­ला­मपि ब्रह्मजिज्ञासां लभते, सा द्वितीया । तया ब्रह्म­ज्ञा­नो­पा­येषु प्रवृत्तिः । यथा भोजने सत्येव देह­स्थि­ति­ब­ल­पु­ष्ट्या­दिकं भवेदिति ताद­र्थ्या­व­ग­ति­मा­त्र­मूला धातु­वै­ष­म्य­कृ­त­रो­ग­वि­शे­ष­प्र­ति­ब­द्धा­भो­ज­नेच्छा भोज­ना­र्थ­प्र­वृत्तिं जनयितुं न प्रभवति । तत्प्र­वृ­त्ति­प­र्य­न्त­बु­भु­क्षा­प्र­ति­ब­न्ध­क­रो­ग­स­द्धावं यदा वैद्यकादवगच्छति पुरुषः, तदा रोग­नि­वृ­त्ति­पू­र्व­क­बु­भु­क्षो­त्प­त्त्यु­पा­य­म­न्वि­च्छन् वैद्य­क­शा­स्त्रे­णैव तथा­भू­त­मौ­ष­ध­मु­प­लभ्य तत्सेवनेन रोगनिवृत्त्या क्षुधामुपलभ्य, तामसहमानः तन्नि­वृ­त्त्य­र्थ­मपि बुभुक्षां लभते, तया च भोजने प्रवर्तते । अतो नात्र काचिदनुपपत्तिः ।
पापक्षयं ज्ञानमाकाङ्क्षत इति ।
विवि­दि­षा­द्वा­रेति शेषः ।
ज्ञाने विनियुक्तेति ।
ज्ञाना­र्थ­वि­वि­दि­षा­वि­नि­यु­क्त्यर्थः ।
ननु क्लुप्त­पा­प­क्ष­या­ति­रे­के­णो­प­का­रा­न्त­र­स्याऽ­क­ल्प्य­त्वेऽपि यानि पवि­त्रे­ष्ट्य­ग्नि­ष्टु­द­श्व­मे­धा­दीनि कृष्णा­जि­न­दा­ना­दीनि कृच्छ्र­चा­न्द्रा­य­णा­दीनि च सामान्यतः पाप­क्ष­या­र्थ­त्वेन चोदितानि काम्यकर्माणि तत्साधारण्यमिह यज्ञा­दि­श­ब्दा­नाम् अव­र्ज­नी­य­मि­त्या­शङ्क्य –
नित्य­फ­ल­पा­प­क्ष­या­ति­रे­के­णेति ।
पापक्षयो नित्यफलत्वेन विशेषितः॥ अव­श्य­क­र्त­व्य­नि­त्या­नु­ष्ठा­नजो हि पापक्षयः स्वतः प्राप्तः, अतः प्रयु­क्ति­ला­घ­वात् तमेव विवि­दि­षा­र्थ­य­ज्ञा­दि­विधिः द्वारं गृहीत्वा निर्वृणोति, न त्वव­श्या­न­नु­ष्ठे­य­प­वि­त्रे­ष्ट्या­दि­फ­ल­भू­त­मपि पापक्षयं द्वारं गृहीत्वा तत्संपादनं प्रयोजयति; अतो नित्यफलस्यैव पापक्षयस्येह द्वारता, यथा ऋत्विगपेक्षः क्रतु­वि­धि­र्ध­ना­र्जने याजनं स्वकीयोपाय इति तादर्थ्येन स्वतः प्राप्ता­न्ब्रा­ह्म­णा­नेव गृहीत्वा निर्वृणोति, न तु क्षत्रि­य­वै­श्या­नपि ऋत्विजो गृहीत्वा तानार्त्विज्ये प्रयोजयतीति ब्राह्मणानामेव क्रता­वा­र्त्विज्यं तद्वत् । एवं च यस्य यदा यन्नि­त्य­म­नु­ष्ठेयं प्राप्तं, तेन तदा तदेव विवि­दि­षि­ता­र्थ­त­याऽ­नु­ष्ठितं फलार्थं भवति; काम्यानुष्ठानतः प्रसङ्गात् नित्य­सि­द्धे­र्नि­त्य­प्र­युक्तं पापक्षयद्वारमपि लभत इति प्रयु­क्ति­ला­घ­वात् नित्यानामेव विनियोग इति भावः । ननु प्राकृ­तो­प­का­र­दृ­ष्टा­न्तेन पापक्षयस्येह द्वारत्वकल्पनं न युज्यते; वैषम्यात्, प्राकृ­त­प­दा­र्था­नाम् उपकारमुखेनैव विकृ­ति­ष्व­ति­देशः; न तु पदा­र्था­ना­म­ति­दे­शा­न­न्त­र­मु­प­का­र­क­ल्प­नेति न तत्र प्राकृ­तो­प­का­रा­ति­रि­को­प­का­र­क­ल्प­ना­प्र­सक्तिः ।
इह तु प्रत्य­क्ष­श्रुत्या प्रथममेव विनियुक्तानां यज्ञा­दी­ना­मु­प­दि­ष्टा­ङ्गा­ना­मिव पश्चात्कल्पनीय उपकारः प्रथ­माऽ­व­ग­त­वि­नि­यो­ग­नि­र्वा­हा­या­क्लृ­प्तोऽपि सामा­न्य­श­ब्दो­पा­त्त­स­क­ल­नि­त्य­का­म्य­सा­धा­रणः कथं न कल्प्येत इत्याशङ्क्याह –
पापक्षयस्य चेति ।
स्यादेतदेवं - यद्यत्र पदा­र्थ­श­क्ति­मा­लो­च्यो­प­कारः कल्प्यः स्याद्, न त्वेवम् । इह पापक्षय एवोपकार इत्यपि प्रत्य­क्ष­शा­स्त्रे­णैव सिद्ध­त्वा­दि­त्यर्थः । ननु ततस्तु तमिति शास्त्रेण पापक्षयस्य ज्ञानोत्पत्तौ द्वारत्वं सिद्धं, न तु विवि­दि­षो­त्पत्तौ, उच्यते, विवि­दि­षा­वा­क्या­नु­रो­धेन विशु­द्ध­स­त्त्व­स्ततो विविदिषाद्वारेण पश्यतीति तस्य शास्त्रस्यार्थ इति तात्पर्यम् । एवं ततस्तु तमित्यादिश्रुतौ विवि­दि­षा­न्त­र्भावः तदवतारणार्थे टीकाग्रन्थे विशु­द्ध­स­त्त्व­स्ये­त्ये­त­द­न­न्त­रम् उत्प­न्न­वि­वि­दि­ष­स्येति विशेषणेन स्फुट इत्याचार्यैरिह न विशेषितम् । अत्र केचित् संस्कारपक्षमेव सिद्धा­न्त­म­भि­म­न्य­माना विवि­दि­ष­न्ति­वाक्ये विधिर्न कल्प्यः; नित्यकर्मभिः पापक्षयस्य तद्विधिभिः पापक्षयात् ज्ञानोत्पत्तेः ततस्तु तं ज्ञानमुत्पद्यत इति श्रुति­स्मृ­तिभ्यां च सिद्धेः । अतो विवि­दि­ष­न्ति­वाक्यं तत्सि­द्धा­नु­वा­द­क­मि­त्याहुः ।
तन्मतमनूद्य निराकरोति –
न च वाच्यमित्यादिना ।
विशे­ष­तः­शा­स्त्रा­न्त­रा­द­सि­द्धे­रिति ।
पापा­न्त­र­नि­व­र्त्त­ने­नापि चरितार्थात् नित्या­नु­ष्ठा­नान्न ज्ञानो­त्प­त्ति­प्र­ति­ब­न्ध­क­पा­प­व्य­क्ति­वि­शे­ष­नि­ब­र्ह­ण­नि­यमः सिद्ध्यति; अतस्तत्सिद्धये विनि­यो­गा­न्त­र­मि­त्यर्थः । अत्र संस्का­र­प­क्षा­व­ल­म्बनैः विवि­दि­षा­वा­क्यस्य विद्या­र्थ­वि­नि­यो­गा­नु­प­पत्त्या अनुवादकत्वं शङ्कितमिति तद्दृष्ट्वा ज्ञानो­त्प­त्ति­प्र­ति­ब­न्ध­कै­त्यु­क्तम् । शङ्का­स­मा­धा­न­यो­र्वि­वि­दि­षा­र्थ­प­क्षेऽपि तुल्यत्वात स्वमते ज्ञानग्रहणं विवि­दि­षो­प­ल­क्ष­णम् । तस्यामेव यज्ञा­दि­वि­नि­यो­गस्य प्राय­व्य­व­स्था­पि­त­त्त्वात्, सर्वा­पे­क्षा­धि­क­रणे (ब. अ. ३ पा. ४ सू. २६) चोप­पा­द­यि­ष्य­मा­ण­त्त्वात्, भाष्यकृद्भिरपि विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि विवि­दि­षा­सं­यो­गात्तु बाह्यान्तराणि यज्ञादीनि इति यज्ञादीनां विवि­दि­षा­र्थ­त्वस्य वक्ष्य­मा­ण­त्त्वात् च, तेषां ज्ञाने विनियोगे ज्ञानो­त्प­त्त्य­पे­क्षि­त­स­द्गु­रु­ला­भ­श्र­व­णा­दि­प्र­वृ­त्ति­ग्र­ह­ण­धा­र­ण­पा­ट­वा­दी­ना­मपि ज्ञानार्थं यज्ञा­दि­स­म्पा­द्य­त्वा­पत्त्या तद­र्थ­म­पू­र्व­स्यापि द्वारान्तरस्य कल्प्य­ता­प­त्तेश्च । ज्ञानमुत्पद्यत इतिस्मृतेः विवि­दि­ष­न्ति­वा­क्य­मू­ल­क­त्वो­क्तिस्तु पापक्षयाद् विविदिषोदये सति क्रमा­ज्ज्ञा­न­म­प्यु­त्प­द्यते इत्येवंपरा स्मृति­रि­त्या­श­येन ।
श्रुति­स्त्वे­ता­दृ­शीति ।
एषेव दृश्यत इत्येतादृशी । आपाततो विवि­दि­षा­वा­क्य­वत् ततस्तु तमिति श्रुतिर्दृश्यते । वस्तुतस्तु उभ­यो­र­प्या­न्त­रा­लि­क­फ­ल­भे­दोऽस्ति, पाप­क्ष­य­रू­प­द्वा­रा­व­गमः ततस्तु तमिति श्रुत्यपेक्षः, पाप­क्ष­या­ज्ज्ञा­नो­त्पत्तौ विवि­दि­षा­न्त­र्भावो विवि­दि­ष­न्ति­वा­क्या­पेक्ष इति । अतः कथमपि नानु­वा­द­त्व­श­ङ्केति भावः । अथवा एतादृशी एतत्समाना कल्प्य­वि­धि­क­त्वा­वि­शे­षात् तत्र यदि विधिः श्रूयेत, तदा विधिश्रवणरहितं विविदिषावाक्यं तदनुवादकं कल्प्येतापि, न त्वेतदस्तीति भावः । सर्वा­पे­क्षा­धि­क­रणे इत्युपलक्षणम् । सर्वथापि त एवो­भ­य­लि­ङ्गा­दि­त्य­धि­क­रणे (ब्र. अ.३पा.४ सू. ३४) चेति द्रष्टव्यम् ।
हेतु­हे­तु­म­द्भा­वा­भा­वेऽ­पीति ।
ननु अनुष्ठानद्वारा हेतु­हे­तु­म­द्भा­वा­भा­वेऽपि प्रामा­ण्य­प्र­ति­पा­द­ना­दि­द्वारा सोऽस्ति; पूर्वतन्त्रे प्रथ­मा­ध्या­य­प्र­ति­पा­दितं वेद­प्रा­मा­ण्य­मि­हा­प्य­पे­क्षितं, द्विती­या­ध्या­य­नि­रू­पितं शब्दा­न्त­रा­दि­षट्कं विद्या­भे­दा­भे­द­चि­न्तायां, तृती­या­ध्या­य­नि­रू­पितं श्रुति­लि­ङ्गा­दिकं सर्वत्रापि तत्त­द­धि­क­र­ण­वि­ष­य­वा­क्या­र्थ­नि­र्णये, पञ्च­मा­ध्या­य­नि­रू­पितं श्रुत्यर्थादिकं विय­दा­दि­सृ­ष्ट्य­र्चि­रा­दि­प­र्व­क्र­म­चि­न्तायां, सप्त­मा­ष्ट­म­नि­रू­पि­त­म­ति­दे­श­प्र­माणं 'तस्यैतस्य तदेव रूपं यदमुष्य रूप'मि­त्या­द्य­र्थ­नि­र्णये चापेक्षितम् । 'कुशा­च्छ­न्दः­स्तु­त्यु­प­गा­न­व­त्त­दुक्तं' (ब्र.अ.३ पा.३ सू.२६)'प्रदा­न­व­देव तदुक्तं' (ब्र.अ.३ पा.३ सू.४३) इत्यादिषु च पूर्व­त­न्त्र­सं­म­ति­प्र­द­र्शने तत्त­द­धि­क­र­णा­र्थ­ज्ञा­न­म­पे­क्षि­तम् । आचार्यः प्रथ­म­सू­त्र­व्या­ख्या­ना­व­साने वेदान्तमीमांसा तद­वि­रो­धि­त­र्को­प­क­र­णेति भाष्य­व्या­ख्या­ना­व­सरे तस्या अविरोधिनः श्रुति­लि­ङ्गा­द­य­स्ता­र्तीयाः पाञ्चमिकाः श्रुत्यादयो वेद­प्रा­मा­ण्य­प­रि­शो­धकाः कर्ममीमांसायां विचारिता इति पूर्व­त­न्त्रा­पेक्षा स्फुटीकृता, अतो हेतु­हे­तु­म­द्भा­वा­भा­वो­क्ति­र­यु­क्तै­ति-चेत्, उच्यते; पूर्वतन्त्र इवात्रापि शास्त्रे वेद­प्रा­मा­ण्या­दीनि सूचितान्येव । अत एव च नित्यत्वं (ब्र.अ.१ पा.३ सू.२९)मिति हि वेदप्रामाण्यं सूत्रितं नाना­श­ब्दा­दि­भे­दा­दिति (ब्र.अ. ३ पा.३सू. ५८) शब्दान्तरादिकं, 'शब्दादेव प्रमितः' (ब्र. अ. १ पा.३ सू. २४) आका­श­स्त­ल्लि­ङ्गात् (ब्र.अ.१ पा. १ सू. २२) तथा चैक­वा­क्य­तो­प­ब­न्धात् (ब्र.अ.३ पा. ४ सू. २४) प्रकरणा (ब्र.अ.१ पा. ३ सू.६)दित्या­दिभिः श्रुति­लि­ङ्गा­दि­कम, 'श्रुत्या­दि­ब­ली­य­स्त्वाच्च न बाध (ब्र. अ. ३ पा. ३ सू. ४९) इत्यादौ श्रुति­लि­ङ्गा­दि­ब­ला­बलं, 'विपर्ययेण तु क्रम' (ब्र. अ. २ पा. ३ सू. १४) इत्यादिभिः अपेक्षितं क्रम­प्र­मा­ण­जा­तम्, अतिदेशाच्च (ब्र. अ.३ पा. ३ सू.४६) इत्य­ति­दे­श­प्र­मा­ण­मि­त्ये­त­त्सर्वं सूत्रितमेव । भाष्यकारादिभिः स्फुटीकर्तव्यता तु पूर्व­त­न्त्र­सू­त्रे­ष्वपि समाना । तदु­क्त­मि­त्ये­त­द­त्रैव व्याख्या­ने­ना­व­गन्तुं शक्यं न कर्म­वि­चा­र­म­पे­क्षते । अन्यथा 'तद्धैके आहुरसदेवेदमग्र आसी'दिति वाक्या­र्था­व­ग­त्य­र्थम् अस­द्वा­दि­शा­स्त्र­वि­चा­रा­न­न्त­र्य­म­प्य­थ­श­ब्दार्थ: स्यात् । आचार्यस्तु श्रुतिलिङ्गादयः पूर्वतन्त्रे निरूपिता इत्येतावदुक्तं, न त्विह तद­पे­क्षाऽ­स्तीति; तत्र हि तदनन्तरं न्याय­शा­स्त्र­स्या­पेक्षा कण्ठत उक्ता इति न्याय­शा­स्त्र­स्यो­प­योग इति । अथापि तदा­न­न्त­र्य­म­थ­श­ब्दार्थो नेष्यते, तथाऽ­पे­क्षो­क्ति­र­हि­त­क­र्म­वि­चा­रा­न­न्त­र्यस्य क्वाथ­श­ब्दा­र्थ­त्व­प्र­सक्तिः ।
आरा­दु­प­का­र­क­त्वा­दिति ।
तथा­सं­भ­वा­दि­त्यर्थः ।
अनु­ष्ठा­ना­पे­क्षि­तेति ।
ननु अनु­ष्ठा­ना­पे­क्ष­स्मृ­त्यु­प­यो­गिनो मन्त्रा एव, न विधिवाक्यानीति न तत्पा­ठ­क्र­मे­णा­नु­ष्ठा­न­काले क्रमि­क­प­दा­र्थ­स्मृ­तयो भवन्तीति-चेत्, सत्यम्: मन्त्र­पा­ठ­क्र­मा­भावे विधि­पा­ठ­क्र­मोऽ­प्य­नु­ष्ठा­न­का­ल­प­दा­र्थ­स्मृ­ति­क्र­म­नि­या­म­क­त्वे­ना­श्री­यते ।
तस्य दृष्टा­र्थ­त्वा­ये­त्याह –
एवं क्रमपाठोऽपीति ।
तद्यथेति ।
लोके स्नाया­द­नु­लि­म्पे­दि­त्यादौ पाठ­क्र­मोऽ­नु­ष्ठा­न­क्र­मार्थ एव । अतएव अनु­लि­म्पे­त्स्ना­या­दि­ति­व­द­न्न­भि­ज्ञेन मैवं वादी:, माया­द­न­लि­म्पे­दिति वद, तथै­वा­नु­ष्ठा­न­क्र­मा­दिति व्युत्पाद्यते, तस्य तादर्थ्याभावे तथा व्युत्पादनं न क्रियतेति भावः ।
तद्विधानाच्चेति ।
सह­त्व­वि­धा­ना­दौ­प­व­स­थ्येऽ­ह­न्य­ग्नी­षो­मी­य­स्ततः सौत्येऽहनि सव­न­त्र­य­व्या­पि­स­व­नी­य­प­श्व­नु­ष्ठाने सति अव­भृ­था­न­न्त­र­म­नु­बन्ध्य इत्येवंरूपः प्राकृतकमो निवर्त्तत इत्यर्थः ।
अधिकव्यवधिमिति ।
साङ्ग­प्र­यो­ग­वि­धि­ब­ला­द­ङ्गानां प्रधा­न­सा­हि­त्य­म­व­गतं, तच्चै­क­क्ष­णा­नु­ष्ठे­य­त्व­रूपं न संभवतीति सन्निकर्षरूपं पर्यवस्यति । स च सन्निकर्षः प्रधा­ना­व्य­व­हि­त­पू­र्वा­प­रा­ङ्ग­व­द्व्य­व­हि­ता­ङ्गा­ना­मा­त्य­न्तिको न संभवतीति यस्याङ्गस्य यावद्भिः स्वप्रधानाङ्गैः प्रधा­ना­न्त­रा­ङ्गैर्वा व्यव­धा­न­म­व­र्ज­नीयं तत्ता­व­द्भि­र्व्य­व­धानं सहते, नान्यैः । ततश्च पश्चा­द­नु­ष्ठे­यस्य प्रधानस्याङ्गं निर्वा­पा­दि­प्र­थ­मा­नु­ष्ठे­य­प्र­धा­ना­ङ्गात् निर्वापादितः पूर्वं यद्यनुष्ठीयेत, तदा तद­ङ्ग­म­नु­ज्ञा­ता­धि­के­नापि पश्चा­द­नु­ष्ठी­य­मा­न­प्र­थ­म­प्र­धा­ना­ङ्गेन स्वप्रधानाधात् व्यवहितं स्यात्, तन्न सहते अङ्ग­प्र­धा­न­सा­हि­त्य­बो­धकः प्रयो­ग­वि­धि­रि­त्यर्थः ।
मुख्यक्रमानादरे पाश्चा­त्य­प्र­धा­ना­ङ्गस्य पूर्व­प्र­धा­ना­ङ्ग­त्वेन प्रयो­ग­वि­ध्य­न­नु­ज्ञातं व्यवधानं भवे­दि­त्य­मु­मे­वार्थं विवृण्वन्नाह –
यदि त्विति ।
अस्मि­न्न­र्थेऽस्य वाक्यस्य इत्थं योजना । यदि प्रधानान्तरस्य प्रथमप्रधानस्य सन्निधौ तत्संनिकृष्टतया तदङ्गानुष्ठानं, द्विती­य­प्र­धा­ना­ङ्गा­नु­ष्ठा­ना­न­न्तरं प्रथ­म­प्र­धा­ना­ङ्गा­नु­ष्ठा­न­मिति यावत् । तथानुष्ठाने हि प्रथ­म­प्र­धा­ना­ङ्गानि द्विती­य­प्र­धा­ना­ङ्ग­व्य­व­धा­ना­भा­वात् स्वप्र­धा­न­स­न्नि­कृ­ष्टानि भवन्ति । तदा तथा­मु­ख्य­क्र­मा­ना­द­रे­णा­नु­ष्ठाने अङ्गानि प्रथ­मा­नु­ष्ठी­य­मा­न­द्वि­ती­य­प्र­धा­ना­ङ्ग­नि­र्वा­पा­दीनि तेनैव पश्चा­द­नु­ष्ठी­य­मा­न­प्र­थ­म­प्र­धा­ना­ङ्ग­नि­र्वा­पा­दिना स्वप्र­धा­ना­द्वि­प्र­कृ­ष्ये­र­न्निति । यदि तु प्रधा­ना­न्त­र­स­न्नि­धा­व­न्य­प्र­धा­ना­ङ्गा­नु­ष्ठानं, तदा तेनैव प्रधा­ना­न्त­रे­णा­न्य­प्र­धा­ना­ङ्गानि स्वप्र­धा­ना­द्वि­प्र­कृ­ष्ये­र­नि­त्या­पा­ततः प्रती­य­मा­नोऽ­र्थस्तु न ग्राह्यः । मुख्यक्रमानादरे पाश्चात्यस्य पुंदैवतयागस्य किमङ्गं पूर्वेण स्त्रीदैवतयागेन व्यवहितं स्यादि­त्या­पा­द्यते । अव­दा­ना­त्प्रा­ची­नानां हि तदङ्गानां पूर्वप्रधानेन व्यवधानम् आति­दे­शि­क­पा­ठ­क्र­मा­दि­प्राप्तं सह्यमेव, अवदानादिमध्ये तु न कस्यापि तेन व्यव­धा­न­प्र­स­क्ति­रस्ति । अव­दा­ना­दि­प्र­दा­ना­न्तस्य पूर्व­प्र­धा­ना­न­न्त­र­मे­वा­नु­ष्ठा­नात् । अतः प्रधा­ना­न्त­र­व्य­व­धा­ना­पा­द­ना­यो­गात् पूर्वोक्त एवार्थो ग्राह्यः ।
अतो मुख्यक्रमादिति ।
यद्यपि वक्ष्य­मा­ण­प्र­वृ­त्ति­क्र­मोऽ­प्यत्र संभवति, याज्या­नु­वा­क्या­प्र­वृ­त्ति­क्र­मेण निर्वापादयः कार्याः, अन्यथा पुंदै­व­त्य­या­गा­ङ्गयोः निर्वा­पा­नु­व­च­नयोः अन­नु­ज्ञा­त­व्य­व­धा­न­प्र­स­ङ्गा­दिति, तथापि प्रवृ­त्ति­क्र­म­वद् मुख्यक्रमस्यापि पदा­र्थ­क्र­म­नि­य­म­न­सा­म­र्थ्य­मस्ति । अङ्गानामिव अङ्गप्रधानयोरपि परस्परं वर्ज­नी­य­व्य­व­धा­नस्य परिहरणीयत्वात् । अतस्तदपि प्रमाणमिह संभ­व­ती­त्यु­दा­हृ­तम् । मन्त्रक्रमं विधाय 'सारस्वतौ भवतः एतद्वै दैव्यं मिथुनं यत् सरस्वती च सरस्वांश्चेति विधि­वा­क्य­शे­ष­ग­त­पा­ठ­क्र­म­मा­त्रेण मुख्यक्रमं निश्चित्य चेत्थमुदाहृतम् । मुख्य­क्र­म­स्या­स­ङ्की­र्णो­दा­ह­रणं त्विदं दर्श­पू­र्ण­मा­स­यो­र्द­धि­धर्माः पूर्वं पठिताः, ततः आग्नेयस्य निर्वापादयः याज्या­नु­वा­क्य­योस्तु विपरीतः पाठः । तत्र प्रवृत्तिद्वयं परस्परविरुद्धं प्रयाजशेषेण हवीं­ष्य­भि­घा­र­य­तीति विहि­त­प्र­या­ज­शे­षा­भि­घा­र­ण­क्रमे न नियामकं, किन्तु मुख्य­क्र­मा­दा­ग्ने­यस्य प्रथ­म­म­भि­घा­र­ण­मिति ।
प्रधा­न­स्या­ङ्गै­र्वि­प्र­कर्षः स्यादिति ।
यत्र पशौ सर्वाण्यङ्गानि प्रथ­म­म­नु­ष्ठि­तानि तत्पशुयागात् प्रकृतौ तत्सं­नि­हि­ता­न्य­प्य­ङ्गा­न्य­त्यन्तं विप्रकृष्येरन्, अतः पदार्थानुसमय एव कार्यो न काण्डानुसमय इत्यर्थः । 'सन्निपाते प्रधा­ना­ना­मे­कै­कस्य गुणानां सर्वधर्मः स्यात् (जै. अ.५ पा.२ सू. १) इत्य­धि­क­र­णा­र्थोऽयं प्रकृ­ता­धि­क­र­णा­पे­क्षितो वर्णितः ।
प्रकृ­ता­धि­क­र­णा­र्थ­माह –
द्विती­या­दि­प­दा­र्थ­प्र­योग इति ।
प्रवृ­त्ति­क्र­मा­ना­दरे तत्त­त्प­शु­ग­ता­ना­मु­पा­क­र­ण­प्रो­क्ष­णा­दि­प­दा­र्थानां पर­स्प­र­प्र­त्या­स­त्ति­रे­क­रूपा न स्यात्, अत­स्त­द्वै­ष­म्य­प­रि­हा­राय पङ्क्ति­प­रि­वे­ष­ण­न्या­येन प्रवृत्तिक्रम एष्टव्य इत्यर्थः ।
त्रयः पूर्णमास्येति ।
यदा­ग्ने­य­वा­क्य­स्या­र्थ­भे­देन द्वेधा विभागे सति 'यदा­ग्ने­योऽ­ष्टा­क­पा­लोऽ­मा­वा­स्यायां चाच्युतो भवतीति वाक्येन अमावास्यायामेक आग्नेयो विधीयते, 'यदा­ग्ने­योऽ­ष्टा­क­पालः पौर्णमास्यां चाच्युतो भवतीति वाक्येन पौर्ण­मा­स्या­म­परः; ततश्च पौर्ण­मा­स्या­मा­ग्ने­या­ग्नी­षो­मी­यो­पां­शु­या­जा­स्त्रयः, अमा­वा­स्या­या­मा­ग्ने­य­शृ­त­द­धि­या­गा­स्त्रय इत्यर्थः ।
एकश्चासाविति ।
सर्वैरङ्गैः समुच्चितैः स्वस्वा­सा­धा­र­ण­दृ­ष्टा­दृ­ष्टो­प­का­र­द्वा­रकैः एकः प्रधा­न­ग­त­फ­ल­ज­न­न­सा­म­र्थ्यो­द्बो­ध­न­रू­पा­ख­ण्डो­प­कारो जायत इत्येकादशे स्थिता मीमांसकमर्यादा ।
ननु अध्य­य­न­व­द­र्था­व­बो­धार्थो विचारोऽपि वेदपाठक्रमेण स्यादिति कर्म­ब्र­ह्म­का­ण्ड­यो­र्वि­चारे पाठक्रमो नियामकः स्याद; मुख्यक्रमो वा नियामकः स्यात्, स्वाध्या­या­ध्य­य­ने­ना­र्थ­ज्ञानं भाव­ये­दि­त्य­ध्य­य­न­वि­धि­वा­क्य­वि­प­रि­णामे मुख्ययोः कर्म­ब्र­ह्म­का­ण्डा­ध्य­य­नयोः पौर्वापर्यस्य क्लृप्तत्वात्, प्रवृत्तिक्रमो वा स्याद् अध्ययनगृहीतेन स्वाध्या­ये­ना­र्थ­ज्ञानं भावयेदिति तद्वि­धि­वि­प­रि­णा­म­पक्षे अध्य­य­न­मी­मां­सा­रू­प­यो­र­ङ्ग­यो­र्मध्ये अध्ययने क्रमस्य प्रवृ­त्त­त्वा­दि­त्या­शाङ्क्य - एक­प्र­यो­गा­व­च्छि­न्न­तया एक­पु­रु­षा­नु­ष्ठे­य­त्वेन क्रमा­का­ङ्क्षायां पाठ­क्र­मा­दि­र्नि­या­मको भवति, न चात्र तदस्ति; कर्म­ब्र­ह्म­वि­चा­रयोः विल­क्ष­णा­धि­का­रि­क­त्वात्, एकाधिकारिकत्वेन क्रमा­का­ङ्क्षा­क­ल्पने च वेद­भा­ष्य­व­द्वि­चा­र­स्या­प्या­दित आरभ्य प्रवृ­त्ति­प्र­स­ङ्गा­च्चेति दर्शयितुं यत्र क्रमाकांक्षा नास्ति तत्र पाठ­क्र­म­स्या­नि­या­म­क­ता­या­म­धि­क­र­ण­मु­दा­ह­रति –
एकादशे स्थितमिति ।
एकादश इति प्रामादिकः पाठः । अङ्गवत् क्रतूनाम् (जै. अ. ५पा.३सू.३२) इत्याधिकरणं हि पाञ्चमिकम् । अथवा पञ्च­म­तृ­ती­य­पा­द­ग­त­मे­का­द­श­मि­द­म­धि­क­र­ण­मि­त्य­भि­प्रा­यम् एकादश इत्येतद्योज्यम् । 'अन्ते तूत्त­र­यो­द­ध्यात्' (जै.अ.५ पा.३ सू.१३) इति सूत्रं तत्पू­र्वा­धि­क­र­ण­प्र­त्यु­दा­ह­र­ण­तया तच्छेषभूतं, तस्या­धि­क­र­णा­न्त­रत्वे त्वेकादश इत्यस्यातीते इति शेषोऽध्याहार्यः ।
किन्तु पुरुषस्येति ।
वस्तुतः पुरुषस्यापि नास्ति काम्य­नै­मि­त्ति­केषु ऋतुषु क्रमाकाङ्क्षा; कामनानां निमित्तानां च क्रम­नि­य­मा­भा­वात्, तदधीनत्वाच्च काम्य­नै­मि­त्ति­का­नु­ष्ठा­नस्य ।
क्रत्वर्थत्वेति ।
केवलं पुरुषशेषत्वम्, उत क्रतु­शे­ष­त्व­म­पीति संदेहे इत्यर्थः ।
पशुकामस्येति ।
सम­भि­व्या­हा­रा­द्वा­क्ये­नेति ।
ननु गोदोहनेनेति तृतीया पशुकामस्येति षष्ठी च शेषशेषिभावे श्रुतिरेवास्ति, कथमिह पुरुषशेषत्वे वाक्यं प्रमा­ण­मु­प­न्य­स्तम् । उच्यते; गोदोहनेनेति तृतीयया फलभावना करणत्वं नोच्यते; किन्तु सन्नि­धि­प्रा­प्त­प्र­ण­य­न­क्रि­या­क­र­णत्वं; सिद्धरूपस्य दध्नो यागादिवत् स्वरूपेण फल­भा­व­ना­क­र­ण­त्वा­सं­भ­वेन यत्किं­चि­द्धा­त्व­र्थ­का­र­क­ता­रू­प­क्रि­या­नु­रा­गेण साध्यत्वं संपाद्य तस्य फल­भा­व­ना­क­र­ण­त्वस्य उपपादनीयत्वात्, अत­स्तृ­ती­या­र्थ­का­र­क­वि­शिष्टं दधि दधिविशिष्टं वा कारकं फलाय विधेयमिति । तृतीयया तावत् गोदोहनस्य न फल­भा­व­ना­शे­ष­त्व­प्र­तीतिः, नापि षष्ठीश्रुत्या पशुफलस्य शेषित्वप्रतीतिः तस्याः संब­न्ध­स­मा­न्य­वा­चि­त्वेन शेषि­त्व­वि­शे­ष­प­र्य­व­सा­नार्थं सम­भि­व्या­ह­त­प­दा­र्था­न्त­र­शे­षि­त्वा­न्व­य­यो­ग्य­ता­व­धा­र­ण­सा­पे­क्ष­त्वात् । अतः प्रथमोपस्थितं गोदो­ह­न­प­शु­फ­ल­स­म­भि­व्या­हा­रा­त्मकं वाक्यमेव स्वर्गकामो यजेतेति वाक्यमिव फलशेषत्वे प्रमाणमिति । क्वचित् कोशे पशु­का­म­स्ये­त्ये­त­द­न­न्तरं श्रुत्येत्यपि पदान्तरं दृष्टं, तत्प्र­क्षि­प्त­मिव भाति; वाक्यात् पुरु­षा­र्थ­मे­वे­त्यु­प­सं­हारे तददर्शनात्, सम­भि­व्या­हा­रा­पे­क्ष­प­र्य­व­सा­न­ल­भ्य­श्रु­ति­त्वा­भि­प्रायं वा तद्योज्यम् ।
नोपकारकत्वमिति ।
तथात्वे प्रधा­न­स्या­प्य­ङ्गा­नु­ष्ठा­प­नेन तदुपकारस्य तच्छे­ष­त्व­प्र­स­ङ्गा­दिति भावः । तादर्थ्यं तदु­द्दे­श्य­क­कृ­ति­सा­ध्य­तम् ।
ननु गोदोहनस्य चम­स­स्था­ना­प­न्नस्य क्रत्वनङ्गत्वे तत्प्रयोगे चम­स­नि­वृ­त्त्या­ङ्ग­वि­कलः क्रतुः न फलदः स्यादि­त्या­श­ङ्क्याह –
अङ्गापेक्षेति ।
अङ्गं ह्युप­का­रा­या­पे­क्ष्यते, अङ्ग­सा­ध्यो­प­का­रस्य अनङ्गेनापि सिद्धौ किमङ्गवैकल्येन हीयत इत्यर्थः ।
फलार्थस्य कथं क्रता­वु­प­का­र­क­त्व­मि­त्या­शङ्क्य प्रासा­द­प्र­का­शा­र्थस्य दीपस्य रथ्या संचार इवेत्याह –
अन्या­र्थ­स्या­पीति ।
यथा वा दर्श­पू­र्ण­मा­सा­भ्या­मि­तीति ।
प्राचीनोऽप्ययं प्रतीको गोदो­ह­न­वि­ष­या­धि­क­र­णा­नु­ब­न्धि­टी­का­ग्र­न्थ­व्या­ख्या­ना­न्त­र­मेव तद­नु­ब­न्ध्य­धि­क­र­णा­नु­क्र­म­णा­र्थ­मिह गृहीतः ।
ननु द्रव्य­द्वा­रे­णेति ।
दर्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा सोमेन यजेतेत्यत्र सोम­प­द­मु­त्प­त्ति­वाक्ये इव द्रव्यपरं तदु­त्प­त्ति­वाक्ये विहितस्य सोमयागस्य प्रत्य­भि­ज्ञा­ना­र्थ­मिति तस्येह न पुनर्विधिः । विहितस्य विधानायोगात्, अतः कालविधियुक्त इत्यर्थः ।
यथा वाज­पे­ये­ने­ष्ट्वेति वाक्ये प्रसि­द्ध­बृ­ह­स्प­ति­स­व­ना­म­ग्र­हणे सत्यपि तत्का­र्य­ब्र­ह्म­व­र्च­स­प्र­त्य­भि­ज्ञा­ना­भा­वान्न तस्य कालविधिः, किन्तु बृह­स्प­ति­स­व­ना­म­क­क­र्मा­न्त­र­विधिः; एवमिहापि सोमव्यग्रहणे सत्यपि प्रसि­द्ध­सो­म­या­ग­फ­ल­व­र्ग­प्र­त्य­भि­ज्ञा­ना­भा­वात् न तस्य कालविधिः, किन्तु सोम­द्र­व्य­क­क­र्मा­न्त­र­वि­धि­रि­त्याह –
उच्यते तत्का­र्य­स्ये­त्या­दिना ।
दर्शपूर्णमासं प्रति इत्यत्र दर्श­पू­र्ण­मा­स­सो­म­यो­रिति टीकायामिव द्वन्द्वै­क­व­द्भावः । कर्मा­न्त­र­वि­धि­श्चेत् तस्य देवतया भाव्यं, न चेह देवता निर्दिष्टा । यदि यागं प्रति संबन्धितया देव­तो­पा­दा­न­रा­हि­त्य­रू­पम् अव्य­क्त­दे­व­ता­कत्वं प्रसि­द्ध­सो­म­या­ग­सा­दृ­श्य­मिह वर्तत इति तेनो­द्भि­दा­दि­या­गे­ष्विव इहापि प्रसि­द्ध­सो­म­या­गा­द­ति­दे­शतो देव­ता­प्रा­प्ति­रि­ष्यते, तदा तत एव सोम­द्र­व्य­प्रा­प्ति­रपि स्यात् । दर्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा यजेत इत्येतावतैव दर्श­पू­र्ण­मा­सा­ङ्ग­प्र­सि­द्ध­सो­म­या­ग­प्र­कृ­ति­क­क­र्मा­न्त­र­विधिः सिद्ध्येत् इत्यतिरिच्यमानं सोमद्रव्यग्रहणं प्रसि­द्ध­सो­म­या­ग­प्र­त्य­भि­ज्ञा­प­ने­नैव सफलं वाच्यमिति तस्यात्र कालविधिरित्येव युक्तम् ।
विहितस्य पुनः स्वरूपतो विधानायोगादिति सिद्धान्तयति –
उच्यत इति ।
बृह­स्प­ति­स­व­ना­म­ग्र­हणं तु नातिरिच्यते, येन तदपि प्रसि­द्ध­बृ­ह­स्प­ति­स­व­प्र­त्य­भि­ज्ञा­प­नार्थं कथं­चि­त्क­ल्प्येत, तत्तु कर्मान्तरे तद्ध­र्मा­ति­दे­शा­र्थ­त्वेन सफलम् ।
अतस्तस्य प्रक­र­णा­न्त­र­न्या­य­प्रा­प्त­क­र्मा­न्त­र­वि­धि­स्वा­र­स्य­वत् यजिपारतन्त्र्यं न हातव्यमिति तद्वैषम्यमाह –
बृह­स्प­ति­स­व­स्त्विति ।
उत भेदेनेति ।
अस्मिन्पक्षे षडपि यागाः पृथक्पृथक् पूर्वो­त्त­रा­ङ्ग­स­हिताः प्रयोगभेदेन कर्तव्याः । फलं तन्त्रमिति सिद्धान्ते त्वमावास्याः पौर्णमास्याश्च त्रयस्त्रयो यागाः स्वस्व­का­ल­यो­रे­क­प्र­योगाः कर्तव्या इति फलभेदः ।
भेदेनैभिः संबध्यत इति ।
एक­श­ब्दो­पा­त्ता­ना­म­प्या­ग्ने­या­दीनां साहित्यमिह न विवक्षितम् उत्प­त्ति­वा­क्य­वि­हि­तानां तेषामिह फल­सं­ब­न्ध­वि­धा­ना­र्थ­मु­द्दे­श्य­त्वात्, उद्देश्येषु च साहित्यरूपस्य विशेषणस्य विव­क्ष­णा­यो­गा­दिति भावः ।
आग्नेयादीनां पृथक्त्वम ऐककर्म्यं च सूत्रोक्तं पर­स्प­र­वि­रु­द्ध­मि­त्या­शङ्क्य तदर्थं कथयन्नेव सिद्धान्तमाह –
यद्यप्येषामिति ।
फले विधीयन्त इति ।
फलस्य प्राधान्यात्तु फलकाममुद्दिश्य आग्नेयादय एव विधेयाः; स्वरूपेण विहितानामपि फलसंबन्धित्वेन पुन­र्वि­धा­न­सं­भ­वात् अतस्तेषां साहि­त्य­वि­शे­ष­णा­वि­व­क्षा­का­रणं नास्तीति भावः । उपादीयमानानां कामि­न­मु­द्दि­श्या­नु­ष्ठे­य­त्वेन बोध्यमानानाम् ।
टीका­या­मा­त्य­न्ति­क­वि­शे­ष­णेन विवक्षितं फलभेदात् जिज्ञास्यभेदस्य स्फुट­त्व­मु­प­पा­द­यितुं फल­भे­द­स्या­स्फु­ट­त्व­माह –
क्वचित् ब्रह्मविदिति ।
कृतकत्वे मोक्ष­फ­ल­स्या­नि­त्य­त्व­प्र­सङ्गो न्यायः । ब्रह्मैव सन् 'ब्रह्मा­प्येति' इत्या­दि­व­च­ना­न्त­रम् ।
ननु भवतेरिति ।
अन­पुं­स­क­लि­ङ्गोऽ­य­म­क­र्म­क­धा­तु­नि­ष्प­न्न­कृ­त्य­प्र­त्य­यान्तो भव्यशब्दो न भावकर्मार्थः, नापि तस्या­र्था­न्त­र­म­स्तीति निरर्थकः; निरर्थकशब्देन कथं जिज्ञा­स्य­वि­शे­ष­लाभ इत्यर्थः ।
अस्य च भवतेरिति ।
सुख­म­नु­भ­व­ती­त्यादौ सोपसर्गत्वेन भवतिः सकर्मकः, 'प्रमाणभूत आचार्य' इत्यादौ प्रामाण्यं प्राप्त इति प्राप्त्य­र्थ­त्वेन, तदुभयमिह नास्तीत्यर्थः ।
उत्पा­द्य­ध­र्मा­पे­क्ष­णा­दिति ।
उत्प­त्ति­म­द्ध­र्म­सा­मा­ना­धि­क­र­ण्या­दि­त्यर्थः । भावपरत्वे हि भव्यमनेनेति वैयधिकरण्यं भवेत् । ननु भावा­र्थ­भ­व्य­श­ब्दा­र्थस्य भवनस्य उत्प­त्ति­रू­प­त्वात् धर्म­श­ब्द­सा­मा­ना­धि­क­रण्यं घटत इत्याशङ्क्य - उत्पाद्येति विशेषितम् । उत्पत्तिमान् हि यागादिधर्म इह नेह निर्दिष्टः, न धर्ममात्रम् । अतस्तस्य नोत्प­त्ति­वा­चि­श­ब्द­सा­मा­ना­धि­क­रण्यं घटत इति भावः । यद्वा नेह सः इत्यस्य नेह भावार्थ इत्य­र्थ­मा­श्रित्य तत्र पुंलि­ङ्ग­नि­र्दे­शा­दिति हेतुयोजनानन्तरं तस्यावृत्त्या नेह प्राप्त्यर्थ इत्य­र्था­न्त­र­मा­श्रित्य तत्र हेतु­त्वे­नो­त्पा­द्य­ध­र्म­सा­पे­क्ष­त्वात् इत्ये­त­द्यो­ज­नी­यम् । वेदा­र्थ­वि­चा­रा­न­न्त­रम् अनुष्ठानेन उत्पादनीयं धर्ममपेक्ष्य हि तद्विशेषणतया भव्य इति निर्दिष्टं, न तु ग्रामपश्वादिवत् । तटस्थतया प्रागेव सिद्धं किञ्चि­त्प्रा­प्य­म­पेक्ष्य, अतोऽत्र न प्राप्त्यर्थो घटत इति भावः । भावकव्यापारो भावयितृव्यापारः ।
तत्र वाक्य­प­दी­य­सं­म­ति­माह –
करोत्यर्थस्येति ।
घटं करोतीत्यस्य अयमर्थः । घटं भवन्तं भावयतीति स भावयिता भवितुः घटस्य प्रयोजकः । भविता घटः तमपेक्ष्य प्रयोज्य इत्यर्थः । स्वस्या इति प्रामादिकः पाठः । स्वशब्दस्य आत्मवाचित्वे नपुं­स­क­लि­ङ्ग­त्वा­दिति ।
धर्म­स्ये­त्यु­क्त्येति ।
धर्मस्य चोदनेति भाष्ये चोदनोपसर्जनमपि भावना तत्प्र­ति­पा­द्य­त्वे­ना­र्थतः प्राधान्यात् सापि स्वविषय इति भाष्ये स्वशब्देन गृह्यत इत्यर्थः ।
स एव त्विति ।
ब्रह्मबोध एव विधितः प्रवृत्तिविषयः किं न स्यादित्यर्थः ।
यथा विशिष्टविधाविति ।
यथा खलु 'एतस्यैव रेवतीषु वार­व­न्ती­य­म­ग्नि­ष्टो­म­साम कृत्वा पशुकामो ह्येतेन यजेतेति रेव­या­धा­र­वा­र­व­न्ती­य­सा­म­सा­ध्याम् इष्टो­म­स्तो­त्र­वि­शि­ष्ट­क्र­तु­विधौ रेव­त्या­धा­र­वा­र­व­न्ती­य­सा­म­रू­प­वि­शे­ष­णस्य दधि­सो­मा­दि­वि­शे­ष­ण­व­द­न्यतः प्रसि­द्धि­र­हि­तस्य तत एव सिद्धिः एवमिहापीत्यर्थः । श्लोकेऽ­पे­क्षि­त­पु­र­णा­र्थम् एवमित्यादि । स्नाने­त्या­दि­व्य­ति­रेके दृष्टान्तः ।
यद्यपि घटादेरिति ।
वल्मीकादिषु भ्रमविषयस्य घटादेरित्यर्थः । अतो नित्यत्वं सत्यत्वम् अनि­त्य­त्व­म­स­त्य­त्व­मिति व्याख्यानेन न विरोधः ।
सुख­त्वा­न्नि­त्य­मिति ।
सत्यं हि 'यो वै भूमा तत्सुखमिति सुखरूपमुक्तम् । अथ यदल्पं तन्मर्त्यं नाल्पे सुखमस्तीति सत्यरूपस्य भूम्नः प्रति­द्व­न्द्व्यल्पं असत्यं दुःखरूपमुक्तम्, अतः साङ्गाध्ययनवतः शुद्धा­न्तः­क­र­णस्य सत्यासत्ययोः सुख­दुः­ख­त्व­नि­श्चयो भवतीत्यर्थः ।
स्वप्न­प्र­प­ञ्च­व­त्स­र्व­म­सत्यं चेत्, सत्य­त्वा­स­त्य­त्वयोः धर्मिभ्यां भाव्य­मि­त्यु­क्त­रूपो नित्या­नि­त्य­वि­वेको न सिद्ध्ये­दि­त्या­शङ्क्य, सत्य­सि­ध्य­र्थ­म­नु­भ­वो­प­पत्ती टीका­या­मु­प­न्यस्ते, ते विभजते –
दृष्टे इति ।
शुक्तिरजतादौ सद­धि­ष्ठा­न­त्वा­नु­भवः, तथात्वेन अस्फुटे स्वप्ना­दा­वु­प­पत्तिः ।
तामेवोपपत्तिमाह –
विगीतमिति ।
गन्ध­र्व­पु­र­मि­वेति ।
तत्र सौरालोकादिकं सदधिष्ठानमिति भावः । व्याप्त्य­सि­द्धि­शङ्का शून्यवादे वस्तुतः शून्यतैवेति मतेऽपि सैव सत्यास्तीति परिहारार्थः ।
इयतो विवेकस्येति ।
स्वप्नवत् सर्वस्य प्रप­ञ्च­स्या­स­त्यत्वं यदि स्यात् तदानीमपि अधि­ष्ठा­न­प­रि­शे­षोऽ­व­श्यं­भावी, तच्च सत्यं सुख­रू­प­मि­त्ये­ता­वतो निर्धा­र­ण­स्ये­त्यर्थः ।
सगुणनिर्गुणेति ।
परिशिष्यमाणं सत् सगुणं भवेत् निर्गुणं वा, निर्गुणत्वे कथमखण्डे तत्र समन्वय इत्या­दि­वि­चा­रा­र्थ­त्वेन शास्त्रारम्भः सफल इत्यर्थः । नैवं सति नित्या­नि­त्य­वि­वेकः प्रसि­द्ध­नि­त्या­नि­त्य­वि­षय एवास्तु किमर्थं सत्या­नृ­त­वि­ष­य­त्वेन क्लिष्ट­व्या­ख्यानं शास्त्रा­ना­र­म्भ­श­ङ्का­प­रि­हा­र­स्यो­क्तस्य तत्रापि तुल्यत्वात्, न च ब्रह्मानन्द एक एव नित्यः कर्म­फ­ला­दि­क­म­न्य­त्स­र्व­म­नि­त्य­मिति शास्त्रा­र­म्भा­त्प्रा­गेव निश्चये सति 'असंभवस्तु सतोऽ­नु­प­पत्तेः' (ब्र. अ. २ पा. ३ सू. १) इति ब्रह्म­नि­त्य­त्व­व्य­व­स्था­प­नस्य वैराग्यपादादिषु (ब्र. अ.३ पा.१) कर्म­फ­ला­द्य­नि­त्य­त्व­व्य­व­स्था­प­नस्य च वैफल्याप्रसङ्गः । प्रागेव संसा­र­ब­न्धा­नृ­त­त्व­नि­श्चये सति तत्स­म­र्थ­ना­र्थस्य तद्गु­ण­सा­र­त्वात्तु तद्य्वपदेशः (ब्र.अ.२ पा.३ सू.२७) 'यथा च तक्षोभयथा' (ब्र.अ.२ पा.२ सू.४०) इत्या­दि­सू­त्र­जा­तस्य वैफल्यप्रसङ्ग इति दूषणस्य तत्रापि तुल्यत्वात् । प्राङ्निश्चिते एव बन्धमिथ्यात्वे श्रुति­वि­रो­धा­दि­श­ङ्का­न्त­र­नि­रा­साय तद्गु­ण­सा­र­त्वा­दि­सू­त्र­जा­त­मिति परिहाररीतिस्तु पक्षान्तरेऽपि तुल्या । किञ्च नित्या­नि­त्य­व­स्तु­वि­वे­क­त्व­रू­पा­सि­द्धि­श­ङ्का­प­रि­हा­रा­र्था­तः­श­ब्द­व्या­ख्या­ना­सरे कर्म­फ­ल­नि­त्य­त्व­प्र­ति­पा­द­क­वा­क्येभ्यः तद­नि­त्य­त्व­प्र­ति­पा­द­क­वा­क्यानां प्राब­ल्य­मे­वो­प­प­त्ति­तया दर्शितं, न तु बन्ध­स­त्य­त्व­प्र­ति­पा­द­क­वा­क्येभ्यः तन्मि­थ्या­त्व­प्र­ति­पा­द­क­वा­क्या­नाम् । अतोऽपि हेतोः प्रसि­द्ध­नि­त्या­नि­त्य­वि­वेक एवात्र विवक्षित इति ज्ञायते, तस्मा­त्सा­मा­न्यतः सत्या­नृ­त­स­द्भा­व­नि­र्धा­रणं प्रसं­ख्या­न­ल­भ्य­ब­न्ध­मि­थ्या­त्व­नि­र्धा­र­ण­प­र्यन्तं नित्या­नि­त्य­व­स्तु­वि­वेक इत्यु­क्त­म­यु­क्त­मिति - चेत्, उच्यते । भाष्ये नित्या­नि­त्य­व­स्तु­वि­वे­का­न­न्तरं नित्य­फ­ल­प्रे­प्सा­म­न­पेक्ष्य तद्विवेकमात्रेण सकलकर्मफलविराग उक्तः । नित्य­व­स्तु­प्रे­प्सया तत्प्रा­प्यु­पा­या­न्वे­षणं पश्चादुक्तम्; अयं क्रमः - अनि­त्य­त्व­म­स­त्य­त्व­मिति व्याख्याने युज्यते, न त्वस्था­यि­त्व­मिति व्याख्याने । अस्थायिनं भोगं भुञ्जानः तत्परित्यागे स्थायि­भो­ग­ला­भ­मा­लक्ष्य हि ततो विरज्यते, नान्यथा । अनृतासक्तस्तु तदनृतत्वनिश्चये सति तत्परित्यागे तथा­भू­त­स­त्य­व­स्तु­ला­भ­प्र­ति­सं­धा­ना­भा­वेऽपि ततो विरज्यते । न हि रजतार्थी क्वचन रजतभ्रमेण प्रवृ­त्त­स्त­न्मि­थ्या­त्व­नि­श्वये सति तत्परित्यागेन सत्यरजतस्य स्वल­भ्य­ख­प्र­ति­सं­धा­ना­भावे ततो न निवर्त्तते । किन्तु ततो निवृत्तः सत्य­र­ज­त­प्रा­प्यु­पायं किंचित्पश्यति चेत् तत्र प्रवर्तते । तस्मात् नित्या­नि­त्य­व­स्तु­वि­वे­का­दि­क्र­मेण साधनचतुष्टयं ब्रह्म­जि­ज्ञा­सा­हेतुं वर्णयतो भगवतो भाष्यकारस्य सत्यमिदं सुखरूपमिति विशे­ष­नि­र्धा­र­ण­म­न­पेक्ष्य कर्म­फ­ला­नृ­त­व­नि­र्धा­र­ण­मेव वैरा­ग्या­दि­क्र­मेण साधनान्तराणां प्रव­र्त­क­मि­त्या­श­य­मा­लोच्य टीका­का­रै­रा­चा­र्यैश्च सामान्यतः सत्यमस्तीति विशिष्य बन्ध­मा­त्र­म­नृ­त­मिति च विवेकः प्रथमसाधनत्वेन परिगृहीतः । तदनन्तरम् अक्ष­य्या­दि­वा­क्यात् कर्म­फ­ल­नि­त्य­व­सि­द्धे­स्त­द­नृ­त­त्व­म­सि­द्धम् अनृतस्य तत्त्व­ज्ञा­न­नि­व­र्त्य­त्व­नि­य­मा­दिति शङ्कायां तद­नृ­त­त्व­सि­द्ध्य­र्थ­मेव न्यायतः तद­नि­त्य­त्व­म­तः­श­ब्देन सूत्रितमिति न किंचिदवद्यम् ।
तदभ्यास इति ।
जन­न­म­र­ण­प­रि­वृ­त्त्या­दि­रू­प­सं­सा­र­ब­न्धा­स­त्य­त्व­दृ­ढ­नि­श्च­य­प­र्यन्त इति शेषः ।
क्रियासमभिहारे इति ।
'क्रिया­स­म­भि­हारे लोट् लोटो हिस्वा'विति पाणिनिसूत्रेण क्रिया­पौ­नः­पु­न्य­वि­व­क्षायां सर्वलकारापवादेन लोड्विहितः । तस्य पर­स्मै­प­दा­त्म­ने­प­दयोः यथाक्रमं हिस्वावादेशौ च विहितौ । ननु क्रियासमभिहारे लुनीहि लुनीहीत्येवायं लुना­ती­त्या­यु­दा­ह­र­णे­ष्विव जायस्व जाय­स्वे­त्ये­वे­मा­दीनि जायन्ते, म्रियस्व म्रियस्वेत्येवं म्रियन्त इति, द्विर्भावस्तस्य तस्य धातो­र­नु­प्र­यो­गश्च प्राप्नोति । तत्सू­त्र­वा­र्तिके द्विर्भा­वा­नु­शा­स­नाद्, यथा­वि­ध्य­नु­प्र­योगः पूर्वस्मिन्निति सूत्रेण क्रियासमभिहारे तस्यैव धातोः अनु­प्र­यो­ग­नि­य­म­नाच्च । नैष दोषः । क्रिया­स­म­भि­हा­र­वत् जन­न­म­र­ण­रू­प­क्रि­या­द्व­य­स­मु­च्च­य­स्या­प्यत्र विव­क्षि­त­त्त्वात्, 'समु­च­येऽ­न्य­त­र­स्या­मिति सूत्रेण समुच्चयेऽपि लोण्म­ध्य­म­पु­रु­षै­क­व­च­न­वि­धा­नात् । तत्र हि न द्विर्भा­व­वा­र्ति­क­मस्ति; नापि यथा विध्य­नु­प्र­यो­ग­वि­धा­न­मस्ति, किन्तु समुच्चये सामा­न्य­व­च­न­स्येति सूत्रेण तावत् क्रिया­वि­शे­षा­नु­ग­त­सा­मा­न्य­व­च­नस्य अनुप्रयोगो विहितः । ओदनं भुक्ष्व, क्षीरं पिब, धानाः खाद, इत्ये­वा­य­म­भ्य­व­ह­र­ती­त्यादि तदुदाहरणम् । इहापि जन­न­म­र­णा­नु­ग­त­सा­मा­न्य­रू­प­वि­प­रि­वृ­त्ति­वा­चिनः अनुप्रयोगोऽस्ति । असकृदावर्तीनि भूतानि भवन्तीति क्रिया­स­म­भि­हा­र­स­मु­च्च­यो­भ­य­वि­व­क्षायां च समु­च्च­य­वि­व­क्षा­प्र­यु­क्त­मेव कार्यं भवति; 'विप्र­ति­षेधे परं कार्यमिति स्मरणात् ।
कात्यायनेन त्विति ।
'चतु­र्थी­त­द­र्थ­मा­त्रे­णेति चेत्, सर्व­प्र­स­ङ्गोऽ­वि­शे­षा­दिति, यथा­श्रु­त­सू­त्रार्थे अनु­प­प­त्ति­प्र­द­र्श­क­मेकं वार्तिकम्, सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण समासप्रसङ्गः, रन्धनाय स्थाली अवहननाय उलखलमित्यादावपि समासः प्रस­ज्ये­ते­त्यर्थः । विकृतिः प्रकृत्येति चेद् 'अश्व­घा­सा­दी­ना­मु­प­सं­ख्या­न'मिति वार्तिकान्तरं, यदि विकृतिवाची चतु­र्थ्य­न्त­शब्दः प्रकृतिवाचिना समस्यत इति विशेष्यते, तदा सर्वप्रसङ्गः परिहृतो भवति । किन्तु अश्वाय घासः अश्वघास इति समासो न प्राप्नोति प्रकृ­ति­वि­का­र­भा­वा­भा­वात् । अतः तत्सं­ग्र­हा­र्थ­मु­प­स­ङ्ख्यानं यत्नान्तरं कर्त­व्य­मि­त्यर्थः । एवमश्वघासादिषु चतुर्थीसमास इति वार्तिककारमतम् । एतदवलम्बनेनैव धर्माय जिज्ञासा धर्मजिज्ञासेति शब­र­स्वा­मि­भि­श्च­तु­र्थी­स­मासः समाश्रितः ।
कात्यायने नैवेति ।
कात्या­य­न­ग्र­ह­ण­म­ना­द­रेण शब्दा­भि­यु­क्त­मा­त्रो­प­ल­क्षणं भाष्य­का­रा­भि­प्रा­यम् । भाष्यकारैः खलु तत्र वार्ति­क­मु­ल्लङ्घ्य यथाश्रुतसूत्रं समर्थयमानैः षष्ठीसमासः समाश्रितः । अत्रेदं भाष्यकारीयं वार्ति­क­प्र­त्या­ख्या­नम् । प्रकृ­ति­वि­कृ­ति­ग्र­ह­णाय यत्नस्तावन्न कर्तव्यः । सूत्रे बलि­र­क्षि­त­ग्र­ह­णेन ज्ञापकेन तदर्थसिद्धेः । यदि हि तद­र्थ­स­मा­स­स्त­द­र्थ­मा­त्र­वि­षयः स्यात्, तदा कुबेराय बलि: कुबेरार्थो भवति, अश्वाय रक्षितम् अश्वार्थ भवतीति कुबेरबलि: अश्वरक्षितमिति समासयोः तद­र्थ­स­मा­स­वि­धि­नैव सिद्धेः पृथ­ग्ब­लि­र­क्षि­त­ग्र­हणं न कर्तव्यं स्यात् । तत्कृतं ज्ञापयति तदर्थसमासः प्रकृ­ति­वि­कृ­ति­मा­त्र­वि­षय इति । तथा अश्व­घा­सा­द्यु­प­सं­ख्या­न­य­त्नोऽपि न कर्तव्यः; तेषु षष्ठी­च­तु­र्थी­स­मा­सयोः स्वर­वै­ष­म्या­भा­वेन षष्ठी­स­मा­सो­प­पत्तेः इति॥ एवं सूत्रा­नु­सा­रि­भा­ष्य­का­र­म­त­प्रा­ब­ल्यात् वार्ति­क­का­र­म­त­म­ना­दृत्य चतु­र्थी­स­मा­सा­सं­भव उक्तः । इदमेव भाष्य­का­र­म­त­म­नु­सृत्य भट्टपादैः धर्माय जिज्ञासेति शबरस्वामिवचनं षष्ठी­स­मा­स­ल­ब्धा­र्थि­का­र्थ­प्र­द­र्श­न­परं, न तु विग्र­ह­प्र­द­र्श­न­प­रम् । तस्य ज्ञातुमिच्छेति निगमनवाक्येन षष्ठी­स­मा­स­वि­भा­व­ना­दिति व्याख्यातम् । आत्म­ने­प­द­प­र­स्मै­प­द­श­ब्दयोः प्रकृ­ति­वि­का­र­भा­वा­भा­वेऽपि ताद­र्थ्य­स­मा­सस्तु 'वैया­क­र­णा­ख्यायां चतुर्थ्या' इत्य­लु­ग्वि­धा­न­सा­म­र्थ्यात् । न च तस्मादेव ज्ञापकात् सर्वत्रापि तादर्थ्यसमासः शङ्कनीयः; तथा सति बलि­र­क्षि­त­ग्र­ह­ण­वै­य­र्थ्या­प­त्ते­रु­क्त­त्वात् ।
समा­सा­न्त­र­मु­प­सं­ख्या­त­मिति ।
षष्ठी­सू­त्र­वि­हितं समासान्तरं भाष्य­का­रै­र­ङ्गी­कृ­त­मि­त्यर्थः । न च 'ज्ञातं ब्रह्म विषयो' 'ज्ञातं ब्रह्म प्रयोजनमिति ब्रह्म विष­य­प्र­यो­ज­नो­भ­य­रू­प­मि­ष्यते । तत्र प्रयो­ज­न­त्व­प्र­ति­प­त्त्यु­प­योगी चतुर्थीसमास इहासाधुरिति त्यक्तः । एवमेवात्र विष­य­त्व­प्र­ति­प­त्त्यु­प­योगी षष्ठी­स­मा­सोऽ­प्य­सा­धु­रेव । तथा हि, केन सूत्रेणेह षष्ठी; 'षष्ठी शेषे' इति सूत्रेण वा, 'कर्तृ­क­र्मणोः कृती'ति सूत्रेण वा । नाद्यः; कर्मत्वं वाच्यं परिग्राह्यमिति शेषषष्ठ्याः त्वया त्यक्तत्वात् । न द्वितीयः, 'प्रति­प­द­वि­धाना च षष्ठी न समस्यत' इति वार्तिकेन वैशे­षि­क­सू­त्र­वि­हि­त­षष्ठ्याः समासप्रतिषेधात् । अत एव सर्पिषो ज्ञानमित्यत्र सर्पिषा करणेन प्रवृत्तिः इत्यर्थके 'ज्ञोऽवि­द­र्थस्य करणे' इति सूत्रेण वित्ति­व्य­ति­रि­क्त­प्र­वृ­त्ति­रू­पा­र्था­न्त­र­मु­क्तम् ।
जाना­ति­क­र­ण­त्व­नि­मित्ता प्रतिपदविहिता षष्ठीति न समास इत्याशङ्क्याह –
कर्तृकर्मणोः कृतीति ।
कर्मत्वस्य वाच्य­त्व­सि­द्ध्यर्थं द्वितीयपक्ष एवात्र परिगृह्यते । अस्ति ह्यत्र कृद्योगः; जिज्ञासापदस्य 'अप्र­त्य­या­दिति प्रत्य­या­न्त­धा­तो­रु­परि विहि­ता­का­र­प्र­त्य­या­न्त­त्वात्, अकारप्रत्ययस्य च 'कृदतिङिति सूत्रेण कृत्सं­ज्ञ­क­त्वात् । न च समासासंभवः, 'कृद्यो­ग­ल­क्षणा च षष्ठी समस्यत' इति प्रति­प­द­वि­धा­न­त्वेऽपि कृद्यो­ग­नि­मि­त्त­षष्ठ्याः समा­सा­भ्य­नु­ज्ञा­ना­दिति भावः ।
ननु कृद्यो­ग­ल­क्ष­ण­ष­ष्ठी­ष्वपि कर्मणि या षष्ठी तस्याः समासः कर्मणि चेति सूत्रेण प्रतिषिद्ध इत्याशङ्क्याह –
यस्तु कर्मणीति ।
'कर्मणि चेति सूत्रेण कर्म­ष­ष्ठी­मा­त्रस्य समासप्रतिषेधो न भवति तथा सति 'कर्तरि चेति सूत्र­वै­य­र्थ्य­प्र­स­ङ्गात् । तेन हि सूत्रेण कर्तरि यौ तृजकौ ताभ्यां सह कर्मणि षष्ठ्याः समासो निषिध्यते । अपां स्रष्टा ओदनस्य भोजक इत्यादौ । न च कर्म­ष­ष्ठी­मा­त्रस्य अत्र समासनिषेधे तत्सफलं भवेद् । अतः कर्मणि चेति सूत्रे चकार इतिकारार्थः । कर्मणीति शब्दमुच्चार्य या षष्ठी नियमिता, सा न समस्यत इति तदर्थः । ततश्च 'उभ­य­प्राप्तौ कर्मणीति सूत्रेण कर्मणीति शब्दमुच्चार्य नियमिता षष्ठी तस्य समासप्रतिषेधस्य विषयः, न तु 'कर्तृ­क­र्मणोः कृती'ति सूत्रविहिता कर्मणि षष्ठीत्यर्थः । नन्वि­हा­प्यु­भ­य­प्रा­प्ति­सू­त्र­नि­य­मि­तैव कर्मणि षष्ठी । तस्य हि सूत्रस्यैवमर्थः । कर्तृ­क­र्म­णो­रु­भयोः षष्ठीप्राप्तिः यत्रै­क­स्मि­न्कृति भवति तस्मिन् कृति सति कर्मण्येव षष्ठी न कर्तरीति । तथा चात्र साध­ना­च­तु­ष्ट­य­सं­पन्नः कर्ता यदि श्रूयेत, तदा तस्मिन्नपि कर्मणीव 'कर्तृ­क­र्मणोः कृतीति सूत्रेण षष्ठ्याः प्राप्तौ निमित्तं भवति । जिज्ञासेति कृत्प्रत्ययः ।
अतोऽत्र 'कर्मणि चेति समासप्रतिषेधः स्यादे­वे­त्या­श­ङ्क्याह –
साम­र्थ्या­दु­पा­दा­न­प्रा­प्ता­विति ।
'कृत्वो­र्थ­प्र­योगे कालेऽ­धि­क­रणे' इति व्यव­हि­त­पू­र्व­सू­त्रात् प्रयोग इत्यनुवर्तते । तच्च कर्तृ­ग­त­कि­ञ्चि­द­ति­श­य­वि­व­क्षा­सा­म­र्थ्यात् कर्तृ­क­र्मो­भ­य­प्र­यो­गा­व­श्यं­भा­व­प­रम् । एवं चाश्चर्यो गवां दोह इत्या­दि­रे­वो­भ­य­प्रा­प्ति­सू­त्र­वि­षयः । तत्र ह्याश्च­र्य­श­ब्द­सू­चि­त­क­र्तृ­ग­ता­ति­श­यो­प­पा­द­नो­प­यो­गि­तया दुर्दो­ह­त्व­रू­पा­जा­दि­वै­ल­क्ष­ण्य­सू­च­नाय गोत्वेन दोहकर्मणां तदो­हा­सा­म­र्थ्य­सं­भा­व­ना­सू­च­नाय अशि­क्षि­त­त्वा­दिना दोहकर्तुश्च उपादानमपेक्षितं कृतं, नेह तथा किंचि­द­ति­श­य­वि­व­क्ष­या­कर्तुः उपादानं कृतमस्तीति नात्र उभ­य­प्रा­प्ति­सू­त्रेण कर्मणि षष्ठी­नि­य­म­न­मि­त्यर्थः । ननु यत्र कर्तृ­क­र्मो­भ­य­प्र­योगो नास्ति, तत्र गम्यमानेऽपि कर्म­ण्यु­भ­य­प्रा­प्ति­सू­त्रेण कर्तरि षष्ठ्याः प्रति­षे­ध­म­भि­प्रेत्य तृतीयाप्रयोगः सूत्रकारेणैव कृतो दृश्यते । 'अन्तर्द्धौ येना­द­र्श­न­मि­च्छ­तीति; अन्त­र्द्धि­नि­मित्तं यत्क­र्तृ­क­द­र्श­ना­भावं स्वात्मनः कर्मणः अन्त­र­ङ्ग­प्र­त्या­सत्त्या गम्य­मा­न­स्ये­च्छति तस्य अपादानसंज्ञा अनेन सूत्रेण विधीयते । तथा चोपा­ध्या­या­द­न्त­र्धत्त इत्यत्र पञ्चमी भवति । न च कर्मणि गम्यमाने एवो­भ­य­प्रा­प्ति­सू­त्र­प्र­वृ­त्ति­वत् कर्तरि गम्यमाने इति विशेषः शङ्कनीयः । कर्तृ­क­र्मो­भ­यो­पा­दा­न­नि­य­म­भङ्गे सत्यस्य विशेषस्य अप्रयोजकत्वात्, इहा­प­रि­तो­ष­श्चेत्, एवं परिहारो द्रष्टव्यः । अकाकारयोः प्रतिषेधो नेति वक्तव्यं; शेषे विभाषेति भाष्यकारैः उभयप्राप्ती कर्मणीति कर्तरि षष्ठी­प्र­ति­षे­धस्य अके अकारे च कृति नित्य­म­प्र­वृत्तिः, स्त्रीप्र­त्य­य­रूपे कृति, तद्व्य­ति­रि­क्त­मात्रे वा विकल्पेन अप्र­वृ­त्ति­श्चोक्ता, उदाहृतं च भेदिका देवदत्तस्य काष्ठानां; चिकीर्षा विष्णुमित्रस्य कटस्येति, शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिरिति च । तस्मादिह जिज्ञासा इत्य­का­र­प्र­त्य­य­यो­गात् नोभ­य­प्रा­प्ति­सू­त्र­वि­ष­य­त्व­श­ङ्का­व­काश इति । अयमपि परिहारो जिज्ञासापदस्य अका­र­प्र­त्य­या­न्तत्वं दर्श­य­द्भि­रा­चार्यैः सूचितः ।
व्याख्यातमिति ।
चर­म­वा­त्स्फु­ट­त्व­प­र­त­येति शेषः । परमाप्तस्य सूत्रकारस्य उपदेशमात्रेणापि विश्वासः स्यादि­त्या­शङ्क्य - न्यायसूत्र इति विशेषितम् ।
फलेच्छाया एवेति ।
फलेच्छैव हि स्वसा­ध­न­त्वो­पा­धिना उपा­ये­च्छा­मा­द­धाति, अत उपायेच्छा फलविषयापि भवतीत्येतद् युज्यत इति भावः ।
आर्थिके चास्मिन्निति ।
टीका­या­मे­षि­त­व्य­मि­त्युक्त्या सूत्रे जिज्ञासा कर्तव्येति कर्त­व्य­प­दा­ध्या­हारः सूचितः, स तु जिज्ञासापदस्य कृति­यो­ग्य­वि­चा­रा­र्थ­क­त्वा­भि­प्रायो न भवति; ब्रह्म­जि­ज्ञा­साया अन­धि­का­र्य­त्वा­दिति भाष्ये जिज्ञासाशब्दस्य अन­धि­का­र्य­ज्ञा­ने­च्छा­प­र­त्व­स्या­ङ्गी­कृ­त­त्वात्, किं तु आर्थि­क­वि­चा­र­क­र्त­व्य­त्वा­भि­प्राय इत्यर्थः ।
अर्थ­वि­व­क्षा­प्र­ति­ज्ञा­व­दिति ।
ननु अर्थ­वि­व­क्षा­प्र­तिज्ञा विचा­र­प्र­ति­ज्ञेति नास्ति प्रतिज्ञाद्वयं धर्म­जि­ज्ञा­सा­सूत्रे, (जै.सू.अ.१ पा.१ सू.१) येन आद्य­प्र­ति­ज्ञायां धर्मग्रहणं वेदा­र्थ­मा­त्रो­प­ल­क्षणं, न द्विती­य­प्र­ति­ज्ञा­या­मिति विभज्येत, किं तु एकैव तत्र विचारप्रतिज्ञा वेदस्य । विव­क्षि­ता­र्थत्वं तु अतःशब्देन तत्र हेतुतयोच्यते, तद्धे­तू­क­र­ण­सा­म­र्थ्याच्च वेदस्य अध्य­य­न­वि­नि­यो­ग­शे­ष­त्वेन विष­नि­र्ह­र­णा­दि­म­न्त्र­व­द­वि­व­क्षि­ता­र्थ­त्व­शङ्का निरस्यत इति चेत्, सत्यम् । धर्ममात्रस्य तत्र विचा­र्य­त्व­प्र­ति­ज्ञा­या­मपि विशिष्य धर्म­प­र­वे­द­भा­ग­मा­त्रस्य विव­क्षि­ता­र्थत्वं न हेतुः, तथा सति वेदान्तभागस्य अवि­व­क्षि­ता­र्थ­त्व­श­ङ्कायां न्यायतौल्येन पूर्वभागस्यापि तद्वत् अवि­व­क्षि­ता­र्थ­त्व­म­स्त्विति शङ्कायाः स्थिरी­क­र­णा­पत्तेः । किन्तु कृत्स्न­वे­दा­ध्य­य­ना­न­न्त­र्यस्य अथ­श­ब्दा­र्थ­त्वात् अधीतस्य कृत्स्नस्य वेदस्य विव­क्षि­ता­र्थत्वं हेतुतयोच्यते इत्यत्र तात्पर्यम् । एवं च धर्मग्रहणस्य वेदा­र्थ­मा­त्रो­प­ल­क्ष­ण­त्वा­दिति टीकायां धर्मस्य यद्ग्रहणम् अत­श्श­ब्दो­क्त­वि­व­क्षि­ता­र्थत्वे हेतौ अर्थ­श­ब्दे­नो­पा­दानं तस्य वेदा­र्थ­मा­त्रो­प­ल­क्ष­ण­त्वा­दि­त्यर्थो दर्शितो भवति । टीकायामपि स एवार्थः प्रकृतोपयोगी । तत्र हि ब्रह्म­जि­ज्ञा­सा­सूत्रं ब्रह्म­ज्ञा­ने­च्छो­प­द­र्श­न­मु­खेन तदर्थायां ब्रह्म­मी­मां­सायां प्रवर्तनार्थं, न तु वेदान्ताध्ययने प्रवर्तनार्थं वेदान्तानां विव­क्षि­ता­र्थ­त्वो­प­पा­द­नार्थं वा इत्युक्त्वा वेदान्ताध्ययने प्रवृत्तेः अध्ययनविधिना सिद्धत्वादिति हेतुं स्पष्टत्वात् अप्रदर्श्य वेदान्तानां विव­क्षि­ता­र्थ­त्वस्य फल­व­द­र्था­व­बो­ध­प­र­ताम् अध्ययनविधेः सूत्रयता धर्म­जि­ज्ञा­सा­सू­त्रे­णैव (जै. अ.१ पा.१ सू.१) सिद्धत्वादिति हेतुः प्रागुक्तः । तदुपादानार्थं विव­क्षि­ता­र्थ­त्वा­दिति हेतौ अर्थग्रहणस्य वेदा­न्ता­र्थ­सा­धा­र­ण्य­मेव वक्तव्यं, न तु धर्म­जि­ज्ञा­से­त्यत्र धर्मग्रहणस्य । अत इह टीका­का­र­ध­र्म­श­ब्दस्य वेदा­र्थ­मा­त्रो­प­ल­क्ष­णत्व वदद्भिः धर्म­जि­ज्ञा­सा­सूत्रं वेदा­र्थ­वि­चा­र­प्र­ति­ज्ञा­परं विंश­ति­ल­क्ष­णी­सा­धा­र­णम् अङ्गीकृतमिति न मन्तव्यम् । सामान्यतो दृष्ट­नि­ब­न्ध­न­व­च­न­व्य­क्त्या­भा­स­प्र­ति­बद्धः संदिग्धार्थः स्यादिति । यद्यपि तत्त्व­म­सी­त्या­दि­र्वे­दा­न्त­स्वा­र­स्येन ब्रह्मात्मैक्यं बोधयति; तथाप्यन्यत्र क्वचिद् दृष्ट­मि­त्ये­ता­व­न्मा­त्र­म­व­लम्ब्य प्रवृत्तान् वच­न­व्य­क्त्या­भा­सान् वाक्य­यो­ज­ना­भा­सान् वादिभिः उत्प्रेक्षितान् पश्यतस्तैः प्रतिबद्धः सन् वेदान्तः संदिग्धार्थः स्यात् । तथा हि "अनृक्षरा ऋजवः सन्तु पन्था' इत्यत्र पन्थान इति बहुवचनस्य 'सुपां सुलु­गि­त्या­दि­सू­त्रेण स्वादेशो दृष्टः, उत 'यत्सु­न्वन्ति सामि­धे­नी­स्त­द­न्वाह' इत्यत्र यत्तद्भ्यां सप्तम्याः तेनैव सूत्रेण अलुग् दृष्टः, 'गायत्री छन्दसां माता' इत्यत्र द्वितीया प्रथमार्थं इति विभतिव्यत्ययो दृष्टः । एवं तत्त्वमसीत्यत्र तदि­त्य­स्मा­च्च­तुर्थ्याः स्वादेशो लुग् विभक्तिव्यत्ययो वेति तस्मै जगत्कारणाय ब्रह्मणे त्वं । तदात्मा समर्पणीय इत्यर्थः; 'ब्रह्मणे त्वा महस ॐ इत्यात्मानं युञ्जीतेति श्रुत्यन्तरात् । अथवा पञ्चम्याः स्वादेशादिभिः तस्मात्त्वं तस्मा­ज्जा­त­स्त्व­मि­त्यर्थः । 'यतो वा इमानि भूतानि जायन्त' इति श्रुत्यन्तरात् । अथवा षष्ठ्याः स्वादेशादिभिः तस्य त्वं तत्स्वा­मि­क­स्त्व­मि­त्यर्थः । 'सकारणं करणाधिप' इति श्रुत्यन्तरात् । अथवा सप्तम्याः स्वादेशादिभिः तस्मिंस्त्वं तदा­श्रि­त­स्त्व­मि­त्यर्थः । 'प्राण­ब­न्धनं हि सोम्य मन' इति तत्रैव श्रवणात् । अथवा ब्राह्मणस्त्वं मनु­ष्य­स्त्व­मि­त्या­दि­वत् शरी­र­श­री­रि­भा­व­नि­ब­न्धनं तत्त्वमिति सामानाधिकरण्यम् । 'यस्यात्मा शरीरमिति श्रुत्यन्तरात् । अथवा 'अघो­राऽ­पा­प­का­शिनी' इत्यत्रेव अकारप्रश्लेषात् अतत्त्वमसीति च्छेदः, 'द्वा सुपर्णे' त्यादि­भे­द­श्रु­त्य­नु­रो­धा­दिति । एवं 'मीमांसका हि वाक्यार्थविचारे प्रस्तुते सति । लोकदृष्टीः प्रतिघ्नन्ति वच­न­व्य­क्ति­पां­सुभिः॥' इति ग्रहाधिकरण (जै.अ.३ पा.३ सू.१४) वार्ति­को­क्त­रीत्या तत्त­दु­त्प्रे­क्षि­त­व­च­न­व्य­क्त्या­भा­सा­पा­दि­त­सं­दे­हा­क्रान्ता तत्त्व­म­स्या­दि­वा­क्य­जन्या ब्रह्मा­त्मै­क्यधीः आपाततः प्रसि­द्धि­रि­त्यर्थः । वच­न­यु­क्त्या­भा­सेति पाठे द्वा सुपर्णेत्यादयो भेद­प्र­ति­पा­द­न­च्छा­या­पत्त्या वचनाभासाः तदु­पो­द्ब­ल­क­यु­क्तयो युक्त्याभासाः । सामान्यतो दृष्ट­व­च­न­व्यक्त्या आपाततः प्रसिद्धः संदिग्धार्थः स्यादिति पाठः प्रागुक्त एवार्थे योजनीयः । सामान्यतो दृष्टेन या वचनव्यक्तिः तया अर्था­न्त­रा­णा­म­प्या­पा­ततः प्रतीतेः संदिग्धार्थः स्यादिति । ब्रह्मा­त्म­स्व­रू­प­नि­र्णा­य­क­वा­क्येषु अर्थसंदेहेऽपि नित्या­नि­त्य­व­स्तु­वि­वे­का­न्त­र्ग­त­ब­न्ध­मि­थ्या­त्व­स­द्रू­प­त­द­धि­ष्टा­ना­व­श्यं­भा­व­नि­श्चयो मोक्षा­र्थ­प्र­वृ­त्त्यु­प­यो­ग्य­न्तः­क­र­ण­शु­द्ध्या­पा­द­क­क­र्मा­नु­ष्ठा­न­म­हिम्ना इति प्रागेवोक्तम् । ततस्तु प्राग्दे­हा­द्य­भे­दे­नेति टीकाग्रन्थो न चार्वा­क­म­ता­भि­प्रायः । तन्मते मुक्तौ देहात्मनोः भेद इत्यस्याभावात् ।
नापि भ्रान्ति­कृ­ताऽ­भे­दा­भि­प्रायः; तस्य सिद्धा­न्त्य­भि­म­त­त्वेन अनि­रा­का­र्य­त्वा­दि­त्या­शङ्क्य तत्तात्पर्यमाह –
भेदाभेदमतेन शङ्केति ।
षष्ठ्योः सामानाधिकरण्ये हेतुमाह –
जीवस्य हीति ।
तत्पदार्थस्य धर्मिणो जीवा­त्प­दा­र्था­न्त­रत्वे हि धर्म्यपि तत्प­दे­ना­पू­र्व­तया बोधनीयः । न तु स जीवा­त्प­दा­र्था­न्त­र­मिति तद्गतं शुद्धत्वाद्येव संसारदशायाम् अवि­द्या­ति­रो­हि­त­त्वेन अप्रसिद्धं तेन ज्ञापनीयम्; अत­स्त­त्प­दा­र्थस्य शुद्ध­त्वा­दे­श्चेति न वैय­धि­क­र­ण्य­मि­त्यर्थः । यद्यपि तत्पदार्थस्य यत् शुद्ध­त्वा­दी­त्येव वैयधिकरण्यं वक्तुं शक्यं, तथापि त्वंपदार्थ एव तत्पदार्थ इत्य­भे­द­दृ­ढी­क­र­णाय तदपि परि­त्य­क्त­मि­त्यर्थः । सर्वस्य ब्रह्मा­स्ति­त्व­प्र­सि­द्धि­रिति साध्यं, सर्वो हि तत्प्रत्येतीति हेतुरिति तयोरविशेषशङ्का ।
तत्प­दा­र्थ­मा­त्रस्य प्रसिद्धिरिति ।
तत्पदबोध्यस्य धर्मिण इत्यर्थः, न तु प्राची­न­टी­का­ग्रन्थ इव तद्वोध्यस्य शुद्ध­त्वा­दे­रि­त्यर्थः । तस्य प्रसि­द्ध्य­भा­वे­ना­नु­वा­दा­यो­गात् ।
वस्त्व­भा­व­सा­धि­केति ।
रज­ता­भा­व­प्र­ति­पत्तिः हि रजतबाधिका दृष्टा, तथेहापि स्यादित्यर्थः ।
साधा­र­णा­का­र­दृ­ष्टा­विति ।
साधा­र­ण­ध­र्मि­दृ­ष्टा­वि­त्यर्थः । विप्र­ति­प­त्ति­ज­न्य­सं­शये समा­न­ध­र्म­द­र्श­नस्य अनपेक्षितवाद्, अग्रे विरु­द्ध­प्र­ति­पत्त्योः साधारणालम्बनस्य धर्मिण एवात्र सद्भा­वो­प­पा­द­न­द­र्श­नाच्च । एवं च न त्विहे­त्या­द्य­ग्रि­म­वा­क्येऽपि साधारणो धर्मीत्येव पाठो युक्तः । अत एव साधा­र­ण­ध­र्मि­स्फु­र­णेऽ­पी­त्य­ग्रि­म­ग्रन्थे सकलकोशेषु धर्मिशब्दस्यैव पाठः ।
न हि साधारणः शास्त्रार्थ 'इति ।
संदे­ह­वि­ष­य­को­टि­द्व­य­सा­धा­रणो धर्मी न शास्त्र­प्र­ति­पाद्यः, संप्र­ति­प­न्न­त्वा­दि­त्यर्थः ।
तत्प­दा­र्थ­प्र­ती­ते­रिति ।
आस्तिकभेदवादिषु निरीश्वरवादिनां तत्प­दा­र्थ­प्र­ती­ते­र्गौ­ण­तायां सेश्वरवादिनां तत्त्व­म­र्थै­क­त्व­प्र­तीतेः, गौणतायामिति विगा­न­मि­त्य­प्रे­त­ने­ना­न्वि­तम् । सांख्या निरीश्वरा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे इति संबन्धः ।
तत्र हेतुमाह –
जननेति ।
स्मृत्या­दि­भि­श्चेति ।
स्मरन्ति च (ब्र. अ. २ पा. ३ सू. ७४) अपि च सप्त (ब्र.अ.३ पा.१सू.१५) बहिस्तूभयथापि स्मृतेराचाराच्च (ब्र. अ. ३ पा. ४ सू. ४३) आचारदर्शनात् (न. अ. ३ पा. ४ सू. ३) इत्यादिसूत्रैः नर­क­या­त­ना­स­द्भा­वा­रू­ढ­प­ति­त­ब­हि­ष्क­र­णादौ प्रमाणत्वेन उपनिबद्धानां स्मृत्याचाराणां प्रामाण्यं वेदमूलत्वेनेति तैर्वेदानुमाने, अनु­मा­न­स्व­रू­प­नि­र्ण­य­स्यो­प­योग इत्यर्थः ।
तेन विहितेति ।
यस्मात् न्यायशास्ने लक्षणमुखेन प्रमा­ण­प्र­मे­या­दि­वि­वे­चनं कृतं, तेन हेतुना समा­न­ना­म­रू­प­त्वा­दि­सूत्र (ब्र. अ.१ पा.३ सू.३०) निबद्धे वैदिकानां याग­दे­व­ता­स­म­र्प­के­न्द्रा­दि­श­ब्दानां जातिरर्थः इति विवेके जानश्रुतौ शूद्रशब्दस्य न शूद्र­त्व­जा­ति­रर्थः, किन्तु यौगिकत्वेन व्यक्तिरिति विवेके च जाति­व्य­क्ति­प­दा­र्थ­वि­वे­च­न­द्वारा आनु­मा­नि­क­वे­द­स्व­रू­प­ग्र­हणे अनु­मा­न­नि­र्ण­य­द्वारा च न्याय­शा­स्त्र­स्यो­प­योग इत्यर्थः॥
इति जिज्ञा­सा­धि­क­र­णम्॥१॥

जन्माद्यस्य यतः॥२॥
यतो वेति ।
ननु 'यतो वे'त्यादि­वा­क्यस्य ब्रह्म­ल­क्ष­क­त्वा­ल­क्ष­क­त्व­सं­शयः, न तदुक्तलक्षणस्य जगज्जन्मादेः प्रसि­द्ध्य­प्र­सि­द्धिभ्यां, किन्तु विरो­धा­वि­रो­धा­भ्याम्, 'आन­न्दा­द्ध्ये­वेति' वाक्यस्यैव संशयः तदु­क्त­स्व­रू­प­ल­क्ष­णस्य प्रसि­द्ध्य­प्र­सि­द्धि­भ्याम्, अतः कथमेवमुक्तम् इतिचेत्, उच्यते । स्वरूपलक्षणमपि यतो वेत्या­दि­वा­क्य­मू­लम् । तदुक्तं, जगत्कारणमनूद्य हि तस्य आन­न्द­त्व­वि­धा­य­क­मा­न­न्द­वा­क्यम् इति । अत इत्थमुक्तौ नानुपपत्तिः । ननु जन्माद्यस्य यत इति सूत्रोपात्तस्य पूर्व­प­क्ष­सि­द्धा­न्ताभ्यां प्रथमं समर्थ्यमानस्य तटस्थलक्षणस्य विरो­धा­वि­रो­धाभ्यां 'यतो वे'त्या दिवाक्यस्य ब्रह्म­ल­क्ष­क­त्वा­ल­क्ष­क­त्व­सं­शय एवा­धि­क­र­णा­ङ्ग­त्वेन दर्शयितुं युक्तः, न त्वतथाभूतस्य स्वरूपलक्षणस्य प्रसि­द्ध्य­प्र­सि­द्धि­भ्याम् यतो वेत्या­दि­वा­क्यस्य आन­न्द­वा­क्य­द्वारा ब्रह्म­ल­क्ष­क­त्वा­ल­क्ष­क­त्व­सं­शय इति-चेत्, उच्यते; सक­ले­त­र­व्या­वृ­त्त­ल­क्ष्य­बो­ध­न­स­म­र्थ­मिह लक्षणं निर्धारणीयं, जगज्जन्मादिकं तु न तथा, किन्तु शाखाग्रे चन्द्र इतिवत् तटस्थलक्षणम् । यथा दिग­न्त­र­स्थि­त­ता­र­का­दिभ्य एवं व्यावर्तकं, न तु शाखो­र्ध्व­दे­श­ग­त­च­न्द्र­स­मी­प­व­र्ति­ता­र­का­दिभ्यः । एवं जगज्जन्मादिकम् असं­भा­वि­त­का­र­ण­भा­वेभ्य एव व्यावर्तकं, न तु संभा­वि­त­का­र­ण­भा­वेभ्यः प्रधा­न­पु­रु­षा­दिभ्यः । अतः प्रकृ­ष्ट­प्र­का­श­वत् सक­ले­त­र­व्या­वृ­त्त­ल­क्ष्य­बो­ध­न­स­म­र्थ­स्व­रू­प­ल­क्ष­ण­मेव इह तट­स्थ­ल­क्ष­ण­द्वारा सूत्रकृता निर्दि­धा­र­यि­षितं, न तु तटस्थलक्षणमेव । अत एवाचार्यस्तस्य च निर्ण­य­वा­क्य­मि­त्या­दि­भा­ष्यस्य तात्पर्यं वक्ष्य­ते-स्व­रू­प­ल­क्ष­ण­प­रत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यमिति । तस्मात् प्रसि­द्ध्य­प्र­सि­द्धि­मू­ल­क­सं­श­यस्य अधिकरणाङ्गत्वेन प्रदर्शनं युक्तमेव॥
आक्षेपे इति ।
आक्षे­पा­धि­क­र­ण­मा­क्षे­प्या­धि­क­र­ण­सि­द्धा­न्त­फ­ले­नैव फलवद्, यथा औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः (जै. अ.१ पा.१ सू.५) इत्यधिकरणे शब्दा­र्थ­सं­ब­न्धस्य नित्यत्वेन वेदस्य निर­पे­क्ष­बो­ध­क­त्व­रू­प­प्रा­माण्ये समर्थिते शब्दा­र्थ­सं­ब­न्धस्य नित्यत्वमयुक्तं शब्दानामेव अनित्यवादिति तदा­क्षे­प­स­मा­धा­नार्थं प्रवृत्तं शब्दाधिकरणम् (जै. अ.१ पा. ३ सू. २८) अप­वा­दा­धि­क­र­ण­म­प­वा­दा­धि­क­र­ण­पू­र्व­प­क्ष­फ­लेन फलवत् । यथा स्मृत्यधिकरणे (जै. अ. १ पा. ३ सू.१-२) स्मृतीनां वेदमूलत्वेन प्रामाण्ये समर्थिते प्रत्य­क्ष­श्रु­ति­वि­रु­द्ध­स्मृ­तिषु वेद­मू­ल­त्वा­प­व­द­नार्थं प्रवृत्तं विरोधाधिकरणम् (जै. अ.१पा.३ सू. ३) । तदर्थाचिन्ता यदर्था सा तत्फलेन फलवती, यथा दर्श­पू­र्ण­मा­सा­दि­प्र­क­र­णा­म्ना­ता­न्य­ङ्गानि प्राकरणिकेष्वेव व्यवतिष्ठन्ते, न तु सौर्या­दि­ष्व­प्यु­प­दे­श­वि­धया पारिप्लवानि भवन्तीति । सप्तमाद्यचिन्ता सौर्यादिषु प्रया­जा­दी­ना­म­ति­दे­शेन प्राप्तिरिति अग्रि­म­चि­न्ता­फ­लेन फलवती । लक्षणनिरूपणं लक्ष्य­प­रि­च्छे­देन फलवत्, इत्येतेषु निय­तै­क­रू­प­फ­ल­वि­शे­षा­व­गतेः फलं न वक्तव्यं कृत्वा­चि­न्ता­याम् अन्यत्रैव फलमिति तत्र फल­व्य­ति­रे­क­नि­श्च­यात् फलं न वक्त­व्य­मि­त्यर्थः ।
कारणत्वं त्विति ।
यद्यपि जन्य­ज­न­क­भा­व­सं­ब­न्धेन जगद् ब्रह्म लक्षयतीति जगत एव ब्रह्म­ल­क्ष­ण­त्व­म­नु­प­द­मुक्तं; तथापि व्यावृ­त्ति­व्य­व­हा­रा­नु­मा­नयोः हेतूभवतो लक्षणस्य पक्षनिष्ठत्वेन भाव्यमिति ये मन्यन्ते तान­नु­रु­ध्यै­व­मु­क्तम् ।
जन्म आदिर्ययोरिति ।
ननु भाष्या­न­भि­म­त­म­त­द्गु­ण­सं­वि­ज्ञा­न­मा­श्रित्य विशेषविवक्षायां तस्मिन्नेव पक्षे यत्सू­त्र­गौ­र­व­मु­च्यते तदनुपपन्नम् । तथाहि अत्र विवक्षाविषयो न भवतीति प्रत्याख्येयो विशेषः, किं वा तद्विषयो भवतीत्युपादेयं सामान्यम् । जन्मा­दि­त्र­य­मध्ये अत­द्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­लभ्यं स्थितिभङ्गद्वयं विशेषः, तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­लभ्यं जन्मादित्रयं सामान्यमिति चेत्, कथमाद्यपक्षे गौरवं, द्वितीयपक्षे तत्परिहारश्च । जन्मा­दि­प­द­वि­ग्र­ह­वा­क्य­ग­त­य­त्प­द­वि­व­र­णार्थं जन्म­स्थि­ति­भ­ङ्गा­ना­मिति इत­रे­त­र­यो­ग­द्व­न्द्वा­श्र­यणे हि जन्म आदिः येषामिति विग्रहलाभात् जन्मादयो(अ)स्य यत इति सूत्र­र­च­ना­पत्त्या जन्म­स्थि­ति­भ­ङ्ग­रू­प­सा­मा­न्य­वि­व­क्षा­या­मेव अतिगौरवं स्यात् । समा­हा­र­द्व­न्द्वा­श्र­यणे तु स्थिति­भ­ङ्ग­द्व­य­रू­प­वि­शे­ष­वि­व­क्षा­या­मपि न गौरवम् । जन्म आदिर्यस्य स्थिति­भ­ङ्ग­स्येति विग्रहाश्रयणेन जन्माद्यस्य यत इत्येव सूत्र­र­च­नो­प­पत्तेः । न हि त्रय­वि­व­क्षा­या­मेव समा­हा­र­द्व­न्द्वा­श्र­यणं, न द्वय­वि­व­क्षा­या­मि­त्यस्ति नियमः । एतेन स्त्रीलि­ङ्ग­पुं­लिङ्गे लिङ्गविशेषौ नपुंसकलिङ्गं तदुभयानुगतं सामान्यं, न तु तृतीयं लिङ्गान्तरमिति शाब्दि­क­म­र्या­दा­श्र­य­णेन विशे­ष­सा­मा­न्य­श­ब्दा­र्थ­ग्र­ह­ण­श­ङ्कापि निरस्ता । स्थिति­भ­ङ्ग­द्व­य­ग्र­ह­णेऽपि लिङ्ग­सा­मा­न्य­वि­व­क्षायां जन्मादिषु त्रिष्वपि लिङ्ग­वि­शे­ष­वि­व­क्षा­याश्च कर्तुं शक्यत्वेन गौर­व­ला­घ­व­स्थि­त्य­भा­वात् । न हि लिङ्ग­वि­शे­ष­लि­ङ्ग­सा­मा­न्य­वि­वक्षे द्वित्रि­ग्र­ह­ण­यो­र्नि­यते, उच्यते; लिङ्ग­वि­शे­ष­वि­व­क्षायां गौरवं लिङ्ग­सा­मा­न्य­वि­व­क्षायां लाघवमित्येवात्र विवक्षितं, मूल­श्रु­त्य­नु­सा­रेण जन्मा­दि­त्र­य­का­र­णत्वं लक्षणमिति तल्लाभार्थं तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­रे­वा­त्रा­भि­मतः । तदाश्रयणे च लिङ्ग­वि­शे­ष­वि­व­क्षायां जन्मादयोऽस्य यत इति सूत्र­र­च­ना­पत्त्या गौरवं स्पष्टमेव । तत्र यद्याशङ्क्येत तर्हि अत­द्ग­ण­सं­वि­ज्ञा­न­ब­हु­व्री­ह्या­श्र­य­णेन लिङ्ग­वि­शे­ष­वि­व­क्षाऽ­स्त्विति, तत्रापि 'जन्मादी अस्य यत' इति सूत्र­र­च­ना­पत्त्या गौरवमस्तीति विभावयितुं जन्म आदिर्ययोः इत्या­दि­ग्र­न्थ­प्र­वृ­त्ति­रिति न कश्चिद्दोषः ।
ननु लिङ्ग­सा­मा­न्य­वि­व­क्षा­या­मपि 'जन्मा­दी­न्यस्य यत' इति सूत्र­र­च­ना­पत्त्या गौरवं स्यात् इत्या­श­ङ्का­नि­रा­क­र­णा­र्थम् उत्त­र­टी­का­ग्र­न्थ­म­व­ता­र­यति –
तत्र नपुंसकैकवचनेति ।
इत­रे­त­र­यो­ग­द्व­न्द्व­स­मा­श्र­यणे लिङ्ग­सा­मा­न्य­वि­व­क्षा­भ्य­नु­ज्ञा­ना­भा­वात् जन्मादीनि इति सूत्र­र­च­ना­पत्त्या गौरवं स्यात् । इह तु सर्वो द्वन्द्वो विभा­षै­क­व­द्भ­व­तीति परिभाषासिद्धः समाहारद्वन्द्वः समाश्रीयते । तत्र ‘स नपुंसकमिति सूत्रेण लिङ्ग­सा­मा­न्य­वि­व­क्षाऽ­भ्य­नु­ज्ञा­तेति नपुंसकैकवचनेन सूत्रलाघवं लभ्यत इत्यर्थः ।
स्वभाव एव नियन्तेति ।
"कालः स्वभावो नियतिर्यदच्छा भूतानि योनिः पुरुष इति चिन्य"मिति श्वेता­श्व­त­रो­प­नि­ष­न्म­न्त्रेण काल­का­र­ण­त्वा­दि­वादाः प्रत्याख्याताः । "कथमसतः सज्जा­यते"ति श्रुत्या तु असत्कारणत्ववादः । तैरिह पूर्वपक्षः कृतः । मन्त्रे पुरुषशब्दस्य विवरणं टीकायां, ग्रह­लो­क­पा­ल­श­ब्देन कृतम् । इदं हिर­ण्य­ग­र्भा­दी­ना­म­प्यु­प­ल­क्ष­णम् । क्रियाशब्देन नियतिशब्दस्य, प्रधानशब्देन योनिशब्दस्येति विवेकः । अति­व्या­प्ति­श­ब्देन कालादीनामेव कारणत्वोपपत्तौ ब्रह्म कारणं नाभ्यु­प­ग­न्त­व्य­मि­त्य­स­म्भवो विवक्षितः । तत्र पुरुषपूर्वपक्षः श्रुत्य­न्त­रा­व­ल­म्बनः । प्रश्नोपनिषदि हि "षोडशकलं पुरुषं" प्रस्तुत्य 'तं त्वा पृच्छामि क्वासौ पुरुष इति' भारद्वाजप्रश्ने "तस्मै स होवाच इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्ति, स ईक्षाञ्चक्रे कस्मिन्नु अहमत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति, स प्राणमसृजत् प्राणाच्छद्धा खं वायु­र्ज्यो­ति­रापः पृथि­वी­मि­न्द्रियं मनोऽ­न्न­म­न्ना­द्वीर्यं तपो मन्त्राः कर्म लोकाः लोकेषु नाम चेति' जीवस्यैव प्राणा­दि­ना­मा­न्त­षो­ड­श­क­ला­स्र­ष्टृत्वं श्रूयते । अयं च जीवपूर्वपक्ष इहैवाधिकरणे निराकार्यः, न प्रधा­ना­दि­पू­र्व­प­क्ष­व­द­धि­क­र­णा­न्तरे निराकृतः । "कस्मिन्नु अह­मु­त्क्रान्त" इत्या­दि­प्र­श्नो­प­नि­ष­द्वा­क्य­मपि पर­ब्र­ह्म­वि­ष­य­मेव; "तान् होवाच, एता­व­दे­वा­ह­मे­त­त्परं ब्रह्म वेद नातः परमस्तीति” तदुपसंहारे पिप्पलादवचनात् । सक­लो­प­नि­ष­त्प्र­सि­द्धस्य जीवाधिकस्य परब्रह्मणश्च अप­ल­पि­तु­म­श­क्य­त्वात् । प्राणो­त्क्रा­न्ति­प्र­ति­ष्ठाभ्यां परब्रह्मणः स्वोत्क्रा­न्ति­प्र­ति­ष्ठा­व­त्त्वम्, ईक्षणं तु स्वस्य तथा­भू­त­जी­वा­भे­दा­भि­प्रा­ये­णेति तन्निराकरणं द्रष्टव्यम् ।
यदसदिति प्रसिद्धमिति ।
यद्यपि स्रष्ट­व्य­स­जा­ती­य­ग­ता­नु­भू­ता­का­रा­नु­स­न्धा­ने­नापि सृष्टिः सम्भवति; तथापि यत्रा­नु­भू­ता­द­प्य­ति­श­यि­तेन वैलक्षण्येन स्रष्टव्यमिति स्रष्ट­व्या­का­रा­नु­स­न्धानं, तत्र तस्याकारस्य तदा­नी­म­स­त्व­प्र­सि­द्धि­र­स्तीति तात्पर्यम् ।
इतरथा प्रेर­णा­नु­प­प­त्ते­रिति ।
तथा च प्रब­ल­न्या­य­वि­रु­द्ध­तया यथा­श्रु­ता­र्थ­प्र­ति­पा­द­ना­क्ष­मेण "यस्मिन् जात" इत्या­द्य­र्थ­वा­देन कथं­चि­ल्ल­क्ष­णो­न्नी­तेन पितृगाम्येव फलं प्रतिपाद्यत इति कल्पनीयमिति भावः ।
पितुः­प्री­त्यु­त्प­त्ते­रिति ।
पुत्रगतमपि पूतत्वादिकं पशु­हि­र­ण्या­द्य­भि­वृ­द्धि­व­त्पितुः प्रीत्यु­त्पा­द­न­द्वारा गौणपुरुषार्थो भवतीत्यर्थः । कारणवमेवेति पाठे ब्रह्म व्यव­च्छि­न­त्ती­त्य­नु­षङ्गः । कारणत्वादेवेति पाठे ब्रह्म व्यव­च्छि­न्न­मि­त्य­ध्या­हारः ।
सांख्य­प्र­क्रि­येति ।
धर्म­ल­क्ष­णा­व­स्था­प­रि­णा­म­भे­दान् पातंजला व्यवहरन्ति । पातञ्जले हि योगशास्त्रे परि­णा­म­त्र­य­सं­य­मात् अती­ता­ना­ग­त­ज्ञा­नम् (योगसूत्र. पा. २ सू. १६) इति परिणामत्रयविषयं धार­णा­ध्या­न­स­मा­धि­रूपं संयमं फलाय विधातुं चित्तस्य परि­णा­म­त्र­य­ल­क्ष­णा­न­न्तरं सूत्रितम् । एतेन भूतेन्द्रियेषु धर्म­ल­क्ष­णा­व­स्था­प­रि­णामाः व्याख्याताः" ( योगसूत्र, पा. २ सू. १३) इति त इह सेश्व­र­सां­ख्या(अ)न­ति­भि­न्न­त्वात् सांख्य­श­ब्दे­नोक्ताः ।
सोप्यु­त्प­त्ति­रिति ।
वर्त­मा­न­त्वा­दि­रपि तत्त­त्का­लो­पा­धि­वि­शे­षो­त्प­त्ति­रि­त्यर्थः ।
पुरुषाणामिति ।
पुरुषवाक्यं हि मूल­प्र­मा­ण­सा­पे­क्षम् । तदिह न तावच्छ्रुतिः; श्रुते­ज­न्मा­दि­त्रि­त­य­वि­ष­य­त्वात् । नापि तदीयं प्रत्यक्षं; मूल­का­र­णा­धी­न­म­हा­भू­त­ज­न्मा­दिषु प्रत्य­क्षा­प्र­वृ­त्ते­रि­त्यर्थः ।
अती­न्द्रि­या­र्थ­द्र­ष्टृ­त्व­मपि पुरु­ष­गौ­र­वा­द­नु­मे­य­मि­त्या­श­ङ्क्याह –
न चेति ।
अन्य­था­प्यु­प­प­त्त­रिति ।
यास्कादयः स्वकाले हेमादीनां विकारषट्कं दृष्ट्वा पठितवन्त इत्यप्युपपत्तेः नातीन्द्रियाथे प्रत्यक्षं कल्प­नी­य­मि­त्यर्थः । एतेन यास्कवचनस्य स्मृतित्वात् मूल­श्रु­त्य­नु­मा­न­मपि निरस्तम्; दृष्टमूलाभावे एव तदनुमानादिति भावः ।
वेदान्तेति ।
वेदान्तविचारः कर्तव्य इत्या­र्थि­क­प्र­ति­ज्ञा­या­मि­त्यर्थः । ननु चोदनासूत्रवत् जन्मादिसूत्रं लक्ष­ण­प्र­मा­णो­भ­य­प­र­मस्तु जन्यजनकभावेन लक्षणीभवतो जगतः सक­र्तृ­क­त्वा­नु­माने हेतु­भा­व­स्या­प्यु­प­पत्तेः ।
अत उत्त­रा­धि­क­र­ण­वै­य­र्थ्य­मे­वे­त्या­शङ्क्य कार्येण कारणमनुमीयतां नाम, तदे­क­त्वा­दि­सिद्धौ तु श्रुतिरेव शर­णी­क­र­णी­ये­त्यु­त्त­रा­धि­क­रणं सार्थकमित्याह –
कार्येण चेति ।
ननु कार्यत्वलिङ्गेन जगतः कार­णा­नु­मा­ना­न­न्तरं प्रवृत्तेः तदे­क­त्वा­ने­क­त्व­सं­शयो लाघवतर्कवशात् उत्क­ट­को­टि­क­सं­श­य­रूपा संभावना संपद्यत इत्येतदयुक्तम् । न हि तर्कः किंचि­त्को­टि­स­ह­च­रि­ता­ने­क­ध­र्मो­प­ल­म्भ­व­किं­चि­त्को­टि­भू­यो­दृ­ष्ट­स­ह­चा­रै­क­र्मो­प­ल­म्भ­वच्च कोट्यु­त्क­ट­त्व­नि­या­म­क­त्वेन क्लुप्तः, किन्तु प्रमा­णा­नु­ग्रा­ह­क­त्वेन । तथा च कार्य­त्व­लि­ङ्ग­का­नु­मा­ना­द्भ­वन्ती सक­र्तृ­क­त्वा­नु­मि­ति­रेव लाघ­व­त­र्को­प­नी­त­क­र्त्रै­क­त्व­मपि विषयीकुर्वाणा सती एक­क­र्तृ­क­त्वा­नु­मितिः संपद्यत इत्येव युक्तम् । गोपु­र­प्रा­का­रा­दिषु बहुकर्तृकत्वेन निश्चितेषु लाघ­वा­व­ता­रा­सं­भ­वेऽपि तथात्वेन अनिश्चितेषु वियदादिषु तदवतारे बाधकाभावात् इतिचेत्, मैवम् । लाघवतर्केण अनु­मि­ते­वि­ष­य­गौ­र­वा­पा­द­नस्य विरुद्धत्वात् । एककर्तृकत्वं हि अने­क­क­र्तृ­क­त्वा­भा­व­वि­शि­ष्ट­स­क­र्तृ­कत्वं, न तु एक­त्व­सं­ख्या­वि­शि­ष्ट­क­र्तृ­क­त्व­मा­त्र­मपि; बहुष्वपि प्रत्येकम् एक­त्व­वै­शि­ष्ट्य­स­त्त्वेन तद्विषयत्वस्य बहु­क­र्तृ­क­त्वा­वि­रो­धि­त्वात् । एव­म­ति­गु­रु­वि­ष­या­पा­दकः कथं लाघ­व­त­र्क­व्य­प­देशं लभेत । नह्येवंभूतं लाघवं प्रमा­णा­नु­प्रा­हकं संप्र­ति­प­न्न­मस्ति, यदग्रे वस्तु­ला­घ­व­सि­द्ध्यर्थं स्वानु­ग्रा­ह्य­प्र­मा­णस्य विष­य­गौ­र­व­मा­पा­द­येत् । तथा सति हीष्ट­पु­रो­व­र्ति­ज्ञानं प्रवृत्तिकारणं गृह्णतः प्रमाणस्य अनुप्राहको लाघवतर्को विसं­वा­दि­प्र­वृ­त्ति­स्थले व्यधि­क­र­ण­प्र­का­र­क­ज्ञा­ना­क­ल्प­नया वस्तु­ला­घ­व­सि­द्ध्यर्थं भेदाग्रहं कार­ण­ता­व­च्छे­द­क­त्वे­नो­प­न­येद्, न तु ज्ञान­वि­त्ति­वे­द्य­तय उपस्थितमिष्टं पुरो­व­र्ति­वै­शि­ष्ट्यम् । तस्मा­त्स­क­र्तृ­क­त्वा­नु­मा­ना­नु­ग्रा­ह­क­भा­वात् प्रच्युतोऽयं लाघवतर्कः स्वय­म­प्र­मा­ण­त्वात् स्वातन्त्र्येण कर्त्रै­क­त्व­नि­श्च­य­मु­त्पा­द­यि­तु­म­क्षमः कर्त्रै­क­त्वा­ने­क­त्व­सं­श­यस्य एक­त्व­को­टा­वु­त्क­ट­त्व­मात्रं संपादयन् उपकरोतीति कल्पनं युक्तम्, न तु प्राका­र­गो­पु­रा­दिषु दृष्टिमवलंब्य प्रवृत्तां तदनेकत्वकोटिं सर्वथा निवर्त्तयतीति । एक­को­टि­नि­र्धा­र­णा­क्ष­मस्य सर्वथा कोट्य­न्त­र­नि­व­र्त्त­क­त्वा­यो­गात्, तस्य संभा­व­ना­ज­न­न­मा­त्रे­णापि अनुपकारकत्वे लाघवात्, कत्रै­क­त्व­स­र्व­ज्ञ­त्व­वा­दि­सि­द्धिम् अभिमन्यमानानां भ्रान्तेः निरा­ल­म्ब­न­त्वा­प­त्तेश्च । वस्तुतस्तु लाघवतर्कोऽपि खतो दुर्बलः । अति­वि­चि­त्र­र­च­न­स्यापि प्रपञ्चस्य बहु­वि­धा­प­रि­मि­त­गो­पु­र­प्रा­सा­द­म­ण्ड­प­म­हा­त­डा­गा­दि­यु­क्तस्य महतो नगरस्येव क्रम­सं­भू­ता­स­र्व­ज्ञा­स­र्व­श­क्ति­क­सं­प्र­ति­प­न्ना­ने­क­सं­सा­रि­क­र्त­क­त्वे­नापि सिद्ध्युपपत्तौ सर्व­ज्ञ­स­र्व­श­क्ति­कै­क­क­र्त्र­न्त­र­क­ल्पन एव गौरवात् । किन्तु तथा­भू­तै­क­क­र्तृ­प्र­ति­पा­द­क­वे­दा­न्त­वा­क्य­नि­कु­रु­म्ब­स­मा­श्र­य­णे­नैव लब्धबलः तस्या­प्य­नु­ग्रा­हको भवति । सो(अ)यं वन­सिं­ह­ह्र­द­न­क्रा­दि­न्यायः । किरातैर्हन्तुं शक्यो(अ)पि सिंहो महद्वनं शरणं प्रविश्य दुराधर्षः तेभ्यो न बिभेति, वनं च तत् सिंहा­धि­ष्ठा­ना­नु­गृ­हीतं तैर्दुष्प्रवेशं भवति । तदिदं सर्वं तदुपजीवि चेत्यपि द्रष्टव्यमिति टीकाग्रन्थेनैव विभावयिष्यते ।
उपासनासहित इति ।
उपासनाशब्दो मननस्यापि संग्राहकः । पर­स्ता­द­व­ग­ति­रे­वेति वृत्ति­रू­पा­व­ग­त्य­भि­प्रा­येण शङ्का ।
समाप्तिवचन इति ।
अवसानशब्दः समा­प्ति­वा­ची­त्य­ध्यु­प­सृ­ष्टोऽपि समा­प्ति­रू­प­नि­वृ­त्ति­पर इति भावः । एवं चावि­द्या­नि­वृ­त्ति­नि­र्व­र्त्य­त्वोक्तेः अवगतिशब्दः स्वरूपावगतिपर इत्यर्थादुक्तं भवति ।
व्यवधानादिति ।
अव्यवहितकारण एव निर्व­र्त­क­त्व­प्र­सिद्धेः व्यवहिता वृत्ति­स्त­था­त्वेन न ग्राह्येति भावः । न चैवं विचा­र­णा­श­ब्दो­क्त­श्र­व­ण­म­न­नो­पा­स­नानां साक्षा­त्का­रै­क­सा­ध्या­याम् अविद्यानिवृत्तौ कर­ण­त्वा­भा­वा­त्कथं विचा­र­णाऽ­ध्य­व­सा­नेति शब्दसङ्गतिरिति शङ्कनीयम् । न हि तत्र विचा­र­ण­याऽ­ध्य­व­सा­न­मिति 'कर्तृकरणे कृता बहुलमिति' सूत्रेण तृतीयासमासः समाश्रीयते, येन करणत्वप्रतीतिः स्यात् । टीकायां हि षष्ठीसमासो दर्शितः, स तु साक्षा­त्का­र­द्वा­र­क­प­र­म्प­रा­सं­ब­न्धेऽ­प्यु­प­प­द्यते ।
अन्यथा कर्तु­मि­त्य­त्रेति ।
अक­र­ण­प्र­ति­को­टि­नि­र्दे­श­क­तया उपात्तस्य अन्य­था­क­र­ण­प्र­ति­को­टि­नि­र्दे­शा­र्थ­म­प्य­पे­क्षि­त­त्वात् अनुषङ्गः कर्तव्य इत्यर्थः । ननु 'भाष्ये प्रतिज्ञैवाभाति न हेतुरिति' न युक्तं; टीकायां विधि­प्र­ति­षे­धा­श्चा­र्थ­वन्त इति प्रतिज्ञायां विक­ल्पो­त्स­र्गा­प­वा­दाश्च इत्यु­त्त­र­भा­ष्यस्य हेतुपरत्वेन योजितत्वादिति चेत्, उच्यते: पुरुषस्य स्वातन्त्र्येण स्वत एवं प्रवृ­त्त्यु­प­पत्तेः विधि­प्र­ति­षे­धा­न­र्थ­क्यम् इत्या­श­ङ्का­प­रि­हा­रा­र्थ­त्वेन खल्विदं प्रति­ज्ञा­भा­ष्य­म­व­ता­रि­तम् । तत्रैतदुक्तं भव­ती­त्या­दि­टी­का­ग्र­न्थेन वर्ण्यमानम् इष्टो­पा­य­ता­दि­प्र­ति­पा­द­न­मेव विधि­प्र­ति­षे­धा­र्थ­वत्त्वे हेतुर्न तु विक­ल्पा­दि­क­मि­त्य­भि­प्रा­येण हेत्वा­का­ङ्क्षा­याम् एत­दु­क्त­मि­त्या­दि­क­मि­त्य­व­ता­रि­तम् । विक­ल्पा­दि­प्र­ति­पा­दनं तु विरुद्धयोः विधि­प्र­ति­षे­ध­यो­र्वि­ध्योर्वा कथ­मि­ष्टो­पा­य­ता­प्र­ति­पा­द­क­त्व­मि­त्या­श­ङ्कायां विक­ल्पे­नो­त्स­र्गा­प­वा­द­रू­पेण वेति हेतू­प­पा­द­ना­र्थ­मि­त्य­भि­प्रेत्य, टीकायां तदपि हेतुपरत्वेन योजितम् ।
प्रत्य­गा­त्म­न­स्त्व­वि­ष­य­त्व­मिति ।
ननु 'पराञ्चि खानीति' मन्त्रमुदाहृत्य प्रत्यगात्मन इन्द्रि­या­वि­ष­य­त्वो­क्ति­र­युक्ता; 'कश्चि­द्धीरः प्रत्य­गा­त्मा­न­मै­क्षत् आवृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छ­न्निति तन्म­न्त्रो­त्त­रार्द्धे एव तस्य विद्व­दि­न्द्रि­य­ग्रा­ह्य­ताया उक्तत्वात् इतिचेत्, सत्यम् । तत्र श्रव­णा­दि­वा­सि­ते­न्द्रि­य­ग्रा­ह्य­त्वो­क्ता­वपि शब्दमनपेक्ष्य स्वातन्त्र्येण इन्द्रि­य­ग्रा­ह्य­त्वस्य प्रत्याख्याने विरोधाभावात् ।
अपरोक्षत्वादिति ।
प्रदे­शो­प­ल­क्ष­ण­मे­तत् । अस्म­त्प्र­त्य­य­वि­ष­य­त्वात् इति­भा­ष्य­व्या­ख्या­ना­व­सरे जीव­भा­वो­पा­ध्यु­प­हि­त­रू­पेण विषयत्वोक्त्या स्वरू­पे­णा­वि­ष­य­त्व­मु­प­पा­दि­त­मि­त्यर्थः ।
जीवजत्वेन सिद्ध­सा­ध­न­त्वा­दिति ।
अति­वि­चि­त्र­र­च­न­स्यापि प्रपञ्चस्य बहु­वि­धा­प­रि­मि­त­गो­पु­र­प्रा­सा­द­म­ण्ड­प­म­हा­त­टा­का­दि­यु­क्तस्य महतो नगरस्येव क्रमेण युगपद्वा संभूतैः अस­र्व­ज्ञा­स­र्व­श­क्ति­कै­रपि विश्वा­मि­त्रा­दि­वत् उचि­त­पु­ण्य­व­श­ल­ब्ध­त­त्त­दे­क­दे­श­सृ­ष्टि­सा­म­र्थ्य­शा­लिभिः बहुभिः जीवैः निर्मि­त­त्व­मु­प­प­द्यते । धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायात् । अतोऽनुमानस्य तद्वि­ष­य­त्वो­प­पत्तेः न क्लृप्त­जी­वा­ति­रि­क्त­स­र्व­ज्ञ­स­र्व­श­क्ति­कै­क­क­र्त्र­न्त­र­सि­द्धि­रि­त्यर्थः ।
ननू­प­क­र­णा­द्य­भि­ज्ञ­क­र्तृ­क­रवं साध्यत इति नार्था­न्त­र­मि­त्या­शङ्क्य, यत्किं­चि­द्या­व­द्वि­क­ल्पेन प्रागु­क्त­म­र्था­न्तरं दृष्टान्तस्य साध्यवैकल्यं वा स्यात्, यावदिति यत्किंचिदिति वा विशे­षा­वि­व­क्षा­या­म­प्य­र्था­न्तरं स्यादित्याह –
उपकरणेत्यादिना ।
अनु­मा­न­स्या­ति­रि­क्ते­श्व­राऽ­सा­ध­क­त्व­मुक्त्वा तत्साधकत्वे बाधकमप्याह –
मनःसंयोगेति ।
धीम­त्क­र्तृ­क­त्व­सा­ध्य­सिद्ध्या सिद्ध्यन्ती धीर्नि­त्याऽ­भ्यु­प­ग­म्यते, अनित्या वा । नाद्यः, त्वन्मते कार्यत्वे धीम­त्क­र्तृ­क­त्व­व्या­प्ति­वत् ज्ञानत्वे जन्य­त्व­व्या­प्ते­र­प्य­प्र­ति­क्षे­प्य­तया तद्विरोधेन ज्ञान­नि­त्य­त्वा­सिद्धेः । न द्वितीयः, क्लृप्तकारणं मनस्संयोगादिकं विना ज्ञानो­त्प­त्त्य­सं­भ­वात् । तद्विनापि ऐश्वर्यवशात् ज्ञानो­त्प­त्त्य­भ्यु­प­गमे तत एव ज्ञानं विनापि स्रष्टृ­त्व­सं­भ­वेन त्वद­भि­म­त­सा­ध्या­सि­द्धि­प्र­स­ङ्गा­दि­त्यर्थः । ननु कार्यणकारणं किंचि­द­स्ती­त्य­नु­मि­त­मिति' पूर्वग्रन्थे युक्त्या कर्तृ­मा­त्र­नि­श्चयः, तदे­क­त्व­सा­र्व­ज्ञ्या­दिषु संभा­व­ने­त्युक्तं, तदनन्तरं कारणस्य सर्व­ज्ञ­त्वा­दि­सिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा, कारणमात्रं तु संभा­व­य­न्ती­ति­क­र्त­व्य­तेति ग्रन्थेनानुमानं कर्तृसंभावनामेव जनयति, न निश्चयं तदे­क­त्व­सा­र्व­ज्ञ्यादौ संभावनामपि न जनयति । किन्तु तदंशे शब्दो­प­जी­व­न­मे­वे­त्यु­क्तम् । इदानीम् ईश्वरानुमानस्य अर्था­न्त­र­बा­ध­कयोः उद्भावनेन संभावनामपि यथा नोत्पादयेत् तथोपपादितम् । सर्वमिदं पूर्वा­प­र­वि­रु­द्ध­मि­ति­चेत्, उच्यते; विमतं धीम­त्क­र्तृ­पू­र्व­क­मि­त्या­द्य­नु­मानं सर्वथा कर्तृसाधकं न भवतीति । एवमिह सर्वथैव प्रति­क्षि­प्त­म­नु­मानं न कर्तृनिश्चायकं, किन्तु तत्सं­भा­व­ना­मा­त्र­ज­न­क­मिति 'कार­ण­मात्रं तु संभा­व­य­न्तीति' ग्रन्थेनोक्तम् । तस्यायमाशयः, कार्य­त्व­लि­ङ्ग­का­नु­मानं कर्तृसामान्यमपि न निर्धा­र­यि­तु­मीष्टे; यथा दानपतनयोः संप्र­दा­ना­पा­दा­न­का­र­का­पे­क्ष­त्वेऽपि न कार्यान्तराणां तदपेक्षा. एवं घटादीनां कर्त्र­पे­क्ष­त्वेऽपि अङ्करादीनां मा भूत्तदपेक्षा इत्य­प्र­यो­ज­क­त्व­श­ङ्कया घटतृणादिषु कृता­कृ­त­व्य­व­हा­रो­पो­द्ब­लि­त­तया व्याप्ति­शै­थि­ल्यात् । किन्तु तन्मात्रं संभावयति; संप्र­दा­ना­पा­दा­न­यो­रिव च कर्तुः कार्यान्तरेषु दृष्ट­व्य­भि­चा­रा­भा­वाद्, घटपटादिषु भूयः सक­र्तृ­क­त्व­द­र्श­नाच्च । कर्त्रैकत्वादौ तु युक्तिः संभावनामात्रमपि न जनयति, कृप्ता­ने­क­जी­व­क­र्तृ­क­त्वो­प­प­त्ते­रिति । अतो नानयोः ग्रन्थयोः परस्परविरोधः । कार्येण च कारणं किंचि­द­स्त्य­नु­मि­त­मि­त्या­दि­ग्र­न्थस्तु प्रौढिवादेन प्रवृत्त इति न किंचिदवद्यम् ।
ननु 'प्रधा­ना­दि­सं­शये निर्ण­य­वा­क्य­मिति' टीकाग्रन्थो न युक्तः; भाष्ये अस्य जगतो नामरूपाभ्यां व्याकृ­त­स्ये­त्या­दिना जगतः कानि­चि­द्वि­शे­ष­णा­न्युक्त्वा न च यथोक्तविशेषणस्य जगत इत्या­द्यु­त्त­र­ग्र­न्थेन जगत्कारणस्य प्रधा­ना­दि­वि­ल­क्ष­णे­श्व­र­रू­प­त्व­स­म­र्थ­नेन संश­या­भा­वा­दि­त्या­श­ङ्क्याह –
जगद्विशेषणैरिति ।
निर्णयेऽपि इत्यपिशब्देन ब्रह्मनिर्णये श्रुत्ये­क­श­र­णा­ना­म­स्माकं युक्त्या वस्तुतो निर्णयो न भवति, अतः प्रधानादिसंशय इति ।
ननु प्रसि­द्ध­स्यै­वा­नु­वा­द्य­तया लोकप्रसिद्धं लौकि­का­न­न्द­म­नूद्य तस्य जग­ज्ज­न्मा­दि­का­र­ण­त्व­वि­धा­य­कम् आन­न्दा­द्ध्ये­वेति वाक्यमिति प्रतिभाति । तथा सति लौकिकानन्दस्यैव जग­ज्ज­न्मा­दि­ष्व­दृ­ष्टा­दि­वत् कार­णा­न्त­र­त्व­मुक्तं स्याद्, न तेनानन्दरूपता ब्रह्मणः स्वरूपलक्षणं सिद्ध्येत् इत्याशङ्क्याह –
कारणं ब्रह्मेति ।
कल्प­नी­यो­प­स्थि­ति­क­लौ­कि­का­न­न्द­प्र­सि­द्ध्या­पे­क्षया क्लृप्तो­प­स्थि­ति­क­पू­र्व­प्र­स्तु­त­ज­न्मा­दि­का­र­ण­प्र­सिद्धिः शीघ्रतरेति तया जगजन्मादिकारणं ब्रह्म अनूद्य तस्या­न­न्द­रू­प­त्व­वि­धा­य­क­मिदं वाक्यमिति भावः ।
सत्यादेरपीति ।
आनन्दादयः प्रधानस्य (ब्र.अ.३ पा.३ सू.११) इत्यधिकरणसिद्धं 'सत्यं ज्ञानमनन्तं ब्रह्मेति' प्रदे­शा­न्त­रा­म्ना­त­ल­क्ष­ण­ग­त­स­त्य­ज्ञा­ना­द्यु­प­सं­हा­रम् अभिप्रेत्य उप­ल­क्ष­ण­त्वोक्तिः ।
नन्विति ।
सत्यज्ञानादीनां ब्रह्म­स्व­रू­पाच्च परस्परस्माच्च भेदे सच्चि­दा­न­न्द­रू­पत्वं ब्रह्मलक्षणं न सिद्ध्येत् । अभेदे वाक्यार्थो न सिद्ध्येत् । तस्य अने­क­प­दा­र्थ­वै­शि­ष्ट्य­रू­प­त्व­नि­य­मा­दि­त्यर्थः ।
अभे­द­प­क्ष­मा­ल­म्ब्यो­क्त­नि­य­मा­सिद्ध्या परिहरति –
अत्रोच्यत इति ।
यस्त्वज्ञात इति ।
तथा चाज्ञाते ब्रह्मपदार्थे एव वाक्यस्य पर्यवसानात् पुनः न विशि­ष्ट­प­र­त्व­मि­त्यर्थः । ननु अज्ञातत्वं ब्रह्म­णोऽ­सिद्धं; स्वरू­प­ल­क्ष­ण­वाक्ये ब्रह्मानूद्य तस्य आन­न्द­त्व­वि­धा­न­मि­त्य­नु­प­द­मेव उक्तत्वात् । न ह्यज्ञा­त­म­नु­वा­द्यम् । अत एव न विशि­ष्ट­प­र­त्व­मि­त्ये­त­दपि असिद्धम्, विधे­या­नु­वा­द्य­वि­भागे सति तत्सं­स­र्ग­वि­ष­य­त्वा­व­श्य­म्भा­वात् इतिचेत्, उच्यते; 'अधीहि भगवो ब्रह्मेति' प्रश्नसमये ब्रह्म­प्रा­ति­प­दि­का­र्थ­तया 'यतो वे'त्यादि­वा­क्य­श्र­व­णा­न­न्तरं जग­ज­न्मा­दि­का­र­ण­तया च भृगुणा ज्ञातमपि ब्रह्म प्रधा­न­प­र­मा­ण्वा­दि­व्या­वृ­त्तेन स्वरूपेण न निधा­रि­त­मि­त्य­ज्ञा­तम् । जगत्कारणत्वेन तदनुवादेऽपि नानु­वा­द्य­सं­स­र्गस्य वाक्या­र्था­नु­प्र­वेशः । किन्तु वायु­क्षे­पि­ष्ठ­त्वादेः अर्थ­वा­दा­नू­दि­तस्य तत्स­म­र्प­का­र्थ­वा­दि­क­प­द­सं­घा­त­ल­क्ष­णी­य­वि­धि­वा­क्या­न्वि­यि­स्तु­ति­द्वा­र­त­येव 'यत इमानि भूतानि जायन्त' इत्या­दि­प­द­सं­घा­त­ल­क्ष­णी­य­का­र­ण­ला­श्र­य­व­स्तू­प­स्थि­ति­द्वा­र­तया प्रथ­मा­व­ग­ति­मा­त्रम् । न च अनुवाद्यस्य जगत्कारणवस्य वाक्यान्वयसंभवे तत्स­म­र्प­का­र्थ­प­द­सं­घा­तस्य पुरोडाशकपालेन तुषा­नु­प­व­पती' त्यत्र पुरो­डा­श­क­पा­ल­श­ब्द­स्यैव अधिष्ठानलक्षणा न युक्तेति वाच्यम्; ब्रह्म­प्रा­ति­प­दि­का­र्थ­मा­त्रस्य बुभुत्सितत्वेन अबुभुत्सितस्य कारणत्वस्यापि वाक्या­र्था­नु­प्र­वेशे कल्पकाभावात् । तदेतदनुपदमेव प्रकृ­ष्ट­प्र­का­श­दृ­ष्टा­न्त­वि­व­रणे स्फुटीकरिष्यते ।
यथा प्रकृष्टप्रकाश इति ।
'कश्चन्द्र' इति प्रश्नोत्तरे "प्रकृष्ट प्रकाशश्चन्द्र इति' वाक्ये प्रकृ­ष्ट­प्प्र­का­श­शब्दौ प्रक­र्ष­प्र­का­श­त्व­रू­प­स्वा­र्थ­बो­ध­न­द्वारा तदाश्रयं बुभुत्सितं वस्तु­त­श्च­न्द्र­रूपं व्यक्तिविशेषं लक्षयत इति तत्र प्रक­र्ष­प्र­का­श­त्व­वै­शिष्ट्यं न वाक्या­र्थ­ज्ञा­ना­नु­प्र­वि­ष्ट­मि­त्यर्थः ।
ननु प्रश्नोत्तरे बुभुत्सितं वक्तव्यमित्येव नियमः, न त्वबुभुत्सितं न वक्तव्यमित्यपि; अबु­भु­त्सि­त­स्यापि बुभु­त्सि­त­ग्र­ह­णो­पा­यस्य सहवचनोपपत्तेः, काञ्च्याः को मार्ग इति प्रश्न मार्ग­ग्र­ह­णो­पा­य­तया तत्त­त्प्र­दे­श­स्थि­त­गि­रि­न­दी­का­न­ना­दि­स­द्भा­व­स्यापि सहवचनदर्शनात् इत्याशङ्क्याह –
मानान्तरादिति ।
मानान्तरासिद्धो गिरि­न­द्या­दि­मा­र्ग­ग्र­ह­णो­पायो वाक्या­र्थेऽ­नु­प्र­वि­शतु नाम, माना­न्त­र­सि­द्धस्य तु न तदनुप्रवेशः कल्पनीय इत्यर्थः ।
नन्वेवं सति माना­न्त­रो­प­स्थि­त­स्यैव प्रकर्षस्य प्रकाशत्वस्य च बुभु­त्सि­त­च­न्द्र­व्य­क्ति­ग्र­ह­णो­पा­य­त्व­सं­भ­वात् तदुपादानं व्यर्थ­मि­त्या­श­ङ्क्याह –
उपायस्त्विति ।
उपात्तमेव प्रकृष्टत्वं प्रकाशत्वं च व्यक्ति­वि­शे­ष­नि­र्धा­र­णो­पायो भवति, नानुपात्तम् । न हि चन्द्र इत्येवोत्तरेण प्रकृ­ष्ट­प्र­का­श­त्वा­श्र­य­व्य­क्ति­वि­शेषः चन्द्र इति निर्धारणं निष्पद्यते । नन्वेवं सति प्रकृ­ष्ट­प्र­का­श­त्व­वै­शि­ष्ट्य­मपि वाक्येन बोधनीयमापतति । न हि तदबोधने तदा­श्र­य­व्य­क्ति­वि­शे­ष­श्चन्द्र इति निर्धारणा भवतीति-चेत्, उच्यते; कुत्र घोष इति प्रश्नोत्तरे घोष­वा­स­यो­ग्य­नि­बि­डा­धा­र­प्र­ति­पा­द­नार्थं प्रवृत्ते गङ्गायां घोष इति वाक्ये गङ्गापदं स्वार्थो­प­स्था­प­न­द्वारा वस्तुतः स्वार्थ­सं­ब­न्धि­बु­भु­त्सि­त­नि­बि­डा­धा­र­रूपं तीरं लक्षयतीति न तीरे प्रवा­ह­वि­शे­ष­सं­ब­न्धि­त्व­मपि वाक्ये बोध्यम् । न च तदपि वाक्येन बोध्यमेव, तीरत्वमात्रेण बोधने तीर­व्य­क्ति­वि­शे­ष­नि­र्धा­र­णा­सि­द्धे­रि­ति-वा­च्यम्, गङ्गा­प­द­ल­क्ष्यत्वं अतदर्थसंबन्धिनः तीरान्तरस्य न संभवतीति तल­क्ष्य­त्वा­नु­प­पत्त्या अर्थात् तीर­वि­शे­ष­ला­भो­प­पत्त्या तल्लाभार्थं मुख्या­र्थ­सं­ब­न्धि­त्वस्य लक्ष­णी­य­को­ट्य­नु­प्र­वे­श­क­ल्प­ना­यो­गाद्, यश्चार्थादर्थो न स चोदनार्थ' इति न्यायात् एवमिहापि द्रष्टव्यम् ।
अनुज्ञायत इति ।
न प्रतिक्षिप्यत इत्यर्थः । न तु वाक्या­र्था­नु­प्र­वे­शि­त्वे­ना­नु­ज्ञा­यत इति तदननुप्रवेशस्य समर्थितत्त्वात् ।
एवमुक्तां प्रक्रि­या­मा­श्रित्य स्वाभिमतं लौकिकवैदिकानां लक्षणवाक्यानाम् अभेदपरवाक्यानां चाखण्डार्थत्वं निर्धा­र­यि­तु­म­र्थ­ग­त­म­ख­ण्डत्वं लक्षयति –
एवं चेति ।
अविशिष्टमिति ।
सम­भि­व्या­हृ­त­प­दा­न्त­रा­र्था­सं­सृ­ष्ट­मि­त्यर्थः । अतः प्रकृ­ष्ट­प्र­का­श­चन्द्र इत्यत्र बोध्यस्य चन्द्रस्य पदार्थैकदेशेन चन्द्रत्वेन वैशिष्ट्येऽपि नासंभवः । न च तत्त्व­म­स्या­दि­वा­क्या­र्थे­ष्व­भे­द­रूपः संस­र्गोऽ­स्ती­त्य­सं­भवः शङ्कनीयः; संबन्धस्य द्विनि­ष्ठ­त्व­नि­य­मेन अभेदस्य संस­र्ग­त्वा­भा­वात् । कोकिलः पिक इत्या­दि­प­र्या­या­ने­क­श­ब्द­प्र­का­शिते वाक्या­र्थ­त्वा­भा­वात् अल­क्ष्येऽ­ति­व्या­प्ति­वा­र­णा­र्थम् अपर्यायेति विशेषणम् । अवि­शि­ष्ट­मि­त्य­नेन अर्थ­ल­ब्ध­स्यै­क्यस्य स्पष्टी­क­र­णा­र्थम् एकमिति । पदार्थभेदे तदुभयसंसर्गस्य वाक्या­र्थ­त्वा­व­श्य­म्भा­व­ना­वि­शि­ष्ट­त्वा­सं­भ­वात् । एव­म­प­र्या­या­ने­क­श­ब्द­प्र­का­शि­तम् अवि­शि­ष्ट­म­ख­ण्ड­मिति अख­ण्ड­ल­क्ष­णोक्त्या सम­भि­व्या­हृ­त­प­दा­न्त­रा­र्थ­सं­स­र्गा­गो­च­र­प्र­मि­ति­ज­नकं वाक्यम् अखण्डार्थमिति अखण्डार्थलक्षणं सूचितं भवतीति द्रष्टव्यम् ।
दृष्टा­न्ता­सि­द्धि­मा­श­ङ्कते –
नन्विति ।
व्यावृ­त्ति­र्व्य­व­हारो वा लक्षणार्थ इति नैयायिकाः । तथा च प्रकृष्टप्रकाश इति हेतु­ग­र्भ­वि­शे­षणं, चन्द्र इति च हेत्वा­श्र­य­भू­तायाः चन्द्रव्यक्तेः इत­र­व्या­वृ­त्त­च­न्द्र­श­ब्द­वा­च्य­त्वा­न्य­त­र­सा­ध्य­वै­शि­ष्ट्य­प­र­मिति नाख­ण्डा­र्थ­ते­त्यर्थः । स्यादेतत् । मा भूत् चन्द्रव्यक्तौ तदि­त­र­व्या­वृत्तेः साध्यता ।
ज्योति­र्म­ण्ड­ल­मध्ये प्रकृ­ष्ट­प्र­का­श­रू­पेण तां गृह्णता प्रत्यक्षेण तस्या नक्ष­त्रा­दि­व्या­वृ­त्ते­रपि ग्रहणात्, चन्द्र­श­ब्द­वा­च्य­त्वस्य तु स्यात्, इयं व्यक्ति­श्च­न्द्र­श­ब्द­वा­च्येति प्राग­न­व­ग­त­त्वा­द­व­गतौ वा लक्षणे वाक्या­न­पे­क्ष­णात् इत्याशङ्क्याह –
नचेति ।
चन्द्र­त्व­जा­ति­र­हिते तत्साध्यते, तद्वति वा ।
नाद्यः इत्याह –
अचन्द्र इति ।
व्याघातादिति ।
शब्द­प्र­वृ­त्ति­नि­मि­त्त­र­हि­तस्य तद्वा­च्य­त्वा­यो­गा­दि­त्यर्थः । द्वितीये, अयं चन्द्र इति चन्द्रत्वेन निश्चितायां व्यक्तौ तत्साध्यते, उतानेनैव वाक्येन चन्द्र­त्वा­व­ग­म­न­पू­र्वकं तत्साध्यते । नाद्यः, चन्द्रवविशिष्टः चन्द्र­श­ब्द­वाच्यः, अयं चन्द्र­त्व­वि­शिष्टः इत्यवगच्छतः तत्र चन्द्र­श­ब्द­वा­च्य­त्व­नि­र्ण­या­र्थ­मु­प­दे­शा­न­पे­क्ष­णात् । न हि गोसदृशो गवयः अयं च गोसदृश इति जानतः तत्र गव­य­श­ब्द­वा­च्य­त्व­नि­श्च­या­र्थम् उपदेशापेक्षा दृश्यते ।
न द्वितीय इत्याह –
अथ चन्द्रत्वमिति ।
अज्ञा­त­च­न्द्र­ज्ञा­प­क­मिति ।
यद्यपि प्रकृ­ष्ट­प्र­का­श­व्य­क्ति­रेव चन्द्रः, स च ज्ञात एव । न च चन्द्र­त्वे­ना­ज्ञानं विवक्षितम्, व्यक्ति­स­मा­न­वि­त्ति­वे­द्यस्य तस्यापि सप्रकारके व्यक्तिज्ञाने प्रकारत्वेन विष­य­ता­व­श्यं­भा­वात; तथापि चन्द्र­त्व­वै­शि­ष्ट्यांशे सत्ता­नि­श्च­य­रू­प­ज्ञा­ना­भावो विवक्षितः । अन­भ्या­स­द­शा­प­न्न­ज­ला­दि­ज्ञा­न­वत्, यतो न तदंशे सत्ता­नि­श्च­य­रू­पम् । अत एवो­प­दे­शा­न­न्त­र­मेव तनिश्चयः । अन्य­थो­प­दे­श­वै­यर्थ्यं स्याद्; विष­या­न्त­रा­सं­भ­वात् । यद्वा जातेः नास्ति व्यक्ति­स­मा­न­वि­त्ति­वे­द्य­त्व­नि­यमः; स्वर्णकरकादिषु गृह्यमाणेष्वपि तेज­स्त्व­ज­ल­त्व­पृ­थि­वी­त्वा­दि­सं­श­य­द­र्श­नात् । किन्तु यद्व्यञ्जकतया यदवगतं तस्याः तत्स­मा­न­वि­त्ति­वे­द्य­त्व­नि­यमः । न च ज्योति­र्म­ण्ड­ल­म­ध्य­व­र्ति­प्र­क­र्ष­वि­शे­ष­यु­क्त­प्र­का­शत्वं चन्द्र­त्व­व्यं­ज­क­मिति प्रागुपदेशात् ज्ञातम्, अतो युज्यत एव अज्ञा­त­च­न्द्र­त्व­ज्ञा­प­कत्वं प्रकृ­ष्ट­प्र­का­श­वा­क्यस्य ।
अर्थादिति ।
अप्र­कृ­ष्ट­प्र­का­श­न­क्ष­त्रा­दि­व्या­वृत्तेः प्रत्यक्षतः सिद्धावपि अच­न्द्र­व्या­वृत्तेः चन्द्र­श­ब्द­वा­च्य­त्वस्य च अर्था­त्सि­द्धि­रि­त्यर्थः ।
ननु वाच्यनानात्वे लक्ष्यस्यापि नानात्वं स्यादि­त्या­श­ङ्क्याह –
न हि चन्द्र­द्व­य­म­स्तीति ।
प्रकृ­ष्ट­प्र­का­श­श­ब्द­वा­च्य­ना­ना­त्वेऽपि तल्ल­क्ष्य­च­न्द्र­व्य­क्ति­ना­नात्वं नास्तीत्यर्थः ।
मा भूदिति ।
यद्यपि ध्वंस­प्रा­ग­भा­वा­न्य­त­र­प्र­ति­यो­गि­त्व­रू­पम् अनित्यत्वं ध्वंसेन प्रागभावेन वा विशिष्टमेव; तथा­प्य­स्म­दा­दि­बा­ह्ये­न्द्रि­य­ग्रा­ह्यत्वं सामान्यवत्वेनेव समा­ना­धि­क­र­ण­वि­शे­ष­णेन विशिष्टं न भवतीत्यत्र तात्पर्यम् । सुवर्णं तेजः, जल­पृ­थि­व्य­न्यत्वे सति रूपवत्वात् इत्या­द्यु­दा­ह­र­णा­न्त­र­मिह द्रष्टव्यम् ।
अनि­त्य­त्व­त­ज्ज्ञा­प­क­दृ­ष्टा­न्ते­नैव दोषा­न्त­र­मा­श­ङ्कते –
तर्हीति ।
सत्या­द्या­त्म­कत्वं न स्यादिति ।
सता जात्या­दि­ता­दा­त्म्या­पन्नं हि घटादिकं सदा­द्या­त्म­क­मि­ष्यत इति भावः ।
सत्त्वादि न जहातीति ।
सदाद्यात्मकं भवतीत्यर्थः ।
aaननु घटादिविषयेषु सत्तादिजातीनां व्यक्ति­ता­दा­त्म्य­द­र्श­न­मस्तु, ततः किमायातं ब्रह्मणः सदा­त्म­क­त्वा­दि­सिद्धौ इत्याशङ्क्य, लोकं व्याचष्टे –
इह कल्पितभेदेति ।
प्रतिज्ञातमर्थं क्वचिदुदाहरणे प्रदर्शयन्नेव तन्न्यायं प्रकृते योजयति –
तरङ्गेति ।
वस्तु­त­श्च­न्द्र­स्यै­कत्वे(अ)पि तर­ङ्गो­पा­धि­क­ल्पि­त­भेदा बह्वश्चन्द्राः सन्तीति तावदनुगतं चन्द्र­त्व­सा­मान्यं तद्वा­चि­न­श्च­न्द्र­श­ब्दस्य यदा भेद­क­ल्प­ना­धि­ष्ठाने बिम्बचन्द्रे प्रयोगस्तदा तद्वा­च्य­च­न्द्र­त्व­सा­मा­न्य­लक्ष्या भवति या चन्द्रव्यक्तिः, सा चन्द्रात्मत्वं न जहातीति दृष्टं तथेहापि माया­क­ल्पि­त­भे­द­घ­ट­प­टा­द्य­नु­ग­त­स­त्ता­सा­मा­न्य­वा­चिन: सच्छब्दस्य सद्भे­द­क­ल्प­ना­धि­ष्ठाने ब्रह्मणि प्रयोगे सति तद्वाच्येन सत्तासामान्येन लक्ष्यं ब्रह्म सदात्मत्वं न जहातीत्यर्थः ।
ननु सच्चि­दा­न­न्द­श­ब्द­वा­च्य­स­त्ता­दि­सा­मा­न्य­ल­क्ष्य­व्य­क्तीनां भेदा­द­प­र्या­या­ने­क­श­ब्द­प­र्य­व­सा­ना­स्पदं ब्रह्म न सिद्ध्येदत आह –
यथा चेति ।
व्यक्त्याकारो व्यक्तिभेदः ।
विशि­ष्टा­र्थ­प­र­त्व­र­हि­त­मिति ।
पदा­न्त­रा­र्थ­सं­सृ­ष्टा­र्थ­प­र­त्व­र­हि­त­मि­त्यर्थः ।
एवं तत्प­दा­र्थ­वि­ष­या­वा­न्त­र­वा­क्या­ना­म­ख­ण्डा­र्थत्वं प्रसाध्य तत्त्व­म­स्या­दि­म­हा­वा­क्या­ना­मपि तत्साधयति –
तथेति ।
तत्त्व­म­स्या­दि­वा­क्यम्, अखण्डार्थम्, उपा­धि­भे­द­भि­न्ना­र्थ­क्य­प्र­ति­पा­द­क­त्वाद्, महाकाशो घटाकाश इति वाक्यवदिति लोक­सं­हि­तेऽ­नु­माने हेत्व­सि­द्धि­प­रि­हा­राय जीवेश्वरयोः स्वाभा­वि­क­भे­दा­भावं जीवस्य विभुत्वेन साधयिष्यन् परि­मा­णा­न्त­र­नि­रा­सेन तस्य विभु­त्व­मु­प­पा­द­यति –
निरंशस्येति ।
आत्मा, द्रव्य­त्वा­वा­न्त­र­जा­ति­र­हितः, विभुत्वात् आकाशवत् इत्यनुमाने जातौ धर्मि­स­मा­न­स­त्ता­कत्वं विशेषणं देयं, तेन तर­ङ्ग­च­न्द्रा­नु­ग­त­च­न्द्र­त्व­न्या­येन जीवे ईश्वरे च कल्पिताया आत्म­त्व­जा­ते­र­भ्यु­प­ग­मेऽपि न बाधः । जीवेश्वरभेदस्य स्वाभाविकत्वे तद्ग­ता­त्म­त्व­जातेः धर्मि­स­मा­न­स­त्ता­क­त्वा­व­श्यं­भा­वात् तदभावसाधनेन स्वाभा­वि­क­भे­द­नि­रा­स­सिद्धिः ।
उक्ता­नु­मा­ना­नु­ग्राह्यां जीवानामीश्वरात् परस्परस्माच्च भेद­स्यौ­पा­धि­क­त्व­प्र­ति­पा­दिनीं श्रुतिमुदाहरति –
यथा ह्यय मिति ।
इति द्वितीयं जन्मा­द्य­धि­क­र­णम्॥ शास्त्र­यो­नि­त्वात्॥३॥

साध्या­वि­शे­षा­दिति ।
हेतुः सिद्धश्चेत् साध्यमपि सिद्धमेव । "अस्य महतो भूतस्य" इत्यादिश्रुत्या खलु हेतु­सि­द्धि­रे­ष्टव्या, तया यतो वेत्या­दि­श्रु­त्य­न्त­रैश्च साध्यस्यापि सिद्धिरविशिष्टा । अथ श्रुति­प्र­च्छा­द­नेन साध्या­सि­द्धि­रु­च्यते, तर्हि हेतोरप्यसिद्धिः स्यादित्येवं साध्याविशेष इत्यर्थः ।
आर्थि­क­प्र­ति­ज्ञ­येति ।
आर्थिकी सर्व­ज्ञ­त्व­प्र­तिज्ञा । ननु निर्वि­शे­ष­ब्र­ह्म­वि­चारं प्रतिज्ञातवतः सूत्रकारस्य सवि­शे­ष­ब्र­ह्म­ग­त­स­र्व­ज्ञ­त्व­दृ­ढी­क­रणं क्वोपयुज्यते? पूर्वसूत्रे विवक्षितस्य जीवो जगत्कारणमिति शङ्का­व्या­व­र्त­नस्य स्थिरीकरणे । ननु पूर्वसूत्रे ब्रह्मणः सर्व­ज्ञ­त्व­व­त्स­र्व­श­क्ति­क­त्व­म­प्य­र्थ­लब्धं तत्किमिति केनचिद्धेतुना न दृढीकृतं? तदपि ह्युक्त­श­ङ्का­नि­व­र्त्त­न­क्ष­मम्; सत्यं, तदपि निःश्व­सि­त­श्रु­त्यु­ह­र­णेन दृढीकृतमेव; 'अस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजुर्वेद' इत्युपक्रम्य, अयं च लोकः परश्च लोकः सर्वाणि च भूता­न्य­स्यै­वै­तानि सर्वाणि निःश्वसितानि इति नामरूपात्मकस्य सर्वस्यापि प्रपञ्चस्य निःश्व­सि­त­व­द­प्र­य­त्न­सा­ध्य­ब्र­ह्म­का­र्य­त्वोक्तेः ।
अथवेति ।
ननु वेदा­नि­त्य­त्व­प्र­सा­धनं वियत्पादे (व्या. सू. अ. २ पा.३) सङ्गतं, न त्वत्रेति-चेत्, सत्यम्, पूर्व­सू­त्रा­र्था­क्षि­प्त­स­र्व­ज्ञ­त्व­दृ­ढी­क­र­णा­र्थ­त­येह वेदकर्तृत्वं व्यव­स्था­प­नी­य­मा­सीत्, तेनार्थाद् ब्रह्मणः सर्व­का­र­ण­त्व­म­नु­प­पन्नं वेदस्य नित्यत्वादिति शङ्कानिराकरणमपि लभ्यत इत्या­नु­ष­ङ्गि­का­र्थ­क­थ­न­प­रोऽयं श्लोकः । आनुषङ्गिके चार्थे न पृथक् सङ्गत्यपेक्षा । अथवेत्यस्मिन् पक्ष इति च हेतो­रा­र्थ­प्र­ति­ज्ञा­न्व­य­म­न­पेक्ष्य श्रौत­प्र­ति­ज्ञ­यैव तदन्वय इत्यभिप्रायं न भवति; येन स्वतन्त्रमिदं पक्षा­न्त­र­मि­त्या­नु­ष­ङ्गि­कत्वं न स्यात्, किं त्वार्थ­प्र­ति­ज्ञ­यै­वा­न्वय इति यथा­श्रु­त­भा­ष्य­टी­का­नु­सा­रेण प्रथमः । आनु­ष­ङ्गि­का­र्थ­वि­ष­यौ­त­प्र­ति­ज्ञ­याऽ­प्य­न्वयो भाष्यटीकयोः विवक्षित इति द्वितीयोऽयं पक्षः । प्रति­ज्ञ­यै­वे­त्ये­व­कारो भिन्नक्रमः, श्रौत­प्र­ति­ज्ञ­याऽ­प्य­न्व­योऽ­स्त्यै­वे­त्यर्थः ।
ननु जग­द्यो­नि­त्व­सिद्धे सार्वज्ञ्ये शास्त्र­यो­नि­त्वम् अभ्युच्चयार्थं हेत्वन्तरं चेद­धि­क­र­णा­न्त­रत्वं न स्यादित्यत आह –
हेत्वन्तरेति ।
सिद्ध­हे­त्व­न्त­रा­भि­धाने ह्यैका­धि­क­र­ण्यम्, इह शास्त्र­यो­नि­त्व­हेतुः प्रसाधनीय इति तद­र्थ­म­धि­क­र­णा­न्त­र­मि­त्यर्थः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षडङ्गानि ।
जातिव्यक्तीति ।
उप­ल­क्ष­ण­मे­त­द­पे­क्षि­त­प्र­मा­णा­दि­नि­रू­प­ण­स्यापि ।
उक्तमर्थं प्रमाणयतीति ।
यद्य­दि­त्या­दि­भा­ष्यात् प्राचीनेन सन्दर्भेण हेतु­नि­र्दे­श­पू­र्वकं प्रतिज्ञातं सार्व­ज्ञ्य­रू­प­मर्थं प्रमाणवन्तं करोतीत्यर्थः । यद्यपि हेतु­नि­र्दे­श­मा­रभ्य प्रमाणोपन्यासः प्रवृत्तः; तथापि व्याप्त्यैव हेतुः प्रामाण्यमश्नुत इति यद्य­दि­त्या­दि­व्या­प्ति­प्र­द­र्श­क­ग्रन्थ एव प्रमा­णो­प­न्या­सा­र्थ­त्वे­ना­व­ता­रितः । अथवा - 'त्रीनु­दा­ह­र­णा­न्तान्वा यद्वो­दा­ह­र­णा­दि­का"निति मीमांसकमर्यादया यद्य­दि­त्या­दि­रु­दा­ह­र­णो­प­न­य­नि­ग­म­नो­प­न्यास एव प्रमाणोपन्यासः । भाष्ये - ततः प्रागन्वयमुखेन हेतो­र्व्य­ति­रे­क­मु­खेन प्रतिज्ञायाश्च निर्देशस्तस्य स्फुटीकरणार्थः, न त्वनुमानावयवरूप इत्य­भि­प्रा­ये­णो­दा­ह­र­ण­प्र­भृ­ति­रे­वो­क्तार्थे प्रमा­ण­प्र­द­र्श­न­प­र­त्वे­ना­व­ता­रितः । प्रमा­ण­व­च्छ­ब्दात् तत्करोतीत्यर्थे णिचि णावि­ष्ठ­व­द्भा­वाद् ‘विन्म­तो­र्लु­गिति' मतुपो लुकि च सति प्रामाण्यवन्तं करोतीत्यर्थे प्रमाणयतीति शब्दः । यद्वा - उक्तमर्थं वेदकर्तृत्वं हेतुं व्याप्त्या­द्यु­प­न्या­सेन प्रमाणं करोतीत्यर्थः । अस्मिन् पक्षे प्रमाणशब्दादेव णिच् । विभक्तत्वं भिन्नत्वं कार्यत्वे हेतुरिति वियदधिकरणे यावद्विकारं त्विति' (व्यास. अ. २ पा. ३ सू.७) सूत्रेण प्रदर्शयिष्यते ।
तुल्यविषयत्वेति ।
विस्त­रा­र्थ­मि­त्यत्र विस्तरशब्दः शब्दप्रपञ्चपरः; 'प्रथने वावशब्द' इति शब्दा­ति­रि­क्त­स्या­र्थस्य प्रपञ्चे घञो विधानेन शब्दप्रपञ्च एव 'ऋदो­र­बि'त्यपा विस्त­र­श­ब्द­नि­ष्पत्तेः । विस्तररूपोऽर्थो धर्मी यस्य तद्विस्तरार्थम् । वस्तु­मा­त्र­वा­चि­नोऽ­र्थ­श­ब्द­स्येह धर्मरूपे वस्तुनि पर्यवसानम् । एवं च ऋग्वेदादिरूपे शास्त्रे अर्थवादादिबहुले शब्दमात्रस्यैव प्रपञ्चो नार्थस्येति विस्त­रा­र्थ­वि­शे­ष­णेन ज्ञापनाद् वेदस्य ब्रह्मज्ञानस्य च तुल्य­वि­ष­य­त्व­भ्रान्तिः निवर्तिता भवति । अतोऽ­धि­क­वि­ष­य­ज्ञा­न­व­त्त्व­सा­ध्यस्य न बाध इति भावः ।
ब्रह्मेति ।
ननु वेद­वि­ष­या­धि­क­वि­ष­य­ज्ञा­न­व­त्त्व­मात्रं साध्यं चेत्, सर्वा­व­भा­स­क­वे­द­क­र्तृ­खेन पक्षधर्मताबलात् सर्व­ज्ञ­ता­सि­द्धि­रि­त्ये­तन्न घटते; वेद­वि­ष­य­त­द­धि­को­भ­य­वि­ष­य­ज्ञा­न­वत्त्वं साध्यं चेत्, वैदि­का­स­द­र्थो­पा­ख्या­ना­द्य­र्थ­वि­ष­य­भ्रा­न्ति­ज्ञा­न­व­त्त्व­मपि ब्रह्मणः सिद्ध्येत् । किञ्च हेतूकृतं वेदकर्तृत्वं वेद­व­क्तृ­त्व­मात्रं चेत्, अर्था­न­भि­ज्ञा­ध्या­पके व्यभिचारः; पूर्वा­नु­पू­र्वी­म­न­पेक्ष्य तद्वक्तृत्वं चेत्, असिद्धिः; सामा­न्य­व्या­प्त्यु­प­न्यासे च वाक्य­प्र­मा­ण­स्येति प्रमाणपदं व्यर्थम्; अप्र­मा­ण­वा­क्य­क­र्तु­रपि भ्रान्तस्य प्रतारकस्य च तद­र्थ­त­द­धि­को­भ­य­वि­ष­य­ज्ञा­न­स­त्त्वात् । तस्मा­त्स­र्व­मि­द­म­यु­क्त­मिति - चेत्, उच्यते; ईश्वरस्य वैदि­का­स­द­र्थो­पा­ख्या­ना­य­र्थ­वि­ष­य­ज्ञा­न­व­त्त्वेऽपि तस्य ज्ञानस्य प्रमि­त्यु­प­यो­ग्या­हा­र्य­ज्ञा­न­त्वाद् न तेन भ्रान्ति­म­त्त्व­प्र­सक्तिः । न ह्यभा­व­प्र­मि­त्यु­प­यो­ग्य­धि­क­र­ण­गो­च­र­प्र­ति­यो­गि­त­द­व­च्छे­द­का­रो­प­वन्तः पुरुषाः धर्मा­र्थ­प्र­मि­त्यु­प­यो­गि­क­पो­ता­ख्या­यि­का­ह­स­का­को­पा­ख्या­ना­दि­र­च­ना­मू­ला­रो­प­वन्तो वाल्मी­कि­कृ­ष्ण­द्वै­पा­य­ना­दयो बाला­रो­ग्य­सा­ध­नौ­ष­ध­पा­न­क­र्त­व्य­ता­प्र­मि­त्यु­प­यो­गि­बा­ल­न­रो­च­ना­र्थ­त­द­भि­म­त­फ­ला­न्त­रो­प­न्या­स­मू­ला­रो­प­वन्तः पित्रादयश्च भ्रान्ता इति व्यपदिश्यन्ते । किञ्च यत्स­त्ता­नि­श्च­य­रूपं न भवति, न तेनान्यत्र अन्य­वै­शि­ष्ट्या­व­गा­हि­नाऽपि भ्रान्त इति व्यपदिश्यते । न हि शुक्तौ रज­त­त्व­वै­शि­ष्ट्य­ज्ञा­न­वा­निव अस्य पुरोवर्तिनि रज­त­त्व­वै­शि­ष्ट्या­व­गा­हि­ज्ञा­न­म­प्र­मा­ण­मिति तदी­य­भ्रा­न्ति­वि­ष­य­तया पुरोवर्तिनि रज­त­त्व­वै­शिष्ट्यं गृह्णन् भ्रान्तिज्ञोऽपि भ्रान्त उच्यते । वेदकर्तृत्वं च वक्र­न्त­रा­धी­ना­नु­पू­र्वी­म­न­पेक्ष्य वेदकर्तृत्वमिति नार्था­न­भि­ज्ञा­ध्या­पके व्यभिचारः । न चैवमपि घुणाक्षरन्यायेन वेद­स­मा­ना­नु­पू­र्वी­कस्य वाक्य­स्या­र्था­न्त­र­वि­व­क्षया प्रयोक्तरि व्यभिचारः सक­ल­वे­द­व­क्तृ­त्वस्य विवक्षितत्वात् । तावच्च सर्गादौ सर्वान् वेदा­न­ध्या­पि­ते­ष्वी­श्व­र­व­त्सा­र्व­ज्ञ्य­र­हि­तेषु मन्वादिषु व्यभिचारीति तद्वारणेन पूर्वो­क्त­वि­शे­ष­ण­म­प्य­र्थ­वत् । उदाहरणवाक्ये प्रमाणपदं यो यस्य वाक्य­स्या­र्थ­वि­व­क्षया प्रयोक्तेति विव­क्षा­रू­प­वि­शे­ष­ण­ला­भा­र्थम् । तच्च विशे­ष­ण­म­र्था­न­भि­ज्ञा­ध्या­प­केषु निर­भि­प्रा­य­वा­क्य­प्र­यो­क्तृ­षू­न्मा­द­ग्र­स्ता­दिषु च व्यभि­चा­र­वा­र­णा­र्थम् सर्गादौ वेदान्प्रवर्तयत ईश्वरस्यापि तत्त­द­र्थ­वि­व­क्षाऽ­स्तीति सामा­न्य­व्या­प्ता­वु­पा­त्तस्य व्याप्यस्य पक्षानुगतिः । उक्तं हि ग्रहा­धि­क­र­ण­वा­र्तिके (जै.अ.३.पासू. १३-१५) 'शब्द­ब्र­ह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते । तदप्यधिष्ठितं सर्वमेकेन परमात्मना॥ तथर्ग्वेदादयो वेदाः प्रोक्ता येऽपि पृथक्पृथक् । भोग्य­त्वे­ना­त्मनां तेऽपि चैतन्यानुगताः सदा॥ तेषा­म­न्त­र्ग­ते­च्छानां वाक्या­र्थ­प्र­ति­पा­दनी । विवक्षा चाविवक्षा च ज्ञायते शब्दशक्तितः॥ इति ॥ ननु सक­ल­वे­द­क­र्तृ­त्व­हे­तू­क­र­ण­ब­लात् सक­ल­वे­दा­र्थ­वि­ष­य­त्वम् ईश्वरज्ञानस्य सिद्ध्यतीति तावतैव तस्य सार्व­ज्ञ्य­सि­द्धे­र­धि­क­वि­ष­यत्वं विशेषणान्तरं किमर्थम् । न च-तावता तस्य सार्वज्ञ्यं न सिद्ध्यति, अवे­द­प्र­ति­पा­दि­ता­द्य­त­न­पु­रु­ष­पा­णि­ग­त­व­रा­ट­क­सं­ख्या­दि­ज्ञा­न­व­त्त्वस्य तेन असिद्धेरिति वाच्यम् । अधि­क­वि­ष­य­त्व­वि­शे­ष­णे­नापि तदसिद्धेः । टीकायां हि इक्षु­क्षी­रा­दि­मा­धु­र्य­वि­शे­ष­वत् वेदेनापि यदाहत्य बोधयितुं न शक्यं तादृ­ग्वि­व­शे­ष­वि­ष­य­ज्ञा­न­व­त्त्व­स्या­प्य­धि­क­वि­शे­ष­णेन सिद्धिरिति तत्प्र­यो­ज­न­मु­क्तम् । युक्तं चैतत्, यथे­क्ष्वा­दि­मा­धुर्यं स्वयमनुभूय शब्दं प्रयुञ्जानस्य यादृशं तद्विशेषज्ञानं तादृशं स शब्दो नान्यस्य जनयितुमीष्टे । तथा मानु­षा­दि­ब्र­ह्म­प­र्यन्त आनन्द उत्त­रो­त्त­र­मु­त्कृ­ष्यते, ब्रह्मानन्दस्तु निरतिशय इति वैदिकशब्दः शतकृत्वः श्रुतोऽपि तमानन्दं साक्षात्कुर्वत ईश्वरस्य अनुभवेन सदृशं तन्नि­र­ति­श­य­त्वा­दि­रू­प­वि­शे­षा­नु­भ­वम् अन्यस्य जनयितुं न शक्नोत्येव । एवं­वि­ध­श्रु­त्य­बो­ध्य­वि­शे­ष­वि­ष­य­त्वेन वेद­र­च­ना­मू­ल­वे­दा­र्था­धि­क­व­र्णा­व­ल्या­दि­वि­ष­य­त्वेन चार्थान्तरादिति - चेत्, उच्यते । सक­ल­वे­दा­र्था­भि­ज्ञ­त्व­मे­वेह साध्यं, पक्षधर्मताबलात् सार्व­ज्ञ्य­सि­द्ध्यु­क्ति­रपि तन्मा­त्रा­भि­प्राया । न च तन्मात्रं साध्यते चेद् व्याप्तिबलादेव तत्सिद्ध्यतीति पक्ष­ध­र्म­ता­ब­लो­क्ति­र­धि­क­सा­र्व­ज्ञ्य­सि­ध्यर्था स्यादि­ति-वा­च्यम्; सामा­न्य­व्या­प्ति­ब­लात् स्वप्र­यु­क्त­वा­क्या­र्था­भि­ज्ञ­त्व­मा­त्र­स्यैव सिद्धिरिति विशिष्य सक­ल­वे­दा­र्था­भि­ज्ञ­त्व­सिद्धेः सक­ल­वे­द­क­र्त­त्व­हे­तु­प­क्ष­ध­र्म­ता­ल­भ्य­त्वात् । वेदा­र्था­धि­का­द्य­त­न­वृ­त्ता­न्ता­द्य­भि­ज्ञ­त्व­सि­द्धिस्तु स्वतः सर्व­वे­दा­र्थ­गो­च­रम् ईश्व­र­ज्ञा­न­म­न्य­दपि सर्वं गोचरयेदिति न्यायसाम्यात् । अधिकविषयत्वस्य साध्या­नु­प्र­वे­शनं तु पाणि­नी­या­दि­दृ­ष्ट­व्या­प्ति­ब­लात् अधिकविषयत्वमपि सेद्धुमर्हति, किमुत पदा­र्थ­वि­ष­य­त्व­मिति कैमुतिकन्यायेन सिषा­ध­यि­षि­त­सा­ध्य­सि­द्धि­दा­र्ढ्य­र्थम्, अनु­मा­न­प्र­वृ­त्त्य­न­न्त­र­भा­वि­न्या­य­ल­भ्या­र्था­नु­वा­द­रूपं वा ।
एवं सूत्र­भा­ष्य­सू­चितं सर्व­ज्ञ­त्व­प­र्य­व­सा­य्य­नु­मानं प्रदर्श्य, स्वयं साक्षा­त्त­त्सा­ध­क­म­नु­मानं दर्शयति –
अयं घट इति ।
एतत्पदद्वयं पक्षीकृतघटपरम् । एत­द­न्य­श्चा­सा­व­स­र्व­वि­त्क­र्तृ­कश्च, तस्य भावस्तत्त्वं तद­न­धि­क­र­ण­मि­त्येकं सकर्तृकस्य विशेषणम् । एत­द­न्य­श्वा­सा­व­वे­दश्च, तस्य भावस्तत्त्वं तदनधिकरणमिति द्वितीयं तस्य विशेषणम् । एवंभूतात् सक­र्तृ­का­द­न्य­त्वस्य साध्यस्य दृष्टान्ते प्रसिद्धिः पक्षा­द­न्य­त्व­वि­षया । पक्षीकृतो हि घट: सकर्तृकः एत­द­न्या­वे­द­त्वा­न­धि­क­रणं च; तत्रा­वे­द­त्व­स­त्त्वेऽपि एत­द­न्य­त्व­वि­शि­ष्टा­वे­द­त्वा­भा­वात् । एत­द­न्या­स­र्व­वि­त्क­र्तृ­क­त्व­ना­धि­क­रणं च; तत्र अस­र्व­वि­त्कु­ला­ल­क­र्तृ­क­त्व­स­त्त्वेऽपि एत­द­न्य­त्व­वि­वि­ष्टा­स­र्व­वि­त्क­र्तृ­क­त्वा­भा­वात् । पक्षे तु वेदा­द­न्य­त्व­मा­दाय साध्यं सिद्ध्यद्वेदस्य सर्व­वि­त्क­र्तृ­क­त्व­म­न्त­र्भाव्य पर्यवस्यति । पक्षस्य यस्मा­त्स­क­र्तृ­का­द­न्यत्वं वाच्यं तस्यै­त­द­न्या­वे­द­त्वा­न­धि­क­र­णत्वं ह्यवे­द­व­रू­प­वि­शे­ष्या­भा­वे­नो­प­पा­द­नीयं, न त्वेत­द­न्य­व­रू­प­वि­शे­ष­णा­भा­वेन; पक्ष­ग­ता­न्यो­न्या­भा­व­प्र­ति­यो­गिनि पक्षा­न्य­त्व­स­त्त्वेन तदभावासंभवात् । एव­मे­त­द­न्या­स­र्व­वि­त्क­र्तृ­क­त्वा­न­धि­क­र­ण­त्व­म­प्य­स­र्व­वि­त्क­र्त­क­रू­पस्य विशे­ष्य­स्या­भा­वे­नो­प­पा­द­नी­यम् पूर्ववत्तत्र विशे­ष­णा­भा­वा­सं­भ­वात् । एवं च यद्यपि द्विती­य­वि­शे­ष­ण­लभ्ये वेद­प­क्ष­नि­ष्ठा­न्यो­न्या­भा­व­प्र­ति­यो­गिनि प्रथ­म­वि­शे­ष­ण­ल­भ्य­म­स­र्व­वि­त्क­र्तृ­क­त्वा­न­धि­क­र­ण­त्वम् अकर्तृकत्वेनापि सेद्धुमर्हति; तथापि सक­र्तृ­क­वि­शे­ष्य­वि­रो­धेन तथासिद्धेः निरोधाद् वेदस्य सर्व­वि­त्क­र्तृ­क­त्व­सिद्धिः । अत्र सकर्तृकात् पटादादन्यत्वेन सिद्धसाधनवारणाय द्वितीयं विशेषणम् । तेन वेदादेव सक­र्तृ­का­द­न्य­त्व­सि­द्धा­वपि वेद­स्या­स­र्व­वि­त्क­र्तृ­क­त्वे­ना­र्था­न्तरं स्यादिति, तद्वारणाय प्रथमविशेषणम् । अक­र्तृ­क­त्वे­ना­र्था­न्त­र­वा­र­णाय विशेष्यम् । विशे­ष­ण­द्व­येऽ­प्ये­त­द­न्यत्वं प्रति­यो­गि­वि­शे­षणं दृष्टान्ते साध्य­प्र­सि­द्ध्य­र्थम् । अन्यथा पक्षीकृतघटस्य अस­र्व­वि­त्क­र्तृ­क­त्वा­धि­क­र­ण­त्वात् अवे­द­त्वा­धि­क­र­ण­त्वाच्च ततोऽन्यत्वमादाय दृष्टान्ते साध्य­प्र­सि­द्धिर्न स्यात् । न च वेदा­न्य­त्व­मा­दा­यैव तत्र साध्यप्रसिद्धिः शङ्कनीया; पक्षे साध्यसिद्धेः प्राग्वेदे अस­र्व­वि­त्क­र्तृ­क­त्वा­न­धि­क­र­ण­स­क­र्तृ­क­त्व­सं­प्र­ति­प­त्त्य­भा­वात् ।
सापेक्षत्वं वदन्निति ।
एवं च सापेक्षत्वेन कुत्स्न­वे­दा­प्रा­मा­ण्या­द्वरं निःश्व­सि­ता­दि­श्रु­ति­मा­त्रस्य उपचरितार्थत्वम् । तथा सति 'वाचा विरूपनित्यया 'इत्या­दि­श्रु­ति­र­प्य­नु­ग्र­ही­ष्यत इति पूर्व­प­क्ष­प­र्य­व­साने सति सर्व­ज्ञ­त्व­हे­त्व­न्त­रा­क्षे­प­त­त्स­मा­धा­नार्थं प्रवृ­त्त­मे­वे­द­म­धि­क­रणं जग­त्त­त्का­र­ण­त्वा­क्षे­प­त­त्स­मा­धा­न­प­र्य­न्त­मपि फलतो भवतीति अथवा वेद­नि­त्य­त्वा­दि­त्यु­प­न्य­स्त­द्वि­ती­य­प­द्य­प­र्य­न्त­मेव भाष्यटीकयोरपि विवक्षितं सिद्ध्यतीति द्रष्टव्यम् ।
स वाग्वज्र इति ।
स स्वरवर्णहीनः प्रयुक्तो मन्त्रः वज्रवद्धिंसको यजमानं हिनस्ति, तत्र पुरा­क­ल्प­सि­द्ध­मु­दा­ह­र­णम् –
यथेन्द्र शत्रुरिति ।
त्वष्टुः पुत्रो विश्वरूपः शक्रेण हतः । स त्वष्टेन्द्रस्य हन्तारं पुत्रं लिप्सुः, तदर्थं सोम­या­ग­म­नु­ति­ष्ठन् भागलिप्सुमपि इन्द्रं नाजुहाव । इन्द्रः स्वयमेवागत्य प्रसह्य सोमरसं पपौ । त्वष्टा सोमपात्रे अवशिष्टं सोमरसमिन्द्रस्य शातयिता पुत्रो भूया­दि­त्या­शं­स­मानः 'स्वाहे­न्द्र­श­त्रु­र्व­र्ध­स्वेति मन्त्रेण जुहाव । तदे­न्द्र­श­त्रु­रिति शब्दः तत्पुरुषस्वरं विहाय बहुव्रीहिस्वरेण प्रयुक्तः । तेन स्वरापराधेन तत्रोत्पन्नस्य वृत्रासुरस्य शक्र एव शातयिताऽभूदिति त्वष्टा हतपुत्र इत्या­दि­तै­त्ति­री­य­श्रु­त्य­र्थोऽत्र निबद्धः ।
अवगतसार्वज्ञ्ये इति ।
ननु साश्य­सा­ध­क­वे­द­क­तृ­त्व­हे­तु­सि­द्धि­प­रि­प­न्थि­सा­पे­क्ष­त्व­श­ङ्का­नि­रा­क­र­ण­प्र­स्तावे तदुपयोगितया सार्व­ज्ञ्य­त्वा­व­गतिः कथं सिद्ध­व­दु­प­न्य­स्यते, अन्योन्याश्रयो हि तदा स्यात् । नैष दोषः; सार्व­ज्ञ्या­भ्यु­प­ग­म­हे­तु­म­हि­म­वि­शे­षा­व­ग­ते­र्वि­व­क्षि­त­त्वात् ।
ननु तथा­भू­त­म­हि­म­वि­शे­षा­व­ग­तिर्वा कुतः? न हि वयमीश्वरं पश्याम इत्या­श­ङ्को­त्त­र­त्वेन उत्त­र­ग्र­न्थ­म­व­ता­र­यति –
नन्विति॥
इति तृतीयं शास्त्र­यो­नि­त्वा­धि­क­र­णम्

तत्तु समन्वयात्॥४॥
जैमिनीति ।
जैमिनिना हि 'आम्नायस्य क्रिया­र्थ­त्वात्' ( जै. अ.१ पा. २ सू. १) इत्यादिसूत्रेण कृत्स्न­स्या­म्ना­यस्य प्रयो­ज­न­प­र्य­व­सा­नाय क्रिया­र्थ­त्वा­व­श्यं­भा­वात् अक्रि­या­र्था­ना­मा­न­र्थक्यं निष्प्र­यो­ज­नत्वं, तस्मा­द­क्रि­या­र्थम् अर्थ­वा­द­जा­त­म­नि­त्य­म­प्र­मा­ण­मु­च्यत इति पूर्वपक्षं कृत्वा, 'विधिना त्वेक­वा­क्य­त्वा­त्स्तु­त्य­र्थेन विधीनां स्युः' (जै, अ.१पा. २ सू. २) इति सूत्रेण विधि­वा­क्ये­नै­क­वा­क्य­त्वा­द­र्थ­वादाः विधीनां स्तुति­रू­पे­णा­र्थेन सप्रयोजनाः स्युरिति अक्रि­या­र्था­ना­मा­न­र्थक्यं पूर्व­प­क्ष्यु­क्त­म­ङ्गी­कृ­त्यैव अर्थवादानां विध्येकवाक्यतया प्रामा­ण्य­मु­प­पा­दि­तम् । इदं तु जैमिन्यभिमतम् । अक्रि­या­र्था­ना­मा­न­र्थक्यं न्याय­वि­रु­द्ध­म­प्रा­मा­णि­क­मिति सिद्धान्ते दूष्यमेव । अतो दूष्य­सू­त्रो­प­न्यासः सिद्धा­न्ति­न­स्त­स्मि­न्नर्थे विश्वासार्हो न भवतीत्यर्थः ।
ननू­पा­या­न्त­रे­णापि प्रयोगसमये स्मृतिर्भवतु, मन्त्रेणापि कदाचित् स्मृतिरुपपद्यत इति तदर्थे मन्त्राम्नानं स्यादित्याश माह –
ताव­न्मा­त्रा­र्थत्वे इति॥
भाव इति ।
भावयतेः घञि 'णेरनिटीति णिलोपे भावशब्दो भावनावाची स्याद् भवतेः घञि तु भावशब्दो भवनवाची स्यात् ।
फल­सं­ब­न्ध­बो­ध­न­मिति ।
फल­पु­रु­ष­सं­ब­न्ध­बो­ध­न­मि­त्यर्थः । अन्यगामिनि फले प्रेरणाऽयोगात् प्रवर्तकस्वभावो विधिः फलस्य पुरुषसंबन्धं गम­य­ती­त्ये­व­म­धि­कारो विध्यधीनः ।
विनियोगोऽत्रेति ।
क्रियायाः फल­शे­ष­त्व­स्ये­वा­ङ्गानां प्रधा­न­शे­ष­त्व­स्यापि बोधनं विनियोग एव, स्थाली­पु­ला­क­न्या­येन त्वेकोपादानम् ।
फलसंबन्ध इति ।
फलस्य कर्तृ­पु­रु­ष­गा­मित्वं तेनानुष्ठेयायाः क्रियायाः फलकरणत्वरूपं विनियोगमन्तरेण न भवतीत्यर्थः ।
उत्प­त्ति­वि­धि­नाऽ­धि­का­रा­दि­प्र­ती­ति­मु­दा­ह­रति –
अग्निहोत्रमिति ।
उत्पत्तिविधे: अग्नि­हो­त्र­स्व­रू­प­ज्ञा­न­मा­न­प­रत्वे किमग्निहोत्रं कर्तव्यमिति तदर्थः, उता­ग्नि­हो­त्र­म­भू­दि­त्यादिः । नाद्यः, क्लेशात्मके कर्मणि स्वतः प्रेर­णा­नु­प­पत्तेः । न द्वितीयः, विधिविरोधात् । काल­त्र­या­न­व­मृष्टे विधि­प्र­वृ­त्ते­रि­त्यर्थः ।
तस्मा­द­धि­का­र­वि­धित इति ।
'अग्नि­होत्रं जुहुयात् स्वर्गकाम' इत्य­धि­का­र­वि­धि­र­ग्नि­हो­त्र­ना­म­केन होमेन स्वर्गं भावयेत् इत्येवमर्थकः । फल­स्या­न्य­गा­मित्वे तदर्थं प्रेर­णा­नु­प­प­त्ते­स्तस्य कर्तृसंबन्धं बोधयन्नेव तेनानुष्ठातुं शक्यायाः होमक्रियायाः फलशेषत्वरूपं विनियोगमपि बोधयतीत्येवनम् अधि­का­र­वि­धि­सि­द्ध­वि­नि­यो­गांशे अनु­वा­द­रू­पोऽ­य­मु­त्प­त्ति­विधिः कर्म­स्व­रू­प­ज्ञा­प­न­मा­त्र­प्र­यो­जनो भवतीत्यर्थः ।
अपि त्विति ।
प्रत्य­क्ष­वि­रु­द्धा­र्थ­त्व­रू­प­वि­प­री­ता­र्थ­त्व­दो­षोऽपि परिहृतो भवतीत्यर्थः ।
नत्वन्तरावाक्य इति ।
यद्यपि यागविधौ स्थिते ध्रौवाज्यं द्रव्यं लभ्यते; तथापि देवताया अलाभाद् वर्त­मा­ना­प­दे­शाच्च यागविध्यसंभवे द्रव्यलाभो दूरापास्त इति भावः ।
आलस्य मिति ।
दशमाध्याये "अजा­मि­क­र­णा­र्थ­त्वा­च्चेति" (ज. अ. १० पा. ८ सू. ६३) सूत्रभाष्ये जामिता सादृश्यमिति व्याख्यातम् । तत्रैव नयविवेके जामि­ता­सा­दृ­श्य­मे­क­रूपा हि द्विःक्रियेति तेन कृता­कृ­ता­न­नु­स­न्धि­दोष इति सादृश्यस्य दोष­प­र्य­व­सा­यि­त्व­मु­प­पा­दि­तम् । इह त्वेकरूपायाः क्रियायाः पुनः पुनरनुष्ठाने तन्द्रा स्यादिति भाष्योक्तस्यैव सादृश्यस्य दोष­त्व­प­र्य­व­सा­न­मात्रं प्रका­रा­न्त­रे­णो­क्त­मिति न भाष्यविरोधः । न्याय­सु­धा­या­म­प्ये­व­मे­वो­क्तम् । 'सादृ­श्यस्य नैर­न्त­र्या­नु­ष्ठाने सत्यालस्य अपादकत्वेन दोषत्वादिति । किन्तु तत्र सौन्दर्यवाची जामिशब्दः, तस्य सादृश्ये लक्ष­णे­त्यु­क्त­मिति विशेषः ।
उपां­शु­या­ज­मा­ज्य­द्र­व्यकं विधायेति ।
अत्र अन्त­रा­वा­क्य­वि­ष्ण्वा­दि­वा­क्य­सा­धा­र­ण्येन उपां­शु­गु­ण­क­या­ग­वि­धा­न­मात्रं विवक्षितं, न त्वन्तरावाक्येन उपां­शु­या­ज­वि­धा­नम् । अन्तरावाक्यमेव यागविधायकं न विष्ण्वा­दि­वा­क्य­त्र­य­मि­त्यस्य अर्थस्य प्रसा­ध­यि­ष्य­मा­ण­क­वा­क्य­ता­सि­य­धी­न­त्वात् ततः प्राक् अन्तरावाक्यं विष्ण्वा­दि­वा­क्य­त्रयं वा यत्किं­चि­द्ध्रौ­वा­ज्य­प्रा­प्ति­म­दु­पां­शु­ध­र्म­क­या­ग­वि­धा­य­क­मस्ति इत्ये­ता­व­त्ये­वांशे संप्रतिपत्तेः । ननु जामि­ता­दो­षो­प­क्र­म­त­त्प्र­ती­का­रो­प­सं­हा­रा­भ्या­मे­क­वा­क्यता नावसीयते, येन तत्सं­र­क्ष­णा­र्थ­म­न्त­रा­वाक्यं विधायकमिति निर्णीयेत, किन्तु विष्ण्वा­दि­वा­क्येषु प्रत्येकं जामि­ता­प्र­ती­का­र­नि­ब­न्ध­नात् वाक्यभेद एवावसीयते; तद­नु­सा­रे­णो­प­क्रमे जामि­ता­दो­षो­क्ते­रपि विष्ण्वा­दि­वा­क्य­वि­धे­य­या­ग­त्र­य­स्तु­त्य­र्थ­त्वा­व­ग­मात् ।
न खलु अस्मिन् जले स्नानेन प्रतिश्यायो भवति' नयनयोरञ्जनं कुर्यात् प्रति­श्या­य­प­रि­हा­राय, 'पिप्प­ली­चू­र्ण­युक्तं नारिकेलोदकं सेवेत प्रति­श्या­य­प­रि­हा­राय', "मरी­च­चू­र्ण­युक्तं क्षीरं पिबे­त्प्र­ति­श्या­य­प­रि­हा­रा­येति', प्रत्येकं प्रति­श्या­य­प्र­ती­का­रा­र्थ­तया अञ्जनादिविधाने प्रति­श्या­य­दो­षो­प­क्र­म­त­त्प्र­ती­का­रो­प­सं­हा­र­मा­त्रेण एकवाक्यता भवतीत्याशङ्कयाह –
तथाहीति ।
विष्ण्वा­दि­वा­क्येषु यागविधाने कर्म­प्र­धा­न­त­व्य­प्र­त्य­य­ब­लात् विष्ण्वा­दि­दे­व­ता­सं­स्का­रा­र्थ­या­ग­वि­धानं झटिति प्रतीतं स्यात्, अतः संस्कृ­त­दे­व­ता­वि­नि­यो­गा­द­र्श­नेन ततः परावृत्य यागा­ना­म­र्थ­क­र्म­भा­वेन प्राधान्यं लक्षणीयमिति तेषु विलम्बिताः प्रधा­न­भू­त­या­ग­वि­धयः । अन्तरावाक्ये तु यागस्य अन्योपसर्जनत्वं न श्रुतमिति प्रधानभूतस्य तस्य पञ्च­म­ल­का­र­क­ल्प­नेन विधिः शीघ्रतरः, जामिता दोष­प­रि­हा­रो­प­यु­क्ता­न्त­रा­ल­का­ल­यु­क्तश्च; पुरो­डा­श­द्व­य­नै­र­न्त­र्यात् । जामि­ता­दो­षो­प­न्या­सेन ह्युपक्रम एवै­त­द­व­ग­त­मु­प­न्य­स्त­दो­ष­स­मा­धा­ना­र्थम् अन्तराले किंचि­द्वि­धि­त्सि­त­मिति । तद्य­द्य­न्त­रा­वाक्यं विहाय विष्ण्वा­दि­वा­क्येषु विधिराश्रीयेत, तदो­प­क्र­मा­नु­गुण्यं न स्यात् । न हि नैर­न्त­र्य­प्र­यु­क्त­दो­षस्य अन्तराले कर्मा­न्त­र­वि­धा­ने­नेव विष्ण्वा­दि­य­ज­न­वि­धा­नेन समाधानं प्रतीयते । प्रति­श्या­या­दि­वा­क्येषु तु नैवं कर्म­प्रा­धा­न्य­प्र­तीतिः । न च उप­क्रा­न्त­दो­ष­स­मा­धा­न­सा­मा­व­ग­ति­वि­ष­य­यु­क्त­वि­ध्य­न्त­र­व­ण­म­स्तीति तत्र वाक्यभेदेऽपि नात्र तद्भेदः समाश्रयणीयः । तस्मा­न्म­न्न­व­र्ण­प्रा­प्त­वि­ष्ण्वा­दि­या­गेन प्रशं­सा­र्थेऽ­र्थ­वा­द­त्रये प्रत्येकम् आम्ना­त­म­प्य­जा­मि­क­रणं तदन्वयद्वारा विधा­य­केऽ­न्त­रा­वाक्य एवान्वेति । अत एव तैत्ति­री­य­शा­खा­याम् उपांशुयाजमन्तरा यज­ती­त्य­न्त­रा­वाक्य एवा­जा­मि­क­र­ण­मा­म्ना­तम् । इह त्वर्थवादत्रये अजामिकरणाभ्यासः तदृढीकरणाय भविष्यतीति न तदनुरोधेन वाक्य­भे­द­श­ङ्का­व­काशः ।
कर्मतया च देवतात्वमिति ।
लक्ष­णी­य­मि­त्य­नु­षङ्गः ।
तस्मादिति ।
अपू­र्व­त्वा­द्यागे एव विध्यपेक्षा, न विष्ण्वा­दि­दे­व­ता­स्वपि मन्त्रवर्णतः प्राप्ति­सं­भ­वा­दिति भावः॥ सामवेदे सार्वा­त्म्य­वि­षयौ उपक्रमोपसंहारौ दर्शितौ ।
ऋग्वेदादिष्वपि तौ दर्शयति –
ऐतरेयके इति ।
ऐतरेये इति तु न पाठः, इतराया अपत्यमैतरेयः, तेन प्रोक्तां शाखामधीयत इति ऐतरेयिणः । तेन प्रोक्त­मि­त्यर्थे "पुरा­णो­क्तेषु ब्राह्म­ण­क­ल्पेष्वि"ति सूत्रेण णिनिप्रत्यये सति तदधीत इत्यर्थे विहितस्य प्रत्ययस्य 'प्रोक्ता­ल्ल­गिति सूत्रेण प्रोक्त­प्र­त्य­या­न्तस्य लुग्विधायकेन लोपे सति निष्पत्तेः॥ ततश्च ऐतरेयिणामाम्नाय इत्यर्थे "गोत्र­च­र­णा­वु­ञिति वुञ्प्रत्यये सति हि ऐतरेयके इति भाव्यम् ।
स एतमेवेति ।
अनेन वाक्येन प्रत्यगात्मैव ब्रह्मे­त्यु­प­क्रा­न्तम्, तदुपसंहारे च प्रज्ञानशब्दो जीवपरः । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानीति प्राक् प्रज्ञानशब्देन जीवस्य निर्दिष्टत्वात् ।
वेदान्ता यदीति ।
वेदान्तानां सापे­क्ष­त्व­प्र­सं­ज­कस्य भूतार्थत्वहेतोः पौरुषेयत्वेन सोपाधिकत्वम् । अय­म­भि­सं­धि­रि­त्या­रभ्य प्रवृत्तेन टीका­ग्र­न्थे­नो­च्य­मानं, परि­नि­ष्ठि­त­व­स्तु­वि­ष­य­त्वेऽ­पीति भाष्य­ग­ता­पि­श­ब्देन भूतार्थत्वस्य सापे­क्ष­त्व­व्य­भि­चारं दर्शयता उक्त­सा­ध्य­प्र­यो­ज­का­न्त­र­स­द्भा­व­सू­च­नेन द्योत्यत इत्ये­त­द­भि­सं­धि­श­ब्दे­ना­हे­त्यर्थः । ननु अयमभिसंधिः इत्या­दि­टी­का­ग्र­न्थस्य उक्तरीत्या उपा­ध्यु­द्भा­व­न­प­र­त्वे­ना­व­ता­र­ण­म­यु­क्तम् । तस्य ग्रन्थस्य सापे­क्ष­त्वा­पा­दने भूता­र्थ­त्व­प्र­स­ङ्ग­हेतुः पौरुषेयत्वं वेति विकल्प्य, प्रथमपक्षं व्यभिचारेण निर­स्या­थे­त्या­दि­ग्र­न्थेन द्विती­य­प­क्ष­मु­द्भाव्य, तं पक्षं वेदान्तानां पौरुषेयत्वं नास्तीति प्रस­ङ्ग­हे­त्व­सं­मत्या दूषयित्वा, भूतार्थत्वे मानान्तरेण शक्य­ग्र­ह­त्वा­त्पौ­रु­षे­य­त्व­मपि स्यादिति प्रस­ङ्ग­हे­तो­र­प्या­पा­द­न­शङ्कां यद्यु­च्ये­ते­त्या­दि­ग्र­न्थेन उद्भाव्य, तर्हि कार्या­र्थ­त्वेऽपि तत एव हेतोः तत्स्या­दि­त्ये­त­द­र्थ­प्र­ति­पा­द­क­त­यैव तस्य ग्रन्थस्य प्रवृत्तेः, तस्य पौरु­षे­य­त्वो­पा­ध्यु­द्भा­व­न­प­रत्वे तमु­पा­धि­म­स­ह­मा­नस्य पूर्वपक्षिणः सापेक्षत्वे पौरुषेयत्वं प्रयोजकम् इत्यु­क्त्य­सं­भ­वेन अथे­त्या­दि­श­ङ्का­ग्र­न्थस्य अन­न्व­य­प्र­स­ङ्गाच्च, यद्यु­च्ये­ते­त्या­दि­श­ङ्का­ग्र­न्थो­प­सं­हारे । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारम् । ननु भूतार्थत्वेनेति भूतार्थत्वं हेतुं परित्यज्य पौरुषेयत्वस्य हेतु­त­यै­वो­पा­दा­नस्य स्पष्टी­क­र­णा­च्चेति चेत्, उच्यते, टीकायां भूतार्थतया खलु सापे­क्ष­त्व­मा­श­ङ्क्यते इत्य­नु­वा­दा­न­न्तरं भूतार्थतया वेदान्तानां सापेक्षत्वम्, उत पौरुषेयतयेति विकल्पो न प्रसरति । भूतार्थत्वहेतौ व्यभिचारेण दूषिते तत्रैव वाक्य­त्व­वि­शे­ष­णा­शङ्कां विहाय वाक्य­त्व­वि­शे­षि­त­भू­ता­र्थ­त्व­हे­तुना प्रसाधनीयस्य पौरुषेयत्वस्य हेत्वन्तरस्य शङ्का च न सामा­ञ्ज­स्य­म­श्नुते । तस्मात् पौरु­षे­य­त्व­मु­पा­धि­मु­द्भा­व­यि­ष्यतो गूढाभिसन्धेः सिद्धान्तिनोऽयं विकल्पः । दृष्टा­न्ती­कृ­तेषु पुंवाक्येषु सापेक्षत्वे, त्वदीयसाधनं भूतार्थत्वं प्रयोजकम्, मदु­द्भा­व­नी­यो­पा­धि­रूपं पौरुषेयत्वं वेति । अत एव पक्षे हेतुविकल्पोऽयं न भवति । किन्तु दृष्टान्ते साध्य­प्र­यो­ज­क­ध­र्म­वि­कल्प इति दर्शयितुमेव टीकायां 'पुंवा­क्य­नि­द­र्श­नेन हीति' 'पुंवा­क्या­ना­मिति च विशेषितम् ।
ततः प्रथमपक्षे व्यभिचारेण दूषिते तत्र वाक्यत्वविशेषणे कृतेऽपि सिद्धान्ती पौरु­षे­य­त्व­मु­पाधिं ब्रूयादिति तं पक्षं परित्यज्य तदभिमतमुपाधिं साध­न­व्या­प­क­त्वे­ना­नु­पाधिं व्यव­स्था­प­यि­ष्याम इति मन्यमानस्य पूर्वपक्षिणः पक्षा­न्त­र­प­रि­ग्र­हा­शङ्का –
अथ पुरु­ष­बु­द्धि­प्र­भ­व­त­येति ।
पौरुषेयत्वस्य सापे­क्ष­त्व­प्र­यो­ज­क­त्व­म­ङ्गी­कृत्य तस्य वेदा­न्ते­ष्व­भा­वेन साध­ना­व्या­प­क­त­यो­पा­धि­त्वो­द्धा­ट­नम् ।
एवं तर्हीति ।
वेदान्तानां भूता­र्थ­वा­क्य­त्व­हे­तुना पौरु­षे­य­त्वा­पा­द­नेन साध­न­व्या­प­क­त­याऽ­नु­पा­धि­ल­शङ्का –
यद्युच्येतेति ।
तस्मा­त्पौ­रु­षे­य­त्वे­नेति तदु­प­सं­हा­र­वा­क्ये­ना­प्य­नु­पा­धि­त्व­श­ङ्काया एव तत्फलेन सहोपसंहारः । वेदान्तानां पौरु­षे­य­त्व­मा­पाद्य, उपाधेः साध­न­व्या­प­क­त्वात् निरुपाधिकेन भूतार्थत्वेन सापे­क्ष­त्व­मा­पा­द्यते, न तु तदनापाद्य सोपाधिकेन भूतार्थत्वेनेति ततः प्रति­ब­न्दि­ग्र­ह­णेन वेदान्तानां भूता­र्थ­त्वेऽ­प्य­पौ­रु­षे­य­त्वो­प­प­त्त्यो­पाधेः साध­ना­व्या­प­क­त्व­व्य­व­स्था­प­नेन भूता­र्थ­त्व­हे­तु­क­सा­पे­क्ष­त्वा­प्र­स­ङ्गा­नु­मा­नस्य सोपा­धि­क­त्व­प्र­द­र्श­न­प­रोऽत्र ब्रूम इत्यादिग्रन्थः । अत एव तदुपसंहारवाक्यं तेनासिद्धे पौरुषेयत्वे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघात इति । तस्मा­दु­पा­ध्यु­द्भा­व­न­प­र­तया व्याख्यानं युक्तमेव । प्रमा­णा­न्त­र­सि­द्धा­र्था­नु­वा­द­क­तया स्वप्रा­मा­ण्य­सिद्धौ तत्प्रा­मा­ण्य­मु­ख­नि­री­क्ष­कत्वं सापेक्षत्वं, पूर्वा­नु­पू­र्व्य­न­पे­क्ष­पुं­वि­शे­ष­बु­द्ध्य­धी­ना­नु­पू­र्वी­मत्त्वं पौरुषेयत्वमिति साध्योपाध्योः भेदः ।
तस्यैवेति ।
यस्य हेतो­रु­पा­धि­रु­द्भा­व­नीयः तस्यैव व्यभिचारं तावदाहेत्यर्थः । यद्यपि दृष्टा­न्ती­कृ­तेषु पुंवाक्येषु भूतार्थत्वं सापे­क्ष­त्व­प्र­यो­जकं न भव­ती­त्ये­त­दु­प­पा­दकः प्रत्यक्षादिषु सत्यपि भूतार्थत्वे सापेक्षत्वाभाव aaउपा­ध्यु­द्भा­व­नो­प­यो­गि­प्र­यो­ज­का­न्त­र­श­ङ्का­व­स­र­दा­ना­र्थ­मि­हो­च्यते; तथापि स एव हेतोः पक्षे साध्या­सा­ध­क­त्व­सि­द्ध्य­प­योगी व्यभि­चा­रोऽ­पी­त्य­भे­द­दृष्ट्या अनै­का­न्ति­क­ता­मा­हे­त्यु­क्तम् –q
कार्ये माना­न्त­रा­यो­ग्य­त्व­स्या­सि­द्ध­त्वा­दिति ।
ननु वेदान्तानां कार्यपरत्वेऽपि पौरु­षे­य­त्वा­नु­मानं प्रसरति; कार्यस्यापि माना­न्त­र­यो­ग्य­त्वा­वि­शे­षा­दिति पौरु­षे­य­त्वा­नु­मा­न­मुक्त्वा तत्फलमुपाधेः साध­न­व्या­प­क­त्व­म­प्य­भि­धाय तत­श्चे­त्या­दि­ग्र­न्थेन पुनरपि पौरु­षे­य­त्वा­नु­मा­न­प्र­सर एवोपसंह्रियते । उपाधिविधूनने निरुपाधिकेन वाक्यत्वेन सापे­क्ष­त्वा­नु­मा­न­मेव खलूपसंहर्तव्यम् । सत्यम्: वाक्य­त्वा­दि­लि­ङ्गकं पौरु­षे­य­त्व­श­ब्देन पुरु­ष­बु­द्धि­प्र­भ­व­त्व­प­रेण सापे­क्ष­त्व­मे­वो­क्तम् । अथवा पौरुषेयत्वं संभवतीति पूर्ववाक्येन पौरु­षे­य­त्वा­नु­मा­नस्य बाधा­भा­व­मा­त्र­मु­क्तम्, तत­श्चे­त्या­दि­ग्र­न्थेन । तत्फलतया पौरु­षे­य­त्वा­नु­मा­न­प्र­वृ­त्ति­रुक्ता, प्रागेव साध­न­व्या­प्यु­क्तिस्तु वक्ष्य­मा­णा­नु­मा­न­फ­ल­त्वा­भि­प्रा­ये­णेति नेतव्यम् ।
अकार्यार्थत्वं समानमिति ।
निष्प्रत्यूहेन वाक्य­त्वा­दि­हे­तुना पौरु­षे­य­त्वेऽ­नु­मिते सति माना­न्त­रा­गो­च­राऽ­पू­र्व­का­र्य­र्थ­त्व­क­ल्प­नैव न प्रवर्तते चैत्य­व­न्द­ना­दि­वा­क्येषु । अतस्तत्कल्पना पौरु­षे­य­त्व­प्र­त्या­ख्या­न­प्र­त्याशा दुराशेति भावः ।
स्मर्यमाण कर्तृकत्वेनेति ।
चैत्य­व­न्द­ना­दि­वा­क्ये­ष्वपि पश्याम्यहं भिक्षवो दिव्येन चक्षुषा सुकृतं दुष्कृतं चेति तदा­ग­म­क­र्तृ­बु­द्ध­व­च­सैव कर्तृ­प्र­ती­ति­र­स्तीति भावः ।
सिद्धा­र्थ­वे­दा­न्ते­ष्व­पीति ।
यथा वेदान्तानां कार्या­र्थ­त्व­पक्षे तेषां पौरुषेयवानुमानं कर्तृस्मर णोपाधिना निरस्यते, तथा तेषां सिद्धा­र्थ­व­प­क्षेऽपि तन्निरसितुं शक्य­मि­त्य­प्र­यो­जक कार्या­र्थ­ल­क­ल्प­न­मि­त्यर्थः ।
कार्यरूपेति ।
कार्यं रूपयति, अनुष्ठेयं ज्ञापयति कार्यरूपः यागा­द्य­नु­ष्ठा­न­प्र­यो­जकः, तद्ग­त­स्व­र्गा­दि­श्रे­यः­सा­ध­न­त्वा­का­र­स्तेन रूपेण यागादिर्धर्मः । अतो यागादेः स्वरूपतः प्रत्य­क्ष­त्वेऽपि धर्म­त्वा­का­रे­णा­ती­न्द्रि­यता । यथाहुः - श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रमीयते । ताद्रूप्येण च धर्मत्वं तस्मा­न्ने­न्द्रि­य­गो­चरः॥' इति ।
व्याप्त्य­भा­वे­नेति ।
वेदान्तानां सिद्ध­व­स्तु­प­र­त्व­म­नु­मातुं न शक्यम्; वेदवाक्यत्वस्य तेन व्याप्त्य­भा­वा­दि­त्यर्थः ।
निन्दा न भातीति ।
ननु अश्रुजं हि यो बर्हिषि ददाति, 'पुरास्य संवत्सराद्गृहे रुदन्तीति' वाक्यशेषेण यागे रजतदानस्य बल­व­द­नि­ष्टा­नु­ब­न्धि­त्व­रूपा निन्दा भातीति चेत्, न; संव­त्स­रा­त्प्राग् रोदनस्य क्वचि­त्क्व­चि­द्द­र्श­नेन वाक्यशेषस्य पार­लौ­कि­का­नि­ष्टा­नु­ब­न्धि­त्व­ल­क्ष­क­तायाः समा­श्र­य­णी­य­त्वात्॥ सिद्धा­र्थ­व्यु­त्प­त्त्य­नु­प­म­र्दो­प­म­र्दाभ्यां वर्णकयोः पूर्व­प­क्ष­भे­द­मुक्त्वा ब्रह्मणः शास्त्र­प्र­मा­ण­क­त्व­प्र­ति­क्षे­पा­प्र­ति­क्षे­पाभ्यां तद्भेदं यद्य­पी­त्या­दि­भा­ष्य­सिद्धं दर्शयति –
अथवेति ।
लोकेन न प्रयुज्यन्ते इत्ययुक्तम् ।
पामरजने निर­र्थ­क­सि­द्धा­र्थ­प­द­सं­घा­त­प्र­यो­गस्य संभा­वि­त­त्वा­दि­त्या­शङ्क्य, लोकेनेति पदं व्याचष्टे –
वृद्धैरिति ।
प्रेक्षावता उत्त­म­वृ­द्ध­ज­ने­ने­त्यर्थः ।
पर्या­य­त्व­मा­श­ङ्क्येति ।
न च कार्या­न्वि­त­त­द­र्थ­वि­शे­ष­प­र­त्वे­ना­पो­य­त्व­मु­प­पा­द­यितुं शक्यम्; कार्यवाचिनि लिङादिपदे कार्या­न्वि­ता­र्था­न्त­रा­भा­वेन कार्यान्विते पदानां शक्ति­रि­त्यु­क्त्य­सं­भ­वा­दिति शङ्काभिप्रायः । कार्ये शक्तिरिति नियमः । तस्य नियमस्य कार्यवाचिपदानां तन्मात्रशक्त्या तदितरपदानां तद­न्वि­त­स्व­स्वा­र्थ­शक्त्या च निर्वाह इति परिहाराभिप्रायः ।
नियो­गा­वि­नाऽ­भा­वा­दिति ।
मध्य­म­वृ­द्ध­प्र­वृ­त्ति­लि­ङ्गा­पे­क्ष­प्रा­थ­मि­क­का­र्य­व्यु­त्प­त्ति­ग्र­हो­प­जी­विनां पाश्चा­त्य­व्य­व­हा­रा­णाम् उपजीव्यानुसारेण कार्या­वि­ना­भा­वा­दि­त्यर्थः । एतेन व्याक­र­ण­को­शा­प्त­वा­क्य­प्र­सि­द्ध­प­द­स­म­भि­व्या­हारैः सिद्धार्थेऽपि व्युत्प­त्ति­ग्रहः संभवतीत्यपि शङ्का निरस्ता; तेष्वपि प्राथ­मि­क­व्यु­त्प­त्ति­ग्र­हा­नु­सा­रेण कार्य­वा­चि­प­दा­ध्या­हा­रा­व­श्यं­भा­वात् । ननु 'न च रज्जु­रि­य­मि­त्या­दि­र्नि­वृ­त्ति­र्भ­व­ती­त्यन्तः सिद्धा­न्ति­श­ङ्का­नु­वा­द­ग्रन्थः । तन्मध्ये कथं तद­न­भि­म­त­नि­यो­गा­वि­ना­भा­वोक्तिः । नैष दोषः, पूर्वपक्षिणापि संमतो हि दृष्टा­न्ती­क­र्तव्यः । न च तत्के­व­ल­सि­द्धा­र्थ­प­र­म­र्थ­व­दिति पूर्वपक्षिणः संमतिरस्ति । तत्रापि कार्य­वा­चि­प­दा­द्या­ध्या­हा­रा­भ्यु­प­ग­मा­दिति पूर्व­प­क्ष्या­श­या­नु­सा­रेण यथाकथंचित् लक्षणयेति टीका­त­द्व्या­ख्या­न­यो­र­व­ता­र­णाद्, रज्जुवाक्यस्य परमते कार्यपरत्वेऽपि रज्जुरियं न भुजङ्ग इति सिद्धार्थांश एव भया­दि­नि­वृ­त्यु­प­योगि, न तु कुलधर्मतया परकल्पितः कार्यांश इति सिद्धा­र्थ­प­र­त­त्त्व­म­स्या­दि­वा­क्य­दृ­ष्टा­न्त­त्व­स­ङ्गतिः ।
टीकायां स्वविषयस्य करणस्येत्यत्र स्वविषयस्येति पदं व्याचष्टे –
स्वप्र­ती­त्यु­पा­धि­त्वेन विषयस्येति ।
लिङाऽपूर्व कार्य­त्वे­ना­भि­धेयं, कार्यत्वं च कृतिसाध्यत्वं, न चापूर्वस्य साक्षा­त्कृ­ति­सा­ध्यत्वं संभवति, अतो यद्वारा तस्य कृतिसाध्यत्वं घटनीयं स धात्वर्थो याग­दा­न­हो­मा­दि­र­नु­ब­न्धोऽ­व­च्छे­दको विषय इति प्राभा­क­रै­र्व्य­व­ह्रि­यते ।
करणस्येति पर्द व्याचष्टे –
स्वनि­व­र्त्त­क­त्वेन करणस्येति ।
तदाहुः - 'कृति­त­त्सा­ध्य­म­ध्यस्थो यागादिविषयो मतः । कार्ये संघटिताकारे करणत्वेन संमतः॥' इति ।
न श्रौतत्वमात्मन इति ।
ननु आत्मा­न­मु­पा­सी­तेति श्रुत­क­र्म­का­र­क­वि­शिष्टा खलु उपास्तिक्रिया विधि­वि­ष­य­त्वे­ना­न्वेति, कथं तर्हि श्रुतस्यात्मनः कर्म­का­र­क­स्या­श्रौ­त­त्व­शङ्का, कथं च तस्य विध्या­क्षि­प्त­तया श्रौत­त्व­नि­र्व­ह­णेन तत्समाधानम् । न हि गामानयेत्यत्र श्रुतस्य गोः कर्मकारकस्य पिधेहीति प्रयोगे द्वार­स्ये­वा­क्षे­प्य­तास्ति । उच्यते; आत्ममात्रस्य विधि­वि­ष­य­क्रि­या­क­र्म­त­याऽ­न्वयः श्रौतः, न तु भाष्यो­दा­हृ­त­स­र्व­वे­दा­न्त­स­मा­हृ­त­वि­ज्ञा­ना­न­न्दा­दि­स्व­भा­व­स्या­त्मनः । तथा­भू­ता­त्म­स्व­रू­पा­भि­प्राये शङ्कासमाधाने । अत एव टीका­यां-ता­दृ­श­मा­त्मा­न­मा­क्षि­प­तीति तादृ­गा­त्म­प्र­ति­प­त्ति­वि­धि­प­रेभ्यो वेदान्तेभ्य इति चोक्तम् । ननु तादृ­क्स्व­भा­वोऽपि "विज्ञा­न­मा­नन्दं ब्रह्मे­त्या­दि­प­द­बोध्यः, मैवम्; कार्यान्विते पदानां व्युत्पत्तेः । कार्यान्वितार्थ एव पद­सं­घा­तोऽ­र्थ­वान् अन्यस्त्वनर्थक एव । एवं च ग्राह­क­ग्र­ह­ण­द­शायां विज्ञा­ना­न­न्दा­दि­स्व­भा­व­स्यो­पा­स्ति­नि­यो­गेन सह प्रार­ब्ध­म­न्वि­ता­भि­धानं निर्वहति; आत्म­मा­त्र­रू­प­क­र्म­का­र­का­व­च्छि­न्नो­पा­स्ति­क्रि­या­वि­ष­य­विधौ पर्यवसिते पश्चा­त्प­दा­न्त­रै­स्त­द्वि­शे­ष­ण­तया श्रव­ण­स्या­नु­वा­द­मा­त्र­रू­प­त्वेन केवलं तत्त­त्प­दा­र्थ­स्मृ­ति­मा­त्र­हे­तु­त्व­प्र­सक्तेः । तस्मा­दु­पा­स्ति­नि­योग एव प्रथ­मा­र­ब्ध­ग्रा­ह­क­ग्र­ह­ण­नि­र्वा­हार्थं पूर्वं ज्ञानानन्दादि स्वभा­वा­व­च्छि­न्न­त्व­मा­त्म­का­र­क­स्या­पाद्य पश्चा­त्त­द्वि­शि­ष्टो­प­स्ति­क्रि­या­वि­षयो भवतीत्येवं विध्या­क्षे­प­रू­पो­पा­दा­न­प्र­मा­ण­प्र­सा­द­ल­भ्यैव ज्ञाना­न­न्दा­दि­रू­प­ब्र­ह्मै­क्यस्य प्रत्यगात्मनि तात्प­र्ये­णा­नि­श्चे­य­ता­रूपा विधेयता । एवमेव 'तथा द्रव्येषु गुण­श्रु­ति­रु­त्प­त्ति­सं­यो­गात् (जै. सू. अ.२ पा. २ सू.२५) इति पूर्व­त­न्त्रा­धि­क­रणे "सोमा­रौद्रं चरुं निर्वपेत् शुक्लानां व्रीही­णा'मि­त्यत्र पृथक्पदाभ्यां विशेषणतया श्रुतयोः व्रीहि­द्र­व्य­शु­क्ल­गु­ण­यो­र­वि­व­क्षा­मा­शङ्क्य ग्राह­क­वि­ध्या­क्षे­प­ब­लात् तद्विवक्षा प्राभाकरैः समर्थिता ।
श्रौतत्वे इति ।
एवं च तद्विधेयमिति गुरुग्रन्थस्य प्रथ­मा­र­ब्ध­ग्रा­ह­क­ग्र­ह­ण­नि­र्वा­हाय यत्किं­चि­द्द्वा­रेण विध्यन्वयितया शब्द­बो­ध्य­मि­त्यर्थ इति तात्पर्यम् । एवं हि विध्या­क्षि­प्तस्य श्रौतत्वे संमतिर्दर्शिता भवति । विध्या­क्षे­प­रू­प­वि­धि­व्या­पा­रा­त्म­क­मु­पा­दानं शब्द­प्र­मा­णा­न्त­र्भूतं, न तु पीनो देवदत्तो दिवा न भङ्ग इति लौकि­क­वा­क्या­र्थ­ज्ञा­न­मू­ल­श्रु­ता­र्था­प­त्ति­वत् शाब्दप्रमोपजीवि तदनन्तरं प्रवर्तमानं प्रमाणान्तरमिति गुरुमतमर्यादा ।
नन्वा­रो­पि­त­स्यापि विषयतया निरू­प­क­त्व­म­स्त्ये­वे­त्या­श­ङ्क्याह –
न च सत्यां गताविति ।
गगनस्य तत्त­त्क­र्ण­पु­टा­व­च्छे­देन प्रति पुरु­ष­व्य­व­स्थि­त­श्रो­तृ­भा­व­वत् एकस्यैव व्यापकस्य ब्रह्मचैतन्यस्य तत्त­द­वि­द्यो­पा­ध्य­व­च्छे­देन प्रतिशरीरं व्यव­स्थि­त­प्र­त्य­गा­त्म­भाव उपपद्यत इत्येवं गतौ सत्यां वाग्धे­नु­त्वा­दि­व­दा­रोपो न युक्त इत्यर्थः ।
अपूर्वदेवतेति ।
सौर्यादौ उदी­च्या­ङ्ग­ज­न्यो­प­का­र­सा­हि­त्याय अधि­का­र­वि­ध्या­क्षे­प्य­मौ­पा­दा­निकं यदु­त्प­त्त्य­पूर्व तद्वि­ष­य­मि­हा­पू­र्व­पदं, नत्व­धि­का­रा­पू­र्व­वि­ष­यम् । प्रस्तुते गुरुमते तस्यैव लिङर्थस्य विधितया अन्यविधिपरेण शास्त्रेण सिद्ध्यभावात् ।
एवं काम इत्यश्रवणादिति ।
वर्तमानापदेशात् सिद्धरूपैव प्रतिष्ठा प्रतीयते, न साध्यरूपेति तस्या अपि फलत्वं कल्प्यं, ततो वरं विश्व­जि­न्न्या­येन (जै. अ. ४ पा. ३ सू. १५-१६) विधि­श­क्त्य­व­ग­त­व­र्ग­फ­ल­क­ल्प­न­मिति भावः ।
प्रतिष्ठाफलस्य निर्देशादिति ।
अत्य­न्ता­श्रु­त­फ­ल­क­ल्प­ना­द्वरं श्रुताया एव प्रतिष्ठाया विपरिणामेन फलत्वकल्पनम् । तथा च यत्त­दो­र्व्य­त्या­सेन योजनया प्रति­ति­ष्ठ­न्ती­त्यत्र सन­र्था­न्त­र्भा­व­नेन च ये प्रति­ति­ष्ठा­सन्ति त एता रात्री­रु­पे­यु­रिति वाक्यविपरिणामः कार्य इति भावः ।
नैमि­त्ति­का­धि­कारे इति ।
यः सत्रायावगुरते स विश्वजिता यजेतेति' विहितो विश्व­जि­नै­मि­त्ति­का­धि­कारः । ननु 'पितृयज्ञः स्वका­ल­त्वा­द­नङ्गं स्यात्' (जै. अ. ४ पा. ४ सू. १९) "अङ्गं वा सम­भि­व्या­हा­रा­दिति” याज्ञि­का­भि­म­त­द्वि­ती­य­प­क्षा­नु­सा­रेण पितृयज्ञो यदि दर्शा­ङ्ग­मि­ष्यते, तदा सोऽपि नियो­ज्या­का­ङ्क्षा­रा­हि­त्यात् स्थिरोदाहरणं न स्यात् इत्या­श­ङ्का­प­रि­हा­राय तद­न­ङ्ग­त्व­व्य­व­स्था­प­का­धि­क­र­णा­नु­क्र­मणं दर्श­न­क­र­ण­प­ठि­तत्वे प्रक­र­णा­त्त­द­ङ्ग­त्व­मेव स्यादि­त्य­ना­र­भ्या­धी­त­त्वोक्तिः ।
ननु "पूर्वे­द्यु­र­मा­वा­स्यायां वेदिं करोती"ति कर्मणीव ऐन्द्रं पयोऽ­मा­वा­स्या­या­मिति कालेऽ­प्य­मा­वास्या शब्दो दृश्यत इत्याशङ्क्याह –
यद्यपीति ।
ननु यदि प्रकृतं सा वैश्वदेवीति तत्पदेन परामर्शनीयं, तर्हि दध्यपि प्रकृतमिति तत्परामर्शनीयं कुतो न स्यात्? तस्मा­द्वि­नि­ग­म­ना­वि­र­हा­दु­भयं विहायामिक्षां दधिपयोभ्यां निष्पन्नं द्रव्या­न्त­र­म­ङ्गी­कृत्य तत्प­रा­म­र्शि­त्व­क­ल्पनं युक्तम् ।
सर्वनाम्नः प्रकृ­त­प­रा­म­र्शि­त्वा­सं­भ­वेन प्रक­रि­ष्य­मा­ण­प­रा­म­र्शि­वस्य अथैष ज्योतिरित्यादौ दृष्ट­त्वा­दि­त्या­श­ङ्क्याह –
तत्र नयतेरिति ।
द्विक­र्म­क­धा­त्व­र्था­न्वयि पयोऽपि कर्मैव, तत्र कस्यानयनेन किं संस्कार्यमिति संदेहे दध्यानयनेन पयः संस्कार्यमिति पयसः प्रधा­न­क­र्म­त्व­द्यो­त­नाय कर्मण्यपि तस्मिन् सप्तमीप्रयोगः । यच्च प्रधानं तदेव सर्वनाम्ना परामर्शनीयम् । अतः पयः­प­रा­म­र्शि­त­च्छ­ब्द­सा­मा­ना­धि­क­र­ण्यात् आमिक्षाशब्दो दध्यानयनेन संस्कृतस्य पयस एव वाचको, न तदुत्पन्नस्य द्रव्या­न्त­र­स्ये­त्य­व­सी­यत इत्याशयः । रूपभेदेऽपि - द्रवलकठिनलधर्म भेदेऽपि ।
तर्हि वाजिनमपीति ।
दधिसंस्कृतं पय एवा­मि­क्षा­वा­जि­ना­त्म­तया रूपद्वयं प्राप्तमित्यपि कल्पनोपपत्तेः आमिक्षावद् वाजिनमपि पय­स्त्वा­वि­शे­षात् दध्यानयनस्य प्रयोजकं भवेदेव । ततश्च वाजिनापचारे पयोन्तरमानीय दध्यानयनेन संस्कृत्य वाजिनं निष्पादनीयमिति शङ्कार्थः ।
तस्यामस्तीति ।
तादात्म्येनेति शेषः । रूपाभेदेऽपि - द्रव­त्व­ध­र्मा­भे­देऽपि । एतदुपलक्षणम् विनापि दध्यानयनम् अतिपाकेन पिण्डीभूतस्य पयसो रूपभेदेऽपि भेदाभावादित्यपि द्रष्टव्यम् । एवं रसानुवृत्तेरेव अभे­द­प्र­यो­ज­क­त्वात् आमिक्षायामेव पयः­प­रा­म­र्शि­त­त्प­द­सा­मा­ना­धि­क­रण्यं दृश्यते न वाजिने इति भावः । यद्विषया जिज्ञा­से­त्या­दि­भा­ष्य­ग­त­वि­शे­षणैः प्रती­य­मा­न­वे­दा­न्ता­ना­मु­पा­स्ति­वि­धि­प­रत्वे प्राचीनतन्त्रे विचा­रि­त­त्वे­नात्र विचारो विफलः स्यादित्युक्ति- वेदान्ता यद्युपासामिति श्लोक­पू­र्वा­र्धेन संगृहीता, सा न क्षोदक्षमा वैधफलविषयतया स्वर्गदेवतावद् विधिशेषैः ब्रह्म­स्व­रू­प­मा­त्रस्य प्राची­न­त­न्त्र­न्यायैः कथं­चि­त्सि­द्धि­सं­भ­वेऽपि तन्नि­र्गु­ण­त्वादेः विद्या­भे­दा­भे­दो­प­सं­हा­रा­भ्या­मु­प­सं­हा­रस्य विशेषस्य चैत­त्त­न्त्र­व्यु­त्पा­द­यि­ष्य­मा­ण­न्या­यै­क­नि­र्णे­यस्य ततो निर्णयालाभात्, अतोऽ­भ्यु­च्च­य­मात्रं सा युक्तिः ।
मूलयुक्तिस्तु श्लोको­त्त­रा­र्ध­सं­गृ­हीता मोक्षस्य साति­श­य­त्वा­नि­त्य­वा­प­त्ति­रि­त्ये­तत् सूचयितुं तत्रैव भाष्यस्य तात्पर्यं दर्शयति टीकाकार इत्यवतारयति –
वेदान्ता यद्यु­पा­स­ना­वि­धि­परा इति ।
अधर्मफलं भोक्तव्यमिति ।
तद्य इह कपूयचरणा” इत्यादिश्रुत्या धर्म­फ­ल­भो­गा­न­न्तरं कदा­चि­द­ध­र्म­फ­ल­भो­ग­स्या­प्यु­क्त­त्वा­दिति भावः । इद­म­भ्यु­च्च­य­मा­त्रम्; अहं­ग्र­हो­पा­स­नाभिः तत्फलप्राप्तेः प्रागेव सर्व­पा­प­क्ष­य­स्या­ङ्गी­कृ­त­त्वात् ।
देवदत्तशरीरेति ।
देव­द­त्त­श­री­रा­स­मा­न­का­ली­नत्वं प्रल­य­का­लो­त्पन्ने तदी­य­श­री­र­ध्वं­सेऽ­प्य­स्तीति तद्वारणाय प्राग­भा­व­वि­शे­ष­णम् । शरी­र­प्रा­ग­भा­वा­स­मा­न­का­ली­नत्वं चर­म­मु­क्त­श­री­र­ध्वं­सा­द­न्यत्र न संभ­व­ती­त्य­व्या­प्ति­वा­र­णाय आद्य­दे­व­द­त्त­वि­शे­ष­णम् । देव­द­त्त­मु­क्ति­काले तदन्यस्यापि कस्य­चि­त्सं­सा­रिणः संभवति देव­द­त्त­श­री­र­प्रा­ग­भा­वा­स­मा­न­का­लीनः शरीरध्वंस आत्यन्तिको माभूदिति द्विती­य­दे­व­द­त्त­वि­शे­ष­णम् । एवमपि देव­द­त्त­स्यो­पा­न्त्य­श­री­र­च­ध्वंसो यद्य­न्त्य­श­री­रो­त्प­त्ति­काले तदु­त्प­त्त्य­न­न्तरं वा स्यात, तदा सोऽप्या­त्य­न्तिको भवेदिति तद्वारणाय शरी­र­त­त्प्रा­ग­भा­वा­स­मा­न­का­ली­नत्वं विवक्षितम् । ननु आत्य­न्ति­क­म­श­री­र­त्वम् इत्थं ध्वंसरूपतया निर्व­क्तु­म­यु­क्तम् । तस्य साध्यत्वेन वैधो­पा­स­ना­फ­ल­त्व­प्र­स­ङ्गात्, किन्तु भाष्य­टी­को­क्त­प्र­का­रेण तत्फ­ल­त्वा­सं­भ­व­नि­र्वा­हाय शरी­रा­व­भा­स­का­लेऽ­प्य­नु­व­र्त­मा­न­स्त­न्मि­थ्या­त्व­श­री­र­घ­टको यस्त­द­त्य­न्ता­भा­व­स्त­द्रूपो वाच्यः । अन्यथा भाष्यटीकाविरोधः स्यादिति चेत्, उच्यते; यद्या­त्य­न्ति­का­श­री­र­त्वस्य वैध­फ­ल­त्व­नि­र्वा­हा­या­त्य­न्ता­भा­वत्वं परित्यज्य विद्यो­द­य­स­म­न­न्त­र­भा­वि­ध्वं­स­रू­पत्वं पूर्वपक्षी शङ्केत, तदाऽपि तस्य न वैध­फ­ल­त्व­प्र­त्याशा । शरी­र­ध्वं­स­मा­त्र­स्या­पु­रु­षा­र्थ­त्वेन शरीरस्यान्येषां चोपाधीनां ध्वंसे­नो­प­ल­क्षि­तस्य ब्रह्मा­न­न्द­स्यैव पुरुषार्थत्वात् तस्य च नित्यत्वादिति दर्शयितुं ध्वंस­प­क्षोऽ­प्यु­प­न्यस्तः । तथैव च तात्पर्यं सर्वो­पा­धी­त्या­द्य­ग्रि­म­वा­क्येन स्फुटीकृतम् । ननु ब्रह्मानन्दस्य नित्य­प्रा­प्त­त्वेऽपि कर्णगतरुचकवत् भ्रान्त्या अनवाप्तकल्पस्य वास्याऽ­मु­ख्य­फ­ल­ल­म­भ्य­धायि टीकायां तस्य मुख्य­फ­ल­त्व­म­प्यपि उपपादयितुं 'यस्मि­न्सति अग्रिमक्षणे यस्य सत्त्वं यद्यतिरेके चासत्त्वं तत्तजन्य मिति'ल­क्ष­णा­नु­सा­रेण । अस्ति हि विद्यो­द­या­त्प्राङ् मम निरतिशयानन्दो नास्ति न प्रकाशत इति व्यवहारालम्बनं, रजते रजतत्वाभाववद् भ्रान्तिसिद्धं विद्या­नि­व­र्त्य­नि­र­ति­श­या­न­न्दा­भा­व­रूपं तदसत्त्वम् । न च प्रति­यो­गि­व्य­धि­क­रणं प्राक् तदसत्त्वं यस्यास्ति तथाभूतमेव जन्यं वैधफलमिति नियमः । अतथाभूतस्यापि दुःख­प्रा­ग­भा­व­प­रि­पा­ल­नादेः प्राय­श्चि­त्ता­दि­फ­ल­ल­सं­प्र­ति­पत्तेः, तस्माद् ब्रह्मानन्दस्य नित्यत्वेऽपि वैधो­पा­स­ना­फ­ल­त्व­मु­प­प­द्यत इति तन्नित्यत्वेन तत्फ­ल­वा­भा­वो­प­पा­दनं नोपपद्यत इति चेत्, उच्यते । प्राक्सिद्धस्य फलत्वं द्वेधा, निवृ­त्ति­प्र­सक्तौ परिपाल्यत्वेन वा, असत्त्वभ्रान्तौ तदपनयेन वा । तत्राद्यमेव लौकिकेन वैदिकेन वा कर्मणा भवति, द्वितीयं तु विद्ययैव । सा च विद्या अत्रा­वि­हि­तो­पा­स­नया षड्जा­दि­सा­क्षा­त्का­र­वत् स्वयमेव भवतीति विध्यनपेक्षा टीका­या­मे­वो­प­पा­दिता । तस्माद्युक्तमेव भ्रान्त्या­न­वा­प्त­क­ल्पस्य ब्रह्मानन्दस्य नोपा­स­ना­वि­धि­फ­ल­त्व­मिति ।
कारी­र्या­दि­नि­योगा इति ।
"यदि वर्षेत्तावत्येव होतव्यं, 'यदि न वर्षेत श्वोभूते हविर्निवपेत् इत्यादिलिङ्गात् कारीरी तात्का­लि­क­स­स्या­र्थ­वृ­ष्टि­हे­तु­त्वात् ऐहिकफला । आदिशब्देन आग्नेयं कृष्ण­ग्री­व­मा­ल­मेत सौम्यं बभ्रुं ज्योगा­म­या­व्यग्निं वा एतस्य शरीरं गच्छति सोमं रसो यस्य ज्योगा­म­य­त्य­ग्ने­रे­वास्य शरीरं निष्क्रीणाति सोमाद्रसमुत यदीतासुर्भवति जीव­त्ये­वे"त्या­दि­श्रु­ति­वि­हि­तानि तच्छ­री­र­ग­त­व्या­धि­नि­वृ­त्त्या­द्य­र्थानि कर्माणि गृह्यन्ते । ज्योगामयावी -दीर्घरोगी ।
चित्रा­दि­नि­यो­ग­फ­ल­मिति ।
इदं चतुर्थे योग­सि­द्ध्य­धि­क­र­णस्य द्वितीयवर्णके चिन्तितम् - तदेवं "चित्रया यजेत पशुकाम' इत्यादि विहितानां मनु­ष्य­श­री­रो­प­भो­ग­यो­ग्य­फ­ल­कानां कर्मणां किं नियमेन देहान्तरे फलम्, उत तस्मिन्देहे देहान्तरे वा इत्यनियम इति संशये, पूर्वपक्षः वर्त­मा­न­दे­हा­र­म्भ­क­क­र्मणां यत्फलं तद्भो­गा­र्थ­त्वात् वर्तमानदेहस्य तत्फलभोगावसाने तन्ना­शा­व­श्यं­भा­वात्, अन्त्येष्टौ दक्षिणे हस्ते जुहूं सादयति इत्या­दि­वा­क्यै­र्य­ज्ञ­पा­त्राणां प्रति­प­त्ति­वि­धा­नेन तद­पे­क्ष­चि­त्रा­द्य­दृ­ष्टो­त्प­त्ति­स­म­न­न्त­र­भा­वि­फ­लस्य वर्त­मा­न­दे­ह­भो­ग्य­त्वा­सं­भ­वाच्च स्वर्ग­ज­न­का­दृ­ष्ट­वत् चित्रा­द्य­दृ­ष्ट­स्यापि स्वफ­ल­भो­ग­प्र­दा­नार्थं तद्यो­ग्य­दे­हा­र­म्भ­क­त्व­नि­य­माच्च नियमेन देहान्तर एव चित्रादिफलमिति । सिद्धान्तस्तु ऐहिकमपि चित्रादिफलं भवत्यैव; चित्रा­द्य­नु­ष्ठा­ना­न­न्तरं पश्वादिफलदर्शने तदर्थं तद­ति­रि­क्ता­दृ­ष्ट­क­ल्प­ना­हे­त्व­भा­वात्, 'अनन्तरमेव फलादर्शने देश­का­ला­दि­स­ह­का­र्य­पे­क्षया विलम्बः कल्प्यः । तस्मिन् देहे फलादर्शने तत्फ­ल­भो­ग­वि­रो­धि­प्र­ब­ल­प्रा­र­ब्ध­क­र्मणा प्रतिबन्धः कल्प्यः । प्रतिबन्धेन च तेन देहा­न्त­रा­र­म्भ­पू­र्वकं तत्र फलं दातव्यमिति कल्प्यम् । वर्त­मा­न­दे­हा­र­म्भ­क­क­र्मणो देश­का­ला­द्य­पे­क्षया यदा न फलप्रदत्वं, तदा तस्मिन् देहे तज्ज­न्म­कृ­त­चि­त्रा­द्य­दृ­ष्ट­स्यापि फल­प्र­द­त्व­मु­प­प­द्यते । पात्र­प्र­ति­प­त्तिस्तु सक­ल­क­र्मा­नु­ष्ठा­न­स­मा­त्य­न­न्त­र­भा­वि­त्वात् पुरुषार्था । क्रत्व­र्थ­त्वेऽ­प्य­द­त्त­फ­ल­क­तु­मा­त्रार्था । 'आहि­ता­ग्नि­म­ग्नि­भि­र्द­हन्ति यज्ञ­पा­त्रै­श्चेति" श्रुतेः दहने विनि­यो­क्ष्य­मा­णानां यज्ञपात्राणां संस्कारार्था वा; अन्यथा कारीर्यादीनाम् ऐहि­क­फ­ल­ला­भा­व­प्र­स­ङ्गात् । एतेन कर्मणां फलप्रदानार्थं देहा­र­म्भ­क­त्व­नि­य­मोऽपि निरस्तः । तस्मा­दा­मु­ष्मि­क­ला­नि­यमः चित्रा­दि­फ­ल­स्येति ।
नेह परमापूर्ववदिति ।
यद्य­प्या­चा­र्य­मते अवघातादिनियमः प्रत्या­स­न्ना­ग्ने­या­द्य­वा­न्त­रा­पूर्व प्रयुक्तः; तथापि गुरुमते फल­व­त्प­र­मा­पू­र्व­प्र­युक्त इति तन्मतमनुसृत्य पर­मा­पू­र्वे­त्यु­क्तम् । न चावघातनियमस्य पर­मा­पू­र्व­प्र­यु­क्तत्वे तत्सा­ध­न­त्वा­वि­शे­षात् आज्य­सा­ज्य्य­सा­न्नयोः अवघातप्रसङ्गः । तुष­वि­मो­का­दि­दृ­ष्ट­प्र­यो­ज­न­व्य­व­स्थया व्रीह्यादिषु तद्य्व­स्थो­प­पत्तेः । अन्य­था­ग्ने­या­द्य­पू­र्व­प्र­यु­क्तत्वे अपि तत्सा­ध­न­स्रु­गा­दि­सा­धा­र­ण्य­प्र­स­ङ्गा­नि­वा­र­णा­दिति भावः ।
विश्वजिन्न्यायं गुरु­म­ते­नो­प­न्य­स्यति –
विश्वजितेति ।
प्रवृत्तक्रिया - प्रवृ­त्त­चि­कीर्षः । 'न कलंजं भक्ष­ये­दि­त्या­दि­नि­षे­ध­वा­क्या­न्यपि फलतो विधिवाक्यानि । तत्र भक्ष­य­त्या­दि­धा­तु­स­म­भि­व्या­हृ­त­न­प्र­ति­पाद्यं भक्ष­णा­दि­नि­वृ­त्ति­रू­प­मौ­दा­सीन्यं विषयः । तद्य­द्य­प्य­भा­वा­र्थ­त्वात् स्वतः साध्यं न भवति; तथापि निषे­ध्यो­न्मु­ख­तया प्रचलितावस्थे अनु­त्प­न्न­त­द­नु­कू­ल­स्प­न्द­व्या­पारे पुरुषे निषे­ध्य­चि­की­र्षा­प­न­य­द्वारा परिपाल्यत्वेन तत् साध्यं भवतीति तस्य नियो­ग­वि­ष­य­त्वो­प­पत्तिः । तत्र च अर्थात् निषे­ध्य­चि­कीर्षुः नियोज्य इति गुरुमतम् ।
इह तु विषयेणेति ।
नियो­ग­ग­त­कृ­ति­सा­ध्य­ता­रू­प­का­र्य­ता­घ­ट­क­त्वेन विषय एव तत्प्र­ती­त्य­नु­बन्धो, न तु नियोज्यः । तद­भा­वेऽ­प्य­ध्य­य­न­नि­यो­गस्य प्रया­जा­दि­नि­यो­गानां च प्रतीतेरिति भावः ।
उच्यत इति ।
अयमाशयः - कार्यत्वेन प्रतीयमानो नियोगः स्वस्य कार्यताघटके विषये प्रव­र्त­क­स्व­भावः, तत्र प्रवर्तनीयं पुरुषमपेक्षते; अन्यथा प्रव­र्त­क­त्व­व्या­घा­तात्, अन्यतः प्रवृत्तिसिद्धौ तु न तमपेक्षते । तथा च आचार्यकनियोगेन अध्ययने माणवकस्य, दर्श­पू­र्ण­मा­स­नि­यो­गेन तन्नियोज्यस्य तदङ्गेषु प्रयाजादिषु च प्रवृ­त्ति­सि­द्धता, तन्नियोगानां कर्तृ­पु­रु­ष­वि­शे­षा­न­पे­क्षा­या­मपि विश्व­जि­दा­दा­व­न्यतः प्रवृ­त्त्य­ला­भात् तदपेक्षास्तीति अतस्तदध्याहारो युक्त इति । स च फल­का­मोऽ­ध्या­हार्यः, पुरुषाणां कामप्रवणतया तत्र प्रयु­क्ति­ला­घ­वात्, निषेधवाक्येषु तु न कामी नियो­ज्योऽ­ध्या­हार्यः; औदासीन्यस्य परि­पा­ल्य­त्व­सि­द्धये तत्प्र­च्यु­ति­प्र­स­क्त्यर्थं सामर्थ्यात् निषे­ध्यो­न्मु­खस्य नियो­ज्य­स्या­वश्यं प्राप्त्या तत एव आका­ङ्क्षा­शान्तेः ।
किं सर्वेषामिति ।
किं सर्व­फ­ल­का­मा­ना­म­ध्या­हारः, उतै­क­फ­ल­का­म­स्ये­त्यर्थः ।
अन्तर्भावादिति ।
यस्य यदा यदवच्छेदेन सुखं, तस्य तदा तदवच्छेदेन न दुःख­मि­त्य­वि­ना­भा­वा­दि­त्या­शयः । एतदुपलक्षणं सुखस्य भावरूपत्वेन लघू­प­स्थि­ति­क­त्वाच्च इत्यपि द्रष्टव्यम् ।
अन­व­च्छि­न्न­स्येति ।
पुत्र­प­श्वा­द्ये­कै­क­वि­ष­य­वि­शे­ष­मा­जा­न­व­च्छि­न्नस्य देश­वि­शे­ष­दे­ह­वि­शे­ष­भो­ग्यस्य संक­ल्पो­प­न­त­स­र्व­वि­ष­य­प्र­यु­क्तस्य स्वर्गसुखस्य पुत्र­प­श्वा­दि­सु­ख­वि­शे­षा­न्प्रति सामा­न्य­रू­प­त्वा­दि­त्यर्थः ।
विशेषे मानाभावादिति ।
सर्व­सु­ख­वि­शे­षा­नु­ग­त­सा­मा­न्य­मु­ल्लङ्घ्य किंचि­द्वि­ष­य­वि­शे­षा­व­च्छि­न्न­सु­ख­ग्र­हणे माना­भा­वा­दि­त्यर्थः । इत्थं गुरुणा निबन्धने व्याख्यातम् । प्रायः सर्व­पु­रु­षा­न्प्रति स्पृहणीयत्वेन अवि­शि­ष्ट­त्वा­दिति भाष्य­का­रा­दि­व्याख्या । नन्वत्र विश्वजिदधिकरणे भाष्यकारैः 'तस्मा­त्पि­तृभ्यः पूर्वेद्युः क्रियत' इति पितृयज्ञवाक्यं यः सत्रा­या­व­गु­रते' इति विश्वजिद्वाक्यं च विष­य­वा­क्य­त्वे­नो­दा­हृ­तम् ।
तत्र द्विती­यो­दा­ह­र­ण­म­युक्तं, विश्वजितो नैमि­त्ति­का­धि­का­र­त्वा­दि­त्या­श­ङ्क्याह –
कृत्वाचिन्तेति ।
अवगुरणोपरमे इति ।
उद्य­म­नि­वृ­त्ता­वि­त्यर्थः । 'गुरी उद्यमन' इति धातोः कुटादित्वेन ङित्त्वात् गुणभावः । ननूद्यमनिवृत्तौ विश्व­जि­दि­त्य­यु­क्तम् ।
'यः सत्रायेति' वाक्यात् सत्रं संकल्प्य तत्प्र­यु­ञ्जा­नस्य विश्वजिदिति प्रती­ति­रि­त्या­श­ङ्क्याह –
प्राय­श्चि­त्त­त­येति ।
एवं हि श्रूयते-"यः सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः सर्वे­भ्य­श्छ­न्दोभ्य आत्मानमागुरते या सत्रायागुरते स विश्व­जि­ताऽ­ति­रा­त्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्व­वे­द­स­द­क्षि­णेन यजेत सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः सर्वे­भ्य­श्छ­न्दोभ्य आत्मानं निष्क्री­णीत" इति । एवं निष्क्रयद्वारेण संस्तवः सत्रप्रवृत्तौ न युज्यते, अतः सत्रं संकल्प्य दैवा­न्मा­नु­षाद्वा प्रतिबन्धात् ततो निवृत्तस्य प्राय­श्चि­त्त­त­येदं विश्व­जि­द्वि­धा­न­मि­त्यर्थः ।
व्यभिचारयतीति ।
ननु ययोः कयोश्चित् आधाराधेयत्वेन एकाश्रितत्वेन वा सामा­ना­धि­क­र­ण्य­मिति नात्र शङ्का, येन कुण्ड­ब­द­र­यो­श्चै­त्र­मै­त्र­योश्च व्यभिचार उच्यते, किं तु एक­प्र­वृ­त्ति­नि­मि­त्तस्य अप­र­प्र­वृ­त्ति­नि­मि­त्ता­धा­रा­श्रि­त­त्वेन वा प्रवृ­त्ति­नि­मि­त्त­द्व­य­स्यापि एकाश्रितत्वेन वा सामा­ना­धि­क­र­ण्य­मिति; तथैव ह्याचा­र्यै­र­व­ता­रि­का­ग्रन्थे शङ्काभिप्रायो लिखितः, तथैव च तदभिप्रायो वर्णयितुं युक्तः, भिन्न­प्र­वृ­त्ति­नि­मि­त्तानां शब्दा­ना­मे­क­स्मि­न्नर्थे वृत्तिः सामा­ना­धि­क­र­ण्य­मिति प्रसि­द्ध्य­नु­रो­धात् । न च हेम­कु­ण्ड­ल­यो­र­व­य­वा­व­य­विनोः भेदपक्षे हेमलस्य कुण्ड­ला­श्रि­तत्वं हेम­ल­कु­ण्ड­ल­त्व­यो­रे­का­श्रि­तत्वं च नास्तीति वाच्यम्: हेम­त्व­स्या­व­य­वा­व­य­वि­वृ­त्ति­जा­ति­त्वेन तत्सत्त्वादिति चेत्, उच्यते; हेमा­व­य­वा­ति­रिक्तं कुण्डलरूपम् अवयवि द्रव्या­न्त­र­म­भ्यु­प­ग­म्यते चेत् तत्पी­त­रू­प­गु­रु­त्व­क­ठि­न­त्व­र­हि­त­मेव वाय्वा­दि­स­दृ­श­म­भ्यु­प­ग­न्त­व्यम्; अवयवावय विगतस्य पीतरूपद्वयस्य गुरु­त्व­द्वै­गु­ण्यस्य चानुपलम्भात्, घटकुड्ययोरिव कठिनद्रव्ययोः अव­य­वा­व­य­वि­नो­रे­कत्र भूतलादौ समा­वे­शा­सं­भ­वाच्च, अव­य­वा­व­य­वि­भा­वा­ना­प­न्न­यो­रेव असमावेश इति सवि­शे­ष­ण­नि­य­म­क­ल्प­नस्य गौरवपराहतस्य अप्रा­मा­णि­क­त्वात् । एवं च कुण्डले पीतरूपाद्यभावेन तदभिव्यङ्ग्यस्य हेमत्वस्य तत्रा­सं­भ­वे­नै­क­प्र­वृ­त्ति­नि­मि­त्त­स्ये­त्यादेः सामा­ना­धि­क­र­ण्य­प्र­यो­ज­क­त्वा­भ्यु­प­गमे तेन 'सुवर्ण कुण्ड­ल­मिति' सामा­ना­धि­क­र­ण्या­नि­र्वा­हात् तन्निर्वाहाय हेमकुण्डलानाम् आधा­रा­धे­य­भा­व­मा­त्र­मे­का­श्रि­त­त्व­मात्रं वा तत्प्र­यो­ज­क­मा­स्थे­य­मि­त्य­भि­प्रेत्य टीकायां कुण्ड­ब­द­र­यो­श्चै­त्र­मै­त्र­योश्च व्यभिचार उक्त इति तात्पर्यम् । भेदो रूपादिवद् भावरूप इति पक्षे स किमभेदविरुद्धः तदविरुद्धो वा ।
आद्ये भावा­भा­व­रू­प­त्व­पक्षे वक्ष्यमाणं दूषणं भवि­ष्य­ती­त्य­भि­प्रेत्य द्वितीये दूषणमाह –
ऐकान्तिकेति ।
तथा च भेदे सत्यै­वा­त्य­न्ता­भे­दोऽपि स्यादित्यर्थः ।
द्विती­य­मा­श­ङ्क्या­हेति ।
परस्पराभाव इति चेदिति पूर्व­ग्र­न्थे­ना­श­ङ्क्ये­त्यर्थः ।
तत्त्वे­ना­भे­द­प्र­सङ्ग इत्यस्य तात्त्वि­का­भे­द­प्र­सङ्ग इत्यर्थो भाति, स तु नानिष्टः, कारणात्मना कट­क­व­र्ध­मा­न­यो­र­भे­दा­ङ्गी­का­राद् इत्याशङ्क्य, तत्त्वेनेति पदं व्याचष्टे –
कटकत्वेति ।
ननु भावा­भा­व­यो­रु­भ­यो­रपि भेदाभेदयोः हाट­क­त्व­क­ट­क­त्वा­व­च्छे­द­भे­देन वृत्ति­र­भ्यु­प­ग­म्यते, अतस्तयोर्न सहा­व­स्था­ना­सं­भवः; न च भेदा­व­च्छे­द­क­क­ट­क­त्वा­व­च्छे­देन कटके वर्ध­मा­न­भे­द­प्र­सङ्गः, नापि कटकाभिन्नमुकुटे कटकत्वेनापि कट­का­भे­द­प्र­सङ्गः, नाप्य­नु­वृ­त्ति­व्या­वृ­त्ति­व्य­व­स्थाऽ­भा­व­प्र­सङ्गः, नापि हाटकत्वेनावगते कटकत्वादिना जिज्ञा­सा­द्य­नु­प­पत्तिः, भेदा­भे­द­म­न­ङ्गी­कु­र्व­द्भि­रपि ह्येक­स्मि­न्ध­र्मिणि केनचित्प्रकारेण निश्चिते तदन्यप्रकारेण जिज्ञा­सा­सं­श­या­दिकं समर्थ्यते, अभेदवद् भेद­स्या­प्य­भ्यु­प­गमे का जिज्ञा­सा­नु­प­पत्तिः । यत्तु हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणमित्यादि । तत्र वैपरीत्यमपि वक्तुं शक्यम् । हेमनिर्णयेन कट­का­दी­ना­म­नि­र्णये तदभेदः कारणं तद­भा­वा­द­भे­दा­द­नि­र्ण­य­का­र्या­भाव औत्सर्गिकः प्राप्तः, स कारणस्य भेदस्य सद्भावादपोद्यत इतिः अस्ति ह्यनिर्णयस्यापि निर्ण­य­प्र­ति­ब­न्ध­क­स­द्भा­वा­धीनं परिपाल्यत्वरूपं कार्यत्वम्, तस्मात्सर्वमिदं भेदा­भे­द­दू­ष­ण­जा­त­म­यु­क्तम् । युक्तत्वे वा स्वम­तेऽ­प्ये­त­त्प्र­स­ज्येत; स्वमतेऽपि हि भेदाभेदाभ्यामेव सामा­ना­धि­क­र­ण्यौ­प­पा­द­नम्, अभेदः सत्यो भेद­स्त­त्रा­ध्यस्त इति परैः स्वमते विशेष उक्तः । तत्र भेद­प्र­ती­ता­व­भे­दोपि सह प्रतीयते इत्यु­प­ग­न्त­व्यम्; भेद­प्र­ती­ति­मा­त्रेण सामा­ना­धि­क­र­ण्यो­प­पा­द­ना­सं­भ­वात् । तयो­वि­रु­द्ध­यो­रे­कत्र प्रतीतिः कथं? कथं च मुकुटे कुण्ड­ला­भि­न्न­हा­ट­का­भिन्ने कुण्डलत्वेनापि कुण्डलाभेदो न स्यात्? कथं च हाटके प्रतीते कुण्ड­ला­दि­जि­ज्ञासा स्यात्? अपि च अभेदः सत्यः भेदोऽध्यस्त इत्य­र्ध­ज­र­ती­य­म­प्य­यु­क्तम् । सह प्रती­त्य­भ्यु­प­गमे अन्य­त­र­बा­धा­व­श्य­म्भा­व­क­ल्प­का­भा­वात्, सत्यानृतयोः ब्रह्म­त­ध्य­स्त­प्र­प­ञ्चयोः सिद्धान्ते तात्त्वि­का­भे­दा­न­ङ्गी­का­राच्च, तथैव आरम्भणाधिकरणे (ब्र. अ.२ पा.१ सू.१४) टीकाकारैरपि वक्ष्य­मा­ण­त्वात्, इहानुपदमेव पूर्वग्रन्थे तस्मात्तेऽपि हाटकाद् भिन्ना एवेति तस्मात् ते हेम्नो भिद्यन्त इति च हाट­क­क­ट­का­भे­द­प्र­ति­क्षे­पाच्च, तस्मात् सर्व­मि­द­म­नु­प­प­न्न­मिति चेत्, अत्र ब्रूमः - हाटकत्वं कटकत्वं च किमे­क­स्मि­न्व­र्तते, न वा; न चेद एक­स्मि­न्न­व­च्छे­द­भे­देन भेदाभेदयोः विरुद्धयोः वृत्तिसमर्थनं न लभ्यते । वर्तते चेत् किं कटकत्वं हाटकत्वादन्यदुत तदेव । अन्यच्चेत् प्रवृ­त्ति­नि­मि­त्त­भे­दे­नैव सामा­ना­धि­क­र­ण्यो­प­पा­द­न­ला­भात् नैक­स्मि­न्ध­र्मिणि अभे­द­व­द्भे­दोऽ­प्य­न­ङ्गी­कार्यः । अतः सामा­ना­धि­क­र­ण्यो­प­पा­द­ना­र्थ­म्भे­दा­भे­द­म­भ्यु­प­ग­च्छता प्रवृ­त्ति­नि­मि­त्त­भे­देन अन्य­थो­प­प­त्ति­प­रि­हा­राय हाटकत्वमेव कटकत्वं न ततोऽ­न्य­दि­त्ये­ष्ट­व्य­मि­त्य­भि­प्रेत्य सहा­व­स्था­ना­सं­भ­वादि सर्वमिदं दूषणमुक्तम् । इममेवाभिप्रायं सहा­व­स्था­ना­सं­भ­वा­दि­दू­ष­णोक्तौ गर्भितं विस्मृत्य, अथ हाटकत्वेनैवाभेद इत्या­दि­शं­का­ग्रन्थः प्रवृत्त इत्या­चा­र्यै­र­व­ता­रि­तम् । प्रस्मृ­त­प­रा­भि­संधिः स्वप्रक्रियया शङ्कत इति । एवं चाभेदसत्तया कुण्डलादेः ज्ञात­त्वा­पा­द­नेऽपि न वैप­री­त्य­श­ङ्का­व­काशः अभेदे सति, अव­च्छे­द­क­भे­दा­भा­वेन भेद एव न संभवतीति तात्पर्येण प्रत्यु­ते­त्या­दि­टी­का­त­द्व्या­ख्या­नयोः प्रवृत्तेः, स्वम­ते­ना­भे­द­व्य­व­स्था­पनं तु व्याव­हा­रि­का­भे­द­वि­षयं न तात्त्वि­का­भे­द­वि­ष­य­मिति नार­म्भ­णा­धि­क­रण-(ब्र.अ.२ पा.१ सू.१४) विरोधः । नाप्य­भे­द­प्र­ति­क्षे­प­क­पू­र्व­ग्र­न्थ­वि­रोधः; अत­ए­वा­भे­द­प्र­ति­क्षे­पको यस्मिन् गृह्यमाणे यन्न गृह्यत इत्या­दि­टी­का­ग्रन्थो वस्तुतः कार्य­का­र­ण­यो­र­भे­दा­भावं सप्र­मा­ण­क­मु­प­सं­ह­र­तीति भेदा­भे­द­वा­द्य­भि­म­त­वा­स्त­वा­भे­द­प्र­ति­क्षे­प­प­र­त­या­व­ता­रितः । भेद­स्या­ध्य­स्त­त्वो­क्तिस्तु प्रति­भा­स­मा­त्र­क­ल्पि­त­त्वा­भि­प्राया । अत एवा­र­म्भ­णा­धि­क­र­ण­टी­कायां वाचा केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नाम­धे­य­मा­त्र­मे­तद् यथा पुरुषस्य चैतन्यं, राहोः शिर इति विक­ल्प­ना­मा­त्र­मि­त्या­र­म्भ­ण­श्रुतेः अर्थः उक्तः । भेद­बा­धा­व­श्य­म्भा­वोऽ­प्या­र­म्भ­ण­श्रु­ति­प्राप्तः, तद­नु­कू­ल­न्या­य­मा­त्र­मिह विरो­धा­द­न्य­त­र­बा­धा­दि­प्र­क्रि­यया दर्शितम् । ननु यद्यु­पा­दा­न­हे­मा­य­ति­रि­क्त­क­ट­क­मु­कु­टा­दि­वि­का­र­भेदः कल्प­ना­मा­त्र­सिद्ध इति मतं, कथं तर्हि वाक्या­न्व­या­धि­क­रण (ब. अ. १ पा. ४ सू. १९) टीकायां "न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मदिति चिन्त्य­मा­न­स्त­ज्ज­न्मना मृद्धा­व­सा­क्षा­त्का­रेण शक्यो निवर्तयितुं; तत्कस्य हेतोः; तस्यापि मृदो भिन्नस्य तात्त्वि­क­त्वात्, वस्तुनश्च ज्ञाने­नो­च्छे­त्तु­म­श­क्य­त्वा­दि"त्यु­क्तम् । उच्यते; शरावादिसंस्थान विशेषस्य व्याव­हा­रि­क­स­त्य­त्वा­भि­प्रायं तद्वाक्यम्, इह तूपादान एव पूर्वा­व­स्थो­प­म­र्देन तदवस्थान्तरं जायते, न तूपादानभिन्नं तदारब्धं तदा­ग­न्तु­का­व­स्था­वि­शे­ष­व­द­व­यवि द्रव्या­न्त­र­म­स्ती­त्यु­पा­दा­न­वि­का­रयोः सत्ये­वा­भे­द­क­ल्प­ना­मा­त्र­मि­त्या­र­म्भ­णा­धि­क­रणे वक्ष्यमाणं स्मारितम् । तत्स्मारणं च भेदाभेदाभ्यां सामा­ना­धि­क­र­ण्य­मु­प­पा­द­यितुं; तस्य हेम­त्व­कु­ण्ड­ल­त्व­यो­रु­पा­दा­न­रू­पै­क­द्र­व्या­श्रि­त­त्वे­नो­प­पत्तेः, तथैवात्र तदुपपादनस्य विव­क्षि­त­त्त्वात् । अत एवाचार्यैः वाक्या­न्व­या­धि­क­रणे (ब्र.अ.१ पा. ४ सू. १९) वक्ष्यते, "सामा­ना­धि­क­रण्यं यद्धे­म­कु­ण्ड­ल­योर्न तत् । भेदाभेदावगाहीति प्राग्वा­च­स्प­ति­ने­रि­तम्॥" किन्तु सुव­र्ण­कु­ण्ड­ला­भेदे कथं वर्णेन कुण्डलं कृतं सौवर्णं कुण्ड­ल­मि­त्या­दि­भे­द­व्य­व­हार इत्या­का­ङ्क्षायां पुरुषस्य चैतन्यमितिवत् कल्प­ना­मा­त्र­सि­द्ध­भे­दा­ल­म्बनः स व्यवहार इति भेद­व्य­व­हा­र­मा­त्रो­प­पा­द­नार्थं कृतमिति" इति सर्वमनवद्यम् । अस्मिन्संदर्भे 'कथं तर्हीति' टीका­व­ता­रि­का­ग्रन्थे 'न ह्ययन्तभेदे तद्भवति; कुण्डलकटकयोः अद­र्श­ना­दिति' कुण्ड­ल­क­ट­क­यो­र­त्य­न्त­भेदः सिद्धवत्कृत्य, उपन्यस्तः; तदुपन्यासो लोक­दृ­ष्ट्य­नु­सा­रेण वा भेद­वा­दि­म­ता­नु­सा­रेण वा कट­क­त्व­कु­ण्ड­ल­त्वा­द्य­व­च्छे­देन भेद एव नाभे­दोऽ­पी­त्य­भि­प्रा­येण वा नेतव्यः; भेदाभेदवादिमते हाटकात्मना तयोरभेदात्, यथा हाटकात्मना कट­क­मु­कु­ट­कु­ण्ड­ला­दयो न भिद्यन्त इति टीकायामपि तथैव तन्म­त­स्थि­ति­प्र­द­र्श­नाच्च । सौग­त­म­त­मा­श­ङ्क्येत्र गौतममतमिति पाठश्चेत्स निर्विशङ्कः । न्यायसूत्रकृता गौतमेन प्रत्य­क्ष­प­री­क्षायां "न चैक­दे­शो­प­ल­ब्धि­र­व­य­वि­स­द्भा­वात्" (न्यायसूत्र. अ. २ पा. आ. १सू.३०) इति घटा­द्ये­क­दे­श­स­न्नि­कर्षे सति न तदु­प­ल­ब्धि­मात्रं, तद्भि­न्न­स्या­व­य­विनः सद्भावात् तस्या­प्यु­प­ल­ब्धि­र­स्तीति प्रतिज्ञाय साध्यत्वात् अवयविनि संदेहः (न्यायसू. अ. २ आ. १सू. ३१) इत्य­व­य­व­भि­न्नोऽ­व­यवी सिद्धो नास्तीति तत्र संदेहमुपन्यस्य, 'सर्वा­ग्र­ह­ण­म­व­य­व्य­सिद्धेः' (न्यायसू, अ. २ आ. १ सू. ३२) 'धार­णा­क­र्ष­णो­प­प­त्ते­श्चेति' (न्यायसू. अ.२ आ.१सू. ३३) सूत्राभ्याम् अव­य­व­भि­न्ना­व­य­व्य­भावे परमाणूनाम् अन्यावयवानाम् अती­न्द्रि­य­त्वात् तदाश्रितस्य गुण­क­र्म­सा­मा­न्यादेः सर्व­स्या­प्य­ग्र­हणं स्यात् । अतो गुण­क­र्मा­दि­ग्र­ह­णाद अस्ति तदाश्रयः पटादिरवयवी । तथा एकदेशधारणे कृत्स्न­धा­र­णा­दे­क­दे­शा­क­र्षणे कृत्स्ना­क­र्ष­णाच्च सोऽस्ति; अन्यथाऽवयवानां भिन्नत्वात् कस्यचिदवयवस्य धार­णा­क­र्ष­णा­भ्या­म­न्यस्य धार­णा­क­र्ष­णा­नु­प­पत्तेः इत्य­व­य­व­भि­न्ना­व­य­वि­प्र­सा­ध­नेन अव­य­वा­भे­द­नि­रा­क­र­णात् । सौगतमिति पाठस्तु सौग­तै­र­व­य­वि­स्थाने अव­य­व­सं­घा­त­स्या­भि­षि­क्त­त्वात् संघा­त­स्या­व­य­व­भे­दा­भि­प्रायो योज्यः ।
ननु अनंशेपि संस्कारः कर्म­ज­न्या­ति­श­योस्तु इत्याशङ्क्याह–
अनंशत्वमिति ।
आकारभेद: - धर्मभेदः ।
तद्ब्रह्मेति वाक्ये यस्येयं जिज्ञासा प्रस्तुतेति विशेषणस्य तात्पर्यमाह –
कार्यविलक्षणेति ।
स्वमते इति ।
पूर्वपक्षिमते तु न शास्त्र पृथक्त्वसिद्धिः । उभयोरपि तन्त्रयोः कार्य­वि­ष­य­त्वा­वि­शे­षा­दिति भावः । शास्त्र­पृ­थ­त्व­सि­द्धि­स्त­द्ब्र­ह्मेति भाष्ये उक्तेति पाठः । अत­स्त­ब्र­ह्मे­त्यतः शब्दः संपातायातः ।
टीकायां, तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्या­दि­भि­रु­प­पाद्य क्रिया निष्पादास्य तु मोक्ष­स्या­नि­त्यत्वं प्रसञ्जयति –
तद्यदीति ।
न चागमबाधः, आगमस्योक्तेन प्रका­रे­णो­प­पत्तेः । अपि च ज्ञान­ज­न्या­पू­र्व­ज­नितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याहेति केषुचित्कोशेषु पाठः । कोशान्तरेषु तु तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्या­दि­भि­रु­प­पाद्य ज्ञान­ज­न्या­पू­र्व­ज­नितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इति पाठः ।
अस्मिन्पाठ उपपाद्यैत्यस्य निवारिका इत्य­व्य­व­हि­त­नि­वा­र­ण­क्रि­य­याऽ­न्वयः प्रतिभाति, तदन्वयो न युक्तः, नैयो­गि­क­त्व­नि­वा­र­णा­र्थाभिः श्रुतिभिः श्रुत्य­न्त­रो­दा­ह­र­ण­पू­र्वकं मोक्ष­फ­ल­नि­त्य­त्वस्य अप्र­ति­पा­दि­त­त्वा­दि­त्या­शङ्क्य, उप­पा­द्य­य­स्या­हे­त्य­नेन संबन्धमाह –
उप­पा­द्ये­त्य­स्येति ।
एवं फलस्वभावेनेति ।
तदेवमिति टीका­व­ता­रि­का­ग्रन्थे मोक्षस्य नित्यत्वेन नैयो­गि­क­वा­सं­भ­वस्य प्रागु­प­पा­दि­त­स्या­नु­वा­द­पू­र्वकं मोक्ष­सा­ध­न­ज्ञा­नस्य तात्का­लि­क­ब्र­ह्म­प्रा­प्ति­सा­ध­न­त्वाद् नैयोगिकत्वासंभव उच्यत इति तस्य टीकाग्रन्थस्य तात्प­र्य­मु­क्तम्, इदानीं तु ब्रह्म­भा­व­प्रा­प्ति­फ­लस्य प्राप्त­प्रा­प्ति­रू­पस्य तात्का­लि­क­फ­ल­स्वा­भा­व्येन नियोगासंभवं तदे­व­मि­त्या­दि­ग्र­न्थो­क्त­म­नूद्य फलसाधनस्य तत्त्वज्ञानस्य अवि­द्यो­च्छे­द­द्वा­र­क­त्व­स्वा­भा­व्येन नियो­ग­द्वा­र­क­त्वा­सं­भव उच्यत इत्ये­व­म­वि­द्या­द्व­ये­त्या­दि­टी­काऽ­व­ता­र्यते । अतो न पूर्व­टी­काऽ­व­ता­रि­का­ग्रन्थे नार्थैक्यशङ्का ।
न स्वत इत्ययुक्तं; स्वत एव हि विद्याया मोक्षसाधनत्वं, नान्या­य­त्त­मि­त्या­शङ्क्य व्याचष्टे –
विहितक्रिया रूपेणेति ।
आरोप्यप्रधानेति ।
यद्यपि बृह­दा­र­ण्य­को­प­नि­षदि अथ संपद' इति संप­दु­पा­स­ना­ना­मु­प­क्रमे अल्पेषु कर्मसु महतां कर्मणां तत्फलाय बुद्ध्या संपादनं संपद्, अश्वमेधादीनि महान्ति कर्माणि कार्त्स्न्ये­ना­नु­ष्ठा­तु­म­श­क्तानां संभ­व­द­ङ्ग­मा­त्र­सा­हि­त्येन तान्यनुतिष्ठतां तद­ङ्गा­श्र­यो­पा­स­ना­वि­शेषैः तत्फलसंपादनं वा संपदिति द्वेधा भाष्य­का­रा­ख्या­तम् । वार्तिककारैरपि 'फल­व­त्क­र्मणां क्वापि किंचि­त्सा­मा­न्य­सं­श्र­यात् । संपत्तिमहतो संपदल्पीयः कर्मसूच्यते॥ यदि वा तत्फलस्यैव किंचि­त्सा­मा­न्य­व­र्त्मना । संपादनं भवे­त्सं­प­द­ग्नि­हो­त्रा­दि­क­र्मणि । नातिभारोस्ति नो बुद्धेः शास्त्रं चेत्तत्परं भवेत् । विदुषां श्रेयसे ऽतोऽध्वा न क्वचि­त्प्र­ति­ह­न्यते॥ इति । 'अनन्तं वै मन' इति विहि­त­वि­श्वे­दे­वो­पा­स­नाया इष्ट्यादिषु सर्व­क­र्मा­नु­सं­धातुः ब्रह्मणः तदनुसंधानकरणं मनोधिष्ठानमिति 'कति­भि­र­य­मद्य ब्रह्मा यज्ञं दक्षिणतो देव­ता­भि­र्गो­पा­य­ती'त्या­द्यु­प­क्र­म­व­शा­द­व­ग­तम् । अतस्तस्यापि कर्मसंबन्धः; तथापि तमर्थं सिद्धं कृत्वा संप­दु­पा­स­ना­ना­मा­रो­प्य­प्रा­धान्यं प्रती­को­पा­स­ना­ना­म­धि­ष्ठा­न­प्रा­धान्यं चाना­दि­वृ­द्ध­व्य­व­हा­र­सं­प्र­दा­य­सि­द्ध­मिह लिखितम् ।
ननु संवरणम् उद्यमनमिति व्याख्या­न­म­यु­क्तम्, तयो­र्भे­दा­दि­त्या­शङ्क्य लक्षणाबीजं संबन्धमाह –
योहीति ।
ननु टीकायां संवृत इत्यस्य संवृज्य संहत्यात्मनि स्थाप­य­ती­त्य­र्थ­मुक्त्वा तत्र संम­ति­र­प्यु­दा­हृता संवरणाद्वा स्वात्मी­भा­वाद्वा वायुः संवर्ग इति । तत्र संवृत्य इत्यस्य संहरणार्थत्वं तावदुपपद्यते; 'वृजि वर्जन' इति लुग्वि­क­र­ण­प­ठि­ता­दि­दितो धातो­रा­त्म­ने­प­दिनः सिद्धस्य संवृङ्क्त इत्यस्य वर्ज­य­ती­त्य­र्थ­कस्य संहरणे पर्य­व­सा­नो­प­पत्तेः, तथैव संव­र­णा­र्थ­क­त्व­म­प्यु­प­प­द्यते । 'वृजि वरणे' इति रुधादिगणपठितात् परस्मैपदिनो धातोः छान्दसेन पदव्यत्ययेन संवृङ्क्त इति रूपसिद्धेः । अस्ति च संवरणं संहृ­त­स्यो­पा­दा­नेन स्वात्म­भा­वा­पा­दने । किमर्थं संवरणेनोद्यमनं लक्षणीयम्, मुख्या­र्था­न्व­या­नु­प­प­त्त्य­भा­वात्, सत्यम्; वायुस्वभावात् चालनमपि संभवतीति द्योतनाय तात्पर्यतस्तथा व्याख्यातम् ।
अन्या­दे­रु­प­ल­क्ष­ण­त्वा­दिति ।
ननु 'वायु­र­ग्नि­सू­र्य­च­न्द्रापः संहत्य स्वात्म­भा­व­मा­पा­द­यति' 'प्राणो वाक्च­क्षुः­श्रो­त्र­म­नां­सी'त्युक्त्वा 'ते वा एते पञ्चान्ये पश्चान्ये दश सन्त­स्त­त्कृ­त­मिति' तेऽग्न्यादयो वागाद्यश्च वायुप्राणाभ्यां सह दशेति वाक्यशेषे परिगणिताः कथ­म­ग्न्या­दि­ग्र­हणं सर्वोपलक्षणं स्याद्, व्यव­स्थि­ता­ग्न्या­दि­वि­ष­य­द­श­सं­ख्यो­क्ति­वि­रो­धा­दिति चेत्, उच्यते । 'दश सन्त­स्त­स्कृ­त'मिति दशसंख्यावत्त्वं कृतायसादृश्येन ताद्रूप्यं चोक्त­मु­प­जी­व्य­द­श­सं­ख्या­व­त्त्वेन 'दशाक्षरा विराडन्नं विरा डि'त्यर्थ­वा­दा­न्त­रो­क्त­प्र­क्रि­यया सर्वा­शा­ग­त­स­क­ला­न्न­रू­पत्वं कृतत्वेन, 'कृतायो यथा दश­सं­ख्या­न्त­र्भा­व­व­त्त्वेन तामत्तीव, एवं वायुप्राणरूपैषा दशात्मिका देवता दश­सं­ख्या­सं­स्तुतं सर्व­म­न्न­म­त्ती­वेति सर्वा­न्ना­त्तृत्वं चोक्तं वाक्यशेषे, 'तस्मा­त्स­र्वासु दिक्षु अन्नमेव सैषा विराडन्नादीति । एवं च इहा­र­न्या­दे­रु­प­ल­क्ष­ण­त्वो­क्ति­र्वा­क्य­शे­षतः सर्वा­शा­ग­त­भो­ग्य­भो­क्त­रू­प­स­क­ल­ज­ग­दा­श्र­य­त्व­प्राप्तेः उपलक्षणार्था । अत एव ज्योतिरधिकरणे ( अ. १ पा. १ सू. २४) सक­ला­न्ना­त्रा­दि­त्व­रू­प­मिदं सार्वात्म्यं वाक्य­शे­षा­र्थ­मे­वा­चार्या वर्णयिष्यन्तीति । 'पूष्णोऽहं देव­य­ज्य­येति' पूषा­नु­म­न्त्र­ण­म­न्त्रस्य पूष­दे­व­ता­के­ष्टिषु उत्कर्षः ।
सर्वस्मै वेति ।
सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रु­वा­या­मा­ज्य­मिति" वाक्यात् ध्रौवा­ज्य­म­वि­हि­त­द्र­व्य­क­स­र्व­या­गाङ्गं सदु­पां­शु­या­ज­स्या­प्यङ्गं भवतीत्यर्थः । सत्यप्यत्र आज्य­भा­गा­द्य­ङ्गे­वा­ज्य­नि­वेशे न प्रधा­न­ह­वि­ष्ट्व­मिति । ननु उपां­शु­या­जा­ज्य­स्यैव प्रधानहविष्ट्वे अपि आज्यभागादीनामपि आज्यं हविरिति तद्वारेण आज्य­सं­स्का­रा­णा­मा­ज्य­भा­गा­द्य­र्थ­त्व­म­प्य­स्त्येव; 'द्रव्य­सं­स्का­र­प्र­क­र­णा­वि­शे­षात् सर्व­क­र्म­णाम्' (जै. अ. ३ पा. ८सू. ३०) इति जैमिनिना तथा सूत्रितत्वात्, द्रव्यसंस्काराः न केवलं प्रधानार्थाः किं तु अङ्गप्रधानार्था इति निर्णयार्थं प्रवृत्तस्य 'प्रक­र­ण­वि­शे­षा­द­सं­युक्तं प्रधानस्य (जै. अ. ३ पा. ७ सू. १) इत्यधिकरणस्य लिङ्गदर्शनात् च (ज.अ.३ पा.सू.४) इति गुणसूत्रेण आज्य­सं­स्का­रा­णाम् आज्य­भा­ग­प्र­भृ­त्य­ङ्गा­र्थ­त्व­म­प्य­ती­त्यत्र 'ध्रुवा­मे­वा­ग्रेऽ­भि­घा­र­यति, ततो हि प्रथमम् 'आज्यभागौ यक्ष्यन् भवतीति ध्रौवा­ज्या­भि­धा­र­ण­प्रा­थम्ये तद्ध­वि­ष्का­ज्य­भा­ग­प्रा­थ­म्य­हे­तू­क­र­णस्य लिङ्ग­त­यो­प­न्या­साच्च, तस्मा­द­वे­क्ष­ण­स्या­ज्य­सं­स्का­रस्य प्रधा­न­मा­ना­र्थ­त्वो­क्ति­र­युक्ता इति-चेत्, उच्यते । नात्र तस्य प्रधा­न­मा­त्रा­र्थ­त्व­मुक्तं, किन्तु टीकायाम् उपां­शु­या­ज­ग्र­ह­णम् अन्ये­षा­म­प्या­ज्य­ह­वि­ष्क­या­गा­ना­मु­प­ल­क्ष­ण­म­भि­प्रेत्य, उपांशुयाजः किमि­त्या­ज्य­ह­वि­ष्क­या­ग­सा­मा­न्यो­प­ल­क्ष­क­तया निर्दिष्टः? प्राथमिकत्वात् आज्यभागावेव तथा निर्देशार्हौ इत्याशङ्कायां, प्राधा­न्या­दु­पां­शु­या­ज­स्तथा निर्दिष्ट इत्ययमर्थः सत्य­प्य­त्रे­त्या­दि­ग्र­न्थेन दर्शितः, अतो न दोषः ।
फलकल्पनाभयादिति ।
उपलक्षणमेतत् । पुरुषार्थत्वे हिर­ण्य­रू­प­सा­ध­न­वि­शि­ष्टस्य धारणस्य विधायकं वाच्यमिति कृत्य­प्र­त्य­यो­क्त­क­र्म­प्रा­धा­न्य­भ­ङ्ग­भ­यात् इत्यपि द्रष्टव्यम् ।
क्रतुनिवेश इति ।
धारणसंस्कृतस्य हिरण्यस्य विनि­यो­गा­का­ङ्क्षया कल्प्य इति भावः । सत्रवद्विपरिणाम इति स्थाने सक्तु­व­द्वि­प­रि­णाम इति कचित्पाठः । हिरण्यसाधनकेन धारणेनेष्टं भावयेदिति सक्तु­न्या­या­द्वि­प­रि­णामे सत्य­ना­र­भ्या­धी­तस्य तस्य क्रतु­नि­वे­श­क­ल्प­का­भा­वात् फल­वि­शे­षा­का­ङ्क्षा­याम् आर्थ­वा­दि­क­फ­ल­वि­प­रि­णा­मोऽपि कल्प्य इति भावः । क्रत्वङ्गत्वेन गतौ सत्यां कृत्य­प्र­त्य­या­व­ग­त­क­र्म­प्रा­धा­न्य­भङ्गः फलविपरिणामः फलाय हिर­ण्य­वि­शि­ष्ट­धा­र­ण­वि­धि­रिति त्रयमपि नाश्रयणीयमिति परिहारार्थः । नन्व­ना­र­भ्या­धी­तस्य कुतः क्रतु­नि­वे­श­सिद्धिः? संस्कृ­त­वि­नि­यो­ग­नि­य­मात् चेत्, कुतः क्रतु­सं­ब­न्धा­व­गतेः प्राक् संस्का­र­वि­धि­त्व­नि­र्णयः? तनिर्णयेऽपि लौकिककर्मसु वा निवेशः कुतो न स्यात्? तत्राह वैदि­क­क­र्म­त्व­सा­म्या­दिति । 'तप्ते पयसि दध्यानयति 'इत्यत्र पयसः क्रतु­सं­ब­न्धा­त्या­गेव ध्यान­य­न­सं­स्का­र्य­त्वेऽ­व­गते पश्चात् सा वैश्वदेवीति वाक्येन संस्कृ­त­वि­नि­यो­गा­का­ङ्क्षा­पू­रणं दृष्टम्, एवमिहापि धार­ण­सं­स्का­र्य­त्वे­ना­व­गते हिरण्ये तद्वि­नि­यो­गा­का­ङ्का­प्र­सू­ता­र्था­पत्त्या वैदि­क­क­र्म­व­सा­दृ­श्यो­प­स्थि­ते­ष्व­ग्नि­हो­त्रा­दिषु विनियोगकल्पनया तत्पूरणमिति भावः ।
द्रव्यदेवतेति ।
ननु द्रव्य­दे­व­ता­सं­ब­न्ध­रा­हि­त्येन धारणस्य यागत्वाद्यभाव एव सिद्ध्येत्, न तु धारणरूपतयैव स्वत­न्त्र­क­र्म­व­स्या­भा­वोऽपि । सत्यम्, धारणस्य स्वत­न्त्र­क­र्मत्वं लक्षितयागरूपतया मुख्यधारणरूपतया वेति विकल्पं मनसि निधाय आद्य­प­क्ष­नि­रा­क­र­णा­र्थ­त्वेन इदमद्रव्यसूत्रं (जै. अ. ३ पा. ४ सू. २७) योजितम् । द्विती­य­प­क्ष­नि­रा­क­रणं तु द्रव्यपरत्वात् चेति । (जै. अ.३ पा. ४ सू. २९) (द्रव्य­सं­यो­गा­च्चेति सौत्रः पाठः) तदन्तरसूत्रेण धारणस्य स्वातन्त्र्ये कृत्य­प्र­त्य­या­व­ग­त­द्र­व्य­प्रा­धा­न्य­वि­रोधं दर्शयता कृत­मि­त्य­भि­प्रायः । ननु अद्रव्यसूत्रस्य द्रव्य­दे­व­ता­सं­ब­न्ध­रा­हि­येन याग­नि­रा­क­र­णा­र्थ­तायां अद्र­व्य­दे­व­ता­त्वात्तु शेषः स्यादिति शब­र­स्वा­मि­लि­खि­त­सू­त्रस्य पाठो लिखितुं युक्तः, न त्वद्र­व्य­त्वा­दिति वार्ति­क­का­र­लि­खितः पाठः, तस्मिन् पाठे ह्यद्रव्यत्वाद् विधे­य­द्र­व्या­भा­वाद्, धार­ण­मा­त्र­वि­धा­न­सं­भ­वेन द्रव्यस्यापि तद्विशेषणतया विधानाभावाद्, न हिर­ण्य­सा­ध­न­क­धा­र­ण­रू­प­स्व­त­न्त्र­क­र्म­वि­धि­रि­त्येव सूत्रार्थो वर्णयितुं युक्तः । सत्यम्, देवतापदयुक्तो भाष्य­का­र­लि­खि­त­स­त्र­पाठ: सांप्रदायिको न भवतीति वार्तिककारैः त्यक्तत्वात् । यथावार्तिकं सूत्रं पठित्वा तत्रैव भाष्य­का­र­द­र्शि­तोऽ­प्यर्थो योजितः । अस्मिन्नर्थे द्रव्यशब्दः संप्र­दा­न­त्वा­र्ह­दे­व­ता­रू­प­द्र­व्य­वा­चीति तदभावेन द्रव्य­दे­व­ता­सं­यो­ग­र­हि­त्य­रू­प­हे­तु­सि­द्धि­रि­त्य­भि­प्रायः ।
सिद्धा­न्त­स्त्विति ।
न च आधा­न­सं­स्कृ­ता­ह­व­नी­य­वत् दध्या­न­य­न­सं­स्कृ­त­प­यो­वच्च साक्षाद्वाक्येन क्रतु­सं­ब­न्धा­न­व­ग­मेऽपि पर्णतावत् अव्य­भि­च­रि­त­क्र­तु­सं­ब­न्धा­भा­वेऽपि हिरण्यस्य श्रुत­धा­र­ण­क­र्म­त्वा­न्य­थाऽ­नु­प­प­त्त्याऽ­ग्नि­हो­त्रा­दिषु निवेशः कल्प्यः स्यादिति वाच्यम् । तेषु हिरण्यस्येदृशो विनियोग इति तद्वि­शे­ष­क­ल्प­नायां विनिगमकाभावेन विनियोगविशेषं विना तेषु निवेशस्या निर्वाहात् । न च येषु क्रतुषु हिरण्यविनियोगः संप्रतिपन्नः, तेषु तद्वारा धारणस्य निवेशः कल्यतामिति वाच्यम् । 'हिरण्यं हस्ते भवति', 'हिरण्येन षोडशिनः स्तोत्र­मु­पा­क­रोति' 'हिर­ण्य­स्रज ऋत्विजो भव­न्ती'त्या­दि­हि­र­ण्य­वि­नि­यो­ग­वत्सु क्रतुषु तद्धारणस्यापि प्राप्तेः, दक्षि­णा­रू­प­हि­र­ण्य­व­त्स्वपि दीयमानस्य प्रति­गृ­ह्य­मा­णस्य च तस्य धारणप्राप्तेः, हिरण्यार्थतया धारणविधाने सुव­र्ण­श्रु­ति­वै­फ­ल्या­प­त्तेश्च । तस्मात् शोभ­न­व­र्ण­हि­र­ण्य­सा­ध­न­क­धा­र­ण­विधिः पुरुषार्थ इत्येव युक्तम् । एवं सतीयमेव श्रुतिः 'दीक्षायणी ब्रह्मसूत्री कमण्डलुधरो द्विजः' इत्या­दि­पु­रु­षा­र्थ­हि­र­ण्य­धा­र­ण­स्मृतेः मूलं भविष्यतीति तस्या मूला­न्त­र­क­ल्प­ना­गौ­र­व­मपि परिहृतं भवतीति ।
˜इत्यु­क्त­म­ध्या­स­भाष्ये इति ।
अन्तः­क­र­णा­द्य­व­च्छिन्न प्रत्यगात्मा इद­म­नि­द­रू­प­श्चे­तनः कर्ता भोक्ता कार्य­का­र­णा­वि­द्या­द्व­या­धारः इत्य­ध्या­स­भा­ष्य­टी­का­या­मु­क्त­मि­त्यर्थः । ननु घर्ष­ण­स्या­न­द­र्श­ग­ते­ष्ट­का­चू­र्ण­सं­यो­ग­वि­भा­ग­प्र­च­य­तया व्याख्या­न­म­यु­क्तम्, फलं हि तत्प्रचयः पुरु­ष­व्या­पा­र­रू­पाया घर्षणक्रियायाः, यथा तण्डु­ल­वि­क्लित्तिः पचिक्रियाया इत्याशङ्क्याह -एतच्चेति । सर्वत्र फलमेव धात्वर्थः, न तु तद­नु­कू­ल­व्या­पारः; त्यजिगमिधात्वोः पर्यायतापत्तेः । एक एव हि पूर्व­दे­श­वि­भा­गो­त्त­र­दे­श­सं­यो­ग­रू­प­फ­ल­द्व­य­स्य­प्य­नु­कूलो व्यापारः पुरुषस्पन्दः । यद्युच्येत फल­वि­शे­षा­व­च्छिन्नो व्यापारो धात्वर्थः, ततः पूर्वदेशं त्यजति उत्तरदेशं गच्छ­ती­त्य­र्थ­भे­द­स्त­यो­रिति, तर्हि आवश्यकत्वात् लाघवाच्च तत्तत्फलमेव धात्वर्थोऽस्तु । न चैवं सति पचेः विक्लि­त्त्य­र्थ­तायां विक्लि­त्त्यु­द­या­त्प्राक् पचतीति वर्तमानप्रयोगो न स्यात्, न स्यात् च तण्डुलान् पचतीति तण्डुलानां कर्मतया निर्देशः, धात्व­र्थ­रू­प­वि­क्लि­त्ति­क्रि­या­ज­न्यस्य तण्डुलेषु फला­न्त­र­स्या­भा­वात् पर­स­म­वे­त­त्वा­भा­वात् चेति वाच्यम्; धात्व­र्थ­रू­प­फ­ला­नु­कू­ल­व्या­पा­रस्य आख्या­ता­र्थ­त्वा­ङ्गी­का­रेण पचतीति लडर्थस्य वर्तमानत्वस्य एक­प्र­त्य­यो­पात्ते तस्मि­न्न­न्व­यो­प­पत्तेः । तज्ज­न्य­वि­क्लि­त्ति­रू­प­फ­ल­भा­गि­त्वेन तण्डुलानां कर्मतया निर्दे­शो­प­प­त्ते­श्चेति मण्डनाचार्याणां मतमनुसृत्य संयो­ग­वि­भा­ग­रू­पस्य फलस्य घर्ष­ति­धा­त्व­र्थ­त्व­मु­क्त­मिति भावः । ननु फलस्य धात्वर्थत्वे विक्लि­त्त्यु­द­यात् प्राक् पाको वर्तत इति प्रयोगो न स्यात् । तत्र पचिधातोरुपरि तद­र्थ­वि­क्लि­त्त्य­नु­कू­ल­व्या­पा­र­वा­च­कस्य आख्या­त­स्या­भा­वात्, तत्त­त्फ­ला­नु­कू­ल­व्या­पा­र­सा­मा­न्य­रू­पेण आख्यातार्थत्वे च पचति यजतीत्यादौ अधः­सं­ता­प­न­द्र­व्य­त्या­गा­दि­व्या­पा­र­वि­शे­ष­प्र­ती­तिर्न स्यात् । तत्र तत्रा­धः­सं­ता­प­ना­दि­व्या­पा­र­वि­शे­ष­स्यापि तद­र्थ­ता­या­मा­ख्या­तस्य नानार्थत्वं स्यात् ।
तस्मात् तत्त­द्व्या­पा­र­वि­शेष एव धात्वर्थः, त्यजि­ग­म्यो­र­प­र्या­यता तु फल­स्यो­प­ल­क्ष­ण­त­या­प्यु­प­प­द्यत इति मन्य­मा­ना­ना­म­न्येषां मते कथ­मि­हो­प­प­त्ति­रि­त्या­श­ङ्क्य­माह –
संयो­ग­वि­भा­गा­ति­रि­क्तेति ।
दर्प­णे­ष्ट­का­चू­र्ण­सं­यो­ग­वि­भा­ग­फ­लकः पुरुषव्यापारो घर्षतिधात्वर्थ इति पक्षेऽपीत्यर्थः ।
वस्तुतो विदि­क्रि­या­क­र्म­भा­वे­त्या­दि­व्या­ख्याने बीजमाह –
औपाधिकं त्विति ।
वृत्त्यु­प­रा­गो­पा­धिकं कर्म­त्व­मि­त्यर्थः । इदं तु पराननुगुण्यात् नेति भावः ।
तच्छ­ब्दा­ध्या­हा­रेण योजयितुमिति ।
यत्रेत्यस्य प्रति­नि­र्दे­शार्थं तत्रेति शब्दाध्याहारेण योज­यि­तु­मि­त्यर्थः । एवंच टीकायां तत्र­श­ब्दा­श्र­व­णेऽपि तद­ध्या­हा­रोऽ­भि­प्रेत इति सूचितं भवति । यच्छ­ब्दा­घ्या­हा­रेण योजयितुमिति पाठे सेति शब्दस्य प्राङ्नि­र्दे­शार्थं येति शब्द­स्या­ध्या­हा­रेण योज­यि­तु­मि­त्यर्थः । अने­नो­भ­य­म­प्य­ध्या­हा­र्य­मिति सिद्धम् । अत एवा­चा­र्य­स्त­त्रेति येति चोभ­य­म­प्य­ध्या­हृत्य वाक्यं पूरितम् ।
ननु तां ध्यायेदिति विधितः प्राग् देव­ता­ध्या­न­म­प्रा­प्त­मि­त्य­सिद्धं, तं विधि­म­न­पे­क्ष्यापि तत्त­द­र्थ­वा­दा­व­ग­मि­त­दे­व­ता­रू­पाणां स्वेच्छया कदा­चि­द­नु­चि­न्त­न­सं­भ­वा­दि­त्यत आह –
विध्यर्थेति ।
वषट् कुर्यादिति विध्य­र्थ­व­ष­ट्का­रा­नु­ष्ठा­ना­त्प्रा­क्काले नियमेन ध्यानं तद्विधिं विना न प्राप्त­मि­त्यर्थः । ननु अधीतवेदस्य विचा­र­पू­र्व­का­र्थ­ज्ञा­न­मपि विधि विना न प्राप्नोतीति चेद, न तस्या­ध्य­य­न­वि­धिना फल­व­द­र्था­व­बो­ध­प­रतां नीतैर्विशेषतः संदि­ह्य­मा­ना­र्थ­र्वे­दा­न्तै­रा­क्षि­प्त­तया मुमुक्षूणां प्राप्ति­स­त्त्वा­दिति भावः । टीकाकारैः सर्वा­पे­क्षा­धि­क­रणे (व. अ. ३ पा. ४ सू. २६) चतस्रः प्रतिपत्तयो ब्रह्मणि । प्रथमा ताव­दु­प­नि­ष­द्वा­क्य­न­व­ण­मा­त्राद् भवति, यां किलाचक्षते श्रवणमिति । द्वितीया मीमांसासहितात् तस्मा­दे­वो­प­नि­ष­द्वा­क्याद्, यामाचक्षते मननमिति । तृतीया चिन्ता­स­न्त­ति­मयी, यामाचक्षते निदिध्यासनमिति । चतुर्थी तु साक्षात्कारवती वृत्तिरूपेति । श्रव­णा­दि­रू­प­त­यो­क्तानां चतुर्णामपि ज्ञानानां प्राप्तत्वेन विधा­तु­म­श­क्य­त्व­मु­प­पा­दि­त­मेव ।
इदानीं न्याय­त­स्त­त्ता­त्प­र्या­व­धा­रणं श्रवणं तद­नु­ग्रा­ह­का­नु­मा­ना­दि­रू­प­यु­क्त्य­नु­चि­न्तनं मननमिति पक्षे विधान्तरेणापि तयोः निदिध्यासनस्य च विधानासंभवमाह –
श्रवणं हीति ।
विष­य­वि­शे­षा­व­च्छि­न्न­स्येति ।
ननु सामान्यतः तात्पर्यावगमो विधेयोऽस्तु इत्याशङ्क्य विशेषग्रहणं कृतम् । तथा च सर्वेषां वेदानाम् अर्थ­प­र­त्व­मा­पा­द­यता अर्थ­ज्ञा­न­फ­ल­का­ध्य­य­न­वि­धि­नैव च वेदान्तानामपि कर्मकाण्डवत् सामा­न्य­तोऽ­र्थ­ता­त्प­र्या­व­ग­म­सिद्धेः न तदवगमार्थं श्रवणविधिः अभ्युपेयः, किन्तु तेषामखण्डे ब्रह्मणि न्यायतः तत्ता­त्प­र्य­म­व­ग­च्छे­दिति विष­य­वि­शे­षा­व­च्छि­न्न­ता­त्प­र्या­व­ग­ति­वि­षयः सोऽभ्युपेतव्यः । तथा च प्राक तद­व­ग­मा­न­व­ग­म­यो­रु­क्त­दू­ष­ण­द्व­य­मा­प­त­तीति भावः । ननु साङ्गाध्ययनवतो वेदान्तानां सगु­ण­नि­र्गु­ण­रू­पेषु नाना­वि­धे­ष्व­र्थेषु क्वैषां तात्पर्यमिति संदेहे च सति बुद्ध्या­रू­ढ­नि­र्गु­ण­रू­प­वि­ष­य­वि­शे­षा­व­च्छिन्नं तात्पर्यं न्यायतो निश्चिनुयादिति विधातुं शक्यत इति चेन्न, वेदा­र्थ­नि­श्च­यात् फलविशेषप्रतीतौ तद­र्थ­ता­त्प­र्य­नि­र्ण­याय स्वत एव न्यायविचारे प्रवृ­त्त्यु­प­पत्त्या कर्म­का­ण्डा­र्थ­वि­चार इव विध्यनपेक्षणात् ।
युक्त्या­लो­च­न­स्येति ।
युक्ति­वि­शे­षा­लो­च­न­वि­धाने प्राक् तद्व­ग­मा­न­व­ग­माभ्यां प्राप्ति­र्वि­धा­ना­श­क्तिश्च । सामान्यतो युक्त्यालोचनं तु न विधेयम्; असं­भा­व­ना­दि­नि­रा­स­रू­प­दृ­ष्टा­र्थ­त्वेन खत एव प्राप्तेरिति भावः ।
उपासनस्यापीति ।
उपासनं हि प्रत्य­या­वृत्तिः, सा श्रव­ण­म­न­न­का­ल­यो­रे­कै­क­प्र­त्य­यो­त्प­त्ता­वपि प्रत्ययद्वयरूपा सिद्धैव; विधे­य­नि­दि­ध्या­स­ना­व­ग­म­काले विधे­या­वृ­त्त्य­व­ग­मस्य ब्रह्मा­त्मै­क्य­वि­ष­य­त्व­स्यापि सद्भावात्, तमादाय प्रत्य­य­त्र­य­रू­पाऽपि सा सिद्धा, आवृत्तिमात्रं हि ध्यानशब्दार्थो, न तु शत­स­ह­स्रा­दि­सं­ख्या­वि­शे­ष­नि­य­ता­वृत्तिः । तथा च द्वित्र­प्र­य­यो­त्प­त्ता­वपि आवृ­त्ति­शा­स्त्रार्थो लब्ध एव भवति । यथा सकृ­न्मु­स­ल­पा­त­नेऽपि 'सर्वौ­ष­धस्य पूर­यि­त्वाऽ­व­ह­न्ती'त्यत्र अव­घा­त­शा­स्त्रार्थः । यदि ध्यानस्य साक्षा­त्का­र­रू­प­दृ­ष्ट­फ­ल­क­त्व­मि­ष्यते, तदा परं दार्श­पू­र्ण­मा­सि­का­व­घा­त­स्येव याव­द्दृ­ष्ट­फ­लो­द­य­मा­वृत्तिः लभ्यते । तथा दृष्टफलकत्वे तु न विध्यपेक्षा । उपा­या­न्त­र­प्रा­प्त्य­भा­वाद् नियमस्यापि नावकाशः । न च अवि­च्छि­न्न­प्र­त्य­या­वृत्तिः ध्यानशब्दार्थः, सा न सिद्धेति वाच्यम्; यथा श्रवणमननं प्रत्य­या­वृ­त्ति­रूपं ध्यानं कर्तव्यमिति विध्य­र्था­व­ग­म­काले श्रवणे यथाभूतः प्रत्ययः मनने च यथाभूतः, तयोरपि क्रमे­णा­नु­सं­धे­य­त्वेन नैरन्तर्यस्यापि प्राप्तेरिति भावः । आख­ण्ड­ला­दी­ना­मि­त्यादि । ननु कुतू­ह­ल­भ­य­नि­वृ­त्त्या­दि­प्र­यो­ज­न­स­त्त्वेऽपि आद्य­व्यु­त्प­त्ति­ग्र­हा­नु­सा­रेण कार्याध्याहारः स्यादिति चेत्, किमा­द्य­व्यु­त्प­त्ति­ग्र­ह­काले गामा­न­ये­त्या­दि­वा­क्य­ग­तानां सर्वेषां पदानां कार्य­वा­चि­त्व­म­ध्य­व­सि­त­मिति तदनुसारेण द्विती­या­दि­प्र­यो­गेषु श्रुतैरपि सर्वैः पदैः कार्यसामान्ये बोधिते तद्वि­शे­ष­जि­ज्ञा­सया कार्य­वि­शे­ष­वा­चि­क्रि­या­प­दा­ध्या­हारः? उत आद्यव्यवहारस्य क्रिया­प­द­घ­टि­तत्वं दृष्टमिति तदनुरोधेन । नाद्यः, क्रिया­प­द­स­म­भि­व्या­हा­रात् कार्यस्येव गोप­द­स­म­भि­व्या­हा­रात् कर्मकारकस्य प्रती­त्यु­प­पत्त्या पदान्तराणां कर्मकारक इव कार्येपि शक्त­र­क­ल्प­नी­य­त्वात्, यथा प्रवृत्तिः कार्या­व­ग­ति­पू­र्विका तथा कार्यावगतिरपि प्रवृ­त्ति­वि­ष­य­शु­द्ध­प­दा­र्थ­गो­च­र­ज्ञा­न­पू­र्वि­केति नियमस्य प्रत्य­क्षा­धी­न­स्व­प्र­वृ­त्ति­स्थले दृष्टत्वेन प्रयोज्यस्य प्रवृत्त्या कार्यावगतेरिव कार्यावगत्या तद­न­न्वि­त­शु­द्ध­प­दा­र्थ­ज्ञा­न­स्या­प्य­नु­मि­ते­र­नि­वा­र्य­तया तस्मिन् उत्त­म­बु­द्ध­वाक्यं विना कारणान्तराभावेन आद्य­व्यु­त्प­त्ति­ग्र­ह­स­मय एव शुद्धे गवादिपदार्थे शब्द­सा­म­र्थ्य­ग्र­ह­णा­व­श्यं­भा­वाच्च । साक्षा­त्प्र­वृ­त्ति­ज­न­क­ज्ञान एव शब्दस्य सामर्थ्यं कल्पनीयमिति चेत्, तर्हि ममेदं कार्यमिति ज्ञान एव तस्य सामर्थ्यं कल्प्येत, तस्यैव गामानयेति वाक्य­ज­न्य­म­दं­श­र­हि­त­ज्ञा­ना­न­न्त­र­भा­विनः साक्षा­त्प्र­व­र्त­क­त्वात् । नापि द्वितीयः; दण्डेन गामानयेत्यत्र आद्य­व्यु­त्प­त्ति­ग्रहे कर­ण­श्र­व­णेऽ­प्यग्रे घटं पश्येत्यादौ करणानध्याहारवत् कार्या­न­ध्या­हा­र­स्या­प्यु­प­पत्तेः, आद्य­व्यु­त्प­त्ति­ग्रा­ह­क­वा­क्यस्य आन­य­न­का­र्य­घ­टि­तत्त्वे द्विती­या­दि­प्र­यो­गे­ष्वपि तद­ध्या­हा­रा­पत्तेः । आनयनं विनाऽग्रे कार्या­न्त­र­घ­टि­त­वा­क्य­श्र­व­णा­दा­न­य­न­नि­य­म­स्त्य­ज्यत इति चेत्, तर्हि कार्य­वा­चि­प­द­र­हि­तानां सिद्धा­र्थ­व­र्ण­न­प­राणां काव्यादीनां बहुलमुपलम्भात् कार्यनियमोऽपि त्यक्तव्य इति तुल्यम् । एव­मा­द्य­व्यु­त्प­त्ति­ग्र­हा­नु­रो­धे­नाग्रे सिद्धा­र्थ­प्र­यो­गेषु कार्य­म­ध्या­ह­र्त­व्य­मि­त्य­भि­माने भग्ने हर्ष­लि­ङ्गो­प­जी­वि­सि­द्धा­र्थ­व्यु­त्प­त्ति­म­हो­प­पा­द­न­मपि निरवद्यम् । अन्यथा ह्यवि­दि­ता­र्य­ज­न­भा­षार्थ इत्या­दि­टी­का­प्र­न्येन प्राक् स्वभाषायां शब्दा­र्थ­व्यु­त्प­त्ति­मतः प्रबुद्धस्य हर्षलिङ्गोपजीवि 'पुत्रस्ते जातः' इत्यत्र व्युत्प­त्ति­ग्र­ह­ण­मु­प­पा­दि­त­म­यु­क्तम्; आद्य­व्यु­त्प­त्ति­ग्र­हा­नु­सा­रेण तत्र स्नानदानादिकं कुर्विति कार्य­प­र­त्व­स्फु­र­णा­दिति शङ्कावकाशः स्यात्, न च पुत्रस्ते जातः' इत्यत्र आद्य­व्यु­त्प­त्ति­ग्र­होऽ­प्यु­क्त­रीत्या संभवतीति शङ्कनीयम्, स्तनन्धयस्य अतिबालस्य आद्य­व्यु­त्प­त्ति­ग्र­ह­स­मये 'जातः शिशुः 'चैत्रस्य पुत्रजन्म हर्षकारणमिति च बोधाभावात् । ननु तद्वोधवतः प्रबुद्धस्यापि पुत्रस्ते जातः' इति शब्दस्य पुत्र­ज­न­न­रू­पा­र्थ­प­र­त्व­ग्र­हणं न संभवति, मुख­वि­का­सा­नु­मि­त­ह­र्ष­का­रणं पुत्रजन्मज्ञानं पुत्र­प­दा­ङ्कि­त­प­ट­वा­स­प्र­द­र्श­न­लि­ङ्ग­ज­न्य­म­नु­मि­ति­रू­पम्, 'पुत्रस्ते जातः' इति वाक्यं तु स्नान­दा­ना­दि­क­र्त­व्य­ता­र्थ­क­मिति चैत्रस्य हर्षजन्मजातं स्नान­दा­ना­दि­प्र­वृत्तिं च पश्य­त­स्त­द्भा­षा­न­भि­ज्ञस्य विप­री­ता­र्थ­प्र­ती­ते­रेव प्राप्तेरिति चेत्, उच्यते; लाटदेशे पट­वा­स­प्र­द­र्श­न­पु­रः­सरं पुत्रजननवार्ता वाचैव स्फुटं वदन्ति वार्ताहारा इति तद्दे­श­प्र­सिद्धिं जानन् वार्ता­हा­र­वा­क्यस्य पुत्रजननमेवार्थ इति प्रत्येतीति न तस्या­र्था­न्त­र­प्र­ती­ति­प्र­सङ्गः । एवं च प्राग्भ­वी­य­सं­स्का­रो­द्बो­धेन पट­वा­स­प्र­द­र्श­न­कृ­तेन तद्दे­श­प्र­क्रि­या­स्म­र­ण­मा­श्रित्य आद्य­व्यु­त्प­त्ति­ग्र­होऽपि पुत्रस्त जात इत्य­त्रो­प­पा­द­यितुं शक्यः । अवश्यं च माता­पि­त्रा­दि­भि­श्चन्द्रः, गौरि­त्या­दि­श­ब्देषु चन्द्रा­द्य­भि­मु­खा­ङ्गु­ली­नि­र्दे­श­पू­र्व­क­मु­च्चा­र्य­मा­णेषु आद्य­व्यु­त्प­त्ति­ग्रहे बालस्य जायमाने सर्व­सि­द्ध­श­ब्द­वि­शे­षो­च्चा­र­ण­स­हि­ता­र्थ­वि­शे­षा­भि­मु­खा­ङ्गु­ली­नि­र्दे­शस्य तस्मिन्नर्थे तस्य शब्दस्य शक्ति­ग्र­हा­र्थत्वं जन्मान्तरे प्रबुद्धेन तदाऽवगतं बालेन स्मर्यत इत्ये­वो­प­पा­द­नी­यम् । तत्र गत्य­न्त­रा­भा­वात्, तथेहापि भविष्यति । एवं जन्मा­न्त­रा­नु­भ­व­सं­भ­व­म­भि­प्रेत्य लाटानां प्रसिद्ध इत्युक्तम् । प्रसि­द्धः­प्र­क­र्षेण सिद्धः । अनादि कालप्रवृत्त इत्यर्थः ।
न कार्य­वि­ष­या­णी­त्यर्थ इति ।
नन्वेवं सति कार्यविशेषणतया स्वर्ग­दे­व­ता­दि­भू­ता­र्थ­प्र­मि­ति­ज­नके सार्थ­वा­द­वि­धि­वाक्ये व्यभिचारः स्यात्, नैष दोषः, भूता­र्थ­प्र­मि­ति­श­ब्देन स्वातन्त्र्येण भूतार्थप्रतीतेः विवक्षितत्वात्, प्रतीतौ याथा­र्थ्य­वि­शे­ष­ण­स्था­न­पे­क्षि­त­त्त्वात् । अत एव हेत्व­सि­द्धि­प­रि­हा­रार्थं सिद्ध­व्यु­त्प­त्ति­प्र­सा­ध­ना­पेक्षा पूर्ववाक्ये दर्शिता । यथाश्रुतेः हेतोः हि न तदपेक्षास्ति: वेदान्तानां ज्ञानविधिशेषतया ब्रह्म­प्र­मि­ति­ज­न­क­त्वस्य परे­णा­प्य­ङ्गी­कृ­त­त्त्वात् ।
प्रती­ति­ज­न­क­त्व­सा­धन इति ।
कारणानां हि तत्त­द­र्थ­वि­ष­यत्वं फल­द्वा­र­क­मु­प­पा­द­नीयं, न साक्षा­त्त­त्त­द­र्थ­वि­ष­य­त्व­मस्ति । एवं च फलरूपायां प्रतीतौ अन­न्य­शे­ष­त्व­रू­प­भू­ता­र्थ­वि­शे­ष­णा­वि­व­क्षायां सिद्धसाधनम्, सिद्ध­सा­ध­न­प­रि­हा­राय तद्विवक्षायां हेतुसाध्याभेद इत्यर्थः ।
ननु यद­न­न्य­शे­ष­भू­ता­र्थ­वि­ष­य­प्र­ती­ति­ज­नकं तत् कार्यविषयं न भवतीति विशे­ष­व्या­प्ति­रेव संभवति; चक्षु­रा­दी­ना­म­न­न्य­शे­ष­भू­ता­र्थ­वि­ष­या­णाम् आन­य­ना­दि­का­र्य­वि­ष­य­त्वा­भा­वात्, किमर्थं सामा­न्य­व्या­प्ति­प्र­त्या­य­नार्थ यत्त­च्छ­न्दा­वु­प­न्यस्तौ इत्याशङ्कामाह –
यत्त­च्छ­न्दा­व­पीति ।
यद्विषयेत्यत्र तद्विषयेत्यत्र च समस्तौ यत्तच्छन्दौ न समभिव्याहृतपरौ, किन्तु प्रकृ­त­भू­ता­र्थ­प­रा­म­र्शिनौ । तथा च तद्विषयमित्यस्य भूता­र्थ­वि­ष­य­मि­त्य­र्थ­लाभे सति तेन लक्षणया कार्य­वि­ष­य­त्वा­भा­व­रू­प­म­भि­म­त­साध्यं बोधनीयमिति भावः । उपोपसर्ग इत्यादि । तथा चाद्वितीयं ब्रह्मा­ह­म­र्थ­नि­ष्कृ­ष्ट­सा­क्षि­रू­प­त्वेन अह­म­र्थ­नि­र्दिष्टं निश्चयरूपतया विषयीकृत्य सवासनामविद्यां शृणाति हिन­स्ती­त्यु­प­नि­ष­दिति निर्वचनं कृतं भवति । सदेरिह विशरणार्थत्वस्य टीका­या­मु­क्त­त्वात् ।
व्यवहितमपीति ।
ननु क्रिया­त­च्छे­ष­व्य­ति­रि­क्त­के­व­ल­सि­द्ध­व­स्तु­बो­धको वेदभागो नास्तीति पूर्वपक्षिमतस्य निरासे तन्नेति प्रतिज्ञाते हेतुत्वेन उप­न्य­स्त­म­न­न्य­शे­षत्वं संग्रहवाक्ये; तदुपपादनार्थं च योऽसावुपनिषत्सु इत्यादिवाक्यं, तत्र प्रयाजादिवत् प्रकरणेन जुह्वा­दि­व­द्वा­क्येन वा विनियोगाभावेन उपपाद्यमानम् अनन्यशेषत्वं किमर्थं व्यव­हि­ता­न्व­य­मा­श्रित्य चतु­र्वि­ध­द्र­व्य­वि­ल­क्ष­णत्वे हेतुत्वेन योजितं? किमर्थं च भाष्ये संग्रहवाक्यम् उपन्यस्तं तत्र उपन्यस्तयोः औप­नि­ष­द­त्वा­न­न्य­शे­ष­त्व­यो­र­नु­प­पा­दकं चतु­र्वि­ध­द्र­व्य­वि­ल­क्ष­णत्वं विव­र­ण­वा­क्येऽ­स्मि­न्नु­प­न्य­स्तम्? उच्यते । यदि प्रक­र­णा­दि­वि­नि­यो­ज­का­भा­वेन क्रिया­शे­ष­त­या­न्वयो नास्ति, तर्हि कर्मकारकत्वेन तच्छे­ष­त­या­न्व­योऽस्तु एवमपि क्रिया­न्व­य­नि­य­मस्य न भङ्ग इत्या­श­ङ्का­न्त­र­नि­रा­क­र­णार्थं चतु­र्वि­ध­र­व्य­वि­ल­क्ष­ण­त्व­मु­प­न्य­स्तम् । तत्रापि अनन्यशेषत्वं हेतुभवनक्षममिति व्यवहितान्वयः समाश्रितः ।
स एष नेत्यात्मेति बृह­दा­र­ण्य­क­प­ञ्च­मा­ध्या­या­म्ना­त­वाक्ये विधे­या­नु­वा­द्य­वि­भा­ग­म­नु­वा­द्यस्य "अथात आदेशो नेति नेतीति तच्च­तु­र्था­ध्या­या­म्ना­त­वा­क्यतः प्राप्तिं च दर्शयति –
य आत्मेति ।
स एष' इत्यस्य कस्मिन्नु प्राणः प्रतिष्ठित इत्यपाने इती'त्या­दिना प्रस्तुते प्राणादिपञ्चके वृत्त्यसंभवाद् 'अगृह्यो न हि गृह्यत' इत्यादिना प्रस्तोष्यमाणे वृत्ति­प्र­क­ट­यि­तु­म­पे­क्षि­त­म­ध्या­ह­रति –
निरूप्यत इति ।
विनश्यत्स्विति ।
"समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विन­श्य­त्व­वि­न­श्य­न्त­मिति” स्मृतौ सर्व­भू­त­स्थ­त्वस्य तथा विवरणादिति भावः । अव­धा­न­स्वा­र­स्यात् आत्मत्वादेव इत्य­ग्रि­म­वा­क्य­ग­ते­वै­का­र­स्वा­र­स्याच्च अथवेति पक्षः ।
नन्वनन्यशेषत्वं प्रागु­प­पा­दि­त­मेव, इहापि "विधि­शे­षत्वं वा नेतुमिति भाष्येण, किमर्थं पुनरुपपाद्यते? इत्याशङ्क्य तदपौनरुक्त्याय पूर्वो­त्त­म­नु­व­दति –
औपनिषदस्येति ।
प्राग­न­न्य­शे­ष­त्व­मु­प­नि­ष­त्प्र­ति­पा­द्यत्वं च संग्रहवाक्ये यदुपन्यस्तं तत्रा­न­न्य­शे­षत्वं प्रक­र­णा­दि­वि­नि­यो­ज­का­भा­वे­नो­प­पा­दि­तम् । औपनिषदत्वं कार्य एव व्युत्पत्तिग्रह इति शङ्का­नि­रा­से­ना­वि­षये ब्रह्मणि व्युत्प­त्ति­ग्र­हा­सं­भ­व­श­ङ्का­नि­रा­सेन कर्तृ­त्वा­द्य­व­गा­ह्य­हं­प्र­त्य­य­वि­रो­ध­श­ङ्का­नि­रा­सेन चोपपादितम् । इदानीं तदनन्यशेषत्वं विधि­शे­ष­त्वा­भा­व­रू­प­तया विव­री­तु­मा­त्म­त्व­रू­प­हे­त्व­न्त­रेण चोपपादयितुमिदं भाष्यमित्यर्थः ।
अनुषङ्गेणेति ।
न शक्य इत्य­नु­ष­ङ्गे­णे­त्यर्थः । न त्वतः­श­ब्द­स्या­प्य­नु­ष­ङ्गे­णे­त्यर्थः । अतः­श­ब्दो­क्त­हेतोः पुन­र्नि­र्दे­श­रू­पस्य आत्म­त्वा­दे­वे­त्य­ग्रि­म­भा­ष्य­ग­त­हेतोः पूर्व­त्रा­प्य­न्व­यस्य टीकायां वक्ष्यमाणत्वात् । अपि च सर्वे­षा­मा­त्म­त्वा­देव न हेयो नाप्युपादेय इति टीकापाठो न व्याख्या­ना­पेक्षः ।
अपि च अत एवेति पाठेऽप्यतःशब्दः सर्वा­त्म­त्वा­दिति भाष्यो­क्त­हे­तु­प­रा­म­र्शीति व्याचष्टे –
भाष्योक्तादेव हेतोरित्यर्थ इति ।
भाष्ये अत इत्युक्तादेव हेतोरित्यर्थ इति पाठेऽ­प्य­य­मे­वार्थो भाष्ये उक्तादेव हेतोरित्यर्थ इति व्यवहितयोजनया ग्राह्यः ।
तस्मा­त्पु­रु­षा­दिति प्रतीकग्रहणे पुरुषादित्यादि श्रुतिवाक्यं, तस्मादिति भाष्यं, तस्यार्थमाह –
कल्पितस्येति ।
दृष्टो हि तस्यार्थः इति शाबरवचने तस्यशब्दार्थमाह –
वेदस्येति ।
प्रति­षि­ध्य­मा­ने­तीति ।
अथातो धर्म­जि­ज्ञा­से­त्यत्र अका­र­प्र­श्ले­षे­णा­ध­र्म­वि­चा­रोपि प्रतिज्ञात इत्यधर्मरूपं प्रति­षि­ध्य­मा­न­मपि भाष्ये कर्मशब्देन संगृहीतम् । तत्सं­ग्र­हा­र्थ­मेव धर्मशब्दमपहाय कर्म­श­ब्द­ग्र­ह­ण­मिति भावः ।
आम्नायस्येति सूत्रे (जै.अ.पा.२.१) कस्य­चि­त्प­रि­हा­रस्य अनुक्तत्वात्, अपि चेत्य­यु­क्त­मि­त्या­शङ्क्य, शाबरवचने कृतः परिहारस्तत्रापि साम्येन प्राक् सिद्ध इत्याह –
शाबरेति ।
ननु विशिष्टे पदशक्तिः नास्ति चेत्, कथ­म­न्वि­त­प­दा­र्थ­प्र­तीतिः, न हि वृत्त्यविषये शाब्दबोधो भवतीत्यत आह –
अयमभिसंधिरिति ।
अन­वि­ना­भा­वि­भि­र­पीति ।
मञ्चाः क्रोशन्तीत्यत्र हि मञ्चशब्देन मञ्चेषु शयानाः शिशवो लक्ष्यन्ते ।
अत्रोच्यत इति ।
ननु लक्ष­क­श­ब्द­वा­च्यस्य वाक्यार्थेन अन­न्व­य­नि­य­म­श­ङ्कायाः किमु­त्त­र­मि­हो­क्तम् । न च अन्वितं लक्ष्यमेव वाक्या­र्थे­ना­न्वितं भवति, न त्वविशिष्टं वाच्य­स्व­रू­प­मि­त्यु­क्त­नि­य­मा­वि­रोधो विशि­ष्ट­स्व­रू­पयोः तादात्म्यस्य कस्यापि स्वीकारादिति वाच्य­ल­क्ष्य­सं­ब­न्ध­प्र­ति­पा­द­नेन द्योतित इति वाच्यम्, विशिष्टस्य विशे­ष्य­घ­टि­त­मूर्तेः वाक्यार्थान्वये तद्धटकस्य विशेष्यस्यापि तद­न्व­या­नि­वा­र­णात् । न च विशि­ष्ट­स्व­रू­पयोः संबन्धोक्त्या स्वरूपभिन्नं तदघटितं विशि­ष्ट­म­ङ्गी­कृ­त­मिति शङ्कनीयम्; तादा­त्म्य­सं­ब­न्धस्य विशि­ष्ट­वि­शे­ष्या­नु­प्र­वे­शा­वि­रो­धि­त्वेन 'संबन्धः स्वीकृतः' इत्येतावता तद­नु­प्र­वे­श­वि­रो­धि­भे­दा­प्र­सक्तेः । अत एवाचार्यैः इहैव वक्ष्यते "भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसंभवादिति । तस्मात् वाच्या­र्था­न­न्व­य­नि­य­मा­श­ङ्कायाः परिहारो न लब्ध इति चेत्, लब्ध एव; 'वाक्या­र्थी­भा­वा­नु­प­प­त्ति­रे­वा­न्वि­त­ल­क्ष­णाया निदानम् इत्य­न्व­या­नु­प­प­त्ति­म­न­पेक्ष्य अनु­प­प­त्त्य­न्त­रस्य लक्ष­णा­बी­ज­त्व­प्र­द­र्श­नेन लक्ष्या­र्थ­ग्र­ह­ण­स­मा­धे­या­नु­प­प­त्ति­मात्रं लक्षणाबीजं, न तु वाच्यार्थस्य वाक्या­र्थेऽ­न्व­या­नु­प­प­त्ति­रेव, येन वाच्या­र्था­न­न्व­य­नि­यमः स्यात् । काकेभ्यो दधि रक्ष्य­ता­मि­त्या­द्य­ज­द्द­ल्ल­क्ष­णा­स्थले मुख्या­र्था­न्व­या­नु­प­प­त्त्य­भा­वेऽपि तात्प­र्या­नु­प­पत्तेः लक्ष­णा­बी­ज­त्वा­ङ्गी­का­रा­दिति ।
आका­ङ्क्षा­स­त्तीति ।
ननु एवं सत्य­व­श्या­पे­क्षि­ता­का­ला­दि­व­शा­देव वाक्या­र्थ­रू­पा­न्व­य­प्र­ती­त्यु­प­प­त्तेर्न तत्र लक्षणा कल्पनीया । न च प्रमा­क­र­ण­प्र­त्या­स­त्ति­म­न्त­रेण संसर्गरूपस्यापि प्रमेयस्य भानं न संभवति, प्रत्यक्षे प्रका­र­वि­शे­ष्य­यो­रिव संसर्गांशेऽपि सन्नि­क­र्षा­पे­क्षा­द­र्श­ना­दि­ति-वा­च्यम्; तथा नियमाभावात् । अनुमितिकरणे धूमे वहि­व्या­प्ति­स­त्त्व­मा­त्रेण पर्व­त­सं­ब­न्धि­व­ह्न्य­नु­मि­ति­द­र्श­नात्, पक्षधर्मताबलात् साध्यस्य पक्ष­सं­ब­न्ध­भा­न­मिति चेत्, इहा­प्या­का­ङ्क्षा­दि­ब­लात् प्रधानपदार्थे सम­भि­व्या­हृ­त­गु­णा­न्व­य­प्र­ती­ति­रस्तु इति चेत्, मैवम्; एवमपि शब्दबोध्यस्य वृत्ति­वि­ष­य­त्व­नि­य­मा­प्र­त्या­ख्या­नात्, कर­ण­प्र­त्या­स­त्ति­म­न­पे­क्ष्या­नु­मितौ भासमानस्यापि पक्ष­सा­ध्य­सं­ब­न्धस्य शब्देन बोधने कर्तव्ये पर्वतो वह्निमानिति तद­भि­धा­य­क­म­तु­प­प्र­त्य­या­पे­क्षा­द­र्श­नात् । घटः पटो न इत्य­त्रा­न्यो­न्या­भावे घटे पटो न इत्यत्र संसर्गाभावे च प्रति­यो­गि­सं­ब­न्धस्य शब्द­वृ­त्ति­वि­ष­यत्वं विनैव शाब्द­बो­ध­वि­ष­यत्वं दृष्टमिति चेद्, न । तदन्यवाचिनो नञः शक्ता­व­धि­क­र­ण­सं­ब­न्ध­स्येव तद­न्य­वा­चि­न­स्त­द­भा­व­वा­चि­नश्च नञः शक्तौ प्रति­यो­गि­सं­ब­न्ध­स्यापि शक्यत्वेन अनु­प्र­वे­श­क­ल्प­नात्, अन्याभावशब्दयोः शक्तौ तदननुप्रवेशात् । तद­र्थ­वा­चि­त्वे­ना­ङ्गी­कृ­तस्य नञः शक्तावपि न तदनुप्रवेश इत्यभ्युपगमे तयोः प्रयोगे इव नञः प्रयोगेऽपि प्रतियोगिनि पञ्चमीषष्ठ्योः नञः प्रयोग इव तयोः प्रयोगेऽपि प्रतियोगिनि प्रथमाया वा निवा­र­यि­तु­म­श­क्य­खात्॥ तस्मा­द­न्व­यां­शेऽपि वृत्तिकल्पनं युक्तमेव । न च तथापि प्राक् शक्य­सं­ब­न्धि­त्वेन अज्ञा­त­स्या­पू­र्वस्य वाक्यार्थस्य लक्ष्यत्वं न युज्यत इति वाच्यम् । प्राग­वि­ज्ञा­त­ह­रि­द्रा­ना­म­क­न­दी­वि­शे­षेण हरिद्रायां नद्यां घोषविशेष इति श्रुते वाक्ये नदी­प­द­स­म­भि­व्या­हा­रेण तदानीमेव हरिद्राशब्दस्य नदी­वि­शे­ष­श­क्ति­ग्र­ह­णेन नदीलिङ्गात् तत्संबन्धित्वेन अनुमितस्य तीरस्येव आका­ङ्क्षा­द्यु­प­स्था­पि­तस्य वाक्यार्थस्य अन्वयस्य वृत्त्यु­प­स्था­पि­त­त्व­सि­द्ध्यर्थं लक्ष्य­त्वो­प­पत्तेः ।
एक­वा­क्या­न्त­र्ग­तानां सर्वेषां पदानां इत­र­प­दा­र्था­न्वि­त­स्व­स्वा­र्थ­ल­क्ष­क­तायां वाक्या­र्था­न्व­य­भे­देन वाक्य­भे­द­मा­शङ्क्य सम­भि­व्या­हृ­त­या­व­द्गु­णा­न्वि­त­प्र­धा­न­प­दा­र्थ­रूप एक एव लक्षणीयो वाक्यार्थ इति परिहरति –
नन्वित्यादिना ।
इयं च वाक्यार्थलक्षणा सम­भि­व्या­ह­त­स­क­ल­प­द­वृत्तिः प्रधा­न­प­द­मा­त्र­वृ­त्तिर्वा इत्यन्यदेतत् ।
व्युत्प­त्ति­नि­य­म­मिति ।
प्रथमं कार्या­न्वि­त­प्र­योग एव शक्तिग्रह इति निय­म­म­भ्यु­पे­त्ये­त्यर्थः ।
एतदेव विवृणोति –
तथाहीति ।
कथमपरथेति ।
प्राथ­मि­क­व्यु­त्प­त्ति­ग्रहे कार्या­न्व­य­नि­य­म­वत् कार्यस्य प्रमा­णा­न्त­र­गृ­ही­त­त्व­नि­य­मोऽ­प्यस्ति व्युत्पित्सोः गवा­न­य­न­ब­न्ध­ना­द­र्शने व्युत्प­त्ति­ग्र­हा­सं­भ­वात् । तदन्वयो यथा व्युत्प­त्ति­ग्र­हो­पा­य­मा­त्र­तया अन्य­था­सि­द्ध­स्तत्र न शब्दार्थकोटौ अनुप्रविशति, एवं कार्या­न्व­योऽ­पी­त्यर्थः ।
अस्ति किलेति ।
नासि­का­त्र्य­म्ब­क­स्थाने निव­स­द्भि­रा­चा­र्यै­रयं ग्रन्थः कृत इति प्रसिद्धिः । अत­स्त­त्र­त्य­गि­रि­न­दी­व­न­व­र्णनं कृतम् । जटाजूटकलनाय जटाकलापबन्धाय । पाण्डुरा पटी उष्णीषरूपा । रहः तत्र नित्यसन्निहितः त्र्यम्बकदेवः ।
पचतीति ।
पाको हि पूर्वा­प­री­भू­ता­धः­स­न्ता­प­ना­दि­त­न्दु­ल­वि­क्लि­प्ति­फ­ल­प­र्य­न्त­क्रि­या­स­न्ता­न­रूपः नैकक्रियात्मकः । अतो घटा­दि­व­त्प्र­ति­क्षणं पर्या­प्त­वृ­त्तिर्न भवतीत्यर्थः ।
उत्पादनायामिति ।
उत्प­त्ता­वि­त्यर्थः । ओद­नो­त्प­त्य­नु­कू­ल­पु­रु­ष­व्या­पा­रस्य पाक­स्यै­वो­द­नो­त्पा­द­न­त्वेन तस्य तद­नु­कू­ल­त्वा­भा­वात् । यद्वा प्रज्वलनादिरूपः अग्न्या­दि­व्या­पा­रोऽपि भव­त्यो­द­नो­त्पा­दना, तदनुकूलश्च पुरुषव्यापार इति तदभिप्रायो णिचः प्रयोगः ।
प्रयत्नविषय इति ।
साध्यतयेति शेषः । उद्देश्यतया प्रय­त्न­वि­ष­य­त्वस्य घटभवनादौ फलेऽपि सत्त्वेन तद्या­वृ­त्त­त्वा­भा­वात् ।
तत्र हेतुमाहेति ।
हेतुभूतं साध्यत्वमिह चिकी­र्षा­वि­ष­यत्वं, न तु प्रय­त्न­नि­र्व­र्त्यत्वं; साध्याविशेषात् ।
ननु द्रव्यगुणयोरपि घटरूपादिकयोः कृत्य­पे­क्षो­त्प­त्ति­क­त्वात् अस्ति साध्यतया कृति­वि­ष­य­त्व­मि­त्या­शङ्क्य तत्रापि तदु­त्प­त्त्य­नु­कू­लस्य तदु­त्पा­द­ना­रू­प­द­ण्ड­च­क्रा­दि­व्या­पा­रा­नु­कू­लस्य च पुरु­ष­व्या­पा­र­स्यैव तथात्वमित्याह –
तत्रापीति ।
पदस्मारितेति ।
ननु गुरु­म­तेऽ­न्वि­ता­भि­धा­ना­ङ्गी­का­रात् कथं कार्यान्विते गृहीतशक्तिकैः पदै­र­न­न्वि­ता­र्थानां स्मारणं कथ्यते? उच्यते । शक्तिग्रहात् पूर्व तदर्था याऽन­न्वि­ता­र्थो­प­स्थितिः, साऽत्र निमित्तत्वेन विवक्षिता । उक्तं हि निब­न्ध­न­प­ञ्जि­का­या­मृ­जु­वि­म­लायां अनन्वितावस्था हि संब­न्ध­ग्र­ह­णो­पा­यतां गच्छन्ती वाक्या­र्थ­प्र­ति­पत्तौ निमित्तम् । एवं हि संबन्धग्रहणम् अयमर्थोऽनेन शब्देन आका­ङ्क्षि­त­स­न्नि­हि­त­यो­ग्या­र्था­न्त­रा­न्वितः सन्नभिधीयत इतीति ।
अत्रायमर्थ इति ।
अनन्वितावस्थस्य गवा­दे­रु­प­स्थि­ति­रुक्ता । एवं च पद­स्मा­रि­ते­त्य­नेन शक्तिग्रहणार्थं पदश्रवणसमये कार­णा­न्त­र­प्र­त्या­यि­तत्वं विवक्षितमिति न विरोधः । यद्वा कार्यसामान्ये गृहीतशक्तिकैः पदैः स्मारि­ता­स्त­स्या­म­व­स्थायां सम­भि­व्या­हृ­त­का­र्य­वि­शे­षा­न­न्वि­तार्था विवक्षिता इति न विरोधः ।
अविशेषेणेति ।
ननु अविशेषेण द्रव्य­गु­ण­भा­वा­र्थ­वा­चकाः सर्वेऽपि नियो­ग­वि­ष­य­स­म­र्पका इत्ययं प्रतिपदाधिकरण (जै. अ.२ पा. १सू.१) पूर्वपक्षः, तं वाक्यभेदतः प्रती­य­मा­न­क्रि­या­का­र­क­भा­व­रू­प­वि­नि­यो­ग­वि­रो­धेन अने­का­पू­र्वा­भ्यु­प­ग­म­गौ­र­व­प्र­स­ङ्गेन च निराकृत्य तेषु कश्चिदेव नियोग विषयसमर्पक इति निर्धारणेन तस्मिन्नधिकरणे स्थिते, तेषु भावार्थवाचकशब्द एव नियोगविषयसमर्पक इति निर्धारणार्थं हि भावार्थाधिकरणम् (जै.अ.२ पा.१ सू.१-४) । सत्यम् । इह अविशेषेणेत्यनेन द्रव्य­गु­ण­भा­वा­र्थानां त्रयाणामपि कार्य­त्व­म­वि­शि­ष्टम् इत्यनध्यवसायेन पूर्वपक्षो विवक्षितः । अन­ध्य­व­सा­य­पू­र्व­पक्ष एव निबन्धनटीकायां दर्शितः । भाष्य­ग­त­स्या­वि­शे­षे­णेति पूर्वपक्षे हेतूपन्यासस्य च अनध्यवसाय एव तात्पर्यं वर्णितम् । यद्वा विव­र­ण­टी­का­नु­सा­रेण प्रति­प­दा­धि­क­र­ण­श­री­र­मत्र लिखितम् । तन्मते हि प्रतिपदाधिकरणं कर्मैव विषयो न द्रव्यगुणाविति निर्धारणम् । भावार्थाधिकरणं तु किं कर्म नाम्ना विषयतया समर्प्यते, उत आख्यातेनेति विशे­ष­वि­चा­रार्थं; प्रति­प­दा­धि­क­र­णस्य भावार्थसूत्र (जै. अ. २ पा. १ सू. १) व्यतिरेकेण सूत्रा­न्त­रा­भा­वात्, तदेव सूत्रमिह लिखितमिति न कश्चिद्दोषः ।
भावा­र्थ­श­ब्देभ्यः एवेति ।
भावार्थशब्दा: यजत्यादिधातवः । तेभ्यो यद्यपि विष­य­मा­त्र­स्या­धि­गतिः तथापि विष­या­धी­न­प्र­ति­प­त्ति­क­त्वात् अपूर्वस्य कार्यस्य विषयवाचकेभ्य एव तस्या­प्य­धि­ग­ति­रुक्ता । एव­मे­वो­क्त­मृ­जु­वि­म­लायां "विध्यर्थो लिडादिभिः प्रत्याय्यते, तस्य च तत्प्र­ति­पा­द्य­मा­नस्य विष­या­धी­न­प्र­ति­प­त्ति­त्वात् भावार्थानां च विषयबोधकत्वात् ततोऽपूर्वं प्रतीयत इत्युच्यते, न पुनरपूर्वस्यामी भावार्था वाचकाः" इतीति॥
भावो भावनेत्यादिभ्य इति ।
भवतेः णिजन्तात् 'एरजिति सूत्रेण भाव­वा­चि­न्य­च्प्र­त्यये 'णेर­निटी'ति सूत्रेण णिलोपे कृते निष्पन्नो भावशब्दो भाव­ना­श­ब्द­प­र्यायः । ननु गुरुमते भावार्थशब्दस्य पूर्वा­प­री­भा­व­वै­शि­ष्ट्य­मर्थः । उक्तं हि निबन्धटीकायां, पूर्वापरभावे हि भावार्थत्वं भवति, भावशब्दस्य पूर्वा­प­री­भा­व­वा­चि­त्वा­दिति, सत्यम् । ण्यन्ता­द्भ­व­ते­र­ज­न्तस्य भावशब्दस्य भाव­ना­वा­चि­त्व­म­प्यु­प­प­द्यते । न च भावनाया धात्व­र्थ­त्वा­सं­भवः, कृतिसाध्यत्वेन नियोगवाचिनां लिङादीनामिव तत्संघटनार्थं तथात्वेन यागा­दि­वि­ष­य­स­म­र्प­काणां धातूनां विशे­ष­भू­त­कृ­ति­रू­प­भा­व­ना­र्थ­त्व­स्यापि सत्त्वात् ।
कर्मशब्दा इत्युक्तमिति ।
कर्मशब्दः क्रियत इत्यर्थे कृञ्धातोः औणादिके मनिन्प्रत्यये सति निष्पन्नः कृतिविषयवाची, न च कृतिः कृतिविषय इति तद्व्यावृत्तिः ।
याग इत्येवमादिभ्य इति ।
यागादिशब्दा भवन्ति वस्तुतः कृतिविषयाणां वाचका इति कर्मशब्दाः । तेभ्यो यागादीनां कृतिसाध्यत्वेन प्रती­त्य­भा­वा­दिति तद्व्यावृत्तिः ।
तेभ्योऽपूर्वं प्रतीयेत इति ।
अनेन सूत्रे क्रियाशब्दः क्रियतेऽनेनेति व्युत्पत्त्या फलकरणखेन रूपेणापूर्वपर इति दर्शितम् ।
एष हीति ।
ननु 'एष ह्यर्थो विधीयत' इति सूत्र­शे­ष­स्येत्थं गुरुमते व्याख्यानं कथम् । अपूर्वस्य कृतिसाध्यतया प्राधान्येन प्रतिपाद्यस्य फलकरणतया तच्छे­ष­त्व­मि­त्या­श­ङ्का­नि­रा­क­र­णा­र्थ­मेव हीत्या­दि­सू­त्र­शेषः । 'यजेत स्वर्गकाम' इत्या­दि­भि­र्वाक्यैः यागेन स्वर्गकामः स्वकामनाविषयं स्वर्गं साध­ये­दि­त्ये­षोऽर्थो यस्माद्विधीयते तस्मात् तेनापूर्वं कृत्वा इत्यपूर्वस्यापि फलकरणत्वेन सिद्धिर्भवति । स्वसिद्ध्यर्थ फलं साध­य­त­श्चा­पू­र्वस्य न प्राधान्यभङ्गः । 'आत्म­सि­ध्य­नु­कू­लस्य नियोज्यस्य प्रसिद्धये । कुर्व­त्स्व­र्गा­दि­क­मपि प्रधानं कार्यमेव नः॥
इति न्यायात् इति ।
सत्यम् । इहापि स एवार्थं उपन्यस्तः । अपू­र्व­ल­क्ष­णोऽर्थो विधीयत इत्यत्र करणत्वेनेति शेषाध्याहारेण सोऽर्थः स्पष्टीभवति । पशु­सो­मा­धि­क­र­ण­सू­त्रस्य द्रव्य­सं­यो­गा­च्चो­दना पशुसोमयोः (जै. अ. २ पा.२सू. १७) इत्यादेः मह­त्त्वा­दु­दा­हृ­त­सो­म­वा­क्य­मा­त्र­वि­ष­य­त्वा­भा­वाच्च तन्न लिखितम् ।
द्रव्य­दे­व­ता­ख्येति ।
ऐन्द्र­वा­य­वा­दि­वा­क्येषु गृह्णातेः सोममभिषुणोति सोमं पावयति इत्या­दि­स­न्नि­हि­त­वा­क्या­न्त­र­प्र­कृ­त­सो­म­र­स­वि­ष­य­त्वात् द्रव्यप्रतीतिः ।
इतरत्रेति ।
सोमवाक्ये देव­ता­ख्य­रू­पा­प्र­ती­ते­रि­त्यर्थः ।
समुदायानुवाद इति ।
यजि­र्या­ग­स­मु­दा­यस्य, सोम­श­ब्द­स्त­द्र­व्य­सो­म­र­स­स­मु­दा­यस्य चानुवाद इत्यर्थः । अनुवादस्य च प्रयोजनं सोमशब्दस्य तत्प्र­ख्य­न्या­येन (ज.अ. १ पा. ४ सू. ४) कर्म­ना­म­धे­य­त्व­प्राप्त्या स एष यज्ञः पञ्च­वि­धोऽ­ग्नि­होत्रं, दर्शपूर्णमासौ, चातुर्मास्यानि, पशुः, सोम इत्यादौ सोमशब्देनापि क्रतु­व्य­व­हा­र­सि­द्धि­रिति नानु­वा­द­वै­य­र्थ्यम् ।
प्रत्यक्षे यागे इति ।
ऐन्द्र­वा­य­वा­दि­वा­क्यै­र्दे­व­ता­वि­शि­ष्टेषु ग्रहणेषु चोदितेषु यागं विना ग्रहणमात्रेण द्रव्यस्य देव­ता­सं­ब­न्धा­सि­द्धे­र्या­गा­पे­क्षायां सोमेन यजे­ते­त्ये­त­त्स­र्वा­ने­तान् द्रव्य­दे­व­ता­सं­ब­न्धान् उपपादयद् यागान्तरानुमानं निरु­न्ध्या­दि­त्यर्थः । एवं चोत्प­त्ति­वा­क्य­वि­हि­तस्य लताद्रव्यस्य अभि­ष­वा­दि­वा­क्य­प­र्या­लो­च­नेन रसद्वारा, साध­न­त्व­मि­त्य­व­ग­ते­स्तस्य रस­स्ये­न्द्र­वा­य­वा­द्यु­द्दे­श्य­क­ग्र­ह­ण­सं­स्का­र­वि­धि­सा­म­र्थ्या­दु­त्प­त्ति­वा­क्य­वि­धेये यागे देवता लभ्यते । तत्त­द्दे­व­तो­द्दे­शेन गृहीतस्य रसस्य तत्तद्देवतायै त्यागाभावे ग्रहणे देव­तो­द्दे­शां­श­स्या­दृ­ष्टा­र्थ­त्वा­पत्तेः । अतो न तत्र देव­ता­ख्य­रू­पाऽ­ला­भ­दोषः ।
अरूपत्वादिति ।
रूपशब्दो न द्रव्य­दे­व­ता­मा­त्र­परः, किन्तु सान्त­त्या­दि­सा­धा­र­ण्यार्थं गुणसामान्यपरः ।
नह्यत्रेति ।
'दध्ना जुहोति' 'पयसा जुहोति' 'तण्डुलैः जुहो­ती'त्या­दि­वा­क्य­वि­हि­तानां होमानां, 'सन्त­त­मा­घा­र­यति' 'ऊर्ध्व­मा­घा­र­यति' 'ऋजु­मा­घा­र­य­ती'त्या­दि­वा­क्य­वि­हि­ता­ना­मा­घा­राणां च यानि रूपाणि दध्यादीनि सान्तत्यादीनि च तेभ्योऽ­न्य­दु­प­दि­ष्ट­म­ति­दिष्टं वा रूपं नास्ति । तेषां च कर्मा­न्त­र­गु­णानां नान्यत्रान्वयः संभवतीत्यर्थः । ननु सान्त­त्या­दि­वा­क्यानि होमा­घा­र­वि­धा­य­का­नीति सिद्धान्ती न मन्यते, किंतु अग्नि­हो­त्रा­घा­र­वा­क्य­वि­हि­त­हो­मा­घा­रा­नु­वा­देन गुण­वि­धा­य­का­नी­त्येव मन्यते, तं प्रति कथं तद्वि­हि­त­हो­मा­घा­रेभ्य इति सिद्धवत्कृत्य कथनम्? उच्यते; अग्नि­हो­त्रा­घा­र­वा­क्याभ्यां होमा­घा­र­यो­र्वि­धा­न­मेव न संभवति; होम­क्षा­र­ण­सा­मा­न्ययोः होमा­न्त­र­क्षा­र­णा­न्त­र­वि­धि­सि­द्ध­त्वेन विशेषोपस्थितिं विना अननुष्ठेयत्वेन च विधानायोगात्, तद्विशेषयोश्च विशे­ष­क­रू­पा­श्र­व­णे­ना­प्र­तीतेः । न च नामनी विशेषके स्यातामिति वाच्यम्; विशे­ष­का­न्त­रा­नु­प­स्थितौ कयोः होम­क्षा­र­ण­वि­शे­ष­यो­रेते नामनी इति बोद्धुमशक्यखात् । न च 'उद्भिदा यजेत पशुकाम' इत्यत्र नामैव विशेषकं दृष्टमिति शङ्कनीयम्, पशुफलेन प्रकृ­ति­व­च्छ­ब्द­स­न्नि­धा­पि­त­सौ­मि­का­ङ्ग­जा­तेन च लब्धविशेषे एवो­द्भि­न्ना­म­प्र­वृत्तेः । न च दधि सान्त­त्या­दि­गु­णै­रेव विशेषलाभः । तथा सति गुण­वि­धि­प्र­वृ­त्त्य­न­न्तरं होमा­घा­र­वि­शे­ष­विधी, तयोः विधाने सति तदनुवादेन गुणविधानमिति पर­स्प­रा­श्र­या­पत्तेः । तस्माद् विशेषकसद्भावाद् दधि­सा­न्त­त्या­दि­स­गु­ण­वा­क्ये­ष्वेव होम­वि­शे­षा­णा­मा­घा­र­वि­शे­षाणां च विधानम् । निर्गुणवाक्ये तद­नु­वा­द­केऽ­नु­वा­द­प्र­यो­ज­न­म­ग्नि­हो­त्रा­घा­र­नाम्नोः सन्नि­हि­त­स­र्व­हो­मा­घा­र­ना­म­त्व­सिद्ध्या अग्निहोत्रं जुहुयात् स्वर्गकाम इति फलवाक्येन सर्वेषां होमानां फलसंबन्धसिद्धिः । इन्द्र ऊर्ध्वोऽध्वर इत्या­घा­र­मा­घा­र­य­तीति गुणवाक्येन सर्वे­षा­मा­घा­राणां मन्त्र­सं­ब­न्ध­सि­द्धि­श्चेति पूर्वपक्षाशयः ।
अनु­ष्ठ­या­र्थ­प्र­ती­ते­रिति ।
विशे­ष­का­श्र­व­णेऽ­प्य­नु­ष्ठा­प­क­वि­धि­सा­म­र्थ्या­दे­वा­नु­ष्ठेयः कश्चन होमविशेष आघा­र­ण­वि­शे­ष­श्चात्र विवक्षित इति ज्ञायते । अतस्तयोः विधानं नाम­वि­शे­षो­प­ब­न्ध­श्चे­त्यु­भ­य­मु­प­प­द्यते । समुदायानुवादश्च निष्फलः । राजसूयनाम्नः इव फल­वा­क्य­ग­त­स्यै­वा­ग्नि­हो­त्र­नाम्नः गुणवाक्यगतस्यैव चाघारनाम्नः सन्नि­हि­त­स­र्व­धा­त्व­र्थ­प­र­त्वो­प­प­त्ते­रिति भावः ।
गुण­वि­धा­ना­र्थ­त्वा­दिति ।
गुण­वि­शि­ष्ट­क­र्म­वि­धाने च दध्या­दि­वा­क्य­वि­हि­त­हो­मानां न देवतालाभः; 'यदग्नये च प्रजापतये च सायं जुहोति' 'यत्सू­र्याय प्रजापतये च प्रातर्जुहोती ति वाक्य­वि­हि­त­हो­म­योर्न द्रव्यलाभः, तयोरपि दध्या­दि­वा­क्या­वि­शे­षेण पूर्वपक्षे होमा­न्त­र­वि­धा­य­क­त्वस्य वक्त­व्य­त्वा­दि­त्या­द्यपि दूषणं द्रष्टव्यम्॥ पदान्तरे - गुणवाचिनि, न तु नामधेयरूपेऽपि । अत्र विधिशक्तेः गुणसंक्रमणेन धातो­र­नु­वा­द­तो­क्ति­स्ता­त्प­र्य­प­र्य­व­सा­न­वि­ष­या­र्था­भि­प्राया, न तु शब्द­वृ­त्ति­बो­ध्या­भि­प्राया; द्रव्यगुणयोः स्वतः सिद्धतया धावानुवादेन तन्मा­त्र­वि­धा­ना­सं­भ­वात् । उक्तं हि आधा­रा­ग्नि­हो­त्रा­धि­क­रण (जै.अ.२ पा. २ सू. १३-१६)वार्तिके सर्वत्रैव च विशि­ष्ट­वि­धा­नो­त्त­र­कालं कि प्राप्तं किमप्राप्तम् इत्यन्वेषणायाम् अप्रा­प्त­मा­त्र­वि­ष­यो­प­सं­हा­रात् विधेः भाव­ना­धा­त्व­र्थ­यो­र­नु­वाद इत्यभिधीयते, नत्वादित एव तावनूद्य द्रव्यं गुणो वा विधीयते; तत्र पश्चात्तने व्यापारे मन्द­बु­द्धि­प्र­ति­प­त्त्यर्थं स्थूलेन न्यायेन कथ्यमाने शास्त्रकृता एवैता वचनव्यक्तय इति भ्रान्तिरिति॥ इहापि टीकायां तथैवोक्तम् । न चैवं गुण­मा­त्र­वि­धा­न­फ­ल­क­वा­क्ये­ष्वपि विशि­ष्ट­वि­ध्य­भ्यु­प­गमे प्राप्ते कर्मणि अने­क­गु­ण­वि­धा­न­प्र­युक्तो वाक्यभेदो न स्यात्, प्रत्येकं गुणेषु विध्यनवतारादिति वाच्यम्; शब्द­बो­ध्य­स्या­र्थस्य विशि­ष्ट­रू­पे­णै­क्येऽपि तत्र तात्प­र्य­वि­ष­या­र्थ­भे­द­स­द्धा­वेन तदभिप्रायत्वात् अने­क­गु­ण­वि­धा­न­प्र­यु­क्त­वा­क्य­भे­द­व­र्ण­नस्य । तदप्युक्तं वार्तिके 'विधित्वे भावनास्थेऽपि तादर्थ्यं प्रविभज्यते । विशेषणफले चास्मिन् वाक्यभेदो भविष्यति॥' इति । शब्द­बो­ध्या­र्थ­भेद इव तात्प­र्य­वि­ष­या­र्थ­भे­देऽपि ह्यविशिष्टं गौरवम् । मीमांसकैकदेशिनः गुरुमते निब­न्ध­न­प्र­स्था­ना­नु­व­र्तिनः ।
नन्व­व्या­पा­रोऽ­पीति ।
होमसाधनस्य दध्यादेः होमद्वाराऽपि साध्य­वा­सं­भ­वान्मा भूद्विषयत्वं, द्रव्य­दे­व­ता­सं­ब­न्धस्य तु स्यात् । तस्य यागद्वारा साध्यत्वात्, किंचिद्वारा साध्यमपि हि साध्यमेव; अत एव हस्ता­दि­व्या­पा­र­द्वारा घटस्य कृतिसाध्यत्वात् घटं करोतीति द्वितीयानिर्देश इति भावः ।
उद्देश्यतयेति ।
घटो­त्प­त्ति­मु­द्दिश्य हस्तादिव्यापारं कुर्वन् घटं करोतीत्युच्यते, घट­स्था­प्यु­द्दे­श्य­तया कृति­वि­ष­य­त्वा­दि­त्यर्थः ।
लक्ष्यनिर्देश इति ।
आक्षेप्यस्यापि शाब्द­त्व­सि­द्ध्यर्थं लक्ष्यतोक्तिः । ध्रौवाज्यस्य "सर्वस्मै वा एतद्यज्ञाय गृह्यते यद् ध्रुवा­या­मा­ज्यम्" इत्युत्सर्गतः सर्व­य­ज्ञा­र्थ­त्वेन विहितस्य ।
वृत्र­घ्न­न­प­द­व­त्या­विति ।
वृत्र­ह­न­न­प्र­का­श­क­प­द­व­त्या­वि­त्यर्थः । "अग्नि­व­त्राणि जङ्घनत्" "त्वं राजोत वृत्र­हे­त्यग्नेः, सोमस्य च मन्त्र­यो­र्वृ­त्र­घ्न­प­दा­भा­वात् ।
वृध­न्व­त्प­द­व­त्या­विति ।
वृद्धि­प्र­का­श­क­प­द­व­त्या­वि­त्यर्थः । "कवि­र्वि­प्रेण वावृधे” "वर्धयामो वचोविदः" इति मन्त्रयो- वृध­न्व­त्प­दा­भा­वात् ।
प्रक्रियत इति ।
सूत्रे प्रकरणशब्दः कर्मणि व्युत्पन्नः, तत्रै­क­व­च­न­म­वि­व­क्षि­तम् । पौर्णमासीशब्दो विद्व­द्वा­क्य­द्व­यो­प­ल­क्ष­णम् । आल­म्ब­न­श­ब्द­स्या­ध्या­हार इति दर्शितम् ।
अविरोधादिति ।
पौर्ण­मा­स्य­मा­वा­स्या­श­ब्दयोः कालवाचित्वमादाय क्रमाविरोधे शक्योपपादने न तद्वि­रो­धि­क­र्म­वि­शे­ष­प­र­त्वम् अङ्गीकार्यम् । तदङ्गीकारेऽत्र विद्व­द्वा­क्य­वि­धे­य­त्वे­ना­भ्यु­प­ग­तयोः पौर्ण­मा­स्य­मा­वा­स्या­सं­ज्ञ­कयोः कर्मणोः पृथ­क्पृ­थ­ग­ग्नि­प्र­का­श­क­सो­म­प्र­का­श­क­म­न्त्र­द्व­य­म­नू­च्येत इत्य­नु­वा­क्य­त्वेन विहितं स्यादिति मन्त्रविकल्पः तत्प्र­का­श्य­दे­व­ता­वि­क­ल्पश्च भवेत्, आज्यभागयोः पुरो­नु­वा­क्या­न्त­र­क­ल्प­ना­गौ­रवं च भवेदिति भावः । बल­व­द­पी­त्य­पि­श­ब्दे­ना­भ्यु­प­ग­म­वादं सूचयता क्रम एव लिङ्ग­सा­हि­त्ये­नात्र वाक्यात् बलीयान् । अग्नेः सोमस्य च प्रागे­वा­ज्य­भा­गयोः देवतात्वेन क्लृप्ततया तदु­भ­य­प्र­का­शि­कानां वार्त्र­घ्नी­वृ­ध­न्व­तीनां तयोः विनियोजकस्य लिङ्गस्यापि सद्भावादित्यपि व्यजितम् ।
काले हीति ।
विद्व­द्वा­क्य­वि­धे­य­पौ­र्ण­मा­स्य­मा­वा­स्या­सं­ज्ञ­क­क­र्म­द्व­या­भ्यु­प­गमे तयोः संज्ञयोः कालयोगेन निमित्तेन लक्षणैव वाच्या, न त्वपूर्वा रूढिः कल्पनीया; "पौर्ण­मास्यां पौर्णमास्या यजेत'' "अमा­वा­स्या­याम् अमावास्यया यजेतेति" वाक्ययोरपि तत्रैव कर्मद्वये काल­वि­धा­य­क­त्व­प्राप्तेः । एवं च वार्त्र­घ्नी­वृ­ध­न्व­ती­वा­क्य­द्व­य­श्रु­तयोः पौर्ण­मा­स्य­मा­वा­स्या­श­ब्दयोः मुख्य­वृ­त्ति­सं­भवे लक्षणा नाश्रयणीयेति भावः । यद्युच्यते आज्यभागयोः कालयोगाश्रवणात् प्रधानद्वारा कालयोगाश्रवणे विकृतिषु "यदीष्ट्या यदि पशुना यदि सोमेन यजे­ता­मा­वा­स्यायां पौर्णमास्यां वा यजेत" इति काल­वि­क­ल्प­वि­धा­नात् पौर्ण­मा­सी­का­लो­पां­शु­या­जा­ग्नी­षो­मी­य­वि­कारो यदाऽमावास्यायां क्रियते, अमा­वा­स्या­का­ल­सा­ना­य्यै­न्द्रा­म­वि­कारो वा पौर्णमास्या, तदा पौर्ण­मा­सी­का­ल­प्र­धा­ना­ङ्गयोः आज्यभागयोः वृध­न्व­ती­प्राप्तेः अमा­वा­स्या­का­ल­प्र­धा­ना­ङ्गयोः वार्त्र­घ्नी­प्राप्तेः प्रकृ­ति­व­द्भा­व­बाधः स्यात् । अतस्तदबाधाय पौर्ण­मा­स्या­ख्य­क­र्मा­ङ्गयोः वार्त्रघ्न्यौ, अमा­वा­स्या­ख्य­क­र्मा­ङ्गयोः वृधन्वत्याविति वार्त्र­घ्न्या­दि­वा­क्य­द्व­यस्य आज्य­भा­ग­वि­ष­य­त्वेऽपि कर्म­ल­क्ष­णा­श्र­य­णी­येति, तथापि क्रमा­वि­रो­धा­दि­पू­र्वो­क्त­न्यायैः आज्य­भा­ग­वि­ष­य­त­यै­वा­व­ति­ष्ठत इति द्रष्टव्यम् ।
द्वित्वो­प­पा­द­न­मिति ।
"दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेते"ति फल­वा­क्य­ग­ता­ग्ने­या­दि­त्रि­क­द्व­य­रू­प­स­मु­दा­य­द्व­यो­प­पा­दनं विद्व­द्वा­क्य­द्व­येन समु­दा­य­द्व­य­क­र­णस्य प्रयोजनम्; तदुपपादनाभावे आग्नेयादीनां षण्णामिव प्रयाजादीनामपि फलसंबन्धेन अङ्ग­प्र­धा­न­व्य­वस्था न सिध्येत् । तथाहि अप्रसिद्धार्थं नामा­ख्या­त­प­र­त­न्त्र­मा­ख्यातं स्वरसतो यावद् गृह्णाति तावति वर्तते; यथा बहू­ना­मि­ष्टि­प­शु­सो­म­या­गानां सन्निधौ पठिते "राजा स्वाराज्यकामो राजसूयेन यजेते"ति वाक्ये श्रुतमाख्यातं विशेषकाभावात् सन्नि­धि­प­ठि­त­स­र्व­या­ग­ग्रा­हीति तत्स­म­भि­व्या­हृ­तम् अप्रसिद्धार्थं राजसूयनामापि तावद्यागवृत्ति । अत एवे­ष्टि­प­शु­सो­मा­त्मकाः सर्वे यागा राजसूये समप्रधानभूताः, प्रसिद्धार्थं तु नाम नाख्या­त­प­र­तन्त्रं, किं त्वाख्यातमेव तत्प­र­त­न्त्र­मि­त्या­ख्या­त­मपि स्वगृ­ही­ता­र्थ­मात्रे व्यवस्थापयति । यथा "ज्योति­ष्टो­मेन स्वर्गकामो यजेते"ति वाक्ये श्रुतं नाम "त्रिवृ­त्प­ञ्च­दशः सप्तदश एकविंशः एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा" इत्य­र्थ­वा­दो­प­द­र्शि­त­ज्यो­ति­र्ना­म­क­त्रि­वृ­दा­दि­स्तो­म­च­तु­ष्ट­य­सं­ब­न्ध­नि­मि­त्तकं, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्र­मु­पा­कु­र्या­दिति वाक्येन तत्संबन्धितया प्रसिद्धे सोमयागे वर्तते इत्याख्यातमपि तन्मात्रे वर्तयति । अत एव सोमयाग एव प्रधानभूतः, तत्सन्निधिपठिता इष्टि­प­श­व­स्त­द­ङ्गानि । एवं स्थिते यद्याग्नेयादिषु षट्सु समुदायद्वयं प्रागेव प्रसिद्धं न स्यात्, तदा फलवाक्यगतं दर्श­पू­र्ण­मा­सा­भ्या­मिति पदम् अप्रसिद्धार्थम् आख्यातपरतत्रं सत् सन्नि­हि­त­स­र्व­या­गा­नु­व­च­न­स्व­र­स­प्र­वृ­त्ता­ख्या­ता­नु­सा­रेण राजसूयनामवत् सन्नि­हि­त­स­र्व­या­ग­नाम स्याद्, द्विवचनं छान्दसेन वच­न­व्य­त्य­ये­नो­प­प­द्येत, द्विव­च­ना­न्त­प्र­ति­रू­प­क­म­व्य­य­मिति वा कल्प्येत । न हि कालयोगिषु प्राक्सि­द्ध­स­मु­दा­य­द्व­या­भावे दर्शपूर्णमासनाम द्विवचनान्तं प्रसिद्धार्थं भवेत्; येषा­मा­ग्ने­या­दी­ना­मु­त्प­त्ति­वा­क्या­व­गतः कालयोगोऽस्ति; तेषां द्वित्व­प्र­सि­द्ध्य­भा­वात्, ययोराज्यभागयोः द्वित्व­प्र­सि­द्धि­रस्ति तयोः काल­यो­गा­व­ग­त्य­भा­वात्; तस्मा­द­व­ग­त­का­ल­यो­गे­ष्वा­ग्ने­या­दिषु द्वित्व­प्र­सि­द्ध्यर्थं समुदायद्वयकरणं सप्रयोजनम् । तथा सति ह्याग्ने­या­दी­ना­मेव प्रसिद्धार्थेन नाम्नोपात्तानां फलसंबन्धेन प्राधान्यं, प्रयाजादीनां तदङ्गतेति व्यवस्था सिध्यति । ननु फलवाक्यस्थस्य द्विव­च­ना­न्त­नाम्नः षट्स्विव विद्व­द्वा­क्य­स्थ­यो­रे­क­व­च­ना­न्त­नाम्नोः त्रिषु त्रिष्व­न­न्वि­ता­र्थ­त्वेन अप्र­सि­द्धा­र्थ­तया यज­ति­पा­र­त­न्त्र्याऽ­वि­शे­षात् अनयोरपि सन्नि­हि­त­स­र्व­या­गा­नु­व­त­द­न­स्व­र­स­य­ज­त्य­नु­रो­धेन ताव­न्ना­म­त्व­प्र­सक्तिः अपरिहार्या यद्युच्येत, तथा सति पौर्ण­मा­सी­त्य­मा­वा­स्येति च विद्वद्वाक्ययोः नामपृथक्त्वं नोपपद्यते; अतस्तदेव पर­स्प­र­व्या­वृ­त्त­नाम्नि व्यवस्थां गमयतीति तद्व्य­व­स्था­सि­द्धये तत्त­त्का­ल­यो­गि­ष्वेव यागेषु तयोः प्रवृत्तिः कल्पनीयेति, एवं तर्हीयं युक्तिः विद्व­द्वा­क्य­द्व­येन समु­दा­य­द्व­य­सं­पा­द­न­म­न­पेक्ष्य दर्श­पू­र्ण­मा­सा­भ्या­मिति शब्द एव योजयितुं शक्यते । तत्रैव चेयं युक्ति:-द­र्श­पू­र्ण­मा­स­यो­रि­ज्या­प्रा­धा­न्य­म­वि­शे­षात् (जै. अ. ४ पा. ४ सू. २९) इति चतु­र्थो­पा­न्त्या­धि­क­रणे पृथक्त्वेन त्वभि­धा­न­यो­र्नि­वेशः (जै. अ. ४ पा. ४ सू. ३५) इति सिद्धा­न्त­सू­त्रा­व­य­वेन केषु­चि­दि­त्य­ध्या­हा­र­वता दर्शिता । तस्य ह्ययमर्थः, दर्श­पू­र्ण­मा­सा­भ्या­मिति द्विवचनश्रुत्या दर्शाभिधानस्य, पूर्ण­मा­स­श­ब्द­वा­च्यात् पूर्णमासशब्दस्य च दर्शा­भि­धा­न­वा­च्यात् पृथक्त्वेन निवेशः प्रतीयते, अतः प्रकृ­त­या­ग­मा­त्र­वा­चित्वे पृथक्त्वायोगात् केषुचिदेव यागेषु निवेशो युक्त इति । एवं तर्हि समु­दा­य­द्व­य­प्र­सि­द्ध्यर्थं विद्व­द्वा­क्या­नु­स­र­णेऽपि उक्त­यु­क्त्य­न्वे­षणे यथासूत्रं फलवाक्य एवे­य­म­न्वि­ष्य­ताम् । अथोच्येत द्विवचनश्रवणं छान्दसत्वादिना नेतुं शक्यमिति विद्वद्वाक्ययोः नामद्वयश्रवणमपि सर्वेषां सन्निहितयागानां नाम­द्व­या­भ्यु­प­ग­मेन नेतुं शक्यमिति तुल्यमिति चेत्, उच्यते; तैत्ति­री­य­शा­खायां "य एवं विद्वा­न्पौ­र्ण­मासीं यजते याव­दु­क्थ्ये­नो­पा­प्नोति ताव­दु­पा­प्नोति" "य एवं विद्वा­न­मा­वास्यां यजते याव­द­ति­रा­त्रे­णो­पा­प्नोति ताव­दु­पा­प्नोती"ति विद्व­द्वा­क्या­म्ना­तयोः पौर्ण­मा­स्य­मा­वा­स्ययोः व्यव­स्थि­त­फ­ला­र्थ­वादः श्रूयते, स तन्नाम्नोः नामिभेदाभावे नोपपद्यत इति स्पष्ट नामिभेदः प्रतीयते, अतो विद्व­द्वा­क्याभ्यां समु­दा­य­द्व­य­सि­द्धि­रा­श्रिता । एवं च फलवाक्ये एव समु­दा­य­द्व­य­सं­पा­दनं, ततः समु­दा­या­न्त­र्ग­तानां समुदायिनां फलसंबन्धबोधनं चेति प्रति­प­त्ति­गौ­र­व­मपि परिहृतं भवति । तस्माद्युक्तं विद्वद्वाक्ययोः प्रयोजनकथनम् ।
अवि­सं­वा­दा­र्थ­मिति ।
उत्पत्तिवाक्येन यस्ये­ष्ट­सा­मान्ये करणत्वं बोधितं, तस्यैव अधिकारवाक्येन आका­ङ्क्षि­ते­ष्ट­वि­शे­ष­क­र­ण­त्व­बो­ध­नायां संवादो भवति । उत्पत्तिवाक्येन यत्र फले द्रव्य­दे­व­ता­सं­ब­न्धस्य करणत्वं बोधितं, तत्रैव फले परित्यज्य तदाक्षिप्तस्य यागस्य करणबोधने तु तयोर्विसंवादः स्यादित्यर्थः ।
नामधात्वर्थेति ।
नामयोगे पर्युदासतायां तद­न्य­त­द्वि­रो­ध्य­न्य­त­र­त्व­रू­पा­याम् अब्रा­ह्म­णाऽ­ध­र्मा­द्यु­दा­ह­र­णम्, धात्वर्थयोगे तु नेक्षेतेति प्रद­र्श­यि­ष्य­मा­ण­मु­दा­ह­र­णम् ।
तत्रा­प्र­ती­तोऽ­पीति ।
प्रधा­न­भू­ता­ख्या­ता­न्व­यिना नञा प्रती­तोऽ­प्या­ख्या­ता­र्थस्य कर्त­व्य­त्व­स्या­भा­वोऽ­न­नु­ष्ठे­य­त्वात् त्यज्यत इत्यर्थः ।
लक्षणीय इति ।
नञी­क्ष­ति­धा­तु­भ्या­मिति शेषः ।
सर्वक्रियेति ।
सर्वा हि पुरुषस्य क्रिया संक­ल्प­पू­र्वि­केति तस्य तत्प्र­त्या­सत्तिः ।
ननु धातु­र्ल­क्ष­क­श्चेद् धात्वर्थसंकल्प एव किमिति न लक्ष्यत इत्याशंक्य नञा योगात् इत्याह –
ईक्षतीति ।
संकोचकमिति ।
हन्यादिति प्रकृ­ति­वि­शि­ष्ट­प्र­त्य­या­न्व­य­स्व­र­सस्य नञः प्रधानं प्रत्ययं परित्यज्य प्रकृ­ति­मा­त्रा­न्व­य­रूपं संकोचापादकं नास्तीत्यर्थः ।
शाखा­चं­क्र­म­नि­रा­सा­र्थ­मिति ।
विधा­र­क­प्र­य­त्न­वि­धि­पक्षे स्थिर­श­ङ्का­योग्ये लक्षणाप्रसङ्गेन दूषिते तदपहाय तर्हि न हन्यादित्यत्र श्रुत­धा­तु­न­ञ­र्थ­मध्य एव किंचि­द्वि­धे­य­मस्तु इत्युत्तानधीः शङ्केत, तन्मा भूदित्येतदर्थं तदपि पक्षद्वयं विक­ल्प­मु­खे­नो­द्भाव्य दूषितमित्यर्थः । ननु नञर्थविधिपक्षो विधा­र­क­प्र­य­त्न­वि­धि­प­क्षा­दपि स्थिर­श­ङ्का­योग्यः । तथाहि न हन्यादित्यत्र नञः सन्निधानात् धात्वर्थेन हननेनान्वय इति तस्य हननाभावोऽर्थः, स च प्राग­भा­व­रू­पोऽ­ना­दि­रपि हन­न­चि­की­र्षो­द्य­प­न­य­द्वारा परिपाल्यत्वेन साध्यः, अतः स एव नियो­ग­वि­ष­योऽ­स्त्विति स्थिरैव शङ्का । न चैषा हननाभावस्य स्वतः­सि­द्ध­त्व­हे­तुना निराकर्तुमपि शक्या; स्वतः­सि­द्ध­स्यापि तस्य परिपाल्यखेन साध्यताया भाष्य­टी­क­यो­र­नु­प­द­मेव वर्ण­यि­ष्य­मा­ण­त्वात् । किञ्च गुरुमते न हन्या­दि­त्या­दि­नि­षे­ध­वा­क्येषु हननाद्यभावो नियोगविषय इत्येव सिद्धान्तः । तन्मते हि प्रति­षे­धे­ष्व­क­र्म­त्वात् (जै. अ.६ पा.२सू.१९) इति षष्ठा­ध्या­य­ग­ता­धि­क­रणे 'न कलञ्जं भक्ष­ये­दि­त्या­दिषु चतु­र्थ­ग­त­प्र­जा­प­ति­व्र­ता­धि­क­रण (जै. अ.४ पा.१ सू. ३-६) न्यायेन अभक्षणसंकल्पो विधिविषय इति पूर्वपक्षे प्राप्ते, श्रुत­भ­क्ष­णा­द्य­भा­वा­त्म­कस्य औदासीन्यस्यैव स्वतः­सि­द्ध­स्यापि प्रस­क्त­चि­की­र्षा­द्य­प­न­य­द्वारा साध्यत्वेन नियो­ग­वि­ष­य­त्व­सं­भ­वान्न लक्षणया भक्ष­णा­दि­सं­क­ल्पस्य तथा­त्व­म­ङ्गी­कर्तुं युक्तमिति सिद्धान्तः । इत्थंभूतः पक्षः कथं शङ्का­यो­ग्य­त्वे­नापि नेक्षितः, उच्यते; हन्या­द्भ­क्ष­ये­दि­त्या­दि­पदं परिपूर्णं हि नञा संबध्यते, न पदैकदेशभूतं धातुमात्रम्, अतो धात्व­र्थ­वि­शि­ष्टस्य प्रत्य­या­र्थ­स्या­भावो लभ्यते, नोपसर्जनस्य धात्व­र्थ­स्या­भावः । एवं च नञर्थस्य प्रधा­न­सं­ब­न्धोऽपि भवति । गुणसंबन्धो हि गुणानां च परा­र्थ­त्वा­द­सं­बन्धः समत्वात्स्यात् (जै. अ. ३ पा. १ सू. २२) इति न्यायविरुद्धः । एवं च प्रत्य­या­र्थ­स्या­भाव एव वाक्यार्थे स्थिते कोत्र विधिरस्तीति तं प्रत्यप्रतीतो हननाद्यभावो विषय इत्युपपाद्यते । यद्युच्येत व्युत्पत्या न्यायेन च प्राप्तोऽपि नञः आख्यातान्वयो न संभवति; राग­प्रा­प्त­ह­न­ना­दि­वि­ष­यस्य नियो­ग­स्या­प्र­सत्या तद­भा­व­बो­ध­ना­सं­भ­वात्, अतस्तस्य विशे­ष्य­म­ति­लङ्घ्य तद्वि­शे­ष­ण­धा­त्व­र्था­न्वय इष्यत इति, एवमपि हननाद्यभावो विषयो न लभ्यते; नामार्थान्वयिन इव धात्व­र्था­न्व­यि­नोऽपि नञः पर्यु­दा­सा­र्थ­त्व­नि­य­मेन प्रति­षे­धा­र्थ­त्वा­सं­भ­वात् । यथाहुः, 'नाम­धा­त्व­र्थ­योगे तु नैव नञ् प्रतिषेधकः । वद­त्य­ब्रा­ह्म­णाऽ­ध­र्मा­व­न्य­मा­त्र­वि­रो­धिनौ॥' इति । एवं च धात्वर्थान्वयेन नञः पर्यु­दा­सा­र्थ­कत्वे सति हननादिविरोधी विधारकप्रयत्नो विषयो भवेदिति तृतीयपक्ष एवान्तर्भवेत् । यथाकथंचिद् नञो हन­ना­भा­वा­द्य­र्थ­त्व­स­म­र्थ­नेऽपि तस्य साक्षा­त्कृ­ति­सा­ध्य­त्वा­भा­वात् तद­व­स्थि­ति­मु­द्दिश्य कर्त­व्य­स्त­दा­क्षेप्यो विधारकप्रयत्न एव यदाग्नेयवाक्ये श्रुत­द्र­व्य­दे­व­ता­सं­ब­न्धा­क्षेप्यो याग इव विधेयः स्यादिति तृती­य­प­क्षा­न्त­र्भा­व­दोषो नातिवर्तते । एवं हननाद्यभावस्य विधेयत्वासंभव आचा­र्यै­र्ना­म­धा­त्व­र्थ­योगे हि नञः पर्यु­दा­स­ते­त्युक्त्या यदाग्नेयवाक्ये श्रुत­द्र­व्य­दे­व­ता­सं­ब­न्धा­क्षे­प्यस्य यागस्यैव विधिरिति समर्थनेन च सिद्धः । अतो नञ­र्थ­वि­धि­वि­क­ल्पोत्र आख्या­ता­र्था­भा­व­वि­षयः पर्यवस्यतीति तस्या­पु­रु­ष­त­न्त्रस्य स्वतःसिद्धतया प्राप्तत्वादिति टीकायां दोष उक्तः । तत्र चौदा­सी­न्य­रू­प­स्ये­त्ये­त­द­भा­व­रू­प­त्वा­भि­प्रा­यम् । यद्वा यथा पुरु­ष­स्या­नी­प्सि­ते­ष्वौ­दा­सीन्यं स्वतः­सि­द्ध­मे­व­म­य­मपि नञर्थ इत्यौ­दा­सी­न्य­सा­दृ­श्या­भि­प्रा­य­मिति सर्वमनवद्यम् । ननु नार्थ­श्चे­त्या­दिना अभा­व­श्चे­त्या­दि­टी­का­व­ता­रि­का­ग्र­न्थेन स्वमते हन­ना­भा­व­म­र्थ­म­ङ्गी­कृत्य तथात्वे न हन्यादित्यस्य हननं नास्तीत्यतो विशेषो न स्यादिति शङ्का-त­द­व­ता­रि­त­व्या­ख्या­ग्र­न्थेन । न हन्यादित्यस्य प्रतियोगिनो लिङा कर्तव्यतया प्रती­ते­स्त­द­भा­वेऽपि प्रति­यो­गि­च्छा­या­नु­पा­तिनि कर्त­व्य­ता­भ्र­मा­वि­शेष इति परि­हा­रा­भि­प्रा­य­क­थनं च न युक्तम् । न हि स्वमते न हन्यादित्यत्र हननाभावो वाक्यार्थः, किन्तु हन­न­क­र्त­व्य­त्वा­भावः, स च हननस्य बल­व­द­नि­ष्टा­नु­ब­न्धि­त्व­प­र्य­व­सायी; तथाऽनुपदमेव टीका­का­रै­रा­चा­र्यश्च वक्ष्य­मा­ण­त्वात्, किन्तु टीकाग्रन्थे इत्थमवतारयितुं युक्तः । ननु हननाभावो न विधेयश्चेत् कथं न हन्यादित्यत्र हननाभावः कर्त­व्य­त­यो­च्यत' इति प्रतिभातीति, परि­हा­रा­भि­प्रा­य­श्चेत्थं वर्णनीयः, न हन्या­दि­त्य­व्य­व­धा­नाद् नञो धात्वर्थान्वयेन हननाभावोऽर्थ इति कश्चन भ्रमः, ततः प्रति­यो­गि­च्छा­या­नु­पा­तिनि तस्मिन् कर्तव्यतोच्यत इति कश्चन भ्रमः, एवं भ्रमद्वयावलम्बन एव केषांचिद् हननाभावस्य विधेयत्वेन व्यवहार इति । सत्यम्, टीका­ग्र­न्थ­स्यै­व­मर्थः स्पष्ट इति प्रौढ्या­र्था­न्त­र­मपि दर्शितम् ।
कर्त­व्य­त्वा­भा­व­बो­ध­स्येति ।
कर्त­व्य­त्व­वि­शि­ष्टे­ष्ट­सा­ध­न­ला­भा­व­बो­ध­स्ये­त्यर्थः । इष्टसाधनत्वाभाव एव हि नञर्थ इति वक्ष्यते ।
इष्ट­सा­ध­न­त्व­प्र­यु­क्त­क­र्त­व्य­ताया इति ।
इष्ट­सा­ध­न­त्वा­व­ग­ति­का­र्य­प्र­वृ­त्ते­रि­त्यर्थः ।
शब्दादीनामिति ।
विधिनिषेधात्मकः शब्द एव पुरुषस्य प्रवृत्तिं निवृत्तिं च भावयन् शब्द­भा­व­ने­त्यु­च्यत इति लिङादियुक्तेषु वाक्येषु द्वे भावने अवगम्येते शब्दात्मिका चार्थात्मिका चेति यथा­श्रु­त­वा­र्ति­क­ग्र­न्था­नु­सारी कश्चित्पक्षः । स मीमांसकैरेव 'तत्र शब्दः स्वरूपेण वायु­व­च्चे­त्प्र­व­र्तकः । प्रमाणत्वं विहन्येत नियमाच्च प्रवर्तयेत् । (जै. अ. १ पा.२ सू. ७) इत्या­दि­न्या­यै­र्नि­रा­कृतः ॥ लिङादिभिः नञ्स­म­भि­व्या­हृ­त­लि­ङा­दि­भिश्च बोधितः प्रव­र्त­ना­नि­व­र्त्त­ना­त्म­क­श­ब्दस्य व्यापारः शब्दभावना । लोके हि प्रैषा­ध्ये­ष­णादिः प्रवर्तकस्य पुरुषस्य व्यापारो गामा­न­ये­त्या­दि­वा­क्येषु प्रवृ­त्ति­नि­वृ­त्ति­हे­तु­त्वे­ना­व­गतः । अपौरुषेये वेदे वक्तृ­पु­रु­ष­व्या­पा­रा­सं­भ­वात् शब्दस्यैव स व्यापार इत्यन्यः पक्षः॥ वेद­स्यै­श्व­र­क­र्तृ­क­त्वात् तदभिप्राय एवाज्ञारूपः प्रवर्तको निवर्त्तकश्च लिङादीनां नञ्यु­क्त­लि­ङा­दीनां चार्थ इत्यु­द­य­ना­दि­तार्कि कपक्षः॥ त्रैका­ल्या­न­व­च्छि­न्न­रू­पेण लिङा­दि­न­ञ्यु­क्त­लि­ङा­द्य­सा­धा­र­णा­र्थ­भू­ता­र्थ­भा­व­नैव प्रवर्तिका निवर्तिका चेति शब्द­भा­व­ना­म­न­ङ्गी­कु­र्वतां मीमां­स­कै­क­दे­शिनां पक्षः॥ विधि­नि­षे­ध­लि­ङा­दि­बो­ध्या­पू­र्व­रूपो नियोगः प्रवर्तको निवर्त्तकश्चेति प्राभाकरपक्षः ।
प्रत्य­क्ष­व्य­व­हारे इति ।
न च स्वेच्छाधीने प्रत्य­क्ष­व्य­व­हारे प्रव­र्त­ना­द्य­भा­वेऽपि पर­प्रे­रि­त­व्य­व­हारे प्रेर­यि­तृ­पु­रु­ष­प्रे­र­णा­त्मकं प्रव­र्त­ना­दि­क­म­स्तीति शङ्कनीयम् । तत्रापि स्वेष्टा­नि­ष्ट­सा­ध­न­ता­ज्ञानं विना चेतनस्य प्रवृ­त्ति­नि­वृ­त्त्य­सं­भ­वेन आवश्यकस्य तस्यैव प्रवृ­त्ति­नि­वृ­त्ति­हे­तुत्वे प्रेर­यि­तृ­व्या­पा­रस्य तेना­न्य­था­सिद्धेः, न च यागस्य स्वर्ग­का­र­ण­त्व­नि­र्वा­हा­र्थम् अपूर्वमिव प्रैर­यि­तृ­पु­रु­ष­व्या­पा­रस्य प्रवृ­त्त्या­दि­का­र­ण­व­नि­र्वा­हार्थं इष्ट­सा­ध­न­ता­दि­ज्ञा­न­द्वा­र­त्वेन कल्प्यते; यतस्तै नान्य­था­सि­द्धिर्न स्यात्, क्लृप्तमेव हि तस्य स्वेच्छा­धी­न­व्य­व­हा­र­स्थले प्रवृ­त्या­दि­का­र­ण­त्वम् ।
अन्व­य­व्य­ति­रे­केति ।
टीका या कार्य­का­र­ण­भा­व­शब्दः तद्भा­ह­का­न्व­य­व्य­ति­रे­क­पर इति भावः ।
व्यापारो लोकसिद्ध इति ।
साध्य­त्वे­ष्ट­सा­ध­न­त्वयोः धर्मो व्यापारो ह्यत्र यागादिकः, स च यज्या­दि­धा­त्व­र्थ­त्वेन लोकप्रसिद्ध इति यज्या­दि­धा­तु­स­म­भि­व्या­हा­रा­देव तयो­र्ध­र्मि­सं­ब­न्ध­सिद्धेः न धर्म्यपि लिङादिशब्दार्थ इत्यर्थः । यद्वा कृति­सा­ध्य­त्वे­ष्ठ­सा­ध­न­त्व­वि­शि­ष्ट­या­ग­स्व­र्गयोः व्यापारेऽपूर्वे शक्तिरिति शङ्का । व्यवहितयोः कार्य­का­र­ण­भा­व­द्वा­रा­पे­क्षाया लोकसिद्धत्वेन आक्षेपादेव तत्सिद्धेः नापूर्वरूपो व्यापारः शब्दार्थः । अतो न तत्र शाब्दयोः कृति­सा­ध्य­त्वे­ष्ट­सा­ध­न­ल­यो­र­न्वयः, किन्तु यज्यादिधात्वर्थ एवान्वय इति भावः । ननु यदि यागादिः सम­भि­व्या­हा­र­ल­भ्य­त्वाद् अपूर्वव्यापारो लौकि­क­न्या­य­ल­भ्य­त्वाच्च न लिङाद्यर्थः, तर्हि कर्तव्यत्वमपि तदर्थो न भवेत, तदपि हिं कृति­सा­ध्य­त्व­रूपं लोकत एवावगन्तुं शक्यं, यागादिः कृत्या साधयितुं शक्यो न तु चन्द्र­म­ण्ड­ल­ह­र­णा­दि­व­द­शक्य इति ॥ स्यादेतत्, यः स्वर्गा­दि­फ­ल­का­मा­दि­र­धि­कारी तत्कृत्यैव साधनीयत्वं न लोकतः सिद्ध­मि­त्य­न्य­कृत्या साधितानामपि तेषा­म­न्य­फ­ला­र्थत्वं प्रसज्येत, तन्माभूदिति कर्त­व्य­त्व­स्यापि लिङा­द्य­र्था­नु­प्र­वेशः कल्प्यः; तथा सति हि सममिव्याहृतस्य स्वर्गकामादेः यदि­ष्ट­त­त्सा­ध­न­त्व­वत् तत्कृ­ति­सा­ध्य­त्व­मपि सिध्यति । न च यजे­ते­त्या­दि­क­र्त्र­भि­प्रा­या­र्थ­का­त्म­ने­प­द­व­त्वात् तत्सिद्धिः स्यादिति वाच्यम्, आत्म­ने­प­द­स्या­सा­र्व­त्रि­क­त्वात्, आग्ने­य­म­ष्टा­क­पालं निर्व­पे­द्रु­क्काम इत्यादौ तदभावात् । न च तत्रा­ग्नी­ना­द­धी­ते­त्या­धा­न­वा­क्य­ग­ता­त्म­ने­प­द­ब­ला­त्त­त्सिद्धिः स्यात्, तत्र साक्षात् आधानफलस्य अग्निसंस्कारस्य आह­व­नी­या­दि­ग­त­त्वे­ना­ग्नि­सा­ध्य­क्र­तु­फ­लानां परम्परया आधानसाध्यानां कर्तृ­गा­मि­त्व­म­पे­क्ष्यैव तत्र­त्या­त्म­ने­प­दस्य निर्वा­ह्य­त्वा­दिति वाच्यम्, अग्नि­नि­र­पे­क्ष­ज­पा­दि­वि­धि­श्च­त­फ­लानां कर्तृगामित्वस्य ततो निर्वाहाभावात्, येनाधानं कृतं तस्याग्निषु तेन स्वफलकामनया क्षेत्र­ज­पु­त्रो­त्पा­द­न­न्या­या­द­न्येन यागा­नु­ष्ठा­प­न­प्र­स­ङ्ग­स्यै­व­म­प्य­प­रि­हा­राच्च । तस्मा­त्फ­ल­का­म­क­र्त­व्यत्वं न लोकसिद्धमिति तल्लाभाय कर्तव्यत्वं लिङाद्यर्थ इत्यभ्युपेयमिति चेत्, न; कर्तव्यत्वस्य तद­र्थ­ला­भ्यु­प­ग­मेऽपि तच्छ­ङ्का­न­पा­यात्, यः पुत्र­ग­त­पू­त­त्वा­दि­व­त्पि­त्रा­दि­गतं स्वर्गं कामयते सोऽपि स्वर्गकाम इति तत्कृत्या साधितस्य यागस्य पित्रा­दि­ग­त­स्व­र्ग­ज­न­क­त्व­शंका हि तथैवानुवर्तेत । यद्युच्येत, प्रवर्तको विधिः कर्तृ­ग­त­फ­ल­प­र्य­व­सा­यि­न्येव पुरुषं प्रवर्तयतीति नियमः । पुत्र­ग­त­पू­त­त्वा­दि­क­मपि सत्पुत्रेण भाविफलमालोचयतः स्वग­त­फ­ल­प­र्य­व­सा­यीति परम्परया स्वफलोपयोगि । इह स्वर्गकाम इत्यादौ पूतत्वादाविव परम्पराश्रयणे प्रमा­णा­भा­वा­दौ­त्स­र्गिकं साक्षात्त्वं न त्यक्तव्यमिति स्वकी­य­स्व­र्ग­का­मा­दि­रेव तदर्थः, अतो नातिप्रसङ्गः भवतीति, एवं तर्हि कर्तव्यत्वस्य लिङा­द्य­र्थ­त्वा­भा­वेऽपि स्वर्गकामो यजेतेति सामानाधिकरण्येन स्वकी­य­स्व­र्ग­का­म­स्यैव याग­क­र्तृ­त्व­प्र­ती­ते­स्तस्य न तद­र्थ­त्व­म­भ्यु­प­ग­न्त­व्यम् । यजेतेत्यत्र ह्याख्या­त­सा­मा­न्या­र्थ­कृ­त्या­क्षि­प्त­स्त­दा­श्रयः कर्ता प्रतीयत एव यत्रै­क­व­च­ना­द्य­र्थ­सं­ख्या­न्वयः । तस्मा­त्क­र्त­व्यत्वं लिङाद्यर्थ इति नाभ्युपेयमिति चेत्, सत्यम् । यद्यपि सूक्ष्मदृष्ट्या अन्यलभ्यमपि कर्तव्यत्वं प्रव­र्त­क­ज्ञा­न­वि­ष­य­त्वात् प्रवृ­त्ति­प्र­यो­ज­कस्य लिङा­दे­र­र्थोऽ­भ्यु­पे­यते; तथापि कर्त­व्य­त्वे­ष्ट­सा­ध­न­त्वयोः धर्मः यागादिस्तदर्थो नाभ्युपेयः; धातु­स­म­भि­व्या­हा­रा­देव तयो­स्ता­द्ध­र्म्य­सिद्धेः स्पष्ट­त्वा­दि­त्यत्र तात्पर्यम् ।
श्रुते­ष्ट­सा­ध­न­त्वा­भा­वो­प­प­त्तये इति ।
ननु इष्ट­सा­ध­न­त्वा­भावः श्रुत इत्ययुक्तम् । तस्य न हन्या­दि­त्यै­त­द­र्थ­त्वा­भा­वात्, सांदृ­ष्टि­क­ष्टो­पा­यत्वे विद्यमाने तदभावस्य बाधितत्वात् । हन­ने­ष्ट­सा­ध­न­ता­म­न­प­बाध्य तद्गु­रु­त­रा­दृ­ष्टा­नि­ष्टो­पा­यता ज्ञायत इति पूर्ववाक्ये तद­बा­ध­न­स्यो­क्त­त्वाच्च । एवंच श्रुते­ष्ट­सा­ध­न­त्वा­भा­वो­प­प­त्तये गुरु­त­रा­नि­ष्ट­सा­ध­नत्वं कल्प्यत इत्यप्ययुक्तम् । गुरु­त­रा­नि­ष्ट­सा­ध­नत्वे कल्पितेऽपि सांदृ­ष्टि­क­ष्टो­पा­य­त्वस्य प्रत्य­क्ष­सि­द्धस्य अप­ने­तु­म­श­क्य­त्वेन तद­भा­वो­प­पा­द­ना­यो­गा­दिति चेत्, उच्यते; गुरु­त­रा­नि­ष्ट­सा­ध­नत्वे कल्पिते तत्प्र­ति­स­न्धा­नेन सांदृ­ष्टि­क­फ­ला­दिच्छा निवर्तेत, तन्निवृत्तौ च तस्येष्टत्वं नास्तीति इष्ट­सा­ध­न­त्वा­भा­वस्य न हन्या­दि­त्ये­त­द­र्थ­तायां न काचिदनुपपत्तिः । गुरु­त­रा­नि­ष्ट­सा­ध­न­त्व­क­ल्प­ना­याश्च न तदु­प­पा­द­क­त्वा­सं­भवः । पूर्ववाक्ये तात्का­लि­का­दे­ष्ट­सा­ध­न­त्वा­न­प­बा­ध­नो­क्तिस्तु तात्का­लि­क­फ­ल­त्वा­भि­म­त­सा­ध­न­त्व­यो­ग्य­तायाः स्वरूपतो बाधनाभावपरा, न तु तस्य फल­स्ये­च्छा­वि­ष­य­त्व­बा­ध­ना­भा­व­प­रा­पीति न विरोधः । न आस्तिककामुकस्य रागान्धस्य सत्यपि भावि­न­र­क­दुः­खा­व­श्यं­भा­वा­व­गमे तात्का­लि­क­फ­लेच्छा नापैतीति तं प्रति इष्ट­सा­ध­न­ला­भा­व­बो­ध­कस्य निषे­ध­वा­क्य­स्या­प्रा­माण्यं स्यात्, सर्वान्प्रति प्रमाणभूतस्य च वेदवाक्यस्य पुरुषभेदेन प्रामा­ण्या­प्रा­मा­ण्य­वै­ल­क्षण्यं न युक्तमिति चेत्, यद्ये­व­म­त्रा­प­रि­तोषः तदैवमुपपादनीयम् । इष्टो­पा­य­त्व­मात्रं लिङाद्यर्थः, किन्तु बल­व­द­नि­ष्टा­न­नु­ब­न्धि­त्व­वि­शे­षि­तम् । तथा च निषे­ध­वा­क्यै­र्वि­शि­ष्टा­भा­व­बो­धने नास्ति बाधः । विशेष्यवति विशिष्टाभावो विशे­ष­णा­भा­वे­नो­प­पा­द­नीय इति तदुपपादनार्थं विशे­ष­णा­भा­वा­त्म­क­ब­ल­व­द­नि­ष्टा­नु­ब­न्धि­ल­क­ल्प­नेति श्रुते­ष्ट­सा­ध­न­त्वा­भा­वो­प­प­त्तय इत्या­दि­ग्र­न्थस्य तात्पर्यम् । सत्यपि तात्का­लि­के­ष्टा­द्व­स्तुतो भावि­न­र­का­नि­ष्ट­स्या­धिक्ये रागान्धस्य तात्कालिकसुखमेव ततोऽधिकमिति मोहा­नि­षि­द्धा­च­रणं निषे­ध­वा­क्य­प्रा­माण्यं चोपपद्यते । ग्रन्थे गुरु­त­रा­दृ­ष्टा­नि­ष्ट­सा­ध­न­त्व­क­ल्प­नोक्तिः निन्दा­र्थ­वा­द­र­हि­तेषु निषेधवाक्येषु, निन्दा­र्थ­वा­द­सत्त्वे तु तत एव तल्लाभः । हननादिषु निषेध्येषु तात्का­लि­के­ष्टा­पे­क्षया भाव्यनिष्टस्य गुरुतरत्ववचनं निन्दार्थवादः, यागादिषु तात्का­लि­क­क्ले­शा­पे­क्षया भाविन इष्टस्य गुरुतरत्ववचनं स्तुत्य­र्थ­वाद' इति हि वृद्धाः । न च यागादीनां विधेयानां लिङादिना बल­व­द­नि­ष्टा­न­नु­ब­न्धि­त्व­बो­धने स्तुत्य­र्थ­वा­द­वै­य­र्थ्य­मिति शङ्कनीयम् । तद्बोधनेऽपि इष्टानिष्टयोः साम्येन तुल्या­य­व्य­य­त्व­श­ङ्का­प­रि­हा­रेण स्तुत्य­र्थ­वा­द­सा­फ­ल्या­दि­त्येषा दिक् ।
ननु निवृत्तिशब्देन प्रवृत्त्यभावः केन प्रकारेण व्याख्यातो भव­ती­त्या­का­ङ्क्षायां तेन लभ्यं विशेषमाह –
उद्यमक्रियाया इति ।
प्रवृ­त्त्य­भा­व­म­व­बुध्य इत्येतावता अना­दि­सि­द्ध­प्र­वृ­त्ति­प्रा­ग­भा­व­बो­ध­मा­त्रम् उक्तं स्यात्, न तद्बोधमात्रात् निवर्त्तते, किन्तु खड्गो­द्य­म­ना­दि­रूपा या हननोद्यमक्रिया तस्या उपरन्तव्यमिति कर्त­व्य­त्वे­ना­नु­सं­धी­य­माना या खड्गा­दि­प­रा­व­र्त­न­क्रिया तदुपलक्षितत्वेन निवृत्तिरूपा । तत्र प्रवृ­त्त्य­भा­व­म­बुध्य निवर्त्तते निवृ­त्ति­रू­पा­प­न्न­प्र­वृ­त्त्य­भा­वात् भवतीत्यर्थः ।
यद्ध­न्या­त्त­न्ने­तीति ।
इदं वाक्यं प्रस­क्त­क्रि­या­नि­वृ­त्ति­प्र­ति­पा­द­क­तया नोपात्तं; खड्गा­दि­प­रा­व­र्त­न­रू­प­तया वक्ष्यमाणायाः प्रस­क्त­क्रि­या­नि­वृत्तेः च हन्या­दि­त्ये­त­द­र्थ­त्वा­भा­वात्, किन्तु निवृत्तिरूपा खड्गा­दि­प­रा­व­र्त्य­ता­बुद्धिः केन भव­ती­त्या­का­ङ्क्षायां न हन्या­दि­त्ये­त­द­र्थ­भू­ता­नि­ष्ट­सा­ध­न­त्व­ज्ञा­नेन भव­ती­त्ये­त­द­र्थ­प्र­ति­पा­द­क­त­यो­पा­त्तम् ।
एषा चेति ।
न हन्यादित्यनेन हन­न­ग­त­ब­ल­व­द­नि­ष्टा­न­नु­ब­न्धि­त्व­वि­शि­ष्टे­ष्ट­सा­ध­न­त्वा­भा­वा­व­गतिः, ततो बल­व­द­नि­ष्टा­नु­ब­न्धि­त्व­क­ल्पनं, तेनोद्यतं खड्गादिकं परावर्तनीयमिति बुद्धिः, तत­स्त­त्प­रा­व­र्त­न­वै­शि­ष्ट्येन लब्धपरिपालनतया निवृ­त्ति­रू­पा­प­न्नौ­दा­सी­न्य­प्रा­प्ति­रिति क्रमः॥
अभावत्वात्तथेति ।
अभावो हि ब्रह्मस्वरूपे नान्तर्भवति । अतः प्रप­ञ्चा­न्तः­पा­ति­त्वा­न्मि­थ्ये­त्यर्थः । अतथात्त्वात् अश­री­र­स्व­रू­प­त्वात् ।
अनादित्वादिति सत्कार्यवादी शङ्कत इति ।
उभयोः सादित्वे खलु पर­स्प­र­हे­तु­हे­तु­म­द्भा­वा­धीनः परस्पराश्रयः प्रसज्यते, उभयोरनादित्वे तदभावाद् न पर­स्प­रा­श्र­य­प्र­स­क्ति­रि­त्यर्थः । टीकायां यस्तु मन्यत इत्य­ग्रि­म­ग्र­न्थे­ना­स­त्का­र्य­वा­द­म­व­लम्ब्य प्रवा­हा­ना­दि­त्व­श­ङ्कायाः करिष्यमाणत्वात् इयं शङ्का सत्का­र्य­वा­दा­व­ल­म्ब­स्व­रू­पाऽ­ना­दि­त्व­वि­षया योजिता ।
अन्धपरम्परेति ।
स्वरू­प­नि­त्य­त्व­प­क्षेऽपि अभि­व्य­क्त्यो­र­नि­त्ययोः पर­स्प­र­हे­तु­हे­तु­म­द्भा­वेन तत्कृ­त­प­र­स्प­रा­श्र­या­न­पा­याद् उत्प­त्ति­स्था­नीयां कादाचित्कीम् अभि­व्य­क्ति­म­ङ्गी­कृ­त्यापि स्वरू­प­नि­त्य­त्व­क­ल्प­ने­य­म­न्ध­प­र­म्प­रा­प्रा­प्त­प­ट­शौ­क्ल्यो­प­दे­श­व­द­प्रा­मा­णि­की­त्यर्थः ।
संशयनिमित्तेति ।
संशयशब्देन विशे­षा­द­र्श­ना­दि­सं­श­य­का­र­ण­क­लापो विवक्षितः; संशयस्य प्रत्ययशब्देन तत्कार्यतया ग्रहणात्, संशयशब्दस्य मुख्यार्थत्वे तु संश­य­मू­ल­क­श­ब्द­प्र­यो­ग­ज­न्य­प्र­त्य­या­न्त­र­परः प्रत्ययशब्दो योज्यः ।
उचि­त­नि­मि­त्ता­पे­क्ष­णा­दिति ।
कर­ण­दो­षा­दि­ब­हु­नि­मि­त्ता­पे­क्ष­णा­दि­त्यर्थः ।
साधारणधर्मणि दृष्टे इति ।
धव­ल­भा­स्व­र­व­र्ण­रू­प­सा­दृ­श्य­वि­शिष्टे धर्मिणि दृष्टे । किं सादृ­श्य­वि­शि­ष्ट­ध­र्मि­ज्ञा­न­मात्रं विपर्ययकारणम्? उत सादृश्येनेव अन्यैश्च दोषै­र्मि­लि­त­मि­त्यर्थः ।
द्वितीयं दूषयतीति ।
सादृ­श्य­व­द्दो­ष­स्यापि प्रवेशितत्वात् । यद्यपि शुक्तिप्रमा न भवति, दोषस्य प्रमा­प्र­ति­ब­न्ध­क­त्वात्; तथापि संशयः किं न स्यात् । तस्यापि भ्रान्ति­व­द्दो­ष­ज­न्य­त्वा­दिति दूषयतीत्यर्थः ।
समानधर्मधर्मिण इति विशेषणं व्याचष्टे –
समानो धर्मो यस्येति ।
न च रागादिति ।
रागः संशयव्यावृत्तो भ्रान­त्ये­क­प­क्ष­पाती दोष इति भावः ।
समानानेकधर्मेति ।
अत्राव्यवस्थात इत्येतदन्तेन सूत्रांशेन त्रिविधा संशयसामग्री वर्णिता । विशेषापेक्ष इत्य­ने­ना­न्य­त­र­वि­शे­षा­न­व­धा­र­णा­त्म­क­त्व­मु­क्तम् । तेन विशेषापेक्षो विमर्श (गौतमस. अ.१ आ. १ सू. २३) इति सूत्रां­शे­ना­न­व­धा­र­ण­ज्ञानं संशय इति तल्लक्षणं दर्शितम् ।
अने­क­स्मा­द्या­वृत्त इति ।
अनेकशब्दस्य धर्मपदेन समासे शाक­पा­र्थि­वा­दि­व­न्म­ध्य­म­प­द­लो­पे­ना­ने­क­स्मात् सजा­ती­य­वि­जा­ती­यात् व्यावृ­त्तोऽ­सा­धा­रणो धर्म इत्य­र्थे­नै­क­ध­र्म­लाभ इति भावः । कार्यनियमं प्रतिजानानेनेति पाठः साधुः । "संप्र­ति­भ्या­म­ना­ध्याने" इत्यु­त्क­ण्ठा­पू­र्व­क­स्म­र­ण­रू­पा­ध्या­न­व्य­ति­रि­क्तार्थे संप्रतिपूर्वात् जाना­ते­रा­त्म­ने­प­द­वि­धा­नात् । प्रति जानतेति पाठस्तु कथं­चि­दा­ध्या­ना­र्थ­वि­व­क्षया समर्थनीयः ।
तत्रेति ।
ननु अनुष्ठितस्य फलादर्शनं जन्मा­न्त­र­कृ­त­क­र्मणः फलजनकत्वं च तद्वि­धि­व्या­प्त­मिति शङ्कितुः नाभिप्रायः, येन तद्व्या­प्ति­भ­ञ्ज­नतः परिह्रियेत, किन्तु अन्व­य­व्य­ति­रे­क­व्य­भि­चा­रात् लोकतः कारणत्वं ग्रहीतुं न शक्यम् । अतो विधि­बो­ध्य­का­र­ण­त्वं­म­ङ्गी­कृत्य तन्निर्वाहार्थं फल­प्र­ति­ब­न्ध­क­रि­त­नि­वृ­त्त्या­दि­वै­क­ल्य­क­ल्प­न­या­न्व­य­व्य­भि­चारो जन्मा­न्त­र­कृ­त­श्र­व­णा­दि­क­ल्प­नया व्यति­रे­क­व्य­भि­चा­रश्च परिहरणीय इत्यभिप्रायः । न च विध्यभावे केव­ल­मु­दा­हृ­त­दृ­ष्टा­न्त­द्व­ये­नायं व्यभिचारः परिहृतो भवति; श्रुत­वै­शे­षि­का­दि­शा­स्त्राणां केषां­चि­व­बो­धा­नु­त्पत्तौ हि मति­मा­न्द्या­ल­स्या­न­भ्या­सा­दि­रू­प­का­र­ण­वै­कल्यं स्पष्टं दृष्टमस्ति, शब्दमात्रस्य शाब्दप्रमाजनकखं चान्यत्र सामान्यतः सिद्धमस्ति अत­स्त­त्रा­न्व­य­व्य­भि­चा­रस्य प्राक्सि­द्ध­का­र­ण­त्वा­वि­रो­धि­त्वेऽ­प्यत्र बहुशः कृतश्रवणमननानां सम्य­क्स­क­ल­वे­दा­न्ता­र्थ­नि­र्ण­य­वतां साक्षा­त्का­रा­नु­दयः किंचि­द्दृ­ष्ट­का­र­ण­वै­क­ल्य­प्र­यु­क्त­त्वे­ना­दृ­श्य­मानः कथं प्रागसिद्धस्य साक्षात्कारे शब्द­प्र­मा­ण­का­र­ण­त्वस्य ग्रहणे विरोधी न स्यात् ! जन्मा­न्त­रो­पा­जि­त­नि­धि­ख­न­ने­नो­प­भोगे च पूर्वा­नु­भू­त­म्म­रणं दृष्टं कारणं सिद्धमस्ति; अतस्तत्र व्यति­रे­क­व्य­भि­चा­र­स­मा­धा­न­सं­भ­वेऽ­प्यत्र जन्मा­न्त­र­कृ­त­श्र­व­णा­दे­र­न्यतः सिद्ध्यभावेन तत्कल्पकस्य विधेरप्यभावे जाग्र­द्व्य­ति­रे­क­व्य­भि­चा­रश्च कथं कार­ण­त्व­ग्र­ह­वि­रोधी न स्यात् । तस्मा­द्वि­धि­व्य­भि­चा­रो­द्भा­वनं कृत­श­ङ्का­प­रि­हा­रा­नु­प­यु­क्त­म­यु­क्तम् । तथा प्राधान्यं श्रवणादेः न भवतामपि संम­त­मि­त्ये­त­द­प्य­यु­क्तम्; अर्थ­ज्ञा­न­फ­ल­का­ध्य­य­न­वि­धे­रिव साक्षा­त्का­र­फ­ल­श्र­व­ण­वि­धे­रपि प्रधा­न­क­र्म­त्व­स्यैव प्राप्तेरिति चेत्, उभयतो व्यभिचारेण श्रवणस्य साक्षा­त्का­र­का­र­णत्वं लोकत इव बाधेन विधितोऽपि ग्रहीतुं न शक्यमिति प्रागेव शब्दा­प­रो­क्ष­नि­रा­क­र­णे­नो­क्त­प्रा­यम् । अतो विधिना कारणत्वं निश्चित्य व्यभिचारः परिहरणीय इति शङ्कि­तु­र­भि­प्रायो न संभ­व­ती­त्य­भि­प्रेत्य यद्य­न­यो­क्ति­भङ्ग्या विधि­व्या­प्ति­रा­श­ङ्किता तदेदमपि दूषणान्तरमिति विधिव्याप्तौ व्यभिचार उपन्यस्तः । अथ यदि श्रवणस्य प्रधा­न­क­र्म­त्वेऽ­र्थ­बा­धात् तत्परित्यज्य श्रव­णा­दि­नि­र्णी­तम् आत्म­त­त्त्व­म­न्द्रि­य­क­स्व­सा­क्षा­त्का­रो­त्पा­द­न­स­मर्थं भवति; 'लव­ण­क्षा­र­क्षो­दिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैः यदविकृतं तत्तु मौक्तिकं जात्यम्॥ घृष्टं सदात्मनः स्वच्छां छायां यन्निकषोपले । स्फुटं प्रदर्शयेत् वैडूर्यं जात्य­मु­च्यते॥' इत्या­दि­शा­स्त्रो­क्त­प­री­क्षा­प्र­का­र­नि­र्णी­त­मिव रत्नतत्वम् इत्यु­प­यो­क्ष्य­मा­ण­सं­स्का­र­तया गुण­क­र्म­त्व­मि­ष्यते, तदा न चेत्यादिना दूषणमुक्तमिति न किंचिदनुपपन्नम् । ननु प्रया­ज­शे­ष­वा­क्यस्य 'प्रया­ज­शेषं हविष्षु क्षार­ये'दि­त्य­र्थ­क­ल्पनं न युक्तम् ।
क्षारणेन प्रतिपाद्यतया प्रयाजशेषस्य शेषितायाः क्षारणदेशतया हविषां शेषतायाश्च प्रसङ्गात्, नैतद्युक्तम्, तथा सति हि चात्वाले कृष्णविषाणं प्रास्यतीतिवद् हविष्षु प्रयाजशेषे च सप्तमीद्वितीये स्याताम्, इह तु द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यं, तृतीयया प्रयाजशेषस्य तत्सं­स्का­रा­र्थ­द्र­व्य­त्वेन शेषत्वं च प्रतीयत इत्याशङ्क्य विशेषयति –
कृतप्रयोजनेति ।
निर्वृ­त्त­प्र­यो­ज­नस्य हिशेषः प्रति­प­त्ति­म­पे­क्षते, करि­ष्य­मा­णा­ज्य­भा­गा­र्थ­ग्रा­ह्य­माज्यं प्रया­ज­शे­षा­ज्ये­ना­सं­स­र्ग­सिद्ध्यै तस्य क्वचित् क्षारणमपेक्षते । तस्मा­द­पे­क्षि­त­प्र­ति­प­त्त्य­र्थ­त्व­मेव युक्तं, न त्वन­पे­क्षि­त­ह­विः­सं­स्का­रा­र्थ­त्वंम् । एवं च क्षारणस्य दृष्टा­र्थ­त्व­म­प­हाय अदृ­ष्टा­र्थ­त्व­स्वी­का­रश्च परिहृतो भवति । प्रयाजेषु विनियुक्तस्य पुनः क्षारणे विनियोग इति विनि­यु­क्त­वि­नि­योग विरोधोपि परिहृतो भवति । तस्माद् द्विती­या­तृ­ती­ययोः सप्त­मी­द्वि­ती­या­र्थ­तैव युक्तेति भावः॥
अपूर्वेति ।
अदृ­ष्ट­प­र्य­व­सा­यिन एव गुणकर्मणो विध्यपेक्षणात् श्रवणादेस्तु दृष्टद्वारेणैव साक्षा­त्का­रो­प­यो­गि­त्वात् नादृ­ष्टा­नु­प्र­वे­शोऽ­स्तीति न तत्र अप्रा­प्ता­र्थ­वि­ष­य­वि­ध्य­पे­क्षे­त्यर्थः ।
त्र्यंशा भावना हि धर्म इति ।
कौमा­रि­ल­म­ता­नु­सा­रेण साध्य­सा­ध­ने­ति­क­र्त­व्य­ता­भेदो मता­न्त­रे­ष्व­ष्य­वि­शिष्टः ।
स्वप्नोपलब्धेति ।
स्वप्नेषु पर्यापतन्तो दृष्ट्वा व्याघ्रादय आकुलतामुत्पाद्य स्वप्न­दृ­श­मु­त्था­प­यन्तो भवन्ति स्वोपा­दा­ना­वि­द्या­नि­व­र्त्तकाः । इह श्रुति­व्या­ख्या­ने­ष्व­स्ना­विरं सिरारहितमिति व्याख्यातं, तत् स्नावाः सिरा अस्य सन्तीति स्नाविरं न स्नाविरम् अस्नाविरम् इती­शा­वा­स्यो­प­नि­ष­द्वि­व­र­णा­नु­सा­रेण ।
प्राक्तु स्नावि­र­म­वि­ग­लि­त­मिति टीकानुसारेण अन्यथा व्याख्यातम् । एवमन्यत्रापि मतभेदेनाविरोधो द्रष्टव्यः॥ टीकायां विद्याऽविद्ययोः कार्यकारणभावं निवर्त्य निवर्त्तकभावं चोपपाद्य तदर्थविषयत्वेन विद्यां चाविद्यां चेति मन्त्र­स्यो­दा­हृ­त­त्त्वात् तदनुसारेण मन्त्रं योजयति –
अविद्यामिति ।
अत्रेदं सक­ल­मू­ल­पू­र्वा­प­र­ग्र­न्थ­ग­त­जी­व­वि­ष­य­प्र­ति­बि­म्बा­व­च्छे­द­व्य­व­हा­र­द्व­य­ता­त्प­र्या­व­धा­र­णाय चिन्तनीयम्, अनयोः पक्ष­यो­रा­चा­र्याणां कतरः पक्षः सिद्धान्त इति । द्वितीय एव; आद्यस्य आचार्यैः दूषितत्वादिति चेत्, न, अध्या­स­पू­र्व­पक्षे हि तद्दूषणं कृतम् । सिद्धान्ते तस्या­स­मा­हि­त­त्वात् सिद्धा­न्ता­भि­म­त­मेव तद्दूषणमिति चेत्, न; असारं तद्दू­ष­ण­मि­त्य­ना­द­रे­णापि तद­नु­द्धा­रो­प­पत्तेः । तथाहि रूपवत एवं प्रतिबिम्ब इति नास्ति नियमः, रूप­सं­ख्या­प­रि­मा­ण­सं­यो­ग­वि­भा­ग­प­र­त्वा­प­र­त्व­च­ल­न­सु­ख­त्वा­दि­जा­तीनां प्रति­बि­म्ब­द­र्श­नात् । द्रव्यस्य सत इति विशेष्यत इति चेद्, न; पृथि­व्या­दि­न­व­का­नु­ग­तस्य द्रव्य­त्व­स्या­सिद्धेः, द्रव्यं द्रव्यमिति तत्र तत्र लौकि­का­ना­म­नु­ग­त­प्र­त्य­या­भा­वात्, तार्कि­क­प­रि­भा­षाया निष्प्र­मा­ण­क­त्वात् । गुणाश्रयस्य सत इति विशेष्यत इति चेत्, न; संख्याया एव संख्या­रू­प­गु­णा­श्र­य­भू­ताया नीरूपायाः प्रति­बि­म्ब­द­र्श­नात् । अस्ति हि संख्यायामपि संख्या; एकत्वं प्रथमसंख्या द्वित्वं द्वितीयसंख्या बहुत्वेषु त्रित्वं प्रथमसंख्या चतुष्ट्वं द्विती­य­सं­ख्ये­त्या­दि­व्य­व­हा­रात् । अत एव वसन्ताय कपि­ञ्ज­ला­ना­ल­भे­ते­त्यत्र त्रित्वमेव बहुवचनार्थो, न तु चतुष्ट्वादिकं, प्रथमातिकमे कारणाभावादिति न्यायविदः । अत एव च द्वावे­क­त्व­सं­ख्या­रू­पा­व­व­यवौ अस्या द्वित्वसंख्याया इत्याद्यर्थे ब्राह्मणद्वितयं ब्राह्मणद्वयम् इत्या­दि­श­ब्द­नि­ष्प­त्त्यर्थे "संख्याया अवयवे तयप्" इत्या­दि­सू­त्रै­स्त­य­प्प्र­त्य­यायो विहिताः । अत एव च रक्षसां निहतान्यासन् सहस्राणि चतु­र्द­शे'त्या­द्य­भि­यु­क्त­व्य­व­हाराः । ननु संख्यासु वस्तुतो नास्ति संख्यान्तरं, किन्तु द्वित्वसंख्या द्विती­ये­त्या­दि­स­जा­ती­य­सं­ख्या­व्य­व­हाराः सत्ता सती­ति­व्य­व­हा­र­व­द­भे­देऽपि धर्म­ध­र्मि­भा­व­क­ल्प­नया, सहस्राणि चतु­र्द­शे­त्या­दि­वि­जा­ती­य­सं­ख्या­व्य­व­हाराः सह­स्रा­दि­सं­ख्या­श्र­य­ग­त­च­तु­र्द­श­सं­ख्या­दि­सा­मा­ना­धि­क­र­ण्येन तत्कल्पनया, अतो न संख्याया मुख्यं गुणाश्रयसमिति चेत्, उच्यते, तुल्य­मे­त­दा­त्म­नोपि । आन­न्दा­दि­ध­र्मा­स्त­द­भिन्ना इति तस्यापि हि न मुख्यं गुणाश्रयत्वं; तस्माद्रूपवत एवं प्रतिबिम्ब इति नियममवलम्ब्य, आत्म­प्र­ति­बि­म्ब­नि­रा­क­रणं तावदयुक्तम्॥ तथा रूपवत्येव प्रतिबिम्ब इति नियममवलंब्यापि निराकरणमयुक्तम् । किं प्रति­बि­म्बो­पा­धे­र्व­स्तुतो रूपवत्वं प्रतिबिम्बने प्रयो­ज­कृ­मि­ष्यते, उत रूपवत्त्वेन ग्रहणम् । आद्ये, अना­त्म­नोऽ­न्तः­क­रणे प्रति­बि­म्ब­ना­नु­प­पत्तिः, अन्तःकरणस्य त्रिवृत्करणेन पञ्चीकरणेन वा रूपवत्त्वात् । न द्वितीयः, निज­रू­प­व­त्त्वे­ना­गृ­ह्य­मा­णेऽपि स्फटिके सन्नि­हि­त­ज­पा­कु­सु­म­प्र­ति­बि­म्ब­नेन अरुणः स्फटिक इति व्यवहारदर्शनात् । तस्मात् निरवद्या प्रतिबिम्बपक्षः । प्रतिबिम्बपक्षे एव च जीव­त­द­न्त­र्या­मि­भा­वे­ना­न्तः­क­रणे द्विगुणीकृत्य वृत्तिरुपपद्यते । ननु प्रतिबिम्बपक्षे केन दृष्टान्तेन द्विगुणीकृत्य वृत्त्युपपत्तिः । अम्भस्याकाशस्य प्रतिबिम्बो नाभ्युपगतः, आलोकस्य तु प्रतिबिम्ब एव नावच्छेदोऽपि । न च जला­न्त­र्ग­त­सि­क­ता­दि­प्र­ह­णार्थं तद­न्त­रा­लो­क­प्र­वे­शस्य अवश्यंभावात् तेन तस्या अव­च्छे­दोऽ­प्य­ङ्गी­क­र­णीय इति वाच्यम्; आलो­क­प्र­ति­बि­म्बे­नैव सिक­ता­दि­प्र­का­शो­प­पत्तेः । न च समारोपितस्य प्रति­बि­म्बा­लो­कस्य सिकतादिभिः संयोगो नास्तीति वाच्यम्; सद्योऽ­प­व­र­क­प्र­वि­ष्टस्य समारोपितेन तमसा तत्र­त्य­घ­टा­दि­प्र­का­श­प्र­ति­ब­न्ध­वत् समा­रो­पि­ते­ना­लो­केन सिक­ता­दि­प्र­का­श­ज­न­नो­प­प­त्ते­रिति चेत्, मैवम्, जले­ना­का­श­स्या­व­च्छेद एव तत्रालोकस्य प्रतिबिम्ब एवेति कल्पने दृष्टा­न्त­सं­प्र­ति­प­त्त्य­भा­वेपि प्रति­बि­म्बा­श्र­या­न्तः­क­र­णेन सर्वगतस्य आत्म­नोऽ­व­च्छे­द­स्या­प्य­व­श्यं­भा­वेन स्वत एव द्विगुणीकृत्य वृत्तिसिद्धेः । प्रतिबिम्बपक्ष एव च सूत्र­का­रा­दि­सं­मतः । अंशो नाना­व्य­प­दे­शा­दि­त्य­धि­क­रणे (ब्र.अ.२पा.३सू.४२) ऐकात्म्यवादे कर्म­त­त्फ­ल­व्य­ति­क­र­श­ङ्का­प­रि­हा­रार्थं प्रवृत्तेन आभास एव च (व. अ.२पा.३सू. ५०) इति सूत्रेण जीवस्य ब्रह्म­प्र­ति­बि­म्ब­त्व­मु­क्तम् । तथैव च भाष्यकारैः व्याख्यातम् - आभास एवैष जीवः परस्यात्मनो जलसूर्यकादिवत् प्रतिपत्तव्यः, न स एव साक्षाद्, नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिन् जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिन्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः; एवमव्यतिकर एव कर्मफलयोः इति" । टीकाकारैरपि तस्मिन्नधिकरणे जीवब्रह्माभेदे सक­ल­जी­व­ग­त­दुः­ख­भाक्त्वं ब्रह्मणः स्यादिति शङ्कापरिहार एतत्सूत्रसिद्धं प्रति­बि­म्ब­त्व­मा­श्रि­त्यैव समर्थितः । न च मोक्षस्य अनर्थबहुलता यतः प्रति­बि­म्बा­ना­मेव श्यामतावदातते, न बिम्बस्य, एवं जीवानामेव नानावेदनाभिः संबन्धः, ब्रह्मणस्तु बिम्बस्येव न तद­भि­सं­बन्ध' इति । आचा­र्यै­र­प्ये­त­द­भि­प्रायः स्पष्टीकृतः 'बिम्ब­प्र­ति­बि­म्बयोः अव­दा­त­त्व­श्या­म­त्वा­दि­व्य­व­स्था­नात् न धर्म­सां­क­र्य­मि­त्यर्थ इति । तस्मात् प्रतिबिम्बपक्ष एवा­चा­र्या­णा­म­भि­मतः । अत एव अनि­र्वा­च्या­वि­द्या­द्वि­त­य­स­चि­व­स्येति प्रथ­म­श्लो­क­ग­त­च­रा­च­र­प­व्या­ख्या­न­स­मये एव जीवस्य प्रति­बि­म्ब­त्व­मुक्तं 'जीवानामपि चराचरोपाधिकानां तत्प्र­ति­बि­म्ब­त्वेन तद्वि­व­र्त­ते­त्या­हेति । अवच्छेदपक्षस्तु भाष्य­टी­का­ग­त­घ­टा­का­शा­दि­दृ­ष्टा­न्त­स्व­र­स­प्राप्तो न दूषितः परं, न तु स्वतन्त्रेषु स्ववाक्येषु जीवोऽवच्छेद इति क्वचिदप्युक्तम् । तस्मात् प्रतिबिम्बपक्ष एवाचार्याणां सिद्धान्त इति । एवं प्रतिबिम्बपक्षः श्रेयानिति मन्यमानानां मता­नु­सा­रे­णा­चा­र्याणां तात्पर्यं योजितम्॥ अथ अव­च्छे­द­प­क्ष­म­भ्यु­प­ग­च्छतां मत­म­नु­सृ­त्यो­च्यते । प्रतिबिम्बपक्षो भाष्यकारैरेव न स्थानतोपि (ब्र. अ. ३ पा. २ सू. ११) इत्यधिकरणे निराकृतः । तत्र ह्यत एव चोपमा सूर्यकादिवत् (ब्र. अ.३ पा. २ सू. १८) इति सूत्रेण सूर्या­दि­प्र­ति­बि­म्ब­दृ­ष्टान्ते श्रुत्युदाहृते दर्शिते सूर्या­दि­व­दा­त्मनः प्रतिबिम्बो न युज्यत इति तदाक्षेपकत्वेन अम्बु­द­व­ग्र­ह­णात्तु न तथात्वम् (ब्र. अ. ३ पा. २ सू. १९) इति सूत्रं व्याख्यातम् । "यथाम्बु सूर्यादिभ्यो मूर्तेभ्यो विप्रकृष्टदेशं गृह्यते न तथात्मनो विप्रकृष्टदेशं प्रति­बि­म्ब­न­योग्यं वस्तु गृह्यते । अतो न क्वाप्यात्मनः सर्वगतस्य प्रतिबिम्बो युक्त" इति । ततो वृद्धि­हा­स­भा­क्त्व­म­न्त­र्भा­वात् उभ­य­सा­म­ञ्ज­स्या­दे­वम्(ब्र.अ.३ पा.२सू.२०) इति सूत्र­मु­क्ता­नु­प­पत्त्या सूर्या­दि­व­दा­त्मनः प्रति­बि­म्ब­न­म­नु­प­प­न्नम् इत्यङ्गीकृत्यैव श्रुतिषु सूर्या­दि­प्र­ति­बि­म्बो­पा­दा­नस्य तात्प­र्या­न्त­र­व­र्ण­न­प­र­तया व्याख्यातम् । "यथा सूर्या­दि­प्र­ति­बि­म्बस्य जला­धु­पा­धि­ग­त­वृ­द्धि­हा­सा­द्य­धी­न­वृ­द्धि­हा­सा­दि­भा­क्त्व­मे­व­मा­त्म­नोऽ­प्य­न्तः­क­र­णा­दि­ग­त­वृ­द्धि­ह्रा­सा­द्य­धी­न­वृ­द्धि­हा­सा­दि­भा­क्त्व­मि­त्ये­ता­वता जल­सू­र्या­दि­दृ­ष्टा­न्ती­क­रणं, न तु प्रतिबिम्बनेन; दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः सर्वथा साम्य­स्या­न­पे­क्षि­त­त्वा­दिति" । बृह­दा­र­ण्य­क­भा­ष्येऽपि "स एष इह प्रविष्ट आ नखा­ग्रेभ्य' इति वाक्य­व्या­ख्या­ना­व­सरे सर्वगतस्यात्मनः कः प्रवेशो नामेति विमृश्य प्रति­बि­म्ब­प्र­वेश इति पक्ष­म­म्बु­व­द­ग्र­ह­णा­त्त्विति सूत्रोक्तेन विप्र­कृ­ष्ट­दे­शी­पा­ध्य­भा­वे­नैव दूषयित्वा देहादावात्मन उपलभ्यमानत्वं प्रवेशः । न हि पाषाणादाविव देहा­दा­वा­त्म­नोऽ­नु­प­ल­ब्धि­र­स्तीति प्रवेशपदार्थस्य अन्यथोपपादनेन प्रति­बि­म्ब­प­क्ष­दू­षणं स्थिरीकृतम् । न हि लोकेपि जला­द्वि­प्र­कृ­ष्ट­दे­श­स्यैव चैत्रा­दे­स्त­द­न्त­र्नि­म­ग्न­त्वेन विप्र­कृ­ष्ट­दे­श­स्यापि जले प्रतिबिम्बो दृश्यते । न च सावयवस्य चैत्रस्य जला­न्त­र्नि­म­ग्ना­ध­र­का­यस्य ऊर्ध्व­का­य­प्र­ति­बि­म्ब­व­द­न्तः­क­र­णा­दि­गस्य आत्मनः तद­भि­मु­ख­प्र­दे­शा­न्त­र­प्र­ति­बिम्ब उपपादयितुं शक्यः; निर­व­य­व­त्व­श­ब्द­को­पा­पत्तेः । तस्माद् बहुषु जलपात्रेषु चन्द्रस्य यावत एकत्र प्रति­बि­म्ब­स्ता­व­तोऽ­प्य­न्ये­ष्विव कृत्स्न­स्यै­वा­त्मन एकत्रान्तःकरणे प्रति­बि­म्बि­स्था­न्ये­ष्वपि प्रतिबिम्बो वकव्यः । ननु बहूनां दर्पणानां पुर­त­स्ति­र्य­क्प्र­सा­रि­तस्य वंशदण्डस्य दर्पणेषु भिन्न­भि­न्न­प्र­दे­शा­ना­मिव अन्तः­क­र­णे­ष्वा­त्म­न­स्त­त्त­द­न्तः­क­र­णा­भि­मु­ख­भि­न्न­भि­न्न­प्र­दे­शानां प्रतिबिम्बो वाच्यः । सावयवत्वे हि तथा वक्तुं शक्यम् । न च निदाघार्त्तस्य जाह्न­वी­ज­ल­नि­म­ग्न­स­र्व­का­यस्य सर्वा­ङ्गी­ण­सु­खो­त्प­त्त्य­र्थमा केशादा नखा­ग्रा­द­न्तः­क­र­ण­व्याप्तौ सत्यां व्यवधानरहितः तद­भि­मु­खा­त्म­प्र­देशो लभ्यते यस्य तत्र प्रतिबिम्बो वर्ण्येत । एव­म­वि­प्र­कृ­ष्ट­दे­श­रूपं दूषणं भाष्ये व्यक्तमिति दूष­णा­न्त­र­मा­चार्यैः पूर्व­प­क्षि­मु­खे­नो­द्घा­टि­तम् । रूपवत एव रूपवत्येव प्रतिबिम्ब इत्यस्य चाक्षुषस्यैव चाक्षुष एव प्रतिबिम्ब इत्यर्थः । न ह्यस्य नियमस्य क्वचि­द्भ­ङ्गोऽस्ति; मुखा­दि­प्र­ति­बिम्बे तदी­य­चा­क्षु­ष­स­र्व­गु­णा­नु­भ­वात्, कस्तू­रि­का­दि­प्र­ति­बिम्बे तदाघ्राणेऽपि सौरभाननुभवात् च । गुहादिषु प्रति­ध्व­नि­र्ध्वनेः प्रतिबिम्ब इति केचित् । तन्न; स एव हि गगनगुणः शब्दः; दुन्दु­भि­स­मु­द्र­दा­वा­न­ल­झ­ञ्झा­मा­रु­ता­दि­ध्व­नीनां पृथि­व्या­दि­श­ब्द­त्वात् । एवं च यद्यप्याभास (व.अ. २ पा.३ सू. ५०) इति सूत्रेण प्रतिबिम्बपक्ष उक्त इति प्रतिभाति; तथापि एकत्र जीवस्य प्रति­बि­म्ब­त्वा­भ्यु­प­ग­मोऽ­न्यत्र तद्दूषणं च परमाप्तस्य सूत्रकारस्य न संभवतीति किंचिदनुसारेण कस्मिं­श्चि­न्ने­तव्ये प्रति­बि­म्ब­दू­ष­णस्य अवि­प्र­कृ­ष्ट­दे­श­त्वा­दि­यु­क्ति­पू­र्वकं कृतत्वाद् आभास एव चेति सूत्रे भाष्यकारैरपि श्रुत्यो­प­पत्त्या वा प्रति­बि­म्ब­त्वस्य सम­र्थि­त­त्वा­त्त­देव सूत्रं वृद्धि­हा­स­भाक्त्वं (अ.पा.२.२०) इति सूत्रो­क्त­न्या­यात् प्रतिबिम्ब सादृ­श्य­प्र­ति­पा­द­न­परं योज्यं; ताव­ता­प्य­व्य­ति­क­र­सिद्धेः । तदधिकरणटीकायां बिम्ब­प्र­ति­बि­म्बयोः ब्रह्म­जी­व­दृ­ष्टा­न्त­त्वे­नो­पा­दा­नात् च । वस्तुतस्वाभास एव चेति सूत्रं प्रति­बि­म्ब­त्व­रू­पस्य प्रति­बि­म्ब­सा­दृ­श्य­रू­पस्य वाभासत्वस्य प्रतिपादनपरमेव न भवति; षड्विं­श­ति­रि­त्येव ब्रूया­दि­ति­व­दे­व­का­रो­प­ह­त­वि­धि­श­क्ति­क­त्वेन यथा­प्रा­प्ता­नु­वा­द­त्वात्॥ तथा हि प्रकृ­ता­व­ग्नी­षो­मी­य­प­शा­व­ध्रि­गु­प्रैषे 'षड्विं­श­ति­रस्य वङ्क्रय" इति श्रुतम् । अस्य च्छागस्य पशोरेकैकस्मिन् पार्श्वे त्रयोदश त्रयो­द­शा­स्थी­नीति षड्विंशतिः वङ्क्रि­श­ब्दो­क्तानि पार्था­स्थी­नी­त्यर्थः । अश्वमेधे त्वश्वस्य पशोरेकैकस्मिन् पार्श्वे सप्तदश सप्तदशास्थीनीति चतु­स्त्रिं­श­द्व­ङ्क्रयः । तत्प्रकाशको वैशेषिको मन्त्रः पठ्यते 'चतु­स्त्रिं­श­द्वा­जिनो देवबन्धोः वङ्क्रीरश्वस्य स्वधितिः समेतीति" । तेनोपदिष्टेन षड्विं­श­ति­म­न्त्रस्य सर्वथा निवृत्तौ प्रसक्तायां पुनरपि तत्र पठ्यते षड्विं­श­ति­रि­त्येव ब्रूयात्, न चतुस्त्रिंशदिति । तेन प्राकृतमन्त्रः प्राप्यमाणः किं षड्विं­श­ति­प­द­युक्त एव प्राप्नोति, उत अश्व­व­ङ्क्रि­सं­ख्या­नु­सा­रेण षड्विंशतिरिति पदस्थाने चतु­स्त्रिं­श­त्प­दो­ह­युक्त इति संशये "षड्विं­श­ति­रि­त्यैव ब्रूया­दिति" वचनान्नास्ति वचनस्यातिभार इति न्यायात्, षड्विं­श­ति­प­द­युक्त एवेति प्रापय्य, राद्धान्तितं नवमे (जै. अ. ९ पा. ४ सू. १-२१) "षड्विं­श­ति­रि­त्येव ब्रूया"दिति वाक्यं न षड्विं­श­ति­प­द­यो­गेन प्राकृ­त­म­न्त्र­वि­धा­य­कम् । एव­का­रो­प­ह­त­वि­धि­श­क्ति­क­त्वेन तस्य चतु­स्त्रिं­श­न्म­न्त्र­नि­षेध एव तात्पर्यात् । ततश्च निषेधेन वैशे­षि­क­म­न्त्र­नि­वृत्तौ प्राकृ­त­म­न्त्रोऽ­ति­दे­शे­नैव प्राप्नोतीति षड्विं­श­ति­रि­ती­त्ये­त­त्प्रा­प्ता­नु­वा­द­कम् । यथाप्राप्ति चानुवादो भवति प्राप्तिश्च चतु­स्त्रिं­श­त्प­दो­हे­नैव, यथा द्विपशुके पशुबन्धे द्विप­ञ्चा­श­त्प­दो­हे­नैव । तस्मादश्वमेधे चतु­स्त्रिं­श­त्प­दो­ह­युक्त एव षड्विं­श­ति­मन्त्रः प्रयोक्तव्य इति । एवमाभास एवेति सूत्रस्यापि एव­का­रो­प­ह­त­वि­धि­श­क्ति­त्वेन जीवः साक्षाद् ब्रह्मैव न भवतीति भाष्यदर्शिते निषेध एव तात्पर्यम् । आभास इति तु यथा­प्रा­ता­नु­वा­द­कम् । प्राप्तिश्च वृद्धि­हा­स­भा­क्त्व­मिति सूत्रो­क्त­न्या­यात् प्रति­बि­म्ब­सा­दृ­श्य­स्येति तस्यै­वा­नु­वा­द­कम्, न तु कस्यचिदर्थस्य विधायकम् । तस्मा­द­व­च्छे­द­पक्षे न सूत्रा­दि­वि­रो­ध­शङ्का॥ तत्र तत्र प्रति­बि­म्ब­त्व­व्य­व­हा­रस्तु वृद्धि­हा­स­भा­क्त्व­सू­त्र­क्लृ­प्त­सा­दृश्य मूलो गौणः । न हि ज्वल­ना­द्भि­न्न­त्वे­ना­व­गते माणवके अग्नि­र­धी­तेऽ­ग्नि­रा­ग­च्छ­ती­त्या­दि­प्र­यो­ग­स­ह­स्र­स­त्त्वेऽ­प्य­ग्नि­शब्दो माणवके मुख्य­त्व­म­श्नु­वीत, अन्तः­क­र­ण­कृ­त­स्यै­वा­त्मनो जीवा­न्त­र्या­मि­भा­वेन भेदस्तु अवि­द्या­श्र­य­त्व­त­द्वि­ष­य­त्वा­न्तः­क­र­ण­सं­व­लि­त­त्वा­द्यु­पा­धि­भे­दा­दु­प­प­द्यते; अन्यथा 'षड­स्मा­क­म­ना­दय' इति सिद्धान्ते जीवे­श्व­र­भि­न्न­त्वे­ना­भ्यु­प­ग­तस्य जीवे­श्व­र­त­द्भे­दा­दि­स­क­ल­प्र­प­ञ्च­वि­व­र्ता­धि­ष्ठा­न­त्वेन सर्वगतस्य शुद्ध­चै­त­न्य­स्यापि अन्तःकरणे सत्वमवर्जनीयं, तत्तु प्रति­बि­म्ब­प­क्ष­मा­श्रित्य द्विगुणीकृत्य वृत्त्यु­प­पा­द­ने­नापि न निर्वहतीति त्रिगुणीकृत्य वृत्ति­रु­प­पा­द­नीया भवेत्; प्रति­ब्र­ह्मो­पा­स­न­मु­पा­स्य­ध­र्मि­भे­दस्य आचार्यैः आन­न्द­म­या­धि­क­र­णा­रम्भे (ब्र. अ. १ पा.१ सू. १२) वक्ष्यमाणत्वात् । दह­र­शा­ण्डि­ल्य­वि­द्या­द्यु­पा­स्य­भिन्न भिन्न­स­गु­ण­न्न­म­स­त्व­मपि तस्मि­न्न­भ्यु­प­ग­न्त­व्य­मिति तदर्थं चतुः­प­ञ्च­गु­णा­दि­वृ­त्ति­र­प्यु­प­पा­द­नीया भवेत् । न च तदुपपादनं शक्यम्; दृष्टा­न्ता­भा­वात् । तस्मात् जीवे­श्व­रो­पा­धिभ्यां वास्त­व­त­दु­भ­या­भा­वेन तत्त­द्गु­णो­पा­धि­भे­देन चावच्छेदकभेदेन जीवे­श्व­र­शु­द्ध­चै­त­न्या­दीनां भेद आस्थेयः । एवं जीवे­श्व­र­यो­र­प्य­व­च्छे­द­क­भे­देन भेदो भविष्यतीति नानुपपन्नमत्र किंचिदिति॥
इत्थं सत्सं­प्र­दा­या­ध्व­प्रा­प्तयोः पक्षयोः द्वयोः ।
समर्थनं यथाबुद्धि कृतं प्रीत्यै विपश्चिताम्॥
इति कल्पतरुपरिमले चतुस्सूत्री समाप्ता॥

परमेति।
परं सर्व­पू­र्व­भा­वि­ज­ग­त्का­रणं वस्तु, तद्विषया या मा प्रमा, “सदेव सोम्येदम्' इत्या­दि­का­र­ण­वा­क्य­जन्या सा निर­ति­श­या­न­न्दा­दि­स्व­रू­प­ल­क्ष­णा­ञ्चितं सर्वज्ञं यं विषयीकरोति, न त्वतथाभूतं प्रधानादिकम्; प्रस्तो­ष्य­मा­णा­धि­क­र­ण­न्या­यात्, तं पुरुषोत्तमं वन्दे इत्यर्थः। परा उत्कृष्टा मा श्रीमहालक्ष्मीः यमा­लि­ङ्ग­ती­त्य­र्था­न्त­र­म­प्य­नेन क्रोडीकृतम्। यद्यपि तदन्या काचिदपरा लक्ष्मीः नास्ति; तथापि तस्या एव सन्ति रूपभेदा देव­म­नु­ष्या­द्य­नु­ग्र­हार्थं तत्र तत्र तारतम्येन आविर्भूताः तदं­श­क­ला­वि­शे­ष­रूपाः “सौम्यासौम्यैः जगद्रूपैः त्वयैतद्देवि पूरितम्" इत्या­दि­पु­रा­ण­व­च­न­प्र­सिद्धाः। तदपेक्षया परत्वमिह भग­व­द्दि­व्य­म­हि­षी­रूपे विवक्षितमिति परशब्दस्य व्यावर्तकत्वात् विशे­ष­ण­स­मा­सो­प­पत्तिः।
यदि सर्वज्ञे इति।
सर्वज्ञत्वं चेतनस्य ब्रह्मण एव संभवति, नाचेतनस्य प्रधानादेरिति कारणवाक्यानां ब्रह्मपरत्वं तत एव सिद्ध्यतीति भावः।
सर्वज्ञे जगत्कारण इति।
ननु सर्वज्ञे सम­न्व­य­प्र­द­र्श­नेन चेतनत्वं नोपक्षिप्तं, किन्तु प्रथ­म­सू­त्र­मा­र­भ्यैव प्राप्तम्; प्रथमसूत्रे विचार्यत्वेन प्रतिज्ञातस्य नित्य­शु­द्ध­बु­द्ध­मु­क्त­त्व­रू­प­प्र­वृ­त्ति­नि­मि­त्ता­नु­सा­रेण चेत­न­त्वे­ना­भि­म­तस्य ब्रह्मण एव लक्ष­ण­प्र­मा­णा­का­ङ्क्षा­क्र­मेण जन्मा­दि­सू­त्र­त्र­य­प्र­वृत्तेः। अतः सर्व­ज्ञ­त्वो­प­क्षिप्तं चेत­न­त्व­मा­क्षिप्य समर्थ्यत इत्ययुक्तम्। एवं च तच्च ब्रह्मणि इत्या­दि­व्या­ख्ये­य­टी­का­ग्र­न्थोऽ­प्य­युक्त इति चेत्, उच्यते नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावे जन्मा­दि­सू­त्रो­दा­हृ­त­नि­र्ण­य­वा­क्या­नु­सा­रेण सम­न्व­य­सू­त्र­व्य­व­स्था­पि­त­प­र­म­पु­रु­षा­र्थ­ता­नु­सा­रेण च निर­ति­श­या­न­न्द­रूपे ब्रह्मण्येव समन्वय इहाक्षिप्यते। अत एवाव्यवहितेन समन्वयाधिकरणेन आक्षे­प्या­क्षे­पिकी संगतिः। सा च तद­धि­क­र­णा­र्था­नु­वा­द­केन टीकाश्लोकेनैव व्यञ्जिता इत्याचार्यैः नोद्धाटिता। टीकायां सर्वज्ञं सर्वशक्ति यत् जगत्कारणं तद्ब्रह्मेति नाद्यापि सिद्ध­मि­त्युक्तिः सर्व­ज्ञ­त्व­स­र्व­श­क्ति­क­त्वयोः प्रधाने पूर्वपक्षिणा अङ्गी­कृ­त­त्वा­ज्ज­ग­त्का­रणं ब्रह्मेत्यत्रैव विवाद इति प्रागुक्तमपि तदे­त­द­धि­क­र­ण­पू­र्व­प­क्ष­नि­रा­क­र­ण­प­र्य­न्त­म­नु­क्त­प्रा­य­मि­त्ये­त­द­भि­प्राया, न तु ब्रह्मेति प्राङ्नो­क्त­मि­त्य­भि­प्राया; प्रथ­म­सू­त्र­मा­रभ्य सूत्र­भा­ष्य­यो­स्त­दुक्तेः स्पष्टत्वात्। सर्वज्ञत्वेन चेत­न­त्वो­प­क्षे­पो­क्तिस्तु तद्दृ­ढी­क­र­णा­भि­प्राया योज्या। जीवा­णु­व्य­ति­रि­क्ते­त्या­दि­टी­कायां यथा जग­दु­पा­दा­न­का­र­णा­धि­ष्ठातुः जीव­व्य­ति­रि­क्त­ब­वि­शे­ष­ण­म­पे­क्षितं जीवा एव कर्मद्वारा तदधिष्ठातार इति मता­द्भे­द­प्र­द­र्श­नार्थं, न तथा­णु­व्य­ति­रि­क्त­त्व­वि­शे­षणं प्रधा­न­व्या­व­र्त­नार्थं चेतनत्वविशेषणं च तस्यापेक्षितम्। अणवो जगदुपादानभूतान् पर­मा­णू­न­धि­ति­ष्ठ­न्तीति वा प्रधानं तानधितिष्ठतीति वा मतस्य कस्यचिद् निर­स­नी­य­स्या­भा­वात्। तथाप्यर्थगत्या तद्विशेषणद्वयं कणा­द­म­त­स्या­णु­स­ङ्घा­त­वा­दात् प्रधानवादाच्च भेद­प्र­द­र्श­ना­र्थ­त्वेन योज­नी­य­मि­त्य­भि­प्रेत्य व्याचष्टे –
अणु­व्य­ति­रे­के­णेति।
परमाणव इति सिद्धान्ताद्भेद इति।
सिद्धान्तेऽपि जीव­व्य­ति­रि­क्ते­श्व­र­नि­मि­त्ता­धि­ष्ठिताः सन्ति परि­णा­म्यु­पा­दा­न­भूता जीवानामविद्या इति ततो भेद­प्र­द­र्श­नार्थं परमाणव इति विशेष्यभाग इत्यर्थः। ज्ञान­क्रि­या­शक्ती खल्वि­त्या­दि­श्लो­क­व्या­ख्या­न­टी­का­ग्र­न्थेन स्पष्टीकृतमपि ज्ञान­क्रि­या­श­क्त्य­भा­वात् इत्यत्र अभिमतं समासं तत्र टीकाग्रन्थे ज्ञाना­भा­व­सा­धि­तेन ज्ञान­श­क्त्य­भा­वेन ज्ञानाभावसाधने अन्योन्याश्रयः शक्त्यभावेन शक्त्यभावसाधने आत्माश्रय इति शङ्काशदानाय स्मारयति –
ज्ञानक्रिययोः शक्ती इति।
दत्ता­व­का­श­श­ङ्का­स­मा­धा­ना­र्थ­माह –
यस्य हीति।
सामा­न्या­भा­व­सि­द्ध्य­पेक्षं विशे­षा­भा­व­सा­ध­न­मिति न दोष इति समा­धा­ना­भि­प्रायः।
नन्व­प­रि­णा­मि­न्य­पीति।
सर्वज्ञ इत्यादिषु कर्त्र­र्थ­प्र­त्ययः सर्व­वि­ष­य­ज्ञा­ना­श्र­य­त्व­मा­त्रे­णो­प­प­द्यते; सविता प्रकाशते चैत्रः पश्यति ईक्षते करोति स्वपिति इत्या­दि­प्र­यो­गेषु धात्व­र्था­य­त्व­स्यापि तद­भि­धे­य­त्व­द­र्श­ना­दिति भावः॥
नन्वेकमपि ज्ञान­क्रि­य­यो­रा­श्र­य­त्व­म­र्हति, तयो­र्व्या­स­ज्य­वृ­त्ति­त्वा­भा­वात् इत्याशङ्क्य व्याचष्टे –
एकरूपत्वादिति।
अनेन प्रथमव्याख्याने गुणा­पे­क्षा­ने­क­रू­प­त्व­नि­षेधो, द्विती­य­व्या­ख्याने अव­य­वा­पे­क्ष­स्त­न्नि­षे­धश्च कृतो भवति। प्रथमव्याख्याने निर्गुणत्वहेतोः श्लोकव्याख्याने संगृहीतस्य श्लोकेनासंग्रहो वैक­ल्य­मा­पा­द­येत्, द्विती­य­व्या­ख्याने तु निर­व­य­व­त्व­हे­तु­रपि चेत्या­दि­पू­र्व­प­क्षा­न्त­भा­ष्येण दर्शि­तोऽ­त्रा­कृष्ट इति श्लोके तदसंग्रहो न वैकल्यापादक इति विशेषः। निरवयवत्वहेतुः कृत्स्न­प्र­स­क्त्य­धि­क­रण (ब्र. अ.१ पा. सू. २६) पूर्व­प­क्ष­न्या­ये­ना­प­रि­णा­मि­त्व­सा­धकः। ननु निरवयवत्वं श्रुति­सि­द्ध­त्वेन सिद्धा­न्त्य­भि­म­त­म­प­रि­णा­मित्वे हेतूकर्तव्यम्। हेतुवत्साध्यमपि तथात्वेन सिद्धा­न्त्य­भि­म­त­मेव, किमर्थं तत्र हेतुगवेषणं? किमर्थं चाप­रि­णा­मि­त्व­क्रि­या­ज्ञा­ना­भा­व­त­दु­भ­य­श­क्त्य­भा­व­प्र­णा­डि­कया सर्व­ज्ञा­न­स­र्व­श­क्त्य­भा­व­प्र­सा­ध­नम्? अपरिणामित्वमेव ब्रह्मणि जग­दु­पा­दा­न­प्र­ति­पा­द­क­वा­क्य­स­म­न्व­य­प्र­त्याशां त्याजयति, ज्ञानक्रियाभावो जग­त्क­र्तृ­प्र­ति­पा­द­क­त्वा­भि­म­त­वा­क्य­स­म­न्व­य­प्र­त्या­शा­मपि, जग­त्का­र­ण­त्वा­क्षिप्तं सर्वज्ञत्वं सर्वशक्तित्वं च ब्रह्मणो न संभवतीति प्राक्सि­द्धा­र्था­क्षे­पार्थं तस्य सर्व­वि­ज्ञा­न­स­र्व­श­क्त्य­सं­भ­व­प्र­सा­ध­न­मिति चेन्न; तथापि प्रधाने त्वस्ति संभव इत्यस्य वैय­र्थ्या­पत्तेः, प्रधा­न­स्यो­पा­दा­न­त्व­सि­द्ध्यर्थं सर्व­श­क्ति­क­त्वो­प­पा­द­ना­पे­क्षा­या­मपि कर्तृ­त्वो­प­यो­गि­स­र्व­ज्ञ­त्वो­प­पा­द­न­वै­य­र्थ्या­नि­वा­र­णात्। प्रधानस्य कर्तृत्वमपीष्यत इति चेन्न; कर्तृत्वस्य अभि­व्य­क्त­सा­र्व­ज्ञ्या­पे­क्ष­त्वेन शक्ति­रू­प­सा­र्व­ज्ञ्यो­प­पा­द­नस्य अनु­प­यो­गि­त्वा­पत्तेः, उच्यते; 'यः सर्वज्ञः सर्ववित्' 'परास्य शक्तिर्विविधैव श्रूयते' इत्या­दि­श्रु­तीनां प्रधाने समन्वयार्थ तत्र तदुभयोपपादनं, भाष्यानुसारात् ब्रह्मणि तत्स­म­न्व­य­नि­रा­सार्थं च तत्र तदु­भ­या­नु­प­प­त्ति­प्र­द­र्शनं, ब्रह्मणो जग­त्का­र­ण­त्वा­ङ्गी­कारे तदुपपादनार्थम् अने­क­त्वा­द्य­भ्यु­प­ग­मा­व­श्यं­भा­वात् तदे­क­त्वा­प­रि­णा­मि­त्व­नि­र्गु­ण­त्व­नि­ष्क्रि­य­त्व­नि­र्ध­र्म­क­त्व­श्रु­ति­स­म­न्व­योऽपि ब्रह्मणि त्वदभिमतो न सिद्ध्येदिति दर्शयितुमित्थं प्रणा­डि­का­श्र­य­णम्॥
प्रयुक्त आक्षिप्त इति।
अत्रा­क्षि­प्तत्त्वं तादर्थ्येन। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य॥ पश्ब­न्ध­व­दु­भ­यो­रपि संयोगस्तत्कृतः सर्गः॥ (सां.का.२१) इति सांख्यवचनात्,
पुरुषस्य विका­रा­व­स्था­प­न­प्र­धा­न­प्र­द­र्श­न­रू­प­भो­गार्थ तस्य कैवल्यार्थं च प्रधानपुरुषयोः जडचेतनयोः क्रिया­ज्ञा­न­श­क्ति­यु­क्त­यो­रु­भ­यो­रपि एकफलसंपादनार्थं प्रवृत्तयोः पङ्ग्वन्धयोरिव संयो­ग­स्त­त्कृ­तश्च महदादिसर्ग इत्ये­त­द­र्थ­प­र­त्वे­नास्य वचनस्य तत्वकौमुद्यां व्याख्या­त­त्वाच्च। प्रायपाठस्य ईक्ष­ति­श्रु­ति­स्वा­र­स्य­भ­ञ्ज­कत्वं विधि­श्रु­ति­स्वा­र­स्य­भ­ञ्ज­क­त्व­व­द्यु­क्त­मिति विभा­व­यि­तु­म­ध्य­प्रा­य­न्या­यो­त्प­त्ति­स्थ­ल­मु­दा­ह­रति –
यज्ञेति।
प्रधा­ना­ग्ने­य­प्रा­य­व­च­ना­दिति।
"शिरो ह वा एतद्यज्ञस्य यदामेयो हृदयमुशियाजः पादावग्नीषोमीय इति प्रधा­ना­मे­या­ग्नी­षो­मी­य­प्रा­य­पा­ठा­दिति यावत्। ननु आग्ने­या­मी­षो­मी­य­यो­र्येन दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेतेति फलवचनेन प्राधा­न्य­म­व­ग­म्यते, तेनै­वो­पां­शु­या­ज­स्यापि तदवगम्यत एव, पूर्ण­मा­स­प­द­प्र­वृ­त्ति­नि­मि­त्तस्य पौर्ण­मा­सी­का­ल­सं­ब­न्धस्य त्रिष्व­प्य­वि­शे­षा­द­त­स्त­दु­भ­य­प्रा­य­पा­ठे­नो­पां­शु­या­जस्य प्राधान्य सिद्ध्यु­क्ति­र­यु­क्त­ति­चेत्, उच्यते। उपां­शु­या­जा­धि­क­र­ण­सि­द्धान्ते प्रायवचनाचेति (जै.अ.२ पा.२ सू.१२) गुणसूत्रस्येदं व्याख्यानम्। यदा­ग्ने­या­दि­ना­य­पा­ठा­दु­पां­शु­या­जस्य प्राधा­न्य­म­भ्यु­प­ग­न्त­व्य­मिति। तच्चाधिकरणं "जामि वा एतद्यज्ञस्य क्रियत" इत्यादिसंदर्भे विष्णुरुपांशु यष्टव्य" इत्या­दि­वा­क्य­त्रयं विध्य­र्थो­चि­त­त­व्य­प्र­त्य­य­यो­गाद् याग­त्र­य­वि­धा­य­कम्, अदे­व­त­म­न्त­रा­वाक्यं याग­त्र­य­स­मु­दा­या­नु­वा­द­क­मिति पूर्व­प­क्ष­प्राप्तौ; जामि­ता­दो­षो­प­क्र­म-त­न्नि­र्ह­र­णो­प­सं­हा­रै­क­रू­प्या­व­ग­तै­क­वा­क्य­त्व­नि­र्वा­हार्थं पुरोडाशद्वय नैर­न्त­र्य­प्र­यु­क्त­जा­मि­ता­दो­ष­नि­र्ह­र­णो­प­यु­क्त­पु­रो­डा­श­द्व­या­न्त­रा­ल­का­ल­वि­शि­ष्ट­या­ग­वि­धि­नि­र्वा­हार्थं चान्तरावाक्ये एकस्यैव यागस्य विधिः। तत्र त्रिवि­ध­या­ज्या­नु­वा­क्या­यु­ग­ल­रू­प­म­न्त्र­व­र्ण­प्रा­प्त­वि­क­ल्पि­त­दे­व­ता­त्र­या­न्व­या­नु­वा­देन स्तुत्यर्थं विष्ण्वा­दि­वा­क्य­त्र­य­मिति सिद्धा­न्त­व्यु­त्पा­द­नाय। तत्र सिद्धान्ते प्रायवचनाच्चेति सूत्रेण युक्त्य­न्त­र­मु­च्यते। तदित्थम् - न केव­ल­म­न्त­रा­ल­वि­धि­सा­म­र्थ्य­ल­ब्धेन पौर्ण­मा­सी­का­ल­सं­ब­न्धेन उपांशुयाजस्य फल­व­च­न­ग­त­पौ­र्ण­मा­स­प­द­ग्रा­ह्य­तया फलान्वयः सिद्ध्यति; उत्प­त्ति­वा­क्य­श्रु­त­पौ­र्ण­मा­सी­का­ल­सं­ब­न्धयोः आग्ने­या­ग्नी­षो­मी­ययोः झटिति प्रवृ­त्ति­नि­मि­त्ता­व­गत्या पूर्ण­मा­स­प­द­गृ­ही­तयोः फलान्वयबोधने फलवचनस्य चरितार्थतया अन्त­रा­ल­वि­धि­सा­म­र्थ्या­क्षे­प्य­पौ­र्ण­मा­सी­का­ल­सं­ब­न्धि­त्वेन विल­म्बि­त­प्र­वृ­त्ति­नि­मि­त्ता­व­ग­मस्य उपांशुयाजस्य पश्चात् पौर्ण­मा­स­प­द­ग्रा­ह्य­तया फल­व­च­न­स्या­र्था­न्त­र­बो­ध­क­त्वा­सं­भ­वात्। शब्दानां विरम्य व्यापा­रा­सं­भ­वात्। किन्तु ताव­ब्रू­ता­म­ग्नी­षो­मा­वा­ज्य­स्यैव तावुपांशु पौर्णमास्यां यजन्निति प्रक्रम्य आम्ना­ते­ना­न्त­रा­वा­क्येन बोध्य­मा­ना­न्त­रा­ल­काल: प्रकान्तः पौर्णमासीरूपः पर्यवस्यति इत्ये­व­मु­त्प­त्ति­वा­क्य­बो­ध्य­पौ­र्ण­मा­सी­का­ल­त्वा­वि­शे­षे­णा­ग्ने­या­दि­तौ­ल्या­दु­पां­शु­या­जस्य फल­व­च­न­ग­त­पौ­र्ण­मा­स­प­द­ग्रा­ह्य­तया स सिद्ध्यति। एवं च यदि विष्ण्वा­दि­दे­व­त्या­स्त्रय उपांशुयाजाः स्युः, तदा प्रक्रा­न्ता­ग्नी­षो­म­व­क्तृ­क­वा­क्या­नु­सा­रेण तद्दे­व­त्य­स्यै­वो­पां­शु­या­जस्य स्फुट­पौ­र्ण­मा­सी­का­ल­सं­ब­न्ध­तया फल­व­च­न­ग­त­पौ­र्ण­मा­सी­प­द­गृ­ही­तस्य फलान्वयेन प्राधान्यं सिद्ध्येत्, न तु विष्णु­प्र­जा­प­ति­दे­व­त्ययोः उपांशुयाजयोः, न चेष्टापत्तिः। प्राय­पा­ठे­नो­पां­शु­या­ज­मा­त्रस्य प्राधा­न्या­व­ग­मात्, अत­स्त­नि­र्वा­हा­र्थ­म­न्त­रा­वा­क्य­वि­धेयो विक­ल्पि­त­वि­ष्ण्वा­दि­दे­व­ता­त्र­य­युक्त एक एवोपांशुयाजः स्वीकर्तव्यः। न च तथा­प्य­ग्नी­षो­म­व­क्तृ­क­वा­क्या­नु­सा­रे­णा­ग्नी­षो­म­दे­व­त्य­प्र­योग एवोपांशुयाजस्य प्राधान्यं सिद्ध्येत्, न तु विष्णु­प्र­जा­प­ति­दे­व­त्ययोः प्रयोगयोरिति दोषतौल्यं शङ्कनीयम्। यागैक्ये विष्णु­प्र­जा­प­ति­दे­व­त्य­प्र­यो­ग­यो­र­प्यु­प­ल­क्ष­ण­तया तद्दे­व­ता­भू­ता­ग्नी­षो­मा­न्व­या­वै­क­ल्यात्। अत एव सोम­या­जि­ना­म­ग्नी­षो­मी­य­पु­रो­डा­शा­भा­वात् एकपुरोडाशे पूर्णमासयागे अन्त­रा­ल­का­ला­भा­वे­नो­पां­शु­या­जा­प्रा­प्ति­मा­शय अनपायो हि कालस्य लक्षणं हि पुरोडाशौ (जै.अ.१० पा.८ सू.६९) इति दश­मा­ध्या­य­सू­त्रेण अग्नी­षो­मी­य­पु­रो­डा­शा­भा­वेऽपि तदु­प­ल­क्षि­त­का­ला­वै­क­ल्यात् तत्प्राप्तिः समर्थितेति। एवं सत्यपि फलवचने उपां­शु­या­ज­मा­त्रस्य प्राधान्यं मा भूदिति शङ्कायामविशेषेण तन्मा­त्र­प्रा­धा­न्य­स­म­र्प­क­प्रा­य­पा­ठ­प्र­द­र्शनं युक्तमेव। एवं च तत्र यथा प्रधा­ना­ग्ने­या­दि­प्रा­य­पा­ठस्य सैद्धा­न्ति­क­मू­ल­यु­क्ति­स­ह­कृ­तस्य तव्य­प्र­त्य­य­त्र­य­ग­त­वि­धि­स्वा­र­स्य­भ­ज­क­त्व­मे­व­मिह गोणे­क्ष­ण­प्रा­य­पा­ठस्य सर्व­ज्ञ­त्वा­द्य­नु­प­प­त्ति­स­ह­कृ­तस्य ईक्ष­ति­श्रु­ति­स्वा­र­स्य­भ­ञ्ज­क­त्व­मु­प­प­द्यत इति भावः॥
चकारो विशेषवाची तुशब्दसमानार्थ इति।
यस्य प्रप­ञ्च­ना­र्थोऽ­य­म­पिच प्रागु­त्प­त्ते­रि­त्या­दि­ग्रन्थः तस्मिन्न केव­ल­स्या­का­र्य­का­र­ण­स्ये­त्या­दि­पू­र्व­ग्रन्थे पुरुषस्य सार्व­ज्ञ्या­नु­प­प­त्ति­प्र­द­र्श­न­पू­र्वकं त्रिगुणत्वात्तु प्रधा­न­स्ये­त्या­दिना प्रधानस्य सर्व­ज्ञ­त्वा­द्यु­प­पा­द­न­मे­क­प्र­न्ध­तया तुशब्दयोगेन दृष्टमितीहापि चकारस्वर्थो ग्राह्यो न तु स्वत­न्त्र­यु­क्त्य­न्त­र­प्र­द­र्श­ना­र्थ­तया योजनीय इति भावः॥
तद­न­भ्यु­प­ग­च्छ­त­स्तव गौणं स्यादिति।
ज्ञानो­त्प­त्ति­प्र­क्रि­यायां भाट्ट­म­त­म­न­भ्यु­प­ग­च्छ­तस्ते ज्ञानकर्तृत्वं गौणं स्यादित्यर्थः। तद­भ्यु­प­ग­च्छ­त­स्तव न गौणं स्यादिति क्वचित्पाठः। तस्मिन्पाठे तद् भाट्ट­म­त­म­भ्यु­प­ग­म्यते चेद्, ज्ञान­क­र्तृ­त्व­म­गौ­ण­मु­प­पा­द­यितुं शक्यमित्यर्थः॥
ज्ञानं साध­ने­नो­प­ल­क्षि­त­मिति।
तपश्शब्दार्थेन ज्ञानसाधनेन कर्मणा तत्साध्यं ज्ञानं लक्षितम्; ईक्ष­ण­वृ­त्ति­रू­प­स्ये­श्व­र­ज्ञा­न­स्या­स्म­दा­द्य­दृ­ष्ट­ज­न्य­वा­दि­त्यर्थः। ज्ञानेन साध­ने­नो­प­ल­क्षि­त­मिति पाठे तपसा ज्ञानेन कारणेन चीयते व्याचि­की­र्षा­रू­पो­प­च­य­व­द्भ­व­तीति श्रुत्यर्थ उक्तो भवति। उपलक्षितमिति त्वीक्ष­ण­व्या­चि­की­र्षा­रू­प­ध­र्म­द्व­य­यो­ग­स्प­ष्टी­क­र­णा­र्थम्। ज्ञाने­नौ­प­ल­क्षि­त­मिति पाठे तु तप­से­त्यु­प­ल­क्ष­ण­तृ­तीया। व्याचि­की­र्ष­ये­त्य­ध्या­हा­र्यम्। तथा च तपसा केनचिद् धर्मेण युक्तं सद् व्याचि­की­र्षा­द्व­य­ध­र्मा­न्त­र­ज­न­ने­नो­प­ची­यत इति श्रुत्यर्थ उक्तो भवति।
ननु तप­से­त्यु­प­ल­क्ष­ण­तृ­तीया, चीयत इत्ये­त­द­ध्या­हृ­त­व्या­चि­की­र्ष­यो­प­च­य­प­रम्। ततोऽन्नमिति वाक्यं नाम­रू­प­प्र­प­ञ्च­ग­त­व्या­चि­की­र्षा­वि­ष­यी­भ­व­ना­र्थ­कम्, अन्ना­दि­त्ये­त­द्या­चि­की­र्षि­ता­न्ना­न­न्त­र­मि­त्ये­त­द­र्थकं सद­न्न­व्या­चि­की­र्षा­न­न्त­रम् इत्य­र्थ­प­र्य­व­सि­तम्। प्राणादिसृष्टेः प्राग् भूत­सू­क्ष्म­सृ­ष्ट्य­ध्या­हार इति क्लिष्ट­यो­ज­ना­श्र­यणं किमर्थम्। तपसा ब्रह्मोपचीयते तदुपचिताद् ब्रह्मणो भूत­सू­क्ष्म­प­ञ्चकं जायते तस्मा­द­न्ना­त्प्रा­णादि जायत इति योजना किमिति नाश्रिता? इत्या­श­ङ्का­प­रि­हा­रा­र्थ­त्वेन साधारणमिति विशेषणमवतारयति –
तत्र निमित्तमिति।
भोग्यत्वेन सर्व­प्रा­णि­सा­धा­र­ण्य­रू­प­प्र­सि­द्धा­न्न­गु­ण­योगो नामरूपे व्याकरवाणीति व्याचि­की­र्षा­वि­ष­य­त्वे­ना­म्नाते स्थूलप्रपञ्च इव भूतसूक्ष्मेषु नास्ती­त्य­त­स्त­त्वा­र­स्या­नु­सा­रे­णैवं योजनाश्रितेति भावः।
सप्तमी निमित्तार्थेति।
तेषु कर्मसु निमित्तेषु सत्स्वित्यर्थे यस्य च भावेन भावलक्षणमिति सूत्रेण सप्तमीत्यर्थः।
ज्ञान­म­य­मि­त्यौ­पा­धि­क­मी­क्ष­ण­मु­क्त­मिति।
ज्ञानं तप इत्येतावति वक्तव्ये मयटोऽधिकस्य वच­ना­व्या­ख्ये­यस्य तप­श्श­ब्द­नि­र्दि­ष्टे­क्ष­णस्य ज्ञान­वि­का­र­त्व­म­व­ग­म्यते, न वृत्तिज्ञानं कस्य­चि­द्वृ­त्ति­ज्ञा­नस्य विकार इति ज्ञानशब्दस्य स्वरू­प­ज्ञा­ना­र्थ­त्व­स्थितौ निर्वि­का­र­स्या­त्मनः स्वरू­प­ज्ञा­न­स्यौ­पा­धिक एव विकार उक्तो भवतीति भावः॥
निय­त­पू­र्व­का­ल­व­र्ति­त्व­रूपं कारणत्वमिति।
ननु कारणत्वं पञ्चम्यर्थः, कार्यत्वं जनिधात्वर्थः, कथ­म­न­यो­स्त­दे­त­च्छ­ब्दा­र्थत्वं वर्ण्यते? उच्यते; तत्प­द­नि­र्दि­ष्ट­ब्र­ह्म­का­र्यत्वं जायत इत्यनेनोक्तं, ब्रह्मा­दि­प­द­नि­र्दिष्ट कार्य­प्र­कृ­तित्वं तस्मादिति पञ्चम्योक्तं, तदुभयं तदेतत्पदाभ्यां न स्पृश्यते, किं त्वेतत्पदेन सन्निहितवाचिना कालतः सन्निधानरूपं कार­ण­ब्र­ह्म­व्या­व­र्त­क­त्वेन 'कार्यं बादरि' (ब्र.अ.४. पा.३ सू.७) रित्यादिषु प्रसि­द्ध­का­र्य­त्व­सा­मा­न्य­मु­च्यते तत्पदेन कार्य­ब्र­ह्म­व्या­व­र्तकं कार­ण­त्व­सा­मा­न्य­मु­च्यते। कारणं ब्रह्म, कार्यं ब्रह्म, परं ब्रह्म, अपरं ब्रह्मे­त्या­दि­व्य­व­हा­रेषु पर­स्प­र­व्या­व­र्त­क­का­र­ण­का­र्य­प­रा­प­र­वि­शे­ष­ण­द­र्श­नेन अत्रापि हिरण्यगर्भे कार्य­त्व­नि­र्दे­श­द­र्श­नेन च परब्रह्मणि कार­ण­त्व­नि­र्दे­शा­पे­क्ष­णात्। यद्यपि तत्पदस्य तत्प­द­घ­टि­त­पू­र्व­वा­क्या­का­सा­नु­सा­रेण पूर्व­वा­क्य­प्र­कृ­त­स­र्व­ज्ञ­त्वा­दि­वै­शि­ष्ट्य­प­र­त्व­मा­व­श्य­कम्, तथापि तद्वदेव वक्ष्य­मा­ण­का­र्य­ब्र­ह्म­व्या­व­र्त­क­का­र­ण­प­र­त्व­म­प्या­व­श्य­क­मि­त्यु­भ­य­प­रत्वे न कश्चिद्दोषः।
प्रायपाठो न स्वयं श्रुत्या­दि­प्र­मा­ण­वि­रो­धेन कस्यचिदर्थस्य प्रापणे प्रभवति, किन्तु संश­य­नि­व­र्त्त­न­मात्र इत्यत्र साक्षि­त्वे­ना­धि­क­र­ण­मु­दा­ह­रति –
द्वितीये स्थितमिति।
9वत्सनिकान्ताः
वत्सप्रियाः। दार्श­पू­र्ण­मा­सिके ईषा­मा­ल­भे­ते­त्या­ल­भ­ति­श्र­व­णेऽपि व्यभि­चा­र­वा­र­णार्थं प्राणि­द्र­व्य­सं­युक्त इति विशेषणम्। एवं चात्र यजे­स्त­द­नु­मा­प­क­द्र­व्य­दे­व­ता­सं­ब­न्धस्य चाश्रवणेऽपि प्राणि­द्र­व्य­सं­यु­क्ता­ल­भ­ति­लि­ङ्गे­ना­नु­मिते यागे सोम­या­ग­वि­कृ­ति­ष्विव मासा­ग्नि­हो­त्रा­दि­वि­कृ­ति­ष्विव च प्रकृतितो देव­ता­प्रा­प्ति­र्भ­वि­ष्यति। प्राणि­द्र­व्य­सं­यु­क्ता­ल­भ­ति­सा­दृ­श्येन दैक्षपशोः प्रकृ­ति­त्व­प्राप्तेः। न च संस्का­र­प्रा­य­पा­ठात् संस्कारविधिरत्र शङ्क्यः। अन्या­र्थ­द­र्श­न­रू­पस्य प्राय­पा­ठ­लि­ङ्गस्य स्वातन्त्र्येण किञ्चि­द­र्थ­प्रा­प­क­त्वा­भा­वा­दिति भावः।
संज्ञ­प­ना­भि­धा­यीति।
यद्यपि वाय­व्या­दि­वा­क्ये­ष्वपि चोदकादर्थाद्वा प्राप्तस्य स्पर्श­स्या­भि­धानं संभवति; दृष्टं च पशु­या­ग­वि­धि­वा­क्ये­ष्वपि 'त्वाष्ट्रं पात्नी­व­त­मा­ल­मेत' 'ईशानाय परस्वत आलभेत' इत्या­दि­ष्वा­ल­भतेः स्पर्श­मा­त्रा­भि­धा­य­कत्वं, 'पर्य­ग्नि­कृतं पात्नी­व­त­मु­त्सृ­ज­तीति तान् पर्य­ग्मि­कृ­ता­नु­त्सृ­ज­तीति तत्र पर्य­ग्नि­क­र­णा­न्तो­त्स­र्ग­वि­धा­नेन संज्ञपनाभावात्; तथापि वाजपेये प्राजा­प­त्य­प­शूनां प्रातस्सवने पर्य­ग्नि­क­र­णा­न्ता­ङ्ग­क­लापं कृत्वा विरम्य माध्यन्दिनसवने ब्रह्म­सा­म­स्तो­त्र­काले तेषां संज्ञपनं कार्यमिति संज्ञ­प­नो­त्क­र्ष­वि­धा­नार्थे “तान्प­र्य­मि­कृ­ता­नु­त्सृ­जति" ब्रह्म­सा­म्न्या­ल­भत" इति वाक्ये संज्ञ­प­नेऽ­प्या­ल­भतेः दृष्ट­त्वा­द्वा­य­व्या­दि­वा­क्ये­षू­भ­य­था­प्यु­प­पत्तेः संज्ञ­प­ना­भि­धा­यि­त्व­मु­क्तम्।
द्रव्य­दे­व­ता­सं­ब­न्धा­भा­वा­दिति।
द्रव्य­दे­व­ता­सं­बन्धो ह्यनन्यथासिद्ध यागानुमाने लिङ्गं; कार्य­का­र­ण­भा­व­मू­ल­का­नु­कू­ल­त­र्क­स­द्भा­वाद्, न तथे­द­मा­ल­भ­ति­लि­ङ्गम्। तदि­है­त­ल्लि­ङ्गा­नु­मे­य­या­ग­वि­धि­र्भ­वतु, उत गुण­क­र्म­प्रा­य­पा­ठ­ल­भ्य­गु­ण­क­र्म­वि­धि­रिति संशये, अन्या­र्थ­द­र्श­न­रू­प­मपि वैदिकं लिङ्गं सह­चा­र­द­र्श­न­मा­त्र­क­ल्प्य­व्या­प्ति­मू­ल­कात् लौकिकानुमानाद् बलवदतः प्रायपाठेन गुण­क­र्म­ल­सि­द्धि­रि­त्या­शयः। किं चैवं सति विधेः दृष्टार्थत्वं लभ्यते, वत्सस्य स्पर्शेन लालनं हि वत्सलां गां प्रस्ना­व­य­द्दो­ह­नो­प­यो­गीति सार्थ­वा­द­वि­ष­य­वा­क्य­ले­ख­ने­ना­वि­ष्कृ­तम्॥
तन्मते कार्याणामिति।
कार्याणां मह­द­हं­का­रा­दी­ना­म­धि­ष्ठा­तु­री­श्व­रात् अधि­ष्ठा­तु­री­श्व­रस्य उपा­दा­ना­त्प्र­धा­नाच्च भेदादित्यर्थः। न तु कार्या­णा­मी­श्व­रा­दु­पा­दा­नाच्च भेदादित्यर्थः। सांख्यमत इव पातञ्जलमतेऽपि सत्कार्यवादेन कार्यो­पा­दा­ना­भे­दा­भ्यु­प­ग­मात्। एवं चाधिष्ठातुरिति पञ्च­म्य­न्त­ष­ठ्य­न्तयोः तन्त्रे­णो­च्चा­र­ण­मिति द्रष्टव्यम्। एतदनुरोधेन टीकायां तेषां भेदेन कार्य­त्वा­दि­त्य­स्या­धि­ष्ठा­तु­री­श्वराः भेदेन कार्य­त्वा­दि­त्यर्थः। कार्याणां कार­णे­ना­भे­दा­दि­त्यत्र कार­णे­ने­त्य­स्या­धि­ष्ठा­त्रे­त्य­र्थ­श्चेति द्रष्टव्यम्। यद्य­पी­त्या­दि­टी­का­ग्र­न्थेन छान्दोग्ये विय­त्सृ­ष्टि­स्त्य­क्तेति सिद्धवत्कृत्य वक्ष्य­मा­ण­त्रि­वृ­त्क­र­णा­नु­प­यो­गा­त्त­त्त्याग इत्युपपाद्यते। इदमयुक्तम् वियदधिकरणे (ब्र.अ.२ पा.३ सू.१) श्रुत्य­न्त­र­श्रु­त­वि­य­त्सृ­ष्टि-उ­प­सं­हा­रस्य व्युत्पा­दि­त­त्वेन तत्र तत्त्या­गा­भा­वा­दि­त्या­शाङ्क्य, तदु­प­सं­हा­र­व्यु­त्पा­दकं वियदधिकरणं यदि न स्यात्, तदा छान्दोग्ये तत्त्यागः सन्नपि न दोषः; वक्ष्य­मा­ण­त्रि­वृ­त्क­र­णा­नु­प­यो­गेन तत्त्या­ग­स्या­न्य­था­सिद्धेः। तावता विय­त्सृ­ष्ट्य­न­भि­म­त्य­प्र­स­ङ्गा­दि­त्येवं न्याया­न्त­र­व्यु­त्पा­द­नार्थो यद्य­पी­त्या­दि­ग्रन्थ इत्यवतारयति –
आकाशोपक्रमेति।
प्रयोगानुगम इति।
भाष्यकारीयं प्रयो­गो­दा­ह­र­ण­मि­त्यर्थः।
न वाचकत्वायेति।
अने­का­र्थ­व­स्या­न्या­य्य­त्वा­दिति भावः॥
ननु यजतेरिति कुत्रत्यः प्रयोगः? तत्र वा धातुपरत्वं किं न स्यात्? इति शङ्काद्वयं परिहर्तुं यजतेरिति प्रयोगयुक्तं जैमिनिसूत्रं लिखित्वा अधि­क­र­ण­मु­प­न्य­स्थति –
सप्तमे स्थितमिति।
शाकादिषु सिद्धेविति।
शाकादिपाकेषु सिद्ध­व­त्कृ­ते­ष्वि­त्यर्थः। यद्वा - यथा शाकादिषु प्राक्सिद्धेषु विद्यमानेषु तेषां प्राप्तिं सिद्ध­व­त्कृ­त्यौ­द­न­पा­क­मात्रं विधीयते तथेत्यर्थः। यद्यपि शाका­ना­मो­द­न­पा­क­स्व­रूपे तत्फले ओदने च नेति­क­र्त­व्य­ता­रू­पे­णा­काङ्क्षा; तथाप्योदनस्य फलं भोजनमिति तत्रा­का­ङ्क्षा­स­त्वात् आकाङ्क्षामात्रे दृष्टान्तोऽयम्। ननु तत्र शाकादिषु यथा कथं­चि­दा­का­ङ्क्षा­मात्रं वास्ति, इह त्विति­क­र्त­व्य­ता­का­ङ्क्षैव नास्ति, यथाश्रुति सौर्य­च­स्या­ग­मा­त्रेण ब्रह्म­व­र्च­साऽ­पू­र्वो­त्प­त्त्यु­प­प­त्ते­रि­ति­चेत्, उच्यते। सौर्ययागेन ब्रह्मवर्चसं कुर्यादिति विधौ न ज्ञायते केन प्रकारेण तेन ब्रह्म­व­र्च­सा­पूर्वं कर्तव्यमिति। अतस्तेन कथं कर्तव्यमिति भवत्याकाङ्क्षा। न हि पाकेनौदनं कुर्वित्यत्र निर्ज्ञा­त­प्र­कारे ओदनपाक इव पाकेन धात्वन्तरं कुर्वि­त्य­त्रा­नि­र्ज्ञा­त­प्र­का­रेऽ­प्या­काङ्क्षा न भवति। तदि­हा­का­ङ्क्षा­पू­र­णा­र्थ­मित्थं कर्त­व्य­मि­ती­ति­क­र्त­व्य­ता­वि­धा­न­म­पे­क्ष्यते। तच्च दर्श­पू­र्ण­मा­सा­दि­ष्व­ग्न्य­न्वा­धा­न­ब­र्हि­रा­ह­र­णा­दि­वत् प्रकरणाम्नातं नास्ति। अथापि करणविधानं दृश्यते, तेन ज्ञायते नूनमन्यतः संभ­व­त्प्रा­प्ति­के­ति­क­र्त­व्य­ताऽत्र विव­क्षि­ता­स्तीति। अतो यजतेः सौर्या­दि­या­ग­स्या­का­ला­नु­सा­रेण सेति­क­र्त­व्य­ता­कत्वं युक्तमेव। एवं च यद्यपि सौर्या­दी­ना­म­नि­ति­क­र्त­व्य­ता­क­त्व­पू­र्व­प­क्ष­नि­रा­क­र­णा­र्थेन सिद्धान्तेन तेषां सेति­क­र्त­व्य­ता­क­त्व­मात्रं सिद्धम्; तथाप्याष्टमिकैः इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः (जै. अ. ८ पा. १सू. ११) इत्याद्यधिकरणैः सेत्स्य­द्द­र्श­पू­र्ण­मा­सा­दि­प्र­कृ­ति­कत्वं सिद्धवत्कृत्य दर्शा­दि­प्र­कृ­ति­वि­हि­ते­त्यु­क्तम्। ननु अत्र यजतिपदस्य सौर्या­दि­या­ग­प­रत्वं वक्तव्यमिति लक्षणास्तु, ईक्षतिपदस्य तु धातुपरत्वमपि युज्यते। यत्रेक्षणं मुख्यं नास्ति ततो मुख्या­र्थ­स्ये­क्ष­ति­धा­तो­रपि व्यावृ­त्ते­र­र्थ­व­द्धा­तो­रपि लिङ्ग­त्व­सं­भ­वा­दिति चेन्न; अर्थ­स्या­चे­त­ना­द्या­वृ­त्त्य­व­गमं विना तद्वाचकस्य ततो व्यावृ­त्त­र­व­ग­न्तु­म­श­क्य­तया प्रथ­मो­प­स्थि­त­स्या­र्थ­स्यै­वात्र लिङ्ग­तौ­चि­त्यात्। तदेतन्न चावि­व­क्षि­ता­र्थं­धा­तु­स्व­रू­पस्य चेत­नो­पा­दा­न­सा­ध­न­त्व­सं­भव इति टीकाग्रन्थेन स्पष्टत्वात् नोक्तम्॥
अस्पृष्टस्य पुरुषस्यैवेति।
क्लेश­क­र्म­वि­पा­का­श­य­र­प­रा­मृष्टः पुरुषविशेष ईश्वरः (योगसू.पा.१ सू.२४) इति पात­ञ्ज­ल­सू­त्र­ल­क्षि­त­स्ये­श्व­र­स्ये­त्यर्थः॥
ईक्षणं करोतीत्येवंपरं न त्वालो चय­ती­त्ये­व­म­र्थ­मिति।
ईक्षणं ब्रह्म­प्र­का­श­मात्रं सवि­तृ­प्र­का­श­व­द­क­र्म­क­ले­ना­प्यु­प­प­द्यते, आलोचयतिस्तु कर्मापेक्ष एवेति तात्पर्यम्।
गौण­श्चे­दि­त्या­दि­भा­ष्य­मिति।
भाष्यग्रहणेन सूत्रे किंचि­द्या­ख्या­त­व्य­म­स्तीति सूचितम्, तत्प्रदर्श्यते। पूर्वसूत्रेण ब्रह्मणि ईक्ष­ति­लि­ङ्ग­स­म­न्वये सिद्धे सार्व­श्या­द्य­नु­प­प­त्ति­स­ह­कृ­त­त्वा­भा­वाद् गौण­प्रा­य­पा­ठ­मात्रं यद्यपि श्रुतेर्बाधक न भवति; तथापीक्षणं प्रधाने गौणं, कर्तृत्वं ब्रह्मणि वेति विशये प्राय­पा­ठ­मा­त्र­मपि नियामकं भवितुमर्हतीति शङ्कि­तु­स्ता­त्प­र्यम्, प्रथ­म­श्रु­त­नि­र­पे­क्ष­प्र­कृ­त्य­र्थ­गौ­ण­त्वा­यो­गा­दिति परिहारान्तरं नेत्यनेन सूच्यते॥
प्रकाशकत्वाद् ज्योतिष्ट्वेन रूपितेति।
ज्योति­ष्टो­म­ना­म­धे­यस्य 'ज्योतींषि स्तोमा अस्येति' निर्वचनार्थे “त्रिवृ­त्प­ञ्च­द­श­स्स­प्त­दश एकविंशः एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा” इत्यर्थवादे स्तोत्री­या­न­व­का­दि­रू­पेषु त्रिवृ­दा­दि­स्तो­मेषु ज्योतिश्शब्दः प्रयुक्तः। ज्वलने रूढस्य तस्य तेषु प्रयोगे प्रका­श­क­त्व­सा­दृश्यं निमित्तमिति। 'यो हि त्रिवृदन्यं यज्ञ­क्र­तु­मा­प­द्यते स तं दीपयति, यः पञ्चदशः स तं, यः सप्तदशः स तं, य एकविंशः स तमिति" वाक्यशेषेण दर्शितम्। प्रथमयज्ञे ज्योति­ष्टो­मेऽ­नु­ष्ठि­ता­स्त्रि­वृ­दा­दि­स्तोमाः पश्चा­द­नु­ष्ठे­या­न­न्यान् क्रतून् प्राप्तांस्तान् दीपयन्ति प्रकाशयन्ति। पूर्वमनुष्ठिताः पुनःप्रयोगे अभ्या­स­पा­ट­वा­त्स­म्य­ग­नु­ष्ठी­य­मानाः स्वाश्रयान् क्रतून् उज्ज्वलान् कुर्वन्तीति तस्यार्थः॥
स्तुति­स­मु­दा­य­व­त्वा­दिति।
स्तुतिशब्देन स्तोत्री­य­ऋ­क्सा­ध्य­गु­णि­नि­ष्ट­गु­णा­भि­धा­न­वा­चिना स्तोत्री­य­ऋ­क्सं­ख्या­रूपाः स्तोमा लक्षणीयाः; त्रिवृ­दा­दि­श­ब्दानां स्तोम­वि­शे­ष­वा­चि­वात्॥७॥८॥
एकवचनं छान्दसमिति।
इदमुपलक्षणम्। गोना­या­दि­श­ब्द­सा­म्येन श्रुता­व­श­ना­या­श­ब्दस्य व्युत्पा­दि­त­त्वात् कर्म­ण्य­ण­न्त­त्वेन प्राप्तस्य ङीपोऽभावोऽपि छान्दस इति द्रष्टव्यम्। एकवचनाकारयोः छान्द­स­त्वो­क्तिश्च अश­ना­यो­द­न्या­श­ब्द­यो­रप्सु तेजसि च संज्ञारूपेण वृत्ति­म­ना­श्रित्य॥९॥
आदित्याद्या अनुग्राहका देवा इति।
आदित्यादयश्च शुरा­दी­ना­म­नु­ग्रा­हका इत्यर्थः॥१०॥११॥
पञ्चमं ईक्षत्यधिकरणं संपूर्णम्॥

वृत्ता­नु­वा­द­टी­कायां तच्च शास्त्रै­क­स­म­धि­ग­म्य­मिति ब्रह्मणः शास्त्र­यो­नि­त्व­सू­त्र­सि­द्ध­मा­ना­न्त­रा­ग­म्य­त्वा­नु­वादः करि­ष्य­मा­णा­क्षे­पा­नु­प­यो­गात् न कार्य इत्याशाङ्क्य तद्व्यावर्त्यां शङ्कां दर्शयति –
वेदान्तानामिति।
विचार्यत्वेन प्रतिज्ञातं ब्रह्म प्रमाणमुखेन विचारणीयं, ब्रह्मणि यदि वेदा­न्त­व­न्मा­ना­न्त­र­मपि प्रमाणं भवेत्, तदा वेदान्तानां ब्रह्मणि प्रामाण्यस्य प्रति­ष्ठा­पि­त­त्वेऽपि माना­न्त­र­वि­चा­रा­र्थ­मु­त्त­र­सं­द­र्भा­रम्भः स्यादिति शङ्कार्थः। माना­न्त­रै­र­वि­धे­या­र्थ­मिति पाठश्चेदयं परि­हा­रा­भि­प्रायः। यत्प्रमाणं यत्साधनक्षमं तदेव तदभावबोधनेऽपि प्रभवति। न खलु रूपबोधनाक्षमं श्रोत्रं रूपाभावं बोधयितुं शक्नोति। अतः परब्रह्मणि प्रव­र्ति­तु­म­क्षमं मानान्तरं वेदा­न्त­बो­ध्य­त­त्स्व­रू­पा­प­हा­रेऽपि न प्रभवतीति। तमिममर्थं 'श्रुतेस्तु शब्दमूलत्वात् (ब्र. अ. २ पा. १ सू. २७) इति द्वितीयाध्याये सूत्रकृदेव वक्ष्यति॥
न विशे­ष­ण­मा­त्र­मु­पा­धय इति।
यद्यपि विशे­ष­ण­मा­त्र­त्वेऽपि विष­य­भे­दा­दु­पा­स­ना­भेदः तद्भे­दा­त्फ­ल­भे­दश्च सिद्ध्यति; तथापि संभ­वा­द्ध­र्मि­भे­द­प­र्यन्तः परिहार आश्रितः। ननु भाष्यटीकयोः वेदा­न्ते­षू­पा­धि­वि­व­क्षाऽ­वि­व­क्षा­स्थ­ल­वि­भ­ज­ना­र्थ­मु­त्त­र­सू­त्रा­रम्भ इत्यु­क्त­म­यु­क्तम्। न हि वेदान्तखोपाधिना अन ते विचार णीया; येनात्र विव­क्षि­तो­पा­ध­योऽपि विचारणीयाः स्युः, किन्तु जिज्ञा­स्य­नि­र्वि­शे­ष­ब्र­ह्म­प्र­मा­ण­त्वो­पा­धिना। तत्र चेद­वि­व­क्षि­तो­पा­धय एवं प्रमाण, तर्हि ते जग­त्का­र­ण­ला­द्यु­प­ल­क्ष­ण­मु­खैन यथा निर्वि­शे­ष­प­र्य­न्ता­स्त­त्रैव प्रमाणं भवन्ति नान्यत्र, तथा प्रति­ष्ठा­पि­त­मेव। अत उत्त­र­सू­त्र­प्र­प­ञ्चा­ना­र­म्भ­शङ्का तद­व­स्थे­त्या­शा­प­वा­द­स­ङ्गत्या सविशेषवाक्यानां तदपवादसङ्गया निर्वि­शे­ष­वा­क्यानां च केषां­चि­द्वि­चा­रार्थ तदारम्भ इत्यत्र तयो­स्ता­त्प­र्य­माह
अविशेषेणेति।
यद्यपि हिर­ण्म­या­दि­वा­क्या­ना­मपि महातात्पर्येण निर्विशेषे पर्यवसानमस्ति; तथा­प्यु­पा­धि­वि­वक्षा नास्ती­त्य­स्मि­न्नंशे अपवाद इति भावः॥
प्राणा­यु­पा­ध्य­व­च्छिन्नो ह्यात्मे­त्या­दि­टी­का­नु­सा­रेण व्याख्या­याऽ­न्न­मयं शरी­र­म­ना­त्मा­न­म­त्य­न्त­मू­ढा­ना­मा­त्म­त्वेन प्रसि­द्ध­म­न्वा­दि­भा­ष्या­नु­सा­रेण व्याचष्टे –
अथवा भृगु­व­ल्ल्यु­क्तेति।
'आत्मन आकाश' इत्यादिभ्यः प्रकृ­ति­वि­का­रो­प­दे­श­केभ्यः पूर्ववाक्येभ्यो विकारार्थस्य बुद्धि­स­न्नि­हि­त­वाद् भृगु­व­ल्यु­क्ता­धि­दै­वि­का­त्वा­दि-य­था­सं­ख्या­म्ना­ते­ना­ध्या­त्मि­केषु देवतादिषु तद्वि­का­र­त्वोक्तिः प्रतीयत इति भावः।
विका­र­स­न्नि­धे­रिति।
मीमां­सा­भा­ष्य­का­रै­र­नु­ष्ठे­या­ना­म­ङ्गा­ङ्गि­भावे प्रमाणानि श्रुत्यादीनि निरूपितवद्भिः विशये प्रायदर्शना (जै.अ.२ पा.३ सू.१६)दिति सूत्रे गोदो­ह­ना­दि­सं­स्का­राणां वत्सालम्भस्य चाङ्गा­ङ्गि­भा­वा­भा­वात् तत्र­त्य­प्रा­य­पाठः सान्नि­ध्या­म्ना­न­रूपं स्थानप्रमाणं न भव­ती­त्य­भि­प्रे­त्या­न्या­र्थ­द­र्श­न­रू­प­लि­ङ्ग­त्वेन व्यवहृतः। इह शास्त्रे सिद्धा­र्थ­बो­ध­नो­प­यु­क्ता­न्यपि श्रुत्यादीनि गृह्यन्त इति विकारप्रायपाठः सन्नि­धि­ल­क्ष­ण­स्था­न­प्र­मा­ण­त्वेन व्यवह्रियत इति न विरोधः।
ब्रह्म तु ततोऽ­प्या­न्त­र­मिति।
यथा देव­द­त्ता­त्सिं­हा­दीनां बलवत्तरत्वं प्रमा­णा­न्त­र­सि­द्ध­मि­त्यु­क्त­मिति गम्यते, तथा ब्रह्मण आन­न्द­म­य­प्र­ति­ष्ठा­त्वोक्त्या ततोऽ­प्या­न्त­र­त्व­म­नु­क्त­मपि गम्यत इति भावः।
श्रुतिमपीति॥
जीवत्व इत्यनुषङ्गः।
अनुपपत्तेस्तु न शारीर (ब्र.अ.१ पा.२ सू.३) इत्या­दि­प्र­यो­गात् शारीरशब्दो जीव­स्या­भि­धा­न­श्रु­ति­रिति भावः। न च सशरीरस्य सत इत्यादिभाष्यं शारीरश्रुतौ शरीरे भव इति यौगिकार्थस्यापि सत्वात् शरीरवतो दुःखमनिवार्यम् इत्या­न­न्द­म­य­श­री­र­सं­ब­न्धा­नु­मि­त­दुः­ख­भा­गि­त्वा­दपि न ब्रह्मे­त्ये­व­मर्थं प्रतीयते। तदयुक्तम्। उत्तराधिकरणे (प्र.अ.१पा.३सू.१९) परमेश्वरस्य शरीरवत्वेनाथापि सर्व­पा­पो­दि­त­त्वेन च व्यव­स्था­प­यि­ष्य­मा­णस्य दुःखा­प्र­स­क्ते­रि­त्या­शाङ्क्य टीकाकृता मयटः प्राचु­र्या­र्थ­त्वेऽपि ब्रह्म­प­र­त्व­म­नु­प­प­न्न­मि­त्ये­त­द­र्थ­ता­त्प­र्य­क­तया भाष्य­म­व­ता­र्याऽ­श­री­र­स्ये­त्या­दिना तदर्थो वर्णितः। तत्तात्पर्यं विवृणोति–
एवमुक्ते हीति।
सश­री­र­त्वेऽ­प्यै­च्छि­क­श­री­रस्य सविशेषस्य दुःखास्पर्शे सर्वथैवाशरीरस्य निर्विशेषस्य तद­स्प­र्शोऽ­नु­क्त­सिद्ध इति भावः।
सोऽप्यु­पा­धि­व­शा­दिति।
प्रियादियोगवद् दुःखलवयोगोऽपि अती­ता­न­न्त­र­वि­ज्ञा­न­म­य­को­शो­पा­धिक उपपद्यत इति नासौ मुख्या­त्म­त्व­बा­धक इत्यर्थः। 'तत्प्र­कृ­त­व­चने मयडिति प्रचुरतायामपि मयटः स्मरणात्। यथा 'अन्नमयो यज्ञ' इत्यन्नप्रचुर उच्यत इति। भाष्योपात्तं व्याक­र­ण­सू­त्र­मु­पा­दाय व्याचष्टे –
तत्प्रकृतेति॥
इदं सूत्रं वैयाकरणैरित्थं व्याख्यातम्। तदिति प्रथमासमर्थात् प्राचुर्येण प्रस्तु­त­मि­द­मि­त्यर्थे वर्त­मा­ना­त्स्वार्थे मयट्प्रत्ययो भव­ती­त्ये­कोऽर्थः। अस्यान्नमयं यवा­गू­म­यी­त्या­द्यु­दा­ह­र­णम्॥ प्राचुर्येण प्रस्तुता यवा­गू­रि­या­दि­स्त­दर्थः। यद्यपि प्रकृतशब्दः प्रस्तु­त­मा­त्र­वाची, न क्लृप्त­प्रा­चु­र्य­वि­शि­ष्ट­प्र­स्तु­त­वाची; तथापि प्रकृत इत्येतावति वक्तव्ये वचनग्रहणादयं विशेषो लभ्यते। वचनग्रहणं हि लोके यादृशस्य प्रकृतस्य मयटा वचनं प्रत्यायनं प्रसिद्धं तत्र यथा स्यादि­त्ये­व­म­र्थम्। लोके च मय­ड­न्तै­र­न्न­म­या­दि­शब्दैः प्राचुर्येण प्रकृतस्य प्रत्यायनं प्रसिद्धमिति। अपरस्त्वर्थः, प्रकृतं प्रस्तु­त­मु­च्य­तेऽ­स्मि­न्निति प्रकृतवचनम्। तदिति प्रथ­मा­स­म­र्था­त्प्र­कृ­त­व­च­नेऽर्थे मयट्प्रत्ययो भवतीति। अस्यान्नमयो यज्ञ इत्या­द्यु­दा­ह­र­णम्। प्रकृ­त­म­न्न­म­स्मिन् यज्ञ इत्या­दि­स्त­दर्थः। अस्मिन्नर्थे प्रकृ­त्य­र्था­द­र्था­न्तरे प्रत्ययः। प्रकृतशब्देन च प्रस्तु­त­मा­त्र­मु­च्यते। न तु प्राचु­र्य­वि­शि­ष्ट­मिति पूर्व­स्मा­द­र्था­द्वि­शेष इति॥
वृत्तिकारमते व्याख्या­न­द्व­य­मपि नोपयोगि। प्रथ­म­व्या­ख्या­नस्य प्राचु­र्य­वि­शि­ष्ट­प्र­कृ­त्य­र्थ­मा­त्र­प­र्य­व­सि­त­म­य­ड्वि­धि­रू­प­त्वेन ततोऽन्नमयो यज्ञ इत्यन्नप्रचुरो यज्ञ उच्यत इति तदी­यो­दा­ह­र­णा­नु­सा­रेण विव­क्षि­त­त­याऽ­व­ग­तस्य आन­न्द­प्र­चु­र­ध­र्मि­प­र्य­न्त­त्व­स्या­ला­भात्। द्विती­य­व्या­ख्याने प्राचु­र्य­प्र­ती­त्यु­पा­या­भा­वात्। शब्दा­र्थ­नि­र्ण­या­भि­यु­क्त­वै­या­क­र­ण­व्य­व­हा­र­वि­रो­धिनः अना­दि­त्व­नि­र्णा­य­क­प्र­मा­ण­र­हि­तस्य अन्नप्रचुर इत्यर्थेऽन्नमय इति व्यवहारस्य लोके क्वचित् क्वचित् सतोऽ­प्यु­पा­दे­य­त्वा­भा­वात्। अतो वृत्तिकारमतं द्विविधेनापि वैया­क­र­ण­कृ­त­त­त्सू­त्र­व्या­ख्या­नेन निर्वोढुं न शक्यमिति तनि­र्वा­ह­मु­पेक्ष्य धर्मि­प­र्य­न्त­ल­म्भ­क­त्वा­भा­वेऽपि 'विका­र­श­ब्दा­दिति सूत्रो­पा­त्त­प्रा­चु­र्य­प्र­ती­त्यु­प­यो­गि­प्र­थ­म­व्या­ख्यानं दर्शयति –
तदिति प्रथमा समर्थादिति॥
अविशदत्वादिति।
व्याख्या­न­व्या­ख्ये­य­भावः स्पष्टो न भवति, किन्तु सूक्ष्मे­क्षि­क­याऽ­व­सेय इत्यर्थः। तथाहि - ब्रह्म­वि­दा­प्नोति परम् इत्यानन्दवल्या प्रतिपाद्यस्य कृत्स्न­स्या­प्य­र्थस्य संग्राहकं सूत्रम्। तत्र किं तद् ब्रह्म? कथं च तद्वेदनं? किञ्च तद्वेदनप्राप्यं परमुत्कृष्टं फलं? इत्या­का­ङ्क्षायां तत्त्रितयं स्पष्टीकर्तुं 'तदे­षा­भ्यु­क्तेति' ब्राह्म­णो­क्ता­र्थ­प्र­ति­पा­द­क­त्वेन अवतारणपुरस्सरं तद­नु­व्या­ख्या­न­रूपः 'सत्यं ज्ञान मित्यादिमन्त्र आम्नातः। तत्रा­प्ये­व­मा­का­ङ्क्षो­देति कथं ब्रह्म­ण­स्त्रि­वि­ध­प­रि­च्छे­द­रा­हि­त्य­रू­प­मा­न­न्त्यम्? अपरिच्छिन्नं ब्रह्म च कस्यां गुहायां निहितं वेद्यं? कथं तद्वेदनेन ब्रह्मा­दि­स्त­म्ब­प­र्य­न्त­प्रा­णि­नि­का­य­व्य­व­स्थि­त­स­क­ल­का­म­रू­पो­त्कृष्ट फलावाप्तिरिति। अत­स्त­दा­न­न्त्या­द्यु­प­पा­द­ना­र्थ­म­न्त्र­व्या­ख्या­न­रू­पोऽ­नु­वा­क­शेषः। तन्ना­न­न्त्य­नि­रू­प­णार्थं "तस्माद्वा एत­स्मा"दि­त्या­दि­का­र­ण­वा­क्यम्। अत्र तदेतच्छन्दौ व्यव­हि­ता­व्य­व­हि­त­ब्रा­ह्म­ण­त­द्व्या­ख्या­न­म­न्त्र­प्र­कृ­त­ब्र­ह्म­प­रा­म­र्शिनौ। तस्य गुहा­नि­हि­त­त्व­वि­व­र­णार्थं चतु­ष्को­शा­न्त­र­त्व­नि­रू­प­णम्। एवं च यद् ब्राह्म­णो­प­क्षिप्तं मन्त्रवाक्येन विवृतं कारणवाक्यगतेन तदे­त­त्प­द­स­मा­ना­धि­क­र­णे­ना­त्म­प­देन परामृष्टं ब्रह्म, तदेव गुहा­नि­हि­त­त्व­वि­व­र­णा­र्था­न­न्द­म­य­वा­क्य­ग­ते­ना­न्त­र­त्वे­ना­त्म­श­ब्देन च प्रत्यभिज्ञायत इति सूक्ष्मदृष्ट्या तत्प्र­त्य­भि­ज्ञा­न­मा­त्रे­णा­व­ग­न्तव्यो मन्त्र­ब्रा­ह्म­णयोः व्याख्या­न­व्या­ख्ये­य­भावः स्पष्टो न भवति। कोश­वा­क्या­ना­मा­न­न्द­म­य­वा­क्यस्य च व्याख्या­न­व्या­ख्ये­य­भावः स्पष्टः। अन्योऽन्तर आत्मे­त्यै­ता­व­त्प्र­त्य­भि­ज्ञा­न­स­त्वात् इत्यभिप्रेत्य मान्त्र­व­र्णि­क­सूत्रं कोश­वा­क्य­वि­ष­य­त्वेन नीतमिति तात्पर्यम्॥
ननू­दा­हृ­त­प्र­त्य­भि­ज्ञा­नेन आनन्दमयस्य विज्ञा­न­म­य­वा­क्य­सि­द्धा­वपि न तस्य ब्रह्मत्वं सिद्ध्यति तेषामपि ब्रह्म­त्वा­सं­प्र­ति­पत्तेः, तत्सं­प्र­ति­प­त्ता­वपि न सिद्ध्यति विज्ञानमयादन्य इति; तत्र विज्ञा­न­म­य­प्र­ति­यो­गि­क­भे­द­नि­र्दे­शात् इत्या­श­ङ्का­नि­रा­क­र­णा­र्थस्य मन्त्रे हीत्या­दि­टी­का­वा­क्यस्य तात्पर्यमाह –
विज्ञा­न­म­या­दि­श­ब्द­र­पीति।
"विज्ञानं देवाः सर्वे” “ब्रह्म ज्येष्ठमुपासते” विज्ञानं ब्रह्म चेद्वेद" आनन्द ब्रह्मणो विद्वान्" "ये प्राणं ब्रह्मो­पा­सते" "येऽन्नं ब्रह्मो­पा­सते" इति विज्ञा­न­म­या­दि­प­र्या­या­व­ग­ताभिः ब्रह्मश्रुतिभिः ब्रह्मैव स्थूला­रु­न्ध­ती­न्या­येन अन्न­म­या­दि­को­श­रू­प­तया प्रथ­म­मु­प­दि­श्यो­त्त­रो­त्त­र­प­र्या­य­ग­तै­र­न्य­श­ब्दै­स्त­त्त­दु­पा­धिभ्यः प्रविविच्य निर्दि­ष्ट­मि­त्यर्थः। विज्ञा­न­म­या­दि­श­ब्द­रि­त्य­स्यापि विज्ञा­न­म­या­दि­प­र्या­य­ग­तै­र­न्य­श­ब्द­रि­त्यर्थो ग्राह्यः। एवं च कश्चित्तु प्रति­बि­म्बि­त­घ­टा­का­शा­दि­रि­त्या­दिना प्राणमयादीनां प्राणा­धु­पा­ध्य­व­च्छि­न्न­जी­व­रू­पत्वं यदुक्तं तत्पू­र्व­प­क्षि­दृ­ष्ट्येति न विरोधः॥
ननु यद्य­न्न­म­या­दि­प­र्याया अपि ब्रह्मश्रुत्या ब्रह्मविषयाः तर्हि विज्ञानमये एव ब्रह्मो­प­दे­श­प­र्य­व­सानं स्याद्, "विज्ञानं देवाः सर्वे" "ब्रह्म ज्येष्ठ­मु­पा­सते" "विज्ञानं ब्रह्म चेद्वेदे"ति मन्त्रा­म्ना­ताभ्यां "विज्ञानं ब्रह्म चेदिति" मन्त्रे सर्व­का­मा­वा­प्ति­फ­ल­की­र्त­नेन तत्प्र­त्य­भि­ज्ञो­प­बृं­हि­ताभ्यां ब्रह्म­श्रु­तिभ्यां विज्ञानमयस्य ब्रह्म­त्व­प्र­ति­पा­दने तात्प­र्या­ति­श­य­प्र­तीतेः इत्याशमाह –
नचैवमिति।
ननु टीकाभिमते सूत्रार्थे मन्त्र­ग्र­ह­ण­म­वि­व­क्षि­त­स्वार्थं स्यादि­त्या­श­ङ्कक्य भाष्याभिमतेऽपि सूत्रार्थे सा शङ्का भवतीत्याह –
भाष्येऽपीति।
भाष्ये, सौत्र­म­न्त्र­प­दा­र्थ­तया 'सत्यं ज्ञानमिति' मन्त्रमात्रं नोपन्यस्तम्, किन्तु 'ब्रह्म­वि­दा­प्नोति पर'मि­त्यु­प­क्रम्य इत्या­दि­स­न्द­र्भेण महाप्रकरणं तद­र्थ­त­यो­प­न्य­स्तम्। अतः प्रक­र­णा­नु­रो­धे­ना­न­न्द­म­यस्य ब्रह्म­त्व­नि­र्धा­रणं सूत्रार्थतया भाष्या­भि­म­त­मि­त्य­व­सी­यते। अत एव भाष्ये प्रकृतहानं विप­क्ष­बा­ध­क­त्वे­नो­क्तम्, अतो मन्त्रपदस्य स्वार्थ­प्र­च्या­वनं भाष्यपक्षेऽपि तुल्यमित्यर्थः॥
ननु भाष्यकारपक्षे प्रकरणे मन्त्र­ग­र्भ­त्व­म­प्यु­प­चा­र­बीजं, न तु टीकाकारपक्षे कोशवाक्येषु तदस्ति; अतस्तत्पक्षे मान्त्र­व­र्णि­क­प­द­म­वि­व­क्षि­तार्थं स्यादि­त्या­शाङ्क्य, उपायोपेययोरिति टीकोकं तत्स्मारयति –
विवक्षितं कृतमिति।
अविवक्षितार्थं कृतमिति पाठे मुख्या­र्थ­वि­व­क्षा­र­हितं कृतमित्यर्थः। तद्राहित्यं तु भाष्यकाराभिमते प्रकरणे लक्षणापक्षेऽपि समानमिति भावः। वस्तुतस्तु भाष्यकारपक्षे मन्त्रपदं न प्रकरणपरम्; यतो भाष्ये 'ब्रह्म­वि­दा­प्नो­तीति' पर­मो­प­क्र­मो­प­न्या­स­स्त­स्या­न्य­प­रत्वे प्रकरणान्य एवानन्दमयः स्यादिति शङ्कावारणार्थः, कार­ण­वा­क्या­द्य­र्थो­प­न्यासो मन्त्र­स्या­सं­ब­न्धि­प­द­नि­च­य­व्य­व­धा­न­श­ङ्का­वा­र­णार्थः। 'यदा­नन्त्यं प्रतिज्ञाय श्रुति­स्त­त्सि­द्धये जगौ। तत्कार्यत्वं प्रपञ्चस्य तद्ब्र­ह्मे­त्य­व­धा­रय॥' इति तैत्ति­री­य­वा­र्ति­को­त्त­रीत्या मान्त्र­व­र्णि­क­ब्र­ह्मा­नु­वृ­त्ति­सू­च­ना­र्थश्च। अन्यथा हि प्रकृ­त­हा­ने­त्या­दि­ग्रन्थः प्रति­पि­पा­द­यि­षि­त-मा­न्त्र­व­र्णि­क­ब्र­ह्म­वि­ष­य­त्वा­भावे बाध­को­द्धा­ट­नार्थः। एवं कृत्स्नस्यास्य भाष्यवाक्यस्य सौत्र­म­न्त्र­प­द­मु­ख्या­र्था­नु­रो­ध्य­र्थ­प­रत्वं 'मान्त्र­व­र्णि­क­मिति सूत्रं भाष्य­कृ­द्भि­रि­त्या­दिना विवृतमित्यन्तेन ग्रन्थेन आचा­र्यै­र्द­र्शि­त­मेव। टीकाग्रन्थश्च सौत्रं मन्त्रपदं मुख्यार्थे भाष्योक्तदर्थे वा केन­चि­द­स्वा­र­स्येन न प्रवृत्तम्, किन्तु मत्रवर्णस्येव कोशवाक्यजातस्य पर्या­लो­च­ना­या­म­प्या­न­न्दम यस्य ब्रह्मत्वं निश्चेतुं शक्यम्। अतः साऽपि युक्तिरनेन सूत्रेण मन्त्रशब्दस्य गौणीं वृत्तिमाश्रित्य विवक्षितेति सूत्र­यि­तु­म­र्था­न्त­र­मा­श्रि­तम्। अत एव सूत्रा­णा­म­ने­का­र्थ­त्वम् अलङ्कार इत्य­र्थ­द्व­य­प­र­त्व­मि­त्ये­त­दु­प­पा­द­यि­तु­मि­त्याह सूत्रकार इत्यवतारयामास। अनु­प­द­मे­वो­त्त­र­सू­त्रा­व­ता­रि­का­गतं सूत्रपदमेवमाशयं व्याचक्षाणानाम् आचार्याणाम् एत­त्सू­त्रा­व­ता­रि­का­ग­त­स्यापि सूत्रपदस्य अयमेवाशय इत्य­भि­प्रा­योऽ­स्त्येव, किन्तु भाष्या­नु­क्त­त्वात् टीकोक्तार्थो न श्रद्धेय इति मन्द­श­ङ्का­नि­रा­क­र­णार्थं टीकोक्त एवार्थ उपपन्नतर इति तत्प्रौढिः प्रदर्शिता। केषु­चि­ट्टी­का­को­शेषु - मन्त्रे हि पुनः पुनरन्योऽन्तर आत्मेति पर­ब्र­ह्म­ण्या­न्त­र­त्व­श्र­व­णा­दिति पाठं दृष्ट्वा तत्प­रि­ष्क­र­ण­मि­त्थ­मा­चार्यैः कृतम्। कोशान्तरेषु तु - मन्त्रे हि यो वेद निहितं गुहायामिति पर­ब्र­ह्म­ण्या­न्त­र­त्व­श्र­व­णा­दिति पाठो दृश्यते। तस्मिन्पाठे मन्त्रोक्तं ब्रह्मणो गुहा­स­न्नि­हि­त­त्व­म­न्त­र­श­ब्देन प्रत्यभिज्ञायत इत्येतत् स्पष्ट­मे­वे­त्य­भि­प्रेत्य पाठान्तरमेव व्याख्यातम्॥
यत्र पुनः प्राचु­र्य­मे­वेति।
प्राचुर्यस्य धर्मि­वि­शे­ष­ण­त्वेन निर्देश एव व्यधि­क­र­ण­स­जा­ती­या­ल्प­त्वस्य निरूपकत्वं दृष्टम्। यथा 'प्रचु­र­ब्रा­ह्मणो ग्रामः' इत्यत्र प्राचुर्यस्य नामा­न्त­र­ग­त­ब्रा­ह्म­णा­ल्पत्वं निरूपकं दृष्टमिति। तस्य धर्मि­वि­शे­ष्यत्वे तु समा­ना­धि­क­र­ण­वि­जा­ती­या­ल्प­त्व­मेव निरूपकम्। अत एव 'ब्राह्म­ण­प्र­चुरो ग्रामः' इति प्रयोगे तद्रा­म­ग­त­शू­द्रा­ल्प­त्वा­पेक्षं प्राचुर्यं प्रतीयते। न च - प्रचुरप्रकाशः सवि­ते­ति­व'त्प्र­का­श­प्र­चुरः सवितेति' प्रयोगेऽपि नक्ष­त्रा­दि­ग­त­प्र­का­शा­ल्प­त्वा­पे­क्ष­मेव प्राचुर्यं प्रतीयते, न तु सवि­तृ­ग­त­त­मो­ल्प­त्वा­पेक्षं तत्र तमसो बाधितत्वात्, तथेहापि स्यादिति शङ्कनीयम्; तत्रापि घन­तु­हि­न­सैं­हि­के­या­च्छा­द­ना­रो­पि­त­त­मो­ल्प­त्व­म­पेक्ष्य घनाद्यपसरणसमये तथा प्रयोगात्। तदभावे व्युत्पन्नानां तथा प्रयोगा भावात्। ननु-'ब­ल­व­त्त­र­श्चैत्र' इत्यादौ तरबाद्यर्थस्य प्राचुर्यस्य विशेष्यत्वेऽपि मैत्रा­दि­ग­त­ब­ला­द्य­ल्प­ला­पे­क्षत्वं दृष्टमिति चेद, नः तत्र 'द्विव­च­न­वि­भ­ज्यो­प­पदे तर­बी­य­सु­ना'विति द्विवचन विभ­ज्यो­प­प­द­वि­शे­ष­ण­व­शा­दा­ति­शा­य­नि­क­प्र­त्य­येषु व्युत्प­त्त्य­न्त­र­क­ल्प­नेऽपि मयटि तत्कल्पकाभावेन औत्स­र्गि­क­व्यु­त्प­त्ति­ल­ङ्घ­ना­यो­गा­दिति भावः॥
प्रधानं प्रत्ययार्थ प्राचर्य प्रतीति।
यद्यपि मय­ड्वि­धा­य­क­सू­त्रस्य प्रथमव्याख्याने प्राचुर्यं प्रकृत्यर्थस्य विशेषणं, मयट् च स्वार्थिकः; द्विती­य­व्या­ख्याने मयट् प्रस्तु­ता­न्ना­दि­वि­शि­ष्ट­य­ज्ञा­द्यर्थः प्राचुर्यस्य प्रत्यायनमेव नास्तीति शाब्दिकानां मर्यादा; तथाप्यन्नमयो यज्ञ इत्यन्नप्रचुर उच्यत' इति वृत्ति­का­र­द­र्शि­तो­दा­ह­र­णा­र्था­नु­सा­रेण द्विती­य­व्या­ख्याने प्रकृ­त्य­र्थ­प्रा­चु­र्य­वि­शिष्ट एवान्यपदार्थो मयडर्थ इति वृत्ति­का­र­म­त­मा­लो­च्यै­व­मु­क्तम्।। मयड्विकारे मुख्य इत्यादि। नन्वानन्द शब्दा­द्वि­का­रार्थो मयडेव न प्राप्नोति मय­ड्वै­त­यो­र्भ­षा­या­म­भ­क्षा­च्छा­द­न­यो­र्नित्यं वृद्धशरादिभ्य इति विका­रा­व­य­वा­र्थ­म­य­ड्‌वि­धा­य­क­सू­त्रयोः भाषा­वि­ष­य­त्वा­त­यो­र­र्थयोः छन्द­स्य­प्रा­प्तस्य मयटो विधायकस्य द्व्यच­श्छ­न्द­सीति सूत्रस्य द्व्यज्भ्य एव शर­प­र्णा­दि­प्रा­ति­प­दि­केभ्यः तद्वि­धा­य­क­त्वा­दतो मयड्विकारे मुख्य इत्यु­क्त­म­यु­क्तम्। एवं च विका­र­प्रा­य­पा­ठ­प­रि­त्या­गो­क्ति­र­प्य­युक्ता। अन्न­र­स­म­य­वि­ज्ञा­न­म­य­श­ब्द­यो­रपि मयटो विका­रा­र्थ­त्वा­यो­गा­दिति चेन्न। वृद्ध­श­रा­दि­सू­त्र­ग­तेन नित्यग्रहणेन तत्प्रा­प्ति­स­म्भ­वात्। न च वृद्धशरादिभ्यो मयटो नित्य­त्व­सि­द्धायै तत्पूर्वसूत्रेण सर्व­प्रा­ति­प­दि­केभ्यो विकल्पेन मयविधानानन्तरं वृद्ध­श­रा­दि­सू­त्रा­र­म्भ­सा­म­र्थ्या­देव तेभ्यस्तस्य नित्य­त्व­सिद्धेः। न च वाङ्ग­स्र­ङ्म­या­दि­रू­प­सि­द्ध्यर्थं प्रवृत्तस्य नित्यमेकाच इति व्याक­र­णा­न्त­र­सू­त्र­स्यै­क­दे­श­भू­त­नि­त्य­ग्र­ह­ण­मे­क­दे­श­द्वारा तत्सू­त्र­प­स्मा­र­णा­येति येागविभागार्थं तदिति शङ्क्यम्। शरादिगणे मृद्‌ग्र­ह­ण­वै­य­र्थ्यो­पत्तेः। अतस्तदेव मृद्ग्र­ह­ण­मे­का­जु­दा­ह­र­णे­क­दे­श­त्वात् सर्वेषामेकाचां स्मारकम् आश्रयितुं शक्यमिति नित्य­ग्र­ह­ण­म­ति­रि­च्य­मानं भाषायामेव वृद्धशरादिभ्यो नित्य­मि­त्ये­त­द­र्थकं सच्छन्दसि वृद्ध­श­रा­दि­भ्योऽ­न्ये­भ्यश्च प्रातिपदिकेभ्यो यथादर्शनं व्यव­स्थि­त­वि­क­ल्पा­र्थ­मि­त्य­ङ्गी­कर्तुं युक्तमिति। ननु तथापि प्राचु­या­र्थ­म­य‌ड्वि­धा­य­क­सू­त्र-प्र­थ­म­त्र्या­ख्या­नु­सा­रेण अत्र­त्या­न­न्द­म­य­प­दस्य प्रचु­रा­न­न्दा­र्थ­त्व­प­रि­ग्रहे माण्डु­क्य­श्रु­ति­ग­ता­न­न्द­म­य­श­ब्दस्य सुषुप्तजीवे एव ब्रह्मणि मुख्य­त्व­मु­प­प­द्यते। ब्रह्मणो मन­आ­दि­रू­प­त­ये­वा­न्या­व­य­व­त्वे­नो­पा­स्य­तया निर्देशेपि ब्रह्मश्रुतेः मुख्यता नापैति। प्रचुर आनन्दोऽप्यानन्द एव इत्य­भ्य­स्य­मा­ना­न­न्द­प­दा­नाम् आन­न्द­म­य­वि­ष­य­त्वेऽपि लक्षणा न प्रसज्यते। अतः पूर्वपक्षे मुख्य­चि­त्त­य­ल­ङ्घ­नो­क्ति­र­युक्ता। एवमुत्तरपक्षे प्राय­पा­ठ­मा­त्र­बा­ध­नो­क्ति­र­प्य­युक्ता। पुच्छ­श्रु­ति­बा­ध­स्यापि सत्वात्। न च पक्ष्य­व­य­व­प­र­त्वेऽपि तद्बाधस्तुल्यः तस्या वालधावेव मुख्यत्वादिति वाच्यम्। तस्याः पशु­प­श्चा­द्वा­गा­व­यव इव पक्षि­प­श्चा‌द्भा­गा­व­य­वेऽपि मुख्यत्वात्। बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं तस्मात् सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव प्रति­ष्ठा­यो­त्प­तन्ति प्रतिष्ठा हि पुच्छ­मि­त्या­दि­श्रु­तिषु तत्रापि तस्याः प्रयोगसत्वेन विनि­ग­म­ना­वि­र­हा­दिति चेत्, अत्रेदं समाधानं विवक्षितम्। आनन्दमय इत्य­स्या­न­न्द­प्र­चुर इत्यर्थपरिग्रह इव प्रचुर आनन्द इत्यर्थपरिग्रहे ऽपि मुख्यार्थबाधः स्यादेव ब्रह्म­स्व­रू­पा­नन्दे संख्या­धि­क्य­रू­पस्य मुख्यस्य प्राचु­र्य­स्या­भा­वात्। न हि संख्याधिक्यवत् परि­मा­णा­धि­क्य­मु­त्कर्षो वा प्रचुरशब्दस्य मुख्योऽर्थः। अयं पटोऽस्मात् पटात् प्रचुर इति वाऽयं गकारोऽस्माद् गकारात् प्रचुर इति वा प्रयेागाभावात्। सुषुप्तजीवे दृष्टोऽ­प्या­न­न्द­म­य­शब्दो देह­द्व­यो­पा­धि­वि­ग­म­प्र­यु­क्ता­भि­व्य­क्ति­वि­शेष- रूपो­त्क­र्ष­ल­क्षको न मुख्यः। न चेह तथा लक्षणाबीजमस्ति। प्राय­पा­ठा­नु­रो­धि­वि­का­रा­र्थ­प­रि­ग्र­हो­प­पत्तेः। ब्रह्मशब्दोपि ज्ञेये पर­ब्र­ह्म­णी­वो­पास्ये केनचिद्रूपेण परिच्छिन्ने सवि­शे­ष­ब्र­ह्म­ण्य­व­य­वा­र्थ­पौ­ष्क­क­ल्या­भा­वाद् नात्यन्तं मुख्य­भा­व­म­श्नुते। यद्यपि प्रचु­रा­न­न्देऽ­प्या­न­न्द­शब्दो मुख्यः तथाऽ­प्या­न­न्द­म­यस्य ब्रह्मत्वे जीव­सा­धा­र­णा­न­न्दा­भ्या­स­मात्रं न लिङ्ग किं तु प्रचु­रा­न­न्दा­भ्यास इति तल्ला­भा­र्थ­म­भ्य­स्य­मा­ना­न­न्द­म­य­श­ब्दोक्ते प्रचुरानन्दे लक्षणा वाच्या। पुच्छशब्दस्य पक्ष्य­व­य­व­प­र­त्वेऽपि मुख्या­र्थ­त्या­ग­स्तुल्यः। पुच्छोऽस्त्री लूम लाङ्ग­ल­मि­त्य­भि­धा­नको प्रयो­ग­बा­हु­ल्य­नि­श्चि­त­ला­ङ्गू­ल­श­क्ति­कस्य तस्य पक्ष्यवयवे पश्चाद् लम्ब­मा­न­त्व­सा­दृ­श्ये­नाऽ­कच्छः पुच्छकच्छश्चेति पश्चाद् लम्ब­मा­न­व­स्त्रा­व­यव इव प्रयोगोपपत्तौ अने­क­श­क्ति­क­ल्प­ना­यो­गात्। तस्मादिह न कश्चन शङ्कावकाश इति।
ततोऽभ्यन्तरं ब्रह्म किमिति नोक्तमिति।
ब्रह्मणः सर्वा­न्त­र­त्व­प्र­द­र्श­नार्थं खल्व­न्न­म­या­द्यु­त­रो­त्त­रा­न्त­र­नि­रू­पणं प्रवृत्तं सच्चिदानन्दमये पर्यवसितं स एव ब्रह्मेति युक्तम्; ततोऽप्यान्तरं ब्रह्म विवक्षितं चेत्, तथा किमिति नोच्येत। न हि ब्रह्मणः सर्वा­न्त­र­त्व­प्र­द­र्श­नार्थं प्रक्रान्तं तद्ब्रह्मणि परिसमापितमिति युज्यत इति भावः॥
प्रति­ष्ठा­त्व­सा­म­र्थ्या­दिति।
"ब्रह्म पुच्छं प्रति­ष्ठे"त्या­न­न्द­म­य­प्र­ति­ष्ठि­ति­हे­तु­त्व-त­दा­धा­र­त्व­सा­म­र्थ्या­दि­त्यर्थः। अतः ‘कस्मि­न्व­ह­मु­त्क्रान्त' इत्या­दि­श्रु­त्य­न्तरे प्राणस्य जीव­प्र­ति­ष्ठा­हे­तु­त्व­श्र­व­णेऽपि न तत्र व्यभिचारः। यथा भूम­वि­द्या­या"मस्ति भगवो नाम्नो भूय" इत्या­दि­प्र­श्न­प्र­ति­व­च­न­प­र­म्प­रायाः प्राणे समा­प­नेऽ"प्येष तु वाऽति वद­ती'त्या­दे­स्तु­श­ब्द­श्रुत्या "आत्मनः प्राण” इति ततः प्राणो­त्प­त्ति­लि­ङ्गेन च प्राणा­द­र्था­न्त­रो­प­दे­श­प­र­त्व­मिति। तत्रैव "श्रुतं ह्येव मे भग­व­दृ­शे­भ्य­स्त­रति शोकमात्मविदिति शिष्य­जि­ज्ञा­सि­ता­त्मो­प­दे­श­प­र्य­व­सा­न­म­भ्यु­प­ग­म्यते, न तु प्राचीने प्राणे; एवमिहापि योजनीयमिति भावः॥ अन्न­म­या­द्यु­त्त­रो­त्त­रा­न्त­र­नि­रू­पणं ब्रह्मणि कार­ण­वा­क्य­श्रु­त­स्या­त्म­त्वस्य ब्रह्मण्येव श्रुतस्य गुहा­स­न्नि­हि­त­त्वस्य विवरणार्थम्। अतस्तदवश्यं ब्रह्मणि पर्यवसितं वक्त­व्य­मि­त्य­भि­प्रे­त्येवं परिहार आश्रितः। यदि तु 'सत्यं ज्ञानमिति' मन्त्रे सत्यादिलक्षणं ब्रह्म गुहायां निहितं जीवरूपेण गुहायामीश्वरेण निवेशितं जीवाभिन्नं वेदेति जीवस्य गुहा­नि­हि­त­त्व­मु­क्त­मिति तद्विवरणार्थं तत्प्रवृत्तं भवेत्, तदा तत्प­र्य­व­सा­न­मा­न­न्द­मय एवं युक्तमिति न काचिदनुपपत्तिः॥
विशे­ष्य­प्र­धा­न­भू­तेति।
मयडर्थं प्रति प्राति­प­दि­का­र्थस्य विशे­ष­ण­त्वे­ना­प्रा­धा­न्येऽपि विभ­क्त्य­र्थ­संख्या प्रति विशेष्यत्वेन तस्य प्राधान्यमिति सूचयितुं विशेष्यग्रहणम्। संख्या समा­न­प्र­त्य­यो­पा­त्त­का­र­का­न्व­यिनी तद्गुणभूता। प्राति­प­दि­का­र्थोऽपि तद्गुणभूतः। अतो गुणानां च परा­र्थ­त्वा­द­सं­बन्धः समत्वात् स्यात् (जै.अ.२ पा. १ सू. २२) इति न्यायात् संख्या­प्रा­ति­प­दि­का­र्थ­योर्न परस्परं गुणप्रधानभाव इति कौमा­रि­ल­म­ता­नु­स­रणे तु पार्ष्णि­का­न्व­य­वे­लायां प्राति­प­दि­का­र्थस्य संख्या प्रति विशे­ष्य­त्व­म­स्तीति तदभिप्रायं विशेष्यपदम्। एवं च शाब्दबोधवेलायां तस्य संख्यां प्रति प्राधा­न्या­स्फु­र­णेऽपि प्रथमश्रुतस्य तस्य संख्या­वि­शे­ष्यस्य विभक्त्यर्थस्य च प्रकृतौ सम­वे­त­त्वा­द­नु­त्कर्ष इति सिद्धान्तन्यायो द्रष्टव्यः। अत एव - प्रकृत्यर्थस्य पाशस्य विभत्त्यर्थस्य कर्मणः। उभयोः प्रकृ­ती­भा­वा­न्नो­त्क­र्षोऽ­स्या­व­क­ल्पते॥ इति शास्त्र­दी­पि­कायां तदु­भ­य­म­नु­त्क­र्ष­हे­तु­त्वेन दर्शितम्॥
ननु-आ­म्ना­य­स्यार्थं वक्तुं प्रभवामो नाम्नाऽयं पर्य­नु­यो­क्तु­मिति न्याया­द­प­र्य­नु­योज्ये वेदे पाशैक्येऽपि बहुवचनं कथं­चि­द­व­य­व­ब­हु­त्वा­भि­प्रायं योज्यते, पौरुषेयेषु सूत्रेषु वायत्ते शब्दप्रयोगे सर्वज्ञेन सूत्रकृता किमर्थं श्रुति­वि­रो­ध­ना­न्ति­क­र­सू­त्र­प्र­ण­यनं कृतम्? इत्या­श­या­ध्या­हा­रा­द्य­पे­क्षा­ने­का­र्थ­प्र­त्या­य­ना­मि­त्याह–
अध्या­हा­रा­दि­भि­र्ने­या­नीति।
आदिशब्देन लक्षणानुषङ्गो योगवृत्तिश्च गृह्यते। तत्र सौत्रा­न­न्द­म­य­श­ब्द­स्या­न­न्द­म­य­प­या­या­म­नाते पुच्छब्रह्मणि लक्षणा। स्वप्राधान्येन प्रति­पा­द्य­मि­त्य­ध्या­हारः। असन्नेव स भवतीति निग­म­न­श्लो­क­स्थ­ब्र­ह्म­श­ब्दा­भ्या­स­वि­ष­य­त्वा­दिति हेतुः। यत्र ब्रह्मत्वं साध्यं तत्र तद्वि­ष­य­श्रु­त्या­दि­मात्रं हेतूकर्तव्यम्। इह तु ब्रह्मणः पुच्छ­वा­क्य­वि­ष­यत्वे स्थिते तात्पर्येण प्रधानतया तत्प्र­ति­पा­द्यत्वं साध्यमिति तात्पर्यसिद्धये तल्लि­ङ्ग­त­याऽ­भ्या­स­प­र्य­न्त­हे­तूक्तिः। नन्वसिद्धोऽयं हेतुः। यत आनन्दमयो निगमनश्लोक विषयः, न पुच्छ ब्रह्मः पूर्वपर्यायेषु निगमनश्लोकानां पुच्छ­वि­ष­य­त्वा­दृ­ष्टे­रिति शङ्कायामपि सूत्र­मे­वो­त्त­रम्। तत्रानन्दमय एवं पक्षः, न निग­म­न­श्लो­क­प्र­ति­पाद्य इति साध्यम्, ईक्ष­ति­सू­त्रा­न­जा­नु­व­र्त­मा­नेन निषे­ध्या­ध्या­हा­रेण च साध्यपूरणम्, ब्रह्म­श­ब्दा­भ्या­सा­दि­त्यैव हेतुः। अभ्यस्यमानं ब्रह्मशब्दं प्रति जीव­स्या­न­न्द­म­यस्य मुख्या­र्थ­वा­भा­वा­दे­क­पु­च्छ­प­द­म­नु­रु­ध्या­ने­कस्य ब्रह्म शब्दस्य आनन्दमये जघ­न्य­वृ­त्ति­क­ल्प­ना­यो­गात् इत्य­भि­प्रा­ये­णा­भ्या­स­प­र्य­न्तोकिः। किञ्च न निग­म­न­श्लो­क­प्र­ति­पाद्य इत्यस्मिन् साध्ये निग­म­न­श्लो­क­प्र­ति­पा­द्य­ब्र­ह्म­स­त्वा­स­त्व­वे­दि­तृ­त्वेन प्रकृ­त­प­रा­म­र्शिभ्यां स एनमिति सर्व­ना­म­भ्या­म­भ्य­स्य­मा­न­त्वा­दिति हेलन्तरमप्यनेन विवक्षितम्। अत्रापि पुच्छपदाद् बल­व­त्व­सि­द्ध्य­र्थ­म­भ्या­स­प­र्य­न्त­हे­तूक्तिः॥१२॥ द्वितीयसूत्रे विकारपदेनावयवो लक्ष्यते। तद्वाचिशब्दः पुच्छशब्दः। स एव शब्दो विकारो विग­त­का­र्योऽ­न­र्थकः शब्दः। कारशब्दः कर्मणि घञन्तः कार्यवाची। तथा­चा­व­य­व­वा­चि­श­ब्दा­त्तस्य स्वार्थत्यागे लक्ष­णी­या­भा­वे­ना­न­र्थ­क्य­प्र­स­ङ्गाच्च ब्रह्म न स्वप्राधान्येन प्रति पाद्यमिति शङ्कार्थः। न च पुच्छ­प­दे­ना­धा­रत्वं लक्षणीय प्रतिष्ठापदेन पौन­रु­क्त्य­प्र­स­ङ्गा­दिति शङ्कितुः हृदयम्। नैव शङ्कितव्यम्। ब्रह्म­श्रु­त्य­भ्या­सा­नु­रो­धात्। ब्रह्म स्वप्राधान्येन प्रतिपाद्यमेव, पुच्छपदं तु तत्रा­धा­र­त्व­ल­क्ष­कम्। न च प्रतिष्ठापदेन पौनरुक्त्यम्। पुच्छ­प­द­स­म­भि­व्या­हृ­तेन तेन पुच्छ­व­त्प्र­ति­ष्ठि­ति­क्रि­या­सा­ध­न­स­मु­च्यते। पक्षिणो हि पुच्छेन प्रति­ति­ष्ठ­न्तीति लोकतः श्रुति­त­श्चा­व­ग­तम्। यथा पुच्छेन प्रतिष्ठितौ तदु­प­रि­त­ना­व­य­वा­व­च्छिन्नं पक्षिणं प्रति पुच्छमाधारस्तथा ब्रह्मणा प्रतिष्ठितौ प्रियादिमध्य भाग­रू­पा­त्म­ता­व­य­व­यु­क्त­मा­न­न्द­मयं प्रति ब्रह्माधार इति तदाधारत्वँ पुच्छपदेन लक्ष्यत इत्येवं वैव­क्षि­क­क­र­ण­त्वा­धि­क­र­ण­त्व­रू­पा­र्थ­भे­द­स­त्वात्। तथापि मुख्यमाधारवाचकं हित्वा प्रही­णा­व­य­व­वा­चिना पुच्छपदेन तल्लक्षणा केन हेतुनेति चेत्, पूर्व पर्यायेषु पुच्छशब्दानां प्राचु­र्या­दि­हापि पर्याये तत्सा­म्या­र्थ­पु­च्छ­शब्दे प्रयोक्तव्ये तेनै­वा­धा­र­त्व­प्र­तीतिः लभ्यत इति तात्पर्येण। ननु पूर्व­प­र्या­य­सा­म्यार्थं पुच्छ­प­द­प्र­यो­ग­मात्रं नापेक्षितं, किं त्वव­य­वि­ग­त­पु­च्छा­व­य­वा­न्व­य­बो­ध­नो­प­यो­गि­तया तेन पुच्छा­व­य­व­प्र­ति­पा­द­नम्। नचाधारलक्षकेण तत्प्रतिपादनं संभवति। अतोऽनाधारलक्षणा युक्ते­ल्य­स्या­मपि शङ्कायां प्राचु­र्या­दि­त्ये­वो­त्त­रम्।
इत्थमपि शङ्का नावतरति अर्था­न्त­र­ल­क्ष­क­तया स्वार्थ­म­न­भि­द­धा­न­स्यापि शब्दस्य स्वार्था­भि­धा­न­फ­ला­र्थ­ता­दृष्टेः। तद्यथा। "उत्तरं बर्हिषः प्रस्तरं सादयति प्रजा वै बर्हिर्यजमानः प्रस्तरो यज­मा­न­मे­वाऽ­य­ज­मा­ना­दु­त्तरं करोति तस्माद्यज जमा­नोऽ­य­ज­मा­ना­दु­त्तर' इति श्रुतौ प्रस्त­र­स­मा­ना­धि­क­र­णस्य यजमानशब्दस्य प्रस्तरे यज्ञ­नि­व­र्त्त­क­त्वा­दि­य­ज­मा­न­गु­ण­मु­खेन वृत्ति­स्त­त्सि­द्धि­पे­टि­का­या­मु­प­पा­दिता। अथापि प्रस्तरे मुख्य­य­ज­मा­न­त्व­बो­ध­नस्य यत्फलं यज­मा­न­मे­वाऽ­य­ज­मा­ना­दि­त्यादि वाक्य­शे­षा­र्थो­प­पा­दनं तादर्थ्यमपि दृश्यते। यथा वाग्निर्वै ब्राह्मण' इति श्रुता­व­ग्नि­श­ब्दस्य मुख्य­प्र­भ­व­त्व­रू­पा­ग्नि­गु­ण­मु­खेन ब्राह्मणे वृत्तिस्तत्र समर्थिता, तत्तु­ल्य­न्या­य­त­याऽमि दीक्षित' इत्य­त्रा­ग्नि­श­ब्दस्य दीक्षिते वृत्तिरपि किंचि­द­ग्नि­गु­ण­मु­खे­नेति सिद्ध्यति। अथापि दीक्षि­तेऽ­ग्नि­ता­दा­त्म्य­बो­ध­नस्य यत्फलं “मद­न्ती­भि­र्जि­यत" इति विधिशेषस्य निर्वाग्निः शीतेन बाध­ती'त्य­र्थ­वा­द­स्या­प­पा­दनं तादर्थ्यमपि दृश्यते। एवं “यजमानो वा आहवनीयो" "यजमानं वा एतद्विकर्षते यदा­ह­व­नी­या­त्प­शु­श्र­पणं हर­ती"त्या­दीनि प्रचु­रा­ण्य­त्रो­दा­ह­र­णानि॥ ननु सान­न्द­म­य­स­क­ल­वि­का­र­जा­त­का­र­ण­ख­मा­न­न्द­मये नान्वेति चेत्। तत्पुच्छतेन निर्दिष्टे ब्रह्मण्येव 'तस्यैष एव शारीर आत्मेति' पुल्लिान प्रकृते सोऽका­म­य­ते­त्या­दे­र­न्व­योऽस्तु; पुच्छ­म­हि­म­व­र्ण­नेन पुच्छवतः प्रधान स्याधि­क­स्तु­ति­ला­भात्। न च-किचि­द्वि­का­रै­क­दे­शस्य परिच्छिन्नस्य सक­ल­वि­का­र­का­र­ण­स­म­नु­प­प­ञ्च­मिति शलम्; न हि मुख्य­वृ­त्त्याऽ­य­म­व­यव उपदिश्यते, किं त्वन­व­य­वेऽ­व­य­व­त्व­दृ­ष्टि­मा­त्र­मु­प­दि­श्यते। प्राण­म­य­म­नो­म­य-प­र्या­य­यो­रा­का­श­पृ­थि­वी­य­जु­रा­दीनां वस्तुतः तत्त­द­न­व­य­वा­ना­मे­वा­व­य­व­ल­क­ल्प­ना­द­र्श­नात्। न च विकार प्रत्य­व­य­व­त्व­दृ­ष्टि­वि­धा­न­मा­त्रेण कार णला­न्व­या­नु­प­प­त्ति­रा­यातिः तथा सत्या­का­श­दृ­ष्टि­वि­शि­ष्टो­द्री­यो­पा­स­ना­या­मा­काशे सर्व­भू­त­का­र­ण­त्वा­य­न्व­या­यो­गे­ना­का­शस्य कार­ण­त्वा­दि­ब्र­ह्म­लि­ङ्गेन ब्रह्म­ल­नि­र्ण­य­वि­रो­धा­पत्तेः। न च मुख्यावयवलमेवान विवक्षितमिति वाच्यम्। प्राण­म­य­म­नो­म­य­प­र्या­ययोः आका­श­पृ­थि­वी­य­जु­रा­दीनां मुख्या­व­य­व­त्वा­सं­भ­वेन तद्वदिहापि दृष्टि­मा­त्र­वि­धा­नौ­चि­त्या­दि­त्या­श­ङ्याह –
तद्वयवो ब्रह्मापि विकारस्यादिति।
पूर्व­प­र्या­ये­ष्वि­द­मेव शिर' इत्यादिनोकानां शिरःप्रभृतीनां तत्त­न्मु­ख्यै­क­दे­श­त्वा­न्मु­ख्यै­क­दे­शे­ष्वेव च शिर­स्त्रा­दि­क­ल्प­न­स्यो­चि­त­त्वात् आका­श­पृ­थि­वी­श­ब्दा­भ्याम् आका­श­पृ­थि­वी­सं­ब­न्ध­वतोः समानोदानयोः यजुरादिशब्दैः तत्त­द्वि­ष­य­म­नो­वृ­त्तीनां च ग्रहणम्; तेषां शिर­स्त्वा­दि­क­ल्प­ना­स्वी­का­रात्। ब्रह्मणि पुच्छ­त्व­क­ल्प­नायां तस्या­न­न्द­म­य­मु­ख्या­व­य­व­त्व­मे­वा­ङ्गी­क­र्तव्यं स्यादिति विकारावयवस्य तस्य मुख्य­वि­का­र­त्वा­पत्त्या कार­ण­त्व­श्र­व­ण­मु­प­रु­ध्ये­तेति भावः॥
इति षष्ठं आन­न्द­म­या­धि­क­र­णम्॥

अन्त­स्त­द्ध­र्मो­प­दे­शात्॥२०॥ अपवादचिन्तायाः शास्त्र­स­ङ्ग­त्य­र्थ­प्र­स्तु­त­शा­स्त्रो­प­यो­गि­फ­ल­माह –
निर्विशेषमिति।
न तूपक्षिप्यत इति।
श्रुत्येति शेषः। तासा­म­प्य­धि­का­र­प्र­स­ङ्गा­दिति पाठः साधुः; श्रुतौ गाव इत्यस्याः शृङ्गाः सन्ती­त्या­दि­वा­क्य­शे­षतः स्त्रीलि­ङ्ग­त्वात्। यद्वा तेषामपि पाठ इत्थं योज्यः, श्रुतौ गाव इत्यनेन स्त्रीगव्य इव पुङ्गवा अपि संगृहीताः; "ग्राम्य­प­शु­स­ङ्घे­ष्व­त­रु­णेषु स्त्रीत्य­नु­शा­स­नात् तत्र स्त्रीलि­ङ्ग­शे­षता, इह तु ग्रन्थे तेषामित्यनेन निष्कृष्य पुङ्गवानामेव परामर्शः। मनुष्येषु जायापत्योः दिवि ज्योति­र­ज­र­मा­र­भे­ता"मि­त्यादि लिङ्गात्कर्मसु सहाधिकारेऽपि “युक्ता मे यज्ञ­म­न्वा­सा­ता"मि­त्या­दि­लि­ङ्गात् पत्यु­र्मु­ख्या­धि­कारो दृष्ट इति तदनुरोधेन पुङ्गवानां तत्र मुख्या­धि­का­रा­पा­द­नार्थ इति। ननु "न ह वै देवा"नि­त्या­दि­श्रुतेः आगा­मि­पा­पा­प्रा­प्ति­र्नार्थः, किन्तु विद्य­मा­न­पा­प­फ­ला­प्राप्तिः। इत्थं पापशब्दस्य फललक्षणा त्वया­प्ये­ष्टव्या, अन्यथा पुण्यमेवामुं गच्छतीति तदनन्तरवाक्यस्य विध्य­धि­का­र­प­रत्वं स्यात्, तच्च तव नेष्ट­मि­त्या­शाङ्क्य तथा तदर्थाभ्युपगमे सर्व­पा­प्मो­द­य­वा­क्य­स्यापि स एवार्थो भविष्यती लाह –
अथेत्यादिना।
पूर्व­स्मि­न्न­प्यथें नास्मा­क­म­नु­प­पत्तिः,
पुण्यमेवामुमिति
वाक्यस्य देव­ता­न्त­रो­द्दे­श्य­क­त्व­र­हि­त-प­र­मे­श्व­र­पू­जा-त­दु­द्दे­श्य­क-त­प­श्च­र्या­दि­वि­ष­य­त्वो­प­पत्तेः, प्रत्युत भार­ती­वि­ला­स­स्यै­वा­स्मि­न्न­प्य­र्थेऽ­नु­प­प­त्ति­स्तुल्या। "पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति श्रुतेः ब्रह्महत्याया एव पापफलत्वात्। "तस्या­ञ्ज­लिना ब्रह्म­ह­त्या­मु­पा­गृ­ह्णात्" इत्य­र्थ­वा­द­श्र­द्धा­व­त­स्तस्य "तं भूतानि अभ्यक्रोशन् ब्रह्महनिति” तद­न­न्त­र­वा­क्य­श्रु­तस्य लोकगर्हणस्य "तस्मा­दि­न्द्रोऽ­बि­भेदि"ति तत्पू­र्व­सं­द­र्भ­श्रु­तस्य भयस्य चाङ्गीकृतत्वेन तयोरपि पापफलत्वात्।
तत्प्र­द­र्श­ना­र्थ­त्वा­दिति।
सर्व­पा­प्मो­द­य­वा­क्यस्य या या गतिर्वक्तुं शक्यते, तस्याः सर्वस्या अप्यु­प­ल­क्ष­ण­त्वेन कर्मा­न­धि­का­र­त्वो­क्ते­रि­त्यर्थः। तत्र रविरिति विशेष्यपदेन गत्यन्तरमपि सूचितम्। रविः खलू­त्प­न्न­सा­क्षा­त्कारो जीवन्मुक्तः स्वाधिकारावसाने मुक्तो भविष्यतीति याव­द­धि­का­र­मि­त्य­धि­क­रणे (ज. अ.३ पा.३ सू. ३२) भाष्य­कृ­द्भि­र्व­क्ष्यते। तत­श्चो­त्प­न्न­ब्र­ह्म­सा­क्षा­त्का­रस्य तस्य तदधिगम उत्त­र­पू­र्वा­घ­यो­रि­त्य­धि­क­रणे (ब्र. अ. ४ पा. १ सू. १३) वक्ष्यमाणेन न्यायेन सर्वस्य पूर्वाघस्य नाशः उत्त­रा­घ­स्याऽ­श्ले­ष­श्चा­स्तीति तदन्यतरविषयं सर्व­पा­प्मो­द­य­वा­क्य­मिति तस्य यथेदं प्रदर्शनार्थं, तथा पूर्वपापानां देवतासु फला­ना­र­म्भ­क­त्व­रू­प­स्या­प्य­र्थस्य प्रद­र्श­ना­र्थ­मिदं भविष्यतीति भावः॥
ननु नानाधारस्य स्वम­हि­म­प्र­ति­ष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्यतेति भाष्ययोजनार्था, अनाधारत्वे च नित्यत्वं सर्वगतत्त्वं च हेतुरिति टीका न युक्ता, भाष्ये नित्य­त्वा­वि­शे­ष­णा­दि­त्या­शङ्क्य, आह –
नित्यत्वमिति स्वम­हि­म­प्र­ति­ष्ठ­त्वस्य व्याख्येति।
अनित्यस्य स्वका­र­ण­प्र­ति­ष्ठ­त्वा­व­श्यं­भा­वेन स्वम­हि­म­प्र­ति­ष्ठ­त्वा­यो­गात् तेन नित्य­त्व­मा­क्षि­प्यत इत्या­क्षे­प्य­नि­त्य­त्व­ता­त्प­र्यकं तत्, न त्वना­धा­र­ख­ता­त्प­र्य­कम्। अनाधारपदेन पौन­रु­क्त्या­प­त्तै­रिति भावः॥
नित्यमपीति।
नित्यमसर्वगतं वस्तुतः सिद्धान्ते नास्तीति तर्कि­त­म­भि­प्रेत्य चेच्छब्दः। सर्वगतत्त्वं सक­ल­व­स्त्व­न्व­यित्वं, तन्मा­या­या­म­प्यस्ति साधारणम्, अतो नित्य­त्व­वि­शे­ष­ण­मिति स्पष्ट­त्वा­न्नो­क्तम्। यदि सर्वगतत्त्वं ब्रह्मासाधारणं परिपूर्णत्वं, तदा तावदेव हेतूभवनक्षममिति न नित्य­त्व­वि­शे­ष­ण­म­पे­क्षि­तम्। स्वम­हि­म­प्र­ति­ष्ठ­स्ये­त्ये­तच्च न नित्यपरतया व्याख्येयं, किं त्वना­धा­र­स्ये­वे­त­द्व्या­ख्ये­य­प­र­तया योजनीयम्। तेन भाष्ये स्वे महि­म्नी­त्यु­दा­ह­रि­ष्य­माणा श्रुति­र­ना­धा­र­त्व­प­र­तया भाष्ये एव विवृता भवति; अन्यथा तया स्वकीये महिमशब्दोक्ते क्वचिद्वस्तुनि प्रति­ष्ठि­त­त्व­मु­च्यत इति प्रकृतविरोधः शङ्क्येत। एवं च स्वम­हि­म­प्र­ति­ष्ठ­प­द­प्र­ति­पा­दि­तेन अना­धा­र­त्वे­ना­क्षिप्तं नित्यत्वं कथमनाधारत्वे हेतुरित्यपि शङ्का निरवकाशा भवति। सर्वगतत्त्वं सक­ल­व­स्त्व­न्व­यि­त्व­मि­त्येव निरुच्य नित्य­त्व­वि­शे­ष­णा­पे­क्षणे तु तत्स्व­म­हि­म­प्र­ति­ष्ठ­प­देन कथंचिल्लक्ष्य, न प्रागु­क्त­क्र­मे­णा­क्षे­प्य­मि­त्य­न्यो­न्या­श्र­य­प­रि­हारो द्रष्टव्यः। टीकायां नित्य­त्व­स्या­का­श­व­दिति भाष्यो­दा­हृ­त­श्रु­त्यु­क्तस्य हेतुता विवक्षितेति व्याख्याने तु तस्य नाक्षेपो न लक्षणेति न कथं­चि­द­प्य­न्यो­न्या­श्र­य­शङ्का॥
ब्रह्मणि सर्वा­त्म­त्व­सं­भ­व­मा­हेति।
अने­ना­दि­त्य­पु­रुषे अक्षिपुरुषे च तत्संभवशङ्का निरस्ता। सा चैवम्, आदित्यपुरुषे पृथि­व्य­ग्न्या­दि­दृ­ष्टि­वि­शि­ष्ट-ऋ­क्सा­म­गे­ष्णत्वं मण्ड­ल­त­द­र्च्चि­स्त­द­भि­मा­नि­पु­रु­षा­णा­मा­दित्यो वा एष एत­न्म­ण्ड­लम्" इत्यादिश्रुतौ ऋक्सा­म­य­जु­रा­त्म­तया वर्णि­त­त्वा­दु­प­प­न्नम्। आदि­त्य­पु­रु­ष­स्यै­वा­क्ष­ण्यपि सन्नि­हि­त­त्वा­त्त­त्रापि सैव ऋक्सा­मे­त्या­दि­नो­क्त­ऋ­क्सा­मा­द्या­त्मत्वं तत एवोपपन्नमिति। तत्रायं परिहारो विवक्षितः। ऋक्सा­मा­दि­रू­पत्वं मण्डलादीनां स्तुत्य­र्थ­मु­पा­स­नार्थं वोक्तं, ब्रह्मणि तु सर्वोपादाने 'सन् घट' इत्या­दि­व्य­व­हा­रा­ल­म्बनं व्याव­हा­रि­क­प्र­मा­ण­ग­म्य­मस्ति सर्व­प्र­प­ञ्च­ता­दा­त्म्य­मिति।
तद्रूपेणोदय इति।
आदित्यपुरुषस्य सर्व­पा­प्मा­पा­दा­न­त­यो­प­ल­क्षितः उदय उद्गमनमुच्यत इत्यर्थः।
ननु पाप्मा­पा­दा­न­क­मु­द्ग­मनं प्राक्पा­प्म­सं­ब­न्धिनो जीवस्यैव संभवतीति नेदं ब्रह्मलिङ्गमिति चेत्, न; जीवस्यापि नीडात् शकुन्तस्येव पापाद् मुख्य­स्यो­द्गु­म­न­स्या­सं­भ­वेन नीडादुगतः शकुन्तो यथा सर्वात्मना नीडसंबन्धरहितः, एवमयं सर्वात्मना पापसंबन्धरहित इत्ये­त­द­र्थ­ल­क्ष­क­त्वात्। तत­श्चा­स­ङ्कु­चि­त­स­र्व­पा­प­रा­हित्यं क्वचिदपि जीवे न संभवति; "न ह वै सशरीरस्य सत" इति श्रुत्यु­क्त­रीत्या शरीरे सति कियतोऽपि दुःख­स्या­व­श्यं­भा­वेन तद्धे­तु­पा­प­स­द्भा­व­नि­य­मात्। ननु 'तां कुर्व­दि'त्य­युक्तं, न हि शब्दः स्वयं मायां करोतीत्याशङ्क्य तां कुर्व­दि­त्य­ने­ना­नु­वा­दत्वं विहाय स्वातन्त्र्येण मिथ्या­बु­द्ध्यु­त्पा­द­कत्वं विवक्षितमिति व्याचष्टे –
मायां मिथ्यावुद्धिं कुर्वदिति।
गेष्ण्यो पर्वणी इति।
गान­क्रि­या­सा­ध­न­प­र्वणी इत्यर्थः। एतदुक्तं भवति – 'तस्योदिति नामे'त्या­दिभिः वाक्यै­रु­न्ना­म­वि­धा­न­त­न्नि­र्व­च­न­त­वे­द­न­फ­ल­स­ङ्की­र्त­ना­न­न्तरं "तस्यर्क् साम च गेष्णा"विति ऋक्सामयोः प्रकृ­तो­न्ना­म­क­पु­रु­ष­गे­ष्ण­त्व­म­भि­धाय "तस्मा­दु­द्गी­थ­स्त­स्मा­त्वे­वो­द्गा­तै­तस्य हि गातेति" वाक्याभ्यां ऋक्सामयोः उद्गे­ष्णा­त्वा­देव साम­भ­क्ति­वि­शे­ष­स्यो­त्क­र्म­क­गा­न­सा­ध­न­वा­च्यु­द्गीथ शब्दवाच्यत्वं तस्मादेव च हेतो­रु­द्गी­थ­भ­क्ति­गा­तु­रु­त्क­र्म­क­गा­न­क­र्तृ­वा­च्यु­गा­तृ­श­ब्द­वा­च्यत्वं चेति श्रूयते। तत्रो­न्ना­म­क­पु­रु­षस्य गानकर्मत्वं साम­रू­प­गी­ति­क्रि­या­भि­व्यङ्ग्यं ऋक्सा­ध्य­स्तु­ति­क­र्मत्वं, यथा “तद्य इमे वीणायां गायन्त्येतं ते गाय­न्ती"त्यत्र लौकिकपुरुषस्य लौकि­क­गा­न­क­र्मत्वं वैणि­क­गी­य­मा­न­लौ­कि­क­श­ब्द­सा­ध्य­स्तु­ति­क­र्म­त्वम्। एवं चोन्ना­म­क­पु­रु­षस्य स्तुता­वृ­क्सा­क्षा­त्सा­धनं, साम ऋग­भि­व्य­क्ति­द्वारा; 'साम्ना स्तुवी­तेति' साम्नोपि स्तुति­सा­ध­न­त्व­श्र­व­णात्। अतः स्तुतौ साध्यायां सामद्वयं सोपा­न­प­र्व­द्व­य­वत् क्रमिकमास्त इति गान­प­र्व­त्व­मृ­क्सा­म­यो­रिति। ततश्च लौकि­क­गा­न­वि­ष­य­रा­जा­दि­रू­प­त­ये­वा­दि­त्य­पु­रु­ष­स्या­क्षि­पु­रु­षस्य च ऋक्सा­म­सा­ध्य­स्तु­ति­वि­ष­या­नी­न्द्र­सो­मा­दि­रू­प­तया सार्वा­त्म्य­सिद्धिः। यद्यपि प्रस्ता­वा­दि­सा­म­भ­क्त्य­व­य­व­रूपे सामगानां पर्वेत्येव प्रसिद्धे साम्नामवच्छेदे गेष्ण्याख्या तेषां प्रसिद्धा, औक्थिक्याख्ये साम­प­र्व­ल­क्ष­ण­ग्र­न्थेऽपि तथैव व्यवहारः; तथापि स्तोत्र­सा­ध­न­क्र­मि­क­प­र्व­द्व­य­त्व­सा­दृ­श्याद् ऋक्सामयोः गेष्ण­द्व­य­त्वा­रोपः। गेष्ण्यौ शरीरावयवपर्वणी इत्य­प्या­च­च­क्षते॥
इति सप्त­म­म­न्त­र­धि­क­र­णम्।

आका­श­स्त­ल्लि­ङ्गात्॥२२॥
तस्मादुद्गीथ इत्यु­द्गी­थ­सं­प­त्ते­स्तु­ल्य­त्वा­दिति।
यद्यपि तस्मादुद्गीथ इत्येतत् पूर्व­प्र­कृ­तो­न्ना­म­क­त्वेन ऋक्सा­म­गे­ह­ण्य­त्वेन च हेतु­नाऽऽ­दि­त्य­पु­रु­ष­स्यो­द्गीथ इति नामा­न्त­र­वि­धा­नार्थं, न तूगी­थ­सं­प­त्त्यर्थं तत्र 'तस्मा­दिति" हेतोरनन्वयात्, 'उद्गेष्ण' इति नाम्नि विधातव्ये 'उद्गीथ' इति तद्विधानं देवानां परो­क्ष­प्रि­य­त्वात्। तथैव च छान्दोग्यविवरणे व्याख्यातम्। यन्नाम तन्नामेति नामा­ति­दे­श­क­वा­क्य­स्यो­दि­त्यु­द्गीथ इति च नाम­द्व­या­ति­दे­श­क­तया व्याख्यानेन चास्य नामा­न्त­र­वि­धा­ना­र्थत्वं स्थिरीकृतम्। पूर्वा­धि­क­र­ण­प्र­द­र्शि­तया रीत्या उद्गा­न­क­र्तु­रु­द्गा­तृ­ना­म­व­दु­द्गी­थ­भ­क्ते­रु­द्गी­थ­ना­मापि ऋक्सामयोः उन्ना­म­क­दे­व­वि­ष­य­गा­न­प­र्वत्वे प्रमाणपरतया नीयते चेदपि नेदमुद्गीथं संपत्तिपरम्, आदि­त्य­पु­रु­ष­स्यो­द्गीथे सम्पत्तिस्तु प्राक् ओमि­त्ये­त­द­क्ष­र­मु­द्गीथ मुपासीत 'तस्यो­प­व्या­ख्या­न'मि­त्या­दि­नो­गी­थो­पा­स­ना­प्र­प­ञ्च­न­प्र­ति­ज्ञा­नात्। उत्त­र­त्रा­का­श­वा­क्येऽपि स एष परो­व­री­या­नु­द्गीथ" इत्यु­द्गी­थ­सं­प­त्त्य­नु­वृत्तः, हिर­ण्म­य­वा­क्येऽपि तस्मा­दै­वं­वि­दु­द्गाता ब्रूयात् कं ते काम­मा­गा­या­नी'त्य­क्ष­ण्या­दि­त्य­पु­रु­षो­पा­स­नस्य उद्गा­तृ­क­र्तृ­क­त्व­लि­ङ्ग­द­र्श­नाच्च लभ्यते। तल्लभ्यैव चोद्गीथसंपत्तिः छान्दोग्यविवरणे “य एवं विद्वान् साम गाय­ती'त्यत्र य एवं विद्वानित्यस्य एवमुक्तरूपं देवमुद्गीथं विद्वानिति व्याख्यानेन दर्शिता। इह शारीरकेऽपि 'सैव हि सत्यादय' (ब्र. अ.३ पा. ३ सू. ३८) इत्यधिकरणे। छान्दोग्ये हि कर्म­सं­ब­न्धि­न्यु­द्गी­थ­व्य­पा­श्रया विद्या विधीयत इति वाक्येऽस्या अन्त­रा­दि­त्य­वि­द्यायाः स्वत­न्त्र­वि­द्या­त्व­श­ङ्का­नि­रा­क­र­णाय कर्म­ङ्गा­श्रि­त­त्व­व्य­व­स्था­प­नार्थे उद्गी­थ­व्य­पा­श्र­ये­त्य­नेन सा दर्शिता। तत्र तदनन्तरम् “इयमेवर्गग्निः सामे"त्य­न्त­रा­दि­त्य­वि­द्यो­प­क्र­म­वा­क्य­वद् “य एवं विद्वान् साम गायती"ति तदु­प­सं­हा­र­वा­क्य­वच्च "तस्यक साम च गेष्ण्या तस्मा­दु­द्गीथ' इति तन्म­ध्य­पा­ति­वा­क्य­मपि ऋक्सा­म­सं­ब­न्ध­रू­प­क­र्मा­ङ्गा­श्रि­त­ब­चि­ह्न­मा­त्र­प्र­द­र्श­क­त­यो­प­न्य­स्तम्, न तूगी­थ­सं­प­त्त्य­र्थ­त्वेन, अत­स्त­स्मा­दु­द्गीथ इत्य­स्यो­द्गी­थ­सं­प­त्त्य­र्थ­त्वो­क्ति­र­यु­क्तेति प्रतिभाति; तथापि "तस्मा­दु­द्गीथ" इत्युद्गीथनाम विधा­ना­दु­द्गी­थ­भ­क्त­रा­दि­त्य­पु­रु­षस्य चोद्गी­थ­ना­म­क­ल­रू­प­सा­म्य­सिद्धौ पूर्वा­प­र­सं­द­र्भ­प­र्या­लो­च­नया चोद्गीथसंपत्तौ हृदि विप­रि­व­र्त­मा­नायां "तस्य भूरिति शिशरः एक हि शिरः एक­मे­त­द­क्ष­र"मि­त्या­दि­श्रु­तिषु प्राये­णा­रो­प्या­धि­ष्ठा­न­यो­र्य­त्किं­चि­त्सा­म्या­व­ल­म्ब­न­म­भे­द­दृ­ष्टि­वि­धा­न­मिति श्रुति­शै­ली­वि­दा­मि­हा­प्यु­गी­थ­ना­म­क­ल­सा­म्या­व­ल­म्ब­ना­भे­द­दृ­ष्टि­प­र्य­न्ता­र्थि­का­र्थेऽस्य वाक्यस्य तात्पर्यमस्तीति प्रतीयत एवे­त्य­भि­प्रे­त्येदं वाक्य­मु­द्गी­थ­सं­पत्तौ प्रमा­ण­त­यो­प­न्य­स्तम्। एवमनया प्रणा­लि­क­यो­द्गी­थ­नाम विधा­न­स्या­र्था­दु­द्गी­थ­सं­पत्तौ पर्य­व­सा­न­म­भि­प्रे­त्यैव छान्दोग्यविवरणे "तस्यर्क् साम च गेष्णौ तस्मा­दु­द्गीथ" इति वाक्यमवतारितम् तस्योद्गीथत्वं देव­स्या­दि­त्या­दी­ना­मिव विव­क्षि­त्वाऽऽ­हेति। पूर्वं य एवासौ तपति तमु­द्गी­थ­मु­पा­सी­ते­त्या­दि­ष्वा­दि­त्या­दी­ना­मि­वे­त्यर्थः॥
आन­न्त्या­द्य­यो­गा­दिति।
शाला­व­त्य­प­क्षो­द्भा­वि­ता­न्त­व­त्व­दो­षा­प­नि­नी­ष­यो­प­न्य­स्त­म­न­न्तत्त्वं चरमश्रुतमपि सकृत् श्रुतमपि लिङ्गं सदपि प्रथ­म­श्रु­ता­भ्य­स्ता­का­श­श्रु­त्य­पे­क्षया बलवत्। तथाभूताया अप्याकाशश्रुतेः लक्ष­णा­स­हि­ष्णु­त्वे­ना­न्य­था­सि­द्ध­त्वा­द­न­न्त­त्व­लि­ङ्ग­स्या­न्त­वति तपने प्रागु­द्भा­वि­त­दो­षा­प­न­य­ना­ला­भा­दि­त्य­न­न्त­त्व­लि­ङ्ग­स्या­न­न्य­था­सि­द्ध­त्वम्, सर्व­का­र­ण­त्वा­दि­लि­ङ्गा­न्त­रा­पे­क्षया प्रथमापेक्षितवं च। प्राब­ल्या­ति­श­य­म­भि­प्रेत्य विषयवाक्ये तेभ्य­श्च­र­म­श्रु­त­स्यापि तस्य प्रथममुपन्यासः।
मुख्या­नु­गु­ण्ये­नेति।
यथा दाल्भ्य­प­क्षो­द्भा­वि­ताऽ­प्र­ति­ष्ठि­त­त्व­दो­षा­प­नि­नी­षया शाला­व­त्ये­नो­प­न्यस्तं प्रति­ष्ठा­त्व­लिङ्गं स्वर्गलोकवत् प्रति­ष्ठा­न्त­र­सा­पे­क्षायां पृथिव्यां निर­पे­क्ष­मु­ख्य­म­सं­भ­व­दपि स्वर्ग­लो­का­पे­क्षया पृथिव्याः कथं­चि­त्प्र­ति­ष्ठा­त्वा­ति­श­य­म­पेक्ष्य मुख्य­पृ­थि­वी­श्रु­त्या­नु­गु­ण्येन पृथिव्यां संभ­व­त्प्र­ति­ष्ठा­त्व­रू­प­तया नीतम्, एवमानन्त्यमपि मुख्या­का­श­श्रु­त्या­नु­गु­ण्येन भूताकाशे पृथिव्यपेक्षया बहु­का­ल­व­र्ति­व­रू­प­तया नेत­व्य­मि­त्या­शयः।
तथा हि पृथि­वी­मा­त्र­का­र­ण­स्येति।
नन्वपां कारणस्य तेजसः प्रसि­द्ध­त्वेऽ­प्यपां का गतिरिति प्रश्नो दृश्यते 'अस्य लोकस्य का गतिरिति, दाल्भ्यकृतस्य प्रश्नस्य पृथि­वी­मा­त्र­का­र­ण­वि­ष­यत्वं चाभ्युपगम्यते तद्वत् शाला­व­त्य­कृ­त­स्यापि तस्य तन्मा­त्र­वि­ष­यत्वं किं न स्यादि­त्य­स्व­र­सा­दाह –
अस्येति च सर्व­ना­म­श्रु­ते­रिति।
ननु सर्वनाम्नः प्रकृ­त­प­रा­म­र्शि­त्व­स्वा­भा­व्या­दसौ लोकः अयं लोक इत्यनयोः समभिव्याहारे अदइदंशब्दयोः स्वर्ग­लो­क­पृ­थि­वी­लो­क­प­र­त्व­स्यैव श्रुतिषु सर्वत्र दृष्ट­वा­चा­वा­स्येति सर्वनामश्रुतेः पृथि­वी­मा­त्र­प­र­त्वेन संकोचो न दोष इत्यस्वरसादाह –
किंचेति।
ननु अस्यशब्दः पृथिवीपर इत्येतावता तन्मात्रकारणं पृष्टं न भवति येन तन्निरूपणे अन्तवत्वदोषो नापनीतः स्यात्, किन्तु पृथिवीकारणं पृष्टं भवति तत्कारणत्वं चानन्ते सर्व­का­र­णेऽ­प्य­स्तीति पृथि­वी­का­र­ण­प्र­श्नेऽपि तन्नि­रू­प­णे­ना­न्त­व­त्व­दो­षा­प­नयः स्यादे­वे­त्य­नु­प­प­त्त्य­भा­वा­दस्य लोकस्येत्यस्य दाल्भ्यकृतस्यैव शाला­व­त्य­कृ­त­स्यापि प्रश्नस्य न सर्वलोकविषयत्वं कल्पनीयमिति चेत्, न; यथा शाला­व­त्य­प्र­श्नै­क­रू­पस्य दाल्भ्य­प्र­श्न­स्या­न­न्त­व­स्तु­प­र­त्वा­भा­वेऽ­प्य­न्त­व­त्व­दो­ष­मु­द्भा­वि­त­वान् जैवलिरनन्तं वस्तु पृथिवीकारणं विवक्षतीति निश्चयवतः शालावत्यस्य प्रश्नोयमनन्त वस्तुपर इति कल्प्यते, तथा सर्व­का­र­ण­त्वा­भावे त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्य­रू­प­त­दा­नन्यं न स्यादतोऽनन्तं वस्तूपक्षिपता जैवलिना सर्वकारणमेव तदुपक्षिप्तं भवतीत्यपि शालावल्यस्य निश्चयसम्भवेन तदीयप्रश्नोयं तत्किं सर्वकारणमनन्तं वस्त्विति सर्वलोकगतिविषय इत्यपि कल्प­यि­तु­मु­चि­त­त्वा­दिति भावः॥
यथा ह्युच्चैरिति।
"उच्चै­र्ऋचा क्रियते" "उपांशु यजुषा" "उच्चैः साम्नेत्यत्र विधे­य­मु­च्चै­ष्ट्वा­दिकं किमृगादिधर्मों वेदधर्मों वेति संशयः। ऋगादिधर्मत्वे यजुर्वेदगता अपि सपा­द­ब­न्ध­म­न्त्र­रूपा ऋच उच्चै­ष्ट्व­ध­र्माणो भवन्ति, साम­वे­द­ग­ता­न्य­प्य­पा­ब­न्ध­म­न्त्र­रू­पाणि यजू­ष्यु­पां­शु­त्व­ध­र्माणि भवन्ति, वेदधर्मत्वे तु ऋग्वेदेन यत् क्रियते विधीयते कर्म, तदु­चै­ष्ट्व­ध­र्म­क­मि­त्ये­व­मा­दि­प्र­का­रे­णो­च्चै­ष्ट्वा­दिकं तत्त­द्वे­द­वि­धे­य­क­र्म­ध­र्मतां प्राप्य तदङ्गेषु मन्त्रे­ष्व­व­त­र­तीति विशेषसूत्रे प्रायपदं प्राथम्यपरम्। अपि चास्यैवोपक्रम इत्यादिः शाला­व­त्य­स्ये­ती­त्य­न्त­ष्टी­का­ग्र­न्थोऽ­न­न्वित इव भातीत्याशङ्क्य, अन्त­व­त्व­दो­ष­प्र­द­र्श­ना­र्थ­श्रु­ति­नि­वे­श­न­पू­र्वक भाष्य­प्र­ती­क­ग्र­हणं तदित्याह –
अपि चेति भाष्योक्तेति।
अस्यैवोपक्रम इत्येतदपि भाष्य एव विव­क्षि­तां­श­नि­वे­श­ना­र्थम्। यद्य­प्य­न­न्त­त्व­मा­ना­न­त­श्च­र­म­श्रुतं; तथापि शालावत्यपक्षे अन्त­व­त्व­दो­षो­द्भा­व­नेन जैवलिः स्वयमनन्तं किंचि­द्वि­व­क्ष­ती­त्ये­व­मु­प­क्रम एवावगतमिति तात्पर्यम्। यत्तु प्रति­ष्ठा­त्व­व­द­न­न्त­त्व­मपि यथा­क­थं­चि­ने­त­व्यम् इति। तन्न। प्रति­ष्ठा­त्व­स्यापि यथा­क­थं­चि­न्न­य­ना­भा­वात्। प्रतिष्ठात्वं ह्यत्र नोपजीव्यवम्; "इतः प्रदानं देवा उप­जी­व­न्ती"ति­व"द­मुतः प्रदानं मनुष्या उप­जी­व­न्ती'त्यपि श्रवणेन स्वर्गपृथिव्योः पर­स्प­र­मु­प­जी­व्यो­प­जी­व­क­भा­वस्य तुल्यतया स्वर्गों न प्रतिष्ठा पृथिवी प्रतिष्ठेति व्यव­स्थि­तो­क्त्य­यो­गात्, किन्तु निश्चलत्वमिह प्रति­ष्ठा­श­ब्दार्थः। तत्तु ज्योति­श्च­क्रा­न्त­र्ग­त­त्वेन भ्रमति स्वर्गे नास्ति, अस्ति तु पृथिव्यां, पृथिवी प्रतिष्ठितेति श्रुत्यन्तरात्, आर्य­भ­ट्टा­द्य­भि­म­त­भू­भ्र­म­णा­दि­वा­दानां श्रुति­न्या­य­वि­रो­धेन हेयत्वात्। किञ्च आन­न्त्या­दि­गु­ण­का­का­श­प्र­ति­पा­द­नार्थ प्रवृ­त्तेऽ­स्मिन् महावाक्ये मध्यगतं पृथि­वी­प्र­ति­ष्ठा­त्व­व­र्णनं यथा­क­थं­चि­न्नी­यतां नाम, न तावता तद्वदानन्त्यमपि नयनमर्हति; न ह्यग्नि­हो­त्र­द्र­व्य­त्वेन पयसो विधानार्थे महावाक्ये मध्ये श्रुतं जर्ति­ल­ग­वी­धु­क­य­वा­गू­वि­धानं सार्थवादं विधि­स­रू­पा­र्थ­वा­द­त्वेन नीतमिति पयोविधानमपि तथा नीयते।
अन­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­दिति
अन­न्त­व­स्या­न­न्य­था­सि­द्धि­द­र्शिता। सर्वाणि ह वेत्यादि वाक्येनाकाशः परायणमाकाशं प्रत्यस्तं यन्तीति वाक्याभ्यां च प्रदर्शितम्। सक­ल­का­र्यो­त्प­त्ति­स्थि­ति­ल­या­धा­रत्वं मूल­का­र­णा­न्त­र­व्य­व­च्छे­द­के­ना­व­धा­र­णेन लम्भि­त­मु­पा­दा­ना­ति­रि­क्त­क­र्तृ­रा­हित्यं चान­न्त्या­न्त­र्ग­त­व­स्तु­प­रि­च्छे­द­रा­हि­त्यो­प­पा­द­क­त्वे­ना­न­न्यथा सिद्धम्। परोवरीयस्त्वमपि परोवरीयसो ह लोकान् जय­ती­त्या­दि­वा­क्यो­क्त­त्वा­नु­गु­ण­फ­ल­व­त्वा­द­न­न्य­था­सि­द्धम्॥
इत्य­ष्ट­म­मा­का­शा­धि­क­र­णम्॥

अत एव प्राणः॥२३॥
सर्वाणीति वाक्यमिति।
ननु प्रत्य­क्षा­नु­ग्र­ह­नि­य­मि­ता­र्थ­श्रु­त्य­न्त­र­सं­वा­दे­नेदं वाक्यं वायु­वि­का­र­प­र­मि­त्ये­त­द­यु­क्तम्। प्रत्यु­दा­ह­र­ण­सं­ग­त्य­यो­गात्, वायुविकारस्य सर्व­भू­त­सं­वे­श­नो­द­म­न­हे­तु­त्व­सं­भवे हि तद्वारा तत्कारणस्य भूताकाशस्यापि तत्संभवतीति पूर्वा­धि­क­र­णो­क्त­स्तत्र तदसंभवः प्रत्युद्धृतः स्यात्; अवधारणोपबृंहितं तत्तत्र न संभवतीति चेद्, वायुविकारेऽपि तुल्यम्। इहापि प्राणा­दे­वे­त्य­व­धा­र­ण­श्र­व­णात् इति चेत्, उच्यते; इह सर्वाणि भूतानीति शब्दः प्राणिवर्गपरः। भूतशब्दस्य महाभूतेषु प्राणिषु च रूढ्य­वि­शे­षेऽ­प्यत्र केषां ग्रहणं कार्यमिति विशये आदि­त्या­न्न­वा­क्ययोः सर्वाणि भूतानीत्यस्य गातृ­त्वा­भ्य­व­हे­तु­त्व­लि­ङ्गेन प्राणिपरतया तत्प्रायपाठस्य निर्णायकस्य सत्वात्। तेषां च सर्वेषामपि प्राणे स्वापप्रबोधयोः उत्पत्तिलयौ दैनन्दिनौ श्रुत्यन्तरे तद्भो­ग­सा­ध­ने­न्द्रि­य­ल­यो­त्प­त्ति­क­थ­न­द्वा­रो­प­ल­क्षि­ता­वि­हा­प्य­र्थ­तया स्वीकार्यौ। अवधारणं त्वाकाशवाक्ये मूल­का­र­णा­न्त­र­स्ये­वा­त्रा­वा­न्त­र­का­र­णा­न्त­रस्य व्यवच्छेदकं स्यात्। प्राणवायंु विना अन्यस्य कस्य­चि­दि­न्द्रि­य­सं­वे­श­नो­द्ग­ना­धा­रा­पा­दा­न­भू­तस्य ब्रह्म­व्य­ति­रि­क्त­स्या­भा­वात्। अयोगव्यवच्छेदकं वा; सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीव­न्ती­त्य­न्न­वा­क्य­शे­ष­ग­ता­यो­ग­व्य­व­च्छे­द­का­व­धा­र­ण­प्रा­य­पा­ठात्। न ह्योद­न­मे­वा­भ्य­व­ह­रन्तः प्राणिनो जीवन्ति; व्यञ्ज­ना­दी­ना­म­प्य­भ्य­व­हा­रात्। इहान्नशब्दो ह्योदनपरो, न तु अदनीयमात्रवाची; योगतो रूढेः प्राबल्याद्, भिस्सा स्त्री भक्त­म­न्धोऽ­न्न­मिति कोशकारवचनेन “अन्नेन व्यजन"मिति पाणिनिव्यवहारेण चान्न­श­ब्द­स्यौ­दने रूढ्यवगमात्। न च सर्व­प्रा­णि­ना­मो­द­ना­भ्य­व­हा­रा­यो­ग­व्य­व­च्छे­दोऽपि नास्ति, वृक्षा­दि­ष्व­भा­वा­दिति वाच्यम्। अत्र सर्वाणि भूता­नी­त्य­स्यो­द­ना­भ्य­व­हा­र­यो­ग्य­प्रा­णि­प­र­त्वेन संकोचोपपत्तेः, सर्वाणि ह वा इमानि भूता­न्या­दि­त्य­मुच्चैः सन्तं गायन्तीति पूर्ववाक्ये तस्य गातृ­त्व­यो­ग्य­प्रा­णिषु संकोचदर्शनात्, आकाशवाक्ये त्वेवं­भू­त­प्रा­य­पा­ठा­भा­वाद् भूतशब्दः कार्यसामान्यपरो बाला­क्य­धि­क­र­ण­न्या­यात्। अवधारणं चान्य­यो­ग­व्य­व­च्छे­द­कम्; तस्य तत्रैव स्वारस्यादिति विशेष इति पूर्व­प­क्ष्या­शयः।
अन्नमपि तदभिः मानिदेवतेति।
ननु इहान्नमोदन एव, न तु तदभिमानिदेवता; प्राणि­भ­क्ष्य­त्वोक्तेः। भाष्यविरुद्धं चान्नशब्दस्य देव­ता­प­र­त्व­म­ङ्गी­कृ­त्या­न्ना­दि­त्य­दे­व­ता­प्रा­य­पा­ठात् प्राणशब्दस्य देव­ता­प­र­त्व­स­म­र्थ­नम्। भाष्ये हि प्रसि­द्ध्य­ति­श­य­प्र­त्य­क्षा­नु­ग्र­हाभ्यां पूर्वपक्षः कृतः। न च प्राणशब्दस्य ब्रह्मापेक्षया देवतायां प्रसि­द्ध्य­ति­श­योऽस्ति; तस्यां रूढेरभावाद्, निरूढेः ब्रह्मण्यपि तुल्यत्वात्। न च तस्यामचेतने वायुविकार इव सर्व­भू­त­सं­वे­श­नो­द्ग­न­स­म­र्थने प्रत्य­क्षा­नु­ग्र­होऽस्ति; तस्या एव शास्त्रै­क­ग­म्य­त्वात्, तस्मा­द्य­था­भा­ष्यम् अन्ना­दि­त्य­रू­पाऽ­ब्र­ह्म­प्रा­य­पा­ठात् प्राणोऽ­प्य­ब्र­ह्मे­त्येव पूर्वपक्षः कर्तुं युक्तः। तथा सति निर­स्तोऽ­प्य­य­मर्थं इत्या­दि­टी­को­क्त­प्र­का­रेण प्रायपाठस्य मूल­यु­क्त्यु­पो­द्ब­ल­न­मा­त्रा­र्थत्वं न वक्तव्यम्। ईक्षत्यधिकरणे (ब्र. सू. अ. १पा. १ सू. ५) गौणतापादकः प्रायपाठो निरस्तः। अयं तु प्राणशब्दस्य मुख्या­र्थ­बो­प­पा­दकः प्रबलः। आन­न्द­म­य­मु­ख्या­र्थ­त्वो­प­पा­द­का­न्न­म­या­द्य­ब्र­ह्म­प्रा­य­पा­ठ­व­दि­त्य­धि­क­श­ङ्का­व­का­श­स­त्वा­दिति चेत्, सत्यम्: टीका­का­रा­णा­मा­चा­र्याणां च प्राणो वायुविकार इत्येव पूर्व­प­क्षोऽ­भि­मतः। अत एव तेषां सन्देहटीकादिषु वायु­वि­का­र­श­ब्दे­नैव व्यवहारः। तत्र यद्याकाशवाक्य इव ब्रह्मा­सा­धा­र­ण­ध­र्मो­प­क्र­मो­प­सं­हा­रा­भा­वेऽपि प्राण­वा­यु­व्या­व­र्त­क­दे­व­ता­श­ब्दो­क्त­चे­त­नो­प­क्र­मो­प­सं­हारौ स्तः, तद­नु­सा­रे­णा­न­श­ब्दोऽपि तदभिमानिदेवतापर इति कश्चित् शङ्केत, तदाऽ­न्ना­दि­त्य­दे­व­ता­प्रा­य­पा­ठात् प्राणशब्दोऽपि प्राण­दे­व­ता­प­रोऽस्तु; प्रत्य­क्षा­नु­गृ­ही­त­श्रु­त्य­न्त­र­सं­वा­द­ल­ब्ध­स­र्व­भू­त­सं­वे­श­नो­द्म­न­हे­तु­भा­वस्य प्राण­वा­यु­ध­र्मस्य तदमेदोपचारेण तदभेदाध्यासेन वा तद­भि­मा­नि­दे­व­तायां व्यपदेश इत्युपपत्तेः, अन्नधर्मस्यापि तद­भि­मा­नि­दे­व­तायां तथै­वो­प­पा­द­नी­य­वा­दिति टीकाकारैः कक्ष्यान्तरं दर्शितमिति तत्र­त्य­श­ङ्का­प­रि­हा­रो­भ­यो­प­पा­द­ना­र्थ­मि­यम् अन्नशब्दस्य देव­ता­प­र­त्वोक्तिः॥
इन्द्रि­य­मा­त्र­लयः प्रमा­णा­न्त­र­दृष्टो न भूतलय इति।
भूतशब्दः प्रायपाठात् “विशये प्राय­द­र्श­नात्' (जै. सू. अ. १ पा. ३ सू. १६) इति न्यायेन प्राणिवर्गपर इति भाष्ये यदा तु भूत­श्रु­ति­र्म­हा­भू­त­वि­ष­ये­त्यतः प्राचीनग्रन्थेन दर्शितम्। यदा त्वित्यादिना तु प्राणशब्देन मुख्यार्थतया स्मारितो वायु­स्त­द्व­र्ग्य­म­हा­भू­त­रू­ढि­मु­न्मे­ष­यति, तेन महाभूतपर इति दर्शितम्। द्वितीयपक्षे स्पष्टोऽर्थः। प्रथम पक्षे त्वयमर्थः। शरी­रे­न्द्रि­य­सं­पि­ण्डि­त­श्चे­तनो हि प्राणी, तत्रे­न्द्रि­याणां चेतनस्य च व्यापाराभावेन स्वापकाले तल्लयसद्भावेऽपि शरीरलयाभावान्न सर्वात्मना भूतलय इति। एवं चात्र सर्वशब्दः 'सर्वः पटो रक्तः' 'सर्वं वनं पुष्पितं' 'सर्वा पृथिवी वित्तस्य पूर्णा स्यादि­त्या­दा­वि­वा­व­य­व­का­र्त्स्न्य­परः।
सर्व­त्रा­प्य­पू­र्व­त्वा­दिति।
ननु 'आर्षेयं वृणीत' इत्यु­त्प­त्ति­वा­क्या­व­ग­त­मे­क­त्वम्। तच्च 'चम­सा­ध्व­र्यून् वृणीत' इत्यु­त्प­त्ति­वा­क्या­व­गतं बहु­त्व­मि­वो­त्पा­द्य­ग­त­त्वा­द्वि­व­क्षि­तम्, अतस्तदपूर्वं न भवति। द्वित्वत्रित्वे त्वपूर्वत्वेऽपि विधातुमशक्ये; उत्प­त्ति­शि­ष्टै­क­त्व­वि­रो­धा­दिति चेन्न। अपू­र्वा­र्थ­वि­ष­य­त्वात् "न चतुरो वृणीते" इत्या­दि­ला­घ­व­मू­ल­स्तु­ति­स­म­भि­व्या­हा­राच्च वाक्य­वै­य­र्थ्य­प­रि­हा­रा­र्थ­मु­त्प­त्ति­शि­ष्ट­मपि विभक्तितः प्रतीतं संख्या­वि­शे­षा­वि­व­क्षा­या­मे­क­व­च­न­मु­त्सर्ग इति शाब्दि­क­म­र्या­द­यै­क­व­च­न­प्र­ती­त­त्वे­ना­वि­व­क्षि­त­तया नेतुं शक्यम्। एकलमुपमृद्य प्राति­प­दि­का­र्थयोः विधाने सति ताभ्यां बाधि­त­स्यै­क­त्व­स्या­प्राप्त्या तत्प्रा­प्त्य­र्थ­मे­क­त्व­स्यापि विधा­न­मि­त्यु­प­पत्तेः।
प्रति­वि­ध्या­वृत्तिः स्यादिति।
आद्ययोर्विध्योः स्तुत्या­का­ङ्क्षायां यातेऽग्ने अयाशया रजाशयेति मन्त्रयोः विशे­ष्या­द्या­का­ङ्क्षया "तनू­र्व­र्षि­ष्ठ­त्या­दे­रिव चतु­रा­दि­सं­ख्या­नि­वृ­त्ति­प्र­यु­क्त­ला­घ­व­मू­ल­स्तुतेः अच्छि­द्रे­णे­त्या­दि­वा­क्य­शे­षस्य पच­न­क्रि­या­न्व­या­वि­शे­षे­णेव न्यून­सं­ख्या­वि­ध्य­न्व­या­वि­शे­षेण चावृत्तिः स्यात्। सा चैकत्र विधि­क­ल्प­ने­ना­वृ­त्ति­सं­भवे न युक्तेति भावः। इदमुपलक्षणम् एकवाक्यत्वसंभवे वाक्यभेदो न युक्त इत्यस्यापि॥
भाष्ये वाक्य­शे­षे­णे­त्यस्य ब्रह्म­लि­ङ्गा­म्ना­न­स्थ­ल­नि­र्दे­श­मा­त्रा­र्थ­त्वेन प्रतीयमानस्य स्ववाक्यगतत्वेन लिङ्ग­प्रा­ब­ल्या­र्थ­तया किमिति टीकाकृता व्याख्यानं कृतं? लिङ्गस्य सन्निधानतः स्वत एवं प्राब­ल्य­स­त्वा­दि­त्या­श­ङ्क्याह –
अन्ना­दि­त्य­स­न्नि­धा­न­मिति।
अन्ना­दि­त्य­रू­पाऽ­ब्र­ह्म­प्रा­य­पाठः प्राण­श्रु­ति­मु­ख्य­तो­प­पा­द­क­तया श्रुत्य­नु­ग्रा­ह­क­त्वात् सदी­क्ष­ण­गौ­ण­ता­पा­द­क­गौ­णे­क्ष­ण­प्रा­य­पा­ठतो मुख्य­त्रि­त­य­ल­ङ्घ­ना­पा­द­क­पु­च्छ­श­ब्दो­क्ता­व­य­व­प्रा­य­पा­ठ­तश्च प्रबलः। ततश्च प्राय­पा­ठा­द­ब्र­ह्म­रूपः प्राणो वायुविकार इति निश्चये सति तद­धि­क­र­ण­क­सं­वे­श­न­त­द­पा­दा­न­को­द्ग­म­न­रू­प­स­म­भि­व्या­हृ­त­क्रि­या­न्व­य­यो­ग्ये­न्द्रि­या­व­स्था­प­न्न­भू­त­प­र­तया सङ्कोचः स्यात्। अन्ना­दि­त्य­वा­क्य­ग­त­भू­त­श­ब्दयोः सम­भि­व्या­हृ­त­गा­ना­भ्य­व­हा­र­क्रि­या­न्व­य­यो­ग्य­भू­त­प­र­तया सङ्कोचदर्शनेन तत्प्रा­य­पा­ठा­द­न्ना­दि­त्य­वा­क्य­ग­त­स­न्नि­धा­न­द्व­या­ल­म्ब­न­श­ङ्का­नि­रा­क­र­णा­र्थ­तया स्ववाक्यगतत्वेन शीघ्रो­प­स्थि­ति­कस्य सर्व­भू­तो­त्प­त्ति­ल­य­का­र­ण­त्वस्य विल­म्बि­तो­प­स्थि­ति­क­वा­क्या­न्त­र­ग­त­स­न्नि­धा­ना­नु­सा­रेण सङ्कोचकल्पनं न युक्तम्। अत एवाकाशवाक्येऽपि स्वर­प्रा­णा­य­ब्र­ह्म­प्रा­य­पा­ठेन तस्य न सङ्कोचकल्पनमिति परि­हा­र­वा­चो­युक्तेः भाष्या­रू­ढ­त्व­प्र­द­र्श­ना­र्थ­मेवं व्याख्यातमिति भावः। यद्यप्यत्र भूत­श­ब्द­स्या­न्ना­दि­त्य­वा­क्य­ग­त­भू­त­श­ब्द­स­न्नि­धा­ना­त्प्रा­णि­प­र­त्वेऽपि वाक्यशेषार्थस्य ब्रह्म­लि­ङ्ग­त्व­म­वि­रुद्धं; तथापि भूत­श­ब्द­श­क्ति­प­र्या­लो­च­नायां रूढ्योः परस्परकलहेन योगोन्मेषात् कार्य­सा­मा­न्य­मे­वार्थो भव­ती­त्या­का­श­वा­क्य­शे­ष­व­द­स्यापि वाक्यशेषस्य सक­ल­का­र्य­का­र­ण­त्व­मेव ब्रह्मलिङ्गमर्थ इति द्रष्टव्यम्॥
ब्रह्मवाचि पदाभावेनेति।
ननु ब्रह्म­वा­चि­प­द­सत्वे श्रुतिः स्याद्, न वाक्यम्। उच्यते; विषयवाक्ये विशेष्यपदं चेद् ब्रह्मवाचि, तदा श्रुतिः। विशेषणपदं चेत्, तदा ब्रह्मपरत्वेन निर्णिनीषितस्य विशेष्यपदस्य च समभिव्याहाररूपं वाक्यं प्रमाणमिति व्यवस्था। अत एवा­ग्रि­मा­धि­क­र­ण­न्या­य­नि­र्णये गायत्रीपदस्य ब्रह्म­प­र­व­नि­र्णा­यकं यद्वै तद्ब्र­ह्मे­त्ये­त­द्वाक्यं प्रमाणत्वेन व्यवहृतम्। ननु मा भूदादित्य सन्निधानाद् अब्रह्म सन्प्राणो वायुविकारः, भूतानि च तत्सं­वे­श­नो­द्ग­म­न­यो­ग्या­नी­न्द्रि­या­णीति निर्णयः प्राणश्रुतित एव स्यात्।
आका­श­वा­क्य­ग­ता­न­न्त­त्व­व­दु­प­क्र­मो­प­सं­हा­राभ्यां तात्प­र्य­वि­ष­य­त्वेन निश्चितस्य प्राण­श्रु­ति­मु­ख्या­र्थ­प्र­च्या­व­कस्य लिङ्ग­स्या­भा­वा­दि­त्या­शङ्क्य तथाभूतं लिङ्गमाह –
कतमेति।
टीको­प­न्य­स्त­मु­क्तम्। लिङ्गोपपादकं पूर्वपक्षिणः कक्षा­न्त­र­मु­द्भाव्य दूषयति–
अथेति॥
इति नवमं प्राणाधिकरणम्॥

ज्योति­श्च­र­णा­भि­धा­नात्॥२४॥ तन्नि­रा­स­का­र­णा­भा­वा­दि­त्ये­त­द­यु­क्तम्। सार्वा­त्म्या­दि­व­दिह ब्रह्म­लि­ङ्गा­श्र­व­णेऽ­प्यु­पा­स­ना­वा­क्य­त्वे­ना­धा­र­म­र्या­दा­क­ल्प­नो­प­प­त्ते­स्त­न्नि­रा­स­क­हेतोः तत्र व्युत्पा­दि­त­स्या­त्रा­प्य­वि­शि­ष्ट­त्वा­दि­त्या­शङ्क्य, तद्वाक्यमन्यथा व्याख्यातुं तदा­नु­गु­ण्ये­ना­व­ता­र­यति–
किमु­पो­द्व­ल­ना­येति।
भव­त्वे­क­दे­श­स्यति।
समस्तं ते जगदुपास्यं, तस्य द्युमर्यादा न सिद्धेति शङ्कितुः हृदयम्। एकै­का­मि­त्या­दि­प्र­ती­क­ग्र­हणं तेजः­प्र­भृ­ती­त्यादि तद्व्या­ख्या­न­मिति प्रतिभाति तदयुक्तम्। भाष्ये श्रुतौ वा तथा­भू­त­प्र­ती­का­भा­वा­दु­त्त­र­ग्र­न्थस्य तद्व्या­ख्या­न­त्वा­सं­भ­वा­च्चे­त्या­शाङ्क्य, भाष्यो­दा­हृ­त­श्रु­ति­ग­त­प­द­यो­ज­ना­र्थ­त्वे­न­कै­का­मि­त्या­दिकं भिन्नवाक्यतया व्याचष्टे –
तासामिति।
गुणस्तु विभक्त्यर्थ इति।
प्रत्य­या­र्थ­प्रा­धा­न्य­प्र­सिद्धिः कृत्त­द्धि­ता­र्थ­वि­ष­येति भावः।
न स्ववाक्यगतमपि प्रस्तो­ष्य­मा­ण­मिति।
स्ववा­क्य­ग­त­व­रू­प­प्र­त्या­स­त्य­पे­क्ष­यापि सर्व­ना­म्ना­मौ­त्स­र्गिकी प्रसि­द्धा­र्थ­प­र­त्व­व्यु­त्प­त्ति­ब­ल­वती। अत एव "तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनमिति" श्रुता­वा­मि­क्षा­प­द­वाच्यं पयसोऽर्थान्तरं दधि­प­य­स्सं­स­र्ग­जन्यं मधुराम्लत्वेन तदुभयविलक्षणं द्रव्य­म­भ्यु­पे­यम्; पयो दध्यामिक्षेति व्यपदेशभेदादिति तस्यैव द्रव्यान्तरस्य वैश्व­दे­व­या­ग­द्र­व्यत्वे आमि­क्षा­प­द­स­मा­ना­धि­कृ­त­त­त्प­द­स्यापि तद्द्रव्यपरत्वे च प्राप्ते सर्वनाम्नः प्रकृ­त­प­र­स्व­वा­भा­व्या­त्त­त्पदं द्विक­र्मि­का­मा­न­य­न­क्रियां प्रति प्रधानकर्मतया दध्या­न­य­ना­धि­क­र­ण­त्वेन निर्दिष्टं पयः परामृशतीति पय एव यागद्रव्यम्। तत्पदे स्त्रीलि­ङ्ग­मा­मि­क्षा­प­द­सा­मा­ना­धि­क­र­ण्य­कृ­तम्। आमि­क्षा­प­द­म­स्मा­देव वैदि­क­व्य­व­हा­रा­द­म्ल­द्र­व्य­घ­नी­भू­त­प­यो­वा­च­कम्। अम्लरसो न यागद्रव्यगतः, किन्तु तत्सं­स्का­र­क­द्र­व्य­गत इति पयो­रू­पा­मि­क्षा­प्र­यु­क्त­मेव दध्यानयनं न वाजि­न­प्र­यु­क्त­म­पीति निर्णीतं चतुर्थे (जे.अ. ४ पा.१सू. २२-२४) दधि मधु घृतं पयो धाना उदकं तण्डुला स्तत्संसृष्टं प्राजापत्यमिति चित्रायागविधी दध्या­दि­स­प्त­द्र­व्य­मे­ल­न­रू­प­सं­सृ­ष्ट­क­द्र­व्यक एको यागस्तत्पदं च संसृ­ष्ट­द्र­व्य­प­र­मिति प्राप्ते तत्पदं प्रकृ­त­प­रा­म­र्शि­त्व­स्वा­भा­व्या­द­सं­सृ­ष्ट­द­ध्या­दि­स­प्त­द्र­व्य­प­र­मिति दध्या­दि­द्र­व्यकाः सप्त यागाः। संसृष्टपदं याग­भे­दे­प्ये­क­दे­व­त्य­तया साना­य्य­व­द्द­ध्या­दीनां सह प्रक्षेपे संस­र्ग­स­त्वा­द­नु­वा­द­कम्। नपुंसकैकवचनं "नपुं­स­क­म­न­पुं­स­के­नै­क­व­चा­स्या­न्य­त­र­स्या"मिति व्याक­र­णा­नु­शि­ष्ट­मु­प­पा­द्य­मिति निर्णीतं टुप्टीकायाम् अष्टमे द्वादशे च। ननु-यत्र सर्वनाम्नः प्रस्तुतपरत्वं न संभवति, तत्र प्रस्तो­ष्य­मा­ण­प­र­त्व­मपि द्वितीये संज्ञाधिकरणे (जै. अ. २ पा. २ सू. २२) व्युत्पादितम्। तत्र हि "अथैष ज्योतिरेतेन सहस्रदक्षिणेन यजेत" इत्यत्र सर्वनाम्नः प्रकृ­त­ज्यो­ति­ष्टो­म­प­रत्वं न संभवति; ज्योति­ज्यो­ति­ष्टोम इति नाम­भे­द­स्या­र्था­न्त­र­प­र­त्व­स्वा­र­स्यात्, अथे­त्य­ने­ना­धि­का­रा­र्थेन प्रक­र­ण­वि­च्छे­दा­व­ग­मात्, प्रकृते ज्योतिष्टोमे एवास्य वाक्यस्य सह­स्र­द­क्षि­णा­ल­क्ष­ण­गु­ण­वि­धा­ना­र्थ­ता­या­मे­ते­ने­त्या­दि­म­न्त्रस्य अपर्याप्ततया अथैष ज्योति­रि­त्य­नु­वा­द­वै­य­र्थ्याच्च। तस्माद् ज्यातिर्नामके सहस्रदक्षिणे प्रस्तोष्यमाणे यागान्तर एव सर्वनाम्नो वृत्ति­र­भ्यु­पे­येति निरूपितम्, तदिहापि ज्योतिः पुरुषः इति संज्ञाभेदः। अथशब्देन प्रक­र­ण­वि­च्छे­दा­व­गमः। अस्य वाक्यस्य प्रकृतमेव त्रिपाद् ब्रह्मानूद्य तस्य कौक्षे­य­ज्यो­ति­ष्यु­पा­स­न­वि­धा­ना­र्थ­तायां "इदं वाव तद्य­दि­द­म­स्मि­न्न­न्तः­पु­रुषे ज्योतिः इत्येतावत एव पर्याप्ततया “अथ यदतः परो दिवः" इत्या­द्य­नु­वा­द­वै­य­र्थ्य­प्र­स­ङ्ग­श्चेति समान एव संज्ञा­धि­क­र­ण­न्यायः। किञ्च “अथ यदतः परः" इत्या­दि­य­दु­प­ब­न्ध­युक्तं वाक्यं न केवलं यत्प­द­नि­र्दि­ष्टस्य द्युसं­ब­न्ध­मात्रं कीर्तयति, येन द्युसं­ब­न्धि­प्र­कृ­त­स­द्भा­व­मा­त्रो­प­पा­द­नेन चारितार्थ्यं स्यात्, किन्तु दिवः परेषु लोकविशेषेषु दीप्यमानत्वमपि कीर्तयति। न च तदपि तावानस्येति ऋचा प्राप्तम्। अतो यदु­प­ब­न्ध­यु­क्त­वा­क्य­नि­र्दि­ष्ट­या­व­द्वि­शे­ष­वि­शि­ष्ट­प्र­सिद्धेः यत्प­दे­ना­नु­व­दि­तु­म­पे­क्षि­त­त्वात् तस्या­श्चा­सं­भ­वा­दत्र यत्पदस्य प्रस्तो­ष्य­मा­ण­प­र­त्व­मेव युक्तमिति चेत्, उच्यते; दिवः पर इत्यत्र द्युशब्दः स्वर्लो­क­प­र्यायः, स्वर्लोकश्चात्र भूर्भुवःस्वरिति लोक­त्र­य­प­क्षा­नु­सा­रेण भूमि­सू­र्या­न्त­र­रू­पाद् भुव­र्लो­का­दु­प­रि­त­न­स­त्य­लो­कान्तो विवक्षितः, तस्योपरिभागरूपः सत्य­लो­का­न्त­र्ग­त­हि­र­ण्य­ग­र्भा­दि­भो­ग­भू­मि­मेदाः। तेषु ब्रह्मलोकेषु परा य एव ते वसन्तीत्यादि श्रुति­प्र­सिद्धाः। तेषु सर्वस्मादपि लोकादुपरि स्थितेषु सर्वोत्तमेषु लोकेषु हिर­ण्य­ग­र्भा­दि­मू­र्त्य­भि­व्यक्तं ब्रह्म दिवः पर­मि­त्य­नु­त्त­मे­षू­त्त­मेषु लोकेषु स्थितमिति चानूद्यते। हिर­ण्य­ग­र्भा­दि­मू­र्ति­प्र­भा­व­च्छे­देन दीप्यत इत्यप्यनूद्यते। एतावद्यद्यपि त्रिपादस्यामृतं दिवीत्यतो न प्राप्तम्, तथापि तस्य दिवमनूद्य तत्र स्थितिविधानाय द्युस्व­रू­पा­व­ग­त्यर्थं वच­ना­न्त­र­मु­ख­नि­री­क्ष­णा­व­श्यं­भा­वेन ततः सूर्या­दि­स­त्य­लो­को­परि भूम्य­न्त­द्यु­स्व­रू­पा­दि­प्राप्तिः। अथवा - माभू­त्पु­रो­वा­दा­न्तरं, त्रिपादस्यामृतं दिवीत्ययमेव दुरू­पा­धि­क­र­ण­वि­शे­ष­वि­शि­ष्ट­त्रि­पा­द्ब्र­ह्म­प्र­ति­पा­दको यदतः पर इत्यादेः पुरोवादोस्तु। तत्र किं द्युशब्द आकाशपरः स्वर्लोकपरो वा। द्वितीयेऽपि ध्रुवलोकान्तपरः सत्यलोकान्तपरो वा। दिवीति सप्तमी यत्किं­चि­द्भा­गा­व­च्छे­दे­ना­धि­क­र­ण­त्व­परा उप­रि­भा­गा­व­च्छे­देन वेति संभ­व­द­ने­क­ता­त्प­र्यस्य पुरो­वा­द­स्या­स्मा­दे­वा­नु­वा­दा­द­र्थ­वि­शे­ष­व्य­व­स्थि­ति­रस्तु। अस्ति हि पुरो­वा­द­स्या­नु­वा­द­व­शा­द­र्थ­वि­शे­ष­व्य­व­स्थितिः। तथा हि "यज्ञा­य­ज्ञी­येन स्तुवीते "ति प्रकृत्य न गिरा गिरेति ब्रूयाद् यद्गिरा गिरेति ब्रूया­दा­त्मा­न­मेव तदुद्गाता गिरेदैरं कृत्वो­द्गे­य"मिति यज्ञा­य­ज्ञी­य­सान्नः ऋचि "गिरा गिरा च दक्षसे" इत्यत्र गिरापदप्रतिषेध इरापदविधिश्च श्रूयते। तत्र गिरा­प­द­प्र­ति­षे­धोऽ­नु­वादः; तस्यापि विधाने वाक्य­भे­दा­पत्तेः। इरापदस्य प्रकरणेन यज्ञा­य­ज्ञी­य­सं­बन्धे दृष्टार्थस्य तस्य यज्ञा­य­ज्ञी­य­ग­त­किं­चि­त्प­द­का­र्या­व­ग­त्य­व­श्यं­भावे चावगतेः कस्य पदस्य स्थाने तदि­त्या­का­ङ्क्षायां गिरा­प­द­प्र­ति­षे­धा­नु­वा­द­सा­म­र्थ्यात् तस्य स्थाने इत्यवसीयत इति नवमे निर्णीतम् (जै. अ. ९ पा. १सू. ५०)। तथेहापि भविष्यति। एव­मु­पा­स­नो­प­यु­क्ता­र्थ­वि­शे­ष­नि­र्ण­यो­प­यो­गि­वा­न्ना­नु­वा­द­वै­फ­ल्य­श­ङ्कापि। संज्ञा­भे­दे­ना­र्थ­भे­द­शङ्का तु न प्रवर्तते; ज्योतिश्शब्दस्य प्रका­श­वा­चि­न­स्त्रि­पा­द्रू­पेण प्रकृते ब्रह्मणि वाचकतयैव वृत्तिसंभवात्, श्रुत्यन्तरेषु ब्रह्मणि प्राचुर्येण दृष्ट­प्र­यो­ग­त्वाच्च। अथशब्देन प्रक­र­ण­वि­च्छे­द­श­ङ्कापि नास्ति; तस्य पूर्व­प्र­कृ­ता­पे­क्ष­वा­चि­त्वो­प­पत्तेः। तेन पूर्वो­पा­स­ना­न्वि­त­ब्र­ह्म­गु­णानां ज्योति­रु­पा­स­ना­या­म­प्य­न्व­य­सिद्ध्या तद्वा­चि­त्व­स्यात्र सफलत्वात्, प्रकृतं ब्रह्माऽविहायैव तस्यो­पा­स­ना­न्त­रा­र­म्भा­र्थ­त्व­सं­भ­वे­ना­धि­का­रा­र्थ­त्वेऽ­प्य­वि­रो­धाच्च॥
शेषभक्षो विध्यभावान्न विद्यत इति।
ननु “सर्वतः परि­हा­र­मा­श्वि­न"मि­त्या­दिषु सार्थवादेषु प्रत्यक्षवचनेषु जाग्रत्सु कथं विध्य­भा­व­पू­र्व­प­क्षो­त्था­नम्। इत्थम्। “आश्विनं गृह्णा­ती'त्यादि विधिभिः तत्त­द्दे­व­तो­द्दे­शेन गृहीतः सोमरसः कृत्स्नोऽ­प्यु­पां­शु­या­ज्या­व­द्धो­तव्य इति तत्र शेषा­भा­वा­द्भु­त­शे­ष­स्येदं न भक्षणविधानं, किं त्वाश्वि­न­ग्र­हा­दि­ध­र्म­क­सो­म­गु­ण­वि­शि­ष्टा­र्थ­क­र्म­रू­प­भ­क्ष­ण­वि­धानं, कथं­चि­च्छे­ष­स­द्भा­व­स­म­र्थ­नेऽपि राग­प्रा­प्त­त­द्भ­क्ष­णा­नु­वा­देन गुणमात्रस्य विधानं, न भक्षणस्यापि; विशि­ष्ट­वि­धि­गौ­र­वा­प­त्त­रिति पूर्वपक्षी मन्यते। अल्पं जुहोतीति वच­न­सा­म­र्थ्या­दस्ति तावच्छेषः। न चास्य विधायकत्वे संभवति पात्रा­ल्प­त्व­प्र­यु­क्ता­ल्प­त्वा­नु­वा­द­क­तया वैय्य­र्थ्या­श्र­यणं युक्तं तद्भ­क्ष­ण­स्या­प्रा­प्तस्य गुण­वि­शे­ष­वि­शि­ष्टस्य विधानेन वचनानां चारितार्थ्ये संभवति नाश्वि­ना­दि­ध­र्म­क­सो­म­गु­ण­वि­शि­ष्टा­र्थ­क­र्म­रू­प­भ­क्ष­ण­वि­धि­गौ­र­व­स­मा­श्र­यणं युक्तम्। न चात्य­न्त­ला­घ­वार्थं गुण­मा­त्र­वि­धा­न­मपि युक्तम्। भक्ष­ण­स्या­प्रा­प्त­वाद्, रागतः पक्षप्राप्तस्य नित्य­व­दा­म्ना­त­गु­णा­श्र­य­त्वा­यो­गा­दिति सिद्धान्तः॥ "सर्वतः परिहारमाश्विनं भक्षयति तस्मात् सर्वतः श्रोत्रेण शृणो­ती"त्य­स्या­य­मर्थः। आश्विनं सर्वतःपरिहार शिरः परितो भ्रमयित्वा भक्षयति तस्मात्सर्वतः सर्वासु दिक्षु स्थितं शब्दं श्रोत्रेण शृणोतीति "उप­या­म­गृ­ही­तोऽसि श्रुत सदसि श्रोत्रभ्यां त्वे"ति मन्त्रे ह्यश्विनोः श्रोत्र­सं­र­क्ष­क­त्व­मा­म्ना­तम्। तदीयसोमशेषस्य च 'श्रोत्राय मे वर्च्चोदा वर्चसे पवस्वेति' श्रोत्र­व­र्चः­प्र­द­त्व­मा­म्ना­तम्। तदीयसोमशेषस्य सर्वतो भ्रमणे सति सर्व­दि­ग­भि­यु­क्त­श­ब्द­श्र­वणं भवतीति तात्पर्यम्। सर्वतः परिहारमिति णमुलन्तः शब्दः।
अर्थवादा इति।
भक्षणवचनानां तस्मात्सर्वत इत्यादिभिः स्वय­म­र्थ­वा­दै­र्यु­क्त­तया स्वतन्त्रत्वेन प्रती­य­मा­ना­ना­म­न्या­र्थ­वा­द­त्व­प्र­ती­त्य­भा­वेऽपि तत्प्र­ती­ति­म­भ्यु­पेत्य तथा­प्यु­प­रि­धा­र­ण­वा­क्य­व­द­पू­र्व­खा­द्वि­धा­य­कख मङ्गी­क­र्त­व्य­मि­त्य­भि­प्रै­ल्या­र्थ­वा­द­त्वोक्तिः॥२४॥
न च भूतपृथिवीति।
ननु भूत­पृ­थि­वी­श­री­र­हृ­द­यानि निर्दिश्य सैषा चतुष्पदेति ऋग­नु­शि­ष्ट­टा­ब­न्त­च­तु­ष्पा­द­श­ब्द­प्र­यो­गात् गाय­त्र्या­मृ­च्येव स्तावकतया भूतादिपादत्वं तत्समभिव्याहृतं षाड्विध्यं च योजनीयमिति चेद्, न। गाय­त्र्य­नु­ग­त­ब्र­ह्म­ल­क्ष­णायां गायत्रीसदृशे ब्रह्मणि गौणवृत्तौ च प्रथमं गाय­त्र्यु­प­स्थि­ति­स­त्वेन तद्विषयतया टाब­न्त­त्वो­प­पत्तेः। गायत्री वा इदं सर्व­मि­त्या­दि­श्रु­ति­वा­क्य­ले­खने येयं पृथि­वी­त्या­द्य­न­न्त­र­मा­म्ना­तस्य "अस्यां हीदं सर्वं भूतं प्रति­ष्ठि­त­मे­ता­मेव नातिशीयत” इत्यादेरलेखनं प्रकृ­ता­नु­प­यो­गात्। प्रसिद्धा त्रिपदा गाय­त्री­त्या­दि­पाठः साधुः, न तु त्रिपा­द्वा­य­त्री­त्या­वि­पाठः।
षडक्षरैरिति।
पादैरिति शेषः।
दिवीति वाक्य­शे­ष­व­शा­दिति।
दिवीति सप्त­मी­स्वा­र­स्या­दि­त्यर्थः। प्राग्वि­श्व­तः­पृ­ष्ठेषु सर्व­तः­पृ­ष्ठे­ष्वि­त्यस्य टीका­का­र­कृ­त­व्या­ख्या­ना­नु­सा­रेण तत्पुरोवादस्य दिवीत्यस्य सत्य­लो­का­न्त­र्ग­त­ब्र­ह्म­वि­ष्णु­शि­व­भो­ग­भू­मि­प­रत्वं त्रिपादित्यस्य ब्रह्मा­दि­मू­र्ति­त्र­या­भि­व्य­क्ति­प­रत्वं चार्थ इत्यर्थात् स्थितमेव। वैभवादिदं व्याख्या­न­द्व­यम्। ननु-व्या­ख्या­न­त्र­येऽपि सैषा चतुष्पदा षड्विधा गाय­त्री­ये­त­द­न­न्तरं तदे­त­दृ­चा­भ्य­नु­क्त­मिति ऋगवतारिकायाः कथं संगतिरिति-चेत्, गायत्र्याख्यस्य ब्रह्मणः सर्व­भू­ता­त्म­त्वा­दि­रूपो यो महिमा वर्णितः स सर्वोऽपि तावानस्य महिमेति प्रथमपादेन कीर्त्यत इति संगतिः। नन पुरु­ष­सू­क्त­प­ठि­तोऽयं मन्त्रः, तत्र प्रकृतं महिमानं कीर्तयेत् तस्यै­त­त्प्र­क­र­ण­ग­त­म­हि­म­की­र्तने कः प्रसङ्गः। नैष दोषः। उभयत्रापि महि­म­व­र्ण­न­स्या­र्थत एकत्वात्। पुरुषसूक्तेऽपि “स भूमिं सर्वतो वृत्वा" "पुरुष एवेदं सर्वं यद्भूतं यच्च भव्य"मि­त्या­म्ना­नात्। एवं प्रथमपादस्य प्रकृ­ता­र्थ­वि­ष­यत्वे स्थिते द्वितीयपादेन ततो ज्यायस्त्वं ब्रह्मणः प्रति­ज्ञा­यो­त्त­रा­र्धन यत्तदुपपादनं कृतं तस्य पाद­च­तु­ष्ट­य­व­त्वेन सादृश्येन गायत्रीपदस्य ब्रह्मणि प्रवृ­त्त्यु­प­पा­द­क­तया प्रकृतसङ्गतिः। अभि­हि­त­मि­त्यु­क्त­मिति टीका न युक्ता; लक्षणापक्षेऽपि ब्रह्म­प­र­त्व­स्या­वि­शि­ष्ट­वा­दि­त्या­श­ङ्कते–
नन्विति।
गौणे प्रयोगे इति।
ननु-गौण्यां तात्पर्याधीनो गुणलाभः लक्षणायां संब­न्धा­धी­न­स्ता­त्प­र्य­लाभ इति नायं नियमः। मुखमिदं कमलमिति कवि­स­म­य­प्र­सि­द्धायां कर्णोऽयं राजे­त्या­दि­लो­क­व्य­व­हा­र­सि­द्धायां च गौण्यां मुख्या­र्थ­प्र­सि­द्ध­का­न्ति­म­त्व­दा­तृ­त्व­गु­ण­ला­भस्य तात्प­र्या­वे­क्ष­णा­न­पे­क्ष­त्वाद्, यष्टीः प्रवेशयेत्यादौ तात्प­र्या­नु­प­प­त्ति­मू­ल­क­ल­क्ष­णायाः तात्प­र्या­न्वे­ष­णा­पे­क्ष­त्वाच्च, तत्रापि प्रक­र­णा­द्य­व­ग­त­भो­ज­न­प्र­वे­श­ना­न्व­या­नु­प­प­त्ति­ल­क्ष­णा­बीजं न तात्प­र्या­नु­प­प­त्ति­रिति चेन्न; गङ्गायां घोष इत्यत्र सामी­पि­का­धि­क­र­ण­वि­व­क्षायां मुख्या­र्था­न्व­य­सं­भ­वेऽ­प्यौ­प­श्ले­षि­का­धि­क­रणे तात्पर्यमिति तात्प­र्या­नु­प­प­त्ति­रेव लक्षणाबीजं नान्व­या­नु­प­प­त्ति­रिति वैपरीत्यस्यापि वक्तुं शक्यत्वादिति चेत्, उच्यते; प्रकृ­ता­भि­प्रा­य­मिदं विशेषकथनम्। प्रकृते सार्वा­त्म्या­द्य­न्व­य­योग्ये ब्रह्मणि गायत्रीपदस्य तात्पर्येऽवधृते तन्निर्वाहार्थं तत्र तस्य गौणवृत्तिमूले गुणे वाच्ये ब्रह्म­गा­यत्र्योः सादृश्यरूपस्य गुण­वि­शे­ष­ण­स्या­प्र­सि­द्ध­त्वा­त्त­द­न्वे­षणे ब्रह्म चतुष्पादिह निर्दिष्टम्। प्रसिद्धाया गायत्र्याः "तेषा­मृ­ग्य­त्रा­र्थ­व­शेन पाद­व्य­व­स्थेति" प्रकारेण त्रिपदत्वेऽपि यथा “षष्टि­स्त्रि­ष्टुभो माध्यन्दिने सवने” इत्य­र्थ­वा­दो­त्त­रीत्या माध्य­न्दि­न­स­व­न­गताः गाय­त्री­बृ­ह­त्या­द­योऽ­क्ष­र­सं­ख्या­मा­त्रेण त्रिष्टुभः, एवमिह गायत्री षड्भिः षड्भि­र­क्ष­रै­श्च­तु­ष्प­देति पाद­च­तु­ष्ट­य­व­त्व­रूपो गुणो लम्भनीयः। लक्षणायां तु प्राथ­मि­क­त्वा­द­भ्य­र्हि­त­त्वात् चोपा­दा­नो­पा­दे­य­भा­व­सं­बन्धः शीघ्रं स्फुरतीति संबन्धनिमित्तकं तात्पर्यमिति॥
आकाशः परमेश्वर इति।
तस्यान्ते सुषिरं सूक्ष्म­मि­त्या­दि­श्रु­ता­वू­र्ध्व­सु­षि­र­व­र्ति­ले­ना­म्नातो दहराकाशरूपः परमेश्वर ऊर्ध्व­द्वा­र­पा­ल­स्या­धि­ष्ठा­तृ­दे­व­ते­त्यर्थः। उपास्यस्य द्वार­पा­ला­धि­ष्ठा­तुश्च परमेश्वरस्य हृद­य­क­म­ल­म­ध्य­त­दू­र्ध्व­सु­षि­र­रू­पा­व­च्छे­द­क­भे­देन भेदः। आकाशपदस्य तद­भि­मा­नि­दे­व­ता­प­रत्वे वक्तुं शक्येऽपि दह­र­क­म­लो­र्ध्व­सु­षिरे तद­भि­व्य­क्ति­र­प्र­सिद्धा कल्पनीया, परमेश्वरस्य तु प्रसिद्धा क्लृप्ता­स्ती­त्येवं व्याख्यातम्।
यदा मुख्य­मा­धा­र­त्व­मि­त्यादि।
इयं क्लिष्टयोजना परत इत्येतदपि पञ्च­म्य­न्त­मि­त्य­भ्यु­पेत्य। यदि तु दिवः पर इति श्रुत्यनुसारेण दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यत इति भाष्यानुसारेण च प्रथ­मा­र्थ­स्त­सि­ल्प्र­त्यय आश्रीयते तदा दिव उपरिभागे स्थितं ब्रह्म दिवः परमेव भवतीति न काचि­द­नु­प­प­त्ति­रिति विस्प­ष्ट­त्वा­न्नो­क्तम्।
ननु दश सन्त­स्त­त्कृ­त­मिति प्रकृतेषु दशसु कथं कृतशब्द इत्याशङ्क्य तदुपपादयितुमाह –
अत्रापि चतुरयकेति।
लोकेऽ­क्ष­नि­पा­त­न­रूपं द्यूतं द्विविधम्, एकाक्षनिपातनं बह्वक्षनिपातनं च। तत्र बह्वक्षनिपातनं द्विविधं निय­त­सं­ख्य­ब­ह्व­क्ष­नि­पा­तनं अनियत संख्य­ब­ह्व­क्ष­नि­पा­तनं च। एका­क्ष­नि­पा­त­न­रू­पस्य अनि­य­त­सं­ख्य­ब­ह्व­क्ष­नि­पा­त­न­रू­पस्य च द्यूत­स्या­य­सं­ज्ञकाः सन्ति प्रकारविशेषाः। ले चतुर्विधाः, कृत­त्रे­ता­द्वा­प­र­क­लि­भे­दात्। कृता­य­रू­पेऽ­क्ष­नि­पा­तने जय इति द्यूत­शा­स्त्र­म­र्याद।। तत्रै­का­क्ष­नि­पा­त­न­रूपे द्यूते य एकोऽ­क्ष­श्च­तु­रश्रः तस्या­श्रि­द्व­य­म­श्रि­द्व­य­म­न्तरा चत्वारि स्थानानि क्रमा­च्च­तु­स्त्रि­द्व्ये­क­सं­ख्य­बि­न्दु­रू­पा­ङ्क­यु­क्तानि भवन्ति। तेषु यच्च­तु­र­ङ्क­स्थानं तस्यो­प­रि­भ­वे­ना­क्ष­नि­पा­तनं कृतायः। त्रिद्व्ये­का­ङ्क­यु­क्त­स्था­ना­ना­मु­प­रि­भा­वेन पतनानि तु त्रेताद्ययाः। अनि­य­त­सं­ख्य­ब­ह्व­नि­पा­त­न­रूपे तु द्यूते न्युप्ते­ष्व­क्षेषु चतुष्कशो विभ­ज्य­मा­ने­ष्व­व­साने चत्वा­रोऽ­व­शि­ष्यन्ते चेत्, तदक्षनिपातनं कृतायः। त्रिद्व्ये­का­क्षा­व­शेषे तु त्रेताद्ययाः। अमुमर्थं श्रुति­र­प्य­नु­व­दति। ये वै चत्वारः स्तोमाः कृतं तत्। अथ ये पञ्च कलिः स इति। एवं लौकिकस्य द्यूतस्य प्रकारः। वैदिकं तु निय­त­सं­ख्य­ब­ह्व­क्ष­नि­पा­त­न­रूपं नियमेन कृतायरूपमत एव व्यव­स्थि­त­ज­य­फ­ल­कम्। एवं चाग्न्याधाने राजन्यस्य कर्त­व्य­मा­प­स्त­म्ब­सूत्रे शत­म­क्षा­न्य­ज­मा­नाय प्रय­च्छ­न्ना­हे­त्यु­प­क्रम्य दर्शितं कृतं यजमानो विजिनातीति। न्युप्तेषु शत­सं­ख्ये­ष्व­क्षेषु चतुष्कशो विभ­ज्य­मा­ने­ष्व­व­साने यः पञ्चविंशो भागः सोऽपि चतुरक्ष एव। अत­स्त­द­क्ष­नि­पा­तनं कृतमिति यजमानो विजिनाति जयतीत्यर्थः। अत्र चतुरयकेति विशेषणं लौकिकग्रहणाय। अयेति ह्रस्वयुक्तपाठः साधुः, न तु चतुरायकेति दीर्घयुक्तपाठः। इह जान­श्रु­त्यु­पा­ख्यान एव यथा­कृ­ता­य­वि­जि­ता­या­ध­रेऽयाः संयन्तीति प्रयोगात्। यजुर्वेदे कृतायानां त्रेतायानां द्वाप­रा­या­ना­मा­स्क­न्दी­या­ना­मि­त्या­दि­प्र­यो­गात् "अयः शुभावहे दैवे गतौ द्यूताक्षपातने” इत्या­दि­नै­घ­ण्टु­क­व्य­व­हा­राच्च ह्रस्वादेरेव द्यूत­प्र­का­र­वा­चि­त्वा­व­सा­यात्। यद्य­प्या­धा­न­ग­त­वै­दि­क­मपि द्यूतं कृतं भवतीति दश सन्त­स्त­त्कृ­त­मि­त्य­त्र­त्य­कृ­त­श­ब्द­व्या­ख्या­नाय विशिष्य लौकिकद्यूतं नान्वेषणीयम्। तथापि यत्र त्रिबि­न्दू­प­रि­भा­वा­दि­युक्ताः अक्षा­व­शे­षा­दि­युक्ता वा त्रेतादयोऽपि सन्ति तत्र चतु­र्बि­न्दू­प­रि­भा­व­युक्ते चतु­र­क्षा­व­शे­ष­युक्ते वा द्यूते कृतशब्दो धर्म­पा­द­च­तु­ष्ट­य­यु­क्त­यु­ग­वाची समुचितम् इति ज्ञायते। यथा कृता­य­वि­जि­ता­ये­त्य­त्रत्य विजयवचनं च विज­य­नि­मि­त्त­कृ­त­प्र­ति­द्व­न्द्वि­प­रा­ज­य­नि­मि­त्त­त्रे­ता­दि­वि­मि­श्रि­त­लौ­कि­को­दा­ह­रण एव स्पष्टं भवतीत्याशयेन छान्दोग्यविवरणे भगवत्पादैः लौकिकमुदाहृतम्। अत­स्त­द­नु­सा­रे­णा­चा­र्यै­रपि लौकिकग्रहणेन वैदिकं व्यावर्तयितुं चतुरयकत्वेन द्यूतं विशेषितम्। अनेनैव यत्र लौकिकेऽपि निय­त­सं­ख्य­प­श्चा­क्ष­पा­त­ना­दि­रूपे सर्वे­षा­मु­त्ता­न­तया पातने जयः, अन्यथा पराजय इति व्यवस्थावति द्यूत­शा­स्त्र­प्र­सिद्धे द्यूतान्तरे कृतत्रेतादिकं नास्ति तस्यापि व्यावृत्तिः। एवं चायं वाक्यार्थः। चतुरयके लौकिके द्यूते यथा चत्वारोङ्काः सन्ति, तद्व­त्प्रा­णा­दि­द­शके चत्वारोऽपि पदार्थाः सन्ति, तदन्तर्गता यथा अङ्करूपा अवयवाः तद्वत् त्रयोऽपि सन्ति, यथा च द्व्यङ्क­रू­पा­व­यवौ तद्वद् द्वावपि स्तः। यथै­का­ङ्क­रू­पोऽ­व­यवः तद्व­द­कोऽ­प्य­स्तीति। त्र्यङ्कायवद् एकाङ्कायवदिति केषुचित्कोशेषु पाठो दृश्यते। तस्मिन्पाठे सप्तमीसमर्थात् 'तत्र तस्यैवेति' सूत्रेण वतिर्वाच्यः, न तु तेन तुल्यं क्रियां चेद्वतिरिति सूत्रेण। तथा च अङ्कस्थानो परिभावयुक्त त्रेताये यथा त्रयोऽङ्काः सन्ति, तद्वत् त्रयोऽपि सन्ती­त्या­दि­रर्थो लभ्यत इति तेन प्राणादिदशके त्रेता­दि­श­ब्द­प्र­वृ­त्ति­नि­मित्तं प्रस्तु­ता­नु­प­यो­ग्ये­वोक्तं स्याद्, न तु श्रुति­ग­त­कृ­त­श­ब्द­प्र­वृ­त्ति­नि­मि­त्तम्। तस्मादयुक्तः स पाठः। चतुरङ्कवदिति पूर्ववाक्यस्थेन यथा चत्वारोऽङ्काः सन्ती­त्ये­व­म­र्थ­के­ना­र्थ­सा­रू­प्या­ला­भाच्च स पाठो न युक्तः। अत्र सर्वेऽ­प्य­ङ्क­श­ब्दा­श्चि­ह्न­वा­चिनः। एकाक्षनिपातने बिन्दूनां बह्वक्षनिपातने अवशिष्टाक्षाणां च साधारणः। उभयेषामपि चतु­स्त्रि­द्व्ये­क­सं­ख्या­त्वेन कृता­या­दि­चि­ह्न­त्वा­वि­शे­षात्॥
ननु सन्तु प्राणादिदशके चतुरङ्काय इव चतु­स्त्रि­द्व्ये­क­रूपाः पदार्थाः, प्रकृते किमा­या­त­मि­त्या­शङ्क्य दशस्वेतेषु कृत­श­ब्द­प्र­वृत्तिं प्रकृतार्थं कृत­श­ब्द­प्र­सि­द्धा­र्थ­सा­दृ­श्ये­नो­प­पा­द­यितुं तस्य प्रसिद्धमर्थमाह –
द्यूत इति।
ननु कृतसंज्ञेन चतुरङ्कायेन वायुप्राणादीनां किं सादृश्यम्? प्रागुक्तं चतु­स्त्रि­द्व्ये­क­सं­ख्या­सं­ख्ये­य­त्व­मिति चेद्, न तत्सादृश्यं श्रुतौ विवक्षितम् दश सन्त­स्त­त्कृ­त­मिति श्रुतौ दश­श­ब्द­सं­की­र्त­नेन दशसंख्यया सादृ­श्य­वि­व­क्षो­न्न­य­ना­दि­त्या­शङ्क्य, चतुःसंख्यायाः तद­न्त­र्ग­त­त्रि­द्व्ये­क­सं­ख्यानां च संयोजनेन तस्मिन् दशसंख्यां संपादयति - ॢ
स च दशात्मक इत्यादिना।
ननु दशसंख्ययैव सादृ­श्य­वि­व­क्षायां द्यूते चतुरङ्कायः कृतसंज्ञ इत्यादिग्रन्थ एव पर्याप्तः किमर्थः तत्प्राचीनः प्रकृतेषु दशसु चतु­स्त्रि­द्व्ये­क­सं­ख्य­प­दा­र्थ­व­त्व­रू­प­च­तु­र­ङ्का­य­सा­दृ­श्य­क­थ­न­प­र­ग्रन्थ इति चेत्, उच्यते। चतुरङ्काये दश­सं­ख्या­व­त्व­म­व­य­व­सं­ख्या­सं­यो­ज­ने­नौ­प­चा­रिकं, न तु संख्ये­य­व्य­क्ति­ता­व­त्व­प्र­युक्तं मुख्यं, कथममुख्यगुणवद् मुख्यगुणवत उपमानं स्यादि­त्या­का­ङ्का­क्षायाँ गुण­ग­त­मु­ख्याऽ­मु­ख्य­वि­वे­कोऽत्र न विवक्षितः। किन्तु चतु­स्त्रि­द्व्ये­क­सं­ख्या­घ­ट­नी­य­त्व­मात्रं, तत्तु मुख्या­मु­ख्य­सा­धा­र­ण­मिति दर्शयितुं प्राचीनग्रन्थः। एवं दश­सं­ख्या­व­त्वा­देव तेषु दशा­क्ष­र­च्छ­न्दो­वि­शे­ष­वा­चको विरा­च्च्छ­ब्दश्च, स प्रकृते दृष्टान्तः॥
इति दशमं ज्योतिरधिकरणम्।

प्राण­स्त­थाऽ­नु­ग­मात्॥२८॥
उतैकमेव बलवदिति।
ननु किममूनि सर्वाणि समबलानि, उतैतेषु ब्रह्मलिङ्गं बलवदित्येक एव संशयः प्रदर्शयितुं युक्तः; तथैव टीकायां पूर्वो­त्त­र­प­क्ष­प्र­वृत्तेः। न तु प्रथ­म­सं­श­य­स्यै­क­मेव बलवदिति कोट्यन्तरं प्रदर्श्य यदैकमेव बलवत् तदा किं प्राणस्य जीवस्य वा लिङ्गं बलवद्, उत ब्रह्मण इति संशयान्तरमपि प्रदर्शयितुं युक्तम्। टीका­या­मे­क­वा­क्य­त्व­नि­र्वा­हा­र्थम् एकस्यैव लिङ्गं बल­व­दि­त्य­नि­र्धा­र­णेन सिद्धान्तं प्रदर्श्य तदनन्तरं विशिष्य ब्रह्म­लि­ङ्ग­ब­ल­व­त्व­नि­र्धा­र­णार्थं विचा­रा­न्त­र­प्र­व­र्त­न­स्या­भा­वात्। तत्सत्वे हि संशयान्तरं प्रदर्शनीयम्। यथा पूर्वतन्त्रे भावार्थाः कर्मशब्दाः (जै. अ. २ पा. १ सू. १) इति सूत्रार्थकथने सोमेन यजेतेत्यादिषु किं द्रव्य­गु­ण­भा­व­शब्दाः सर्वेऽपि भाव­ना­क­र­ण­स­म­र्पकाः, उतैक एवेति संश­य­प्र­द­र्श­न­पू­र्व­क­मेक एवेति सिद्धा­न्त­मु­प­पाद्य तदनन्तरं यदैक एव तदा किं द्रव्यगुणशब्दः, उत भावशब्द इति सन्दे­हा­न्त­र­प्र­द­र्श­न­पू­र्वकं भावशब्द एव फल­भा­व­ना­क­र­ण­स­म­र्पक इति निर्णीतं, न तथेह विचारद्वयं कृतमग्रे दृश्यते। तस्मा­त्प्रा­गु­क्त­री­त्यैक एव संशयः प्रदर्शयितुं युक्त इति चेत्, उच्यते। इह यद्येक एव बलवल्लिङ्गः प्रतिपाद्यः, तर्हि प्राणो जीवो वा बलवल्लिङ्ग इति तयोरन्यतरः प्रति­पा­द्योस्तु, एव­म­प्ये­क­वा­क्य­ता­सं­र­क्ष­ण­सि­द्धे­रि­त्या­श­ङ्का­न्तरं तन्निराकरणं चेत्युभयमप्यत्र विवक्षितम्। तदित्थम्। प्राणोस्मि प्रज्ञा­त्मे­त्यु­प­क्र­मात् प्राण एव प्रज्ञा­त्मे­त्यु­प­सं­हा­राच्च वायुः जीवो वाऽत्रो­पा­स्य­त्वेन प्रतिपाद्यः। मामेव विजानीहीति प्रथ­म­मि­न्द्र­व­च­न­स­त्वेऽपि नेन्द्र­स्यो­पा­स्य­त्व­शङ्का; तेन वाक्येन स्वस्यै­वो­पा­स्य­त्व­मु­क्त­मिति शङ्कावारणाय प्राणोऽस्मि प्रज्ञात्मेति पुन­स्त­द्वि­व­र­णात्। तथा च शास्त्रदृष्ट्या वामदेवस्य मन्वा­दि­भा­वो­क्ति­व­दि­न्द्रस्य स्वोपा­स्य­प्रा­ण­जी­व­सा­मा­न्य­भा­वोक्तिः। तत्र प्राणपूर्वपक्षे यावद्ध्यस्मिन् शरीर इत्यादिकं प्राण­श्रु­त्यु­पो­द्ब­लकं लिङ्गम्। तस्मिन् जीव­ध­र्मो­क्तिस्तु यो वै प्राणः सा प्रज्ञेति तस्य जीवभेदोपचरणाद्, औप­सं­हा­रि­का­ज­रा­मृ­त­त्वो­क्ति­रपि तत एव जीव­स्या­ज­र­त्वा­द­मृ­त­त्वा­च्चेति। जीव­पू­र्व­प­क्ष­स्त्व­त­द्वै­प­री­त्ये­नो­प­क्र­मो­प­सं­हा­र­ग­त­जी­व­प­र­प्र­ज्ञा­त्म­श­ब्दा­दि­स­त्वात्। हित­त­म­मि­त्यु­प­क्र­म­ग­ता­ति­शा­य­नि­क­प्र­त्य­य­मात्रं तु प्राण­जी­वा­न्य­त­रो­पा­स­ना­फलं सक­ल­पा­प­क्ष­या­दि­क­मिति तन्मा­त्र­वि­ष­य­त्वेन योजनीयम्। एत­च्छ­ङ्का­नि­रा­क­रणं त्वन्य­था­सि­द्ध्य­न­न्य­था­सि­द्धि­भ्याम् एक­वा­क्य­ता­नि­र्वा­हा­र्थ­मे­क­स्मि­न्नेव प्राण­जी­व­ब्र­ह्म­लि­ङ्गेषु योजनीयेषु कार्ययोः लिङ्गकारणे ब्रह्मणि योजयितुं शक्यम्। कारणस्य सर्वेषु कार्ये­ष्व­नु­ग­मा­दि­त्य­न्य­था­सि­द्धानि तयोः लिङ्गानि। कार्या­न्त­रे­ष्व­प्य­नु­वृ­त्तस्य ब्रह्मणो लिङ्गानि तु न तयोः व्यावृ­त्त­यो­र्यो­ज­यितुं शक्यन्त इत्य­न्य­था­सि­द्धा­नीति। एव­म­न­न्य­था­सि­द्धै­त­च्छ­ङ्का­नि­रा­क­र­णम्। न च ब्रह्म­लि­ङ्ग­म­न्य­प­र­त्वेन परिणेतुं शक्यसिति भाष्ये, तस्मा­द­न­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­नु­सा­रत इति टीकायां च सूचितम्। सूत्रेऽ­प्य­नु­ग­मा­दि­त्य­स्यो­प­क्र­मो­प­सं­हा­रा­नु­ग­म­वत् कारणस्य कार्ये­ष्व­नु­ग­म­रू­प­म­र्था­न्त­र­मपि विवक्षितमिति तेनैव सूचितम्। एवं सूत्र­भा­ष्य­टी­का­प­र्या­लो­च­नया स्पष्टोऽयमर्थं इत्याचार्यैः इह कण्ठतो न प्रदर्शितः। दर्पणे त्वाचार्यैरेव शङ्कामनुद्भाव्य ब्रह्माऽ­ब्र­ह्म­लि­ङ्गानां तयो­र­नु­ग­म­व्या­वृ­त्तिभ्यां विशेषो वर्णितः।
अन­न्य­था­सि­द्धेति।
ननु यद्य­न­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­नु­सा­रे­णा­न्य­था­सि­द्ध­न­यनं गतार्थ, तर्हि-त­स्मा­द­न­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­नु­सा­रत इत्येतदपि गतार्थ स्यादिति चेत्, अस्तु। अत एव त्रीण्यु­पा­स­ना­नीति प्रथमविचार एवागतार्थ इति टीकायां कण्ठतः कृतः। द्वितीय विचारस्तु प्राची­न­न्या­य­सिद्ध इति तत्सं­चा­र­णा­र्थ­म­न­न्य­था­सि­द्ध­प­द­मा­त्रेण सूचितः। अथवा अनुगमव्यावृत्ति रूपा­न­न्य­था­सि­घ्य­न्य­था­सि­द्धि­प्र­का­र­भे­द­व्यु­त्पा­द­ने­ना­ग­ता­र्थता द्रष्टव्या॥
वसत इति
द्विव­च­न­श्रु­त्येति।
ननु सह­वा­सा­दि­लि­ङ्गा­नु­गृ­ही­त­द्वि­व­च­न­श्रुत्या प्राण­प्र­ज्ञा­श­ब्दो­क्तयोः भेदावगमाद् ब्रह्मवद्यथा तयो­रु­पा­स्य­त्व­मे­व­मि­न्द्र­स्यापि बहु­लि­ङ्ग­प्रा­प्त­स्यो­पा­स्य­त्व­म­ङ्गी­कृत्य चत्वा­र्यु­पा­स­ना­नीति पूर्वपक्षयितुं शक्यम्; अध्या­त्म­सं­ब­न्धि­लि­ङ्गानां यथार्हं जीवा­द्य­न्व­यो­प­पत्तेः, मध्ये प्राण­प्र­ज्ञा­श­ब्दयोः मुख्य­प्रा­ण­जी­व­प­र­त्वेऽपि प्राण एव प्रज्ञा­त्मे­त्यु­प­सं­हारे ब्रह्म­प­र­त्व­व­त्प्रा­णोऽस्मि प्रज्ञा­त्मे­त्यु­प­क्रमे शक्रपरत्वस्यापि संभवात्। तं मामा­यु­र­मृ­त­मु­पा­स्वे­त्यु­प­क्रमे शक्रस्य, स म आत्मेति विद्या­दि­त्यु­प­सं­हारे ब्रह्मणः, तस्मा­दे­त­दे­वो­क्थ­मु­पा­सी­तेति वक्तारं विद्यादिति च मध्ये प्राणस्य जीवस्य चोपासना विधीयत इति स्पष्ट­मे­वो­पा­स­ना­च­तु­ष्ट­य­प्र­ती­ते­श्चेति चेत्, उच्यते; "प्राणोऽस्मि प्रज्ञात्मा तं मामा­यु­र­मृ­त­मु­पा­स्वे"त्ये­त­द­न­न्त­रम् “आयुः प्राणः प्राणो वा आयुः याव­द्ध्य­स्मि­ञ्छ­रीरे प्राणो वसति ताव­दा­यु­रि­त्यु­पा­स्य­त्वेन निर्दिष्टस्य प्राण­स्या­युः­प्र­दा­न­स्वा­तन्त्र्यं श्रुतम्, समनन्तरखण्डे चास्तित्वे च प्राणानां निःश्नयसमिति प्रस्तुतस्य प्राणस्य सत्व एवेन्द्रियाणां निःश्रे­य­स­मुक्त्वा जीवति वागपेतो मूका हि पश्यामो जीवति चक्षुरपेतो अन्धा हि पश्याम इत्यादिना प्राण एव प्रज्ञात्मेदं शरीरं परि­गृ­ह्यो­त्था­प­य­ती­त्य­न्तेन संदर्भेण तस्यैव पूर्वो­क्त­मा­यु:प्र­दा­न­स्वा­त­न्त्र्य­म­न्व­य­व्य­ति­रे­काभ्यां विवृतम्। एवं प्राण­ध­र्म­की­र्त­ना­न­न्तरं "अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्या­ख्या­स्यामो” इति यथा प्रज्ञाया जीवस्य सर्वाणि भूतानि संबन्धीनि भूत्वा तद्दृश्यत्वेन कल्पितानि वस्तुत एकं भवन्ति तथा व्याख्या­न­मु­प­क्रम्य वक्तृ­त्व­घ्रा­तृ­त्वा­दि­प्र­ज्ञा­ध­र्म­की­र्तनं प्रस्तु­त­प्र­ज्ञा­त्म­वि­ष­य­म­व­ति­ष्ठते। एव­मि­हो­पा­स्य­त्वेन निर्दिष्टयोः प्राण­प्र­ज्ञा­त्मनोः क्रमेण व्यवस्थितं धर्मकीर्तनमिव तदुपासनयोः फलकीर्तनमपि दृश्यते "प्राणेन ह्येवामुष्मिन् लोकेऽ­मृ­त­त्व­मा­प्नोती"ति "प्रज्ञया सत्यसंकल्पमिति च। एवं प्राण­प्र­ज्ञा­त्म­सं­ब­न्धि­लि­ङ्गानां प्राणोऽस्मि प्रज्ञा­त्मे­त्य­तोऽ­न्यत्र नेतु­म­श­क्य­त्वा­द­य­मु­प­देशो वामदेवस्य मनु­सू­र्या­दि­भा­व­वत् ब्रह्म­भू­त­स्ये­न्द्रस्य प्राणा­दि­भा­वोऽ­प्य­स्तीति मुख्य­प्रा­ण­जी­व­वि­षयः। एव मुपास्वेति च पृथक् पृथक् तदु­भ­यो­पा­स­ना­वि­धा­नम्। एत­दे­वो­क्थ­मु­पा­सी­ते­त्यत्र वक्तारं विद्या­दि­त्या­दिषु च प्राणोपासनां प्रज्ञोपासनां चानूद्य शरी­रो­त्था­प­क­त­व­क्तृ­त्वा­दि­गु­ण­वि­धा­न­मिति न तेषामपि वैयर्थ्यमतः “प्राणोऽस्मि प्रज्ञा­त्मे"त्या­दि­वाक्ये ताव­न्ने­न्द्रो­पा­स­ना­विधिः। नापि "मामेव विजा­नी­ही­त्यत्र;" तस्य हित­त­म­त्व­स­र्व­पा­पा­सं­स्प­र्श­हे­तु­त्व­लि­ङ्गेन प्रक­र­णा­व­सा­न­नि­रू­प­णी­य­ब्र­ह्मो­पा­स­ना­वि­ध्य­र्थ­त्वात्। तस्मात् त्रीण्यु­पा­स्या­नी­त्येव युक्तं पूर्व­प­क्ष­यि­तुम्॥
हेतुः पदार्थावबोध इत्यादि।
ननु द्विव­च­न­श्रु­ति­स­ह­वा­सा­दि­लि­ङ्ग­प्रा­प्तस्य प्राण­प्र­ज्ञा­त्म­भे­दस्य विधि­श्रु­ति­प्रा­प्तानां तत्त­दु­पा­स­ना­वि­धीनां च वाक्या­र्थ­वि­रो­धेन त्यागे श्रुति­लि­ङ्ग­वा­क्या­दि­ब­ला­ब­ल­वै­प­री­त्य­प्र­स­ङ्गात् 'स्योनं ते' इति मन्त्रे पूर्वो­त्त­र­भा­ग­व्य­व­स्थि­त­स­द­न­क­र­ण­प्र­ति­ष्ठा­प­न­प्र­का­श­न­सा­म­ध्ये­ल­क्ष­ण­वा­क्य­भे­दा­व­ह­लि­ङ्ग­वि­रो­धेन तस्मिन्सीदेति पूर्वो­क्त­सा­पे­क्ष­त्वे­ना­व­ग­म्य­मा­नस्य वाक्यैक्यस्य बाधव्यवस्थापनं प्रत्युद्धृतं स्यात्, यदि कामयेत वर्षुकः पर्जन्यः स्यादिति सामा­ना­धि­क­र­ण्य­रू­पस्य वाक्यस्य यदि कामयेत यजमान इत्यध्याहारेण बाधव्यवस्थापनं च प्रत्युद्धृतं स्यात्, न च सम­भि­व्या­हा­रा­व­ग­तात् वाक्या­दु­प­क्र­मो­प­सं­हा­रा­व­गते वाक्ये कश्चिदस्ति विशेषः; उपांशुयाजवाक्ये जामि­ता­दो­ष­प­रि­हा­रा­र्थ­म­न्त­रा­वाक्ये विधा­व­व­श्य­म­भ्यु­प­ग­न्तव्ये तत्रैव शाखा­भे­दे­ना­ग्ने­या­ग्नी­षो­मी­य­या­ज्या­नु­वा­क्या­यु­ग­ल­मध्ये पठितानां वैष्ण­व­प्रा­जा­प­त्या­नी­षो­मी­य­या­ज्या­नु­वा­क्या­यु­ग­लानां क्रम­प्र­मा­णे­ना­न्वये सति तत्त­न्म­न्त्रो­दि­तानां विष्ण्वादीनां तत्र यागे देवतात्वस्य प्राप्तत्वात् विष्ण्वा­दि­वा­क्येषु विधे­या­ला­भा­द्वि­धि­त्यागो न तूप­क्र­मो­प­सं­हा­रा­व­ग­त­वा­क्य­वि­रो­धात्। पुत्रे­ष्टि­वाक्ये त्वष्टा­क­पा­ला­दिषु विध्यश्रवणाद्। विधि­यो­ग्य­पु­रु­ष­व्या­पा­र­मा­त्र­स्या­प्य­श्र­व­णाद् यच्छब्दोपबन्धेन अनु­वा­द­त्व­प्र­तीतेः। यस्मिन् जात इति वाक्ये पूतत्वादीनां समुच्चयावगमाच्च अष्टाकपालादिषु विध्य­न­ङ्गी­का­रो­न्नो­प­क्र­मो­प­सं­हा­रा­व­ग­तै­क­वा­क्य­त्व­वि­रो­धा­दिति चेत्, उच्यते; श्रुत्यादिषु परमपि तात्प­र्य­लि­ङ्ग­व­त्प्र­बलं पूर्वमपि तात्प­र्य­लि­ङ्ग­र­हितं दुर्बलमिति हि स्थितिः। तदि­हो­प­क्र­मो­प­सं­हा­रा­व­ग­मि­त­ता­त्प­र्येण ब्रह्म­वा­क्ये­ना­त­था­भू­त­द्वि­व­च­न­श्रु­त्यादि बाध्यते यथाऽ­न्त­व­त्वा­दि­लि­ङ्गेन आका­श­श्रु­त्या­दि­क­मिति न किंचिदवद्यम्॥
यज्ञा­दि­वि­धि­र­पू­र्व­त्वा­द्वि­षम इति।
ननु यथा सर्वो­त्म­त्व­वि­व­क्षया प्राणजीवधर्माः स्तुत्यर्थं निर्दिष्टा इति यथा शक्यते योजयितुं, यथा च सर्वात्मत्वं सृष्टि­वा­क्य­सिद्धं शक्यमनुवदितुं, तथा यज्ञादिभिरपि सिषाधयिषितत्वेन ब्रह्म­वे­द­न­स्तु­त्यर्थं यज्ञादयो निर्दिष्टा इति शक्यं योजयितुं, कर्म­का­ण्ड­ग­त­वा­क्य­जा­त­सिद्धं च यज्ञादिकं शक्यमनुवदितुम्। अथापि तत्र फल­वि­शे­ष­सा­ध­न­त्व­स्या­पू­र्व­त्वा­द्वि­धि­श्चेत्, इहापि स्यादविशेषात्। तस्माद्यज्ञादि विधि­व­दु­प­को­स­ल­वि­द्यायां "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' "एत­द­मृ­त­म­भ­य­मे­तद् ब्रह्मे"त्यु­प­क­मो­प­सं­हा­रा­व­ग­त­ब्र­ह्म­वा­क्य­मध्ये अग्नि­वि­द्या­वि­धि­वद्, भूमविद्यायां तरति शोक­मा­त्म­वित्" "आत्मैवेदं सर्व"मि­त्यु­प­क्र­मो­प­सं­हा­रा­व­ग­त­ब्र­ह्म­वा­क्य­मध्ये नामा­धु­पा­स­ना­वि­धि­वच्च प्राण­जी­वो­पा­स­न­वि­धि­र­प्य­जी­कर्तुं युक्त एव। उच्यते। त्रिवि­धो­पा­स­न­वि­धि­म­भ्यु­प­ग­च्छता मामेव विजानीहीत्यत्र तावद् ब्रह्मो­पा­स­न­वि­धि­र्वक्तुं न शक्यते; "त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे' "एतदेव मनुष्याय हिततमं मन्ये यन्मां विजानीयादिति प्रश्नो­त्त­रा­व­ग­त­ता­त्प­र्य­हि­त­त­म­ब­लि­ङ्गा­वि­रो­धात्। हिततमत्वं हि विज्ञा­न­स्यो­च्य­मानं निर­ति­श­य­पु­रु­षा­र्थत्वं निर­ति­श­य­पु­रु­षा­र्थ­सा­ध­नत्वं वा स्यात्, उभयथापि तद­ख­ण्डा­न­न्द­वि­ष­यस्य निखि­ला­न­र्थ­नि­वृ­त्ति­पू­र्व­क­ब्र­ह्मा­वा­प्ति­सा­ध­नस्य च विशु­द्ध­ब्र­ह्म­सा­क्षा­त्का­र­स्यैव युज्यते। अतस्तल्लिङ्गं विजा­नी­ही­त्यु­क्तस्य विज्ञा­न­स्या­वि­धे­य­ब्र­ह्म­सा­क्षा­त्का­रतां तत्राख्यातस्य गोसदृशं गवयं विद्धि, आत्मानं रथिनं विद्धी­त्या­दि­लौ­कि­क­वै­दि­क­वा­क्य­रीत्या प्रति­पा­द्य­पु­रु­षा­भि­मु­खी­क­र­णा­र्थ­वि­धि­स­रू­पतां च व्यवस्थापयति। अतो विजानीहीयत्र तावन्न ब्रह्मोपासना विधिशङ्कावकाशः। नापि प्राणोऽ­स्मी­त्यादौ तत्रापि मामिति प्रयोगस्य पूर्व­प्र­यो­ग­सा­म्येन निर्वि­शे­ष­ब्र­ह्म­प­र­त्वा­व­सा­यात्। तत्र­त्य­प्रा­ण­श­ब्दस्य चेन्द्र­वि­श्वा­मि­त्र­सं­वा­द­ग­त­प्रा­ण­श­ब्द­सा­म्येन तत्प­र­त्वा­व­सा­याच्च। ऐतरेयकोपनिषदि हीन्द्र­वि­श्वा­मि­त्र­सं­वादः अस्यामुपनिषदि इन्द्र­प्र­त­र्द­न­सं­वा­द­वत् प्रवृत्तः। तत्र हि विश्वामित्रं प्रकृत्य "इन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः वरं ते ददामी" त्युप्रक्रमः। इन्द्र­ग­त­ते­जो­वि­शे­षे­णेन्द्रं ब्रह्म­सा­क्षा­त्का­रेण ब्रह्मभूयं गतमालक्ष्य "त्वामेव विजा­नी­या"मिति ऋषेः प्रश्नः। "प्राणो वा अहमस्मि ऋषे" इती­न्द्र­स्यो­त्त­रम्। तत्र प्राणशब्दः परब्रह्मपरः, "प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मी"ति वाक्य­शे­ष­प्र­ति­पा­दि­त­सा­र्वा­त्म्य­लि­ङ्गात्। एवं च साक्षात्काररूपे प्रकृतविज्ञाने प्रयु­क्त­स्यो­पा­स्वे­त्य­स्यापि तत्र साक्षात्कारे फलरूपतया स्वतः­प्रा­प्ता­वृ­त्त्य­नु­वा­द­क­त्व­मेव कल्पनीयम्। एवं च "स म आत्मेति विद्या­दि"त्यु­प­सं­हा­रेऽपि प्रक्रा­न्त­ब्र­ह्म­वि­ज्ञा­न­परे विधि­सा­रू­प्य­मा­त्र­मिति तत्रापि न ब्रह्मो­पा­स­ना­वि­धि­श­ङ्का­व­काशः। निर्वि­शे­ष­प्र­क­र­ण­मध्ये प्राण­जी­वो­पा­स­ना­वि­धि­रिति शङ्काऽवशिष्यते, सापि न प्राणोऽस्मि प्रज्ञा­त्मे­त्यत्र कर्तुं युक्ता; तस्य वाक्यस्य निर्वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­र­प­र­तायाः प्रति­पा­दि­त­त्वात्, वाक्यशेषे तद्गु­ण­त­त्फ­ल­की­र्त­नानां च सार्वा­त्म्या­दिना तत्स्ता­व­क­त्व­स्यै­वो­चि­त­त्वाच्च। “एत­दे­वोक्थं" "वक्तारं विद्या­दिति" वाक्ययोश्च न तद्द्व­य­वि­धि­शङ्का कर्तुं युक्ता; तयोः फलाश्रवणेन नामा­द्यु­पा­स­ना­वि­धि­व­त्फ­ला­र्थ­त्वा­यो­गात्, निर्वि­शे­ष­ब्र­ह्म­वि­द्या­या­म­नि­वि­द्या­व­द­ला­भा­वाच्च। तस्मात्तयोरपि वाक्ययोः विधि­स­हा­पा­र्थ­वा­द­तैव युक्ता। अथापि प्राणा­द्या­त्मत्वं स्वरू­प­तोऽ­प्राप्तं चेदु­प­रि­धा­र­ण­व­त्स्या­त्तदा कथं­चि­द्वि­धी­ये­तापि, तदपि नास्ति; सार्वा­त्म्य­वाक्यैः प्राप्त­त्वा­द­तोऽ­पू­र्व­त्वा­भा­वात् स्तुत्य­र्थ­म­नु­वाद्यं सार्वा­त्म्य­मि­त्या­शयः॥
ब्रह्म प्रति विशेषणत्वमिति वैरूप्यादिति।
यद्यपि वैरूप्यं नासं­भ­वि­त्व­रू­पोऽ­र्थ­दोषः, नापि तद्वो­ध­ना­श­क्ति­रूपः शब्ददोषः, अर्थानां किंचि­द्वि­शे­ष्य­त्वेऽ­प्य­न्य­वि­शे­ष­ण­तायाः शब्दानां विशि­ष्टो­प­स्था­प­न­पू­र्व­क­म­न्यत्र तद­न्व­य­बो­ध­क­ता­याश्च 'विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः। सत्यकामः सत्य­स­ङ्कल्पः" "अग्नये दात्रे पुरो­डा­श"मि­त्या­दिषु लौकि­क­वै­दि­क­व्य­व­हा­रेषु दृष्टत्वात्, एतस्यैव रेवतीषु वारवन्तीयमिति वाक्ये अत्य­न्ता­प्र­सि­द्ध­वि­शि­ष्टो­प­स्था­प­न­पू­र्वकं वाक्यस्य तद­न्वि­त­वा­क्या­र्थ­बो­ध­क­तायाः स्वयमेवाचार्यैः प्रद­र्श­यि­ष्य­मा­ण­त्वाच्च; तथापि तत्र तत्र विप्रकीर्णतया वर्णितानां प्राण­जी­व­ब्र­ह्म­गु­णा­ना­मे­कत्र समाहृत्य विधानं न संभवतीत्यत्र वक्ष्यमाणयुक्तौ तात्पर्यम्। ननु नाना­स्थ­ल­वि­प्र­की­र्ण­स­र्व­गु­ण­वि­शि­ष्ट­वि­धा­ना­सं­भ­वेऽपि प्राणोऽस्मि प्रज्ञात्मेति वाक्ये प्राण­जी­व­त्व­ध­र्म­वि­शे­षि­त­ब्र­ह्मो­पा­स­ना­वि­धा­न­मु­प­प­द्यते; अमृतत्वस्य ब्रह्म­ध­र्म­त्वा­दिति चेन्न। प्राणो वा आयुः प्राण उत वा अमृतमिति वाक्य­शे­षा­भ्या­मा­यु­ष्या­मृ­त­त्वयोः प्राणधर्मत्वेन कीर्तनात्, प्राणोऽ­स्मी­त्यादेः उपक्रमानुसारेण निर्वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­रा­र्थ­त्वा­च्चेति भावः।।
नेमिवद्विषया इति।
'स्त्री नेमिः प्रधि­श्च­क्र­प्रान्ते तुम्बा तु नाभिका। अरास्तयोः स्थिता मध्ये इति नैघण्टुकवचनाद् नेमिश्चक्रपरितः स्थित­स्त­त्प्रा­न्त­भागः। नाभि­र्म­ध्या­व­यवः। अरा नाभि­ने­मि­म­ध्य­ग­ता­व­यवाः।
श्रेष्ठं मन्यानिति।
स्वस्वात्मानं श्रेष्ठं मन्य­मा­ना­नि­त्यर्थः।
क्रिया­वि­शे­ष­ण­मिति।
एतदिति पदमित्यर्थकं सदनेन परिदृश्यमानेन प्राणा­दि­प्र­का­रे­णा­त्मानं पञ्चधा विभज्येत्येवं विभाग क्रिया­वि­शे­ष­ण­मि­त्यर्थः॥
अस्या जीवलक्षणायाः प्रज्ञाया इति।
ननु अत्र प्रज्ञाशब्दो बुद्धिपर इति युक्तः; यो वै प्राणः सा प्रज्ञे­त्यु­प­का­न्त­प्रा­ण­बु­द्धि­स­ह­वा­स­स­हो­त्क्र­म­ण­प्र­ति­पा­द­का­न्य­व­हि­त­पू­र्व­वा­क्य­स­न्नि­धा­पि­त­बु­द्धि­प­रा­म­र्शि­स­र्व­ना­म­स­म­भि­व्या­हृ­त­त्वात्, न हि प्रज्ञापेता वाग् नाम किञ्चन प्रज्ञायते, अन्यत्र मे मनोऽ­भू­दि­त्या­दिषु। अथ यथाऽस्यै प्रज्ञाया इति प्रति­ज्ञा­वा­क्या­नु­ब­न्धि­ष्व­ग्रि­म­वा­क्येषु प्रज्ञा­पे­त­श­ब्दस्य मनो­व्या­स­ङ्गा­र्थ­तया विवरणाच्च; एवमिह प्रज्ञाशब्दस्य बुद्धिपरत्वे प्रज्ञा­दो­ह­वा­क्यानि वागादीनां स्वस्व­व्या­पा­रो­त्पा­द­ना­पे­क्षि­त­बु­द्ध्ये­क­दे­श­प­राणि सङ्गच्छन्ते; युग­प­ज्ज्ञा­न­क­र्मे­न्द्रि­य­व्या­पा­रेषु वागादीनां कृत्वा­न्तः­क­र­ण­सं­ब­न्धा­यो­गात्। प्रज्ञया वाचं समा­रु­ह्ये­त्या­दि­वा­क्या­न्यपि जीवस्य बुद्धि­द्वा­र­क­वा­गा­दि­क­रण संब­न्ध­पू­र्व­क­व­क्तृ­त्वा­दि­प्र­ति­पा­द­क­तया सङ्गच्छन्ते; न वाचं विजिज्ञासीत वक्तारं विद्या­दि­त्या­द्य­ग्रि­म­वा­क्येषु जीवस्यैव वक्तृ­त्वा­दि­प्र­ति­पा­द­नात्, तस्मादिह संदर्भे प्रज्ञाशब्दस्य जीवपरतया व्याख्यानं न युक्तमिति चेत्, उच्यते। वागेवास्या एक­म­ङ्ग­म­दू­दु­ह­दि­त्या­दि­प­र्या­येषु वाक्प्रा­ण­च­क्षुः­श्रो­त्रा­दि­क­र्तृक इव मन एवास्या एक­म­ङ्ग­म­दू­दु­हृ­दिति पर्याये मनःकर्तृकोऽपि प्रज्ञादोह उक्तः, स तु मनःप्रज्ञयोः भेदं गमयतीति तदनुसारेणैवं व्याख्यातम्। एवं चान्यत्रमना इत्यादिवाक्येषु मनःशब्दः प्राणबन्धनं हि सौम्य मन इत्यनेव मनउपाधिकजीवपर इति तात्पर्यम्।।
रेचितवतीति।
दुह प्रपूरणे इति धात्व­र्थ­नि­र्दे­शकं प्रपूरणपदं रिक्ती­क­र­णा­र्थकं, रिक्तीकरणं चात्र फलचैतन्यरूपेण स्वल्पतया विभाजनमेव।
तस्या दुग्धाया इति।
गोस्थानीयं जीवचैतन्यं पयःस्थाने फलचैतन्यं च। ननु तस्या वाच इति व्याख्यातुं युक्तम्; "प्राण एवास्या एकमङ्गमदूदुहृत् तस्य गन्धः पर­स्ता­त्प्र­ति­वि­हिता भूतमात्रा चक्षुरेवास्या एकमङ्गमदूदुहत् तस्य रूपं पर­स्ता­त्प्र­ति­वि­हिता भूत­मा­त्रे"त्या­दि­प­र्या­ये­ष्व­स्त्री­लि­ङ्ग­त­च्छ­ब्देन घ्राणादीनां "हस्ता­वे­वास्या एकमङ्गमदूदुहतां तयोः कर्म परस्तात् प्रतिहिता भूतमात्रा पादावेवास्या एकमङ्गमदूदुहतां तयोरित्या पर­स्ता­त्प्र­ति­वि­हिता भूत­मा­त्रेति" पर्याययोः द्विव­च­ना­न्त­त­च्छ­ब्देन हस्त­पा­द­द्व­य­योश्च परा­म­र्श­द­र्श­ने­नात्र तच्छब्दानां तत्त­दि­न्द्रि­य­प­र­त्वा­व­सा­या­दिति चेत्, सत्यम्। वाक्-पर्याये तस्या इत्यस्य प्रज्ञापरत्वमपि वक्तुं शक्यम्। लिङ्गा­वि­रो­धा­भा­वात्। वागादिषु क्रिया­क­र­ण­भा­वे­नेव प्रज्ञायामपि विष­य­वि­ष­यि­भा­व­सं­ब­न्धेन वागा­दि­प्र­ति­वि­धा­न­स­द्भा­वा­च्चेति तथा व्याख्यातम्॥
नन्विह संदर्भे प्रज्ञाशब्दो जीवपरश्चेत् प्रज्ञया वाचं समा­रु­ह्ये­त्या­दि­वा­क्येषु जीव­द्वा­र­क­वा­गा­दि­सं­बन्धो वागादिकरणैः नामाद्याप्तिश्च कस्योच्यत इत्या­का­ङ्क्षा­या­म­नु­प­हि­तस्य शुद्ध­चै­त­न्य­स्ये­त्य­व­ता­र­यति –
उप­हि­त­चै­त­न्य­द्वा­रेति।
द्रष्टु­त्वा­ध्या­स­मा­हेति।
कर्मे­न्द्रि­य­व्या­पा­रेषु यत्कर्तृत्वं ज्ञाने­न्द्रि­य­व्या­पा­रेषु यद् घ्रातृ­त्व­द्र­ष्टु­त्व­श्रो­तृ­वादि तत्सर्वं छत्रिन्यायाद् द्रष्टृ­त्व­श­ब्देन संगृहीतम्। ननु फलचैतन्यरूपेण प्रज्ञा­दो­ग्धृत्वं ज्ञाने­न्द्रि­या­णा­मेव, न कर्मे­न्द्रि­या­णाम्, अतो वाचि तदुक्तिर्न युक्तत्याशमाह –
कर्मे­न्द्रि­य­प्र­वृ­त्ति­र­पीति।
कर्मे­न्द्रि­या­णा­मपि व्यापारः चैत­न्य­सं­ब­न्धा­धीनः। अत­श्चै­त­न्या­व­च्छे­द­मात्रं प्राक्फलरूपं चैत­न्य­म­दू­दु­ह­दि­त्य­ने­नो­क्त­मिति भावः।
भूतानि शब्दादयश्चेति।
ननु वागादिपर्यायेषु नामादयो दश भूत­मा­त्रा­श­ब्द­नि­र्दिष्टाः; ताद­र्थ्य­मे­वा­त्रापि भूत­मा­त्रा­श­ब्दस्य युक्तम्, ता वा एता इति सन्नि­हि­त­प­रा­म­र्शि­स­र्व­ना­म­स­म­भि­व्या­हा­राद् दश­सं­ख्या­श्र­व­णा­च्चे­ति-चेत्, उच्यते। अथ यथाऽस्यै प्रज्ञाया इति प्रतिज्ञावाक्ये सर्व­भू­तै­क्यो­प­क्र­मा­दित्थं व्याख्या। दशसंख्याश्रवणं तु भूत­मा­त्रा­श­ब्द­यो­र­र्थ­भे­देन टीका­या­मु­प­पा­दि­तम्॥
ननु प्रतिज्ञातं सर्वभूतैक्यं कुत्रो­क्त­मि­त्या­का­ङ्क्षा­या­माह –
भूतेष्विति।
दशैव भूतमात्रा अधि­प्र­ज्ञ­मि­त्या­दिना ग्राह्य­ग्रा­ह­का­णा­म­न्यो­न्य­सा­पे­क्ष­सि­दि­त्वो­क्त्य­न­न्तरं नो एतनानेति तदै­क्यो­प­सं­हा­रा­द­द्वैतं तत्त्वं दर्शितमिति भावः ॥ न चैवं सति "ता वा एता" इत्यादिवाक्यमेव सर्व­भू­तै­क्यो­प­पा­दने पर्याप्तं किं प्रज्ञा­दो­ह­प्र­ति­वि­धा­न­वा­क्यै­रिति शङ्कनीयम्; विषयाणां सिद्धि­रि­न्द्रि­या­धीनां तेषामपि करणतया तत्त­द्वि­ष­यि­त्वेन सिद्धि­र्वि­ष­या­धी­ने­त्य­न्यो­न्य­सा­पे­क्ष­त्व­प्र­द­र्श­नस्य तथाभूतानां जीवे कल्पि­त­त्व­प्र­द­र्श­नस्य च तदधीनत्वात् प्रति­वि­धा­न­वा­क्याद् वागा­दि­प­र­त­च्छ­ब्दानां प्रज्ञा­दो­ह­वा­क्य­ल­ब्ध­जी­व­वि­शि­ष्ट­वा­गा­दि­प­र­तया जीवेऽपि प्रति­वि­धा­न­सिद्धेः। ततः प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति, प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान् गन्धा­ना­नो­ती­त्या­दयो वागा­दि­स­मा­रो­ह­ण­ना­मा­द्या­प्ति­प­र्या­यास्तु प्रति­ज्ञा­त­प्र­ज्ञा­दो­हा­दि­वा­क्य­सि­द्धस्य ग्राह्य­ग्रा­ह­काणां जीवे कल्पितत्वस्य प्रकरणिनि शुद्धे पर्य­व­सा­न­ला­भार्थाः, न तु प्रज्ञ­ये­त्या­दि­प­र्या­या­व्य­ति­रे­क­मु­द्रया वागादीनां स्वव्यापारेषु जीव­सं­ब­न्धा­व­श्यं­भा­व­प्र­ति­पा­द­नेन जीवविशिष्टेषु वागादिषु नामा­दि­प्र­ति­वि­धा­नोक्तेः नामादीनां जीवे कल्पि­त­त्व­प­र्य­व­सा­न­दृ­ढी­क­र­णार्थाः। 'न वाचं विजिज्ञासीत वक्तारं विद्याद् न प्राणं विजिज्ञासीत घ्रातारं विद्याद्' इत्यादयो नामादीनां विज्ञे­य­त्व­प्र­त्या­ख्या­न­प­र्याया अपि तेषां कल्पि­त­त्व­दृ­ढी­क­र­णा­कर्था इति ‘ता वा एता' इत्यतः प्राक् सर्वेपि पर्यायाः प्रति­ज्ञा­त­स­र्व­भू­तै­क्यो­प­पा­द­ना­र्थ­त्वेन सफलाः॥
इति एकादशं प्रत­र्द­ना­धि­क­र­णम्।
कण­भ­क्ष­प­द­क्ष­क­प­क्ष­प­रि­ष्क­र­ण­क्ष­ण­त­क्ष­ण­द­क्ष­गि­रम्।
अति­क­र्क्क­श­त­र्क­श­त­क्षु­भि­त­क्ष­पि­त­क्ष­प­ण­क्ष­ण­भ­ङ्ग­प­दम्॥१॥
कपि­लो­क्ति­नि­रा­क­र­ण­प्र­वणं कृत­प­न्न­ग­सू­क्ति­प­रि­ष्क­र­णम्।
नय­मौ­क्ति­क­भू­षि­त­भ­ट्ट­मतं विम­ला­द्व­य­चि­त्सु­ख­म­न­धि­यम्॥२॥
महतामपि मान्यतमं विदुषां विनिवेश्य गुरुं हृदि वैश्वजितम्।
नयसंहतिशालिनि कल्पतरौ विवृतश्चरणः प्रथमः प्रथितः॥३॥
श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­र­ङ्ग­रा­जा­ख्य­म­खि­त­न­य­नि­र्मिते।
वेदा­न्त­क­ल्प­द्रु­व­र­प­रि­म­लेऽ­नघे पूर्णोऽ­ज­नि­ष्टा­द्य­च­रण इह सत्प्रिये॥४॥
इति वेदा­न्त­क­ल्प­त­रु­प­रि­मले प्रथ­म­स्या­ध्या­यस्य प्रथमः पादः समाप्तः॥

सर्वत्र प्रसि­द्धो­प­दे­शात् ॥ १ ॥
यत्सिद्धाविति ।
जग­त्क­र्तृ­त्व­सिद्धौ सार्व­ज्ञा­दि­सि­द्धि­रेव तार्कि­का­णा­म­प्यु­दा­ह­र­णम् । प्रथमे पादे इत्याद्युक्त एव भवतीत्यन्तं वृत्ता­नु­वा­द­भाष्यं प्रथ­म­पा­दा­र्थ­स्यो­प­जी­व्य­त्व­प्र­द­र्श­नेन संगतावुपयुज्यते । अर्था­न्त­र­प्र­सि­द्धा­ना­मि­त्यादि तु वृत्ता­नु­वा­द­भा­ष्या­न्तरं न तत्रोपयुज्यते । प्रत्युत कैमु­ति­क­न्या­या­व­ल­म्बे­नो­त्त­र­पा­दा­र­म्भा­क्षे­प­ग­म­क­तया तदा­र­म्भ­प्र­ति­कू­ल­मि­त्या­शङ्क्य तद्भा­ष्य­मा­क्षे­प­प­र­त­यैव योजयित्वा तत्स­मा­धा­न­म­स्प­ष्ट­ब्र­ह्म­लि­ङ्गा­नीति विशेषणेन भाष्यगतेन सूचितम् । पूर्व­प­क्षा­भि­प्रायं त्विति टीकायां दर्शितम् ।
तच्छ­ङ्का­न्त­र­स्यापि समा­धा­ना­र्थ­मि­त्य­व­ता­र­यति -
यद्यर्थान्तरेति ।
कैव कथेति ।
श्रुतिबाधकस्य लिङ्ग­बा­ध­न­क्ष­मत्वं कैमु­ति­क­न्या­य­सि­द्ध­मि­त्यर्थः । अपि चेत्यादिना शङ्कान्तरं दर्शितम् ।
तल्लयमित्यर्थ इति ।
डप्र­त्य­या­न्त­त्वेन टिलोप इति भावः । तस्मिन्ननितीति टीको­प­व­र्णि­त­स्यैव विग्रहस्य प्रदर्शनं येन जातानि जीव­न्ती­त्या­दि­श्रु­त्य­नु­सा­रेण तृतीयान्तं तत्पदं व्याख्येयमिति शङ्कावारणार्थं जन्म­स्थि­ति­ल­या­न्व­यिनि तत्पदे विभ­क्त्यै­क्या­येवं व्याख्यानमिति भावः । एवं च तस्माद् ब्रह्मणो जायत इति तज्जमिति टीकाग्रन्थे सप्तम्यर्थ एवापादानपञ्चमी अपा­दा­न­स्प­ष्टी­क­र­णा­येति तात्पर्यम् । श्रुतावनिति क्लीबन्तस्य अनमित्यर्थतः पचाद्यजन्तेन ग्रहणम् ।
क्रतु­र्ध्या­न­मिति ।
क्रतू अध्व­र­सं­क­ल्पा­विति निघण्टुः ।
तत्प्र­धा­न­स्त­न्मय इति ।
मयड् विका­र­प्रा­चु­र्य­प्रा­धा­न्या­दि­ष्विति केचन वैयाकरणाः पठन्ति ॥
सापेक्षस्य गुणविध्यर्थमिति ।
यद्यपि अग्निहोत्रं जुहोतीति केव­ल­क­र्म­वि­धि­व­त्के­व­लो­पा­स­ना­वि­धि­र­प्यु­प­प­द्यते तस्य च “दध्ना जुहोति” “दध्ने­न्द्रि­य­का­मस्य जुहुयात्” “चतस्रो गार्हपत्ये जुहो­ती”त्या­दि­गु­ण­विधिं प्रत्य­ग्नि­हो­त्र­वि­धे­रिव शमविधिं प्रत्या­श्र­य­दा­तृ­त्व­मपि युज्यते; तथापि स्ववा­क्यो­पा­त्त­ध­र्म­वि­शि­ष्ट­जी­व­वि­षय एवो­पा­स­ना­वि­धि­र्ल­ब्धात्मा शम­वि­धे­रा­श्र­य­दाता भव­ती­त्यु­त्प­त्ति­शि­ष्ट­गु­णा­वि­रोध एव तात्पर्यम् ।
ननु शूर्प­वि­धे­र्हे­त्व­पे­क्षा­भा­वेऽपि दर्व्यादीनामपि होमकरणत्वस्य लाभार्थो हेतुः स्याद्, दृष्टो ह्यातिथ्यायां “चतु­र्गृ­ही­ता­न्या­ज्यानि भव­न्ती”त्यैा­प­भृ­ता­ष्ट­गृ­ही­त­व्य­व­च्छे­दा­र्थस्य विधे­र्हे­त्व­न­पे­क्ष­त्वेऽपि “न ह्यत्रानूयाजा इज्यन्त” इति तदनन्तराम्नातो हेतु­रौ­प­भृ­त­माज्यं चतुर्गृहीतं प्रयाजार्थम्, उप­रि­त­न­म­नु­या­जा­र्थ­मिति विभा­ग­ज्ञा­प­न­द्वा­राऽ­न्य­त्रापि यत्रे­ष्टि­वि­कृ­ता­व­नू­या­जा­ना­म­भा­व­स्तत्र सर्व­त्रा­प्यो­प­भृ­तो­प­रि­तनं चतुर्गृहीतं न कार्य­मि­त्य­धि­का­र्थस्य प्रकृतौ “यदुपभृति” “प्रया­जा­नू­या­जे­भ्य­स्त­दिति” वच­न­स्या­ति­हा­ये­डो­बर्हिः प्रति समानयते जुह्वा­मौ­प­भृ­त­मिति वचनस्य च पर्यालोचनया उप­रि­त­न­प्र­या­ज­द्व­या­नू­या­ज­त्र­या­र्थ­त­याऽ­व­ग­ता­दौ­प­भृ­ता­ष्ट­गृ­ही­ता­त्प्र­या­ज­द्व­या­र्थ­मर्धं समा­ने­त­व्य­मि­त्य­धि­का­र्थस्य च लाभार्थ इत्यभिप्रायां शङ्कामनुवदति -
यत्त्विति ।
अनुयाजानामभावो हेतुर्मुख्यो लभ्यत इति तत्र तथा भवतु नाम इह तु दर्व्यादिषु मुख्य­म­न्न­क­र­णत्वं न लभ्यत इति विशेषमभिप्रेत्य परिहरति न हि साक्षादिति ।
हेतुवचनस्येति ।
हिश­ब्द­बो­ध्य­हे­तु­त्वा­धि­ष्ठा­ना­न्न­क­र­ण­त्व­वा­चि­न्या­स्तृ­ती­या­वि­भ­क्ते­रि­त्यर्थः ।
अनुवादत्वादिति ।
ननु स्तुतिपक्षे इव हेतु­प­क्षेऽ­प्य­न्न­क­र­ण­त्व­स्या­नु­वा­द­स्तुल्यः । तेनेत्यनेन प्राति­प­दि­क­प­रा­मृ­ष्ट­शू­र्प­ग­त­म­न्न­क­र­णत्वं यथासिद्धमनूद्य तस्य हिशब्दश्रुत्या हेतुत्वं प्रतिपाद्यते, न त्वपू­र्व­म­न्न­क­र­णत्वं विधीयते तस्य हेतु­त्व­नि­र्दे­शा­न्य­था­नु­प­पत्त्या यद्यदन्नकरणं तेन तेन होतव्यमिति व्याप्त्या­क्षे­पेण दर्व्यादीनामपि शूर्प­सा­धा­र­णा­न्न­क­र­ण­त्व­स­द्भा­वेन होमसाधनत्वं प्राप्यते । सत्यम् ; तुल्येऽ­प्य­नु­वा­दत्वे स्तुतिपक्ष एवाश्रयणीयः ; अन्यथा श्रुतस्य शूर्प­स्याऽ­श्रु­तानां दर्व्यादीनां च विकल्पापत्तेः ; विष­म­शि­ष्ट­वि­क­ल्पस्य चात्य­न्ताऽ­न्या­य्य­त्वात् । हिशब्दस्तु निपातत्वात् प्रसि­द्ध्या­द्य­र्था­न्त­र­मा­लम्ब्य चरितार्थः । हेत्वर्थत्वेऽपि स्तुतावेव हेतुभावं ब्रूया­त्त­स्मा­द्य­ज­मा­नोऽ­य­ज­मा­ना­दु­त्तरः तस्माद् दक्षिणोऽर्द्ध आत्मनो वीर्यवत्तर इत्या­द्य­र्थ­वा­देषु हेतुवचनात् ।
अतः स्ववा­क्य­स्थे­नेति ।
मयडर्थेौ मनोवच्छिन्नतया तद्विकारो जीव इति स एव सर्वनामार्थो भवेदिति भावः । अस्तु तर्हीति क्वचित्पाठः सोपि कथ­ञ्चि­दु­क्ता­भि­प्रायो योज्यः ।
विका­र­प्रा­चु­र्येति ।
प्राधा­न्या­दे­र­प्यु­प­ल­क्ष­ण­मे­तत् । एवं च प्रकृतेन ब्रह्म­णै­वा­का­ङ्क्षा­शान्तिः । व्युत्प­त्ति­सि­द्धस्य सर्वनाम्नां प्रकृ­त­प­रा­म­र्शि­त्वस्य प्रत्य­भि­ज्ञा­प­का­न­पे­क्ष­त्वात् तदभावेपि सा वैश्व­दे­व्या­मि­क्षे­त्या­दिषु प्रकृ­त­प­रा­म­र्श­द­र्श­ना­दिति भावः । ननु मा भूद्वि­का­रा­दि­रू­प­तया संदिग्धेन मय­ड­र्थे­ना­का­ङ्क्षा­पू­रणं , स क्रतुं कुर्वीतेत्यत्र श्रुतेन तत्पदार्थेन स्यात् । न च तथा सति मनोमयत्वादीनां सर्वे­षा­मु­पा­स­क­वि­शे­ष­ण­त्वा­प­त्त्यो­पा­स्य­गु­ण­त्वा­लाभः । कस्य क्रतुमिति प्रति सम्ब­न्ध्या­का­ङ्क्षा­या­म­न्तर्धौ येना­द­र्श­न­मि­च्छ­ती­त्य­त्रै­वा­न्त­र­ङ्ग­त्वात् स्वात्मन इति लब्धे स्वात्मन इह मनो­म­य­त्वा­दि­गु­ण­वि­शि­ष्ट­तया बुद्धि­स­न्नि­हि­त­त्वा­त्ता­व­द्गु­णा­म्ना­न­वै­य­र्थ्या­नु­रो­धाच्च तेषा­म­र्था­दु­पा­स्य­गु­ण­त्व­ला­भा­देवं मनोमयत्वादीनां समा­ना­धि­क­र­ण­स­मा­न­लि­ङ्ग­त­त्प­दो­पा­त्त­वि­ष­यत्वे संभवति न विप्र­कृ­ष्ट­वा­क्या­न्त­र­श्रु­त­भि­न्न­लि­ङ्गो­पा­त्त­ब्र­ह्म­वि­ष­य­त्व­क­ल्पनं युक्तम् ; तत्कल्पने स क्रतुमिति तत्पदस्य वैयर्थ्यं च स्यात् , क्रियया कर्तुराक्षेपतो लभ्यत्वात् तेषां तत्प­दो­पा­त्त­वि­ष­य­त्वा­ङ्गी­कारे वक्ष्य­मा­ण­गु­णा­श्र­य­दा­ना­र्थ­तया तस्यावैयर्थ्यं शक्यं वक्तुम् ; उमां स पश्यन् ऋजुनैव चक्षुषेत्यत्र चक्षुषः पश्य­ति­क्रि­या­क­र­ण­त्वे­ना­क्षे­पतो लभ्यत्वेऽपि ऋजु­त्व­गु­णा­श्र­य­दा­ना­र्थ­त­येव चक्षुषेत्यस्य । तस्मा­दि­हा­न्य­प­र­वा­क्या­न्त­र­श्रु­त­ब्र­ह्मो­पा­दा­न­क­थनं न युक्त­मि­त्या­श­ङ्का­नि­रा­क­र­णा­र्थ­त्वेन तथा चेत्ये­त­द­र्ध­म­व­ता­र­यति ब्रह्मोपादान इति । अयमाशयः । मनोमयः प्राणशरीर इत्यादीनां प्रथमान्तानां न तत्प­दो­पा­त्त­जी­व­वि­शे­ष­ण­स­म­र्प­क­त­याऽ­न्वयः किं तु स क्रतुं कुर्वीतेति विधी­य­मा­नो­पा­स­ना­प्र­का­र­स­म­र्प­क­तया ; एतमितः प्रेत्या­भि­सं­भ­वि­ता­स्मी­त्ये­त­द­न­न्त­र­मि­ति­क­र­णा­द­नेन प्रकारेण क्रतुं कुर्वी­ते­त्य­न्व­य­प्र­तीतेः, तथान्वये सत्येव एष मे आत्मान्तर्हृदय इति वाक्य­सा­म­ञ्ज­स्याच्च , तस्यो­पा­स­ना­प्र­का­रा­भि­न­य­प­रत्वं विना स्वत­न्त्र­श्रु­ति­वा­क्यत्वे मे इत्य­स्या­न्व­य­सा­म­ञ्ज­स्या­भा­वात् । तथा सत्येव च “एष म आत्माऽ­न्त­र्हृ­दय” इति वाक्यानां त्रिः पाठस्य “सर्वकर्मा सर्वकामः” इत्या­दि­वा­क्यानां द्विः पाठस्य च तत्र तत्र स्थाने हृद­या­न्त­र्व­र्त्ति­त्वा­द्य­नु­स­न्धा­ना­भ्या­सा­र्थ­त्वेन सार्थकत्वात् । दृष्टो हि “प्रायणीयं प्रथ­म­म­ह­श्च­तु­र्विंशं द्वितीयं चत्वा­रोऽ­भि­प्लवाः षडहाः, एकः पृष्ठ्यः षडह: समासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्च­म­स्त्र­योऽ­भि­लवा: षडहाः एकः पृष्ठ्यः षडह” इत्यादौ गवा­म­य­नि­का­हः­क्लृ­प्ति­वाक्ये अभि­प्ल­व­ष­ड­हा­दि­श­ब्दा­ना­म­स­कृ­त्पा­ठ­स्तत्र तत्र स्थाने षड­हा­द्य­नु­ष्ठा­ना­भ्या­सार्थः । एवमितिशब्दोक्तः प्रकारश्च मनेा­म­य­त्वा­द्य­नु­सं­धे­य­गु­ण­जा­त­रू­प­स्त­त्क्र­म­रूपो वा द्वितीयपक्षे मनो­म­य­त्वा­दी­ना­मु­पा­स्य­गु­णानां विधानं तत्क्र­म­वि­धा­ना­दा­क्षे­पतो लभ्यते पृष्ठ­ग­त­स­र्व­ता­वि­धा­ना­दिव पृष्ठानाम् । एवं च मनोमय इत्या­र­भ्या­न्व­यि­ने­ति­क­र­णेन मनोमयत्वादेरेतं मनो­म­य­त्वा­दि­वि­शिष्टं प्राप्ता­स्मी­त्ये­त­द­न्तस्य सर्व­स्या­प्य­र्थ­जा­तस्य क्रतुं कुर्वीतेति विधी­य­मा­ना­या­मु­पा­स­नायां प्रका­र­ता­पा­द­ना­न्म­नो­म­य­त्वा­दि­प्र­का­रेण मनेा­म­य­त्वा­दि­क्र­मेण वा क्रतुं कुर्वी­ते­त्यु­पा­स­ना­वा­क्या­र्थ­प­र्य­व­साने स्थिते तेन प्रकारेण तत्क्रमेण वा कस्य क्रतुः कार्य इत्याकाङ्क्षितं विशेष्यमन्यतः प्राप्नु­व­द­पे­क्ष­णी­यम् । तत्र शमविधिवाक्ये अन्या­र्थ­स­न्नि­धा­नाद् ब्रह्म विशेष्यतया प्राप्नोति स्ववाक्ये स इत्य­न्या­र्थ­स­न्नि­धा­ना­ज्जीवः तत्र कतरस्य ग्रहणं न्याय्यमिति विशये वाक्यशेषगतानां प्रथमान्वितानां बहूनां लिङ्गानां ब्रह्मश्रुतेश्च साम­ञ्ज­स्या­नु­रो­धाद् ब्रह्मण एव ग्रहणं न्याय्यमिति निश्चीयते । ब्रह्मण उपा­स्य­त्वेऽ­प्येष म आत्मेति सम­भि­व्या­हृ­ता­त्म­श­ब्दा­नु­सा­रेण मनोमयादिशब्देषु पुँल्लि­ङ्गो­प­पत्तेः । यत्तु मनोमयत्वादीनां “स क्रतुं कुर्वीते”त्यत्र तत्प­दो­पा­त्त­जी­वा­न्व­यि­त्वा­भावे तस्य वैयर्थ्यं स्या दिति । तन्न ; तस्य वाक्या­न्त­र­स­न्नि­धा­पि­त­मपि ब्रह्मै­वो­पा­स्य­त्वेन ग्राह्य­मि­त्ये­त­ज्ज्ञा­प­ना­र्थ­त्वे­नैव चारितार्थ्यात् । तथा हि । तत्र तत्पदं जीवं परामृशत् संक­ल्पा­नु­सा­रि­फ­ल­प्रा­प्ति­यो­ग्य­त्वेन परामृशति तेन रूपेण कृतत्वात् तथा तत्परामर्शश्च मनोमय: प्राणशरीर इति जीवलिङ्गे ऐहिकामुष्मिक परि­श्र­म­ण­खे­द­सं­पा­द­क­म­नः­प्रा­ण­स­म्ब­न्धि­रु­प­स्व­तः­सि­द्ध­हे­य­गु­ण­प­र­तया न व्याख्येये तत्क्र­तु­न्या­य­वि­रो­धात् किं तूपादेयगुणपरतया व्याख्येये इति सूचनार्थः । तेन मनोमय इत्ये­त­त्स­गु­ण­ब्र­ह्मो­पा­स­ना­सि­द्धस्य ब्रह्मलोके भोग्य­भो­गो­प­क­र­णानि यानि प्राक्सि­द्धा­न्य­र्ण­वा­दीनि यानि च स्वसं­क­ल्प­सा­ध्यानि स्त्र्यन्न­पा­ना­दीनि तानि सर्वाणि स्वपदार्थवद् मान­स­प्र­त्य­य­रू­पा­णीति छान्दोग्यभाष्ये दह­र­वि­द्या­प्र­क­रणे ये वर्णिता मनोविकारा भोग्यादयः तदुपादानतया तत्ता­दा­त्म्य­प­रम् । प्राणशरीर इत्येतत्प्राणा इन्द्रियाणि वायवो वा शरीराणि शरी­र­व­न्नि­य­म्या­न्य­स्येति सर्वात्मना यद्व­श्ये­न्द्रि­यत्वं वश्य­प्रा­ण­वा­युत्वं वा हिरण्यगर्भेण सह मोक्षमाणानाम् अहं­ग्र­हो­पा­स­का­ना­म­पे­क्षि­त­प­र­ब्र­ह्म­सा­क्षा­त्का­रा­दि­सं­पा­द­ना­र्थ­चि­त्त­व­शी­क­र­णो­प­योगि तत्परमिति सिद्ध्यति तेनै­वं­भू­त­गु­णा­नु­स­न्धा­ना­नु­सा­रि­फ­लो­प­यो­गि­तया वाक्या­न्त­र­स­न्नि­धा­पि­त­मपि ब्रह्मै­वो­पा­स्य­त्वेन ग्राह्यमिति च सिध्यति ।
न चैत­द्य­था­क्र­तु­रि­त्यु­प­न्य­स्ता­त्त­त्क्र­तु­न्या­य­मा­त्रा­त्सि­द्ध्यति ।
यथा सत्यपि तत्क्रतुन्याये वचनबलाद् जीवविषययाऽपि पञ्चा­ग्नि­वि­द्यया ब्रह्मप्राप्तिः तथा क्रतुं कुर्वीतेत्यत्र विहि­त­याऽ­न्त­र­ङ्ग­त्वा­दा­ख्या­ता­र्था­क्षि­प्त­त्वेन बुद्धि­स­न्नि­हि­त­त्वाच्च जीवमुपास्य परि­गृ­ही­त­व­त्यो­पा­स­न­यापि ब्रह्म­प्रा­प्ति­र­स्त्विति शङ्का­व­का­श­स­द्भा­वात् । तस्मात्स इत्येतदपि ब्रह्मो­पा­दा­न­हे­तु­वा­क्य­शे­षो­प­ष्ट­म्भ­क­मिति न तद्वैयर्थ्यमिति । एवं चात्र ब्रह्मणि जीवलिङ्गयोजना कार्या जीवे वा ब्रह्म­लि­ङ्ग­यो­ज­ने­त्य­ग्रि­म­वि­चा­रस्य नास्त्यवकाशः । मनो­म­य­त्व­प्रा­ण­श­री­र­त्व­रू­प­प­र्या­लो­च­नायां तयेा: स्वत एव ब्रह्म­प­र्य­व­सा­नात् । ब्रह्मलिङ्गानां बाहु­ल्या­त्त­द­नु­रो­धे­नापि तयो­र्ब्र­ह्म­प­र्य­व­सा­यि­त्वाच्च । बहूनि ह्यत्र ब्रह्मलिङ्गानि । सर्वकर्मत्वं बाला­क्य­धि­क­र­ण­न्या­येन कर्मशब्दस्य कार्यपरतया सक­ल­का­र्य­क­र्तृत्वं सर्वकामत्वं तदु­प­यो­गि­स­क­ल­सृ­ज्य­वि­ष­य­स्सृ­ष्टि­का­म­ना­वत्त्वं सर्वगन्धत्वं सर्वरसत्वं च सक­ल­दे­श­का­ल­व­र्ति­व­स्तु­जा­त­ग­त­स­र्व­ग­न्ध­र­सा­श्र­यत्वं सर्व­मि­द­म­भ्या­त्त­मि­त्य­ने­नोक्तं सर्व­व्या­पि­त्व­मि­त्या­दीनि । नचैतानि जीव उपपद्यन्ते । ननु - एषां जीवेऽनुपपत्तौ पुनः स एव तत्क्र­तु­न्या­य­वि­रोधः । मनः­प्रा­णो­प­क­र­ण­त्वयोः हेय­त्व­नि­त्य­प्रा­प्त­त्वा­भ्या­मिव तेषामपि प्राप्तु­म­श­क्य­त्वे­नेा­पा­स­क­प्रे­प्सि­त­त्वा­स­म्भ­वा­दिति – चेत् , उच्यते ; तत्क्रतुन्यायो न सर्वगुणविषयः किंतू­पा­स­क­प्रा­प्त्य­र्ह­गु­ण­वि­षयः । तथा चोद्गी­थो­पा­स्या­का­शा­दि­श्रु­त­स­र्व­भू­त­का­र­ण­त्वा­दि­व­न्नो­पा­स­के­नो­पा­स­ना­फ­ला­नु­भ­व­द­शायां सर्वकर्मत्वादयः प्राप्तुं योग्या इति न तद्विषयः । न चैतावता मनोमयत्वादिकमपि तद­प्रे­प्सि­त­गु­ण­तया व्याख्याय तत्रापि तत्संकोचः कल्पनीयः ; तद­सं­को­च­व्या­ख्या­न­सं­भ­वेऽ­न्यथा व्याख्याय तत्सं­को­च­क­ल्प­ना­नौ­चि­त्यात् । अथवा सर्व­ग­त­त्वा­दि­क­म­प्य­हं­ग्र­हो­पा­स­कानां क्रम­मु­क्ति­फ­ल­क­त्वा­दा­वि­र्भू­त­स्व­रू­पै­रु­पा­सकैः क्रमेण प्राप्तुं योग्यमिति न तत्रापि तत्क्र­तु­न्या­य­सं­कोचः कल्प्यः । अन्यथा हिर­ण्म­य­पु­रु­षो­पा­स­ना­फले सर्वदुरितविरहे का गतिः । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदेति तत्र सफलवाक्ये सर्वशब्दस्य संकोचकल्पने तथैव स एष सर्वेभ्यः पाप्मभ्य इति तत्पू­र्व­वा­क्येऽपि तत्संकोच: प्रसज्येतेति सर्वदुरितविरहो ब्रह्मलिङ्गं न स्यात् । एवं सत्यपि यदि मनोमयत्वं जीवस्य मनो­व­च्छे­द­कृ­त­म­नो­वि­का­रत्वं , प्राणशरीरत्वं च प्राणोपकरणत्वम् ; यदि च ब्रह्म­जी­व­लि­ङ्गानां नाल्प­त्व­ब­हु­त्व­कृतं वैषम्यं , तथापि जीवलिङ्गानामेव ब्रह्मणि योजनं कार्यमिति न्याया­न्त­र­व्यु­त्प­त्त्य­र्थ­मु­प­रि­त­न­टी­का­क­ल्प­त­रु­ग्र­न्थयोः प्रवृत्तिरिति द्रष्टव्यम् ।
प्रस्तुते इति ।
ननु - यदि प्रस्तुते अधि­ष्ठा­ना­सा­धा­र­ण­रू­प­ज्ञा­न­मस्ति, कथं तर्हि समारोपितो जीवभावो न निवर्तते ? यदि तदानीं सदपि समा­रो­पि­त­नि­व­र्त­ना­क्षमं , किमिति जीवस्तेनरूपेण रूपवान्न स्याद् रज्जु­सा­धा­र­ण­रू­प­ज्ञा­न­नि­व­र्त्त­नी­य­भु­ज­ग­वि­ल­क्ष­ण­त्वा­दिति - चेत् । अत्रा­य­मा­चा­र्या­णा­मा­शयः – जीवधर्माणां ब्रह्मणि योजनायां हि तस्मि­न्न­न­व­च्छि­न्न­ब्र­ह्म­त्व­बु­द्धिर्न हातव्या , तरङ्गधर्माणां समुद्रे योजनायां तस्मिन् व्यापि­त्व­बु­द्धि­रिव । ब्रह्मधर्माणां जीवे योजनायां तु तस्मिन् परि­च्छि­न्न­जी­व­त्व­बु­द्धि­र्हा­तव्या , दर्प­ण­मु­खेऽ­व­दा­त­त्व­यो­ज­नायां ग्रीवा­स्थ­मु­ख­भि­न्न­त्व­बु­द्धि­रिव । न च क्वचि­त्स्व­रू­प­म­नु­प­मृद्य वाक्य­शे­ष­ग­त­लि­ङ्ग­यो­ज­नायां कर्तुं शक्यायामन्यत्र तदुपमृद्य सा कार्येति । आचा­र्यै­र्व­स्तुतो ब्रह्म­भि­न्न­स्यापि जीव­स्ये­त्या­दि­पू­र्व­ग्र­न्थे­ना­य­मा­शयः स्पष्टीकृतः । अधि­ष्ठा­ना­सा­धा­र­ण­रू­प­ज्ञाने सति समा­रो­प्या­भा­वो­क्त्या­प्येष एवार्थो विवक्षितः । नन्वे­त­दु­प­ल­क्ष­णा­येति टीका न युक्ता , वाक्यो­प­क्र­मा­न्नि­र्ण­य­स्यापि युक्ततया तेन वाक्य­शे­षा­न्नि­र्ण­य­स्या­नु­प­ल­क्ष­णी­य­त्वात् , न च - अन्या­र्थ­स­न्नि­धा­ना­न्नि­र्णयो न दृढ इति तदु­प­ल­क्ष­ण­त्वो­क्ति­रिति - वाच्यम् । बुद्धि­स्थ­प­रा­म­र्शिना सर्व­ना­म्नाऽ­न्या­र्थ­स­न्नि­हि­त­स्यापि परामर्शोपपत्तेः , ज्योतिरधिकरणे तथा­भू­त­प­रा­म­र्शा­देव निर्णयस्य कृतत्वाच्च , न च तेन गतार्थः स न्याय इति न्याया­न्त­रो­प­ल­क्ष­ण­त्वो­क्ति­रिति - वाच्यम् , ब्रह्मा­ब्र­ह्म­लि­ङ्ग­स­म­वाये ब्रह्मलिङ्गादेव निर्णयो युक्त इति न्यायस्यापि प्रतर्दनाधिकरणे प्रदर्शितत्वात् , न च - जीवेऽपि जीव­बु­द्ध्यु­प­म­र्देन ब्रह्मबुद्ध्या तल्लिङ्गानि योजयितुं न शक्यन्त इत्य­धि­क­श­ङ्का­प­रि­हा­र­प्र­द­र्श­नाय प्रत­र्द­ना­धि­क­र­ण­सि­द्ध­न्या­यस्य पुनरुद्भावनमिति – वाच्यम् , ज्योति­र­धि­क­र­ण­न्या­य­पु­न­रु­द्भा­व­न­मपि वस्तु­तोऽ­न्या­र्थ­मपि न भवति ब्रह्मणः सन्नि­धा­न­मि­त्य­धि­का­र्थ­प्र­द­र्श­ना­येति वक्तुं शक्यत्वात् । “सर्वं खल्विति” वाक्ये इदमिति न सर्वस्य विशेषणं ; वैयर्थ्यात् , किं तु ब्रह्मणस्तस्य च फलं प्रकृ­त­त्रि­पा­द्ब्र­ह्मा­धि­का­र­लाभः । स च प्रकृतस्य प्रय­त्ने­ना­धि­कारः स्वान­र्थ­क्य­प­रि­हा­राय क्रतौ वाक्य­शे­ष­ग­त­लिङ्गं बाधि­त्वो­पा­स्य­त्वेन ब्रह्म­स­म­र्प­णार्थं इत्ये­व­म­न­न्यार्थं ब्रह्मणः सन्निधानम् । ब्रह्मणः सर्वा­त्म­त्वोक्त्या सर्वस्य ब्रह्मा­त्म­ताऽ­प्य­र्थात् सिद्ध्यतीति तदवलम्बना प्रास­ङ्गि­को­प­का­रा­भि­प्राया भाष्ये शम­वि­ध्य­र्थ­वा­द­तोक्तिः , न तु शम­वि­धि­शे­ष­त्वा­भि­प्राया । यद्यपि शम­वि­धि­वि­व­क्ष­येति भाष्ये - यद्य­पी­त्य­ने­ना­भ्यु­पे­त्य­वा­द­त्व­द्यो­त­नाद् , ज्योतिरधिकरणे न केवलं ज्योतिर्वाक्य एव ब्रह्मा­नु­वृत्तिः , परत्रापि शाण्डि­ल्य­वि­द्या­याम् अनुवर्तिष्यते ब्रह्मेति ज्योतिर्वाक्ये त्रिपा­द्ब्र­ह्मा­नु­वृत्तौ विवदमानं पूर्वपक्षिणं प्रति शाण्डि­ल्य­वि­द्यायां तदनुवृत्तिः कथं हेतुभावं प्रतिपद्येत ? यदि तद­नु­क­र्ष­णै­क­प्र­यो­ज­नेदं विशेषणसामर्थ्यं नाश्री­ये­ते­त्य­धि­का­र्थ­प्र­द­र्श­न­प­रत्वं हि शक्यं वकुम् । तस्मा­दे­त­दु­प­ल­क्ष­णा­येति ग्रन्थो न युक्त इत्या­श­ङ्का­प­न­या­र्थ­मे­त­स्यै­वो­प­ल­क्ष­णा­येति न तदर्थः , किं त्वेत­स्या­प्यु­प­ल­क्ष­णा­येति तदर्थम् इति दर्शयितुम् ।
झटिति प्रती­य­मा­न­मा­द्या­र्थ­मा­दाय शङ्कते -
ननु यद्यु­क्त­री­त्येति ।
ननु - अधि­क­श­ङ्का­प­रि­हा­र­स्या­स्मि­न्नेव सूत्रे विवक्षितत्वे द्विती­य­तृ­ती­य­सूत्रे पुनरुक्ते स्याताम् , ताभ्यां खलु ब्रह्म­जी­व­यो­र्ज्जी­व­ब्र­ह्म­ध­र्मो­प­प­त्त्य­नु­प­पत्तौ वर्णयिष्येते इति । न च - ताभ्या­म­नु­ग­मा­दिति प्रत­र्द­ना­धि­क­र­ण­सू­त्रा­व­य­वे­ना­स्पष्टं दर्शिता युक्तिः स्पष्ट­म­नू­दि­ताऽ­धि­क­श­ङ्का­प­रि­हा­र­स्त्वा­द्य­सूत्र एवेति वाच्यम् ; उप­न्य­स्ता­धि­क­श­ङ्का­प­रि­हा­रा­र्थ­त्वे­नैव तृतीयसूत्रस्य टीका­या­म­व­ता­रि­त­त्वात् , यदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति , न तु विषयधर्माः समारोप्या , इति तस्ये­त­दु­त्था­न­मिति , तत्र सूत्रे टीका­या­मे­वेा­क्त­त्वा­च्चेति चेत् सत्यम् ; द्विती­य­तृ­ती­य­सू­त्र­यो­र­नु­वृ­त्ति­व्या­वृ­त्तिभ्यां ब्रह्म­जी­व­यो­र्ज्जी­व­ब्र­ह्म­ध­र्मा­णा­मु­प­प­त्य­नु­प­पत्ती दर्शिते इह तु तयो­रा­रो­प्या­धि­ष्ठा­न­त्वा­रो­प­वि­ष­य­त्वा­भ्या­मिति टीकाकारैः स्वोल्लि­खि­त­प्र­का­र­म­व­ल­म्ब्येह सूत्रे तदु­प­ल­क्ष­णा­ये­त्यु­क्तम् । तस्यै­त­दु­त्था­न­मिति तु ब्रह्म­जी­व­यो­र्जी­व­ब्र­ह्म­ध­र्मो­प­प­त्त्य­नु­प­प­त्ति­प्र­ति­पा­द­न­सा­म्य­मा­त्रे­णोक्तं , न तु तदु­प­पा­द­क­प्र­का­रै­क्ये­नापि । अतो न पुन­रु­क्त्या­दि­प्र­सङ्गः । ननु भाष्ये विव­क्षा­भा­वा­भि­धा­न­म­नु­प­पन्नं ; पारतन्त्र्येऽपि विवक्षासम्भवात् ।
’शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते ।
तदप्यधिष्ठितं सर्वमेकेन परमात्मना ॥
तथर्ग्वेदादयो वेदाः प्रोक्ता येऽपि पृथक् पृथक् ।
भोग्य­त्वे­ना­त्मनां तेऽपि चैतन्यानुगताः सदा ॥
तेषा­म­न्त­र्ग­ते­च्छानां वाक्या­र्थ­प्र­ति­पा­दने ।
विवक्षा चाविवक्षा च ज्ञायते शब्दशक्तितः ॥’ इति ॥
’न्यायेन संप्रदायाद्या ये मीमां­स­क­या­ज्ञिकाः ।
वेदं व्याचक्षते तेषा­म­भि­प्रा­योऽ­य­मि­ष्यते ॥’
इति च पूर्व­मी­मां­स­कै­रपि वेदे विवक्षायाः सम­र्थि­त­त्वा­दि­त्या­शङ्क्य तदपि भाष्यं स्वात­न्त्र्या­भा­वा­भि­प्रा­य­मिति व्याख्या­त­मि­त्य­व­ता­र­यति विव­क्षा­भा­वा­भि­धा­न­म­पीति ।
उद्दे­श्याऽ­वि­व­क्षा­या­मिति ।
यद्यपि विवक्षितशब्देन स्वार्थं परि­त्य­ज्यो­पा­दे­य­त्व­ल­क्ष­णायां न विवक्षितत्वस्य वाक्या­र्था­नु­प्र­वेशः तथापि लक्ष्यस्य मुख्या­र्थ­स­म्ब­न्धोऽ­पे­क्ष­णीय इत्यु­द्दे­श्यो­पा­दे­य­येा­र्मध्ये विशि­ष्यो­पा­दे­यस्य विव­क्षा­स­म्ब­न्ध­वि­व­क्षायां तत्प्र­ति­द्व­न्द्विन उद्देशस्य विवक्षाभावः पर्यवस्येदिति तात्पर्यम् ।
सोमा­धा­र­त्वा­वि­शे­षे­णेति ।
तथा च सोमा­व­से­क­नि­र्ह­र­णा­दि­दृ­ष्ट­प्र­यो­जनं ग्रहेष्विव चम­से­ष्व­प्य­पे­क्षि­त­मिति ग्रहै­क­त्व­व­द्ग्र­ह­त्व­मपि न विवक्षणीयमिति भावः । ननु यथा व्रीही­न्प्रो­क्ष­ती­त्यत्र द्विती­य­यो­च्य­मानं प्रोक्ष­ण­सा­ध्यत्वं पूर्वसिद्धानां व्रीहीणां स्वरूपेण न सम्भ­व­ती­त्य­पू­र्व­सा­ध­न­त्वा­का­रेण साध्य­त्व­नि­र्वा­हा­र्थम् , अपू­र्व­सा­ध­न­त्व­ल­क्ष­णायां व्रीहिपदस्य यथा यवसाधारण्यं , तथेहापि ग्रह­प­द­स्यो­द्दे­श्य­स­म­र्प­कस्य चमससाधारण्यं स्यादि­त्या­श­ङ्क्याह -
ग्रह­या­गा­वा­न्त­रेति ।
ननु सोमा­व­से­क­नि­र्ह­र­णा­दि­दृ­ष्ट­प्र­यो­ज­ना­वि­शे­षेऽपि ग्रहयागाभ्यां स्वावा­न्त­रा­पू­र्व­सा­ध­न­वि­व­क्ष­यै­क­स्मि­न्नेव ग्रहे संमार्गो व्यव­ति­ष्ठ­ता­मि­त्या­श­ङ्कते -
नन्विति ।
उपा­दे­य­वि­शे­ष­ण­त्वा­दिति ।
उपादानाय संख्या­वि­शे­ष­स्या­पे­क्षि­त­त्वा­त्त­द­पे­क्षि­त­वि­भ­क्त्यु­प­नी­त­सं­ख्या­वि­शिष्ट एव प्रातिपदिकार्थो यागविशेषणं स्यादित्यर्थः ।
अत्र त्विति ।
उद्देश्ययेाः परस्परसंबन्ध एक­क्रि­या­व­शी­का­र­प्र­युक्तः तयो­रे­वा­न्यो­न्या­का­ङ्क्षा­प्र­युक्तो वा वाच्यः । द्विविधोऽप्यत्र न संभवति ; उद्देश्ययोः क्रियां प्रति प्रधा­न­यो­रु­पा­दे­य­क्रि­या­व­श्य­त्वा­भा­वात् । सोमा­व­से­क­नि­र्ह­र­ण­प्र­यो­ज­नस्य संमार्गस्य सर्वेषु प्राकरणिकेषु ग्रहे­ष्व­पे­क्षि­त­त्वेन तेषु केषा­ञ्चि­द्व्या­व­र्त­कस्य संख्या­वि­शे­ष­स्या­ना­का­ङ्क्षि­त­त्वा­च्चेति भावः । ननु - तथापि प्रत्ययानां प्रकृ­त्य­र्था­न्वि­त­स्वा­र्था­भि­धा­य­क­त्व­नि­य­मेन शब्द­स्वा­भा­व्या­दे­क­त्व­वि­शि­ष्टस्य ग्रह­स्यो­द्दे­श्य­त्व­म­नि­वा­र्य­मि­त्या­श­ङ्क्याह -
ग्रह एवेति ।
एकत्वविशेषणेऽपि सोमा­व­से­क­नि­र्ह­र­ण­प्र­यो­ज­नस्य सर्वै­र्ग्र­है­र­पे­क्षि­त­त्वा­दु­पा­दे­य­वि­शे­ष­ण­स्ये­वो­द्दे­श्य­वि­शे­ष­णस्य क्रिया­ङ्ग­त्वा­भा­वेन तद्वै­क­ल्य­प्र­यु­क्त­क्रि­या­वै­क­ल्या­प्र­स­क्तेश्च ग्रहाणां प्रत्ये­क­मे­क­त्व­म­व­लम्ब्य ग्रहमात्र एवो­द्दे­श्य­त्व­प­र्य­व­सानं स्यात् । अथा­प्ये­क­व­च­न­सा­र्थ­क­त्वाय तदुपनीतमेकत्वं प्रत्ये­क­मु­द्देश्यं कृत्वा ग्रहं संमृज्यात्तं चैकमेवेति वाक्यार्थः कल्प्येत , तदा वाक्यभेदः स्यादित्यर्थः । इदमुपलक्षणं - त्रिदो­ष­दु­ष्ट­प­रि­सं­ख्या­दो­षा­प­त्ते­रपि ।
विदिमात्रेति ।
ज्ञान­मा­त्र­फ­ल­क­त्वा­त्त­त्त्वा­वे­द­क­प्र­मा­ण­व­त्प्र­मि­ति­फ­ल­क­त्वा­भा­वा­दि­त्यर्थः । विधिमात्रेति पाठेऽपि विधिपदं ज्ञापनमात्रपरम् । कुतः प्रमितत्वाभाव इत्या­का­ङ्क्षायां तद्बा­ध­ना­दि­त्य­ने­नेाक्तं हेतुं व्याचष्टे -
तैर्वे­दा­न्तै­रिति ।
जीवा­भि­व्य­क्ती­ना­मिति ।
आध्या­सि­क­जी­व­रू­पा­भि­व्य­क्ती­ना­मि­त्यर्थः । पूर्व­पू­र्व­भ्र­म­नि­मि­त्त­क­त्व­मि­त्य­नेन बीजा­ङ्कु­र­न्या­य­सा­म्यार्थं टीका­या­म­वि­द्या­पदं भ्रमपरमिति व्याख्यातम् । तर्हि किं प्रवा­हा­ना­दि­भ्र­म­स­न्ता­न­व्य­ति­रे­केण स्वरू­पा­ना­दि­र­विद्या नास्ति साऽप्यस्ति वक्ष्यमाणेत्याह -
अनादिस्त्विति ।
ननु तादृशानां च जीवानामविद्या न तु निरुपाधिनो ब्रह्मण इति टीकायां साऽप्यविद्या जीवा­श्रि­ताऽ­भ्यु­प­गता तत्प्रसङ्गाद् भ्रम­रू­पाऽ­वि­द्या­या­म­न्यो­न्या­श्रयः परिहृतः , तथा चाविद्याधीनो जीव­ब्र­ह्म­वि­भा­ग­स्त­द्वि­भागे च सति जीवा­श्रि­त­त्व­सि­द्धि­र­वि­द्याया इत्य­न्यो­न्या­श्र­य­मा­श­ङ्क्याह -
अना­दि­जी­वा­वि­द्य­यो­रिति ।
अवि­द्या­सं­ब­न्ध­स्त­न्नि­रू­प­का­वि­द्या­धीनः, अविद्यापि तत्संबन्धाधीना अवि­द्या­सं­ब­न्धा­धी­न­त्वा­त्स­र्व­वि­व­र्ता­नाम् । तत्र यथे­त­रे­त­र­त­न्त्र­त्व­म­ना­दि­त्वान्न दोषावहम् एवमिहापीत्यर्थः । क्वचित् प्रमे­य­त्वा­भि­धे­य­त्वादौ ।
ननु स्वाश्र­या­श्रि­त­त्वा­स्या­प्र­सिद्धौ तेन विरोधप्रसज्जनं मैवोपपादि , जीवो यद्याश्रितः स्याद­वि­द्या­श्रयो न स्यात्त­दु­पा­दा­न­क­प्र­प­ञ्च­व­दिति प्रस­ञ्ज­न­मु­प­प­द्यते इत्यस्वरसादाह -
अपि चेति ।
नन्व­मू­र्त्त­त्वेऽपि नभः­श­ब्द­व­दा­श्र­या­श्र­यि­भावः संभ­व­ती­त्या­श­ङ्क्याह -
अवच्छेद्येति ।
अन्यत्र यथा तथा वाऽस्तु प्रकृते जीवा­वि­द्य­यो­र­व­च्छे­द्या­व­च्छे­द­क­भा­व­मा­त्र­मि­ष्यते , अवि­द्या­व­च्छे­द­को­पा­धिकं जीवत्वमिति । जीवो­वि­द्य­याऽ­व­च्छि­द्यते , अविद्या च चैतन्याश्रिता , वृक्षाश्रितः कपिसंयोगो मूलेनेव जीव­त्वे­ना­व­च्छि­द्यत इति ।
pनन्वि­द­म­प्य­न्यो­न्या­श्र­य­दु­ष्ट­मि­त्या­श­ङ्क्याह -
तत्रेति ।
प्रमे­य­त्वा­का­रा­व­गाहि प्रमाणं निरू­प­क­प्र­मे­या­व­च्छेद्यं , प्रमेयं च स्ववि­शे­ष­णी­भू­त­प्र­मा­णा­व­च्छे­द्य­मि­त्ये­व­मा­दि­ष्व­व­च्छे­द्या­व­च्छे­द­क­त्व­स्ये­त­रे­त­र­त­न्त्रत्वं दृष्टमित्यर्थः ।
जीवा­वि­द्य­यो­रा­श्र­या­श्र­यि­भा­वा­भावे कस्तयोराश्रय इत्याकाङ्कायां सर्व­प्र­प­ञ्च­वि­व­र्ता­धि­ष्ठानं चैतन्यरूपं ब्रह्मैव केव­ल­मि­त्य­व­च्छे­द­क­तोक्त्या गर्भितमर्थं विवृणोति -
अधिष्ठानमिति ।
वैशेष्यादिति ष्यञ्प्रत्ययस्य चातु­र्व­र्ण्या­दि­व­त्स्वा­र्थि­कत्वे वक्तुं शक्येऽ­प्य­धि­का­र्थ­ला­भाय भावा­र्थ­त्व­मा­श्रितं भावोऽ­प्य­त्रा­ति­शयो विवक्षितः , न तु विशे­ष­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­रूपो धर्म इति टीकातात्पर्यमाह - न वैशेष्यादिति सूत्र इत्यादिना । अत्र मनो­म­य­त्व­प्रा­ण­श­री­र­त्व­यो­र्जी­व­लि­ङ्ग­यो­स्त­त्क्र­तु­न्या­येन समारोप्यस्य रूपेण विषयो रूपवान् भवेदिति न्यायेन चापतद् ब्रह्मणि पर्य­व­सा­न­म­स्पष्टं ताभ्या­मु­प­ग­ताभ्यां स्पष्टमपि सत्य­सं­क­ल्प­त्वा­दि­ब्र­ह्म­लि­ङ्ग­म­भि­भू­तम् । किं च हृदयायतनत्वं हृदये पर्या­प्त­वृ­त्तित्वं न तु हृदये कथ­न­मा­त्र­मि­त्य­णी­य­स्त्वो­प­प­त्त्यु­प­न्या­से­ना­व­ग­म्यत इत्यु­प­प­त्ति­रू­प­ता­त्प­र्य­लि­ङ्गा­व­गतं हृदयायतनत्वं तदु­प­प­त्ति­रू­प­म­णी­यस्त्वं च प्रबलं जीवलिङ्गमिति ताभ्यामपि सत्य­सं­क­ल्प­त्वा­दि­क­म­भि­भू­त­मि­त्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्ग­तया पादसंगतिः । तर्हि दिवि दिव इति विभक्तिभेदेन प्रत्य­भि­ज्ञा­वि­च्छे­द­सं­दे­हा­द­स्प­ष्ट­गा­य­त्री­ब्र­ह्मा­नु­वृ­त्तिकं ज्योतिर्वाक्यं विषयीकृत्य प्रवृत्तं ज्योति­र­धि­क­र­ण­म­प्य­त्रैव पादे कर्त्तव्यं स्यादिति – चेन्न ; तत्र स्पष्ट­ब्र­ह्म­लि­ङ्गस्य गाय­त्री­वा­क्य­स्यापि निर्णेतव्यत्वेन तस्य प्रथमपादेऽपि संगतिसत्त्वात् ॥
इति प्रथमं सर्व­त्र­प्र­सि­द्ध्य­धि­क­रणं संपूर्णम् ।

अत्ता चराचरग्रहणात् ॥ ९ ॥
यत्र च सोत्तेऽति ।
एवं क इत्था वेदे­त्य­स्या­वृ­त्ति­रुक्ता । यदि न भोक्तृ­त्वा­त्सं­शय इति । यद्य­प्य­त्तृ­त्वस्य भोक्तृ­त्व­सं­ह­र्तृ­त्वा­न्य­त­र­रू­पाऽ­नि­र्द्धा­र­णाद् जीवा­ग्नि­प­र­मा­त्म­सं­शय इति भोक्तृत्वस्य तद­र्थ­सं­श­यै­क­को­टि­तया फलसंशयहेतुत्वं सम्भवति ; तथापि कोटि­त्र­य­सा­धा­र­ण­ध­र्म­तया संह­र्तृ­त्व­व­त्सं­श­य­हे­तुत्वं न सम्भवतीत्यत्र तात्पर्यम् । मृगयाविनोदे युद्ध­मृ­ग­या­वि­नोदे । मृगयाविनोदिन इति पाठः साधुः । मृगयाविन इति पाठ­स्त्व­क्ष­र­द्व­य­भ्रं­शेन प्रामादिकः । अथवा युद्धरूपया मृगयया अवति पर­नृ­प­ति­दु­ष्ट­मृ­गो­प­द्रुतं स्वदेशमिति वा हिनस्ति तानिति वा मृगयावी । अव रक्ष­ण­ग­ति­का­न्ति­प्री­ति­तृ­प्त्य­व­गम -प्रवे­श­श्र­व­ण­स्वा­म्य­र्थ­या­च­न­क्रि­ये­च्छा­दी­प्त्य­वा­प्त्या­लि­ङ्ग­न­हिं­सा­दा­न­भा­ग­वृ­द्धि­ष्विति धातो­रा­भीक्ष्ण्ये ताच्छील्ये वा णिनिः ।
क्षत्रिय एवेति ।
वस्तुतो मृगयासु मृगहन्ता क्षत्रिय एव प्रतीयत इत्यर्थः । यद्यपि त्वत्कृ­पा­ण­भु­ज­ङ्गस्य क्षीरं विद्विषतां यश इत्य­त्रो­प­च­रि­त­क्षी­र­प्र­ति­स­म्ब­न्धिनि कृपाणे मुख्य­त­त्पा­तृ­त्वा­द­र्श­ना­न्नायं नियमः ; तथाप्युभयथा दर्शने सत्यत्र बाध­का­भा­वे­ना­ना­रो­पि­त­मेव भोक्तृत्वं ग्राह्यमिति भावः । नन्वोदनशब्देन प्रसिद्धौदनगतं भोग्यत्वं लक्ष्यते चेत­त्प्र­ति­स­म्ब­न्धि­न्य­त्तृत्वं भोक्तृत्वमिति प्रतीतावपि तेन विनाश्यत्वं लक्ष्यते चेदत्तृत्वं विनाशकत्वरूपं संहर्तृत्वं पर्यवस्येत् तत्परस्मिन् सम्भवतीति – चेन्न ; गौण­वृ­त्ता­व­सा­धा­र­ण­गु­ण­ग्र­ह­ण­स­म्भवे साधा­र­ण­गु­ण­ग्र­ह­णा­यो­गात् । न ह्यग्निर्माणवक इत्यत्र पैङ्गल्यादेरिव द्रव्य­त्वा­दे­र्ग्र­ह­ण­मस्ति ।
मृत्यू­प­से­च­न­स­न्नि­धा­ना­द­त्तृत्वं संह­र्तृ­त्व­मि­त्य­भ्यु­प­ग­मेऽ­प्य­ग्नि­रे­वा­त्तेति पूर्वपक्षान्तरं यदि त्विति टीकायां दर्शितं , तदनुपपन्नं ; परमात्मनोऽपि संह­र्तृ­त्व­सं­भ­वा­दि­त्या­श­ङ्क­याह -
अविक्रियस्येति ।
ननु - अत्ता निर्विशेषः परमात्मेति नोच्यते ; यत्र स इति तस्य पृथग्ग्रहणात् , सविशेषस्य तु स्रष्टृ­त्वा­दि­वि­का­र­वत् संह­र्तृ­त्व­वि­का­रोऽ­प्यु­प­प­द्यते । नैष दोषः ; अवि­क्रि­य­स्ये­त्य­नेन राग­द्वे­षा­दि­प्रा­णि­सं­हा­र­हे­तु­वि­का­रा­भा­वस्य विवक्षितत्वात् । न च - प्राणि­क्र­र्मा­नु­सा­रेण संहर्तृता स्यादिति – वाच्यम् । समृत्युकस्य सकलस्य युग­प­न्ना­श­हे­त्व­दृ­ष्ट­प­रि­पा­क­मे­ल­ना­सं­भ­वात् । न च - क इत्था वेदेति दुर्ज्ञा­न­त्व­लि­ङ्गा­दत्ता परमात्मा स्यादिति - वाच्यम् । तस्य सोत्ता यत्र प्रति­ष्ठि­त­स्त­न्मा­त्र­वि­ष­यत्वे संभ­व­त्या­वृ­त्त्याऽ­त्तृ­वि­ष­य­त्व­स्या­क­ल्प­नी­य­त्वा­दिति भावः ।
सिद्धा­न्त­टी­कायां ब्रह्म­क्ष­त्र­श­री­र­यो­र्भो­गा­य­त­न­भो­ग­सा­ध­न­रू­प­यो­रो­द­न­वद् भोग्यत्वगुणस्य गौण­वृ­त्ति­नि­मि­त्तत्वं निराकृत्य स्वाभिमतं विना­श्य­त्व­गु­णस्य तन्नि­मि­त्त­त्व­मु­प­पा­द­यितुं प्रवृत्तस्य न चात्र मृत्युरिति टीकाग्रन्थस्य तात्पर्यमाह -
अपि चेति ।
ब्रह्म­क्ष­त्र­यो­र्मृ­त्योश्च ताव­दो­द­नो­प­से­च­न­भा­व­रू­प­णा­द­न्न­द­धि­रीत्या संबन्धः प्रतीयते तथा च विना­श­क­मृ­त्यु­सं­सृ­ष्ट­त्व­प्र­ती­त्य­नु­सा­रा­दो­द­न­श­ब्देन विनाश्यत्वं लक्षणीयं ; स्वबु­द्ध्यु­प­स्था­पि­त­वै­शे­षि­क­गु­ण­ग्र­ह­णा­द­प्ये­क­वा­क्य­ता­प­न्न­प­दा­न्त­रा­र्थो­प­स्था­पि­त­गु­ण­ग्र­ह­णस्य बुद्धि­ला­घ­वे­नै­क­वा­क्य­ता­सा­म­र्थ्येन च न्याय्यत्वात् चर­म­श्रु­ते­ना­प्ये­क­वा­क्या­न्त­र्ग­त­प­दा­न्त­रा­र्थे­ना­नु­प­स्थित एवापेक्षिते तस्य पुरुषबुद्ध्या कल्पनीयत्वात् । अत एव ह्यक्ताः शर्करा इति विधे­य­स्या­ञ्ज­नस्य साधनापेक्षायां वाक्यशेषस्तुतं घृतमेव गृह्यते , न तु पुरुषकल्पनीयं तैलवसादिसाधारणं द्रव्यमात्रम् । एवं चोप­से­च­न­त्व­रू­प­णेऽपि स्वयमद्यमानत्वे सत्य­न्या­द­न­हे­तु­त्व­रू­प­मु­ख्य­गुण एवासाधारणतया स्वारस्यावगतो निमि­त्त­म­व­ति­ष्ठते । अतस्तस्य निमित्तत्वमदनं ब्रह्म­क­र्तृ­क­सं­हार इति पक्ष एव घटते ; तेन मृत्योरपि संहार्य्यत्वाद् , भूतवर्गसंहारे मृत्यो­र्द्वा­र­त्वे­ना­न्य­सं­हा­र­हे­तु­त्वाच्च , न त्वदनं जीवकर्तृको भोग इति पक्षे , मृत्यो­र­भो­ग्य­त्वा­द­न्य­भो­गाऽ­हे­तु­त्वाच्च । एवं मृत्यो­रु­प­से­च­न­त्व­रू­प­णा­न्मृ­त्युना संहार्यं याव­च्च­रा­च­रा­त्मकं भूतजातं तत्सर्वं ब्रह्म­क्ष­त्र­श­ब्दा­भ्या­मु­प­ल­क्ष­णी­य­मि­त्यपि सिद्ध्यति । तेन सक­ल­च­रा­च­र­सं­हा­र­कर्ता परमेश्वर इहात्ता प्रतीयत इति भावः ।
ओद­न­प­दा­त्प्र­थ­म­मिति ।
ब्रह्मक्षत्रयोः स्वश­री­र­भृ­त्य­श­री­रा­दि­रू­पेण भोगा­य­त­न­भो­ग­सा­ध­न­त्वेऽपि स्त्र्यादि­रू­प­तया भोग्यत्वमपि संभवति । व्याघ्रा­दि­जी­व­वि­शेषं प्रति तयोर्भक्ष्यतया अत्य­न्ता­न्त­रङ्गं भोज्यत्वमपि संभवतीति भावः ।
ब्रह्म­क्ष­त्र­मृ­त्यु­श्रु­ती­ना­मिति ।
न तावत्सर्वं ब्रह्म क्षत्रं च कस्य चिज्जीवविशेषस्य भोग्यं भोज्यं वा संभवति , नतरां ब्रह्म­क्ष­त्रो­प­ल­क्षि­त­च­रा­च­रम् , ततो यावद् ब्रह्म क्षत्रं च कस्य चिज्जीवविशेषस्य भोग्यं भोज्यं वा तत्परतया ब्रह्म­क्ष­त्र­प­दयेाः संकोचो वर्णनीयः । मृत्यु­श­ब्द­श्चा­वि­शे­षेण संहारकं प्रत्याययन् किंचिद् व्याघ्रा­दि­भ­क्ष­णी­य­ब्र­ह्म­क्ष­त्र­सं­हा­र­क­प­र­तया संकोचनीयः । न च किंचि­त्प­द­ग­त­स्वा­य­त्त­ल­क्ष­णी­य­गु­ण­ग्र­ह­णा­नु­सा­रे­णै­तेषां संकोचो युक्त इत्यर्थः ।
यदि मृत्युपदादिति ।
अत्रायमाशयः - मृत्यु­प­द­स­न्नि­धा­ना­त्त­द्वि­नाश्यं सर्व­व­स्तु­ग्रा­ह्य­मि­त्ये­त­द­यु­क्तम् । तथा सति ब्रह्म­क्ष­त्र­प­द­यो­र्ल­क्ष­णा­पत्तेः , न चेष्टापत्तिः ; ब्रह्म­क्ष­त्र­यो­र्मृ­त्यु­मि­श्र­ण­स­त्त्वेन मुख्यार्थे अन्व­या­नु­प­प­त्त्य­भा­वात् ।
न च -
तदभावेऽपि समभिव्याहृतस्य मृत्यु­मि­श्र­ण­स्या­न्य­सा­धा­र­ण्य­मा­त्रेण लक्षणा – वाच्या ; अन्नकरणत्वस्य दर्व्या­दि­सा­धा­र­ण्येऽपि तेषु शूर्पशब्दस्य लक्ष­णाऽ­न­भ्यु­प­ग­मा­दिति ।
प्राणिष्विति परि­हा­र­वा­क्य­स्या­य­मा­शयः -
अत्तृत्वं भोक्तृत्वं संहर्तृत्वमिति पक्ष­द्व­येऽ­प्यो­द­न­प­क्ष­वद् ब्रह्म­क्ष­त्र­प­द­यो­रपि लक्ष­क­त्व­म­व­श्यं­भावि , नहि स्त्र्यादि­रू­प­तया भक्ष्यतया वा ब्रह्म­क्ष­त्र­यो­रेव भोक्ता कश्चिद् जीवोऽस्ति ।
न वा पर­मे­श्व­र­स्त­दु­भ­य­मा­त्र­सं­हर्ता , न चाधि­क­भो­क्तृ­त्वेऽ­प्य­धि­क­सं­ह­र्तृ­त्वेऽपि तन्मात्रग्रहणे प्रयोजनमस्तीति ।
नन्विदमेव प्रयोजनं , यत् पञ्च­न­खा­दि­ष्वि­वा­न्य­नि­वृ­त्ति­रि­त्या­श­ङ्कते -
नन्विति ।
पञ्च­न­खा­दि­वा­क्येषु मनु­ष्या­दि­नि­वृत्तिः प्रत्य­वा­य­प­रि­हा­रेण फलवती । इह तु प्रयोजनं न पश्यामः ; स्वरू­पे­णा­न्य­नि­वृ­त्ते­र्बा­धि­त­त्वात् , उपा­स­ना­प्र­क­र­णा­भा­वे­ना­क्ष्या­दि­त्य­पु­रु­ष­यो­र्व्य­व­स्थि­त­लो­क­का­म­वि­शे­षे­शि­तृ­त्व­श्र­व­ण­व­द्वि­शिष्य ब्रह्म­क्ष­त्र­सं­ह­र्तृ­त्व­व­र्ण­न­मु­पा­स­ना­र्थ­मिति कल्प­यि­तु­म­श­क्य­त्वाच्च ।
तथा च यथा ’यस्मिन् पञ्चपञ्चजना’ इति मन्त्रे विशिष्य पञ्चानां मनुष्याणामाधार इति कीर्तने प्रयोजनं न किञ्चिदस्तीति तल्ल­क्ष­णी­या­का­ङ्क्षायां वाक्यशेषात् प्राणा­द­य­स्त­ल्ल­क्ष­णीया निश्चीयन्ते , एवं विशिष्य ब्रह्म­क्ष­त्र­ग्र­हणं निष्प्रयोजनं सदितरेषामपि केषा­ञ्चि­दु­प­ल­क्ष­ण­मि­त्यु­प­ल­क्ष­णी­य­वि­शे­षा­का­ङ्क्षायां पश्चा­त्त­न­मृ­त्यू­प­से­च­न­की­र्त­नात् तदुपसिच्यमानं सर्वमुपलक्षणीयं निश्चीयत इति परि­हा­रा­द्य­भि­प्रा­य­माह -
पञ्चपञ्चनखादौ हीति ।
अग्ने­र्व्या­घ्रा­दि­जी­वस्य च यत्कि­ञ्चि­त्सं­ह­र्तृ­त्व­स­म्भ­वेऽपि सक­ल­च­रा­च­र­सं­ह­र्तृत्वं परमात्मन एवेति टीकोक्तमयुक्तम् ।
अविकारस्य तस्य संह­र्तृ­त्व­स्यै­वा­यो­गा­दिति शङ्कां निराकरोति -
मायोपाधेरिति ।
मायिनं तु महेश्वरमिति मायो­पा­धि­क­प­र­मे­श्व­र­प्र­क­रणे ’यस्मिन् क्षेत्रे संहरत्येष देवः’ इति तस्य संहर्तृत्वं श्रूयते । तच्च संसा­र­प­रि­भ्र­म­ण­खि­न्ना­न्प्रा­णिनः कंचित्कालं महासुषुप्त्या विश्रान्तिं प्रापयितुमिति न तत्तस्य दोषावहम् । प्रायः प्राणिनां दैन­न्दि­न­श­र्व­रीषु युगपत् सुषु­प्ति­प्रा­प­काऽ­दृ­ष्टो­न्मे­ष­व­न्म­हा­श­र्व­रीषु सर्वप्राणिनां युग­प­न्म­हा­सु­षु­प्ति­प्रा­प­काऽ­दृ­ष्टो­न्मे­षोपि नाऽनुपपन्न इति भावः । अत्र प्रथ­म­प्र­ती­त­भो­ग्य­त्व­ल­क्ष­णा­प­वा­देन विना­श्य­त्व­ल­क्षणां व्युत्पाद्य ब्रह्म­लि­ङ्ग­स्यो­न्मे­ष­णी­य­त्वा­द­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥
इति द्वितीयम् अत्रधिकरणम् ।

गुहां प्रवि­ष्टा­वा­त्मानौ हि तद्दर्शनात् ॥ ११ ॥
पूर्व­सि­द्धा­न्त­प­क्षा­क्षेप इति ।
बुद्धिजीवाविति पूर्वपक्षस्य जीव­प­र­मा­त्मा­ना­विति सिद्धा­न्त­प­क्षस्य चाक्षेप इत्यर्थः ।
प्राकृ­त­सु­प­र्णेति ।
द्वासुपर्णेति मन्त्रान्तरे द्वित्वस्य सुप­र्ण­वि­ष­य­त्वा­दि­हापि तद्वि­ष­य­त्व­श­ङ्के­त्यर्थः ।
यदि सृष्टि­म­न्त्र­के­ष्ट­का­ना­मिति ।’तद्वा­ना­सा­मु­प­धानो मन्त्र इतीष्टकासु लुक्च मतो­रि­त्य­नु­शा­स­ना­त्सृ­ष्टि­शब्दः सृष्टि­म­न्त्रो­प­धे­ये­ष्ट­का­वाची ।
ननु इष्टकानामुपधाने विधा­न­मि­त्य­यु­क्तम् ; मन्त्र­वि­शे­षो­प­धे­य­त्वेन सृष्टि­श­ब्दे­ना­नू­द्य­मा­ना­ना­मि­ष्ट­का­ना­मु­प­धा­नस्य प्रागेव प्राप्ते­र्व­क्त­व्य­त्वात् , अन्यथा सृष्टि­श­ब्दे­ना­नु­वा­द­स्यो­प­धा­न­वि­धा­नस्य चान्यो­न्या­पे­क्ष­त्वेन पर­स्प­रा­श्र­या­पत्तेः, सृष्ट्य­सृ­ष्टि­म­न्त्र­क­त्व­वि­शे­ष­स्ये­त्या­द्य­प्य­यु­क्तम् ; सृष्ट्य­सृ­ष्टि­म­न्त्रो­प­धे­य­त्व­वि­शे­षा­व­ग­मो­पा­या­भावे सर्वा­सा­मि­ष्ट­कानां सृष्टि­म­न्त्रो­प­धे­य­त्वा­व­ग­मेऽपि तुल्य­न्या­य­त­यो­पा­या­भा­वे­ना­स्या­प्य­न­व­ग­म­प्र­स­ङ्गात् , सृष्टि­म­न्त्रा­म्ना­न­चा­रि­ता­र्थ्याय तदुपधेयत्वावगमे तथै­वा­सृ­ष्टि­म­न्त्रा­म्ना­न­चा­रि­ता­र्थ्याय सृष्टि­म­न्त्रै­श्च­तु­र्द­श­भि­रु­प­धे­या­श्च­तु­र्द­शे­ष्ट­का­स्त­त्सं­व­लि­तै­स्त्रि­भि­र­सृ­ष्टि­म­न्त्रै­रु­प­धे­या­स्तिस्र इष्टका इति विशे­षा­व­ग­मो­प­पत्तेः । कथ­ञ्चि­त्सृ­ष्टि­म­न्त्रो­प­धे­य­त्वा­व­गम एवोपायोऽस्ति नाऽसृ­ष्टि­म­न्त्रो­प­धे­य­त्वा­व­गम इति विशेषसमर्थनेऽपि सर्वा एवेष्टकाः सृष्टिमन्त्रकाः स्युरि­त्या­पा­द­न­म­यु­क्तम् ; ’प्राणभृत उपदधाति चित्रि­णी­रु­प­द­धाति वज्रि­णी­रु­प­द­धा­ती’त्या­दि­वि­ध्य­न्त­र­ब­लात् प्राण­भृ­दा­दि­म­न्त्रा­न्त­रो­प­धे­ये­ष्ट­का­ना­म­प्य­ङ्गी­का­र्य­त्वात् , सर्वे­ष्ट­का­प­धा­नस्य सृष्टि­म­न्त्र­क­त्वेऽ­प्य­सृ­ष्टि­म­न्त्रा­न­र्थ­क्यो­क्ति­र­युक्ता ; उप­धा­नाऽ­वि­नि­यु­क्ता­ना­मपि तेषा­मि­ष्ट­का­ग्र­ह­णा­दिषु विनि­यो­गे­ना­ग्नि­प्र­क­र­णा­म्ना­न­चा­रि­ता­र्थ्यो­प­पत्तेः , अत एव तदा­न­र्थ­क्य­प­रि­हा­रा­याऽ­ज­ह­ल्ल­क्ष­णो­क्ति­र­प्य­युक्ता । तस्मा­त्स­र्व­मि­द­म­स­म­ञ्ज­स­मिति - चेत् , उच्यते ; अय­मि­हा­चा­र्या­णा­म­भि­प्रायः - सृष्टि­श­ब्दो­क्त­म­न्त्र­वि­शे­षो­प­धे­य­त्वे­ना­नु­वा­दा­न्य­था­नु­प­प­त्त्ये­ष्ट­काङ्गे उपधाने तत्र सृष्टि­म­न्त्राणां विनियोगे च विधिः कल्प्यते कल्प्य­श्रु­ति­सि­द्ध­म­पी­ष्ट­को­प­धा­नम् । प्रत्य­क्ष­वि­धि­स्पृष्टं भवत्विति एतदर्थं तस्य पुनर्विधानं प्रत्य­क्ष­वि­धा­नस्य च फलं सृष्टि­म­न्त्रो­दि­ता­ना­मि­ष्ट­कानां मध्य­म­चि­ता­वु­प­धानं , न त्वप्रा­प्त­प्राप्तिः । असति तस्मिन्विधौ मध्य­म­चि­ति­प्र­क­र­णा­ना­म्ना­तानां तासां तस्यामुपधानं न लभ्यते , सति तु तस्मिन् लभ्यते । मध्यमायां तु – ‘वचनाद् ब्राह्मणवत्य’ (जै. सू . अ. ५ पा. ३ सू . १९) इति पञ्च­मा­ध्या­या­धि­क­रणे ‘यां वै काञ्चन ब्राह्म­ण­व­ती­मि­ष्ट­का­म­भि­जा­नी­यात्तां मध्यमायां चिता­वु­प­द­ध्यादि’ति वचनेन प्रत्य­क्ष­ज्ञा­न­वा­च्य­भि­पू­र्व­जा­ना­ति­व­शाद् वचनेन प्रत्य­क्ष­ब्रा­ह्म­णो­दि­ता­ना­मि­ष्ट­कानां मध्य­म­चि­ता­वु­प­धानं , न तु ’अन्ते तु बादरायण’(जै. सू . अ. ५ पा. २ सू .१९) इति न्याया­च्चि­त्य­न्त­र­इति निर्णीतत्वात् । एवं च सृष्टिशब्दस्य सृष्टि­लि­ङ्ग­क­म­न्त्र­वा­चि­त्वे­नै­त­द्वि­ध्यु­पा­त्ता­स्वि­ष्ट­कासु सृष्ट्य­सृ­ष्टि­म­न्त्र­क­त्व­रू­पा­वा­न्त­र­वि­शे­षा­न­व­ग­मात् सर्वा एवै­त­द्वि­ध्यु­पात्ता इष्टकाः सृष्टिमन्त्रकाः स्युः । तथा चासृ­ष्टि­लि­ङ्ग­क­म­न्त्रेा­प­धे­ये­ष्ट­कानां मध्य­म­चि­त्य­ला­भा­न्म­ध्य­म­चि­त्यु­प­धे­ये­ष्ट­का­म­न्त्र­सं­व­लि­त­त­यै­क­स्मि­न्न­नु­वाके समाम्नानमनर्थकं स्यात् , सृष्टी­रु­प­द­धा­तीति विधा­ना­न­न्त­र­मे­क­याऽ­स्तु­व­ते­त्या­दि­म­न्त्रो­प­धे­यानां सप्त­द­शा­ना­मि­ष्ट­कानां प्रत्ये­क­स्तु­ति­पू­र्व­क­मा­म्नातो ’यत्स­प्त­द­शे­ष्टका उपदधाती’ति वाक्य­शे­ष­श्चा­न­र्थकः स्यात् , तन्मा­भू­दि­त्ये­त­दर्थं सृष्ट्य­सृ­ष्टि­म­न्त्राणां सप्त­द­शा­ना­म­प्ये­क­स­मु­दा­य­व­र्त्ति­त्वे­नाऽ­ज­ह­ल्ल­क्ष­णाऽऽ­श्रि­तेति । यद्यप्यस्तु वेत्यादिटीकायां जीवपरमात्मपक्षे बुद्धिजीवपक्षे च प्रकृ­ति­प्र­त्य­या­वु­भा­वपि मुख्यावेव ; हेतु­क­र्तृ­सा­धा­र­ण­क­र्तृ­त्व­सा­मा­न्यस्य कृदर्थत्वात् , हेतु­क­र्तृ­त्व­रू­प­क­र्तृ­त्व­वि­शे­ष­वि­व­क्षायां णिज­र्था­न्त­र्भावे कर्तव्येऽपि कर्तृ­त्व­सा­मा­न्य­वि­व­क्षायां तद­न्त­र्भा­वाऽ­न­पे­क्ष­णात् , करणस्यापि बुद्धेः ’कर्मवत्कर्मणा तुल्यक्रिय’ इति सूत्रोक्तरीत्या कर्मण इव कर्तृ­त्व­सं­भ­वा­च्चेति तयो­र्मु­ख्य­तै­वो­प­पा­दि­तेति योजयितुं शक्यम् , शतुः स्वत­न्त्र­क­र्त­र्येव शक्तिः करणे च न मुख्यं कर्तृ­त्व­मि­त्य­ङ्गी­का­रेऽपि बुद्धिजीवपक्षे कारकत्वसामान्य इव जीवपरमात्मपक्षे कर्तृ­त्व­सा­मान्ये प्रत्ययस्यैव लक्षणोक्तेति योजयितुं शक्यम् ; तथाप्येवमपि योजयितुं शक्यमिति वैभवादित्थं व्याख्यातम् ।
गुहा­प्र­वि­ष्टा­दि­प­दा­नु­सा­रे­णेति ।
सर्वगतस्य ब्रह्मणो गुहा­व­र्ति­त्व­सं­भ­वेऽपि गुहाप्रवेशो न संभवति ; अस्मिन्प्रकरणे प्रकरणान्तरेषु च ब्रह्मणः प्रवेशश्रवणम् अनेन जीवे­ना­त्म­नाऽ­नु­प्र­वि­श्येति श्रुताविव जीव­भा­वा­भि­प्रा­यम् । न चेह तथा योजयितुं शक्यम् ; गुहां प्रविष्टाविति जीव­व­द्द्वि­ती­य­स्यापि पृथ­क्प्र­वे­श­श्र­व­णात् । न हि जीवभावेन संसा­रि­त्व­म­भि­प्रेत्य ब्रह्मैव संसरतीति व्यवहारवद् ब्रह्मणी संसरत इत्यपि व्यवहारः संगच्छते । तथा अनु­त्त­मे­षू­त्त­मेषु लोके­ष्वि­त्या­दि­श्रु­त्य­न्त­रेषु ब्रह्मणो लोक­व­र्ति­त्व­प्र­सि­द्धा­वपि सुकृतस्येति विशेषणादिह प्रतीयमानं सुकृ­त­फ­ल­भो­गा­र्थ­लो­का­व­स्थानं ब्रह्मणो न संभवति । न च - ब्रह्म­वि­द्व­च­न­वि­ष­यत्वं ब्रह्मलिङ्गमपि श्रूयत - इति शङ्कनीयम् ; तस्य पञ्चा­ग्न्या­दि­व­च­न­वि­ष­य­त्व­रू­प­प्र­ब­ल­जी­व­लि­ङ्ग­प्र­ति­ह­तस्य ब्रह्मविदोऽपि ब्रह्मै­क्य­बो­ध­नाय बुद्धि­वि­वि­क्त­जी­व­म­न्वि­च्छ­न्ती­त्ये­त­त्प­र­तया कथ­ञ्चि­द्यो­ज्य­त्वात् । न हि पञ्चाग्न्यादयः कर्मठा: संसा­रि­जी­व­वि­वि­क्त­म­सं­सा­र्या­त्म­स्व­रूपं वदन्ति ; तदवगमस्य कर्मा­नु­ष्ठा­न­वि­रो­धि­त्वा­दिति भावः । अस्य द्वितीयतेति श्लोकभागं व्याकुर्वन्नेव श्लोकमवतारयति अस्येति । द्वितीयशब्दः पूर­ण­प्र­त्य­या­न्तोऽ­प्यत्र जीवस्य ब्रह्मणा सह द्वित्वाधारत्वं लक्षयतीति भावः । द्वितीयवान् द्वितीय इति मत्व­र्थी­या­च्प्र­त्य­या­न्त­त­याऽपि द्वितीयशब्दो योजयितुं शक्यते ; अर्श­आ­दे­रा­कृ­ति­ग­ण­त्वात् , प्रथमं सद्वितीयत्व इत्यु­त्त­र­श्लेो­का­नु­रो­धाच्च ।
प्रथममितीति ।
जीवस्यापि स्वतो गुहाप्रवेशो न संभवति ; तस्य स्वोपा­ध्य­न्तः­क­र­णो­पा­धिकः संभवति चेत् , परस्यापि स्वनि­य­म्या­न्तः­क­र­णो­पा­धिकः संभवतीति तुल्यम् । प्रत्युत बुद्धिजीवपक्ष एव स्वतः­प्र­वे­श­वत्या बुद्ध्या सह तदु­पा­धि­क­प्र­वे­शस्य जीवस्य प्रवेशवर्णनं न संभवति , न ह्युप­ष्ट­म्भ­को­पा­धि­क­गु­रु­त्व­शा­लिनि सुवर्णे गुरु सुवर्णमिति व्यव­हा­र­व­दु­प­ष्ट­म्भ­क­सु­वर्णे गुरुणी इत्यपि व्यवहारो दृश्यते ।
सुकृ­त­लो­क­व­र्तित्वं कर्म­फ­ल­भो­क्तु­र्जी­व­स्येव तद­न्त­र्या­मि­णोऽ­प्यस्ति ।
छाया­त­प­त्व­नि­र्दे­शोऽपि जीवपरयोरेव प्रकृ­ता­र्थो­प­यो­गि­तया श्लिष्यते ; समाने चेतनत्वे कथमृतपाने जीवस्य पारतन्त्र्यं परस्य स्वातन्त्र्यं चेति शङ्कानिवर्तनाय तयो­र­ज्ञा­न­त­मो­भि­भ­व­त­द­भा­व­रू­प­वि­शे­ष­प्र­द­र्श­ना­र्थ­त्वात् । पञ्चाग्नय इत्या­दि­ब्र­ह्म­विदां विशेषणं , ये प्राक्प­ञ्चा­ग्नि­शु­श्रू­षया ये वा नाचि­के­ता­दि­च­य­नै­र­न्तः­क­र­ण­शुद्धिं प्राप्ताः त एव तत्प्रसादाद् लब्ध­नि­र्वि­चि­कि­त्स­ब्र­ह्म­विद्याः इत्थं वदन्तीति विशे­ष­प्र­ति­प­त्त्य­र्थ­मिति प्रथ­मा­व­ग­त­ब्र­ह्म­द्वि­ती­य­त्वा­नु­सा­रेण सर्वं सुयोजम् । न च - स्वरू­प­द्वि­ती­या­न्वे­षणे पर­त­न्त्र­त्वा­दिना तस्य बुद्धिरपि सरूपेति - शङ्कनीयम् ; स्वाभा­वि­क­ध­र्मस्य चेत­न­त्व­स्या­न्त­र­ङ्ग­त्वात् सुखा­द्य­नु­भ­वि­तृ­प­र­पि­ब­च्छ­ब्द­सं­स्पृ­ष्ट­त्वा­च्चेति भावः ।
आध्वंसते आगच्छतीति ।
ध्वंसु गतौ चेति धातुः ।
उच्छे­द्य­त्वा­द्वृ­क्ष­मिति ।
ओ व्रश्चू छेदने इति धातो­र्वृ­क्ष­शब्दः ।
ननु पिप्प­ल­श­ब्दोऽ­श्व­त्थ­वाची फले लुगिति विका­रा­र्थ­त­द्धि­त­लुकि तत्फलं ब्रूयात् फले सस्यं च पिप्प­ल­मि­त्य­नु­शा­स­ना­द्वृ­क्ष­व­ल्ल्या­दि­फ­ल­सा­मान्यं वा ब्रूयाद् -
न तु कर्मफलमित्यत आह - संसारस्येति ।
ऊर्ध्व­मू­लोऽ­वा­क्शाख एषोऽश्वत्थः सनातन इति श्रुतिः ।’अस्य महिमानमिति वीतशोक इति’ श्रुति­ग­त­मि­ति­शब्दं भिन्नक्रमतया योजयति -
अस्यैवेति यदा पश्यतीति ।
क्रिया­श्र­व­णा­भा­वा­द्वी­त­शोक इत्य­स्या­पे­क्षिता भवतीति क्रियाऽध्याहृता । वीतशोकः सन्नस्य महिमानमिति एति प्राप्नोतीत्यपि योजयितुं शक्यम् । गुणा­भा­श्छा­न्द­स­त्वेन स्वयंभुवे इत्यादाविव संज्ञा­पू­र्व­क­वि­धे­र­नि­त्य­त्वेन वोपपादयितुं शक्यः ॥
इति तृतीयं गुहा­प्र­वि­ष्टा­धि­क­र­णम् ॥ ३ ॥

अन्तर उपपत्तेः ॥ १३ ॥ ननु ’य’ ’एष’ इति सर्वनाम्नोः प्रकृ­त­प­रा­म­र्शि­त्व­सं­भवे तत्त्या­गा­यो­गा­द­व्य­व­हि­त­प्र­कृ­त­प­रा­म­र्शा­सं­भवे व्यव­हि­त­प्र­कृ­त­प­रा­म­र्शस्य तस्मिन् यद­न्त­स्त­द­न्वे­ष्ट­व्य­मि­त्या­दिषु संप्र­ति­प­न्न­त्वेन अग्नि­वि­द्या­व्य­व­धा­न­स्या­प्र­ति­ब­न्ध­क­त्वाद् वक्तृ­भे­देऽ­प्य­ग्न्यु­प­दि­ष्टा­र्थ­स्या­चा­र्य­बु­द्धि­स्थ­त्वाच्च कं ब्रह्मेति वाक्ये प्रकृ­त­ब्र­ह्म­प­रा­म­र्शित्वं तयेार्वक्तुं युक्तमिति तद­नु­सा­रे­णाऽ­क्षि­वा­क्यस्य ब्रह्म­प­र­त्व­नि­र्णयः स्यादि­त्या­श­ङ्क­याह -
इयं चेति ।
प्रति­बि­म्ब­नि­श्चा­य­क­त्वा­दिति ।
न चान्त­रा­दि­त्य­वाक्य इव अन्तरक्षिवाक्य इव च दृश्यत इत्येतत् शास्त्री­य­द­र्श­न­परं किं न स्यादिति -
शङ्कनीयम् ; यत आदित्ये प्रति­बि­म्बा­द­र्श­नेन अन्त­रा­दि­त्य­वा­क्य­प्र­ति­बि­म्ब­पू­र्व­पक्षो न संभवति ।
अन्त­र­क्षि­वा­क्येऽपि तत्स्वरूपे स न संभवतीति तयो­र्दे­व­ता­पू­र्व­पक्ष: कृत: । अतस्तत्र पूर्वपक्षेऽपि शास्त्रीयमेव दर्शनमन्वेष्यं जातम् , इह तु प्रतिबिम्बपक्षः संभवति ; प्रतिबिम्बे सुप्र­सि­द्ध­लौ­कि­क­द­र्श­न­स­त्त्वान्न शास्त्री­य­पू­र्व­प­क्षेऽपि शास्त्रीयमेव दर्श­न­म­न्वे­ष्य­मिति वैषम्यात् ।
अनेन सङ्ग­ति­श्चो­क्तेति ।
नन्वे­के­नो­प­क्र­म­ग­तेन पाश्चात्त्यानां बहूनां बाधनमयुक्तम् ; भूयसां स्यात्स­ध­र्म­त्व­मिति न्यायविरोधात् , भूता­दि­पा­द­व्य­प­दे­शा­द्यै­र्ब­हु­भि­रु­प­क्र­म­श्रु­त­स्यापि गायत्रीपदस्य ब्रह्मणि नीतत्वाच्च । पूर्वाधिकरणे तु गुहा­प्र­वे­शा­दी­ना­मु­प­क्र­मा­नु­सा­रेण न बाधनं कृतं , किं तु तेषामपि जीवपरमात्मपक्षे स्वार­स्य­मे­वा­स्ती­त्यु­प­पा­दि­तम् , इह तु प्रति­बि­म्ब­पू­र्व­प­द­वा­दिना ब्रह्मा­त्म­श्रु­त्य­मृ­त­त्वा­भ­य­त्व­सं­य­द्वा­म­त्व­वा­म­नी­त्व­भा­म­नी­त्व­पु­ष्क­र­प­ला­श­वा­क्या­व­ग­ता­र्चि­रा­दि­वा­क्या­व­ग­त­फ­ल­लि­ङ्गानि बहूनि बाध्यानीति – चेत् , नैष दोषः ; आत्म­श्रु­त्या­दी­ना­मि­ति­श­ब्द­शि­र­स्क­त्वेन मनो ब्रह्मे­ती­त्या­दि­व­द­त­स्मिं­स्त­द्रू­प­प्र­त्य­य­प­र­त्वा­व­ग­माद् वच­न­ब­ला­द्वै­वा­हि­क­व­धू­द­र्श­ने­ना­भ्यु­द­य­व­त्पु­ष्क­र­प­ला­श­वा­क्या­व­ग­त­फ­लस्य पञ्चा­ग्नि­वि­द्य­येव ब्रह्मविषययाऽपि प्रति­बि­म्बो­पा­स­न­याऽ­र्चि­रा­दि­वा­क्या­व­ग­त­फ­लस्य चोपपत्तेरिति भावः । अत आहेति , गतिवचनं विद्या­न्त­रा­भि­प्रा­यम् ; गते­र­व­त्य­र्थ­त्वात् , न तूक्त­प­रि­शि­ष्टा­भि­प्रा­यम् ; ’एषा सोम्य त’ इत्या­दि­नाऽ­ग्नि­वि­द्या­व­दा­त्म­वि­द्याया अपि निर­व­शे­षो­प­दि­ष्ट­त्वे­नो­प­सं­हा­रात् , अन्यथा देव­या­न­ग­ति­व­च­न­स्या­त्म­वि­द्या­या­मि­वा­ग्नि­वि­द्या­या­म­प्य­न्व­य­प्र­स­ङ्गा­दि­त्या­हे­त्यर्थः ।
सापेक्षत्वादिति ।
प्रकृताभावेन प्राग­प­र्य­व­सि­ता­भि­धा­नयोः सर्वनाम्नोः पुरु­ष­प­दा­दि­वि­शे­ष्या­न्व­या­पे­क्ष­त्वा­दि­त्यर्थः ।
छायात्मनीति ।
इति­श­ब्द­स्त­त्रा­र्थ­वि­वक्षां वारयति यत्र प्रत्ययो विवक्ष्यते , न तु यत्रो­क्ता­र्था­व­च्छे­दे­ना­प्त­व­च­न­सं­ब­न्ध­स्त­त्रापि ; यथा इति ह स्मोपाध्यायः कथयतीति इह चेावाचेति । अस्ये­ति­श­ब्द­यु­क्ते­षू­त्त­रे­ष्वपि वाक्येष्वनुषङ्ग इति न ब्रह्म­श्रु­त्या­दि­ष्व­प्य­वि­व­क्षा­प्र­सङ्गः । अतः छायात्मनि तेषां क्लेशेन योजना कार्येति भावः ।
तद् व्याख्यातीति ।
प्रसि­द्ध­व­दि­त्यादि विद्वद्विषयं प्ररो­च­ना­र्थ­मि­त्य­न्त­मु­पात्तं भाष्यं विदुषो विषयः शास्त्रत उप­ल­ब्धि­रि­त्या­दि­ग्र­न्थेन व्याख्या­ती­त्यर्थः । केषुचित् टीका­ग्र­न्थ­को­शेषु विदुषः शास्त्रत उप­ल­ब्धि­रि­त्या­दि­र्वि­ष­य­श­ब्द­र­हितः पाठो दृश्यते स तु सुगम इति न व्याख्यातः ।
वननीयानीति ।
वन सम्भक्ताविति धातो­रौ­णा­दि­क­प्र­त्य­या­न्त­तया निष्पन्नो वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु स्वर्गा­दि­भो­ग्य­व­स्तुषु पर्यवस्यतीति भावः । निमि­त्ती­कृ­त्ये­त्य­पे­क्षि­तोऽ­ध्या­हारः , तदनध्याहारे परमेश्वरस्यैव फल­भो­क्तृ­त्व­प्र­ति­पा­द­क­त्वा­प­त्ते­रिति भावः ।
नचैतदिष्टमिति टीका­या­मे­त­च्छ­ब्दा­र्थ­माह -
नचै­त­त्प्र­ती­क­त्व­मि­ष्ट­मिति ।
ननु - एष्टव्यमेव प्रतीकत्वं प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति निर्देशस्य ; नाम ब्रह्म मनो ब्रह्मे­त्या­दि­नि­र्दे­श­सा­म्यात् ।
प्राणं च हास्मै तदाकाशं चोचुरिति प्राणा­दि­श­ब्दै­र्नि­ग­म­न­द­र्श­नाच्च , ब्रह्म­प्र­धा­नत्वे हि ब्रह्मशब्देन निगमनं स्यादित्यत आह -
एषा सोम्येति ।
इदमुपलक्षणं प्रतीकत्वे कं च खं च न विजानामीति पृष्टवन्तं प्रति यद्वाव कमि­त्या­द्यु­त्त­र­म­प्य­स­म­ञ्जसं स्यात् , नच - इदमपि वैषयिकसुखे भूता­का­श­दृ­ष्टि­परं भूताकाशे वैष­यि­क­सु­ख­दृ­ष्टि­परं च किं न स्यादिति - शङ्क्यम् ; कं ब्रह्म खं ब्रह्मे­त्य­स्या­र्था­ज्ञा­नेन पृष्टवन्तं प्रति दृष्टि­वि­ध्य­न्त­र­क­थ­न­स्यो­त्त­र­त्वा­यो­गात् । अतो निग­म­न­वा­क्य­मु­प­क्र­मा­नु­रो­धात् प्राणं हिरण्यगर्भाख्यं कार्यं ब्रह्म तदाकाशं परं ब्रह्मरूपं सुखविशिष्टाकाशं चोचु­रि­त्ये­त­द­र्थ­क­मिति न तद्विरोध इत्यपि द्रष्टव्यम् ।
पूरयित्वेति ।
ननु - आचार्यस्तु ते गतिं वक्तेति वदतामग्नीनां स्थान­गु­ण­वि­शे­षान् पूर­यि­त्वे­त्य­भि­प्रायः कुतोऽवगतः ? आचार्यवाक्ये स्थान­गु­ण­की­र्त­ना­द­र्श­ना­दिति चेन्न ; तत्कीर्तनस्य प्रति­बि­म्बो­पा­स­ना­वि­ष­य­त्व­वा­दिनं पूर्वपक्षिणं प्रति सुख­त्व­वि­शि­ष्ट­ब्र­ह्मो­पा­स­ना­वि­धि­शे­ष­त्वा­सिद्धेः । य एष इति सर्वनाम्नोः प्रकृ­त­प­रा­म­र्शि­त्व­स्वा­भा­व्यात् सुख­वि­शि­ष्ट­ब्र­ह्म­प्र­क­र­ण­स­द्भा­वेऽ­क्षि­पु­रु­ष­स्त­देव प्रकृतं ब्रह्म भवेदिति स्थान­गु­ण­की­र्त­नस्य तेन तद्वि­ष­य­त्व­सिद्ध्या ततः पूर­यि­त्वे­त्य­भि­प्रा­योऽ­व­गत इति चेद् , न । अत्रैव य एष आदित्य इत्या­दि­ष्व­ग्नि­वि­द्यो­प­दे­श­वा­क्येषु तयेाः प्रकृ­त­ब्र­ह्म­प­रा­म­र्शि­त्वा­भा­वेन तद्व­दि­हा­प्यु­प­पत्तेः , यद्यग्निभिः स्ववि­द्या­ना­मा­त्म­वि­द्या­याश्च भेदेन कीर्तितत्वात् तत्र तयेाः प्रकृतपरत्वं त्यक्तं , तर्ह्यत्रापि निर­व­शे­षो­प­दि­ष्ट­त्वे­ना­त्म­वि­द्या­याम् उपसंहृतत्वात् तयो­स्त­त्य­क्त­मिति समानम् । न च - आचा­र्ये­णा­क्षि­पु­रु­षो­प­दे­शा­न­न्तरं पराञ्चं वेदे­त्य­क्षि­पु­रु­ष­वि­द­मु­प­क्षिप्य अथ यदु चैवा­स्मि­न्नि­त्या­दिना तस्या­र्च्चि­रा­दि­ग­ते­रु­प­दि­ष्ट­त्वा­द­क्षि­पु­रुषः प्रकृतं ब्रह्मैव भवेदन्यथा गत्युपदेशस्य तद्वि­ष­य­त्वा­भा­वेन गति­व­च­न­वि­रो­ध­प्र­स­ङ्गा­दिति वाच्यम् । गतिवचनस्य विद्या­न्त­रो­प­दे­श­वि­ष­य­त्वो­प­पत्तेः । तस्य प्रकृ­त­ब्र­ह्म­वि­द्या­न्व­यि­दे­व­या­न­ग­ति­वि­ष­य­त्वेऽ­प्या­चार्यः स्वयमपि विद्या­न्त­र­मु­प­दिश्य तद­न्वि­त­दे­व­या­न­ग­ति­मु­प­दे­क्ष्य­ती­त्ये­त­द­ग्नयो निश्चि­त्या­चार्यो यां गतिमुपदेक्ष्यति सा प्रकृ­त­ब्र­ह्म­वि­दोऽ­पी­त्य­भि­प्रा­ये­णा­चा­र्यस्तु त इत्या­द्य­वो­च­न्निति तदु­प­पा­द­नो­प­पत्तेः , गति­मा­त्र­व­च­न­प्र­ति­ज्ञा­नस्य स्थानगुणवचनयोः प्रकृ­त­ब्र­ह्मा­न्व­यि­त्व­क­ल्प­ना­वि­रु­द्ध­त्वाच्च , तस्मा­त्पू­र­यि­त्वेति शेषाध्याहारो न युक्त इति चेत् - उच्यते ; गति­व­च­न­प्र­ति­ज्ञानं देव­या­न­ग­ति­व­च­न­प्र­ति­ज्ञा­न­मेव ; शुक्लकृष्णे गती ह्येते श्रुतो­प­नि­ष­त्क­ग­त्य­भि­धा­नाच्चे(ब्र . सू. अ. १ पा. २ सू. १५ )त्यादि­वे­दा­र्था­भि­ज्ञ­व्य­व­हा­रेषु गतिशब्दस्य देव­या­न­वि­ष­य­नि­रू­ढ­प्र­यो­ग­द­र्श­नात् । तत्र च पूरयित्वेति न शेषाध्याहारः , किंत्वा­चा­र्यस्तु ते इति श्रुत­तु­श­ब्दा­र्थ­क­थनं , तथाचान्यैश्च कैश्चन विशेषैः सहाचार्यो गति­मु­प­दे­क्ष्य­तीति गति­वा­क्य­स्यार्थः । तच्च गतिवाक्यं ब्रह्म­प्रा­प्ति­लि­ङ्गा­त्प्र­कृ­त­ब्र­ह्म­वि­द्या­मा­त्र­वि­षयं नाग्नि­वि­द्या­वि­ष­य­म­पीति ते विशेषा आचार्यवाक्ये वक्ष्य­मा­ण­स्था­न­गु­णा­दि­रूपाः पर्यवस्यन्तीति । न च वाच्यमथ यदु चैवा­स्मि­न्नि­त्या­दिना पञ्चा­ग्नि­वि­द्या­दि­प्र­सि­द्धायां देवयानगताविह विद्यायां दह­ना­दि­श­व­क­र्मा­भा­वेऽ­प्य­र्चि­रा­दि­प्रा­प्ति­र्भ­व­तीति विशेषोऽभिधीयते अतः स एव विशे­ष­स्तु­श­ब्दार्थः स्यादिति ; सङ्कोचे कार­णा­भा­वे­नाऽऽ­चा­र्य­वाक्ये ये ये विशेषा दृष्टास्तेषां सर्वेषामपि तुश­ब्दा­र्थ­त्वो­प­पत्तेः । गति­मा­त्रा­भि­धा­न­प्र­ति­ज्ञा­न­मिति भाष्ये गति­मा­त्रा­भि­धा­न­प्र­ति­ज्ञा­ना­दिति टीकायां च मात्रशब्दो धर्म्य­न्त­र­व्य­व­च्छे­दक इति न विरोधः । अथवा श्रुति­सू­त्र­यो­र्ग­ति­शब्दः कर्म­व्यु­त्पत्त्या फलवाची , देशानां प्राप्य­फ­लो­क्ता­वेव तत्प्रा­प­क­मा­र्गा­का­ङ्क्षो­त्पा­दात् । आचार्यवाक्यं च सर्वं सोप­पा­द­क­वि­द्या­फ­ल­प­र­मेव । पुष्क­र­प­ला­श­वाक्यं तावत्फलपरमिति स्पष्टम् । सर्पिरुदकवाक्यं निर्लेपस्य ब्रह्म­ण­स्त­दु­चि­त­म­क्षि­स्था­न­मिति स्थान­गु­ण­की­र्त­न­द्वारा तत्क्र­तु­न्या­य­ल­भ्य­पा­पा­श्ले­ष­प­रम् । संय­द्वा­मा­दि­वा­क्या­न्यपि तत्क्र­तु­न्या­या­श्र­ये­णै­वो­पा­स्य­गु­णा­नु­सा­रि­फ­ल­प्र­ति­पा­द­कानि । स एतानिति वाक्य­म­ना­वृ­त्ति­वाक्यं च पुन­रा­वृ­त्ति­क्ले­श­र­हि­त­ब्र­ह्म­लो­क­प्रा­प्ति­फ­ल­कम् । अर्चि­रा­दि­वा­क्यानि तत्प्रा­प­क­मा­र्गो­प­दे­शेन फल­प्रा­प्त्यु­प­पा­द­का­नीति सर्व­मि­द­मा­चा­र्य­वाक्यं गति­मा­त्रा­भि­धा­न­प­र्य­व­सा­यीति न भाष्यटीकाविरोधः । आत्मानं जगतः सूर्यमिति सूर्या­न्त­र्या­म्य­भि­प्रा­यम् ; सूर्य आत्मा जग­त­स्त­स्थु­ष­श्चेति श्रुतेः ।
तस्माद्युक्तं पूरयित्वेति ।
हिर­ण्य­ग­र्भ­भू­त­मिति ।
आदित्यस्य ब्रह्मा­ण्डो­द­र­जा­त­हि­र­ण्य­ग­र्भ­रू­प­त्व­म­स­दे­वे­द­मग्र आसी­त्त­त्स­दा­सी­त्त­त्स­म­भ­व­त्त­दाण्डं निर­व­र्त­ते­त्या­दि­च्छा­न्दो­ग्यो­प­नि­ष­द्व­च­न­जा­तेन मृते द्विधा­भ­व­ना­दार्ते ब्रह्माण्डे जातो मार्तण्ड इत्या­दि­त­द्वा­चिनो मार्तण्डशब्दस्य पौरा­णि­क­व्यु­त्पा­द­नेन ’विद्यासहायो भगवान् यस्यासौ मण्डलान्तरे । हिरण्यगर्भः पुत्रोऽ­सा­वी­श्वरो दृश्यते परः ॥’ इत्या­दि­पु­रा­ण­व­च­नेन चावगतम् । केचित्तु - आत्मपदं केवलपरमात्मपरं पर­मा­त्मा­न­मु­पास्य सत्यलोके हिर­ण्य­ग­र्भ­मा­दित्यं प्राप्नुवन्ति ; आत्म­श­ब्द­मा­त्रस्य सूर्या­न्त­र्या­मि­प­र­त्व­क­ल्प­का­भा­वा­दिति - व्याचक्षते ।
ज्योतिः सूर्य इति ।
अग्नि­र्ज्या­ति­रिति स्मृतौ क्रमो न विवक्षित इति भावः ॥
इति चतुर्थम् अधिकरण्म् ॥ ४ ॥

अन्त­र्या­म्य­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात् ॥ १८ ॥ श्लोक­नि­र­स­नी­य­व्य­भि­चा­र­श­ङ्का­स्प­द­म­नु­मानं दर्शयति -
अशरीर इति ।
इदं हेतुगर्भं विशेषणं परमेश्वरस्यापि नियम्येन पृथिव्यादिना शरीरवत्त्वमस्ति ; यस्य पृथिवी शरी­र­मि­त्या­दि­श्रुतेः , अतो हेत्व­सि­द्धि­प­रि­हा­रार्थं निय­म्या­ति­रि­क्त­श­री­र­रा­हित्यं हेतुरिति वक्त­व्य­मि­त्या­पाद्य तत्र व्यभि­चा­र­मा­श­ङ्कते नन्विति ।
पारिशेष्यादिति ।
सोऽपि नान्तर्यामीति पूर्व­वा­क्या­द­न्त­र्या­मी­त्य­नु­षङ्गः । तस्य पारिशेष्याज्जीव एवेति समनन्तरं वक्ष्यमाणेन संबन्ध इत्यर्थः , न तु पारिशेष्याज्जीव एवेत्यस्य , तस्मा­ज्जी­वा­त्मै­वा­न्त­र्या­मी­त्यु­प­सं­हा­र­वाक्ये वक्ष्य­मा­णे­ना­न्त­र्या­मि­प­देन संबन्ध इत्यर्थः ; तत्रापि जीवा­त्म­प­द­श्र­व­णा­त्तेन पौन­रु­क्त्या­पत्तेः , अमृ­त­त्वा­द्यु­प­पा­द­कै­र­न्य­थे­त्या­दि­वा­क्यै­र्व्य­व­हि­त­स्यास्य तत्रा­न्व­या­स­म्भ­वाच्च ।
ननु तस्मा­ज्जी­वा­त्मै­वे­त्यु­प­सं­हारो न युक्तः ; पृथि­व्या­दि­श­री­र­काणां तत्त­द­धि­दे­व­ता­त्मनां श्रोतु­गौ­त­म­स्या­त्म­न­श्चै­क­त्वा­भा­वेन पृथि­व्या­दि­प­र्या­ये­ष्वेष त आत्मे­त्य­स्या­न­न्व­यात् , अतः पूर्व­प­क्षा­भा­सोऽ­य­मि­त्या­श­ङ्क्या­व­ता­र­यति -
पूर्वपक्षमिति ।
अदृष्टो द्रष्टेत्यादौ दर्श­न­श्र­व­ण­म­न­न­वि­ज्ञा­नानि यद्यात्मनो वाऽरे दर्शनेन श्रवणेन आत्मनि खल्वरे दृष्टे श्रुते मते इत्या­दि­श्रु­त्य­न्त­र­प्र­त्य­भि­ज्ञा­ना­दा­त्म­वि­ष­य­सा­क्षा­त्का­र­श्र­व­ण­म­न­न­नि­दि­ध्या­स­नानि , यदि वा चक्षुः­श्रो­त्र­म­नो­बु­द्धि­क­र­ण­क­ज्ञा­नानि , उभयथापि तद्वत्त्वं तदविषयत्वं च जीवे एवोपपद्यते , न पर­मा­त्म­न्य­त­द्वति तद्विषये च । अत एष त आत्मेति स त आत्मेति च सर्व­ना­म्नो­स्त­ज्जा­ती­य­वि­ष­यत्वं कल्पयितुं युक्तम् , पूर्व­स्मि­न्व­त्सरे ये भुक्तास्त एव शालयो भुज्यन्ते तदेवौषधं सेव्यत इत्यादिषु व्यवहारेषु सर्व­ना­म्न­स्त­ज्जा­ती­य­वि­ष­य­त्व­स्यापि दर्शनादित्याशयः ।
ननु नियन्तुरपि जीवस्य निय­न्त्र­न्त­र­नि­य­म्यत्वे तस्यापि निय­न्त्र­न्त­र­नि­य­म्यत्वं स्याद् , निय­न्तृ­त्वा­वि­शे­षा­दि­त्य­न­व­स्था­पा­दने जीव­प­र­यो­स्ता­त्त्वि­का­भे­दो­प­न्या­स­मा­त्रेण परिहारो न लभ्यते , सत्यपि तात्त्विकाऽभेदे जीवपरयोरिव पर तन्नियन्त्रोरपि कल्पितभेदेन निय­म्य­नि­या­म­क­तो­प­प­त्ते­रि­त्या­श­ङ्क्याह -
औपाधिकस्य हीति ।
जीवनियन्ता परो यद्यौपाधिकः परतन्त्रः स्यात् , तदा भृत्य­नि­य­न्तु­र­मा­त्यस्य राजेव जीवनियन्तुः परस्याप्यन्यो निय­न्ताऽऽ­पा­द्येत न त्वेवम् , यतः पर­मे­श्व­रोऽ­नौ­पा­धिकः उपा­ध्या­य­त­पा­र­त­न्त्र्य­वान्न भवति । तथाऽ­श्र­व­णा­दि­त्या­शयः ।
नन्वभेदेऽपि जीव­प­र­यो­र्भे­द­व्य­व­हारो दृष्ट इत्याशङ्क्य व्याचष्टे -
औपा­धि­क­भे­दा­भा­वेऽ­पीति ।
जीवस्य स्वस्मा­दौ­पा­धि­क­भे­दोऽपि नास्तीत्यर्थः । लौकिके कर्तरि । डित्थ इति पुरु­षा­न्त­रा­भि­प्रा­यम् ॥
इति पञ्चमम् अन्त­र्या­म्य­धि­क­र­णम् ॥ ५ ॥

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः ॥ २१ ॥ तत्त्व­तोऽ­न्य­था­भावः परिणामः अत­त्त्व­तोऽ­न्य­था­भावो विवर्त्त इति वा धर्मि­स­म­स­त्ता­कोऽ­न्य­था­भावः परि­णा­म­स्त­द­स­म­स­त्ताको विवर्त इति वा परि­णा­म­वि­व­र्त­यो­र्भेदे स्थिते यदि विश्वस्य भूत­यो­नि­प­रि­णा­म­त्व­म­भ्यु­प­ग­म्यते , यदि वा तद्विवर्तत्वम् , उभयथापि भूत­यो­नि­र्ज­डाऽ­ङ्गी­कार्या कन­क­रु­च­क­स्र­ग्भु­ज­ङ्गा­दि­लो­क­दृ­ष्टो­र्ण­ना­भ्या­दि­श्रु­त्यु­पा­त्त­दृ­ष्टा­न्ता­नु­सा­रेण । यथा सुदीप्तादिति मन्त्रो­पा­त्त­स­रू­प­वि­शे­ष­णा­नु­सा­रेण च विका­र­सा­रू­प्या­व­श्य­म्भा­वा­दि­त्य­भि­प्रे­त्या­नु­मा­न­माह -
भूतयोनिर्जडेति ।
द्विती­या­र्द्ध­मिति ।
योनिशब्दो निमित्तं चेदि­त्य­र्द्ध­मि­त्यर्थः ।
ब्रह्मपरत्वं दुर्निवारमिति ।
ब्रह्मण एव जग­त्क­र्तृ­त्वा­दि­त्या­शयः । निमित्तवाचिनो योनि­श­ब्द­स्या­दृ­ष्ट­द्वारा निमित्ते जीवेऽपि वृत्तिः संभवति ; अतो भूत­यो­नि­र्ब्र­ह्मै­वेति निर्ण­य­हे­तु­र्ना­स्ती­त्य­वि­नि­ग­मेन पूर्वपक्षसंभव उपपादितः ।’अक्षरात् परतः पर’ इति श्रुत­ब्र­ह्म­ग­त­प­र­त्वा­व­धि­त्व­लि­ङ्गेन भूतयोन्यक्षरं ब्रह्म न भवति , किं तु जीव एवेति निर्णयेनापि पूर्वपक्षः संभवतीति द्रष्टव्यम् ।
उपा­दा­न­त्व­प्र­त्य­भि­ज्ञा­लि­ङ्गा­व­ग­मि­तै­क­वा­क्य­भा­व­म­न्त्र­प्र­ति­पन्नः सर्वज्ञ एव भूतयोनिरिति वाक्या­र्था­नु­सा­रे­णा­क्षरं सर्वविदित्यर्थे सर्व­वि­त्त्वा­न्वयो विधेयत्वेन विवक्षित इति दर्शयितुं भवेदित्यस्यैव भिन्नक्रमेण योजनां दर्शयति -
विश्वयोनिरिति ।
एवं च नाचेतनमिति शेषस्य सर्व­वि­त्त्व­लि­ङ्ग­वि­रो­धा­न्ना­चे­तनं प्रधानं विश्वयोन्यक्षरं , किं तु पर­मा­त्मै­वे­त्यर्थ इत्याशयः ।
न चाक्षरशब्देति ।
अक्षरात्परत इत्यत्र प्रत्यभिज्ञानं श्रुति­प्र­त्य­भि­ज्ञा­न­त्वात् तथाऽ­क्ष­रा­त्सं­भ­व­तीह विश्वं तथाऽ­क्ष­रा­द्वि­विधाः सोम्य भावा इत्यतः प्रत्य­य­कृ­त­स्यापि विशेषस्याभावेन तदै­क­रू­प्य­प्र­त्य­भि­ज्ञा­न­त्वाच्च सर्वो­पा­दा­न­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­नाद् बलवदित्याशयः । प्रथमश्रुते यः सर्वज्ञ इति वाक्ये इति । लिङ्ग­प्र­त्य­भि­ज्ञा­न­मेव प्राथ­मि­क­त्वा­त्पुंঁ­ल्लि­ङ्ग­नि­र्दि­ष्ट­भू­त­यो­नि­प­रा­म­र्शि­य­च्छ­ब्द­रूप सर्व­ना­म­श्रु­त्यौ­प­सं­हा­रि­का­क्ष­र­श्रु­ति­प्र­त्य­भि­ज्ञा­नु­गृ­ही­त­त्वा­त्त­स्मा­दि­त्यु­पा­दा­न­प­ञ्च­मी­श्रु­ति­प्र­त्य­भि­ज्ञा­नु­गृ­ही­त­त्वाच्च ततो बलवदित्याशयः । एतेन - प्राथम्यादरणे ऊर्ण­ना­भ्या­द्य­चे­त­न­प­रि­णा­मि­दृ­ष्टा­न्ती­क­रणं प्रधा­न­लि­ङ्ग­मु­पा­दा­न­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­पे­क्ष­याऽपि बलवत्स्यात्तस्य ततोऽपि प्राथ­मि­क­त्वा­दिति शङ्का निरस्ता ।
द्विती­या­र्द्ध­मिति ।
द्वितीयार्द्धे अना­दि­वा­स­नो­द्भू­त­इ­त्यं­श­मि­त्यर्थः ।
ननु नात्र प्रधानं नामे­त्या­दि­भा­ष्येण सांख्यै­र­नु­मा­न­क­ल्प्य­त्वे­नोक्तं स्वतन्त्रं प्रधानं नाभ्युपगम्यत इत्युक्तम् , तत्र को हेतु­रि­त्या­का­ङ्क्षा­या­माह -
प्रधा­न­स्या­ग­मि­क­त्वे­नेति ।
कल्पनाया दृष्टा­नु­सा­रि­त्वात् प्रकृ­ति­वि­का­र­सा­रू­प्य­कृ­त्स्न­प्र­स­क्त्या­दि­दोषो दुष्परिहरः स्यादित्यर्थः ।
मूर्धा­दि­ब­हु­श्रु­ती­ना­मिति ।
ननु मूर्धा­दि­श्रु­ति­वि­रोधो हिर­ण्य­ग­र्भ­प­क्षेऽपि तुल्यः , न हि तं प्रत्यपि द्युप्रभृतयः संस्था­न­वि­शे­षा­भि­व्य­ङ्ग्य­मू­र्ध­त्वा­दि­जा­ति­युक्ता भवितुमर्हन्ति । सर्वा­त्म­त्व­वि­व­क्षायां तथात्वकल्पनं तु परमात्मानं प्रत्यपि समानं , प्रत्युत परमात्मनो मुख्यं सार्वात्म्यं , हिरण्यगर्भस्य तु सर्व­प्रा­णा­धि­ष्ठा­न­त्वा­द­धि­ष्ठा­त्र­धि­ष्ठे­य­यो­र­भे­दो­प­चा­रात् प्राणात्मना सर्व­भू­ता­नु­ग­त­त्व­रूपं सार्वात्म्यं कथञ्चिदमुख्यं कल्पनीयम् । अतो मुख्य­सा­र्वा­त्म्या­व­ल­म्बनं मूर्धादिकल्पनं परमात्मन्येव समञ्जसं न ततोऽन्यत्र ।
अत एवाग्रिमाधिकरणे देव­ता­प­क्ष­नि­रा­क­र­णार्थं भाष्यं -
देवतायाः सत्यप्यैश्वर्ये न द्युमू­र्ध­त्वा­दि­क­ल्पनं संभवति ; अकारणत्वादिति ।
न च - कल्पनमपि श्रुताऽ­पा­णि­पा­द­त्वा­दि­वि­रु­द्धस्य रूपवत्त्वस्य न युज्यत इति - वाच्यम् ; शाण्डि­ल्य­वि­द्या­या­मु­पा­स­नार्थं श्रुत­ज्या­य­स्त्व­वि­रु­द्धा­णी­य­स्त्व­क­ल्प­ना­द­र्श­नात् , न च - तथा कल्प­न­म­प्यु­पा­स­नार्थे सगुणे एव युज्यते न निर्गुणे इति - वाच्यम् ; निर्गुणेऽपि सार्वा­त्म्य­प्र­ति­प­त्त्यर्थं तत्क­ल्प­नो­प­पत्तेः , तस्मिन्नपि प्रति­प­त्त्यु­पा­य­तया प्रिय­शि­र­स्त्व­र­थ­र­थि­भा­वा­दि­क­ल्प­ना­द­र्श­नात् , सगुणे संभवतस्तस्य निर्गु­ण­प्र­क­र­णेऽपि स्तुत्यर्थं तदु­प­न्या­सेा­प­प­त्तेश्च , निर्वि­शे­ष­ब्र­ह्म­प्रा­प्ति­फ­ल­भू­म­वि­द्या­प्र­क­रणे स एकधा भवतीत्यादिना सवि­शे­ष­ण­स­गु­ण­वि­द्या­फ­लेन स्तुति­द­र्श­ना­दिति - चेत् , सत्यम् ; अन्ये पुन­रि­त्या­दि­भा­ष्येण येषां मतमुपन्यस्तं तेषामित्थमाशय इत्या­चा­र्यै­स्त­दा­शयः परं वर्णितः । स्वाभिमतं तु द्युमू­र्ध­त्वा­दि­क­ल्प­न­मेव । अत एवा­चा­र्यै­र्हृ­दयं विश्वमित्यत्र हृदयं मन इति व्याख्याय विश्वस्य मन­स्त्व­क­ल्प­नायां हेतुः संबन्धो दर्शितस्तन्मनसा सृष्टत्वादिति । न चाग्नि­र्मू­र्धेति मन्त्रस्य परमात्मपरतायां यस्या­ग्नि­रा­स्य­मि­त्या­दि­स्मृ­ती­ना­मे­त­न्मू­ल­त्व­सं­भ­वेन स्मर्य­मा­ण­म­नु­मानं स्यादि­त्य­ग्रि­मा­धि­क­र­ण­सू­त्र­वि­रोधः शङ्कनीयः ; अस्य हिर­ण्य­ग­र्भ­प­र­ता­या­मपि तासां पुरु­ष­सू­क्त­मू­ल­त्व­श­ङ्का­न­पा­येन ”तस्य ह वा एत­स्ये”त्या­दि­वै­श्वा­न­र­वि­द्या­ग­त­वा­क्य­मू­ल­त्वाऽ­सिद्ध्या तद्वि­रो­ध­ता­द­व­स्थ्यात् । न च - पुरुषसूक्ते द्युप्रभृतीनां शीर्षादिभ्यो जननश्रवणं स्मृतिषु तत्ता­दा­त्म्य­स्म­र­ण­मिति न तासां पुरु­ष­सू­क्त­मू­ल­त्व­श­ङ्का­व­काश इति - वाच्यम् ; अग्निर्मूर्धेति मन्त्रेऽपि पद्भ्यां पृथ्वीति श्रवणात् तत्र चैतस्माज्जायते प्राण इति पूर्व­म­न्त्र­ग­तस्य जायत इत्यस्य तस्मादग्निः समिधो यस्य सूर्य इत्यु­त्त­र­म­न्त्रेऽ­प्य­नु­व­र्ति­ष्य­मा­ण­स्या­नु­वृ­त्त्यौ­चि­त्येन पद्भ्यां पृथ्वी जायत इत्यर्थलाभात् । यद्युच्येत अग्नि­र्मू­र्धे­त्या­दि­सा­मा­ना­धि­क­रण्यं पद्भ्यां पृथ्वीति वैयधिकरण्यं चेत्यु­भ­य­मु­भ­य­त्रा­प्यु­प­ल­क्ष­णम् । तथा च द्युप्रभृतिकं सर्व­मू­र्धा­द्य­व­य­व­ता­दा­त्म्येन मूर्धा­द्य­व­य­व­जा­त­त्वेन चोपासनीयमिति तादा­त्म्यो­पा­स­नां­श­म­पेक्ष्य स्मृतिमूलत्वं प्राप्नुयादिति , तथो­प­ल­क्ष­ण­त्व­क­ल्पनं पुरुषसूक्तेऽपि तुल्यम् ; तत्रापि ब्राह्मणोऽस्य मुख­मा­सी­दि­त्या­दि­सा­मा­ना­धि­क­र­ण्य­श्र­व­णात् । तस्मा­त्पु­रु­ष­सू­क्तस्य स्मृति­मू­ल­त्व­सं­भ­वेऽपि विनिगमनाविरहाद् वैश्वा­न­र­वा­क्य­मपि तन्मूलं भवेदित्याशयमेव स्मर्य­मा­ण१­सू­त्र­मु­प­पा­द­नी­यम् । तथो­प­पा­द­न­म­ग्नि­र्मू­र्धेति मन्त्रस्य तन्मूलत्वेऽपि तुल्यम् । किं चास्यापि मन्त्रस्य स्मृति­मू­ल­त्व­म­वश्यं वाच्यम् ; चन्द्रसूर्यौ च नेत्रे इति स्मृत्यं­शा­र्थस्य पुरु­ष­सू­क्त­वै­श्वा­न­र­वि­द्या­भ्या­म­ला­भात् । तस्मादयं मन्त्रः परमात्मपर इत्येव भाष्यकारमतम् । स्वम­त­मु­प­न्य­स्य­तीति भाष्यकारमतत्वेन टीकायामवतारणं तु ज्ञेये परब्रह्मणि रूपो­प­न्या­सा­ङ्गी­कारे रूपवत्वं पारमार्थिकं स्यादिति बिभ्यतां परितुष्ट्यर्थम् । वस्तुतस्तु -
सुतलं चरणद्वन्द्वं पृथ्वी जघनमण्डली ।
यत्की­र्ते­र्म­ध्य­मा­काशं सुमनोवासभूः शिरः ॥
इति श्लोके कीर्तेः सर्व­ग­त­त्व­प्र­ति­प­त्त्यर्थं पाता­ल­च­र­ण­त्वा­दी­ना­मिव ब्रह्मणः सर्वा­त्म­त्व­प्र­ति­प­त्त्यर्थं द्युमू­र्ध­त्वा­दीनां कल्पनेत्येवं टीका­का­रा­णा­म­प्य­भि­म­त­मि­त्य­नु­सं­धे­यम् ।
आयादित्यत्र लङो लिङ­र्थ­त्व­क­ल्प­नायां प्रमाणमाह -
गच्छेदिति वाक्यशेषादिति ।
अध्याहार इति ।
किंशब्दाध्याहार इत्यर्थः । कृतेन कर्मणा अकृतो लोको नास्तीति योजनायां लोक­त्वा­व­च्छिन्नः सर्वोऽपि कृतक इति परी­क्षा­स्व­रू­पा­ला­भाच्च नास्त्यकृत इति भिन्नं वाक्यं कृत्वा वाक्य­द्व­य­स्या­पे­क्षि­त­लो­क­किं­श­ब्दा­ध्या­हा­रेण पूरणं कृतम् ।
अतोऽ­कृ­त­ज्ञा­ना­र्थ­मिति ।
अकृतं ब्रह्म ।
यस्येत्यर्थे इति ।
अस्यशब्दस्य हिरण्यगर्भपक्षे प्रकृ­त­प­रा­म­र्शि­त्वा­भा­वाद् एष सर्व­भू­ता­न्त­रा­त्मेति प्रक­रि­ष्य­मा­ण­प­रा­म­र्श­सा­म­ञ्ज­स्यार्थं यस्येत्यर्थे वृत्तिरुक्ता । कस्मै । एकस्मा इत्यर्थः । एको देवोऽत्र ब्रह्मै­वे­त्य­र्थतो ब्रह्मण इति व्याख्यातम् ।
इति षष्ठम् अदृ­श्य­त्वा­द्य­धि­क­र­णम् ॥ ६ ॥

वैश्वानरः साधा­र­ण­श­ब्द­वि­शे­षात् ॥ २४ ॥
जाठरोऽन्यो वेति ।
अन्यशब्देन भूतदेवतापक्षौ संगृहीतौ । नन्वत्रादित्यो वैश्वानर इत्यपि पूर्वपक्षः संभवति ॥ प्रश्नोपनिषदि ’स एष वैश्वानरो विश्वरूपः प्राणोऽ­ग्नि­रु­दय’ इत्या­दि­त्येऽ­प्य­ग्नि­वै­श्वा­न­र­श्रु­ति­द­र्श­नात् , । तदनन्तरं ’तदे­त­दृ­चाऽ­भ्यु­क्त­मि­त्यु­प­क्रम्य सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजा­ना­मु­द­य­त्येष सूर्य’ इति सौरमन्त्रस्य वैश्वा­न­र­वि­ष­य­त्वे­नो­दा­ह­र­णात् , तत्र स एष इति सर्व­ना­म्नो­रा­दित्यो ह प्राण इति प्रकृ­ता­दि­त्य­प­र­त्वा­च्चेति - चेद् , उच्यते ; यत्र पर­मा­त्म­नोऽ­न्य­स्मि­न्न­ग्नि­वै­श्वा­न­र­शब्दौ पूर्वपक्षिणः सिद्धान्तिनश्च संप्रतिपन्ना स पूर्व­प­क्षी­क­र्तव्यः । न च तत्रादित्ये सिद्धान्तिनस्तौ संप्रतिपन्नौ वैश्वा­न­र­वि­द्या­या­मिव तत्रा­प्य­ग्रि­म­सं­द­र्भा­नु­सा­रेण तयो: परमात्मपरत्वात् , ’अथेतरेण तपसा श्रद्धया विद्य­याऽऽ­त्मा­न­म­न्वि­ष्या­दि­त्य­म­भि­जा­यते एतद्वै प्राणा­ना­मा­य­त­न­मे­त­द­मृ­त­म­भ­य­मे­त­त्प­रा­य­ण­मे­त­स्मान्न पुनरावर्तत’ इति अग्रे श्रवणात् । अनेन संदर्भेण सर्व­प्रा­ण­स­म­ष्टि­भू­त­त्रै­लो­क्य­श­री­र­हि­र­ण्य­ग­र्भ­रू­पा­प­न्ना­दि­त्या­न्त­र्या­मिणं पर­मा­त्मा­न­मु­पा­सी­नस्य तत्प्रा­प्ति­र­पु­न­रा­वृ­त्ति­फ­लो­च्यत इत्येतत् ’अन्तर उपपत्तेः’ (ब्र . सू. अ. १ पा. २ सू. १४ ) इत्य­धि­क­र­णा­व­सा­न­कृ­ते­ना­चा­र्य­व्या­ख्या­नेन स्पष्टम् । अतो यद्यपि वैश्वा­न­र­वि­द्या­या­मिव तत्रा­प्य­ग्नि­वै­श्वा­न­र­श­ब्दा­व­न्य­प­रा­विति पूर्वपक्षी मन्येत , तथापि सिद्धान्तिनो न तत्सं­प्र­ति­प­त्ति­र­स्तीति तथा पूर्वपक्षो भाष्यटीकयोर्न कृतः । यदि तु ’वैश्वानरं केतु­म­न्हा­म­कृ­ण्वन् यो भानुना पृथिवीं द्यामु­ते­मा’मि­त्या­दि­म­न्त्रा­नु­सा­रेण अग्निरेवादित्य इति­अ­ग्नि­वा­च­का­वेव सन्ता­व­ग्नि­वै­श्वा­न­र­श­ब्दा­वा­दि­त्येऽपि प्रवृत्ताविति पूर्वपक्षी मन्येत , तदाऽ­ग्नि­पू­र्व­प­क्षे­णै­वा­दि­त्य­पू­र्व­प­क्षोऽपि लब्ध इति तस्य पृथगप्रदर्शनम् । तस्यापि पृथक् प्रदर्शनीयत्वे भाष्य­टी­क­यो­र्जा­ठ­रा­दि­प­क्ष­प्र­द­र्शनं तस्या­प्यु­प­ल­क्ष­णा­र्थम् । अत एवाचार्यैरन्यो वेति सामान्येन पक्षान्तराणां निर्देशः कृतः ।
देहमध्यमिति ।
सम्यगुपचितो देह इति व्युत्पत्त्या संदेहशब्दो नाभि­क­ण्ठ­म­ध्य­वाची ।
वैश्वानरोहमिति मन्यत इतीति ।
अहं­ग्र­हो­पा­स­क­त्वात् को न आत्मे­त्यु­प­क्र­मा­च्चेति भावः ।
हृदयाद्धीति ।
सुषुप्तौ हृदये निलीनं मनः प्रबोधे ततो निष्क्रामत् प्रणीतमिव भवतीत्यर्थः ।
यथा हीति ।
यद्य­प्य­पू­प­वि­शे­ष­रू­प­व्य­व­स्थि­तै­का­र्थ­वा­चि­पु­रो­डा­श­शब्दो निश्चितार्थ एव न त्वने­का­र्थ­सा­धा­र­ण्येन वैश्वा­न­र­श­ब्द­व­द­नि­श्चि­तार्थः । न च - एका­र्थ­त्वेऽ­प्या­का­ङ्क्षि­त­वि­शे­षाऽ­नि­श्च­योऽ­स्तीति - वाच्यम् ; पुरोडाशं पर्यग्नि करोतीति वचनेन पर्य­ग्नि­क­र­ण­स्ये­वा­नेन चतु­र्धा­क­र­ण­स्यापि सर्व­पु­रो­डा­श­वि­ष­य­त्वो­प­पत्त्या स्वतो विशे­षा­का­ङ्क्षा­वि­र­हा­दिति – चेत् , सत्यम् ; एकयाऽनेकया षा शक्त्या साधारणस्य शब्दस्य व्यव­स्थि­तै­का­र्थ­स­म­र्प­क­शा­खा­न्त­र­वा­क्या­नु­सा­रेण विशे­ष­प­र्य­व­सा­न­मात्रे दृष्टान्तोऽयम् , निश्चि­ता­र्थे­ने­त्ये­त­द­प्या­ग्ने­य­रू­प­व्य­व­स्थि­तै­का­र्थ­नि­श्च­या­भि­प्रा­यम् । ननु - आग्नेयशब्दो यथा निश्चि­त­वि­शे­षार्थः , एवं पुरोडाशशब्दोऽपि निश्चि­त­सा­मा­न्यार्थ इत्येतदनुसारेण विशेषशब्द एवै­न्द्रा­ग्ना­ग्नी­षो­मी­य­पु­रो­डा­श­सा­धा­रणः किं न स्यात् ? अविशिष्टो हि तयो­र­प्य­ग्नि­सं­बन्धः ; अग्नेर्ढगिति प्रतिपदविहितस्य देवतातद्धितस्य बलीयस्त्वेऽपि पुरोडाशशब्दस्य सङ्को­च­रू­पै­क­दे­श­बा­ध­न­प­रि­हा­राय ’सर्व­त्रा­ग्नि­क­लिभ्यां ढगिति’ स्मृत­सं­ब­न्ध­सा­मा­न्य­त­द्धि­ता­श्र­य­णो­प­पत्तेः । यद्यपि ’चतुरवत्ती यजमानः पञ्चावत्तैव वपा कार्ये’त्यत्र हि पाशु­क­ह­वि­र्वि­शे­ष­वा­चिनो वपाशब्दस्य ’एका­द­श­प­शो­र­व­दा­नानि’ ’तानि द्विरवद्यती’ति पाशु­क­ह­वि­र्मा­त्र­प­ञ्चा­व­दा­न­ग­म­क­प्र­कृ­ति­प्रा­प्त­व्य­व­दा­न­पु­न­र्वि­ध्य­नु­सा­रेण पाशु­क­ह­वि­स्सा­मान्ये लक्षणा समाश्रिता , इह तु पुरो­डा­श­सा­मा­न्य­च­तु­र्धा­क­र­ण­प्र­ति­पा­द­क­प्र­त्य­क्ष­व­च­ना­नु­सा­रेण संब­न्ध­सा­मा­न्य­वा­चि­त्व­स­मा­श्र­यणं कथं न स्यात् ? यत्र ह्युपादानाय विशेषाकाङ्क्षा , तत्रैव सामा­न्य­श­ब्द­स्या­न्यत्र श्रुतविशेषे पर्यवसानं यथा पशुशब्दस्य च्छागे । एवमेव मीमां­स­क­प्र­वा­दोऽपि -
सामा­न्य­वि­धि­र­स्पष्टः संह्रियेत विशेषतः ।
स्पष्टस्य तु विधे­र्नै­व­मु­प­सं­हार इष्यते ॥
इति ।
अस्प­ष्ट­त्व­म­नु­ष्ठा­नाय विशेषाकाङ्क्षं , तद­ना­का­ङ्क्षा­या­मपि विशेषपर्यवसाने ’न ब्राह्मणं हन्यादि’ति निषेधस्यापि ’नात्रेयं हन्यादि’ति श्रुत­वि­शे­ष­नि­षेधे पर्यवसानं स्यादिति - चेत् , उच्यते ; ’तं बर्हिषदं कृत्वा पुरोडाशं चतुर्धा करोती’ति शतपथवाक्यं न चतु­र्धा­क­र­ण­वि­धि­परं , किं तु शाखा­न्त­र­श्रु­ता­ग्ने­य­वा­क्य­प्राप्तं तदनूद्य तं बर्हिषदं कृत्वे­त्ये­त­द्वि­धि­परं , तदपि वा शाखा­न्त­र­प्रा­प्त­म­नू­द्यो­भ­यो­रपि क्रमविधिपरम् । अतो यथा­प्रा­प्त्य­नु­वाद इति पुरोडाशशब्द आग्नेयपर इति भवतीदं वाक्या­न्त­र­श्रु­त­वि­शे­ष­प­र्य­व­सा­नो­दा­ह­र­णम् ;
स एषोऽग्निरिति वाक्यस्येति ।
प्रथमाम्नातस्य स एषोग्निरिति वाक्य­स्या­र्थ­त्वे­ना­प्यु­द्दे­श्य­क­पु­रु­ष­त्व­वे­द­न­म­न­न्त­रा­म्नाते स यो हैतमिति वाक्येऽनूद्यत इत्यर्थः ।
विश्वेषां वा अयं नर इति ।
योगाद्रूढे: प्राबल्येऽपि विश्वस्य वसु­रा­टो­रि­त्य­नु­वृत्तौ ’नरे संज्ञायामि’ति सूत्रेण विश्वशब्दस्य नरे उत्तरपदे संज्ञायामेव दीर्घविधानेऽपि ब्रह्मै­क­स्वा­र­स्य­व­न्नै­रु­क्त­नि­र्व­च­न­सा­र्थ­क­त्वाय योगं समा­श्रि­त्या­न्ये­षा­म­पीति केशा­के­शी­त्या­दा­विव दीर्घ­त्व­मु­प­पा­द­नी­य­मिति भावः ।
शब्दोपात्तेति ।
भ्रुवो घ्राणस्य च यः संधिरित्यत्र भ्रूघ्राणशब्दौ नामनिर्वचनमुखेन दर्शि­त­यो­र्व­र­णा­ना­स्यो­रि­दं­तया विवरणार्थमिति संख्या­वि­शे­षाऽ­वि­व­क्षया विव­र­णी­य­प्रा­ति­प­दि­का­र्थ­मा­त्र­वि­व­क्षा­या­मौ­त्स­र्गि­क­मे­क­व­चनं युज्यते ; संख्या­वि­शे­षाऽ­वि­व­क्षा­या­मे­क­व­च­न­मु­त्सर्ग इति शाब्दिकन्यायात् । अतोऽत्र द्वयो­रे­क­व­च­न­मु­प­प­द्यते स्त्रीलि­ङ्गे­नाऽ­प्र­कृते तूपा­स­ना­वि­ज्ञा­नेन स्त्रीलि­ङ्ग­मु­प­पा­द­यितुं शक्यम् । न चोपा­स­ना­वि­ज्ञा­ने­क­स्मि­न्नेव वरणाया नास्याश्च मध्य इति चकारार्थः समुच्चयो मध्य­श­ब्दा­र्थ­श्चो­प­पा­द­यितुं शक्य इति भावः ।
देवाः सूर्यादय इति ।
चक्षुर्विश्वरूप इत्यादिनेाक्ता वैश्वा­न­रा­व­य­व­भूता: सूर्यादयो यदा प्रादेशमात्रमिव प्राप्ता भवन्त्युपासनया तथोपासिता भवन्तीति यावत्तदा सुष्ठु सम्यगुपासनीयेन प्रकारेण विदिता भवन्तीत्यर्थः । अत्र - द्युमू­र्ध­त्वा­दीनां द्युलो­का­दि­व्या­पिनि ब्रह्मणीव जाठरे कल्प­ना­मा­त्र­स्या­प्या­ल­म्ब­ना­भा­वेन तेषां जाठ­र­व्या­वृ­त्त­ब्र­ह्म­लि­ङ्ग­त्वेऽपि प्रादे­श­मा­त्र­त्व­श्व­व­णेन तेषा­मु­पा­स­क­मू­र्धा­दिषु कल्प­नी­य­त्व­प्र­तीतेः । तथा कल्पनायाश्च स्वोष्मणा देहव्यापिनि जाठरेऽपि सम्भवाद् वेदि­ब­र्हि­र्गा­र्ह­प­त्या­दि­क­ल्प­ना­प्र­ति­रु­द्ध­त्वा­च्चा­स्प­ष्टता ।’को न आत्म’ ’किं ब्रह्मे’ति विमृशतां प्राची­न­शा­ला­दी­ना­मग्रे द्युप्रभृतिषु वैश्वा­न­रा­त्म­दृ­ष्टि­र्व­र्णि­तेति तदनुसारेण तदी­य­व­च­न­ग­त­यो­रा­त्म­ब्र­ह्म­श्रु­त्यो­रा­त्म­ब्र­ह्म­दृ­ष्टि­वि­ष­य­त्वा­का­रे­णा­न्यत्र गौणत्वं वाच्य­मि­त्यु­क्त­श­ङ्का­भि­भू­त­त्वा­त्त­था­भू­त­श­ङ्का­ना­स्प­दा­ग्नि­वै­श्वा­न­र­श्रु­ति­प्र­ति­रु­द्ध­त्वा­च्चा­स्प­ष्टता । तस्य च छान्दो­ग्य­ग­ता­त्म­ब्र­ह्मो­प­क्र­मस्य वाज­स­ने­य­क­ग­त­वै­श्वा­न­रो­प­क्र­म­प्र­ति­रु­द्ध­त्वा­द­स्प­ष्टता । पुरु­ष­श्रु­ते­र्मू­र्धा­दि­पा­दा­न्ता­व­य­व­त्वा­त्म­क­सा­दृ­श्य­रू­प­पु­रु­ष­वि­धा­म्ना­ना­त्पु­रु­षस्य सतः पुरु­ष­वि­ध­त्वा­स­म्भ­वेन गौण­त्व­श­ङ्का­भि­भू­त­त्वा­द­स्प­ष्टता । सार्व­त्रि­का­न्न­ला­भ­फ­ल­स्या­ग्नि­र­ह­स्यो­क्त­पू­र्णा­युः­प्रा­प्ति­फ­लस्य चावे­ष्ट्या­यु­ष्का­मे­ष्ट्या­दि­फ­ल­व­द­न्य­तोऽपि संभ­वा­श­ङ्का­स्प­द­त्वात् सर्व­पा­प्म­प्र­दा­ह­फ­लस्य प्राणा­ग्नि­हो­त्र­मा­त्र­फ­ल­त्व­श­ङ्का­स्प­द­त्वा­च्चा­स्प­ष्ट­तेति - पादसङ्गतिः । एव­मे­षा­म­स्प­ष्टानां ब्रह्म­लि­ङ्गा­दी­ना­मु­न्मे­ष­ण­मि­त्थम् - ’एष वा प्रतिष्ठा वैश्वानर’ इत्या­दि­वा­क्यैर्न केव­ल­मु­पा­स­क­मू­र्धा­दिषु वैश्वा­न­र­मू­र्धा­दि­क­ल्पनं क्रियते , नापि केवलं द्युलो­का­दि­दृ­ष्टि­र्वि­धी­यते, किं तु ये वैश्वानरस्य मूर्धा­द्य­व­य­व­रूपा प्रति­ष्ठा­दि­श­ब्दो­क्त­गु­ण­वि­शे­ष­वि­शिष्टा द्युलो­का­द­य­स्त­द्वृ­ष्टि­र्वि­धी­यते । तत­श्चा­ध्या­त्मि­कस्य द्युमू­र्ध­त्वा­दे­र्जा­ठरे संभ­वेऽ­प्या­धि­दै­वि­कस्य तस्य न तत्र संभवोस्ति ; भूतदेवतयेाः कथञ्चिद् द्युलो­का­दि­व्या­प्ति­सं­भ­वेऽपि न तन्मू­र्ध­त्वा­दि­क­ल्पनं समञ्जसं ; नियन्तारं प्रति नियम्यस्यैव मूर्ध­त्वा­दि­क­ल्प­नौ­चि­त्यात् , भूतस्य तन्नि­य­न्तृ­त्वाऽ­सं­भ­वाद् , देवताया अपि तन्नि­य­न्तृ­त्वस्य क्लृप्त­स्या­भा­वात् , सर्व­नि­य­न्तृ­त्वेन क्लृप्तमीश्वरं प्रत्येव मूर्ध­त्वा­दि­व्य­प­दे­श­सं­भवे अग्नि­दे­व­ता­या­म­पू­र्वस्य द्युलो­का­दि­नि­य­न्तृ­त्वस्य कल्पनाऽयोगात् ।’को न आत्मा’ ’किं ब्रह्मे’ति विम­र्शोऽ­स्मा­भि­र­न्यो­न्य­वि­रो­धे­ना­त्म­ब्र­ह्म­बु­द्ध्यो­पा­स्य­मा­नेषु द्युप्रभृतिषु वस्तुतः किं तथाभूतं ब्रह्म किमे­ते­षा­म­न्य­त­म­म­न्य­द्वेति वस्तु­त­त्त्व­वि­षयो , न तु तेषु किं तथा­भू­त­ब्र­ह्म­दृ­ष्टि­मा­रो­प्यो­पा­स्य­मि­त्या­रो­पि­त­रू­प­वि­शि­ष्ट­वि­षयः ; ’अन्नं ब्रह्म’ ’मनो ब्रह्मे’त्या­दि­व­द­ने­कत्र प्रतीके ब्रह्म­दृ­ष्ट्या­रो­प­सं­भ­वा­द्वि­रो­धा­भा­वे­ना­स्म­दु­पा­स्यानां द्युप्रभृतीनां मध्ये किं तथा­भू­त­ब्र­ह्म­दृ­ष्ट्यो­पा­स्य­मिति निर्धा­र­णाऽ­न­पे­क्ष­णात् । अत एव दिवमेव भगवो राज­न्नि­त्या­दि­वाक्यैः स्वस्वभ्रम एवोद्घाटितः । सम्भवति ह्यद्यापि शक्रसूर्यादिषु केषाञ्चिद् ब्रह्म­त्व­भ्र­म­वद् द्युप्रभृतिषु तेषां तद्भ्रमः । अतस्तत्र नात्म­ब्र­ह्म­श्रुती गौण्यौ तदुपक्रमस्य च न वैश्वा­न­रो­प­क्र­मेण प्रतिरोधः , इदन्तया निर्णे­तु­म­श­क्य­स्या­द्यापि बहुधा संदिह्यमानस्य ब्रह्मण इव जठ­रा­दि­रू­प­स्या­ग्ने­र्द्यु­सू­र्य­वा­यु­ग­ग­न­ज­ल­पृ­थि­वीषु तादा­त्म्य­भ्र­माऽ­सं­भ­वेन पृथि­व्या­दि­ता­दा­त्म्य­भ्र­म­वि­ष­य­प­रस्य प्राची­न­शा­ला­दि­वा­क्य­ग­त­वै­श्वा­न­र­श­ब्द­स्यैव तद्वा­क्य­ग­ता­त्म­ब्र­ह्म­श­ब्दा­नु­व­र्ति­ताया वाच्यत्वात् । पुरुषशब्दस्य पुरु­ष­वि­ध­श­ब्दो­क्त­श­री­र­व­त्त्व­सा­दृ­श्य­प­र­तया गौणत्वे तेन पैान­रु­क्त्या­प­त्ते­श्चे­त­न­वा­चि­त्वेन तस्यापि जाठ­र­व्या­वृ­त्त­श्रु­ति­त्व­मु­प­प­द्यते । सर्व­लो­का­द्या­श्रयं फलं केव­ला­न्ना­द्य­फ­ल­वि­ल­क्ष­ण­मिति सर्वेषु लोकेषु कामचारो भवतीति निर्दि­ष्ट­द­ह­र­वि­द्या­फ­ल­व­त्त­दपि ब्रह्म­वि­द्या­साध्यं ब्रह्मलिङ्गमेव । तथा सर्व­पा­प­प्र­दा­होऽपि ; ब्रह्म­लि­ङ्ग­प्र­श्नो­त्त­राभ्यां प्राधान्येन प्रति­पि­पा­द­यि­षि­त­त­येा­प­क्रा­न्त­स्यो­पा­स­नस्य फलाकाङ्क्ष्या रात्रि­स­त्र­न्या­ये­ना­र्थ­वा­दि­क­फ­ल­वि­प­रि­णामे कर्तव्ये प्रधा­ना­र्थ­वा­द­इ­वा­ङ्गा­र्थ­वादे श्रुतस्यापि फलस्य ग्रहणौचित्यात् , इहो­पा­स­ना­रा­ध्यस्य वैश्वानरस्यैव प्राणा­ग्नि­हो­त्रे­ण­रा­ध्य­त्वाच्च । तस्य ह वा एतस्यात्मनो वैश्वानरस्येति षष्ठ्या हृदयं गार्हपत्य इत्या­दि­वा­क्ये­ष्व­प्य­न्व­यान्न वैश्वा­न­र­म­ग्नि­म­भि­प्रेत्य हृदयादीनां तदायतनत्वं विवक्षितं , किन्तु तं वक्ष्य­मा­णा­ग्नि­हो­त्र­हो­मो­द्दे­श्य­म­भि­प्रेत्य तेषां होमा­धि­क­र­णा­ग्नि­त्व­क­ल्प­न­मेव विवक्षितम् , गार्ह­प­त्या­दि­श­ब्दा­ना­म­ग्नि­ष्वेव मुख्यार्थलाभेन स्वारस्याद् , हृदयाद्धि मनः प्रणीतमिवेति प्राची­ना­चा­र्य­वा­क्ये­ना­चा­र्या­णा­म­प्य­ग्न्य­र्थ­त्वा­भि­प्रा­यो­न्न­य­नाच्च ।’एवंविद् यद्यपि चण्डा­ल­यो­च्छिष्टं प्रयच्छेदात्मनि ह वाऽस्य तद्वैश्वानरे हुतं स्यादि’ति सप्तमी तु ’सममब्राह्मणे दानमि’तिवत् चतुर्थ्यर्था , चण्डालायेति चतुर्थोपक्रमात् ।’य एतदेवं विद्वा­न­ग्नि­होत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवती’ति सप्तमीनां ’स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति प्राणे तृप्यति चक्षु­स्तृ­प्य­ती’त्या­दि­प्रा­ची­न­ख­ण्डेषु प्राणा­द्या­हु­ति­भि­स्तृ­प्ति­भा­क्त्वे­नेा­क्त­लो­क­भू­ता­त्म­वि­ष­य­तया चतुर्थ्यर्थस्य क्लृप्तत्वाच्च । न च प्राणाय स्वाहे­त्या­दि­म­न्त्र­व­र्ण­वि­रो­धा­द्वै­श्वा­न­रस्य देवतात्वाऽसंभवः । प्रश्नो­प­नि­ष­द्वा­क्या­नु­सा­रेण सर्व­प्रा­ण­स­म­ष्ट्या­त्म­क­हि­र­ण्य­ग­र्भा­व­च्छि­न्नस्य त्रैलो­क्य­श­री­रस्य वैश्वानरस्य परमात्मनोऽत्र होमो­द्दे­श्य­तायां मन्त्र­व­र्ण­वि­रे­धा­भा­वाद् , नैरु­क्त­नि­र्व­च­ना­नु­सा­रे­णो­दा­हृ­त­प्र­श्नो­प­नि­ष­द्वाक्ये दृष्टत्वेन चाग्नि­वै­श्वा­न­र­श­ब्द­यो­रि­हापि यौगिकत्वस्यैव न्यायतः प्राप्त्या तथा दृष्ट्यु­प­दे­शा­दिति रूढ्यपरित्यागेन निर्वाहस्य प्रौढिवादत्वाद् , वैश्वानर एव चिता­ग्नि­त्व­क­ल्प­न­प्रा­णा­हु­त्या­धा­र­त्व­की­र्त­न­यो­स्त­त्प­क्षा­व­ल­म्ब­ने­नो­प­न्य­स्त­तया तद्वि­रो­धा­भा­वा­च्चेति ॥
इति सप्तमं वैश्वा­न­रा­धि­क­र­णम् ॥ ७ ॥
कल्प­त­रु­क­ठि­न­वा­क्य­प्र­क­र­वि­म­र्दो­त्थिते परिमलेऽस्मिन् ।
पूर्णोऽजनि सविशेषप्रायः पादो मनोहरोविदुषाम् ॥
इति श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले प्रथमाध्यायस्य द्वितीयः पादः ॥

द्युभ्वा­द्या­य­तनं स्वशब्दात् ॥१॥
निर्विशेषेति ।
पूर्वस्मिन् पादे मनोमयोऽत्ता पाय­यि­ताऽ­क्षि­पु­रु­षोऽ­न्त­र्य्यामी वैश्वानर इत्येषां सविशेषत्वेऽपि यथाऽक्षरं निर्विशेषम् एवमस्मिन् पादे द्युभ्वा­द्या­य­त­न­भू­मा­क्ष­रे­क्ष­ति­क­र्मा­दीनां निर्वि­शे­ष­त्वेऽपि दहरः सविशेष इति प्रायि­क­त्व­म­त्रापि विशेषणं द्रष्टव्यम् ।
अमृतत्वाभावे हेतुमाहेति ।
यद्यपि पूर्वपक्षिणा साधनीये ब्रह्मत्वाभाव एव द्वितीयहेतुरपि योजयितुं युक्तः तथापि संग्रहश्लोके नामृतं न ब्रह्मेति साध्य­द्व­य­म­भि­प्रेत्य तत्र यथासङ्ख्यं हेतुद्वयं योजितम् । इयांस्तु विशेषः । टीकायां कल्पतरौ चामृ­त­ब्र­ह्मा­भे­दो­क्ति­र्द्वि­ती­य­हे­तो­र­मृ­त्वा­भा­व­सा­ध­कत्वे तत्साधनस्य साक्षा­त्सा­ध­नी­य­ब्र­ह्म­त्वा­भा­व­सि­द्धा­वु­प­यो­ग­प्र­द­र्श­नार्था तस्य ब्रह्म­त्वा­भा­व­सा­ध­क­त्वेऽ­मृ­ता­द्भे­दस्य कथं ब्रह्म­त्वा­भा­व­सा­ध­क­त्व­मि­त्या­का­ङ्क्षायां तस्य तत्सा­ध­क­तो­प­पा­द­ना­र्थेति ।
न त्वितीति ।
ननु तथापि जल­ब­न्ध­न­हे­तु­स्त­दर्थः स्यात् । न च घटो­द­र­नि­स्स­र­ज्ज­ल­ब­न्ध­न­हे­तु­म­धू­च्छि­ष्टा­दा­व­ति­प्र­सङ्गः । पारा­वा­र­म­ध्य­व­र्त्ति­त्वे­नापि विशेषणात् । तथा सति तदेवालमिति वाच्यम् । नद्या­म­ति­प्र­स­ङ्गात् । अतो विशिष्टवाचकस्य तदे­क­दे­श­ब­न्ध­क­त्व­ल­क्ष­णया ब्रह्मणि वृत्तिः संभवतीति चेन्मैवम् । सेतुशब्दस्य आजा­न­सि­द्धाऽ­वि­ना­भू­त­पा­र­व­त्त्वेन गौणत्वे संभवति कादाचित्केन बन्धनहेतुत्वेन तदयोगादिति भावः ।
अमृ­ता­न्त­र­सं­ब­न्धीति ।
क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्य इति मन्त्रे जीवेऽपि अमृ­त­श­ब्द­प्र­यो­गा­दिति भावः ।
अतोऽ­न्य­दा­र्त्त­मिति श्रुतेरिति ।
निरु­पा­धि­का­मृ­तत्वं न ब्रह्म­णोऽ­न्य­च्चेति भावः । नन्वेवं सत्यमृतस्य सेतु­रि­त्य­न­न्वितं स्याद् न ह्यमृतस्य पारवानित्यन्वयः सङ्गच्छते । नैष दोषः । अमृतस्यैष इत्य­न्व­या­भ्यु­प­ग­मा­त्ता­व­न्मा­त्रेण च तस्येदमिति सूत्रे इव षष्ठ्य­न्त­प­द­वा­च्य­सं­ब­न्धि­त्व­नि­र्वा­हात् । सेतुशब्देन त्वमृ­त­प­दा­न­न्वि­ते­नैव पारवत्त्वं लक्ष्यते ।
पुरुषं याव­द­ग­च्छ­दि­त्यस्य पुरुषपर्यन्तं व्याप्नुवदिति देश­प­रि­च्छे­दा­र्थ­कत्वं न युक्त­म­व­ध्य­र्थ­क्र­या­व­च्छ­ब्द­योगे द्विती­या­नु­शा­स­ना­भा­वाद् नदीप्रवाहो वृक्ष­वा­ट­प­र्यन्तं न व्याप्नो­ती­त्युक्त्या वृक्षवाटस्येव तेन पुरुषस्यापि देश­प­रि­च्छे­द­प्र­ती­ति­प्र­स­ङ्गा­च्चे­त्य­भि­प्रेत्य तं ग्रन्थं साध्याहारं वस्तु­प­रि­च्छे­दा­र्थ­क­तया व्याचष्टे -
पुरुषं प्रति यावत्तादात्म्यं तावदगच्छदिति ।
यावच्छन्द इह नावध्यर्थः किं तु परिमाणार्थः । तस्य परि­मे­य­वि­शे­षा­का­ङ्क्षया तादा­त्म्य­श­ब्द­स्त­त्प्र­ति­नि­र्दे­शा­का­ङ्क्षया तावच्छब्दश्च द्विती­यो­प­प­त्त्यर्थं प्रति­श­ब्द­श्चा­ध्या­हार्यः । प्रतियोगे च बुभुक्षितं न प्रतिभाति किञ्चि­दि­त्य­त्रेव पुरुषस्येति षष्ठ्यर्थो लभ्यते तेन पुरुषस्य यावत्तादात्म्यं ताव­द­प्रा­प्नु­व­दि­त्य­र्थ­ला­भाद् वस्तुपरिच्छेद उक्तो भवतीत्याशयः । यद्य­प्यु­क्ता­र्थ­वि­व­क्षायां पुरु­ष­ता­दा­त्म्य­म­ग­च्छ­दि­त्ये­ता­व­द्व­क्तव्यं तथापि सर्वस्य प्रप­ञ्च­स्या­धि­ष्ठा­न­स­दा­त्मना पुरु­ष­ता­दा­त्म्य­स­त्त्वा­द­सिद्धिः स्यादिति याव­त्ता­व­च्छ­ब्दा­वुक्तौ । ततश्च चिदा­त्म­नाऽऽ­न­न्दा­त्मना च पुरु­ष­ता­दा­त्म्या­भा­वा­द्व­स्तु­प­रि­च्छेदो लभ्यत इति तात्पर्यम् । यावत्पदस्य साकल्यार्थकत्वे तु कार्त्स्य्नेन पुरु­ष­म­व्या­प्नु­व­दि­त्य­र्थ­ला­भाद् विनैवाध्याहारं देश­प­रि­च्छे­दा­र्थ­क­त्व­मपि टीकायां वक्तुं शक्यम् । अस्मिन्नर्थे स्वका­र्यो­प­हि­त­म­र्या­द­त­ये­त्यस्य स्वका­र्य­मा­त्र­व्या­प्ति­म­त्त­ये­त्यर्थः । पूर्व­स्मि­न्नर्थे अस्य स्वका­र्य­मा­त्र­ता­दा­त्म्य­व­त्त­ये­त्यर्थ इति विशेषः ।
ननु साक्षात् श्रुत्यु­क्त­त्व­म­व्य­क्तात् पुरुषः पर इत्य­व्या­कृ­त­स्या­प्यस्ति आयतनत्वेन श्रुत्यु­क्त­त्व­मपि तस्याकाश एव तदोतं च प्रोतं चेत्य­स्ती­त्या­शङ्क्य व्याचष्टे -
साक्षादिति ।
साक्षा­त्त्व­म­न्यो­पा­धि­त्वा­भा­व­रूपं प्राधान्यमिह विवक्षितमिति भावः । ननु भाव­प्रा­धा­न्य­वि­व­क्षणं किमर्थम् । सेतु­श­ब्द­ल­क्ष­णी­य­धा­र­क­त्व­नि­र्वा­हा­र्थ­मिति चेत् । न । तद्विवक्षणेन लभ्यममृतत्वमपि हि निर­ति­श­या­न­न्द­रूपो मोक्ष एव स च ब्रह्मणो न भिद्यते ब्रह्म चामृ­त­श­ब्दे­नै­वो­क्तम् ।
तथा च भाव­प्रा­धा­न्य­वि­व­क्ष­णेऽ­प्य­व­र्ज­नीये ब्रह्मणि पर्यवसाने व्यर्थोऽयं बक­ब­न्ध­वि­धि­प्र­यास इत्याशङ्क्य निराकरोति -
यद्यपीति ।
ब्रह्मै­वा­मृ­त­मि­त्ये­त­द­न­न्तरं तदेव चामृतत्वमिति शेषोऽ­ध्या­ह­र्त्तव्यः । ज्ञाय­मा­न­द­शा­म­भि­प्रेत्य तम­मृ­त­त्व­श­ब्दार्थं कृत्वा धारयितृत्वं निर्वा­ह्य­मि­त्य­ध्या­हा­रेण वाक्यं पूरणीयम् । नन्वेवमपि भाव­प्रा­धा­न्य­वि­व­क्षणं व्यर्थं सेतुर्यथा परपारस्य प्रापक एवमयं द्युभ्वा­द्या­य­न­मा­त्माऽ­मृ­तस्य ब्रह्मणः प्रापक इति प्राप­क­त्व­ल­क्ष­णया निर्वाहादिति चेदुच्यते । द्युभ्वा­द्या­य­त­न­म­मृ­तस्य सेतु­रि­त्युक्त्या राजाऽयं धर्म्मस्य सेतु­रि­त्युक्त्या राजधर्मयोरिव द्युभ्वा­द्या­य­त­ना­मृ­त­यो­र्भे­द­प्र­ती­ते­र­मृ­त­श­ब्दो­क्ताद् ब्रह्मणोऽन्यद् द्युभ्वा­द्या­य­तनं ग्राह्यमिति शङ्का स्याद् न चैत­च्छ­ङ्का­वा­र­णा­र्थ­म­मृ­त­त्व­श­ब्द­वि­व­क्ष­णी­य­मो­क्ष­पर एवा­य­म­मृ­त­श­ब्दोऽस्तु मोक्षेऽपि तत्प्र­यो­ग­स­त्त्वा­दिति वक्तुं शक्यम् । इह तदे­त­त्स­त्य­म­मृ­त­मा­न­न्द­रू­प­म­मृतं यद्विभातीति पूर्वा­प­र­म­न्त्र­ग­त­प्र­येा­गा­भ्या­म­मृ­त­श­ब्दस्य ब्रह्म­वा­चि­त्वा­व­श्य­म्भा­वात् ।
षिञ् धात्व­र्थ­यो­गा­दि­त्यर्थ इति ।
धारणमपि बन्धनविशेष इत्य­भि­प्रे­त्यै­व­मु­क्तम् । यदि तु बन्धनं प्रवहतो जल­स्या­ग­ति­नि­रो­धनं निरुद्धगतिके जले प्रभूते साधिते तद्धारणं बन्धनस्य फलं न तु बन्धनमेव धार­ण­मि­त्या­श्री­यते तदा तस्य शब्दा­र्थै­क­दे­श­त्वा­भा­वेऽपि सहजत्वाभावेऽपि तदवलम्बनैव गौणी वृतिर्युक्ता न पार­व­त्त्वा­व­ल­म्बना । अत्र­धि­क­र­ण­न्या­ये­ना­न्त­र­ङ्ग­सा­दृ­श्य­ग्र­ह­णा­दपि सम­भि­व्या­हृ­त­प­दा­न्त­र­स्वा­र­स्या­नु­रो­धि­सा­दृ­श्य­ग्र­ह­णस्य प्रबलत्वात् । इह च पार­व­त्त्व­ल­क्ष­णा­या­मा­त्म­श्रु­त्या­दी­ना­म­मृ­त­श­ब्दस्य सेतु­प­र्य्य­न्ता­न्वि­त­ता­याश्च स्वारस्यहाने: स्पष्टत्वादिति समाधेयम् ।
योगाद् बलिनीति ।
अत एव प्रैतु होतुश्चमसः प्र ब्रह्मण: प्रोद्गा­तृ­णा­मिति मन्त्रे बहुवचनानुरोधाद् उद्गातृशब्दस्य बहुषु ऋत्विक्षु वृत्तौ वक्त­व्या­या­मु­च्चै­र्गा­य­न्तीति योगं परित्यज्य प्रथ­म­प्र­ती­त­रू­ढ्य­प­रि­त्या­गार्थं सुब्रह्मण्ये ससुब्रह्मण्ये वोद्गातृगणे रूढि­पू­र्व­क­ल­क्ष­णाऽ­भ्यु­प­गता ।
ननु साधनत्वलक्षणा न युक्ता । अमृतशब्दोक्तस्य ब्रह्मणो हेत्वभावाद् भाव­प्रा­धा­न्य­वि­व­क्ष­णेऽपि तस्य ज्ञाय­मा­न­द­शा­प­र्य्य­व­सा­यि­त्वाद् ज्ञायमानत्वस्य च चर­म­वृ­त्ति­वि­ष­य­त्व­रू­प­तायां मोक्ष­स्याऽ­स्थि­र­पु­रु­षा­र्थ­त्वा­पत्त्या प्रका­श­मा­न­त्व­रू­प­तया वक्त­व्य­त्वा­त्स्व­तः­सि­द्धस्य च ब्रह्मप्रकाशस्य हेत्व­न­पे­क्ष­त्वा­दि­त्या­श­ङ्का­नि­वा­र­णार्थं स्वतः­सि­द्ध­प्र­का­शा­व­र­ण­नि­वृ­त्ति­र­मृ­त­त्व­श­ब्दार्थ इति तात्प­र्य­क­त्वे­ना­मृ­त­श­ब्दश्च भावप्रधान इति टीकां व्याचष्टे
अमृतस्येति ।
ननु सैवा­व­र­णा­वि­द्या­नि­वृ­त्ति­र्द्धा­र­यि­तृ­त्व­ल­क्ष­णा­या­म­प्य­मृ­त­त्व­श­ब्दार्थः किं न स्यात् । न चाविद्याया जीव­त्वो­प­हि­त­चै­त­न्या­श्र­य­त्वा­त्त­न्नि­वृ­त्ति­रपि तदाश्रयैव न तु शुद्ध­ब्र­ह्मा­श्रि­तेति शङ्क्यम् । अविद्यायां निवर्तमानायां जीवत्वोपाधेरपि सह निवृत्त्या पट­ना­श­स­म­का­ल­त­द्रू­प­ना­शस्य पटा­व­स्था­प­न्न­त­न्त्वा­द्या­श्रि­त­त्व­व­द­वि­द्या­नि­वृ­ते­र्जी­व­त्वाऽ­नु­प­हि­त­शु­द्ध­चै­त­न्या­श्रि­त­त्वो­प­प­त्ते­रिति चेत् । सत्यम् । तथापि निवृ­त्ति­व­द­वि­द्यापि जीव­त्वा­नु­प­हि­त­त­दा­श्रि­ताऽ­स्त्विति मन्द­श­ङ्का­वा­र­णा­र्थ­म­वि­द्या­नि­वृ­त्ति­र्द्धा­र­ण­पक्षे न स्पृष्टा ।
गुण­क­र्म­त्वा­भा­वा­दिति ।
अपोऽश्नाति तन्नैवाशितं तन्नै­वाऽ­न­शि­त­मि­त्यत्र द्विती­या­सं­येा­गेऽपि गुण­क­र्म­त्वा­भा­वा­द­श­नस्य सर्वनाम्ना परामर्श: प्राधान्याद् दृश्यत इति भावः ।
तप्तइति ।
यथा तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मि­क्षे­त्यत्र पयसः सप्त­मी­नि­र्दे­शाद् बर्हिषि हवीं­ष्या­सा­द­य­ती­त्यत्र बर्हिष इव क्रियो­प­स­र्ज­न­त्व­प्र­ती­ता­वपि क्रियाया हवि­र्वा­च्याऽऽ­मि­क्षा­प­द­स­मा­ना­धि­क­र­ण­त­त्प­द­प­रा­म­र्श­नी­य­त्वाऽ­यो­गा­दु­प­स­र्ज­न­स्यापि पयसस्तत्पदेन परामर्श: । तत्र च स्त्रीलि­ङ्ग­मा­मि­क्षा­प­द­सा­मा­ना­धि­क­र­ण्य­प्र­यु­क्तम् । आमिक्षापदं च न संस्का­र­क­द­धि­सं­प­र्क­घ­नी­भू­तस्य पयसो वाचकं न तज्जन्यस्य द्रव्यान्तरस्य न दध्नो नापि संसृ­ष्ट­यो­र्द­धि­प­य­सो­र्वा­च­कम् । अतो दध्यानयनं पयो­रू­पा­मि­क्षा­प्र­यु­क्त­मि­त्या­मि­क्षा­प­चार इव वाजिनापचारे न पुनस्तदर्थं पयोन्तरे दध्यानयनं कार्यं वाजि­न­स्या­नु­नि­ष्पा­दि­त­त्वाद् आमिक्षायाः पय­स्त्वा­त्तस्यां पयस एव धर्मा न दध्नो नापि दधि­प­य­सो­रि­त्य­ङ्गी­क्रि­यते एवमिहापि योग्यतया ज्ञानस्यैष इत्यनेन परा­म­र्शोऽ­ङ्गी­कार्य इति भावः । ननु क्रियाया अयोग्यत्वेऽपि दध्नोऽस्ति योग्यत्वं तच्च क्रियां प्रति कर्मतया प्रधानमिति दध्नस्तत्पदेन परामर्श: किं न स्यात् । यद्युच्येत नय­ते­र्द्वि­क­र्म­क­त्वेन कर्मा­न्त­रा­पे­क्षायां पयः कर्मान्तरं तत्र च सप्तमीनिर्देश: प्रधा­न­क­र्म­त्व­ज्ञा­प­नार्थः । अन्यथा दधिपयसोरुभयोरपि द्वितीयायां पयसि दध्यानयनं कार्य्यं दध्नि वा पयआनयनमिति संदेहः स्यादतः प्रधानं पयः सर्वनाम्ना परामृश्यत इति । एवं तर्ह्यप्रधानस्य सर्वनाम्ना परामर्शे नेदमुदाहरणं स्यादि­त्या­शङ्क्य शब्दत इति विशेषितम् । अर्थतः प्रधानस्यापि शब्द­तोऽ­प्र­धा­नस्य सर्वनाम्ना परामर्शे इदमुदाहरणं कृतम् । एवं च ज्ञानस्य विधे­य­त्वे­ना­र्थ­गत्या प्राधान्येऽपि शब्दगत्या ज्ञेयेा­प­स­र्ज­न­त्वा­द्रा­ज­पु­रु­षा­दा­वा­र्थ­प्रा­धा­न्यतः शाब्द­प्रा­धा­न्य­स्यैव बल­व­त्त्व­द­र्श­नात् शब्द­तोऽ­प्र­धा­न­स­र्व­ना­म­प­रा­म­र्श­नी­य­तेति शङ्कायां गुण­क­र्म­त्वा­भा­वा­द­पोऽ­श्ना­ती­ति­वत्तं जान­थे­त्य­त्राऽ­नी­प्सि­त­क­र्मणि द्वितीयेति शब्दतोऽपि प्राधान्ये समर्थयितुं शक्येऽपि शब्द­तोऽ­प्रा­धा­न्य­म­भ्यु­पेत्य न चेद­मै­का­न्ति­क­मि­त्या­दि­टी­का­ग्रन्थः प्रवृत्त इति दर्शितं भवति । एवमिह ज्ञेयस्य शाब्द­प्रा­धा­न्यो­क्ति­र­भ्यु­पे­त्य­वाद इत्येतत्सत्यपि ज्ञेय­प्रा­धा­न्य­नि­र्देश इति प्राची­न­ग्र­न्थ­ग­ता­पि­श­ब्देन ध्वनितम् । एतेन स एषोऽन्तश्चरते बहुधा जायमानः दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठित इत्या­द्य­न­न्त­र­म­न्त्रा­म्ना­तै­त­च्छ­ब्दा­ना­मा­त्म­प­र­त्व­द­र्श­ना­द­स्यापि तत्परत्वं युक्तमिति शङ्कापि निरस्ता । तेषां ज्ञान­प­र­त्वाऽ­सं­भ­वेन तद्वि­ष­या­त्म­प­र­त्व­क­ल्प­नेऽ­प्यस्य तस्मिन्नेव मन्त्रे विधेयत्वेन प्रधाने सम­भि­व्या­हृ­त­से­तु­प­द­प­र्य­न्त­स्वा­र­सि­का­न्व­य­योग्ये ज्ञाने वृत्तिसंभवे तदुल्लङ्घनेन तद्वि­ष­य­प­र­त्व­क­ल्प­नाऽ­यो­गात् ।
ननु भिद्यते हृदयग्रन्थिरिति मन्त्रस्य टीकाकृतं व्याख्या­न­म­यु­क्तम् | तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभातीति पूर्व­म­न्त्रे­णा­न­न्द­रू­प­ब्र­ह्म­द­र्शने वर्णिते तद्दर्शनेन हृद­य­ग्र­न्थि­भे­दा­दि­रू­पाऽ­न­र्थ­नि­वृ­त्ति­रपि भवतीति वर्णयितुं तदनन्तरस्य मन्त्रस्य प्रवृत्तिरिति प्रती­ते­स्त­द­नु­सा­रेण तस्मिन् ब्रह्मणि दृष्टे सति हृदयग्रन्थिः स्वयमेव भिद्यत इत्या­द्य­र्थ­व­र्ण­नौ­चि­त्या­दि­त्या­श­ङ्क्याह -
भाष्ये सूत्रोपात्तेति ।
भाष्ये सौत्र­येा­र्मु­क्तो­प­सृ­प्य­प­द­यो­र्वि­व­र­णा­र्थ­मि­त्युक्त्वा ब्रवीतीति क्त्वाप्र­त्य­ये­नास्य मन्त्रस्य तथा विद्वानिति मन्त्रेण संब­न्ध­स्यो­क्त­तया तं संबन्धं हृद­य­ग्र­न्थि­भे­द­ना­दि­रू­प­म­हा­प्र­य­त्न­साध्यं तद्विज्ञानेन परिपश्यन्तीति पूर्व­म­न्त्र­प्र­स्तुतं ब्रह्मदर्शनं तत्फ­ल­म­वि­द्या­नि­वृ­त्ति­पू­र्व­क­ब्र­ह्म­प्रा­प्ति­रि­त्ये­वं­रूपं दर्शयितुं तस्मिन् दृष्ट इति व्यधि­क­र­ण­स­प्तम्यौ दृष्ट इति निमित्तसप्तमी भिद्यन्त इत्यादयः कर्मणि लकारा इति टीकाकृतं व्याख्यानं युक्त­मे­वे­त्या­शयः ।
कर्मसंयोग इति ।
निमि­त्ता­त्क­र्मणः संयोगे सप्तमी वक्तव्येति वार्त्ति­का­न्नि­मि­त्तार्था सप्तमी ।
दर्शनार्थश्चेति ।
एवं च हृद­य­ग्र­न्थि­भे­द­ना­दिकं फलमेवात्र निमित्ततया विवक्षितम् । फल­स्या­प्य­सं­धी­य­मा­नस्य स्वोद्दे­श्य­क­पु­रु­ष­व्या­पा­र­प्र­यो­ज­क­तया वैवक्षिकं निमित्तत्वम् । चर्मणि द्वीपि­न­मि­त्यु­दा­ह­र­णेऽ­प्ये­व­मेव ।
नाम­रू­प­श­ब्दा­र्थ­मिति ।
कारणे कार्य­वा­च­क­श­ब्द­प्र­योगः कार्य­स­हि­त­का­र­ण­मु­क्त­त्व­प्र­त्या­य­नार्थ इति भावः ।
अव्याकृतग्रहणं वाय्वा­दी­ना­म­प्यु­प­ल­क्ष­ण­मि­त्याह -
अव्याकृतेति ।
( यावतेत्येतत्पदं यत इत्या­श­ङ्क्ये­त्य­नेन विवृतम् ) ।
ननु जीवात्मनः प्रसिद्धत्वे तदधिगमाय ब्रह्मावबोध्यत इत्ययुक्तं प्रसि­द्ध­स्याऽ­न­धि­ग­म­नी­य­त्वा­दि­त्या­शङ्क्य व्याचष्टे -
प्रसिद्धमिति ।
कृत्वा चिन्तो­द्घा­ट­न­त्वा­दिति ।
यद्यपि लिङ्गेन प्रकरणमुपमृद्य पूर्वपक्ष: कर्तुं शक्यः अन्यविषयत्वेऽपि प्रक­र­ण­वि­रो­धि­त्व­मपि श्वेता­श्व­त­र­प­ठि­ताऽ­जा­म­न्त्र­व­द­त्रैव मुण्डके तयोरन्य: पिप्पलं स्वाद्वत्ति समाने वृक्षे पुरुषो निमग्न इत्यादिवच्च समर्थयितुं शक्यं तथा­प्य­त्राऽ­न्य­वि­ष­य­त्वो­प­पा­दकं बलवल्लिङ्गमेव नास्ति निश्चि­त­ब्र­ह्म­ता­त्प­र्येऽ­न्य­वि­ष­य­त्व­पू­र्व­प­क्ष­श­ङ्काऽ­ना­स्पदे
निष्कलं निष्क्रियं शान्तं विरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धे­न्ध­न­मि­वा­न­लम् ॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥
इति श्वेता­श्व­त­र­मन्त्रे ब्रह्म­ण्य­मृ­त­से­तु­त्व­व्य­प­दे­श­द­र्श­नेन तस्य ब्रह्मधर्मताया एव प्रतीतेः ब्रह्म­ण्य­मृ­त­से­तु­त्व­प्र­व­णे­नैव अमृतस्यैष सेतु­रि­त्ये­त­द­र्थ­त्वेन कल्पितयोः ब्रह्म­भि­न्न­त्व­पा­र­व­त्त्व­यो­र­लि­ङ्ग­त्व­म­भि­प्रेत्य नानुमानमिति सूत्रे प्रधा­न­जी­वा­दि­पू­र्व­प­क्ष­ग­म­क­श­ब्दा­भा­वो­क्तेश्च तथात्वेऽपि न्यायतः श्वेता­श्व­त­र­सा­धा­र­ण­त­द्व्य­प­दे­श­ग­ति­प्र­द­र्श­ना­र्थ­मिह तद्व्यपदेशस्य ज्ञानान्वयोपि संभवतीति न्याया­न्त­र­प्र­द­र्श­नार्थं चाधिकरणारम्भात् । अतः प्रक­र­णा­नु­स­न्धा­नेन बल­व­ताऽ­न­न्य­था­सि­द्धेन प्रकरणेन प्राक­र­णि­क­ब्र­ह्म­प­रा­म­र्शि­य­च्छ­व्द­रू­प­स­र्व­ना­म­श्रुत्या च मन्त्रस्य ब्रह्मपरत्वं स्पष्टं भवेदिति कृत्वा­चि­न्ता­रू­प­त्व­म­धि­क­र­ण­स्यो­क्तम् । नन्वस्य मन्त्रस्य प्रकरणे पाठो नास्तीति कृत्वाचिन्ता चेत् कथं ब्रह्मैवेदममृतं पुरस्तात् तथा विद्वान् नाम­रू­पा­द्वि­मुक्तः यः सर्वज्ञः सर्वविदिति प्राक­र­णि­क­श्रु­ति­लि­ङ्गो­प­न्यासः । उच्यते । पूर्व­सू­त्रेऽ­प्या­त्म­श्रु­ति­र्वा­ग्वि­मु­क्तै­र्ज्ञे­यत्वं प्रधा­ना­दि­प­क्ष­ग­म­क­श­ब्दा­भा­व­श्चे­त्ये­त­न्म­न्त्र­प­र्या­लो­च­ना­मा­त्र­लभ्या एवार्थाः सूचिताः । प्राक­र­णि­क­श्रु­ति­लि­ङ्गा­न्त­र­प­र­तया स्वश­ब्दा­दि­व्या­ख्या­ना­न्तरं तु प्रक­र­णो­द्घा­ट­ना­न­न्तरं प्राकरणिकान्यपि श्रुति­लि­ङ्गा­न्यत्र प्रवर्तिष्यन्त इति हृदयेन प्रागेव सूत्रा­र्थ­त­यो­प­न्य­स्तानि । स्थित्य­द­न­सू­त्रस्य प्रक­र­णो­द्घा­ट­ना­न­पेक्षो नास्त्यर्थ इति मत्वा तत्सूत्रमेकं प्रकरणं सूत्रानन्तरं कृतम् ।
पुरुष एवेति निर्दिष्टं पुरुषं यस्मिन् द्यौरि­त्या­दि­म­न्त्रो­क्तेन विशेषणेन विशिं­ष­न्नो­त­श­ब्द­स्या­र्थ­माह -
यस्मिन्निति ।
किं तदिति ।
किं तदिदं विश्व­मि­त्य­ने­नो­क्त­मि­त्यर्थः ।
ननु कर्म­त­पो­भ्या­म­न्य­दपि विश्व­श­ब्द­क्रो­डी­का­र्य­म­स्ती­त्या­श­ङ्क्याह -
अर्थात्तत्फलं वेति ।
अत्रा­त्म­श्रु­ति­स्ता­व­द­स्पष्टा आत्मा जीवे धृतौ देहे स्वभावे पर­मा­त्म­नी­त्य­भि­धा­न­को­शा­नु­सा­रेण य आत्मनि तिष्ठ­न्नि­त्या­दि­प्र­यो­गा­नु­सा­रेण चाने­क­सा­धा­र­ण्यात् तस्य ब्रह्म­प­र­ता­या­माप्लृ व्याप्ताविति धातो­र्म­नि­न्प्र­त्यये बाहुलके तकारे च सति तन्नि­ष्प­त्ते­र्यो­ग­रू­ढ्यु­भ­या­नु­ग्रहो भवतीति युक्त्या सोन्मेषणीया । द्युभ्वा­द्या­य­त­नत्वं चानेकसाधारणं सदायतनाः सत्प्रतिष्ठा इति श्रुत्य­न्त­र­प­र्या­लो­च­न­यो­न्मे­ष­णी­यम् । वाग्वि­मु­क्त­ज्ञे­यत्वं च ब्रह्म­ध­र्म­त्वे­ना­प्र­सिद्धं तमेव धीर इत्या­दि­श्रु­त्य­न्त­र­प­र्या­लो­च­न­यो­न्मे­ष­णी­यम् । कर्म­क­र्तृ­भे­द­व्य­प­दे­श­स्त्व­भ्यु­च्च­य­मात्रं मनः­प्रा­णा­द्या­श्र­य­मेव युष्माकं स्वभावं स्वरूपं जानीध्वं न तु मनः प्राणा­दि­क­मि­त्यु­प­दे­शो­प­पत्तेः । एवंविधोपदेशानां बहुलमुपलम्भात् । यद्यत्र विवक्षितं मुमु­क्षु­ज्ञे­यत्वं सांसारिके जीवस्वरूपे न संभवतीति ततो भेदव्यपदेश: समर्थ्येत तर्हि तद­प्य­स्प­ष्ट­मि­त्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥

भूमा संप्र­सा­दा­द­ध्यु­प­दे­शात् ॥८॥
वायुरपि ग्राह्य इति ।
अप्ते­जेा­वा­य्वा­का­शानां क्रमे­णो­त्त­रो­त्त­र­का­र­ण­त्वा­दिति भावः । अपां तेज इति पाठः । अपां नभः इति तु प्रामादिकः पाठः । केषु चिद्ग्र­न्थे­ष्व­पा­मिति वाक्यमेव नास्ति ।
एव­मा­का­श­प­र्य­न्त­मिति ।
तेजसो वायुर्वायोराकाश इति क्रमेणेति यावत् ।
आकाशस्य भोग्यत्व इति ।
संम­र्दा­व­स्था­न­क्लि­ष्ट­स्या­सं­बा­धा­व­स्था­न­सैा­ख्य­हे­त्व­व­का­शा­त्मना अन्यै­र­प्ये­ता­दृशैः प्रकारैराकाशस्य भोग्यता ।
भाव­भ­वि­त्रो­रि­तीति ।
स य एषोऽणिमा धातुः प्रसा­दा­न्म­हि­मा­न­मी­श­मि­त्या­दा­वि­वेति भावः ।
न प्राणा­द­न्य­स्येति ।
न प्राणान्यधर्मिक इत्यर्थः ।
आर्त्ति­मा­त्र­स्येति ।
यस्योभयं हवि­रा­र्त्ति­मा­र्च्छ­त्यैन्द्रं पञ्चशरावमोदनं निर्वपेदिति वाक्यइति शेषः ।
आत्मशब्दश्चेति ।
ननु प्राक् सङ्गतिग्रन्थे प्राण एवेहात्मा विवक्षितः इति भाष्या­नु­सा­रे­णा­त्म­शब्द: प्राणपरतया व्याख्यातः कथमिह स यो नाम ब्रह्मे­त्यु­पास्त इत्या­दि­वा­क्य­प्र­ति­प­न्न­ना­मा­दि­प्र­ती­का­रो­प्य­ब्र­ह्म­प­र­तया व्याख्यायते । नैष दोषः । तत्र ब्रह्मशब्दोऽपि सर्वा­त्म­त्व­स­र्व­प्र­ति­ष्ठा­त्व­रू­प­ब्र­ह्म­लि­ङ्ग­व­त्तया वर्णिते प्राण एव पर्यवस्यतीति तात्पर्यात् । यद्यपि नामादिषु पर­ब्र­ह्म­दृ­ष्टि­वि­ध्य­ङ्गी­का­रेऽपि दृष्टि­वि­शे­ष­ण­त­यो­प­स­र्ज­नस्य तस्य न प्राकरणिकत्वं किं तु तद्दृ­ष्ट्यो­पा­स­नी­य­तया प्रधानभूतानां नामादीनामेव सन्निधानमात्रं तु तस्येति सिद्ध्यति तथाप्यग्रे ब्रह्म­गु­ण­स­र्वा­त्म­त्वा­दि­वि­शि­ष्ट­त्वेन प्राण­सं­की­र्त­न­स्या­वै­य­र्थ्या­र्थ­ब्र­ह्म­गु­ण­वि­शि­ष्ट­प्रा­ण­दृ­ष्टि­वि­धा­नार्थं नामादिषु ब्रह्म­सं­की­र्त­न­मिति कल्प्यते । अन्यथा नामादिष्विव प्राणे उपा­स­ना­त­त्फ­ल­यो­र­नुक्त्या तद्वै­य­र्थ्या­प्र­स­ङ्गा­दि­त्य­भि­प्रायः । नन्वा­त्म­वि­ष­यो­प­क्र­मो­प­सं­हा­रा­नु­सा­रेण शोक­रू­प­सं­सा­र­त­र­णो­पा­य­प्रा­र्थ­नो­प­क्र­म­त­दु­पा­य­की­र्त­नो­प­सं­हा­रा­नु­सा­रेण च परं ब्रह्मैव महा­प्र­क­र­णी­त्य­ङ्गी­कृत्य दुर्बलेनापि सन्निधानेन भूयः प्रश्न­प्र­ति­व­च­ना­भा­वा­ति­वा­दि­त्वा­ख्य­प्रा­ण­व्र­ता­नु­क­र्ष­ण­रू­प­लि­ङ्ग­द्व­या­नु­गृ­ही­तेन बाधो वक्तुं शक्यः ।
दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥
इति न्यायसाम्यात् । अथ वा प्राणो वा आशाया भूयानित्यारभ्य अथा­तोऽ­ह­ङ्का­रा­देश इत्ये­त­त्प­र्यन्तं प्राण­स्या­वा­न्त­र­प्र­क­र­ण­म­ङ्गी­कृत्य तेन महाप्रकरणस्य बाधो वक्तुं शक्यः । अत एव दार्श­पौ­र्ण­मा­सिके महा­प्र­क­र­णेऽ­नु­व­र्त­मा­नेऽपि अभिक्रामं जुहोत्यभिजित्या इति विधी­य­मा­न­स्या­भि­क्र­म­णस्य प्रया­जा­वा­न्त­र­प्र­क­र­णेन प्रयाजहोमाङ्गता ।
यद्यपि येना­भि­क्र­म­णा­दूर्ध्वं पुरस्ताच्च गुणोऽपरः ।
विधीयते प्रयाजानां तस्मात् प्रकरणास्तिता ॥
इत्युक्तरीत्या अभि­क्र­म­ण­वि­धा­नात् पश्चादपि प्रयाजानिष्ट्वा हवीं­ष्य­भि­धा­र­य­तीति प्रया­ज­की­र्त्त­न­यु­क्त­गु­ण­वि­धा­ने­ने­वात्र भूम­नि­रू­प­णा­न­न्तरं प्राण­की­र्त­न­यु­क्त­त­द्गु­ण­वि­धा­नेन संदंशन्यायो नास्ति तथापि संदंशवत् प्राण­व्र­ता­नु­क­र्ष­णा­दि­लि­ङ्ग­मपि तद­वा­न्त­र­प्र­क­र­णा­नु­वृ­त्ति­ग­म­क­मिति वक्तुं शक्यमिति चेत् । उच्यते । अनेन प्रकारेण पूर्वपक्षान्तरं प्रकरणान्ते परमात्मविवक्षा भविष्यति भूमा तु प्राण एवेति चेदिति भाष्य­ग­त­श­ङ्का­ग्र­न्थेन दर्शयिष्यत इतीह नोद्घाटितम् ।
सन्नि­धि­मा­त्र­मा­त्म­श­ब्द­स्येति ।
आत्मशब्द: पूर्वपक्षे प्राणपर इत्या­श­ये­ना­त्म­नोऽ­र्थस्य सन्नि­धा­न­म­नुक्त्वा शब्दमात्रस्य तदुक्तम् ।
तत्त्व इति ।
नामा­द्यु­त्त­रो­त्त­रो­त्कृ­ष्ट­व­स्तू­प­देशः पर­मो­त्कृ­ष्ट­ब्र­ह्म­प्र­ती­त्यर्थ इत्यर्थः । सत्यश्रुत्या प्राणा­ति­वा­दि­नोऽ­न्य­त्वेन प्रतीयमानः सत्यातिवादी तत उत्कृष्टः प्रतीयते तत एतस्योत्कर्षश्च तद­ति­व­द­न­नि­मि­त्ता­त्प्रा­णा­दे­त­द­ति­व­द­न­नि­मि­त्तस्य सत्य­स्यो­त्क­र्ष­मा­दाय पर्य्यवस्यतीति भावः ।
सर्वप्रकरण समाप्ताविति ।
कृत्स्नेयं भूमविद्या प्राणस्यैव प्रकरणं नामा­दि­ष्वा­रो­प्यो­पा­स्य­स्यापि प्राण­स्यो­द्गी­था­दिषु समा­रो­प्यो­पा­स्यानां हिर­ण्म­य­पु­रु­षा­का­श­प्रा­णा­दी­ना­मिव प्राधान्येन प्रति­पा­द्य­त्वो­प­प­त्ते­रिति प्राणस्य सन्निधिस्थाने महाप्रकरणं निवेश्य पूर्वपक्षान्तर (मात्मतः प्राण इति लिङ्गविरोधेन निराकृत्यात्मन एव महाप्रकरणे अहं­का­रा­दे­श­प­र्यन्तं प्राण­स्या­वा­न्त­र­प्र­क­र­ण­मिति पूर्वपक्षान्तर) माशङ्क्यत इति भावः ।
आ प्रक­र­ण­स­मा­प्ते­रिति ।
अवा­न्त­र­प्र­क­र­ण­स­मा­प्ति­प­र्य­न्त­मि­त्यर्थः ।
स एव प्राणः किं न स्यादिति ।
भूमा प्राण एवेति हि पूर्वपक्षः इति भाव: ।
पुरस्तादिति ।
यः सत्येनातिवदतीति पुर­स्ता­न्नि­र्देश: । तत्र निर्दिष्टस्यैव हि सत्यस्य विज्ञा­ना­दि­सा­ध­न­प­रं­प­रो­प­दे­श­क्र­मेण भूमरूपतयोपदेशः कृतः स भगव इत्यु­प­रि­ष्टा­न्नि­र्देशः ।
ननु प्राण­स्या­न्या­य­त्त­तोक्तिः प्राणाऽ­वा­न्त­र­प्र­क­र­ण­ब­लात् तन्मध्यपतितो भूमा प्राण इति शङ्काया न निव­र्त्ति­के­त्या­श­ङ्क्याह -
सत्य­श­ब्द­श्रुत्या चेति ।
तुश­ब्द­श्रु­ते­र­प्यु­प­ल­क्ष­ण­मे­तत् । तथा च तुशब्द सत्य­श­ब्द­श्रु­ति­वि­रो­धा­त्तत एव प्राणा­ति­वा­दि­त्वा­नु­वृ­त्ति­लि­ङ्ग­स्या­सिद्धेः प्रश्न­प्र­ति­व­च­ना­न्त­रा­भा­व­लि­ङ्ग­स्या­न्य­था­सि­द्धेश्च न प्राण­स­न्नि­धे­र्ब­ल­वत्त्वं नाप्य­वा­न्त­र­प्र­क­र­ण­लाभ इत्याशयः ।
सौषु­प्ति­क­सु­ख­भ­वनं न विधेयं सुख­म­ह­म­स्वा­प्स­मि­त्य­नु­भ­व­सि­द्ध­त्वात् किं तु तस्य सुषु­प्त­श­री­रा­व­च्छे­देन तदभिव्यक्तिरेव विधेया तेन प्राणाग्नय एवैतस्मिन् पुरे जाग्र­ती­त्य­व­धा­र­णाद् जीवस्य मृताविव सुप्तावपि शरी­रा­न्नि­ष्क्र­म­ण­म­स्तीति शङ्का­व्या­वृ­त्ति­र्ल­भ्यत इत्यभिप्रेत्य तथा श्रुतिं योजयति -
तदस्मिन् शरीरे इति ।
प्राणो भूमेति पूर्वपक्षे शोकतरणादीनां भूमाऽनन्वयात् संप्र­सा­दा­द­ध्यु­प­दे­शस्य सौचहेततोः प्राण­ता­नु­क­र्ष­ण­प्र­श्नो­त्त­रा­भा­व­लि­ङ्गा­भि­भू­त­त्वा­द­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ।

अक्ष­र­म­म्ब­रा­न्त­धृतेः ॥१०॥
रूढि­नि­रू­ढि­भ्या­मिति ।
नन्वक्षरं न क्षरं विद्या­द­श्नो­तेर्वा सरोऽक्षरमिति महाभाष्ये वर्णेऽपि योग­प्र­द­र्श­ना­न्नि­रू­ढि­रे­वेति चेन्न । वर्णानां नित्य­वि­भु­त्व­पक्ष तत्प्रदर्शनात् । तत्प­क्षेऽ­प्यो­मि­त्ये­त­द­क्ष­र­मि­त्या­दि­ष्व­क्ष­र­श­ब्द­नि­र्दिष्टे द्वित्रा­दि­क्र­मि­क­व­र्ण­स­मु­दाये समा­रो­पि­त­क्र­म­वि­शे­ष­वि­शि­ष्ट­त्वे­नाऽ­नित्ये परिच्छिन्ने च तस्य रूढे­रा­श्र­य­णी­य­त्वा­दिति भावः ।
ननु लिपिषु कका­रोऽ­य­मि­त्यादिः शब्दा­त्म­त्वा­नु­भ­व­स्त­द्ग­म्य­त्व­कृतो दृष्ट इत्या­श­ङ्का­नि­वा­र­क­मपि चेति ग्रन्थमवतारयति -
अर्थे शब्दा­त्म­क­त्वा­नु­भव इति ।
ननु गौर­य­मि­त्या­दि­श­ब्दा­नु­वि­द्ध­प्र­त्ययाः शब्देष्वर्थानां तादा­त्म्ये­नो­त­प्रो­त­त्वा­ल­म्ब­ना­श्चेद् ब्रह्मविषया अपि शब्दा­नु­वि­द्ध­प्र­त्ययाः तथा स्युरिति चेत् कस्तत्र संदेहः । यदूर्ध्वं गार्गि दिव इत्यादिना सक­ल­लो­क­व­र्त्ति­व­स्तु­जा­ता­श्र­य­त्वेन भूत­भ­वि­ष्य­द्व­र्त­मा­ना­का­र­प­रि­णा­मि­मू­ल­प्र­कृ­त्य­व्या­कृ­ता­श्र­य­त्वेन च प्रतिपाद्यमान आकाशो ब्रह्मैव ब्रह्मा­ति­रि­क्तस्य ताव­दा­श्र­य­त्वा­भा­वात् । पूर्वं गार्गिब्राह्मणे पृथि­व्या­दि­ब्र­ह्म­लो­का­न्त­स­क­ल­लो­का­धारे पृष्टे प्रश्नोऽयं ब्रह्मविषयः पर्यवसन्नः ब्रह्म च गुरु­शि­ष्य­म­र्या­दा­म­ति­क्र­म्या­न्या­येन जल्पकथायां न प्रष्टु­मु­चि­त­मि­त्या­श­य­वता याज्ञवल्क्येन गार्गि माति­प्रा­क्षीर्मा ते मूर्द्धा व्यप­त­द­न­ति­प्रश्न्यां वै देव­ता­म­ति­पृ­च्छ­सीति सक्रोधं निवारितस्यैव प्रश्नस्य गार्ग्या सर्वथैव पराजयो मा भूदिति ब्राह्म­णा­ना­म­नुज्ञां लब्ध्वा पुनरवतारणे कृते याज्ञ­व­ल्क्ये­ना­काश एव तदोतं च प्रोतं चेत्युक्तस्य तदुत्तरस्य ब्रह्म­वि­ष­य­त्वा­व­श्यं­भा­वाच्च तद­प्य­क्ष­रा­श्रि­त­त्वेन प्रतिपादितं कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति प्रश्नो­त्त­रा­भ्याम् । एवं च प्रशा­सि­तृ­त्व­द्र­ष्टृ­त्व­श्रो­तृ­त्वा­दि­ब­हु­लि­ङ्ग­वि­रो­धा­द­क्ष­र­श्रु­ति­र्दु­र्ब­लेति शङ्कापि निरस्ता । ब्रह्माश्रयस्य ब्रह्मत्वायोगेन ब्रह्मणि जीव­ध­र्मा­णा­मि­वा­क्षरे ब्रह्मधर्माणां तादात्म्याद् व्यपदेश इति कल्पनोपपत्तेः ।
धार­यि­तु­म­र्ह­ती­त्य­नु­षङ्ग इति ।
ननु परमात्मा वा कथमाकाशान्तानि धारयितुमर्हति परमात्मैव ह्यत्रा­का­श­श­ब्देन निर्दिष्टः न च स एव तद्धा­र­यि­तु­म­र्ह­तीति चेत् । उच्यते । यदि यदूर्ध्वं गार्गि दिव इत्या­दि­नाऽ­नु­क्रा­न्तस्य सर्वस्य प्रपञ्चस्य पर­मा­त्म­नोऽ­न्य­दा­धा­री­भ­वितुं नार्ह­ती­त्या­का­शोऽत्र स एवेष्यते तर्हि सक­ल­प्र­प­ञ्च­वि­शि­ष्टस्य तस्याधारभूतं किञ्चि­द­न्य­द्वस्तु भवितुमर्हतीति का प्रत्याशा । न ह्येतावद्धान्यं वोढुमिह कुसूलादन्यद् भाजनं नास्तीति निश्चयवतः तेन धान्येन विशिष्टं कुसूलं वोढुमन्यद् भाजनमस्तीति संभावनाऽपि हृदयमधिरोहति । नामधेयसंभिन्नं सर्व­श­ब्द­वा­च्य­मिति प्रक्रिया तु टीकायामनुपदमेव स्वरू­प­प्र­मा­णा­र्थ­क्रि­या­भे­दै­र्नि­रा­क­रि­ष्यते । तत्र घट­मृ­त्पि­ण्ड­प­ट­त­न्त्वा­दि­व­त्स्व­रू­पा­र्थ­भे­द­स्यो­प­पा­द­न­सं­भ­वेऽपि प्रमाणभेदो न शक्योपपादनः । श्रोत्र­ग्रा­ह्यस्य शब्दस्य गौरयमिति चक्षु­र्ग्रा­ह्य­त्वा­सं­भ­वात् । ब्राह्मणोऽयं गौरो दण्डी कुण्डली कम­ण्ड­लु­मा­नि­त्या­दिषु सर्वेषां पदानां स्वस्व­रू­प­स­म­र्प­ण­मा­त्रा­र्थ­त्वेन जाति­गु­ण­वि­शे­षा­द्य­न­व­गत्या तत्सं­दे­हाऽ­नि­वृत्ति प्रसङ्गात् । सर्वस्यापि शब्दवाच्यस्य स्वस्व­ना­म­धे­य­द्वा­रा­का­रा­श्रि­त­त्वा­भ्यु­प­गमे तस्यापि प्रण­वो­ङ्का­रा­दि­श­ब्द­वा­च्यस्य तदाश्रितत्वस्य वक्त­व्य­त्वे­ना­क्ष­र­श­ब्दस्य व्यव­स्थि­ता­र्था­ला­भ­प्र­स­ङ्गाच्च । तस्माद्यद्भूतं भव­च्चे­त्या­दि­वाक्ये यद्भूतं यद्भवद् यच्च भवि­ष्य­त्ता­व­दा­धा­रत्वं विवक्षितं न तु भूत­भ­व­द्भ­वि­ष्य­दा­त्म­का­व्या­कृ­ता­धा­र­त्वम् । गार्गिब्राह्मणे सक­ल­लो­का­धा­र­प्र­श्न­नि­वा­रणं साक्षा­त्त­दु­त्त­र­स्या­न्य­वि­ष­य­त्वेऽपि पुनस्तदाधारस्य प्रश्न: परमात्मविषयो भविष्यतीति स मा भूदिति दूरदृष्ट्या कृतमित्याशयं वर्णयित्वा अवकाशात्मना सक­ल­प्र­प­ञ्चा­धा­रस्य भूता­का­श­स्येा­पा­दा­ना­त्मना तदा­धा­र­स्या­व्या­कृ­तस्य वाऽत्रा­का­श­श­ब्देन ग्रहणमिति योजनीयम् । अतो­म्ब­रा­न्त­धृतेः परमात्मन्येव संभव इत्युक्तं युक्तमेव । नन्व­म्ब­रा­न्त­धृ­ति­रिह न श्रुता । ओत­प्रो­त­त्व­व­च­न­स्या­धे­य­त्व­प­र­त्वा­भा­वात् । पूर्व­म­न्त­रि­क्ष­लोकाः कस्मिन्नोताश्च प्रोताश्च गन्धर्वलोकेषु गार्गी­त्या­दि­प्र­श्नो­त्त­रे­ष्व­न्त­रि­क्ष­लोक गन्ध­र्व­लो­का­दीनां ब्रह्म­लो­का­न्तानां पूर्वपूर्वस्य तत्त­दू­र्ध्व­दे­श­व­र्त्ति­न्यु­त्त­रो­त्त­र­स्मि­न्नो­त­प्रो­त­त्व­व­च­नानां यथा पटे दीर्घ­ति­र्य­क्त­न्तव ओत­प्रो­ता­स्त­दे­क­देशा एवं गन्धर्वलेाकानां विभूतौ दृश्य­मा­ना­या­म­न्त­रि­क्ष­लो­का­स्त­दे­क­दे­श­प्राया इत्युत्तरो ज्यायान् भवत्येवमेव हीमे लोका इति श्रुत्य­न्त­र­सि­द्धात् सादृश्याद् गौणताया वक्तव्यत्वेन तत्प्रा­य­पा­ठा­त्त­दु­प­रि­त­न­प्र­श्नो­त्त­र­सं­द­र्भ­रू­पा­क्ष­र­ब्रा­ह्म­ण­ग­तो­त­प्रो­त­त्व­व­च­न­स्यापि तथै­वा­र्थ­प्र­ती­ते­रिति चेत् । मैवम् । ओतं मनः सह प्राणैश्च सर्वैः मयि सर्वमिदं प्रोत­मि­त्या­दि­श्रु­ति­स्मृ­ति­ष्वा­धेये दृष्ट­प्र­येा­गा­भ्या­मो­त­प्रो­त­श­ब्दा­भ्या­मि­हापि प्रकरणे धृतेरेव प्रति­पा­द­यि­तु­मु­चि­त­त्वाद् वच­न­ब­ला­दू­र्ध्व­व­र्त्ति­ना­मपि गन्ध­र्व­लो­का­दी­ना­म­न्त­रि­क्ष­लो­का­दि­धा­र­क­त्वस्य पर्वतानां क्षिति­धा­र­क­त्व­स्येव ध्रुवस्य ज्योति­श्च­क्र­धा­र­क­त्व­स्येव कल्पनीयत्वात् । आध्या­ना­धि­क­र­णो­क्त­री­त्ये­न्द्रि­येभ्यः परा ह्यर्था इत्या­दि­श्रु­ता­वि­न्द्रि­या­दि­श­री­रा­न्ता­ना­मु­त्त­रो­त्त­र­प­र­त्व­व­च­न­जा­तस्य पुरुषः सर्वतः पर इत्य­त्रे­वा­न्त­रिक्ष लोका­द्यो­त­प्रो­त­त्व­व­च­न­जा­त­स्याऽ­क्षरे सर्वं जग­दो­त­प्रो­त­मि­त्य­त्रैव तात्प­र्य­स्यै­क­वा­क्य­ता­नु­रो­धा­त्क­ल्प­नी­य­त्वेन तात्प­र्याऽ­वि­ष­यो­त­प्रो­त­त्व­व­च­नानां तथा­भू­त­प­र­त्व­व­च­ना­ना­मिव यथा­क­थ­ञ्चि­न्न­य­नेऽपि प्रति­पि­पा­द­यि­षि­तो­त­प्रो­त­त्व­व­च­नस्य श्रुत्य­न्त­र­प्र­सि­द्धा­र्थ­ताया एव युक्तत्वाच्च । अव्याकृतस्य प्रशा­सि­तृ­त्वा­यो­गा­दिति युक्तः पाठः । शासे: सेट्त्वाद् ग्रसि­त­स्क­भि­ते­त्या­दि­सूत्रे शास्तृनिपातनस्य छन्दोविषयत्वात् ।
अभग्नायामपि रूढाविति ।
प्रधा­न­नि­रा­क­र­णा­र्थ­म­म्ब­रा­न्त­धृ­ति­हे­तु­मुक्त्वा तस्य पुनः प्रधा­न­सा­धा­र­ण्य­नि­रा­सा­र्थ­मा­का­श­श­ब्दस्य रूढि­भ­ङ्गे­ना­व्या­कृ­त­प­र­त्वो­प­पा­द­क­तया प्रशा­सि­तृ­त्व­हेतुः किमर्थं वक्तव्यः । प्रथममेवाक्षरं प्रशासनादिति हेतुना प्रधा­न­पू­र्व­प­क्ष­नि­रा­सो­प­पत्त्या तदर्थं रूढि­भ­ङ्ग­स्या­क­र्त्त­व्य­त्वा­दिति भावः । इदं च भास्क­रा­द्यु­क्त­रीत्या नाका­श­प­द­स्याऽ­व्या­कृ­त­प­रत्वं रूढ्यभङ्गेनापि तन्नि­र्वा­हा­दि­त्ये­त­द­भि­प्रायं न त्वत्राकाशपदं भूता­का­श­प­र­मे­वे­त्ये­त­द­भि­प्रा­यम् । सक­ल­क­ल्पा­नु­या­यि­स­म­स्त­वि­का­र­जा­ता­धा­र­त्वस्य प्रतिकल्पं भिन्ने भूता­का­शेऽ­नु­प­प­न्न­त्वे­ना­त्रा­का­श­श­ब्द­स्या­व्या­कृ­त­प­र­त्वा­व­श्यं­भा­वात् । अत एवाऽऽ­नु­मा­नि­का­धि­क­रणे भाष्य­का­रै­र­स्या­का­श­श­ब्द­स्या­व्या­कृ­त­प­रत्वं वक्ष्यते ।
प्रौढ्यैष वाद इति ।
हिरण्यं निधा­या­ग्नि­श्वे­तव्य इति विधि­स्तु­त्य­र्थेन पृथि­व्या­म­ग्नि­श्चे­तव्यो नान्तरिक्षे न दिवीत्यर्थवाद इवे­हा­प्य­प्रा­प्त­नि­षेधः संभ­व­ती­त्य­य­म­प्रा­प्ति­म­भ्यु­पेत्य वाद इत्यर्थः ।
प्रकृ­ति­वि­का­राऽ­न­न्य­त्वे­नेति ।
अभि­धा­ना­भि­धे­यानां प्रकृ­ति­वि­का­र­भाव: स्फोटवाद्यभिमतः । स्फोटम्तु सोपपादनं देव­ता­धि­क­र­णे­प्र­दर्श्य निराकरिष्यते ।
प्रकृ­ति­वि­का­रा­न­न्य­त्वे­ना­र्थ­धर्माः स्थौल्यादयः शब्दे­ष्वे­ष्टव्या एवेति कथं तत्प्रतिषेध इत्याशङ्क्य प्रधान इव कार्या­व­स्था­ना­प­त्ति­द­शा­या­मपि तेषु तत्प्रसक्त्या प्रतिषेध इत्याह -
प्रलयावस्थेति ।
प्रप­ञ्चा­धि­ष्ठा­नेति ।
कृत्स्नस्यापि कार्यस्य मिथ्या­त्वे­नाऽ­वि­द्या­प­रि­णा­म­तया तदभिन्नत्वेन प्रशा­सि­तृ­त्व­स्यापि तथात्वात् तद्वाचस्पतिमते जीवाश्रितमेव स्याद् न ब्रह्मा­श्रि­त­म­वि­द्या­या­स्त­न्मते जीवाश्रितत्वात् । न च तथापि तन्मते ब्रह्मणः सर्व­प्र­प­ञ्चा­धि­ष्ठा­न­त्व­म­स्ती­त्ये­ता­वता तस्य ताद्धर्म्यलाभः । जीवा­श्र­य­दुः­ख­द्वे­षा­दि­सा­धा­र­णे­ना­धि­ष्ठा­न­ता­मा­त्रेण तदलाभादिति भावः ।
रज्ज्वामिति ।
जीवाज्ञातब्रह्म विवर्तरूपं प्रशासितृत्वं ब्रह्म­ध­र्म­त­यै­वा­रो­प्यते रज्ज्वि­द­मं­श­ता­दा­त्म्ये­नेव भुजङ्ग इति (ब्रह्मणः प्रशा­सि­तृ­त्व­मु­प­प­द्यत ) इति भावः । आरोपितं प्रशासितृत्वं प्रधानेऽपि वक्तुं शक्यमिति शङ्कामनूद्य श्रुति­व­शा­त्क­ल्प­नीय आरोप: सदृश एव कल्पयितुमुचितः तत्र लोक­दृ­ष्ट्य­ति­क्रमे कारणाभावादिति परिहरति हन्तेत्यादिना । प्रधानेऽपि तदारोपे तदपि प्रशासितृ किं न स्यादिति पाठः । तमारोप्येति पाठश्चेत् पूर्वकालत्वमेव क्त्वार्थः न समा­न­क­र्तृ­क­त्व­मपि । सेतुं दृष्ट्वा समुद्रस्य मुच्यते ब्रह्म­ह­त्य­ये­त्या­दि­द­र्श­ना­दिति पक्षमाश्रित्य निर्वाह्य: । अम्बरान्तधृतिः सौचो हेतुरम्बरं ब्रह्मेति धृतिर्न श्रुतेति च शङ्का­भि­भू­त­त्वा­द­स्पष्ट इत्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः ॥१३॥
पर्युदासित इति ।
णिजर्थो न विवक्षितः पर्युदस्त इत्यर्थः । तार­का­दे­रा­कृ­ति­ग­ण­त्वेन संजातपर्युदास इति वा तदर्थे वर्णनीयः ।
ततो हेतोरपरं ब्रह्म ध्येयमिति ।
यद्यपि पर­वि­ष­या­णा­म­हं­ग्र­हो­पा­स­ना­ना­म­प्य­र्च्चि­रा­दि­प्रा­प्याऽ­प­र­लेा­क­प्रा­प्ति­फ­ल­क­त्व­म­वि­शिष्टं तथाप्येतद्वै सत्य­का­मे­त्या­द्यु­प­क्रमे परवेदनात् पर­प्रा­प्ति­र­प­र­वे­द­ना­द­प­र­प्रा­प्ति­रिति विभज्य कथ­ना­दि­हा­प­र­प्रा­प्ति­र­परं ध्यात­व्य­मि­त्यत्र लिङ्गं भवेदेव । न चैवं सत्यु­प­क्र­म­प्र­ति­ज्ञा­त­प­र­वे­द­न­फलं न प्रदर्शितं स्यादिति शङ्कनीयम् । ऋग्भिरेतं यजु­र्भि­र­न्त­रिक्षं सामभिर्यत्कवयो वेदयन्ते तमो­ङ्का­रे­णा­न्वेति विद्वान् यत्त­च्छा­न्त­म­ज­र­म­मृ­त­म­भयं परं चेति तदनन्तरमन्त्रे स सामभिरुन्नीयते ब्रह्म­लो­क­मि­त्यु­क्त­म­प­र­वे­द­न­फ­ल­मु­प­सं­हृत्य परवेदनस्य शान्त­त्वा­दि­वि­शि­ष्ट­प­र­ब्र­ह्म­प्राप्तिः फलमिति प्रद­र्श­यि­ष्य­मा­ण­त्वात् ।
अङ्गीकृत्येति ।
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगु­णै­र्नि­गू­ढा­मि­त्यत्र ध्यानं ब्रह्मविषयम् ईक्ष­ण­म­वि­द्या­श­क्ति­वि­ष­य­म­त­स्त­त्रे­क्षणं तत्त्वविषयमिति नियमस्य ध्याने­क्ष­ण­यो­रे­क­वि­ष­य­त्व­नि­य­मस्य च भङ्ग इति भावः ।
ईक्ष­ण­ध्या­न­यो­रिति ।
अदृ­ष्टा­द्वा­र­क­स्तयोः कार्य्यकारणभाव एकविषयत्वनियत इति भावः ।
तत्त्व­वि­ष­य­त्व­मौ­त्स­र्गि­क­मिति ।
यद्यपि प्रायि­क­त्व­मौ­त्स­र्गि­क­त्व­मिति विव­क्षा­या­मी­क्ष­ण­स्या­त­त्त्व­वि­ष­य­त्व­मे­वो­त्स­र्गिकं पर­ब्र­ह्म­सा­क्षा­त्का­र­मेकं विना प्रप­ञ्चा­न्त­र्ग­त­व­स्तु­जा­त­वि­ष­यस्य सर्व­स्ये­क्ष­ण­स्याऽ­त­त्त्व­वि­ष­य­त्वात् । तथाप्यपवादाभावे अत्य­न्ता­बा­ध्य­वि­ष­यत्वं ग्राह्यं मुख्य­त्वा­दि­त्ये­वं­रू­प्मौ­त्स­र्ग­क­त्व­मिह विवक्षितम् । किं चात्रेक्षणं पर­ब्र­ह्म­वि­ष­य­मि­त्य­वश्यं वाच्यम् । हिर­ण्य­ग­र्भ­वि­ष­यत्वे वाक्य­वै­य­र्थ्यात् । तल्लोकं प्राप्त­स्त­दु­पा­स­क­स्त­मी­क्षत इत्य­स्या­र्थ­सि­द्ध­त्वात् । न च पर­ब्र­ह्म­वि­ष­य­त्वेऽपि वाक्यवैयर्थ्यं तुल्यं हिर­ण्य­ग­र्भ­प्रा­प्ते­र­पु­न­रा­वृ­त्ति­श्रुत्या क्रम­मु­क्ति­फ­ल­नि­य­त­त्वेन तल्लोकप्राप्तौ पर­ब्र­ह्म­सा­क्षा­त्का­र­स्या­र्थतः सिद्धत्वादिति वाच्यम् । इमं मानवमावर्तमिति श्रुताविममिति विशे­ष­णे­ना­व­र्ता­न्तरे पुन­रा­वृ­त्ते­र­प्य­भ्य­नु­ज्ञा­नेन तत्प्राप्ते: क्रम­मु­क्ति­नि­य­त­त्वा­भा­वात् । नन्वी­क्ष­ण­ध्या­न­यो­रे­क­वि­ष­य­त्व­मी­क्ष­णस्य तत्त्व­वि­ष­य­त्व­मि­त्यु­भयं परस्परविरुद्धं निर्विशेषस्य त्रिका­ला­बा­ध्यस्य सम­न्व­य­सू­त्र­भाष्ये तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति श्रुत्यनुरोधेन ध्येयत्वस्य निषिद्धतया ध्यानं सर्वत्र कल्पि­त­गु­ण­वि­शि­ष्ट­वि­ष­य­मिति वक्तव्यत्वाद् विशिष्य चात्र ब्रह्मा­भे­द­दृ­ष्टि­वि­शि­ष्ट­प्र­ण­वो­पा­स­नस्य कल्पि­त­वि­ष­य­त्वाऽ­नि­वा­र­णा­दिति चेत् । उच्यते । भावनाप्रचयस्य साक्षा­त्का­र­ज­न­कत्वे तद्विषयविषयत्वं तन्त्रं न तु तद­न्याऽ­वि­ष­य­त्व­मपि गौरवात् । अस्ति चात्र विधेयस्य ध्यानस्य प्रण­व­रू­प­क­ल्पि­त­व­स्तु­वि­ष­य­त्वेऽ­पी­क्ष­णी­य­ब्र­ह्म­वि­ष­य­त्व­मपि । अतो न दोषः । यद्यप्येवं सति ध्यानस्य हिर­ण्य­ग­र्भ­रू­प­जी­व­वि­ष­य­त्वेऽपि तत्त्वविषयत्वं नापैति तत्र जीवत्वोपाधेः कल्पितत्वेऽपि स्वरू­प­स्या­बा­ध्य­त्वात् । तथापि ध्याने­क्ष­ण­यो­र­व­श्य­क­ल्प­नीयं विषयैक्यं निर्दो­ष­ब्र­ह्म­वि­ष­य­त्वे­नैव कल्पयितुमुचितं न तु सदो­ष­नि­र्दो­ष­जी­व­ब्र­ह्म­वि­ष­य­त्वे­नेति तात्पर्यम् । स्यादेतत् । ईक्ष­ण­ध्या­न­यो­र्नात्र कार्यकारणभावो विवक्षितः । यतः परा­प­र­वे­द­न­यो­स्त­त्प्रा­प्ति­फ­ल­क­त्वे­नो­प­क्र­म­प्र­ति­ज्ञा­त­यो­र­प­र­वे­द­न­मो­ङ्का­र­प्र­ती­क­वि­ष­या­प­र­ध्या­न­रूपं तल्लोकप्रातिफलं ब्रह्म­लो­क­मि­त्य­न्ते­नोक्तं स एत­स्मा­दि­त्या­दिना तु पर­वे­द­न­मो­ङ्का­र­सा­धनं साक्षा­त्का­र­रू­प­त­त्प्रा­प्ति­फ­ल­मु­क्त­मि­त्य­वश्यं व्याख्येयम् । ऋग्भिरेतमिति मन्त्र­श्वो­क्ता­र्थ­द्व­य­स­म्म­ति­त्वे­नो­दा­हृत इति योजनीयम् । ध्यान­त­त्फ­ल­क­थ­न­यो­र­प­र­वि­ष­य­त्वा­भावे प्रति­ज्ञा­ता­र्थ­नि­र्वा­हात् । एवं च स एतस्मादिति वाक्ये तत्पदं तस्मा­द्वि­द्वा­निति व्यव­हि­त­प्र­स्तु­त­प­र­वे­दि­तृ­प­रम् ।
तच्च वाक्यमपरध्यान विष­य­पू­र्व­वा­क्या­न­न्वयि ततो भिन्नं सर्व­ना­म्ना­म­व्य­व­हि­त­प­र­त्वा­स­म्भवे व्यव­हि­त­प­र­त्व­स्यै­क­वा­क्य­त्वा­स­म्भवे वाक्यभेदस्य च न्याय्यत्वादिति शङ्का­नि­रा­क­र­णा­र्थ­मपि चेति ग्रन्थमवतारयति -
प्रका­रा­न्त­रे­णेति ।
प्रमा­ण­द्व­या­नु­रो­धे­नेति ।
स एतस्मादित्यत्र तत्पदस्य पूर्व­त­त्प­द­यो­रि­वा­व्य­व­हि­त­प्र­स्तु­त­ध्या­तृ­प­रत्वं पर­पु­रु­ष­प्र­त्य­भि­ज्ञानं च ध्याने­क्ष­ण­वा­क्य­यो­रे­क­वा­क्य­त्वा­पा­द­क­मिह प्रमाणद्वयं प्रति­ज्ञा­त­म­प­र­ब्र­ह्म­वे­द­न­त­त्फ­ल­क­थनं तु टीको­क्त­प्र­का­रे­णै­क­मा­त्र­द्वि­मा­त्रो­पा­स­न­त­त्फ­ल­क­थ­न­मे­वेति नेतव्यम् । यद्य­प्ये­क­मा­त्र­प्र­ण­वो­पा­स­नस्य तत्प्र­थ­म­मा­त्रा­त्म­क­ऋ­ग्वे­द­प्रा­प­णी­य­म­नु­ष्य­लो­क­प्राप्तिः द्विमा­त्र­प्र­ण­वो­पा­स­नस्य तद्द्वि­ती­य­मा­त्रा­त्म­का­न्त­रि­क्ष­लो­क­प्रा­प्तिश्च फलं पृथि­व्य­न्त­रि­क्ष­लो­क­प्रा­प्तिश्च न हिर­ण्य­ग­र्भ­रू­पा­प­र­ब्र­ह्म­प्राप्तिः तथापि तयो­रु­पा­स­न­यो­र्न्यू­न­प्र­ण­व­वि­ष­य­यो­र्न्यू­न­म­परं ब्रह्मै­वौ­चि­त्यात् प्रणवारोप्यम् अपरं ब्रह्म पर्य्यवस्यतीति तयोः फलमेव । तस्मा­द्वि­द्वा­ने­क­त­र­म­न्वे­तीति प्रति­ज्ञा­ता­प­र­ब्र­ह्म­प्रा­प्ति­तया विवक्षितं भवति । न चाऽतथाभूतस्य तथा­त्व­वि­व­क्ष­याऽत्र कश्चिद्दोषः स यो ह वै तद्भ­ग­व­न्म­नु­ष्येषु प्राय­णा­न्त­मो­ङ्का­र­म­भि­ध्या­यीत कतमं वाव स तेन लोकं जयतीति सत्य­का­म­प्र­श्नो­त्त­रस्य कृत्स्न­स्या­प्ये­तद्वै सत्य­का­मे­त्या­रभ्य प्रवृत्तस्य प्रकरणस्य पर­ब्र­ह्माऽ­भे­द­दृ­ष्टि­वि­शि­ष्ट­त्रि­मा­त्रो­पा­स­ना­वि­ध्य­र्थ­त्वे­नै­का­र्थ­प­र­तया तद­न्त­र्ग­त­यो­रे­क­मा­त्र­द्वि­मा­त्रो­पा­स­ना­त­त्फ­ल­व­च­न­यो­रो­ङ्का­र­स्यायं महिमा यन्मा­त्रा­वै­गु­ण्ये­ना­प­र­ब्र­ह्म­दृ­ष्ट्यो­पा­स्य­मा­नोऽपि कस्मै चित्फलाय भवति तस्मा­दे­वं­भू­त­म­हि­माऽ­य­मो­ङ्कारो हेयमल्पफलमपरं ब्रह्म विहाय पर­ब्र­ह्म­दृष्ट्या त्रिमात्र एवोपासनीय इत्येवं त्रिमा­त्रो­पा­स­ना­स्तु­त्य­र्थ­त्वात् स्तुतेश्च यथा­क­थ­ञ्चि­दा­ल­म्ब­न­मा­त्रेण चारितार्थ्यात् । सत्य­का­मे­नो­ङ्का­रा­ल­म्ब­न­ध्या­न­फ­ल­स्यैव पृष्ट­त्वे­ने­क्ष­ण­वा­क्यस्य ध्यानाऽ­का­र्यो­ङ्का­र­सा­ध­न­क­ब्र­ह्म­वे­द­न­फ­ल­प­र­ता­या­म­पृ­ष्टो­त्त­र­त्वा­पत्त्या पर­ध्या­न­फ­ल­स­म­र्प­क­तया तद्ध्या­न­वा­क्यै­क­वा­क्य­ताया वक्तव्यत्वेन परि­शे­षा­दे­क­मा­त्र­द्वि­मा­त्रो­पा­स­ना­त­त्फ­ल­व­च­न­यो­रे­वा­प­रो­पा­स­ना­त­त्फ­ल­व­च­न­त­याऽ­वश्यं व्याख्ये­य­त्वाच्च । न चैव­म­पी­क्ष­ण­वा­क्य­स्या­पृ­ष्टो­त्त­र­त्व­म­नि­षार्यं ध्यानप्राप्यस्य लोकस्यैव पृष्टत्वादिति वाच्यम् । प्राप्य­लो­का­नु­ब­न्धि­त्वेन तत्प्रशंसार्थं पाप्म­नि­र्मो­क­सू­र्य्य­सं­प­त्ति­व­दी­क्ष­ण­स्यापि वर्णनापपत्तेः ।
ब्रह्मो­ङ्का­रा­भे­दो­प­क्र­मा­दिति ।
नन्वेवं प्रतीकोपासनेयं कथं ब्रह्म­लो­क­प्रा­प्ति­फला । वचनबलादिति ब्रूमः । अत एवात्र ब्रह्म­लो­क­प्रा­प्ति­व­च­न­म­र्थ­वत् । अह­ङ्ग्र­हो­पा­स­नत्वे तद्यइत्यं विदु­रि­त्या­दि­सा­मा­न्य­व­च­ना­देव तत्प्रा­प्ति­फ­ल­सिद्धेः । सूर्य्या­न्तः­स्थ­मिति सूर्य्य­सं­प­त्ति­व­च­ना­नु­रो­धा­दित्थं व्याख्यातस्य वचनस्य प्रशं­सा­र्थ­म­र्चि­रा­दि­मा­र्ग­भा­वि­सू­र्य­प्रा­प्त्य­नु­वा­दत्वे ध्येयः सूर्या­न्तः­स्थ­त्व­गुणो न सिध्यति किन्त्वी­क्ष­ण­वा­क्य­श्रुतः पुरिशयत्वगुण एव तदेकवाक्यतयात्र ध्यान­वि­ध्य­पे­क्षि­त­त्वेन ध्येयगुणः सिध्यति सोऽपि वा न ध्येयगुणः । आचार्यैः परं निर्विशेषमिति प्राक् प्रणवे ध्येयस्य परस्य निर्वि­शे­ष­तोक्तेः किन्तु पुरि­श­य­मि­त्ये­त­ल्ल­क्ष­णी­य­म­हा­वा­क्या­र्थ­जी­वा­भे­द­स­म­र्प­णा­र्थम् । प्राप्यते इति प्रापयतेः कर्मणि लकारः । णेरनिटीति णिलोपः । प्रापयत इति पाठस्तु लेखकप्रमादायातः । ईक्ष­ति­क­र्म­त्व­हे­तेा­र्ब्र­ह्मै­का­न्त्य­म­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥

दहर उत्तरेभ्यः ॥१४॥
दह­र­वा­क्य­शे­ष­ग­तेति ।
ननू­त्त­म­पु­रु­ष­शब्दः प्रजा­प­ति­वा­क्य­शेषे न तु दहरवाक्यशेषे । सत्यम् । सिद्धान्ते सगु­ण­नि­र्गु­ण­ब्र­ह्म­वि­ष­य­तया भिन्नयोरपि दह­र­प्र­जा­प­ति­वि­द्य­यो­र­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­जी­वै­क­वि­ष­यत्वं वदन् पूर्वपक्षी पौर्वा­प­र्ये­णा­म्ना­त­यो­स्त­यो­रे­क­वि­द्यात्वं मन्यत इति तदीये पूर्वा­धि­क­र­णा­क्षे­प­वाक्ये तदभिमानानुसारेण दहरवाक्ये शेषगतेत्युक्तम् । अत एव टीका­या­म­प्यु­त्त­रा­च्चे­दिति सूत्रो­प­न्य­स्त­पू­र्व­प­क्ष­वि­व­र­णा­रम्भे दहराकाशमेव प्रकृत्य श्रूयत इति दह­र­वि­द्यै­क­प्र­क­र­ण­तया प्रजा­प­ति­वि­द्याऽ­व­ता­र­यि­ष्यते । ननु तथाप्युक्तविधया पूर्वा­धि­क­र­णा­क्षेपो न युज्यते उत्त­म­पु­रु­ष­श­ब्द­वत् परपुरुषशब्दस्य जीव­वि­ष­य­त्व­स­म्भ­वेऽपि ततः पर­पु­रु­ष­श­ब्द­प्र­त्य­भि­ज्ञया ध्याने­क्ष­ण­वा­क्य­येा­रे­क­वि­ष­य­त्व­सि­द्धा­वी­क्ष­णस्य तत्त्व­वि­ष­य­त्व­नि­य­माद् ध्यानमपि तात्त्वि­क­प­र­ब्र­ह्म­वि­ष­य­मिति सिद्धा­न्त­सि­द्धे­श्च­ल­ना­भा­वा­दिति चेत् । उच्यते । एष संप्रसाद इत्या­द्यु­त्त­म­पु­रु­ष­श­ब्द­घ­टि­त­वा­क्यो­पा­त्ता­भि­नि­ष्प­त्ति­श­ब्दो­क्त­मी­क्षणं पूर्वपक्षे जीवविषयमिति तद्वत्स एतस्मादिति वाक्यो­क्त­म­पी­क्षणं हिर­ण्य­ग­र्भ­जी­व­वि­षयं भविष्यतीति प्रथममिहाक्षेपो विवक्षितः । ततश्च तदेकविषयस्य ध्यानस्यापि तद्वि­ष­य­त्व­सिद्धौ कथं ध्याने­क्ष­ण­वा­क्य­यो­र­प­र­ब्र­ह्मणि परपुरुषशब्द इत्या­का­ङ्क्षा­या­मिह जीव­मा­त्रेऽ­प्यु­त्त­म­पु­रु­ष­शब्दो दृश्यते हिरण्यगर्भे परपुरुषशब्दस्य काऽनु­प­प­त्ति­रि­त्ये­व­मा­श­ये­य­मा­चा­र्योक्तिः । इय­मा­क्षे­प­स­ङ्ग­त्यु­क्ति­रु­प­ल­क्ष­णम् । तद्यएवैतं ब्रह्मलोकं ब्रह्म­च­र्ये­णा­नु­वि­दन्ति तेषामेवैष ब्रह्मलोक इति दहरोपासनस्य ब्रह्म­लो­क­फ­ल­श्र­वणं त्रिमा­त्र­प्र­ण­व­प्र­ती­का­ल­म्ब­नो­पा­स­न­स्येव वचनबलादुपपद्यत इति दृष्टा­न्त­स­ङ्ग­ति­रपि द्रष्टव्या ।
श्रव­ण­म­न­न­नि­दि­ध्या­स­नेभ्य इति ।
यद्यपि टीकायां श्रवणं मननं चान्वेषणमिति व्याख्या­त­त्वा­द्वि­ज्ञानं ध्यानं तस्य वैशिष्ट्यं श्रुत्यु­पा­त­श्र­व­ण­म­न­ना­पे­क्ष­मिति वक्तुं शक्यम् । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञा­ने­ने­त्या­दि­श्रु­तिषु विज्ञानशब्दस्य ध्याने बहुश: प्रयो­ग­द­र्श­ना­दु­पा­स­ना­रूपं ध्यानमेव चात्रानुष्ठानाय विधातव्यं न तु तत्फलरूपः सगु­ण­सा­क्षा­त्कारः । तथापि सन्प्र­त्य­य­यो­गा­त्फ­ल­रू­प­तया निरु­पा­धी­च्छा­वि­षयः साक्षात्कार एव ग्राह्य इत्यभिप्रायेण टीकाकृता स्वयं साक्षा­त्का­र­हे­तु­तया ध्यानमुपन्यस्य त्रिभ्योऽपि वैशिष्ट्यं साक्षात्कारस्य विवक्षितमिति पूर्वेभ्य इत्यनेन दर्शितत्वात् श्रव­ण­म­न­न­ध्या­नेभ्य इत्युक्तम् । एवं च फल­सा­त्क्षा­त्कारे विधि­रू­पोऽ­य­म­र्थ­वाद उपा­स­ना­वि­धि­स्त्वथ च इहा­त्मा­न­मि­त्या­दि­फ­ल­वा­क्ये­ष्वे­वेति तात्पर्यम् । यद्यपि दह­र­वि­द्या­फ­ल­ब्र­ह्म­लो­का­वा­प्त्य­र्थिन: स्वय­मे­त­च्छा­स्त्र­वि­चा­रा­धीने श्रवणमनने न सम्भवतः सर्वतो विरक्तस्य मुमु­क्षो­रे­वै­त­च्छा­स्त्रा­धि­का­रात् तथापि विचा­रि­ते­त­च्छा­स्त्रा­चा­र्यो­प­दे­शा­धीने दह­रो­पा­स­ना­पे­क्षि­त­वा­क्या­र्थ­मा­त्र­वि­षये ते विवक्षिते इति द्रष्टव्यम् । ननु पुरेणाधिकरणेन सहाधेयेन सता ब्रह्मणा सम्बद्धव्यमिति टीकोक्तमयुक्तम् । षष्ठ्या अधि­क­र­ण­वा­चि­त्वा­भा­वात् सप्तम्या वेश्मा­धि­क­र­ण­वा­चि­त्वात् । न च पुर­म­ध्य­ग­त­वे­श्मा­धे­यस्य जीवस्य पुरा­धे­य­त्व­म­र्थतः सिध्यति प्रासादमध्यगते पर्यङ्के शयानस्येव प्रासादे शयनं तदर्थतः सिध्य­दु­दा­हृ­त­टी­क­यो­क्त­मिति वाच्यम् । वेश्माधेयो जीव इतीदानीमसिद्धेः ।
आधे­य­त्व­वि­शे­ष­हे­तुभ्यां ब्रह्मात्र जीव इति निश्चयमुपजीव्य खलु अनि­र्दि­ष्टा­धे­यस्य वेश्मनः संनिहितः स एवा­धे­य­त­याऽ­न्वे­ती­त्यग्रे टीका­कृ­द्व­क्ष्य­ती­त्या­शङ्का तत्तात्पर्यमाह -
समासेति ।
समासे षष्ट्यभिधेयं सम्बन्धसामान्यं सप्तम्यर्थतया बुद्धिसन्निहिते आधाराधेयभावे पर्य्य­व­स्य­ती­त्यर्थः । यद्यपि यथाभाष्यं स्वस्वामिभावं षष्ठ्य­र्थ­म­ङ्गी­कृ­त्या­धे­य­त्व­हे­तु­म­न­पेक्ष्य विशेषहेतुनैव लभ्यं पुरस्वामिभूतं ब्रह्म जीव इति निश्चयमुपजीव्य सन्निहितस्य तस्य वेश्मा­धे­य­त्वे­ना­न्वय उपपादयितुं शक्यः षष्ठ्याः स्वस्वा­मि­भा­वा­र्थ­कत्वं च विशे­ष­हे­तू­प­पा­द­नार्थं टीका­कृ­तोऽ­प्य­पे­क्ष­णी­य­मेव । तथा­प्या­धे­य­त्व­हे­तु­रपि यः टीकायामुपन्यस्त इति तदु­प­पा­द­न­प्र­का­रोऽयं दर्शितः । एवञ्च विकल्पमुखेन षष्ठ्या अर्थ­द्व­य­म­व­तार्य्य आधे­य­त्व­वि­शे­ष­हे­त्वो­र्यो­जनं कार्यम् ।
आकाशस्य संदिग्धत्वादिति ।
ननु महदिदं साहसवचनं यत् स्वना­म­श्रु­ति­स­म­र्पितो भूताकाशः संदिग्धो निरूढिविषयः परमात्मा च संदिग्धः षष्ठी­स्व­र­सो­प­ने­य­वै­शे­षि­क­स­म्ब­न्धि­लि­ङ्ग­व­शाद् ब्रह्मशब्देन लक्षणीयो जीवो निश्चितः । स च भिन्न­वा­क्यो­पात्त: समा­न­वा­क्यो­पा­त्त­भू­ता­काशं परमात्मानं च निरस्य स्वयं वेश्मा­धे­य­त­याऽ­न्वे­तीति । नैष दोषः । दह­रोऽ­स्मि­न्न­न्त­रा­काश इत्यत्र वेश्मा­व­च्छे­दो­पा­धि­कस्य दह­र­त्व­स्या­र्थ­ल­भ्य­त्वेऽपि साक्षाद् दह­र­त्व­व­च­न­म­र्थ­व­त्त्वा­र्थ­मा­जा­न­सिद्धं दह­र­त्व­मु­प­स्था­प­यति आका­श­श्रु­ति­र्भू­ता­काशं परमात्मानं वा तयोः कतरस्य ग्रहणं कार्य्य­मि­त्य­नि­र्णये सन्निधिवशाद् जीवस्य ग्रहणं नियम्यते । युद्धे इति गग­न­सा­ग­र­यो­र­प्यु­प­ल­क्षणं तद­भि­प्रा­ये­णा­रो­प­ग्र­ह­ण­म­प्य­र्थ­वत् । गगनं गग­ना­का­र­मि­त्य­त्रो­प­मा­लं­कार इति मत­म­नु­रु­ध्ये­त्थ­मु­क्तम् | यदि तु गगनं गगनाकारमिति श्लोके नोपमालंकारः किं तु भेद­क­ल्प­न­म­न­पेक्ष्य अत्यन्ताभेदे निब­ध्य­मा­न­मौ­पम्यं नान्वे­ती­त्य­न्व­र्थ­ना­माऽ­न­न्व­या­ल­ङ्कारः । अन­न्व­यि­नोऽ­प्यौ­प­म्यस्य निब­न्ध­न­म­नु­प­म­त्व­द्यो­त­नाय यथा स्वम­हि­म­प्र­ति­ष्ठि­त­त्व­व­च­न­म­ना­धा­र­त्व­द्यो­त­नाय यथा वा स्वयंदासत्ववचनं दास­र­हि­त­त्व­द्यो­त­ना­येति मतमनुरुध्यते तदापि नात्रानन्वयेन निर्वा­ह­प्र­त्याशा । अय­मि­त्ये­षोऽ­न्त­र्हृ­द­य­इति चोप­मा­नो­प­मे­य­रू­पयोः पर­स्प­र­व्या­व­र्त­क­वि­शे­ष­ण­नि­वे­श­नेन उपाददे तस्य सह­स्र­र­श्मि­स्त्वष्ट्रा नवं निर्मि­त­मा­त­प­त्रम् । स तद्दु­कू­ला­द­वि­दू­र­मौ­लि­र्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ इत्यत्रेव कल्पि­त­भे­दो­पा­धि­को­प­मा­प्र­भे­द­स्यैव वक्तव्यत्वात् ।
न च सोऽपि प्रकारोऽत्र वक्तुं शक्य इत्याह -
अस्तु वेति ।
मुख्याधेयत्याग इति ।
ननु ब्रह्म­श­ब्द­मु­ख्या­र्थ­लाभो न मुख्या­धे­य­त्व­त्या­ग­हेतुः । वक्ष्य­मा­ण­व­त्स­रा­ज­पु­र­दृ­ष्टा­न्तेन ब्रह्मपुरे जीवस्य वेश्मसम्भवात् । वेश्मस्थस्य च मुख्य­पु­रा­धे­य­त्वो­प­पत्तेः । न च ब्रह्मपुर इत्यत्र जीवसन्निध्यभावे जीवो वेश्माधेयो न सिध्येदिति वाच्यम् । अन­न्य­था­सि­द्ध­स्वा­भा­वि­क­द­ह­र­त्व­लि­ङ्गेन ब्रह्म­प­र­त्व­प­क्षेऽ­प्य­व­श्य­क­ल्प­नी­य­वृ­त्त्य­न्त­र­त­याऽ­न्य­था­सि­द्धाया आकाशश्रुतेः प्रबलेन तस्य वेश्मा­धे­य­त्व­सि­द्धे­रिति चेत् । मैवम् । जीवस्वामिकत्वेन प्रसि­द्ध­जी­व­सं­ब­न्धस्य अप्र­सि­द्ध­प­र­ब्र­ह्म­पु­र­त्वोक्तेः तदु­पा­स­ना­वि­धि­त्सा­भावे वैय­र्थ्य­प्र­स­ङ्गात् । न हि मैत्रः क्व देशे वर्तत इति मैत्रान्वेषिणं प्रति वत्सराजपुरे वसतीति वाक्ये वत्स­रा­ज­पु­र­त्वोक्तिः पुरा­न्त­र­व्या­व­र्त­ने­ने­वात्र ब्रह्म­पु­र­त्वोक्तिः प्रकारान्तरेण साफल्यमश्नुवीत दहरत्ववचनं तु जीव­ग­त­स्वा­भा­वि­क­द­ह­र­त्व­वि­ष­य­त्वा­भा­वेऽपि दह­र­पु­ण्ड­री­का­व­च्छे­देन ब्रह्मणो यावद्दहरत्वं भवति ताव­द­पे­क्ष­याऽ­धिकं तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितमिति श्रुत्य­न्त­रा­म्ना­त­हृ­द­य­पु­ण्ड­री­का­ग्र­सु­षि­रा­व­च्छे­दो­पा­धि­क­म­त्य­न्त­सौक्ष्म्यं लम्भयितुमिति साफल्यं नेतुं शक्यम् । तस्मा­द्यु­क्त­मुक्तं ब्रह्म­श­ब्द­मु­ख्या­र्था­नु­स­रणं मुख्या­धे­य­त्व­त्या­ग­हे­तु­रिति ।
नैक­व­च­न­प­रा­मृ­श्य­तेति ।
ननु मा भूद् द्यावा­पृ­थि­वी­शब्दो ब्रह्मलक्षकः । उभे अस्मिन् द्यावापृथिवी इत्यादिके यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमित्यन्ते द्यावा­पृ­थि­व्या­दि­स­मा­धा­न­वाक्ये उक्ता­नु­क्त­स­क­ल­व­स्तु­सं­ग्र­हार्थो यः सर्वशब्दः स सर्वा­त्म­क­ब्र­ह्म­प्र­ति­पा­द­कोऽस्तु । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितमिति तैत्तिरीयके सर्वशब्देनैव दह­र­पु­ण्ड­री­को­र्ध्व­सु­षि­र­व­र्त्यु­पा­स्य­प्र­ति­पा­द­न­द­र्श­नात् । तत­श्चै­क­व­च­ना­न्तेन सर्वशब्देन प्रकृतं दह­रा­का­शा­न्त­र्व­र्त्यु­पा­स्य­मि­है­क­व­च­ना­न्तेन पराम्रष्टुं योग्यमिति चेत्तथा सति तदनन्तरं तं चेद् ब्रूयु­र­स्मिं­श्चे­दिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे चैवकामा यदेतदेवाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति वर्णिते शिष्या­णा­मा­क्षेपे स ब्रूयात् तस्य जरयैतद् जीर्य्यति न वधेनास्य हन्यते एतत्सत्यं ब्रह्म­पु­र­म­स्मि­न्का­मा­स्स­मा­हिता इत्या­चा­र्य्य­क­र्त­व्य­प­रि­हा­रोक्तौ कामा­दि­स­र्व­स­मा­धा­ना­धा­रस्य सत्य­ब्र­ह्मा­ख्य­पु­र­तया देह­रू­प­वि­त­थ­ब्र­ह्म­पु­र­ज­रा­प्र­ध्वं­सा­नु­वि­धा­यिनो जराप्रध्वंसौ न स्त इत्युक्तिर्न सङ्गच्छते । समाधानाधारस्य त्वया भूताकाशताया एव वक्तव्यत्वात् तस्य च सत्य­त्व­न्ब्र­ह्म­त्वा­धा­रा­न्त­र­नि­र­पे­क्ष­धा­र­क­त्वो­क्त्य­यो­गा­दिति भावः ।
यदि दहराकाशस्य विज्ञेयत्वमिति ।
ननु तस्मि­न्य­द­न्त­रि­त्यादौ नास्त्यु­पा­स्य­त्व­रू­प­वि­ज्ञे­य­त्वो­प­देशो येन दहरस्य विज्ञे­य­त्वो­प­दे­शा­ला­भ­दोषः शङ्क्येत किं त्ववि­धे­य­श्र­व­ण­म­न­न­सा­क्षा­त्का­रे­च्छा­वि­ष­य­त्वा­नु­वा­द­मात्रं तथैव टीकायां व्याख्यातत्वात् । तदनुवादश्च फल­वा­क्य­वि­धि­त्सि­त­गु­ण­गु­णि­वि­ष­यो­पा­स­ना­स्तु­त्यर्थः पर्यवस्यति स्तुतिवाक्यस्य नास्ति याव­दु­पा­स्य­वि­ष­य­त्व­नि­यमः । दहरगुणजातमपि श्रव­ण­म­न­ना­भ्या­म­न्वे­ष्टव्यं साक्षा­त्क­र्तु­मे­ष्टव्यं चेति उपा­स्यै­क­दे­श­प्र­शं­सया गुण­गु­ण्यु­भ­य­वि­ष­यो­पा­स­ना­स्तु­ति­ला­भात् । द्रव्य­दे­व­ता­वि­शि­ष्ट­या­ग­वि­धीनां यदष्टाकपालो भवतीत्यादिषु द्रव्य­मा­त्र­वि­ष­यया वायुर्वै क्षेपिष्ठा देवतेत्यादिषु देव­ता­मा­त्र­वि­ष­यया च प्रशंसया स्तुतिदर्शनात् । अतो दह­रा­धे­य­वि­ष­या­न्वे­ष्ट­व्य­त्वा­दि­क­थ­नस्य न काचिदनुपपत्तिः । छान्दोग्यविवरणे च भाष्यकारैरिदं वाक्यं दहराधेयविषयतयैव व्याख्यातम् । तस्मि­न्ना­का­शाख्ये ब्रह्मणि यदन्तर्मध्ये तद्वाव तदेव विशेषेण जिज्ञासितव्यं ज्ञातुमेष्टव्यं गुर्वा­श्र­य­श्र­व­णा­द्यु­पा­यै­र­न्विष्य साक्षा­त्क­र­णी­य­मि­त्यर्थ इति । तस्मादस्थान इयमाशङ्का । परि­हा­रोऽ­प्य­युक्तः । तस्मि­न्नि­त्य­स्या­व्य­व­हिते दहराकाशे स्थिते व्यव­हि­त­पु­ण्ड­री­क­प­रा­म­र्शि­त्व­क­ल्प­नाऽ­यो­गात् । तस्मि­न्य­दि­त्या­दि­न­पुं­स­क­लि­ङ्गानां प्राक् पुँल्लि­ङ्ग­नि­र्दि­ष्ट­द­ह­रा­का­शे­न­न्व­याच्च । दहराकाशस्य हृत्पु­ण्ड­री­क­स्थ­तायाः दह­रोऽ­स्मि­न्न­न्त­रा­काश इत्युक्ततया पुन­स्त­त्की­र्त्त­न­वै­य­र्थ्याच्च । तं चेद् ब्रूयु­रि­त्या­दि­शि­ष्य­प्र­श्न­वाक्ये दह­रोऽ­स्मि­न्न­न्त­रा­काशः किं तदत्र विद्यते यद­न्वे­ष्ट­व्य­मि­त्या­द्युक्त्या पूर्वमाचार्येण दह­रा­का­शा­न्त­र्व­र्तिन एवा­न्वे­ष्ट­व्य­त्वा­दि­क­मु­क्त­मिति स्पष्ट­प्र­ती­य­मा­न­तया तद्विरोधाच्चेति चेत् । उच्यते । विजि­ज्ञा­सि­त­व्य­मि­त्य­त्रै­वो­पा­स­ना­वि­धि­रि­त्यपि टीकायां व्याख्यानान्तरं दर्शितम् । वाक्यशेषो हि दह­रा­का­शा­त्म­वे­द­नस्य फलवत्त्वं ब्रूते । यच्च फल­व­त्क­र्त्त­व्य­तया चोद्यते यत्कर्त्तव्यं तदिच्छतीति तदन्वेष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्य­मिति दह­रा­का­श­वि­ष­य­मे­वा­व­ति­ष्ठत इति । एवं चात्र विधे­य­स्यो­पा­स­नस्य साध­न­त्व­प्रा­प्ते­च्छा­नु­वाद इत्युक्तं भवति । अयमेव पक्षो भाष्याभिमत इत्यनुपदमेव दर्शयिष्यते तदवलम्बनेनात्र शङ्केयम् । परिहारोऽपि नायुक्तः । यतस्तस्मिन् यदन्तरित्यत्र यत्पदं वक्ष्य­मा­ण­द्या­वा­पृ­थि­व्या­दि­स­क­ल­वि­शे­ष­ण­वि­शि­ष्ट­द­ह­रा­का­श­प­रम् । अन्यथा फलवाक्ये एताँश्च सत्यान्कामानिति केषा­ञ्चि­द्गु­णानां विशिष्य ग्रह­ण­स्ये­त­र­प­रि­सं­ख्या­र्थ­त्वा­दि­त­राणि द्यावा­पृ­थि­व्या­दी­न्य­प­ह­त­पा­प्म­त्वा­दीनि च केवलं स्तुत्यर्थं वर्णितानि न तूपा­स्य­को­टि­प्र­वि­ष्टा­नीति शङ्कया तेषामुपासना न सिध्येत् । न च वाच्यम् एतांश्च सत्यान् कामानिति संकल्पजाः पित्रादयो गृहीताः संकल्पादेवास्य पितरः समु­त्ति­ष्ठ­न्ती­त्यादि प्रकृत्य त इमे सत्याः कामा इति निर्दिष्टत्वात् तेषां च फल­रू­पा­णा­मु­पा­स्य­गु­ण­त्वा­भा­वा­दु­पा­स­न­स्या­प्राप्तौ तत्प्रा­प्त्यर्थं तत्तत्कीर्त्तनं स्यादिति अस्मिन्कामा: समाहिता इत्यादिवाक्ये फला­ना­म­प्यु­पा­स्य­गु­ण­त्वस्य प्रतिपादितत्वेन तत एव तेषा­म­प्यु­पा­स्य­त्व­प्राप्तेः । अतः सक­ल­वि­शे­ष­ण­वि­शि­ष्टस्य दह­रा­का­श­स्यो­पा­स­ना­नु­प्र­वे­श­सि­द्धये तस्मि­न्य­द­न्त­रिति पुनः कीर्तनमिति न तद्वैयर्थ्यम् । अत एव किं तदत्र विद्यत इत्ये­त­द­प्यु­प­प­द्यते । तस्य दहराकाशे किं विशेषणजातं वर्त्तत इत्ये­त­त्प­र­त्वात् । अव्य­व­हि­त­प­रा­म­र्शा­सं­भवे तस्य द्वादशशतं दक्षि­णे­त्या­दा­विव व्यवहितपरामर्शः शक्यमञ्जलिभिः पातुं वाताः केतकगन्धय इत्यत्रेव लिङ्ग­सा­मा­न्य­वि­व­क्षया नपुंसकलिङ्गं चोपपद्यते । एवं तस्मिन् यदन्तरित्यस्य सक­ल­वि­शे­ष­ण­वि­शि­ष्टो­पा­स­ना­सि­द्धये ताव­द्वि­शि­ष्ट­प­रा­म­र्शित्वं भाष्यकारैः स्पष्टं प्रतिपादितम् । तस्मा­द्वा­क्यो­प­क्र­मेऽपि दहर एवाकाशो हृद­य­पु­ण्ड­री­का­धि­ष्ठान: सहान्तः समाहितैः पृथिव्यादिभिः सत्यैश्व कामैर्विज्ञेय इति गम्यत इति । तस्मादाशङ्का परि­हा­र­श्चे­त्यु­भ­य­म­प्यु­प­प­द्यत एव । एव­मु­त्प­त्ति­वा­क्यत एव सर्वेषां दह­र­गु­णा­ना­मु­पा­स्य­त्व­सिद्धे फलवाक्ये सत्यकामशब्देन केषाञ्चिद् गुणानां प्रशं­सा­र्थोऽ­व­यु­त्याऽ­नु­वादः । तद्यएवैतावरं च एयं चार्णवौ ब्रह्मलोके ब्रह्म­च­र्ये­णा­नु­वि­न्दन्ति तेषामेवैष ब्रह्म­लो­क­स्तेषां सर्वेषु लोकेषु कामचारो भवतीति वाक्ये ब्रह्म­लो­क­ग­ता­र्ण­व­यो­रि­वेति तात्पर्यम् । छान्दोग्यविवरणे तस्मिन् तद­न्त­रि­त्या­दे­र्व्या­ख्यानं त्वेवमपि व्याख्यातुं शक्यमिति वैभवाभिप्रायम् । तदनुसृत्य च टीकायां साक्षा­त्का­रे­च्छा­वि­ष­य­तया व्याख्या­ना­न्त­र­मिति न विरोधः ।
अभ्यु­च्च­या­र्थ­त्वे­नेति ।
नर­प­ति­रा­ज­कु­मा­रा­दि­शब्द इव ब्रह्मलोकशब्दे लोकवेदयेाः सत्यलोकपरतया षष्ठीसमासः प्रसिद्धतरः । शीघ्रो­प­स्थि­ति­क­प्र­सि­द्ध­त­र­स­मा­स­ग्र­हणे च न निषा­द­स्थ­प­ति­न्या­या­व­तार इति अधि­क­श­ङ्का­नि­रा­क­र­णा­र्थ­म­भ्यु­च्च­या­पे­क्षेति भावः ।
अग्नि­वि­द्या­व­त्त्वेन समर्थत्वादिति ।
नन्व­न­यो­क्ति­भङ्ग्या निषा­द­स्या­ग्नि­वि­द्या­रा­हि­त्ये­ना­सा­म­र्थ्य­मुक्तं भवति । नैतदुपपद्यते । ब्राह्म­ण­क­र्तृ­काऽऽ­धा­न­नि­ष्पा­द्य­स्या­ह­व­नी­या­दे­र्नि­षा­देन संपा­द­यि­तु­म­श­क्य­तया पाव­मा­ने­ष्टा­व­ग्नि­हो­त्र­ह­व­णी­व­न्नि­षा­द­क­र्तृ­का­या­मि­ष्टा­व­ति­दे­शा­भा­वेन तदु­प­सं­हा­र­सा­म­र्थ्याऽ­न­पे­क्ष­णात् । विद्यावत्वेन सामर्थ्यं तु विद्या­प्र­यु­क्ति­क­ल्प­न­यो­प­प­द्यते । त्रैव­र्णि­का­ना­मपि स्वस्व­शा­खा­ध्य­य­न­स्यैव विहितत्वेन शाखा­न्त­र­वे­दा­न्त­रा­म्ना­ता­ङ्ग­म­न्त्रो­प­सं­हा­रार्थं विद्या­प्र­यु­क्ति­क­ल्प­ना­व­श्यं­भा­वेन तत्क­ल्प­ना­गौ­र­वाऽ­वि­शे­षा­दिति चेत् । उच्यते । षष्ठी­स­मा­सा­श्र­य­णे­ना­ग्न्य­ति­दे­श­बा­ध­सं­भवे तद्बाधकः कर्मधारयो नाश्रयणीयः । त्रैवर्णिकानां तु शाखा­न्त­रा­द्या­म्नात विद्या­प्र­यु­क्ति­र्ना­न­ये­ष्ट्याऽ­पे­क्ष­णीया । किं त्वाव­श्य­क­नि­त्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठा­न­त­दु­प­यो­गि­कृ­त्स्न­न्या­य­वि­चा­रा­र्थ­त्वे­ना­क्षि­प्तै­वा­स्तीति तात्पर्यम् ।
निषाद एव स्थपतिः स्यादिति ।
नन्वत्र कर्म­धा­र­य­ब­ली­यस्त्व का युक्तिः यतः षष्ठीसमासे लक्षणा न प्रसज्यते । एकस्य कर्मधारय इव सम्बन्धस्य षष्ठीसमासे संसर्गमर्यादया प्रतीतिसंभवात् । न च विग्रहवाक्ये विभक्त्यर्थस्य सम्बन्धस्य समासेऽपि प्रका­र­त्व­नि­य­मा­त्त­न्नि­र्वा­हार्थं तत्र लक्ष­णा­पे­क्षाऽ­स्तीति शङ्कनीयम् । पर्वतो वह्निमानित्यत्र मतुबर्थस्य पक्ष­सा­ध्य­स­म्ब­न्ध­स्यैव विभ­क्त्य­र्थ­स­म्ब­न्ध­स्यापि संसर्गमर्यादया प्रती­त्यु­प­पत्तेः । तस्मा­ल्ल­क्ष­णा­दो­षो­क्ति­र­युक्ता । द्वितीयायाः प्रत्ये­क­स­म्ब­न्धो­क्ति­र­प्य­युक्ता । समा­सा­न्त­र्व­र्त्तिन्या विभक्तेः सुपो धातु­प्रा­ति­प­दि­क­यो­रिति लोपानुशासनेन समा­सो­त्त­र­वि­भ­क्ते­रु­प­स­र्ज­ना­न्व­या­न­ङ्गी­का­रात् । न च षष्ट्या द्वितीयाया वा लोपोऽङ्गीकार्य इति विषये बुद्धि­स­न्नि­हि­ताया द्वितीयाया एवाङ्गीकार्य्य इत्यत्र तात्पर्य्यं वर्णनीयं तथापि निषा­द­स्थ­प­ते­रि­त्या­दि­ष­ष्ठी­प्र­योगे बुद्धि­स­न्नि­हि­त­ष­ष्ठी­लो­पा­ङ्गी­का­रेऽपि नियमतः सामा­ना­धि­क­र­ण्याऽ­ला­भेन सर्वत्र षष्ठीसमासतः कर्म­धा­र­य­ब­ली­य­स्त्वस्य ततः सिद्ध्यभावादिति चेत् । उच्यते । ऐक्ये लाघवं संबन्धे भेद­क­ल्प­ना­गौ­र­व­मिति सार्वत्रिकः कर्म­धा­र­य­ब­ली­यस्त्वे हेतुर्विवक्षितः । राज्ञः पुरुष इत्यादौ भेद­नि­य­त­स­म्ब­न्धा­द्य­र्थ­क­वि­भ­क्ति­वि­रो­धा­दै­क्य­त्यागः । घटेा न पट इत्यादौ विरु­द्ध­वि­भ­क्त्य­भा­वेऽपि घट­प­ट­त­द्भे­दा­ना­मे­क्या­स­म्भ­वा­त्त­त्त्यागः । यत्र तु शब्दतोऽर्थतो वा नास्ति विरोधस्तत्र लाघवादैक्यं ग्राह्य­मि­त्य­य­मौ­त्स­र्गिको न्याय: | लक्षणादोषस्तु षष्ठ्यर्थो लक्षणीय इति मता­नु­सा­रे­णो­द्घा­टितः । सन्निहिता द्वितीयैव लुप्ताऽ­ङ्गी­का­र्येति युक्तिस्तु प्रकृ­ता­भि­प्रा­ये­णो­क्तेति न कश्चिद्दोषः । सौत्रं शब्द­सा­म­र्थ्या­दिति पद­मौ­त्स­र्गि­क­न्या­य­प­र­तायां निषा­द­स्थ­प­ति­श­ब्द­यो­रे­का­र्थ­प­र्य­व­सा­न­सा­म­र्थ्या­दिति व्याख्येयम् । तदप्युक्तं सूत्रकारेणेति वाक्यस्य अपि­श­ब्दा­त्क­र्म­धा­र­य­ब­ली­य­स्त्व­मु­क्त­मेव । लिङ्ग­म­प्यु­क्त­मि­त्यर्थः प्रतिभासमानो न युक्तः ।
कर्म­धा­र­य­ब­ली­य­स्त्वस्य सूत्रा­नु­क्त­त्वा­दि­त्या­शङ्क्य सौत्रण चकारेण लिङ्गस्य हृद­य­स्थि­ता­ता­त्क­र्म­धा­र­य­ब­ली­य­स्त्वा­दा­धि­क्य­म­ति­र­क्तत्वं द्योति­त­मि­त्ये­त­त्प­र­तया सद्वाक्यं व्याचष्टे -
तदप्याधिक्यमिति ।
विप­क्षा­द­स­म्भ­वा­दिति पञ्चम्योः सामा­ना­धि­क­र­ण्य­भ्रान्तिं वारयति विपक्षादिति । असम्भवादितीति मूल­प्र­ती­क­ग्र­ह­णा­न­न्तरं केषुचित्कोशेषु षष्ठीसमासो विपक्षेति वाक्यं दृश्यते । तदनन्वितं प्रक्षिप्तमिव भाति टीकायां विपक्षादित्यस्य कम­ला­स­न­लो­क­प्रा­प्ति­वि­शे­ष­ण­त्वेन षष्ठी­स­मा­स­वि­ष­य­त्वा­भा­वात् । यदि तत्प्रक्षिप्तं न भवति तदानीमेवं तस्यार्थो वाच्यः । अह­र­ह­र्ब्र­ह्म­लो­क­प्रा­प्त्य­भि­धानं विप­क्षा­त्क­म­ला­स­न­लो­क­प्रा­प्रे­र्व्या­व­र्ततां दहराकाशे च व्यवतिष्ठतां तथापि षष्ठीसमासस्तेन न व्यावर्त्तनीयः ।
यतो लोक्यत इति लोको विद्वदनुभवविषयो ब्रह्मानन्दः तस्यानन्दं ब्रह्मणो विद्वानिति श्रुताविव भेदव्यपदेश औपचारिक इति कल्पयितुं शक्य­मि­त्या­शङ्क्य षष्ठी­स­मा­स­प­रि­ग्रहे तन्मु­ख्य­त्वा­नु­रो­धेन षष्ठीसमासतः सत्यलोके प्रसि­द्ध्य­ति­श­या­नु­सा­रेण च ब्रह्म­लो­क­प्र­त्या­य­क­तया तस्य निर्दि­ष्ट­लि­ङ्ग­वि­रु­द्व­त्व­म­नेन वाक्येनोच्यत इति योगा­द्रू­ढि­पू­र्व­क­ल­क्ष­णायाः प्रथ­म­प्र­ती­त­मु­ख्या­र्था­या­त्या­गेन बलीयस्त्वमाह -
तन्नेति ।
वृत्तो भविष्यतीति ।
वर्तत इत्या­त्म­ने­प­दि­धा­तो­र्वृद्भ्यः स्यसनोरिति सूत्रेण स्ये परतः परस्मैपदे सति वर्त्स्यतीति रूपम् । स्यान्तेन सम्ब­न्ध­स्ये­त्य­न्तेन ।
न तु गङ्गाया इति लक्ष्यसंबन्धं पृथगुक्त्वेति ।
अनेन न हि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोग इति टीकापाठ: साधुः न तु गङ्गाकूलयोः गङ्गेति टीकापाठ इति दर्शितं भवति ।
एवमाकाशशब्दस्य गौण­ता­या­मा­का­श­व­त्स­र्व­गत इति श्रुत्य­न्त­र­प्र­सिद्धं व्यापकत्वरूपं भूताकाशसादृश्यं निमि­त्त­त­याऽ­व­ति­ष्ठते । तथा चोप­मे­य­नि­र्दे­श­के­ना­का­श­श­ब्दे­नैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं नान्वेति यद्भू­ता­का­श­व­द्व्या­पकं ब्रह्म तद्भू­ता­का­श­व्या­प­क­मिति वाक्यस्य गङ्गायां गङ्गायाः कूले घोष इति वाक्य­स्ये­वाऽ­सा­म­ञ्ज­स्या­दिति शङ्किते यद्यपि व्यापकत्वमपहाय नित्य­नि­र्ले­प­त्वा­दिना भूता­का­श­सा­दृ­श्ये­नात्र गौणता कुतः छान्दोग्ये षष्ठाध्याये नवस्वपि तत्त्व­म­सि­ख­ण्डेषु स एषोऽ­णि­मे­त्य­णु­त्वेन सप्तमाध्याये स एवा­ध­स्ता­दि­त्या­दिना व्यापकत्वेन च वर्णिते ब्रह्मणि कथ­म­णु­त्व­व्या­प­क­त्व­यो­र­वि­रो­ध­न­मि­त्या­का­ङ्क्षायां दह­र­पु­ण्ड­री­का­य­सु­षि­रा­व­च्छे­दो­पा­धि­क­म­णुत्वं स्वाभा­वि­क­व्या­प­क­त्व­मि­त्य­वि­रोधं तत्प्र­स­ङ्गा­दैा­पा­धि­क­ब्र­ह्मो­पा­सनं च विधा­तु­म­ष्ट­मेाऽ­ध्याय आरब्धः । तत्र प्रथमं ब्रह्मणो दह­र­श­ब्दे­ना­णु­त्व­मुक्त्वा तस्यो­पा­धि­क­म­णुत्वं स्वाभाविकं तु व्यापकत्वमिति निरुपणाय तत्र शिष्या­णा­मा­का­ङ्क्षा­मु­द्भा­व­यितुं वक्ष्य­मा­ण­द्या­वा­पृ­थि­व्या­दि­स­क­ल­व­स्तु­वि­शि­ष्टस्य तस्यैवाकाशस्य दह­र­पु­ण्ड­री­का­न्त­र्व­र्त्तित्वं पुनः प्रतिपाद्य तत्प्रसङ्गात् तदुपासनां विधाय तद­न्त­र्व­र्त्ति­व­स्त्व­स­म्भवे शिष्यैः शङ्किते सूक्ष्मो­पा­ध्य­व­च्छे­द­कृ­ता­णु­भा­वस्य स्वाभाविकं व्यापकत्वं नानुपपन्नं सूचि­पा­शा­द्य­व­च्छे­द­कृ­ता­णु­भा­वस्य भूता­का­श­स्ये­वे­त्ये­व­मपि प्रायेण यावान्वा इत्यादिवाक्यं प्रवृत्तम् ।
तत्र ब्रह्मणः स्वाभाविकं व्यापकत्वमिति निर्द्धा­र­ण­मि­हे­त्ये­त­द्वा­क्या­र्थ­ज्ञा­न­का­र­णी­भू­त­प­दा­र्थ­ज्ञा­न­का­लेऽ­नि­र्द्धा­रि­तस्य व्यापकत्वस्य गौण­वृ­त्ति­नि­मि­त्त­त्वा­यो­गा­दिति परिहर्तुं शक्यं तथापि व्यापकत्वमेव तन्नि­मि­त्त­म­भ्यु­पेत्य दृष्टान्तमुखेन समाधत्त इत्याह -
परिहरतीति ।
दृष्टान्ते तावदित्थमनन्वयः समाधेयः । आग्नेयादीनां षण्णां यागानां स्वरूपेण पौर्ण­मा­स्य­मा­वा­स्या­का­लत्वं तत्त­दु­त्प­त्ति­वा­क्य­वि­हिते तेषु गौणाभ्यां पौर्ण­मा­स्य­मा­वा­स्या­प­दाभ्यां बोध्यमानेऽपि तेषां त्रिशस्त्रिशः प्राच्यो­दी­च्य­स­क­ला­ङ्ग­सा­हि­त्येन तत्त­त्का­ल­क­र्त्त­व्यत्वं प्रतिपादयितुं तद्वाक्यम् तद्वा­क्य­द्व­या­भावे दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजे­ते­त्ये­क­फ­ल­सा­ध­न­त्वेन बोधितानां षण्णां यागानां प्रयेा­गै­क्य­स्यौ­त्स­र्गि­क­त्वात् । पौर्णमास्यां प्राच्या­ङ्गा­नु­ष्ठा­न­पू­र्वकं पौर्ण­मा­स­त्रि­क­म­नु­ष्ठा­याऽ­मा­वा­स्यायां प्राप्ता­या­म­मा­वा­स्या­त्रि­क­म­नु­ष्ठा­यो­दी­च्या­ङ्ग­स­मा­पनं कर्तव्यमिति वा यागषट्कमपि स्वस्वकाले क्रमेण पृथक् प्राच्यो­दी­च्या­ङ्ग­स­हितं कर्त्तव्यमिति वा प्रसज्येतेति । दार्ष्टान्तिके तु कथमनन्वयः समाधेय इति चेद् उच्यते । उप­मे­य­प­रे­णा­का­श­श­ब्देन गौणेन स्वरूपेण व्यापकत्वे लब्धेऽपि हृद­य­पु­ण्ड­री­का­व­च्छे­देन स्थितस्य तस्य तेनापि स्वरूपेण भूता­का­श­द्व्या­प­कत्वं प्रति­पा­द­यि­तु­मिदं वाक्यं हृद­य­पु­ण्ड­री­का­व­च्छिन्न एव दहराकाशे वक्ष्य­मा­ण­द्या­वा­पृ­थि­व्या­दि­स­क­ल­स­मा­धा­न­सि­द्धये । अत एवोभे अस्मिन्निति वाक्ये दह­र­पु­ण्ड­री­क­स्या­न्त­रे­वे­त्ये­त­द­भि­प्रा­य­म­न्त­रे­वेति वचनं दृश्यते अत एव च यच्चास्येहास्ति यच्च नास्ति सर्वं तस्मिन् समा­हि­त­मि­त्यु­क्त्य­न­न्तरं प्राग् ब्रह्म­पु­र­श­ब्दोक्ते देह एव सर्वस्य समाधानमुक्तं सिद्धं कृत्वा देहे जीर्णे नष्टे वा कुसूलादौ जीर्णे धारणाक्षमे तदन्तर्निहितं व्रीह्यादिकमिव नष्टे घटे तदन्तर्निहितं दध्यादिकमिव च तत्किमपि नाव­ति­ष्ठे­ते­त्य­न्ते­वा­सि­ना­मा­क्षे­प­व­चनं निबद्धं दृश्यते तं चेद् ब्रूयु­र­स्मिँ­श्चे­दिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा चाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति । ननु श्रूयमाणमपि दहराकाशस्य दह­र­पु­ण्ड­री­क­वे­ष्टि­तस्य तेन रूपेण व्यापकत्वं तत्र सर्वसमाधानं चासम्भावितं कथं श्रद्धेयमिति चेत् । उच्यते । दहरोपासकस्य ब्रह्म­लो­क­प्रा­प्त्य­न­न्त­र­मु­प­यो­गि­भो­ग­स्था­न­भो­गो­प­क­र­ण­भो­ग्य­जा­त­मुभे अस्मि­न्नि­त्या­दि­नो­च्यते । तच्च ब्राह्मलौकिकं द्विविधम् । उपासकस्य ब्रह्मलोकं प्राप्तस्य शरी­र­वि­र­हा­व­स्थायां स्वप्न­प­दा­र्थ­जा­त­तु­ल्य­मेकं तस्य शरी­र­व­त्त्वा­व­स्थायां जाग्र­त्प­दा­र्थ­तु­ल्य­म­प­रम् । तदुभयं सूत्रकार एव विवेचयिष्यति तन्त्रभावे सन्ध्य­व­दु­प­पत्तेः भावे जाग्रद्वदिति । तत्राद्यं स्वाप्न­प­दा­र्थ­जा­त­व­देव मानसं सूक्ष्मेऽपि मातुमर्हति । स्वाप्ने ह्यप­व­र­केऽ­नु­भू­य­माने तद­न्त­र्गि­रि­न­दी­स­मु­द्रा­दि­क­म­प्य­नु­भू­यते । भाष्यकारैस्तु छान्दोग्यविवरणे मनोमयानि ब्रह्मलोके शरीरादीनीति पुराणवचनं मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोक इति मनो­मा­त्र­भो­ग्य­त्व­श्रुतिं चावलम्ब्य ब्राह्मलौकिकं विदे­ह­स­दे­हा­व­स्थो­प­योगि सकलं सङ्क­ल्प­ज­पि­त्रा­दि­भा­ग्य­जातं स्वप्न­दृ­ष्ट­स्त्री­पु­रु­षा­दि­व­न्म­नो­वि­का­रा­त्म­क­मेव न तु स्थूल­पा­र्थि­वा­प्या­दि­रू­प­मिति विमर्शपूर्वं व्यवस्थापितम् । एवं च यद्यपि स्वाप्नवन्मानसं द्यावा­पृ­थि­व्या­दिकं सूक्ष्मेऽपि वर्तितुमर्हतीति दहराकाशस्य व्यापकत्वं न वक्तव्यम् । अत एव तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितमिति सूक्ष्मएव दहराकोशे सर्व­स­मा­धा­न­मुक्तं तथा­प्य­त्रा­त्य­ल्पी­यसो दहराकाशस्यान्तः सूक्ष्ममपि वस्तूपास्यं न सम्भ­व­ती­त्या­क्षि­प्त­वतां शिष्याणां हृद्यतिविपुलं द्यावा­पृ­थि­व्या­दिकं तदन्त: समा­हि­त­मि­त्यु­त्तरं न प्रविशेदिति मत्वा यक्षा­नु­रू­प­ब­लि­न्या­येन मनो­वि­का­र­रू­प­द्या­वा­पृ­थि­व्या­दि­स­मा­धा­नो­चितं मनोविकाररूपमेव स्वापवरकान्तः स्वप्न­दृ­ष्ट­गि­रि­न­दी­स­मु­द्रा­दि­स­मा­धा­नो­चि­त­स्व­प्ना­प­व­र­क­वै­पु­ल्य­स­मानं दर्शि­त­मि­त्यु­प­प­द्यते । ननु ब्रह्म­लो­क­प्रा­प्त्य­न­न्त­र­भा­वि­भो­गो­प­यो­गि­स­ङ्क­ल्प­ज­पि­त्रा­दि­क­मु­पा­स­ना­का­लेऽपि दहराकाशवर्ति किमर्थं कल्पनीयमिति चेदु­पा­स्य­द­ह­रा­का­शा­न्त­र्व­र्त्ति­त्वेन तद­नु­चि­न्त­न­स्या­ल­म्ब­न­सि­द्द्यर्थं तत्स­र्व­मु­पा­स­ना­का­लेऽपि दह­रा­का­श­व­र्त्य­भ्यु­प­ग­न्त­व्य­मिति श्रुतेरभिप्रायः । अत एव सङ्क­ल्प­ज­पि­त्रा­दीन् प्रकृत्य त इमे सत्या: कामा अनृ­ता­पि­धा­ना­स्तेषां सत्या­ना­म­नृ­त­म­भि­धानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते अथ ये वाऽस्य जीवा ये च प्रेताः यच्चा­न्य­दि­च्छन्न लभते सर्वं तदत्र गत्वा विन्दत इति प्राची­ना­न­न्त­ज­न्म­सं­ब­न्धि­दि­दृ­क्षि­त­पि­तृ­मा­तृ­भ्रा­तृ­पु­त्र­क­ल­त्रा­दि­क­म­न्यच्च दुर्लभं भोग्यजातं दहराकाश एवोपास्यमाने क्रमेण पश्य­ती­त्युक्त्वा कथं तावद्विशिष्टो दहराकाशः तथा सर्वैर्नोपलभ्यत इत्या­का­ङ्क्षायां यद्यथापि हिरण्यनिधिं निहि­त­मि­त्या­दि­र्दृ­ष्टान्त उक्तः । यद्यु­प­मे­य­प­रा­का­श­शब्दो निर्लेपत्वादिना लक्षक: स्वरूपेण व्यापकत्वं दृष्टान्तमुखेन प्रतिपाद्यमिति जीवे व्याप­क­त्वा­स­म्भ­व­प्र­ति­पा­द­क­भा­ष्या­नु­सा­रे­णे­ष्यते तदा द्यावा­पृ­थि­व्या­दीनां मानसत्वेन संकोचो न कल्प्यः बाह्यानामपि तेषामनवच्छिन्ने ब्रह्मणि वृत्तेः । अन्तरेवेत्यन्तः शब्दो यस्यान्तःस्थानि भूता­नी­ति­व­द­व­धा­र­ण­मा­धा­रा­न्त­र­व्य­व­च्छे­दार्थं शिष्या­णा­मा­क्षे­प­स्त्व­न्त­रा­काश एव समाधानमुक्तमिति भ्रान्त्ये­त्यु­प­पा­द­नी­य­मि­त्यलं प्रपञ्चेन ।
अधिकरणबाध इति ।
न चाग्नेयादिषु मुख्या­र्थ­त्वेऽ­प्य­प­रा­ह्ण­श­ब्द­स­म­भि­व्या­हा­रात् पितृयज्ञवाक्ये कालपरत्वं स्यादिति वाच्यम् । आग्नेयादिषु मुख्यत्वे हि काले तत्स­म्ब­न्धा­ल्ल­क्ष­णाऽ­ङ्गी­कार्या तत्रापि शक्तिकल्पने गौरवात् । ततश्च काल­वा­च्य­प­रा­ह्ण­श­ब्द­स­न्नि­धाने सत्यपि नाऽमा­वा­स्या­श्रुतेः कर्मवाचिन्याः सन्नि­धि­व­शा­द्भङ्गो युक्तः । कर्मा­ङ्ग­त्वे­ना­प­रा­ह्ण­काले पितृ­य­ज्ञ­वि­धि­र्भ­वि­ष्यति समयाध्युषिते सूर्ये षोडशिनः स्तोत्र­मु­पा­क­रो­ती­त्या­दि­वा­क्येषु कर्माङ्गत्वेन कालविशेषे स्तोत्र­वि­शे­षो­पा­क­र­णा­दि­वि­धा­न­द­र्श­ना­दिति भावः ।
अपरं रूढिकारणमिति ।
अप्रयोजकमेव वैषम्यं प्रयोजकत्वेन तदु­क्त­म­नै­का­न्त्येन दूषयितुमाशङ्कत इत्यर्थः । अप्रयोजकत्वं च तस्माद्यत् किञ्चिदेतदिति टीकाग्रन्थेन विभावितम् । ननु न चात्र कस्य चिल्ला­क्ष­णि­क­त्व­मिति टीकाग्रन्थो न युक्तः ।
सोम­द्र­व्य­वि­शि­ष्ट­या­ग­वि­धि­सि­द्ध्यर्थं सोमवता यागेनेष्टं भावयेदिति सोमपदे मत्व­र्थ­ल­क्ष­णा­ङ्गी­का­रा­दि­त्या­शङ्क्य तस्य द्रव्यविषये लक्षणा नास्ती­त्ये­त­द­र्थ­त्वेन व्याचष्टे -
सोमशब्दो हीति ।
यद्यपि सोमलतायाः शुक्ल­प्र­ति­प­द­मा­र­भ्यै­कैकं पत्त्रं वर्द्धते कृष्ण­प्र­ति­प­द­मा­र­भ्यै­कैकं पत्त्रं क्षीयत इति प्रसिद्धेः पक्ष­द्व­य­नि­य­त­वृ­द्धि­क्ष­य­सा­दृ­श्यात् चन्द्रवाचिन एव सोमशब्दस्य लतायां लक्षणा वक्तुं शक्या । एवं च पव­मा­ना­ये­न्द­व­इ­त्यादौ चन्द्र­वा­चि­त्व­इ­न्दु­श­ब्दस्य ताः सोमाय राज्ञे ददातीति राजानं यक्ष्म आरदिति च सोमोपपदत्वेन स्वतन्त्रत्वेन च चन्द्र­प्र­यु­क्तस्य राजशब्दस्य तथैव लतायामपि यत्ते ग्राव्णा चिच्छिदुः सोम राजन् अरिष्ट राजन्नगदः परे हीति प्रयोगदर्शनं चापपद्यते । अन्यथा बहूनां चन्द्र­वा­चि­श­ब्दानां लतायां शक्ति­क­ल्प­ना­गौ­र­व­प्र­स­ङ्गात् तथापि प्रसि­द्धा­ति­श­याद् लता­या­म­सा­धा­र­ण­वा­च­का­न्त­रा­प्र­सि­द्धेश्च तस्यामपि मुख्यत्वमुक्तम् ।
यागषट्क इति ।
यागानां षड­वा­न्त­र­स­ङ्ख्या­यु­क्त­स­मु­दाय इत्यर्थः । तदस्य परि­मा­ण­मि­त्य­स्मि­न्नर्थे कन्प्रत्ययः । देहा­द्या­ग­मा­पा­य­सा­क्षी­त्यर्थ इति आचा­र्या­भि­प्रा­य­तोऽर्थ उक्तः न तु शिष्या­द्य­व­ग­त­स्त­यो­स्ततः परमपि भ्रमानुवृतेः ।
अयुपलक्षित इति ।
नेत्रस्थं जाग्रतं विद्यादिति श्रुत्यन्तरात् । जाग्रति जागरे ।
अभिप्रतीतवानिति ।
गत्य­र्था­क­र्म­के­त्या­दि­सू­त्रेण कर्तरिक्त इति भावः ।
चतुर्थपर्य्यायं प्रतीकत आदत्तइति ।
शङ्का­वि­शे­ष­नि­वा­र­णा­र्थ­मिति भावः । शङ्का चैवं यदु­क्त­म­क्षि­स्था­ना­दिकं परस्य न संभवतीति तदयुक्तम् । उप­को­स­ल­वि­द्यो­पा­स्य­व­त्स­गु­णो­पा­स्य­स्या­क्षि­स्था­न­सं­भ­वात् । स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्ता­न­भि­चा­क­शी­तीति ब्रह्मणः स्वप्न­सं­ब­न्ध­श्र­व­णात् सुप्तिवाक्यस्य यत्र यस्मिन्नाधारे समस्तोऽपि जन्तुः सुषुप्तो भवतीति सुषु­प्ता­धा­र­ब्र­ह्म­प­र­त्वो­प­प­त्तेश्च । न चैवं सति स्वप्नावस्थस्य भयशोकादिदर्शनं सुषुप्तावस्थस्य विन­ष्ट­प्रा­य­त्व­द­र्शनं चेदमनुपपन्नं स्यादिति वाच्यम् ।
यथाऽक्षिपर्याये छायापुरुष उपदिष्ट इति इन्द्र­वि­रो­च­न­यो­र्भ्रान्तिः यथा च प्रति­बि­म्बा­वे­क्षणे विरोचनस्य देह उपदिष्ट इति भ्रान्तिः तथा स्वप्न­सु­षु­प्ति­प­र्या­य­यो­र्जीव उपदिष्ट इतीन्द्रस्य भ्रान्त्यु­प­प­त्ते­रिति ।
एतच्छङ्कावारणं च समु­त्था­न­वा­क्यो­प­न्या­से­नेत्थं कृतम् । यदि स्वप्न­सु­षु­प्रि­प­र्या­य­यो­र्ब्र­ह्मै­वो­प­दिष्टं जीव उपदिष्ट इतीन्द्रस्य भ्रान्ति­मा­त्र­मिति कल्प्येत तदा पर्यायद्वये भय­शो­क­वि­न­ष्ट­प्रा­य­त्व­दो­ष­युक्तो जीव उपदिष्ट इतीन्द्रस्य भ्रान्तिरेव वारणीया स्याद् न तु जीवस्यैव भयशोकादीनां शरी­र­स­म्ब­न्धो­पा­धि­का­ध्या­सि­क­त्व­व­र्ण­न­पू­र्वकं शरी­रा­त्स­मु­त्थि­तस्य निर्दो­ष­स्व­रू­पा­व­स्था­न­व­र्ण­नम् ।
अतः सर्वमिदं प्रकरणं जीवविषयमेव न तु ब्रह्मविषयमिति ।
पाप्मा­दे­र­पू­र्व­स्येति ।
अपूर्वं पूर्व­श­ब्दो­दि­त­का­र­ण­प्र­ति­द्वन्द्वि कार्यं तेना­दि­श­ब्द­गृ­ही­तस्य जरा­दे­र­प्य­पू­र्व­त्वम् । यद्वा पाप्मादिशब्दः समा­ना­धि­क­र­ण­ब­हु­व्री­हि­स­मा­स­रूपो द्विवि­ध­स्त­न्त्रे­णो­च्चा­रितः । तत्रा­द्ये­ना­पू­र्व­स्ये­त्य­स्या­न्वयः ।
टीकायां निष्प्रपञ्चस्य ब्रह्मणः सक­लो­प­नि­ष­त्ता­त्प­र्य­वि­ष­य­त्व­व­र्णनं प्रकृ­ता­नु­प­यु­क्त­म­स्था­न­वि­जृ­म्भि­त­मि­त्या­शङ्क्य विक­ल्पो­त्त­र­त्वे­ना­व­ता­र­यति -
जीववादी प्रष्टव्य इति ।
श्रुत्या प्रजा­प­ति­वा­क्य­उ­क्त­मिति ।
ननु श्रुत्यापि निरुपाधौ कथं काम­सं­क­ल्पा­वुक्तौ । उच्यते । मुक्तौ यावत्सर्वमुक्ति बिम्ब­भू­ते­श्व­र­भा­व­मा­प­द्यते बहुषु दर्पणेषु मुखप्रतिबिम्बे सत्ये­क­द­र्प­णा­पाये तत्प्रतिबिम्ब इव याव­त्स­क­ल­द­र्प­णा­पायं बिम्बमुखभावं तावत्पर्य्यन्तं दर्प­णा­न्त­र­ग­त­प्र­ति­बि­म्ब­प्र­ति­यो­गि­त्व­रूप बिम्ब­भा­वाऽ­नि­वृत्तेः ततश्च मुक्तस्य पर­मे­श्व­र­भा­वा­पत्त्या तद्रूपेण कामसंकल्पौ स्वतो निरुपाधिकस्यापि बद्ध­पु­रु­ष­दृष्ट्या संभवत एव । तद­भि­प्रा­ये­णोक्तं भाष्येऽ­प­ह­त­पा­प्म­त्वा­दि­गु­णकं पारमेश्वरं रूपं विद्यया प्रतिपद्यत इति । सूत्रकारोऽपि ब्राह्मेण जैमिनिरिति चतु­र्था­ध्या­या­धि­क­रणे मुक्तस्य पर­मे­श्व­र­भा­वा­प­त्त्या­श­ये­नैव वर्णि­त­गु­णा­ष्ट­क­मु­प­पा­द­यि­ष्यति । तस्मादुपपन्नौ कामसंकल्पौ परमेश्वराभेदेन मुक्तस्य प्रत्युत तद्भेद एव जीवस्य शरीरावस्थायामपि तौ न सम्भवतः । न हि तदानीममनस्कस्य तावुपपद्येते ।
कथं व्युत्क्रमेणेति ।
ननूपसम्पत्तिः साक्षात्कार: अभिनिष्पत्तिः प्राप्ति­रि­त्यर्थः क्रमाविरोधाय किमिति नादृतः । यथै­ता­न्य­मु­ष्मा­दा­का­शा­त्स­मु­त्थाय परं ज्योतिरुपसंपद्य स्वेन स्वेन रूपे­णा­भि­नि­ष्प­द्यन्त इति दृष्टा­न्त­स­ङ्ग­त्य­नु­रो­धात् । दृष्टा­न्त­वा­क्यस्य ह्ययमर्थः । यथा पूर्वप्रकृतानि वायुरभ्रं विद्युत् स्तन­यि­त्नु­रि­त्ये­तानि प्रावृषि वर्ष­णा­दि­प्र­यो­ज­ना­न­न्तरं स्थूलरूपं विहाय सूक्ष्म­रू­पे­णा­काशे तदविविक्ततया स्थितानि पुनः प्रावृडारम्भे किञ्चि­दु­च्छ्व­सि­तानि भूत्वा ततो विविक्तानि सन्ति परं ग्रीष्म­प्र­वृत्तं सारं ज्योति: सहकारि प्राप्य स्वेन स्वेन पुरो­वा­ता­दि­रू­पे­णा­भि­व्य­ज्यन्त इति । एवं च दार्ष्टा­न्ति­केऽ­प्यु­प­स­म्पत्तिः प्राप्तिरेव वाच्येति ।
तत्फलं साक्षात्कार इति ।
अस्मिन्पक्षे उप­स­म्प­त्ति­रे­वा­भि­नि­ष्प­त्ति­र्वाच्या । तथैवाचार्यैः सम्पद्यार्विभाव इत्यधिकरणे परं ज्योति­रू­प­स­म्प­त्ति­वि­व­र­ण­रू­प­तया स्वरू­पा­भि­नि­ष्प­त्ति­वाक्यं व्याख्यास्यते । अहं शब्द­गो­च­र­मि­त्य­हं­का­रा­स्प­द­मि­त्यस्य व्याख्या ।
ननु प्राजा­प­त्य­वा­क्या­लो­च­नया जीव­प­रा­भे­द­सिद्धेः सम­न­न्त­र­पू­र्व­ग्र­न्थ­प्र­ति­पा­दि­तायाः प्रति­द्व­न्द्वि­तया जीव­ब्र­ह्म­भे­दा­वि­रो­ध्य­र्था­न्त­र­प्र­द­र्श­क­मा­चा­र्य­दे­शी­य­म­त­मु­प­न्य­स्यत इति भाष्यार्जवेन प्रतिभाति तत्ता­त्प­र्य­प्र­द­र्शके यदि ह्येत­मि­त्या­दि­टी­का­ग्रन्थे अक्षिस्थानस्य छाया­पु­रु­ष­त्वा­स­म्भ­व­नि­रा­सोऽ­नु­प­यो­गी­त्या­शङ्क्य तदुपयोगसिद्धये दहरो जीव इति पूर्वपक्षिण एवा­चा­र्य­दे­शी­य­क­ञ्चु­क­म­व­लम्ब्य विधान्तरेण प्रत्य­व­स्था­न­प­र­मिदं भाष्यमिति योजनार्थतया यदी­त्या­दि­ग्र­न्थ­म­व­ता­र­यति -
एकदेशीति ।
यदि केचि­दि­त्या­दि­भाष्यं पूर्व­भा­ष्य­प्र­ति­पा­दि­त­प्रा­जा­प­त्य­वा­क्या­र्थ­प्र­ति­द्व­न्द्वि­जी­व­ब्र­ह्म­भे­दा­वि­रो­धि­त­द­र्था­न्त­र­प्र­द­र्श­क­म­ता­न्त­रो­प­न्या­स­मा­त्र­परं भवेत् तदा तदाशयवर्णनार्थे यदि ह्येत­मि­त्या­दि­टी­का­ग्रन्थे ततो न भवेत् छायापुरुष इति स्थाने ततो न भवे­ज्जी­व­ब्र­ह्म­भेद इति वक्तव्यं स्याद् न तथोक्तम् । तस्मा­द­क्षि­स्था­नस्य छाया­त्म­त्व­म­ङ्गी­कृत्य पूर्व­प­क्षा­न्त­र­प्र­व­र्तने टीका­या­स्ता­त्पर्य्यं गम्यत इति भावः ।
प्राची­न­पू­र्व­प­क्षा­दस्य पूर्वपक्षस्य विशेषं वक्तुं साधारणांशं दर्शयति -
उक्तं हीति ।
तस्यै­वा­प­ह­त­पा­प्म­त्वादि दर्श­य­त्ये­त­द­मृ­त­म­भ­य­मे­तद् ब्रह्मेति पूर्वपक्षभाष्ये वाग्बु­द्धि­श­री­रा­र­म्भ­स­म्भ­वोऽस्य पाप्मादिः शरीराभावे न भवतीति तट्टीकायां चेति शेषः । यद्यपि छायावदारोपेणेति पक्षो नेाक्तः प्रथमपूर्वपक्षे चाक्षिस्थानो न छायापुरुष उक्तः । तथा तदभिप्रायकल्पने त्वेत­मि­त्य­क्षि­स्थ­पु­रु­षा­नु­क­र्ष­णा­ङ्गी­का­रो­क्ति­वि­रोधः । तथापि स छाया­पु­रु­ष­श्चे­द­मृ­त­त्वा­द्या­रोपो वाच्यः । तदारोपो जीवत्वपक्षेऽपि वक्तुं शक्य इत्यु­प­को­स­ल­वि­द्या­ग­ता­क्षि­वा­क्य­वि­ष­य­पू­र्व­प­क्ष­च्छा­य­यो­क्त­प्रा­य­मिति भाव: ।
नन्वेतमिति ।
ननु तत्प्र­थ­म­पू­र्व­प­क्ष­व­च­न­मेतं त्वेवे­त्य­त्रा­क्षि­स्था­न­पु­रु­षा­नु­क­र्ष­ण­म­ङ्गी­कृ­त्येति इदानीं द्विती­य­पू­र्व­पक्षे एतमिति परा­म­र्श­स्या­न्य­वि­ष­य­त्व­म­ङ्गी­कृ­त्येति च विशेषोऽस्तु नाम तेन प्रथ­म­पू­र्व­प­क्ष­नि­रा­क­र­ण­यु­क्ति­म­ना­दृत्य द्विती­य­पू­र्व­प­क्षो­त्था­न­हेतुः को विशेषो दर्शितः स्यादिति चेदुच्यते । अक्षि­स्था­न­पु­रु­षा­न­नु­क­र्ष­वि­शेष एव प्रद­र्श­यि­ष्य­मा­णा­वि­नि­ग­म­न­पू­र्व­प­क्षो­त्था­न­हेतुः । एत­मि­त्य­ने­ना­क्षि­स्था­ना­न­नु­कर्षे ह्यक्षि­स्था­न­श्छा­या­पु­रुषो भवेदिति तद्वचनं स्वात­न्त्रे­णो­पा­स्य­त्व­प­र­म­तोऽ­न­न्त­र­प­र्य्या­य­द्वये जीववचनमपि तद्वदेव स्वात­न्त्र्ये­णो­पा­स्य­त्व­परं न तु चतु­र्थ­प­र्य्या­य­व­क्ष्य­मा­ण­ब्र­ह्माऽ­भे­द­बो­ध­ना­र्थ­मि­त्य­न्या­र्थश्च परामर्श इति प्रद­र्श­यि­ष्य­मा­ण­न्या­य­वि­ष­य­त्वा­भा­वा­दु­त्त­रत्र प्रजा­प­ति­वि­द्या­या­म­प­ह­त­पा­प्म­त्वा­दि­यु­क्त­त्वे­नो­पा­स्य­त्वेन च स्वतन्त्रतया निर्दि­ष्ट­यो­र्ब्र­ह्म­जी­व­यो­र्मध्ये दहरो ब्रह्मैवेति नियन्तुं न शक्यते । अप­ह­त­पा­प्म­त्वा­दि­गु­ण­व­च­नेन ब्रह्मपक्षस्येव सुषु­प्त्य­व­स्था­प­न्न­स्व­त­न्त्र­जी­वो­प­न्या­सेन जीव­प­क्ष­स्या­प्यु­त्था­नात् । प्रजा­प­ति­वि­द्यायां सुषु­प्त­जी­वो­प­न्या­सस्य स्वातन्त्र्ये दहरविद्यायामथ एष संप्रसाद इति तदुपन्यासस्यापि तद्वदेव स्वात­न्त्र्या­पत्त्या तत्रान्यार्थश्च परामर्श इति वक्ष्य­मा­ण­न्या­याऽ­प्र­स­रात् ।
तदिहापि सूत्रेऽ­नु­स­न्धे­य­मिति ।
इतरपरामर्शात्स इति चेदिति शङ्का­भा­ग­रू­प­पू­र्व­सू­त्रो­प­क्रमे जीव­लि­ङ्ग­मा­त्रो­प­न्या­सात् तत्पू­र्व­सू­त्र­प्र­द­र्शि­त­ब्र­ह्म­लि­ङ्गा­नाम् अन्य­था­सि­द्ध­व­च­ना­द­वि­नि­ग­मेन पूर्वपक्ष इति भाष्य­टी­क­यो­र्व­र्णितं तदु­त्त­रा­च्चे­दिति सूत्रेऽ­प्या­चा­र्य­दे­शी­य­म­तेो­प­न्या­स­व्या­जेन प्रव­र्त­मा­नेऽ­स्मिन् पूर्वपक्षे समानमित्यर्थः । प्रथम पूर्वपक्षस्तु नाविनिगमेन प्रवृत्तः । प्रजा­प­ति­वि­द्या­या­म­प­ह­त­पा­प्म­त्वा­दि­र्जी­व­स्यैव धर्म इति निश्चयेन तत एव लिङ्गाद्दहरो जीव इति निश्चित्य तत्प्रवृत्तेः । यद्वा प्रथ­म­पू­र्व­प­क्षोऽ­प्य­वि­नि­ग­मेन प्रवृत्त इति तात्पर्यम् । अत्रापि बाह्या­का­शो­प­मा­न­ग­ति­श­ब्द­धृ­ती­ना­म­न्य­था­सि­द्धा­नुक्तेः ।
ननु वाक्यो­प­क्र­म­ग­तस्य परमात्मनः परा­म­र्शा­दि­त्ये­त­द­न­न्त­र­वा­क्यो­प­क्र­म­ग­तस्य परामर्श: किं न स्यादिति शङ्का­नि­रा­क­र­णा­र्थ­त्वेन न खलु जीवात्मन इत्या­दि­टी­का­ग्रन्थः प्रवृत्त इति प्रतिभाति तस्य च तादर्थ्यं न सम्भवति अक्षिस्थानो जीव इति पक्षं विहाय छायापुरुष इत्यङ्गीकृत्य पूर्व­प­क्षा­न्त­र­प्र­व­र्त­ना­र्थ­त्वेन यदी­त्या­दि­टी­का­ग्र­न्थ­स्या­व­ता­र­णा­दि­त्या­शङ्क्य परमात्मनः परामर्शादिति वाक्योपक्रमे जीव­प­रा­म­र्श­प्र­त्या­ख्या­न­म­युक्तं तयोरभेदादिति शङ्का­नि­रा­क­र­णा­र्थ­त्वेन न खल्विति ग्रन्थमवतारयति -
नन्विति ।
दृष्टे सम्भवतीति ।
ननु परमात्मनि धीनि­वे­शा­यो­पा­स्त्य­र्थ­त्वेऽपि दृष्टार्थत्वं न हीयत इति चेन्न । उपा­स्ति­वि­ध्य­ङ्गी­कारे परमात्मनि चित्तै­का­ग्र्य­म­न­यै­वेा­पा­स­नया सम्पादनीयमिति निय­म­वि­धि­त्व­स्या­ङ्गी­क­र्त­व्य­त्वेन निय­मा­दृ­ष्ट­क­ल्प­ना­गौ­र­व­स­त्त्वा­दिति भावः ।
ननु मता­न्त­र­मा­हे­त्य­युक्तं मतद्वयेऽपि जीव­ब्र­ह्म­भे­दा­वि­शे­षाद् विशे­ष­का­न्त­राऽ­नु­क्ते­श्चे­त्या­श­ङ्क­याह -
अस्य चेति ।
औपा­धि­क­स्ता­त्त्वि­को­पा­ध्य­व­च्छिन्नः ।
एतदिति क्रिया­वि­शे­ष­ण­मि­त्यस्य विवरणम् -
एतत्स्वप्नमिति ।
स्वप्नं यथा भवति तथा स्वपि­ती­त्य­भे­देऽपि क्रियाविशेषणतया कर्मता पाकं पचतीतिवत् । अत्र ब्रह्मलिङ्गानां प्रजा­प­ति­वि­द्या­नु­सा­रेण जीव­लि­ङ्ग­त्व­श­ङ्का­क­लु­षि­त­त्वाद् ब्रह्म­लि­ङ्ग­त्व­म­स्पष्टं तस्य स्पष्टत्वेऽपि अन्त­र्व­र्त्य­न्व­या­व­भा­सा­द्द­ह­रा­का­शा­न्व­यित्वं न स्पष्ट­मि­त्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥

अनुकृतेस्तस्य च ॥२२॥
सति विषये च साधारण्यादिति ।
ननु साधारण्यमसिद्धं वैष­यि­का­धि­क­र­ण­का­र­क­वि­भ­क्ते­र्यस्य च भावेन भाव­ल­क्ष­ण­मि­त्यु­प­प­द­वि­भ­क्तितो बलीयस्त्वादिति चेन्मैवम् । णिज­र्था­ध्या­हा­र­सा­पे­क्ष­का­र­क­वि­भ­क्ते­रु­प­प­द­वि­भ­क्तेश्च बला­ब­ल­नि­र्द्धा­र­णा­श­येन साधारण्योक्तेः पूर्व­प­क्षा­व­ता­रि­कया तथा तदाशयविवरणात् ।
पूर्वमिति ।
ननु प्रथमपूर्वपक्षे तावदेतमित्यस्य प्रकृतार्थत्वं दहरो जीव इति शङ्कानिरासे न हेतुः तत्र तस्य प्रकृ­ता­र्थ­त्व­हे­तु­नैव तथा शङ्कोत्थानात् । न च तस्या­प्र­कृ­ता­र्थ­त्व­स­म्भ­व­स्त­था­श­ङ्का­नि­रा­सा­स­म्भवे हेतु: । ततो जीवेऽ­प­ह­त­पा­प्म­त्वा­दि­स­द्भा­व­मू­ल­श­ङ्का­नि­रा­स­स्यैव सिद्धः । द्विती­य­पू­र्व­प­क्षेऽपि तदु­क्त­श­ङ्का­नि­रासे न हेतुः । तत्रा­प्ये­त­मि­त्यस्य वाक्यो­प­क्र­म­प्र­कृ­ता­प­ह­त­पा­प्म­त्वा­दि­गु­ण­का­त्मा­र्थ­त्वा­व­ल­म्ब­ने­नैव तथा शङ्कोत्थानात् । तत्रापि तस्या­प्र­कृ­ता­र्थ­त्व­स­म्भ­व­स्त­था­श­ङ्का­नि­र­स­ना­स­म्भवे न हेतुः । स्वप्ना­दि­प­र्या­ये­ष्वे­त­मि­त्यस्य प्रकृ­त­म­सं­स्पृश्य स्वस्व­व­क्ष्य­मा­णा­र्थ­मा­त्र­प­रा­म­र्शि­त्वऽ­क्षि­स्थ­च्छा­यात्मा स्वप्न­सु­षु­प्ति­प­र्या­य­यो­रुक्तो जीवश्च तथा तथो­पा­स्य­श्च­तु­र्थ­प­र्यायो ब्रह्म ज्ञेयमिति कल्पने प्रकृ­त­स्याऽ­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­स्ये­न्द्र­वि­रो­च­ना­पृ­ष्ट­स्या­त्मनः क्वचि­द­प्यु­क्तिर्न लभ्येतेति दोषापत्या तत्प­रि­हा­रा­र्थ­म­क्षि­प­य­स्त­द्वि­षय इति तत्रा­प­ह­त­पा­प्म­त्वा­द्य­स­म्भ­वे­ना­प­रि­तो­षात् पुनः पुनरागमिन्द्रं प्रति स एवोपदिष्ट इति च वक्तव्यत्वेन स्वत­न्त्र­जी­वो­पा­स्ति­वि­ध­रू­प­दृ­ष्टा­न्ताऽ­स­म्प्र­ति­पत्त्या तन्मूलाया जीवो दहर इति शङ्कायाः सर्व­ना­म­प्र­कृ­ता­र्थ­त्व­नि­य­मा­भा­वेन हेतुना प्रति­ष्ठा­प­ना­ला­भात् । अक्षिपर्यायस्य छाया­त्मो­पा­स्ति­प­रत्व हि तत्रा­प­रि­तो­षा­दा­ग­त­मिन्द्रं प्रति ततोऽन्यस्य जीव­स्यो­पा­स्त्यु­प­देश इति वक्तुं शक्यम् । तस्य प्रकृ­ता­त्मो­प­दे­श­प­रत्वे तु छाया­पु­रु­ष­स्या­प­ह­त­पा­प्म­त्वा­दिकं न सम्भ­व­ती­त्य­प­रि­तो­षा­दा­गतं प्रति तदी­य­भ्रा­न्त्य­न­य­नेन प्रकृत एवात्मा प्रका­रा­न्त­रे­णो­प­दे­ष्टव्यः । अतः प्रकृ­ता­र्थ­त्वादि शङ्कानिरासे प्रकृ­ता­र्थ­त्व­नि­य­मा­भा­वा­दिति शङ्का­नि­रा­सा­स­म्भवे च हेतु­त्वे­नो­क्ति­यु­क्तेति चेत् । उच्यते । प्रथमपूर्वपक्षे तावद् एतमित्यस्य प्रकृ­ता­र्थ­त्व­हे­तु­नो­त्थितो जीवो दहर इति शङ्का तस्य पूर्व­प­क्ष्य­भि­मतं प्रकृ­ता­र्थ­त्व­मेव जीव­ब्र­ह्मा­भे­द­सि­द्धि­प्र­त्या­शया समाश्रित्य जीव­स्या­व­स्था­त्र­यो­त्ती­र्णस्य तुर्यपर्याये ब्रह्म­भा­वो­क्ते­र­पे­त­जी­व­भावं ब्रह्मै­वा­प­ह­त­पा­प्म­त्वा­दि­गु­णकं न जीव इत्युपपादनेन निरासि । तदसाधु । तस्या­प्र­कृ­ता­र्थ­त्व­स­म्भवे ततो जीव­ब्र­ह्माऽ­भे­दाऽ­सि­द्धे­रि­त्या­क्षेपः । तत्र प्रकृ­ता­र्थ­त्वा­दिति शङ्कान्वये हेतुपञ्चमी शङ्का­नि­रा­सा­न्वये ल्यब्लोपे कर्म­ण्यु­प­सं­ख्या­न­मिति पञ्चमीति भेदः । तथा द्विती­य­पू­र्व­पक्षे द्विती­या­दि­प­र्या­य­ग­तस्य एतमित्यस्य वाक्यो­प­क्र­म­प्र­कृ­ता­प­ह­त­पा­प्म­त्वा­दि­गु­ण­का­त्मा­र्थ­त्वा­द्द­हरो जीव इति शङ्का तस्य प्रकृ­ता­र्थ­त्वा­त्स­न्नि­हि­ता­क्षि­स्था­र्थ­त्वाद् निरासि । तदसाधु । द्विती­या­दि­प­र्या­य­ग­त­स्यै­त­मि­त्य­स्या­प्र­कृ­ता­र्थ­त्व­स­म्भ­वे­ना­क्षि­स्थ­प­रा­म­र्शि­त्वा­सिद्ध्या तन्मू­ल­क­जी­व­ब्र­ह्माऽ­भे­दा­सि­द्धे­रि­त्या­क्षेपः । अस्यां योजनायां प्रकृ­ता­र्थ­त्वा­दिति शङ्कान्वये तन्निरासान्वये च हेतुपञ्चम्येव शङ्का­नि­रा­सा­न्वये सन्नि­हि­ता­र्थ­त्वा­दिति तदर्थ इति विशेषः । यद्यपि प्रान्निधिः प्रक­र­णा­द्दु­र्बलः तथापि वाक्यो­प­क्र­म­प्र­कृत एवा­त्माऽ­क्ष­ण्यु­प­देश्य इति प्रक­र­णा­नु­गु­ण­स­न्नि­धिर्न तेन बाध्यः । ननु सर्वनाम्नः प्रकृ­ता­र्थ­त्व­नि­य­मा­भा­वेऽपि भूय इति नो एवा­न्य­चे­त्ये­ता­भ्याम् एतमित्यस्य प्रकृतार्थत्वं क्रमेदिति नाक्षे­प­सि­द्धि­रिति चेत् । मैवम् । तथा नियमाभावे भूय इत्यस्य पुनरपि किंचि­द­न्य­द्व­क्ष्या­मी­त्या­श­यो­प­पत्तेः । नो एवान्यदित्यस्य इतोऽ­न्य­त्कि­ञ्चित् पञ्च­म­प­र्या­य­मु­प­क्रम्य न वक्ष्यामि अस्मिन् चतुर्थपर्याये वक्ष्यमाणेनैव समा­प­यि­ष्या­मी­त्य­र्थो­प­पत्तेः ।
भासकत्वे सतीति ।
तेजोभासकत्वे सतीत्यर्थः । तथैवोत्तरत्र शङ्का­प­रि­हा­राभ्यां तदर्थं स्पष्टीकरिष्यति । इदं च तेजोविशेषणं घनकुड्यादौ विषयतया स्वभानहेतौ व्यभि­चा­र­ता­द­व­स्थ्य­मिति शङ्का­प­रि­हा­रा­र्थम् । यद्यपि धनकुड्यादेः सूर्य­दी­पा­द्य­भि­भा­व­कत्वं नास्ति घन­कु­ड्या­द्या­व­रणे सति चक्षुः­स­न्नि­क­र्षा­भा­वात् सूर्य­दी­पा­द्य­ग्र­ह­णो­प­पत्तेः । तथापि सुवर्णतेजः तदु­प­ष्ट­म्भ­क­पा­र्थि­व­भा­गा­भि­भूतं सह स्वकीयेन शुक्र­भा­स्व­र­रू­पेण न स्पष्टमुपलभ्यत इति मतानुसारेण तत्र व्यभि­चा­र­वा­र­णार्थं तद्विशेषणम् । सूर्यादिकं न भातीत्यस्यापि बलवता तेजसाऽभिभूतं न स्पष्टं भातीत्येवार्थो न तु सर्वथैव न भातीति प्रत्य­क्ष­वि­रो­धा­त्पू­र्वा­प­र­वि­रो­धाच्च । न हि यस्मिन्त्सति यत्सर्वथैव न भाति तत्तमनुभातीति युक्तम् । न खलु यस्मिन् गच्छति यो न गच्छति स तमनुगच्छति । अतो हेतौ विशेष्यभागस्य स्पष्ट­ते­जो­भा­न­वि­रो­धि­त्व­मे­वार्थ इति युक्त­मु­प­ष्ट­म्भ­क­पा­र्थि­व­भागे व्यभि­चा­र­वा­र­णार्थं विशेषणमिति ।
यदि तेजो­न्त­राऽ­दृ­ष्ट­मपि सूर्या­दि­प्र­का­श­कत्वं क्वचित्तेजसि कल्प्यते तर्ह्यतेजसैव ब्रह्मणा सूर्या­दी­ना­म­भि­भ­व­स्त­द­नु­क­रणं च कल्प्यतां मन्त्रस्य प्रकरणाद् ब्रह्म­प­र­त्वा­व­श्यं­भा­वेन श्रुति­व­शा­त्कि­ञ्चि­द­सि­द्धा­र्था­श्र­यणे प्रक­र­णा­नु­रो­ध्य­र्था­श्र­य­ण­स्यै­वो­चि­त­त्वा­दि­त्या­श­ङ्क्याह -
अभि­भ­वा­नु­का­र­यो­रिति ।
ननु ब्रह्मपक्षे द्वयमप्रसिद्धं कल्पनीयं तेजःपक्षे त्वेकमेवेति नायं विशेष: ।
तेजःपक्षे तथाभूतस्य धर्मिणः तेज­सोऽ­प्य­प्र­सि­द्धस्य कल्प­नी­य­त्वा­दि­त्या­श­ङ्क्याह -
इति पूर्ववाद्याशय इति ।
अयमिह तस्याशयो विवक्षितः । तेज­स­स्ते­जः­प्र­का­श­कत्वं नादृष्टचरं लाघवेन तेजो­वि­रो­धि­भि­न्न­चा­क्षु­ष­त्वा­व­च्छिन्ने तेजो­पे­क्षा­ङ्गी­का­रात् । दीपे तत्सं­यु­क्त­स्या­लो­क­स्या­लोके पर­स्प­र­सं­यु­क्ता­ने­क­कि­र­णा­त्मके तत्त­त्सं­यु­क्त­कि­र­णस्य च तेजसः सत्त्वाद् अन्ततः सर्वत्र तत्त­द­व­य­वा­व­य­व­स­त्त्वाच्च तद्रहितस्य त्रस­रे­णो­र्जा­ला­न्त­रा­ग­ता­लोक एव भानात् । एवं चाभि­भ­वा­नु­का­र­लि­ङ्ग­द्व­य­ब­लात् तेज­स­स्ते­जः­प्र­का­श­क­त्वा­वि­रो­धाच्च तेज एव किञ्चि­न्म­न्त्र­प्र­ति­पा­द्य­मिति निश्वये सति भूत­यो­नि­ब्र­ह्म­प्र­क­रणं नादरणीयं लिङ्गाभ्यां तस्य बाधादिति ।
तस्य सर्वज्ञत्व इति ।
ननु सर्वज्ञत्वं तस्य भासेत्यस्यार्थो मा भूत्कल्पनीयस्य तेजस: सर्वप्रकाशकत्वं तदर्थोऽस्तु श्रुतिवशात्तस्य तथा­त्वा­ङ्गी­का­रो­प­प­त्ते­रिति चेन्न । तथा सति तेजेान्तरस्य चाक्षु­षाऽ­चा­क्षु­ष­सा­धा­र­ण्येन तस्य सर्वप्रकाशकतया च कल्पनीयत्वेन सिद्धान्ते समारोपितस्य गौरवस्य पूर्वपक्षे प्रसरापत्तेरिति भावः । प्रस्तु­त­सू­र्या­दि­प­रा­म­र्शी­दं­श­ब्द­स­म­भि­व्या­हा­रात् सर्वशब्दः सङ्कु­चि­त­वृ­त्ति­रिति परिहाराभिप्रायः ।
उपरिष्टादिति ।
अग्रे स्वेन स्वेन बोध­यि­ष्य­मा­ण­स्वार्थे वर्त्तिष्यन्त इत्यर्थे न त्वग्रि­म­वा­क्या­न्त­रेण तत्त­द्वा­क्य­ग­त­प­दा­न्त­रेण वा बोधयिष्यमाणे एवार्थे वर्तिष्यन्त इति । तत्र तं तस्येति तत्प­द­घ­टि­त­वा­क्य­त्र­य­व्य­ति­रे­केण तत्प­रा­म­र्श­नी­या­लौ­कि­क­ते­जो­वि­ष­यस्य वाक्यान्तरस्य पदान्तरस्य चादर्शनात् प्रद­र्श­नी­य­मे­वेति टीकाया अपि स्वस्व­प्र­द­र्श­नीय एव स्वारस्याच्च ।
ननु तच्छब्दस्य प्रकृते प्रकरिष्यमाणे प्रत्य­क्षा­दि­स­न्नि­धा­पिते प्रसिद्धे चार्थे वृत्ति­र्व्यु­त्प­त्ति­सिद्धा न क्वचिदपि स्वपरामर्शनीय एवार्थे पर्यवसानं दृष्ट­मि­त्या­शङ्क्य तदपि दृष्टमिति दर्श­यि­तु­मु­दा­हृतं पाणि­नि­सू­त्र­द्वयं व्याचष्टे -
रागवाचिन इति ।
न प्रकृ­ता­र्था­वि­त्यु­प­ल­क्षणं नापि प्रक­रि­ष्य­मा­णार्थेौ न माना­न्त­र­स­न्नि­धा­पि­तार्थौ न च प्रसि­द्धा­र्था­वि­त्यपि द्रष्टव्यम् । नन्वनुमानं ब्रह्मण्येव लिङ्गम् । ब्रह्मणि भासमाने तद­ध्य­स्त­सू­र्या­दे­स्त­द­नु­भा­न­स­म्भ­वा­दि­त्ये­त­द­यु­क्तम् । सूर्यादिषु ब्रह्म­भा­ना­न्य­भा­ना­भा­वात् । गच्छ­न्त­म­नु­ग­च्छ­ती­त्यत्र गमनभेदे सत्येव ह्यनुशब्दो दृष्टः । उच्यते । गच्छ­न्त­म­नु­ग­च्छ­ती­त्यत्र तद्ग­म­ना­नु­का­रि­ग­म­ना­न्त­र­मि­वात्र तद्भा­ना­नु­का­रि­भा­ना­न्तरं नोक्तं तमेव भान्तमिति तस्यैव मानवत्त्वोक्तेः । न हि यत्र क्रियाभेदोऽस्ति तत्रैवमवधारणं युज्यते । युज्यते तु क्रिया­भे­दा­भा­व­स्थले वह्निमेव दहन्तं तप्ता­यः­पि­ण्डोऽ­नु­द­ह­तीति । तथा च भारूपे ब्रह्मणि अध्यस्तानां सूर्यादीनां तत्सत्तयैव सत्त्व­व­त्त­द्भा­ने­नैव मान­व­त्त्वेऽ­प्या­श्र­य­भे­देन क्रियाभेदं कल्पयित्वा अनुभातीति व्यपदेशः ।
अपि च तेजःपक्षइति ।
तस्मिन् पक्षे प्रसि­द्ध­वि­ल­क्षणं किञ्चि­त्ते­ज­स्ता­व­त्क­ल्प­नी­यम् । तत्प्र­ति­पा­द­न­वै­य­र्थ्याय तदु­पा­स­न­वि­धि­स्त­त्फलं च कल्प­नी­य­मि­त्य­ति­गौ­रवं ब्रह्म­प्र­क­र­ण­बा­धं­श्चे­त्येते दोषाः स्युरित्यर्थः ।
भासमानतेजसेति ।
प्रभा­न्त­र्ग­त­कि­र­णानां तत्सं­व­लि­त­कि­र­णा­न्त­र­सं­यो­गेन भानं चेद्यत्र संयोगस्तत्रैव भानं स्याद् घटा­दि­ष्वा­लो­क­सं­यु­क्त­प्र­देश एव भानदर्शनात् ।
न चैतदस्ति ।
आलो­का­व­य­वा­न्त­रा­सं­यु­क्तस्य तमःसंनिकृष्टस्य दीपा­लो­का­व­ध्य­व­य­व­भा­ग­स्यापि भानात् । तस्माद् भासमानतेजसा न सूर्यादितेजो भाति किं तु स्वत एवेति भावः ।
क्रिया­सा­म्या­भा­वोऽ­सिद्ध इति ।
वराहं गावोऽ­नु­धा­व­न्ती­त्यत्र त्वनु­धा­व­न्ती­त्य­नेन बाधितस्वार्थेन मुखं चन्द्र­म­नु­क­रो­ती­त्य­त्रा­नु­क­रो­ती­त्य­ने­नेव स्वरू­प­सा­म्य­मु­क्त­मिति सूकरार्थग्रहणम् । इहानुभातीति क्रिया­सा­म्योक्तौ तन्नि­र्वा­हा­या­न­पे­क्षितं स्वरूपसाम्यं नादरणीयमिति भावः । रूपै­का­र्थ­स­म­वा­यिनः चक्षुर्योग्याः संख्यादयः ।
संकुचेदिति ।
सिद्धान्ते तु न सङ्कोचः । इदं शब्द­स्या­प्य­स­ङ्को­चेन प्रत्य­क्षा­दि­स­न्नि­धा­पि­त­स­क­ल­व­स्तु­प­र­त्वो­प­प­त्ते­रिति भावः ।
रूपादिष्विति ।
पञ्चस्विति शेषः ।
प्रकृतेः पर इति ।
ननु सूत्र­व्या­ख्या­नस्य पाश्चान्यत्वेन ततः प्रकृ­त्य­र्थ­वि­शे­ष­ला­भस्य नास्ति पूर्व­प्र­वृ­त्तत्वं तथात्वे वाऽभि­भ­वा­दि­लि­ङ्ग­मा­लोच्य सूर्या­द्य­भि­भा­व­क­म­लौ­किकं तेजेान्तरमस्य मन्त्रस्य प्रतिपाद्यमिति व्याख्याने तेजसः प्रकृ­त­त्व­म­स्तीति स्यात् । मैवम् । तेन रक्तं रागा­दि­त्या­दि­सूत्रैः सिद्ध­श­ब्दा­न्वा­ख्यानं कुर्वतः पाणिनेः कौसुम्भमौपमन्यव इत्या­दि­सि­द्ध­श­ब्द­रू­पा­ण्यु­दा­ह­र­णानि तद्व्या­ख्या­न­रू­पाणि विग्रहवाक्यानि च मनसि विपरिवर्तन्त इति विग्र­ह­वा­क्यस्थैः कुसु­म्भा­दि­श­ब्दै­स्त­त्त­द­र्थस्य प्रस्तु­त­त्व­म­स्तीति तात्पर्यात् । यद्वा तेन रक्तमिति सूत्रे रञ्ज­क­द्र­व्य­वा­चिना प्रकृतिसमर्पकेण रागशब्देन रञ्ज­क­द्र­व्य­वि­शे­ष­वा­चकाः कुसु­म्भ­ह­रि­द्रा­दि­शब्दा लक्षणीया इति तैः प्रकृ­त्य­र्थ­वि­शे­ष­लाभः तस्यापत्यमिति सूत्रे ङ्याप्प्रा­ति­प­दि­का­दिति सूत्रा­नु­वृ­त्तस्य प्रकृ­ति­स­म­र्प­कस्य प्राति­प­दि­क­श­ब्द­स्याऽ­प­त्या­र्थ­प्र­त्य­य­प्र­कृ­ति­त्व­यो­ग्यो­प­म­न्य्वा­दि­प्रा­ति­प­दि­क­वि­शे­ष­प­र्य्य­व­सा­नात् तैः प्रकृत्यर्थलाभः । राग­प्रा­ति­प­दि­क­श­ब्दयोः समा­न­वा­क्यो­पा­त्त­त्वेऽ­प्य­र्थ­गत्या पूर्ववृत्तत्वं विवक्षितम् । वस्तुतस्तु द्विविधाः सर्वनामशब्दाः समभिव्याहृतपराः व्यव­स्थि­तै­का­र्थ­प­राश्च ।
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमेव वशं नयेत् ॥
तद्वति तत्प्र­का­र­क­ज्ञानं प्रमेत्यादिषु ये व्यव­स्थि­तै­का­र्थ­शू­न्यास्ते तत्त­द­भि­म­ता­र्थ­प­र­व्या­ख्या­न­श­ब्द­स­म­र्पि­ता­न­र्थ­वि­शे­षा­ना­साद्य निर्वृण्वन्ति । तेन रक्त­मि­त्या­दि­शब्दा अपि तथाभूता इति न तेषां पूर्व­प्र­कृ­ता­द्य­पेक्षा | इह तु मन्त्रे तच्छदाः स तेषां प्रति­शु­श्रा­वे­त्या­दि­श्लो­क­गता इव व्यव­स्थि­तै­का­र्थ­परा इति तेषां प्रकृ­ता­द्य­पे­क्षाऽ­व­श्यं­भा­वि­नीति तात्पर्यम् । ननु दहरविद्यायां तं चेद्ब्रू­यु­र्य­दि­द­म­स्मिन् ब्रह्म­पु­र­इ­त्या­दि­वाक्ये तमि­त्य­स्या­चा­र्य­रू­प­व्य­व­स्थि­तै­का­र्थ­प­र­स्यापि प्रकृ­ता­द्य­पेक्षा न दृष्टा । नैष दोषः । तत्राथ य एष संप्रसाद इत्यादिवाक्ये एष आत्मेति होवा­चे­त्य­त्रो­वा­चे­त्यस्य कर्तृ­वि­शे­षा­का­ङ्क्षा­या­मौ­चि­त्या­दा­चार्य्य इत्यध्याहरणीयम् । तस्य चोवाचेत्यस्य ब्रूयादित्यर्थो वाच्यः । यथा तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­दि­त्या­द्या­थ­र्व­ण­म­न्त्र­सं­दर्भ तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ इत्यत्र । ततश्च तं चेद्ब्रू­यु­रि­त्या­क्षे­प­वा­क्यो­प­क्रमे स ब्रूयादिति समा­धा­न­वा­क्यो­प­क्रमे च स एवाचार्यः परामर्शनीयो भविष्यति ।
णिजध्याहारं परिजिहीर्षता कथं प्रका­श­क­त्वे­ने­त्य­ध्या­हृ­त­मिति शङ्कां वारयति -
विषये इति ।
विष­य­नि­र्दे­श­सा­म­र्थ्या­द्वि­ष­यि­त्वेन न भातीति लभ्यत इत्यर्थः । ननु विषयित्वेन न भातीति विशिष्टनिषेधस्य शाब्द­त्व­सि­द्ध्यर्थं विषयित्वेनेति शब्दोऽ­ध्या­ह­र्तव्यः । सत्यम् । विशे­ष्य­मा­त्र­नि­षेधे प्रत्यक्षविरोधः स्यादिति किंचि­द्वि­शे­ष­णा­ध्या­हा­रा­व­श्य­म्भावे कार­क­स­प्त­म्य­र्य­वि­ष­य­त्वा­क्षि­प्त­तया विषयित्वस्य बुद्धिस्थत्वात् तद्वाचक एवा­ध्या­ह­र्तु­मु­चितो न स्पष्ट­त्वा­दि­वा­चकः । न चाप्र­स­क्त­प्र­ति­षे­ध­दोषः । रूपा­दि­म­त्त्व­भ्रान्त्या प्रसक्तस्य सूर्या­दि­प्र­का­श्य­त्वस्य न चक्षुषा पश्यति कश्चिदेनमिति चाक्षुषत्वस्येव निषेधोपपत्तेः । ननु कुतोऽयमग्निरिति कैमु­ति­क­न्या­या­न­न्वयः । यदतिसूक्ष्मं वस्तु सूर्यादयोऽपि प्रकाशयितुं नेशते तद्दीपः प्रकाशयिष्यतीति का प्रत्याशेत्येवं सौक्ष्म्या­ति­श­य­स्तु­त्य­र्थ­त­याऽ­न्व­यो­प­पत्तेः । प्रत्यु­ता­भि­भा­व­क­त्व­पक्ष एव तस्य भासे­त्या­दे­र­न­न्वयः स्यादभिभावकस्य प्रका­श­क­त्वा­यो­गात् । तदलौकिकं सर्व­प्र­का­श­न­स­मर्थं तेजोन्तरं सर्वदा सर्वत्र स्थितं चेद् चन्द्र­सू­र्य­दी­पा­दी­ना­म­भा­वेऽपि घटादिस्फुरणं स्यात् । तस्य चन्द्रा­दि­प्र­भा­नु­वि­धा­यि­त्वा­ङ्गी­कारे चन्द्र­सू­र्य­दी­पा­दि­प्र­भासु घटादीनां तुल्यरूपः स्पष्टः प्रकाशः स्यात् । तस्य चन्द्र­प्र­भा­द्य­नु­वि­धा­यि­प्र­का­श­ता­र­त­म्य­स्या­प्य­ङ्गी­कारे चन्द्र­प्र­भा­द्य­ति­रे­के­णा­नु­प­ल­भ्य­मा­नस्य तस्य पर्या­या­न्त­रे­णा­भाव एवोक्तः स्यादिति दोषा: स्युरिति द्रष्टव्यम् । अत्रानुभानस्य तेजोलिङ्गत्वं निरस्य ब्रह्मलिङ्गत्वं सम­र्थ­नी­य­मा­सी­दि­त्य­स्प­ष्टता ॥

शब्दादेव प्रमितः ॥२४॥
परि­मा­ण­वि­शे­ष­व­न्मा­त्र­वा­चीति ।
परि­मा­ण­वि­शे­ष­वा­न­ङ्गु­ष्ठ­प­रि­मा­ण­वान् । अङ्गुष्ठमात्र इत्यत्र मात्रशब्दः प्रमाणवाची । प्रत्ययः प्रमाणे द्वय­स­ज्द­ध्न­ञ्मा­त्रच् इति सूत्रे­णा­नु­शिष्टः | तन्मात्रवाची तत्सामान्यवाची ।
तद्विशेषे श्रुतिरेवेति ।
ननु दह­र­श­ब्द­व­द­ङ्गु­ष्ठ­मा­त्र­श­ब्दोऽ­ल्प­प­रि­मा­ण­रूपे जीवलिङ्ग एव श्रुतो न तु तद्वति जीवरूपे धर्मिविशेषे । यद्येवं भूत­भ­व्य­श­ब्द­स­म­भि­व्या­हृत ईशानशब्दोऽपि भूत­भ­व्ये­शि­तृ­त्व­रू­प­ब्र­ह्म­लिङ्ग एव श्रुति­र्न­ब्र­ह्म­णीति तुल्यं योगरूढिमतः शब्दस्य यौगि­का­र्थ­स­म्ब­न्धि­नि­र्देशे रूढ्यनुन्मेषस्य पद्मानि यस्या­ग्र­स­रो­रु­हा­णी­त्या­दिषु दर्शनादिति भावः ।
यदि त्वीशानशब्दः श्रुति­रे­वा­ङ्गु­ष्ठ­मात्र इति लिङ्गं तदा प्राथ­मि­क­लि­ङ्गस्य पाश्चा­त्त्य­श्रु­तेश्च बलाऽ­ब­ला­न­व­धा­र­णा­त्सं­शय इत्याशयेनाह -
यद्यत्रेति ।
शङ्कानिरास इति ।
अङ्गु­ष्ठ­मा­त्र­श्रुत्या सह जीवग्रहणे युक्त्यन्तरमपि चेत्यनेन समुच्चेयं न भवति तत्र युक्त्य­न्त­राऽ­क­थ­नात् किं त्वङ्गु­ष्ठ­मा­त्र­श्रु­ते­रेव ब्रह्मणि संभवशङ्कानिरास: समुच्चेय इत्यर्थः ।
परमात्मनो हृत्पु­ण्ड­री­क­स्था­न­त्वस्य युक्त­त्वो­प­न्यासः प्रकृ­ता­नु­प­यो­गी­त्या­शङ्क्य तत्प­र­मा­त्म­नोऽ­ल्पत्वे कार­ण­मि­त्ये­त­द्यु­क्त­मि­त्य­ध्या­हृत्य व्याचष्टे -
परमात्मन इति ।
हृत्पु­ण्ड­री­को­पा­ध्य­व­च्छे­द­का­र­ण­क­म­ल्पत्वं ब्रह्मणो युक्तं चेत्त­दे­वे­हा­प्य­ङ्गु­ष्ठ­मा­त्र­श­ब्दे­नो­च्य­ता­मि­त्या­श­ङ्क्याह -
उपाधिं संकीर्त्येति ।
उपा­धि­सं­की­र्त­न­पू­र्व­क­मु­च्य­मा­न­म­ल्पत्वं स्वाभा­वि­काऽ­न­न्त­त्वाऽ­पा­र­त्वाऽ­वि­रोधि भवति इह तु तत्कीर्तनं विनै­वा­ल्प­त्व­मु­च्यत इत्यस्य ब्रह्म­वि­ष­य­ता­या­मिदं स्वाभा­वि­का­न­न्त­त्वा­दिना विरुध्येतेति भावः । नन्वप्रयोजकमिदं यदुपाधिसंकीर्तन एवोपाधिकं सिध्यतीति तद­भा­वेऽ­प्य­न्त­त्वा­दि­श्रु­त्य­नु­सा­रे­णैा­पा­धि­क­त्व­सि­द्धु­प­पत्तेः । अन्यथा अणोरणीयान्महतो मही­या­नि­त्या­दि­श्रु­तिषु का गतिः । किं चैवं सत्य­नि­य­त­प­रि­मा­णान्तः कर­णो­पा­धि­क­जी­व­वि­ष­य­त्व­म­प्य­स्या­ङ्गु­ष्ठ­मा­त्र­त्व­श्र­व­णस्य न सिद्ध्येद् हृद­यो­पा­धि­सं­की­र्त­ना­भा­वात् । यदि तस्य स्वोपा­ध्य­न्तः­क­र­ण­द्वारा प्रायिकं हृदयस्थत्वं प्रसिद्धं न वक्तव्यं तर्हीश्वरस्य नियतहृदयस्थत्वं श्रौत­हृ­द­य­श­ब्द­नि­रुक्त्या ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतीति स्मृत्या च प्रतिपादितं प्रसिद्धतरमिति सुतरां न वक्तव्यम् । न च वाच्यं ब्रह्मणो हृदये अति­सू­क्ष्म­त्वस्य दह­र­शा­ण्डि­ल्य­वि­द्य­येा­रु­क्त­त्वा­त्तस्य तदु­पा­धि­क­म­ङ्गु­ष्ठ­मा­त्रत्वं न संभवतीति तर्हि जीव­स्या­प्या­रा­ग्र­मा­त्र­त्वेन बाला­ग्र­श­त­भा­ग­श­तां­श­मि­त­त्वेन च श्रुतस्य तन्न संभवति । अथोच्येत श्वेताश्वतरे प्राणाधिपः संचरते स्वकर्मभिरिति जीवं प्रकृत्य अङ्गुष्ठमात्रो रवितुल्यरूपः संक­ल्पा­हं­का­र­स­म­न्वितो य इत्याहत्य तस्या­ङ्गु­ष्ठ­मा­त्रत्वं श्रुतं भारतेपि दृष्टम् अत­स्त­स्या­रा­ग्र­मा­त्र­त्वा­दि­श्र­वणं सूक्ष्म­सू­क्ष्म­त­र­ना­डी­सं­चा­रा­द्यु­पा­धिकं कल्प्यमिति तर्ही­श्व­र­स्या­प्य­ङ्गु­ष्ठ­मात्रः पुरुषोऽङ्गुष्ठं च समा­श्रि­तः­ई­शः­स­र्वस्य जगतः प्रभुः प्रीणाति विश्वभुगिति तैत्ति­री­य­मन्त्रे अङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदि संनिविष्टः हृदा मनी­षा­म­न­सा­भि­क्लृप्तो य एनं विदुरमृतास्ते भवन्तीति श्वेता­श्व­त­र­मन्त्रे चाङ्गु­ष्ठ­मा­त्र­त्व­मा­हत्य श्रुतमिति दह­र­शा­ण्डि­ल्य­वि­द्य­यो­रु­क्त­मिति सौक्ष्म्यं हृद­या­ग्र­सु­षि­रो­पा­धिकं कल्प्यमिति तुल्यं तस्मा­द्व­क्त­व्य­मिदं केन विशे­षे­णा­ङ्गु­ष्ठ­मा­त्र­त्व­श्र­व­णस्य ब्रह्मविषयत्वे सति उपा­धि­सं­की­र्त­ना­पेक्षा न जीवविषयत्व इत्यभ्युपगतमिति । उच्यते । ब्रह्म­वि­ष­य­म­ङ्गु­ष्ठ­मा­त्र­त्व­श्र­व­ण­मु­पा­धि­सं­की­र्त­न­नि­यतं दृष्टं जीवविषयं तु तत्सं­की­र्त­न­र­हि­त­मपि । अत उपा­धि­सं­की­र्त­न­र­हि­त­मिदं जीवविषयमेव भवि­तु­म­र्ह­ती­त्य­भ्यु­प­ग­तम् ।
स्वस्य भवितुरनिर्देशे तदनिर्णयस्य स्वभा­वाऽ­नि­र्ण­य­प­र्य­व­सा­नेन प्रकृतोपयोगमाह -
स्वो यो भवितेति ।
उदासीने स्वरूपे इति ।
उदासीनस्वभावो भवतीत्यर्थः ।
सकनिष्ठिक इति ।
मुक्तकनिष्ठिक इत्यर्थः ।
नन्वेतद्वै तदिति तच्छब्दोऽन्यत्र धर्मादिति प्रकृतं ब्रह्म परा­मृ­शे­दि­त्या­शङ्क्य पूर्वपक्षे तत्संगमयति -
एतदिति ।
अन्यत्र धर्मादिति प्रस्तुतेति ।
येयं प्रेते इति प्रश्नस्य अन्यत्र धर्मादिति पुनः प्रवर्तने परमात्मविषयतया विवृ­त­त्वा­त्त­दु­त्त­र­ग­त­स्या­ङ्गु­ष्ठ­वा­क्यस्य प्रति­पि­पा­द­यि­षि­त­जी­वा­भि­न्न­प­र­मा­त्म­वि­ष­यत्वे सम्भवति केव­ल­जी­व­प­र्य­व­सा­न­क­ल्पनं न युक्तमिति भावः ।
ननु सर्वगतस्यापि ब्रह्मण इत्या­दि­भा­ष्य­वाक्यं यदि जीवाभिप्रायं तर्हि भाष्यगतस्य ब्रह्मशब्दस्य किं जीवे लक्षणा नेत्याह -
जीवभावापन्नेति ।
ब्रह्मैव जीवभावेन वर्तत इत्यभिप्रायो भाष्ये ब्रह्मशब्द इत्यर्थः । कस्य चिन्मुमुक्षोः असंन्यासिनः । एतेन काम्यग्रहणं मोक्ष­मा­ण­मा­त्रा­न्व­यीति दर्शितम् ।
स्वकीयस्येति ।
आत्मनो दीयमानस्य स्वत्व­नि­वृ­त्त्य­सं­भ­वा­दिति भावः ।
ऋष्य­न्त­रा­भा­वा­दिति ।
वसि­ष्ठा­दी­ना­मा­र्षे­य­व­रणे वर­णी­य­व­सि­ष्ठा­न्त­रा­द्य­भा­वा­दि­त्यर्थः । अत्र ऋषि­दे­व­ता­धि­का­र­वि­चारे वक्तव्यं देवताधिकरणे वक्ष्यते ।
सिद्धा­न्ति­ना­पीति ।
ननु यदि सिद्धा­न्ति­नाऽ­प्य­ङ्गु­ष्ठ­मात्रः पुरुष इत्ये­त­द­नु­वा­द्य­जी­व­वि­ष­य­म­भ्यु­प­ग­म्यते कथं तर्हि संश­य­प्र­द­र्श­न­ग्रन्थे मन्त्रस्य परमात्मपरत्वं पक्षे परिमाणविशेषो न मुख्य इत्युक्तं कथं च परिमाणं जैवं पारमेश्वरं वेति संशय इत्युक्तम् । उच्यते । अस्य मन्त्र­स्या­ङ्गु­ष्ठ­मात्रः पुरु­षोऽ­न्त­रा­त्मे­त्य­न­न्त­र­म­न्त्र­व­द­ङ्गु­ष्ठ­मा­त्र­जी­वा­नु­वा­देन तस्य ब्रह्माऽ­भे­द­बो­ध­न­प­रत्वे श्रुत­स्या­ङ्गु­ष्ठ­प­रि­मा­ण­स्यो­प­मर्दो भवति योऽय­म­न्तः­क­र­णो­पा­धि­कोऽ­ङ्गु­ष्ठ­मात्रः प्राप्तो जीवः स न तथा मन्तव्यः किन्त्व­सं­कु­चि­त­स­क­ल­भू­त­भ­वि­ष्य­द्व­र्त­मा­न­व­स्तु­नि­य­न्तृ­त्व­प्रा­प्त­स­क­ला­न्त­रा­व­स्था­न­तया व्यापकः परमात्मैव मन्तव्य इति । एवं च यथाऽ­प्य­ग्नि­ष्टोमे राजन्यस्य गृह्णी­या­द­प्युक्थे ग्राह्य इति राज­न्य­नि­मि­त्त­षो­ड­शि­ग्र­ह­या­गा­भ्या­स­विधौ राज­न्य­स्यो­क्थ­सं­स्थोऽ­ग्नि­ष्टो­म­संस्थो वा यः क्रतुः प्राप्तः स न तथा कर्तव्यः किन्तु षोडशिसंस्थः कर्तव्य इति विधीयमानया षोड­शि­सं­स्थ­यो­क्था­ग्नि­ष्टो­म­सं­स्थो­प­मर्दः एवमिह भूत­भ­व्य­नि­य­न्तृ­प­र­मे­श्व­रा­भे­द­बो­ध­नेन जीव­स्या­ङ्गु­ष्ठ­प­रि­मा­णो­प­मर्द एव तस्या मुख्यता विवक्षिता । एवं तर्हि मन्त्रस्य पर­मा­त्मा­भे­द­प­र­त्व­पक्षे भूत­भ­व्य­नि­य­न्तृ­त्व­स्या­प्यु­प­म­र्दोऽ­स्तीति तस्मिन् पक्षे कथं विशिष्य परि­मा­ण­वि­शे­ष­स्या­मु­ख्य­तोक्तिः । सत्यम् । तदुपमर्दो न जीवलिङ्गकृतः किं तु ब्रह्मा­भे­द­रू­प­वा­क्या­र्थ­वि­रो­ध­कृतः । जीव­लि­ङ्गो­प­म­र्दस्तु ब्रह्म­लि­ङ्गा­दि­कृतः ब्रह्म­श्रु­ति­लि­ङ्ग­प्र­क­र­ण­प­रा­म­र्शे­नैव कृत्स्नस्य मन्त्रस्य जीवपरत्वमपोद्य जीवानुवादेन ब्रह्मा­भे­द­प­र­त्व­प­क्ष­स्यो­न्मे­ष­णी­य­त्वात् । अनेन विशेषेण सिद्धान्तपक्षे परि­मा­ण­वि­शे­ष­स्यै­वा­मु­ख्य­त्व­मुक्तं पारमेश्वरं वेत्येतत्तु श्रुत्या­द्या­पा­दि­त­प­र­मे­श्व­र­प­र्य­व­सा­ना­भि­प्रा­यम् । श्रुति­रि­हे­शा­न­श­ब्द­रूपा पर­मे­श्व­रा­भि­धा­न­श्रु­ति­यो­गेन लिङ्ग­स­म­र्प­क­स्यापि तस्य रूढ्या पर­मे­श्व­र­बो­ध­क­त्वाऽ­नि­वा­र­णात् । काव्येषु तु व्यङ्ग्या­र्थ­प्र­धा­नेषु यस्य शब्दस्य यौगिकोऽर्थो व्यञ्ज­न­व्या­पा­रा­नु­कू­लस्तं शब्दं यौगिकार्थ एवोपक्षीणं कृत्वा तदी­य­रू­ढ्य­र्थ­स­म­र्प­णार्थं क्वचि­त्क्व­चि­त्प­दा­न्त­र­म­प्यु­पा­द­दते तत्प­दा­न्त­रो­पा­दानं न यौगि­का­र्थ­सं­ब­न्ध्यु­पा­दा­नस्य रूढ्यु­न्मे­ष­वि­रो­धि­त्व­प्र­यु­क्तम् । तदनुपादानेपिऽपि कुर्यां हरस्यापि पिना­क­पा­णे­र्धै­र्य­च्युतिं के मम धन्विनोऽन्ये इत्यत्र तद्दर्शनात् । अत्र सिद्धा­न्तेऽ­प्य­प्र­त्या­ख्ये­येन जीव­लि­ङ्गे­ना­भि­भूतं ब्रह्मलिङ्गं ब्रह्म­लि­ङ्ग­नि­र्वा­ह­क­म­हा­वा­क्य­ता­रू­पो­पा­य­क­थ­नात् प्राङ् नोन्मि­ष­ती­त्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥

तदुपर्यपि बादरायणः संभवात् ॥२६॥
ननु देवाधिकारचिन्ता नास्मदादीनां प्रवृ­त्ता­वु­प­युक्ता नापि देवानां तेषां स्वकी­य­वि­ग्र­ह­वत्त्वे तत्प्र­यु­क्त­सा­म­र्थ्या­दि­मत्त्वे च सिद्धा­न्त­न्या­य­नि­र­पे­क्षा­व­ग­ति­स­द्भा­वा­दि­त्या­श­ङ्क्याह -
अधिकारेति ।
क्रममुक्तिफला देव­ता­प­द­प्रा­प्ति­द्वारा मुक्तिपर्यन्ता उपास्तयः । एतदुपलक्षणं देवतानां सिद्धा­व­न्त­रा­दि­त्य­वि­द्या­दि­ष्वा­दि­त्य­दे­व­ता­द्य­न्त­र्व­र्त्ति­त्वेन ब्रह्मोपासनं न तु ज्योति­र्म­ण्ड­ला­द्य­न्त­र्व­र्त्ति­त्वेन उप­को­स­ल­प­ञ्चा­ग्नि­वि­द्य­यो­र­र्च्चि­रा­द्य­भि­मा­नि­दे­व­तानां मार्गपर्वत्वेन चिन्तनं न त्वर्च्चि­रा­दी­ना­म­चे­त­ना­ना­मि­त्यु­पा­स­नायां विशेषसिद्धिः तं देवा भक्ष­य­न्ती­त्या­दि­श्र­व­णेन वैराग्यसिद्धिः मन्त्रार्थवादाः प्राप्ति­वि­रो­ध­यो­र­सतो: प्रतीयमानेऽर्थे प्रामाण्यं न जहति देव­ता­वि­ग्र­ह­प्र­सा­ध­नो­प­यो­गि­न्या­य­व्यु­त्प­न्नस्य प्लवा ह्येते अदृढा यज्ञरूपाः जायस्व म्रिय­स्वे­त्ये­त­तृ­तीयं स्थान­मि­त्या­दि­वा­क्य­श्र­व­णेन विवे­क­वै­रा­ग्या­दि­सि­द्धि­रि­त्या­दि­क­मपि देव­ता­धि­क­र­ण­प्र­व­र्त­नस्य फलं द्रष्टव्यम् ।
विद्व­त्तो­प­यो­गा­दाह आगमादेरिति ।
आदिशब्देन आग­मा­र्थ­नि­र्णा­य­क­न्या­य­ग्र­ह­णम् ।
स्मर्य्यमाण इति ।
यद्यपि देवा­ना­मु­प­नी­ता­धि­का­रि­क­वै­धा­ध्य­य­ना­सं­भ­वेऽपि काव्यानामिव लौकिकमध्ययनं वक्तुं शक्यं वैधा­ध्य­य­न­नि­य­मस्य स्वशा­खा­वि­ष­य­त्वाद् देवानां शाखानियमाभावात् तथापि स्वयं­भा­त­वे­द­त­द­र्थानां तेषामध्ययनं न कल्पनीयमिति तात्पर्य्यम् । ननूपनयनं न केव­ल­म­ध्य­य­ना­धि­का­रार्थं किं तु सर्व­क­र्मा­धि­क­रा­र्थम् । अत एव समर्थस्यापि संध्या­व­न्द­ना­दि­क­मु­प­न­य­ना­दू­र्ध्व­मि­ष्यते । मूकबधिरादीनाम् अध्ययनाभावेऽपि शक्य­नि­त्य­क­र्मा­नु­ष्ठा­ना­र्थ­मु­प­न­य­न­मि­ष्यते । तस्मिँस्तु शिष्यमाणानि जननेन प्रवर्तेरन्निति पूर्व­त­न्त्रा­धि­क­र­णेऽपि तथैव निर्णीतम् | सत्यम् । त्रैव­र्णि­का­ना­मेव तत्क­र्मा­धि­का­र­हे­तु­स्ता­न्प्रति विहितत्वादत एव शूद्रा­णा­मु­प­न­य­ना­भा­वेऽपि स्वधर्मेषु सामान्यधर्मेषु वाऽधिकारः ।
चतु­र्थ्य­न्त­श­ब्द­प्र­ती­त­मा­त्र­मिति ।
आखण्डलादिः प्रसिद्धार्थ इत्यर्थः । ननु देवताया विग्रहवत्त्वे दर्शिते क्रतुदेशेषु सन्निधानाभावेन कर्मविरोध इहापि तुल्य: असं­भ­व­त्प­रि­हा­र­श्चेति विशेषः । न हि विग्रहवत्या देवताया इवाचेतनदेवताया विग्र­ह­भे­दै­र­ने­कत्र क्रतुदेशे सन्नि­धा­न­मु­प­पा­द­यितुं शक्यम् । न च विग्रहवतोङ्गस्य सन्निधाननियम: विग्र­ह­र­हि­त­स्यापि जुह्वादेः सन्नि­धा­न­नि­य­म­द­र्श­नेन विशे­ष­ण­वै­य­र्थ्यात् । उक्तनियमस्य प्रवसद्यजमाने व्यभिचारेण विग्र­ह­र­हि­त­स्यै­वा­ङ्गस्य सन्नि­धा­न­नि­य­म­द­र्श­नाच्च । न च प्रव­स­द्य­ज­मा­न­क­र्तृ­क­वि­ष्णु­क्र­मादौ व्यभिचारः ।
मूर्तस्येति विशेषयितुं शक्यत्वादिति शङ्कानिवारणाय गृही­त­म­र्थो­प­हि­त­पक्षं व्याचष्टे -
तादृगिति ।
नन्वे­व­म­र्थ­स्या­ङ्ग­भू­त­श­ब्दो­प­ल­क्ष­ण­ताया विग्र­ह­व­त्त्व­प­क्षेऽपि वक्तुं शक्यत्वान्न तस्मिन् पक्षे कर्मणि विरोधो दूषणमिति चेत् । सत्यम् । असारमपीदं दूषणं देव­ता­वि­ग्र­ह­द्वे­षा­न्धै­रु­द्भा­वि­त­मिति पूर्व­प­क्ष्यु­प­ह­स­ना­र्थ­मि­न्द्रा­दीनां वस्तुतः क्रतुदेशे सन्निधानमस्तीति तात्त्वि­का­र्थ­प्र­द­र्श­नार्थं चानूदितम् ।
इच्छामात्रमिति ।
इन्द्रा­ग­च्छे­त्या­द्या­ह्वा­न­लि­ङ्गा­दि­न्द्रा­दी­ना­मा­ग­मनं स्वेच्छाधीनं वाच्य­मि­त्य­ने­क­क्र­तु­दे­शा­ग­म­न­नि­र्वा­हा­र्थ­म­ने­क­श­री­र­सृ­ष्टि­रपि तदिच्छाधीना पर्य्य­व­स्ये­दि­त्येवं तदिच्छायाः शरी­र­सृ­ष्टि­का­र­ण­त्व­सिद्वैा तद­ति­रि­क्त­का­र­ण­मे­ल­ना­भा­वा­च्छ­री­र­सृ­ष्ट्या­क्षेपे इति भावः ।
अधि­ष्ठा­त्र­भा­वा­दिति ।
ईश्व­र­स्या­धि­ष्ठातुः सत्त्वेऽ­पी­न्द्रा­दी­ना­मि­च्छया सृष्टौ तेषा­म­प्य­धि­ष्ठा­तृत्वं वाच्यं तन्न संभवतीत्याशयः ।
एवकारदर्शनादिति ।
एतयैव निवि­दे­त्ये­व­का­रेण यस्यां निविदि देवतासंख्या पृष्टा तयैव निवि­दो­त्त­र­मा­हे­त्य­र्थ­ला­भा­दि­त्यर्थः ।
द्वितीयामिति ।
देव­ता­ना­म­ङ्ग­त्वेऽपि नम­स्का­र्य­त्व­व­त्के­व­ल­मु­द्दे­श्यत्वे कर्तृ­क­र­ण­क­र्मा­धि­क­र­णा­दि­वन्न संनि­धा­ना­पे­क्षे­त्यु­प­पा­द­नार्था द्वितीया व्याख्या ।
अत एवोपाध्यभाव इति ।
उपाधेरपि नरपतित्वादिवत् किंचि­द्घ­ट­क­प­दा­र्थ­ग­त­जा­त्य­व­च्छे­दे­ना­नु­ग­ती­क­र्त­व्य­त्वाद् घट­क­प­दा­र्थे­ष्व­प्य­लौ­कि­केषु प्रत्य­भि­ज्ञा­भा­वे­ना­नु­ग­त­जा­त्य­सि­द्धे­रि­त्यर्थः ।
मन्त्रसिद्ध इति ।
आदि­त्या­दि­श­ब्दा­ना­म­चे­त­न­म­ण्ड­ला­दि­वा­चि­त्व­प­क्षेऽपि तत्प्र­वृ­त्ति­नि­मि­त्त­भूता जाति­र्लौ­कि­क­प्र­त्य­भि­ज्ञा­नेन न सिद्ध्यति । इदा­नी­न्त­न­म­ण्ड­ला­दे­र्दृ­श्य­मा­न­त्वेऽपि प्राची­न­म­ण्ड­ला­दे­र­ती­त­स्यै­त­द्द्र­ष्टृ­दृ­ष्ट्य­गो­च­र­त्वात् । अतः सूर्याचन्द्रमसौ धाता यथा­पू­र्व­म­क­ल्प­यद् इत्या­दि­म­न्त्र­सिद्धे प्राचीने इदानीन्तने च प्रत्य­भि­ज्ञा­न­म­पे­क्ष्यते चेद् वेदाधीनमेव तदन्वेष्यं तदिहापि सुलभमिति भावः । इन्द्रादीनां पूर्वो­त्त­र­वि­ग्र­हयोः संस्था­न­वि­शे­षैक्ये जाति­प­क्ष­स्त­द­भावे स्वर्गा­धि­प­त्या­द्यु­पा­धि­पक्ष: ।
शब्दं प्रतीति ।
शब्द­प्र­भ­व­त्व­हेतुं प्रसञ्जकं कृत्वा शब्द­स्व­रू­प­नि­र्णि­नी­षया नायं प्रश्न: तथा सति स्फोटवादिना देवादीनां वर्ण­प्र­भ­व­त्वा­नु­प­पत्तेः स्फोट­प्र­भ­व­त्वो­प­प­त्ते­श्चा­व­क्त­व्य­त्वात् । तस्मा­दु­क्त­प्र­का­रे­णा­क्षे­पोऽ­य­मि­त्यर्थः । नन्वि­न्द्रा­दि­श­ब्दानां लौकि­क­पि­तृ­कृ­त­पु­त्र­ना­म­वद् व्यक्तिशब्दत्वे तेषां व्यक्तिवाचित्वं तत्त­त्सं­के­त­यि­तृ­पु­रु­ष­बु­द्ध्य­धीनं भवे­दि­तो­न्द्रा­दि­प­द­घ­टि­तानां विधिवाक्यानां संके­त­यि­तृ­स्व­त­न्त्र­पु­रु­ष­बु­द्ध्य­धी­ना­र्थ­प्र­ति­पा­द­क­त्वेन तत्सा­पे­क्ष­त्व­ल­क्ष­णा­प्रा­मा­ण्या­पत्त्या तच्चो­दि­त­क­र्म­णा­म­न­नु­ष्ठानं स्यादिति कर्मणि विरोधापादने तेषां जातिशब्दत्वेन परिहर्तव्ये शब्द­प्र­भ­व­त्वा­दिति हेतु: क्वोपयुज्यते शब्दे­ना­र्थ­स्मृ­ति­सा­पेक्षा सृष्टिः स्रष्ट­व्या­र्थस्य स्मर्य­मा­णा­र्थ­स­मा­न­जा­ती­यत्व एव लोके घटादिषु दृष्टेति शब्दप्रभवत्वं जातिवाचित्वहेतु सिद्ध्यर्थो हेतुरिति चेद् न । लोके दृष्टा­न्ताऽ­सं­प्र­ति­पत्तेः । घटा­दि­सृ­ष्ट्य­र्थ­म­पे­क्षि­तस्य घट­त्वा­दि­जा­त्य­भि­व्य­ञ्ज­का­कृ­ति­वि­शे­षा­नु­स­न्धा­नस्य प्राक्त­न­त­द­नु­भ­वा­देव संभवेन घटा­दि­श­ब्दा­न­पे­क्ष­णा­द­नु­ष्ठे­या­र्थ­स्मृ­ता­वु­पा­या­न्त­र­सं­भ­वेऽपि मन्त्रेणैव संस्मर्तव्य इतिवत् स्रष्टव्यो घटा­दि­वा­च­क­श­ब्दे­नैव स्मर्तव्य इति नियमहेत्वभावात् । अत एव कैश्चिदुपकरणैः कञ्चिदर्थं निर्मिमाणं दृष्ट्वा तद्वाचकानभिज्ञा अपि नाना­शि­ल्प­नि­पु­णा­स्तै­रु­प­क­र­णै­स्त­था­भूतं व्यक्त्यन्तरं निर्मिमाणा दृश्यन्ते । उच्यते । शिल्पी शिल्प­शा­स्त्रेभ्यो देवादीनां नामरूपाणि विज्ञाय प्रतिमादिकं निर्मिमातीति लोके दृष्टं तथैव हिरण्यगर्भो वेदेभ्यस्तानि विज्ञाय देवादीन् सृजति तस्य देव­सृ­ष्ट्यु­प­यो­गि­ना­म­रू­प­ज्ञा­ना­र्थ­मेव हि सृष्टाय तस्मै वेदप्रदानमपि श्रूयते येा ब्रह्माणं विदधाति पूर्वं यो वै वेदाँश्च प्रहिणोति तस्मै इति । भाष्यो­दा­हृ­त­श्रु­ति­स्मृ­त­योऽ­प्यत्र प्रमाणम् ।
गृहीतस्येत्यस्य बधि­रे­णा­न­न्व­या­द­ध्या­ह­रति -
अबधिरेणेति ।
तथा च बधिरेणागृहीतस्य गृहीतस्य वेति टीकायां बधिरेणेति श्रुत­स्याऽ­गृ­ही­ते­ना­न्वयः अब­धि­रे­वे­त्य­ध्या­हृ­तस्य गृहीतेनान्वयः इति विभागः ।
टीकायामङ्गत इत्यनेनैव संगतेरपि संग्र­हा­द­वि­दि­त­सं­ग­ति­रिति पृथङ्न वक्त­व्य­मि­त्या­श­ङ्कायां हेतु­नि­र्दे­शा­र्थ­त्वेन तदु­क्ति­सा­फ­ल्य­मुक्त्वा तद­पे­क्ष­हे­तु­क­म­नु­मानं दर्शयति -
शब्द इति ।
अङ्गे­ने­त्ये­त­द्या­व­द­ङ्ग­परं तेन योग्य­ता­दि­म­त्किं­चि­द­ङ्ग­ज्ञा­न­सा­हि­त्य­सं­प्र­ति­पत्त्या न सिद्धसाधनम् । अङ्गत्वं मान­वि­भा­ज­को­पा­ध्य­व­च्छिन्नं प्रति सहकारित्वं तेना­दृ­ष्ट­रू­पा­ज्ञा­तस्य सहकारित्वेऽपि पक्ष­दृ­ष्टा­न्त­योर्न बाध्य­सा­ध्य­वै­कल्ये सिद्ध्य­भा­वा­दे­र­ज्ञा­त­स्या­नु­मा­न­मात्रे सह­का­रि­त्वा­भ्यु­प­गमे तु दृष्टान्ते साध्यलाभाय भाव­रू­प­स­ह­का­रित्वं विवक्षणीयम् । हेतैा मान­वि­भा­ज­को­पा­ध्य­व­च्छे­देन संब­न्ध­ग्र­ह­णा­पेक्षा विवक्षिता तेन कपिसंयुक्तो वृक्ष इति ज्ञानजनके चक्षुषि न व्यभिचारः ।
नार्थ­धी­हे­तु­त्व­इति ।
अपूर्वावधारणात् प्रागर्थधियो जन­नाऽ­सं­भ­वा­द­र्थ­धी­हे­तु­त्वम् अमानकमिति तद­न्य­था­नु­प­प­त्ति­र्नो­दे­ती­त्या­शयः ।
नानावर्णेति ।
यथा खलु संध्य­क्ष­रा­न्त­र्ग­ता­का­रे­का­रा­द्य­ति­रि­क्तै­क­सं­ध्य­क्ष­रा­व­ग­ते­स्त­द­ति­रिक्त एकारादिः यथा वैक­त्व­स­मु­दा­या­ति­रि­क्त­श­ता­दि­सं­ख्या­व­ग­ते­स्त­द­ति­रिक्ता शतादिसंख्या तथेति भावः । तद्धेतुत्वेन साहि­त्य­क­ल्प­ना­या­मि­त्य­नु­क्तो­पा­लम्भ: ।
एका­र्थ­धी­हे­तु­त्व­स्यै­क­त्वो­पा­धि­ताया एवो­क्त­त्वा­दि­त्या­शङ्क्य व्याचष्टे -
साहि­त्य­मे­क­त्व­मिति ।
तथा च बहुषु क्रमिकेषु वर्णेषु तद्धे­तु­त्वेऽ­प्य­सिद्धे यदि तद्धेतुत्वाधीनं तेष्वेकत्वं संपाद्यते न तद्धेतुत्वं समर्थ्यते तदा­नी­म­न्यो­न्या­श्रय इति भावः । ननु तं च ध्वनय इति प्रत्ये­क­व्य­ञ्ज­क­त्व­प­क्षो­प­पा­द­न­म­स्थाने ध्वनीनां स्फोट­व्य­ञ्ज­क­त्वस्य प्रागनुक्ततया तत्र प्रत्ये­क­स­मु­दा­य­वि­क­ल्पा­नु­त्था­ना­दि­त्या­शङ्क्य ततः प्राक् टीकायां विवक्षितौ शङ्कापरिहारौ दर्शयति -
नन्व­ज्ञा­ते­ष्विति ।
ननु वर्ण­व्य­ङ्ग्य­त्वो­प­प­त्ते­रिति कथं स्फोटस्य ध्वनि­व्य­ङ्ग्यत्वं हि टीकायामुक्तम् । सत्यम् । नित्य­व­र्ण­वा­दि­मते वर्णा­भि­व्य­ञ्ज­क­त्वा­भि­मता उदा­त्ता­नु­दा­त्त­ह्र­स्व­दी­र्घ­सा­नु­ना­सि­क­नि­र­नु­ना­सि­क­त्वा­दि­ध­र्मा­श्रया ये ध्वनयस्तएव स्फोटवादिमते स्फोटा­भि­व्य­ञ्जकाः कत्वा­द्या­श्र­या­वर्णा ध्वनिस्फोटमध्ये नित्या­ना­म­नि­त्यानां वा वर्णा­ना­म­ङ्गी­कारे गौरवात् । वर्ण­वा­दि­म­तेऽ­ख­ण्डे­ष्वे­का­रा­दिषु वास्त­वा­का­रा­द्य­व­य­वा­भा­वेन तद­भि­व्य­ञ्ज­क­क्र­मि­क­ध्व­नि­वि­शे­षा­णा­मे­वा­का­रे­का­रा­दि­रू­प­ताया वक्तव्यत्वाच्च । सोऽयं गकारः सोऽयमुदात्तः सोऽयं ह्रस्व इत्या­दि­प्र­त्य­भि­ज्ञा­ना­ङ्ग­त्वा­द्व्य­धि­क­र­ण­ध्व­न्य­भि­व्य­क्तेषु दर्प­ण­मु­ख­व­द­भि­व्य­ञ्ज­क­ध­र्म­रू­पि­त­तया प्रतीयमानेषु वर्णस्फोटेष्विव तदेवेदं घटपदं तदेवेदं घटमानयेति वाक्य­मि­त्या­दि­प्र­त्य­भि­ज्ञानां पद­वा­क्य­स्फो­टे­ष्वेव विश्रान्तेरिति स्फोटवादिमतम् । अतो न विरोधः ।
ज्वाला­दि­प्र­त्य­भि­ज्ञा­न­बा­धो­प­ल­म्भा­द्भा­ष्या­नु­प­प­त्ति­मा­शङ्क्य व्याचष्टे -
प्रत्य­भि­ज्ञा­न­स्येति ।
योऽनुभव इति ।
गकारेषु परस्परभेदानुभव इत्यर्थः ।
उरस्ताडनोक्त्या गका­रा­दि­भे­दो­प­ल­म्भस्य शङ्का­बी­ज­स्या­ला­भ­मा­शङ्क्य अतितारत्वं तेन लक्ष्यमित्याह -
सोर इति ।
न पूर्व­हे­त्व­र्थ­मिति ।
न पूर्वप्रस्तुते हेतु­स­म­र्प­क­मि­त्यर्थः ।
तद्धेतुत्वे चेति ।
पूर्व­प्र­स्तु­ता­र्थ­हे­तुत्वे केन­चि­दु­भ­य­सि­द्धेन हेतुना भेद एव निषेध्यो न त्वेकत्वं सिद्धं कृत्वा तेन हेतु­नाऽ­ने­क­रू­पत्वं निषेध्यं वर्णानां ध्वनि­रू­पा­णा­मे­क­त्वस्य प्रति­वा­द्य­न­ङ्गी­कृ­त­त्वा­दि­त्यर्थः ।
प्रकृ­ता­सं­ग­ते­रिति ।
यद्यपि भेदाभेदयोरेकत्र वास्त­व­त्वे­नो­भ­य­प्रा­मा­ण्यो­प­पत्तौ किमिति भेद­ज्ञा­न­प्र­त्य­भि­ज्ञा­न­यो­र्बा­ध्य­बा­ध­क­त्व­क­ल्प­न­मि­त्या­श­ङ्का­नि­रा­क­र­णा­र्थ­त्वेन प्रकृते कथ­ञ्चि­त्स­ङ्ग­म­यितुं शक्यं तथापि भेदाभेदपक्षस्य स्फोट­वा­द्य­न­ङ्गी­कृ­त­त्वात् प्रकृ­ता­सं­ग­ति­रुक्ता ।
उक्तमपि बाधकमिति ।
ननु वर्णा अपी­त्या­दि­भा­ष्ये­णो­क्त­म­प्य­भे­द­बा­ध­क­मि­त्यर्थः ।
अनेनावृत्त्येति ।
शङ्काग्रन्थत्वे एक एव सन्नित्यस्य एकश्चेदित्यर्थः । परि­हा­र­ग्र­न्थत्वे प्रत्य­भि­ज्ञा­व­धृ­तै­क­भाव इत्यर्थ इति अर्थभेदो विवक्षितः ।
अशब्दात्मक इति ।
ननु अशब्दात्मकः श्रावणो ध्वनि: पदार्थान्तरमिति भाष्या­नु­क्ता­नु­वादः । गग­ना­दि­प­ञ्च­भू­त­गुणः शब्दो ध्वनिरिति सिद्धा­न्त­वि­रु­द्धश्च वर्ण­वि­शे­षा­प्र­तीतौ प्रती­ते­र­व­र्णा­त्मक इत्यनुवादस्तु वर्ण­वि­वे­क­म­प्र­ति­प­द्य­मा­नस्य कर्णपथमवतरतीति भाष्यानुवादो भवति किन्त्व­यु­क्ता­नु­वाद: दूरे जन­सं­घ­को­ला­ह­ल­प्र­त्य­यस्य दूर­त्व­दो­षा­गृ­ही­त­क­त्वा­दि­क­व­र्ण­वि­ष­य­त्वो­प­पत्तेः तत्र वर्णातिरिक्तस्य ध्वनेः कल्पनेऽपि समीपे तदग्रहणस्य सामी­प्य­दो­ष­प्र­यु­क्त­ताया वक्तव्यत्वात् । एवं च तस्य वर्ण­त्व­जा­ति­वि­ष­य­त्व­क­ल्प­ना­नि­रा­क­र­ण­म­प्य­स्था­न­वि­जृ­म्भितं शब्द­त्वा­दि­सा­मा­न्या­लि­ङ्गि­त­व­र्ण­व्य­क्ति­वि­ष­य­त्वो­प­पत्तेः । न च तथा­भू­त­व­र्ण­वि­ष­य­त्वा­श­ङ्कापि ध्वने­र्भि­न्न­त्वाद् न प्रत्य­भि­ज्ञा­न­म­स्तीति प्रत्य­भि­ज्ञा­भा­वो­क्त्यैव निराकृतेति वाच्यम् । वर्णेषु सोऽयं गकार इत्यादिवत्त्वया ध्वनि­त्वे­ना­भ्यु­प­गते कोलाहलेऽपि स एव कोलाहल: पुनरुत्थित इति प्रत्य­भि­ज्ञा­न­स­त्त्वा­वि­शे­षात् । ध्वनौ प्रत्यभिज्ञानं तज्जा­ती­य­वि­ष­य­मिति तत्र वर्ण इव व्यक्त्यै­क्य­प्र­त्य­भि­ज्ञा­ना­भाव उक्त इति चेद् न । तुल्यरूपयोः प्रत्य­भि­ज्ञा­न­यो­रेकं तज्जातीयविषयम् अन्यद् व्यक्त्यै­क्य­वि­ष­य­मिति कल्पनायां विनिगमनाविरहात् प्रत्य­भि­ज्ञा­ना­व­ग­त­व्य­क्त्यै­क्येन जात्य­सं­प्र­ति­प­त्ते­र्वर्णे इव ध्वनावपि वक्तुं शक्यत्वात् । तस्मा­त्स­र्व­मि­द­म­नु­प­प­न्न­मिति चेत् । उच्यते । अशब्दात्मक इति वर्ण­व्य­ति­रि­क्त­त्व­मुक्तं पदार्थान्तरमिति प्राक्प्र­स्तु­त­वा­यु­व्य­ति­रि­क्तत्वं न प्रत्य­भि­ज्ञा­न­म­स्ती­त्ये­तद् व्यक्त्यै­क्य­प्र­त्य­भि­ज्ञा­ना­भा­व­प­रम् । यद्यपि ध्वनौ वर्णे च प्रत्य­भि­ज्ञा­नस्य व्यक्त्यै­क्य­वि­ष­य­त्व­मौ­त्स­र्गिकं तथापि भेर्य्या­दि­ध्व­न्यु­त्थितौ वर्णो­त्प­त्त्य­भा­वात् क्वचि­द्वै­दि­क­वा­क्या­द्य­नु­का­रि­वी­णा­वे­ण्वा­दि­ध्व­न्यु­त्पत्तौ कोला­ह­ल­व­च­न­व­द­स्फु­ट­व­र्णा­का­र­प्र­ती­ति­स­त्त्वेऽपि वर्णो­त्प­त्ति­का­र­ण­स्था­न­क­र­णा­भा­वेन तेषां वर्ण­च्छा­या­नु­का­रि­ध्व­नि­मा­त्र­तया वर्णत्वाभावात् तद­सा­र्व­त्रि­क­त्वाच्च भेर्य्या­दि­ध्व­निषु श्रूय­मा­ण­ता­र­त्व­म­न्द­त्वा­दि­भे­द­क­ध­र्माणां वर्णाश्रयत्वस्य कल्प­यि­तु­म­श्य­क्य­त्वा­द­न­न्य­था­सि­द्ध­भे­द­प्र­त्य­या­नु­रो­धेन ध्वनौ प्रत्यभिज्ञानं तज्जातीयविषयं पर्य्यवस्यति वर्णोच्चारणे तु हसि­त­रु­दि­त­प­शु­प­क्षि­रु­ता­नु­क­र­ण­श­ङ्खा­ध्मा­ना­दि­स्थले ध्वनिकारणत्वेन क्लृप्तस्य कण्ठा­दि­वा­य्व­भि­घा­त­वि­शे­षस्य सत्त्वात् । तार­त्व­प्रा­च्य­त्व­प्र­ती­च्य­त्वा­दि­श्रू­य­मा­ण­ध­र्माणां ध्वनिधर्मत्वस्य क्लृप्तत्वात् कोला­ह­ल­प्र­त्य­यस्य हसि­त­रु­दि­ता­दि­को­ला­ह­ल­स्थले ध्वनिविषयत्वस्य क्लृप्तत्वेन जन­सं­घा­ला­प­को­ला­ह­ल­प्र­त्य­य­स्यापि ध्वनि­वि­ष­य­त्व­क­ल्प­नौ­चि­त्याच्च वर्णा­भि­व्य­क्ति­का­र­णै­र्ध्व­न्यु­त्प­त्ते­रपि कल्प­नो­प­प­त्ते­र्व­र्णेषु तत्प्र­ती­ति­स्त­दु­पा­धि­केति बाधकाभावात् तत्र प्रत्य­भि­ज्ञा­न­म­प्यौ­त्स­र्गि­क­व्य­क्त्यै­क्य­वि­ष­य­भा­व­म­व­ति­ष्ठते । एवं च भिन्न­त्व­हे­तु­सा­धि­तेन प्रत्य­भि­ज्ञा­ना­भा­वेन शब्द­त्वा­दि­सा­मा­न्या­लि­ङ्गि­त­व­र्णा­वि­ष­य­त्व­मिह साध्यते न तु शब्द­त्वा­दि­सा­मा­न्या­वि­ष­य­त्व­मेव । श्राव­ण­त्वा­द्वा­यु­व्य­ति­रिक्तो ध्वनि­र­व­र्णा­त्मकः गत्वा­दि­व­र्ण­वि­शे­षा­प्र­तीतौ प्रती­य­मा­न­त्वा­दिति पूर्वमुक्तो वर्ण­वि­शे­षाऽ­प्र­ती­ता­वपि कोलाहलप्रत्यय: सामा­न्य­ध­र्मा­लि­ङ्गि­त­व­र्ण­वि­ष­योऽ­स्त्विति शङ्काया एवा­व­स­र­प्रा­प्ताया निरा­क­र्तु­मु­चि­त­त्वात् ।
नानेवेत्यवयवीति ।
स्फोटे वर्ण­भे­द­भा­न­म­व­य­वि­त्व­भे­द­भा­नम् । एका­रा­द्ये­कै­क­व­र्णा­व­य­वे­का­रा­का­रा­दि­भा­न­म­व­य­व­भा­नम् ।
विस­दृ­श­प­द­व्य­ञ्जका इति ।
पदानि स्फोटा: ।
एकविधेति ।
यद्यपि नाना­पा­पा­ला­ला­हा­हा­दि­श­ब्दे­ष्वे­क­वि­ध­प्र­य­त्न­ज­न्या­ने­का­क्ष­र­रू­प­ध्व­नीनां तत्तत्स्फोटे अने­का­क्ष­र­रू­प­त्वा­व­गा­हि­भे­द­भ्र­म­हे­तुता दृष्टा तथापि प्राया­भि­प्रा­ये­णै­त­दु­क्तम् । ननु पद­त­त्त्व­मे­क­मि­त्या­दि­टी­का­ग्रन्थं पद­बु­द्धा­वि­त्या­दिना गका­रा­दि­सा­दृ­श्य­मि­त्यर्थ इत्यन्तेन ग्रन्थेन गङ्गौ­ष्ण्या­दि­व­र्ण­स­मु­दा­या­न्त­र्ग­त­ग­का­रौ­का­रा­दि­स­दृ­श­ग­का­रौ­का­दि­व्यङ्ग्ये गोपदस्फोटे पर­स्प­र­भि­न्न­ग­ङ्गौ­ष्ण्या­दि­प­द­स्फो­ट­सा­दृ­श्येन भेदभ्रमोपपादकं व्याख्याय तथा भिन्नत्वेन भ्रमकल्पितेषु व्यङ्ग्यभागेषु व्यञ्ज­क­व­र्णा­त्म­क­ता­रो­पो­प­पा­द­क­त­यैवं चेत्या­दि­टी­का­ग्रन्थः किमर्थं व्याख्यातः । न हि स्फोटे संनि­हि­त­व­र्ण­स­मु­दा­य­रू­प­त्व­भ्र­म­स्त­द्व­र्णा­रो­पा­धि­ष्ठा­न­तया भाग­भे­द­भ्र­म­म­पे­क्षते तद­भा­वेऽ­प्ये­क­स्मिन् दर्पणे व्याप्ता­ने­क­मु­खा­दि­प्र­ति­बि­म्ब­युक्ते ताव­न्मु­खा­दि­स­मु­दा­य­रू­प­ता­भ्र­म­व्य­ञ्ज­का­ने­क­स­मु­दा­य­रू­प­ता­भ्र­म­स्यो­प­पत्तेः । विवि­ध­म­णि­कृ­त­हा­र­प्र­ति­बि­म्ब­व्याप्ते तनु­दी­र्घ­का­च­फ­ल­कादौ क्रमि­क­स­जा­ती­य­वि­जा­ती­या­ने­क­म­णि­रू­प­ता­भ्र­म­व­त्क्र­मि­का­ने­क­स­जा­ती­य­वि­जा­ती­या­ने­क­व­र्ण­रू­प­ता­भ्र­म­स्यो­प­प­त्तेश्च । पद­त­त्त्व­मे­क­मि­त्या­दि­टी­का­ग्र­न्थ­स्त्वित्थं व्याख्यातुं शक्यः । यावन्तो गवा­दि­प­र्या­यास्तैः सर्वैरप्येक एव स्फोटोऽ­भि­व्य­ज्यते । एका­र्थ­प्र­त्य­य­हे­तो­स्तस्य प्रतिपर्यायं भेदकल्पने गौरवात् प्रमा­णा­भा­वा­च्चेति स्फोटवादिमतम् । एवं सत्येव लोक­वे­द­श्रु­ता­ने­क­प­र्या­याणां घटादीनां देवादीनां च केन वाच­के­नो­त्प­त्ति­मा­श्रित्य शब्दप्रभवत्वं सम­र्थ­नी­य­मि­त्य­त्रा­वि­नि­ग­मा­व्य­व­स्थ­यो­रपि परिहारो भवति । एवं च गवादिपर्याया एकमेव स्फोट­म­भि­व्य­ञ्ज­य­न्तोऽ­न्यो­न्य­वि­स­दृ­श­घ­ट­कु­ड्या­दि­प­द­स्फो­ट­व्य­ञ्ज­क­घ­ट­कु­ड्या­दि­व­र्ण­स­मु­दा­य­सा­दृ­श्येन पर­स्प­र­वै­ल­क्ष­ण्येन स्वव्यङ्ग्यस्य स्फोटस्य मिथो विस­दृ­श­घ­ट­कु­ड्या­दि­प­द­स्फो­ट­सा­दृ­श्य­मा­पा­द­य­न्त­स्तेन सादृश्येन हेतुनैकमपि स्फोटं नाने­वा­व­भा­स­य­न्तीति । अस्मिन् व्याख्याने प्रत्ये­क­म­भि­व्य­ञ्ज­यन्त इत्ये­त­द्गो­शृ­ङ्गि­ण्या­दि­व­र्ण­स­मु­दा­य­रू­प­ध्व­नयः प्रत्येकं स्फोट­म­भि­व्य­ञ्ज­य­न्ती­त्ये­त­त्प­रम् । तुल्य­स्था­न­क­र­ण­नि­ष्पा­द्य­त­ये­त्यादि च तुल्य­स्था­न­क­र­ण­नि­ष्पा­द्य­तया येऽन्यो­न्य­स­दृ­शा­स्तेभ्यो विल­क्ष­णा­स्त­त्प­द­व्य­ञ्जका घट­कु­ड्या­दि­ध्व­नयः तत्सा­दृ­श्ये­ने­त्ये­त­त्प­रम् । अभागमपि भागवदिति दृष्टान्तार्थम् । यथा संध्य­क्ष­र­मे­का­रा­दि­क्र­म­ख­ण्ड­म­का­रा­दि­भा­ग­व­दिव भाति एवमेकमपि स्फोटं पर्यायभेदा नाने­वा­व­भा­स­य­न्तीति । एवं व्याख्या­न­सं­भ­वेऽ­प्ये­कत्र स्फोटे गका­रा­दि­व­र्ण­स­मु­दा­य­रू­प­ता­प्र­ती­ते­रे­वो­प­पा­द­नी­य­त्वेन प्रकृतत्वात् तदनुसारेण व्याख्यातम् । अने­क­व­र्ण­रू­प­त्व­क­ल्प­नायां भाग­क­ल्प­ना­न­पे­क्ष­णेऽपि तद­पे­क्षा­म­ङ्गी­कृत्य तत्सं­भ­वोऽ­प्यु­प­पा­दितः ।
औपा­धि­क­त्व­स्वा­भा­वि­क­त्वा­भ्या­मिति ।
अन्य­त­र­स्यौ­पा­धि­क­त्वेऽ­व­श्य­क­ल्प­नीये एक­त्व­स्यै­वौ­पा­धि­कत्वं कल्प्यम् । अन्यथा स्फोट­रू­प­ध­र्म्य­न्त­र­क­ल्प­ना­गौ­र­व­प्र­स­ङ्गा­दिति भावः । ननु विपरीतं गौरवं स्फोटपक्षे पर्यायेऽपि तद­भि­व्य­ङ्ग्य­स्फो­टै­क्या­दे­क­त्रैव स्फोटे घटादिशक्तेः कल्प्यत्वाद् वर्णपक्षे प्रतिपर्यायं शक्ति­भे­द­क­ल्प­ना­प­त्ते­रिति चेद् मैवम् । धर्म्य­न्त­र­त­द्ग­त­श­क्ति­क­ल्प­ना­पे­क्षया क्लृप्तेषु वर्णेषु भेदेनापि शक्तिकल्पनस्य लघुत्वात् । अन्यथा घट­क­ल­शा­दि­प­र्या­या­भि­व्यक्ते स्फोटे गृहीतशक्तिकस्य पुंसोऽ­प्र­सि­द्ध­प­र्या­य­श्र­व­णेऽपि प्राग­गृ­ही­त­श­क्ति­क­स्यैव स्फोटस्य तेना­भि­व्य­क्त्याऽ­र्थ­प्र­ती­त्या­पत्तेः । न च तत्प­र्या­या­भि­व्यक्ते स्फोटे शक्ति­ग्र­ह­स्त­त­त्प­र्या­य­श्र­वणे अर्थधीहेतुरिति वाच्यम् । एवं प्रतिपर्यायं शक्ति­ग्र­हा­व­श्य­म्भावे तत्त­त्प­र्या­य­ग­त­श­क्ति­ग्र­होऽ­र्थ­धी­हे­तु­रिति कल्पनस्यैव लघुत्वात् । तदा हि शक्ति­ग्र­ह­त्वे­नैव कारणता न तु तत्त­त्प­र्या­या­भि­व्य­क्ति­ग­त­श­क्ति­ग्र­ह­त्वे­ने­त्य­व­च्छे­द­क­ला­घवं लभ्यते । अवच्छेदकलाघवे च तन्निर्वाहाय तत्त­त्प­र्या­य­ग­त­श­क्ति­भे­द­क­ल्प­ना­गौ­रवं फलमुखत्वान्न दोषः । न चैवं वर्ण­स­मु­दा­य­स्यै­वै­क­त्व­प्र­त्य­य­वि­ष­यत्वे संध्य­क्ष­रा­णा­म­प्य­का­रा­दि­व­र्ण­स­मु­दा­य­त्वा­प­त्ति­रि­ष्ट­त्वात् । अत एव मीमांसकैः ऋक्षु संध्यक्षराणां सतां गीतिकाले वृद्धत्वं प्राप्तानां ये आईभावा आऊभावा न ते स्तोभ­व­द्व­र्णा­न्त­रा­ग­म­रूपाः किन्तु वृद्धेषु संध्यक्षरेषु संश्लिष्टतया स्थिता­ना­म­व­र्णे­व­र्णो­व­र्णानां गानकाले विश्लेषमात्रम् अगी­त­सं­ध्य­क्ष­रा­भि­व्य­ञ्ज­क­मि­त्यु­क्तम् । आश्वलायनेनापि विविच्य संध्य­क्ष­रा­णा­म­का­र­मिति याज्यान्ते श्रुतानां संध्य­क्ष­रा­णा­म­कारं विश्लेष्य तं श्रावयेदिति विहितम् । पाणिनिनापि प्लुतावैच् इदुताविति सूत्रेण ऐतिकायन औप­ग­वे­त्या­द्यु­दा­ह­र­णेषु गुरो­र­नृ­तोऽ­न­न्त्य­स्ये­त्या­दि­सू­त्रै­रेचः प्लुतप्रसङ्गे तस्या­न्त्या­व­य­वा­वि­का­रो­कारौ प्लवेते न तु तदा­द्या­व­य­वोऽ­का­रोऽ­पीति नियमितम् । श्रुतावपि तानेकधा समभरतदेतदोमिति प्रणवस्य मात्रा­त्र­य­रू­प­त्व­मु­क्तम् । एवं संध्यक्षराणां वर्ण­स­मु­दा­य­रू­प­त्वेऽपि तेषां मातृकासु पृथक् परिगणनं क्षका­र­पृ­थ­क्प­रि­ग­ण­न­व­त्प्र­त्या­हा­र­सू­त्रेषु हकारस्य द्विरु­पा­दा­न­व­त्का­र्य­वि­शे­षा­र्थ­त­यो­प­प­द्यते । एतेन शतादिसंख्या एक­त्वा­दि­स­मु­दा­या­ति­रिक्ता एवं सति न सिद्ध्येदित्यपि शङ्का निरस्ता इष्टापत्तेरेव । अत एव भाष्यं संभ­व­त्य­ने­क­स्यापि एक­बु­द्धि­वि­ष­यत्वं पङ्क्तिर्वनं सेना शतं सह­स्र­मि­त्या­दि­द­र्श­ना­दिति । यदि त्वेक­त्व­स­मु­दा­या­ति­रि­क्त­श­ता­दि­सं­ख्या­न­ङ्गी­कारे कियतामेकत्वानां समुदायः शतसंख्या कियतां च सह­स्र­सं­ख्ये­त्या­द्य­न­व­धा­र­णा­द­व्य­वस्था स्यात् । शतस्यैकत्वानां समुदायः शत­सं­ख्ये­त्या­दि­व्य­व­स्था­क­ल्पने संख्यागततया शता­दि­सं­ख्या­क­ल्पनं वक्तव्यम् । अत एक­त्वा­दि­स­मु­दा­या­ति­रि­क्त­श­ता­दि­सं­ख्या­ङ्गी­क­र­ण­म­नि­वा­र्य्यम् । शतं सहस्रमिति भाष्यं तु घटा­दि­रू­प­सं­ख्ये­या­भि­प्रा­य­मिति समर्थ्येत तर्ह्यु­प­न्य­स्त­क­ल्प­क­प्र­मा­ण­व­शा­द­ति­रि­क्त­श­ता­दि­सं­ख्या­क­ल्प­नेऽपि वर्ण­स­मु­दा­या­ति­रि­क्त­स्फोटो न कल्पनीयः कल्प­क­प्र­मा­णा­भा­वा­दिति द्रष्टव्यम् ।
नन्वे­क­स्मृ­ति­वि­ष­य­त्व­मे­क­त्वो­पा­धि­श्चेत् तथाभूतेषु भिन्नदेशस्थेषु वृक्षा­दि­ष्व­ति­प्र­सङ्ग इत्याशङ्क्याह -
उपचारे हीति ।
न ह्येक­दे­शा­व­स्थि­तेषु वृक्षेषु वन­मि­त्ये­क­त्वो­प­चा­र­नि­मि­त्ता­सं­भ­व­मा­त्रेण घटादिष्वपि तस्या­स्त­न्नि­मि­त्तता प्रसज्यत इति भावः ।
एतेन समुदितानामिति ।
व्यस्त­स­म­स्त­प्र­का­र­द्व­या­सं­भवे स्फोटवादिनोक्ते समस्तपक्ष आश्रितः । एक­स्मृ­ति­वि­ष­य­त्वेन समु­दि­त­त्वो­क्ते­रि­त्यर्थः ।
एका­र्थ­धी­हे­तु­ता­मिति ।
एका­र्थ­धी­हे­तु­त्व­रू­प­वा­च­क­त्वा­व­ग­त्यैव स्फोट­वा­दि­नाऽ­प्ये­क­प­दा­ध्य­व­सानं वक्तव्यम् । अन्यथा काव्य­श्लो­का­दि­श्र­वणे तदन्तर्गतपदानां तत्त­द­र्थे­ष्व­गृ­ही­त­श­क्ति­क­स्यापि पुंस इदमेकं पदमिदमेकं पद­मि­त्या­दि­क्र­मे­णै­ता­व­न्त्यत्र श्लोके पदा­नी­त्य­व­धा­र­णा­पत्तेः । प्रजा­प­ते­र्हृ­द­या­दि­श­ब्दानां सामविशेषादिषु रूढि­म­जा­न­तोऽ­प्ये­त­देकं पद­मि­त्य­व­धा­र­णा­प­त्तेश्च । अतः स्फोटवादिनाऽपि गका­रा­दि­व­र्ण­स­मु­दाये एकस्मृत्यारूढे तत्त­द­र्थ­वा­च­क­त्वे­ना­नु­सं­गृ­हीते सति तेन स्फोटरूपस्य पद­स्या­भि­व्य­क्ति­र­ङ्गी­क­र­णीया एक स्फोट­व्य­ञ्ज­क­त­याऽ­नु­सं­हि­तेन वा तद­भि­व्य­क्ति­र­ङ्गी­क­र­णी­येति तेना­प्यु­क्त­रीत्या अन्यो­न्या­श्र­य­प­रि­हार उपपादनीय एव ।
समा­ना­धि­क­र­ण­श्रु­ति­ग­म्य­मिति ।
उद्भिदा यागेन पशून् भावयेदिति कर­ण­भू­त­या­ग­सा­मा­ना­धि­क­र­ण्यम् । यदि सामानाधिकरण्यं समभिव्याहाररूपं वाक्यमिष्यते तदा सर्वाणि छन्दां­स्य­नु­ब्रू­या­द्ब­हु­या­जिन इत्यादिषु बहु­या­जि­श­ब्दा­र्था­दि­नि­र्ण­यो­पा­य­भूता यो ब्राह्मणो बहुयाजी तस्य कुम्भ्या नाम गृह्णीयात् स हि गृहीतवसतीवरीक इत्या­दि­श्रु­ति­रु­दा­ह­र्त्तव्या । अत्र हि बहुयाजी सोमयाजी न तु बहु­भि­र्या­गै­रि­ष्ट­वा­निति निर्णयोपायभूता तस्य गृही­त­व­स­ती­व­री­क­त्व­प्र­ति­पा­दनी श्रुतिरिति निरूपितं संकर्षे । युग­प­त्क्र­मि­क­स­र्व­व­र्ण­वि­षया स्मृतिर्न पृथक् पदा­व­धा­र­यो­पा­य­त्वेन परिगणिता किं तु सर्वो­पा­या­नु­ग्रा­ह­क­त्वेन साधारण्युक्ता । असाधारण्यपि राज­श­ब्दा­र्था­दि­नि­र्ण­यो­पा­य­भूता पाणि­न्या­दि­स्मृ­ति­र्द्र­ष्टव्या । न च नित्यविभुषु वर्णेषु स्वत: क्रमा­भा­वा­दु­च्चा­र­ण­क्रमो वाच्यः स च नास्ति मौनिश्लोके अनु­सं­धा­न­क्र­मोऽपि मौनि­लि­ख­त­लि­प्य­क्ष­रै­र्यु­ग­प­द्व­र्णा­नु­मि­ति­स्थले नास्तीति वाच्यम् । तत्रापि क्रमिक लिपि­भि­र्ले­ख­का­नु­सं­धा­न­क्र­म­वि­शे­षि­त­व­र्णा­नु­मि­त्यु­प­पत्तेः । अवश्यञ्चैवं क्रमि­क­व­र्णा­नु­सं­धानं स्फोट­वा­दि­नाऽ­प्यु­प­पा­द­नी­यम् । शब्दा­ना­म­र्थ­वि­शे­ष­वा­च­क­त्व­स्ये­क­स्फो­ट­व्य­ञ्ज­क­त्वस्य वाऽनुसंधानाभावे स्फोटा­भि­व्य­ञ्ज­क­त्वा­सं­भ­व­स्यो­क्त­त्वात् तदनुसंधानस्य च वर्ण­क्र­म­वि­शे­षा­व­ग­ति­सा­पे­क्ष­त्वात् । एतेन गकारादयः प्रत्येकं स्फोट­म­भि­व्य­ञ्ज­य­न्तीति मतान्तरं निरस्तम् । क्रमि­क­ता­व­द्व­र्णा­नु­सं­धा­नेऽपि तदी­य­म­र्थ­वि­शे­ष­वा­च­क­त्व­मे­क­स्फो­ट­व्य­ञ्ज­कत्वं वा अजानता स्फोट­व्य­क्ते­रे­कै­क­व­र्ण­सा­ध्य­त्वस्य शङ्कि­तु­म­प्य­श­क्य­त्वात् । रत्न­त­त्त्व­दृ­ष्टा­न्तोऽ­प्य­युक्तः । प्रतिसन्निकर्षं रत्न­प्र­त्य­क्ष­व­त्प्र­ति­वर्णं स्फोट­प्र­त्य­क्ष­स्या­नु­भ­व­सि­द्ध­त्वा­भा­वात् । रत्न­त­त्त्व­प्र­त्य­क्षेषु स्पष्टाऽ­स्प­ष्ट­वि­शे­षस्य रत्न­जा­ति­व्य­ञ्ज­क­त­ल्ल­क्ष­ण­रू­प­सू­क्ष्म­वि­शे­ष­वि­ष­य­त्वाऽ­वि­ष­य­त्व­रू­प­स्यै­वा­नु­भ­व­सि­द्ध­त्वेन तद्वदत्र स्फोटे पूर्व­पू­र्वा­भि­व्य­क्त्य­वि­ष­या­णा­मु­त्त­रो­त्त­रा­भि­व्य­क्ति­वि­ष­याणां च विशे­षा­णा­म­भा­वाच्च । तस्मात् क्रम­वि­शे­ष­वि­शि­ष्ट­व­र्ण­स­मु­दा­या­नु­सं­धा­नस्य स्फोट­वा­दि­नाऽ­प्यु­प­पा­द­नी­य­त्वात् तदुपपादने च तत एव पदे­क्या­नु­भ­व­स्या­र्थ­प्र­ती­ते­श्वो­प­प­त्ते­र्व्यर्था स्फोटकल्पना । तदेतत्सर्वं वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोऽयं व्यनक्तीति गरीयसी कल्पना स्यादिति भाष्येण दर्शितं स्पष्टमेवेति टीका­क­ल्प­त­रु­ग्र­न्थ­योर्न विवृतम् । ननु प्रत्यभिज्ञया वर्णानां नित्य­वि­भु­त्वा­भ्यु­प­गमे ध्वनीनामपि तथा तदु­भ­य­म­भ्यु­प­ग­न्तव्यं स्यात् । तार­त्वा­द­य­स्त­दु­भ­य­व्य­ञ्ज­क­वा­यु­धर्मा इत्यपि कल्पयितुं शक्यत्वात् । किं च वर्ण­नि­त्य­वि­भ­व­स्त­द­भि­व्य­ञ्ज­क­ध्व­न­य­स्ता­र­त्वा­द्या­श्रया इति कल्पने ध्वनय एव कत्व­ग­त्वा­दी­ना­म­प्या­श्रया इत्यपि कल्प­ना­सं­भ­वा­द्वर्णा एवात्मानं न लभेरन् तैर्ध्वनिभिः पर्या­य­भे­दे­ना­भि­न्न­स्ये­क­स्यैव स्फोट­स्या­भि­व्यक्त्या ततोऽ­र्थ­प्र­ती­त्यु­प­प­त्ते­रि­त्या­श­ङ्क­मा­नानां तुष्ट्यर्थं भाष्य­टी­क­यो­र्व­र्णा­नि­त्य­त्व­प­क्षोऽपि समाश्रितः स स्फुटत्वान्न व्याख्यातः ।
अवा­न्त­र­प्र­ल­य­स्थ­त्व­मिति ।
यत्कि­ञ्चि­त्प्र­ल­य­स्थ­त्व­सा­धने सौषु­प्ति­क­प्र­ल­य­स्थ­त्वे­ना­र्था­न्तरं याव­त्प्र­ल­य­स्थ­त्व­सा­धने महा­प्र­ल­य­स्थ­त्वा­भा­वेन बाध इत्य­तोऽ­वा­न्त­रेति विशेषितम् ।
दृढीकृतमिति ।
मन्त्रा­र्थ­वा­दानां प्रतीयमानेऽर्थे प्रामा­ण्य­म­ङ्गी­कृत्य हीन्द्रादीनां विग्रहः समर्थ्यते । तथा सति मन्त्रकृतो वृणीते संहि­ता­का­र­प­द­का­र­सू­त्र­का­र­ब्रा­ह्म­ण­का­राणां विश्वामित्रस्य सूक्तं भव­ती­त्या­दि­प्रा­मा­ण्या­द्वे­दस्य पौरु­षे­य­त्व­म­ङ्गी­का­र्य्य­मि­त्या­श­ङ्का­नि­रा­क­र­णेन दृढी­कृ­त­मि­त्यर्थः । तन्निराकरणमपि देव­र्षि­प्र­भृ­तीनां वेद­श­ब्द­प्र­भ­व­त्व­हे­तो­रत एवेति परामर्शादेव चतुर्मुखो हि वैदि­का­च्छ­ब्दा­त्ते­षा­म­सा­धा­र­ण­ना­म­रू­प­कृ­त्य­वि­शे­षा­न­नु­सं­धाय तथैव सृजति ततश्च विश्वा­मि­त्रा­दी­ना­मपि वेदशब्देभ्यः पूर्व­क­ल्प­स्थि­त­वि­श्वा­मि­त्रा­दि­ना­म­रू­प­कृ­त्य­वि­शे­षा­न­नु­सं­धाय तथैव स्रष्टृत्वलाभे सत्य­ती­त­व­र्त­मा­न­क­ल्प­गताः सर्वेऽपि विश्वामित्रादयो विश्वा­मि­त्रा­दि­प­द­प्रा­प­क­पू­र्व­क­ल्पा­नु­ष्ठि­त­पु­ण्य­व­शा­द्वि­श्वा­मि­त­सू­त्रा­दी­न­न­धी­त्यैव पश्यन्तीति तत्त­त्सू­क्ता­दि­द्र­ष्टृ­त्व­मेव तत्तत्कर्तृत्वं न तु सूक्ता­न्त­रा­दि­क­र्तृ­त्व­मिति पर्यवस्यति । विश्वामित्रस्य सूक्त­मि­त्या­दि­वा­क्यै­र्वि­शिष्य विश्वा­मि­त्रा­दि­सू­क्त­त्वेन यद्य­न्नि­र्दिष्टं तत्तदेव सूक्त तैस्तै­र्वा­क्यै­र्वि­श्वा­मि­त्रा­दि­सू­क्त­त्वे­ना­नु­सं­धाय तत्त­त्सू­क्त­क­र्तृ­त्वेन कल्पान्तरे विश्वामित्रादयः स्वयंभुवा सृज्यन्त इति वक्तव्यत्वात् । अन्यथा वेद­श­ब्दे­भ्य­स्त­त्त­त्कृ­त्य­वि­शे­षा­न­नु­सं­धाय तेषामृषीणां स्रष्टृ­त्वा­नु­प­प­त्ते­रिति ।
महाप्रलये इति ।
नन्वि­न्द्रा­दीनां विग्र­ह­व­त्त्व­प्र­युक्ता शङ्काऽत्र निराकार्या । न चेयं शङ्का तत्प्रयुक्ता तेषां विग्र­हा­न­ङ्गी­क­रेऽपि यः कश्चि­दि­न्द्रा­दि­प्रा­ति­प­दि­कार्थः कल्प्यते यश्च गवा­दि­श­ब्दा­र्थ­स्तस्य सर्वास्यापि महाप्रलये विनाशेन निरा­श्र­य­जा­त्य­व­स्था­ना­यो­ग­श­ङ्का­या­स्तु­ल्य­त्वात् । उच्यते । पूर्व­सू­त्र­दृ­ढी­कृ­तस्य वेदनित्यत्वस्य प्रकृ­ति­मा­त्रा­व­शेषे महाप्रलये वेद­वि­च्छे­दा­व­श्य­म्भा­वेन शैथिल्यशङ्कायां तन्नि­रा­क­र­णा­र्थ­मिदं सूत्रम् । तेन तदा जात्य­भा­व­प्र­यु­क्त­श­ब्द­वि­रो­ध­श­ङ्का­नि­रा­क­र­ण­म­प्या­नु­ष­ङ्गि­क­तया लभ्यते महा­प्र­ल­या­वृ­त्ता­व­पी­न्द्रा­दीनां समा­न­रू­प­ना­म­त्वात् तथात्वे च पूर्वकल्पे यैर्वे­द­वा­क्यै­रि­न्द्रा­दि­रूपं ज्ञात्वा तद्भावप्रेप्सया कैश्चि­त्क­र्मा­ण्य­नु­ष्ठि­तानि तैरेव तत्क­ल्पि­ते­न्द्रा­दि­ना­म­रू­पाणि स्मृत्वा पुनः सृष्टौ तत्स­मा­न­ना­म­रु­पे­न्द्रा­दि­भा­वेन तेषां सृष्ट­र्वा­च्य­त्वाद् वेद­नि­त्य­त्व­सिद्धिः । तत्सृष्ट्यर्थं पूर्व­क­ल्प­वे­दा­नु­सं­धा­ना­व­श्य­म्भा­वेन पुनः शब्दा­र्था­नु­पू­र्वो­भि­न्न­वे­दा­न्त­र­सृ­ष्टि­क­ल्प­का­भा­वा­दिति समाननामरूपत्वेन वेदनित्यत्वे साध्यमाने तत एव पूर्वो­त्त­रे­न्द्रा­द्य­नु­ग­त­जा­ते­रपि सिद्धिरिति देव­ता­वि­ग्र­हा­भा­व­प­क्ष­सा­धा­र­ण्येऽपि सा शङ्का कण्ठत उपन्यस्ता । भाष्य­टी­क­यो­र्जा­त्य­भा­व­श­ङ्का­स­मा­धा­न­म­स्फु­ट­मपि सूक्ष्मा­व­स्था­स­त्त्वोक्त्या सूचितमिति प्रदर्शनार्थं मुख्यतया तत्र निराकरणीया तु शङ्का पूर्व­सू­त्र­लि­खि­ताऽ­नु­मा­न­सा­ध्यस्य विशि­ष्या­वा­न्त­र­प्र­ल­य­स्थ­त्व­रू­प­तया विव­र­णे­नै­वो­न्मि­षन्ती स्पष्टेति नोपन्यस्ता । शङ्का­द­यो­प­न्या­सस्तु टीकायां स्पष्ट एव । नन्वा­धु­नि­क­कृ­त­का­व्या­द्य­व्या­प­क­प­र­म्प­रा­वि­च्छे­देऽपि तद­न्त­र्ग­त­व­र्णानां नित्यत्वं दृष्टं तथा वेदस्यापि स्यादि­त्या­शङ्क्य व्याचष्टे -
वाक्यरूपस्येति ।
प्रमा­णा­ना­श्र­य­त्वा­दिति ।
प्रमा­णा­पे­क्ष­ज्ञा­ना­ना­म­वि­द्या­व­ता­मेव प्रमाणाश्रयत्वं निरविद्यस्य तु सर्व­प्र­प­ञ्चा­धि­ष्ठा­न­तया प्रमा­णा­धि­ष्ठा­न­त्वेऽपि न प्रमा­ण­व­त्त्व­रूपं तदाश्रयत्वम् । न हि कालस्य सर्वाधारस्य रूपाधारत्वेऽपि घटादिवद् रूपवत्त्वमिति भाव: । ननु सृष्टि­स­ह­का­रि­भू­त­वा­स­ना­न­पे­क्षत्वं ब्रह्मणो न युज्यत इति तस्यैव यथा कथ­ञ्चि­द्वा­स­ना­श्र­यत्वं प्रशा­सि­तृ­त्वा­द्या­श्र­य­त्व­व­द­ङ्गी­कार्य्यं वास­ना­मा­त्रा­व­शे­ष­तया जीवानां वा स्थिति­र­ङ्गी­कार्या ।
अन्यथा पूर्व­वा­स­ना­नु­वृ­त्त्य­भावे महा­स­र्गा­दि­का­ल­सृ­ष्टानां तत्प्रसूतानां च मनु­ष्य­प­शु­प­क्षि­स­री­सृ­पा­दीनां हिंस्राऽ­हिं­स्र­त्वा­दि­वि­शे­ष­त­त्त­ज्जा­त्य­न्त­र­वि­ष­य­वि­रो­धा­दि­प्र­ति­पत्तेः स्तन­पा­ना­दि­प्र­वृ­त्ते­श्चा­सं­भ­वा­दिति शङ्का­नि­रा­क­र­णा­र्थ­त्वेन ब्रह्मणश्चेति ग्रन्थमवतारयति -
अथानपेक्ष्येति ।
नकाररहितः पाठश्चेत् सृजे­दि­त्ये­त­त्काक्वा योजनीयम् । सृजेत्किं न सृजेदित्यर्थः । यस्मा­त्स­क­ल­का­र्य­प्र­प­ञ्च­वि­ल­य­काले अन्त:क­र­णो­प­हि­तानां जीवानां तद्वासनानां व्यव­स्था­न­मु­प­पा­द­यि­तु­म­शक्यं तस्मा­त्स्व­प्न­दृ­ष्ट­म­नु­ष्या­दि­ष्विव प्राग्वा­स­ना­र­हि­तेषु नवनवेष्वेव जीवेषु हिंस्राऽ­हिं­स्रा­दि­रूपा सर्वाऽपि व्यव­स्थो­प­पा­द­नीया महा­प्र­ल­य­वा­दि­भि­रिति शङ्काभिप्रायः ।
तासां वासनाभिरिति ।
पूर्ववासनाभावे हिंस्राऽ­हिं­स्र­त्वा­दि­व्य­व­स्था­नु­प­प­त्ते­र­वश्यं वासनाविशेषः स्वीकार्यः । स्वप्न­दृ­ष्ट­म­नु­ष्या­दीनां प्राची­न­वा­स­ना­भा­वेऽपि स्वप्न­द्र­ष्टु­र्व्य­व­स्थि­त­त्वा­त्त­ज्जा­ति­स्व­भा­वा­नु­भ­व­ज­न्य­वा­स­नया तथा तथाऽध्यास उपपद्यते । सर्वेषां जीवानां विलीनानां वास­ना­श्र­य­त्वा­भावे कस्य वासनया व्यवस्थोपपद्येत ब्रह्मणः पूर्व­वा­स­ना­त­त्प्र­यु­क्त­भ्र­म­व­त्त्वा­भा­वा­दिति भावः ।
साक्षि­सि­द्ध­स्येति ।
सदा साक्षि­ण्य­ध्य­स्त­तया भासमानेऽज्ञाने नागमस्य प्रामाण्यं तस्य अप्रा­प्ता­र्थ­वि­ष­य­त्वात् । नानुमानस्य सिद्धसाधनात् । चक्षु­रा­द्य­प्र­वृत्तिः स्पष्टा । तत्रा­ग­मा­नु­मा­ना­र्था­प­त्त्यु­प­न्या­सस्तु साक्षिसिद्धस्य तस्या­भा­व­रू­प­त्व­श­ङ्का­नि­वृ­त्तये इत्य­र्था­प­त्ति­रू­प­प्र­मा­ण­प­र्य­व­सायि भवति ।
तथापि जीवब्रह्मभेदं प्रपञ्चसत्यत्वं च मन्यमानं परं प्रत्य­न्य­त्प्र­मा­ण­मु­प­न्य­स­नी­य­मि­त्या­का­ङ्क्षा­या­माह -
प्रमाणं त्विति ।
डित्थ­ग­त­त्व­वि­शे­षि­त­प्र­मा­भा­व­त्वा­न­धि­क­र­ण­त्व­म­ना­दे­र्वि­शे­ष­ण­दृ­ष्टान्ते डित्थ­ग­त­त्व­वि­शे­ष­णा­न­धि­क­र­ण­रू­प­तया पर्य्यवस्यतीति दृष्टा­न्त­सिद्धिः पक्षे प्रमा­भा­व­त्व­रू­प­वि­शे­ष्या­न­धि­क­र­ण­त्व­रू­प­तया पर्यवस्यतीति डित्थ­प्र­मा­नि­व­र्त्या­ना­दि­भा­व­रू­पाऽ­ज्ञा­न­सिद्धिः । अन्य­ग­त­प्र­मा­भा­वस्य डित्थ­ग­त­सु­खा­द्य­भा­वस्य च डित्थ­प्र­मा­वि­रो­धि­त्वा­भा­वेन तन्निवर्तकतया पक्ष साध्य­प­र्य­व­सा­ना­स­म्भ­वात् ।
एतत् सुखादीनामिति ।
न च साध्ये प्रमाविशेषणं व्यर्थं न देयम् । अतः साध्य­मे­त­त्सु­खा­दिषु नास्तीति नोपाधेः साध्य­व्या­प­क­त्व­भङ्ग इति वाच्यम् । एवं सोपा­धि­क­त्व­नि­वा­र­णेन व्याप्ति­ग्र­हौ­प­यि­क­त­यैव प्रमाविशेषणस्य सप्रयोजनत्वात् ।
नन्वेवं डित्थ­ग­त­त्व­वि­शे­षि­त­प्र­मा­वि­रो­धि­त्वा­न­धि­क­र­णा­ना­दि­नि­व­र्त­क­त्व­म­प्यु­क्त­हे­तुना साधयितुं शक्यं तेन डित्थप्रमाया: स्वभा­व­स्व­स­मा­न­वि­ष­या­ति­रि­क्ताऽ­ना­दि­नि­व­र्त­क­त्व­मपि सिद्ध्ये­दि­त्या­भा­स­स­मा­न­यो­ग­क्षे­म­त्व­प­रि­हा­रा­र्थ­म­नु­मा­ना­नु­ग्रा­हि­का­म­र्था­प­त्ति­मु­प­न्य­स्यति -
त्वदुक्तमिति ।
यद्यपि त्वदुक्तमर्थं न जानामीति प्रत्य­क्ष­म­प्य­ज्ञा­नेऽस्ति तथापि तस्य स्वमते साक्षिरूपत्वेन प्रमा­ण­त्वा­भा­वात् साक्षि­सि­द्धा­ज्ञा­नेऽ­भा­व­त्व­श­ङ्का­व्या­वृ­त्त्यर्थं प्रमा­णो­प­न्या­सस्य प्रस्तुतत्वाद् विवदमानस्य परस्य प्रत्यक्षेण तुष्ट्यभावाच्च तथा­भू­त­व्य­व­हा­रा­न्य­था­नु­प­प­त्ति­रू­प­म­र्था­प­त्ति­प्र­मा­ण­मु­दा­हृ­तम् । सम्भा­वि­ता­भा­व­वि­ष­य­त्व­श­ङ्का­नि­रा­स­प्र­का­रस्तु प्रत्य­क्षा­र्था­प­त्त्या­रु­भ­यो­रपि समानः ।
सविषयस्येति ।
नन्व­ज्ञा­न­वि­ष­यस्य साक्षि­णाऽ­व­भा­सेऽपि को मदुक्तोऽर्थ इति पृष्ट­स्त­म­नु­व­दे­दिति दूषणं समानम् । अज्ञा­न­सु­ख­दुः­खा­दि­व­त्सा­क्षि­भा­स्य­व्य­व­हा­र­यो­ग्य­त्वात् । न च सामान्याकार एवाज्ञानविषयः साक्षिभास्यश्च न विशेषाकार इति सांप्र­त­म­व­ग­ताऽ­न­व­ग­ता­का­र­यो­र­ज्ञा­न­वि­ष­याऽ­वि­ष­य­त्वो­क्ते­र्वि­रु­द्ध­त्वात् प्रमाणावगतो हि सामान्याकारः तदनवगतश्च विशेषाकारः । अस्ति कश्चि­द्व­क्तृ­वा­क्य­स्यार्थ इति सामा­न्या­का­र­स्या­न­व­ग­मेऽपि त्वदुक्तमर्थं न जाना­मी­त्य­नु­भ­व­व्य­व­हा­रा­ङ्गी­कारे वक्तृ­वा­क्य­म­श्रु­त­वतः श्रुतवतोऽपि तद­र्थ­व­त्ता­म­जा­न­तश्च तत्प्रसङ्गाद् विशेषाकारस्य प्रमाणतोऽवगते चोप­न्य­स्ताऽ­ज्ञा­ना­नु­भ­व­व्य­व­हा­राऽ­नु­द­यात् । तस्मा­त्प्र­मा­णा­न­व­ग­त­वि­शे­षा­का­र­वि­ष­य­मे­वा­ज्ञानं तद­व­ग­त­सा­मा­न्या­का­रा­व­च्छे­दे­ना­नु­भू­यते व्यवह्रियते च । न चान्य­वि­ष­या­ज्ञा­न­स्या­न्या­व­च्छे­दे­ना­नु­भ­वेऽ­ति­प्र­सङ्गः सामा­न्य­वि­शे­ष­भा­वस्य निया­म­क­त्वा­दि­त्य­नु­भ­व­सिद्धं प्रका­र­मा­स्था­यो­प­पा­द­नीयं तज्ज्ञा­ना­भा­वाऽ­ज्ञा­न­वा­देपि तुल्यम् । शास्त्रा­र्थ­जि­ज्ञा­सेति सक­ला­नु­भ­व­सि­द्ध­जि­ज्ञा­सा­नु­भ­वोऽ­प्ये­व­मे­वो­प­पा­द­नीयः । अस्ति कश्चि­त्फ­ल­वा­न्वे­दा­न्त­शा­स्त्र­स्यार्थ इति सामा­न्य­नि­श्च­य­र­हि­त­स्या­य­मेव तदर्थ इति विशे­ष­नि­श्च­य­व­तश्च तज्जि­ज्ञा­साऽ­नु­द­ये­नाऽ­न­व­ग­त­वि­शे­षा­का­र­जि­ज्ञा­सै­वा­व­ग­त­सा­मा­न्या­का­रा­व­च्छे­दे­ना­नु­भू­यते व्यवह्रियते चेति निर्वाहमन्तरेण गत्यन्तराभावात् । अत­स्त्व­दु­क्त­मर्थं न जाना­मी­त्य­नु­भ­वस्य क्लृप्ता­भा­व­वि­ष­य­त्वो­प­प­त्तेर्न वस्त्व­न्त­र­क­ल्पनं युक्तमिति चेत् । उच्यते । अभा­व­त्व­प्र­का­र­का­धि­क­र­ण­वि­शे­ष­वृ­त्त्य­भा­व­ज्ञाने तद­धि­क­र­ण­वृ­त्य­वृ­त्ति­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ज्ञा­ना­पे­क्षा­नि­य­मोस्ति घटवति भूतले स घटो नास्तीति घटा­न्त­रा­भा­व­प्र­ती­ते­रिव घटो नास्तीति तत्प्रतीतेः कदाप्यनुदयात् । तथा­भू­त­प्र­ति­यो­गि­ज्ञानं तु ज्ञाना­भा­व­ज्ञा­ना­पे­क्षितं तदा संभावयितुं न शक्यम् । शास्त्रा­र्थ­ज्ञा­न­त्वस्य तदानीं तस्मिन्सति सामान्यज्ञाने सत्त्वात् । तस्मि­न्न­स­त­स्त­द्वि­शे­ष­ज्ञा­न­त्वस्य प्राग्वि­शे­षा­न­व­गत्या ज्ञातु­म­श­क्य­त्वात् । अतः कारणाभावान्न तस्या­भा­व­ज्ञा­न­त्व­मु­प­पा­द­यितुं शक्यम् । विषयिज्ञाने तु न विष­य­ता­व­च्छे­द­का­व­च्छिन्न विष­य­ज्ञा­ना­पेक्षा नियमोऽस्ति जिज्ञासाज्ञानेन व्यभि­चा­रा­द­न­व­ग­त­शा­स्त्रा­र्थ­वि­शे­ष­ज्ञा­ने­च्छायाः शास्त्रार्थं जिज्ञासा इत्य­व­ग­त­सा­मा­न्या­का­रा­व­च्छे­दे­ना­नु­भ­व­द­र्श­ना­दतः कार­ण­सं­भ­वा­द­ज्ञा­न­वि­ष­य­मेव तदङ्गीकर्तुं युक्तम् । एतदभिप्रेत्य सविषयस्येति विशेषितम् । एवं च मम शास्त्रा­र्थ­ज्ञानं नास्तीति ज्ञान­म­प्य­ज्ञा­न­वि­ष­य­मेव ज्ञानाभावस्य तु विशे­ष­ज्ञा­ना­न­न्त­र­मे­ता­वन्तं कालमित्थमिमं विशेषं नाज्ञा­सि­ष­मि­त्य­नु­भव इति द्रष्टव्यम् । न च मानाभाव एवेति स्वयूथ्याशङ्का ।
इच्छा ईक्षणमिति ।
तदैक्षतेति स्थाने सोऽकामयतेति श्रुत्य­न्त­र­द­र्श­ना­दिति भावः ।
वाचस्पतिना प्रप­ञ्चा­का­र­प­रि­णा­म्य­वि­द्या­श्र­यत्वं जीव­स्या­भ्यु­प­ग­त­मिति तत्प­रि­णा­म­भू­त­ज्ञा­ने­च्छा­दि­म­त्त्व­मपि जीवस्यैव युज्यते नेश्वरस्य अत ईश्वरसद्भावं व्यवहरन्नपि तत्र सर्व­ज्ञ­त्वा­द्य­नु­प­प­त्ति­हे­तु­मा­श्र­य­न्वा­च­स्पतिः पर्य्यायेण पर­मे­श्व­र­म­प­ल­ला­पेति केषाञ्चिद् दूषणं प्रत्याचष्टे -
ईक्षितुरिति ।
जीवज्ञाते परमेश्वरे शुक्तिशकले रजतस्येवारोप उपपद्यत इति परिहाराभिप्रायः ।
घनाघना निबिडा मेघा इति ।
वर्षुकाब्दा घनाघना इति कोशकारः । घनशब्दस्य चला­च­ल­प­ता­प­ता­दि­वद् द्विर्व­च­न­मा­गा­ग­मश्च । वर्षुकाब्दाः प्रायेण निबिडा भवन्तीत्यर्थतो निबिडा इति व्याख्यातम् । केषुचित्कोशेषु घनानिबिडा घना मेवा इति पाठो दृश्यते स पाठो घनघनेति दीर्घरहितं मूलपाठमाश्रित्य ।
नन्वा­से­क­सु­हि­ता­नी­त्य­युक्तो निर्देश: पूर­ण­गु­ण­सु­हि­ता­र्थ­स­द­व्य­य­त­व्य­स­मा­ना­धि­क­र­णे­नेति समा­स­नि­षे­धा­दि­त्या­शङ्क्य व्याचष्टे -
बृंहितानीत्यर्थ इति ।
तृप्त्यर्थानां सुहि­ता­दि­श­ब्दानां षष्ठी­स­मा­स­प्राप्तौ तन्निषेधपरं तत्र सुहि­ता­र्थ­ग्र­ह­णम् । इह तु बृंहितार्थोन्य एव सुहितशब्द इति तस्यासेकशब्देन तृतीयासमासो युक्त इति भावः । न ह्यग्ने­र्दे­व­ता­न्त­र­म­ग्नि­र­स्तीति टीका­ग्र­न्थोऽ­नु­प­पन्नः ।
अती­त­क­ल्पा­ग्नि­स­त्त्वात् तस्ये­दा­नी­म­ग्नि­प­द­त­न्ना­म­नि­वृ­त्ता­वपि पित्रादीनां श्राद्धे इव पूर्व­ना­म्नो­द्दे­श­स­म्भ­वाद् यष्टरीव भाविनी वृत्तिः यष्टव्ये वा भूता वृत्तिरित्यत्र निया­म­का­भा­वा­दि­त्या­श­ङ्क्याह -
सत्त्वे वेति ।
अती­ता­न­न्त­क­ल्पा­ग्निषु को यष्टव्य इत्यत्र श्राद्धे तज्ज­न्म­पि­त्रा­द­य­स्त­द्रू­पेण वसुरुद्रादयश्च यष्टव्या इत्यत्रैव व्यव­स्थि­त­नि­या­म­का­भा­वा­द­वि­नि­ग­म­प­री­हा­रार्थं यष्ट­व्य­दे­व­ता­वा­ह­न­लि­ङ्गा­नु­रो­धार्थं वाऽग्निना यष्टु­व्य­स्या­ग्ने­स्त­दि­ष्टि­काले सत्त्व­म­भ्यु­पे­यम् । तथा चास्मा­भि­रे­कोऽ­ग्नि­र्य­ष्ट­व्य­स्ते­ना­न्योऽ­ग्नि­रिति व्यवस्थायां प्रमाणाभावात्स एवा­ग्नि­र­स्मा­भि­रपि यष्टव्यः स एवा­ग्न्य­धि­का­रि­क­स­र्व­क­र्म­नि­र्व­ह­ण­क्षम इति प्राची­न­वै­य­र्थ्य­मि­त्या­शयः ।
तस्य ये प्राञ्चो रश्मय इति श्रुतौ तस्येत्यस्य व्याख्यानम् -
आदित्यस्येति ।
पुष्पाश्रया अप: समादाय मधुकरैर्मधु निर्वर्त्यते अत्र कास्ता आपः याः समादाय मन्त्र­भ्र­म­रै­र्मधु निर्वर्त्यते इत्या­का­ङ्क्षायां श्रुतावुक्तं ता अमृता आप इति । अत्र का आपः श्रुत्युक्ता इति न ज्ञायते तच्छदश्च कथं प्रकृतपरामर्शी अपां च कथ­म­मृ­त­त्व­मि­त्या­का­ङ्क्षायां तत्सर्वं विशदयितुं व्याचष्टे इत्याह -
ता अमृता इति ।
यादृङ् मधुकरैरिति ।
ऋच एव मधुकृत इत्यत्र मधु­क­रै­र्नि­र्वत्यं मधु तदुपसर्जनतया प्रस्तुतं तच्छब्देन परामृश्यते तच्छब्दस्य च स्त्रीलि­ङ्ग­ब­हु­व­च­ना­न्त­त्वम् अप्श­ब्द­सा­मा­ना­धि­क­र­ण्यात् । अपशब्दश्च पुष्पा­नु­प्र­वि­ष्ट­द्र­वां­श­तु­ल्य­क­र्मा­नु­प्र­वि­ष्ट­सेा­मा­दि­द्र­व्य­पर इत्यौचित्यादेव लभ्यत इति भावः । टीकायां तु यानि चेत्यादिना सोमा­द्या­हु­ति­द्र­व्य­प­रा­म­र्शि­त्व­म­प्श­ब्द­स्योक्तं तत्तु ताः कर्मणि प्रयुक्ताः सेामाज्यपयोरूपा इति छान्दो­ग्य­वि­व­र­णा­नु­सारि । तस्मिन् पक्षे श्रुतौ यद्वसूनां प्रातः सव­न­मि­त्या­दि­पू­र्वा­ध्या­या­व­सा­न­खण्डे सवनद्वारा सोमादीनां बुद्धिस्थत्वात् तत्प­रा­म­र्शि­त्व­मु­प­पा­द­नी­यम् ।
अमृ­त­सा­ध­न­त्वा­दिति ।
पाक­द्वा­रे­णा­मृ­ती­भा­व­सा­ध­न­त्वा­दि­त्यर्थः ।
ऋङ्मन्त्रैः प्रयुक्तमिति ।
ननु यथा हि भ्रमरा इत्या­दि­टी­का­वा­क्येन कर्मपुष्पेभ्यो रस­स्या­दि­त्य­म­धु­रु­प­स्व­स्था­न­न­यनं भ्रम­र­सा­म्य­मुक्तं कथं तस्य तस्य वाक्यस्य तात्पर्यं वक्तुमुपक्रम्य कर्मपुष्पेभ्यः फलरसस्रावणं तत्सा­म्य­मि­त्यु­च्यते । नैष दोषः । टीकोक्तं साम्यं स्पष्टं मत्वा ता वा एता ऋच इत्या­दि­श्रु­त्यु­क्त­सा­म्येऽपि टीकाग्रन्थस्य तात्पर्य्यमिति दर्शयितुं तथोक्तेः । तस्याः श्रुतेरयमर्थः । ता एताः कर्मसु प्रयुक्ता ऋचः एतदृग्वेदविहितं कर्मो­द्दि­श्या­त­पन् आलोचनमकुर्वन् । तप आलोचने इति धातुः । आलोचनपूर्वकं व्यापा­र­म­कु­र्व­न्निति यावत् । भ्रमरा हि यथा पुष्पाणि स्वानु­प्र­वि­ष्ट­द्र­वां­श­रूपं रसं मुञ्चन्ति तथा मन­स्या­लो­च­न­पू­र्वकं चूषणव्यापारं कुर्वन्ति तद्व्यापारेण च मधुरसो जायते एवं मन्त्राः प्रयेा­ग­स­म­वे­ता­र्थ­स्मृ­ति­रूपं स्वव्या­पा­र­म­कु­र्वन् तेन यशः­प्र­भृ­ति­फ­ल­रू­प­र­स­स्रु­ति­र­जा­य­तेति । इदमेव भ्रमरसाम्यं श्रुतावुक्तं मधुनः स्वस्था­न­न­य­न­रू­प­मपि तत्सा­म्य­म­र्थ्या­ल्ल­भ्यत इति टीकायां तदुकम् ।
कर्मकुसुमेभ्य आहृत्याग्नौ हुतमिति ।
यद्यप्यग्नौ होम: कर्मकुसुममेव तथापि होम­श­री­रा­नु­प्र­वि­ष्ट­द्र­व्यम् अग्नौ पाकेन रसात्मना परिणमय्य नयनार्थं तस्य यो निष्कर्षः सोऽचा­हू­त्ये­त्य­नेन विवक्षितः । अग्नौ हुतमित्यनेन अग्ना­व­वा­ड्ढ­व्यानि सुरभीणि कृत्वेति मन्त्रो­क्त­पा­क­वि­शेषो विवक्षित इति द्रष्टव्यम् । यद्वा यज­ति­चेा­द­ना­चो­दि­तेषु सोमादिषु देव­तो­द्दे­श्य­क­द्र­व्य­त्या­गा­त्म­क­या­ग­रू­पा­त्प्र­धा­न­क­र्म­णोऽ­न्यद् याग­वि­नि­यु­क्त­द्र­व्य­सं­स्का­र­रूपं होम­क­र्मे­त्या­चा­र्य­प­क्ष­म­नु­सृत्य क्त्वाप्रत्ययेन पृथग् निर्देशः ।
विकल्पेनेति ।
नन्व­ष्ट­दो­ष­दुष्टो विकल्पः किमर्थमाश्रीयते ऋच एव पुष्प­मि­त्या­दि­प्रा­ची­न­प­र्या­य­त्र­य­सा­रू­प्या­र्थ­म­थ­र्वा­ङ्गि­रस एव मधुकृत इति प्रथ­म­श्रु­त­रू­प­का­नु­सा­राद् इति­हा­स­पु­रा­ण­श­ब्दस्य आथर्वणं चतु­र्थ­मि­ति­हा­स­पु­राणं पञ्चममिति श्रुत्य­न्त­रा­व­ग­त­पौ­र्वा­प­र्य­सं­ब­न्धेन लक्ष­णाऽ­ङ्गी­क­र्तु­मु­चिता । एवं च श्रुतमधुकृतां पुष्पाध्याहारः श्रुतपुष्पस्य मधु­कृ­द­ध्या­हा­र­श्चेति क्लेशश्च परिहृतो भवति । न च इति­हा­स­पु­रा­ण­म­न्त्र­प्र­येाज्यं कर्म वाचः स्तोम इत्यपि युज्यते । वाचः स्तोमे सर्वा­ण्या­ख्या­तानि पारिप्लवं शंसतीति वाक्यस्य तद्वा­क्य­शे­षा­म्ना­त­म­न्वा­द्या­ख्या­न­प­र­तायाः पारिप्लवाधिकरणे वक्ष्य­मा­ण­त­ये­ति­हा­स­पु­रा­ण­ग­तो­पा­ख्या­नानां तत्र प्रयो­गाऽ­प्र­सक्तेः तेषां ऋगा­दि­व­न्म­न्त्र­त्वा­भा­वा­च्चेति चेत् सत्यम् । इतिहासपुराणं पुष्पमित्यस्य मुख्या­र्था­नु­रो­धेन पारिप्लवशब्दस्य वैदिकमैतिहासिकं पौराणिकं वा यदेव किञ्चिदाख्यानं मनसि परिप्लवते तादर्थ्यं परिकल्प्य कर्म­प्र­यो­ज्य­त्वे­नेा­पा­ख्या­नानां मन्त्र­त्व­मु­प­च­र्या­र्था­न्त­र­मपि वक्तुं शक्यमिति प्रौढ्येदं व्याख्यानान्तरं कृतम् ।
आदेशा उपासनानीति ।
उपासनान्यत्र प्रथ­मा­ध्या­य­नि­रू­पि­तानि कर्मा­व­ब­द्धा­न्यु­द्गी­थेा­पा­स­नानि प्रणवालम्बनानि विवक्षितानि न तु स्वतन्त्राणि प्रण­वा­ल­म्ब­नो­पा­स­नानि तेषु ता अमृता आप इत्या­द्य­न­न्व­यात् ।
ज्ञातृ­ज्ञे­य­भा­व­श्चेति टीका अनुपपन्ना मधु­वि­द्या­या­मु­पा­स्यो­पा­स­क­भा­वा­ति­रे­केण ज्ञातृ­ज्ञे­य­भा­वाऽ­नु­प­दे­शा­दि­त्या­शङ्क्य वस्वा­दि­ग­त­स्यो­पा­स­क­भा­व­प­र­तया व्याचष्टे -
वस्वादौ तु स चेति ।
देवान् प्रीणयतीति ।
प्रीणातेरेव सकर्मकत्वेऽपि तत्स्फु­टी­क­र­णार्थं णिजध्याहारेण व्याख्यातम् ।
उत्स­र्ग­प्रा­प्त­म­पीति ।
नन्वौ­त्स­र्गि­क­दे­व­ता­वि­ग्र­ह­स­म­र्थ­क­म­न्त्र­प­दा­ना­म­र्थ­प­रत्वं कथ­म­न­पे­क्षा­मा­त्रे­णा­पो­द्यते । न ह्यन­पे­क्षा­मा­त्रेण रथ्या­प­ति­त­तृ­णा­दि­ज्ञा­न­प्रा­मा­ण्य­मौ­त्स­र्गिकं त्यज्यते कथं चात्रानपेक्षा उद्दिश्य त्यागार्थं ह्यवश्यं देवतापदैः कश्चिदर्थ: समर्पणीयः स तु सम­भि­व्या­हृ­त­प­दा­न्त­र­सा­म­र्थ्य­प्राप्तौ विग्र­ह­वा­ने­वास्तु तमु­पे­क्ष्या­र्था­न्त­रा­न्वे­षणे को हेतुरिति चेदुच्यते । लोके ताव­दा­दि­त्य­श्चन्द्रः कुजो बुधः कृत्तिका रोहि­णी­त्ये­व­मा­दि­प­दा­ना­म­चे­त­नेषु ज्योति­र्वि­शे­षेषु व्युत्प­त्ति­र्गृ­हीता इन्द्रो मित्र इत्या­दि­प­दा­ना­म­प्य­नु­राधा नक्षत्रं मित्रो देवता रोहिणी नक्षत्रमिन्द्रो देव­ते­त्या­दि­श्रौ­त­सा­मा­ना­धि­क­र­ण्येन ज्योति­र्वि­शे­षेषु वृत्तिरवगम्यते । पृथि­व्या­दि­श­ब्दानां मृदादिषु वृत्तिः सुप्रसिद्धैव । न चैते ज्योतिरादिवचना अप्या­दि­त्या­दि­शब्दाः सम­भि­व्या­हृ­त­प­दा­न्त­र­स्वा­र­स्या­नु­रो­धेन ज्योति­र­भि­मा­नि­वि­ग्र­ह­व­द्दे­व­ता­प­र्यन्ताः कल्पनीयाः । तथा सति सर्वेषामपि जुह्वादीनां यज्ञाङ्गानां जुहूरसि घृताचीनाम्ना शृणोत ग्रावणः उच्छ्रयस्व वनस्पते इत्या­दि­म­न्त्र­लि­ङ्गै­श्चे­त­न­त्व­क­ल्प­ना­प्र­स­ङ्गात् । तस्मा­न्म­न्त्र­ग­त­दे­व­ता­प­दै­र­चे­त­नानां ज्योतिरादीनां समर्पणेन तत एवो­द्दे­शा­का­ङ्क्षा­शान्त्या पदा­न्त­र­स­म­र्पि­त­त­द्वि­ग्र­हा­णा­म­न­पे­क्षि­त­तया प्रथ­म­गृ­ही­ता­चे­त­न­व्यु­त्प­त्ति­वि­रो­धेन च त्यागो युक्त इति भावः ।
साध्या­वि­शि­ष्ट­त्वा­दिति ।
हेतोरसिद्धत्वेन साध्य­तु­ल्य­त्वा­दि­त्यर्थः ।
यथा प्रमा­णा­न्त­रा­वि­रोध इति ।
यत्र विधि­शे­षेऽ­र्थ­वादे प्रमा­णा­न्त­र­वि­रुद्धो यथाश्रुतार्थः तत्र गुणवादः परिग्राह्य इत्य­र्थ­वा­दा­धि­क­रणे सामान्यतो व्युत्पादिम् । तत्र यजमानः प्रस्तर इत्यादिषु के गुणा इत्या­का­ङ्क्षायां तत्सिद्ध्यादयो गुणा इति तत्सि­द्धि­जा­ति­सा­रू­प्य­प्र­शं­सा­भू­म­लि­ङ्ग­स­म­वाया इति गुणाश्रया इति तत्सि­द्ध्य­धि­क­र­ण­सू­त्रे­णो­क्त­मि­त्यर्थः । सूत्रे गुणाश्रया इत्यस्य गुण­श­ब्द­प्र­वृ­त्ति­नि­मि­त्ता­नी­त्यर्थः । प्रस्तरे यजमानशब्दवृत्तौ यजमानस्य यत्कार्यं क्रतुनिर्वर्तनं तस्य सिद्धिः प्रस्तरेणापि भवतीति तत्सि­द्धि­र्नि­मि­त्तम् । आदित्यशब्दस्य यूपे वृत्तौ प्रत्यक्षदृश्यं तेजस्वित्वं निमित्तम् । एवं जात्या­दि­ष्व­प्यु­दा­हा­र्यम् ।
तात्पर्यविषयस्य विशे­ष­ण­स्या­प्र­मि­तत्वे विशि­ष्ट­स्यऽ­प्य­प्रा­मा­ण्या­पत्ति इत्युक्ते तेन विशेषणाविधाने विशि­ष्ट­वि­ध्य­प्र­वृ­त्ति­रु­क्तेति मन्यमानः शङ्कते -
ननुं विशिष्टविधिरिति ।
विशे­ष­णा­प्र­सि­द्ध्य­भि­प्रा­यो­द्घा­टने कृते तद­प्र­सि­द्धि­र­सिद्धा दध्ना जुहोति सोमेन यजेतेत्यादिषु दधि­सो­मा­दि­वि­शे­ष­णानां लोक­प्र­सि­द्ध­त्वा­दिति पुन: शङ्कते -
नन्विति ।
यथैतस्यैवेति ।
अश्वं नत्वा वार­व­न्त­मि­त्य­स्या­मृचि गीतं साम वारवन्तीयं तस्य रेवतीर्णः सधमाद इत्या­दि­तृ­च­सं­बन्धः कवतीषु रथन्तरं गायेदिति वाक्येन कव­ती­र­थ­न्त­र­सं­बन्ध इव वाक्यान्तरेण न प्रसिद्ध इत्यनेनैव विधि­वा­क्ये­ना­व­गम्यः । अस्य तत्र तात्प­र्या­भा­वे­ना­प्रा­माण्ये तत्सिद्धिर्न स्यादित्यर्थः । नन्व­प्र­सि­द्ध­वि­शे­ष­ण­वि­शि­ष्ट­वि­धि­र­प­र्य्य­व­स्यन् विशे­ष­ण­वि­धि­मि­वा­प्र­सि­द्ध­वि­शे­ष­ण­स्व­रू­प­मपि कल्पयेदेव तदभावेऽपि विशि­ष्ट­वि­ध्य­प­र्य­व­सा­ना­वि­शे­षात् । वस्तुतस्त्वत्र सर्व­वि­शि­ष्ट­वि­धि­सा­धा­र­ण्येन कल्प्यो विशेषणविधिरेव तात्पर्येण विशे­ष­ण­स्व­रू­प­प्र­सि­द्ध्यर्थो भवतीति न तत्प्र­सि­द्ध्यर्थं शब्दा­न्त­र­क­ल्प­न­म­पे­क्ष्यते एवं खलु मीमांसकमर्यादा । चत्वारः साहस्रा इत्येक शब्दो­पा­दा­न­ल­क्ष­ण­सं­घा­ताख्या निकायिन उपक्रम्य त्रिवृ­द­ग्नि­ष्टु­द­ग्नि­ष्टोम इति प्रथ­म­म­ग्नि­ष्टुतं विधाय वार­व­न्ती­य­म­ग्नि­ष्टो­म­साम कार्य्यमिति तस्य वैशे­षि­क­गु­ण­वि­धा­ना­न­न्त­र­मे­त­स्यैव रेवतीष्विति श्रूयते निकायिनां च पूर्व­स्यो­त्त­रे­ष्वि­त्य­ष्ट­मा­ध्या­या­धि­क­रणे निका­यि­षू­त्त­रेषां प्रथ­म­वि­का­र­त्वस्य स्थापि­त­त्वा­दे­त­द्वि­धि­वि­धेयः क्रतुः प्रथ­मा­ग्नि­ष्टु­द्वि­कारो भवति । ततश्चात्र रेव­त्या­धा­र­वा­र­व­न्ती­य­सा­म­सा­ध्या­ग्नि­ष्टो­म­स्तो­त्र­भा­व­ना­वि­शि­ष्ट­क्र­तु­भा­व­ना­वि­धिना कल्प्यो विशे­ष­ण­वि­धि­र्ना­ग्नि­ष्टो­म­स्तो­त्रस्य न वा तद्गुणस्य वारवन्तीयस्य प्राप्त्यर्थः द्वयो­र­प्य­ति­दे­शतः प्राप्तेः किं तु तद­प्रा­प्त­रे­व­ती­वा­र­व­न्ती­य­स­म्ब­न्ध­प्रा­प्त्यर्थ इति तत एव तत्सिद्धेर्न तत्सिद्ध्यर्थं कल्प­ना­न्त­र­म­पे­क्ष­णी­यम् । अतो विशि­ष्ट­वि­धि­ता­त्प­र्य­वि­ष­य­स्यापि विशेषणस्यात्र कल्प्य­वि­शे­ष­ण­वि­धि­ता­त्प­र्य­वि­ष­य­त्वा­न्ना­प्रा­मा­णि­क­त्व­प्र­स­क्ति­रिति चेन्मैवम् । विशि­ष्ट­वि­धि­रू­पे­णैव प्रमाणेन रेव­ती­वा­र­व­न्ती­य­स­म्ब­न्ध­रू­प­वि­शे­ष­ण­स्या­प्य­प्र­मितौ तद्वि­शि­ष्ट­वि­ष­यस्य विधेः कल्पकस्य प्रमा­ण­सि­द्ध­त्वा­भा­वा­पत्त्या ततो विशे­ष­ण­वि­धि­क­ल्प­न­स्या­स­म्भ­वेन तत्कल्पकस्य विशिष्टविधेरेव विशे­ष­ण­स्व­रू­पेऽपि प्रामा­ण्य­स्या­व­श्य­व­क्त­व्य­त्वात् । यदा­ग्ने­याऽ­ष्टा­क­पालः सप्तदश प्राजापत्यान् पशूनित्यादीनां प्रथ­म­प्र­ती­त­द्र­व्य­दे­व­ता­सं­ब­न्ध­क­ल्प्य­त­द्वि­शि­ष्ट­या­ग­वि­धीनां यागकल्पके द्रव्य­दे­व­ता­सं­ब­न्ध­रू­प­वि­शे­ष­णेऽपि प्रामाण्यभावे कल्प­क­प्र­मि­त्य­भा­वेन याग­क­ल्प­नाऽ­नु­प­पत्त्या तद्वि­शि­ष्ट­या­ग­वि­धे­रे­वा­प्र­वृ­त्ति­प्र­स­ङ्गेन तस्यै­वा­प्र­सि­द्ध­वि­शे­ष­ण­स्व­रूपे तात्प­र्य­वि­ष­येऽपि प्रामा­ण्य­क­ल्प­ना­व­श्य­म्भा­वाच्च । तद्वदर्थवादानां तात्प­र्य­वि­ष­येऽपि स्वार्थे प्रामाण्यं युज्यत एव । न च तात्प­र्या­भा­व­मा­त्रेण शब्द­सा­म­र्थ्या­ज्जा­य­मानं ज्ञानं तस्य ज्ञान­स्यौ­त्स­र्गिकं बाध­का­भा­वे­ना­न­पो­दितं प्रामाण्यं च निवारयितुं शक्यम् । न चादि­त्या­दि­प­दानां ज्योतिरादिषु व्युत्प­त्ति­ग्रहो बाधकोऽस्तीति शङ्कनीयम् । यथा स्रक्च­न्द­न­व­नि­ता­हि­मो­ष्णा­दिषु सुख­ज­न­क­त्व­त­द­ज­न­क­त्व­द­शयेाः स्वर्ग­श­ब्द­प्र­यो­गाऽ­प्र­यो­ग­द­र्श­ने­ना­न्व­य­व्य­ति­रे­का­भ्या­मै­हि­क­सा­धा­र­ण्येन सुख­मा­त्र­वा­च­क­त्वे­ना­व­ग­तस्य स्वर्गशब्दस्य यन्न दुःखेन संभि­न्न­मि­त्या­द्य­र्थ­वा­दा­व­ग­ताऽ­लौ­कि­क­सु­ख­वि­शे­ष­वा­च­क­त्वा­व­धा­र­णा­दै­हि­क­सु­खेषु तत्प्रयोगो लाक्षणिक: कल्प्यते । एवं मन्त्रा­र्थ­वा­दा­व­ग­त­दे­व­ता­वि­शे­ष­वा­चिनां शब्दानां तत्त­द­भि­मा­न­वि­ष­येषु ज्योतिरादिषु प्रयोगो लाक्षणिक इति कल्पनोपपत्तेः । यदि स्वर्ग­फ­ल­क­र्म­वि­ध्य­पे­क्षि­त­त्वा­द­र्थ­वा­दा­व­ग­तेऽपि सुखविशेषे स्वर्गशब्दस्य शक्तिकल्पनं तथा­भू­त­सु­ख­भो­गो­प­यो­गि­भो­ग­स्था­न­भो­गो­प­क­र­णा­दि­रू­प­लो­क­वि­शे­षा­दि­प्र­ति­पा­द­का­र्थ­वा­दानां तत्तल्लोकादिषु प्रामाण्यं चाभ्युपगम्येत तर्हि तच्छ­न्दो­ग­ब्रा­ह्म­णा­द्या­म्ना­त­दे­व­ता­द­र्श­न­स­म्भा­ष­ण­व­शी­क­र­ण­सा­लो­क्य­सा­यु­ज्या­दि­प्रा­प्ति­फ­ल­क­क­र्मो­पा­स­ना­वि­ध्य­पे­क्षि­त­त्वा­न्ना­ना­वि­ध­म­हि­म­यु­क­दे­व­ता­त­त्प्र­ति­पा­द­का­र्थ­वा­दा­ना­मपि तत्र तत्र प्रामा­ण्य­म­भ्यु­प­ग­न्त­व्य­मिति समानम् । एवं च रोहिणी नक्षत्रमिन्द्रो देव­ते­त्या­दि­न­क्ष­त्र­दे­व­ता­वा­क्येषु तस्य­प­द­म­ध्या­ह­र्त­व्य­मिति रोहि­णी­न­क्ष­त्र­स्येन्द्रो देव­ते­त्या­दि­रर्थो ग्राह्यः । अत एव नक्ष­त्रे­ष्टि­या­ज्या­नु­वा­क्या­स्विन्द्रो ज्येष्ठा­म­नु­न­क्ष­त्र­मे­ती­त्या­दि­भे­द­नि­र्देश इत्यलं विस्तरेण ।
समुदायस्येति ।
यदि लोक­सि­द्धा­नु­भ­वा­न­प­ला­पार्थं पदार्थसंसर्गे वाक्यार्थ इष्यते तथापि तत्त­त्प­दा­र्थ­सं­स­र्ग­स्व­रू­पस्य वाक्यार्थस्य प्रतियोगिभेदेन भेदाद्वाक्यभेदो दुर्वारः । तस्मादेकार्थं विभागे साकाङ्क्षं पदकदम्बकं वाक्यमिति लक्षणेन देवस्य त्वेत्यत्र वाक्यैक्यं न सिद्ध्येदिति भावः ।
एकप्रयोजनेति ।
स्यादयं दोषो यदि लक्षणेऽर्थशब्दः प्रतिपाद्यवाची स्यात् । प्रयोजनवाची त्वयम् । तथा चानु­ष्ठे­य­त्वे­नेा­प­योगी मुख्यः प्रयोजनरूपो यो विशिष्टाऽर्थो निर्वापरूपः तस्य सक­ल­वि­शे­ष­ण­वि­शि­ष्ट­स्यै­क­त्वा­दु­क्त­ल­क्ष­णेन देवस्य त्वेत्याद्येकं वाक्यमिति युज्यत एव । न च तथापि निर्वपामीत्यस्य देवस्य त्वा सवितुः प्रसवे निर्व­पा­मी­त्या­दि­प्र­का­रेण प्रत्ये­क­म­न्व­याद् वाक्यचतुष्टयं स्याद् भगो वां विभ­ज­त्वि­त्या­दा­वि­वा­र्थै­क्येऽपि गुणानुसारेण प्रधा­ना­वृ­त्त्य­यो­गात् । चित्पतिस्त्वा पुना­त्वि­त्या­दि­वा­क्य­त्रये गुण­भू­त­स्यै­वा­च्छि­द्रे­णे­त्या­दि­क­स्या­प्या­वृ­त्ते­श्चि­त्प­त्य­धि­क­रणे वक्तव्यत्वादिति भावः । एव­म­धि­क­श­ङ्का­प­रि­हारौ न च द्वाभ्यां द्वाभ्या­मि­त्या­दि­टी­का­त­द्व्या­ख्या­नयोः स्पष्टीभविष्यत इति इहाधिकरणं संक्षेपेण लिखितम् ।
स्तुति­प्र­ति­प­त्ति­द्वा­र­मिति ।
न चात्रापि प्रया­ज­वा­क्य­व­द­वा­न्त­र­ता­त्प­र्य­मि­ष्य­ता­मिति शङ्कनीयम् । अर्थवादवृन्दस्य तल्लक्षणीयायां प्रया­जा­दि­व­द्वि­ध्य­न्वि­तायां स्तुतौ अवा­न्त­र­ता­त्पर्ये अवश्यवक्तव्ये सत्य­त्वा­स­त्य­त्वौ­दा­सी­न्येन प्रतीतमात्रतया स्तुत्युपकारिणि तद्द्वा­र­भू­तेऽ­प्य­र्थेऽ­वा­न्त­र­ता­त्प­र्य­क­ल्प­न­स्या­यु­क्त­त्वात् तदभावेऽपि माना­न्त­र­प्रा­प्ति­बा­ध­रू­पा­प­वा­द­रा­हि­त्य­प्र­ति­ष्ठि­तौ­त्स­र्गि­क­प्रा­मा­ण्य­ब­लाद् देव­ता­वि­ग्र­हा­दि­सिद्धौ तत एव देव­ता­ध्या­न­वि­धे­र्दे­व­ता­सा­यु­ज्या­दि­फ­ल­नि­र्दे­शस्य चापे­क्षा­शान्त्या तद­पे­क्षा­शा­न्त्य­र्थ­मपि देव­ता­वि­ग्र­हा­दि­ता­त्प­र्य­व­द्वा­क्या­न्त­र­क­ल्प­न­स्या­र्थ­वा­द­प­द­वृ­न्द­स्यै­वा­वा­न्त­र­ता­त्प­र्य­क­ल्प­नस्य चान­पे­क्षि­त­त्वात् । व्युत्प­त्ति­वि­रो­धस्य च फल­नि­र्दे­शा­पे­क्षि­त­दे­व­ता­वि­ग्र­हा­दि­वा­क्य­प्रा­मा­ण्य­स्या­व­श्या­भ्यु­प­ग­न्त­व्य­त्वेन तद्बलेनैव निरसनोपपत्तेः व्युत्प­त्ति­वि­रुद्धे तात्पर्य्यं न कल्पनीयमिति शङ्कायां तद्वि­रो­ध­प­रि­हा­रा­र्थ­म­स्यैव न्याय­स्या­पे­क्ष­णी­य­त्वात् । देव­ता­वि­ग्र­हा­णा­मु­द्दे­शो­प­यो­ग­प्र­द­र्शनं फल­नि­र्दे­शो­प­यो­ग­प्र­द­र्श­न­स्या­प्यु­प­ल­क्ष­णम् । तेन इन्द्रा­दि­श­ब्द­वि­षयो भवि­ष्य­त्यु­द्देशः । ऐन्द्रं दधीत्यादौ प्रथ­मो­प­स्थि­त­स्ये­न्द्रा­दि­श­ब्दस्य देव­ता­त्वे­ना­न्व­य­सं­भवे तद­धी­न­च­र­मो­प­स्थि­ति­क­स्या­र्थस्य तथा­त्वे­ना­न्व­य­क­ल्प­ना­यो­गात् शब्दे कार्या­सं­भ­व­ए­वार्थे कार्यविज्ञानात् प्रसि­द्ध­ज्यो­ति­रा­दि­वि­षयो भवि­ष्य­त्यु­द्देशः ।
न ह्यश्वमेधे यन्महसि तस्मै स्वाहा यच्छकृत्करोषि तस्मै स्वाहे­त्या­दि­म­न्त्रा­नु­ष्ठे­य­हो­मानां प्रसि­द्ध­मे­ध्या­श्व­मू­त्र­पु­री­षा­दि­क­म­न्त­रे­णो­द्दे­श्य­म­स्तीति शङ्कानिरासो लभ्यते शब्दस्याचेतनस्य वा देवतात्वे तदत्र देव­ता­द­र्श­न­सं­भा­ष­णा­दि­फ­ल­क­र्मो­पा­स­ना­वि­धी­ना­म­प्रा­मा­ण्य­प्र­स­ङ्गेन सङ्कर्षादिषु तथो­क्ते­र­न्वा­रु­ह्य­वा­द­त्वात् प्रथमोपस्थिते शब्दे कार्या­न्व­य­स्यौ­त्स­र्गि­कत्वे च ऋचि प्रणवं दधातीत्यत्रापि प्रण­व­श­ब्द­स्यै­वा­नु­वा­क्यान्ते निधानापत्त्या तदर्थस्यौकारस्य निधानमिति व्यवस्थापयता संक­र्ष­ग­ते­नै­वा­धि­क­र­णा­न्त­रेण विरोधापत्तेश्च यत्न­सा­ध्य­या­ग­भा­वनां यत्नरूपां प्रति स्वरूपेण यागस्य करणत्वासंभवात् फल­शि­र­स्क­भा­व­ना­क­र­णत्वं वाच्यम् तत्तु विवक्षितविवेकेन स्वर्गा­दि­फ­ल­क­र­ण­त्व­प­र्य्य­व­स­न्न­मि­त्य­भि­प्रेत्य पक्षान्तरमाह -
तदीयफलांशं वेति ।
तद­स्म­न्म­तेऽ­प्य­वि­रु­द्ध­मिति ।
नन्वतिथौ तत्प्रधानत्वं भावः कर्मणि स्यात्तस्य प्रीति­वि­धा­न­त्वा­दिति देव­ता­धि­क­र­ण­गु­ण­सू­त्रेण यज्ञ­स्या­ति­थ्य­वै­ष­म्यम् आति­थ्य­म­ति­थि­प्री­त्यर्थं न तु यज्ञो देवताप्रीत्यर्थ इत्येवंरूपं दर्शितं तद्विरोधो यज्ञेन देव­ता­प्री­ति­म­भ्यु­प­ग­च्छतां दुर्वार इति चेत् । नैष दोषः । तत्र हि तस्य प्रीति­वि­धा­न­त्वा­दिति हेतोरयमर्थः । येन येन यावताऽतिथिः प्रीयते तेन तेन द्रव्येण तावता स पूजनीय इत्या­ति­थ्य­म­ति­थि­प्र­धा­नम् । कर्मणि तु नास्ति प्रीतिविधानं येन द्रव्येण यावता या देवता प्रीयते तेन तावता सा पूजनीयेति किं तु देवतैक्येपि तत्त­त्क­र्म­वि­शे­ष­व्य­व­स्थि­तै­रा­ज्य­च­रु­पु­रो­डा­शा­दि­भि­श्च­तु­र्गृ­ही­त­द्व्य­व­दा­ना­दि­प­रि­मितैः स्वरू­प्र­स्त­रा­दि­भि­र­न­द­नी­यैश्च यष्टव्यमित्येव विधानम् । अतस्तस्य प्रीति­वि­धा­न­त्वा­दिति हेतुनाऽपि विरोधः । अस्माभिस्तु एतद्वै दैव्यं मधु यद् घृतं यद्वै देवा हविर्जुषन्ते अल्प­म­प्ये­का­मा­हु­ति­मपि तद्गिरिमात्रं वर्द्ध­य­न्त­इ­त्या­द्य­र्थ­वा­द­द­र्श­नेन हविषां देव­तो­चि­त­द्र­व्य­रू­पेण देव­ता­भो­ज­न­प­र्या­प्त­प­रि­मा­णेन च विप­रि­ण­ति­म­ङ्गी­कृत्य देव­ता­प्री­त्य­र्थत्वं समर्थ्यते न त्वस्मि­न्म­तेऽ­प्या­ति­थ्य­न्या­येन तत्त­द्दे­व­ता­प्री­ति­क­र­द्र­व्य­प­रि­मा­ण­वि­धा­न­म­स्तीति न कश्चिद्विरोधः ।
देवादीन स्मृत्वेति ।
ननु एते असृग्रमिति मन्त्र­स्या­य­मर्थः एते इन्दवः सोमा­स्ति­र­प­वित्रं तिर्यग्भूतं दशापवित्रं प्रति आशवः शीघ्रगामिनः विश्वा सौभगा सर्वाणि सौभाग्यानि अभि उद्दि­श्या­सृ­ग्र­म­ज्य­न्तेति । एवं प्रती­य­मा­ना­र्था­नु­सा­रे­णैव सोमलतादेवत्ये विनियोगोऽस्य मन्त्रस्य श्रूयते बहिष्पवमानेन वै यज्ञः सृज्यते यदेते असृग्रमिन्दव इति प्रस्तौति यज्ञमेव तत्सृष्टं देवेभ्यः प्राहेति कथ­मे­व­म­न्य­प­रा­णा­मे­त­इ­त्या­दीनां देवतास्मारकत्वं कथं च साधारणे रेत इत्या­दि­भि­स्त­त्त­दे­वा­द्य­सा­धा­र­णा­ग्नि­सू­र्या­दि­प­दै­रिव तत्त­दे­वा­दि­जा­ती­य­व्य­क्त्य­न्त­र­सृ­ष्ट्य­नु­कू­ल­प­र­स्प­र­व्या­वृ­त्त­जा­ति­सं­स्था­न­वि­शे­षा­व­च्छि­न्न­त­त्त­द्दे­वा­द्यु­प­स्थितिः । उच्यते । एते असृग्रमिन्दव इति बहुभ्यः प्रतिपदं कुर्यादेतइति सर्वमेवैनां वृद्ध्यै भूत्याअभिवदतीति विनियोगानुसारेण सोमविशेषणतया स्थित­स्या­प्ये­त­इ­त्यस्य सत्रा­दि­य­ज­मा­न­प्र­का­श­कत्वं वक्तव्यम् । तद्वदेतइति वै प्रजा­प­ति­रि­त्या­दि­वा­क्या­नु­सा­रेण स्रष्टारं प्रत्ये­त­इ­त्या­दि­प­दानां तत्त­द्दे­व­ता­वि­शे­ष­रू­पा­दि­स्मा­र­क­त्व­मपि भविष्यतीति न काचिदनुपपत्तिः । जिते वशीकृते ।
अणिमादाविति ।
पार्थि­वा­द्यै­श्व­र्य्यो­प­ल­क्ष­ण­मे­तत् । सन्ति हि पार्थिवादीनि प्रत्ये­क­म­ष्टा­व­ष्टा­वै­श्व­र्याणि ।
ह्रस्वता स्थूलता बाल्यं वार्द्धकं यौवनं तथा ।
नाना­जा­ति­स्व­रू­पत्वं तथा सुरभिगन्धता ॥
पार्थिवांशं विना भूतै­श्च­तु­र्भि­र्दे­ह­धा­र­णम् ।
गन्ध­त­न्मा­त्र­त­त्त्वो­त्थ­मे­त­द­ष्ट­गुणं महत् ॥
इत्या­द्या­ग­म­प्र­सि­द्धानि ।
शक्तिभिश्च तद्बिम्बैरिति ।
पृथि­व्या­दि­श­क्तयो निवृ­त्ति­प्र­ति­ष्ठा­वि­द्या­शा­न्ति­शा­न्त्य­ती­ताख्याः पृथि­व्या­दि­बि­म्बा­श्च­तु­र­श्र­ध­नु­रा­का­र­त्रि­को­ण­ष­ट्को­ण­बि­न्दु­रू­पाणि मण्डलानि ।
सारूप्यमिति ।
स्वात्म­रू­प­तो­पा­सनां कृत्वेत्यर्थः ॥

शुगस्य तद­ना­द­र­श्र­व­णा­त्त­दा­द्र­व­णा­त्सू­च्यते हि ॥३४॥ ननु शूद्र­स्या­ध्य­य­ना­भावे विद्या­न­धि­का­र­श­ङ्का­या­म­ग्न्य­भा­वेऽपि तदधिकारः संभवतीति समा­धा­न­म­सं­ग­त­मि­त्या­शङ्क्य तत्सा­ङ्ग­त्यार्थं पूर्व­त­न्त्रा­धि­क­र­णेन न गता­र्थ­त्व­श­ङ्के­य­मि­त्य­व­ता­र­यति -
आगन्तुकं शास्त्रीयमिति ।
पूर्वतन्त्रे शूद्रस्य कर्माऽ­न­धि­का­रेऽ­ग्न्य­भावो मूलयुक्तिरुक्ता तस्या विद्या­या­म­प्र­वृतैः शूद्रस्य कर्मानधिकारेऽपि विद्याधिकारः संभ­वे­दि­त्य­धि­क­पू­र्व­प­क्ष­स­द्भा­वाद् न गतार्थत्वमिति परि­हा­र­ग्र­न्था­शयं दर्शयति -
तत्राऽनग्नेरिति ।
नन्ववैद्यत्वमपि तत्र सिद्धा­न्त­यु­क्ति­त्वे­नो­क्त­मतो गतार्थत्वं तद­व­स्थ­मि­त्या­श­ङ्क्याह -
अवैद्यत्वमिति ।
नन्वनग्नित्वं तत्र मूलयुक्तिः अवै­द्य­त्व­म­भ्यु­च्चय इत्यु­भ­य­म­प्य­यु­क्तम् । चातु­र्व­र्ण्य­म­वि­शे­षा­दिति पूर्व­त­न्त्रा­धि­क­रणे निर्देशत्रयाणां स्यादग्न्याधेये इति सूत्रेण वसन्ते ब्राह्म­णोऽ­ग्नी­ना­द­धीत ग्रीष्मं राजन्यः शरदि वैश्य इत्या­धा­न­वि­धि­वा­क्यै­स्त्र­या­णा­मे­षा­मा­धाने निर्देशादनग्नेः शूद्रस्य नाधिकार इति सिद्धा­न्त­युक्तिं प्रथमं प्रदर्श्य निमित्तार्थेन वाद­रि­स्त­स्मा­त्स­र्वा­धि­कारः स्यादि­त्या­दि­सू­त्रैर्य एवं विद्वा­न­ग्नि­मा­धत्त इति वाक्येनाधाने सर्वसाधारणे विहिते वस­न्ता­दि­वा­क्यानि ब्राह्म­णा­दि­नि­मि­त्तेन वस­न्ता­दि­का­ल­वि­धा­य­कानि । अतो वस­न्ता­दि­वा­क्य­प­र्या­लो­च­नात् शूद्र­स्याऽ­न­ग्नि­त्वा­सि­द्धे­स्ततः कर्माऽनधिकारो न सिध्यतीति तामुक्तिं दूषयित्वा तदन्तरम् अपि वा वेद­नि­र्दे­शा­द­प­शूद्रं प्रतीयेतेति सूत्रेण वेदा­ध्य­य­ना­र्थो­प­न­यने वसन्ते ब्राह्म­ण­मु­प­न­यी­ते­त्या­दि­वा­क्यै­स्त्र­या­णा­मेव निर्दे­शा­दु­प­न­य­न­र­हित: शूद्रोऽ­ध्य­य­ना­भा­वा­त्क­र्मसु नाधिकारीति सिद्धा­न्त­युक्तिं प्रदर्श्य गुणा­र्थि­त्वा­न्नेति चेदिति सूत्रेण शूद्रः कर्मा­नु­ष्ठा­ना­या­ध्य­य­ना­र्थि­त्वा­दु­प­न­य­ना­भा­वेऽपि स्वयमेव गत्वाऽध्येष्यत इत्या­श­ङ्का­मु­द्भाव्य संस्कारस्य तदर्थत्वादिति सूत्रे­णो­प­न­य­न­सं­स्का­र­स्या­ध्य­य­ना­र्थ­त्वा­दु­प­न­य­ना­भावे स्वयमेव गत्वाऽध्ययनं विगुणं स्यादिति तां शङ्कां परिहृत्य विद्या­नि­र्दे­शा­न्नेति चेदिति सूत्रेण कर्मा­नु­ष्ठा­ना­र्थ­म­व­श्य­ग्रा­ह्यया विद्य­याऽऽ­क्षे­पा­ल्लौ­कि­का­ध्य­यनं भवि­ष्य­ती­त्यु­प­न­य­न­पू­र्व­क­वै­धा­ध्य­य­ना­भा­वेन न किञ्चि­द्वै­क­ल्य­मिति शङ्का­मु­द्भा­व्या­वै­द्य­त्वा­दिति सूत्रेण न शूद्रे­णा­ध्ये­त­व्य­मिति शूद्र­स्या­ध्य­य­न­मा­त्र­नि­षे­धा­द्वि­द्या­र­हि­तस्य तस्य कर्मसु नाधिकार इत्युक्त्वा तथा चान्या­र्थ­द­र्श­न­मिति सूत्रेण पद्यु वा एत­दि­त्या­दि­श्रुतेः शूद्र­स­मी­पेऽ­ध्य­य­न­प्र­ति­षे­धात् शूद्रस्य कथ­ञ्चि­द­प्य­ध्य­यनं न संभवतीति कैमु­ति­क­न्या­य­द­र्श­ने­ना­वै­द्य­त्वा­दिति सूत्रो­क्त­यु­क्ते­र्दृ­ढी­क­र­णात् । न हि सूत्रकृता स्वयमेव निराकृता युक्ति­र्मू­ल­युक्तिः बहु­भि­रा­क्षे­प­स­मा­धा­नै­रु­प­पा­दि­ताऽ­भ्यु­च्च­य­यु­क्ति­रिति युज्यत इति चेत् । उच्यते । अनग्नित्वं मूल­यु­क्ति­र्भ­व­त्येव । द्वैती­या­धा­ना­धि­क­रणे वस­न्ता­दि­वा­क्यानां निमित्तार्थत्वं निराकृत्य ब्राह्म­णा­दि­सं­यु­क्ता­धा­न­वि­धा­य­क­तायाः समर्थितत्वात् । अन्यथा तत्स­म­र्थ­ना­र्थ­मेव प्रवृत्तस्य तस्या­धि­क­र­ण­स्या­त्य­न्त­वै­य­र्थ्या­पत्तेः । अत एव शब­र­स्वा­मि­भि­र­स्मि­न्न­धि­क­रणे य एवं विद्वा­न­ग्नि­मा­धत्त इति वाक्यं संभा­र­वि­धि­शे­षा­र्थ­वादो न त्वाधानविधायकम् । तद्विधायकानि तु वस­न्ता­दि­वा­क्या­न्ये­वेति सूत्र­का­रा­भि­प्रा­य­व­र्ण­ने­ना­न­ग्नि­त्वस्य मूलयुक्तित्वं प्रतिष्ठापितम् । एव­मा­धा­ना­धि­क­र­ण­सि­द्धा­न­ग्नि­त्वस्य पुनः कीर्त्त­न­मा­भि­प्रा­यि­क­प­रि­हा­रेण य एवं विद्वा­न­ग्नि­मा­धत्त इति वाक्या­व­ल­म्ब­न­श­ङ्का­नि­रा­सा­र्थ­मेव । अन्यथा मह­र्षि­व­र­नि­र्मि­तानां सूत्राणां पर­स्प­र­वि­रो­धा­पत्तेः । एवमनग्नित्वेन सिद्धेऽ­न­धि­का­रेऽ­ध्य­य­ना­भा­वोऽ­भ्यु­च्चय इत्येतत् तदु­प­पा­द­क­स्या­ध्य­य­न­वि­धि­पु­रु­षा­र्थ­त्व­नि­रा­स­स्या­भा­वा­दिति मूले एव स्पष्टम् ।
नन्विहापि शास्त्रेऽ­ध्य­य­न­वि­धि­पु­रु­षा­र्थ­त्व­नि­रासः सूत्रकृता न कृत इत्याशङ्क्याह -
इह संस्कारेति ।
ननु संस्का­र­प­रा­म­र्शा­दिति सूत्रं शूद्रस्य विद्या­ङ्गो­प­न­य­ना­भा­वाद् विद्या­न­धि­का­र­प­रम् । न च तद­न­न्त­र­म­ध्य­य­नस्य संस्का­र­क­र्म­त्व­व्य­व­स्था­पकं सूत्रा­न्त­र­म­स्तीति चेत् । उच्यते । पूर्व­त­न्त्रा­धि­क­र­णेऽ­न­ग्नि­त्व­यु­क्त्याऽपि कर्मा­न­धि­का­र­सि­द्धे­स्त­त्रा­नु­प­पा­दि­त­म­प्य­ध्य­य­नस्य संस्का­र­क­र्म­त्वम् इहा­वै­द्य­त्व­मा­त्रे­णो­प­पा­द­नी­यस्य विद्याऽ­न­धि­का­रस्य सम­र्थ­ना­र्थ­म­व­श्य­मु­प­पा­द­नी­यम् । अतस्तदुपपादनमपि संस्का­र­प­रा­म­र्शा­दि­त्य­नेन स्वाध्या­य­स्या­ध्य­य­न­सं­स्का­र­सं­ब­न्धा­दि­त्य­र्थ­केन विवक्षितमिति वक्तव्यमेव । अत एव टीकाकृता तदेव सूत्रं मूलं मन­सि­कृ­त्या­ध्य­य­नस्य संस्कारकर्मत्वं व्यवस्थापितम् । तत­श्चा­ध्य­य­न­सं­स्कारः शूद्रेणापि क्रिय­ता­मि­त्या­श­ङ्का­प­रि­हा­रार्थं संस्का­र­प­रा­म­र्शा­दि­त्ये­त­दे­वा­ध्य­य­ना­ङ्ग­त्वे­नो­प­न­य­न­सं­स्का­र­वि­धा­ना­दि­त्ये­त­द­र्थ­त्वे­नापि योजनीयम् । अस्त्व­ध्य­य­ना­ङ्गो­प­न­यनं शूद्रस्यापि शिष्यस्य स्वय­मु­प­ग­म­नेऽ­प्या­चा­र्या­नु­म­ति­रूपं तत्क­र्तृ­क­स्व­स­मी­प­प्रा­पणं विनाऽ­ध्ये­तु­म­श­क्य­त­याऽ­र्थ­प्राप्ते उपनयने वस­न्ता­दि­वा­क्यानां निमि­त्ता­र्थ­त्वो­प­प­त्ते­रिति शङ्कायां तद­भा­वा­भि­ला­पा­च्चे­त्ये­तद् न च संस्का­र­म­र्ह­ती­त्य­ने­ना­ध्य­य­ना­ङ्गो­प­न­य­ना­भा­व­स्या­प्य­भि­ला­पा­दि­त्ये­त­त्प­र­मपि योजनीयम् । एवमर्थभेदेन सूत्र­भे­द­म­भि­प्रेत्य संस्का­र­प­रा­म­र्शा­दि­त्या­दि­सू­त्रै­रिति बहुवचननिर्देश इति सर्वमनवद्यम् । इदं तु चिन्त्यते । इह­त्या­धि­क­र­ण­ग­त­सं­स्का­र­श­ब्द­स्येव पूर्व­त­न्त्रा­प­शू­द्रा­धि­क­र­ण­ग­तस्य संस्कारस्य तदर्थत्वादिति सूत्र­स्थि­त­सं­स्का­र­श­ब्द­स्या­प्य­ध्य­य­न­सं­स्का­रा­र्थ­त्व­मपि परिकल्प्य शक्यमुपपादयितुं तत्रा­प्य­ध्य­य­नस्य संस्कारकर्मत्वं प्रसाधितमिति कर्म वा विलक्षणमिति नाव­मि­का­धि­क­र­णे­नापि तत् सिद्धम् । तत्र ह्यधिकरणे द्विती­य­स­प्त­मा­ध्या­य­यो­र्गी­ति­क्रि­या­रू­प­त्वे­नो­क्तस्य साम्नोऽ­र्थ­क­र्म­त्व­नि­रा­सेन ऋग­क्ष­रा­भि­व्य­ञ्ज­क­तया संस्कारकर्मत्वं व्यवस्थापितम् । तद्व्यवस्थापनं च स्वर­वि­शे­ष­वि­शि­ष्ट­तया ऋग्व­र्णा­भि­व्य­ञ्ज­कस्य उच्चारणस्यैव संस्का­र­क­र्म­त्व­व्य­व­स्था­पनं पर्य्यवस्यति । सामाध्ययनकाले तद्व्यतिरेकेण क्रिया­न्त­रा­भा­वा­त्त­दे­वो­च्चा­रणं गुरु­मु­खो­च्चा­र­णा­न­न्त­र­भावि सदध्ययनमुच्यत इति । तेन सामाध्ययनस्य संस्का­र­क­र्म­त्व­सिद्धौ न्यायसाम्याद वेदा­न्त­रा­ध्य­य­न­स्यापि तथात्वं सिध्यति । किं बहुना । अथातो धर्म्म­जि­ज्ञा­सेति प्रथमाधिकरणेन कृत्स्न­स्या­प्य­ध्य­य­नस्य संस्कारकर्मत्वं कण्ठत एव प्रसाधितम् । तत्र ह्यतः शब्दोक्तेन वेदस्य विव­क्षि­ता­र्थ­त्वेन सूचितम् अवि­व­क्षि­ता­र्थ­त्व­पू­र्व­पक्षं लिख­द्भि­र्व्या­ख्या­तृ­भि­स्त­दु­प­पा­द­ना­र्थम् अध्ययनस्य स्वर्गा­र्थ­त्वोक्त्या पुरुषार्थत्वं स्पष्टमुक्तम् । तत्सिद्धान्ते अक्ष­रा­वा­प्त्य­र्थ­ज्ञा­ना­न्य­त­र­फ­ल­क­त्वेन स्वाध्या­य­सं­स्का­रत्वं समर्थितम् । किञ्चात्र प्रसा­धि­ते­ना­ध्य­य­नस्य संस्का­र­क­र्म­त्वेन शूद्रा­धि­का­र­शङ्का नापैतीति व्यर्थमिह तत्प्रसाधनम् । स्वाध्या­या­ध्य­य­न­विधेः स्वशा­खा­ध्य­य­न­वि­ष­य­त्वेन शूद्रस्य सर्वापि शाखा न स्वशाखेति तदध्येतृभ्यो गृहीत्वा विद्या­नु­ष्ठा­नो­प­पत्तेः । अन्यथा मैत्रे­यी­वा­च­क्न­वी­प्र­भृ­तीनां स्त्रीणां विद्यानुष्ठाने का गतिः । तस्मान्नेयं गता­र्थ­त्व­श­ङ्का­प­रि­हा­र­री­ति­र्यु­क्तेति । अत्रेदमुत्तरम् । शास्त्रभेदेऽपि गतार्थत्वं परिहरणीयं चेद् विद्याधिकारिणः शूद्रे­त्या­म­न्त्र­णेन लिङ्गेन शूद्रस्य कर्मानधिकारेऽपि विद्या­धि­का­रोऽ­स्ती­त्य­धि­क­श­ङ्कया न गतार्थत्वम् । न च शूद्रशब्दो यौगिक इति युक्तं रूढे­र्ब­ल­व­त्त्वात् । जान­श्रु­ते­र्द्यु­व्याप्तं ज्योति­र्ना­स्तीति मनु­ष्या­द्य­सं­भा­वि­त­गु­ण­भा­व­व­च­न­रू­प­हं­स­वा­क्या­ना­द­र­श्र­व­णेन गगनमयं खादितुं न शक्नोतीति वाक्यश्रवणेनेव न तस्य शोकः किं तु रैक्वो­पा­स्य­दे­व­तो­पा­स­कस्य तदन्यस्यापि तदुपासना महाफलेति कथनेन रैक्वस्य महा­म­हि­म­की­र्त­न­रू­प­स्त­व­नेन सयुग्वानमिति रैक्व­चि­ह्नो­प­न्या­स­रू­पेण तदु­प­ग­म­नो­पा­यो­प­दे­शेन च महा­फ­ल­वि­द्या­ग्र­ह­णो­पायो लब्ध इति जान­श्रु­ते­र्मु­दे­वास्य संजातेति कल्पनौचित्येन शुगा­द्र­व­ण­रू­प­यौ­गि­का­र्था­सि­द्धेश्च । न चात्र रुढिर्बाधकमस्ति येन यथा कथञ्चिद् योगः समाश्रीयेत अध्य­य­न­सं­स्का­रा­भा­वस्य तदबाधकतायाः समर्थितत्वात् । कर्मस्विव विद्यासु मन्त्राभावेन श्रव­णा­दि­प्र­ति­षे­ध­स्या­प्य­बा­ध­क­त्वा­दिति । तदे­त­त्सू­त्र­भा­ष्य­प­र्या­लो­च­नया स्फुटमिति न विवृतम् । विधा­न्त­रे­णा­ग­ता­र्थत्वं तु यथा कथ­ञ्चि­ट्टी­को­प­पा­द­ना­र्थ­मु­प­न्य­स्त­मि­त्यलं विस्तरेण ।
न हि करणसामान्यमिति ।
कर्मादिभिः करणैः संयो­ग­वि­भा­गा­दि­फ­लेषु जन­नी­ये­ष्वि­ति­क­र्त­व्य­ता­पे­क्षा­भा­वा­दिति भावः ।
किं तु विहित इति ।
विहितस्य करणविशेषस्य कथमनेन फला­पू­र्व­मु­त्पा­द­नी­य­मिति तत्प्र­का­र­स्या­नि­र्ज्ञा­त­त्वात् कथं­भा­वा­पे­क्षो­दे­तीति भावः ।
मा भूवन्नध्ययनादयः पुमर्था इति ।
बहु­व­च­न­म­वि­व­क्षि­तम् । अध्ययनं स्वाध्या­य­मा­त्र­प­र­म­र्थ­ज्ञा­नस्य हितै­षि­व­च­ना­व­ग­म्य­या­गा­दि­फ­ल­स­न्नि­कृ­ष्ट­तया पुरु­षा­र्थ­त्व­म­भ्यु­प­गम्य तत्र नियमाशङ्कनात् ।
द्वौ हीह पूर्वपक्षाविति ।
यथा कथ­ञ्चि­त्स­म्भ­व­मा­त्रेण द्विती­य­पू­र्व­पक्ष उपन्यस्तः । रैक्वे­णा­नु­ष्ठी­य­मानां विद्यां संव­र्ग­वि­द्ये­त्य­वि­ज्ञाय सामान्यतो या तदीया विद्या तां लप्स्ये इति धियोपसन्नस्य धार्मिकस्य विवेकिना जानश्रुतेः शूद्रे­त्या­म­न्त्र­ण­लि­ङ्गेन विद्या­सा­मा­न्या­धि­का­र­पू­र्व­प­क्ष­स्यापि दृढत्वात् । अध्य­य­ना­भा­व­स्या­बा­ध­क­ताया उक्तत्वात् । ननु टीकाया विध्य­पे­क्षि­त­त्व­म­प्या­र्थ­वा­दि­का­र्थ­सि­द्धा­व­पे­क्ष्य­मि­त्यु­क्त­मिति प्रतिभाति तदयुक्तम् ।
बाधकाभावमात्रेण तत्सि­द्द्यु­प­प­त्ते­रि­त्या­शङ्क्य प्रयो­ज­न­क­थ­न­मा­त्र­परा तदुक्तिरिति व्याचष्टे -
विधिना चापेक्षत इति ।
सप्रयोजन तेति ।
उक्तेत्यनुषङ्गः ।
अवयववृत्तीति ।
शुचा दुद्रा­वे­त्या­द्य­र्थेषु शूद्रशब्दस्य रुजं द्रावयतीत्यर्थे रुद्रशब्दस्यैव नैरु­क्त­प्र­क्रि­यया निष्पत्तिः । उका­र­दै­र्घ्य­स्यापि तत एव सिद्धिः ।
राज्ञो विशि­ष्ट­वि­द्यो­प­दे­ष्टृ­गु­रु­स­द्भा­वा­व­ग­मेन मेाद इव हंसो यद­भा­वा­न्मा­म­दू­दु­हत् सा विद्या सत्यपि संनिहिते गुरावपि इयन्तं कालं मया न लब्धा तेन तत्प्र­यु­क्त­दू­ष­ण­पा­त्र­म­भ­व­मिति शोकोऽपि संभवत्संजिहान एव क्षत्ता­र­मु­वा­चेति वाक्य­प्र­ती­त­का­ला­क्ष­म­त्व­लि­ङ्गा­द्य­व­ग­मि­तोऽ­स्त्येव मा प्रसाङ्क्षीरिति विहितस्य सक्त्यकरणस्य फलवचनतया योजयितुं शक्य­म­पि­मै­तत्त्वा धाक्षी­रि­त्ये­त­द­ज्ञा­नात् तत्सक्तिकरणेऽपि दाहो मा भूदि­त्या­शी­र्व­च­न­तया योजयति -
यदि करोषीति ।
धाक्षीरिति प्रथमपुरुषविषये मध्य­म­पु­रु­ष­श्छा­न्दसः ।
ननु वरो वराकः शोच्य इति वर­श­ब्दे­नै­क­दे­श­द्वा­रो­च्यते चेत् प्रथमान्तस्य कथमन्वय इत्या­का­ङ्क्षायां वाक्य­भे­दे­नो­द्दे­श्य­स­म­र्प­क­प­दा­ध्या­हा­रेण च योजयति -
एष तावद्वराक इति ।
के चिदरे इति हीन­सं­बो­ध­ना­र्थ­तया पदविभागं कुर्वन्ति । तथा पदविभागे मय उञो वो वेत्युकारस्य वकारादेशेन भाव्यम् पक्षे निपात एकाजनाङिति प्रगृह्यसंज्ञया प्रकृतिभावे सति कमु अरइति वा भाव्यम् । अतः कम्बर इति श्रुति­सं­धि­सि­द्ध्यर्थं वकारोपजन उकारोपजनो वा छान्दसः समाश्रयणीयः । न वा उ एतन्म्रियसे मरि­ष्य­सी­त्या­दि­वत् ।
एनमित्थं सन्तं कमिति ।
उद्दि­श्ये­त्य­ध्या­हा­र्यम् । ब्रूचिशामिगुणेन चेति संगृ­ही­त­म­क­थि­त­क­र्मत्वं वा कथञ्चित् समर्थनीयम् एतद्वचनमिति कर्मा­न्त­रो­पा­दा­नात् । यद्य­प्ये­त­त्स­न्त­मि­त्यस्य प्राणिमात्रमिति टीकाया विवरणादीदृशं सन्तं मनु­ष्य­सा­मा­न्य­म­र्या­दा­म­न­ति­क्रम्य वर्त­मा­न­मि­त्यर्थो विवक्षित इति भाति तथापि छान्दो­ग्य­वि­व­र­णा­नु­सा­रा­दे­त­द्व­च­न­मा­त्थे­त्य­न्वयो दर्शितः । ब्राह्म­णा­य­न­मि­त्यस्य ब्राह्म­ण­वं­श्य­मि­त्यर्थः । नडादिभ्यः फगिति सूत्रेण नडादिगणपठिताद् ब्राह्मणशब्दाद् गोत्रापत्यार्थे फक्प्रत्यये फस्यायनादेशे च सति तद्रू­प­नि­ष्पत्तेः ।
इदं ब्राह्म­ण­वं­श्यत्वं वेषेण ज्ञातव्यमिति तज्ज्ञा­प­क­मु­प­न्यस्तं -
ब्राह्मणवेषमिति ।
निष्कव्याख्या हारमितीति ।
यद्यपि निष्कं पद­क­रु­च­क­श­ब्दा­भि­धेयं स्वर्णाभरणं हारो मणिमालेत्यस्ति लोके भेदव्यवहारः तथापि निष्क­श­ब्दो­क्त­स्याग्रे हारे त्वेति हारशब्देन विवरणादेवं व्याख्यातम् ।
अश्वतरीभ्यामिति ।
अश्वायां गर्दभादुत्पन्ना गर्द­भ्या­म­श्वा­दु­त्पन्ना वा स्त्रीव्य­क्ति­र­श्व­तरी ।
आ अधि­क­र­ण­स­मा­प्ते­रिति ।
अनेन भाष्ये शूद्राधिकार निषे­धा­र्थ­त्वे­ना­व­ता­रि­तानां संस्का­र­प­रा­म­र्शा­दि­त्या­दि­सू­त्रा­णा­मपि शूद्रा­म­न्त्र­ण­लि­ङ्गा­न्य­था­क­र­णा­र्थ­त्व­व­चने तल्लि­ङ्गा­व­ल­म्ब­नै­वा­धि­का­श­ङ्काऽत्र निराकरणीया । अन्यत्सर्वं पूर्वतन्त्र एव सिद्धमिह न व्युत्पा­द­नी­य­मिति सूचितम् ।
तथापि द्योतकतयेति ।
व्यभि­चा­र­म­भ्यु­पेत्य परिहारः । अस्मिन्प्रकरणे संव­र्ग­वि­द्या­न्व­यिनो ब्राह्मणस्य द्वितीयः क्षत्रिय इति नियमे तु नास्ति व्यभिचारः । ननू­प­न्य­स्त­लि­ङ्ग­सि­द्ध्यर्थं प्रथ­म­म­भि­प्र­ता­रिणः कापेययाज्यत्वं निर्द्धारणीयं तत्कुतो निर्द्धार्यते न हि भोजनार्थं कापे­या­भि­प्र­ता­रिणौ सहो­प­वि­ष्टा­वि­त्ये­ता­वता तयो: किञ्चि­त्सं­ब­न्धा­न्तरं सिध्यति । सिध्यद्वा तयो­रे­क­वि­द्य­त्व­मेव तत्सिद्ध्येत् । विद्या­ङ्गो­पा­ख्या­नेषु सहप्रस्थितानां प्राची­न­शा­ल­स­त्य­य­ज्ञा­दीनां तस्यैव संब­न्धा­न्त­र­स्या­न्यो­न्य­स्मा­द्वि­द्या­ङ्ग­ग­त­वि­शे­ष­ग्र­ह­णा­र्थ­त्वेन क्लृप्तत्वात् । तस्य कथ­ञ्चि­त्का­पे­य­या­ज्य­त्व­सि­द्धा­वपि नामभेदेन चित्ररथादन्यस्य तस्य चैत्ररथित्वं कुतः सिद्ध्यति समानान्वयानां समानान्वया याजका इति नियमाभावात् । कुलक्रमागता ऋत्विजः पितृभूताः कस्य चित्कस्य चिदाधानप्रभृति याव­ज्जी­व­मृ­त्विजो मनु­ष्य­भू­ता­स्तत्र तत्र कर्मणि दैवात् प्राप्ता ऋत्विजो देवभूता इति त्रिवि­धा­ना­मृ­त्विजां शाट्या­य­नि­शा­खायां दर्शितत्वाद् देव­भू­त­ऋ­त्वि­ग­भि­प्रा­ये­णैव राजसूये प्रतितन्त्रं दक्षिणाभेदेन तदा नेत­व्य­ऋ­त्वि­क्त्व­भे­देऽपि ऋत्वि­क्त्वा­धि­ष्ठा­न­भूताः पुरुषा राजसूयारम्भे यावत्समाप्ति नियता एव ग्राह्या न तु तत्र तन्त्रे भिन्नेऽ­भि­न्ना­पेक्षा कर्तुमुचिता काल­वि­शे­ष­क­र्त्त­व्येषु तन्त्रान्तरेषु कदा­चि­दृ­त्वि­ङ्मे­ल­नेन कर्म­वि­घ्न­प्र­स­ङ्गा­दि­त्ये­का­देशे राज­सू­या­न्त­र्ग­त­क­र्मणां भिन्न­त­न्त्रा­णा­मपि ऋत्वि­क्त­न्त्र­त्व­मु­क्तम् ।
तथा तस्य चित्र­र­थ­वं­श्य­त्व­सि­द्धा­वपि क्षत्रियत्वं कुतः सिध्यति एतेन वैचित्ररथं कापेया अयाजयन् तमे­का­कि­न­म­न्ना­द्य­स्या­ध्य­क्ष­म­कु­र्वँ­स्त­स्मा­च्चै­त्र­रथो नामैकः क्षत्र­प­ति­र्जा­यते इति चित्र­र­था­नु­ष्ठि­त­द्वि­रा­च­क्र­तु­म­हिम्ना तद्वंश्यैरपि क्षत्रपतित्वं लब्ध­मि­त्ये­ता­व­देव ह्युक्तं न तु तद्वंश्यानां क्षत्रियत्वम् अक्षत्रियस्यापि निषा­द­स्य­प­त्य­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन क्षत्र­प­ति­त्वो­प­प­त्ते­रि­त्या­श­ङ्क्याह -
सर्वं च वैदिकं लिङ्गमिति ।
अभिप्रतारिणा सह पठिते कापेये श्रुत्य­न्त­र­ब­लात् चित्र­र­थ­या­ज­क­त्वेन प्रत्य­भि­ज्ञा­य­माने कापे­य­या­ज्यो­य­म­भि­प्र­ता­रीति बुद्धिर्भवति । अविदितपूर्वस्य हस्तिनो निकटे दृश्यमाने पुरुषे हस्तिपकोयमिति प्रत्य­भि­ज्ञा­य­माने सत्ययमस्य शिक्षणीयो हस्तीति बुद्धिवद् ऋत्विक्षु पितृभूतानां मुख्यत्वात् पूर्व­रा­ज­च­रि­त्रेषु बहुशो याज्य­या­ज­क­कु­ल­व्य­व­स्था­द­र्श­नाच्च कापेययाज्यत्वेन चित्र­र­थ­वं­श्य­त्व­बु­द्धि­र्भ­वति । अथ यस्य ज्योतिरुक्थ्यः पूर्व­म­ह­र्भ­व­त्या­यु­रु­त्तर इति द्विरा­त्र­प्र­क­रणे श्रुत­स्यै­का­कि­न­मे­वै­न­म­न्ना­द्य­स्या­ध्यक्षं करो­ती­त्य­र्थ­वा­द­स्यैनं द्विरा­त्र­या­जि­न­मे­क­मेव भ्रातृ­व­र्गा­दि­ज्ञा­ति­मध्ये ऐश्व­र्य­स्या­ध्यक्षं करोतीत्यर्थः । ननु सर्वेष्वपि लोके­ष्वे­न­मे­क­मे­वै­श्व­र्य्य­स्या­ध्यक्षं करोतीति तद­धि­कै­श्व­र्या­दी­ना­मि­न्द्रा­दीनां सत्त्वात् ततश्च तदनन्तरश्रुते एतेन वैचि­त्र­र­थ­मि­त्यु­पा­ख्याने फलरूपतया श्रुतं क्षत्रपतित्वं ज्ञाति­प्रा­धा­न्य­रू­प­मिति ज्ञातीनां क्षत्रियत्वेन फलभागपि क्षत्रिय इति बुद्धिर्भवति । तत­श्चो­क्त­हे­त्व­व­ल­म्ब­न­बु­द्धीनां क्वचित्क्वचिद् बाधकोपनिपातेन प्रमा­त्वा­भा­वेऽ­प्यत्र बाध­का­भा­वे­नौ­त्स­र्गि­क­प्र­मा­त्व­ब­ला­दु­दा­हृ­त­लि­ङ्ग­सि­द्धि­रि­त्य­भि­प्रायः ।
अमा­त्य­प्रे­ष­णा­दि­नेति ।
वैश्याद् ब्राह्म­ण­क­न्यायां क्षत्ता नाम प्रजायते ।
जीवि­का­वृ­त्ति­रे­तस्य राजा­न्तः­पु­र­र­क्ष­णम् ॥
इत्यु­क्त­ल­क्ष­णस्य क्षतुरमा राज्ञः समीपे भावा­द्यौ­गि­क­म­मा­त्य­त्व­म­स्ती­त्य­मा­त्य­श­ब्देन निर्देशः । टीकायां रेफयुक्तः प्रष्ठ­श­ब्द­श्चेत् प्रष्ठोऽ­ग्र­गा­मि­नीति वैयाकरणनिपातेन तस्या­ग्र­गा­मि­वा­चि­त्वात् षष्ठीसमास एव ग्राह्यः । ऋकारयुक्तं पाठं दृष्ट्वा तु क्लिष्टः पर­स­प्त­म्य­न्त­प­द­ब­हु­व्री­हि­रा­श्रितः ।
तत् क्षत्रियस्य दृष्टमिति ।
इदमपि प्रायि­क­मु­ख्य­त्वा­भि­प्रा­य­लि­ङ्गम् । सम्भवति ह्यति­क्रा­न्त­म­र्या­दस्य शूद्रस्यापि बल­व­तोऽ­वे­ष्ट्य­धि­क­र­ण­द­र्शि­तया रीत्या राज्य­पा­ल­यि­तृ­त्वेन क्षतृ­प्रे­ष­णा­दि­कम् ।
आद्यसूत्र एवेति ।
न चाध्य­य­न­नि­य­म­सं­स्का­र­प­रा­म­र्शा­दिति सूत्रयिष्यत इति प्रथमसूत्रे स्थित्वो­क्त­मा­चार्यैः कथमिह तस्याद्यसूत्रे सूचितत्वमुच्यते । नैष दोषः । शूद्रशब्दस्य न्यायतो रूढ़ि­प्र­च्या­व­नार्थे प्रवृत्ते प्रथ­म­सू­त्रेऽ­ध्य­य­ना­भावं हेतु­मु­प­न्य­स्त­वतो भाष्यकारस्य तदु­प­पा­द­कोऽ­ध्य­य­न­सं­स्का­र­नि­य­मोऽ­प्या­द्य­सूत्र एव सूचित इत्यभिप्राय: । अत एवात्र सूत्रे संस्कारशब्दो विद्या­ङ्गो­प­न­य­न­प­र­त­यैव भाष्ये व्याख्यात इत्यालोच्य तद­भि­प्रा­या­नु­सा­रे­णात्र पुनरुक्तिशङ्का स्वयं त्वध्य­य­न­सं­स्का­र­नि­यमः शब्दा­रू­ढ­त्वा­त्सं­स्का­र­सू­त्रार्थ एव वक्तुमुचित इत्य­भि­प्रे­त्या­द्य­सूत्रे तथाऽवोचत् । कस्तर्हि स्वमते रूढ़ि­प्र­च्या­व­क­न्याय: सूच्यत इति सूत्रशेषसूचित एव तेन हि शुगा­द्र­व­ण­स्या­ख्या­यि­कया सूचितत्वात् । स बुद्धिस्थे इति अबु­द्धि­स्थ­रू­ढितो बुद्धिस्थयोगो बलीयानिति न्यायः सूचितः ।
उपसदनेति ।
ननु तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­दिति विहितं शिष्यकर्तृकं गुरु­क­र्म­क­मु­प­स­दनं तं होप­नि­न्य­इ­त्या­दि­लि­ङ्गा­व­ग­त­क­र्त­व्य­ता­कम् आचार्यकर्तृकं शिष्यकर्मकम् उपनयनमिति भेदसत्त्वात् कथं पर्यायतोक्तिः । उच्यते । शिष्येणोपसदने कृतेऽपि तस्या­चा­र्य­क­र्तृकं शिष्यभावं स्वस­मी­पा­व­स्था­ना­नु­म­त्या­दि­रू­पो­प­न­यनं विना विद्यो­प­दे­श­प­र्य­व­सा­यि­त्वा­सं­भ­वा­द्य­त्रो­प­स­द­न­मात्रं श्रुतं तत्र तदेवोपनयनस्य गमकमिति व्यञ्जयितुं गमकवाचिशब्दस्य गम्ये पर्यायतोक्तिः पर्या­यो­क्ता­लं­कारे । ननु शूद्रश्चतुर्थो वर्ण एव जातिरिति स्मृत्या द्विती­य­ज­न्म­रू­पो­प­न­य­नाऽ­सं­भ­वेऽपि सच्छू­द्रा­णा­म­म­न्त्रकं विद्याङ्गोपनयनं संभवति । मान­व­ध­र्म­शास्त्रे न च संस्का­र­म­र्ह­ती­त्ये­त­द­न­न्तरं
धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तिमनुव्रताः ।
मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥
इत्य­म­न्त्र­क­सं­स्का­रा­भ्य­नु­ज्ञा­नात् । तस्य वैशे­षि­क­नि­षे­ध­गो­च­र­द्वि­ती­य­ज­न्म­रू­पो­प­न­य­नाऽ­वि­ष­य­त्वेऽपि विद्या­ङ्गो­प­न­य­नाऽ­वि­ष­य­त्व­स्यापि कल्पने प्रमाणाभावात् । न च सत्यकामस्य शूद्र­स्व­भा­व­सि­द्धात् तत्त्वरहितवचनेन शूद्र­त्वा­भा­व­नि­र्द्धा­रणे सत्येव विद्याङ्गे सत्यकामोपनयने गौत­म­प्र­वृ­त्ति­लि­ङ्गेन शूद्रस्य विद्या­ङ्गो­प­न­य­नेऽपि निषे­धो­न्न­य­ना­त्सं­स्का­रा­भ्य­नु­ज्ञानं तद­ति­रि­क्त­वि­ष­य­मपि कल्प्यमिति वाच्यम् । गोत्र­प्र­श्न­लि­ङ्गेन सत्य­का­मो­प­न­य­न­स्या­ध्य­य­ना­ङ्गो­प­न­य­न­त्वा­व­गत्या तच्छू­द्र­त्वा­भा­व­नि­र्द्धा­र­णस्य तत्रै­वो­प­यो­गा­दिति चेत् । उच्यते । न चास्यो­प­दि­शे­द्ध­र्म­मि­त्यु­दा­ह­रि­ष्य­मा­ण­मा­न­व­व­च­ना­नु­सा­रेण तदीयस्य संस्का­रा­भ्य­नु­ज्ञा­नस्य शूद्रं प्रति विशिष्य येऽभ्यनुज्ञाताः पाक­य­ज्ञा­द­य­स्त­न्मा­त्र­वि­ष­य­त्व­क­ल्प­नौ­चि­त्यात् । विद्या­ङ्गो­पा­ख्या­न­श्रु­तस्य शूद्र­त्वा­भा­व­नि­र्द्धा­र­णस्य विद्यार्थताया अप्यु­प­प­त्ता­व­न्य­मा­त्रा­र्थ­त्व­क­ल्प­नाऽ­यो­गेन तस्य विद्या­ङ्गो­प­न­य­न­वि­द्यो­प­दे­शा­र्थ­ताया अपि कल्पनौचित्याच्च ।
अनृतं चातिवादश्च पैशुन्यमतिलोभता ।
निकृ­ति­श्चा­भि­मा­नश्च जन्मतः शूद्रमाविशत् ॥
इति मनूदितं शूद्र­भा­व­प्र­येा­ज­कम् ।
तान् हेति निषिध्यत इति ।
ननु समी­प­प्रा­प­ण­नि­षेधे कथं विद्योपदेशलाभः । नैष दोषः । शिष्य­भा­व­त­त्का­र्य­शु­श्रू­षा­द्य­नु­म­ति­पू­र्वकं वैधमुपनयनं निषिध्यते न तु समी­प­प्रा­प­ण­मा­त्र­रूपं लौकिकमपि । अत एव क्षत्रि­ये­णा­जा­त­श­त्रुणा वा लोके ब्राह्मणस्य ब्रह्म­वि­वि­दि­ष­यो­प­स­न्नस्य शिष्य­भा­वे­ना­नु­व्र­ज­न­म­न­नु­मत्य तं पाणौ गृहीत्वैव यष्टि­घा­तो­त्था­प­नाय सुप्तपुरुषसकाशं प्रति प्रस्थि­त­मि­त्या­म्ना­तम् । तत इह बालाकिः समित्पाणिः प्रतिचक्रामोप त्वा यानीति तं होवाचाजातशत्रुः प्रतिलोममेव तत्स्याद्यत् क्षत्रियो ब्राह्म­णा­नु­प­न­ये­देहि व्येव त्वाज्ञा­प­यि­ष्या­मीति तं पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतुरिति ।
ब्रह्मपराणां पुनः किमर्थं ब्रह्म­वि­वि­दि­षे­त्या­शङ्क्य व्याचष्टे -
अपरं ब्रह्मेति ।
त्रपु­ज­तु­भ्या­मिति ।
ननु शूद्राणां वेदश्रवणादिषु दण्डविधानेन निषेधावगमेऽपि वेद­वि­द्भ्योऽ­व­गत्य वेदा­ध्य­य­न­र­हि­तानां स्त्रीणामिव विद्यानुष्ठानं किं न स्यात् । तस्मात्
न शूद्राय मतिं दद्या­न्नो­च्छिष्टं न हविष्कृतम् ।
न चास्यो­प­दि­शे­द्धर्मं न चास्य व्रतमादिशेत् ॥
यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् ।
सोऽसंवृतं नाम तमः सह तेनैव गच्छति ॥
इति शूद्राणां ये वैशेषिकधर्माः ये च सामान्यधर्माः शूद्र­सा­धा­र­ण­स्त­द्व्य­ति­रि­क्त­वै­दि­का­र्थ­ग्रा­हणे सह तेनैव शूद्रेण गुरो­र्न­र­क­पा­तोक्तेः । कथं तर्हि भाष्ये तेषां पुरा­णे­ति­हा­सा­दि­मू­ल­वि­द्या­नु­ष्ठा­ना­भ्यु­प­गमः । श्रावयेच्चतुरो वर्णानिति स्मरणात् । तस्य दृष्टार्थत्वाय पुरा­णे­ति­हा­स­शै­व­वै­ष्ण­वा­द्या­ग­म­व­र्णि­त­य­ज­मा­न­क­र्तृ­क्र­वै­दि­क­म­न्त्रा­द्यु­च्चा­र­णाऽ­न­पे­क्ष­व्र­त­नि­य­मो­पा­स­नादि संभवतीति तदभिप्रायः ।
ननु दानस्य द्विजा­त्य­सा­धा­र­ण्योक्तिः दानं च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेत चेति स्मृत्य­न्त­र­वि­रु­द्धे­त्या­शङ्क्य व्याचष्टे -
द्विजातीनामिति ।
द्विजा­ती­ना­म­ध्य­य­न­मिज्या दान­मि­त्ये­त­द­न­न्तरं ब्राह्म­ण­त्या­धिकाः प्रव­च­न­या­ज­न­प्र­ति­ग्रहा इति प्रतिग्रहस्य ब्राह्म­णाऽ­सा­धा­र­ण्य­व­च­नात् पूर्ववाक्ये दानस्य प्रति­ग्र­ह­वै­ल­क्ष­ण्येन त्रैव­र्णि­क­सा­धा­र­ण्य­मात्रं विवक्षितं न तु शूद्रस्य दाननिषेध इति भावः ॥

कम्पनात् ॥३९॥ ननु श्रुतिबलाद् वाक्य­भे­दा­भ्यु­प­गमो न युक्तः । प्राणे बाह्य­वा­यु­भे­देऽपि तदुभयभेदे विष­य­वि­द्या­वि­ध्यै­क्येन तद­प्र­स­ङ्गा­दि­त्या­शङ्क्य प्रकारान्तरेण वाक्य­भे­द­प्र­सङ्गं दर्शयन्नवतारयति -
स्यादेतदिति ।
ननु बाह्यवायौ वज्रशब्दः कथं श्रुतिः वायु­वि­का­र­भू­ता­श­नि­वा­चि­न­स्तस्य वायावपि लक्ष­णा­व­श्य­म्भा­वा­दि­त्या­श­ङ्क्याह -
वायुपरिग्रह इति ।
अश­न्या­का­र­प­रि­ण­त­स्यैव वायेा­रु­पा­स्य­त्वा­ङ्गी­कारे वज्रशब्दः श्रुतिर्भवतीति भावः ।
ननु प्राणबाह्यवायू द्वावुपास्यौ किमि­त्य­भ्यु­प­ग­म्येते प्राण एक एवोपास्य इत्य­भ्यु­प­ग­म्यतां तृतीयपादे प्राण इत्य­स्या­नु­ष­ङ्ग­नि­मि­त्ता­र्थ­ता­ङ्गी­का­रेण तृतीयपादस्यापि प्राण­वि­ष­य­त्व­व­र्ण­नेा­प­प­त्ते­रि­त्या­श­ङ्क्याह -
न हि प्राण­मा­त्र­स्येति ।
न हि कश्चिदपि प्राणो वज्रो­द्य­म­न­हे­तु­रस्ति । यद्यनुषक्तस्य प्राणशब्दस्य प्राणभेदोपचारेण बाह्ये वायौ वृत्तिराश्रयते तदापि वज्रो­द्य­म­न­हे­तु­त्वेन बाह्य­वा­यु­रे­वो­पास्यः पर्यवस्येदिति इष्टापत्तिरेव । तथा सति वज्रशब्दस्य मुख्यार्थत्वं च शङ्काशूकरहितं भवतीति भावः । अत एवायमर्थ: पूर्व­प­क्षा­र्थ­त्वेन सिद्धान्ते प्रदर्शयिष्यते । ननु सूत्रे पक्ष­नि­र्दे­शा­भा­वेन न्यूनतामाशङ्क्य शब्दात्प्रमित इत्यनुवृत्त्या तत्परिहारः कृतः ।
तत्रानुवृत्तेन शब्दा­दि­त्य­ने­ना­त्रौ­चि­त्यात् प्राणशब्द एव हि निर्देष्टव्यः ततो न कश्चिदर्थः प्रमितोऽस्ति सिद्धा­न्त­स्थिते: प्रागि­त्या­श­ङ्क्याह -
शब्दोऽत्रेति ।
तथा च सर्वशब्दवशात् सर्व­ज­ग­त्क­म्प­यि­तृ­त्वेन यः प्रमितः सोऽत्र पक्ष इति भावः । सर्व­श­ब्द­स्यो­प­प­दा­नु­सा­रि­सं­को­चाऽ­सं­को­च­भेदे सत्यपि साकल्यमर्थ इति निश्चितमेव ।
निय­न्तृ­त्वा­दी­नीति ।
ननु निय­न्तृ­त्वा­दि­वत् प्राण­बा­ह्य­वा­यू­पा­स­न­मपि ब्रह्म­प्र­ति­प­त्त्य­ङ्ग­मिति प्रकरणाऽविरोधो वक्तुं शक्यः । एवं चोपा­स­न­स्या­मृ­त­त्व­फ­ल­की­र्त्त­न­मपि न विरुद्ध्यते । पश्वा­प्ति­फ­ल­क­सो­मा­पौ­ष्ण­प­श्व­ङ्ग­यू­प­प्र­कृ­त्यु­दु­म्ब­र­ता­वि­ध्य­र्थ­वादे ऊर्जं पशूनाप्नोतीति प्रधा­न­फ­ल­स्ये­वा­धा­ना­ङ्ग­पू­र्णा­हु­त्य­र्थ­वादे सर्वा­न्का­मा­न­वा­प्नो­तीति तदु­प­क­र्त्त­व्ये­ष्टि­सो­मा­दि­फ­ल­स्येव च ब्रह्म­प्र­ति­प­त्ति­फ­ल­स्या­नु­वा­दो­प­प­त्ति­रिति चेन्मैवम् । पूर्वा­प­र­म­न्त्र­प्र­ति­पा­द्य­स­र्व­लो­का­श्र­यत्वं शासितृत्वादिपदे तन्म­न्त्र­प्र­ति­पा­द्य­स्यापि दृष्टद्वारा प्रति­प­त्त्य­ङ्गत्वे संभ­व­त्य­दृ­ष्ट­द्वा­र­को­पा­स­ना­रू­प­त्व­क­ल्प­नाऽ­यो­गात् ।
एजति चेष्टत इति ।
न प्राणेन नापानेनेति मन्त्र­सि­द्धा­र्थ­प­र­त्वे­नेदं व्याख्यानम् । यद्यपि टीका­या­मे­ज­ती­त्ये­तत् स्वशा­स­ना­ति­ल­ङ्घने किमयं करिष्यतीति भयात् कम्पत इत्येवंपरं व्याख्यातं ब्रह्मणो हि बिभ्यदित्यादिना तदेव चोत्त­र­म­न्त्रा­नु­गुणं तत्रास्येति पदे­नै­त­न्म­न्त्र­प्र­कृतं भयहेतुं परामृश्य सामान्येन निर्दिष्टस्य तदी­य­स­क­ल­भ­य­हे­तु­त्व­स्या­ग्नि­सू­र्या­दि­प्र­सि­द्ध­दे­व­ता­भ­य­हे­तु­त्व­प्र­द­र्श­नेन स्थैर्यं क्रियत इत्ये­व­मे­क­वा­क्य­ता­सा­म­ञ्ज­स्यात् । तथापि ब्रह्म­स­द्भा­व­म­जा­नतां मनु­ष्य­प­शु­प­क्षि­स­री­सृ­पा­दीनां तच्छा­स­ना­ति­ल­ङ्घ­न­प्र­यु­क्त­भ­याऽ­भा­वेन सर्वशब्दस्य तत्स­द्भा­व­ज्ञा­तृषु संको­चा­व­श्य­म्भा­वेन पूर्वपक्षे संको­च­दो­षा­पा­द­न­म­लग्नं स्यादि­त्य­भि­प्रे­त्यैवं व्याख्यातम् । उत्तरमन्त्रस्य तु मह­द्भ­य­मि­त्यु­क्ता­र्थ­स्थि­री­क­र­णा­र्थ­त्वे­नै­त­दे­क­वा­क्यता साम­ञ्ज­स्य­म­श्नुते ।
तच्च तत एवेति ।
यद्यपि प्राणे ततो निःसृतं सर्वं जग­दे­ज­ती­त्य­वा­न्त­र­वा­क्य­भेदं विना योजयितुं शक्यं तथापि तथा योजनायां सर्वा­न्नि­म­न्त्रि­ता­ना­न­ये­त्य­त्रेव सर्वशब्दस्य संको­च­स­हि­ष्णु­त्व­शङ्का स्यात् सा मा भूदि­त्ये­त­द­र्थ­म­वा­न्त­र­वा­क्य­भे­देन व्याख्यातम् ।
व्यष्टिरिति ।
पृथक् पृथक् तत्त­त्प्रा­णा­दि­रू­पेण विविधा व्याप्ति­र्व्यष्टिः सम­न्ता­त्स­र्व­सा­धा­र­णेन सूत्ररूपेण व्याप्तिः समष्टिः । अशू व्याप्ताविति धातोरष्टिशब्दो व्याप्तिवाची । कम्पनस्य प्राण­सा­धा­र­ण्य­श­ङ्का­भि­भू­त­त्वा­द­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता ॥

ज्योति­र्द­र्श­नात् ॥४०॥
उत्कर्षवाचीति ।
ननु पूर्वपक्ष इव परशब्दयोगेऽपि फल­प्रा­प्ति­प­र­त्वा­भा­वोऽस्तु । मैवम् । पूर्वपक्षे प्राक् तयो­र्ध्व­मा­य­न्निति तावदादित्यं गच्छेदिति चोत्त­र­यो­रु­द्ग­म­ना­दि­त्य­प्रा­प्त्यो­रिह प्रत्य­भि­ज्ञा­ना­त्त­द्य­थै­ता­न्य­मु­ष्मा­दा­का­शा­दि­त्या­द्य­व्य­व­हि­त­पू­र्व­वाक्ये परं ज्योति­रि­त्य­स्या­दि­त्य­ते­जः­प­र­त्वस्य क्लृप्तत्वाच्च तदनुरोधेन फल­प्रा­प्ति­प­र­त्वा­भा­वो­प­प­त्ता­वपि तदुभयमविगणय्य विवे­क­ज्ञा­ना­द्य­र्था­न्तरं वर्णयतः सिद्धान्तिनः पक्षे परशब्दानुरोधेन फल­प्रा­प्ति­प­र­त्व­स्या­व­श्य­व­क्त­व्य­त्वा­दिति भावः ।
श्रुति­सं­को­चा­दिति ।
क्त्वाश्रुतेः पूर्व­का­ल­त्व­म­प­हाय समा­न­क­र्तृ­क­त्व­मात्रे वृत्तिः संकोच: ।
आदि­त्य­प्र­क­र­णा­च्चेति ।
यद्यपीह तस्य तदुपासनस्य वा प्राधान्यमिति प्रधा­न­स्या­ङ्गा­का­ङ्क्षस्य वचनं प्रकरणमिति पूर्वा­धि­क­र­णो­क्त­ल­क्षणं प्रक­र­ण­मा­दि­त्यस्य नास्ति । सन्नि­धा­न­मा­त्र­मपि बहु­व्य­व­हि­त­त्वा­न्नास्ति तथापि मूर्द्ध­न्य­नाड्या निष्क्र­म्या­दित्यं प्राप्तस्य केन द्वारेण निरु­पा­धि­काऽ­मृ­त­त्व­प्रा­प्ति­रि­त्या­का­ङ्क्षायां परं ज्योति­रि­त्या­दि­वा­क्ये­ना­दि­त्यस्य समीपे ब्रह्मलोके स्थितस्य तस्य तत्रो­त्प­न्न­ज्ञा­नेन तत्प्राप्तिरिति तदुपपादनस्य कर्त्त­व्य­त्वा­त्त­दा­काङ्क्षा युक्ता स्यादि­त्य­प्रा­प्ति­व­चनं तत्प्र­क­र­ण­त्वे­नेा­प­ल­क्षितं द्रष्टव्यम् ।
ध्वनितेति ।
पूर्ववत् श्रुति­सं­को­चा­भा­वा­दिति टीकया कण्ठोक्ता प्रत्यु­दा­ह­र­ण­सं­गतिः प्रागुपन्यस्ता इदानीं प्रत्युतेति तदनन्तरोक्त्या ध्वनिता दृष्टा­न्त­सं­ग­ति­रु­प­न्य­स्तेति विवेकः ।
स्वरार्थमिति ।
अह्नः खः क्रताविति सूत्र­वि­हि­त­प्र­त्य­या­देशे आद्यु­दा­त्त­श्चेति सूत्रेण तदा­दे­री­का­र­स्यो­दा­त्त­त्वे­ना­ही­न­श­ब्दस्य मध्यो­दा­त्त­स्व­र­ला­भा­र्थ­मि­त्यर्थः ।
सिद्धा­न्ति­त­त्वा­दिति ।
अहीनो वा प्रकरणाद् गौण इति पूर्व­प­क्ष­व्या­व­र्त­न­पू­र्व­क­मु­त्क­र्ष­स्या­सं­यो­गात्तु मुखस्य तस्मा­द­प­कृ­ष्ये­तेति सूत्रे सिद्धा­न्ति­त­त्वा­दि­त्यर्थः । निवीतं गलवेणिकेति केचित् । परिकरबन्ध इत्यन्ये ।
तदुभयालम्बनेन व्याचष्टे -
कण्ठालम्बीति ।
इष्टदेवता यागो­द्दि­ष्ट­दे­वता ।
आन­र्थ­क्य­प्र­ति­ह­ता­ना­मिति ।
अवघातस्य व्रीह्यर्थत्वे तन्नियमोऽनर्थकः स्याद् व्रीहिषु वैतु­ष्य­स्यो­पा­या­न्त­र­तोऽपि संभवेन व्रीहिस्वरूपे तदन्वयादन्यस्य च तद­न्व­य­यो­ग्य­स्या­प्र­ती­ते­रि­त्या­न­र्थ­क्य­प्र­ति­हतां व्रीहिश्रुतिं भङ्क्त्वा प्राक­र­णि­काऽ­पू­र्वी­य­त्व­ल­क्ष­णाऽऽ­श्री­यत इत्या­दि­क­मि­हो­दा­ह­र­णम् ।
आन­र्थ­क्य­स्यो­क्त­त्वा­दिति ।
स्तुति­र­प्य­न­र्थ­क­प्रा­येति भावः ।
न च क्रम­मु­क्त्य­भि­प्रा­य­मिति न च तद्द्वारेण क्रममुक्तिरिति ग्रन्थयोः पौन­रु­क्त्य­मा­शङ्क्य दूषणैक्येऽपि शङ्का­मु­ख­भे­दे­ना­पौ­न­रुक्त्यं दर्शयति -
तत्र वक्तव्यमिति ।
अत्र प्रजा­प­ति­वि­द्यायाः सगु­णो­पा­स­न­वि­ष­य­त्व­श­ङ्कया जीवा­भि­न्न­नि­र्वि­शे­ष­प्र­क­र­णा­नु­वृत्तिः सूत्रे दर्शनादिति हेतुकृता न स्पष्टे­त्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता । सा शङ्का तत्प­रि­हा­र­श्चे­त्यु­भ­य­मपि दह­रा­धि­क­र­णे­स्फु­टी­कृ­त­म­स्माभिः ॥

आका­शोऽ­र्था­न्त­र­त्वा­दि­व्य­प­दे­शात् ॥४१॥
नैवमिहेति ।
नन्विहापि नाम­रू­प­व्या­क­र्तृत्वं स्पष्टं ब्रह्म­लि­ङ्ग­मस्ति निर्वहितेत्यस्य निरुपसर्गाभावे वोढृपरत्वेऽपि तत्सत्त्वेन कर्तृपरत्वादिति चेदुच्यते । वै नामेति निपातद्योतिता प्रसि­द्धि­रि­हो­द्दे­श्य­वि­शे­ष­ण­मि­त्या­काशो वै नामेत्यतः प्रसिद्धाकाश इति धर्मनिर्देशो लभ्यते । अतस्तस्य विशे­ष­ण­स्या­प्र­सि­द्धा­का­श­रूपं ब्रह्म व्यावर्त्त्यं पर्य्यवस्यति । न हि भूतवद् ब्रह्म लोक­वे­द­सा­धा­र­ण्ये­ना­काश इति प्रसिद्धम् । सर्वाणि ह वा इमानि भूतानीत्यत्र तु वैश­ब्द­द्यो­ति­त­प्र­सि­द्धे­र्ना­काशे धर्मिण्यन्वयः किं तु सर्व­ज­ग­त्का­र­ण­त्व­रूपे धर्मे तस्य धर्मस्य लोके प्रसि­द्धि­र्ना­स्ती­त्य­गत्या केवलवैदिक्येव ग्राह्या । सा च ब्रह्म­लि­ङ्गा­न्व­यि­नीति सिद्धान्त एवोपयुज्यते । तस्मादिहेव तत्र न प्रसि­द्धि­लि­ङ्ग­म­व­लम्ब्य पूर्व­प­क्ष­श­ङ्का­व­काश इति विशेषः । अतः प्रसि­द्धि­लि­ङ्गा­नु­गृ­ही­तो­प­क्र­म­ग­ता­का­श­श्रु­ति­वि­रो­धात् सत्यपि निरुपसर्गे यथा कथ­ञ्चि­द­व­का­श­रू­पा­धि­क­र­ण­तया वोढृत्वमेव निर्व­हि­ते­त्य­ने­नेा­च्यत इत्यु­प­पा­द­नी­य­मिति भावः ।
नाम­रू­पा­भ्या­म­न्य­त्व­मिति ।
अन्त­रा­श­ब्दो­क्त­म­ध्य­त्वो­प­ल­क्षि­तेन सार­त्वे­ना­न्य­त्व­मा­क्षि­प्यत इति भावः ।
निर्वोढा य आकाश इति ।
यथा देव­द­त्त­श्चै­त्र­मै­त्रयोः प्रेषयिता यस्तावदन्तरा वर्तते स यज्ञदत्त इत्युक्ते देव­द­त्त­य­ज्ञ­द­त्त­यो­र्भेदः प्रतीयते एव­मि­हा­प्या­का­श­ब्र­ह्म­णो­रिति भावः ।
नियन्तृत्वमिति ।
व्याक­र्तृ­त्व­म­स्येदं वाच्यमिति नियमनरूपमिति भावः ।
सत्य­प्य­व­का­श­दा­तृत्व इति ।
सक­ल­ना­म­रू­पा­व­का­श­दा­तृत्वं भूताकाशस्य वस्तुतो नास्त्येव स्वात्मनि वृत्तिविरोधात् । यथा कथञ्चित्तदस्तु नाम तथापि तन्निर्वहितेति निरुपसृष्टेन नोच्यते किं तु तद्व्या­क­र्तृ­त्व­मेव । न च प्रसि­द्ध­लि­ङ्गा­नु­रो­धेन निर्व­हि­ते­त्ये­त­द­व­का­श­दा­तृ­त्व­प­र­तया योज्यमिति शङ्कनीयम् । यतो निपातसमुदायो नाका­श­श­ब्द­वि­ष­यस्य तेन रूपेण प्रसि­द्धि­द्यो­तकः किं तु नाम­रू­प­नि­र्वो­ढृ­त्व­रू­प­वि­धे­य­व­त्त्वेन । तथैव व्युत्पत्तेः । न हि देवदत्तः खलु विद्वा­नि­त्युक्ते यः प्रसिद्धो देवदत्तः स विद्वान्न त्वप्र­सि­द्ध­स्त­दन्यो देवदत्त इति प्रतीयते किं तु विद्वत्त्वेन देवदत्तः प्रसिद्ध इत्येव प्रतीयते । एवं च सक­ल­ना­म­रू­प­नि­र्वो­ढृ­त्वेन श्रुत्य­न्त­र­प्र­सिद्धं ब्रह्मै­वा­का­श­श­ब्दो­क्त­मिति लभ्यते । एवं च यद्यपि नामभेदेन धर्मिनिर्देशाद् भिन्न­ध­र्म्मि­नि­र्दे­शाच्च देव­द­त्त­श्चै­त्र­मै­त्र­येा­रि­त्या­दि­लौ­कि­क­वा­क्य­च्छा­या­पत्त्या तिस्र एव साहू­स्ये­त्या­दि­वै­दि­क­वा­क्य­च्छा­या­पत्त्या चाका­श­ब्र­ह्म­णो­र्भेदः प्रतीयते तथापि नाम­रु­प­व्या­क­र्तृ­त्व­त­द्व­द­न्य­त्व­यो­र्ब्र­ह्म­लि­ङ्ग­तया तद्वशादभेदोऽपि प्रतीयते भेदाऽ­भे­द­प्र­त्या­य­को­प­नि­पाते चाऽभे­द­प्र­त्या­य­का­नु­रोध एव युक्तः प्रति­प­त्ति­ला­घ­वात् । एक­वा­क्य­ता­नु­ग्र­हात् । ते यदन्तरेति प्रकृ­त­प­रा­म­र्शि­य­त्प­दा­नु­ग्र­हाच्च । किं च नाम­भे­द­ध­र्मि­भे­द­रू­प­भे­द­लि­ङ्गा­व­ग­ति­रा­का­श­ब्र­ह्म­वि­ष­य­भा­ग­द्व­य­प­रा­म­र्शा­पेक्षा विलम्बिता नाम­रू­प­व्या­क­र्तृ­त्व­त­द्व­द­न्य­त्व­रू­प­ब्र­ह्म­लि­ङ्गा­व­ग­ति­रे­कै­क­भा­ग­मा­त्र­प­रा­म­र्शा­पेक्षा शीघ्रा । ततश्च यथाऽऽ­ग्ना­वै­ष्ण­व­मे­का­द­श­क­पालं निर्वपेत् सर­स्व­त्या­ज्य­भागा स्याद् बार्ह­स्प­त्य­श्व­रु­रि­त्यत्र प्रकृ­ताऽऽ­ग्ने­याऽ­ग्नी­षो­मी­य­स्था­न­सा­म्या­द्वा­क्य­त्र­य­प­रा­म­र्शा­पे­क्ष­त्वेन विल­म्बि­ता­दा­ग्ना­वै­ष्ण­व­बा­र्ह­स्प­त्य­यो­र्ना­ग्ने­या­ग्नी­षो­मी­य­ध­र्म­प्राप्तिः किं तु तत्त­द्वा­क्य­मा­त्र­प­रा­म­र्शा­पे­क्ष­त्वेन शीघ्राद् द्विदे­व­त्यै­क­दे­व­त्य­सा­मा­न्या­दा­ग्ने­या­ग्नी­षो­मी­य­ध­र्म­प्राप्ति: तथात्रापि विल­म्बि­त­लि­ङ्गान्न भेदावगतिः किं तु शीघ्रलिङ्गात् तद­भे­दा­व­ग­ति­र्भ­व­ती­त्येव युक्तम् । एव­म­र्था­न्त­र­त्वा­दि­व्य­प­दे­श­स्या­का­श­ब्र­ह्म­भा­व­सा­ध­क­त्व­प­र्य­व­सा­न­म­स्प­ष्ट­मि­त्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गता । ननु टीकायां ते यदन्तरेत्यस्य ते नामरूपे अन्तरा यद्वर्तत इति योजनया ब्रह्मणो नाम­रू­प­सा­र­त्व­म­र्थ­मुक्त्वा ते नामरूपे यदाकाशमन्तरेति ग्रन्थेन ते नामरूपे यदन्तरा यस्य ब्रह्मणोऽन्तरा मध्ये वर्तते इति छान्दो­ग्य­वि­व­र­ण­द­र्शि­त­यो­ज­ना­न्त­रेण नाम­रू­पा­धा­र­त्व­म­र्था­न्त­र­मु­च्यत इति व्याख्यातुं शक्यम् । तद्व्याख्यानं श्रुता­न्त­रा­श­ब्द­स्याऽ­व्य­व­हि­ता­न्व­य­स्वा­र­स्या­नु­कूलं च भवति । तथा किमिति न व्याख्यातमिति चेत् । उच्यते । अन्तराशब्दयोगे त्वां च मां चान्तरा कम­ण्ड­लु­रि­त्या­दा­व­व­धि­द्व­य­नि­र्दे­श­द­र्श­नेन श्रुता­व­न्त­रा­श­ब्दस्य व्यव­हि­ता­न्व­य­पक्ष एव युक्तः । उदा­हृ­त­टी­का­वा­क्य­मपि व्यवहितान्वयेन पूर्वो­क्ता­र्थो­प­सं­हा­र­प­र­मि­त्य­भि­प्रेत्य तस्य तथा व्याख्यानं न कृतम् । तथा व्याख्यानेऽपि न दोषः ।
ततः खड्गं समुद्यम्य रावणः क्रूरविग्रहः ।
वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिःश्वसन् ॥
इति भट्टिकाव्ये विनाऽ­प्य­व­धि­द्व­य­म­न्त­रा­श­ब्द­द­र्श­नात् ॥

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन ॥४२॥
कर्तृस्तुतिरिति ।
नन्व­न­न्वा­ग­त­पु­ण्ये­नेति स न साधुना कर्मणा भूयानिति च प्रति­पा­द्य­स्या­त्मनः कर्मास्पर्श उच्यते स कथं कर्मा­धि­का­रि­स्तुतिः स्यात् । नैष दोषः । तयोर्वाक्ययोः सुषुप्तौ कर्म­फ­ल­भो­गा­भा­वा­भि­प्रा­य­त्वात् । स न साधुनेत्याद्यपि सुषुप्तविषयमेव । य एषोऽ­न्त­र्हृ­द­या­का­श­स्त­स्मिन् शेत इत्युपक्रमात् सुषु­प्ति­प्र­स­ङ्गा­भावे मृत्वापि कर्मसंबन्ध उक्त एवेति भावः । ननु संसार्यनुवादेन तस्याऽ­सं­सा­रि­ब्र­ह्म­रू­प­ता­वि­धा­न­प­र­मिदं प्रक्ररणमिति सिद्धान्तस्य सुषु­प्त्यु­त्क्रा­न्ति­सू­त्रा­नु­गु­ण­म­ङ्गु­ष्ठ­वाक्य इव सुषु­प्त्यु­त्क्रा­न्ति­वा­क्य­यो­र्जी­व­ब्र­ह्म­प­र­प­द­सा­मा­ना­धि­क­र­ण्या­भा­वात् प्रत्यु­ताऽ­भे­द­प्र­ति­कू­लस्य भेदव्यपदेशस्य सत्त्वा­च्चे­त्या­शङ्क्य विक­ल्पो­त्त­र­त्वेन सूत्र­द्व­य­प्र­वृ­त्ति­रि­त्या­श­येन टीकायां विकल्पः कृतः ।
तत्र प्रथमविकल्पस्य निरा­ल­म्ब­न­ता­मा­शङ्क्य तदालम्बनं प्रद­र्श­य­न्न­व­ता­र­यति -
नन्वसिद्धे इति ।
जीवातिरिक्त ईश्वर एव नास्ति चेत­न­वि­ष­य­स­र्व­श्रु­तीनां क्लृप्त­जी­व­वि­ष­य­त्वो­प­पत्तौ तासु कासां चित्त­द­ति­रि­क्त­वि­ष­य­त्व­क­ल्प­नस्य गौरवपराहतत्वात् । न चान­न्द­म­या­दि­वा­क्यानां जीवा­द्य­ति­रि­क्ते­श्व­र­वि­ष­यत्वं प्राचीनाधिकरणैः प्रसाधितमिति शङ्कनीयम् । जीवा­ति­रि­क्त­मी­श्वरं तदसाधारणानि श्रुति­लि­ङ्गा­दीनि च सिद्धवत्कृत्य खलु तैस्त­त्प्र­सा­धि­तम् । ईश्वर एव नास्तीति मूले कुठारनिधाने तदी­य­श्रु­ति­लि­ङ्गा­दी­नीह निरस्तानीति तैस्त­त्प्र­सा­धितं कथमवतिष्ठेत । एवं च ब्रह्म­श्रु­ति­त्वा­भि­मताः सर्वे शब्दा यथायथं जीवसामान्यस्य जीवविशेषाणां च श्रुतयः । लिङ्गानि च कार­ण­त्वा­दी­न्य­दृ­ष्ट­द्वा­र­काणि प्रशं­सा­र्था­न्यौ­प­चा­रि­का­व­स्था­भे­द­कृ­त­भे­दा­व­ल­म्ब­नानि च सन्ति जीवविषयाण्येव । अत्र­त्य­भे­द­व्य­प­दे­शोऽ­प्या­त्म­श­ब्दस्य स्वरू­प­प­र­त्वे­नौ­प­चा­रिक: । अतो न सिद्धा­न्त­सि­द्धि­रिति प्रथमविकल्पस्य हृदयमित्याशयः । प्राग्वि­चा­रि­तानां वाक्या­ना­मी­श्व­र­म­भ्यु­प­ग­म्या­प्य­न्य­प­र­त्व­म­स्त्विति शङ्कानिरासार्थं प्रदर्शिता ये श्रुति­लि­ङ्गा­द­य­स्तै­रेव मा भूदीश्वर इति शङ्कापि निरस्ता भवति । न हि लाघवमात्रलोभेन सर्वज्ञं सर्व­श­क्ति­क­म­ना­दि­स­क­ल­प्र­प­ञ्च­प्र­वा­ह­स्र­ष्टारं सक­ल­जी­व­ज­ड़­वि­ल­क्ष­ण­मे­क­मी­श्वरं प्रति­पा­द­य­ता­मे­ता­व­ता­मौ­प­नि­ष­द­वा­क्या­ना­म­ति­क्लि­ष्ट­न­यनं युक्तमिति प्रथ­म­वि­क­ल्प­दू­ष­णा­भि­प्राय: ।
द्वितीयं विकल्पमिति ।
इहेश्वरो न संकीर्त्यत इति द्विती­य­वि­क­ल्पोऽपि द्वेधा विकल्पनीयः किं संसा­रि­व्य­ति­रि­क्त­त्वे­नात्र न संकीर्तितः; उत सत्यपि व्यावहारिकभेदेन संकीर्तने तात्त्वि­काऽ­भे­द­बो­ध­ना­नु­कूलं तत्संकीर्तनं नास्तीति । तत्रा­द्य­क­ल्प­नि­रासः प्रथ­म­सू­त्र­वि­व­क्षितो न चात्रा­पी­त्या­दि­ग्र­न्थेन प्रदर्श्यत इति भावः ।
अनु­वा­द­मा­त्र­म­न­र्थ­क­मिति ।
कर्म­स्तु­ति­र­प्य­न­र्थ­क­प्राया साऽपि न प्रतीयते । साधुकर्मणि सति तत्प्र­यु­क्त­भू­य­स्त्वा­व­श्यं­भा­वेन तन्नि­षे­धा­नु­प­पत्त्या ततः कर्मभावस्यापि सिद्धेः । तदसिद्धौ वा तस्य वाक्यस्य कृतमपि साधु कर्म निष्फ­ल­मि­त्य­र्थ­प­र्य­व­स­न्न­तया ततः कर्मनिन्दाया एव प्रतीतेः कर्म­वि­धि­स­न्नि­धा­ना­भा­वा­दपि साऽपि न संभवतीति भावः ।
तस्मात् सुषु­प्यु­त्क्रा­न्त्या­दि­त्या­दि­टी­का­ग्र­न्थेन प्रथ­म­सू­त्रा­र्था­नु­वा­द­पू­र्वकं पत्या­दि­सू­त्रा­र्थो­प­न्या­सेन द्विती­य­वि­क­ल्प­नि­रासः कृतस्तमाह -
अन्ते चेति ।
स वा एष महानज आत्मा योऽयं विज्ञानमय इत्या­द्यु­प­सं­हारे अभेदबोधनानुकूलं सामा­ना­धि­क­र­ण्य­म­स्तीति भावः । परमेश्वर एव नास्तीति प्रथ­म­वि­क­ल्प­नि­रा­सस्तु सूत्राद् बहिरेवेति द्रष्टव्यम् । यद्वा भावं तु बादरायण इति सूत्रा­द­स्ती­त्यस्य पूर्व­सू­त्रा­द­र्था­न्त­र­त्वा­दि­व्य­प­दे­शा­दि­त्यस्य चानु­वृ­त्ति­म­भि­प्रे­त्यास्ति जीवातिरिक्तः परमेश्वरः तस्य तद्भि­न्न­त्व­ज्ञा­प­कानां तत्स्र­ष्टृ­त्वा­दि­हे­तूनां पूर्वो­त्त­रा­धि­क­र­ण­वि­ष­य­वा­क्येषु विशिष्य प्रतिपादनादिति तदर्थमादाय प्रथ­म­वि­क­ल्प­नि­रासः कृत इति नेतव्यम् ।
वशः शक्तिरिति ।
वश आयत्ततायां स्याद् वश इच्छा­प्र­भु­त्व­येा­रि­त्य­भि­धा­न­कोशः ॥
वैकु­ण्ठा­चा­र्य्य­वं­शा­म्बु­धि­हि­म­कि­र­ण­श्री­म­द­द्वै­त­विद्या-
चार्य श्रीर­ङ्ग­रा­जा­ह्व­य­वि­स्तृ­त­य­शो­वि­श्व­जि­द्या­जि­सूनोः ।
ग्रन्थे वेदा­न्त­क­ल्प­द्रु­व­र­प­रि­मले सर्व­जि­द्या­जि­नोऽ­स्मिन्
पूर्णः पादोऽजनिष्ट भ्रमरहितहिते निर्वि­शे­ष­प्र­धानः ॥
इति श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥

आनु­मा­नि­क­म­प्ये­के­षा­मिति चेन्न शरी­र­रू­प­क­वि­न्य­स्त­गृ­ही­ते­र्द­र्श­यति च ॥१॥
परशब्द आहेति ।
नन्वत्र परशब्दः श्रैष्ठ्यवचनः “इन्द्रियेभ्यः परा ह्यर्था” इत्या­दि­पू­र्व­वा­क्येषु श्रुतस्य तस्य तथात्वात् , सांख्यै­र­प्य”व्य­क्ता­त्पु­रुषः पर” इत्यत्र श्रुतस्य तथैव व्याख्येयत्वात् , प्रधा­न­स्या­का­र्य­त्वात् , कठवल्लीषु श्रुते -
“इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा मह­तोऽ­व्य­क्त­मु­त्त­मम्”॥
इति मन्त्रान्तरे परशब्दस्थाने उत्त­म­श­ब्द­द­र्श­ना­च्चेति - चेत् , सत्यम् ; इह पूर्व­पू­र्व­स्मा­दु­त्त­रो­त्त­रस्य श्रैष्ठ्य­मु­च्य­मानं यस्य यथा संभवति तस्य तथोपपादनीयम् । अतः स्मार्त­क्र­म­प्र­त्य­भि­ज्ञा­ना­दिह महदादिपदानां स्मार्त­म­ह­दा­दि­त­त्त्व­त्र­य­प­र­त्व­स्थितौ मह­त्त­त्वा­त्प्र­धा­नस्य श्रैष्ठ्यं कारणत्वेनैव भवेदिति पर्य­व­सि­ता­र्थ­क­थ­न­मि­दम् , न तु पर­श­ब्दा­भि­धे­य­क­थ­न­मिति न विरोधः ।
पूर्वत्र हीति ।
एवं च टीकायां व्यभिचारशब्दो दोषमात्रपर इति ईक्ष­त्य­धि­क­र­णा­र्था­नु­वा­द­क­वा­क्य­श्रु­तस्य तस्यासंभवे पर्यवसानं प्रव­र्त­यि­ष्य­मा­णा­धि­क­र­णा­र्था­नु­वा­द­क­वा­क्य­श्रु­त­स्या­ति­व्या­प्ते­रि­त्या­शयः।
सांख्यानां श्रुति­स्मृ­त्यो­रिति ।
इदं न सर्व­श्रु­ति­स्मृ­त्य­भि­प्रा­यम् ; यागा­दि­श्रु­ति­त­न्मू­ल­स्मृ­तीनां सांख्य­म­तेऽ­प्य­नु­मा­न­सि­द्धा­र्था­नु­वा­दि­त्वा­भा­वात् , त्रिविधं प्रमाणं तत्सिद्धौ सर्वसिद्धेरिति कपिलसूत्रे सांख्यसप्तत्यां च शब्दस्य स्वत­न्त्र­प्र­मा­ण­त्वेन परिगणनात् , किं तु “महतः पर­म­व्य­क्त­मि”त्यु­दा­हृ­त­श्रु­त्य­व्य­क्त­वि­ष­य­सां­ख्य­स्मृ­त्य­भि­प्रा­यम्। उदा­हृ­त­श्रु­ति­र्ही­न्द्रि­या­दि­पु­रु­षा­न्त­प­रा­प­र­भा­व­प­रे­न्द्रि­या­दी­ना­मि­वा­व्य­क्त­स्या­प्य­न्य­त्प्रा­प­क­म­पे­क्षते । अव्य­क्त­वि­ष­य­सां­ख्य­स्मृतिः स्मृतित्वादेव मूलमानमपेक्षते। तद्यद्यपि ’सदेव सोम्ये­द­मि’त्यादि कमिति वक्तुं शक्यम् , कपि­ल­सू­त्र­वा­र्तिके प्रथमाध्याये सद्विद्यादीनां प्रधानपरत्वस्य व्यव­स्था­पि­त­त्वात् ; तथापि ’इन्द्रियेभ्यः परा’ इत्या­दि­क­म­नु­मा­न­सि­द्धा­र्थ­वि­ष­य­मि­त्येव तन्मतम् । अत एव स्थूला­त्प­ञ्च­त­न्मा­त्र­स्यो­त्प­त्त्या­दीनि परार्थत्वात् पुरु­ष­स्ये­त्य­न्तानि कपिलसूत्राणि तद्वा­र्ति­क­कृ­ते­न्द्रि­येभ्यः परा इत्या­दे­रि­न्द्रि­या­र्था­दि­पु­रु­षा­न्ता­ना­मु­त्त­रो­त्त­रो­त्कर्षे तात्पर्यं वर्णयितुं प्रवृत्तानीति प्रतिपादयतोक्तं रूपा­दि­बु­द्धि­का­र्या­नु­मे­येभ्य इन्द्रियेभ्यः स्थूल­भू­त­का­र्या­नु­मे­येभ्यः पञ्च­त­न्मा­त्रे­भ्यश्च पर­स्ता­त्का­र­ण­त्वे­ना­नु­मेयो मनः­श­ब्दो­दि­तोऽ­हं­कारः। उभ­ये­षा­म­हं­का­र­का­र्य­त्वा­वि­शे­षेऽपि महा­भू­त­प्र­कृ­ति­त्वेन विशेषेण तन्मा­त्रा­णा­मि­न्द्रि­येभ्यः परत्वम्। एव­म­व्य­क्त­प­र्य­न्तानां पूर्व­का­र­ण­त्वे­ना­नु­मे­य­त्वात् । परत्वं पुरुषस्य व्यक्तात् परत्वं ।
भोक्तृत्वादिति ।
अत एव चानु­मा­नि­क­म­प्ये­के­षा­मिति सूत्रे­णा­नु­मा­न­सि­द्ध­म­व्य­क्तम् एकेषां शाखायामनूद्यत इत्यु­क्त­मि­त्य­भि­प्रेत्य तयो­र­नु­मा­न­सि­द्धा­र्था­नु­वा­दि­त्व­मु­क्तम् ।
सत्कार्यवादे इति ।
इत्थं सांख्यानां सत्कार्यवादः। घटोत्पत्तेः प्रागपि मृद्यनभिव्यक्ता घटावस्था वर्तते ; तदनभिव्यक्ति: पिण्डा­व­स्थाऽ­वृ­त­त्वाद् घटसामग्र्या पिण्डा­व­स्थो­प­मर्दे सति खनने कूपजलमिव क्षालने पटशौक्ल्यमिव च प्रतीयते । न च तथा सति मुद्ग­र­पा­ता­न­न्त­र­मपि घटा­व­स्था­प्र­ती­ति­प्र­सङ्गः, इष्टापत्तेः ; कपालानि चूर्णीकृत्य जल­मृ­द­न्त­र­सं­यो­ज­न­म­र्द­न­व्या­पा­रै­र्मा­र्दवं प्रापय्य दण्ड­च­क्रा­दि­मे­लने घटा­भि­व्य­क्ति­द­र्श­नात्। न च - दग्धपटकारणानां पुनः पटभावो न दृश्यत इति – वाच्यम् : तद्भस्मनां क्षितिपतितानां कार्पा­स­त­रु­फ­ल­प­रि­ण­ति­क्र­मेण पटभावोपपत्तेः। न च तन्त्ववस्थायाः पटावस्थावरणत्वे विर­ल­त­न्त्वा­र­ब्ध­पटे पटा­व­स्थाऽ­न­भि­व्य­क्ति­प्र­सङ्गः ; फलबलेन संयो­ग­वि­शे­ष­र­हि­त­त­न्त्व­व­स्था­या­स्त­दा­व­र­क­त्वा­दिति। अतो मृदा­दि­क­म­व्य­क्त­घ­टा­द्य­व­स्था­वद् घटा­द्या­त्म­ना­न­भि­व्य­क्त­मि­त्य­व्य­क्त­श­ब्द­प्र­योग उपपन्न इति भावः ।
सामान्येनात्र व्याप्तिरिति ।
यद्य­द्रू­पा­नु­रक्तं प्रतीयते, तद­न­भि­व्य­क्त­त­द्रू­पा­नु­र­क्त­का­र­ण­मिति सामान्यव्याप्तौ प्रागु­क्त­री­त्याऽ­न­भि­व्य­क्त­घ­टा­व­स्था­दि­वि­शि­ष्ट­मृ­दा­दि­का­र­णको घटादिरेव दृष्टान्तः । पक्षे च सुख­दुः­ख­मो­ह­गु­ण­क­व­स्तु­प्र­कृ­तिकं तद्गुणकत्वाद् घटवदिति घटो येन प्राप्यते तं प्रति सत्त्व­गु­णो­द्भ­वात् सुखरूपः , यदीयः सोऽन्ये­ना­प­ह्रि­यते तं प्रति रजोगुणोद्भवाद् दुःखरूपः , यस्य तस्मि­न्नु­पे­क्षया निरीक्षणाभावः तं प्रति तमो­गु­णो­द्भ­वा­न्मुह वैचित्य इति धात्व­र्था­नु­ग­मे­ना­ज्ञा­न­रूपो मोहो भवति। तानि च घटा­व­स्था­पे­क्षाणि सुखादिरूपाणि मृद­व­स्था­या­म­प्य­न­भि­व्य­क्तानि सन्त्येव।
कारणगतेति ।
कारणगतं यदव्यक्तं कार्यं तदेव शक्तिर्न तद्व्यतिरेकेण शक्तिर्नाम किंचि­द्व­स्त्व­स्तीति भावः। नृशृ­ङ्ग­व­त्का­र­ण­त्वा­यो­गाद् इत्युपलक्षणम्। तिलेभ्य एव तैलं न सिकताभ्य इत्या­दि­व्य­व­स्थि­त्य­यो­गा­दि­त्यपि द्रष्टव्यम्।
अन­भि­व्य­क्त­का­र्या­श्र­योऽ­स्तीति ।
अन्यथा तद­न­न्त­र­क­ल्पेऽ­त्य­न्ताऽ­सत उत्पत्तौ नृशृ­ङ्गा­दे­र­प्यु­त्प­त्ति­प्र­सङ्ग इति भावः।
ननु किं प्रकरणं ? कश्च परिशेषः ? कथं च ताभ्या­म­व्य­क्त­श­ब्दस्य शरी­रा­र्थ­त्व­सिद्धिः? इत्या­का­ङ्क्षायां तत्सर्वं भाष्ये विवक्षितं संक्षिप्य विशदयति -
अयं भाव इति।
रथा­दि­रू­पि­ता­न्येव गृह्यन्त इति ।
प्रक­र­णा­म्ना­त­त्वेन बुद्धौ विपरिवर्तमानानि षट्संख्यया च समानानि इन्द्रियादीनि गृह्यन्त इत्यर्थः। ननु विष्णु­प­द­श­ब्दोक्तः पुरुषः स्वरूपेण प्रति­पि­पा­द­यि­षि­त­तया न प्रधानम् , किंतु निरतिशयपरत्वेन प्रति­पि­पा­द­यि­षि­त­तया ; पर­मि­त्यु­प­क्रा­न्तस्य परत्वस्य सा काष्ठे­त्यु­प­पा­द­नात् अत­स्त­न्नि­र­ति­श­य­प­र­त्व­प्र­ति­पा­दनं कृत्स्नस्य जगतः पर­त्वा­व­धि­त­याऽ­ङ्ग­भा­व­म­पे­क्षते । न च कृत्स्नं जगत् रूपकवाक्ये गृहीतम् ; शरी­रे­न्द्रि­या­र्थ­म­नो­बु­द्धि­भो­क्तॄ­णा­मेव तत्र ग्रहणात्। अत­स्त­दा­का­ङ्क्षा­नु­सा­रेण सांख्या­भि­म­त­पु­रु­षा­व­र­च­तु­र्विं­श­ति­त­त्त्वा­त्म­क­स­क­ल­प्र­प­ञ्च­स­म­र्प­क­त्व­मे­वा­त्रे­न्द्रि­या­द्य­व्य­क्ता­न्त­श­ब्दानां युक्तम् ; दश ज्ञान­क­र्मे­न्द्रि­याणि दश भूततन्मात्राः मनोऽन्तःकरणं बुद्धिरहङ्कारः महानात्मा मह­त्त­त्त्व­म­व्यक्तं प्रधानमिति सांख्याभिमतानां चतु­र्विं­श­ति­त­त्त्वानां ग्रहणसंभवात् । यद्यपि सांख्यानां महत्तत्त्व एव बुद्धिशब्द आत्मशब्दश्च न महत्तत्त्वे ; तथापि परत्वावधितया सक­ल­त­त्त्व­नि­र्दे­शा­का­ङ्क्षा­नु­सा­रेण सांख्यतत्त्वे प्रत्य­भि­ज्ञा­प­क­भू­य­स्त्वा­नु­सा­रेण च कार्ये कार­णो­प­चा­रा­द­ह­ङ्कारे बुद्धिशब्दः महत्तत्त्वे व्याप­क­त्वा­भि­प्रा­ये­णा­त्म­शब्दः । ‘यच्छे­द्वा­ङ्म­नसी प्राज्ञ­स्त­द्य­च्छे­ज्ज्ञान आत्म­नी’त्य­त्रै­वो­प­रि­त­न­मन्त्रे ज्ञानेऽ­प्या­त्म­श­ब्द­द­र्श­ना­दिति समर्थयितुं शक्य­मि­त्या­शङ्कां निव­र्त­यि­तु­मे­व­कारः। न सांख्या­भि­म­ता­ना­मपि सर्वेषां तत्त्वानामिह ग्रहणं ; संभवति अर्थ­श­ब्द­स्ये­न्द्रि­य­स­म­भि­व्या­हा­रे­णे­न्द्रि­येभ्यः परत्वलिङ्गेन चेन्द्रि­य­ग्रा­ह्य­प­र­त्वात् , इन्द्रि­ये­भ्योऽ­र्थानां पर­त्व­स्ये­न्द्रि­याणां पुरु­ष­व­शी­क­र्तृ­ताया अर्थो­प­हा­रा­धी­न­तया वशीकृतानामपि तेषा­म­ति­सु­न्द­रा­र्थ­स­न्नि­धाने क्षोभदर्शनेन च समर्थनीयत्वात् । यदि साक्षाद् भोग्या­ना­मि­न्द्रि­य­ग्रा­ह्याणां पुरु­षाऽ­व­र­त्वो­क्ते­रे­त­त्सा­ध­न­त्वेन परम्परया पुरु­षा­र्थ­प­र्य­व­सा­यिनां भूतसूक्ष्माणां तत्कै­मु­ति­क­न्या­येन सिद्ध्यतीति सांख्य­त­त्त्व­ग्र­हणे सर्व­त­त्त्व­व्या­पि­प­र­त्वा­व­धि­ता­प्राप्तिः समर्थ्येत , तर्हि संनि­हि­त­ग्र­ह­णेऽपि कण्ठोक्त्या कैमुतिकन्यायेन च कृत्स्नस्य जग­त­स्त­त्प्राप्तिः समर्थयितुं शक्येति व्यर्थः प्रक­र­णा­म्ना­त­बु­द्धि­वि­प­रि­व­र्त­मा­न­वै­दि­क­प­रि­त्या­गस्य विप­री­त­त­त्त्व­प­रि­ग्र­हश्च। अवश्यं च कठ­व­ल्ली­ष्वे­वो­त्त­र­त्रा­म्नाय तयोः
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्।
सत्त्वादधि महानात्मा मह­तोऽ­व्य­क्त­मु­त्त­मम् ॥
अव्यक्तात्तु परः पुरुषो व्यापको लिङ्ग एव च।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति॥
इति मन्त्रयोः कृत्स्नस्य जगतः पुरु­षा­व­र­त्व­सि­द्ध्यर्थं कैमुतिकन्यायः समाश्रयणीयः ; तत्रा­र्था­ना­म­पा­ठात् , स इहाप्यस्त्विति भावः।
एवं प्रक­र­ण­व­शा­दि­हे­न्द्रि­या­दयो रूप­क­वा­क्या­म्नाता एव ग्राह्या इति सामान्यतः सिद्धा­वि­हा­व्य­क्त­श­ब्देन शरीरं ग्राह्यमिति विशेषः परि­शे­षा­त्सि­द्ध्य­तीति दर्शयति -
एवं स्थिते इति ।
ननु यथो­प­पा­द­यि­ष्य­मा­ण­पा­रि­शे­ष्य­नि­मि­त्त­प्र­त्य­भि­ज्ञया शरीरोपस्थितिः , तथा सांख्य­त­न्त्र­सि­द्ध­म­ह­द­व्य­क्त­पु­रु­ष­क्र­म­प्र­त्य­भि­ज्ञया प्रधा­नो­प­स्थि­ति­रस्ति , किम­त्रा­न्य­त­र­ग्र­हणे विनि­ग­म­क­मि­त्या­का­ङ्क्षायां तत्र विनिगमकं बलाबलविभागं दर्शयति -
पौरुषेयेति ।
प्रधा­न­श­री­र­प्र­त्य­भि­ज्ञा­प्रा­ब­ल्य­हे­त्वो­र्मध्ये प्रक­र­णा­धी­त­प­दा­र्था­श्र­य­त्वात् शरी­र­प्र­त्य­भि­ज्ञा­हेतुः प्रबल इति तमुपपादयति -
रथत्वेनेति ।
इतरथेति ।
ननु नास्ति निष्प्र­यो­ज­न­त्वम् ; न हि पर­त्वा­व­धि­त्वे­ना­न्व­या­र्थ­मा­त्म­श­री­रा­दयो रथिरथादिभावेन रूपिताः । तत्र रथि­र­था­दि­रू­प­ण­स्या­नु­प­यो­गात् , तत्रैव पर­त्वा­व­धी­न्द्रि­या­द्या­म्ना­न­स­त्त्वे­ने­त­रत्र इन्द्रि­या­दि­ग्र­ह­णा­न­पे­क्ष­णाच्च, किं तु निदि­ध्या­स­नो­प­क­र­णानां तेषां वशी­का­र्य­त्वार्थं , वशीकृतानि ह्येतानि तदुपकरणानि भवन्ति। यतस्तत्रैव श्रूयते –
यस्त्व­वि­ज्ञा­न­वा­न्भ­व­त्य­यु­क्तेन मनसा सदा ।
तस्ये­न्द्रि­या­ण्य­व­श्यानि दुष्टाश्वा इव सारथेः॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ इति ॥
सत्यम् ; रथिरथादिरूपेण वशी­का­र्य­त्व­ज्ञा­प­ना­र्थ­मिति तज्ज्ञापनमपि वशीकार्याणां परापरभावविवेचनं विना न प्रयो­ज­न­प­र्य­व­सायि ; यत्नेन वशी­का­र्य­मु­पे­क्ष्या­न्य­व­शी­क­र­ण­प्र­वृत्तौ प्रयो­ज­न­ला­भाऽ­सं­भ­वात्। अतो वशी­का­र्य­ता­ज्ञा­प­न­रू­प­स्व­प्र­यो­ज­न­सि­द्ध्य­र्थ­मेव रथित्वादिना रूपिताः षडपि इन्द्रियेभ्यः परा ह्यर्था इत्या­दि­वा­क्या­न्व­य­म­पे­क्षन्त इत्यस्ति शरीरस्यापि तदन्वयापेक्षा। तत्र हीन्द्रि­ये­भ्य­स्त­द्वि­षयाः वशीकार्यत्वे पराः वश्ये­न्द्रि­य­स्यापि विष­य­स­न्नि­धा­वि­न्द्रि­य­वि­जृ­म्भ­णात् । तेभ्योऽपि मनः परं मनसि विष­य­ध्या­न­प्र­वृत्ते विष­याऽ­सं­नि­धा­नेऽपि रागविजृम्भणात्। तस्मादपि बुद्धिः परा ; इदमित्थं कर्त­व्य­मि­त्य­ध्य­व­सा­या­भावे मन­सोऽ­कि­ञ्चि­त्क­र­त्वात्। ततोऽप्यात्मा परः ; बुद्धि­वृ­त्ते­र­प्या­त्मा­धी­न­त्वात् । तस्मादपि शरीरं परं तदा­य­त्त­त्वा­त्स­र्वे­षा­मपि तत्त­दि­न्द्रि­या­र्थ­म­नो­बु­द्धि­प्र­यु­क्त­पु­रु­ष­व्य­व­हा­रा­णाम् । अतो हित­मि­त­मे­ध्या­श­ना­दिभिः शरी­र­व­शी­क­र­णेऽ­त्य­न्त­मेव प्रयतितव्यमिति वशीकार्यत्वे परापरभावो विविच्यते । यद्य­पी­न्द्रि­येभ्यः परा इत्यादेः कृत्स्नस्यापि सर्वापेक्षया पुरुषपरत्वे महा­ता­त्प­र्य­मि­त्या­ध्या­ना­धि­क­रणे निरूपयिष्यते। तथापि महा­ता­त्प­र्य­वि­ष­यस्य तस्यैव प्रमि­ता­वु­पा­य­त्वेन वर्ण्य­मा­न­मु­त्त­रो­त्त­र­प­रत्वं यया कयाचिद् विध­यो­प­पा­द­नी­य­मिति प्राची­न­व­शी­का­र्य­त्व­ज्ञा­प­न­प्र­यो­ज­न­प­र्य­व­सा­नार्थं विश्व­स्मा­दिन्द्र उत्तर इतिवत् सर्वस्मात् परः पुरुष इत्ये­ता­व­द­नुक्त्वा क्रमि­क­प­रा­प­र­भा­व­व­र्ण­नस्य साफल्यार्थं च प्रद­र्शि­त­प्र­का­रे­णे­न्द्रि­या­दीनां पराऽ­प­र­भा­वेऽ­वा­न्त­र­ता­त्प­र्य­मपि युज्यत एव। रूपि­ता­न्ये­वे­त्ये­व­का­रेण प्रक­र­णा­म्ना­ते­न्द्रि­या­दि­ग्र­हणे कस्य चिन्न्यायस्य सूचने कृतेऽपि सर्वसाधारणमेव न्यायान्तरं शरीरे दर्शितमिति द्रष्टव्यम् ।
श्रेष्ठवचन इत्यर्थ इति ।
श्रेष्ठ्यं च वशी­का­र्य­ता­पेक्षं विवक्षितमिति न तत्प्र­यो­ज­क­त्वे­नापि कार­ण­त्व­म­पे­क्ष­णी­य­मिति भावः।
शरीरमेवेति ।
ननु - रूप­क­वि­न्य­स्त­श­री­र­गृ­ही­ते­रिति वक्तव्यम् ; विशेषणस्य पूर्व­नि­पा­ति­त्वा­दिति – चेद् , न ; तथा सति हि रूप­क­वि­न्य­स्त­व्य­ति­रि­क्त­मपि शरीरमङ्गीकृत्य तद्व्या­व­र्त­नार्थं विशेषणमिति स्याद् , रूप­क­वि­न्य­स्ते­न्द्रि­या­दि­व्या­व­र्त­न­मि­हे­ष्यते, तत्तु शरीरविशेषणेनैव लभ्यत इति तल्लाभार्थं विप­री­त­वि­शे­ष­ण­वि­शे­ष्य­भा­व­वि­व­क्षया शरीरं पूर्वं निवेशितम् ।
रूपकेण रथेनेति ।
स्वेन रूपेण रथत्वेनोपमेयं रूप­व­त्क­रो­ती­त्यर्थे रूपवच्छब्दात् तत्करोतीति णिचि णाविष्ठवद्भावेन मतुब्लोपे टिलोपे रूपीत्यतो धातोः कर्तरि ण्वुलि णेरनिटीति णिलोपे च सति रूप­क­श­ब्द­नि­ष्पत्तिः।
रूपितमिति ।
रूप­व­त्कृ­त­मि­त्यर्थः । रूपीत्यतः पूर्व­व­त्स­ना­द्य­न्त­धातोः कर्मणि क्तप्रत्यये वला­द्या­र्द्ध­धा­तु­क­नि­मित्ते इडागमे निष्ठायां सेटीति णिलोपे च सति रूपि­त­श­ब्द­नि­ष्पत्तिः।
भाष्य­टी­क­यो­स्त­त्त्वाऽ­त­त्त्वा­भ्या­म­नि­र्वा­च्य­त्व­म­व्य­क्त­प­द­प्र­वृ­त्ति­नि­मि­त्त­मि­त्यु­क्त­म­युक्तं न व्यज्यत इति व्युत्प­त्ति­ब­ला­द­स्प­ष्ट­त्वस्य तत्प्र­वृ­त्ति­नि­मि­त्त­त्वा­दि­त्या­शङ्क्य व्याचष्टे -
प्रमाणैरिति ।
व्युत्प­त्ति­वा­क्य­ग­तस्य व्यज्यत इत्यस्यात्र निरूप्यत इत्यर्थो ग्राह्यः ; अविद्यायां प्रत्य­क्षा­दि­प्र­माणैः स्पष्टा­या­म­स्प­ष्ट­त्व­रू­प­प्र­वृ­त्ति­नि­मि­त्त­त्वा­भा­वा­दि­त्या­शयः।
अप्रधानेनेति ।
पर­मे­श्व­र­प्रे­य­त्वे­नाऽ­स्व­त­न्त्र­यै­वाऽ­वि­द्य­याऽ­न्तः­क­र­णा­दि­रू­पेण परिणतयेत्यर्थः । अप्रधानेति स्थाने क्वचि­द­ज्ञा­ने­नेति पाठ: सुगमः । मायादिकमिति पाठान्तरम्। अवि­वे­क­प्र­ति­यो­गि­त्वे­नापी त्यपिशब्देन प्रप­ञ्चो­पा­दा­न­त्वे­नापि प्रधानं नाभ्यु­प­ग­न्त­व्यम् ; प्रप­ञ्च­स्या­वि­द्या­वि­ष­य­ब्र­ह्म­वि­व­र्त­त्व­प्र­ति­पा­द­ना­दिति दर्शयति –
निरवद्यमितीति ।
‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनमि’ति श्रुतिः ।
निर्दोषेति ।
न च दोष­वा­च्य­व­द्य­श­ब्दोऽ­य­म­ज्ञा­न­म­प­हाय शोकादिमात्रे संकुचितवृत्तिः कल्पयितुं युक्तः ; साक्षाच्च ’निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्त’ इति मोह­श­ब्दि­ताऽ­ज्ञा­नाऽ­ना­श्र­यत्वं श्रूयते, नित्यमुक्त इति बन्ध­क­रा­हि­त्योक्त्या च तदेव स्थिरीक्रियते । अज्ञानमेव हि मूलभूतं बन्धकम्। एवं ज्ञाऽज्ञौ द्वाव­जा­वी­शाऽ­नी­शा­विति श्रुतिरपि जीव एवाज्ञानाश्रयो न ब्रह्मेत्यत्र प्रमाणम्। मायिनं तु महेश्वरमिति श्रुता­वि­नि­प्र­त्य­यस्तु गृही धनी रथीत्यादाविव संब­न्धा­न्त­र­वि­ष­य­त्वेन चरितार्थः।
बिम्बं त्विति ।
तथा च बिम्ब­भू­ते­श्व­र­वि­षया निर­व­द्य­त्वा­दि­श्रुतिः , जीव­स्याऽ­ज्ञ­त्व­श्रु­ति­स्त्व­ज्ञा­न­का­र्य­भ­य­शो­का­दि­भा­क्त्व­प­रेति भावः ।
स्वरूपस्यैवेति ।
बिम्बस्य स्वरूपाऽनतिरेके बिम्बस्य यन्निरवद्यत्वं तत्स्व­रू­प­स्यै­वेति पर्यवसितमिति स्वरू­प­स्याऽ­वि­द्या­श्र­यत्वं न युक्तं , बिम्ब­प्र­ति­बि­म्बा­नु­ग­त­स्व­रू­प­स्याऽ­वि­द्या­श्र­यत्वे च बिम्बस्य निरवद्यत्ववचो रिक्तमेव स्यादिति भावः।
ननु - मुख­प्र­ति­मु­खा­नु­ग­त­मु­ख­मा­त्र­स्यो­पा­ध्या­श्र­य­त्वेऽपि यथा न बिम्ब­स्यो­पा­धि­सं­सर्ग:, तथेहापि स्यादि­त्या­श­ङ्क्याह -
मुखमात्रस्य त्विति ।
ननु परि­च्छि­न्न­त्व­म­प्र­यो­ज­क­मि­त्य­प­रि­तो­षाद् वस्तुतस्तत्रापि मुखमात्रस्य नोपाधिसंसर्गः ; बिम्बे तत्सं­स­र्गाऽ­प्र­तीतेः , किं तूपा­धि­वि­ष­य­ता­मा­त्र­मि­त्याह -
अपि चेति ।
मुखमात्रस्य त्विति ।
प्राग­व­ता­रि­तोऽ­ध­स्त­न­ग्रन्थः केषुचित्कोशेषु अपि चेति ग्रन्थमध्ये न त्वित्यतः प्राक् पठ्यते तस्मिन्पाठे मुख­मा­त्र­स्यो­पा­धि­सं­सर्ग इत्ये­त­द­भ्यु­पे­त्यापि प्रकृते तन्न्या­या­न­व­ता­र­हेतुं वैषम्यं दर्शयितुमयं ग्रन्थ इति योजनीयम् ।
परि­च्छि­न्न­त्वा­दिति ।
नन्वप्रयोजकमिदं वैषम्ये ; परि­च्छि­न्न­व­द­प­रि­च्छि­न्न­स्या­प्यु­पा­धि­सं­स­र्ग­सं­भ­वा­दि­त्या­श­ङ्क्याह -
न त्विति ।
अयमाशयः - निर्विशेषे यत्काल्पनिकं विशेषं संपादयति तत्स्व­क­ल्पि­त­वि­शे­षो­प­हित एव संसृज्यते, यथा प्रदेशभेदरहिते नभस्यवकाशात्मके संसृज्यमानो घटः स्वाव­च्छे­द­कृ­त­प्र­दे­श­भे­दो­प­हित एव त्वस्मिन् संसृज्यते , प्राच्या­दि­दि­ग्वि­भा­गो­पा­ध­य­श्चो­द­या­दि­द­शा­प­न्न­त­प­ना­दयः स्वाव­च्छे­द­कृ­त­वि­भा­गो­प­हित एव प्राच्या­दि­दि­ग्वि­शेषे संसृज्यन्ते कालोपाधयश्च नय­न­प­रि­स्प­न्दा­दयः स्वाव­च्छे­द­कृ­त­व­र्त­मा­ना­दि­भे­दो­प­हित एव कालविशेषे संसृज्यन्ते, त एव खल्विह घटो न तत्र प्राच्यां तपनो न प्रतीच्याम् ; इदानीमयमस्ति न प्रागासीद् , इत्यादिव्यवहारः । एवमिहाप्यहमज्ञो न त्वीश्वरः ज्ञाऽज्ञौ द्वौ द्वाव­जा­वि­त्या­दि­लौ­कि­क­वै­दि­क­व्य­व­हा­र­द­र्श­ना­द­ज्ञा­न­कृ­त­भे­दो­प­हिते जीवे एवाज्ञानं संसृज्यत इति युक्तम् । न च - अज्ञानस्य जीवाश्रयत्वे बन्ध­मो­क्ष­यो­र्वै­य­धि­क­र­ण्या­पातः , मोक्षदशायां जीवत्वाभावेन मोक्षस्य स्वरु­पा­श्रि­त­त्वा­दिति – वाच्यम् ; ब्रह्म­ण्य­न­ति­प्र­स­ङ्गार्थं जीव­त्वो­प­धा­न­म­र्या­दा­भ्यु­प­ग­मेऽ­प्य­ज्ञा­नस्य तदु­प­हि­त­स्व­रू­पा­श्रि­त­त्वाऽ­न­पा­यात् , न हि स्वकृ­त­भे­दो­प­हि­ताऽऽ­का­श­दि­क्का­ला­श्रया घटादयो नाका­शा­द्या­श्रयाः। एतेन शाखावच्छिन्ने वृक्षे कपि­सं­यो­ग­व­द­न्या­व­च्छे­द­कृ­त­भेद एवा­श्र­येऽ­न्य­स्या­सं­की­र्णा­व­स्थि­ति­रु­प­पा­द­नीया , न स्वावच्छिन्ने एवाऽऽ­त्मा­श्र­या­दि­त्या­दि­शङ्का दूरनिरस्ता वेदितव्या। किं च कपि­सं­यो­गा­दि­ष्वपि स्वाव­च्छे­द­कृ­त­भे­दो­प­धा­न­मे­वा­श्र­यितुं युक्तं शाखावच्छेदेऽपि सैव गतिराश्रयणीया ; अन्य­थाऽ­न­व­स्था­द्या­प­त्ते­रिति।
तस्मादीश्वरस्य प्रति­बि­म्ब­धा­रि­णीति ।
तथा चेश्वरस्य चोपा­धि­मा­या­प­रि­णा­म­रूपे कामकृती , परिणामश्च प्रपञ्चः सर्वसाधारणः अज्ञातसत्तायोगी चेत्युपपद्यत इति भावः।
जीवा­वि­द्या­वि­वर्त इति ।
जीवा­वि­द्या­वि­ष­ये­श्व­र­वि­वर्त इत्यर्थः ।
ब्रह्म­वि­क्रि­येति ।
न ब्रह्मो­पा­धि­मा­या­प­रि­णाम इत्यर्थः ।
प्रतिमाणवकेति ।
वर्णेषु यद् ध्वनि­ग­तो­दा­त्ता­दि­वै­षम्यं प्रति­मा­ण­व­क­व­र्त्य­वि­द्या­कृतं तद्वैशिष्ट्येन क्लृप्तमस्येति वेदविशेषणम्। इदमुपलक्षणं शुक्ति­र­ज­ता­दि­सा­धा­र­ण्य­प्र­सि­द्धे­रपि। यदि तत्र युग­प­द्भ्रा­म्य­द्ब­हु­पु­रु­षा­वि­द्या­कृ­त­मे­क­मेव रजतं कस्यचिद् भ्रमनिवृत्तौ पुन­र्भ्र­मा­नु­वृ­त्ति­स्तदा तदि­त­र­स­क­ल­पु­रु­षा­वि­द्या­कृतं रजतान्तरमिति साधा­र­ण्य­मु­प­पा­द्यते तदा स एव न्यायः प्रपञ्चे योजनीयः ।
तदिदमाह -
अधिष्ठानेति ।
वर्णग्रहणं शुक्त्या­दे­र­प्यु­प­ल­क्ष­णम् । नन्व­धि­ष्ठा­नैक्यं प्रपञ्चे नास्ति ; विय­दा­द्य­धि­ष्ठा­न­ब्र­ह्मै­क्येऽपि तत्त­द्दे­हे­न्द्रि­या­द्य­धि­ष्ठा­न­जी­व­भे­दात् देहे­न्द्रि­या­दिकं हि जीवाधिष्ठानकम् ; अत एव ज्योतिरधिकरणे टीका कौक्षेयं हि ज्योति­र्ज्जी­व­भा­वे­ना­नु­प्र­वि­ष्टस्य परमात्मनो विकारो जीवाभावे देहस्य शैत्या­ज्जी­व­त­श्चौ­ष्ण्याज् ज्ञायत इति। अयं न्यायो देहादावपि तुल्यः ; जीवोत्क्रमणे देहा­दि­वि­श­र­ण­द­र्श­नात् ।
तस्मा­द­धि­ष्ठा­नै­क्या­भा­वाद् नेह साधा­र­ण्य­मु­प­प­द्यत इत्याशङ्क्याह -
सर्व­प्र­त्य­क्त्वा­दिति ।
वस्तु­तोऽ­धि­ष्ठा­नै­क्य­मि­हा­प्य­स्तीति भावः ।
स्वेन्द्रि­या­दि­व­दिति ।
न हि मायिकत्वं व्याव­हा­रि­क­सत्त्वे प्रयोजकत्वेन क्लृप्त­मा­वि­द्य­कत्वं तु तवापि तथा क्लृप्त­मे­वे­न्द्रि­या­दा­विति भावः।
न माया­प्र­ति­बि­म्ब­स्येति ।
ननु - इदं दूषणं स्वमतेऽपि तुल्यं ; न हि स्वमते नास्ति सविशेष ईश्वरः न च तस्य मुक्त­प्रा­प्यत्वं तज्ज्ञा­ना­त्स­र्व­वि­ज्ञानं चास्ति अस्ति चेन्मा­या­प्र­ति­बि­म्ब­स्यै­वास्तु , कोन्वत्र विशेषः। न च - अविद्या प्रतिबिम्बस्य जीव­स्या­वि­द्यो­च्छेदे तत्प्र­ति­बि­म्ब­भावो गच्छति परं , न प्रति­बि­म्बा­न्त­र­भावो भवति। एक­प्र­ति­बि­म्ब­वि­ज्ञा­नाच्च न सर्व­प्र­ति­वि­म्ब­त­द्ध­र्म­वि­शे­ष­वि­ज्ञानं भवतीत्यस्ति विशेष इति वाच्यम् । कूप­म­ध्य­नि­हि­त­घ­ट­ज­ला­न्त­र्ग­त­स­वि­तृ­क­र­म­ण्ड­ल­प्र­ति­बि­म्बस्य घटनाशे कूप­ज­ल­प्र­ति­बि­म्ब­ता­प­त्ति­वद् व्यष्ट्य­वि­द्या­प्र­ति­बि­म्ब­स्या­वि­द्या­नाशे व्याप­क­स­म­ष्टि­मा­या­प्र­ति­बि­म्ब­ता­प­त्ति­स­म्भ­वाद् व्याप­को­पा­धि­प्र­ति­बिम्बे व्यष्ट्यु­पा­धि­प्र­ति­बि­म्बा­ना­म­न्त­र्भू­त­त्वेन तज्ज्ञानात् सर्व­वि­ज्ञा­नो­प­पा­द­न­सं­भ­वा­च्चेति – चेत् , उच्यते ; मायोपाधिः किमर्थं कल्पनीयः किं मायाप्रतिबिम्ब एव मुक्त­प्रा­प्य­त्व­स­र्व­वि­ज्ञा­न­श्रु­ति­वि­षयो वाच्य इति तद्वि­ष­य­ला­भा­र्थ­मुत जग­द्भ्र­मो­प­यो­ग्य­धि­ष्ठा­ना­व­र­ण­सि­द्ध्य­र्थ­मिति विक­ल्प­द्व­य­नि­रा­सार्थं श्लोकद्वयम्। निर्वि­शे­ष­ब्र­ह्म­भा­व­प्राप्तिः पर­म­मु­क्ति­रि­त्य­ङ्गी­का­रा­न्मा­या­प्र­ति­बि­म्बस्य मुक्तप्राप्यतेव नेष्यते ; अधिष्ठानज्ञानेन तद­ध्य­स्त­स­र्व­वि­ज्ञा­न­स्यो­प­पा­द­नी­य­त्वात् । प्रति­बि­म्ब­स्या­ध्य­स्त­त्व­नि­य­मेन माया­प्र­ति­बि­म्ब­स्या­प्य­ध्य­स्त­तया तस्य महा­का­श­री­त्याऽ­न­व­च्छि­न्नस्य ब्रह्मण इवा­धि­ष्ठा­न­त्वा­यो­गा­त्त­ज्ज्ञा­नतः सर्वविज्ञानं न संभवतीति न तदु­भ­य­श्रु­ति­वि­ष­य­ला­भार्थं मायोपाधिः कल्प्य इति प्रथमश्लोकार्थः । अधि­ष्ठा­ना­व­र­ण­म­न्ध­का­र­व­द्वि­ष­या­श्रि­ते­नै­वेति न नियमः ; नयनपटलवद् ग्रहीतृगतेनापि तदुपपत्तेरिति द्विती­य­श्लो­कार्थः ।
भ्रमे कर्तृ­दो­ष­व­द्वि­ष­य­दो­षे­णापि भाव्यमिति तदर्थं माया­व­र­ण­क­ल्प­न­मि­त्या­शङ्क्य तन्नियमभङ्गमाह -
पित्तस्येवेति ।
जीवाऽविद्ययोः पौर्वा­प­र्या­भा­वेऽपि तद­ध्या­स­यो­स्त­द­स्त्वि­त्या­शङ्क्य तन्नियमो नास्ति बीजा­ङ्कु­र­व­द­ना­दि­त्वा­दि­त्याह -
पौर्वापर्ये चेति ।
अप्रसङ्गेनेति च्छेद इति ।
तथा च प्रकृ­त­हा­नाऽ­प्र­कृ­त­प्र­क्रि­या­प्र­स­ङ्ग­प­रि­हा­रे­णै­क­वा­क्यत्वं संभ­व­ती­त्य­व्य­व­हि­ता­न्वयो लभ्यत इति भावः। तृतीयान्तस्य न वाक्यभेदो युज्यत इति व्यवहितेनान्वये तु न प्रश्लेषः।
अन्नोपघातीति ।
सूक्ष्मशरीर एवा­व्य­क्त­प­द­प्र­वृ­त्ति­नि­मि­त्त­म­स्ती­ति­व­दता किं तत्प्र­वृ­त्ति­नि­मि­त्त­मि­ष्यते । यदि भाष्याद्युक्तं तत्त्वाऽ­त­त्त्वा­भ्या­म­नि­र्वा­च्यत्वं , तर्हि तत् साक्षाद् अविद्यायामेव । यदि तत्परिणामत्वात् सूक्ष्मशरीरेऽपि तर्हि तत् स्थूलशरीरेऽपि स्यादि­त्य­वि­शि­ष्ट­म­व्य­क्त­प­दस्य शरीरद्वयेऽपि मुख्यत्वम् । यदि प्रत्य­ग्भि­न्न­त्वेन तदभिन्नत्वेन वा स्पष्टत्वं तत्प्र­वृ­त्ति­नि­मि­त्त­मि­ष्यते ; तदा स्थूलशरीर एव तन्मुख्यं स्यात् स्थूलोऽहं मम शरी­र­मि­त्यु­भ­य­थाऽपि प्रतीत्या तत्रैव प्रत्य­ग्भे­दा­भे­दाऽ­स्प­ष्ट­ता­स­त्त्वात्। यदि प्रत्य­क्षाऽ­गो­च­रत्वं तत्प्र­वृ­त्ति­नि­मि­त्त­मि­ष्यते तदा टीका­त­द्व्या­ख्या­न­यो­र­ज­ह­ल्ल­क्ष­णो­क्तेति द्रष्टव्यम् ॥३॥४॥५॥
स्नायवः सिराः मज्जाऽ­स्थि­ग­त­स्नेह इत्यनेनेत्यस्य टीकाप्रतीकस्य व्यव­धा­य­क­वि­ष­य­त्वेऽपि व्यव­हि­त­प­दा­र्थ­मा­हेति तदवतारणं यथे­त्या­दि­प्र­ति­व­चनं व्यव­हि­त­मि­त्ये­त­देव युक्तम् , हन्ते­त्या­द्य­र्ध­मा­त्रस्य व्यव­धा­य­क­त्वो­क्तिस्तु न हृदयङ्गमा । ‘येयं प्रेते’ इति मन्त्रा­न­न्त­र­मा­म्नातं ’देवैरत्रापि विचिकित्सितं पुरे’ति मन्त्रमुपक्रम्य प्रवृत्तस्य ’यस्मि­न्ने­ता­वु­पा­श्रि­ता­वि’त्य­न्तस्य हन्तेत्यतः प्राचीनस्य महतः परमात्मविषयस्य प्रपञ्चस्य व्यवधायकस्य सत्त्वा­दि­त्य­भि­प्रेत्य। एवं च भाष्ये हन्ते­त्या­द्यर्धं व्यव­धा­य­क­स­म­र्प­क­तया क्लेशेन न योजनीयं , किं तु यथे­त्या­दि­व­ज्जी­व­वि­ष­या­न्त­र्ग­त­त­यैव योजनीयम्। यथेत्यादिना जीवं प्रस्तुत्य -
‘तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ।
तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ॥’
इत्यादिना जीवस्यैव ब्रह्म­भा­वो­प­दे­शेन तस्यापि ब्रह्म­व­च­न­प्र­ति­ज्ञा­सं­स्प­र्शात् ।
चशब्द एवेति ।
ननु चशब्दो वृताऽ­वृ­त­स­मु­च्च­यार्थो न भवति ; येन वृता­न­ग्नि­वि­द्या­दी­न­वृतां सृङ्कां च ददाविति तदर्थो वर्ण्यते , किं तु, वृताऽ­ग्नि­वि­द्या­दि­त्र­य­व्य­ति­रि­क्ताऽ­नृ­त­दे­या­न्त­र­स­मु­च्च­यार्थः।
‘तम­ब्र­वी­त्प्री­य­माणो महात्मा वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण॥’
इति हि श्रूयते। एवं तर्हि तवैव नाम्ने­त्या­दि­दे­य­द्वये यथा पृथग्वरदानमस्ति नैवमव्यक्ते इति विशेषो द्रष्टव्यः। नन्वे­व­म­व्य­क्त­प­दस्य शरी­रा­र्थ­क­त्वेऽ­प्य­ग्नि­वि­द्या­दि­त्र­य­मा­त्र­वि­ष­य­प्र­श्नो­प­न्या­स­वि­रो­ध­स्तुल्यः , पृष्टस्य परमात्मन एव निरतिशयपरत्वेन प्रतिपादनार्थं परत्वावधितया शरीरस्य निर्देश इति चेत् , प्रधा­न­स्यै­वास्तु को न्वत्र विशेषः ? उच्यते ; निष्प्र­प­ञ्च­जी­व­ब्र­ह्माऽ­भे­द­प्र­ति­पा­द­नार्थं प्रवृत्तमिदं प्रकरणम् । ‘येयं प्रेते’ इति प्रश्नो हि मृत­जी­वा­स्ति­त्व­ना­स्ति­त्व­वि­षयः ; तत्र तस्य स्वारस्यात् , नचिकेतः प्रलो­भ­न­प्र­स्तावे मरणं मा नु प्राक्षीरिति मर­ण­प्र­श्न­प्र­ति­षे­ध­द­र्श­नात् , यथा च मरणं प्राप्ये­त्या­दि­मृ­त­जी­वा­स्ति­त्व­नि­र्द्धा­र­ण­वि­ष­य­प्र­ति­व­च­न­द­र्श­नाच्च । यद्यपि स्वर्ग­सा­ध­ना­ग्नि­प्र­श्ना­दिना नचिकेतसः पर­लो­का­नु­ब­न्धि­जी­वा­स्ति­त्व­नि­श्च­य­व­त्व­म­व­सी­यते, तथापि तस्यैव स्थिरी­क­र­ण­पू­र्वकं तदी­य­पा­र­मा­र्थि­क­रू­प­वि­वि­दि­षया प्रश्न उपपद्यते। अत एव नचिकेतसो विष­य­वै­रा­ग्य­द­र्श­ना­न­न्तरं ’विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते’ति वैवस्वतवचनम् । ‘अन्यत्र धर्मा’दिति प्रश्नः परमात्मविषय इति निर्विवादम् । प्रश्नद्वयस्य चैकविषयत्वं वर­त्रि­त्व­ब­ला­द­वि­च­लम् । अत्र च प्रकरणे ’योनिमन्ये प्रपद्यन्त’ इत्यादिषु जीवस्य कर्मो­पा­स­ना­क­र्तृ­त्वा­त्फ­ल­भेा­क्तृ­त्वा­दयो धर्म दर्शिताः। ‘तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चने’त्यादौ परस्य जीवव्यावृताः सर्व­प्र­प­ञ्चा­श्र­य­त्व­स­र्वो­त्त­र­त्वा­दयो धर्मा दर्शिताः।
विरु­द्ध­ध­र्मा­श्र­ययोः कथ­मै­क्य­मि­त्या­का­ङ्क्षायां -
‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान् पृथक् पश्यन् स्तानेवानु विधावति॥’
इत्य­भे­द­वि­रो­धि­ध­र्म­व्य­वस्थां मन्वानस्तानेव धर्मा­न­नु­व­र्ते­तेति संसा­रा­नु­वृ­त्ति­दो­ष­मुक्त्वा ’यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौत­मे’त्य­ध्य­स्त­स­क­ल­वि­रु­द्ध­ध­र्म­प्र­हाण्या जीवपरैक्यं जानन्नेव मुक्तो भवतीति प्रतिपादितम्। एवं चात्र ब्रह्म­प­र­त­न्त्राणां शरी­रे­न्द्रि­या­दीनां तदी­य­प­र­त्वा­व­धि­त­यो­प­न्यासो युज्यते , न तु साङ्ख्याभिमतस्य स्वत­न्त्र­प्र­धा­नस्य प्रक­र­ण­प्र­ति­पा­द्य­प्र­धा­ना­र्थ­वि­रो­धा­दिति भावः । अत्राम्रान् पृष्ट इत्या­दि­पू­र्वो­त्त­र­ग्र­न्थ­वि­व­रणे क्वचदित एवैक एव जीवप्रश्नः तत्क­तृ­प्र­शं­साऽ­पीति पाठः । अत एकत्वमेव एवं जीव­प्र­श्न­त­त्क­र्तृ­प्र­शं­साऽ­पी­त्य­न्यत्र पाठः । अत एकत्व एव जीव­प्र­श्न­त­त्क­र्तृ­प्र­शं­सा­पी­त्य­प­रत्र पाठः। सर्वेऽपि तुल्यार्थाः । आद्ये पाठद्वये वाक्यभेदः तृतीये वाक्यैक्यमिति विशेषः ।
अधिकरणादाविति ।
ननु अधिकरणादौ वैदिकं प्रकरणं पौरुषेयी रूढि­र्वै­दि­क­प्र­क­र­ण­प­रि­शे­ष­वि­रो­धा­दे­वा­नु­प­यो­गि­नी­त्यु­क्तम्। तस्मादधिकरणादौ पौरु­षे­य­त्व­मा­त्रे­णा­नु­प­योग उक्तः। महद्वच्चेति सूत्रे प्रक­र­ण­वि­रो­धा­दिना बाध उच्यत इति भेद­क­थ­न­म­यु­क्त­मिति – चेत् ; उच्यते ; अधिकरणादौ शरी­र­गृ­ही­ति­हे­तु­त्वे­ना­त्मानं रथिनं विद्धी­त्या­दि­प्र­क­रणं शरी­र­प­रि­शे­ष­श्चे­त्यु­भ­य­मु­प­न्य­स्तम् । अस्य सिद्धान्तहेतोः प्राब­ल्य­सि­द्ध्यर्थं सांख्यरूढेः पौरुषेयत्वेन दौर्बल्यं भाष्यादिषूक्तं प्रबलेन सिद्धान्तहेतुना सांख्य­रू­ढे­र­र्थात् परं बाधः सिद्ध्यति न तु तद्बा­ध­ना­र्थ­त्वेन तदुपन्यस्तम्। इह तु त्रयाणामिति सूत्रेण जीव­प्र­श्न­क­र्तृ­प्र­शं­सा­द्य­व­ग­मितं ब्रह्मा­त्मै­क्य­प्र­क­र­णम्। यत् साक्षा­द­व्य­क्त­प­द­रू­ढे­र्बा­ध­क­मिति सूत्रितं तत्र तस्मिन्नेव ब्रह्मा­त्मै­क्य­प्र­क­रणे श्रुतस्य मह­त्प­द­स्ये­वा­व्य­क्त­प­द­स्यापि सांख्य­रू­ढि­र्गृ­ह्यत इत्याशङ्कायां महद्वदिति सूत्रेण तद् ब्रह्मा­त्मै­क्य­प्र­क­रणं न केव­ल­म­व्य­क्त­प­द­रू­ढे­रेव बाधकं , किं तु महत्पदरूढेरपीति दृष्टा­न्त­व्या­जेन प्रदर्श्यान्ते ब्रह्मा­त्मै­क्य­प्र­क­रणे भेदवाद्यभिमतस्य महतः प्रधा­न­प्र­स­क्ति­रि­त्य­य­मर्थ उच्यते । अतो न पौनरुक्त्यम्। एवं च महद्वदिति समुच्चयोपमा।
‘इतराण्यपि रक्षांसि पेतु­र्वा­न­र­को­टिषु।
रजांसि समरोत्थानि तच्छे­णि­त­न­दी­ष्विव॥’
इत्यादाविवेति द्रष्टव्यम्। अधिकरणादा वित्यादिग्रन्थे इदानीं महच्छब्दस्येव वेदविरोधाद् बाध्या­व्य­क्त­श­ब्द­स्येति क्वचित् पाठः । इदानीं महच्छब्दस्येव विरोधाद्बाध इत्यन्यत्र पाठः । पाठ­द्व­य­म­प्य­र्थ­त­स्तु­ल्यम् । एवमन्यत्रापि यत्र पाठ­भे­द­स्तु­ल्यार्थः स्पष्टार्थश्च तत्र सर्वत्राप्येषैव रीतिरिति तत्र पाठभेदो नोदाह्रियते। प्रक­र­णा­दी­त्या­दि­श­ब्देन महान्तं विभु­मा­त्मा­न­मि­त्यादि भाष्योदाहृतं गृह्यते।
स्वरूपपर इति ।
‘प्रत्य­स्त­मि­त­भेदं यत्स­त्ता­मा­त्र­म­गो­च­रम् ।
वच­सा­मा­त्म­सं­वेद्यं तज्ज्ञानं ब्रह्म­सं­ज्ञि­तम्॥’
इत्यत्र तल्प्रत्ययः स्वार्थिको न तु प्रवृ­त्ति­नि­मि­त्त­ध­र्म­वाची। तस्य भावः सत्तेति टीकायामपि भावशब्दः स्वरूपवाचीति भावः।
जीवं चाहेति ।
जीवा­भि­न्न­ब्र­ह्म­स्व­रू­पो­प­दे­शा­र्थ­त­येति भावः ॥
इति प्रथमम् आनुमानिकाधिकरणं संपूर्णम् ॥

चमसवदविशेषात् ॥८॥
त्रिगु­ण­त्वा­दि­नेति ।
आदि­श­ब्दे­नै­क­त्वा­दि­वत् सृजमानामिति कृदु­क्त­स्वा­त­न्त्र्यस्य जहातीत्युक्तस्य त्यागस्य च संग्रहोऽपि द्रष्टव्यः , पर­मे­श्व­रा­धी­न­यो­र्मू­लाऽ­वा­न्त­र­प्र­कृत्योः स्वात­न्त्र्या­भा­वाद् , मुक्ति­द­शा­या­म­वि­द्याया निर­व­शे­षो­च्छे­दा­भ्यु­प­ग­मे­ना­नु­व­र्त­माने प्रधाने एव त्यागो­क्ति­सा­ङ्ग­त्याच्च।
सांख्या­ना­म­प्यस्ति भ्रम इति ।
स गृही­ता­सं­स­र्ग­ध­र्म­ध­र्मि­वि­ष­य­ज्ञा­न­द्व­य­रू­प­स्त­दु­भ­य­सं­स­र्गा­वि­ष­य­क­ज्ञा­न­रूपो वेत्यन्यदेतत् ॥८॥
’यस्य ब्रह्मणो’ जगदुत्पत्ताविति टीका­या­म­पे­क्षि­त­म­ध्या­ह­रति -
साध्यायामिति ।
ब्रह्मै­क्य­यो­ज­क­त्वाद् ब्रह्मै­क्य­प्रा­प­क­त्वात्।
ननु ध्यान­यो­गे­ना­त्मानं गता प्राप्ता यदि मुक्ताः तर्हि कथं तेषां पुन­र­वि­द्या­द­र्श­न­मु­च्यत इत्याशङ्क्य व्याचष्टे -
आत्म­प्रा­प्ति­स्त्व­ना­त्म­वि­र­हेण स्थितिरिति ।
अना­त्म­वि­र­होऽ­ना­त्म­द­र्श­न­वि­रहः।
जात्य­भि­प्रा­य­मिति ।
गुणसंघातरूपे प्रधा­नेऽ­प्ये­कत्वं संघाताभिप्रायं वाच्यमिति तुल्यमेव। सृजमानामिति कर्तृ­प्र­त्य­या­ल­म्बनं स्वात­न्त्र्य­म­न्य­प्रे­र्य­त्वेऽपि न हीयते, न हि यन्त्रा प्रेर्यमाणो गजो न गच्छति। कल्पनोपदेशे च ज्ञाने­ना­वि­द्यो­च्छेदे मुच्य­मा­न­क­र्तृ­क­त्या­ग­त्व­क­ल्पना तु विरुद्धा । ननु - छागत्वकल्पनैव नोपपद्यते , अजो ह्येकः अजोऽन्य इत्य­ज­श­ब्द­यो­श्चे­त­न­वा­चि­नो­र­चे­त­न­वा­चि­न­श्चाऽ­जा­श­ब्दस्य ’ज्ञाऽज्ञौ’ ’द्वाव­जा­वी­शा­नीशौ’ ’अजा ह्येका भोक्तृ­भो­गा­र्थ­युक्ते’ति प्राक­र­णि­क­म­न्त्रा­न्त­र­ग­त­श­ब्द­व­द्यौ­गि­क­तौ­चि­त्या­द­त्य­न्त­मेव प्रकृ­ति­सं­ब­न्ध­वि­मु­क्तस्य परब्रह्मरूपतां प्राप्तस्य पुनः छागा­सं­स­र्ग­यो­ग्या­ति­मू­ढ­प्रा­णि­प्र­थ­मो­दा­ह­रणे छाग­त्व­क­ल्प­नाऽ­यो­गाद् , ’असौ वा आदित्य’ इत्यादौ मध्वा­दि­त्या­दि­प­द­द्व­य­स­म­भि­व्या­हा­र­व­दु­पा­स­ना­प्र­यो­ज­न­व­च्चात्र कल्प­नो­प­दे­श­त्व­क­ल्प­का­भा­वा­च्चेति चेद् , न , ’द्वा सुप­र्णे’त्या­द्य­न­न्त­र­मन्त्रे प्रथ­म­प्र­ती­त­रू­ढ्य­प­रि­त्या­गेन प्रही­ण­जा­त्य­व­ल­म्ब­न­स्यापि प्रति­प­त्ति­सौ­क­र्य­प्र­यो­ज­नस्य कल्पनोपदेशस्य दृष्टत्वेन तथे­हा­प्यु­प­पत्तेः।
प्रक­र­णा­द­वि­द्या­नि­श्च­या­दिति ।
अनेन मूल­प्र­कृ­ति­र­जे­त्येव मुख्य­सि­द्धान्तः। ‘अजा ह्येका’ ’मायां तु प्रकृ­ति­मि’त्यादि पूर्वा­प­र­म­न्त्रा­नु­रो­धस्य शाखा­न्त­रो­क्त­रो­हि­ता­दि­श­ब्द­प्र­त्य­भि­ज्ञा­नतो बलवत्त्वादिति सूचितम्। ॥९,१०॥

ननु देवा­त्म­श­क्ति­मि­त्यत्र दीव्य­मा­न­त्व­वा­चि­दे­व­वि­शे­ष­ण­म­ना­वृ­त­ज्ञाने परमात्मन्येव युक्त­म­त­स्त­च्छ­क्ति­त्वो­क्ति­र्वि­रु­द्धे­त्या­शङ्क्य व्याचष्टे -
देवात्मविषयमिति ॥
इति द्वितीयं चमसाधिकरणं संपूर्णम् ॥
न संख्यो­प­सं­ग्र­हा­दपि नाना­भा­वा­द­ति­रे­काच्च ॥११॥
योग­रू­ढ्य­वि­नि­ग­मा­दिति ।
रुढियोगयोः स्वतः प्राब­ल्य­दौ­र्ब­ल्य­वि­शेषे सत्यपि निस्ता­त्प­र्य­क­त्व­प्र­स­ङ्ग­त­त्प­रि­हा­र­ला­भाभ्यां सम­ब­ल­त्वा­पा­द­ने­ना­वि­नि­गम उक्तः।
रक्त­प­ट­न्या­ये­नेति ।
ननु श्रुत­वि­शे­ष­ण­स­जा­तीये तद्विरोधिनि च नास्ति रक्तपटन्यायः यथा रक्तो रक्तः पट, इत्यत्र मृण्मयो हिरण्मयो घट इत्यत्र। सत्यम् ; यथैकया संख्यया विशे­षि­ता­ना­म­र्थानां सजातीयेन विजातीयेन वा संख्यान्तरेण विशे­ष­णा­त्सं­व­र्ध­नेन महा­सं­ख्या­ला­भ­स्तत्र रक्तपटन्याय: प्रवर्तत एव । यथा ’पञ्चभिर्धाता विदधाविदं यदि’ति मन्त्रे तासां स्वसॄरजनयत् पञ्चपञ्चेति। अत्र हि पञ्चविंशतिरूपा संवर्धनसंख्या विवक्षिता ; त्रिंशत् स्वसार इति वाक्यशेषात्। यथा वा पञ्च­प­ञ्चा­श­त­स्त्रि­वृतः संवत्सरा इत्यादौ वाक्यचतुष्टये। अथ पञ्चा­श­दु­त्त­र­श­त­द्व­य­रूपा महासंख्या विवक्षिता ; विश्वसृजां सह­स्र­सं­व­त्स­र­मिति वाकशेषात्।
निस्ता­त्प­र्य­मिति पदस्यार्थं कथयन्ने तद्धे­तु­व­च­न­म­व­ता­र­यति -
निस्तात्पर्य इति ।
अर्था­भा­वेऽ­व्य­यी­भावः। तृती­या­स­प्त­म्यो­र्ब­हु­ल­मि­त्य­म्भा­वस्य बाहुलकत्वात् । तात्पर्य इति सप्त­म्य­न्त­रू­पम्।
जायन्त इति व्युत्पत्त्येति ।
जनिधातोः पचाद्यचि । एवं च संज्ञायामेव संख्या­स­मा­स­वि­धा­नेऽ­प्य­ग­त्येह छान्द­स­त्वे­नाऽ­सं­ज्ञायां तदुपपादनं कार्यमिति भावः । ननु तत्रा­पी­त्या­दि­टी­का­ग्र­न्थेन पञ्च­ज­न­श­ब्दा­र्थ­प­रि­ग्रहे संभावितं प्रका­र­द्व­य­मु­प­न्यस्य प्रथमप्रकारं विरोधाद् निरस्य द्वितीयप्रकारः सांख्य­त­त्त्व­ग्र­ह­ण­प­र्य­व­सायी व्यवस्थाप्यत इति भाति। एवं सति तत्रेति तच्छ­ब्दे­ना­व्य­व­हितं योगं परामृश्य योगपक्षे प्रका­र­द्व­यो­प­न्या­सोऽयं योजनीय उत तेन व्यवहितां रूढिं परामृश्य रूढिपक्षे। नाद्यः ; मनुष्यसंबन्धिषु प्राणादिषु रूढि­पू­र्व­ल­क्ष­णो­प­पत्तौ योग­प­रि­ग्र­हाऽ­नौ­चि­त्यात्। न द्वितीयः।
योगं विना पञ्च­विं­श­ति­सं­ख्या­ला­भाऽ­सं­भवे रुढिपक्षे सांख्य­त­त्त्व­ग्र­ह­णा­यो­गा­दि­त्या­श­ङ्क्या­व­ता­र­यति -
रूढ्यत्यागेनेति ।
तदतिरिक्ता एव केचिदिति द्विती­य­प्र­का­रो­प­न्यासो न सांख्य­त­त्त्व­वि­षयः , किं तु निषा­द­प­ञ्च­मा­श्च­त्वारो वर्णा इत्या­चा­र्यै­क­दे­शि­म­तो­प­न्यासः। तत्र सदे­वा­सु­र­मा­नु­ष­स­क­ल­प्रा­ण्या­धा­रस्य परमेश्वरस्य ताव­दा­श्र­य­त्व­मा­त्रो­प­न्यासे वाक्यं निस्तात्पर्यं स्यादिति प्रागु­क्त­दो­षा­नु­वृत्तिं स्पष्ट­त्वा­द­नु­द्भाव्य प्रकारद्वयमपि विहाय तस्मा­त्का­नि­चि­देव तत्त्वा­नी­त्या­द्य­ग्रि­म­टी­का­ग्र­न्थेन योगमाश्रित्य सांख्य­त­त्त्व­ग्र­हणं समर्थ्यत इति तात्पर्यम् ।
वाक्यविरोधं व्यनक्तीति ।
प्राणादयो न विवक्षणीया इत्य­ध्या­ह­र­णी­य­साध्ये हेतु­वा­क्य­वि­रो­ध­मि­त्यर्थः।
मूले -
पञ्च­विं­श­ति­स्त­त्त्वा­नीति ।
समासान्तर्गतया संख्यया प्रथमं पञ्चधा विभागे कृते पुन­रे­कै­क­स्मि­न्वि­भागे पञ्च­सं­ख्या­नि­वेशे सति पञ्च­विं­श­ति­स्त­त्त्वानि संपद्यन्त इत्यर्थः।
ननु ’तासां स्वसॄ­र­ज­न­य­त्प­ञ्च­प­ञ्चे’त्यत्र ’पञ्च­प­ञ्चा­श­त­स्त्रि­वृतः संवत्सरा’ इत्यत्र चैकै­को­पा­धि­क्रो­डी­कारं विना­प्य­वा­न्त­र­सं­ख्या­नि­वेशो दृष्टः , तत्र प्रथमं पञ्चधा पञ्चाशद्धा च विभक्तेषु प्रत्येकं पञ्च­सं­ख्या­नि­वे­शेन महासंख्यालाभो न भवति, किं तु पञ्चपदद्वयेन पञ्च­प­ञ्चा­श­त्प­द­द्व­येन च महा­सं­ख्या­ल­क्ष­णया । न चेह तथा व्यस्तसमस्तयोः पञ्च­प­द­यो­रे­क­म­हा­सं­ख्या­ल­क्ष­क­त्व­मु­प­प­द्यत इति चेत्त­र्ह्य­त्रापि मा भूत्समासः असमस्तेन पञ्चपदद्वयेन पञ्च­विं­श­ति­संख्या लक्ष्यतामिति पूर्व­प­क्षा­न्त­र­मु­द्भा­व­य­ती­त्य­व­ता­र­यति -
समासार्थ इत्यादिना ।
विद्यत एवार्थात्मनेति ।
अपे­क्षा­बु­द्धि­र­व्य­क्त­तया सतामेव द्वित्वादीनां व्यञ्जिका नोत्पादिकेति भावः । भाषिकेण स्वरे­णै­क­प­द­त्व­नि­श्च­या­दिति भाष्यवाक्यस्य ब्राह्मणभवेन स्वरेण समा­स­नि­श्च­या­दि­त्यर्थः । भाषाशब्दस्य ब्राह्मणभागे प्रवचनशब्दस्य मन्त्रभागे च वैदिकानां निरूढिः । अत एव भाषा­स्व­रो­प­दे­शे­प्यै­र­व­त्प्र­व­च­न­प्र­ति­षेधः स्यादिति जैमिनीयं सूत्रम् । तन्मूले चाधिकरणे मन्त्रसमाम्नाये स्वरान्तरेण समाम्नातानां विनि­यो­ज­क­ब्रा­ह्म­ण­स्व­रा­न्त­रे­णो­पा­त्तानां मन्त्राणां मन्त्र­स­मा­म्ना­य­स्वरे प्रावचनिकस्वर इति ब्राह्मणस्वरे भाषिकस्वर इति च मीमांसकानां व्यवहारश्च । एवं चात्रा­न्ता­नु­दा­त्त­रू­पेण भाषिकस्वरेण कथं समासनिश्चयः ।
समासे ह्यन्तोदात्तेन भाव्य­मि­त्या­शङ्क्य तदभिप्रायमाह -
भाषिकेण स्वरेणेति ।
तस्यार्थ इति ।
परसंलग्नतयेति टीकाग्रन्थश्च प्रतिष्ठित इत्यर्ध इव विरामं विनो­च्चा­र्य­स्ये­त्यर्थः । ननु - पञ्चजना इत्य­त्रा­चा­म्ना­न­सि­द्ध­स्या­न्ता­नु­दा­त्त­स्व­रस्य भाषि­क­ग्र­न्थ­वि­हि­त­ब्रा­ह्म­ण­प­ठि­त­म­न्त्र­त्व­नि­मि­त्तो­दा­त्ता­दे­श­रू­प­तया तत्स्थानिना अन्तो­दा­त्त­स्व­रेण समासनिश्चय इत्येतदयुक्तम् , असमासेऽपि जनशब्दस्य पचाद्यजन्ततया चित इति सूत्रे­णा­न्तो­दा­त्त­ला­भा­दिति - चेत् ; तथा सति नकारोपरितनस्य ब्राह्म­ण­ग­तो­दा­त्त­स्था­न्य­नु­दा­त्त­स्व­र­सं­भ­वेऽपि पञ्च­श­ब्द­ग­त­यो­र­का­रयोः समासं विना तदसंभवात् , चित्स्व­र­सू­त्रा­प­वा­द­केन , ’वृक्षादीनां चेति’ सूत्रेण वृक्षा­दि­ग­ण­प­ठि­तस्य जन­श­ब्द­स्या­द्यु­दा­त्तस्य विहिततया तस्य प्राग्वि­हि­त­स­क­ल­प­द­स्व­रा­प­वा­दार्थं प्रवृ­त्ते­ना­न्तो­दा­त्त­रू­पेण समा­स­स्व­रे­णै­वा­प­व­द­नी­य­त्वाच्च ।
हे आज्येति ।
आज्य­ग्र­ह­ण­त­न्त्र­त्वाद् विनियोगानुसारेण संबो­ध­न­म­ध्या­हृ­तम् । कृत इत्यव्ययं तादर्थ्ये। यन्त्राय धर्त्राय गृह्णामीति मन्त्र­शे­षा­म्ना­त­य­न्त्र­ध­र्त्र­श­ब्दो­क्त­श­री­रा­दि­नि­य­म­न­धा­र­णा­र्थ­मि­त्यर्थः । यद्यपि जना यदग्निमयजन्त पञ्चे­त्य­स­मा­सोऽपि वेदे दृश्यते ; तथापि यत्र पञ्चशब्दद्वयं तत्र जन­श­ब्द­पू­र्व­प­ठि­तस्य पञ्चशब्दस्य समासनियमो दृष्ट इति तात्पर्यम्।
द्विः पञ्चशब्दप्रयोगे इति ।
अनेन भाष्य­टी­क­यो­र्वी­प्सा­पदं स्वतन्त्रस्य पञ्चशब्दस्य द्विःप्र­यो­ग­मा­त्र­परं , न तु नित्य­वी­प्स­यो­रिति सूत्रो­पा­त्त­व्या­प्ति­वि­व­क्षा­प­र­मिति दर्शितम् । ननु सूत्रोक्तायामेव वीप्सायामयं द्विःप्र­यो­गोऽस्तु , तथा च यथा ’दश चैकैकं चम­स­म­नु­प्र­स­र्प­न्ती’त्यत्र न द्वैगुण्येन विंश­ति­सं­ख्या­लाभः, ’शतं ब्राह्मणाः सोमं भक्षयन्ती’ति वाक्यशेषाद् , एवमिहापि पञ्च­विं­श­ति­सं­ख्या­लाभः, स्यात् । मैवम् , तत्रा­नु­प्र­स­र्प­णी­यानां चमसानां दश­सं­ख्य­त्वा­त्त­द­नु­प्र­स­र्प­काणां प्रतिचमसं दशसंख्यानां ब्राह्मणानां शतसंख्या निषिध्यते , एवमत्र जनानामधिकरणानि यदि पञ्च निर्दिष्टानि स्युः , तदा प्रत्यधिकरणं पञ्च­सं­ख्य­ज­न­सं­ब­न्ध­रू­प­व्या­प्ती­च्छया पञ्च­विं­श­ति­संख्या निष्पद्येत , न त्वत्रा­धि­क­र­ण­प­ञ्च­क­नि­र्दे­शोऽ­स्तीति वैषम्यात् । नन्वेवं सति ’तासां स्वसॄ’रि­त्य­त्रापि दशानामेव लाभः स्यात् ।
यदि तत्रैका पञ्चसंख्या पञ्च­सं­ख्या­न्त­रेण विशेष्यते , तर्ह्यत्रापि तथा­स्त्वि­त्या­श­य­वतः शङ्कां निराकरोतीत्याह -
असमासपक्षे एवेति।
’तासां स्वसॄ’रित्यत्र वाक्य­शे­षा­नु­सा­रे­णा­त्रा­गत्या विशे­ष­णा­न्व­य­स्वी­का­रे­णा­त्रा­व­य­व­द्वारा दशसंख्यालक्षणया पञ्च­श­ब्दा­द्व­यो­प­पा­दने संभ­व­त्य­न­न्य­ग­ति­क­वि­शे­ष­ण­सं­क्र­म­क­ल्प­ना­यो­गात् , दशसंख्यया च ते वा एते पञ्चान्ये पञ्चान्ये दश­स­न्त­स्त­त्कृ­त­मि­त्या­दि­श्रु­त्य­न्त­र­प्र­सि­द्ध­सं­ख्ये­य­ग्र­हणे संभ­व­त्य­प्रा­मा­णि­क­सां­ख्य­त­त्त्व­प­र्य­व­सा­यि­प­ञ्च­विं­श­ति­सं­ख्या­ग्र­ह­णा­यो­गाच्च नात्र तन्न्यायः प्रवर्तत इति भावः ।
दूषितमपीति ।
ननु यदि विशेषणस्य भिन्न­प­दो­पा­त्त­वि­शे­ष­णा­न्त­रा­न्वयो न संभवति ’तासां स्वसॄ’रित्यत्र ’पञ्चपञ्चाशत्’ इत्यत्र का गतिः ? यदि तत्र क्रोडी­का­र­क­ध­र्म­म­न­पे­क्ष्यैव प्रथमं पञ्चधा पंचाशद्धा च विभक्तेषु पुनः पञ्च­सं­ख्या­न्व­यात् संव­र्ध­न­सं­ख्या­लाभः तर्हि अत्रापि तथाऽ­स्त्वि­त्य­नु­श­य­वन्तं प्रथ­म­पू­र्व­प­क्षिणं प्रकारान्तरेण दूष­यि­तु­मु­त्था­प­य­ती­त्याह -
नानाभावेनेति ।
ननु - व्यस्त­प­ञ्च­सं­ख्यायाः न विशेष्यान्वयः ; आका­ङ्क्षा­वि­र­हाद् , नापि विशेषणान्वयः , असा­म­र्थ्या­दि­त्युक्तं दूषणमयुक्तम् ; संव­र्ध­न­सं­ख्या­ला­भार्थं सजा­ती­य­वि­जा­ती­य­सं­ख्या­न्त­रा­का­ङ्क्षो­प­पत्तेः । तदा­का­ङ्क्षा­वि­र­हेऽपि संख्यान्तरस्य शब्दगत्या साक्षाद् विशे­ष­णा­न्व­य­म­सा­म­र्थ्य­प­रा­हतं परित्यज्य विशिष्टान्वयिन एव तस्य सप्त­द­शा­र­त्रि­वाक्ये विधेरेव विशे­ष­ण­सं­ख्या­सं­क्र­म­क­ल्प­नो­प­पत्तेः । अन्यथा ’तासां स्वसॄ’रित्यादौ का गतिरिति , चेत् । उच्यते ; तत्र वाक्य­शे­षा­नु­सा­रा­त्सं­व­र्ध­न­सं­ख्या­ल­म्भ­कम् आका­ङ्क्षो­त्था­पनं विशेषणसंक्रमणं चाभ्युपगम्यते, इह तु संव­र्ध­न­सं­ख्या­वि­व­क्षा­ग­म­क­वा­क्य­शे­षा­भा­वान्न तदु­भ­य­मा­श्र­य­णी­य­मिति भावः ।
कथं चेति भाष्यमयुक्तमिति ।
ननु कथं चेति भाष्यं नायुक्तं , किं तु तद्भा­ष्य­म­यु­क्त­मि­त्ये­त­देव वचनमयुक्तम् ; न हि तेन पञ्च­विं­श­ति­सं­ख्याया अलाभ उक्तः , किं तु यौगिकेन समस्तपदेन तल्ला­भ­म­भ्यु­पेत्य तथापि तत्संख्येयानि सांख्य­त­त्त्वा­नीति न सिद्ध्य­ती­त्यु­क्तम् । अत एव तत्सिद्धिः किं जन­श­ब्द­श­क्ति­व­शा­दुत पञ्च­विं­श­ति­सं­ख्यायाः संख्ये­या­न्त­रा­भा­वेन परिशेषादिति विकल्पं मनसि निधाय पक्षद्वयमपि भाष्ये क्रमेण दूषितम् । तत्र द्विती­य­वि­क­ल्प­दू­ष­ण­स्या­य­मर्थः । ज्ञाने­न्द्रि­याणि कर्मेन्द्रियाणि भूतानि तन्मात्राणि मनो­बु­द्धि­भो­क्तृ­स्थू­ल­सू­क्ष्म­श­री­राणि चे’तीन्द्रि­येभ्यः परा ह्यर्था’ इत्या­दि­श्रु­ति­प्र­सिद्धाः सन्ति। देवाः पितरो गन्धर्वा दैत्या दानवा राक्षसा भूताः प्रेताः पिशाचाश्चत्वारो वर्णाः षडनुलोमाः षट् प्रति­लो­मा­श्चे­त्ये­व­मपि पञ्चविंशतिः श्रुतिप्रसिद्धा एव जन­श­ब्द­मु­ख्यार्थाः सन्ति। एवं श्रुत्य­न्त­र­प्र­सि­द्ध­सं­ख्ये­यो­प­सं­ग्रहे कर्तुं शक्ये नाऽप्रा­मा­णि­क­सां­ख्य­क­ल्पि­त­त­त्त्वो­प­सं­ग्रहः कार्यः । एवं च संख्ये­या­ना­मा­त्मनि प्रति­ष्ठि­त­त्त्व­व­र्ण­न­मपि सङ्गच्छते । न हि सांख्य­त­त्त्वो­प­सं­ग्रहे तत्सङ्गतिरस्ति। प्रधानस्य स्वत­न्त्र­त्वा­द­न्येषां प्रधा­ना­श्रि­त­त्वात् । आका­श­ग्र­ह­ण­म­पी­न्द्रि­या­दीनां संख्ये­य­ता­या­म­व्या­कृ­ता­का­श­प­र­तया देवादीनां संख्येयतायां ताव­ता­म­व­का­शा­त्म­नो­प­का­रको भूताकाशो महानिति तत्परतयोपपद्यत इति। तस्मा­द्भा­ष्याऽ­यु­क्त­त्व­व­चनं तावदयुक्तम् । तथा पञ्च­सं­ख्या­द्व­या­त्प­ञ्च­विं­श­ति­सि­द्धे­रिति तद­यु­क्त­त्व­हे­तु­व­चनं प्राक्प­ञ्च­विं­श­ति­सं­ख्या­ला­भस्य नाना­भा­वा­का­ङ्क्षा­वि­र­हाऽ­सा­म­र्थ्य­हे­तु­भि­र्दू­षि­त­त्वा­द­प्य­यु­क्तम् । न हि दूषितपक्षस्य प्रौढ्याऽ­भ्यु­प­ग­मेन दूष­णा­न्त­रो­क्ति­वद् दूषि­त­प­क्ष­मे­वा­व­लम्ब्य शङ्कोत्थापनं संगच्छते । तस्मा­त्स­र्व­मि­द­म­नु­प­प­न्न­मिति - चेत् , अत्रा­य­मा­चा­र्या­णा­मा­शयः - कथं चेत्यादिभाष्येण पञ्च­विं­श­ति­सं­ख्या­म­भ्यु­प­गम्य ततः सांख्य­त­त्त्वो­प­सं­ग्र­हस्य वस्तुतः पञ्च­विं­श­ति­सं­ख्या­ला­भस्य चाक्षेपः प्रतिज्ञातः । प्रथमाक्षेपे जन­श­ब्द­स्ये­त्या­दि­हे­तु­द्व­य­मु­क्तम् ; द्विती­या­क्षे­पा­नु­प­पत्तिं कथं तर्हि पञ्च पञ्चजना इतीति भाष्येणोद्भाव्य तदुपपत्तिरुच्यत इत्यादिना दर्शिता । तत्र द्विती­या­क्षे­पा­नु­प­प­त्त्यु­द्भा­व­ना­वा­क्य­स्या­य­मर्थः । पञ्चजना इत्यस्य क्लृप्ते योगे संभवति न रूढिः कल्पनीया ; यौगिकत्वे च असमस्तः पञ्चशब्दो न पञ्च­सं­ख्या­प्र­ति­प­त्त्यर्थः; समस्तपञ्चशब्देन तल्लाभात् , नापि द्वैगु­ण्य­ला­भार्थः ; व्यस्तसमस्तयोः पञ्च­श­ब्द­यो­रे­का­र्थ­ल­क्ष­क­त्वाऽ­सं­भ­वात् । एवं चाऽसमस्तं पञ्चपदं पञ्चधा विभक्तेषु प्रत्ये­क­म­न्वितां विशे­ष­ण­सं­क्रान्तां वा पञ्चसंख्यां यदि न समर्थयेत् , तदा व्यर्थमेव स्यादिति वाक्य­शे­षा­भा­वेऽ­प्य­स­म­स्त­प­ञ्च­प­दा­न्त­र­स­म­भि­व्या­हा­र­ब­लात् पञ्च­विं­श­ति­सं­ख्या­सि­द्धि­र­नि­वार्य इति कथं तत्सि­द्धा­भा­वोऽपि प्रतिज्ञात इति। एवं कथं चेत्यादेः कथं तर्हि पञ्च पञ्चजना इत्यन्तस्य भाष्यस्यार्थं सिद्धं कृत्वा टीकाकारैरुच्यत इत्या­दि­भा­ष्य­स्या­भि­प्रा­य­व­र्णनं कथं चेति प्रघ­ट्ट­का­दि­प्र­ती­क­ग्र­ह­ण­पू­र्वकं दिक्संख्ये इत्यादिग्रन्थेन क्रियत इत्ये­व­म­भि­प्रेत्य कथं तर्ही­त्या­दि­श­ङ्का­भा­ष्यार्थः कथं चेत्या­दि­भा­ष्य­म­यु­क्त­मि­त्या­द्य­व­ता­रि­कया संगृहीतः । एवं च टीकाकारैः कथं चेति भाष्य­प्र­ती­क­मु­पा­दाय कथमुच्यत इत्या­दि­भा­ष्या­भि­प्रा­य­व­र्णनं कृतमित्यपि शङ्का निरवकाशा वेदितव्या ।
अथ त्वसौ न वाक्ये संबन्धार्हः , पूर्वा­प­र­वा­च्य­वि­रोधी वेत्यनयोः क्रमेणोदाहरणे दर्शयति -
इह मनुष्येति ।
यथा श्येने­ने­त्या­दि­दृ­ष्टा­न्त­वाक्ये रूढि­पू­र्व­क­ल­क्ष­णो­दा­हृता, तथे­त्या­दि­दा­र्ष्टा­न्ति­क­वाक्ये तु रुढि­स­म­र्थ­न­मात्रं कृतं न तु तत्पू­र्व­ल­क्ष­णा­स­म­र्थ­नम् ।
अतस्तथेत्यादि दृष्टा­न्ताऽ­न­नु­गुणं भवतीति शङ्कामपनयति-
दार्ष्टा­न्ति­क­मा­हेति ।
दृष्टा­न्ता­न­नु­गु­ण­त्वा­शङ्कां टीका­ग्र­न्था­पे­क्षि­ता­ध्या­हा­रेण निरस्यति -
तत्संबन्धादिति ॥११॥
तत्त्वेषु लाक्षणिक इति ।
तत्त्वानामपि प्राणादिवद् मनु­ष्य­सं­ब­न्धि­त्वा­दिति भावः ।
ननु – विधि­श्र­व­ण­म­सिद्धं ; मनसैवेति तृती­या­व­धा­र­णाभ्यां मनो­न्व­य­व्य­ति­रे­क­प्र­द­र्श­न­प­राभ्यां तद­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त्वे­नो­पा­स­ना­नु­वा­द­प्र­तीतेः , सुषु­त्प्यु­त्क्रा­न्त्य­धि­क­र­ण­वि­ष­य­वा­क्य­भू­त­नि­ष्प्र­प­ञ्च­प्र­त्य­ग­भि­न्न­ब्र­ह्म­प्र­क­र­ण­म­ध्य­प­ति­त­म­न­सै­वा­नु­द्र­ष्ट­व्य­मि­त्ये­त­द-न­न्तरं ’नेह नानाऽस्ति किंचन’ , ’मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती’ति भेद­नि­षे­धा­म्ना­नेन च विरु­द्ध­स्यो­पा­स­ना­वि­धा­न­स्या­ङ्गी­क­र्तु­म­यु­क्त­त्वा­च्चे­त्या­श­ङ्क्याह -
तत्रा­न्व­य­व्य­ति­रे­केति ।
अन्व­य­व्य­ति­रे­कां­शेऽ­नु­वा­द­त्वेऽपि तव्य­प्र­त्य­य­श्र­व­णा­दु­पा­सने विधि­र­ङ्गी­कर्त्तुं शक्यः । अनुवादत्वेऽपि सत एवानुवाद इति विध्यु­न्न­य­न­मु­प­प­द्यते विश्व­जि­त्स­र्व­पृष्ठ इति सर्व­ता­वि­धा­व­नू­द्य­मा­न­त­दा­श्र­य­पृ­ष्ठ­वि­ध्यु­न्न­य­न­वद् अभेदप्रकरणेऽपि तत्प्र­ति­प­त्त्यु­पा­य­त­यो­पा­स­ना­वि­धि­र्यु­ज्यते । तत्रैव प्रकरणे यज्ञादिविधेः संन्यासविधेश्च दर्शनादिति भावः ।
शेषग्रहणमिति ।
तेनान्नमयादीनां पञ्चसंख्यानां मनु­ष्य­सं­ब­न्धि­ना­मपि नात्र ग्रह­ण­म­सं­नि­हि­त­त्वा­दिति द्योत्यते । ज्योतिः­प्रा­ण­म­न्त्र­यो­र­र्था­न्त­र­प­र­त्वेन शर्क­रा­ञ्ज­न­वि­ध्य­र्थ­वा­द­रीत्या पञ्च­ज­न­वा­क्य­शे­ष­त्वा­भा­वेऽपि संनि­धा­न­मा­त्र­मस्ति , सूत्रे तावदेव विवक्षितमित्यपि द्योत्यते ।
अपिधायेति ।
रूढि­व्य­व­स्था­प­ना­वन्तौ नाति­दृ­ढा­वि­त्यु­पे­क्ष्ये­त्यर्थः । अत एव विव­क्षि­तो­प­स­र्ज­न­न्या­या­ति­रे­क­प्र­द­र्श­न­स्थले तद्दार्ढ्यं रुढ्यैव संपा­द­नी­य­मि­त्य­भि­प्रेत्य टीकायामत्र तावद्रूढौ सत्यां न योगः संभवतीति वक्ष्यत इति वक्ष्यमाणरूढिः स्मारिता ।
प्रौढ्या तु रूढिमिति ।
प्राणादिष्विति शेषः ।
ननू­द्भे­द­न­मू­र्ध्व­वि­दा­र­ण­म­नेन क्रियत इति योगं प्रदर्श्य खनित्रादौ प्रसिद्धिः संपादनीया, सा पशु­फ­ल­स्यो­द्भे­दनं प्रका­श­न­मु­त्पा­दनं वा कुर्वति यागेऽपि संपादयितुं शक्ये­त्या­श­ङ्क्याह -
नामत्वे चेति ।
मत्वर्थलक्षणेति ।
न च नाम­त्व­प­क्षेऽ­प्यु­द्भि­न्ना­म­क­त्वार्थे लक्षणा तदपेक्षया मत्वर्थलक्षणया ; जघन्यत्वादिति भावः ।
वैरू­प्या­पा­ता­दिति ।
प्रतियोगिभेदेन साध्य­त्व­सा­ध­न­त्व­यो­र­वि­रो­धेऽ­प्ये­कस्य यजेः साध्य­सा­ध­नो­भ­या­व­स्था­स­म­र्प­कत्वं न संभवतीति भावः ।
अतः स्वरू­पे­णो­प­स्थि­त­स्यैव यजेर्यथार्हं तेन तेनान्वयः स्यादि­त्या­श­ङ्क्याह -
विध्या­वृ­त्त्येति ॥१२ - १३॥

यत्पाञ्चजन्यया विशेन्द्रे घोषा असृ­क्ष­ते­त्य­र्ध­स्यार्थः कथितस्तेन पञ्च­ज­न­सं­ब­न्धिन्याः प्रजाया मनु­ष्य­त्वोक्त्या पञ्चजनशब्देनेह मनुष्याणां ग्रहणमित्युक्तं भवति। तत्र पञ्चसंख्या चतुरो वर्णा­न­न्त­र­प्र­भ­व­त्वे­नै­की­कृता , न तु लोम­प्र­ति­लेा­मां­श्चा­पेक्ष्य योजनीया ।
यत्पूर्वार्धे इति ।
यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते इति पूर्वार्धम् ।
षष्ठ्य­न्त­ज्यो­ति­षेति ।
श्रुतौ बहुवचने सत्यप्यत्र सूत्रे चैकवचनं ज्योति­ष्ट्वे­नै­की­कृत्य । अन्यथा हि पञ्च­सं­ख्या­ति­रेकः स्यादिति ॥ कारणत्वेन चाकाशादिषु यथा­व्य­प­दि­ष्टोक्तेः ॥१४॥
परेति ।
कारणश्रुतीनामिव कार्य­श्रु­ती­ना­मपि विरोधस्यात्रैव समाधेयत्वेऽपि द्वितीयाध्याये पर­क­र्तृ­क­दो­ष­सा­म्या­पा­द­न­प्र­सक्तौ तत्समाधानम् ।
“बाधे दृढेऽ­न्य­सा­म्यात् किं दृढेऽन्यदपि बाध्यताम् ।
क्व ममत्वं मुमु­क्षू­णा­म­नि­र्व­च­न­वा­दि­नाम् ॥“
इति खाण्ड­नि­क­री­ति­म­व­ल­म्ब्या­नि­र्व­च­नी­य­वा­दि­भि­रपि तत्स­मा­धा­न­प्र­क्रि­याया नोदासितव्यम्। तथा सति तत्त्व­नि­र्ण­या­सि­द्धि­प्र­स­ङ्गा­दिति शिष्य­बो­ध­ना­र्थ­म­त्रैव तत्समाधाने कृते तद्वि­ष­य­स्फु­ट­बो­धो­द­या­सं­भ­वा­दि­त्यर्थः ।
क्वाचित्कस्येति ।
क्वाचि­त्क­प्र­धा­न­वा­द­प्र­ति­पा­द­न­च्छा­या­प­न्न­वा­क्य­ग­ति­नि­रू­प­ण­मेव पादार्थो न भवति , किं तु ब्रह्म­वा­द­वि­रो­धि­वा­द­मू­ल­च्छा­या­पन्नं क्वचित्क्व चिदाम्नातं यद्या­व­द्वा­क्य­मस्ति तस्य सर्वस्य गतिनिरूपणं पादार्थः । अत एवो­त्त­रा­धि­क­र­ण­द्वये जीव­वा­द­मू­ल­च्छा­या­प­न्न­वा­क्य­ग­ति­नि­रू­प­ण­मपि क्रियत इति भावः । ननु पूर्वाधिकरणत्रय इवात्र क्वाचि­त्क­वा­क्य­ग­ति­नि­रू­पणं न क्रियते , किं तु सर्व­वे­दा­न्त­व्या­पि­ब्र­ह्म­प्र­मा­ण­त्वा­भा­व­प्र­सक्तौ तत्समाधानम् । इदं तु सम­न्व­या­धि­क­र­ण­स­न्निधौ संगतं , न त्वत्र ।
किंचा­ग्रि­मा­धि­क­र­ण­द्व­य­मपि विव­क्षि­त­री­त्याऽत्र संग­म­यि­तु­म­यु­क्तम् ; प्रधा­न­स­म­र्प­णा­भा­स­वा­क्य­ग­ति­नि­रू­प­णा­र्थ­परः संदर्भः प्रवर्तत इति प्रतिपादयता पादारम्भभाष्येण विरो­धा­दि­त्या­श­ङ्क्याह -
अथ वेति ।
कर्म­क­र्त्र­भि­धा­ना­दिति ।
न च - कर्मण्ययं लकारः स्यादिति - शङ्क्यम् ; तथात्वे कर्त्रा­क्षे­प­गौ­र­व­प्र­स­ङ्गात् । न च - कर्मकर्तरि लकारेऽप्येष दोषस्तुल्यः ; अलूयत केदारः स्वयमेवेत्यत्र सत्ये­वा­न्य­स्मिन् लवनकर्तरि सौकर्यातिशयेन कर्मणः साध्व­सि­श्छि­न­त्ती­त्यत्र करणस्येव कर्तृ­त्व­वि­व­क्ष­णात् ।
क्रियमाणं तु यत् कर्म स्वयमेव प्रसिध्यति।
मुख्यस्य स्वगुणैर्युक्तं कर्मकर्तेति तं विदुः ॥
इति शब्दा­भि­यु­क्त­व­च­ना­दिति - वाच्यम् ; कर्म­क­र्तृ­वि­व­क्षायां कर्त्र­न्त­रा­क्षे­प­नि­य­मा­भा­वात् । महाभाष्ये कर्म्मणः कर्तृत्वरूपस्य स्वातन्त्र्यस्य किं सतो विवक्षा उत विव­क्षा­मा­त्र­मिति विमृश्य सत इति पक्षं परिगृह्य तत्र भिद्यते कुसू­ले­ने­त्यु­दा­हृत्य तत्राप्यन्ये भेदनकर्तारो वातवृष्ट्यादयो येऽकालाः सन्तीत्याशङ्क्य वातवृष्ट्यभावे चिरकालकृतस्य कुसूलस्य भेदने नान्यः कर्ताऽस्तीति तत्रै­वो­क्त­त्वाच्च ।
स्वयं­क­र्तृ­क­त्वा­न्य­क­र्तृ­क­त्वाभ्यां सर्गे इति ।
ननु - स्वयंकर्तृकत्वे विगानानुवृत्तौ कथं स्रष्ट­र्य­वि­गा­नम् ? न च स्वयं­क­र्तृ­क­त्व­पक्षे स्वयमेव कर्ताऽस्तीति तत्राऽ­वि­गा­न­सिद्धिः । न हि स्रष्टृमात्रे इहाविगानं विवक्षितं, किं तु सर्व­ज्ञ­त्व­स­र्वे­श्व­र­त्वा­दि­वि­शिष्टे स्रष्टरि ; अग्रे भाष्य­टी­क­यो­स्त­त्रै­वा­वि­गा­न­प्र­द­र्श­नात् । किं च कर्मकर्तरि लकारेण प्रपञ्चस्य स्वव्यापारं भवनं प्रत्येव कर्तृत्वं सिद्ध्यति , न तु तत्प्र­यो­ज­क­व्या­पारं भावनरूपं सर्गं प्रतीति न तेन स्रष्टृ­मा­त्रेऽ­प्य­वि­गा­न­सिद्धिः । लूयते इत्यत्रापि केदारस्य स्वव्यापारं द्विधाभवनं प्रत्येव कर्तृत्वमर्थो न तु प्रयोजकव्यापारं द्विधाभवनं प्रति। यथोक्तं कैय्यटेन लुनातिस्तावद् द्विधा­भ­व­नो­प­स­र्जने द्विधाभवने वर्तते । लुनाति केदारं देवदत्तः द्विधा भवन्तं द्विधा भावयतीत्यर्थः । यदा तु केदारस्य सौक­र्या­ति­श­य­वि­व­क्षायां देवदत्तव्यापारो न विवक्ष्यते , तदा द्विद्या­भ­व­न­मात्रे लुनातिर्वर्तते ; अनेकार्थत्वाद् धातूनां , भिन्ना एव वा धातवो भिन्नार्थः ,सारूप्यात्तु तत्त्वाध्यवसायः तत्र द्विधाभवने केदारस्य कर्तृः ’कर्मवत् कर्मणा तुल्यक्रिय’ इति कर्म­का­र्या­ण्य­ति­दि­श्यन्ते । तेन लूयते केदारः स्वयमेवेत्यादयः प्रयोगा उपपद्यन्ते इति। एव­म­न्य­क­र्तृ­क­त्व­प­क्षेऽ­प्य­स­त्क­र्तृ­कत्वं सत्कर्तृकत्वं वेत्या­न्त­रा­लि­क­वि­वा­द­स­त्त्वान्न विव­क्षि­त­रू­प­वि­शिष्टे स्रष्ट­र्य­वि­गा­न­सिद्धिः । तस्मात् स्वयं­क­र्तृ­क­त्वा­न्य­क­र्तृ­क­त्व­वि­गा­ना­नु­वृ­त्ति­म­भ्यु­पेत्य स्रष्ट­र्य­वि­गा­न­व­च­न­म­यु­क्त­मिति - चेत् , अत्रा­य­मा­चा­र्या­णा­मा­शयः - व्याक्रियतेति कर्मकर्तृलकारेण सृज्यस्य प्रपञ्चस्य प्रपञ्चात्मना कर्तृत्वमुच्यत इति न पूर्वपक्षः , किंतु ’तदात्मानं स्वयमकुरुत बहु स्यां प्रजा­ये­ये’त्या­दि­श्र­व­णा­त्प­र­मे­श्व­र­स्यैव प्रपञ्चभावेन परिणाम इति तदभेदं सिद्धं कृत्वा प्रपञ्चस्य परमेश्वरात्मना स्वक­र्तृ­त्व­मु­च्यत इति। एवं श्रुत्य­न्त­रा­र्थ­सि­द्ध­व­त्का­र­सू­च­ना­र्थ­मेव पूर्वपक्षे तन्नामरूपाभ्यां व्याक्रि­य­ते­त्या­दी­नी­त्या­दि­ग्र­हणं कृतम् । ततश्च स्वयं­क­र्तृ­क­त्व­वि­गा­ना­नु­वृ­त्ता­वपि स्रष्ट­र्य­वि­गा­न­म­स्तीति तद्वचनमुपपन्नम् । अन्य­क­र्तृ­क­त्व­कोटिः प्राक्प्र­वृ­त्ता­न­न्द­म­या­धि­क­र­णा­दि­प­र्या­लो­च­ने­ने­वा­त्रापि यथा­व्य­प­दि­ष्टो­क्ते­रिति हेतुना पुनः प्रव­र्ति­त­याऽ­स­त्क­र्तृ­क­त्व­को­टि­र्नि­र­स्तेति असद्वादनिराकरणे ब्रह्म­प­र­मे­श्व­र­क­र्तृ­क­त्व­प­र्य­व­सा­यि­नीति तस्यामपि कोटौ स्रष्ट­र्य­वि­गा­न­व­च­न­मु­प­प­न्नम् । एव­म­न्य­क­र्तृ­क­त्व­कोटेः स्रष्ट­र्य­वि­गा­न­प­र्य­व­सा­न­म­स­द्वा­द­नि­रा­क­र­ण­सा­पे­क्ष­मिति तन्निराकरणमिति श्लोके संगृहीतम् । तन्निराकरणं च यथा­व्य­प­दि­ष्टो­क्ति­हे­तु­नैव सिद्ध्य­ती­त्या­वि­ष्क­र्तु­मे­वाग्रे तन्नि­रा­क­र­ण­प्र­प­ञ्च­ना­न­न्तरं कारणत्वेनेति सूत्रं व्याख्याय स्वयं­क­र्तृ­क­त्व­नि­रा­क­रणं समा­क­र्ष­सू­त्र­ता­त्प­र्य­वि­ष­य­त्वा­भि­प्रा­येण तदनन्तरं कृतम् ।
कर्मकर्तरि कर्मणि वेति ।
कर्मणीति पक्ष एव युक्ततरः ; अव्या­कृ­त­मा­सी­दिति कर्मण्येव निष्ठान्तस्य प्राक् प्रयोगात् । एकविषययोः प्रागव्याकृतं पश्चा­द्व्या­क्रि­य­तेति प्रयोगयोः प्रागच्छिन्नं वन­मि­दा­नी­म­च्छि­द्य­तेति प्रयो­ग­यो­रि­वै­का­र्थ­प­र­त्वा­व­श्यं­भा­वात् । न ह्यव्या­कृ­त­मि­त्यपि कर्मकर्तरि प्रयोग इति वक्तुं शक्यम् ; अने­ना­व्या­कृ­त­मिति तृती­या­प्र­स­ङ्गात् । कर्मणः कर्तृ­त्व­वि­व­क्षायां हि धातो­र­क­र्म­क­त्वा­द्भावे निष्ठेति कर्तुरनभिधानात् तृतीययैव भाव्यम् । न च - कर्मकर्तरि कर्मणि वा लकारेण कर्त्रा­क्षे­पेऽपि सक­र्तृ­श्रु­त्य­न्त­रा­नु­सा­रात् प्रपञ्चाभिन्नं स्यादिति स्वक­र्तृ­त्व­श­ङ्का­त­द­व­स्थेति – वाच्यम् ; आर­म्भ­णा­धि­क­र­णा­दिषु परिणामवादस्य निरा­क­र­णी­य­त्वा­दिति भावः । एवं तर्ह्या­न­न्द­म­या­धि­क­र­णा­दि­नि­र्णी­ता­र्थ­स्या­र­म्भ­णा­धि­क­र­णा­दि­नि­र्णी­ता­र्थस्य च पर्या­लो­च­ने­नै­वा­स­त्क­र्तृ­क­त्व­प­र­ता­श­ङ्कायाः परि­णा­म­वा­दा­व­ल­म्ब­न­स्व­क­र्तृ­क­त्व­प­र­ता­श­ङ्का­याश्च निर­स­न­स­म्भ­वा­न्नि­रा­ल­म्ब­न­पू­र्व­प­क्ष­मि­द­म­धि­क­र­ण­मिति चेत् , सत्यम् ; तथा­प्य­स­दा­दि­श­ब्द­श्र­व­ण­मा­त्र­सं­तुष्टः सांख्यः कारणवाक्येषु परस्परविरोधं तेषा­म­नि­र्णा­य­कत्वं चोद्घाट्य स्मृति­न्या­या­भ्या­मेव जगत्कारणं निर्णेतव्यमिति मन्य­मा­न­स्त­द­नु­सा­रे­णैव पूर्वा­प­र­वा­क्य­यो­ज­नायां प्रयतते , तद­नु­श­य­नि­रा­क­र­णा­र्थ­मि­द­म­धि­क­र­णम् । अत एव भाष्ये - पूर्व­प­क्षो­प­सं­हा­र­वाक्यं स्मृति­न्या­य­प्र­सि­द्धिभ्यां तु कार­णा­न्त­र­प­रि­ग्रहो न्याय्य इति। अतो मिथ्याभूतायां सृष्टौ विगानं न दोष इति। अक­ल्पि­त­व­स्तु­प्र­ति­प­त्त्यु­पा­य­तया कल्प्यमाने विगानं क्वचिदपि न दोषः । यथा तात्त्वि­का­रु­न्ध­ती­प्र­ति­प­त्त्यु­पा­य­तया नानापुरुषैः कल्प्यमानायां तत्प्रा­च्यो­दी­च्या­दि­न­क्ष­त्र­रू­पायां स्थूला­रु­न्ध­त्याम् , यथा वा रेखागवयन्यायेन नित्य­श­ब्द­प्र­ति­प­त्त्यु­पा­य­तया नानाव्याकरणैः पर­स्प­र­भि­न्न­प्र­कृ­ति­प्र­त्य­य­वि­भा­गेन कृत्रिमशब्द इति भावः॥

जगद्वाचित्वात् ॥१६॥
हैरण्यगर्भेति ।
ननु - किमिह हैरण्यगर्भं मतं विवक्षितम् ? सत्य­लो­का­दि­प्रा­प्त्यर्थं हिरण्यगर्भ उपास्य इति मतमिति चेद् , न ; सिद्धान्तेऽपि श्रुतिषु तत्र तत्र तदु­पा­स­न­स्या­ङ्गी­कृ­त­त्वेन तस्यासाधारण्येन हैर­ण्य­ग­र्भ­म­त­त्वा­भा­वात् , अधिकरणस्य ब्रह्म­वा­द­वि­रो­धि­कृ­न्म­त­नि­रा­सा­र्थ­त्वा­भावे विषयवाक्यस्य हिर­ण्य­ग­र्भो­पा­स­ना­प­र­त्व­नि­र­स­न­मा­त्रेण विव­क्षि­त­पा­द­सं­ग­त्य­ला­भाच्च , हिरण्यगर्भ एव मुमु­क्षु­भि­रु­पास्यं परं ब्रह्मेति मतमिति चेद् , न ; पूर्वपक्षे तदनुवादस्य सिद्धान्ते तन्निरसनस्य चाप्रदर्शनात् , हिरण्यगर्भस्य पर­ब्र­ह्म­प­र­त्व­म­ङ्गी­कृ­त्यैव परि­च्छि­न्न­फ­ल­क­त­दु­पा­स­ना­प­र­त्वस्य पूर्वपक्षावसरे प्रदर्शनादिति - चेत् , उच्यते ; उपन्यस्तो हिर­ण्य­ग­र्भ­पू­र्व­प­क्षोऽ­यम् । अजा­त­श­त्रो­र्भ्रा­न्त­त्व­मृ­षा­वा­दि­त्व­दो­ष­प­रि­हा­रार्थं हिरण्यगर्भ एवोपक्रान्तं मुमुक्षूपास्यं परं ब्रह्मास्त्विति हैर­ण्य­ग­र्भ­म­त­मा­दाय परिष्कर्तुं शक्यत इति कक्षान्तरे तत्पर्यवसायो भवेद् अत­स्त­न्म­त­नि­र­स­न­मपि कर्मशब्दे योग­व्य­व­स्था­प­ना­दिना तन्मतोपस्थापकं लिङ्गमिह नास्तीति प्रदर्शनेन विव­क्षि­त­मि­त्या­चा­र्या­णा­म­भि­प्रायः । अत एव तस्य मतस्य द्योत्य­त्व­मे­वो­प­न्यस्तं नानुवाद्यत्वम् ।
जीवाज्जज्ञे इति ।
परकीय उपालम्भकश्लोकः । अध्या­रो­पा­प­वा­दाभ्यां यन्निष्प्रपञ्चं वेदान्तानां प्रति­पि­पा­द­यि­षितं तत्र खलु तेषां समन्वयः । एवं च वाचस्पतिमते जीव एव समन्वयः पर्यवस्यति तन्मते जीवा­श्रि­ता­वि­द्या­प­रि­णा­मस्य प्रपञ्चस्य जीवेऽध्यारोपेण तत्रै­वा­प­व­द­नी­य­त्वात् । अतो जीवे समन्वयं पूर्वपक्षीकृत्य निरस्यन् वाचस्पतिः कथं न लज्जि­त­वा­नि­त्यर्थः ।
सकारणमिति ।
कारणशब्दः सूक्ष्मभूतपरः अविद्यापरो वा ; तस्या अपि प्रवा­हा­ना­दि­भ्र­म­क­ल्पि­त­त्वात् ।
अधिष्ठानं हीति ।
अधिष्ठानं विव­र्ता­ना­मा­श्रयो ब्रह्म शुक्तिवत् ।
जीवा­वि­द्या­दि­कानां स्यादिति सर्वमनाकुलम् ॥
इति प्रागे­वा­चा­र्यै­र्वा­च­स्प­ति­मते ब्रह्मणः सजी­वा­वि­द्या­स­क­ल­प्र­प­ञ्चा­धि­ष्ठा­न­त्व­मु­क्त­मि­हा­नु­सं­धे­यम् ।
पूर्व­प­क्ष­त्वा­दिति ।
ननु - असद्वादवदस्य निराकरणं न दृश्यत इति - चेत् , दृश्यत एव, ’मृषा वै खलु मा संवादयिष्ठा’ इति। तर्हि मृषावादित्वेन बालाकिमपोद्य स्वय­म­प्य­जा­त­श­त्रु­र­ब्र­ह्मो­प­दि­शति चेत् सोऽपि मृषावादी स्यादिति चेद् , न ; बालाकिवद् ब्रह्मो­प­दि­शा­मी­त्यु­प­क्रम्य ब्रह्मोपदेशे हि मृषावादित्वं स्यात् , तदुपक्रमाभावे कुतो मृषा­वा­दि­त्व­प्र­सङ्गः ? ब्रह्मो­प­दे­शार्थं प्रवृत्तस्य बाला­के­र­ब्र­ह्मो­प­दे­शाद् मृषावादित्वेन निरसनानन्तरं स्वय­म­ब्र­ह्मो­प­देशे का संगतिरिति चेत् , एषा संगतिः । त्वदुक्तं तावत् किमपि ब्रह्म न भवति , अहमपि ब्रह्म न पश्यामि , अत इदानीं फलार्थिना त्वया हिरण्यगर्भ एव वेदितव्य इति। दृश्यते हि रसवादिनं ब्रवाणीति प्रति­ज्ञा­त­व­तो­दा­हृ­तान् पुरुषान् विप्र­ल­म्भ­क­त्वा­दि­त­त्त­त्स्व­रू­पो­प­न्या­सेन प्रत्याख्याय ततः पर­मु­दा­ह­र­णी­य­पु­रु­षा­भा­वात् तुष्णींभूते तस्मिन् प्रतिवक्ता स्वयमपि रसवादिनमपश्यता राजैव धना­र्थि­नो­प­स­र्प­णीय इत्युच्यत इति।
न भ्रान्तो ब्रह्मोपक्रम इति ।
ब्रह्म ते ब्रवाणीति प्रति­ज्ञा­वा­क्येन ब्रह्मो­प­क्रा­न्त­मि­त्ये­तद् न बाधितमित्यर्थः ।
तदे­वो­त्त­र­वा­क्य­ग­तेन लिङ्गेन द्रढयति -
सहस्रमिति ।
दत्तत्वादिति ।
प्रतिश्रुतं दत्तप्रायम् । यद्वा - आशंसायां भूतवत् क्तः । दातु­मा­शं­सि­त­त्वा­दि­त्यर्थः । एवं ब्रह्मो­प­क्र­म­सिद्धौ गार्ग्यस्य भ्रान्तत्वेऽपि यस्यकस्यचिद् वाक्येनास्मिन् प्रकरणे ब्रह्म निर्णि­नी­षि­त­मि­त्य­व­सी­यते ; अन्यथा ब्रह्मो­प­क्र­मो­पा­ख्या­न­नि­ब­न्ध­नस्य प्रकृ­त­वि­द्या­नु­प­यो­गि­ता­पा­ताद् , वैश्वा­न­र­वि­द्या­दिषु प्राची­न­शा­ला­दीनां भ्रान्तत्वेऽपि वैश्वा­न­रा­द्यु­प­क्र­मस्य प्राक­र­णि­क­त­त्त­न्नि­र्ण­या­र्थ­त्व­द­र्श­नाच्च । तथा च लौकि­क­र­स­वा­द­व­च­ना­दि­दृ­ष्टा­न्तोऽत्र न क्रमते इति तात्पर्यम् ।
उपसंहारे इति ।
अन­न्य­था­सि­द्धौ­प­सं­हा­रि­क­जी­व­नि­र्ण­या­नु­सा­रेण ब्रह्मो­प­क्र­म­स्त­द­भे­दा­भि­प्रा­येण योजनीय इति भावः । जीव­पू­र्व­प­क्षोऽयं जीवो­पा­स­ना­वि­धि­वि­षयो न भवति, किंतु पर­ब्र­ह्म­व­ज्ज्ञेयो जीवः प्रतिपाद्य इत्येतद्विषयः । अत एवास्मिन् पूर्वपक्षे प्रथमपूर्वपक्ष इव पादसंगतिर्न प्रदर्शिता ; समनन्तराधिकरणे वक्ष्यमाणैव साऽत्रा­प्यु­न्नेतुं शक्ये­त्य­भि­प्रा­यात् । अन्यथा पूर्वा­धि­क­र­ण­सं­ग­ति­व­त्पा­द­सं­ग­ति­रपि पृथगुच्येत । अत एव च जीवे सम­न्व­य­नि­र­स­न­म­यु­क्त­मिति परकीयोपालम्भः प्राग् दर्शितः । जीवो­पा­स­ना­वि­धि­प­र­त्व­मा­त्रेण हि जीवे समन्वयो न प्रसज्यते , अन्यथा पञ्चा­ग्नि­वि­द्या­दीनां तत्स­म­न्व­य­प्र­स­ङ्गात्।
लाक्षणिक इति ।
धर्मा­ध­र्म­ल­क्ष­णया हि वेदितव्यः स्यादि­त्या­दि­पु­रु­ष­क­र्तृत्वं कीदृशं विव­क्षि­त­मि­त्या­का­ङ्क्षा­या­म­पू­र्व­द्वा­रकं विव­क्षि­त­मि­त्या­का­ङ्क्षि­ता­र्थ­स­म­र्प­क­तया प्रकृतोपयोगि भवति , न परि­स्प­न्द­प­र­ता­या­मिति लक्षणैव ज्यायसीति भावः ।
सप्त­मी­प्र­थ­मा­भ्या­मिति ।
क्व प्राणे इति सप्तमी क्वैष इति प्रथमा प्रतिवचने प्राण­वा­क्येऽ­प्य­न्व­यिनी । तथा च सुषुप्त्याधारः प्राणे वेदितव्यः , पुरुषो न सुषुप्त इति भावः । जीवपूर्वपक्षे तु प्राक­र­णि­क­जी­व­व्य­ति­रे­क­नि­र्देशं निरस्य वाक्यं योजनीयम् । क्वैष इति प्रश्नस्य प्राणे इति प्रतिवचनं न संभवति , किंतु हिता नाम नाड्य इति नाडीः प्रक्र­म्या­म्ना­तम् । तासु तदा भवतीति वचनं कदे­त्या­का­ङ्क्षायां यदा सुप्तः स्वप्नं न कंचन पश्यतीति तच्छेषः । अथास्मिन् प्राण एवैकधा भवतीति प्राण­श­ब्द­नि­र्दिष्टे नाडीस्थे जीवे करणमण्डलस्य लय उच्यते ; तदैनं वाक् सर्वैर्नामभिः सहा­प्ये­ती­त्या­द्य­ग्रि­म­वि­व­र­ण­द­र्श­नात् , स यदा प्रतिबुध्यत इति प्राण­श­ब्द­नि­र्दि­ष्टस्य प्रबो­धो­प­न्या­सा­च्चेति। तामेतां योजनामभिप्रेत्य भाष्यटीकयेाः प्राणभृत्त्वेन जीवस्य प्राण­श­ब्द­वा­च्य­त्व­मु­प­पा­दि­तम् । व्यति­रे­क­नि­र्देशो जीवनाडीविषयः । अतो जीव एव वेदितव्य इति योजना तावदयुक्ता , तथा सति वेदि­त­व्य­स्व­रू­प­स्यैव प्रष्टव्यतया तदा­धा­र­प्र­श्नाऽ­यो­गात् , न च - तस्य नाड्याधारत्वेन पापास्पृष्टतया वेदि­त­व्य­त्वो­प­पा­द­ना­र्थ­मा­धा­र­प्रश्न इति - वाच्यम् ; तथा सति पापा­स्प­र्श­स्यापि वक्त­व्य­त्वा­पत्तेः , न च - सौषुप्तिकनाडीः प्रविष्टस्य पाप्माऽस्पर्शः ’तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवती’ति छान्दो­ग्य­प्र­सि­द्ध­त्वा­न्नोक्त इति - वाच्यम् ; क्वैष एतदिति प्रश्नानन्तरं तदु ह बालाकिर्न विज­ज्ञा­वि­त्यु­क्त­त्वेन सुषुप्तौ नाडी­प्र­वे­श­मे­वाऽ­जा­नतो बाला­के­स्त­त्प्र­वे­श­कृ­त­पा­प्मा­स्प­र्श­प्र­सि­द्ध्य­भा­वात् । तस्माज्जीवाधारो वेदितव्यः पुरुष इति प्रतिपादनार्थ एव स प्रश्नः । एवं च तासु तदा भवतीत्येतन्न तदुत्तरम् ; नाडीनां वेदि­त­व्य­पु­रु­ष­त्वा­भा­वात् । तत्तु ता हि प्रत्यवसृप्य पुरीतति शेते इति श्रुत्य­न्त­रा­नु­सा­रेण हृद­या­व­च्छि­न्न­ब्र­ह्म­प्रा­प्ते­र्मा­र्गो­प­दे­श­प­रम् । द्वितीयप्रश्नः कर­ण­ग्रा­मा­धि­क­र­ण­वि­षय इत्यपि न युक्तम् ; ’क्वैष एतद् बालाके पुरुषोऽशयिष्ट’ ’क्व वा एतदभूत्’ ’कुत एतदागादि’ति प्रश्नत्रयेऽपि प्रथ­म­प्र­श्न­नि­र्दि­ष्ट­स्यैव कर्तु­र­न्व­य­प्र­तीत्या कर्त्र­न्त­रा­ध्या­हा­राऽ­यो­गात् । तथा सति प्रथ­म­द्वि­ती­य­प्र­श्नयेाः पुनरुक्तिः स्यादिति चेद् , न ; द्विती­य­प्र­श्नस्य प्राण एवैकधा भव­ती­त्यु­त्त­रा­नु­सा­रेण तादात्म्येन भवनविषयत्वाद् निर्देश इति सिद्धवत्कृत्य हिर­ण्य­ग­र्भ­पू­र्व­पक्षे पर्यवसानं कृतम् । कुत एत­दा­गा­दि­त्य­पा­दा­न­प्र­श्न­स्यापि कुत­स्ता­दा­त्म्य­भ­व­ना­धि­क­र­णा­दा­गत इत्य­र्थ­प­रि­ग्र­हेऽ­स्यैव साफ­ल्य­स्यो­प­पा­द­नी­य­त्वात् । यत्र धर्मिणि शयितस्तत आगादिति स्वत एव ज्ञातुं शक्यत्वेनापतिता हि तन्नै­ष्फ­ल्य­शङ्का तादा­त्म्य­भ­व­ना­धि­क­र­ण­स्या­लौ­कि­क­त्वे­ना­सं­भा­वि­त­त्वा­त्त­द्दृ­ढी­क­र­णा­र्थ­स्त­था­भू­ता­धि­क­र­णा­दा­ग­म­न­प्रश्न इत्युपपादनेन परिहरणीया ।
तदेनं वागिति ।
अत्रैतत्पदं प्राणपरामर्शि ; तस्य सप्त­म्य­न्त­नि­र्दि­ष्ट­त्वेऽपि प्रति­पि­पा­द­यि­षि­त­त्वेन प्राधान्यात् । ततश्च वाक्च­क्षुः­श्रो­त्र­म­नसां सर्वैः स्वस्वविषयैः सहाप्ययोक्तौ जीवस्यापि मनो­वि­ष­य­त्वा­न्म­न­उ­पा­धि­क­त्वाद्वा तस्मिन्नप्यय उक्तो भवतीति शय­न­प्र­श्नो­त्त­र­त्व­लाभः ; शय­न­प्र­श्न­स्यो­त्त­रा­न्त­राऽ­द­र्श­नात् , तदे­न­मि­त्या­दे­स्त­द­नु­त्त­रत्वे भव­ना­पा­दा­नो­त्त­र­द्व­य­म­ध्या­म्ना­तस्य तस्य वैफ­ल्य­प्र­स­ङ्गाच्च ; एव­मे­वै­त­स्मा­दा­त्मन इत्यादेः सामान्यमुखेन जीवो­द्ग­म­ना­पा­दा­न­प्र­श्नो­त्त­र­त्व­व­त्त­देनं वागित्यादेरपि सामान्यमुखेन जीव­श­य­ना­धि­क­र­ण­त्वस्य प्रबोधे तदु­द्ग­म­ना­पा­दा­न­त्वस्य चासंभवाच्चेति भावः ।
आत्मशब्दादपीति ।
आप्लृ व्याप्ताविति धातु­ता­दा­त्म्य­श­ब्दा­दि­त्यर्थः ।
निर्णी­ता­र्थ­वाक्ये इति ।
रूढिमभ्युपेत्य तद्बा­ध­ना­र्थ­मे­व­मुक्तिः । वस्तुतस्तु - परिस्पन्दे विशिष्य शक्ति­र्ना­भ्यु­पेया ; बर्हि­रा­ज्या­दि­श­ब्दानां संस्कृतेष्विव द्विती­या­तृ­ती­या­दि­श­ब्दानां तिथिविशेषेष्विव च योगरुढ्या सामान्यशक्त्यैव तत्र प्रयोगनिर्वाहे विशिष्य शक्त्य­न्त­र­क­ल्प­नस्य गौरवपराहतत्वात् । किंच परिस्पन्दे विशिष्य शक्त्य­न्त­र­क­ल्पने परि­स्प­न्दाऽ­न­पे­क्ष­यो­र्मा­न­स­पु­ण्य­पा­प­यो­रपि कर्म­श­ब्द­प्र­यो­ग­स­त्त्वेन तत्रापि विशिष्य शक्त्यन्तरस्य कल्पनीयतया रुढिद्वये परस्परं कलहायमाने लब्धोन्मेषेण योगेन कर्म­मा­त्रो­प­स्थितिः संभवतीत्यपि द्रष्टव्यम् ।
अर्था­त्सू­च­ना­ज्ञा­ना­दिति ।
ननु - अर्थात् सूत्रेण सूचितमर्थं जानतां सूक्ष्मधियां वा कथमिदं प्राण­पू­र्व­प­क्ष­नि­रा­क­र­ण­स­म­र्थ­मिति धीः स्याद् ? यष्टिघातादिना हि व्यष्टि­प्रा­णा­न्यत्वं स्याद् ? न तु सम­ष्टि­प्रा­णा­भि­मा­नि­दे­व­ता­रू­प­हि­र­ण्य­ग­र्भा­न्य­त्व­मपि । नचामन्त्रणे बृहद्विशेषणेन तल्लाभः । व्यष्टेरपि चक्षु­रा­द्य­पे­क्ष­म­ह­त्त्व­स­त्त्वात् , सुषु­प्ति­द­शा­या­मु­प­र­त­व्या­पा­रेभ्यः शरी­रे­न्द्रि­ये­भ्योऽ­न्यत्वं सुज्ञानमिति तस्यामपि दशा­या­म­नु­प­र­त­व्या­पा­राद् व्यष्टि­प्रा­णा­द­न्य­त्व­ज्ञा­प­ने­नै­वा­म­न्त्र­णादेः साफ­ल्य­स्यो­प­पा­द­नी­य­त्वा­च्चेति - चेत् , सत्यम् ; अभ्यु­च्च­य­यु­क्ति­रि­यम् । अत एव भाष्येऽपि तथैवोक्तम् । एवं वाजसनेयशाखायां प्राणशब्दस्थाने आका­श­श­ब्दा­म्ना­न­म­भ्यु­च्च­या­न्त­रम् । स हि परमात्मनि प्रसिद्धो न हिरण्यगर्भे । इद­म­प्या­का­श­श­ब्द­श्चेति भाष्येण सूचितम् ॥१८॥
इति पञ्चमं जग­द्वा­चि­त्वा­धि­क­रणं बालाक्यधिकरणं संपूर्णम् ॥

वाक्यान्वयात् ॥१९॥
वाक्यसंदर्भं व्याख्यातीति ।
पतिः प्रियो भव­ती­त्या­दि­भि­र्वाक्यैः पत्यादीनां प्रेम­वि­ष­य­त्वोक्तिः कथं तेषु वैरा­ग्यो­त्पा­द­नी­त्या­दि­श­ङ्का­नि­रा­सा­ये­त्यर्थः । पति­जा­या­दि­वा­क्येषु वैशब्दः प्रसि­द्ध्य­नु­वा­दकः । प्रसिद्धं ह्येतत्तवापि मैत्रेयि पत्यादयो जायादीनां पत्या­दि­प्र­यो­ज­नाय प्रिया न भवन्ति , किं तु स्वप्रयोजनाय । अत एव तेषु स्वेष्ट­सं­पा­द­क­त्व­द­शा­या­मिव स्वानि­ष्ट­सं­पा­द­क­त्व­द­शायां न प्रेमा । अतः सोपाधिकं प्रिय­त्व­मे­ते­षा­मा­त्मन एव निरुपाधिकमिति पति­जा­या­दि­वा­क्येषु परिहारप्रक्रिया । टीका स्पष्टेति न विवृता । यद्येवं तर्हि पत्यपेक्षया स्वात्मनः प्रियत्वं मैत्रेय्याः स्वानु­भ­व­सा­क्षिकं प्रसिद्धं तद्दृ­ष्टा­न्ते­नो­त्त­र­वा­क्या­ना­मपि प्रसि­द्धा­र्थ­वि­ष­य­तया सिद्धिः इत्येवं निरु­पा­धि­क­प्रे­मा­स्प­दत्वं जीवलिङ्गमेव पर्यवसितम् । एतदनुसारेण श्रव­णा­दि­वा­क्य­ग­त­स्या­प्या­त्म­श­ब्दस्य जीवविषयत्वं प्राप्नोतीति कथमिदं पूर्वपक्षलिङ्गं सिद्धा­न्तो­प­पा­द­क­तया टीकायां लिखितं ? जीवलिङ्गमेवेदम् अमृ­त­त्वो­प­क्र­मा­दि­व­शात् प्रात­र्द­न­न्या­येन परमात्मनि पर्य­व­स्य­ती­त्या­श­ये­नै­त­दु­प­न्य­स्तम् । अत एव प्रातर्दननयेन गतार्थतामाशङ्कत इत्य­व­ता­रि­का­ग्रन्थः ।
विदितं भवतीति वाक्यशेष इति टीकाग्रन्थेन भव­ति­मा­त्र­स्या­ध्या­हारो विवक्षितो विदितमित्यस्य श्रुता­वा­म्ना­ना­दि­त्याह -
विदि­त­मि­त्य­स्या­न­न्त­र­मिति ।
अना­त्म­दृ­ष्टा­विति ।
आत्म­व्य­ति­रि­क्त­स्ता­त्त्विकः प्रपञ्च इति दृष्टावित्यर्थः । एवं च योऽन्यत्रात्मन इति वाक्येषु प्रथमार्थे त्रल्प्रत्ययो द्रष्टव्यः । ‘समं समा­धा­न­म­न्य­त्रा­भि­नि­वे­शाद्’ ’अन्यत्र भीष्मा­द्गा­ङ्गे­या’दि­त्या­दि­लौ­कि­क­प्र­यो­गे­ष्वपि हि तस्य प्रथमार्थ एव स्वारस्यं दृश्यते । एवं प्रथ­मा­र्थ­प­रि­ग्रह एवाग्रिममिदं ब्रह्मेदं क्षत्रमिमे लोका इमे वेदा इमानि भूतानि इदं सर्वं यदयमात्मेति सामा­ना­धि­क­र­ण्य­वाक्यं समञ्जसं भवति।
नियो­ज्य­त्वा­वि­र्भा­व­ने­नेति ।
ब्राह्म­णा­दि­जा­ति­र्भे­द­द­र्शिनं न साक्षा­न्मो­क्षाद् भ्रंशयति, किं तु टीकोक्तं ब्राह्म­णोऽ­ह­मि­त्या­द्य­भि­मा­न­म­पेक्ष्य, सोऽपि ब्राह्म­णा­दि­क­र्मणि नियो­ज्य­त्वा­धि­का­रि­त्व­बु­द्धि­म­पेक्ष्य, तया हि बुद्ध्या सांसा­रि­क­फ­ल­क­र्मा­नु­ष्ठा­नेन साक्षात्पुरुषः प्रच्युतो भव­ती­त्य­भि­प्रेत्य नियो­ज्य­त्वा­दि­भा­व­ना­प­र्य­न्तोक्तिः ।
दुन्दु­भि­वा­क्य­मा­त्मैव प्रपञ्चस्य तत्त्व­मि­त्य­त्रो­प­प­त्ति­प­र­तया स्पष्टं न प्रतीयत इत्याशङ्क्य व्याचष्टे -
यथा लोके इति ।
ननु - अक्लि­ष्ट­म­र्था­न्त­र­मस्य वर्णयितुं शक्यम् । दुन्दुभौ हन्यमाने ततो बहिर्निःसरतः शब्दान् न कश्चिदपि निरोद्धुं शक्नुयात् , किं तु दुन्दु­भे­र्नि­रो­धेन तदा­ह­न्तृ­पु­रु­ष­नि­रो­धेन वा दुन्दुभिशब्दो निरुद्धो भवतीति। सत्यम् ; इतोऽ­प्य­नि­ष्ठ­त­रम् अर्थान्तरं वर्णयितुं शक्यम् । दुन्दुभौ हन्यमाने बाह्यान् दुन्दु­भि­श­ब्द­व्य­ति­रि­क्तान् मानुषादिशब्दान् दुन्दु­भि­श­ब्दा­भि­भू­तान् ग्रहीतुं न शक्नुयाद् दुन्दु­भे­स्त­दा­ह­न्तृ­पु­रु­षस्य वा निरोधेन मानुषादिशब्दो गृहीतो भवतीति। अत्र हि बाह्यशब्दः सफलः । बहिर्निःसरत इत्यर्थवर्णने तु निष्फलः ; दुन्दुभिशब्दे ततो बहिर्निस्सरणस्य स्वाभाविकत्वेन वाक्याभावात् । न च चोरादेरिव शब्दस्य निरोधोऽस्ति , उत्प­त्त्य­भि­व्य­क्ति­प्र­ति­ब­न्धस्तु न निरोध इति प्रसिद्धः । पूर्वा­प­र­प­रा­म­र्शा­नु­सा­रे­णा­र्थ­व­र्णने तु प्रकृतः सार्वा­त्म्यो­प­पा­द­क­दा­र्ष्टा­न्ति­का­नु­गुण एवार्थो वर्णनीयो न प्रकृ­ता­नु­प­यो­ग्य­र्था­न्त­रम् । ननु - दुन्दु­भि­ह­न­ना­नु­वृत्तौ दुन्दुभिशब्द इवे­न्द्रि­य­व्या­पा­रा­नु­वृत्तौ बाह्या­र्थ­प्र­त्ययो निरोद्धुं न शक्यते । तस्मा­दा­त्म­द­र्श­ना­र्थिना तद्विरोधी बाह्या­र्थ­प्र­त्यय इन्द्रियनिरोधेन तद्वि­जृ­म्भ­ण­हे­तु­म­नो­नि­रो­धेन वा निरोद्धव्य इत्य­क्लि­ष्टा­र्थ­व­र्ण­न­स्यापि प्रकृ­तो­प­यो­गि­त्व­मु­प­पा­द­यितुं शक्यमिति - चेत् । एवमेव दुन्दुभिशब्देन प्रतिबन्धे सति मानुषादिशब्दो ग्रहीतुं न शक्यत इति तदग्रहणाय दुन्दुभिनिरोधकं यथाऽपेक्ष्यते , एवं बाह्ये­न्द्रि­य­व्या­पा­रेण प्रतिबन्धे सत्यात्मस्वरूपं ग्रहीतुं न शक्यत इति तन्नि­रो­ध­क­म­पे­क्ष्यत इति दार्ष्टा­न्ति­क­क­ल्पने प्रकृ­तो­प­यो­गि­त्व­म­क्लि­ष्ट­त­रा­र्थ­व­र्ण­न­स्यापि कल्पयितुं शक्यमेव । किं त्विदं सर्वं यद­य­मा­त्मे­त्य­व्य­व­हि­त­पू­र्व­वा­क्य­प्र­कृ­ता­र्थो­प­पा­द­क­दा­र्ष्टा­न्ति­क­क­ल्प­नया तद­नु­गु­ण­दृ­ष्टा­न्त­प­र­त्व­व­र्ण­न­मेव युक्ततममित्यलं विस्तरेण ।
दुन्दु­भ्या­घा­त­सं­ज्ञक इति ।
वीरा­दि­र­स­सं­युक्तो दुन्दुभ्याघात उच्यते इति वार्तिककाराः ।
धूमग्रहणमिति ।
एतदुक्तं भव­ती­त्या­द्य­ग्रि­म­टी­कायां धूमस्थाने विस्फु­लि­ङ्गो­प­न्या­सात् तदु­प­ल­क्ष­ण­त्वोक्तिः।
अथ­र्वा­ङ्गि­र­सोऽन्त इति ।
अथर्वाङ्गिरस इत्येतदन्त इत्यर्थः।
देवयजनविद्येति ।
देवविद्या देव­ता­का­ण्ड­वि­चा­रितो यज्ञा­ङ्ग­दे­व­ता­स्व­रू­प­स­म­र्थको वेदभागः। यजनविद्या इष्टि­प­शु­सो­मा­दि­वि­धि­प्र­पञ्चः।
अर्था­द­र्थ­सृ­ष्टि­रु­क्तेति ।
यद्यपि षष्ठे मैत्रे­यी­ब्रा­ह्मणे सूत्रा­ण्य­नु­व्या­ख्या­ना­नी­त्ये­त­द­न­न्त­र­मिष्टं हुतमाशितं यापितमयं च लोकः परश्च लोकः सर्वाणि च भूता­न्य­स्यै­वै­तानि सर्वाणि निःश्वसितानीति रूप­प्र­प­ञ्च­सृ­ष्टि­रपि कण्ठत एवोक्ता पृथ­क्क­र्म­प्र­प­ञ्च­सृ­ष्टि­र­प्य­धि­कोक्ता , तदनुसारेण केषुचिद् भाष्यकोशेषु नाम­रू­प­क­र्म­प्र­प­ञ्च­का­र­णतां व्याचक्षाण इति कर्मग्रहणमपि दृश्यते; तथापि चतुर्थी मैत्रे­यी­ब्रा­ह्मणे भाष्य­का­रै­र्वि­ष­य­वा­क्य­त्वे­नो­दा­हृते इष्टं हुत­मि­त्या­द्य­ना­म्ना­ना­दे­व­मुक्तिः , एवं चतुर्थे मैत्रे­यी­ब्रा­ह्मणे यथा­र्द्रै­धा­ग्ने­र­भ्या­हि­ता­दिति पञ्च­म्य­न्ता­म्नाने सत्यपि टीका­या­म­भ्या­हि­त­स्येति षष्ठ­मै­त्रे­यी­ब्रा­ह्म­ण­ग­त­ष­ष्ठ्य­न्त­पा­ठ­ले­खनं पञ्चम्यर्थे षष्ठ्याविति तद्व्याख्यानं च षष्ठ्य­न्ता­म्ना­त­स्यापि प्रस­ङ्गा­द­त्रै­वा­र्थ­नि­र्णयो भव­त्वि­त्य­भि­प्रे­त्येति द्रष्टव्यम् ।
नन्व­धि­क­र­णाऽ­ना­र­म्भ­श­ङ्का­व­सरे सिद्धा­न्त­भा­ष्य­व्या­ख्या­नस्य का सङ्ग­ति­रि­त्या­का­ङ्क्षा­या­माह -
सिद्धान्त एवेति ।
सिद्धान्तस्य स्फुटत्वाद् न पूर्व­प­क्षोऽ­स्तीति खल्वत्र शङ्का क्रियते अतः सिद्धा­न्त­स्फु­ट­त्वो­प­पा­द­न­स­मये सिद्धा­न्त­भा­ष्य­व्या­ख्या­नस्य प्रासङ्गिकी सङ्ग­ति­रि­त्यर्थः।
यथा सैन्धवेति ।
स यथा सैन्धवखिल्य उदके प्रास्त उद­क­मे­वा­नु­वि­ली­ये­ते­त्या­दि­च­तु­र्थ­मे­त्रे­यी­ब्रा­ह्म­ण­ग­त­दृ­ष्टा­न्तो­क्ति­पू­र्व­क­वा­क्ये­ने­त्यर्थः। सैन्ध­व­खि­ल्य­वा­क्यात् प्राचीनं स यथा सर्वा­सा­मि­त्या­द्ये­का­य­न­वा­क्य­जा­त­म­प्या­त्य­न्ति­क­लये प्राकृतलयं दृष्टा­न्ती­कर्तुं प्रवृत्तमिति टीकार्थं दर्शयन्नवतारयति
आत्यन्तिक इति ।
नन्वा­त्य­न्ति­क­लये प्राकृतलयो दृष्टान्तश्चेत् सर्वेषां स्पर्शा­ना­मि­त्या­दिना दृष्टा­न्त­मु­क्त्वेति वक्तव्यं कथं सर्वा­सा­म­पा­मि­त्या­दिना दृष्टा­न्त­मु­क्त्वेति टीकाग्रन्थः ? इत्याशङ्क्य सर्वा­सा­मि­त्या­दि­प्रा­कृ­त­ल­य­दृ­ष्टा­न्त­व­च­न­म­प्या­त्य­न्ति­क­ल­य­दृ­ष्टा­न्तो­प­पा­द­क­तया तद्दृ­ष्टा­न्त­को­ट्य­न्त­र्भू­त­मिति ततःप्रभृति दृष्टा­न्त­वा­क्य­तया टीका­या­मु­पा­त्त­मि­त्या­श­ये­नाह -
समुद्रे अपां लय इति ।
ननु त्वगा­दि­वा­क्य­जातं वा कथ­मा­त्य­न्ति­क­ल­य­दृ­ष्टा­न्त­व­चनं स्यात् ? तेन हि सर्वा­सा­म­पा­मि­त्या­दि­दृ­ष्टा­न्तो­क्ति­पू­र्व­क­मि­न्द्रि­याणां स्वस्व­वि­ष­या­य­त­न­त्व­मु­च्यते , न तु ब्रह्मण: प्राकृ­त­प्र­प­ञ्च­त्र­या­धा­र­त्व­मि­त्या­शङ्क्य व्याचष्टे -
तत्रहीति ।
सर्वा­सा­म­पा­मि­त्या­दि­दृ­ष्टा­न्त­व­च­नेन समुद्रस्य नद्या­दि­स­क­ल­त्र­या­धा­र­त्व­मु­च्यते ; यथा नद्यः स्यन्दमाना इत्या­दि­श्रु­त्य­न्त­रेषु तथैव समु­द्र­स­लि­ल­दृ­ष्टा­न्त­व­र्ण­न­द­र्श­नात्। ततश्च तदनुसारेण दार्ष्टा­न्ति­क­व­चने त्वगादिशद्बैः स्पर्शा­दि­सा­मा­न्यानि लक्षयित्वा तेषु तद्विशेषाणां लय­प्र­ति­पा­द­न­द्वारा क्रमेण परमकारणे ब्रह्मणि स्पर्शा­दि­सा­मा­न्या­ना­मपि लयप्रतिपादने तात्पर्यं वर्णनीयम् । प्राकृतस्य लयस्यापि पर­म­का­र­ण­प­र्य­न्त­तायाः श्रुत्यन्तरेषु पुराणेषु च प्रति­प­न्न­त्वा­दिति भावः।
एवं वा अरे इति ।
इयं श्रुति­रौ­पा­धि­क­खि­ल्य­भा­व­नि­वृत्त्या लवणं समुद्रभावमिव जीवो ब्रह्मभावं प्राप्नोतीति बोधयति ; धर्म­वि­शे­ष­घ­टि­त­सा­दृ­श्य­प्र­ति­पा­द­क­य­थै­वं­श­ब्द­यो­गात् , सैन्ध­व­खि­ल्य­वा­क्यो­क्त­दृ­ष्टा­न्तस्य दार्ष्टा­न्ति­क­श­ब्दा­भा­वा­दे­का­य­न­वा­क्य­जा­तो­क्त­दृ­ष्टा­न्तस्य दार्ष्टान्तिकं त्वर्थगत्येति विशेषः।
अमृ­त­त्वो­प­क्र­मात् तदुपपादनादिति हेतुद्वयं तद्वि­ष­य­श्रु­त्यु­दा­ह­र­णेन स्फुटीकरोति -
येनाहमिति ।
आख्या­त­प्र­ति­रू­प­क­मिति ।
अत एव जाते­र­स्ति­त्व­ना­स्तित्वे न हि कश्चि­द्वि­प­क्ष­ती­त्या­दयः प्रयोगाः।
अनु­वा­द्य­वि­धे­य­यो­रिति ।
सत्यप्यभेदे भेदेनापि भाव्यम्, अत्यन्ताभेदे अनु­वा­द्य­वि­धे­य­भा­वाऽ­यो­गा­दि­त्या­श्म­र­थ्या­दि­म­त­मिह मुख्यः पूर्वपक्ष इत्यर्थः।
प्रतिज्ञासिद्धय इति ।
सर्व­वि­ज्ञा­न­प्र­तिज्ञा त्वभे­दां­शे­नो­प­पा­द­नीया, न तु भेदांशेन इत्यनुपयोगाद् भेदांशोऽत्र न परामृष्ट इत्या­श्म­र­थ्य­म­तम् ॥२०॥
वृद्ध­वै­शे­षि­क­दृ­ष्ट्येति ।
गौत­म­सू­त्रेऽ­प्य­नादेः संसारस्य निवृत्तौ प्रागु­त्प­त्ते­र­भा­व­नि­त्य­त्वा­दिति प्राग­भा­व­नि­वृत्तिं दृष्टान्तीकृत्य प्राग­भा­वाऽ­सं­प्र­ति­प­त्ता­व­ना­दि­भा­व­नि­वृत्तौ दृष्टान्तेन भाव्यमित्यनुशये चाणु­श्या­म­ता­नि­त्य­त्व­व­द्वेति पर­मा­णु­श्या­म­ता­नि­वृ­त्ति­दृ­ष्टा­न्ते­ना­ना­दि­भा­व­नि­वृ­त्ति­र­भ्यु­प­गता ।
अर्थ साम्यात्त्विति ।
यथा नद्य इत्या­दि­र्मु­ण्ड­को­प­नि­ष­न्मन्त्राः । यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते त्वासां नामरूपे समुद्र इत्येव प्रोच्यत इति प्रश्नो­प­नि­ष­द्वा­क्यम् । अस्य मन्त्र­पू­र्वा­र्धे­ना­र्थ­सा­म्या­दि­त्यर्थः ॥२१॥
आत्मानं जानात्विति शङ्कायामिति कर्मा­भा­व­दू­ष­ण­मा­त्रो­द्धा­रेण शङ्का । तथापि करणाभावं स्वयमेव प्रकाशमानस्य ज्ञान­क­र्म­ताऽ­न­पेक्षां चोद्घाट्याथ परिहारः।
आत्मैवाभूदिति ।
इदं दूष­ण­द्व­य­मु­प­ल­क्ष­णम्। केन कं विज्ञातारमिति विशे­ष्य­त्र­येऽ­प्य­न्त्य­न्त­भि­न्न­त्व­वि­शे­ष­णा­ध्या­हा­र­गौ­र­व­प्र­स­ङ्गा­च्चे­त्यपि द्रष्टव्यम् । एतेन यत्र यस्यामवस्थायां द्वैतं स्वतन्त्रमिव भवति , तदानीं स्वतन्त्र इतरः स्वतन्त्रं वस्त्व­न्त­र­म­नु­भ­वति। यदा तु सर्वं ब्रह्मपरतन्त्रं प्रकाशते, तदा कश्चेतनः करणेन कं स्वत­न्त्र­म­र्थ­म­नु­भ­वे­दिति केषाञ्चि’द्यत्र हि द्वैत­मि­वे’त्या­दि­वा­क्या­र्थ­क­ल्प­न­म­प्य­ध्या­हा­र­गौ­र­वे­णैव निरस्तम् । किं च षष्ठे स्वप्नावस्थायां जीवस्य स्वयं­ज्यो­तिष्ट्वे सुषुप्यवस्थायां तस्य बाह्या­भ्य­न्त­र­वे­द­न­रा­हित्ये चोक्ते कथं ज्योतिः­स्व­रू­पस्य वेदनराहित्यमिति शङ्कायां विषयाभावाद् न तु द्रष्टृ­स्व­रू­पाया दृष्टे­र्वि­प­रि­लो­पा­दि­त्ये­त­त्प्र­ति­पा­द­नार्थं प्रवृत्तेषु ’यद्वैतन्न पश्यति पश्यन्वैतन्न पश्यति न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते अविनाशित्वाद् न तु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत् पश्ये­दि’त्या­दि­वा­क्येषु श्रुतं द्वैतं तावत् स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ स्वतन्त्रस्येव परतन्त्रस्यापि द्वैतस्य प्रतीत्यभावात्। ततश्च तेषु श्रुतं द्वितीयमपि तेन विशेषयितुं न शक्यते ; द्वैत­मा­त्र­प्र­ती­त्य­भा­वस्य द्वैत­वि­शे­षा­भा­वे­नो­प­पा­द­यि­तु­म­श­क्य­त्वात् । एवं च तदनन्तरश्रुते ’यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत् पश्ये­द­न्योऽ­न्यद् जिघ्रे­दि’त्या­दि­वाक्ये अन्यदपि स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ यस्य विषयस्य व्यति­रे­का­त्प्र­ती­त्य­भाव उक्तः तस्यैव स्वप्न­जा­ग­र­यो­र­न्व­यात् प्रती­ते­र्व­क्तु­मु­प­क्रा­न्त­त्वात्। एवं च सुषु­प्ता­व­स्था­वि­ष­यो­दा­हृ­त­वा­क्य­स­मा­न­प्र­का­र­केषु मुक्ता­व­स्था­वि­ष­ये­ष्वपि वाक्येषु स्वात­न्त्र्य­वि­शे­षणं विव­क्षि­तु­म­यु­क्त­मिति।
बहु­प्र­मा­ण­दृ­ष्टि­रिति ।
अव­श्य­म्भा­वोक्त्या अस्मिन्विषये श्रुति­स्मृ­ति­रू­प­ब­हु­प्र­मा­ण­द­र्शनं सूचितमिति भावः।
विरो­धा­दि­त्युक्तं हेतुं पक्षान्तरे बाध­को­प­न्या­से­नो­प­पा­द­यति -
अविरोधश्चेदिति ।
यद्य­वि­रो­ध­स्तर्हि भेदा­ङ्गी­का­रेऽ­प्य­त्य­न्ता­भेदः प्रका­र­वि­शे­षा­न­पे­क्ष्या­भेदः स्याद् , विरोधे हि केनचित्प्रकारेण भेद इति भेदोपाधिप्रकारं परिहृत्य तदन्येन प्रकारेणाभेद इति वक्तव्यं स्यात् ; तथा च भेदः कथं निविशताम् ? यद्युच्येत विरोधाभावाद् भेदाभेदौ गन्ध­पृ­थि­वी­त्व­व­द­सं­क­रो­प­पा­द­क­प्र­का­र­भे­दाऽ­न­पेक्षौ निवेष्टुमर्हत इति, तर्ह्येकस्यामेव व्यक्तौ गन्धवती पृथिवीति गन्ध­पृ­थि­वी­त्व­बु­द्धे­रिव घटो भवति घटो न भवतीति बुद्ध्योरपि समावेशः स्यात् ; तददर्शनात् तयो­र्व्य­व­स्थि­त­घ­ट­प­टा­दि­वि­ष­य­त्व­स्यैव च दर्शनाद् गन्ध­पृ­थि­वी­त्व­यो­रिव न भेदाभेदयोरविरोध इत्यर्थः ।
भास्करग्रन्थेषु विरुद्धयोरपि समबलयोरपि भेदा­भे­द­यो­र­सं­क­रो­प­पा­दनं कृतं भेदो घट­श­रा­वा­दि­का­र्या­त्मना अभे­द­स्ता­व­द­नु­वृ­त्त­मृ­दा­दि­का­र­णा­त्म­नेति, तन्निरस्यति -
भेदाऽ­भे­द­व्य­वस्था चेदिति ।
भेदवाद एव स्यादिति।
भेदा­भे­द­यो­रा­श्र­य­भे­द­वाद एव स्यादित्यर्थः।
ननु कार्य­का­र­ण­यो­र्ना­त्यन्तं भेद इष्यते, किन्त्व­त्य­न्त­भे­देऽ­त्य­न्ताऽ­भेदे वाऽनु­प­ल­भ्य­मा­नाद् मृद् घटः हिरण्यं कुण्ड­ल­मि­त्या­दि­सा­मा­ना­धि­क­र­ण्याद् भेदाऽभेदे इष्येते तथा च कार्याणां भेदः कारणमपि स्पृशति कारणस्याभेदः कार्याण्यपि स्पृशति अतो भेदाऽ­भे­द­यो­र्ना­त्य­न्ति­का­श्र­य­भेद इति तन्मतमाशङ्क्य निरस्यति -
सामानाधिकरण्यं यदिति ।
याव­त्का­र्य­म­व­स्था­येति प्रकृ­ताऽ­वि­द्यो­पा­ध्य­भि­प्रा­ये­णो­क्तम्। अलक्तकादौ तु याव­त्का­र्य­म­व­स्थानं न नियतं ; बहुषु स्फटिकेषु सत्सु रक्तं स्फटिकमानयेति स्फटि­का­न्त­र­व्या­वृ­त्यर्थं विशेषिते सत्या­न­य­न­नि­यो­ग­का­ल­मा­त्रेऽ­ल­क्त­क­स­न्नि­धा­ने­नापि तद्व्या­व­र्त­न­फ­ल­सिद्धेः। उपा­धि­प­द­प्र­यो­ग­लभ्यं स्वसंनिहिते स्वध­र्म­प्र­ती­त्या­धा­य­क­त्व­मे­वो­पा­धे­र्वि­शे­ष­णो­प­ल­क्ष­ण­व्या­वृत्तं रूपम् ।
कादाचित्कतयेति ।
कादाचित्कत्वं कार्य­का­लाऽ­व­स्था­न­नि­य­मा­भावः। तेन काकस्य यावद्गृहगमनकालं कदा­चि­द­व­स्थि­ता­व­प्यु­प­ल­क्ष­ण­त्व­मेव। उपा­धि­त­स्तू­प­ल­क्ष­णस्य भेदः परत्र स्वध­र्म­प्र­ती­त्य­ना­धा­य­क­त्व­रूपो द्रष्टव्यः।
त्वयाऽपि लिङ्गशरीरेति ।
भास्करमते जीव­ब्र­ह्म­णो­र­भेदः स्वाभाविकः, भेदस्तु बुद्धी­न्द्रि­य­दे­हो­पा­धि­कृत इष्यते। तत्र बुद्ध्यादिषु विशे­ष­ण­त्वा­दि­चो­द्य­मु­पा­धि­त्वेन तत्परिहारवचनं चेत्युभयमपि समानम् । वस्तुतस्तु तन्मते परिहारो न लगति ; उपा­धि­प्र­यु­क्तस्य संसारस्य स्फटि­क­र­क्ति­म­व­दा­रो­पि­त­त्व­नि­य­मा­दिति भावः ।
नन्वै­क्य­सि­द्धा­विति ।
गुहानिहितस्य ब्रह्मणश्चैक्ये खलु यत्नेन भानाऽभानसमर्थनं कार्यम्। जीवभानात् तदभिन्ने ब्रह्मणि भासमाने गुहा­नि­हि­त­म­न्य­दि­ष्य­ता­मिति शङ्कार्थः।
व्याघातादिति ।
जीवस्य तदा­श्रि­त­मा­त्रस्य च कृतकत्वे नित्यत्वं व्याह­त­मि­त्यर्थः। विकत्थनं निरर्थकं वचः।
संस्थानभेद इति ।
तथा च नद्या अव­य­व­स­न्नि­वे­श­वि­शे­ष­रू­पेण अवयविरूपेण स्वार­म्भ­क­प­र­मा­णु­रू­पेण वा समु­द्रा­भे­द­प्रा­प्त्य­भा­वेऽपि समुद्रप्राप्तौ नद्य­व­य­वि­ना­शा­त्त­दी­य­ना­म­रू­प­प्र­हा­ण­म­स्ती­त्ये­ता­व­त्यंशे श्रुतौ नदी­स­मु­द्र­दृ­ष्टान्तः। अत एवास्तं गच्छन्तीत्येव दृष्टान्तभागे श्रवणमिति भावः।
भाग­व­त्त्व­मा­त्र­मिति ।
भेद­को­पा­ध्य­धी­न­स­त्य­भा­ग­व­त्त्व­मा­त्र­मि­त्यर्थः।
शब्द­श्र­व­णाऽ­यो­ग्य­त्व­वि­शे­षणं सत्य­त्वो­प­पा­द­ना­र्थ­मि­त्याह -
शब्देति ।
प्राप्ताऽ­प्रा­प्त­वि­वे­के­ने­त्या­दि­ग्रन्थं व्याचष्टे -
नेम्याकारेति। अनवस्थेति शङ्कां परिहरतीति। एवं च कृत्स्नस्य प्रपञ्चस्य कल्पितत्वे यथा कार्य­लि­ङ्ग­क­पू­र्व­पू­र्व­श्रो­त्रा­नु­मि­ति­रू­प­भ्र­म­त­त्सं­स्का­र­प्र­वा­ह­क­ल्पि­त­मु­त्त­रो­त्त­र­श्रोत्रं कार्यजनकम् एवं श्रुति­ज­न्य­सृ­ष्टि­त­त्क्र­मा­दि­वि­ष­याऽ­ना­दि­पू­र्व­शा­ब्द­ज्ञा­न­सं­स्का­र­प्र­वा­ह­क­ल्पितं वियदादिकं तत्त­त्सृ­ष्टि­वा­क्या­द्या­ल­म्ब­वतां विवक्षितमिति द्रष्टव्यम्। अनयैव रीत्या मीमांसकैरपि वक्तृ­वि­व­क्षा­रू­प­ता­त्प­र्या­व­धा­रणं वेदा­र्थ­नि­र्द्धा­र­णो­प­यो­गीति पक्ष­मु­प­पा­द­य­द्भि­र्वे­दा­भि­मा­नि­दे­व­तानां तत्त­न्न्या­य­सं­प्र­दा­या­भि­ज्ञ­मी­मां­स­क­या­ज्ञि­कानां च तत्त­द्वा­क्या­र्थ­नि­र्द्धा­र­णा­धी­न­त­त्त­द­र्थ­प्र­ति­पा­द­ने­च्छा­रूपं तदिति समर्थितम्। वक्तृ­वि­व­क्षा­रू­प­ता­त्प­र्य­ज्ञानं वेदा­र्थ­नि­र्द्धा­रणे कारणमिति तदा­धा­र­त­ये­श्व­र­सि­द्धि­मि­च्छतो नैयायिकान् दूषयद्भिरपि तैः तत्त­द्वा­क्या­र्थ­नि­र्द्धा­र­णा­धी­न­पू­र्व­पू­र्व­मी­मां­स­क­या­ज्ञि­क­वि­व­क्षा­प्र­वा­हे­णा­न्य­था­सि­द्धि­रुक्ता। यथाहुः।
तथर्ग्वेदादयो वेदाः प्रोक्ता ये च पृथक्पृथक्।
भाग्य­त्वे­ना­त्मनां तेऽपि चैतन्याऽनुगताः सदा॥
तेषा­म­न्त­र्ग­ते­च्छानां वाक्या­र्थ­प्र­ति­पा­दने।
विवक्षा चाविवक्षा च ज्ञायते शब्दशक्तितः॥
इति न्यायेन संप्रदायेन ये मीमांसकयाज्ञिका वेदं व्याचक्षते तेषा­म­भि­प्रा­योऽ­य­मु­च्यत इति। य एवं विद्वान् साम्ना स्तुवी­ते­त्या­दि­वि­धिषु यच्छ­ब्दा­नू­दि­ताऽ­वि­धी­य­मा­न­क­र्म­क­र्तृ­प्र­सि­द्धि­र्य­ज­मानो वा आहवनीय इत्या­द्य­र्थ­वा­देषु वैशब्दानूदिता स्तुत्या­ल­म्ब­न­त­त्त­द­र्थ­प्र­सि­द्धिश्च पूर्व­पू­र्व­त­त्त­द्वा­क्या­र्था­व­ग­ति­मू­लै­वो­त्त­रो­त्त­र­त­त्त­द्वा­क्या­र्था­व­ग­ते­रा­ल­म्ब­न­मि­त्यु­प­पा­द­नी­य­मि­त्ये­ता­दृ­शा­न्यु­दा­ह­र­णानि अत्रानुसंधेयानि ।
अथ नैकैकस्येति ।
यद्यपि प्रवा­हा­ना­दि­त्व­नि­र्व­च­ना­सं­भ­वेऽपि भ्रम­सं­स्का­रो­पा­धिकं सत्त्व­मि­त्यु­क्त्वाऽ­र्थस्य न क्षतिः, सर्वदा यस्य कस्य­चि­त्सं­स्का­र­जा­ती­यस्य सत्त्वात्। दर्शितं च तन्नि­र्व­च­न­मा­चा­र्यै­र­ध्या­स­ग्रन्थे । सर्वस्य प्रपञ्चस्य संस्कारोपाधिकं सत्त्वमिति पक्षे संस्कारे का गतिरिति चेत् , शब्दा­नु­मा­न­मू­ल­कस्य सक­ल­सं­स्का­र­वि­ष­य­तया तद्विषयस्यापि सतः संस्का­र­स्या­नु­वृत्त्या तदप्युपपद्यत एव। तथापि माया­या­म­नु­प­प­त्ति­र­लं­कार इति न मायावादे अत्य­न्त­मु­प­पा­द­नार्थं प्रयतितव्यमिति व्युत्पादनाय शङ्केयम्। अस्तु वेति प्रती­को­पा­दा­ना­न­न्तरं नोपपद्यतेऽर्थः परमार्थसत्त्वं यस्याः सा तथेति पाठः साधुः।
निरु­पा­धि­क­भ्र­म­वि­ष­ये­ष्वेव सत्त्वं प्रातीतिकमिति नियमः , श्रोत्रं तु न तथेति स्वयं परिहारान्तरमाह -
कर्णनेमीति ।
कर्ण­ने­म्य­व­च्छिन्नं नभः श्रोत्रमिति नैयायिकादिमते तदवच्छिन्ना दिक् श्रोत्रमिति कौमारिलमते च तद­व­च्छे­दो­पा­धि­क­स्यां­शस्य दृष्टा­न्ती­क­र­ण­मु­प­प­द्यते।
स दृष्टान्तः स्वसि­द्धा­न्त­सं­मतो न भवतीति स्वयं युक्त्यन्तरमाह -
आरभ्यमिति ।
सांशत्वतः सावयवत्वतः। यद्यपि सावयवत्वमपि भेदाऽ­भे­द­त­त्स­मु­च्च­य­वि­क­ल्प­दू­ष­णेन दूषितप्रायम् ; तथापि स्वमते सत्यो भाग इति व्याव­हा­रि­क­स­त्य­त्व­स्यैव कथनात् स न दोष इत्याशयः।
सत्यश्च संभवेदिति ।
संभावनार्थेन लिङा जीवस्य ब्रह्मांशत्वं परोक्तरीत्या परमार्थसत्यमिति कथमपि संभावयितुं न शक्यते ; मुक्ति­द­शा­या­म­भे­द­ज्ञा­न­नि­व­र्त्यस्य स्वाश्र­य­ग­ताऽ­भे­द­रू­प­मु­क्ति­का­ला­नु­वृ­त्त्याऽ­त्य­न्ता­भा­व­प्र­ति­यो­गि­नश्च संसारदशायां प्रतीतस्य भेदस्य मिथ्या­त्वाऽ­न­ति­ल­ङ्घ­ना­दिति द्योतितम् ।
अहं वेदेति ।
सूक्त­द्र­ष्टु­र­ह­मिति परामर्शः॥२२॥

प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात् ॥२३॥
व्यव­हि­त­सं­ब­न्धा­पौ­न­रुक्त्ये फले इति ।
व्यवहितेन जन्माद्यधिकरणेन संबन्धः। तेनै­वा­पौ­न­रुक्त्यं च।
पादसंगतिरिति ।
बाला­क्य­धि­क­र­ण­प्र­थ­म­सं­ग­ति­ग्र­न्था­नु­सा­रि­णीयं संगतिः।
अद्वै­ता­व्या­से­ध­क­त्वा­च्चेति ।
तद्व्यासेधकत्वे हि लक्ष्य­स­म­र्प­क­ब्र­ह्म­श­ब्दो­पा­त्त­व­स्त्व­प­रि­च्छे­दा­त्म­क­ल­क्ष्या­का­र­वि­प­री­ता­का­रो­प­स्था­पकं लक्षणं लक्ष्ये संभवदपि विव­क्षि­त­ल­क्ष्या­का­रा­न­नु­गु­ण­त्वेन तद­व्या­प­न­दो­ष­दुष्टं स्यादिति भावः।
समन्वयावसान इति ।
बाला­क्य­धि­क­र­ण­द्वि­ती­य­सं­ग­ति­ग्रन्थे यत्प्रतिज्ञातं प्रकृ­ता­धि­क­र­ण­स्या­ध्या­या­व­साने लेखनिमित्तं वक्ष्यत इति तदनेन दर्शितम्।
समन्वयो दुष्प्रतिपाद इति ।
जग­त्का­र­ण­ब्र­ह्मणि समन्वय इत्यर्थः। कथं प्रति­ज्ञा­दृ­ष्टा­न्त­यो­ज­नेति शङ्कायामयं परि­हा­रा­भि­प्रायः।
ब्रह्मज्ञानेन वियदादेः सर्वस्य मृत्पि­ण्ड­लो­ह­म­णि­न­ख­नि­कृ­न्त­न­ज्ञा­नै­र्घ­ट­श­रा­व­क­ट­क­मु­कु­ट­ख­नि­त्र­कु­द्दा­ला­दीनां च तत्त­ज्ज्ञा­ना­न्त­र­मपि संश­य­वि­ष­य­त्वे­ना­नु­भू­य­मा­नानां मुख्यवृत्त्या ज्ञात­त्वा­सं­भ­वाद् गौणत्वं त्वयाऽ­प्या­व­स्थे­य­मिति । प्राधान्यपरौ प्राधा­न्या­भि­प्रायौ। अनुमानबाधादिति पूर्व­प­क्ष­लि­खि­ता­न्य­नु­मा­नानि।
अस्त्वागमो निमित्तत्वपर इति ।
तथा च नानु­मा­न­वृ­न्द­स्या­ग­म­बाध इति भावः।
कार्यस्य विवर्तत्वेनेति ।
तथा च सद्रूपस्य ब्रह्मणः प्रप­ञ्च­ता­दात्म्यं सदात्मना सन् घट इत्या­दि­प्र­ती­तिषु भासत इति सदात्मना ब्रह्मज्ञानं सदात्मना प्रप­ञ्च­त­त्त्व­वि­ष­य­मपि भवति , एवं मृत्पि­ण्ड­स्व­र्ण­म­णि­न­ख­नि­कृ­न्त­न­रू­पो­पा­दा­न­ता­दात्म्यं घटादिषु मृत्सु­व­र्ण­का­ला­य­सा­त्मना मृद् घटः सुवर्णं कुण्डलं कालायसं खनि­त्र­मि­त्या­दि­प्र­ती­तिषु भासत इति तेन तेन कार्यानुविद्धेन मृदादिरूपेण मृत्पि­ण्डा­दि­ज्ञानं तेन तेन रूपेण तत्त­त्का­र्य­वि­ष­य­मपि भवति। न हि प्रप­ञ्च­ता­दा­त्म्या­पन्नं सद् घटा­दि­ता­दा­त्म्या­पन्नं मृदादिकं वा तत्त­दु­पा­दा­ना­ति­रिक्तं , येन सन्मृ­दा­द्या­त्मना ब्रह्म­मृ­त्पि­ण्डा­दि­ज्ञानं तेन तेन रूपेण तत्त­त्का­र्य­वि­षयं न स्यात् । ननु - भवेदेवं मृत्पिण्डादीनां घटा­द्यु­पा­दा­नत्वे , तदेव नास्ति ; घटादीनामिव पिण्डादीनामपि मृदा­दि­का­र्य­वि­शे­ष­त्वाद् , घटादिषु पिण्डा­द्या­का­रा­नु­वृ­त्य­भा­वाच्च ; सर्व­मृ­ण्म­या­दी­ना­मे­कै­क­मृ­त्पि­ण्डा­दि­का­र्य­त्वस्य कथ­म­प्यु­प­पा­द­यि­तु­म­श­क्य­त्वाच्च। तथा च दृष्टा­न्त­भा­ग­स्यो­पा­दा­ना­वि­ष­य­तया दार्ष्टा­न्ति­क­वा­क्य­स्यापि तद्विषयता न युक्तेति - चेद् , न ; मृत्पिण्ड एव घटः कृत इत्या­द्य­बा­धि­त­व्य­व­हा­रेण मृत्पिण्डादीनां घटा­दि­का­र्या­न्त­रो­पा­दा­न­त्वाद् मृत्पि­ण्डा­दि­ग­त­मृ­त्त्वा­दि­रू­प­किं­चि­दा­का­रा­नु­वृ­त्ते­र्घ­टा­दिषु सत्त्वाद् , उपा­दा­न­ग­त­या­व­दा­का­रा­नु­वृ­त्ति­नि­य­मस्य क्षीरा­दि­का­र्येषु दध्यादिषु व्यभिचारात् , सर्वं मृण्म­य­मि­त्या­दिषु सर्व­श­ब्दा­ना­मे­कै­क­मृ­त्कू­टा­दि­का­र्य­प­र­त्वात् । तस्माद् दृष्टा­न्ता­नु­सा­रे­णापि दार्ष्टा­न्ति­क­वा­क्य­स्यो­पा­दा­न­वि­ष­यत्वं युक्तमेव।
ननु पञ्चमी न कारणमात्रे स्मर्यत इत्ययुक्तम् ; ज्ञापनेन तत्सि­द्धे­रि­त्या­शङ्क्य तत्तात्पर्यमाह -
ज्ञापनेनेति ।
ननु नैतद्युक्तम् ; पाणिनीये ज्ञाप­क­यो­ग­वि­भा­ग­ल­भ्यस्य व्याकरणान्तरे प्रत्य­क्ष­वि­धा­ना­व­श्य­म्भा­वात् , तद् दृष्ट्वैव व्याख्यातॄणां ज्ञाप­का­द्य­न्वे­ष­ण­प्र­वृत्तेः , पाणिनीयस्यैव वेदा­र्थ­नि­र्ण­यो­प­यो­गि­त्वा­दि­त्या­शङ्क्य ज्ञाप­क­स्या­न्य­था­सि­द्धि­माह -
अपि चेति ।
हेतु­ग्र­ह­ण­म­गु­ण­व­च­ना­द्धे­तु­प­ञ्चम्या न ज्ञापकम् ; तस्य विभाषा ’गुणेऽ­स्त्रि­यामि’ति सूत्रविहितां गुणवचनेभ्यः पञ्चमीमादाय चारितार्थ्यात् , जाड्यादागतं जाड्यरूप्यमिति तदुदाहरणसंभवात् । वस्तुतस्तु – ’हेतु­म­नु­ष्येभ्य’ इति सूत्रे हेतुत्वं न पञ्च­म्य­र्थ­वि­शे­ष­णम् , येन हेतौ पञ्च­म्य­न्वे­ष­णीया स्यात् , किं तु मनु­ष्य­वा­चि­त्व­मिव हेतुवाचित्वमपि प्राति­प­दि­क­वि­शे­ष­णम् । एवं च हेतुवाचिभ्यो मनु­ष्य­वा­चि­भ्यश्च प्राति­प­दि­के­भ्य­स्तत आगत इत्यर्थे रूप्य­प्र­त्य­य­विधिः। तत आगत इत्यधिकारसूत्रे च तत इत्यपादानपञ्चमी , तत्रापि मुख्यं यदपादानं विवक्षितं तद् ग्राह्यं , न तु नान्तरीयकम् । अत एव स्नुघ्ना­दा­ग­च्छन् मध्ये वृक्षमूले स्थित्वा ततोऽप्यागत इत्येतावता तत आगत इत्यर्थे स्नौघ्न इतिवद् वार्क्षमूल इति तद्धितो न भवति। एवं च यः स्वहे­तु­भू­ता­ज्ज­न्म­भू­म्या­दे­र­पा­दा­ना­दा­गतः यश्चा­हे­तो­र­म­नु­ष्याद् देव­द­त्ता­दे­र­पा­दा­ना­दा­ग­त­स्त­त्रो­भ­य­त्रापि हेतुवाचिनो मनुष्यवाचिनश्च प्राति­प­दि­का­द्रू­प्य­प्र­त्य­य­वि­धा­य­क­स्यास्य सूत्रस्य हेतु­प­ञ्च­मी­ज्ञा­प­क­तायाः कथमपि न प्रसक्तिः। ननु - अस्य सूत्रस्य हेतु­प­ञ्च­मी­ज्ञा­प­क­त्वा­भा­वेऽपि ’विभाषा गुणेऽ­स्त्रि­यामि’ति सूत्रे योग­वि­भा­गा­द­गु­ण­व­च­ने­भ्योऽपि हेतुपञ्चमी भविष्यतीति - चेद् , न ; योग­वि­भा­गाऽ­न­पे­क्ष­णात् , पुत्रात्प्रमोदो जायते पश्चि­मा­द्या­मि­नी­या­मा­त्प्र­सा­द­मिव चेत­ने­त्या­दि­प्र­यो­गाणां निमि­त्तेऽ­प्य­न्त­र­ङ्ग­का­र­ण­त्व­ज्ञा­प­ना­र्थम् अपादानत्वारोपेण निर्वाहात्। सम­न­न्त­रा­प­त्येऽपि गोत्र­रू­पा­ध्या­रो­पेण रामो जामदग्न्य इति गोत्रा­प­त्य­वि­हि­त­ष्य­ञ्प्र­त्य­य­द­र्श­नाद् धूम­व­त्त्वा­दि­त्या­दि­प­ञ्च­मी­नि­र्वाहः। हेतु­प­ञ्च­मी­स­द्भावे वा कथं तन्निर्वाहः ? न हि धूमवत्त्वं वह्नेः कारणम् , ज्ञापकं तु स्यात् । न ज्ञापके पञ्च­मी­वि­धा­न­मस्ति। तस्मात् ’तदशिष्यं संज्ञा­प्र­मा­ण­त्वाद्’ ’लुब्यो­गा­प्र­ख्या­नादि’ति सूत्र­का­र­प्र­यो­गाज् ज्ञापके पञ्चम्याः साधुत्वम्। कारकहेतौ तु हेताविति सूत्रेण तृतीययैव भाव्यम् । अस्तु वा कारकहेतावपि पञ्चमी , तथापि कार­क­वि­भ­क्ते­र्ब­ली­य­स्त्वा­दि­हा­पा­दा­न­प­ञ्च­म्येव। जनिकर्तुरिति सूत्रे पुत्रात्प्रमोदो जायत इत्या­दि­प­ञ्च­मी­सं­ग्र­हार्थं प्रकृतिपदं कार­ण­सा­मा­न्य­प­र­मिति व्याख्या­न­म­यु­क्तम् ; तथा सति कार­क­इ­त्य­धि­कृ­तस्य पदस्य कार­ण­सा­मा­न्य­वा­चिनो निर्धा­र­ण­स­प्त­म्य­न्त­स्या­न­न्व­य­प्र­स­ङ्गात्। न हि कारणानां मध्ये यदु­पा­दा­न­का­र­ण­मि­ति­व­त्का­र­णानां मध्ये यत्का­र­ण­मि­त्ये­त­द­न्वि­तार्थं भवति ॥२३॥
कार्य­का­र­णा­भे­द­सू­च­ना­दिति ।
न च – यथा ’अग्ने यन्मे तनुवा ऊनं तन्म आपृणे’ति मन्त्रे ’यन्मे प्रजायै पशूनामूनं तन्म आपूरयेति वावैतदाहेति’ तद­र्थ­प्र­द­र्श­क­ब्रा­ह्म­णा­नु­सा­रेण यजमानस्य स्वस्मिन् प्रजा­प­श्व­भे­दो­प­चा­र­वद् ब्रह्मणः स्वस्मिन् स्रक्ष्य­मा­ण­ते­जः­प्र­भृ­त्य­भे­दो­प­चारः स्यादिति – शङ्कनीयम् ; प्रति­ज्ञा­त­स­र्व­वि­ज्ञा­नो­प­पा­द­नार्थं प्रवृत्ते प्रपञ्चे तथो­प­चा­र­क­ल्प­ना­यो­गात् ॥२४॥
श्रौतावधारणेति ॥२५॥
ननु - श्रुता­वे­व­का­रार्थ उपा­दा­ना­न्त­रा­भावः कथं साक्षात्पदेन तदशक्तेन प्रदर्श्यते ? उच्यते - उभ­या­म्ना­ना­दि­त्ये­ता­वति सूत्रणीये साक्षादिति विशे­ष­ण­मु­भ­या­म्ना­न­वाक्ये तदनुवादेनान्यः कश्चिदर्थो मुख्यतया प्रति­पा­द्योऽ­स्ती­त्य­व­ग­म­यति।
कोसाविति विचा­र­णा­या­मे­व­का­र­घ­टि­त­वा­क्य­स्यात्र ह्येवा­व­प­न्ती­त्या­दि­व­दि­त­र­व्य­व­च्छे­द­प्र­धा­न­त्वा­दु­पा­दा­ना­न्त­रा­भावो मुख्यतया प्रति­पा­द्योऽ­व­ति­ष्ठते , तर्हि विषयवाक्यं ब्रह्मण उपा­दा­न­त्व­प्र­ति­पा­दकं न भवतीति सूत्रमपि तद्व्य­व­स्था­प­नार्थं न भवेत् , तथा च कथमितश्च प्रकृ­ति­र्ब्र­ह्मेति भाष्य­मि­त्या­श­ङ्क्याह -
भाष्य इति ।
विष­य­वा­क्य­प्र­ति­पा­द्यस्य प्रकृ­त्य­न्त­रा­भा­वस्य प्रकृतिग्रहणम् उप­ल­क्ष­ण­मि­त्यर्थः। प्रकृ­त्य­न्त­रा­भा­व­व्य­व­स्था­प­न­स्यापि ब्रह्मणः प्रकृ­ति­त्व­स्थि­री­क­रणं फलमिति फलाभिप्रायेण भाष्यमिति तात्पर्यवर्णने तु नोपलक्षणत्वं कल्पनीयम् । यद्वा प्रकृ­ति­ग्र­ह­ण­मु­प­ल­क्ष­ण­मि­त्या­त्म­कृ­ति­टी­का­ग्र­न्था­पे­क्षितो भाष्य - इत्य­ध्या­हा­रोऽ­नेन ग्रन्थेन दर्शितः।
कथं च तद् ब्रह्मणो रूपमिति टीकाग्रन्थं ब्रह्मणि उपादानत्वाभावे तदभेदश्रवणं न घटेतेति व्यति­रे­क­प्र­द­र्श­ना­र्थ­त्वेन योजयन्नेव यदी­त्या­दि­त­द­न­न्त­र­ग्र­न्थम् अन्व­य­प्र­द­र्श­ना­र्थ­त्वे­ना­व­ता­र­यति -
द्वे वावेति ।
यद्यपि सच्च त्यच्चा­भ­व­दि­त्य­भे­देन श्रुतमिति वक्तव्यं , तस्यैव वाक्यस्य प्राक् प्रकृतत्वात् ; तथापि द्वे वाव ब्रह्मणो रूपे इति टीकावाक्येन स्मारिते द्वे वावे­त्या­दि­वाक्ये षष्ठ्या पृथि­व्या­दि­वा­य्वा­दि­रू­प­यो­र्मू­र्ता­मू­र्त­यो­र्ब्र­ह्म­भेदः प्रतीयत इति शङ्कानिरासाय तस्या अपि न भेदे तात्पर्यम् , अथात आदेशो नेति नेतीति तदनन्तरवाक्ये ब्रह्मा­ति­रि­क्त­मू­र्ता­मू­र्त­नि­षे­धा­दिति दर्शयितुं तद्वा­क्य­मु­प­न्य­स्तम्। कथं च तद् ब्रह्मणो रूपमिति टीकाग्रन्थस्य व्यति­रे­क­प्र­द­र्श­ना­र्थ­त्व­ला­भाय यदि ब्रह्मोपादानं न स्यादिति शेषोऽध्याहृतः। एव­म­ध्या­हा­रा­पे­क्ष­व्य­ति­रे­क­प्र­द­र्श­क­वा­क्या­र्थ­स्याऽ­स्फु­टस्य गम्य­त्वा­द्व्य­ति­रे­क­मु­क्त्वे­त्ये­त­द्वि­हाय व्यतिरेकं सिद्ध­व­त्कृ­त्ये­त्यु­क्तम् ।
यदि तस्य ब्रह्मो­पा­दा­न­मि­त्य­न्व­य­प्र­द­र्श­न­स्या­पे­क्षि­तां­श­म­ध्या­ह­रति -
तर्ह्येवं रूपं स्यादिति शेष इति ।
रूपं स्वरू­प­म­भि­न्न­मिति यावत् । यदि न तस्य ब्रह्मो­पा­दा­न­मिति केषुचित् टीकाग्रन्थेषु नकारयुक्तः पाठो दृश्यते , तस्मिन्पाठे कथं चेत्या­द्यु­पा­दा­न­मि­त्य­न्त­मेकं वाक्यम् अध्या­हा­रा­न­पेक्षं व्यति­रे­क­मा­त्र­प्र­द­र्श­ना­र्थ­मिति द्रष्टव्यम् ॥२६॥
योनिरितीति।
पृथिवी योनि­रो­ष­धि­व­न­स्प­ती­ना­मि­त्या­दि­प्र­सिद्धिः परिणामिविषयैव दृष्टेति भावः ।
नासत इति ।
यदसत् तत्स­र्व­दै­वा­स­दिति न स्यान्नि­ष्पा­द्य­त्वम् , यत् सत् तत्सर्वदा सदिति निष्प­त्त्य­र्थ­प्र­वृ­त्त्या­न­र्थ­क्यम् ।
ननु नित्यस्य निष्कलस्येति हेतु­ग­र्भ­नि­र्दे­शाभ्यां सिद्धस्यार्थस्य नित्य­त्वा­द­ने­क­दे­श­त्वा­दिति पुनः कीर्तनं व्यर्थ­मि­त्या­शङ्क्य तद्विवरणमित्याह -
हेतु­ग­र्भ­नि­र्दे­श­यो­रिति ।
श्रुत­मा­श्रि­त्येति ।
अस्तु परिणामस्तथापि लौकि­क­प­रि­णा­म­व­द­नि­र्व­च­नी­य­त्व­मा­या­ती­त्येवं प्रति­पा­द­य­ती­त्यर्थः । संक्षे­प­शा­री­र­केऽ­प्ये­व­मु­क्तम् – ’प्रति­ष्ठि­तेऽ­स्मिन् परिणामवादे स्वयं समायाति विवर्तवादः’ इति।
प्रधा­ना­नु­रो­धे­नेति।
यथा स्वर्ग­का­म­क­र्त­व्य­ज्यो­ति­ष्टो­म­प्र­क­र­ण­म­ध्य­पा­तिनः को हि तद्वेद यदमुष्मिन् लोकेऽस्ति वा न वेति पर­लो­क­सं­दे­ह­वा­क्यस्य प्रधानाविरोधाय तद­ङ्ग­भू­ता­ती­का­श­वि­ध्य­पे­क्षि­त­व­स्तु­स्त­व­न­प­र­तया पाम­र­ज­न­सि­द्ध­सं­दे­हा­नु­वा­द­क­त्वम् , एवमिहापि प्रधा­न­प्र­ति­पा­द्याऽ­द्वै­त­सि­द्ध्य­वि­रो­धाय तद­ङ्ग­भू­त­प्र­प­ञ्च­नि­षे­धौ­प­यि­क­तया भ्रान्त­ज­न­क­ल्पि­त­प­रि­णा­मा­नु­वा­द­क­त्व­मि­त्यर्थः।
न चेति।
यथा ह्यसत्यो घटाभावः सत्यं घटं सहते, एवमनिर्वाच्यो विकारः स्वात्यन्ताभावं निर्वाच्यं सहते इत्यन्वयमुखेन सिद्धिः ॥२७॥
इति सप्तमं प्रकृत्यधिकरणं पूर्णम् ॥

एतेन सर्वे व्याख्याता व्याख्याताः ॥२८॥
अदृ­श्य­मा­ना­णु­नि­र्दे­शा­दिति ।
न किंचन भगव इत्यु­क्ते­र­णु­वादे साल­म्ब­न­त्व­सि­द्ध्य­र्थ­म­दृ­श्य­मा­न­त्व­वि­शे­ष­णम्।
अणिम्न इति सूक्ष्मता चोक्तेति।
स य एषोऽ­णि­मे­त्या­दि­सं­प्र­ति­प­न्न­ब्र­ह्म­वा­क्ये­ष्वि­वेति भावः ॥२८॥
इति अष्टमं सर्व­व्या­ख्या­ना­धि­क­रणं संपूर्णम्॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ कल्प­त­रु­व्या­ख्याने परिमले प्रथ­म­स्या­ध्या­यस्य चतुर्थः पादः समाप्तः॥
इति परिमले समन्वयाख्यः प्रथमोऽध्यायः॥