कल्पतरुपरिमलः
स्मृत्यधिकरणविषयाः
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
सर्वज्ञेति ।
यः सर्वज्ञ इति श्रुत्या ब्रह्मण इव ज्ञानैर्बिभर्तीति श्रुत्या कपिलस्यापि सार्वज्ञ्यं प्रसिद्धम्, अतः सर्वज्ञभाषितत्वं वेदसांख्ययेाः सममित्यर्थः । ननु स्मृत्यन्तरेभ्यो निरवकाशत्वेन प्राबल्येऽपि श्रुतिभ्यः प्राबल्याभावात्कथं पूर्वपक्षः इत्यत्राह
पूर्वपक्षमाहेति ।
वेदं कृत्वा वेदिरिति पदार्थधर्मक्रमविषयश्रुतितः क्षुत आचामेदिति स्मृतेः पदार्थविषयत्वेनेव सावकाशश्रुतितोऽपि निरवकाशत्वेन स्मृतेः प्राबल्यं भवेदतः पूर्वपक्षो युक्त इत्याशयः ।
अर्थापहारेणेति ।
सर्ववेष्टनरूपस्मृत्यर्थापहारेण तन्मानभूतश्रुतेरप्यपहारात्तदनुमानं बाधितविषयमित्यर्थः । क्षुतनिमित्तकाशुद्ध्यपनयार्थमाचमनकरणेऽपि न वेदवेदिक्रमविरोधः; आचमनस्य शुद्धिद्वारा वेदिकरणाङ्गत्वादङ्गस्य चाव्यवधायकत्वात् । उक्तं हि वार्तिके-bवेदं कृत्वा यदा वेदिमकृत्वा चामति क्षुते ।bवेदीमेव करोतीति स वक्तुं शक्यते तदा॥bवेदिरेव ह्यनाचम्य कुर्वतो विगुणीभवेत् ।bतामेव सगुणां कर्तुं शुद्ध्या न व्यवधास्यते॥ इति।bसत्यपि व्यवधाने श्रौतस्मार्तसकलपदार्थप्राप्त्यनन्तरमेवानुष्ठानाय क्रमस्य संग्राह्यत्वात् पश्चात्संग्राह्यस्य पूर्वप्राप्त्यनुरोधेन संग्रहौचित्यान्न विरोध: । तदप्युक्तं वार्तिके-bप्राप्तेषु हि पदार्थेषु क्रमः पश्चादपेक्ष्यते ।bयदा प्राप्तेष्वसौ क्लृप्तः केन पश्चाद्विरुध्यते॥ इति।
नन्वधिकरणारम्भे तटस्थेनाक्षिप्ते तदारम्भः सिद्धान्तिना समर्थनीयः कथं पूर्वपक्षी समाधत्त इत्युक्तिरित्याशङ्क्य पूर्वपक्षोपपादकत्वसाम्यात् सिद्धान्त्येव पूर्वपक्षिशब्देन लक्षणयोक्त इति व्याचष्टे-
पूर्वपक्षीति ।
पौरुषेयत्वेनेति ।
ननु वेदस्यार्थज्ञानपूर्वकत्वेन पौरुषेयत्वमत्रत्यसिद्धान्तवक्ष्यमाणयैव युक्त्या शास्त्रयोनित्वाधिकरणे निराकृतं, कथमिह पुनः पौरुषेयत्वशङ्का ? एवं तर्हि सांख्यतन्त्रमप्यपैारुषेयमेव, तद्वक्तुः कपिलस्य वासुदेवांशत्वेन परब्रह्मरूपतया तस्यापि तन्निःश्वसितत्वाऽविशेषादित्याशयः । ननु श्रुतीनामपि स्फुटतरत्वं विवक्षितं, यथा कथञ्चन श्रुतित्वेनास्फुटत्वकल्पने कपिलवचसामपि सूत्रत्वेन शक्यं तत्कल्पनम्, अतः स्फुटाऽस्फुटत्वं न वैषम्यम् । अत एव श्रुतयः कपिलवचनैर्निर्णेयार्थास्तत्सापेक्षा इत्यधिकरणानारम्भशङ्कायाः प्रथमसमाधानमापातत इति टीकायामुक्तम् ।
अन्यथा हि स्पृष्ट्वोद्गायेदिति श्रुतिरपि सर्ववेष्टनस्मृत्या निर्णेयार्था तत्सापेक्षेति कल्पनं प्रसज्येतेत्याशङ्क्य व्याचष्टे-
अनन्यपरत्वमिति ।
पूर्वपक्ष्याशयं निराकरोति-
सगरपुत्रप्रतप्तुरिति ।
यत्र वासुदेवांशेन वैदिकार्थो वर्ण्यते, तत्र तस्य सार्वात्म्योपदेष्टृत्वं दृष्टम्, अतस्तद्विरुद्धार्थोपदेष्टुस्ततोऽन्यत्वं निश्चीयत इति भावः ।
तदर्थस्मृतिपूर्वकाणीत्यत्रापि बहुव्रीहिसमासमाह-
तेषामिति ।
तदर्थानुभवपूर्विका इत्यत्र तमाह-
तासामिति ।
यद्यपि तदर्थस्मृतिपूर्वकाणीत्यत्रापि बहुव्रीहिगर्भबहुव्रीहिरविशिष्टस्तथापि तदर्थानुभवपूर्विका इत्यत्र बहुव्रीहिद्वयप्रदर्शनेन तत्रापि तदुन्नेतुं शक्यमिति लाघवार्था तदनुक्तिः ।
कथञ्चिदित्यर्थ इति ।
विलम्बेनेत्यर्थ इत्यर्थः । अनेनाग्रिमस्य तावदित्यस्य ततः प्रागेवेति शैघ्र्यमर्थ इत्यर्थादुक्तं भवति॥ १॥
दौहित्रस्य कर्मेति ।
ब्राह्मणादेराकृतिगणत्वात् कर्मणि ष्यञ् प्रत्यय इति भावः ॥२॥ अव्यक्तस्योत्पत्तौ स्मृतिं प्रदर्श्य तल्लये स्मृत्यन्तरप्रदर्शनात्तस्य प्रलये नाशोऽभ्युपगत इति प्रतिभाति, तथाऽभ्युपगमो न युक्तः, तस्य ज्ञानैकनिवर्त्यत्वाभ्युपगमादित्याशङ्क्य व्याचष्टे-
ज्ञानात्प्रतीयत इति ।
अव्यक्तोत्पत्तिस्मृतिस्तु भूतसूक्ष्मोत्पत्तिविषया । एवं च यद्यपि लयस्मृतिरपि तद्विषया योजयितुं शक्या, मूलकारणविषयत्वेऽपि प्रलये सूक्ष्मावस्थापत्तिविषया योजयितुं शक्या, तथापि स्वमते मूलकारणामविद्यारूपमिति विभाषयितुं ज्ञानादित्यध्याहृतम् । ऋषिं प्रसूतमित्यादिमन्त्रार्द्धस्यायमर्थः । अग्रे सर्गादौ स्वस्मात्प्रसूतमृषिं कपिलं कनकवर्णं हिरण्यगर्भं ज्ञानैर्ज्ञप्तिकरणैर्वेदैर्यो बिभर्ति अयं सकलवेदार्थविद्भवत्वित्यनुग्रहकटाक्षेण जायमानावस्थायामेव पश्यति चेति यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाँश्च प्रहिणोति तस्मै” । “हिरण्यगर्भं पश्यति जायमानमित्यादिमन्त्रान्तरैकार्थ्यात् ।
अत्र बिभर्तीत्येतद् भृञ्धातोः पोषणमर्थमादाय व्याचष्टे-
पूरयतीति ।
मन्त्रगतयच्छब्दप्रतिनिर्देशकतच्छब्दघटितं वाक्यं दर्शयति-
यः स सर्वेषामात्मेति ।
यद्यपि “यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वा इति पूर्वार्द्धयुक्तेऽस्मिन् मन्त्रे नास्तीदं वाक्यं नापि पूर्वेतरमन्त्रयोरस्ति तयोः विद्याविद्ये ईशते यस्तु सोऽन्य इति सर्वाधिपत्वं कुरुते महात्मेति च विधेयान्तरपरत्वात् तथापि पुरुष एवेदं सर्वं त्वं स्त्री त्वं पुमानसीत्यादितत्रत्यमन्त्रान्तरप्रतिपन्नार्थ इह विधेयत्वेन गृहीतः । तद्ग्रहणं च सार्वात्म्यप्रतिपादनप्रधानायामस्यां श्वेताश्वतरोपनिषदि न भेदनिष्ठसांख्यतन्त्रकर्तृमहिमप्रतिपादनस्य प्रसक्तिरस्तीति तेनापि हेतुना मन्त्रस्य तद्विषयत्वनिराकरणार्थं सांख्यकर्तृविषयत्वेऽपि तेन तस्य वेदार्थज्ञानवत्त्वमात्रं सिध्यति न तु क्वचिदपि विषयेऽस्य भ्रमो विप्रलम्भश्च नास्तीत्येतदपि । मनोस्तु यद्वै किञ्चेति वीप्साशब्देन भेषजत्वोक्त्या च तदुक्तेः सर्वत्राप्यर्थे तदुभयराहित्यं सिध्यतीत्यपि विशेषो द्रष्टव्यः । यजुर्वेदे यो ब्रह्मवर्चसकामः स्यात्तस्माएतं सोमारौद्रं चरुं निर्वपेदिति ब्रह्मवर्चसकामस्येष्टिं विधाय आज्यं प्रोक्षणमाज्येन मार्जयन्ते इत्यन्तेन तस्य प्रत्येकं ब्रह्मवर्चसोपयोगार्थसहितं वैशेषिकमङ्गकलापं विधाय यावदेव ब्रह्मवर्चनं तत्सर्वं करोतीति फलार्थवादानन्तरम् अतिब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो दुश्चर्मा भवतीत्येवंरूपेष्ट्यनुष्ठानेनातिब्रह्मवर्चसं क्रियते तेन यजमानः श्विची भवितुं प्रभवतीत्येवं फलमेव पुनर्दोषरूपं संकीर्त्य तत्परिहारार्थं मानवीऋचौ धाय्ये कुर्यादिति मनुना दृष्टे ऋचावग्निं वः पूर्व्यङ्गिरा देवमीडे वसूनामित्यादीनां षण्णाम् ऋचां मध्ये ये केचिट्वे ऋचौ सामिधेनीमध्ये धाय्यारूपेण योजयेदिति विधाय कथं मानवीभ्यामृग्भ्यां श्वित्रपरिहार इत्याकाङ्क्षायां यद्वै किञ्च मनुरवदत्तद्भेषजं भेषजमेवास्मै करोतीत्यर्थवादेन तत्संघटनं कृतम् । धर्मवक्त्रा मनुना यन्मन्त्रजातं दृष्टं तत्सर्वं भेषजं भवतीति तदिदमत्रोदाहृतम् । ननु यद्वै किञ्चेति वचनं न स्वायम्भुवमनूक्तीनां भेषजत्वोक्तिपरं, किं तु समष्टिमनोऽभिमानिहिरण्यगर्भौक्तीनाम्, तैत्तिरीयशाखायां हि “मानवीऋचौ धाय्ये कुर्यादिति विधिशेषार्थवादरूपम् इदं वचनं श्रूयते । अत्रानूद्यमाने ऋचौ न मनोः प्रकाशिके, किं तु मनसः । देवानां यन्मन इति ह्यनूद्यमानयोः ऋचोः श्रूयते अतो मानवी इत्यत्र समष्टिमनोभिमानित्वधर्मेण हिरण्यगर्भः प्रकृत्यंशेनोक्त इति स एव यद्वै किञ्चेति वाक्येऽपि मनुशब्दोक्तो भवितुमर्हतीति- चेद् , यद्येवं किञ्चिदिष्टिविकृतौ मनोः ऋचः सामिधेन्यो भवन्तीति विधिशेषतया श्रुतं मनुर्वै यत्किञ्चिदवदत्तद्भेषजमिति वचनमुदाहरणमस्तु । न हि तत्र मनः प्रकाशिका ऋचेा विनियुज्यन्ते, किं तु मानससूक्तगता एव तत्र रूढिभञ्जकाभावात् । अत एव तन्त्रवार्तिके मनूक्तीनां भेषजतायामिदमेव वचनमुदाहृतम् । भाष्ये- यद्वै किञ्चेत्युदाहरणमनादरेण ।
सर्वज्ञत्वादिभिरिति ।
ननु- सर्वज्ञत्वादिवचनाद् ममान्तरात्मेत्यादिकमन्तर्यामिविषयं स्यान्न तु जीवैक्यविषयमिति- चेन्न । बहवः पुरुषा ब्रह्मन्नित्यादिना प्रश्नोत्तरत्वेन जीवविषयत्वावश्यंभावात् परमेश्वर एक एव जीवभावेन सर्वशरीरेषु वर्तत इति एतद्दृष्ट्या परमेश्वरगुणवर्णनस्याप्यविरोधात्
॥ इति प्रथमं स्मृत्यधिकरणम् ॥
एतेन योगः प्रत्युक्तः ॥ ३ ॥ योगस्वरूपतत्साधनेत्यादिटीकाग्रन्थं व्याचष्टे-
एषामिति ।
श्रुतौ सांख्ययोगशब्दाभ्यामिति ।
नन्विदं श्रौतलिङ्गमालम्ब्याधिकशङ्कापरिहारौ सांख्ययोगसाधारणौ कथं योगमात्रविषयत्वं तयोरुक्तम् । उच्यते । कपिलमितिवदिदं श्रुतिसामान्यमात्रमिति पूर्वाधिकरण एवोक्तप्रायम् अतो नेदं लिङ्गमधिकशङ्काबीजं किं तु योगशास्त्रे योगनिरूपणं श्वेताश्वतरोपनिषदाद्युपदिष्टयोगप्रपञ्चनरूपमिति प्रत्यक्षश्रुतिमूलत्वमधिकशङ्काबीजं तस्मिन्नंशे तस्य प्रामाण्येऽपि न तात्पर्याविषये स्वतन्त्रप्रधानादौ प्रामाण्यम् अतो न तेन स्वतन्त्रप्रधानादिसिद्धिरिति तत्परिहारः ॥३॥
इति द्वितीयं योगप्रत्युक्त्यधिकरणम् ॥
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
अचेतनप्रकृतिकमिति ।
ननु अविद्याप्रकृतिकत्वेन सिद्धसाधनम् चेतनप्रकृतिकं न भवतीत्यर्थकल्पने सिद्धान्तिमते दृष्टान्ते साध्यवैकल्यम् हेतुविशेषणे वैयर्थ्यं चेति- चेद्, उच्यते कार्यद्रव्यं चेतनप्रकृतिकं न भवति द्रव्यत्वादात्माविद्यावदित्यनुमानमत्र विवक्षितम् । कार्यद्रव्यमात्रपक्षीकरणज्ञापनाय हेतुविशेषणम् । घटस्यापि पक्षीकरणान्न तत्र साध्यवैकल्यशङ्का । घटयतीति घटः घटेर्ण्यन्तात्पचाद्यच् । णेरनिटीति णिलोप: । अघटितसंघटनापटीयोऽज्ञानं तद्वदित्यर्थः ।
भाष्यटीकयोः प्रत्युदाहरणसंगतिरग्रिमटीकायाः प्रदर्शितेति तात्पर्यमुक्त्वा स्वयमस्याधिकरणस्य दृष्टान्तसंगतिमाह-
वेदेति ।
प्रत्यक्षमेति ।
स्वदृष्टलिङ्गकस्य स्वविशेषतोदृष्टानुमानस्य प्रत्यक्षवदतिविश्वसनीयत्वात्प्रायः प्रत्यक्षमिदमिति संभावनाविषयता भवतीत्यर्थः । अनुश्रवो वेद: तद्गम्यमानुश्रविकम् । सुखाद्यात्मत्वं सुखदुःखमाहात्मत्वं तद् उच्चावचविशेषणेनानेकप्रकारत्ववाचिना सातिशयत्वादिसूचनेन दर्शितम् ।
तद्व्याचष्ट इति ।
लोकतोऽनवगम्यमानस्य चेतनप्रकृतिकत्वस्य केवलश्रुतार्थापत्या कल्पनायामचेतनत्वप्रतिपादकशब्दविरोधस्य दूषणतयोद्भावनसामर्थ्याल्लोकानुभव-सद्भावे श्रुतार्थापत्तेस्तद्विरोधो न दूषणम् किंतु प्रत्यक्षश्रुतिरेव चैतन्यानभिव्यक्तिपरतया व्याख्येया भवेदिति सूचितं भाष्ये तद्विवृणोतीत्यर्थः ।
आर्थत्वे उपोद्बलकापेक्षा तदेव नेत्याहेति ।
ननु - आर्थत्वमिहापि तुल्यमेव; भूतेन्द्रियाणां वक्तृत्वविवदितृत्वान्यथानुपपत्या चैतन्यस्य कल्प्यत्वाद् देवतात्वस्य मनुष्यत्वादिवच्चैतन्यव्याप्तजातिविशेषतया तस्य तदनुमेयत्वाच्च । न चेक्षतिश्रवणं चैतन्यश्रवणमेवेति वाच्यम् ईक्षत्यधिकरणे तस्य भाक्तत्वेनेाक्तत्वात् प्रलये सुषुप्तानां चेतनानामपञ्चीकृतभूतदृष्टिसमये चैतन्योद्भवाभावेन तस्य तदभिमानिदेवतेक्षणपरत्वस्यायुक्ततया भाक्तत्वावश्यम्भावाच्चेति चेदुच्यते - श्रुतचेतनप्रकृतिकत्वनिर्वाहाय भूतेन्द्रियाणां चेतनत्वमेवाभ्युपगम्यत इति शङ्काग्रन्थे तेजःप्रभृतीक्षणस्य मुख्यत्वमेव संभवतीतीक्षत्यधिकरणोक्तभाक्तत्वाक्षेपेणात्र शङ्का तदभाक्तत्वोपोद्बलकतया । मृदत्रवीदित्याद्युदाहरणम् ।
ननु तेजआदिशब्दानां तदधिष्ठातरि परमेश्वरे शक्तिरेव भाष्यटीकयोरभिमताऽस्तु किमिति लाक्षणिकत्वमुक्तमित्याशङ्क्याह-
तदिदमुक्तं कथञ्चिदिति ।
ईक्षणस्य मुख्यत्वे कथञ्चिदित्येतन्नान्वेति परमेश्वरस्य मुख्येक्षणसद्भावादतस्तदीयेक्षणस्य मुख्यत्वे तेजआदिशब्दानाममुख्यत्वमायाती-त्येतत्सूचनार्थमिति लाक्षणिकत्वमेव तेषां मूलाभिमतमिति भाव: ।
पक्षे एवेति ।
व्यतिरेकिहेतुव्यावृत्त्यर्थं साध्यासाधकविशेषणम् । ननु- विशेषव्याप्त्यपेक्षायामसाधारण्येऽपि जगच्चेतनप्रकृतिकं न भवति, चेतनविशेषगुणानुगतिरहितत्वाद् यद्यद्विशेषगुणानुगतिरहितं न तत्तत्प्रकृतिकं यथा सुवर्णविशेषगुणानुगतिरहितं पटादि न सुवर्णप्रकृतिकमिति सामान्यव्याप्त्यपेक्षायां नासाधारण्यम् । न च सामान्यव्याप्तिर्यत्तद्भ्यामननुगता नानुमानोपयोगिनीति शङ्कनीयम् यो यस्य ग्रन्थस्य प्रणेता स तस्मादधिकविषयज्ञानवानित्येवमादिरूपाया: सामान्यव्याप्तेः सिद्धान्तिनाऽप्यनुमानाङ्गतया प्रागङ्गीकृतत्वात् । आचार्यैरधिकरणारम्भे प्रदर्शितस्य विशेषव्याप्तिमूलकस्यैवानुमानस्यासाधारण्यशङ्कारहितत्वाच्चेति चेत् उच्यते । यत्तद्भ्यामननुगता सामान्यव्याप्तिर्न स्वतन्त्राऽनुमानाङ्गम् । ईश्वरो वेदाधिकद्रष्टेत्याद्यनुमानं बुद्धिसंवादेन श्रुत्यवगतसार्वज्ञ्यदृढीकरणार्थम्, न स्वयमेव कस्यचिदर्थस्य साधनार्थमिति तत्राननुगतापि सामान्यव्याप्तिरुपन्यस्यते । तदभावेऽपि हि यथा सोम्यैकेन मृत्पिण्डेनेत्यादौ दृष्टान्तोपन्यासमात्रेण बुद्धिसंवादो जायते । आचार्यैः प्रदर्शितमप्यनुमानमप्रयोजकत्वपरिहाराय यदि चेतनप्रकृतिकं स्यात्तद्विशेषगुणानुगतिमत्स्यादिति तर्कमपेक्षमाणं तन्मूलभूतां सामान्यव्याप्तिमुपजीवतीति तदपि नावतिष्ठते, किं त्वापाततोऽननुगतसामान्यव्याप्त्यनपेक्षमिव भासमानं पूर्वपक्षावलम्बनमस्त्वित्याशयेन न विलक्षणत्वादिति सौत्रानुमाने स्पष्टे विद्यमानेऽप्यनुमानान्तरमाचार्यैरुपन्यस्तम् । तत्तु महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च रूपादिभेदादिति भाष्योद्भाषितव्यभिचारेणैव तर्कमूलसामान्यव्याप्तेरपि शैथिल्यापादनाद् दूषितमिति तद्दूषणे फलान्तरमाचार्यैर्न कृतम् ।
ननु प्रमाणविषयविवेचकतयेत्ययुक्तम् श्रुत्यैव प्रमाणमूर्द्धन्यया तद्विषयविवेकसिद्धेरित्याशङ्क्य व्याचष्टे-
वचनयुक्त्याभासनिरासेनेति ।
आपाततस्तद्विरोधित्वेन भासमानानां युक्त्याभासानां चानुसंधाने संजातस्य चित्तक्षोभस्यापनयनेन श्रुतिविषयदार्ढ्यापादनं तद्विवेचनमित्यर्थः । ननु- पूर्वपक्ष्युपन्यस्तेषु तर्कमूलाक्षेपहेतुषु ब्रह्मणः सिद्धरूपत्वेन पृथिव्यादिसाम्यं मननरूपतर्कादरणं चेति हेतुद्वयमेव परिहृतम् न तु निरवकाशत्वप्रधानप्रत्यासत्तिहेतुद्वयमिति- चेत् उच्यते ब्रह्मणः सिद्धरूपत्वेऽपि श्रुत्यनुग्राहकतर्कादरणेऽपि स्वतन्त्रानुमानविषयत्वं नास्तीति प्रसाधिते शब्दसाधनाक्षमस्य चक्षुषस्तद्बाधन इव ब्रह्मसाधनाक्षमस्यानुमानस्य तद्बाधने सामर्थ्याभावः फलितो भवतीत्युपले क्षुरतैक्ष्ण्यस्येव तत्र कुण्ठीभवतोऽनुमानस्य श्रुतितः प्राबल्यहेतुकथनमस्थानविजृम्भितमिति स्वत एव सिद्धेस्तद्धेतुद्वयमाहृत्य न दूषितम् ।
न ह्यचेतनस्येत्यादिग्रन्थं व्याचष्टे-
अचेतनस्य जगत्कारणस्येति ।
ननु- अचेतनाच्चेतनस्येवोद्भूतविशेषगुणादनुद्भूतविशेषगुणस्याप्युत्पत्तिर्न संभवतीति- चेद् न । काष्ठज्वालाभाण्डतद्गतवारिस्थतेजसो दीपात्तुषाग्नेश्चोत्पत्तिदर्शनात्तत्रोद्भूतरूपावयवान्तरकल्पने गौरवात् । घटः प्रकाशत इत्यनुभवदर्शनेन घटादिषु चैतन्यमुद्भूतमित्यपि कल्पनोपपत्तेश्च । कस्यचित्प्रकाशते कस्यचिन्न प्रकाशत इति व्यवहारस्तु चैत्रात्यरोऽयं न मैत्रादिति व्यवहारवदुपपद्यते परत्ववच्चैतन्यस्यापि सप्रतियोगिकगुणत्वकल्पनोपपत्तः ।
न तवेति ।
सत्कार्यवादिनस्तत्र शरावादिदृष्टान्तेऽप्युक्तदोषापत्तिस्तुल्येति भावः ।
कारणानुवृत्त्येति ।
न तु कार्यरूपानुवृत्त्याऽतो नोभयत्राप्युक्तदोषापत्तिरिति भावः ।
ननु जाग्रत्प्रपञ्चदोषेणेव स्वप्नप्रपञ्चदोषेणापि ब्रह्मणो रूपणमापाद्यमेव, कथमरूपणे दृष्टान्तीक्रियत इत्याशङ्क्य जीवे तदरूपणस्यानुभवसिद्धतया जीवोऽत्र दृष्टान्तो विवक्षित इति व्याख्यातमित्याह-
अतो न साध्यसमत्वमित्यर्थ इति ॥११॥
योऽन्यत्रात्मन इत्यत्रान्यत्रेत्येतत्प्रथमार्थेऽन्यत्र भूताच्च भव्याच्चेतिवत् ।
सिद्धमर्थमाह-
आत्मव्यतिरेकेणेति ॥
इति तृतीयं न विलक्षणत्वाधिकरणम् ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
अतिदेशस्येति ।
स्मृतेर्मूलाभावेऽपि तर्कस्य व्याप्त्यादिमूलसत्त्वात्तद्विरोधेन समन्वयः सङ्कोचनीय इति पूर्वाधिकरणेन प्रत्युदाहरणसंगतिरित्यर्थः ।
तेन दृष्टान्तसंगतिमपि दर्शयन्नतिदेशाधिकरणस्याभ्यधिकाशङ्कामाह-
यथा हीति ।
इयमारम्भणेति ।
न कार्यं कारणाऽभिन्नम्, नापि तद्भिन्नं सत्यं, किं त्वनिर्वचनीयमित्युपपादयितुमारम्भणाधिकरणे (ब्र. अ. २ पा. १ सू. १४) कार्यकारणभेदशङ्का निरसनीया इह तु भेदगर्भकार्यकारणभावे प्रत्यक्षत्वाऽप्रत्यक्षत्वावसेयसत्त्वाऽसत्त्वविरोधाभ्यां तन्निरसनमभ्युच्चयमात्रमित्यर्थः ।
असदकरणादित्यादीति ।
असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।bशक्तस्य शक्यकरणात्कारणभावाच्च कार्यस्य ॥bइति सांख्यानां सत्कार्यवादप्रधानश्लोकः । अस्यार्थः - कार्यं कारणव्यापारात्प्रागपि सदेव; नीलरूपस्य पीतभावेनेवाऽसतः सत्त्वेन कर्तुमशक्यत्वात् । उपादानग्रहणाच्च प्रागपि सदेव कार्यम् । उपादानानि कारणानि तेषां कार्येण ग्रहणात् कारणैः कार्यस्य संबन्धादिति यावत् । कारणसंबद्धं हि कार्यं भवद् भवेत् । कारणाऽसंबद्धमेव कार्यमुत्पद्यतामिति चेद्, न सर्वसंभवाभावात् । असंबद्धस्य कार्यत्वे हि असंबद्धत्वाविशेषात्सर्वं कार्यं सर्वस्मात्संभवेद् न चैतदस्ति। असंबद्धमपि कारणं तदेव करोति यत्र शक्तमिति चेद् न शक्तस्य शक्यकरणात् । शक्तमपि हि कार्यं शक्यं करोति नाशक्यम् । अव्यवस्थातादवस्थ्यात् । शक्यं करोति चेत्कथमसति शक्तिविषयतारूपा शक्यता कार्यस्य कारणात्मत्वादपि कार्यं सदेव । तस्य कारणात्मत्वं च घटशरावादिकं पूर्वाह्णे मृत्कूट एवासीदित्यनुभवेन गुरुत्वद्वैगुण्यानुपलम्भादियुक्त्या चेति। (ननु पृथुबुध्नोदरादिसंस्थानविशेषाणां सदातनत्वेऽपि कदाचित्प्रत्यक्षत्वं कदाचित्परोक्षत्वं च पटकूर्माङ्गादिपरिणाहानामिवाविर्भावतिरोभावाभ्यामुपपद्यते) न हि पटकूर्माङ्गादिपरिणाहानां संकोचनावस्थायामप्रत्यक्षत्वमनुत्पत्त्या नाशेन वा किं तु तिरोधानेन । ततश्च तेषां विकाशव्यापारेणेव दण्डचक्रादिव्यापारेण पृथुबुध्नोदरादीनामभिव्यक्तौ प्रत्यक्षता, अभिव्यक्तिश्च तत्तिरोधायकपिण्डावस्थोपमर्दः । मुद्गरपातेन घटावस्थोपमर्द इति कपालावस्थाभिव्यक्ति: । कपालानि चूर्णीकृत्य जलमृदन्तरसंयोजनमर्दनादिभिर्मार्दवं प्रापय्य दण्डचक्रादिव्यापारेण तिरोहिताया घटावस्थायाः पुनरभिव्यक्तिः । एवं पटावस्थायां दाहेन तिरोहितायां तद्भस्मनां क्षितितलपतितानां तत्क्षितिप्ररूढकार्पासतरुकुसुमफलपरिणतौ क्रमेण तिरोहितायाः पटावस्थायाः पुनरभिव्यक्तिरिति। अवस्थानामपि सदातनत्वे प्रत्यक्षत्वपरोक्षत्वव्यवस्थायां न क्वचिदनुपपत्तिरिति- चेद् एवं द्रव्यतदवस्थाविशेषाणां सदातनत्वसमर्थनेऽपि तदाविर्भावतिरोभावौ प्रागसन्तौ आगन्तुकावेवाभ्युपगन्तव्यौ तयोरपि सदातनत्वे घटावस्यायां कदाचित्प्रत्यक्षत्वं कदाचित्परोक्षत्वमिति व्यवस्थाऽनुपपत्तेः ततश्च तयोरसदकरणादिहेतूनां प्रतिहतेः । तद्वदेव घटादिद्रव्याणां तदाकारविशेषाणां चागन्तुकत्वमभ्युपगन्तुं युक्तम् इदानीं मृत्पिण्ड एवास्ति घटो नास्तीत्यादिव्यवहारदर्शनात् कारणचक्रव्यापारानन्तरमिदानीं घट आसीदित्यादिव्यवहारदर्शनाच्च, पटपरिणाह इदानीमभिव्यक्त आसीत् प्राक् तिरोहित आसीदित्यादिवदाविर्भावतिरोभावव्यवहाराभावाच्च । शेषमारम्भणाधिकरणे (ब्र. अ. २ पा. १ सू. १४) वक्ष्यते ।
प्रकृतौ हि द्वादशा हे इति ।
नन्वहर्गणानां प्रकृतौ समूहे द्वादशाहे त्रयाणां त्रयाणामन्हां त्रिवृत्स्तोमकत्वादिकं नास्ति। सत्यम् यत्रास्ति तदुपलक्षणमेतत् ।
तद्यथाक्वचिदेकोनपञ्चाशद्रात्रविशेषे श्रूयते- अतिरात्रो नव त्रिवृद्वन्त्यहानि नव पञ्चदशान्यहानि नव सप्तदशान्यहानि नवैकविंशान्यहानि द्वादशाहस्य दशाहस्य दशाहानि महाव्रतं चातिरात्रश्चेति ।
निश्चितार्थैरिति ।
यद्यपि त्रिवृदादिशब्दाः स्तोत्रीयाणामृचां नवसंख्यादिवाचिनो नाहर्वाचिनः तथापि तेषामन्यत्र लक्षणयाऽहः परत्वं दृष्टमित्येतावता तादर्थ्यनिश्चयोक्तिः ।
ननु तेषां संवत्सरपरत्वमपि त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशा इत्यादिद्वादशवार्षिकसत्रोत्पत्तिवाक्येषु नव त्रिवृतः संवत्सरा नव पञ्चदशा इत्यादिषट्त्रिंशत्संवत्सरससोत्रोत्पत्तिवाक्येषु च दृष्टम् न च तेषु संवत्सरशब्दस्यार्थानवधारणमस्ति संवत्सरसत्राणां प्रकृतिभूते गवामयने चत्वारोऽभिप्लवाः षडह एकः पृष्ठ्यः षडहः समास इति त्रिंशति अहस्सु मासत्वोक्तिलिङ्गाद् यावत्यश्चतुर्विंशोक्थ्यस्य स्तोत्रीयास्तावत्यः संवत्सरस्य रात्रय इति संवत्सररात्रीणां षष्ट्युतरविंशत्संख्याकचतुर्विंशोक्थ्यस्तोत्रीयाभिः समसंख्यत्वोक्तिलिङ्गात्सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृत इति स्मरणाच्च सावनपरत्वावधारणेनानुष्ठानपर्यन्तत्वदर्शनात् तथेहापि मुख्यवृत्त्यैव सावनसंवत्सरपरत्वमुपपपादयितुं शक्यमिति पूर्वास्वरसादाह-
औषधादिसिद्धिकल्पनापीति ।
सहस्रसंवत्सरजीवनोपायभूतमौषधादिकं क्वचित्प्रामाणिकशास्त्रे दृष्टं क्लृप्तं नास्ति येन सहस्रसंवत्सराऽऽयुरर्थितया स्वत एवौषधादिसिद्धानामधिकार इति विध्याक्षेपगौरवं परिह्रियेत किंतु सहस्रसंवत्सरविधिबलादेव तथाभूतमौषधादिकमस्तीति कल्पनीयम् । न च तथा कल्पनयाऽप्यधिकारनिर्वाह: । सामान्यतः कल्पितस्याप्यौषधादेरिदन्तया परिज्ञानाभावेन तत्सेवया तावदायुःसंवादनाभावात् । न ह्यग्निसंवर्द्धनं स्वरवर्णप्रसादनं वलीपलितनाशनमित्यादिरसायनानामिव तावदायुःसंपादकस्य रसायनस्येदन्तया परिज्ञानं कथमपि लब्धुं शक्यम् । तावदायुषां गन्धर्वादीनामधिकाराश्रयणेऽपि तेषां ब्राह्मण्यादिकं तदभावेऽप्यग्निसंपानम् अग्न्यभावेऽपि क्रत्वनुष्ठानं वा कल्पनीयमिति विध्याक्षेपगौरवमपरिहार्यमतस्तत्परिहाराय पञ्चपञ्चाशत इति संख्यावाचिशब्दस्य संवत्सरा इति कालवाचिशब्दस्य वा लक्षणीयत्वेन वाक्यार्थे वक्तव्ये संख्याशब्दस्य व्यवस्थितार्थत्वात् संवत्सरशब्दस्यापाततोऽनेकार्थतया प्रचलदवस्थत्वादहरेव संवत्सर इत्यहनि दृष्टप्रयोगत्वाच्च अहर्लक्षणत्वमभ्युपेत्य वाक्यार्थो निर्णेतव्य इति भावः ।
दूर्वाकारेति ।
यद्यारम्भणाधिकरणे स्फुटीकरिष्यमाणं विवर्तवादं प्रच्छाद्य समनन्तरभोक्त्रापत्त्यधिकरणावलम्बनं परिणामवादमाश्रित्य परमाणुवाददूषणं वक्तव्यम् तदोपादानोपादेयययोरल्पाधिकपरिमाणत्वनियमस्य प्रचितपरिमाणकूलपिण्डाद्यारब्धेषु पित्रुप्रभृतिषु व्यभिचार उद्भावनीयः । मेरुसर्षपयेारनन्तावयवारब्धत्वाविशेषेऽपि तदानन्त्ययोरेवातीतक्षणकल्पानन्त्ययोरिव विशेषोपपादनेन तुल्यपरिमाणप्रसङ्गं निरस्य क्षोदीयोर्थान्तरकल्पनापतिप्रसङ्गेन च परमाणु कारणवादो दूषणीयः ॥१२॥
इति चतुर्थं शिष्टापरिग्रहाधिकरणम् ॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥ ननु केवलागमगम्यब्रह्मविषयत्वं साधकस्येव बाधकस्यापि तर्कस्य न संभवतीति शङ्काया मन्त्रार्थवाददृष्टान्तेन परिहारो न संभवति मन्त्रार्थवादयोर्मानान्तरगम्यविषययेारेव मानान्तरबाधेनान्यथानयनाङ्गीकारादित्या-शङ्क्यात्रापि मानान्तरगम्यप्रपञ्चाभावश्रुतीनामेव तत्सत्त्वग्राहिमानान्तरेण बाधः शङ्क्यत इति तत्तात्पर्यमाह-
तर्हि जगद्भेद इति ।
एतदनुसारेण प्रवृत्तवर्तमान शब्दौ व्याख्यातुमयं ग्रन्थः ॥१३॥
इति पञ्चमं भोक्त्रापत्यधिकरणम् ॥
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ लौकिकप्रमाणानां तत्त्वावेदकत्वप्रच्यावनरूपो विशेषोऽत्राभिधित्सितः कुतोऽवसीयते ? इत्याकाङ्क्षायां सौत्रपदेन तद्विषयमिथ्यात्वप्रतिपादनादित्याह-
तदनन्यत्वपदेनेति ।
ननु
सौत्रपदाद्बलवति विषयवाक्ये पूर्वाधिकरणव्यवस्थापितभेदाभेदानुगुण-दृष्टान्तोपादानात्तद्दृढीकरणे तात्पर्यं कुतो नावसीयत इति शङ्कोत्तरत्वेन प्रतिज्ञावाक्यतात्पर्यवर्णनपरं ग्रन्थमवतारयति-
श्रुताविति ।
तत्त्वज्ञानं चेतीति ।
तत्त्वस्याबाधितरूपस्य ज्ञानमित्यर्थः । तथा चेदन्तया प्रतीयमानस्य भुजगस्य रज्ज्विदमंश इव सत्तया प्रतीयमानस्य विश्वस्याधिष्ठानसदंशस्तत्त्वमिति सद्रूपे तस्मिन् विज्ञाते विश्वमारोपिततत्तद्वैशेषिकरूपेणाऽज्ञातमपि तत्त्वतो ज्ञातं तज्ज्ञानेनैव विषयीकृतं भवतीत्यर्थः । एतेनासाधारणं स्वरूपं धर्मो वा तत्त्वं न तु भ्रमाधिष्ठानम् । तथा सति सदंशस्तत्त्वमिति ब्रह्मशुक्त्याद्यधिष्ठानस्यानन्द-शुक्तित्वादेरतत्त्वप्रसङ्गादिति- निरस्तम् स्वरूपं धर्मो वा बाध्यौ तत्त्वमित्यबाधितत्वविशेषणावश्यंभावे सत्यसाधारणविशेषणवैयर्थ्यात् । नष्टशब्दो यद्यपि प्रयोगप्राचुर्याद् ध्वस्ते प्रसिद्धः तथापि दृष्टनष्टस्वरूपत्वादिति हेतोर्व्यतिरेकव्याप्तिप्रदर्शनपरे तथा हीत्यादिटीकाग्रन्थे त्रिविधपरिच्छेदराहित्यस्य वस्तुसत्त्वरूपसाध्याभावव्यापकत्वप्रदर्शनात् त्रिविधपरिच्छेदोऽत्र हेतुर्विवक्षितो न तु कालपरिच्छेदमात्रम् । न च त्रिविधोपादानवैयर्थ्यम् ध्वंसात्यन्ताभावा-न्योन्याभावप्रतियोगित्वरूपहेतुत्रयपरत्वोपपत्तेः । अभावत्वेन सर्वक्रोडीकरणेना-भावप्रतियोगित्वरूपैकहेतुपरत्वोपपत्तेश्च ।
न च ब्रह्मणि व्यभिचारः स्वान्यूनसत्ताकत्वेनाभावविशेषणादित्यभिप्रेत्य त्रिविधसंग्रहार्थं नश प्रदर्शने इति धात्वर्थकथनानुसारेण समभिव्याहृतदृष्टप्रतिद्वन्द्विविषयतौचित्यानुसारेण च नष्टशब्दं व्याचष्टे-
अदृष्टमित्यर्थ इति ।
एवं च कालान्तरदेशान्तरवर्तितया वस्त्वन्तरतादात्म्येन चादृष्टत्वोक्त्या तत्तदर्थाभावाक्षेपात् कालपरिच्छिन्नत्वादिहेतुलाभ: ।
नन्वेवं सति नष्टपदेनैव हेतुलाभात् किं दृष्टग्रहणेनेत्याशङ्क्य ध्वंसकालाद्यवच्छिन्नः सत्त्वाभाव इह साध्यते स दृष्ट एवेति भ्रान्तशङ्कावारणार्थं प्रतीतिकालादिसाधारणः सत्त्वाभाव: साध्य इति साध्यशरीरज्ञापनार्थं तदित्याह-
प्रतीतिसमये इति ।
क्वचिददृष्टमित्यर्थ इति स्थाने अनित्यमित्यर्थ इति पाठस्तु नष्टशब्दस्य ध्वस्ते प्रसिद्धिप्राचुर्यमाश्रित्य । अस्मिन् पक्षे कालपरिच्छेदमात्रस्य हेतुत्वाद् ब्रह्मणि व्यतिरेकव्याप्तिप्रदर्शनपरे टीकाग्रन्थे न ह्यसौ कदाचित्क्वचित्कथञ्चिद्वा-ऽस्तीति देशवस्तुपरिच्छेदयोरप्यभावकथनं कालपरिच्छेदाभावे दृष्टान्तार्थमिति योज्यम् ।
टीकायां ये हि दृष्टस्वरूपा इत्यनेन विवक्षितस्यानुमानस्य प्राथमिकतथाहिग्रन्थेन व्यतिरेकव्याप्तिः प्रदर्शिता तस्यैव विपक्षबाधकं द्वैतीयीकतथाहिग्रन्थेनोच्यत इति निष्कृष्य तदनुमानप्रदर्शनपूर्वकमवतारयति-
विमतमिति ।
सावधिकत्वादिति ।
पूर्वोक्तरीत्या त्रिविधावधिमत्त्वादनित्यत्वादिति वाऽर्थः । सावधिकसत्त्वादिति पाठे सावधिकस्थितिकत्वादित्यर्थमादायोक्तार्थ एव पर्यवसानं द्रष्टव्यम् । अन्यथा कदाचित्सत्त्वमङ्गीकृत्य तेन त्रैकालिकसत्त्वाभावसाधने विरोधात ।
टीकायामाद्यविकल्पद्वयं सत्त्वासत्त्त्वोभयविषयमुपन्यस्याऽर्थान्तरत्वा-दिविकल्पद्वयमसत्वमात्रविषयमुपन्यस्तम् तत् स्वयं सत्त्वेनासत्त्वेन चानिर्वचनीय-त्वाभावसिद्धये सत्वेऽप्यतिदिशति-
असत्त्ववदित्यादिना ।
ननु सत्वं भावधर्मः असत्त्वं त्वभावरूपमर्थान्तरमित्यभ्युपगमे नास्ति दोषः न चाकिञ्चित्करतायामर्थान्तरस्य विरोधित्वानुपपत्तिः तस्य प्रतियोगिन्यकिञ्चि-त्करत्वेऽपि स्वभावादेव प्रतियोगिप्रतिक्षेपरूपविरोधित्वोपपत्तेः । अन्यथा प्रतियोगिनि किञ्चित्करस्यैव (विरोधित्वनियमेऽत्रैववियद्वाचकसमर्थनार्थस्य सदसतोरेकत्वविरोधादिति टीकाग्रन्थस्य सत्स्वभावस्याऽसत्त्वविरोधादित्यस्य ग्रन्थस्य चानिर्वाहात् । उच्यते । सत्त्वासत्त्वे भावधर्मावित्यभ्युपगमे विकारनित्यत्वापात इति यो दोष उक्तः स सत्त्वमेकमेव भावधर्मो न कदापि भावस्यासत्वमित्यभ्युपगमेऽपि तुल्यः । असत्त्वमर्थान्तरं न चासत्त्वान्तरकरमित्यभ्युपगमे त्वसन् घट इति सामानाधिकरण्यानुपपत्तिः । न हि सत्त्वासत्त्वगोत्वाश्वत्वादीनां स्वभावादेव परस्परविरोधसद्भावेऽपि सदसद्गौरश्व इत्यादिसामानाधिकरण्यमस्ति। न चासन् घट इति सामानाधिकरण्यमभाव-प्रतियोगी घट इत्यर्थकमिति वाच्यम् । तथा सति प्रतियोगित्वधर्माश्रयतया विकारसत्त्वापातात् । एवं सत्त्वासत्त्वाभ्यामनिर्वचनीयत्वमिह विश्वस्योपपादितम् । भेदाभेदाभ्यामनिर्वचनीयत्वमपि पूर्वाधिकरणे कार्यकारणभेदवादिभिश्च दर्शितैः परस्परं प्रतिक्षेप्तुमशक्यैर्न्यायैः सिद्धमित्यनुसंधेयम् । ननु मृदात्मना शरावादीनामेकत्वं मृदश्च शरावाद्यात्मना नानात्वमिति परोक्तमापाद्य विकल्पपूर्वकं दूषणमयुक्तोपालम्भः मृदेका शरावादयो नानेत्येतावत एव परेणोक्तत्वात् ।
भाष्ये- यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वमिति प्रथमदृष्टान्तानुसारेण मृदात्मना घटशरावाद्यात्मनेति आत्मशब्दयोर-विवक्षितार्थत्वादित्याशङ्क्य तात्पर्यमाह-
मृदेकेति ।
यदि तथा परमतं स्यात् तदा सर्वविज्ञानप्रतिज्ञानिर्वाहार्थमस्मदुक्ता रीतिरनुसरणीयेति परमतेऽपि शुद्धाद्वैतमेव सिध्येद् न नानात्वस्य सत्यता । अतस्तत्सत्यतामनुरुध्य प्रतिज्ञां निर्वोढुं कार्यकारणयोर्द्वयोरपि परस्परात्मनैकत्वं नानात्वं च पराभिमतमिति वक्तव्यम् । अत एव नन्वनेकात्मकं ब्रह्मेति भाष्ये कारणस्य कार्यात्मनाभिप्रायेण नानात्वमुक्तमिति तत्र विकल्प्य दूषणकथनं युक्तमित्यर्थः । अभेद एव स्यादिति पाठमनुरुध्य शुद्धाद्वैतमेव सिध्येदिति तत्तात्पर्यं वर्णितम् । अत्यन्तभेद एव स्यादिति पाठस्तु सुगमः ।
न भवेदपीति ।
भेदमाश्रित्य भवनवदभेदमाश्रित्याभवनमपि वक्तुं शक्यमिति भावः । तस्करदृष्टान्तः छान्दोग्ये पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपते इत्यादिना प्रपञ्चितः ।
असत्यादिति ।
असत्यादहिज्ञानान्मरणकार्यक्षमभयोत्पत्तिर्वक्ष्यते । ननु असज्ज्ञप्तावसत इवाहिज्ञप्तावहेरुपलक्षणत्वेन तादर्थ्यसंभवाद् नाऽहिज्ञानस्यासत्यत्वमिति- चेद् न असद्विकल्पस्यासद्विशिष्टत्वेनासत्त्वे बाधकाभावात् । न च शशशृङ्गमस्तीति ज्ञानाद् भ्रान्तस्य प्रवृत्त्यभावप्रसङ्गो बाधकः । असतः साधकत्वदर्शनस्य प्रातिभासिकव्यावहारिकाणां साधकत्वोपपादने कैमुतिकन्यायेनानुकूलत्वात् । अत एव खण्डनकारैरसतः साधकत्वं यत्नेनोपपादितम् । ननु- तथापि व्यावहारिकत्वादिनिर्वचनेष्वपेक्षितमसत्प्रातिभासिकवैलक्षण्यं व्यावहारिकमभ्युपेयम् असत: प्रातिभासिकस्य च तद्वैलक्षण्यस्यासति प्रातिभासिके च सत्त्वेनाव्यावर्तकत्वात् अतस्तत्रासत्प्रातिभासिकवदहेरप्युपलक्षणत्वं स्यादिति- चेत् न । तत्र विशिष्टरूपेणासदपि प्रातिभासिकमपि स्वरूपेण तद्वैलक्षण्यं विशेषणमिति विवक्षया व्यावर्तकत्वोपपत्तेः क्वचित्कस्यचिद्बाधकवशादुप-लक्षणत्वकल्पनेऽपि प्रकृते विशेषणत्वे संभवति तद्दृष्टान्तेनोपलक्ष्याकारान्तर-सापेक्षोपलक्षणत्वकल्पनायोगात्, महासर्पभ्रमजन्यभये क्षुद्रसर्पभ्रमजन्यभयादुत्कर्ष-दर्शनेन कार्योत्कर्षानुविधेयोत्कर्षस्य सर्पस्य विशेषणतया भयप्रयोजककोटि-निवेशनावश्यंभावाच्च ।
परिहारसाम्यमाहेति ।
ननु कथं परिहारसाम्यम् सत्यत्वाविशेषेऽपि यत्कारणतावच्छेदकावच्छिन्नं ततः सत्यं कार्यं नान्यस्मादिति नियम: सत्यपक्षे संभवति। आरोपपक्षे त्वजिनमजीनमित्युभयोरपि दैर्घ्यारोपाऽविशेषे धूमबाष्पयोर्व्याप्यारोपाविशेषे च कथं नियमः उच्यते । यादृशेन ज्ञानेन सत्यत्वं कार्यकारणभावानतिप्रसङ्गोपपादकं सिद्धं परो मन्यते तादृशज्ञानसिद्धं व्यावहारिकसत्त्वमस्माकं तदनतिप्रसङ्गो-पपादकम् तत्तु ज्ञानं परस्य सर्वथैव बाध्यमित्यभिमानः । आस्माकं तु तद्युक्त्या ब्रह्मज्ञानेन च बाध्यमिति सिद्धान्तः । एवं च धूम एव वह्निव्याप्तिज्ञानात् तत्सत्त्वसिद्धिः न तु धूमत्वभ्रान्तिविषये बाष्पे तज्ज्ञानादिति पराभिमानात् । अस्माकं धूमे एव वह्निव्याप्यारोपाद्व्यावहारिकवह्निप्रमा नान्यत्रेति व्यवस्था । यदि क्वचिद्बाष्पधूमभ्रमस्थलेऽपि संवादिनी सा जायत इति न वस्तुसद्व्याप्तिमत्वं तत्प्रयोजकम् किं तु साध्यवति लिङ्गज्ञानमात्रमारोपानारोपसाधारणमितीष्यते तदा यतः साध्यवत्त्वज्ञानात्पक्षे साध्यत्वस्य वस्तुसतः सिद्धिं परो मन्यते तदस्माकमारोपरूपमिति तत्सिद्धं व्यावहारिकं साध्यत्वं तत्प्रयोजककोटौ निवेश्यम् । एवमजीनमजिनमित्यत्राप्युपपादनं वर्णदैर्घ्यादेश्च सत्यत्वमशक्यो-पपादनम् । न च दीर्घादिध्वनिसाहित्यं तदभितव्यक्तत्वं वा तत् । न हि दीर्घादिध्वनिसहिता इमे वर्णास्तदभिव्यक्ता वेति प्रतियन्ति लोकाः किं तु दीर्घोऽयं ह्रस्वोऽयमित्येव प्रतियन्ति। लोकविरोधेन चानुभवव्याख्याने रजतभ्रमादीनामपि रजतसदृशमिदमित्यादिव्याख्यानं को वारयेत् ।
ध्वस्ते इति ।
ध्वंसु गतौ चेति गत्यर्थमादाय यथा चेयं ध्वस्तेति पाठस्य गतिरुक्ता । स्तब्धेति पाठ: सुगम इति त्यकः ।
तर्ह्येवेति ।
कथं चेत्येतत्प्रकृतार्थानुगुण्यार्थं तर्ह्येवेत्यर्थे योजनीयम् । आक्षेपार्थत्वे स्वप्नदृगनुभवभ्रान्तित्वस्यैव प्रतिपिपादयिषितत्वापत्तेरिति भावः ।
नानात्वांशेन तु कर्मकाण्डाश्रया इत्यादिनेति ।
ननु- अयं ग्रन्थो भाष्ये पूर्वपक्षग्रन्थः टीकायां तु यच्चोक्तमित्यत: प्रागयं ग्रन्थ एव नास्ति तदनन्तरं तु पूर्वपक्षभाष्यानुवादरूपोऽयं ग्रन्थः कथमयं ग्रन्थो नाद्य इत्युक्तमिति सिद्धान्तग्रन्थतयाऽवतारितः । उच्यते । अनेन ग्रन्थेनानूदितः पूर्वपक्ष: सर्वव्यवहाराणामेव प्राग् ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेरित्यादिभाष्येण तात्पर्यप्रदर्शकटीकाग्रन्थेन च निराकृत इति प्रदर्शनार्थं पूर्वपक्षग्रन्थोपन्यास इति न दोषः । केषुचित्कोशेषु नानात्वांशेनेत्यादिप्रतीकग्रहणमेव नास्ति तस्मिन् पाठे नाद्य इत्युक्तमित्येतावतैव सर्वव्यवहाराणामित्यादिभाष्यतद्व्याख्यानाभ्यामिति ज्ञातुं शक्यत्वात्प्रतीकाग्रहणम् ।
यथा खल्विति ।
घटध्वंसो नाम घटविरोधिकपालरूपकार्यान्तरोदय एव न त्वभावरूपः । तदतिरिक्ताभावरूपध्वंसकल्पने गौरवात् कपालरूपविरोधिकार्यान्तरोदयेनैव ध्वंसव्यवहारोपपत्तेश्च ।
ननु कपालोत्पत्त्यनन्तरं घटो नास्तीति व्यवहारविषयः कश्चिदभावोऽपि स्वीकर्तव्यः स एव मुद्गरपातादिसाध्यो घटध्वंसेाऽस्त्वित्यत आह-
तस्य तुच्छत्वेनेति ।
सोऽभावो न कस्यचित्कार्योऽभावत्वादेव । तथा च घटापनयनानन्तरमिव मुद्गरपतनानन्तरमपि घटो नास्तीति व्यवहारो नित्यसंसर्गाभावविषय एव ध्वंसव्यवहारस्तु कपालोत्पत्तिविषयः । अत एव कपालोत्पत्तिदशायां कपालान्युत्पद्यन्त इति व्यवहारवद् घटो ध्वस्त इति व्यवहारः । उत्पन्नेषु कपालेषु कपालान्युत्पन्नानीति व्यवहारवद् घटो ध्वस्त इत्येव व्यवहारः कपालतदुत्पत्त्योरदर्शने घटो ध्वस्तो ध्वंसत इति च व्यवहारयोरभारश्च । यद्वा तुच्छत्वेनेत्यस्याभावत्वेनेति नार्थः किं त्वलीकत्वेनेति। तथा च भावविशेषैरेवाभावस्य व्यवहारोपपत्तेर्भावातिरिक्ताभावस्याऽप्रामाणिकत्वेन कार्यत्वशङ्कानास्पदत्वादित्यर्थः ॥१४॥
तत्रापि व्यभिचारस्योक्तत्वादिति ।
तद्भावनानुरक्तधीबोध्यत्वं न तत्तादात्म्यधीबोध्यत्वम् । भाष्योदाहृते पटे तन्तुतादात्म्यबुद्धाभावादतस्तद्वैशिष्ट्यबुद्धिबोध्यत्वं तदिति वक्तव्यं तत्त्वालोक-संयुक्तत्वेनैव चाक्षुषधीवेद्यत्वनियते घटे व्यभिचार इति प्रागेवोक्तम् । तस्मात्तद्भावोपलब्धिनियतभावोपलब्धिकत्वरूपहेत्वर्थप्रदर्शनपरमिदं भाष्यमित्यर्थः । प्रागनुपलब्धत्वादित्यनेन किं पटाकारोल्लेखेनानुपलब्धिर्विवक्षिता उत स्वरूपेण ।
नाद्यः । तदानीमातानवितानरूपाकारविशेषाभावेन तदाकारोल्लेख्युपलब्ध्य-भावस्योपपन्नतया तस्य द्रव्यभेदासाधकत्वादित्यभिप्रेत्य द्वितीयमसिद्ध्या दूषयति-
अभेदवादिन इति ॥१५॥
ननु कारणवत्कार्यमपि सत्यमित्येतावता सत्यद्वयं न प्रसज्यते रज्ज्विदन्तायां भुजङ्गइवारोपिते कार्ये कारणब्रह्मसत्ताया एव प्रतीति: ।
तदनन्यत्वं च न तदभेदः किन्तु तद्व्यतिरेकेणाभाव इत्यधिकरणारम्भे वर्णितत्वादित्याशङ्क्याह-
उक्ताभिप्रायानभिज्ञ इति ।
भावे चेापलब्धेः (ब्र. अ. २.पा. १ सू. १५) सत्त्वाच्चावरस्येति (ब्र. अ. २. पा. १ सू. १६) सूत्रद्वयभाष्यटीकाग्रन्थच्छायया कार्यकारणयोरभेद इष्ट इति प्रतिभासेन प्रागुक्तमर्थमननुसंदधानस्यैवेयं शङ्केत्यर्थः ।
सत्त्वं चेदिति ।
सापेक्षं वाक्यमध्याहारेण पूरयति-
त्रिष्विति ।
यद्येवमिति टीकावाक्यमस्यैव वाक्यस्यार्थसंग्राहकमिति न पौनरुक्त्यम् ।
सत्त्वं चैकं कार्यकारणयोरिति षष्ठी भेदगर्भसंबन्धार्था चेदग्रिमहेतूक्तिर्विरुध्येतेत्या-शङ्क्य स्वरूपपदाध्याहारेण व्याचष्टे-
कार्येति ।
कार्यकारणयोरबाधितस्वरूपभूतं यत्सत्त्वं तदेकमित्यर्थः । तस्यापि तस्यैवेत्यर्थः । वैपरीत्यमेवास्त्विति खल्वियं शङ्का ।
अस्यां शङ्कायां तथा सति हीति ग्रन्थस्य परिहारसमर्पकत्वेनान्वयाभावात्तत्संघटनार्थ-मभिप्रायानभिज्ञं शङ्कावादिनं प्रति स्वाभिप्रायोद्घाटनपरं वाक्यमध्याहरति-
न हीति ।
माक्षादभेदं मुख्याभेदं न ब्रूम इत्यर्थः ।
तत्र तयोरारोपितत्वेनेति ।
ननु कारणमिह ब्रह्म यत्सदेव सोम्येदमिति श्रुतं यद्विज्ञानाच्च सर्वतत्त्वविज्ञानं प्रतिज्ञातं ततश्च सद्रूपे कारणे कार्यस्यैव समारोपः कथमिह कारणस्यापि समारोपोक्तिः । उच्यते कार्यकारणे उभे अपि सत्ये वस्तुतः परस्परं भिन्ने इत्येवंरूपेण द्वयोरपि सद्रूपे कारणे ब्रह्मण्यारोपितत्वं विवचितमिति न दोषः ।
एवमभिप्रायोद्घाटने कृते पुनस्तस्याप्युपरि वैपरीत्यशङ्कां परिहारग्रन्थनिवर्त्यत्वेन दर्शयति-
यदि मन्येतेति ।
ननु सत्त्वमारोपितं चेदारोपितसत्त्वे कार्यकारणे अप्यारोपिते स्याताम् कथं तत्सत्त्वमेवेत्यवधारणम् । उच्यते सत्त्वस्याभिन्नत्वेनारोपो विवक्षितः । एवं च द्वे सत्त्वे स्यातामिति नाभेदसिद्धिरित्येषा प्राक् कृतैव शङ्का स्थापितैव भवति तयोः सत्त्वस्य वा समारोपितत्वप्रसङ्ग इति टीकाग्रन्थोऽप्युपपादितो भवति। अन्यथा सत्त्वस्य समारोपितत्वे तद्धर्मिणोः कार्यकारणयेारपि समारोपितत्वमवर्जनीयमिति वाकारेण विकल्पतः समारोपस्य प्रसञ्जनमनुपपन्नं स्यात् । ननु भिन्नत्वेन कार्यकारणयोः समारोपितत्वं सिद्धान्तिना स्वीकृतम् अभिन्नत्वेन सत्त्वस्य समारोपितत्वं पूर्वपक्षिणा ।
एवमुभाभ्यां स्वीकृतस्यान्यतरसमारोपितत्वस्य प्रसञ्जनं कस्यानिष्टमिति क्रियत इत्याशङ्क्य स्वीकृतार्थप्रसञ्जनं फलमाह-
अयुक्तं दर्शयितुमिति ।
उभाभ्यामङ्गीकृतयोरारोपयोर्मध्येऽयुक्तमारोपं निर्द्धारयितुं स्वीकृतप्रसञ्जन-मित्यर्थः । अयुक्ततामिति पाठे पूर्वपक्ष्यङ्गीकृतारोपस्यायुक्ततां दर्शयितुमित्यर्थः ।
तामेवेति ।
द्वितीयपाठानुसारी स्त्रीलिङ्गनिर्देश: । प्रथमपाठे तु तमेवेति पुंल्लिङ्गनिर्देशेन भाव्यम् ।
ननु कार्यकारणयोः सत्त्वस्य वा समारोप इति प्रमक्तस्य पक्षद्वयस्य कथं भेदाभेदयोरन्यतरसमारोपकल्पनायामित्यनुवाद इत्याशङ्क्य भेदाभेदशब्दौ लाक्षणिकाविति व्याचष्टे-
भेद इति ।
भिन्नत्वेन कार्यकारणयोरभिन्नत्वेन सत्त्वस्य च समारोपौ सिद्धान्तिपूर्वपक्षिभ्यां विवक्षितौ न स्वरूपेणेति विभावयितुमित्थं लाक्षणिकशब्दप्रयोग इति भावः । एवं च कार्यकारणभावसमारोपोक्तिः फलतो भेदसमारोपपर्यवसिता सत्त्वसमारोपोक्तिश्च अभेदसमारोपपर्यवसितेति फलितार्थमवलम्ब्य वयं त्वित्यादिना भेदस्य समारोपितत्वं व्यवस्थापितमिति द्रष्टव्यम् ।
स्वस्मादपीति ।
न च स्वस्माद् भेदः स्वस्मिन्नास्तीति विषयाभावादेव तद्ग्रहणं न प्रसज्यत इति वाच्यम् । एक एव भेदः स्तम्भकुम्भयोरन्योन्यप्रतियोगिको वर्तत इति प्रकृते पक्षे यः स्तम्भे कुम्भाद्भेद: तस्यैव कुम्भेऽपि वर्तमानतया विषयाऽभावस्य वक्तुमशक्यत्वादिति भावः ।
एवं च यद्यपि कुम्भ एव कुम्भभेदप्रतीतिरुत्पन्ना प्रमा स्याद् विषयाबाधादिति वक्तुं शक्यम् तथापि स्तम्भाद्भेदः कुम्भ एव कुम्भाद्भेदः स्तम्भ एव उभावपि भेदौ प्रतियोगिभेदेन भिन्नाविति पक्षे नेदं दूषणं प्रसरोदति तत्साधारण्यार्थं दूषणान्तरमाह-
सोऽसाधुरित्यादिना ।
तत्र भेदाधिकरणत्वेन भेदप्रतियोगित्वेन च प्रतीत्यपेक्षया मूलोक्तमन्योन्याश्रयं योजयित्वा तत्परिहारार्थम् अधिकरणत्वप्रतियोगित्वयोर्भेद-विशेषणाऽनिवेशने स्वयं दोषमाह-
यस्य कस्यचिदिति ।
ननु- नेदं दोषापादनं युक्तम् शुक्तिरजतभ्रमस्थले प्रतियोग्यधिकरणज्ञानरूपभेद-ग्रहकारणसत्त्वेऽपि दोषात्तदग्रहोपपत्तेरिति- चेत् न । तथा सति भ्रमानन्तरं शुक्तित्वे विशेषदर्शनात् प्राग् दोषनिवृत्तौ तद्दर्शनमनपेक्ष्य रजतभेदग्रहापत्त्या यावद्विशेषदर्शनं भ्रमानुवृत्तेरभावप्रसङ्गात् । न च विशेषादर्शनमेव भेदग्रहप्रतिबन्धको दोष इति न विशेषदर्शनात्प्राग् दोषनिवृत्तिसंभव इति वाच्यम् । एवं हि विशेषदर्शनं रजतभेदग्रहे कारणमङ्गीकृतं स्यात् तच्च न शुक्तित्वदर्शनमात्रम् शुक्तित्वरजतत्वयोरविरोधभ्रमदशायां सत्यपि शुक्तित्वदर्शने रजत एव भेदप्रत्यक्षानुदयात् किन्तु रजतभेदव्याप्यत्वेन तद्दृर्शनमिति वक्तव्यम् । ततश्च नान्योन्याश्रयानतिवृतिः । न च अभेदभ्रमोत्तरभेदप्रत्यक्षे विशेषदर्शना-पेक्षायामपि सर्वत्र तदनपेक्षणात्प्राथमिकं भेदप्रत्यक्षं न भेदज्ञानापेक्षमिति नान्योन्याश्रयापत्तिरिति वाच्यम् तत्रापि शुक्ती रजताद्भिन्नेत्यसंकीर्णधर्मप्रतियोग्यु-ल्लेखार्थं भेदव्याप्यत्वेन शुक्तित्वरजतत्वग्रहस्यावश्यापेक्षणीयत्वेनान्योन्याश्रयाऽ-निवारणात् । न च वाच्यं शुक्तित्वरजतत्वयोः परस्परं संसर्गाभावव्याप्यत्व-ग्रहस्तदर्थमपेक्ष्यतामिति शुक्तित्वरजतत्वयोरभेदभ्रमदशायां तयोः परस्पराभाव-व्याप्यत्वाग्रहेण तद्ग्रहार्थं तदुभयभेदग्रहापेक्षणाद् धर्म्यभेदभ्रमदशायां तदुभयभेद-ग्रहाऽसंभवे तद्ग्रहार्थं धर्मिभेदग्रहस्याप्यपेक्षितत्वाच्चान्योन्याश्रयाऽनिवारणात् । ननु अन्योन्याश्रयेण भेदे प्रतीतिदूषणे तत्रापि मिथ्याभूतभेदप्रतीतिर्न स्यात् कारणाभावात् न चेष्टापत्तिः प्रतीतिमात्रापलापेऽनुभवविरोधात् । उच्यते । सत्यत्व लोकमर्यादया प्राप्तं भेदग्रहघटितकारणकलापं विना भेदप्रतीतिर्न संभवतीति दूषणमुच्यते न तु व्यावहारिकभेदप्रतीतिरपलप्यते । अस्मन्मते भेदतत्प्रतीत्योर्मायामयत्वेन लोकमर्यादया प्राप्तकारणानपेक्षणात् । न ह्यैन्द्रजालिकप्रदर्शितानेकप्रासादनगरादीनि तदपेक्षाणि न वाऽस्मन्मते रज्जुसर्पादीनि तदपेक्षाणि । स्वप्नेषु च कदाप्यदृष्टं दृश्यमानं विनैव पूर्वानुभवसंस्कारं प्रागनुभूतमिति प्रत्यभिज्ञायमानं दृश्यते । न च सत्यत्वेऽपि ईश्वरसामर्थ्यात् क्लृप्तकारणं विना कार्योत्पत्तिः शङ्कनीया । पुरुषसामर्थ्यस्य क्लृप्तकार्यकारणव्यवस्थानतिलङ्घित्वात् । न हीश्वरोऽपि गगनपर्वतादीन् वैपरीत्येन सृजति संहरति चेति सत्यत्ववादिभिरुपेयते । अस्माकं त्वध्यारोपापवादेन ब्रह्मात्मैक्यपराणां स्वार्थतात्पर्याभावान्मायिकप्रपञ्चसृष्टिर्यथा तथा वाऽस्तु । प्रतियोग्यधिकरणयोः स्वरूपेण प्रतीतिमात्रं न पर्याप्तं किं तु परस्परव्यावृत्तधर्मावच्छेदेन प्रतीतिरपेक्षितेति शङ्कायामप्येतदेव दूषणं शुक्तीदमंशरजतयोर्भेदग्रहप्रसङ्गादिति। न हि शुक्तीदन्त्वं रजतत्वं च न परस्परव्यावृत्तं परस्परव्यावृत्तत्वेन ग्रहापेक्षायां तु प्रागुक्त एवान्योन्याश्रयः । अत एव शुक्तिरजतभेदग्रहेण भ्रमानुदयप्रसङ्गादेव । नन्वसाधारणत्वं न भिन्नत्वं येन भेदान्तरापेक्षा स्यात् किं तु तत्तत्प्रतियोगिकत्वम् ।
तथा च भ्रमस्थले घटादिप्रतियोगिकत्वभानेऽपि दोषाद् रजतप्रतियोगिकत्वाऽभानान्न तद्भेदग्रहरूपता धर्मिज्ञानस्य प्रसज्यत इत्याशङ्क्याह-
इति दिगिति ।
शुक्तित्वाऽग्रहेऽपि दोषनिवृत्तौ रजतभेदग्रहापत्या भ्रमानुवृत्तिर्न स्यादित्यादिदूषणजातमत्रापि भवेदिति भावः ।
भेदेनोपजीव्यत्वादिति ।
ननु स्तम्भकुम्भोभयवृत्तिभेदो वस्तुत एकमेकं स्तम्भं कुम्भं चाश्रयतु नाम न तावता स्तम्भकुम्भयोः प्रत्येकं सदैक्यं भेदस्योपजीव्यम् तदुभयगतपृथिवी-त्वादिवद् भेदाश्रयतायामप्रयोजकत्वात् । अस्तु वा यथा कथञ्चित्स्तम्भकुम्भादि-ष्वैक्यस्य भेदाश्रयतायामुपजीव्यता किमायातं प्रकृते । न हि तावता कतरः समारोप्य इति विचार्ययोः सद्रूपाऽभेदकार्यकारणभेदयोरुपजीव्योपजीवकभाव: समर्थितो भवति। उच्यते । कार्यकारणयोर्भेदमात्रमिह न निराकार्यम् व्यावहारिकभेदस्य सिद्धान्तिनाऽप्यङ्गीकृतत्वात् किं तु सत्यभेदो निराकार्यः । भेदसत्यत्वं च धर्मिसत्यत्वसापेक्षम् । अतः कार्यकारणयोः सद्रूपाभेदप्रतीति-मपेक्ष्य तयोः सत्यभेदप्रतीतिः संपादनीयेति तदभिप्रायेयमुपजीव्यत्वोक्तिः ।
भ्रान्तभेदानुवाद इति ।
तदनुवादस्य चेदं फलं यत्सद्रूपानुगतप्रत्ययात्सद्रूपेण कार्यं कारणाभिन्नमिति खल्वभेदप्रतिपादनं कार्यम् तत्रासंकीर्णधर्मिप्रतियोग्युल्लेखार्थं भेदप्रतीतिरपेक्षणीया । अतो भेदस्याप्यभेदोपजीव्यता तुल्येति शङ्काया निवर्तनम् । तन्निवर्तनं चैवं विवक्षितम् । अस्मादिदमभिन्नमित्यनेनेदमसदृशमित्यत्र सादृश्यस्येव भ्रान्तिप्रसक्ततयाऽनुप्रविष्टस्य भेदस्य यौ धर्मिप्रतियोगिनौ तयोरुल्लेखोऽयं न त्वभेदस्य । असादृश्यवदभेदस्य निष्प्रतियोगिकत्वात् । ततश्च नोपजीव्यतया प्राबल्यं प्रतिषेध्यत्वात् ।
अन्यथा नेदं रजतमिति प्रतीतौ प्रसक्तितया रजतप्रतीतिरपेक्षणीयेति तस्याः प्राबल्यं भवेदिति ॥१६॥
नान्यासतीति भाष्ये असतीति पदच्छेदमभिप्रेत्य नकारानुषङ्गेण नाप्यसतीति यद्वाक्यान्तरं दर्शितं तत्र कार्यरूपेणेत्यधिकाध्याहारस्य फलमाह-
कार्येति ।
कार्यरूपेण शक्तेः सत्त्वमिहापाद्यते प्रसाध्यते तथा सत्येव हि कार्यस्य प्रागुत्पत्तेरसत्वप्रतिक्षेपः सिसाधयिषितः सिध्यति न स्वरूपतस्तत्सत्त्वप्रसाधन-मात्रेण अतस्तत्सिद्धार्थमध्याहार इत्याशयः ॥१७॥
पुनरुक्तिमाशङ्क्येति ।
यद्यपि समवायदूषणार्थत्वेऽपि समवायाभ्युपगमाच्च साम्यादनवस्थिते (ब्र. अ. २. पा. २ सू. १३) रिति द्वितीयपादसूत्रे वक्तव्येन पुनरुक्तिर्भवेत् तथापि तस्यैव संगृह्य स्मरणार्थत्वेन तदपुनरुक्तिर्द्रष्टव्या ।
व्यासक्तत्वादिति ।
व्यापाराविष्टतया पूर्वापरीभूतत्वादित्यर्थः ।
इतरथा हीति ।
सांख्यानामस्माकं च सत्कार्यवादोपपादनच्छायासाम्येऽपि कार्यं कारणसत्तयैव सद्रूपं स्वतस्त्वनिर्वचनीयमिति भाष्यसंदर्भतात्पर्याऽकथने सांख्यवाद एवाङ्गीकृत: प्रसज्येतेत्यर्थः ।
नटवदिति ।
भाष्योदाहृतदृष्टान्तानुसारि वाचस्पतिमतमित्याह-
अज्ञातं नटवदिति ।
नटो हि द्रष्टृभिरविज्ञातनिनरूप एव तत्तदभिनेयासत्यरूपतां प्रतिपद्यते एवं जीवैरविज्ञातं ब्रह्मासत्यवियदादिप्रपञ्चाकारतां प्रतिपद्यत इति दृष्टान्तोक्त्या वाचस्पतिमतं भाष्याभिमतं निश्चीयत इत्यर्थः ॥१८॥१९॥२०॥
इति षष्ठमारम्भणाधिकरणम् ॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
ब्रह्मात्मैक्यमुक्तमिति ।
विषयवाक्यश्रुतसर्वविज्ञानप्रतिज्ञानिर्वाहार्थं ब्रह्मात्मैक्यमप्यत्र विवक्षितम् । अत एव सूत्रे जीवेष्वभेदं जडेषु तद्व्यतिरेकेणाभावं च संग्रहीतुं तदनन्यत्वमित्युक्तमिति भावः । स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्योपहिता न जानन्तीत्येकवाक्यतया पाठः सङ्गतः । न जानन्तीति स्थाने स्वेष्टं न जानन्तीति पाठे तेषामज्ञानमस्तीति पाठे च स्वाभाविकमित्यारभ्य वाक्यत्रयमिति योजनीयम् ॥२१॥२२॥२३॥
इति सप्तममितरव्यपदेशाधिकरणम् ॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
अद्वितीयत्वप्रयुक्तामनुपपत्तिमिति ।
ननु अद्वितीयस्यापि ब्रह्मणो मायया सगुणेश्वरभावापन्नस्य कर्मसापेक्षता वैषम्यनैर्घृण्ये न सापेक्षत्वा (ब्र. अ. २ पा. २ सू. ३) दित्यधिकरणे दर्शयिष्यते अत उपादानैक्येऽपि कर्मवैचित्र्यात्कार्यवैचित्र्यं कर्मक्रमात्कार्यक्रमश्च भविष्यतीति चेद् न । दृष्टसाधनभेदतत्क्रमावनपेक्ष्य अदृष्टभेदतत्क्रममात्रेण कार्यभेदतत्क्रमा-दर्शनादिति भावः ।
साधयत्येवेति ।
साधनमिति करणार्थे ल्युटा अतिशयितं साधकं करणमाहुः । अतिशयोऽत्राव्यभिचाररूपो विवक्षित इति भावः ।
कालान्तरेऽपि वा स इति ।
सोऽपि क्षीरस्य धर्म इति भावः । ननु पयोम्बुवच्चेत्तत्रापीति (ब्र. अ. २ पा. २ सू. २४) द्वितीयपादसूत्रेण क्षीरपरिणामेऽपि परमेश्वरसङ्कल्परूपं तद्धर्मभूतं कारणान्तरमस्तीति वक्ष्यते । सत्यं परमेश्वरं कारणं प्रत्याचक्षाणस्य ह्ययं पूर्वपक्ष: । न तस्य लोकदृष्ट्यनुवर्तिनः क्षीरपरिणामे कारणान्तरमस्तीति तं प्रत्ययं दृष्टान्तः ॥२४॥
असहायस्याधिष्ठातृत्वसमर्पकमिति ।
ननु मन्त्रार्थवादादरे तत एवेश्वरस्य सङ्कल्पमात्रेण स्रष्टृत्वं सिध्यति तदनादरे देवादिदृष्टान्तेनापि न सिध्यतीति कथमिदं सूत्रं देवादिदृष्टान्तप्रदर्शकमुपपद्यत इति चेत् उच्यते । अचेतनस्य बाह्यसहकारिनिरपेक्षस्य कारणत्वमुपगम्य चेतनस्यैव तत्प्रत्याचक्षाणः पूर्वपक्षी पादादिमारभ्यानुवृत्तः सांख्य एव । स च परमेश्वरस्य स्रष्टृत्वमसहमानोऽपि देवादीनामाजानसिद्धं मनुष्यादीनां योगसाध्यं च अणिमादिसत्यसङ्कल्पत्वापर-पर्यायप्राकाम्यपर्यन्तमैश्वर्यमन्तःकरणधर्ममङ्गीकरोतीति भूतवशिनां देवादीनां सङ्कल्पमात्रेण स्रष्टृत्वादिकमपि हैरण्यगर्भवदङ्गीकरोत्येव तेषां तदङ्गीकुर्वतश्च तद्विषयमन्त्रार्थवादप्रामाण्यमनुमतमिति तदवलम्ब्य सूत्रप्रवृत्तिः ॥
इत्यष्टममुपसंहारदर्शनाधिकरणम् ॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
द्व्यणुकमिति ।
द्व्यणुकारम्भार्थमेकः परमाणुरण्वन्तरेणाऽधश्चोर्ध्वं च पार्श्वतश्चतस्रो दिशश्चेति षण्णां दिशां मध्ये यत्किंचिद्दिग्गतेन यदा संसृज्यते तदा देवावशिष्टपञ्चदिग्गतेरपि कैश्चिदणुभिरस्य संगर्गो भवन्न निवारयितुं शक्यः । ते च षडपि परमाणवो मध्यगतपरमाणौ भिन्नभिन्न प्रदेशावच्छिन्ने संसृज्यन्ते चेत्स परमाणुः षडंशः स्यादिति तत्परिहाराय समानदेशा इति वक्तव्यम् । तथा च प्रथिमानुपपत्तिरित्यर्थः । द्व्यणुकएव प्रथिमानुपपत्तिदोषे वक्तुं शक्येऽपि तार्किकाऽनभिमतं सप्तपरमाण्वारब्धं द्रव्यं युक्त्या अङ्गीकर्तव्यमापाद्य तत्रैतद्दोषाभिधानम्-bषट्केन युगपद्योगात्परमाणोः षडंशता ।bषण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः ॥bइति न्यायवार्तिकोदाहृतं परमाणुवाददूषणश्लोकमनुसृत्य । ननु मूर्तानां समानदेशताविरोधादेकस्मिन् परमाणौ षट्परमाणुसंयोगा व्यापका न संभवन्तीति सप्तपरमाण्वारब्धद्रव्याऽसंभवाद् द्व्यणुक एव प्रथिमानुपपत्तिदोषो वक्तुं युक्त इति चेन्न द्व्यणुकैस्त्र्यणुकारम्भं वदतस्तार्किकस्य मते परमाणुषु मूर्त्तत्वेऽपि समानदेशताविरोधस्य वक्तुमशक्यत्वादेकद्व्यणुकारम्भकपरमाणुसंयोगे सत्येव तदारम्भकपरमाण्वन्तरे द्व्यणुकान्तरारम्भकपरमाणुसंयोगस्यापि तेनाङ्गीकर्तव्य-त्वात् कारणाऽकारणसंयोगात्कार्याऽकार्यसंयोग इति तन्मते यदवयवावच्छेदेनावयविद्वयसंयोगस्तयोरवयवयोरपि संयेागावश्यम्भावात् । तस्मात् षण्णां समानदेशत्व इति श्लोकानुसरणं युक्तमेव । तदनुसरणं च द्व्यणुके कैमुतिकन्यायेनैतद्दोषसंयोजनार्थं शङ्कान्तरनिवर्तनार्थं च । तत्र शङ्कान्तरमेवं मा भूत्- परमाण्वारब्धद्रव्येषु महत्त्वं तदारब्धेषु त्र्यणुकेषु तत्संभवाद् दृश्यमानघटादिमहत्त्वोपपत्तिः इति तन्निवर्तनमेव विवक्षितम् । त्र्यणुकेषु वा कथं महत्त्वं भवेत् कारणमहत्वाभावात् । कारणबहुत्वाद्भवेदिति चेन्न । सप्तपरमाण्वारब्धद्रव्ये सत्यपि कारणबहुत्वे महत्त्वाऽभावाद् व्यभिचारेण कारणबहुत्वस्य कार्यमहत्त्वाऽप्रयोजकत्वात् । ननु- निरवयवेष्वसंयुक्तप्रदेशा-संभवेन तद्बहुत्वस्य कार्यमहत्वाप्रयोजकत्वेऽपि सावयवककारणबहुत्वं कार्यमहत्त्वप्रयोजकं स्यादिति चेत् न । सावयवानामपि परमाण्वारब्धद्रव्याणां संयोगस्तदारम्भकपरमाणुद्वयसंयोगावच्छेदेन वाच्यः हस्तपुस्तकसंयोगावच्छेदेनेव कायपुस्तकसंयोगः । परमाणुद्वयसंयोगश्चेद्व्याप्यवृत्तिस्तदा तत्कार्यद्रव्यसंयोगो-ऽपि तदवच्छेदेन भवन् व्याप्यवृतिरेव स्यादिति परमाण्वारब्धद्रव्येष्विव तदारब्धेषु त्र्यणुकेष्वपि महत्त्वापत्तिः समानैव ।
द्व्यणुकपिण्ड इति ।
कैमुतिकन्यायसिद्धार्थप्रदर्शनार्थं द्व्यणुकग्रहणम् ।
अव्याप्यवृत्ताविति ।
व्याप्यवृत्त्यभावे संयोगस्य तत्र वृत्तिरेव न स्यादित्यव्याप्नुवन्वेत्यादि-ग्रन्थेनोक्तमित्यर्थः ।
अव्यापने वेत्यनुवादस्याव्याप्नुवन्वेत्यनुवादाद् भिन्नार्थत्व-सिद्धये प्रदेशभेदेनाव्याप्यवृत्तित्वं तदर्थमाह-
अथेति ।
तत्राहेति ।
ननु- परमाणूनामवयवाभावेऽपि नानादिगवच्छेदभेदेन तत्संयोगानामव्याप्य-वृत्तितोपपद्यत इति चेन्न । दिशामप्यसंबद्धानामवच्छेदकत्वासम्भवे तत्संबन्धानां संयोगरूपाणां व्याप्यवृत्तित्वेनातिप्रसक्ततया तदव्याप्यवृत्तितोपपादकावच्छेदकत्वा-ऽसम्भवात् तत्राप्यवच्छेदकान्तरान्वेषणे अनवस्थानात् । ननु मेरुसर्षपपरिमाण-साम्यप्रसङ्गरूपप्रतिकूलतर्केण मूर्त्तत्वलिङ्गकोक्तानुमानपराहतिर्वक्तुं न शक्यते । अनन्तक्षणघटितयोरवान्तरकल्पमहाकल्पयोरिवाऽनन्तपरमाण्वारब्धयोर्मेरुभूगोलकयोरिव चानन्त्यविशेषोपपत्तेरित्याशङ्क्य नानेनेत्थं प्रतिकूलतर्कपराहतिरुच्यते किं तु मेरुसर्षपौ समानपरिमाणौ मूर्त्तत्वात्संप्रतिपन्नसाध्यघटद्वयवदित्यनुमानस्य धर्मिग्राहकप्रत्यक्षेणेव शङ्कितानुमानस्य धर्मिग्राहकानुमानेन बाध उच्यते लाघवसहकृतेनानुमानेन परमाणोर्निरवयवत्वेन सिद्धेरित्याहुः ।
यदि प्रत्यक्षेति ।
एवं च बाध एवात्र विपक्षे दण्डो विवक्षितः । इत्थं परप्रक्रियेहानूदिता । न हि स्वमते परमाणोस्तन्निरवयवत्वस्य वा सिद्धिरभ्युपगम्यते ।
कार्यकारणभाव इति ।
कार्यकारणयोर्भाव इति द्विवचनान्ताद् भावशब्देन तयोः पृथग्भावो लभ्यत इत्यारम्भवादे पर्यवसानम् । अन्यत्रापि कृत्स्नैकदेशविकल्पेन दूषणं विवक्षितम् । अवयव्यवयवे वर्तमान: कार्त्स्न्येन वर्तते एकदेशेन वा । आद्ये क्वचिदेवावयवेऽवयविपरिसमाप्तेरवयवान्तरस्य तदनारम्भकत्वप्रसङ्गः । द्वितीये त्वेकदेशोऽवयव एवेति नात्राप्यवयविनो वृत्तिविकल्पेऽनवस्था । तथा अवयवः कृत्स्नमवयविनमारभते तदेकदेशं वा । आद्ये अवयवान्तरस्याननुप्रवेशप्रसङ्गः । द्वितीये सोऽप्येकदेशोऽवयव इति तस्याप्येकदेशान्तरारम्भकत्वे अनवस्थेति। इदं दूषणमारम्भणाधिकरणभाष्येण सिद्धमित्यत्र नोपन्यस्तम् ॥२९॥
इति नवमं कृत्स्नप्रसक्त्यधिकरणम् ॥
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
अशरीरस्य न मायेति ।
शरीरग्रहणमिन्द्रियवर्गस्याप्युपलक्षणम् । विवरणत्वादिति हि सूत्रकृता पूर्वपक्षबीजमुद्भावयिष्यते । सूत्रेऽपि करणग्रहणं शरीरस्याप्युपलक्षणम् । शरीरेन्द्रियरहितस्य मायाशक्तिर्न संभवतीति तर्कस्य श्रुतेस्तु शब्दमूलत्वादि (ब्र. अ. २ पा. १ सू. २७) त्यत एव परिहारे सिद्धेऽपि शुष्कतार्किकः श्रुतिमात्रेण न परितुष्येदिति तत्परितोषाय प्रमेयसम्भावनाजनकश्रुत्यनुग्राहकन्यायप्रदर्शनार्थ-मधिकरणारम्भः । तदर्थमेव पूर्वाधिकरणेऽपि श्रुतेस्त्विति तुशब्दद्योत्यतच्छ्रुत्यनु-ग्राहक न्यायोपन्यासः ॥३०॥३१॥
इति दशमं सर्वोपेताधिकरणम् ॥
न प्रयोजनवत्त्वात् ॥ ३२ ॥
स्वापादौ प्रयोजनानभिसंधिरूपे श्वासे साध्याभाववदिति ।
अत्राद्ये सप्तम्यौ समानाधिकरणे । सर्वज्ञानोपरमरूपो हि स्वापादिः प्रयोजनाऽनभिसंधिरूपोऽपि भवति। श्वासादौ प्रयोजनाऽनभिसंधिरूपे साध्याभाववदिति क्वचित्पाठः । तस्मिन् पाठे प्रयोजनाभिसंधिरहितइत्येतदर्थकं द्वितीयसप्तम्यन्तं श्वासादिविशेषणम् । पाठद्वयेऽपि चेतनक्रिया प्रयोजनाभिसंधिपूर्विकेति टीकोपदर्शितव्याप्तौ व्यभिचाराभावशङ्का ॥३२॥ सूत्रे- लीलाशब्दस्य क्रियामात्रं विलासरूपक्रिया चेत्यर्थद्वयं संभवति लीला क्रिया विलासश्चेति स्मरणात् । तत्र क्रियामात्रार्थत्वमादाय यादृच्छिकाङ्गलीचलनादि-क्रियायां स्वाभाविकश्वासनिमेषादिक्रियायां च प्रयोजनोद्देशरहितायां व्यभिचार उक्तः ।
अथ विलासार्थमादाय व्यभिचार उच्यते तत्रापि तात्कालिकक्षुद्रसुखादिप्रयोजनज्ञानमस्तीति न व्यभिचार इत्याशङ्कां निरस्यतीत्याह-
यदुक्तमिति ।
लीलाकर्तरि सव्यभिचारमिति ।
सुखितस्य सुखानुभवप्रयुक्ता हासगानादिरूपा प्रयोजनोद्देशरहिता दृश्यते । न हि तत्र प्रयोजनमण्वपि संभावयितुं शक्यते । दुःखोद्रेके रोदनवत्सुखोद्रेके हासगानादेः प्रयोजनाद्देशरहितस्य सर्वानुभवसिद्धत्वात् । अत एव हसितरुदितादिषु कारणमेव पृच्छन्ति न प्रयोजनम् ।
न लीलादौ व्यभिचार इति ।
लीलायादृच्छिकस्वाभाविकक्रियासु च व्यभिचार इत्यर्थः ।bक्रीडार्थं सृष्टिरित्यन्ये भोगार्थमिति चापरे ।bदेवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥bइति माण्डूक्योपनिषदि तात्कालिकानन्दप्रयोजनलीलात्वमेव क्रीडार्थं सृष्टिरित्यन्य इत्यनेनानभिमतं प्रदर्शितं न तु हासगानादितुल्यप्रयोजनोद्देशरहितं लीलात्वम् ।bस्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः ।bदेवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥bइति श्वेताश्वतरोपनिषदि सृष्टेः सृज्यवस्तुस्वभावतैवानभिमतत्वेन प्रदर्शिता न तु स्रष्टृस्वभावता । अतो लीलास्वभावपक्षयोर्न श्रुतिविरोधः ।
एतच्छक्यत्वे निदर्शनमिति ।
पर्वतसेतुबन्धनं बहुकर्तृत्वाद्दुष्करं सत् शक्यमित्यत्र निदर्शनमित्यर्थः । महयां चकारेति पाठः साधुः । मह पूजायामिति धातुः स्वार्थण्यन्तः तस्य कथयतिवदकारान्तत्वादत उपधाया इति वृद्ध्यभावः । महीचकारेति पाठस्त्वस्मादेव धातेारेरजिति कर्मार्थकाजन्तात् च्विप्रत्यये सति अभूततद्भावे तदर्थे भूतत्वाविद्यायां योजनीयः ।
प्रसङ्गात्प्रतिबिम्बेश्वरवादे सौत्रलीलाशब्दसामञ्जस्यमाह-
प्रतिबिम्बगता इति ।
लीलाशब्दस्य क्रीडावाचितायामिदं दूषणम् न क्रियमाणवाचिताया-मनायाससाध्यक्रियालक्षकतायां वा ॥३३॥
इति एकादशं न प्रयोजनवत्वाधिकरणम् ॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति॥ ३४ ॥
व्यभिचारमाहेति ।
युक्तवादित्ववचनरूपविषमवाक्यस्रष्टरि सभ्ये निग्रहानुग्रहरूपविषम-कृत्यस्रष्टरि सभापतौ च निरवद्ये हेतुसत्त्वेन व्यभिचार इत्यर्थः ।
तत्तत्प्राणिकर्मवासने इति ।
स्यादेव विषमकर्मानुष्ठापनेन वैषम्यं परमेश्वरस्य यदि तत्र स्वातन्त्र्यं भवेत् नत्वेवं सुखदुःखानुभावन इव तद्धेतुकर्मानुष्ठापनेऽपि तस्य तत्पूर्वकर्मवासना-सापेक्षत्वादिति भावः ॥४३॥३५॥
आगताविति ।
पुण्यपापे विना फलभोगाभ्यागतावित्यर्थः ।
वेदान्तानर्थक्यमिति ।
अकस्मात्पुण्यपापफलाभ्यागतौ यथा विधिनिषेधशास्त्रानर्थक्यम् एवं पुनः संसारोद्भूतौ मोक्षशास्त्रानर्थक्यमिति भाष्ये विवक्षितमिति व्याचष्टे इत्यर्थः ।
अनादिकर्मतैवेति ।
स्यादेव कर्मानुष्ठापने वैषम्यं यदि क्वचित्सर्गादौ पूर्वकर्मवासनानपेक्षः किञ्चित्कर्मानुष्ठापयेत् क्वचिदपि कल्पे तन्नास्ति बीजाङ्कुरन्यायेनानादित्वात् कर्मतद्वासनाप्रवाहस्येत्यर्थः ।
भविष्यच्छ्रपणमपेक्ष्येति ।
इदमगत्याऽङ्गीकृतम् प्रकृतावपि तुषोपवापसमये कपाले सिद्धस्य पुरोडाशसंबन्धस्याभावात् । यत्र तु प्रकृतौ सिद्धसंबन्धो लभ्यते न तत्र भविष्यत्संबन्ध आश्रीयते यथाऽग्निहोत्रहवण्या हवींषि निर्वपतीत्यत्र । तत्र ह्यग्निहोत्रं यया हुतं साऽग्निहोत्रहवणी गृह्यते न तु यया होष्यते सापि प्रकृत्यारम्भात् पूर्वमग्निहोत्रस्य हुतत्वेन प्रकृतिभूतयेार्दर्शपूर्णमासयोः सिद्धसंबन्धवत्त्वात् । यत्र तु तद्विकृतौ पवमानेष्टौ सिद्धाग्निहोत्रसंबन्धाऽग्निहोत्र-हवणी न लभ्यते तत्राऽसंभवाद् निर्वापगुणभूताया अग्निहोत्रहवण्या लोप इत्येव गुणलोपे च मुख्यस्येत्यधिकरणे (जै. सू. अ. १० पा. २ सू. ६३) प्रतिपादितम् ॥३६॥
इति द्वादशं वैषम्यनैर्घृण्याधिकरणम् ॥
सर्वधर्मेोपपत्तेश्च ॥ ३७ ॥
निर्गुणेऽप्यविरुद्धमिति ।
इदमत्र वक्तुं शक्यम्- ब्रह्मणो निर्गुणत्वमसिद्धम् सर्वज्ञत्वादिगुणकत्वात् तस्य निमित्तोपादानभावोपपादनार्थं सर्वज्ञत्वसर्वशक्तिकत्वयोः सर्वधर्मोपपत्तेश्चेत्यनेनैव सूत्रेण प्रतिपादनात् अन्योन्यधर्मांश्चाध्यस्येत्यादिभाष्यवाक्यैरपि तदनुमोदनाद् वस्तुतो धर्मिभिन्नं ज्ञानादिकं ब्रह्मणि नास्तीति चेत् न घटाद्युपादानेष्वपि वास्तवतद्भिन्नरूपादिगुणाऽसंप्रतिपत्तेः । तत्त्वतो ब्रह्मणि व्यावहारिकगुणत्वमपि नास्ति किं तु स्वरूपप्रकाश एव तत्तद्विषयोपरागेण तत्तज्ज्ञानत्वव्यपदेशमात्रमिति चेत्, न श्रुतिस्मृतिसिद्धसर्वज्ञत्वादिव्यवहारालम्बनया व्यावहारिकधर्मधर्मिभेद-कल्पनोपपत्तौ व्यपदेशमात्रत्वाभ्युपगमाऽयोगाज्जीवब्रह्मणोरिव ब्रह्मतज्ज्ञानयोरप्य-नादिविभागाङ्गीकारेण धर्मज्ञानएवागमापायिविषयोपरागप्रयुक्तावान्तरभेदकल्पनो-पपत्तेश्च । तथापि ब्रह्मणि प्रपञ्चगतरूपादिगुणो नास्तीति चेत् किं ततः । सगुणमेवेापादानमिति नियममातिष्ठमानस्य कुतार्किकस्य परितोषाय गुणवत्त्वमुपपादितमेव । न च तन्मतेऽप्यस्ति नियम: कार्यगतगुणतोपादानेन भाव्यमिति। द्व्यणुकेषु महत्त्वाभावात् । न च विशेषगुणविषयोऽयं नियमः । परिमाणादिव्यावृत्तविशेषगुणत्वाऽनिर्वचनात् । किं च निर्गुणस्य नोपादानत्वमिति परमतेऽपि नास्ति नियमः । प्रथमक्षणेऽस्यैव घटस्य रूपादिसमवायिकारण-त्वाभ्युपगमात् । उपादानशब्देन द्रव्यसमवायिकारणविवक्षायामप्रयोजकत्वादिति। तदेतत्सर्वमाचार्याणामपि हृदयस्थमेव पूर्वाधिकरणेषु विवर्तवादमनपेक्ष्यापि परिहारान्तरप्रतिपादनात् । किं तु सूत्रभाष्याद्यालोचनया स्फुटमिति कण्ठतो न प्रतिपादितम् ।
नित्यत्वाद्यारोपोपलब्धेरिति ।
ननु जातिर्नित्येति न प्रत्यक्षारोपोऽस्ति शब्दानुमानजारोपेषु न प्रातिभासिकविषयोत्पत्तिरस्ति अनित्यत्वारोपोपलब्धेरिति पाठेऽप्ययमेव दोषः । न हि घटे दृश्यमाने घटत्वं नष्टमिति प्रत्यक्षारोपः संभवति। नष्टे घटे तत्संभवेऽपि तत्र घटत्वस्य धर्मिणोऽनभिव्यक्त्या न तद्धर्मिको नष्टत्वारोपः प्रत्यक्ष इत्युपपद्यते । सत्यम् दशमस्त्वमसीति बोध्यस्येव यस्य सन्निहिते विषये नष्टत्वभ्रमः स व्यवस्थितविषयश्चेत्तस्य तद्गतजातिनष्टत्वभ्रमः सन्निहितजाति-धर्मिकः प्रत्यक्ष उपपद्यत इति तदभिप्रायमनित्यत्वारोपोपलब्धेरिति वचनम् । नित्यत्वेति पाठस्तु मिथ्यात्वेन ज्ञाननिवर्त्यायां जातौ शब्दानुमानजे नित्यत्वारोपेऽपि प्रातिभासिकविषयोत्पत्तिरस्तीति पक्षमाश्रित्य नेतव्यः । इदमुपलक्षणम् - रात्रौ दीपप्रभायां नीलोत्पलवर्णे रक्तवर्णत्वारोपः विभागे संयोगाभावत्वारोप इत्यादिकमप्युदाहरणं द्रष्टव्यम् ॥३७॥
इति त्रयोदशं सर्वधर्मोपपत्यधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले द्वितीयाध्यायस्य प्रथमः पादः॥
अथ द्वितीयाध्यायस्य द्वितीयः पादः । रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
मोक्षमाणानामिति ।
मुचोऽकर्मकस्य गुणो वेति सूत्रेण कर्मण: कर्तृत्वविवक्षणादकर्मकस्य सन्नन्तस्य मुचेर्गुणः । अत्र लोपोऽभ्यासस्येत्यभ्यासलोपः ।
संयोगादयो हीति ।
स्थूलपिण्डस्य यः केनचित्संयोगस्तद्विभागः परिमाणविशेषो गुरुत्वविशेषो वा न तेषां करणपर्यन्तमनुवृत्तिरस्तीति न तेषु व्यभिचार इत्यर्थः । ननु तथापि रूपे व्यभिचारः स्थूलपिण्डे यद्रूपं तस्यैव कणेऽपि दृश्यमानत्वादिति चेद् न तावत्कार्यकारणभेदवादिमते व्यभिचारः । तन्मते कारणे कार्ये च रूपभेदात् । नापि कारणातिरिक्तकार्यनिर्वचनीयत्ववादिमते । तन्मते कार्यवत्तद्रूपस्याप्य-निर्वचनीयस्याभ्युपगमसंभवात् नापि कार्यकारणाऽभेदवादिनः सांख्यस्य मते । तन्मते पञ्चतन्मात्रप्रकृतौ तामसाहङ्कारे रूपाभावेन तस्य सूक्ष्मकारणपर्यन्ता-नुवृत्त्यभावात् ।
ननु चेतनानधिष्ठितत्वं सांख्येन साध्ये न प्रवेशितमतो विरुद्धत्वाभिधानमयुक्तमित्याशङ्क्य तदप्रवेशने सिद्धसाधनं स्यादिति तत्परिहाराय तत्प्रवेशनावश्यंभावमापाद्येदं विरुद्धत्वाभिधानमिति योजयति-
अयमत्रेति ।
एवं शब्दस्येति ।
तथा च यथा कृतकत्वं विरुद्धम् एवं समन्वयादिविरुद्धशब्दानुषङ्गेण वाक्ययोजनेति भावः ।
ननु सांख्यानुमाने विरुद्धत्वोद्भावनपरं सूत्रमित्युक्तम् सिद्धान्त्युद्भावनीयकिंचिदनुमानपरमिति नोक्तमत उपाधिशङ्केयमस्थानविजृम्भिते-त्याशङ्क्य विरुद्धत्वोपपादनाय हेतोः साध्यविपर्ययव्याप्तिर्या सिद्धान्तिना उपपादनीया तत्रेदमुपाध्युद्भावनमित्यवतारयति-
सत्वाद्यन्वितत्यादिति ।
ननु साधनोपाध्योःसाध्यव्याप्यत्वेन प्रतीयमानयोरुपाधिरेव वस्तुतःसाध्यव्याप्यः साधने तु तद्गतं साध्यव्याप्यत्वं सन्निधानादारोप्यते । अत एवोप समीपे स्थित्वाऽन्यत्र स्वधर्माधायकत्वाज् जपाकुसुमादिवन्निषिद्धत्वादिरुपाधिरित्युच्यते ।
ततश्च साधनमेव सर्वत्र सोपाधिकं न साध्यमतोऽत्र साध्यस्य सोपाधिकत्वशङ्का न युक्तेत्याशङ्क्य समानन्यायत्वात्साधनवत्साध्यस्यापि सोपाधिकत्वं वक्तुं युक्तमित्युपपादयति-
यथेति ।
एवं चान्तरङ्गत्वे स्वधर्मासञ्जकत्वलक्षणमुक्तमुपाधिपदप्रवृत्तिनिमित्तं यद्यपि नास्ति किं तु साध्यान्तर एव तथाप्यन्यदेव प्रवृत्तिनिमित्तं किञ्चिदनुमान-दूषणोपाधावस्तु । न हि सर्वत्र उपाधिपदस्य तदेव प्रवृत्तिनिमित्तमिति नियम: उपाधिर्ना धर्मचिन्ता कुटुम्बव्यापृतस्तु यः स्यादभ्यागारिकस्तस्मिन्नुपाधिश्व पुमानयमित्याद्यभिधानकोशेषु तस्योक्तप्रवृत्तिनिमित्तरहितार्थान्तरवाचकत्वस्यापि स्मरणादिति भावः ।
ननु व्यतिरेकव्याप्त्यनवधारणेऽप्यन्वय सहचारमात्रेण केवलान्वयिनीवान्वयव्याप्तिर्ग्रहीतुं शक्येत्याशङ्क्याह-
इतरथेति ।
व्याप्यव्यापकयोर्व्यतिरेकवत्त्वे यत्र व्यापकाभावस्तत्र व्याप्यत्वाभिमतं वर्तत इति व्यभिचारशङ्काया निरसनाय तत्र तदभावोऽवधारणीयः । न च तदवधारणं शक्यम् । पक्षान्यत्वरूपव्यापकाभावो हि पक्षमात्रवृत्तिः तत्र च न साध्याभावनिर्णयोऽस्तीत्यर्थः ।
समपदं मुधेति ।
प्रवृत्तिनिमित्तलाभार्थं समव्याप्त्यन्वेषणमिति शङ्काया: समाधानं तु अनुपदमेव सिद्धम् । न च प्रवृतिनिमित्तपरिज्ञानार्थमिह लक्षणमुच्यते किं तु दूषकतौपयिकरूपपरिज्ञानार्थम् । (समव्याप्त्यन्वेषणमिति शङ्का) तदर्थं च साध्यव्यापकत्वमेवापेक्षितं न तु तद्व्याप्यत्वमपि उपाध्यभावेन पक्षे साध्याभावा-न्नयनस्य साध्यव्यापकोपाधिव्यभिचारित्वेन साधने साध्यव्यभिचारोन्नयनस्य वा तत एव भावात् ।
शङ्कितस्त्वनुकूलतर्कैरिति ।
साधने साध्यव्याप्यत्वनिर्णायकैरनुकूलतर्कैः शङ्कितोपाधिरुद्ध्रियते इत्यर्थः । उपाधिलक्षणानुप्रविष्टं व्यापकत्वं व्याप्तिप्रतियोगित्वं न भवति येन व्याप्तिलक्षणस्योपाधिगर्भतया चक्रकाश्रयः स्यात् किंतु साध्यवन्निष्ठेत्यादिनिरुक्ता-व्यभिचाररूपं तदिति नवीनैः कृते समाधाने दूषणमुक्तं नवीनै: ।
एवमपि साध्यत्वस्य व्याप्तिगर्भत्वान्न चक्रकोद्धार इति कैश्चिदुक्तं तद्दूषणमुपन्यस्यति-
नवीनतरास्त्विति ।
उपाधेः साध्यव्यापकत्वं सपक्षे ग्राह्यं न तु पक्षे सपक्षे च संप्रतिपन्नं तन्न साधनीयमिति। तत्र साधनीयत्वं न साध्यपदस्यार्थ इत्यन्यत्र साधनीयतया संभाव्यमानत्वं तदर्थम् इति वक्तव्यम् । तथा संभावना साधनव्यापकत्वप्रति-संधानाधीनेति चक्रकापतितादवस्थ्यमित्यर्थः ।
ननु तदपि व्यापकत्वप्रतिबंधानं साधनवन्निष्ठात्यन्ताभावाऽप्रतियोगित्वविषयमस्तु कुतश्चक्रकमिति नवीनतरमते स्पष्टं तद्दूषणं स्वयं किमिति नोच्यत इत्याशङ्क्य अनास्थयेत्याह-
अस्माकमिति ।
एतदिति ।
धूमेन वह्न्यनुमानेऽप्येतत्पर्वतेतरवह्निसाध्यकता स्यादिति शङ्कार्थः । तत्र लाघवसहकृततया वह्निमात्रनिरूपितव्याप्तिग्राहकप्रमाणेनेवात्र केनचित्प्रमाणेन विरोधो नास्ति सिद्धसाधनपरिहारार्थं तन्निवेशनस्य पूर्वपक्षिणाऽपेक्षणीयत्वेन लाघवादरणाऽयोगात् प्रत्युत दृढप्रमाणानुगुण्यं चास्तीति परिहारार्थः । सुखयति
सुखंकरोति ।
सुखदुःख तत्कृताविति चौरादिको धातुः । ननु- प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्था इति सांख्यैः सत्त्वादीनां सुखादिरूपत्वमुक्तम् कथं सुखादिहेतुत्वं तदुक्तमापाद्य दूषणमुच्यते । अथ पद्भावत्युदाहरणटीकायां सत्त्वादीनां सुखादिहेतुत्वमपि सांख्याभिमतमुपन्यस्त-मिति चेत् तर्हि अत्रोच्यमानं दूषणं न लगेत् तत्र प्रतियोगिविशेषव्यवस्थित-सत्त्वाद्युद्रेकेण तत्र तत्र व्यवस्थितसुखादिजनकत्वस्य समर्थितत्वात् कथं च चन्दनकण्टकादिषु कालविशेषे प्राणिविशेषे च व्यवस्थितं सुखादिजनकत्वं सिद्धान्तिनापि निरसितुं शक्यम् । अनुभवसिद्धत्वादिति- चेत् । अयमिह दूषणाभिप्रायः- भावेषु सुखादिसमन्वयः तथाभूतकारणानुमाने हेतुः किं प्रत्यक्षसिद्धः उत सुखादिकार्यकल्प्यः । नाद्यः असिद्धेः । न हि घटः सुखी सुखमिति वाऽनुभवोऽस्ति द्वितीये सर्वदा सर्वान् प्रति एकरूपं सुखादिकार्यं तत्कल्पकम् उत कालविशेषेषु चानियततत्कल्पकम् | नाद्यः । असिद्धेरेव चन्दनकण्टकादिषु सुखादिहेतुत्वनियमाभावात् । न द्वितीयः अनिच्छाप्रयत्नादिरूपाणामपि भावानामनियतेच्छाप्रयत्नादिजनकत्ववदसुखादि-रूपाणामपि तेषामनियतसुखादिजनकत्वसंभवेनाऽनियतसुखादिकार्याणां विषयेषु ताद्रूप्याऽकल्पकत्वादिति। एवं च चन्दनाऽन्वयेऽपि सुखादिव्यभिचाराच्च नैक्यमित्याहेत्यवतारिका विकल्पान्तरोत्तरावतारिकात्वेन योजनीया । ननु प्राग्दूषितएवार्थे हेत्वन्तरसमुच्चयावतारिकात्वेन सुखादिव्यभिचारस्य सत्त्वाद्युद्रेकाभावेनेापपत्त्या हेत्वन्तरपरत्वाऽयोगाद् ।bभेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तश्च ।bकारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥bकारणमस्त्यव्यक्तम्bइति सांख्यैः प्रधानसाधका हेतवो दर्शिताः । अस्यार्थः - विश्वरूपमेव वैश्वरूप्यं त्रैलोक्यादिवत्स्वार्थिकः प्रत्ययः । विश्वरूपस्य प्रपञ्चस्य कारणमव्यक्तमस्ति। कुतः कारणे कार्यस्य विभागादविभागाच्च । सत्कार्यवादे हि कारणे सत एव कार्यस्याभिव्यक्तिलयौ विभागाऽविभागौ कूर्मशरीरे सत इव तदवयवजातस्य । ततश्च यत्र कारणे सतः प्रपञ्चस्य विभागाविभागौ तदव्यक्तकार्यावस्थं कारणमस्ति। इतश्च तदस्ति। शक्तितः प्रवृत्तेश्च । कारणशक्तितो हि कार्यं प्रवर्तते अशक्तात्कार्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तावस्थाया भिन्ना प्रमाणवतीति परिमाणसमन्वयावाकरे एव स्पष्टौ । तत्र समन्वयो विकल्पमभिप्रेत्य दूषितः । परिमाणदूषणप्रदर्शनार्थं मुखतो विकल्पयति
परिमितत्वमिति ।
स्वसत्तामतिक्रम्येति ।
अत्र सह वर्तनं सामानाधिकरण्यं न विवक्षितं किंतु स्वयं यन्न व्याप्नोति तथाभूतवस्तुसत्त्वमात्रमतस्तथैव नभसि लक्षणानुगतिं दर्शयति-
कारणं हीति ।
लोके हि कारणं मृदादि घटमिव शरावादिकमपि व्याप्नोति घटस्तु शरावादिकमपि न व्याप्नोतीति दृष्टम् । अतः कार्यं कर्तृं कार्यान्तरेऽप्यनुगतं कारणं न व्याप्नोतीत्यर्थः ।
ननु शब्दतन्मात्रकारणकं नभौ गन्धतन्मात्रादिकमपि न व्याप्नोतीति तदव्यापनेन लक्षणानुगतिः किमिति नोक्तेत्याशङ्क्याह-
गन्धेति ।
नभो गन्धतन्मात्रं सर्वथा न स्पृशतीति तदव्यापनेन लक्षणानुगतिः सुप्रसिद्धेति स्पष्टत्वात् साऽच नोक्तेत्यर्थः । ननु सत्त्वरजस्तमस्सु व्यभिचार इति परिहारो न युक्तः अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । नैषामादिः संप्रयोगो वियोगो वोपलभ्यते ॥
इति सांख्यैः सत्त्वादीनामन्योन्यसंसृष्टत्वेन सदा सर्वत्र सद्भावस्य वर्णितत्वादित्याशङ्क्याह-
परिहरतीति ।
युक्त एवायं परिहारः कार्यकारणभावमूलो यस्तादात्म्येन पूर्णानुप्रवेशः सा व्याप्तिस्तदभावरूपमव्यापनम् इह परिमितत्वमिति विवक्षितत्वात् । न हि यथा तैः कार्यजातमित्यादिग्रन्थेन तथैव प्रतिपादनादिति भावः । ननु किमनेन कुसृष्ट्या अर्थविशेषानुन्नीय विकल्पनेन परिमितत्वं परिच्छिन्नत्वमित्येवास्तु । तथा च सर्वगतेषु गुणपुरुषेषु न व्यभिचारः । न च गुणानां सर्वगतत्वे प्रलये तेषां साम्यापत्तिः सर्गे वैषम्यापतिश्च न स्यादिति वाच्यम् । न हि तावता तेषां प्रलये क्वचित्क्कचित्कदाचिदेव सत्त्वं सर्गादौ यस्य यदोद्रेकस्तस्य तदाऽन्यत्रापि अव्यापनमित्येष विशेषोऽङ्गीकार्यः । हेमन्तशिशिररात्रिषु निदाघदिवसेषु सदा सर्वत्र सतामेव हिमातपयोः क्वचित्क्वचिदुद्रेकवत् सदा सर्वत्र सतामेव गुणानां क्वचित्कदाचित्कस्यचिदुद्रेक इत्युपपत्तेः । न च हिमातपयोरवयवभूयस्त्वरूप उद्रेकः संभवति न तु गुणानां निरवयवानामिति वाच्यम् ।
तथापि परिणतिविशेषरूपोद्रेके अनुपपत्त्यभावादिति चेत् न उद्रेकावस्थाया अपि महदहङ्काराद्यवस्थावत् कार्यत्वेन तत्रैव परिमितत्वहेतुसत्त्वेन व्यभिचारादिति भावः ॥१॥ सापीत्यस्यान्वयसौकर्याय यत्पदमध्याहरति-
या प्रवृत्तिरिति ।
साध्यविरुद्धोक्तिर्वक्रोक्तिरिति ।
सांख्यानां प्रवृत्तेरिति हेतुर्विरुद्धस्तदीयसाध्यसाधको न भवतीति कण्ठतो नोक्तं किं तु तस्यैव हेतोस्तदीयसाध्यविरुद्धसाध्यान्तरोक्तिरूपवक्रोक्त्या सूचितम् । नित्यः शब्दः कृतकत्वादिति साधयन्तं प्रति अनित्यः शब्दः कृतकत्वादित्यनुमानमनुकूलतर्कसहितं हि न केवलं पूर्वानुमाने बाधकतयाऽवतिष्ठते किं तु तस्मिन् विरुद्धत्वोद्घाटनपर्यन्तमपि भवति। एवं च हेतुत्वेनाभिधानादिति पर्यन्तं साध्यविरुद्धोक्तौ न हेतुपरं किं तु तस्या एव विवरणमिति योजनीयम् । यद्वा- तत्पर्यन्तपैानरुक्त्योपपादकत्वेन पूर्वत्र योजनीयम् । अङ्गित्व (व्या. सू. अ. २ पा. २ सू. ८) सूत्रे वैषम्याऽसंभवमूला हि प्रकृतेरनुपपत्तिरुच्यते इह तु प्रवृत्ते सांख्यसाध्यविपरीतसाधने हेतुत्वमुपपद्यत इति स्यात् । साध्यविरुद्धत्वोक्तिः वक्रोक्तिरिति क्वचित्पाठस्तस्मिन् पाठे हेतुत्वेनाभिधानाद्धेतोर्या साध्यविरुद्धत्वस्योक्तिः सूचनारूपा सा वक्रोक्तिर्भवतीत्यर्थः । अस्मिन् व्याख्याने टीकायां वक्रोक्त्येति न करणतृतीया किं तु प्रकृत्यादितृतीयेति भेदः ।
आलोचनमात्रमिति ।
वस्तुस्वरूपमात्रगोचरं ज्ञानमालोचनम् । इदमित्थमित्यध्यवसायरूपा तु वृत्ति: त्रिविधान्तःकरणमध्ये बुद्धिरूपस्यान्तःकरणस्येति सांख्यानां मतम् ॥२॥३॥
कर्मपरिपाकावसराभिज्ञस्येति ।
ननु कर्मपरिपाकापेक्षा सांख्यपक्षेऽपि समाना धर्माऽधर्मयोर्मध्ये यः पक्वस्तेनैव तदितरस्य प्रतिबन्ध इति तन्मतेऽपि वक्तव्यत्वादिति चेत् मैवम् । चेतनाधिष्ठानरहितयोः पाकस्याप्यसंभवाद् उत्तरसूत्रेण धेनूपयुक्ततज्जाठराग्नि-संपर्काधीनतृणादिपाकेऽपि चेतनाधिष्ठानापेक्षाया वक्ष्यमाणत्वात् ॥४॥५॥
अवास्तवस्य न निषेध इति ।
ननु सांख्यमतेऽप्यवास्तव एव पुरुषस्य भोगः । एवं हि तन्मतम् । पुरुषश्चैतन्यमात्रवपुः कूटस्थो नित्यमुक्तः सांसारिकसुखदुःखानुभवरूपो भोगः परिणामिन्या बुद्धेर्धर्मः पुरुषस्य तु बुद्धिच्छायापत्त्या तदैक्यमित्रापन्नस्य तद्दर्शनमात्रं भोगः । तेन तस्य विवेकाऽग्रहादाध्यासिकं भोक्तृत्वम् । विवेकख्यात्या भोक्तृत्वाध्यासमात्रनिवृत्तिर्मोक्षः । वस्तुतः पुरुषो न बद्धो नापि मोक्ष्यत इति। यदाहुः ।bतस्मान्न बध्यतेद्धा न मुच्यते नापि संसरति कश्चित् ।bसंसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥bसत्यम्- पुरुषस्य भेाक्तृत्वमपि सांख्यैरभ्युपगतम् । यदाहुः ।bसंघातपरार्थत्वात् त्रैगुण्यविपर्ययादधिष्ठानात् ।bपुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ इति।bकथमिदं तेषां परस्परविरुद्धवचनमिति चेत् किं कुर्मः । अत एव विप्रतिषेधाच्चासमञ्जसमिति वक्ष्यते । यदि त्वविरोधार्थं भोगाश्रयबुद्ध्यैक्यदर्शनं पुरुषस्य भोग इति कल्प्यते तदा तद्दर्शनरूप एव तात्त्विको भोग: पुरुषस्य निर्विकारस्य न संभवतीति दूषणमिहोक्तं द्रष्टव्यम् ॥६॥७॥८॥९॥
एकस्यापि कर्तृकर्मत्वादिति ।
पच्यते फलमित्यत्र हि कर्मकर्त्तरि यक्प्रत्ययः । अतः फलस्यैव कर्तृत्वं कर्मत्वं चाऽविवादमित्यर्थः ।
कर्मत्वोपचारादिति ।
कर्मकर्ता कर्तैव केवलं न कर्म कर्मकार्ययगात्मने पदादिभाक्त्वात्तु कर्मत्वोपचारेण कर्मकर्तेति व्यपदेशः । ननु- पच्यते फलमित्यत्र फलगत-परिणत्यनुकूलः फलपाचकचैवगतदोहनव्यापारः पचिक्रिया तज्जन्यपरिणतिफल शालिनः फलस्य मुख्यमेव कर्मत्वमुपपद्यते किमर्थमुपचाराश्रयणमिति चेत् उच्यते । इह पचिधातोः फलगता परिणतिरर्थः न तु तदनुकूलपुरुषव्यापारः । येन पुरुषव्यापारं प्रत्येव सौकर्यातिशयात् कर्तृत्वेन विवक्षितस्य तज्जन्यक्रियाफलशालित्वात्कर्मत्वमपि मुख्यं संभवतीत्युच्येत न त्वेवम् । कर्मकर्तृप्रयोगे धातूनां तत्तत्क्रियाफलवाचित्वात् । यदाह कैयट: लुनातिस्तावद् द्विधाभवनोपसर्जने द्विधाभावने वर्तते लुनाति केदारं देवदत्तः द्विधा भवन्तं द्विधा भावयतीत्यर्थः । यदा तु केदारस्य सौकर्यातिशयविवक्षया देवदत्तव्यापारो न विवक्ष्यते तदा द्विधाभवनमात्रे लुनातिर्वर्तते अनेकार्थत्वाद्धातूनाम् भिन्ना एव वा धातवो भिन्नार्थाः सारूप्यात्तु तत्त्वाध्यवसायः । तत्र द्विधाभवने केदारस्य कर्तुः कर्मवत् कर्मणा तुल्यक्रिय इति कर्मकार्याण्यतिदिश्यन्ते तेन लूयते केदारः स्वयमेवेत्यादयः प्रयोगा उपपद्यन्त इति। एवं चात्र परिणतिरेव पचिक्रियेति तामवलम्ब्य परसमवेतक्रियाफलशालित्वस्य कर्मत्वव्यापकस्य समर्थयितुम-शक्यत्वाद् व्यापकाभावे च व्याप्यासंभवात् कर्मत्वस्यैापचारिकत्वोक्तिर्युक्तैव ।
अत्रैव साक्षित्वेन पाणिनिसूत्रांशमुदाहरति-
पाणिनिरिति ।
कर्मवत्कर्मणेति सूत्रे वतिना मुख्यकर्मत्वाभावः स्पष्टीकृत इत्यर्थः ।
परोक्तदोषानुवाद एवेति ।
यद्यप्यध्याहारेणाभ्युपगमाभावस्फोरणइवानध्याहारेण तद्विषयाभावस्फोरणेऽ-पीष्टप्रसङ्गकथनरूपदूषणं भयादेव तथापि तथा स्फुटं न भातीति तात्पर्यम् | अविभागापत्तिश्चेत्यत्र अविभागो नैक्यम् ।
अस्यातिवादिनः सांख्यस्य मते भ्रमविषयैक्यविवर्ताभावादित्याशङ्क्य विवेकाग्रह एवाविभागशब्देन विवक्षित इति व्याचष्टे-
अविवेक इति ।
भाष्यटीकास्थमदर्शनशब्दं तमःपरत्वेन व्याचष्टे-
न दृश्यते नेति ।
तुशब्द इति ।
सौत्रेषु पूर्वपक्षव्यावृत्त्यर्थेषु तुशब्देषु नकारसमानार्थत्वं प्रसिद्धम ॥१०॥
इति प्रथमं रचनानुपपत्त्यधिकरणम् ॥
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
साम्यकृतेति ।
परमाणुवादनिराकरणार्थत्वमात्रेण साम्यमिह विवक्षितम् । उभयत्रापि निराकरणीययुक्तिभेदस्य स्वयमेवोक्ततया सर्वथा साम्याभावात् । यद्वा- शिष्टापरिग्रहाधिकरणनिराकृतियुक्तिरप्यत्र टीकायामनुवादरूपेणेापन्यस्ता भाष्येऽपि वैशेषिकप्रक्रियोपन्यासेन व्यञ्जितेति तेनापि रूपेण साम्यं विवक्षितम् ।
एवकार इति ।
मायाशबलस्य ब्रह्मण उपादानत्वे मायाऽप्युपादानमिति सिद्धसाधनवारणाय टीकायामेवकारः । तेन चेतनोपादानकं न भवतीति साध्यार्थे पर्यवसानान्न सिद्धसाधनमिति भावः ।
असंयुक्तानामिति ।
द्व्यणुकमारभ्य स्थूलारम्भकत्वं यत् शङ्कावाद्यभिमतं तदभाव इह साध्यः । स चामंयुक्तावस्थायां शङ्कावादिनाऽपीष्यत इति सिद्धसाधनवारणाय संयुक्तविशेषणमित्यर्थः ।
द्व्यणुकमनारभ्येति ।
साध्यविशेषणस्य प्रयोजनमाह-
अनेन बाधोऽपोदित इति ।
परमाणूनां द्व्यणुकारम्भद्वारा स्थूलारम्भकत्वात् स्थूलं नारभन्त इति साध्यं बाधितं स्याद् द्व्यणुकानारभ्येति विशेषणेन तन्निरासः कृत इत्यर्थः ।
स्वापेक्षया स्थूलेति ।
स्थौल्यमत्र परिमाणाधिक्यमात्रं विवक्षितं न तु महत्त्वमिति भावः ।
न द्वितीय इत्याहेति ।
द्व्यणुकारम्भप्रक्रियायास्त्वयाऽनङ्गीकृतत्वाद् द्वितीयपक्षो न युज्यत इत्यर्थः ।
अवयवावयविभावविरहिणामिति ।
जलाऽऽलोकादिविरलद्रव्यव्यतिरिक्तानामिति विशेषणान्तरस्याप्युपलक्षण-मेतत् । स्वच्छजलान्तर्गतसिकतादिग्रहणार्थं यत्र जलं तत्रैवाऽऽलोकस्याप्यङ्गी-कृतत्वात् ।
नन्वान्तरालिकं कार्योपलब्ध्यर्थमेव त्र्यणुकारम्भ इष्यत इत्याशङ्कते-
अथेति ।
विशेषो वेति ।
द्व्यणुकान्येव त्र्यणुकारम्भकाणि न परमाणव इत्यत्र विशेषो वक्तव्य इत्यर्थः ।
अस्ति तावदिति ।
ननु अवयविनामवयवापकर्षोत्कर्षवैषम्यप्रसाधनं द्वित्वप्रभृत्यारम्भकत्व-प्रयेाजकताप्रसाधनं च क्वोपयुज्यते । द्वयोः परमाण्वोः संयोगस्य कदाचिद-वर्जनीयत्वाद् द्वयोः संयोगे सति समवाय्यसमवायिकारणसमवधानाद् द्व्यणुकोत्पत्तिरप्रत्याख्येयेति ऋजुना मार्गेण द्व्यणुकं साधयितुं शक्यम् । न च द्वयोः संयोगान्न कार्यद्रव्योत्पत्तिरिति विवदमानं प्रति तत्प्रसाधनमिति वाच्यम् । तत्रापि कार्यद्रव्येष्ववयवोत्कर्षापकर्षवैषम्यप्रसाधनस्यानुपयोगात् । तन्तुद्वयसंयोगा-त्सूत्रोत्पत्तिदर्शनेन तथा विवादानवकाशाच्च । तस्माद् द्व्यणुकप्रसाधने नैतावता यत्नस्योपयोगः । यत् तु परमाणुद्वयेन द्व्यणुकवत्तत्त्रयेण क्वचित् त्र्यणुकोत्पत्तिर-स्त्विति शङ्काया निराकरणं, तदयुक्तम् । त्रयाणां परमाणूनां द्व्यणुकानामिव कदाचित्संयोगयौगपद्यस्यावर्जनीयतया परमाणुत्रयारब्धत्र्यणुकस्याप्यप्रत्याख्येय-त्वात् । परमाणुसाधारण्येन द्वित्वप्रभृत्यारम्भकसंख्येत्यनुपदं स्वयमेव प्रसाधित-तया परमाणुत्रित्वं नारम्भकसंख्येति वक्तुमशक्यत्वाच्च । कारणकारणजातीय-स्येत्यादिनियमस्त्वसिद्धः । क्वचित्तन्तुत्रयारब्धसूत्रत्रयेण त्रिवित्सूत्रोत्पत्तिर्दृश्यते क्वचित् तन्तुत्रयेणेति व्यभिचारात् । यदि सूत्रत्रयारब्धात्त्रिवृत्सूत्रात्तन्तुत्रयारब्धं त्रिवृत्सूत्रं विजातीयं तर्हि द्व्यणुकत्रयारब्धात् त्र्यणुकात्परमाणुत्रयारब्धं त्र्यणुकमपि विजातीयमस्तु । अथ परमाणुत्रयारब्धं त्र्यणुकमण्येव भवेदिति भोगभेदाभावेन वैयर्थ्यात्तथाभूतत्र्यणुकोत्पत्तिर्न संभवतीति चेन्न । कारणबहुत्वान्महत्त्वसंभवेन भागभेदोपपत्तेः सामग्रीसद्भावप्रभावितस्य कार्यस्य प्रयोजनाभावेन प्रत्याख्याना-भावाच्च । न हि प्रयोजनक्षतिभिया सामग्री कार्यं नार्जयतीति न्यायाद् भोगभेदाभावेन सामग्रीसद्भावप्रभावितस्य कार्यस्य प्रत्याख्याने च द्व्यणुकमपि प्रत्याख्यायेत परमाणुवत्तस्याप्यतीन्द्रियत्वेन भोगभेदाभावात् । यदि द्व्यणुकं त्र्यणुकोत्पत्तिप्रणाडिकया भोगभेदोपयोगि तर्हीदमपि तथास्तु | एतेन- टीकोपन्यस्तद्व्यणुकरद्वयारभ्यद्रव्यनिराकरणमपि – निरस्तम् । तस्यापि द्रव्यस्य स्थूलकार्योत्पादनप्रगाडिकया द्व्यणुकवद्भोगभेदोपयोगित्वात् । तस्मात्सर्वमिदम-समञ्जसमिति चेदुच्यते । वैशेषिकप्रक्रियानुवादोऽयम् । अत एवेत्थमुपालम्भनीयः । अत एव भाष्ये वैशेषिकाभिमतव्यवस्थापक्षाश्रयणेन तदुक्तदूषणस्य व्यभिचारं प्रदर्श्य व्यवस्थापक्षो न स्थायीति सूचनार्थं यदापि बहवः परमाणवो बहूनि द्व्यणुकानीत्यादिवाक्येनाव्यवस्थापक्षमुद्भाव्य तत्रापि व्यभिचारसाम्यमुक्तम् । महातूलपिण्डयोरिति युक्तः पाठः ।
न तु महत्तूलपिण्डयोरिति ।
आन्महतः समानाधिकरण-जातीययोरित्यात्वनियमात् । ननु महद्दीर्घवद्वेति सूत्रे सामानाधिकरण्ये सत्यपि आत्वं न दृश्यते न च तत्र महद्दीर्घशब्दौ द्व्येकयोरितिवद् भावप्रधानाविति पदार्थभेदाद् द्वन्द्वसमासः । अतः सामानाधिकरण्याभावान्नात्वप्रसक्तिरिति वाच्यम् । टीकायां ह्रस्वपरिमण्डलाभ्यामित्यस्य धर्मिपरतायाः प्रदर्शितत्वेन महद्दीर्घशब्दयोरपि तदन्वयार्थं धर्मिपरताया वक्तव्यत्वात् । यदि तत्र पदार्था-भेदेऽपि पदार्थतावच्छेदकभेदाद् द्वन्द्व इति न सामानाधिकरण्यम्, तर्हीहापि तथास्त्विति- चेदुच्यते । पदार्थाभेदे पदार्थतावच्छेदकभेदेन द्वन्द्वो न संभवति महाभाष्यविरोधात् । तत्र हि चार्थे द्वन्द्व इति सूत्रे याज्ञिकश्चासैौ वैयाकरणश्चेत्यादिषु पदार्थतावच्छेकभेदाद् द्वन्द्वमाशङ्क्य शेषो बहुव्रीहिरिति सूत्रतः शेषइत्यस्यानुवृत्तेस्तस्य समानाधिकरणसमासविषयत्वेन शेषत्वाभावात्तद-प्राप्तिरुपपादिता । कथं तर्हि महद्दीर्घवदित्यस्य निर्वाह: । इत्थम् । कानिचित् त्र्यणुकानि महान्ति कानिचिद्दीर्घाणीति त्र्यणुकव्यक्तिभेदविवक्षया इह द्वन्द्वसमास आश्रीयते । यद्यपि सर्वाणि त्र्यणुकानि महान्ति दीर्घाणि च महत्त्वदीर्घत्वयो: समनियतत्वात्; तथापि कानिचित् त्र्यणुकानि परितो द्व्यणुकसंयोगैरुत्पद्यन्ते कानिचित्तिर्यग्द्व्यणुकसंयोगैः । तत्र यानि द्वितीयापेक्षया महान्तीति द्वितीयान्या-द्यापेक्षया दीर्घाणीति च प्रत्यययोग्यानि भवन्तीति तथाभूतत्र्यणुकव्यक्ति-द्वैविध्यापेक्षया द्वन्द्व उपपद्यते । न चेह तथा द्वन्द्व उपपद्यते । न चेह तथा द्वन्द्वोपपत्तिः द्वयोरपि तूलपिण्डयोर्महत्त्वाधिकरणत्वेन विवक्षितत्वात् ।
स्वाश्रयेति ।
स्वेषां विशेषगुणत्वाभिमतानां ये आश्रयास्तेषां व्यवच्छेदे तत्तद्विशेषगुण-प्रवृत्तेतरव्यावर्तने उचिता अवच्छेदका येऽवान्तरसामान्यविशेषास्तद्वन्त इत्यर्थः । ते चावान्तरसामान्यविशेषा नीलरूपादिषु नीलत्वादयः शुक्लरूपे पृथिव्यादित्रयसाधारणे पाकजत्वाऽपाकजत्वभास्वरत्वाऽभास्वरत्वानि । एवं रसादिष्वप्यूहनीयम् । स्नेहत्वावान्तरसामान्यसद्भावे तेन लक्षणानुगतिस्तदभावे स्नेहत्वेनैव अन्तरशब्दस्य व्याप्यपरत्वात् । अभेदेऽपि व्याप्यव्यापकभाव-सद्भावात् ।
अत्र स्वाश्रयशब्दस्य एकैकाश्रयभूतव्यक्तिपरत्वे नीलत्वादीनां तदितरसकलव्यावर्तकतावच्छेदकत्वाभावादसंभव: लक्षणे सामान्यशब्दस्य जातिपरत्वमपहाय धर्ममात्रपरत्वमङ्गीकृत्य नीलादिषु लक्षणसमर्थने सामान्यगुणेष्वपि तथैव लक्षणसमर्थनसंभवादतिव्याप्तिरित्याशङ्क्याश्रयशब्देन नवानां मध्ये एकैकद्रव्यं सामान्येन विवक्षितं, न तु तत्तद्व्यक्तिमात्रमिति व्याचष्टे-
नवसु मध्य इति ।
व्यावर्तकाः व्यावर्तकतावच्छेदकाः । ननु नवसु मध्येऽप्येकैकद्रव्यव्यक्तिरेकैक-विशेषगुणव्यक्तेराश्रय इति तत्तद्द्रव्यव्यक्तिगततदितरसकलव्यावृतिप्रयोजकता-वच्छेदकगुणगतावान्तरजात्यभावादसंभवतादवस्थ्यम् । न च लक्षणप्रविष्टाऽ-वान्तरसामान्येन यज्जातीयो गुणो यावत्सु वर्तते तावत्सु तद्गततदितर-व्यावृत्तिप्रयोजकतावच्छेदकत्वं विवक्षितम् । अणुपरिमाणादिकं यावत्सु चतुर्विधद्व्यणुकादिषु वर्तते तावद्गतेतरव्यावृत्तिप्रयोजकतावच्छेदकमणुपरिमाण-त्वादिकं भवतीति तद्वतामणुपरिमाणादीनां विशेषगुणत्वप्रसङ्गात्तदाश्रयाश्चतुर्विध-द्व्यणुकादयोऽपि हि नवसु मध्ये भवन्त्येव ।
अथ नवसु मध्य इति विशेषबलान्नवान्यतममात्ररूपत्वं स्वाश्रयविशेषणं लभ्यत इति नोक्तदोष इति चेत् तर्हि लाघवान्नवान्यतममात्रवृत्तिगुणत्वमेव लक्षणमस्त्वित्याशङ्क्य तत्रैवोक्त-लक्षणार्थपर्यवसानमाह-
एवं चेति ।
पृथिव्यादीति ।
अनेकेत्यादिमात्रोक्तावसंभवः स्याद् नीलत्वादीनां विशेषगुणत्वप्रयोजक-सामान्यानां काककोकिलकुवलयाद्यनेकलक्षणसामानाधिकरण्यापादकत्वात् । अतो नवलक्षणव्यतिरिक्तव्यतिरिक्तत्वमनेकविशेषणम् । यद्यपि नवानां लक्षणानां मध्ये इत्यन्वयमुखेाक्तौ योऽर्थः स एवमुक्तावपि पर्यवस्यति तथापि नवानां लवणानामननुगतानां नवलक्षणव्यतिरिक्तव्यतिरिक्तत्वेनानुगमार्थं व्यतिरेकमुखेनो-क्तिः ।
नवत्वविशिष्टेति ।
एकोयं न नवेति प्रतीतेर्नवेमे नैक इति प्रतीतेश्च नवत्वविशिष्टेभ्यस्तत्समुदायान्तर्गतस्याप्येकस्य एकस्मात्तद्घटितानामपि नवानां भेदोऽस्तीति भावः ।
उपलक्षितेति ।
यत्र विशेषणत्वं न तत्रोपलक्षणत्वमिति नवत्वविशिष्टास्तदुपलक्षित-व्यतिरिक्ता इत्युक्तम् । न च ये नवत्वविशिष्टास्तेऽप्यपेक्षाबुद्धिविनाशान्नव-संख्याविनाशे तदुपलक्षिता भवन्तीति वाच्यम् । अपेक्षाबुद्धीनां यावदाश्रयभाविद्वि-त्वादिसंख्याव्यञ्जकत्वेनापेक्षाबुद्धितन्नाशाभ्यां द्वित्वाद्युत्पत्तिनाशानङ्गीकारात् स्वसमवेतेति विशेष्यमात्रं घटत्वादिष्वतिव्याप्तमिति विशेषणोपादानं सामान्येषु समवेतस्य कस्यचिद्धर्मस्याभावादतिव्याप्तिनिरासः ।
द्रव्यजातीयेति ।
संख्यादीनामाश्रयानवापि द्रव्याणि द्रव्यत्वेनैकजातीयानि तेषां गुणादिभ्यो व्यवच्छेदका: संख्यादय इत्यतिव्याप्तिः ।
नन्वेकजातीयत्वं द्रव्यत्वावान्तरजात्या विवक्षितमित्याशङ्क्य तथा सत्यव्याप्तिरित्याह-
गगनभेदेति ।
स्वमते कल्पभेदेन गगनभेदसत्त्वेऽपि लक्षणवादिमते स नास्तीति भावः ॥२२॥
इति द्वितीयं महद्दीर्घाधिकरणम् ॥
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
अनवबोधरूप इति ।
जडत्वाविशेषादणवोऽदृष्टाश्रयास्तव मते किं न स्युरित्युपहासार्थमणु-समवायित्वपक्षोक्तिरित्यर्थः । तस्य चेतनाऽनधिष्ठितस्याप्रवृत्तेरिति कर्मणश्चेतना-धिष्ठितत्वं न केवलं सांख्याधिकरणोक्तरीत्याऽभ्युपगन्तव्यं किं त्वदृष्टस्य प्रलयेऽपि सत्त्वात्तदापि द्व्यणुकोत्पादककर्म मा भूदित्येतदर्थमपि तदभ्युपगन्तव्यम् । न च परिपक्वमदृष्टं फलजनकं परिपाकश्च सर्गाद्यसमय एव स्यादिति वाच्यम् । ईश्वराधिष्ठानसाहित्यव्यतिरेकेण तत्परिपाकस्य निर्वक्तुमशक्यत्वात् । अणुवादिमते गुणरूपस्यादृष्टस्यैापधादिवत्ततोऽन्यस्य पाकस्यासंभवात् फलकालादिसाहित्यरूपतया कथञ्चित्तन्निर्वचनेऽपि तथाभूतपाकयुक्तस्याप्यदृष्टस्य तन्मतेऽपि परमेश्वरविनियोज्यत्वात् । उक्तं हि न्यायवार्तिककृता - कर्म पुरुषस्येश्वरोऽनुगृह्णाति कोऽनुग्रहार्थः यद्यथाभूतं यस्य च यदा परिपाककालस्तत्तथा तदा च विनियुङ्क्त इति।
नन्वस्तु तन्मतेऽपीश्वराधिष्ठितत्वाद्यभ्युपगमः यथा तथैवास्तु को दोष इत्याशङ्क्य तत्र पाशुपताधिकरणे (ब्र. अ. २ पा. २ सू. ३७) दूषणं वक्ष्यत इत्याह-
पत्युरिति ।
प्रयत्नविशेषेति ।
प्रायोभिप्रायमेतत् । वायुनापि नोदनदर्शनात् ।
तर्हि न क्वचिदपीति ।
वृक्षादिष्विव संयोगस्याव्याप्यवृत्तित्वोपपादकाः प्रदेशविशेषादयोऽपि वक्तुं न शक्येरन्निति भावः ।
प्रदेशकल्पनया प्रतीतिरवकल्पते चेत्तथैवास्तु को दोष इत्याशङ्क्य तथा सति संयोगतन्मूलद्व्यणुकादिः कल्पितः स्यादिति दूषणे तात्पर्यमाह-
प्रदेशकल्पनयाऽपीति ॥१२॥
तन्नियामकत्वात्तन्तुपटोभयं संश्लिष्टताप्रयोजकत्वात् । तत्कारणवत् पटोत्पादनद्वारा तदुभयसंश्लिष्टतापादकवेमादिवत् । इदमत्र दूषणं वक्तुं शक्यम् - प्रागभावस्यापि पटकारणत्वात्तस्य तन्तुपटाभ्यां संबन्धाभावाद्व्यभिचारः । अथ प्रागभावस्य पटे न प्रतियोग्यनुयोगिभावरूपः स्वरूपसंबन्धस्तस्य तन्तुभिरपि स्वरूपसंबन्धः कल्प्यः कारणानां मिलितानां कार्यजनकत्वेन कार्योत्पत्तौ तेषां मेलनस्याप्यपेक्षितत्वान्मेलनस्य च संबन्धरूपत्वादिति चेत्किं स्वरूपमपि संबन्धो भवितुमर्हति ओमिति चेत् तर्हि अवयवावयव्यादीनामपि स्वरूपमेव संबन्ध: स्यादिति किं समवायेन । संबन्धिस्वरूपाणामनन्तत्वाल्लाघवेन सर्वानुगत एकः समवायः कल्प्यत इति चेद् न । एकस्यानेकेषां वा कल्पनीयत्वे खलु लाघवादेकस्य कल्पनमिहानेकेषां क्लृप्तत्वात्तेष्वेव क्लृतेषु संबन्धत्वमात्रं कल्पनीयं न तु समवायस्तद्गतं संबन्धत्वं चेत्युभयं कल्पनीयं गौरवात् । अथ समवायपक्षे समवायस्तद्गतं संबन्धत्वं चेति द्वयमेव कल्पनीयम् अवयवावयव्यादिषु संबन्धत्वकल्पने तेषामननुगतत्वेन क्रोडीकारकाभावाद् अनन्तानि संबन्धत्वानि कल्प्यानीति समवायपक्ष एव लाघवमिति चेन्न । निरूपकभेदेन संबन्धत्वे भेदानङ्गीकारेऽवयवादिषु तत्तदभावसंबन्धत्वस्य क्लृप्तस्यैवावयव्यादिसंबन्धत्वरूप-ताया अपि संभवेन अवयवादिषु संबन्धत्वस्यैकस्याप्यकल्पनीयत्वान्निरूपकभेदेन तद्भेदाङ्गीकारे समवायेऽपि तत्तन्निरूपकभेदप्रयुक्तानां तत्संबन्धत्वकल्पनावश्यं-भावात् समवायपक्षे धर्मिकल्पनागौरवस्याधिकस्य सद्भावादिति। इत्यं दूषणं समवायस्य संबन्धान्तरानपेक्षत्वे संयोगोपि तदनपेक्षः स्यादिति वक्ष्यमाणरीत्यैवोन्नेतुं शक्यमिति भाष्यादिषु न कण्ठरवेणोक्तम् ।
पक्षेतरस्यपीति ।
यद्यपि पक्षमात्रव्यावृत्त उपाधिः पक्षेतरः प्रसिद्धः संबन्धत्वोपाधिश्च न तथा अपक्षात्संयोगादपि व्यावृत्तत्वात् तथाप्युपाधिव्यतिरेकेण साध्यव्यतिरेकसाधकं यदुपाध्युत्थाप्यं प्रतिपक्षानुमानमुपाधेर्दूषकताबीजं तस्यासाधारणहेत्वाभास-दोषग्रस्तत्वं पक्षेतरत्वस्यानुपाधितायां बीजम् । यथा पर्वतीयवन्ह्यनुमाने तत्पर्वतेतरत्वस्यानुपाधितायामयं पर्वतो निर्वह्निः एतत्पर्वतत्वादिति तदुत्थाप्यप्रति-पक्षानुमानस्य सकलसपक्षव्यावृत्तत्वरूपेणासाधारण्येन दुष्टत्वात्तस्यानुपाधित्वम् । तदीयमनुपाधिताबीजमिहापि समानम् । समवायोऽसंबद्धः संबन्धत्वादित्यत्रापि ह्यस्त्यसाधारण्यमित्यस्य पक्षेतरत्वसाम्येनानुपाधित्वशङ्का । उपाधित्वसमर्थ-नस्यायमाशयः । पक्षे साध्याभावनिश्वये सति पक्ष एव सपक्षोपि जातोऽतः सकलसपक्षव्यावृत्तत्वाभावाद् नासाधारण्यमनुपाधिताबीजमस्तीति अगुणत्वे सत्यसंबन्धत्वम् अगुणत्वविशिष्टस्य संबन्धत्वस्याभावस्तथा च संयोगेऽपि विशेषणाभावप्रयुक्तविशिष्टाभावरूपोपाधिसत्त्वान्न साध्याव्यापकत्वम् ।
संयोगस्य गुणत्वमसिद्धमिति ।
रूपादिचतुर्विंशत्यनुगतस्यैकस्य गुणत्वस्य निर्वक्तुमशक्यत्वादिति भावः ।
उभयसिद्धस्थल इति ।
यद्यप्यनुमानवादिमते साध्याव्यापकत्वमप्युपाधिदोष एनं प्रति प्रतिपक्षोन्नयनासंभवात् तथापि तथा निःशङ्कदोषो न भवतीति तात्पर्यम् । अनध्यवसि -तत्वमसाधारण्यम् ।
संबन्धत्वे सतीति विशेषणमिति ।
शुद्धसाध्यव्यापकत्वाभावेऽपि पक्षधर्मावच्छिन्नसाध्यव्यापकोयमुपाधिरित्यर्थः । नन्वेवं प्रतिपक्षोन्नयने शुद्धसाध्यव्यतिरेको न सिध्येदित्याशङ्क्य पक्षधर्मरूपविशेषणवति विशिष्टव्यतिरेकः सिध्यन्विशेष्यव्यतिरेकमादाय पर्यवस्येदित्याह
तथा चेति ॥१३॥१४॥
व्याप्तिः प्रमिता वक्तव्येति ।
न च विपक्षबाधकाभावादिह तर्कमूलव्याप्त्यप्रमितिः शङ्कनीया रूपादीनां जन्यत्वे हि रूपत्वादिकं प्रयोजकमेष्टव्यम् अनुगतत्वाल्लघुत्वाच्च । न तु कार्यगतरूपत्वम् पार्थिवपरमाणुगतपाकजरूपाननुगतत्वाद् गुरुत्वाच्च । तथा च परमाणुष्वपि रूपादिस्वीकारे अग्निसंयेगजन्या रूपादयः स्वोत्पत्तौ स्वाश्रयकारणगतरूपाद्यपेक्षेति पराभ्युपगतरीत्यैव जलपरमाणुगतरूपादीनां पार्थिवपरमाणुगतश्यामरूपस्य चोत्पत्तावपेक्षितानां रूपादीनामाश्रयत्वेन परमाणूनां कारणीभूता अवयवाः सिध्यन्तो न निवारयितुं शक्यन्ते । सावयवत्वे चाऽनित्यत्वमप्यनिवार्यम् । तथा त्रसरेणुः समवायिकारणारभ्यः महत्त्वे सति चाक्षुषत्वात्, तदपि त्रसरेणुसमवायिकारणं समवायिकारणारभ्यं, महदारम्भकत्वादिति परैः परमाणुः साध्यते । तथा चाद्यानुमाने विपक्षबाधकतर्क एवमुच्यते । महत्परिमाणस्य जन्यत्वे महत्त्वापकर्षमात्रं प्रयोजकं न तु महत्परिमाणगतमुत्कर्षापकर्षरूपजातिद्वयं गौरवात् । तथा च चसरेणुमहत्त्वस्यापकृष्टमहत्त्वरूपतया जन्यत्वेन कारणापेक्षायां तत्र स्वाश्रयसमवायिकारणगतसंख्यापरिमाणप्रशिथिलसंयोगान्यतमावश्यम्भावेन चसरेणोः समवायिकारणमवस्यमभ्युपगन्तव्यमिति तत्र महत्त्वस्य जन्यत्वे महत्त्वापकर्षोऽपि न प्रयोजक: किंतु परिमाणापकर्ष इति युक्तम् सामान्यस्य लघुत्वाद्दीर्घपरिमाणानुगतत्वाच्च । ततश्च चसरेणुमूलकारणे यद्यपकृष्टपरिमाण-मभ्युपगम्येत तदा तस्य जन्यत्वेन कारणपरिमाणाद्यपेक्षया तस्य सावयवत्वं प्रसज्येतेति तत्परिहाराय तत्र परममहत्त्वस्याभ्युपगन्तव्यत्वात् तदुक्तरीत्यैव परिमाणगततज्जन्यताप्रयोजकरूपापेक्षया जगन्मूलकारणानुमानप्रवृत्तौ तेन परममहद्ब्रह्मैव तथात्वेनानुमितं भवेदिति। एवं च स्थौल्यानित्यत्वे प्रसज्येयातामिति तर्के स्थौल्यशब्दितस्य महत्त्वस्य परमात्रानिष्टस्यापादनम् अनित्यत्वस्य तूमयाऽनिष्टस्येति विवेकः ।
सत्प्रतिपक्षतामाशङ्क्येति ।
ननु जगत्सोपादानं भावकार्यत्वादिति यद्ब्रह्मपर्यवसाय्यनुमानमुपन्यस्तं यच्च जगदुपादानं न स्पर्शवन्न चाणु नित्यत्वादित्यनुमानान्तरमुपन्यस्तं तत्रोभयत्रापि परमाणुनित्यत्वानुमानं न प्रतिपक्षतां भजते । तत्साध्याभावाविषयत्वाद्, जगत्कारणस्य स्पर्शवत्त्वेऽप्यणुत्वेऽपि नित्यत्वमकारणकत्वादिभिरुपपद्यत इति द्वितीयानुमानस्याप्रयोजकत्वं परमतेरनुमानैः सिध्यति तदपि द्वितीयानुमान-कल्पनापेक्षम् । तस्मात्सामान्यतो जगत्कारणानुमानस्य ब्रह्मपर्यवसानेन परमाण्वसिद्धिदूषणमुक्त्वा नैयायिकोक्तानि परमाणुनित्यत्वानुमानान्यपि दूषयतीत्येवावतारयितुं युक्तमिति चेदुच्यते । तावत्येवार्थे भाष्यटीकयोस्तात्पर्यम् तथापि तेषामनुमानानां सिद्धान्तविरुद्धार्थविषयतामात्रेण प्रतिपक्षव्यपदेशः कृतः । तदेतदर्थादित्यनेन सूचितम् ।
प्रतीत्यप्राप्येति ।
निमित्तकारणत्वेन लब्ध्वेत्यर्थः ॥१५॥१६॥१७॥ उत्सूत्रवाक्यमिति व्याख्याने स्वयमेव हेतुमाह-
सौत्रचशब्दव्याख्यानत्वादिति ।
न तदुत्पाद्यत्वं केषाञ्चिद्गुणानां सामान्यादीनां च तदभावादिति। यद्यपि द्रव्याधीननिरूपणत्वमपि शब्दगन्धादिषु नास्तीत्यव्यापकत्वं समानम् तथापि द्रव्योत्पद्यत्वं वह्न्युत्पाद्ये धूमेऽतिप्रसक्तमिति तदुपेक्षणम् ।
शुक्लत्वं द्रव्यवृत्तीति ।
सामानाधिकरण्यप्रत्यक्षमात्रेण नैयायिकमन्यो न परितुष्येदिति तदनुग्राह्यमनुमानमुपन्यस्तम् ।
नन्वाकारान्तरायोगोऽसिद्धः गुणत्वादित्याशङ्क्य विशिनष्टि-
स्वातन्त्र्यप्रयोजकेति ।
ननु तामिमामयुतसिद्धिं विकल्प्य दूषयतीत्ययुक्तम् द्रव्याश्रितत्वनियमो गुणादीनामयुतसिद्धिरिति निरुक्तत्वात्तत्र च वक्ष्यमाणविकल्पाप्रसरादित्या-शङ्क्यावतारयति-
भवेदिति ।
तथापि तामिमामित्ययुक्तमित्याशङ्क्य तस्यार्थमाह-
तदर्थविकल्पोऽपीति ।
अपृथग्देशत्वादयो हि धर्मधर्मिभावनियमरूपाऽयुत्तसिद्ध्युपपादकत्वेन शङ्किता अतस्तदर्थविकल्पस्तद्विकल्पत्वेनोपचरित इत्यर्थः ।
प्रकारान्तरेणेति ।
अपृथगेको देशो ययोरिति व्युत्पत्तिमाश्रित्य अपृथक्सिद्धत्वं भाष्ये दूषितम् इदानीं पृथग्देशत्वाभावं तदर्थमाश्रित्य शङ्कत इत्युत्तरग्रन्थस्य सामान्यतोऽ-वतारिका ।
तत्राव्यवहितग्रन्थमवतारयति-
तत्र तावदिति ।
अन्यदेशत्वं युतसिद्धिरिति ।
युतसिद्ध्युपपादकमन्यदेशत्वमित्यर्थः ।
सङ्गित्वादिति पाठमाश्रित्य तस्य संबन्धित्वादित्यर्थश्चेद्व्यभिचारः स्यादित्याशङ्क्य व्याचष्टे-
संयोगित्वादित्यर्थ इति ।
अभ्युपेत्यापीति ।
आकाशात्मनोस्तन्मते संयोगाभावात्तन्मतमर्यादया पूर्वोक्तं दूषणं न भवतीत्येतदुक्तापृथग्देशत्वस्याभ्युपगमे मूलम् ।
ननु शुक्लत्वमित्यादीति ।
शुक्लः पटः इत्यादौ शुक्लशब्दस्य शुक्लगुणविशिष्टे द्रव्ये प्रवीणे कुशलशब्दस्येव निरूढा लक्षणा । न चैवं घटस्य शुक्ल इत्यपि कदाचित्प्रयोगप्रसङ्गः । निरूढलक्षणयाऽन्यत्र प्रयुक्तस्य पदस्य मुख्येऽर्थेऽ-प्रयोगस्यापि दर्शनात् । न हि कुशलशब्दस्य कुशलवनकर्तरि प्रयोगोऽस्ति। अतस्तत्र गुणविशिष्टद्रव्यलक्षणकात् शुक्लशब्दाद् भावार्थप्रत्ययोत्पत्त्या शुक्लत्वं शुक्लता शैौक्ल्यं शुक्लिमेत्येव प्रयोग इत्यर्थः ।
धर्मिग्राहकप्रत्यक्षविरोधादाभास इति ।
न च पटस्य शुक्लं रूपमिति व्यवहारमूलभूतं भेदविषयं प्रत्यक्षमप्यस्ति तद् अभेदप्रत्यक्षं बाधेतेति वाच्यम् । न ह्युक्तव्यवहारो भेदविषयः किंतु षष्ठ्यर्थसंबन्धविषयः । संबन्धेन तु भेदोऽनुमातव्यस्तदप्यनुमानं शुक्लः पट इत्यभेदसाक्षात्कारो बाधेत तस्माद्राहो: शिर इतिवदौपचारिकं संबन्धव्यपदेशमात्रमिति कल्पनीयम् । किं च पटस्य शुक्लं रूपमित्येतत्पटस्य शुक्लत्वं शौक्ल्यमित्यादिना समानविषयं शुक्लत्वमित्यादिप्रत्यये च गुणगुणिभेदवादिभिर्गुणे यच्छुक्लत्वमभ्युपगम्यते तदेव पटे प्रतीयतेऽतः पटस्य शुक्लं रूपं शुक्लो गुण इत्यादिव्यवहारोऽपि पटगतशुक्लत्वसामान्यविषय इत्येव वक्तुमुचितम् । शुक्लत्वसामान्ये कथं शुक्लशब्द इति चेत् शुक्लगुणे वा कथं शुक्लत्वं शुक्लिमेत्यादिभावप्रत्ययान्तः शब्दः । शुक्लशब्दस्य द्रव्यलक्षणा-माश्रित्येति चेत् तस्येह सामान्ये लक्षणाऽस्तु गौर्नित्येति प्रयोगे गोशब्दस्येव । यद्वा शुक्लशब्द: शुक्लद्रव्यस्येव तद्गतशुक्लत्वसामान्यस्यापि वाचकः यथा साक्षात्कार शब्दः प्रत्यक्षज्ञानस्येव तद्गतसाक्षात्त्वसामान्यस्यापि । अत एव घटसाक्षात्कार इति साक्षात्कारिप्रमेति च व्यवहारः । एवं च गुणवचनेभ्यो मतुल्लोपानुशासनमपि सामान्यवाचिभ्यो मतुपः प्रसक्त्या सार्थकं भविष्यति। न चैवमपि साक्षात्कारीतिशब्दवत् शुक्लशब्दादिनिप्रत्ययेन शुक्लीत्यपि प्रयोगः स्यात् तल्लोपानुशासनाभावादिति वाच्यम् । अर्शआदिगणे वर्णशब्दपाठस्यार्शआदिभ्योऽ-च्प्रत्ययविधानार्थत्वेन तत इनिठनोर्बाधात् । मतुपस्तु ततो बाधो न भवति प्राणिस्थादातो लजन्यतरस्यामित्यतोऽन्यतरस्याग्रहणस्य वैशेषिकप्रत्ययैर्मतुपः समुच्चयार्थमनुवृत्यङ्गीकारात् । अतो मतुल्लोपानुशासनं सार्थकम् । एवमभेदप्रत्यक्षानुसारेण व्यवहारव्यवस्थाकरणे लाघवमपि भवति। द्रव्यातिरिक्तगुणाभ्युपगमे हि गुणस्तत्संबन्धश्वेत्युभयमपि कल्पनीयमिति गौरवं भवेत्तस्माल्लाघवानुगृहीताभेदप्रत्यक्षबलाद् गुण्यभेद एव गुणानामास्थेयः । सुरभिर्गन्धफली मधुरो गुडः उष्णो वन्हिरिति गन्धादीनामपि द्रव्याभेदप्रत्यक्षैस्तद्भेदनिरासात् । अयं च गुणगुण्यभेदो गुणिपरिशेषेण प्रतिनियतेन्द्रियग्राह्यनानागुणसंघातपरिशेषेणोभयथाप्यनिर्वचनीयभावेन वा पर्यवस्यतीत्यन्यदेतत् ।
पूर्वपक्षिण एव ग्रन्थ इति ।
न चेत्ययं शब्दः पूर्वपच निराकरणार्थ इत्येवं सिद्धान्तग्रन्थो न भवति, किं तूत्पत्तेः समवायान्यत्वस्य निराकरणार्थः स इति पूर्वपक्षग्रन्थ एवायमित्यर्थः ।
यद्युच्येतेति ।
प्रतीकग्रहणानन्तरमप्राप्तिपूर्विका प्राप्तिरित्येकं लक्षणम् । अन्यतरकर्मजेा-भयकर्मजप्राप्त्योरन्यतरेत्यपरं युतसिद्धिलक्षणम् । तद्भावश्च न कार्यकारण-संबन्धस्य भवतीति क्वचित्पाठः । तत्र कर्मजा प्राप्तिरित्येतावदेव वक्तव्यं जनककर्मद्वैविध्यस्पष्टीकरणार्थं विशेषणम् । अप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजा प्राप्तिः उभयकर्मजा प्राप्तिरिति त्रीणि संयोगलक्षणानि । एतानि च कार्यकारणसंबन्धस्य न भवन्तीति पाठान्तरम् । तत्र यद्यपि द्वितीयतृतीयलक्षणे परस्परलक्ष्याव्याप्तिः तथापि तयोर्लक्षणशब्दः प्रकारभेदमात्रपर इति तत्रापि पाठे कर्मजा प्राप्तिरित्येकमेव लक्षणं लक्षणद्वयोक्त्या पर्यवस्यति।
उत्पन्ने तत्क्षण एवेति ।
उत्पत्त्यनन्तरक्षण एवेत्यर्थः ।
पटसत्ताक्षण इति ।
पटोत्पत्तिक्षण इत्यर्थः ।
असति प्राप्तरि प्राप्त्यनुपपत्तेरिति ।
यद्यपि समवायनित्यत्वपक्षे पूर्वक्षणे प्राप्तर्यसत्यपि जन्मसमय एव समवायरूपा कारणप्राप्तिरुपपद्यते तथापि तदनित्यत्वपक्षे दूषणमिदं द्रष्टव्यम् ।
एकाकर्षण इति ।
एकस्मिन्नाकृष्यमाणे इतरेषां तत्संसृष्टानामाकर्षणं सावयवानामेव दृश्यते अतो वायुना द्व्यणुके कृष्यमाणे तदवयवयो: परमाण्वोर्निरवयवद्रव्यत्वादाकाश-वत्तत्संसृष्टत्वेऽप्याकर्षणं न स्यादित्यर्थः ॥
इति तृतीयं परमाणुजगकारणत्वाधिकरणम् ॥
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥ माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकाणाम् आदिबुद्धशिष्याणां सर्वशून्य-त्वविज्ञानमात्रास्तित्वविज्ञानाकारानुमेयबाह्यास्तित्वप्रत्यक्षबाह्यास्तित्वविषया: प्रस्थानभेदास्तेषामेव प्रतिपतिभेदादिति केचन बुद्धसमयस्था वदन्ति। अन्ये त्वाहुः । सर्वज्ञानां तेषां गुरुवाक्यानि शृण्वतां पुरोवर्तिन्येकस्य मैत्रत्वबुद्धिरन्यस्य चैत्रत्वबुद्धिरपरस्य स्थाणुत्वबुद्धिरित्यादिवद् भ्रान्तिरूपा विरुद्धप्रतिपत्तिर्न संभवति तेषां सर्वज्ञत्वात् षोडशिग्रहणाग्रहणप्रत्ययवद्वैकल्पिकार्थविषयापि न संभवति क्रियायामिव सिद्धवस्तुनि विकल्पायोगात् । अतः प्रथममादिबुद्धेनोत्तममध्यमा-धमभाविविनेयबुद्ध्यनुसारेण सर्वशून्यत्वादिपनभेदाः सूचितास्तद्विवरणार्था माध्यमिकादीनां प्रस्थानभेदा इति। तत्र द्वितीयं तन्मतं विवृणोति-
विप्रतिपत्तिर्हीति ।
असंहतानामिति ।
कार्याकारेणाऽसंहतानामपीन्द्रियसंबन्धादान्तरेण चित्तेन निरूप्यमाणतयाऽऽ-न्तरसमुदायमध्ये परिगणनमिति भावः ।
अहमित्याकारमालयविज्ञानमिति ।
तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् ।bतत्स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥bइति तदीयो व्यवहारः ।
विज्ञानस्कन्धो निर्विकल्प इति ।
केचिद्देवदत्तादिनाम संज्ञास्कन्ध इत्याहु: । तन्मते विकल्पोऽपि विज्ञानस्कन्धः ।
अनुपलब्धिलिङ्गकमिति ।
यद्यपि प्रातश्चत्वरे गजाभावानुमानवदिहानुपलब्धिलिङ्गकत्वेन तान्त्रिकै-र्व्यवहृतमनुमानं नास्ति तथापि व्यापकविरुद्धोपलब्ध्या यच्चेतनाऽनाधिष्ठित-कारणेभ्यः कार्योत्पतेर्व्यावर्तनं प्रसाधयिष्यते तदभिप्रायाऽनुपलब्धिलिङ्गकत्वोक्तिः । यद्वा अचेतनत्वादिति चैतन्याभावलिङ्गकं यदनुमानं प्रदर्शयिष्यते तदभिप्राया ।
अतो या कार्योत्पत्तिरिति ।
ननु या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्यो भवतीति प्राग् दर्शितेयं व्याप्तिस्तामुपजीव्य व्यापकविरुद्धोपलब्ध्या परपक्षनिरसनं सिद्धान्त्यभिमतचेतना-धिष्ठितकारणवत्त्वप्रसाधनं च कृतं कथं तदनन्तरमव्याप्तिसिद्धिरुच्यते । नैष दोषः । प्रथमं या कार्योंत्पत्तिरिति वाक्येन व्याप्यव्यापके उपन्यस्ते तयोर्व्याप्तिग्रहानुकूलतर्को विपर्ययपर्यवसानसहितः स स्वव्यापकेत्यादिनाऽवतिष्ठत इत्यन्तेन ग्रन्थेन दर्शितः । तदनन्तरमतो या कार्योत्पत्तिरित्यादिवाक्येन व्याप्तिसिद्धिरुक्ता । एवमेवानन्तराधिकरणेऽपि ये यस्मिन् सत्यपि कदाचित्कास्ते तदतिरिक्तापेक्षा इति प्रथमं व्याप्यव्यापकयोरुपन्यासः ततो व्यापकविरुद्धो-पलब्धिमूलकविपर्ययपर्यवसानसहिततर्कोपन्यासः ततः प्रथमेापन्यस्तव्याप्य-व्यापकयोर्व्याप्तिसिद्धिकथनं च भविष्यति।
तत्कार्यं प्रति हेतुरित्यपीति ।
यद्यप्येवं सति व्यापारवदाश्रय इति विशेषणं न निवेशनीयम् अत एव कुम्भकारकार्ये कुम्भेऽतिव्याप्तिवारणलाभात्तन्निवेशने यागव्यापारापूर्वाव्याप्त्यापत्तेश्च । तथापि चक्रभ्रमणादिवत्कारणक्रियारूपस्य व्यापारवदाश्रयत्वं नियतं कारणानां कार्यजननाय प्रवृत्तिरपि तत्क्रियारूपा अतस्तत्र व्यापारव्यापारिणोः समसमयत्वे कार्यकारणभावानुपपत्तिर्भिन्नसमयत्वे आश्रयाश्रयिभावानुपपत्तिरिति दूषणं वक्तुं लक्षणे अनपेक्षितस्यापि तस्य तदनुप्रवेशनेन सद्भाव: स्मारितः ॥१८॥ बाह्य आभ्यन्तरश्च प्रतीत्यसमुत्पादो हेतूपनिबन्धनश्चेति द्वाभ्यां कारणाभ्यां भवतीति बौद्धा व्यवहरन्ति। तत्र कारणं प्राप्य कार्यमुत्पद्यत इति यद् अयं प्रतीत्य समुत्पादः कारणात्कार्योत्पाद इत्यर्थः । हेतूपनिबन्धः एकैककारणसंबन्धः । प्रत्ययोपनिबन्धः कारणसमुदायसंबन्धः । तत्र बाह्यकार्ये हेतूपनिबन्धस्योदाहरणं बीजादिफलपर्यन्तं प्रत्ययोपनिबन्धस्योदाहरणम् । बीजादङ्कुरजनने महाभूतानि धातुविशेष इति षण्णां धातूनां समवायः । आध्यात्मिककार्ये हेतूपनिबन्धस्यो-दाहरणम् अविद्यादिदौर्मनस्यान्तं प्रत्ययोपनिबन्धस्योदाहरणम् । पञ्चभूतान्यहं-प्रत्ययरूपो विज्ञानधातुश्चेति षण्णां धातूनां समवायः । एवं द्विविधयोरपि कारणवर्गयोः कार्योत्पादे स्वस्वनिष्ठचैतन्यापेक्षा वा स्वतन्त्रकारणान्तरगत-चैतन्यापेक्षा वा नास्तीत्यपि तेषां मतम् । तदिदं सर्वं संक्षेपतः प्रतीत्यसमुत्पादलक्षणमुक्तमित्यादिना सोऽयंप्रतीत्यसमुत्पादो दृष्टत्वाद् नान्यथयितव्य इत्यन्तेन टीकाग्रन्थेन प्रपञ्चितम् । तत्रैतेष्वेव षट्सु धातुष्वित्यादिना तदेतैरविद्यादिभिराक्षिप्तः संघात इत्यन्तेन टीकाग्रन्थेन भाष्यानुक्रान्ताविद्यादिदौर्मनस्यान्तस्वरूपविवरणपूर्वकं तेषां चेतनानपेक्ष: कार्यकारणभाव उपसंहृतः ।
एवमाशङ्कासूत्रभागतद्भाष्यविवरणपरे टीकाग्रन्थद्वये व्याख्येयांशद्वयमुपादाय व्याचष्टे-
प्रत्ययोपनिबन्धस्य संग्राहकमित्यादिना ।
उत्पादादनुत्पादाद्वेत्येतदन्वयव्यतिरेकपरतया व्याचष्टे-
यस्मिन् सतीति ।
मनो विज्ञानं च योऽभिनिर्वर्तयतीति ।
अत्र पूर्ववाक्यस्य च योऽभिनिर्वर्तयतीत्यनुषङ्गः कृतः । यो नामरूपमभिनिर्वर्तयति यश्च मनोरूपं विज्ञानमभिनिर्वर्तयति स विज्ञानधातुरुच्यत इत्यर्थः ।
देहाकारपरिणतेष्विति ।
केचिदविद्यादिरूपं क्वचित् क्वचिद्भेदेन वर्णयन्ति। क्षणिककार्यदुःखशून्येषु स्थायिनित्यसुखवस्तुबुद्धिरविद्या ततो रागद्वेषमोहास्ततो धर्माधर्मसंस्कारा इत्येतत्सर्वं संस्कारवशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभो विज्ञानं विज्ञानसंसर्गाद्गर्भद्रव्यस्य कललपेश्याद्याकारेणाभिव्यक्तिर्नामरूपं तदभिव्यक्तिक्रमेण निर्वृत्तं षडिन्द्रियायतनं शरीरं षडायतनतन्निर्वृतशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्पर्श: तन्निमित्ते सुखदुःखे वेदना सुखप्राप्तिदुःखपरिहारार्था विषयोपादानेच्छा तृष्णा तया विषयेषु प्रवृत्तिरुपादानं ततः क्रमेण गर्भानिष्क्रमणं भवः निर्गतस्य मनुष्यत्वादिजात्यभिमानो जातिः क्रमभाविनी जरामणे प्रसिद्धे म्रियमाणस्य पुत्रकलत्राद्यभिष्वङ्गादन्तर्दाहः शोकः तदुत्थः प्रलापः परिदेवना मरणक्लेशः दुःखं मानसं दुःखं दौर्मनस्यमिति आचार्यैरप्यन्योक्त एवाविद्याशब्दार्थः प्रागुक्तः ।
ननु सूत्रे हेतूपनिबन्धे चेतनानपेक्षामभ्युपगम्य प्रत्ययोपनिबन्धमात्रे तदपेक्षाकथनमयुक्तम् एकैककारणेऽपि तद्व्यापारयितृचेतनापेक्षाया वक्तुं शक्यत्वादित्याशङ्कयाह-
हेतूपनिबन्धस्त्विति ।
स्वरूपत एव तदसंभवस्योत्तरसूत्रे वक्ष्यमाणत्वादधिष्ठातृचेतनाभावेनापि तन्निरसनं हतहननमित्युपेक्षितमिति भावः । तदेतदङ्गीकृत्येति पूर्वग्रन्थेन सूचितम् ।
ननु मिलितेभ्य इति ।
ननु- चेतनमन्तरेण देहोत्पत्तिरपि पूर्वपक्षिणा समर्थिता न तत्राङ्कुरोत्पत्तिदृष्टान्तापेक्षाऽस्तीति- चेत् सत्यं पञ्चस्कन्धसमुत्पादस्तु प्रत्ययोपनिबन्धो न हेतुमात्राधीनात्पत्तिरिति टीकायां विशिष्य कारण समुदायाद्देहोत्पत्तौ चेतनापेक्षाऽस्तीति समर्थयितुं प्रारब्धम् । तेनाङ्कुरोत्पत्तौ चेतनापेक्षा त्यक्तेति भ्रान्तेयमाशङ्का । देहोत्पत्तिमात्रस्य विशिष्य निर्देशेऽप्यङ्कुरोत्पत्तिरपि पक्षकोटिरेवेति तत्समाधानम् ।
न च सर्वत्र हेतुत्व इति ।
अङ्कुरादावपि चेतनस्य हेतुत्वे तत्र कारणान्तरेषु सत्सु चेतनमात्रव्यतिरेकादङ्कुरादिव्यतिरेको दर्शनीयः स नास्तीति शङ्कार्थः । प्रत्यक्षेण कारणताग्रहे खल्वन्वयव्यतिरेकापेक्षा, इह तु घटादिदृष्टान्तेनाङ्कुरादौ चेतनकारणसत्त्वमनुमीयते । तत्र चेदानीन्तनज्ञानदृष्टान्तेनाद्यज्ञानस्य ज्ञानान्तरजन्यत्वानुमानवत्तदनपेक्षेति परिहारार्थः ।
संघातस्याप्रयोजकत्वमिति ।
संघातस्य कार्यहेतुत्वे हि कार्योत्पत्त्यर्थमपेक्षितस्य सिद्धये संहन्त्रा भाव्यम् । न तु स कार्यहेतुः किंतु प्रत्येकसमर्थानाम् आर्थसमाजमात्रमित्यर्थः ।
अन्ये च बीजक्षणाः सन्तीति ।
भक्षणाद्युपयुक्ता इत्यर्थः ।
अनन्तरजन्यबीजजनन इति ।
स्वाव्यवहितानन्तरक्षणजन्यं यद्बीजं तज्जनन इत्यर्थः ।
स्वस्वकार्योपजनन इत्यनुषङ्ग इति ।
स्वशब्दान्तराध्याहारेणानुषङ्गः इत्यर्थः ।
नन्विति ।
पूर्वपूर्वबीजक्षणस्योत्तरोत्तरबीजक्षणजनने भवत्वनपेक्षत्वम्, एतावता कथं कुसूलस्थबीज एव कृषीवलः कृती स्यादिति दूषणं भवेद् अन्त्यक्षणस्य कुसूलाद्बहिर्भाव्यक्षेत्रेषूत्पन्नस्यैवाङ्कुरजनकत्वकल्पनोपपत्तेरिति शङ्कार्थः ।
ननु यथाकार्यमनुपपद्यमानं सत्कारणं नोत्पादयति एवं स्वसामर्थ्येनापि तन्नोत्पादयत्येव अतः किंतु स्वसामर्थ्येनेति कार्यस्य कारणोत्पादकत्वाभ्युपगमो न युक्त इत्याशङ्क्य साध्याहारं व्याचष्टे-
यदि जनकमिति ।
कार्यं कारणस्य जनकं चेत् स्वसामर्थ्येनेत्येव वक्तव्यं न च तदप्युपपद्यते अविद्यमानस्य सामर्थ्याभावादित्यर्थः । क्षणस्याभेद्यत्वादिति क्षणस्य पूर्वभागे अनुपकृतत्वावस्था उत्तरभागे उपकृतत्वावस्थेति दर्शयितुं । क्षणस्य भागशो भेत्तुमशक्यत्वादित्यर्थः ।
नित्येष्वणुष्विति भाष्यवाक्ये आश्रयाश्रयिभूतेष्वित्यस्य विशेष्यं दर्शयति-
भाष्य इति ।
टीकायामवतारितं किमङ्ग पुनरिति द्वितीयभाष्यवाक्यस्थमाश्रयाश्रयिशून्ये-ष्वित्येतद्भावप्राधान्येन योजनीयमित्याह-
आश्रयेति ।
आश्रयाश्रयिभूतेष्विति पाठे भोक्तृविशेषणमिति ।
यद्यपि भोक्तृरहितेष्विति भाष्यपाठे नोपसर्जनानां भोक्तॄणामिदं सप्तम्यन्तं विशेषणं भवितुं नार्हति तथापि भोक्तृष्वसत्स्विति पाठान्तरमाश्रित्य तद्विशेषणत्वमुक्तम् ।
तद्विशदयतीति ।
नासंहतस्य सामग्रीत्वमिति सिद्धान्त्यभिसन्ध्यवेदनं खलु प्रागुक्तं तदिदानीमस्तु तावदिति ग्रन्थेन विशदीक्रियते । अनेन हि ग्रन्थेन केवलाद्धेतोः कार्यं नोपजायत इत्येतदास्तां तावदिति नासंहतस्य सामग्रीत्वमित्येतद् दूषणमिह नोद्घाट्यत इत्युक्तम् ।
सामान्यं हीति ।
भूयोवयवसामान्यं खलु सादृश्यन्तदन्यापोहभ्रमाधिष्ठानत्वेन कारणमित्यर्थः । यद्यप्येतावता घटरुचकाद्यनुगता मृत्सुवर्णादिरूपकारणता नायाति तथापि टीकायां श्रुतस्य कारणशब्दस्यार्थोऽयं दूषणं तु तथा चेत्याद्यनन्तरग्रन्थेन भविष्यतीति तात्पर्यम् ।
नन्विति ।
कार्यकारणभावे सादृश्यमप्रयेाजकं किंतु यस्मिन् सति यद्भवति तत्कारणमित्यर्थः ।
तर्हि जातिरेवेति ।
जात्युपाधौ कारणत्वग्रहेऽभ्युपगम्यमानेऽपि विवक्षितविवेकेन जाते: कारणत्वग्रह उक्तः स्यात् । तथा च व्यक्तीनां कारणत्वं वदता त्वया तासां जात्यवस्थाविशेषणत्वेन जात्यभेदो वक्तव्यः अन्यथा जाते: कारणत्वेन व्यक्तीनां कारणत्वानिर्वाहात् । न च तथेष्यत इति त्वया वक्तुं शक्यम् । जातिरवस्तुभूता व्यक्तयो वस्तुभूता इति त्वयेष्यमाणत्वादित्यर्थः ।
वस्तुनो नित्यत्वापादानं द्रष्टव्यमिति ।
उत्पादनिरोधशब्दयोर्वस्तुशब्दपर्यायत्वे वस्त्वतिरिक्तोत्पादनिरोधानङ्गीकारा-द्वस्तु नोत्पत्तिमन्न निरोधवदिति स्यात् । तथा च तस्य नित्यत्वापत्तिरित्यर्थः ॥ २० ॥
उत्तरक्षणोत्पत्तिकाल इति ।
उत्तरक्षगणस्य कार्यस्योत्पत्तिः पूर्वस्मिन् कारणक्षण एव भवतु तथा च न कारणक्षणस्योत्तरक्षणेऽप्यनुवृत्त्या स्थायित्वप्रसङ्गः । नापि कार्योत्पतेः कारणस्य च समसमयत्वहानिरिति शङ्कार्थः ॥ २१ ॥
नन्वन्त्यसंतानिन इति ।
मुक्तिपर्यन्तमनुवर्तमानायां विषयोपप्लुतचित्तसंततावन्त्यस्य सन्तानिन इत्यर्थः ।
सादृश्यं हीति ।
यद्यपि विषयविशेषोपरागकृतसादृश्यं न विवक्षितं येन चैत्रात्मरूपचित्त-संतानेऽनुवर्तमान एव रूपज्ञानप्रवाहे रसज्ञानोत्पत्तौ तत्सन्तानविच्छेदः स्यात् । नापि सत्तासामान्यकृतं येन सोपप्लवचित्तोपरमे मुक्तौ निरुपप्लवचित्तसन्तानोदयेऽपि पूर्वसन्तानोच्छेदो न स्यात् किंतु विषयोपप्लवकृतं सादृश्यं विवक्षितमिति वकुं शक्यम् । तथापि निरन्वयविनाशः क्वापि न संभवति द्वितीयविकल्पदोष एवात्रापि द्रष्टव्यः ।
इदानीं प्रत्यक्षेणानुवृत्तिमाहेति ।
तत्तोयं तेजमा मार्तण्डमण्डलमम्बुदत्वायोपनीयत इत्यनुमेयमिति प्रक्रिया । सूर्यकिरणतप्तशिलातलपतिताम्बुनि प्रवर्तते न त्वग्नितप्तायः पतिताम्बुनीत्य-परितोषात्प्रकारान्तरेण परिहारमाहेत्यर्थः ॥२२॥२३॥
तस्य हि न तावदिति ।
भावरूपस्य शब्दस्य द्रव्यादिषड्भावबहिर्भावप्रसङ्गो नास्तीत्यर्थः ।
द्वीन्द्रियग्राह्येति ।
इदं दत्त्वा इदं देयमिति जरन्नैयायिकमतानुसारेण द्वीन्द्रियग्राह्यघटादि-वारणार्थम् एकविशेषणे दत्ते पश्चाद्वायुवारणार्थमस्पर्शत्वे सतीति विशेषणं देयम् । प्रथममेव तस्मिन् दत्ते तु एकविशेषणं नापेक्षितम् ॥२४॥
एकस्य नानाकारत्वं व्याहतमिति ।
ज्ञानातिरिक्ताकारानभ्युपगमादाकारनानात्वं ज्ञाननानात्वमेव पर्यवस्येदित्यर्थः ।
एकज्ञानेनेति ।
एकेनैव ज्ञानेन तत्तेदन्तावच्छिन्ननानापदार्थोल्लेखे सत्येव तेनेदं सदृशमिति सादृश्यस्फुरणापेक्षितनानात्वोल्लेखेा भवतीत्यर्थः ।
ननु न वयमिति ।
प्राग्विकल्पितेषु पक्षेषु तत्तेदन्तासादृश्यानि भासन्त एव भासमानानि च ज्ञानस्याकारः ज्ञानं चैकमेवेति पक्षः ।
आकाराणामारोपितत्वेन वास्तवज्ञानैकत्वव्याघातो नास्तीति पुनराशङ्कते-
तथा च तेनेतीदमिति ।
यतो भिन्नत्वे ज्ञानान्तरवदकल्पितः स्यात्तत आकाराणां ज्ञानाभेदेऽभ्युपगन्तव्ये परस्परमप्यभेदापत्त्या पदार्थानां ज्ञानज्ञेययोश्च लेाकप्रसिद्धो भेदो निह्नुतः स्यादित्यर्थः ।
तथा च धर्मिभेदेनेति ।
कस्यचिज्ज्ञानस्य नित्यत्वमाकारः कस्यचिदनित्यत्वमिति धर्मिभेदेन व्यवस्थायां विरोधाभावाद्वादिनां विवादो न स्यादित्यर्थः ।
आन्तरस्यानभिधेयस्येति ।
अनभिधेयत्वम् अशक्यसमयो ह्यात्मेति स्वयमेव स्फुटीकरिष्यति।
व्यक्तेश्वोक्तमार्गेणाशक्यग्रहत्वादिति ।
यद्यपि मीमांसकमते शक्यविषयभूताया अपि व्यक्तेः शक्तिविषयसामान्यसमानवित्तिवेद्यतया शब्दोल्लेखिसविकल्पकप्रत्ययविषयत्वमस्ति तथापि बौद्धैः स्वलक्षणं निर्विकल्पकमात्रविषय इत्यङ्गीकृतमित्यशक्यग्रहत्वमुक्तम् ।
पाशुपतस्य तपस्विन इति ।
केचन पाशुपताः स्वकीयशिवभागवतचिह्नतया पूर्वाचारप्राप्तं जङ्घायां किङ्किणीबन्धादिकं कुर्वन्ति तत् पृथग्जनाः जनसम्बाधे स्वपरविपर्यासो मा भूदिति कृतं चिह्नमित्यारोप्य कथमस्य विपर्यासस्य प्रसक्तिरित्युपहसन्ति तेनापामरप्रसिद्धमात्मप्रथनमित्यर्थः । वर्षातपाभ्यां व्योम्नः किं फलमस्ति वर्षेणार्द्रत्वम् आतपेन शुष्कत्वं वा फलं नास्तीत्यर्थः ।
किं तु चर्मणि वर्षातपयोः फलमस्तीति पूर्वार्धस्यार्थे स्थिते उत्तरार्द्धस्यार्थमाह-
चर्मोपमश्चेदित्यादिना ॥२६॥२७॥
इति चतुर्थं समुदायाधिकरणम् ॥
नाभाव उपलब्धेः ॥ २८ ॥
तथा चार्थात्प्रमेयमिथ्यात्वमापत्स्यत इति ।
यदा ज्ञानाधिकरणके प्रमाणफले अशक्तिव्यावृत्त्यज्ञानव्यावृत्त्यादि-सामान्यात्मके तदा तन्मते सामान्यस्य कल्पितत्वात्कल्पितेन प्रमाणेन तत्फलेन च वस्तुसिद्ध्यभावादर्थाद्बाह्यवस्तुमिथ्यात्वमापततीत्यर्थः ।
न च वस्तुतो भिन्नाभ्यामिति ।
वस्तुतो भिन्नाभ्यां प्रमाणफलाभ्याम् एकस्याभेदानुपपत्तेरेकज्ञानाभेदात्तयोर्न भेदसिद्धिरित्यर्थः ।
मा भूत्प्रमाणफलयोर्भेदसिद्धिः; सत्येन ज्ञानेन तादात्म्यात् तयोः स्वरूपतः सत्यत्वसिद्धौ तावतां तत्प्रमेयस्य बाह्यवस्तुनः सत्यत्वं सिद्ध्येदित्याशङ्क्य तयोरन्यापोहात्मकसामान्यरूपतया स्वरूपतोऽप्यसत्यत्व-मुपपादयतीत्यवतारयति-
तमेव दर्शयतीति ।
सरूपयन्तमिति तु पाठे अर्थमिति शेष इति ।
सरूपयत्तदिति पाठे सरूपयदित्यस्य तदिति विशेष्यपदमस्ति न तु स्वरूपयन्तमिति पाठेऽतस्तदुचितोऽर्थमिति पुँल्लिङ्गविशेष्यशब्दोऽध्याहृतः ।
एकपरमाण्वात्मनीति ।
एकपरमाणुस्वरूपे स्थौल्यं गृह्यते स्वाभाविकं भवति न त्वेकपरमाणौ स्थौल्यं सम्भवति अतोऽनेकत्र परमाणौ स्थूलमित्येकाकारेण ग्रहणं न स्वाभाविकमित्यन्योपाधिकं वाच्यमित्यर्थः ।
व्याघातादिति ।
भेदे तादात्म्यं व्याहतं भेदाभेदपक्षस्तु विरोधान्न सम्भवतीति तत्र तत्रोक्तम् ।
अश्विनाविति ।
यद्यप्यस्त्विनौ देवभिषजावश्वयुजोर्नक्षत्रयोर्देवता न तु नक्षत्रे एव अश्वयुजौ नक्षत्रमश्विनौ देवतेति श्रुतेः तथाप्यभेदोपचारादश्विनौ नक्षत्रे इत्युक्तम् ।
स्वभावहेतुरित्यस्य बोद्धव्यवहारसिद्धमर्थमाह-
यो यन्मात्रानुबन्धीति ।
प्रत्ययत्वमात्रानुबन्धीति ।
स्वप्नप्रत्ययादिषु बाह्यानालम्बनत्वदर्शनात् प्रत्ययत्वमात्रप्रयुक्तं निरालम्बन-त्वमित्यर्थः । निरालम्बनताया: प्रत्ययात्मत्वं भावान्तरमभावो हीति तन्मतेनपोपादयति
निरालम्बनत्वस्येति ।
सर्वेऽप्यालयविज्ञानसन्तानवर्तिनक्षणा हेतव इति वक्तव्यमिति। ननु- सर्वे हेतव इति वा कश्चिदेव हेतुरिति वा नोच्यते, किंतु केचन हेतवः केचिदहेतव इत्युच्यत इति- चेद् न । सर्वसन्तानवर्तित्वाविशेषे तथाव्यवस्थितिकल्पनायोगात् । अतो नीलज्ञानकादाचित्कत्वसिद्ध्यर्थं बाह्यसत्त्वमभ्युपेयमिति भावः । तत्प्रबोधसामर्थ्यमित्यस्य विवरणमुत्तरक्षणगतवासनापरिपाकाख्यप्रबोध-सामर्थ्यमिति। तदनन्तरचकारस्तु टीकास्थस्य नीलज्ञानोपजननसामर्थ्यसमुच्चयार्थस्यानुवादः । एवं हि संतानान्तरस्य कालविप्रकर्षः स्यादिति। यदीदानीन्तनचैत्रसंतानसंजातनीलज्ञानसमनन्तरपूर्वक्षण एव मैत्रसंतानो-त्पत्तिः स्यात्ततः प्राङ् मैत्रसंतानो न स्यात् तदा प्राङ्मैत्रसंतानरूपापेक्षित-व्यसहकार्यभावात् चैत्रसंताने नीलज्ञानानुदय इति वक्तुं शक्यं न त्वेतदस्ति; तथा सति मैत्रसंतानरूपसंसारस्य सादित्वप्रसङ्गात् । तस्मात्प्रागपि मैत्रतानसत्वे तु कालविप्रकर्षऽभावान्नीलज्ञानोदयप्रसङ्ग इति भाव: ।
स्वसंतानमात्रनिमित्तकत्वं विपक्ष इति ।
हेतोरप्रयोजकत्वेन पक्षस्यैव साध्याभाववत्तया विपक्षत्वशङ्कायां हेतोर्विपक्ष-व्यावृत्तिः संदिग्धा भवति पक्षस्य साध्याभाववत्त्वे तद्वृत्तेर्हेतेार्विपक्षवृत्तितेति। यद्यपि हेतुमति पक्षे साध्यसंदेहः स्वारसिको न व्यभिचारसंदेहत्वेन दोषः अनुमानमा चोच्छेदापत्तेः तथाप्यप्रयेाजकत्वसंदेहाहितः सोऽपि तत्र दोष एवेति भावः ।
स्वसन्तानमात्रनिमित्तत्वमुपपादयितुमिति ।
संतानमात्रानिमित्तत्वेपि कादाचित्कत्वमुपपद्यत इति हेतोरप्रयोजकत्व-मुपपादयितुमित्यर्थः ।
नन्वालयविज्ञानक्षणानामिति ।
चैत्रमैत्रादिभिन्नसंततिपतितानामित्यर्थः । न च संतानो नाम कश्चिदिति ग्रन्थेन संतानस्वरूपं निषिध्यत इति प्रतिभाति। तदयुक्तम् ।
अग्रे संतानभेदाभेदाभ्यां शक्तिभेदाभेदव्यवहारदर्शना-दित्याशङ्क्य तद्वाक्यं संतानस्य क्षणोत्पादकत्वनिषेधार्थतया योजयति-
क्षणानां संबन्धीति ।
संतानस्य क्षणोत्पादकत्वे खलूत्पादकाविशेषादेकविधं सामर्थ्यं स्याद्, न तु तदस्तीति भावः ।
क्षणभेदेपि न सामर्थ्यभेद इत्युपपाद्येति ।
ननूक्तमित्यादिशङ्कावादी सौत्रान्तिकः क्षणभेदेऽपि प्रतिविज्ञानव्यक्ति न सामर्थ्यभेदः एकस्मादालयविज्ञानक्षणान्नीलज्ञाने सति पुनर्नीलज्ञानान्तरानुत्पत्ति-प्रसङ्गादतः सर्वेषामपि तेषां सामर्थ्यमास्थेयमिति नीलज्ञानकादाचित्कत्वाभाव-प्रसङ्गमुपपाद्य स्वमते तत्प्रसङ्गं परिहरतीत्यर्थः ।
विज्ञानवादी सौत्रान्तिकमते हन्त तर्हीत्यादिना दूषणं वदतीत्यवतारयति-
तत्र दूषणमाहेति ।
एकमेव नीलं नीलाकारज्ञानं जनयेदित्येतदनन्तरं न संन्तानान्तरस्य वर्तीति स्थाने नीलान्तरं सन्तानान्तरवदिति क्वचित्पाठस्तत्र नीलान्तरं सन्तानान्तरवर्तिनं नीलाकारज्ञानं जनयेत् पीतसन्तानवर्तिगुणान्तरवदित्यर्थो ग्राह्यः ।
यथा च नीलपीतादिसन्तानान्तराणामिति ।
एकस्मान्नीलसन्तानान्तरस्य पीतसन्तानस्य च भेदाविशेषेऽपि क्वचिन्नील-ज्ञानजननशक्तिः क्वचिन्नेतिवदेकज्ञान एवैकविज्ञानसन्ततिपातित्वाविशेषेऽपि केषुचित्तज्जननशक्तिः केषुचिन्नेतीति व्यवस्था कल्प्यते दृष्टानुसारित्वात्कल्पनायाः । अतः सन्तानभेदः शक्तिभेद इव तदभेदोऽपि शक्त्यभेदे न प्रयोजक इति भावः ।
अर्थात्पूर्वमिति लभ्यत इति ।
असंविदितत्वोक्तिसामर्थ्यात् पूर्वज्ञानमिति लभ्यत इत्यर्थः सामर्थ्यमेवेापपादयति-
वर्त्तमानस्येति ।
संविदितत्वात्तदानीं ज्ञायमानत्वादित्यर्थः ।
मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तप्रत्ययः | असंविदितत्वम् अनागतेऽप्यविशिष्टम् अतस्तद्व्यावर्तनं विधान्तरेण दर्शयति-
अनागतस्य चेति ।
तादृशज्ञानमिति ।
यत्तदानीमज्ञायमानं सिद्धसत्ताकत्वं तथाभूतज्ञानं वासनेत्यर्थः ।
इदमत्राकूतमित्यादिटीकाग्रन्थेन वक्ष्यमाणमर्थं भाष्यारूढं करोति-
तत्रभवतेति ।
तथापीत्यादिटीकार्थं मनसि कृत्वाऽवतारयति-
तत्रासम्भवमिति ।
ततः प्राक्तनग्रन्थं तदुपयोगिनमवतारयति-
तत्र बौद्धेनेति ।
स्थौल्यं ह्यर्थस्येति ।
बाह्यार्थसन्वे युगपदनेकदिग्देशव्यापि वस्तु स्थूलमिति वक्तव्यम् । तच्च सर्वात्मना कदापि न दृश्यते करतलामलकादीनामप्यधोभागावच्छेदेन दर्शनाभावात् । अतो दर्शनादर्शनाभ्याम् एकस्यैव स्थूलवस्तुन आवृतत्वमनावृतत्वं च वाच्यमिति विरुद्धधर्माध्यासाद्भेदः प्रसज्यते । विज्ञानवादे तु नायं दोषः । तत्र हि विज्ञाने यावानाकारो भासते तावानेवास्ति आवृतस्तु नान्तर्बहिर्व्याप्रियत इत्यर्थः ।
इदानीमेतमसम्भवमनुमत्येति ।
आस्तामसम्भवो ममानिर्वचनीयवादिनो मते ते कथं नासम्भव इति प्रतिपादयतीत्यर्थः ।
टीकायां व्यतिरेकाव्यतिरेकवृत्तिविकल्पौ च परमाणोरंशवत्त्वं चोपपादितानि वैशेषिकपरीक्षायामिति ग्रन्थं विज्ञानवादिमतनिराकरणार्थहेत्वन्तरपरत्वेन योजयति-
अर्थस्य ज्ञानाभेदे सत्यवयविन्यवयवे चोक्तदोषान्तरमपि ज्ञाने दुर्वारमित्याहेति ।
अवयवी अवयवेभ्यो भिद्यते न वेति विकल्पो व्यतिरेकाऽव्यतिरेकविकल्पः । भेदपक्षे स प्रत्यवयवं कार्त्स्न्येन वर्तते एकदेशेन वेति विकल्पो वृत्तिविकल्पः । एताववयविदोषौ । सूक्ष्मावयवः परमाणुरपि सांशोऽनंशो वेति विकल्पपूर्वकं सांशत्वावश्यम्भावापादनम् अवयवदोषः । एतद्दोषत्रयं विज्ञानवादिमतेऽपि स्यात् । न हि विज्ञानवादिनास्माभिरिव जगदनिर्वचनीयमित्युच्यते येन तस्येत्थं विचारासहत्वं भूषणं स्यात् किंतु बाह्यास्तित्ववादिभिर्यद्यावद्बहिरस्तीत्युच्यते तत्सर्वमन्तः सत्यमेवास्तीत्युच्यते, सत्यत्वे च बहिरिवान्तरप्येते विकल्पदोषाः प्रादुःष्युरिति भावः ।
अमुमेव टीकाग्रन्थमवयविवादिनं प्रत्युक्ता दोषाः समुदायवादिनं प्रत्यपि स्युरिति प्रासङ्गिकसौत्रान्तिकमतनिराकरणार्थत्वेनापि योजयति-
यद्वा विज्ञानादिभिन्नस्थूलार्थ इति ।
केषुचित्कोशेषु द्वितीयात्रतारिकैव यद्वेतिशब्दरहिता दृश्यते न प्रथमावतारिका यद्यप्ययं व्यतिरेकाव्यतिरेकादिटीकाग्रन्थः सर्वैरेव प्रमाणैर्ब्रह्मार्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्यत इति भाष्यानूदितविज्ञानवादिकृतबाह्यास्तित्वनिराकरणार्थं व्यतिरेकादिविकल्पविवरणमत्र न कर्त्तव्यम् अधस्तादेव कृतमित्येतदर्थः प्रतिभाति, तथापि न केवलमयं दोषः ममानिर्वचनीयवादिनो मते न प्रसरतीत्येतावत् किं त्वन्तः सदिति वादिनो बहि: सदिति वादिनश्च बौद्धस्य मते वैशेषिकमत इव प्रसरतीत्युष्ट्रलगुडन्यायोऽप्यनेन ग्रन्थेन सूचित इति प्रदर्शयितुमस्य ग्रन्थस्य विधान्तरेण द्वेधा तात्पर्यमाचार्यैरुक्तम् ।
परमाणूनिति ।
ज्ञानाकाररूपानित्यर्थः ।
चाक्षुषस्य प्रभारूपानुविद्धबुद्धिबोध्यत्वनियमो नास्ति उलूकपिशाचादिचक्षुर्ग्राह्ये व्यभिचारादित्याशङ्क्य मनुजैरिति विशेषितमित्याह-
मनुजग्रहणमिति ।
वास्यवासकत्वमविद्योपप्लवे हेतुरिति ।
उत्तरज्ञानस्य नीलाद्याकारसमर्पणोपयुक्तवासनाशक्तिमत्पूर्वज्ञानं वासकम् उत्तरज्ञानं वास्यम् । अनयोः संबन्धो वास्यवासकत्वं तस्य सविकल्पकरुपाविद्योपप्लवहेतुत्वोक्त्या विवक्षितविवेकेन वासनाया एव तद्धेतुत्वमुक्तं भवति। अनादिवासनोद्भूतेति संमतिश्लोकेन च तथैव स्फुटीकरिष्यते ।
भावमिति ।
भावं नीलादिकम् उभयं विज्ञाननरविषाणादिकं च कर्म मूर्तत्वादि अमूर्तत्वं सत्त्वमसत्त्वं च कर्तृ समाश्रयत इति सत्त्वादिशब्दार्थो भावाभावोभयाश्रय उक्त इत्यर्थः ।
न चास्त्वेकः प्रतिसंधाता नैतावता बाह्यार्थसिद्धिरित्याशङ्क्याह-
त्वया च स नेष्यत इति ।
बाह्यास्तित्व इव क्षणिकविज्ञानसन्तत्यतिरिक्तात्मास्तित्वेऽपि तन्मतभङ्गस्तुल्य इति भावः ।
चोदयतीति ग्रन्थमाशङ्कानिराकरणार्थत्वेनावतारयति-
विज्ञानस्य स्वव्यतिरिक्तार्थविषयत्व इति ।
विज्ञानग्रहणमात्र एवेति ।
अन्तःकरणवृत्तिरूपं यद्विज्ञानं तन्नीलादिविषयग्रहणं तन्मात्र एव स्वीकृते तत्प्रतिबिम्बितो विज्ञानसाक्षी विज्ञानविषयं ग्रहणान्तरं नापेक्षते स्वयमेव तद्भावरूपत्वादतो नानवस्थेति भाष्यार्थ इत्यर्थः ।
अनुभवितुर्व्याप्ताविति ।
अनुभवितृकर्तृकव्याप्तावित्यर्थः । अनेन साक्षिविषयेति विज्ञानसाक्षिग्रहणा-काङ्क्षानुत्पादादिति भाष्यं विज्ञानसाक्षिणः कर्तुर्विज्ञानविषयग्रहणाकाङ्क्षानु-त्पादादित्येतदर्थपरतया पूर्वं व्याख्यातं तद्भाष्यमनेन ग्रन्थेन विज्ञानसाक्षिकर्मक-ग्रहणान्तराकाङ्क्षानुत्पादादित्यपि व्याख्यातं भवतीत्यर्थः ।
वियद्वस्त्विति ।
कुम्भस्योत्पत्तौ सत्यां तस्य या वियत्संपूर्णता सा वियद्वस्तुस्वभावानुरोधात्सर्वत्र व्यापकस्य वियतोऽयं स्वभावो यदवच्छेदकस्य कुम्भादेहत्पत्तौ सत्यां तेनावच्छिद्यत इति। एवंभूततत्स्वभावानुरोधादेव न तु कारणान्तरात्सा संपूर्णता । एवं धियां दशा संपूर्णतापि दृग्वस्तुस्वभावादेवेति श्लोकार्थः ।
स्वतःसिद्धप्रकटतया ज्ञानस्य ग्राह्यत्वमिति संबन्ध इति ।
ज्ञानस्य ग्राह्यत्वमित्यस्यानुषङ्ग इत्यर्थः ।
व्यापकसाक्षिसंबन्धस्येति ।
अविद्यावच्छिन्नो जीव एव साक्षी स च विषयप्रदेशेऽप्यस्तीति विषयस्यापि तत्संबन्धस्तुल्य इत्यर्थः ।
तदधीनाभिव्यक्तिकेति ।
व्यापकोऽपि साक्षी स्वच्छान्तःकरणावच्छिन्नोऽनावृतो विषयावच्छिन्न-स्त्वावृत इत्यावरभङ्गार्थं वृत्यपेक्षेत्यर्थः । एतत्प्रपञ्चस्त्वस्मत्कृते सिद्धान्तसंग्रहे द्रष्टव्यः ।
यथा चाक्षुषी प्रभेति ।
यद्यपि दृष्टान्ते चक्षुःप्रमात्मकं व्यञ्जकमेकं रूपं वायुश्चेति व्यङ्ग्यमव्यङ्ग्यं च भिन्नं दार्ष्टान्तिके व्यङ्ग्यसाक्षिचैतन्यमेकम् अन्तःकरणं घटादिकं चेति व्यञ्जकमव्यञ्जकं च भिन्नम् तथापि व्यङ्ग्यव्यञ्जकभावो वस्तुमहिम्ना व्यवस्थित इत्येतावान्मात्रे दृष्टान्तः सर्वात्मतासमस्तु दृष्टान्तः प्रागेवाचार्यैर्दर्शितः- मुकुरतले मुखमित्यनेन घटमुकुरयोर्मुखसान्निध्याविशेषेपि स्वच्छो मुकुर एव मुखस्य व्यञ्जको न घट इति।
आत्मा ज्ञेय इति ।
ननु इदं शरीरं सात्मकं प्राणादिमत्त्वादित्यानुमानिकज्ञानविषयत्वेन चैत्रो विद्वानित्यादिशाब्दज्ञानविषयत्वेन च सिद्धसाधनम् । प्रकाशमानत्वं ज्ञेयत्वं चेत्साध्याविशेषः । अन्यत्र दुर्वचमिति- चेत्, आत्मा अपरोक्षज्ञानविषयः अनुमितिशाब्दज्ञानाजन्यव्यवहारविषयत्वादित्यत्र तात्पर्यात् ।
कथं सकलविशेषोपसंग्रहवतीति ।
यद्यपि व्यवहारविषयत्वमेक एव धर्मो हेतुः न तु धूमवदनेकव्यक्तिरूप इति नात्र सकलहेतुव्युत्पत्त्युपसंग्रहापेक्षा तथापि सकलहेत्वाश्रयोपसंग्रहा-पेक्षास्ति यो यो धूमवान् सोऽग्निमानित्यादिनोदाहरणवाक्येन व्याप्तिबोधकेन वीप्सितयच्छब्दोपस्थापितसकलहेत्वाश्रयेषु साध्यसंबन्धबोधनात्तदनुसारेण व्याप्तेर्यावद्धेत्वाश्रयवर्तिसाध्यसामानाधिकरण्यरूपताया वक्तव्यत्वादिति भावः ।
आगन्तुको यस्य नास्ति सोऽनागन्तुकः स चासौ प्रकाशश्चेति बहुव्रीहिगर्भकर्मधारयपरिग्रहे कोऽत्रागन्तुको निषेध्य इति जिज्ञासायामाह-
अर्थादिति ।
नित्यापरोक्षत्वहेतूपादानसामर्थ्यादागन्तुकस्तद्विषयप्रकाशो निषेध्य इत्यर्थाल्लभ्यते इत्यर्थः ।
भासमानत्वमिति ।
आवृतत्वादभासमानेऽपि पूर्वोक्तेन भासत इति शब्देन बोध्यत्वमस्तीति तदपि भासमानं भवेदतो बाधविधुरमित्युक्तम् । तथा सत्यसंभवः ब्रह्मातिरिक्तस्य सर्वस्य बाध्यत्वादिति व्यावहारिकविशेषणम् ।
वेदान्तजन्यवृत्त्युपाधाविति ।
तथा च यदुपहितं ज्ञेयं न तत्स्वप्रकाशत्वेनेष्यते यत्त्वनुपहितं तथेष्यते न तज्ज्ञेयमिति नासंभव इत्यर्थः । ननु- वृत्त्युपहितस्य तेन रूपेण तद्विषयत्वं नोक्तं किंतु वृत्युपरागे सति वृत्त्यंशं परित्यज्य केवलस्यात्मनस्तद्विषयत्वमुक्तं वृत्युपरागोत्र सत्तयैवोपयुज्यते न प्रतिभास्यतया । अतो वृत्तिसंसर्गे सत्यात्मा विषयो भवति न तु स्वत इति अत: स्वप्रकाशस्य केवलस्यात्मनो वृत्तिविषयत्वाङ्गीकारादज्ञेयत्ववचनमयुक्तमिति- चेद् न उपाध्यघटनीयज्ञानविषय-त्वाभावस्य विवक्षितत्वात् । न चैवं मुकुरोपाधिघटनीयज्ञानविषयभावे मुखप्रतिबिम्बेऽतिव्याप्तिः प्रतिबिम्बस्य बिम्बाभिन्नत्वाद्बिम्बस्य च मुखप्रतिबिम्बोपाधिं विनापि ज्ञेयत्वात् ।
संविदभिन्नत्वं चेति ।
इन्द्रियत्वावच्छिन्नेन्द्रियजन्यज्ञानत्वं ज्ञानापरोक्ष्यं तद्विषयत्वं विषयापरोक्ष्यमिति विभागो नेष्यते किंतु सर्वानुगतमापरोक्ष्यं संविदभिन्नत्वं तच्च संविद्रूपस्यात्मनः स्वतः सिद्धं तदन्यस्य बाह्यस्य घटादेरान्तरस्यान्तः करणवृत्त्यादेश्च संविद्यभेदेनाध्यस्तत्वादभिव्यक्तसंविदभेदाध्याससिद्धमित्यर्थः ।
तत्समर्थनार्थमिति ।
आत्मनो नित्यापरोक्षसंविदभिन्नत्वसमर्थनार्थमित्यर्थः ।
शश्वदिति ।
हेतुद्वयेऽपीदं विशेषणं घटादिव्यावृत्यर्थम् । अत एव तस्य व्यतिरेकदृष्टान्तता । यद्यप्यात्मनो वेदान्तप्रतिपाद्याखण्डानन्दरूपेणावृतत्वात्तेन रूपेण संदिग्धत्वमस्ति अत एव तस्य शास्त्रविषयतोक्ता प्रथमसूत्रे तथापि तस्य ज्ञानसुखादिसाक्षिचैतन्यरूपेणानावृतत्वमसंदिग्धत्वं चास्तीति द्वितीयहेतोर्नासिद्धिः । न चाप्रसिद्धविशेषणत्वम् । प्रथमानुमानस्येति शेषः ।
एतदन्येति ।
एतस्मात्पक्षीकृतादन्यत्वेन विशेषितं यज्ज्ञेयत्वं तद्रहितं यद्भासमानं तदन्येत्यर्थः । दृष्टान्ते पक्षादन्यत्वमादाय साध्यसिद्धिः । पक्षो हि ज्ञेयः सन्नपि पक्षान्यत्वाभावात्तद्विशिष्टज्ञेयत्वरहितो भवति भासमानश्च तदन्यत्वं पटे संप्रतिपन्नं पक्षे तु न पक्षादन्यत्वमादाय साध्यसिद्धिः बाधात् किंतु पक्षादन्यत एव कुतश्चित्पक्षान्यत्वविशिष्टज्ञेयत्वरहिताद्भासमानादन्यत्वमादाय पक्षे साध्यसिद्धिर्वाच्या सिद्धघटादिमध्ये च पक्षादन्यत्वविशिष्टज्ञेयत्वरहितं भासमानं वस्तु नास्ति सर्वस्यापि भासमानस्य पटादेः पक्षादन्यस्य पक्षान्यत्वविशिष्टज्ञेयत्ववत्त्वात् । अतो यस्मादन्यत्वमादाय पक्षे साध्यवसानं वाच्यं तत्किंचिदप्रसिद्धं पक्षादन्यत्वविशिष्टज्ञेयत्वरहितं भासमानं वस्त्वनेनानुमानेन सिध्यति। तत्र च विशिष्टराहित्यं न पक्षान्यत्वविशेषणाभावाद्वक्तुं शक्यम् । यतोऽन्यत्वं पक्षस्य साध्यते तस्य पक्षान्यत्वनियमादतस्तत्र ज्ञेयत्वरूपविशेष्याभावेन विशिष्टराहित्यं वाच्यमित्यज्ञेयभासमानवस्तुसिद्धिः । अतस्तस्य साध्यप्रसिद्ध्युपपादकस्या-नुमानस्यानन्तरं क्वचित्क्कचित्कोशे अनुमानान्तरप्रदर्शनं तत्र हेतुविशेषणव्यावर्त्यकथनमाश्रयासिद्धिपरिहरणं साध्यार्थकथनं तत्रैव सिद्धसाधनत्वशङ्कानिराकरणार्थत्वेन न चैतदित्यादिटीकाग्रन्थवाक्यावतारणं च दृष्टं तद्विलिख्यते । तथा देवदत्तस्य तदात्मास्तित्वजिज्ञासायामेकस्मिन् क्षण एव तदात्मनिष्ठतदात्मविषयसंदेहध्वंसोऽसंदिग्धाविपरीतैतदात्मानुभवजन्यः एतदात्मा-भावप्रमैतदात्मविपर्ययाभ्यामजन्यत्वे सति जिज्ञास्यमानैतदात्मगोचरसंदेह-निवृत्तित्वात् पुरुषान्तरगतैतदात्मगोचरतथाविधसंदेहनिवृत्तिर्वस्तुनि नास्तीत्यभाव-प्रमयास्तीति भ्रमेण वाऽनवधानेन वा भवति। सा च न भावतत्त्वानुभवजन्येति तत्र व्यभिचारः स्यातन्निवृत्त्यर्थमेतदात्माभावेत्यादिविशेषणत्रयम् । न च वाच्यमात्मनः शश्वदसंदिग्धत्वे कथं संदेहध्वंसः प्राप्यभावात् संदिग्धत्वे च कथं शश्वदसंदिग्धत्वमिति यतः शश्वदसंदिग्धत्वेऽपि पुरुषान्तरारोपितनास्तित्व-कोटिकः संशयः स्यात् स च स्वरूपानुभवात्सेत्स्यते । आत्मानुभवजन्य इत्यत्र चास्तीति व्यवहारहेतुरनुभव उक्तः स स्वरूपभूतोऽपि संभवतीति।
ननूक्तविधानुभवजन्यत्वं संदेहध्वंसस्य सिद्धं साध्यते आत्मविषयतथा-विधानुभवाभ्युपगमादित्याशङ्क्याह-
न चैतदिति ।
यदि ततोऽन्योऽनुभवः संशयच्छेता स्यात् तर्हि तदात्मजिज्ञासायामप्यनु-भवस्यानुदयसंभावनयाऽऽत्मसंदेहः स्यादित्यर्थः । स्यादेतत् ।
आत्मजिज्ञासायां तद्विषया संविदुदयत एवेति तत्राह-
अनवस्थेति ।
यश्चेश्वरतथाविधानुभवजन्यत्वेन सिद्धसाधन्वमाह तं प्रत्यनीश्वरेति विशेषणीयम् ।
तदाभ्यां तर्काभ्यां परिशोधितमनुमानं स्वयंप्रकाशत्वे पर्यवस्यतीत्याह-
तस्मादिति ।
सर्वमिदं प्रक्षिप्तमिव प्रतिभाति न हि साध्यप्रसिद्ध्यर्थानुमान-वदिहानुमानान्तरमपेक्षित् । संदेहानुत्पादनियमवत्संदेहनिवृत्तिनियमोऽप्यना-गन्तुकात्मानुभवसद्भावे साधकान्तरं भवेत् ।
वस्तुतः साधकान्तरमपि न भवति ।
यतस्तत्राश्रयासिद्धिरपरिहार्या न हि सर्वानुभवसिद्धे सुखाद्यनुभवितरि साक्षिणि प्रत्यक्षदृष्टे घटइव पुरुषान्तरोक्तिमात्रेण नास्तित्वसंदेहः कस्यचिदुदेति यतः संदेहनिवृत्तिः पक्षे सिद्ध्येत् । चार्वाकोऽपि खल्वहमनुभवस्य शरीरं विषयं प्रदर्श्यातिरिक्तमात्मानमपलपति न त्वहमनुभवमेवापलपति। न च- चार्वाकोपन्यस्तशरीरात्मवादयुक्तिश्रवणक्षुभितहृदयस्य शरीरातिरिक्तात्मास्तित्व-संदेहो भवतीति तन्निवृत्तिः पक्षे स्यादिति- वाच्यम् तस्य संदेहस्य एक आत्मनः शरीरे भावा (ब्र. सू. अ. ३ पा. २ सू. ५३) दित्यधिकरणोक्तस्थिरन्यायानु-संधाननिवर्त्यस्य शरीरविषयत्वेन शङ्कितान्यथासिद्धिनानुभवमात्रेण निवृत्त्यसंभवात् । किं च टीकायां स्वात्मनि संदेहानुत्पाद एव प्रपञ्चितः संदेहनिवृत्तिस्तु लेशतोऽपि न स्पृष्टा । अतस्तत्र संदेहाद्यनुत्पादप्रपञ्चनानन्तरं प्रकृत्य तयोर्न चैतदन्याधीनसंविदन्यत्वे घटते अनवस्थाप्रसङ्गश्चोक्त इति वाक्ययोः संदेहनिवृत्तिपक्षकानुमानविषयसिद्धसाधनत्वशङ्कानिराकरणार्थत्वेनावतारणमपि न युक्तम् उक्तानुमानयोः स्वप्रकाशत्वानुमाने विषयपरिशोधकतर्कत्वोक्तिरप्ययुक्ता आद्यानुमानस्य साध्यप्रसिद्धिसंपादनार्थत्वात् द्वितीयानुमानस्य कथंचिददृष्टत्वेऽपि नित्यानुभवे साधकान्तरत्वात् । तस्मान्न चैतदिति टीकावाक्यमात्मनो नित्यापरोक्षत्वाभावे कदाचिदात्मनि संदेहः स्यादित्येतत्परम् । आत्मविषयसंविदन्तरोत्पादनियमे वस्तुसंदेहानुत्पाद इति शङ्कावारणार्थमनवस्थाप्रसङ्गश्चोक्तः इत्येव युक्तम् । तथैवावतारणं कोशान्तरेषु दृश्यते । तेषु खलु साध्यप्रसिद्ध्युपपादकमनुमानानन्तरमित्थं न चैतदित्यादिवाक्ययोरवतारणम् ।
विपक्षे दण्डमाह-
न चैतदिति ।
यदि नित्यसाक्षात्कारत्वमात्मनो न स्यातर्हि कदाचिदात्मनि संदेहः स्यादित्यर्थः ।
स्यादेतद्- आत्मविषया संविदुदेत्येवेति तत्राह-
अनवस्थेति ।
एवं ग्रन्थेन व्याख्यानानन्तरं केषुचित्कोशेषु अधिकशङ्कापरिहारग्रन्थो दृश्यते- ननु सुखादीनामपि स्वसत्तायां संदेहाभावसाम्ये कथमात्मैव प्रकाश उच्यते आत्मप्रकाशेनैवानुगतेन तेषामापरोक्ष्यसंभवे प्रत्येकं न स्वप्रकाशत्वं कल्प्यमिति। स्पष्टार्थोऽयं ग्रन्थः ।
विपक्षे दण्ड उच्यत इति ।
अनुकूलतर्क उच्यते इत्यर्थः ॥२८॥
साधनव्याप्त्यनुमानस्येति ।
स्तम्भादिप्रत्ययो निरालम्बन इति दर्शितानुमानस्येत्यर्थः ।
औपचारिको व्याख्यातव्य इति ।
प्रमाणामिलितसंस्कारजत्वसादृश्यात् स्वप्नज्ञाने स्मृतिशब्दो गौणो व्याख्येय इत्यर्थः ।
ननूपलब्धिशब्दोऽनुभवमात्रपरः प्रसिद्ध: किमिति षट्प्रमाणजनितत्वेन विशेष्यते इत्याशङ्क्याह-
एवमव्याख्यान इति ।
तेन संदिग्धवस्तुधर्म इति तेन भाष्येण सूचितमित्यन्वयः ॥२९॥३०॥
ननु किमन्याधिष्ठानतत्त्वबोधनेनेति ।
प्रत्यक्षादिप्रमाणबोधितविपरीताधिष्ठानतत्त्वबोधकं प्रमाणं निरधिष्ठानभ्रमं वदतः शून्यवादिनो मते न संभवति चेत् तन्मा भूत्प्रत्यक्षादिप्रतीतवस्तुगतं यद्विचारासहत्वं तदेव बाधकप्रमाणं भूत्वा प्रत्यक्षादीनां सांव्यवहारिकं प्रामाण्यं तद्विषयाणामतात्त्विकत्वं च गमयतीत्यर्थः ।
सदसदादिपक्षेति ।
विचारासहत्वं नाम कश्चिद्वस्तुभूतो धर्मोऽस्त्येव स धर्मः सत्त्वासत्त्वसदसत्त्वानुभयात्मकत्वपक्षेष्वन्यतमपक्षपरिग्रहेण वस्तुभूतो व्यवस्थाप्यते स तु वस्तुतः सत्वादिरूपेण विचारं न सहत इत्येतावदेवोच्यत इति प्रथमविकल्पार्थः । विचारासहत्वे सत्त्वादिपक्षान् परित्यज्य शून्यमेव लभ्यत इति द्वितीयविकल्पार्थः ।
असत्त्वव्यवस्थाप्रतिज्ञाविरोध इति ।
किंचिदपि वस्त्वसत्येन व्यवस्थापयितुं न शक्यत इति तत्प्रतिज्ञाविरोध इत्यर्थः ॥३१॥
इति प्रतिभातीति ।
यद्यपि बौद्धव्याकरणे पश्यनादिशब्दाः साधुतया व्युत्पादिताः तथापि अनादिसिद्धप्रयोगसिद्धसकलसाधुशब्दसंग्राहकपाणिनीयाद्यपरिगृहीतत्वादसाधवः प्रतिभान्तीत्यर्थः ॥३२॥
इति पञ्चममभावाधिकरणम् ॥
नैकस्मिन्नसंभवात् ॥ ३३ ॥
अस्तीति कायन्त इति ।
कैधातोरादेचउपदेश इत्यात्वे कर्मणि घञि आतो युगिति युगागमे च सति काय इति रूपम् ।
शास्त्रीयेति ।
शास्त्रीयया तप्तशिलारोहणादिशास्त्रप्रभवया बाह्यया चेष्टारुपया प्रवृत्त्येत्यर्थः । आन्तरवृत्तिर्यत्नरूपा परकीया स्वयमप्रत्यक्षा नापूर्वानुमाने लिङ्गं भवेद् अतो बाह्यग्रहणम् ।
ऊर्ध्वगमनशीलो हीति ।
ऊर्ध्वगमनं जीवस्य स्वभावः । देहे स्थितिस्तत्प्रतिबन्धककर्माधीनेति मतमाश्रित्योक्तम् । केचित्तु- चिरकालशरीरावस्थितप्रयुक्तबन्धमुक्तावूर्ध्वगमनं- मन्यन्ते । ते खल्वेवमाहुः - बन्धमुक्तस्योर्ध्वगमनं दृष्टं यथा पञ्जरमुक्तशुकस्य यथा वा वारिनिर्भिन्नपरिणतैरण्डबीजस्य यथा वा दृढपङ्कलिप्तजलनिमज्जन-प्रक्षीणपङ्कलेपशुष्कालाबूफलस्य इह त्वनादिकालप्रवृत्तबन्धविगमात्सततोर्ध्वगमनमिति। आस्रवादिषु पञ्चसु अन्तिमद्वयं फलरूपम् आदिमत्रयं तत्साधनम् । प्रवृत्तिरास्रवशब्दोक्तैकविधेति भेदः ।bआस्रवः स्रोतसां द्वारं संवृणोतीति संवरः ।bआस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् ॥bइति जैनेाक्तः संवरः शमदमादिरूप इति टीकायामुक्तम् । तत्रादिशब्देन गुप्तिसमित्यादिर्गृह्यते । कायवाङ्मनोनिग्रहो गुप्तिः । भूमिगतजन्तुहिंसापरिहाराय प्रहते मार्गे सम्यगादित्यरश्मिप्रकाशिते निरीक्ष्य संचरणं नियताहारविषेवणमित्यादिकं समितिरिति जैनैः परिभाष्यते ।
आस्रावयति गमयतीति ।
आस्रवत्यनेन जीव इत्यण्यन्तादास्रवशब्दः । ण्यन्ताच्चेदास्राव इति स्यात् ।
बन्धोष्टविधमिति ।
आस्रवः कर्मणा बन्धो निर्जरस्तद्विमोचनमिति जिनदत्तोक्ते टीकायामन्ये त्विति दर्शिते तु मते बन्धः कर्मापादिता जन्मपरंपरेति द्रष्टव्यम् ।
पूर्वोक्त आस्रवोऽपीति ।
आस्रव इन्द्रियप्रवृत्तः । घात्यद्यातिकर्माण्याकरग्रन्थयोर्विवेचितानि । अन्ये तु विधान्तरेण सद्विवेकमाहुः । जैनमते ज्ञानदर्शनसुखवीर्यगुणकस्य जीवस्य ज्ञानादिगुणानां मोक्षदशायामाविर्भविष्यतां संसारदशायां प्रतिघातकानि प्रवाहानादीनि पापरूपाणि चत्वारि घातिकर्माणि । शरीरसंस्थानतदभिमानता-स्थितितत्प्रयुक्तमुखादिनिर्मितानि चत्वार्यघातिकर्माणि पुण्यमिश्रितत्वात्पुण्यरूपाणीति।
नामिकाद्वेदनीयस्य भेदमाह-
सक्रियस्य बीजस्येति ।
कायतीति ।
आयुः कायतीत्यर्थे कैधातोरात्वे आतोऽनुपसर्गे क इति कप्रत्यये आतो लोप इटि चेत्याकारलापे सति गोद इतिवदायुष्कमिति रूपम् ।
युगपत्तद्विवक्षायामित्यर्धं व्याचष्टे-
युगपदस्तित्वनास्तित्वयोरिति ।
तत्राशक्तिमुपपादयति-
वाचः क्रमवृत्तित्वादिति ।
आद्याऽवाच्यविविवक्षायामिति सार्धश्लोके कथमाद्यादिशब्दोक्तानां सत्त्वासत्त्वतदुभयसमुच्चयानामवाच्यत्वम् ।
नह्यत्र चतुर्थभङ्ग इवाऽशक्तिरस्तीत्याशङ्क्य तेष्वप्यन्त्येन सह युगपदाद्येन सह युगपदेकैकेन सह युगपदित्यध्याहारेणाशक्तिमुपपादयति-
आद्योऽस्तित्वभङ्गे इत्यादिना ।
एवं व्याख्याने पञ्चमादिभङ्गानां चतुर्थभङ्गात् फलतो भेदाभावमाशङ्क्य प्रकारान्तरेण व्याचष्टे-
अथ वेति ।
तेष्वेव पक्षेष्विति ।
सत्त्वैकान्तपक्षः सांख्याद्यभिमतः सत्कार्यवादः । असत्त्वेकान्तपक्षः शून्यवाद्यभिमतोऽसद्वादः । क्रमेण सदसत्त्वपक्षो वैशेषिकाद्यभिमतो घटादीनां मध्ये सतां पूर्वं पश्चाच्च प्रागभावप्रध्वंसप्रतियोगित्वरूपमसत्त्वमिति वादः । एतेषां पक्षेषु पूर्वपक्षा उत्तिष्ठन्ति सत्त्वं निर्वक्तुमशक्यं प्रागभावादिप्रतियोगित्वं निर्वक्तुमशक्यमिति तेषां पूर्वपक्षिणां ये तत्तदनिर्वाच्यत्वैकान्त्यवादाः तेषां भङ्गाः पञ्चमषष्ठसप्तमा इत्यर्थः ।
नन्वस्ति स्यादिति ।
अस्तीति वर्तमानत्वं बोध्यते स्यादिति कालत्रयाऽनवमर्शिविधेयत्वम् । तयोः परस्परविरुद्धयोः कथमेकस्मिन्नर्थे पर्यवसानं युगपद्बोध्यत्वमित्यर्थः ॥३३॥३४॥३५॥३६॥
इति षष्ठमेकस्मिन्नसंभवाधिकरणम् ॥
पत्युरसामञ्जस्यात् ॥ ३७ ॥ नकुलीशपाशुपता मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपाशविमोक्षाय बोद्धव्याः । तत्र- कार्याणि पृथिव्यादीनि पञ्चतत्त्वानि रूपादयः पञ्च गुणाश्चेति दशविधानि कारणानि ज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्च मनोबुद्ध्यहंकाररूपाणि त्रीण्यन्तःकरणानीति त्रयोदशविधानि । ध्यानादिरूपो योगः । धर्मार्थव्यापारो विधिः । स व्रतद्वाररूपेण द्विविधः । भस्मस्नानभस्मशयनोपहारादि व्रतम् । आद्ये प्रसिद्धे । उपहारः षड्विध: । हसितगीतनृत्तहुडुक्कारनमस्कारजपभेदेन । तत्र हसितमट्टहासः । गीतं गान्धर्वशास्त्रप्रकारेण । हुडुक्कारो जिह्वातालुसंयोगान्निष्पाद्यमानो वृषभनादसदृशो नादः । यत्र लौकिका न भवन्ति तत्र चत्वार्येतानि निगूढं प्रयोक्तव्यानि । जपनमस्कारौ प्रसिद्धौ । द्वाराणि कायनस्पन्दनमन्दयानशृङ्गारणातत्कारण-तद्भाषणभेदेन षड्विधानि । असुप्तस्यैव सुप्तलिङ्गप्रदर्शनं कायनम् । वातव्याध्यभिभूतस्येव शरीरावयवानां कम्पनं स्पन्दनम् । उपहतपादेन्द्रियस्येव गमनं मन्दयानम् । रूपयौवनसंपन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तद्वदाचरणं शृङ्गारणा । कार्याकार्यविवेकविकलस्येव लोकनिन्दितकर्मकरणमपि तत्कारणम् । व्याहतापार्थकादिशब्दोच्चारणमपि तद्भाषणम् । दुःखान्तो द्विविधः - अनात्मकः सात्मकश्च । अनात्मकः सर्वदुःखानामत्यन्तोच्छेदः । सात्मकस्तु दृक्क्रियाशक्तिबललक्षगमैश्वर्यम् । तत्र दृक्शक्तिरेकापि विषयभेदात्पञ्चधोपचर्यते । दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति । सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पार्शनादिविषयं ज्ञानं दर्शनम् । अशेषशब्दविषयं ज्ञानं श्रवणम् । निरवशेषशास्त्रविषयं ज्ञानं मननम् । ग्रन्थतोऽर्थतश्चासंदिग्धज्ञानं विज्ञानम् । सर्वज्ञत्वं प्रसिद्धम् । क्रियाशक्तिरेकाऽपि त्रिविधोपचर्यते । मनोजवत्वं कामरूपित्वं विकरणधर्मित्वं चेति । निरतिशयशीघ्रगामित्वं मनोजवत्वम् । कर्मानपेक्ष्य स्वेच्छयैवानन्तशरीरेन्द्रियाधिष्ठातृत्वं कामरूपित्वम् । उपसंहृतशरीरेन्द्रियस्यापि निरतिशयैश्वर्यशालित्वं विकरणधर्मित्वम् । पशुपतिस्तु परमेश्वरः सर्वत्रापि कार्ये निमित्तं पशूनां कर्मानपेक्ष्य स्वेच्छयैव फलप्रदः । निरतिशयस्वातन्त्र्यशालित्वात् । न चैवं कर्मवैयर्थ्यम् ईश्वरेच्छानुगृहीतकर्मणः साफल्यात्, तदननुगृहीतस्य कर्मणः पर्जन्याननुगृहीतकृषिकर्मण इव नैष्फल्येऽपि दोषाभावात् तदनुग्रहसंभावनया कर्मसु प्रवृत्युपपत्तेरिति। एवं पाशुपतानामन्येषां च सांख्यादीनां केवलं निमित्तकारणमीश्वर इति मतमिह निराक्रियते ।
स्वगुणाऽप्रख्यापनेनेति ।
तदप्रख्यापनं कायनस्पन्दनादिभिः ।
तत्रानुमानं तावन्न संभवतीति टीकायां तत्रेत्यस्य पूर्वग्रन्थानुसारेण यद्यपीश्वरस्य निमित्तमात्रत्वमित्यर्थः प्रतिभाति तथापि पराभिमताऽनीश्वरानुमानानि स्वयमुद्भाव्य निराकर्तुकामस्तदर्थं तत्रेत्येतत्तु ईश्वरपरामर्शीति व्याचष्टे-
ईश्वर इत्यर्थ इति ।
किं धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वमिति ।
ननु- घटादिष्वपि संसर्गाभावो नाम संसर्गप्रतियोगिकाभावो न भवति येनात्र संसर्गस्य संसर्गाभावो वा तस्यान्योन्याभावो वेति विकल्पः प्रवर्तेत किंतु घटादिप्रतियोगिकावेव संसर्गाभावान्योन्याभावौ तत्र प्रतियोगिनः संसर्गमारोप्य यस्याभावस्य बुद्धिरिदमिह नास्तीति स संसर्गाभावः । प्रतियोगिनस्तादात्म्यमारोप्य यस्याभावस्य बुद्धिरिदमिदं न भवतीति सऽन्योन्याभाव इत्येव पराभिमतसंसर्गाभावाऽन्योन्याभावभेदः । अतो धर्मविषयत्वसंसर्गाभाव इत्युक्ते- नेत्थं विकल्पपरंपरा प्रवर्ततइति- चेन्न संसर्गाभावान्योन्याभावबुद्ध्योः प्रतियोगितादात्म्यारोपपूर्वकत्वासिद्धेः । तथा हि- भूतले घटो नास्तीति व्यवहारे भूतल इत्यस्य घटेन नान्वयः येन भूतले घटारोपः सिध्येत् किंतु नास्तीत्यनेनान्वयः । एवं व्यवहारानुसारेण प्रतीतिरपि घटप्रतियोगिकभूतलाधिकरणकाभावविषया न तु भूतलाधिकरणकेन प्रतियोगिना विशेषिताभावविषया । एवं घटः पटो न भवतीति व्यवहारेऽपि घटः पट इति यत्तन्नेति नान्वयः येनाधिकरणे प्रतियोगितादात्म्यारोपः सिध्येत्किंतु घट इत्यस्य न भवतीत्यनेनान्वयः योऽयं घटः स पटो न भवतीति। एवं व्यवहारानुसारेण तन्मूलभूतप्रतीतिरपि घटस्याधिकरणस्य पटप्रतियागिकान्योन्याभाववत्त्वविषया न तु घटतादात्म्यापन्नेन प्रतियोगिना विशेषिताभावविषया । एवं सत्येत्र प्रतियोगिनाऽधिकरणेन चाभावो निरूप्यत इति परमतमर्यादाऽपि संगच्छते । किं च यदि घटसंसर्गाभावो घटप्रतियोगिकः तदा घटापसरणानन्तरं भूतले घटो नास्तीति प्रतीतिर्निरालम्बना स्यात् । न हि कदाचित्तत्र स्थितस्यात्यन्ताभावः संभवति नाप्यन्यत्र तदानीं सतः प्रागभावध्वंसौ संभवतः नाप्युत्पादविनाश्यभावान्तरकल्पनं युक्तम् । तद्विकल्पमानं घटसंयोगनाशो-त्पत्तिकाले उत्पद्यते पुनर्घटसंयोजनकाले नश्यतीत्यभ्युपगन्तव्यम् । एवं च सत्यवश्याभ्युपगन्तव्येन घटापसरणघटसंयोजनमध्यवर्तिना संसर्गप्रतियोगिका-भावसामान्येनैव प्रतीतिनिर्वाहे किं सामयिकात्यन्ताभावकल्पनया । अतो घटसंसर्गप्रतियगोकाभावो घटसंसर्गाभाव: घटपटयोः परस्परप्रतियोगिका-भावोऽन्योन्याभाव इत्येव विभागो वक्तव्य प्रत्यभिप्रेत्यैवं विकल्पपरम्परा कृता ।
अथ वेति ।
तत्रानुमानं तावन्न संभवतीति टीकाग्रन्थ तत्रेत्यस्य यः स्वारसिकोऽर्थस्त्यक्तस्तं परिगृह्मोत्तरग्रन्थस्तद्विषयतया योज्यते ।
अस्मिन्व्याख्याने तस्मादनेनास्मिन् ग्रन्थे प्रमाणान्तरमास्थेयमिति टीकाग्रन्थे यदीश्वरस्य निमित्तमात्रत्वे प्रमाणान्तरमास्थेयमित्युक्तं तत्रास्थीयमानमपि न संभवति तदात्मानं स्वयमकुरुतेत्यादिश्रुत्यैव बाधादित्येतावत्पर्यन्तं तात्पर्यं न वक्तव्यं किंतु प्रमाणान्तराकाङ्क्षामात्रपरं तद्व्याख्येयमित्याह-
सामान्यतः श्रुतिव्यतिरिक्तेति ।
व्याप्तेरविशेषादिति ।
ईश्वरो न द्रव्योपादनमिति ।
येन चेतनत्वहेतुनाऽनुमीयते तेनैव तस्य रागादिमत्त्वमप्यनुमातुं शक्यम् । उभयत्रापि मूलभूतव्याप्तेरनुकूलतर्कसद्भावा-ऽसद्भावाभ्यां विशेषाभावात्प्रत्युत रागाद्यनुमान एवानुकूलतर्कः संभवति। संसारिणां रागाद्युपादानतायाम् आत्मत्वमेव प्रयोजकं न तु संसार्यात्मत्वं गौरवादित्येवंरूप इति भावः ।
निरवद्यत्वविशेषविरुद्ध इति ।
साध्यविरुद्धवदनुमानवाद्यभिमतविशेषान्तरविरुद्धोऽपि हेतुर्विरुद्धहेत्वाभास इति भावः ।
तत्राप्यागमप्रामाण्यादिति ।
यद्यागमश्चिरातीतान्निर्व्यापाराद्यागात्स्वर्ग इति बोधयेत् तर्हि तथैवानुमन्येमहि न त्वागमस्तथा बोधयति किंतु यागात्स्वर्ग इत्येतावन्मात्रं बोधयति तनुव्यापारकल्पनायामपि न विरुध्यत इत्यविरोधात्तत्र लोकानुसारेणाऽपूर्वकल्पनं नत्विह तथा रागादिमत्त्वकल्पनं प्रवर्तते निरवद्यत्वादिश्रुतिविरोधादिति भावः ।
यदीश्वर इति ग्रन्थे कारुण्यपर इति विशेषणस्वारस्यमनुसृत्य तेन ग्रन्थेन व्यावर्त्यामितरेतराश्रयदोषपरिहारशङ्कां प्रकारान्तरेण दर्शयति-
अथवेति ।
करुणयैव न कर्मभिरतो नान्योन्याश्रय इति भावः ।
कर्मभिः प्रयोजनैरिति ।
अध्ययनेन वसतीतिवत्फलस्य हेतुत्वविवक्षया तृतीयेति भावः ।
पूर्वकर्म कथमीश्वराप्रवर्तितमीश्वरप्रवर्तनलक्षणं कार्यं करोतीति टीकाग्रन्थो न युक्तः पूर्वकर्मणोऽपीश्वरप्रवर्तितत्वस्य परेणोच्यमानत्वादित्याशङ्क्याह-
ईश्वरेण पूर्वकर्म तावदिति ।
एवं सति प्रवर्तकत्वोपपत्तिमनुक्त्वेति ।
ईश्वरेण पूर्वं कर्म प्रवर्तयितुं न शक्यते कुत्सितफलानुदयप्रसङ्गादित्युक्ता-नुपपत्तिपरिहारार्थमीश्वरस्य प्रवर्तकत्वोपपत्तिमनुक्त्वै परः केवलं कर्मेश्वरयोः प्रवर्त्यप्रवर्तकभावस्यानादितामात्रं यद्यवलम्बेत तदानीमन्धपरम्परादोषमाहेत्यर्थः । प्रवर्तकत्वानुपपत्तिमुक्त्वेति पाठे त्वीश्वरस्य प्रवर्तकत्वानुपपत्तिर्या सिद्धान्तिनोक्ता तदनुवाद: ।
अनुपपत्तिसाम्यादिति ।
ईश्वरस्याद्यतनकर्मणि च प्रवर्तकत्वानुपपत्तेः साम्यादित्यर्थः । अतो यथा केनचिदन्धेन स पटो रक्त इत्युक्ते कुत इदं श्रुतमिति परस्याकाङ्क्षायां स यद्यन्यमन्धं तदुपदेष्टारं ब्रूयात्सोऽप्यनुयुक्तोऽन्यमन्धं सोऽप्यपरमन्धं न कंचिदपि स्वोपदेष्टारं चक्षुष्मन्तं ब्रूयाद् अनयान्धपरम्परया प्राप्तः पटरक्तिमा यथैवाऽप्रामाणिकः एवमियमपि कर्मेश्वरयोः प्रवर्त्यप्रवर्त्तकभावपरम्परोक्तानुपपत्ति-धूननक्षमचक्षुष्मत्स्थानीयश्रुतिमूला यदि न स्यात् तदा कर्मेश्वरयोः प्रवर्त्यप्रवर्तकभावो न प्रामाणिकः स्यादिति भावः ।
भाष्ये प्रधानपुरुषेश्वरत्रयमिति कथमुक्तम् पुरुषाणां बहुत्वादित्याशङ्क्य व्याचष्टे-
पुरुषान् जात्यैकीकृत्येति ।
तथापि प्रवाहनित्यत्वादिति ।
यदि द्रव्यत्वादन्तवत्त्वमनुमीयते तदा सर्वेषां संसारिणामनित्यत्वेऽपि प्रवाहरूपेण संसारस्यानुवृत्तिर्न निवारिता स्यात्तथा च तच्छून्यतायामीश्वरः किमधितिष्ठेत्किंविषये वास्य सर्वज्ञत्वेश्वरत्वं स्यातामिति भाष्योक्तदूषणमलग्नं स्यात् । अत एव हि विद्वत्सु मुच्यमानेषु सर्वदा ब्रह्माण्डलोके जीवानामनन्तत्वादशून्यतेति श्लोकोक्तप्रकारेणाऽशून्यतानिर्वाहोपपत्तिः । द्रव्यत्वादिहेतुना कुसूलनिहितबीजवदेतावन्त एवेति पुरुषाणामियत्तारूप-संख्यावत्त्वानुमाने तु तेषां सर्वेषां क्रमेण मुक्तौ शून्यतापत्तिरिति दूषणं लग्नं भवतीत्यभिप्रेत्य संख्याविशेषानुमानमादृतमित्यर्थः । एतेन- संख्यावत्त्वादेवान्त-वत्त्वमनुमेयं चेदपि प्रधानस्येश्वरस्य जात्यैकीकृतानां पुरुषाणां च त्रित्वसंख्ययाऽन्तवत्त्वमनुमीयतां तेषां प्रतिव्यक्तिगतयैकत्वसंख्यया वा तदनुमीयतामित्यपि शङ्का-निरस्ता तावता सर्वशून्यतायामीश्वरस्य ज्ञेयाधिष्ठेयाभावदूषणावकाशसिद्धेः । तस्मादियन्त एवेति परिच्छिन्नानां जीवानां मध्ये प्रतिकल्पमेकैकस्मिन्नन्तं प्राप्तेऽप्यनाद्यतीतकल्पप्रवाहे सर्वेऽपि जीवा अतीताः स्युरिति कस्य भोगार्थं प्रधानमीश्वरोऽधितिष्ठेत् किंविषया वाऽस्य सर्वज्ञता स्याद् इदानीं सर्वशब्दार्थालाभादिति दूषणसिद्ध्यर्थमियत्तारूपसंख्या-विशेषानुमानमपेक्ष्यते । ननु यद्यतीतेषु कल्पेषु इयत्तापरिच्छेदाभावरूप-मानन्त्यमिष्यते तदा तत्रैव द्रव्यत्वादिहेतोर्व्यभिचारः । यदि नेष्यते तदा जीवानामियत्तारूपसंख्याविशेषवत्त्वेऽप्यतीतकल्पापेक्षयाऽधिकसंख्यावन्तस्त इतीदानीं केषांचित्संसारिणामनुवृत्तेस्तद्भोगार्थमीश्वरस्य प्रधानाधिष्ठातृत्वं सर्वज्ञत्वं चोपपद्यते । अग्रे कदाचित्तदुभयं न स्यादिति चेदिष्टापत्तिः । न हि तत्रानुभवविरोधोऽस्ति। अभ्युपगम्यते च सर्वमुक्तिवादिभिरग्रे तथाभावः । किं च प्रधानपुरुषेश्वराणां त्रयाणामप्यन्तवत्त्वमानुमानिकेश्वरवादिनं प्रत्यापादितं केन हेतुना सर्वेषु पुरुषेष्वप्यतीतेषु प्रधानेश्वरयोरवस्थितिमभ्युपगम्येदं दूषणमुच्यते तस्मादयुक्तमिदं दूषणमिति- चेत् उच्यते । संख्यावन्वेन प्रमेयत्वेन पुरुषाणामियत्तानुमाने सर्वैः पुरुषैरनुभाव्यानि यावन्ति दुःखानि तेषामपि इयत्ता हेतुसाम्यात् सिध्यति सा चेयत्ता एकाद्यष्टादशस्थानगतपरार्द्धमध्य एव किंचित्संख्याविशेषमादाय पर्यवस्यति। ततश्च सर्वैरपि पुरुषैरनादिकालप्रवाहप्रवृत्तेतरशरीरेषु प्रतिशरीरमस्मदाद्यनिर्धार्यसंख्याविशेषाणि दुःख्यान्यनुभूयन्त इत्येतावता कालेन सर्वपुरुषगतानां सर्वेषामपि दुःखानामुच्छेदोऽवश्यम्भावीत्यतो विनैव तत्त्वज्ञानं मुक्तेषु सर्वेषु पुरुषेषु स्वरूपतः स्थितेष्वपीदानीं स्थितेनापि प्रधानेन तेषां भोगार्थं न प्रवर्तनीयम् । नापीश्वरेण तदधिष्ठेयं नापि सृज्यं वस्तु किञ्चित्तेन क्षेत्रमस्तीति दूषणे तात्पर्यम् । यदि तु द्रव्यत्वहेतुनैव संख्याविशेषवत्त्वानुमानमिष्यत इति दुःखानामानन्त्यमभ्युपगम्येत तदा प्रतिपुरुषवर्तिनां दुःखानामियत्तापरिच्छेदाभ्युपगमे क्रमेण भुज्यमानानां तेषां माषराशिन्यायेन स्वयमेव क्षयः स्यादिति मुक्तेस्तत्त्वज्ञानैकसाध्यत्वाभ्युपगमविरोधः । प्रतिपुरुषवर्तिनामपि दुःखानामानन्त्याभ्युपगमे तत्त्वज्ञाने सति योगसामर्थ्याद् बहूनि शरीराणि परिगृह्य भोगेन नाश्यतया पराभ्युपगतानां दुःखानामानन्त्यात्कदापि क्षयो न स्यादिति तत्त्वज्ञानान्मुक्त्यमावप्रसङ्ग इति दूषणं द्रष्टव्यम् ।
सप्तमी च निमित्तार्थेति ।
क्ङिति चेतिसूत्रवद् निमित्तार्था सप्तमी ज्ञापकहेतुपर्यवसितेति भावः ।
ननु घटस्य कुलालवज्जगतोपि केन चित्कर्त्रा भाव्यमिति ईश्वरानुमाने स कर्ता कुलालवदेव रागादिमान् स्यात् कुलालो मृदादिकमिव स्वसंयुक्तमेवाधितिष्ठेद्रूपादिमदेवाधितिष्ठेत् श्रोत्रस्पर्शनादिवद् रूपादिहीनस्याप्य-धिष्ठाने तदधिष्ठानवदेव प्रधानाद्यधिष्ठानमप्यधिष्ठातृभोगार्थं स्यात् कुलालवदेव च जगत्कर्ता शरीरी स्यात् शरीरित्वे च भोगादिमान् स्यात् प्रधानपुरुषेश्वराश्च संख्यावत्त्वात्परिमाणवत्त्वाच्चान्तवन्तः स्युः पुरुषाश्च द्रव्यत्वादिभिः संख्याविशेषवन्तः स्युरित्यनुमानानि साम्येन दृष्टसाधर्म्यमात्रमवलम्ब्य प्रवृत्तानि पर्वतो महानसवद्वह्निमांश्चेत्तद्वदेव व्यञ्जनवानपि स्यादित्येतत्तुल्यानीत्याशङ्क्याह-
सामान्यतो दृष्टानुमानोपन्यासस्त्विति ।
ईदृशेनासारतरेणाप्यनुमानजातेन दूषयितुं शक्यत्वादत्यन्ततुच्छः पक्ष इति द्योतनार्थं तदुपन्यासः । न ह्यस्मादनुमानजातात् कार्यमात्रं कर्तृकारकसाध्य-मित्याद्यनुमाने कश्चिद्विशेषोऽस्ति घटादिषु दृष्टायां कर्तृजन्यतायां लाघवात्कार्यत्व-मेवावच्छेकं न तु घटत्वादिकमननुगमादिति तर्केण दार्ढ्यापादने कार्यमात्रं दानादिवत्संप्रदानजन्यं पर्णपतनादिवदपादानजन्यमिति संप्रदानादिजन्यतायामपि कार्यत्वमेवावच्छेदकं लाघवान्न तु दानत्वादिकमननुगमादिति तर्कदृढीकृतानुमानै-रङ्कुरादिकार्ये कर्तृकारकवत्संप्रदानापादानकारकयेारपि अतीन्द्रिययोः सिद्धिप्रसङ्गा-दिति भावः । ननु सांख्याधिकरणे कारणानि चेतनाधिष्ठानमन्तरेण कार्याणि न जनयन्तीत्यानुमानिकेश्वरसिद्धिरङ्गीकृता इह कथं तद्दूषणं क्रियते नैष दोष: तत्र पूर्वपक्षे मृद्घटादिषु दृष्टं कार्यानुसारिणा कारणेन भाव्यमिति नियममवलम्ब्य सुखदुःखमोहात्मकस्य जगतस्तथाभूतं कारणमनुमिमानं सांख्यं प्रति मृदादिदृष्टान्तेनैवाचेतनस्य जगत्कारणस्य चेतनेनाधिष्ठानमपि सिध्येत् स्वतन्त्रं प्रधानं जगत्कारणमिति निरीश्वरसांख्याभिमतं न सिध्येदित्येतावन्मात्रमुक्तं न तु स्वतन्त्रमीश्वरानुमानमनवद्यमिति तेन नेश्वर: प्रसाधितः ॥
इति सप्तमं पत्यधिकरणम् ॥
उत्पत्त्यसंभवात् ॥ ४२ ॥ विष्णुभागवता मन्यन्ते - भगवान् नारायणः परं ब्रह्म स वासुदेवादि-चतुर्व्यूहात्मनाऽवतिष्ठते तत्र वासुदेव: परिपूर्णषाड्गुण्यशाली षड्गुणाश्च ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि चेतनाचेतनात्मकसकलप्रपञ्चाहम्भावोल्लेखितया सामान्यतो विशेषतश्च सकलवस्तुगोचरं तस्य ज्ञानं ज्ञानमुच्यते । जगत्प्रकृतिभावः शक्तिः । जगत्सृजतोऽस्य श्रमाभावस्तिलकालकवदप्रयत्नेन स्वसृष्टसकलजगद्भरणं च बलम् । अप्रतिहतेच्छत्वमैश्वर्यम् । जगत्प्रकृतित्वेऽपि पयसो दधिभावेनेव विकारविरहो वीर्यम् । जगत्सृष्टौ सहकार्यनपेक्षत्वं पराभिभवसामर्थ्यं च तेजः । ततो ज्ञानबलोन्मेषेण संकर्षणस्ततो वीर्यैश्वर्योन्मेषेण प्रद्युम्नस्ततः शक्तितेजः समुन्मेषेण अनिरुद्धो जायते संकर्षणादयश्च जीवमनोहंकाररूपा इति तन्मतम् । तन्निरासस्य पूर्वाधिकरणेन संगतिमाह-
अधिष्ठातैवेति ।
ननु कापिलपातञ्जलस्मृतिप्रामाण्यनिरसनानन्तरं कर्तृगौरवेण विशेषेण पाञ्चरात्रप्रामाण्यनिरसनं पूर्वपादएव सङ्गतमित्याशङ्क्याह-
अवान्तरसंगतिवशादिति ।
ननु यदि पाञ्चरात्रं बुद्धिपूर्वा कृतिर्निःश्वसितकल्पा श्रुतिरबुद्धिपूर्वा तर्हि विपरीतं बलाबलम् । अबुद्धिपूर्वकस्य हि प्रामाण्यं घुणाक्षरन्यायेन क्वचिद्भवदपि न सार्वत्रिकं भवेत् ।
सर्वज्ञस्य भगवतो बुद्धिपूर्वा कृतिस्तु मूलदार्ढ्यात्सार्वत्रिकं प्रामाण्यमश्नुत इत्याशङ्क्याह-
यावद्धीति ।
अयमर्थः- भगवतो बुद्धिरत्र विष्णुस्मृत्यादिमूलबुद्धिवत् स्मृतिरूपा विवक्षिता उत सर्वज्ञस्य भगवतः प्रत्यक्षं संभवतीति प्रत्यक्षरूपा वा । आद्ये स्मृत्यन्तराणामिव पाञ्चरात्रस्मृतेरपि वेदमूलत्वेन प्रामाण्यं समर्थनीयम् । द्वितीये भगवतः सार्वज्ञ्यं वेदादवगतमिति समर्थनीयम् । पक्षद्वयेऽपि वेदप्रामाण्यमुपजीव्य पाञ्चरात्रस्य प्रामाण्यमुपपादनीयम् । अबुद्धिपूर्वकस्यैव तस्य वक्तृदोषराहित्येन प्रामाण्यमविचलं बुद्धिपूर्वकस्य तु वक्तृदोषसंभावनया प्रामाण्यं न तथा स्थिरम् । यद्यपि वेदावगतसार्वज्ञ्यस्य भ्रान्तिर्न संभवति तथापि वेदविरोधदर्शने सति बुद्धदेशनावत्तदंशे व्यामेाहकत्वशङ्का नापैति सापि शङ्का यद्यपि न भवति तथापि उपजीव्यविरोधे गौणत्वकल्पनमावश्यकमिति। अत्र केचित्पाञ्चरात्रस्य प्रामाण्यमित्थं समर्थयन्ते - एकायनशाखामूलकं पाञ्चरात्रमिति वेदमूलत्वेनैव तस्य प्रामाण्यम् । एकायनशाखामूलत्वं च पाञ्चरात्र एवोक्तं संकर्षणादयस्तु न जीवमनोहंकाराः किंतु तदभिमानिनो भगवद्व्यूहाः तेषां च जननमैच्छिकप्रादुर्भावरूपम् अतो न जीवोत्पत्तिप्रतिपादनाद्वेदविरोधः । न च- तथापि वेदेषु ये गर्भाधानादयः चत्वारिंशत्संस्काराः समाम्नाताः तद्विपरीतास्ते पाञ्चरात्रे विहिता इत्यप्रामाण्यं- शङ्कनीयम् तेषामप्येकायनशाखायामाम्नानाच्छाखा-भेदेन च कर्मणां प्रक्रारभेदस्यान्यत्रापि संप्रतिपन्नत्वात् । अत एव तदनुष्ठातॄणामपि न वैकल्यम् । सर्वेषामपि स्वस्वशाखेाक्तप्रकारकर्मानुष्ठानदर्शनात् । एवमेव तेषां ग्रन्थेषु कण्ठरवेणोक्तम् । तथा यदप्युक्तं गर्भाधानादिदाहान्तसंस्कारान्तराऽसेविनां भागवतानामब्राह्मण्यमिति तत्राप्यज्ञान-मेवापराध्यति न पुनरायुष्मतो दोषः । यत एते वंशपरम्परया वाजसनेयिशाखा-मधीयानाः कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते नातो ब्राह्मण्यात्प्रच्यवन्ते । ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेनैकायन-श्रुतिविहितानेव चत्वारिंशत्संस्कारान् कुर्वते स्वशाखागृह्योक्तमर्थजातमनुतिष्ठन्ति न ते शाखान्तरीयकर्माननुष्ठानेन ब्राह्मण्यात्प्रच्यवन्ते । एवं चतुर्व्यूहं भगवन्तं प्रत्यहं पाञ्चकालिकेनाभिगमनादिपञ्चकेन वार्षशतिकव्रतेन समाराध्य पुरुषः क्लेशैर्मुच्यते । तत्राभिगमनं प्रातर्भगवन्मन्त्रजपस्तुतिनमस्कारादिकम् । तदनन्तरं पूजार्थं पुष्पादिसंपादनमुपादानम् । ततः पूजनमिज्या । अतो भगवच्छास्त्रतदनुगुणपुराणागमश्रवणचिन्तनादिकं स्वाध्यायः । ततः सायंसंध्यानन्तरं भगवति चित्तसमाधानं योग इति। तैः पाञ्चरात्रप्रामाण्यसमर्थनव्याजेन वयं पाञ्चरात्रिण एकायनशाखिन इत्यादिमन्यमानानां ब्राह्मण्यवैकल्यमेव प्रतिष्ठापितम् । तथा हि- ये वाजसनेयिशाखामधीत्य तच्छाखागृह्योक्तप्रकारेण संस्काराननुतिष्ठन्ति तेषां शाखारण्डतयैव ब्राह्मण्यवैकल्यं प्रतिष्ठापितम् । ये तु त्रयीविहितान् संस्कारान् परित्यज्य पाञ्चरात्रविहितानेव संस्काराननुतिष्ठन्ति तेषां वैदिककर्माणि परित्यज्याऽवैदिककर्मानुष्ठानेन तत्प्रतिष्ठापितम् । न ह्येकायनशाखेति काचन शाखा क्वचिदधीयमाना दृश्यते येन तन्मूलतया ते संस्कारा वैदिकाः स्युः । खिलशाखात्वकल्पनं च न प्रमाणमूलम् । अतस्त्रयीविहितसंस्कारविपरीत-संस्कारविधानांशे व्यामोहकत्वं त्रयीधर्मायोग्यानधिकृत्य तद्विधानमिति वा कल्पनीयमित्येषा दिक् । प्रपञ्चस्तु मनोदीपिकायां द्रष्टव्यः ।
व्याख्यातो भाष्य इति ।
आगमसिद्धान्तदिव्यसिद्धान्ततन्त्रसिद्धान्ततन्त्रान्तरसिद्धान्तरूपे चतुर्विधे पाञ्चरात्रे परस्परविप्रतिषेधो मा भूद्वेदनिन्दकपरिग्रहवैदिकसंस्कारवर्जनाऽवैदिक-संस्कारविधानक्षुद्रविद्याबाहुल्यादिभिर्वेदविप्रतिषेधोऽपि भूयान् । स सर्वोऽपि भाष्यगतादिशब्दगृहीतो बोद्धव्य इत्यर्थः । एवमवैदिकत्वादेव वैदिकापरिग्राह्यत्वं पाञ्चरात्रस्योक्तं वैखानसशास्त्रे –bआग्नेयं पाञ्चरात्रं तु दीक्षायुक्तं च तान्त्रिकम् ।bअवैदिकत्वात्तत्तन्त्रं ततो वैखानसेन तु ॥bसौम्येन वैदिकेनैव देवदेवं समर्चयेत् ॥ इत्यादिना ।bअत्र नहिनिन्दान्यायेन वैखानसप्रशंसार्थोऽयमर्थवाद इति केषांचित्समाधान-मसाधु । अर्थवादेऽप्यवैदिकत्वहेतूक्तिसामर्थ्येन वेदाऽनधिकृतविषयत्वसिद्धेर-निवारणात् । दृष्टं हि पर्वचतुष्टययुक्ते चातुर्मास्ये द्वयेाः प्रणयन्तीति द्वयोः पर्वणेारपूर्वाग्निप्रणयनान्तरविधानस्य तस्माद् द्वाभ्यामेतीति गमनसाधनत्वप्रतिपाद-कार्थवादवशादूरु वा एतौ यज्ञस्य यद्वरुणप्रघासः साकमेधश्चेत्यूरुसंस्तुतवरुण-प्रघाससाकमेधाख्यपर्वद्वयविषयतया व्यवस्थानम् । एवं च सिद्धवदवैदिकत्वकीर्तनमेव पाञ्चरात्रस्य एकायनशाखामूलत्वकल्पनमपि तुच्छीकरोतीत्यलं प्रपञ्चेन ॥
इत्यष्टममुत्पत्त्यधिकरणम् ॥
इतिश्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ वेदान्तकल्पतरुपरिमले द्वितीयस्या-ध्यायस्य द्वितीयः पादः ॥
॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥ न वियदश्रुतेः ॥ १ ॥ पादार्थमाह-
इहेति ।
भूतविषयवाक्यविरोधपरिहार एव पादार्थः । भोक्तृविषयवाक्यविरोध-परिहारस्तु तत्प्रसङ्गागत इति नार्थभेदात्पादभेदप्रसङ्गः । ननु वाक्यानां परस्परविरोधसमाधानेन वाक्यार्थावधारणया समन्वये स्थिते तत्र मानान्तरविरोधसमाधानार्थो द्वितीयोऽध्यायः ।
अस्मिन् वियदादिसृष्टिवाक्यविरोधपरिहारस्य नास्ति सङ्गतिरित्याशङ्क्य विप्रतिषेध-प्रसङ्गागतोऽयमिह तत्परिहार इति प्रदर्शनार्थं विप्रतिषेधाच्चेति भाष्यमित्याह-
प्रासङ्गिकीमिति ।
श्रुतिविप्रतिषेधादित्यर्थ इति ।
ननु कारणविषयश्रुतिविप्रतिषेधे इव कार्यविषयश्रुतिविप्रतिषेधेऽपि समाधानं कृतमेव कारणत्वेन चाकाशादि (ब्र. अ. १ पा, ४ सू. १४) ष्वित्यधिकरणे । तत्र हि सूत्रस्य एकां योजनामाश्रित्याकाशादिकार्येषु विगानेऽपि ब्रह्मणः कारणत्वे विगानं नास्ति। अकल्पितकारणवस्तुप्रतिपत्त्युपायतया कल्पितेषु तात्पर्याऽ-विषयेषु कार्येषु विगानं तु न दोष इति कार्यविगानमभ्युपेत्यैकं समाधानं कृतम् । योजनान्तरमाश्रित्य कार्यविगानस्य दोषत्वेऽपि तदिह नास्ति दण्डचक्रादिघृतपूर्णान्तकार्यकर्तृविषययावत्कार्यकर्तृत्वकतिपयकार्यकर्तृत्वानुवादकवाक्यद्वयवत् तैत्तिरीयकच्छान्दोग्यश्रुत्योः प्रामाण्योपपत्तेरित्यपरं समाधानं कृतं किमधिकमिह कर्त्तव्यं समाधानमवशिष्यते । उच्यते । छान्दोग्ये तैत्तिरीयकश्रुतावाकाशवायूपसंहारमनपेक्ष्य तत्र द्वितीयसमाधानं कृतम् । इह तु तदुपसंहारमप्याश्रित्य तत्र सम्भावितशङ्कानिराकरणेन समाधानान्तरं कर्तुमयमारम्भः ।
परपक्षेषु सर्वत्रेति ।
यद्यपि स्ववचनविरोध इव श्रुतिविरोधोऽपि न सर्वेषु परपक्षेषु निराकरणहेतुः बौद्धार्हतपक्षनिराकरणे तान् प्रति श्रुतिविरोधस्य हेतुकरणायोगात् तथापि तेषामपि पक्षाः श्रुतिविरुद्धा इति कृत्वाऽस्माभिर्निरस्यन्त इति श्रुतिविरोधो निरसनीयत्वे सार्वत्रिको हेतुर्भवतीति भावः ।
न वियदिति ।
यद्यप्यस्तीति सूत्रमाचार्यैः सिद्धान्तसूत्रमिति वक्ष्यते तथापि न वियदिति पूर्वपक्षसूत्रमस्ति त्विति सिद्धान्तसूत्रमिति विशिष्टार्थाभिप्रायेण भ्रमत्वमुक्तम् । ननु- किमर्थं तत्र भ्रमत्वमुच्यते तथैवास्तु को दोष: अनुत्पत्तिं पूर्वपक्षं कृत्वोत्पत्तिसमर्थनेऽपि ह्यनुत्पत्तिशङ्केवोत्पत्त्यनुत्पत्तिश्रुतिविप्रतिषेधशङ्कापि निरस्ता भवतीति फलितमर्थमादाय प्रागुक्ता प्रसङ्गसङ्गतिरुपपद्यते । यथा गुणोपसंहारफलाया विद्याभेदाभेदचिन्ताया गुणोपसंहारपादसङ्गतिः एवं न वियदिति सूत्रस्य पूर्वपक्षसूत्रतायामश्रुतेरित्यस्य वियदुत्पत्तिप्रतिपादनक्षम-श्रुत्यभावादित्यर्थ इति नाश्रुतौ क्काचित्कत्वसार्वत्रिकत्वविकल्पावकाशः वक्ष्यमाणासम्भवादिहेतुबलेन विशिष्टयश्रुत्यभावस्य सार्वत्रिकत्वात् । इदं सिद्धान्त्येकदेशिसूत्रमिति पक्षेऽपि हि मुख्यश्रुत्यभावादित्यर्थ इत्याचार्यैरयमेवार्थः स्फुटीकरिष्यत इति- चेत् सत्यम् तथापि साक्षान्निराकरणीयं पूर्वपक्षं प्रापप्य तत्र सिद्धान्त्येकदेशिनः परिहारं प्रथमं प्रदर्श्य तस्यापि निराकरणेन परमसिद्धान्तप्रदर्शनं क्रियत इत्येवं सूत्राणां प्रसक्तपूर्वपक्षनिराकरणार्थत्वे सम्भवति अप्रसक्तपूर्वपक्षान्तरनिराकरणार्थत्वं सूत्राणामङ्गीकृत्य तेन फलतः प्रसक्तपूर्वपक्षनिराकरणसिद्ध्यङ्गीकारो न युक्त इति तात्पर्यम् । एवं तर्हि प्रसक्तो विप्रतिषेधपूर्वपक्ष उत्सूत्रो मा भूद् ।
आद्यसूत्रद्वयं तत्प्रदर्शनार्थं गौण्यसम्भवा (ब्र. अ. २ पा. ३ सू. ३) दित्यादिसूत्रत्रयमेव सिद्धान्त्येकदेशिमतप्रदर्शनार्थमित्यस्त्विति ये मन्यन्ते तन्मतं दूषयितुमुपन्यस्यति-
केचित्त्विति ।
दूषयति-
किमश्रुतेरिति ।
अत्रेदं वक्तव्यम्- क्वाचित्क एवायमश्रुतेरिति हेतुः न श्रूयते हि छान्दोग्ये सृष्टिप्रक्रियायामन्नेन शुङ्गेनेत्यादिकार्यलिङ्गकतत्तदव्यवहितकारणानुमानप्रक्रियायां च कार्यत्वेन वियत् । न चात्र तदुपसंहारः शक्य इति भाष्य एव स्पष्टमुक्तम् । एवं तावच्छान्दोग्यश्रुतिरश्रवणलिङ्गवती उपसंहारमप्यसहमाना वियदुत्पत्त्य-सम्भवाद्यनुगृहीता तदुत्पत्तिं प्रतिक्षिपतीत्ययमर्थो न वियदिति सूत्रेणोच्यते तैत्तिरीयकश्रुतिः सर्वविज्ञानप्रतिज्ञाद्यनुगृहीता तां व्यवस्थापयतीत्ययमर्थोऽस्ति त्विति सूत्रेणोच्यते । एवं श्रुतिप्रतिषेधपूर्वपक्षे सूत्रद्वयेन पर्यवसिते सर्वविज्ञानप्रतिज्ञानमन्यथासिद्धम् असम्भवादिकमेव त्वनन्यथासिद्धमिति मन्यमानस्य वियदनुत्पत्तिवादिनः सिद्धान्त्येकदेशिनो मतं सूत्रत्रयेणोच्यत इत्यङ्गीकारेऽपि न काचिदनुपपत्तिरिति।
अस्ति त्वित्यपि सूत्रं निगूढाभिसंधेः सिद्धान्तिन एवेति ।
ननु अस्य सूत्रस्य सिद्धान्तसूत्रत्वमङ्गीकृत्य सिद्धान्ताभिप्रायानभिव्यक्त्य-पेक्षमौपचारिकं पूर्वपक्षसूत्रत्वकथनमिति क्लिष्टयोजना किमर्थं क्रियते पूर्वपक्षसूत्रमेवेदमस्तु एतत्सूत्रव्याख्यानानन्तरं हि भाष्ये ततश्च श्रुत्योर्विरोध इत्यादिना श्रुतिविप्रतिषेधपूर्वपक्षो दर्शितः । तदनन्तरं च तस्मिन् विप्रतिषेधे कश्चिदाहेतीत्युत्तरसूत्रावतारणं च कृतं टीकायामप्येतत्सूत्रव्याख्यानावसानएव तस्मात्सर्वाः श्रुतयः परस्परविरोधिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्ष इति विप्रतिषेधपूर्वपक्षोपसंहारः कृतः । सत्यम् टीकायां न विदिति सूत्रं सिद्धान्त्येकदेशिन इत्युपक्रान्तं तस्य च प्रागेव विप्रतिषेधपूर्वपक्षप्राप्तौ सत्यामुत्थानं वाच्यम् । न च विप्रतिषेधपूर्वपक्षनिराकरणार्थं सिद्धान्त्येकदेशिमते प्रवर्तिते तदनन्तरमेव पूर्वपक्षोत्थानमिति युज्यते । न चाद्यसूत्रे सिद्धान्त्येकदेशिसूत्रत्वेन बहिर्भूते सति केवलेन द्वितीयसूत्रेण विप्रतिषेधपूर्वपक्षोपि लम्भयितुं शक्यते । तस्माद्बहिःष्ठ एव पूर्वपक्ष: सिद्धान्त्येकदेशिसिद्धान्तिसूत्राभ्यां निगूढस्वस्वाभिसंधिभ्यां स्पष्टीकृतो जात इत्येतावता सूत्रद्वयव्याख्यानानन्तरं भाष्यादिषु पूर्वपक्षस्फुटीकरणमिति तात्पर्यम् ॥५॥
स्थालादिवचनत्वमिति ।
(स्थालं भोजनपात्रम्) ।b स्थालंऽभोजनपात्रे स्यादुखायां तु सा स्त्रियाम् । bस्थाली ना तु महादेव इति नैघण्टुका विदुः ॥
षष्ठी तृतीयार्थे इति ।
पूरणगुणेत्यादिसूत्रेण पूरणार्थयेागे षष्ठीसमासनिषेधाज्ज्ञापकात् तृतीयार्थे षष्ठी ।
न केवलं विरोधादाकाशजन्माभावकल्पनेति ।
छान्दोग्यश्रुतावाकाशस्य जन्माभावो न कल्पनीय इति यद् इदं तैत्तिरीयश्रुतिविरोधमात्रान्न भवति किंतु छान्दोग्यश्रुतेः क्वचिदप्युपयेागा-भावादपीत्याहेत्यर्थः ।
ननूपयोगाभावो न च श्रुतेन तदपबाधने इत्यादिग्रन्थे-नोच्यते ततः पूर्वस्तु लभ्यमित्यन्तग्रन्थः संसर्गः श्रौतः भेदस्त्वार्थ इति ग्रन्थेन पुनरुक्त इत्याशङ्क्य तदनुवादकत्वमाह-
तत्रापीति ।
पूर्वोक्तविरोधानुवाद एवेति ।
श्रुतिविरोधेनार्थिकस्य बाध्यत्वं यदुक्तं तस्यार्थिकत्वोक्तिमुखेनानुवाद इत्यर्थः ।
वाक्यद्रयमनुमीयत इति ।
श्रुतकल्पिताभ्यां तेजोवियत्सृष्टिवाक्याभ्यां तद्वित्वमनुमीयत इत्यर्थः ।
उपसंहारोदाहरणान्तराभिप्रायमिति ।
उपसंहारे उदाहरणान्तरं तद्वायुमसृजतेति कल्प्यं वाक्यं तेन सह त्रित्वाद्बहुवचनमित्यर्थः ।
वियदुत्पत्त्यभ्युपगमेनेति ।
सिद्धान्त्येकदेशिनं प्रति प्रतिज्ञाहानिरव्यतिरेकादितित्युक्तां वियदुत्पत्तिम-भ्युपगमय्य सत्यं दर्शितं विरुद्धं तु तदित्यादिना श्रुतिविप्रतिषेधवादिनं पूर्वपक्षिणमुत्थाप्य तन्निराकरणे प्रस्तुते सिद्धान्त्येकदेशिनं प्रति वक्तव्यस्य वियदुत्पत्तौ हेत्वन्तरस्य कथनमिहासंगतमित्यर्थः । यदि तु अपि च च्छान्दोग्यइत्यादिभाष्यग्रन्थो वियदुत्पत्तौ हेत्वन्तरप्रतिपादनार्थो न भवति किंतु प्रस्तुते वियत्तेजःप्राथम्यश्रुतिविप्रतिषेधनिराकरण एव । पूर्वं हि छन्दोगश्रुतेः तैत्तिरीयश्रुत्यनुवर्तनमर्थतः श्रुतेर्बलीयस्त्वात् श्रुतिविरोधाभावात्क्रमेण पदार्थबाधायोगाच्च समर्थितम् इदानीं छन्दोगश्रुत्या वियदुपसंहारस्य स्वयमेवापेक्षितत्वादपि तदनुवर्तनं समर्थ्यत इत्येवं यदि व्याख्यायेत तदा प्रस्तुतग्रन्थेनैवैकवाक्यतेति न सिंहावलोकितन्यायापेक्षेति द्रष्टव्यम् ।
पराधीनसत्ताका इत्यर्थ इति ।
नन्वेवं- सत्यविद्यावदेव वियतोऽपि स्वतः सत्ताराहित्येनाध्यस्तत्वमात्रं सिध्यति न कार्यत्वमिति- चेत् मा सैत्सीदितोऽनुमानात् कार्यत्वं संभूतश्रुत्या हि तत्सिद्धिरभिमता । किमर्थं तर्हीदं सूत्रसूचितमनुमानम् संभूतश्रुतिगौणत्वा-पादकासंभवशङ्कानिराकरणार्थं तथैव च भाष्ये सूत्रमवतारितम् असंभवशङ्का च समवायिकारणाद्यभावप्रयुक्ता पूर्वोत्तरकालयोर्विशेषाभावप्रयुक्ता वाऽध्यस्तत्वसिद्धा निवर्ततएव अध्यस्तरजतादिषु रजतावयवतत्संयोगाद्यारम्भकाऽनपेक्षणाद् अध्यस्तस्य ज्ञाननिवर्त्यत्वनियमेन निवृत्त्यनन्तरकालइवोत्पत्तिपूर्वकालेऽपि वियत्कृतविशेषाभावोपपत्तेश्च । उत्पत्तिराहित्यानुमानानि तु हेत्वसिद्धप्रयोजकत्वा-दिदोषपराहतानीति स्पष्टमेव । अविद्यादावित्यादिशब्देन षडस्माकमनादय इत्युक्तजीवेश्वराद्यन्तरसंग्रहः ।
ननु जीवेश्वरौ स्वरूपतः सत्यौ न पराधीनसत्ताकाविति तयोर्व्यभिचारतादवस्थ्यमित्याशङ्क्याह-
जीवेश्वराद्यपीति ।
आदिशब्देन वैराजाद्यैश्वररूपान्तरसंग्रहः । विभागविशिष्टरूपं विना स्वरुपमात्रविवक्षायां तु तत्र धर्मिसमसत्ताकविभागरूपो हेतुरपि नास्तीति न व्यभिचार इति द्रष्टव्यम् ।
आत्मान्यत्वे सतीत्यस्य हेतुविशेषणत्वे विशेष्यांशवैयर्थ्यमाशङ्क्य विभक्तत्वहेत्वसिद्धिपरिहारार्थत्वेन योजयति-
नन्वद्वैतवादिन इति ।
आत्मवादे चेति ।
आत्मवादे चात्मनो निराकरणशङ्कानुपपत्तिरिति यदेतद्भाष्यं तत्रात्मवादे चेत्येतदुपादानवादे चेत्येतत्परतया व्याख्येयमित्यर्थः । आत्मवादे चेत्येतदनन्तरम् उपादानवादे चेति प्रतिपदनिर्देशेन टीकायां दर्शिते इत्यर्थः । क्वचिदात्मत्वादेवोपादान-त्वादेवेति व्याख्येयमित्यर्थ इति पाठो दृश्यते स पाठ आत्मत्वादेव चात्मनो निराकरणशङ्कानुपपत्तिरिति भाष्यपाठमनुसृत्य तस्मिन् पाठे टीकायामात्मवादे चेति स्वकीयस्यैव शब्दस्योपादानवादे चेति विवरणं तेन भाष्यस्थमात्मत्वादिति पदमुपादानत्वादित्यर्थकं व्याख्येयमित्यर्थात्सूचितं भवतीत्यर्थः ।
यथा भवतामिति ।
न्यायमते क्षीरमविनष्टं न दध्याकारेण परिणमते किं त्ववयवसंयोगनाशात् क्षीरे नष्टे तदारम्भकपरमाणुषु रसान्तरोत्पत्तौ सत्यां द्व्यणुकादिप्रक्रियया दधिरुपद्रव्यान्तरारम्भ इति। तथैवाक्षपादसूत्रं- न पयसः परिणामो गुणान्तरप्रादुर्भावाद् व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानमिति। दध्यविनष्टस्य पयसः परिणामो न भवति तद्रसविरुद्धरसान्तरप्रादुर्भावादिति प्रथमसूत्रार्थः । घटपटादिषु सर्वत्र कुतश्चिद् द्रव्याद् द्रव्यान्तरस्योत्पत्तिः व्यूहान्तरादवयवसंयोगान्तरादिति दृश्यते तदेतत्पूर्वद्रव्यनिवृत्तौ क्षीरविनाशस्यानु-मापकं क्षीरावयवानां संयोगान्तरं पूर्वसंयोगविनाशं विना न संभवति तद्विनाशे च क्षीरविनाशोऽवश्यम्भावी असमवायिकारणविनाशे सति कार्यस्थित्यसंभवादिति द्वितीयसूत्रार्थः॥७॥
इति प्रथमं वियदधिकरणम् ॥
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
प्रधानेनाऽप्रधानबाधमुक्त्वेति ।
यथा स्वर्गकामवाक्येन प्रधानेन को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेत्यप्रधानस्य फलसंदेहवाक्यस्य बाधस्तथेति भावः ॥८॥
इति द्वितीयं मातरिश्वव्याख्यानाधिकरणम् ॥
असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति न चास्य कश्चिद् जनिता न चाधिपः इति श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते सिद्धान्त्येकदेशिमत-रूपतद्व्यावर्तकपूर्वपक्षान्तरप्रदर्शकं भाष्यं शङ्कोत्तरत्वेनावतारयतीत्याह-
भास्करोक्तेति ।
सन्मात्रं हि ब्रह्मेत्यादिभाष्यस्य सत्सामान्यं ब्रह्मोत्पद्यते चेत्स सामान्यान्तरादुत्पद्यते सद्विशेषादसतो वेति विकल्पत्रयनिरासार्थत्वं प्रतीयते टीकायां त्वेतदुक्तं भवतीति तत्तात्पर्यवर्णनमुपक्रम्यान्यदेवोच्यते कथमनयोर्व्याख्यानव्याख्येयभाव इत्याशङ्क्य यथाश्रुतभाष्यव्याख्यानार्थो न भवति टीकाग्रन्थः किंतु भाष्याशयस्थयुक्त्यन्तरविवरणपर इति द्योतयन्नवतारयति-
अपि च विवर्त्तता हीति ।
ब्रह्म कार्यमिति हि वदन् प्रष्टव्य इति ।
यद्यपि कार्यत्वं विवर्तत्वं चेत्सद्रूपस्य ब्रह्मणः कार्यत्वमेव न संभवतीत्यैकध्येन दूषणं वक्तुं शक्यम् तथापि प्रपञ्चार्थो विकल्पः ।
न द्वितीय इत्याहेति ।
आरम्भपरिणामयोः परं समानसत्ताकयोरुपादानोपादेयभावः न तु विवर्त इत्याशयः ।
न तृतीय इत्याहेति ।
यथाश्रुतभाष्यप्रतीततृतीयविकल्पनिराकरणार्थ एव नाप्यसत इति भाष्यग्रन्थः स्वविकल्पिततृतीयपक्षनिराकरणार्थत्वेनाप्यावृत्त्या टीकाकारैर्योजित इति भाव: ।
अत्र तु विकारस्य सतो ब्रह्मण इति ।
यत्कारणं तत्कार्यमिति नियमेन ब्रह्मणः कारणाभ्युपगमे तदपि कारणं तेनैव नियमेन कार्यं स्यात् कार्यं च विवर्तरूपमित्युक्तम् । ततश्च ब्रह्मणः कारणसद्भावोक्तिः समारोपिते क्वचित्तस्य समारोप इत्यर्थपर्यवसिता भवेत् समारोपिते समारोपश्च क्वचिदपि न प्रमित इत्यप्रामाणिकमित्यर्थः ।
नन्वसति समारोपो न संभवतीति माध्यमिकमतनिषेधे समर्थितं न तु समारोपिते समारोपो न संभवतीत्यत आह-
माध्यमिकेति ।
तत्र हि यथा शुक्तिकेयमित्यन्यत्तत्त्वमनधिगम्य प्रत्यक्षावगतं रजतं न निषिध्यते एवं प्रत्यक्षादिप्रमितः प्रपञ्चोऽन्यदधिष्ठानतत्त्वमनधिगम्य निषेद्धुं न शक्यते अधिष्ठानत्वावगमकबाधकप्रमाणानुदये प्रत्यक्षादीनां प्रामाण्याविघातेन तैरेव स्वविषयनिषेधमसहमानैर्विरोधात् । अतो बाधकप्रमाणावगम्येन तात्त्विकाधिष्ठानेन भाव्यमित्युपपादितम् । इदमुपपादनमसति समारोपस्येव समारोपिते समारोपस्यापि निषेधकं भवतीति भावः ।
अपरमार्थवचन इति ।
समारोपितवचन इत्यर्थः । अनेन च निरधिष्ठानभ्रमपरम्परानादितेत्याहेति प्राचीनटीकाग्रन्थेऽपि निरधिष्ठानशब्दः समारोपिताधिष्ठानपर इत्यर्थाद्व्याख्यातम् ।
अध्याहारः क्लेश इति ।
स्वमते सतो ब्रह्मणः असंभवः उत्पत्त्यभाव उत्पत्त्यनुपपत्तेरिति सूत्रयोजना । अत्राबुद्धिस्थस्य कस्यापि नाध्याहारः प्रतिज्ञाहानिरव्यतिरेका (ब्र. अ. २ पा. ३ सू. ६) दित्यत्र यदव्यतिरेकः कृत्स्नस्य जगतोऽनूदितः तत्सद्रूपं ब्रह्म बुद्धिस्थम् । वियन्मातरिश्वनोः समर्थितोत्पत्तिरपि इह निषेध्यबुद्धिस्था सैवाऽनुपपत्तेरित्यत्राऽनुपपद्यमाना प्रतियोगिनी बुद्धिस्थेति। परमते तु गुणादिकं नित्यत्वं चाबुद्धिस्थम् अद्वितीयश्रुतिरप्युत्पत्तिवद् नाव्यवहितबुद्धिस्थेति तदध्याहारक्लेशः । पूर्वाधिकरणार्थ एवात्राक्षिप्यत इति। पूर्वाधिकरणाक्षेपसमाधानार्थत्वासङ्गतिरेव संगतिरिति भावः ।
पूर्वपक्षाभासेति ।
आकाशस्य तावदनुत्पत्तिर्न्यायशास्त्रादिसिद्धा भूगोलकादीनामपि न कदाचिदनीदृशं जगदिति सर्गप्रलयानभ्युपगन्तृमते प्रसिद्धा । एवमुत्पत्तिरहितत्वेन प्रसिद्धानामाकाशादीनामुत्पत्त्यभिधानं सर्वकार्योपलक्षणार्थमिति नैकदेशोपादान-वैयर्थ्यं न चेतरपरिसंख्यानमिति स्पष्टमेव । अतो न पूर्वाधिकरणाक्षेपावकाश इति भावः ॥९॥
इति तृतीयमसंभवाधिकरणम् ॥
तेजोतस्तथा ह्याह ॥ १० ॥ अत्र पूर्वपक्षसंभावनार्थमिति सिद्धान्त्येकदेशिमतमिह पूर्वपक्षत्वेन व्यपदिष्टम् । तत्तेजोऽसृजत वायोरग्निरिति श्रुत्योर्विरोध इति पूर्वपक्ष: प्रागेव द्रष्टव्यः ।
तदीयषोडश्याख्येति ।
षोडशिपात्रस्य खादिरत्वमप्यूर्ध्वपात्रान्तरेभ्योऽधिकं यूपसादृश्यमस्तीति विशिष्य षोडशिपात्रग्रहणम् । एवं च वाजपेयाङ्गत्वेन विधीयमानस्य सप्तदशारत्नित्वस्य साक्षाद्वाजपेयाख्ययागक्रियान्वयाऽयोगात्तदङ्गत्वनिर्वाहार्थं वाजपेयान्वय्यरत्निसंबन्धयोग्यकिञ्चिद्रव्यापेक्षायां यूपस्य वाजपेयानन्वयित्वात् षोडशिपात्रस्य प्रदेयसेामरसधारणद्वारा वाजपेयान्वयात्तत्संबन्धः सप्तदशारत्नि-त्वस्य वाजपेयाङ्गत्वश्रुत्याऽर्थप्रायो गौणेन यूपशब्देनानुद्यत इत्यर्थः ।
तदङ्गगतयूप इति ।
वाजपेयाङ्गभूता ये पशवस्तद्गते तदङ्गे यूपे सप्तदशारत्नित्वं विधीयते । वाजपेयस्येति शब्दस्तु तस्य प्रकरणप्राप्तवाजपेयसंबन्धानुवादकः । यद्यपीतिकर्तव्यताकाङ्क्षालक्षणप्रक्ररणेन तस्य वाजपेयसंबन्धो न प्राप्नोति वाजपेयाङ्गगतस्य तस्य तदितिकर्तव्यताकाङ्क्षापूरकत्वाभावात् तथाप्यधिकार-लक्षणप्रकरणात् तस्य वाजपेयेन परम्परासंबन्ध: प्राप्नोतीति स वाजपेयस्येत्यनेनानूद्यत इति भाव: ।
वास्तवाऽभेदादिति ।
वायौ कारणत्वेनानुगतं यद् ब्रह्मरूपं तदभिप्रायमिदमभेदकथनम् न तु विकारांशाभिप्रायम् । अध्यस्तस्य तस्य तात्त्विकब्रह्माभेदायोगात् वायुभावापन्नस्य ब्रह्मण एव तेजःकल्पनाधिष्ठानत्वस्यानुपदं वक्ष्यमाणत्वाच्च ।
पञ्चम्यनुग्रहायेति ।
वायोरिति पञ्चम्या वायोस्तेजसि मृदो घटइवोपादानत्वं प्रतीयते तच्च वायुरुपविकारानुगतस्य ब्रह्मणोऽधिष्ठानत्वएवोपपद्यते न विकारान्तरानुगतस्य केवलस्य वेति भावः ।
तद्भावापन्नेति ।
तत्राधिष्ठानत्वेन सत इत्यर्थः ।
लोके कस्यचिच्छिष्यस्येति ।
अधिकश्च गुणः साधारण्येऽविरोधात् कांस्यभोजिवदमुख्येपी (जै. अ. १२ पा. २ सू. ३४) ति पूर्वतन्त्राधिकरणे चिन्तितम्- आग्रयणे आग्नेयैन्द्राग्नादयो यागाः श्रुताः । तत्र द्यावापृथिव्य एककपालोऽपि श्रुतः स च वैश्वदेवपर्वगतैककपालयागप्रकृतिक इति ततः प्रसूनं बर्हिः प्राप्नोति प्रसूनं पुष्पितं लूनं पुनर्जातं वा । आग्नेयादीनां तु प्रसूनमप्रसूनं वेत्यनियतं बर्हिः । तत्राग्नेयादीनां मुख्यत्वात्तदनुरोधेनानियमे प्राप्ते सिद्धान्तः । प्रसूनबर्हिरुपादानेपि मुख्यानामप्याग्नेयादीनां न किंचिद्वैकल्यम् । अप्रसूनबर्हिरुपादाने त्वेककपाल-स्यास्ति वैकल्यम् अतस्तमनुरुध्य प्रसूनमेव बर्हिरुपादेयमिति अत्र सूत्रकृता दृष्टान्तीकृत: कांस्यभोजिन्याय इह विवृतः ॥१०॥
इति चतुर्थं तेजोधिकरणम् ॥
आपः ॥ ११ ॥ अतिदेशाधिकरणमिदम् । एतस्माज्जायतइत्युपक्रम्य खं वायुर्ज्योतिराप इति श्रुत्या ब्रह्मजत्वमपां प्रतीतम् । आग्नेय इति कारकपञ्चमीश्रुत्या तेजोयोनित्वं तच्छ्रुत्योर्विरोध इति पूर्वपक्ष: । स इदं सर्वमसृजतेत्यादिबहुश्रुत्यनुसारेण पञ्चमी क्रमार्थेति श्रुत्योरविरोध इत्येकदेशिमतम् । ब्रह्मतेजसोर्वास्तवाऽभेदा-त्तेजोयोनित्वेऽपि ब्रह्मजत्वमविरुद्धम् । तस्मादापः कारकपञ्चम्या तेजोयोनय इत्यधिकरणशरीरं सर्व पूर्ववत् । अधिकाशङ्कानिरासप्रकारमाह-
अत्रिवृत्कृतेति ।
अत्रिवृत्कृतयोरप्तेजसोर्विरोधग्राहकप्रमाणाभावादविरुद्धत्वसिद्धिः ॥
इति पञ्चममबधिकरणम् ॥
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥ ता अन्नमसृजन्त अद्भ्यः पृथिवी इति श्रुत्योर्विरोधः । अपां व्रीहियवादीनां च वाचकयोरन्यतरलक्षणायां विनिगमनाविरहादिति पूर्वपक्षे सिद्धान्त्येकदेशिमतं परमसिद्धान्तव्यावर्तनीयत्वात्पूर्वपक्ष इति टीकायां व्यवहृतम् । अत्र व्युत्पत्तिप्रसिद्धयोर्भेदमाह-
योगवृत्त्येति । रूढ्येति च ।
साभ्यासपृथिवीश्रुत्येति ।
अद्भ्यः पृथिवी पृथिव्या ओषधय इत्येकस्मिन्प्रकरणे पृथिवीशब्दद्वयश्रवणं यदपां शर इति श्रुत्यन्तरे पृथिवीशब्दश्रवणं चाभ्यासोक्त्या संगृहीतं वर्षनिमित्तबहुभावापत्तिलिङ्गान्यथोपपत्तिप्रदर्शकम् ।
अन्यथाप्युपपत्तेरित्येतद् व्याचष्टे-
अन्यथा पार्थिवव्रीह्यादिपरत्वेनाप्युपपत्तेरिति ।
व्रीह्मादीनां पार्थिवत्वात्तेषामद्भ्यो जननोक्त्या पृथिव्या एवाद्भ्यो जननमुक्तं भवतीत्यर्थः । अन्यथा पृथिवीपरत्वेनाप्युपपत्तेरिति पाठेऽप्यत्रैवार्थे पर्यवसानम् ॥१२॥
इति षष्ठं पृथिव्यधिकरणम् ॥
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
ईक्षत्याद्यधिकरणैरिति ।
ईक्षत्यधिकरणे श्रुतत्वाच्चेति (ब्र. अ. १ पा. ४ सू. १६) सूत्रे स करणाधिपाधिप इति श्रुतिमुदाहृत्य परमेश्वरस्य जगत्कारणत्वं प्रसाधितम् आनन्दमयाधिकरणे च तद्धेतुव्यपदेशाच्चेति (ब्र. अ. १ पा. १ सू. १४) सूत्रे इदं सर्वमसृजत यदिदं किंचेति श्रुतिमुदाहृत्य तत्र जगत्कर्तृत्वलिङ्गसमन्वयो दर्शित: बालाक्यधिकरणे (ब्र. अ. ३ पा. २ सू. ३६) च यो वै बालाकि: एतेषां पुरुषाणां कर्ता यस्य चेतत्कर्म स वै वेदितव्य इति श्रुतिमुदाहृत्य तत्र तत्समन्वयो दर्शितः । कर्तृत्वं च सकलकारकान्तरप्रयोक्तृत्वम् । तेन परमेश्वरानधिष्ठितानां भूतानां स्रष्टृत्वनिषेधो लब्धः । साक्षाच्च सांख्याधिकरणेन (ब्र. अ. १ पा. ४ सू. १) प्रधानस्य चेतनाधिष्ठानाभावे जगद्रचयितृत्वासंभवो मृदादिदृष्टान्तेन समर्थितः । स न्यायो भूतेष्वपि तुल्यः । यद्यपि तस्य न्यायस्य पाशुपताद्यधिकरणो (ब्र. अ. पा. २ सू. ३७) क्तप्रतिन्यायैः पराहत्या स्वातन्त्र्येण नार्थसाधनक्षमता तथापि श्रुतिमनुग्राह्य प्रमाणं प्रविष्टस्य तस्य वनप्रविष्टृसिंहन्यायेन बलवत्वात्सास्त्येव शरणम् । एवमीक्षत्याद्यधिकरणैर्गतार्थः ।
इत्याशङ्कामपनयन्निति ।
इत्थमाशङ्कापनयनं यथात्मन आकाश इत्यत्रात्मनः स्वातन्त्र्यमेवमाकाशा-द्वायुरित्यादिष्वप्याकाशादीनां स्वातन्त्र्यमुतेश्वरपारतन्त्र्यमिति यदिह विचार्यते नेदमन्यत्र विचारितं किंतु स्वातन्त्र्यपूर्वपक्षे यदीक्षत्याद्यधिकरणेषु भूतानां ब्रह्माधिष्ठितानामेव कारणत्वं स्थितं यच्चान्तर्याम्यधिकरणे (ब्र. अ. १ पा. ३ सू. १८) साक्षाद् ब्रह्मणः सर्वनियन्तृत्वं स्थितं यच्च तेजोत (ब्र. अ. २ पा. ३ सू. १७) इत्यधिकरणे तत्तद्भूतात्मनाऽवस्थितस्य ब्रह्मण एवोत्तरोत्तरकार्योपादानत्वं स्थितं तस्य सर्वस्याप्यनेनाक्षेपो भवतीति विशेषः ।
पूर्वपक्षमाहेति ।
आकाशद्वायुरित्यादिश्रुतेर्य आकाशे तिष्ठन्नित्यादिश्रुतेश्चाकाशादिस्वातन्त्र्य-पारतन्त्र्यविषयतया विरोद्धेनाप्रामाण्यमिति पादसंगतपूर्वपक्षे प्राप्ते सत्येकदेशिमतरूपं पूर्वपक्षमाहेत्यर्थः ।
आकाशादिशब्दैरिति ।
यथा आत्मन आकाश इति स्वतन्त्रे ह्यात्मनि पञ्चम्यर्थान्वयो दृश्यते तथाऽऽकाशादित्यादिपञ्चम्यन्तोक्तानामपि तत्प्रायपाठेन स्वातन्त्र्यमवगम्यते । न चाऽचेतनानां स्वातन्त्र्यासंभवः । तत्तदभिमानिदेवतार्थपरिग्रहात् यमाकाशो न वेदेत्यादिश्रुतिष्वाकाशादिशब्दानां देवतापरत्वस्य दृष्टत्वात् तत्तेज ऐक्षतेत्यादिच्छान्दोग्यश्रुतावीक्षणलिङ्गेन तेजःशब्दस्याप्यभिमानिदेवतापरत्वस्य वक्तव्यत्वेनात्रापि तथात्वौचित्याच्चेति भावः ।
यथाऽऽकाशाद्यात्मनेति ।
समुच्चयोपमेयं बाह्यादिषु ब्रह्मस्वरूपेण नोपादानम् आकाशादित्यादि-पञ्चम्यन्तपदैस्तत्तदभिमानिदेवतापदानामधिष्ठातृरूपनिमित्तत्वस्य प्रतिपाद्यतया तैराकाशाद्यनुगतस्य ब्रह्मण उपादानत्वाऽप्रतिपादनात् किंतु स्वविकारजडाकाशा-दिभूतरूपेण । नापि स्वरूपेणाधिष्ठातृ तत्तदभिमानिदेवतानामधिष्ठातृत्वावगमात् ऐश्वर्यवतीनां च तासां स्वातन्त्र्योपपत्तेः किंतु तत्तदभिमानिदेवतात्मनेत्यर्थः ।
एवं च सोऽकामयतेत्यादिश्रुतौ ब्रह्मणो यत् सर्वत्र कार्ये कर्तृत्वमुपादानत्वं च श्रुतं यच्चान्तर्यामिब्राह्मणे तस्याकाशादिष्वपि नियन्तृत्वं श्रुतं तद्विरोधमाशङ्क्य परिहरति-
ननु सोऽकामयतेत्यादिना ।
मूलकारणस्य च ब्रह्मण इति ।
अत्र मूलकारणत्वविशेषेण ब्रह्मणः सर्वोपादानत्वमपि मूलकारणत्वा-त्पारम्पर्येणेति दर्शितम् ।
अभिमानिदेवताद्वारेणेति ।
आकाशमन्तरो यमयतीत्यादिवाक्यमाकाशाधिष्ठातृदेवतात्मभावेन व्यवहितस्य ब्रह्मण आकाशादिनियन्तृत्वपरम् । यमाकाशो न वेदेत्यादिकं कर्तृकर्मभावविरोधेन स्वस्य स्ववेद्यत्वाभावपरमिति भावः ।
आकाशादिशब्दैरिति ।
आकाशादिशब्दानां चेतने तदभिमानिदेवतायां च प्रयोगसद्भावेऽपि नोभयत्रापि शक्तिः प्रसिद्धिप्राचुर्यानुसारेण तेषामचेतने शक्तिः देवतायां लक्षणेत्युपपत्तावुभयत्र शक्तिकल्पनाऽयोगात् । एवं मनुष्यादिशब्दानामपि मनुष्यत्वादिजातिमत्सु देहेषु शक्तिः तदधिष्ठातृजीवेषु लक्षणा । न चाकाशाद्वायुरित्यादिष्वाकाशादिशब्दानां लक्षणायां कारणमस्तीत्यर्थः ।
तत्र रूढतरत्वादिति ।
अपादाने पञ्चम्याहत्य विहिता प्रसिद्धतरा हेतौ तु ज्ञापकान्वेषणेन कथंचित्समर्थनीया न प्रसिद्धेत्यर्थः ।
भूतात्मतामापन्नस्योपादानत्वमुक्तमिति भ्रममपनुदतीति ।
आकाशादिविकाररूपेण तत्तद्विकारावच्छिन्नरूपेण वा ब्रह्मण उपादानत्वमुक्तमिति भ्रान्तिं निराकरोतीत्यर्थः । न विकारात्मना विकारावच्छिन्नेन वा परस्परव्यावृत्तेन रूपेणोपादानत्वं विवक्षितम् तस्योभयस्यापि कल्पितत्वेन व्यावहारिकाध्यासाधिष्ठानत्वायोगात्सृष्टिनिरूपणस्याध्यारोपापवाद-न्यायेन निर्विशेषब्रह्मसिद्धार्थताया असकृदावेदितत्वेनाचोपादानोपादेयभावस्या-धिष्ठानाध्यस्तभावरूपस्यैव वक्तव्यत्वात् ।bअधिष्ठानं विवर्तानामाश्रयो ब्रह्म शुक्तिवत् ।bजीवाविद्यादिकानां स्यादिति सर्वमनाकुलम् ॥bइत्याचार्यैः प्रागुक्तया रीत्या सकलचेतनाचेतनप्रपञ्चविवर्ताधिष्ठानं सर्वविकारानुगतं यन्निर्विशेषं तेन रूपेणाकाशविकारानुगतेन सता वायूपादानत्वमित्याद्युक्तमिति समाधानार्थः । नन्वेवं सति आकाशादिपदानामाकाशाद्यनुगते ब्रह्मणि लक्षणा स्याद् लक्षणा चानुपदमेव निषिद्धा आत्मन आकाश इत्यादिषु प्रथमान्तानामाकाशादिपदानां विकारपरत्वस्य दृष्टत्वात्पञ्चम्यन्तानामपि मुख्यवृत्त्या तत्परत्वमेव च युक्तमिति- चेत् उच्यते ब्रह्मण उपादानत्वोक्तिरियमार्थिकार्थविषया । आकाशाद्वायुरित्यादिशब्दार्थस्तु आकाशवाय्वादीनामेव मृद्घटन्यायेनेापादानोपादेयभावस्तस्मिन् कथिते तदाकाशादिविकारानुगतं ब्रह्म वाय्वाद्यधिष्ठानमित्यर्थात्सिध्यति। अन्यथा सच्चत्यच्चाभवदित्यादिश्रुत्युक्तस्य ब्रह्मणः सर्वप्रपञ्चाध्यासाधिष्ठानत्वस्यानिर्वाहात् । इदमाकाशादित्यादिपदानां मुख्यवृत्त्या विकारमात्रपरत्वं तत्तद्विकारानुगतस्य ब्रह्मणोऽधिष्ठानत्वस्यार्थिकत्वं च विवरणाचार्यैर्न्यायनिर्णये वर्णितम् । तत्रेदमधिकरणमित्थं दर्शितम् - आकाशादीनामुत्तरोत्तरभूतोपादानत्वं पञ्चम्यन्तपदैर्यदवगतं तत्तावदन्याऽनपेक्षं प्रतीयते तावतेव वायोरुपादानाकाङ्क्षा पूरणात् ।bव्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधना: ।bयवाश्चैवमतस्तेषां मिश्रत्वं नावकल्पते ॥bइति न्यायाद् ब्रह्मणोऽप्यन्यानपेक्षं सर्वोपादानत्वमाकाशादेव समुत्पद्यत इति सावधारणश्रुत्याऽवगतं तत्रान्यतरोपादानेन्यतरपदार्थबाधप्रसङ्गात् श्रुतपदार्थबाधकल्पनाद्वरं धर्मबाधकल्पनमिति वियदधिकरणोक्तन्यायेन नैरपेक्ष्यधर्मं बाधित्वा समुच्चयो ग्राह्यः । अतः पूर्वपूर्वभूताकारापन्नं ब्रह्मोत्तरोत्तरभूतोपादानमिति। यद्यप्याचार्याणामप्ययमर्थोऽभिमतस्तथापि वियदधिकरणेन गतार्थमालोच्य टीकानुसारेणाधिकरणशरीरं प्रकारान्तरेण दर्शितं वियदधिकरणन्यायसिद्धस्त्वयमुपादानसमुच्चयस्तेजोत इत्यधिकरणएव सिद्धवत्कृत्य व्यवहृतः । अस्माभिस्तु चतुर्मतसारसंग्रहे टीकोक्तं न्यायनिर्णयोक्तं चार्थं संयोज्याधिकरणशरीरं दर्शितम् -bतत्तद्भूताकारापन्नं सदितरजनकमिति कथं श्रुतिद्वयवैशसाद् bव्योमादीनां पञ्चम्या हि श्वसनमुखजनिषु विदिता स्फुटं निरपेक्षता ।bतेषां स्वातन्त्र्यं चादुष्टं सत एव बहुभवनदृशःश्रुतावुपवर्णनादा-bकाशादेवेत्यप्यन्या श्रुतिरिह समधिगमयते सतो निरपेक्षताम् ॥bबाधं नार्हन्त्येते सर्वे द्विविधवचनसमधिगता यतः खलु धर्मिणःbसन्त्वाकाशाश्चेहासते न हि किमपि विनिगमकं तदन्यतरोज्झितौ ।bतस्माद्बाध्या तद्धर्मत्वाद्वियदधिकृतिकथितनयादियं निरपेक्षताbभूतानां तत्स्वातन्त्र्यं च स्थितवति यमयितरि परे न किञ्चन युज्यते ॥bभुजङ्गविजृम्भितं नामेदं वृत्तम् । अत्र पूर्वपक्षश्लेाके यदाकाशादीनां स्वातन्त्र्यं तच्छान्दोग्यश्रुतिमवलम्ब्य निबद्धं तत्र तैत्तिरीयोक्तवियत्पवनोपसंहारे तयोरपि तेजोजलयोरिव बहुभवनवीक्षणायुक्तवाक्यद्वयकल्पनात् तैत्तिरीयश्रुतिस्तु भूतानां न्यायनिर्णयोक्तनिरपेक्षोपादानत्वप्रतीतिनिर्वाहार्थतया निवेशितेत्याचार्योक्त-पूर्वपक्षप्रकाराद्भेद: ॥१३॥
इति सप्तमं तदभिध्यानाधिकरणम् ॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ किं दृष्टोऽप्यययक्रम इत्यादिसिद्धान्तकोटिप्रदर्शकं वाक्यं योजयनवतारयति-
घटादीनामिति ।
घटादीनां यो विपरीतोऽप्ययक्रमो दृष्टः स भूतानामस्तु किमित्याहेत्यर्थः ।
अप्ययस्य क्रमापेक्षायामित्यादिसिद्धान्तग्रन्थं तात्पर्यकथनपूर्वकमवतारयति-
सन्निधानेऽपीति ।
दृष्टानुमानापनीतेत्येतद् दृष्टपदस्यानुमानेापनीतपदस्य च कर्मधारयमाश्रित्य व्याचष्टे-
घटादौ दृष्टेनेति ।
ननु श्रुतिसन्निहितादपि लौकिकक्रमः सन्निहिततर इत्ययुक्तं तथा सत्यश्वदाननिमित्तायां वारुणचतुष्कपालेष्टौ श्रुतिसन्निहितं पौण्डरीकेऽश्वदानं न निमित्तं किंतु सुहृदादिभ्यः क्रियमाणं लौकिकमश्वदानं निमित्तमिति स्यात् । किं च लोकादरणे लोके दग्धपटादिषु समकालः कार्यकारणयोरप्ययो दृष्ट इत्यक्रम एवात्र किं न स्यात् ।
यद्युच्येत श्रुतौ भूतानामुत्पत्तिः क्रमवती दृष्टेति तेषामप्ययेनापि क्रमवता भाव्यमिति तर्हि क्रमाकाङ्क्षोत्थापकत्वेन श्रुतावुत्पत्तिक्रमदर्शनं प्राथमिकमिति श्रौतक्रम एव लौकिकक्रमाद् बुद्धिस्थसन्निधानेन सन्निहिततर इत्यस्वरसाद्धेत्वन्तरोक्तिरित्यवतारयति-
दृष्टेन क्रमेणेति ।
भूतानामप्ययक्रमस्तु भूतशुद्धिप्रकारेण द्रष्टव्यः । स यथा गन्धादिपञ्चगुण-संघातरूपा पृथिवी प्रथमं गन्धापचयेन रसादिचतुर्गुणसङ्घातात्मकजलरूपतामा-पद्यते ततो जलं रसाप्ययेन तेजेारूपतां तेजो रूपाप्ययेन वायुरूपतां वायुः स्पर्शाप्ययेनाकाशरूपतां ततः शब्दतन्मात्राप्यय एवाकाशाप्ययः । एवं रसादिचतुर्गुणसङ्घातरुपं जलतत्त्वं प्रथमं रसाप्ययेन तेजोरूपतामापद्यत इत्यादि द्रष्टव्यम् । गुणसङ्घातातिरिक्ततदाश्रयद्रव्याभ्युपगमे च पञ्चगुणा पृथिवी चतुर्गुणजलरूपतामापद्यत इत्यादिक्रमोऽनुसंधेयः ॥१४॥
इत्यष्टमं विपर्ययाधिकरणम् ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
भूतोत्पत्तिलयशीलनं हीति ।
यद्यपि तच्छीलनेन पूर्वप्रलयपुन:सर्गमध्यवर्ति कादाचित्कमेवेति निष्प्रपञ्चत्वं लभ्यते न त्वध्यस्तवियदादिप्रपञ्चमिथ्यात्वपरिशीलनेनेव सार्वदिकं निष्प्रपञ्चत्वं तथापि स्थूललक्ष्याभ्यासन्यायात्तत्र क्रमेणेापयुज्यते इति भावः । कथं बुद्धीन्द्रियाणामुत्पत्तिचिन्तेति करणव्युत्पत्त्याश्रयणेपि मनः सर्वेन्द्रियाणि चेति श्रुतौ सर्वशब्दगृहीतानां कर्मेन्द्रियाणां न संग्रह इति शङ्का अजहल्लक्षणया तेषामपि संग्रह इति समाधानार्थः ।
श्रुतिविरोधपरिहारेणेति ।
आत्मन आकाश इत्यादिश्रुतेरेतस्माज्जायतइत्यादिश्रुतेश्च भूतेन्द्रियोत्पत्ति-क्रमविषये विरोध इति पूर्वपक्ष: । आथर्वणपाठक्रमादिन्द्रियाणां प्रथममुत्पत्तिः छान्दोग्ये तेजसः प्रथमं श्रवणेऽपि तैत्तिरीयकाम्नातवियत्पवनोपसंहारेण तेजःप्राथम्यस्येव तैत्तिरीयके वियतः प्रथमं श्रवणेऽपि आथर्वणाम्नातमन-इन्द्रियोपसंहारेण वियत्प्राथम्यस्यापि बाधोपपत्तेः । न च- मनइन्द्रियाणां भौतिकत्वेन श्रुतभूतोत्पत्त्यनन्तरभावित्वस्य वक्तव्यतया पाठक्रमादर्थक्रमो बलीयानिति तेषां भूतानन्तरं निवेशो युक्त इति- वाच्यम् तेषामाहङ्कारिकत्वेन भौतिकत्वासिद्धेः । न च- यः प्राणः स वायुरिति प्राणभौतिकत्वश्रवणोत्तस्य भूतानन्तरं निवेश: कार्यस्तत्प्रायपाठान्मनइन्द्रियाणामपि भूतानन्तरं निवेशः स्यादिति वाच्यम् प्राणस्यार्थतः पाठक्रमबाधेन पश्चान्निवेशेऽपि मनस इन्द्रियाणां च प्रायपाठरूपेण स्थानप्रमाणेन पाठक्रमबाधनायोगादित्येकदेशिमतम् ।
मनसोऽन्नमयत्वेन निर्देश इति ।
त्रिवृत्करणरूपविकारकथनपरे वाक्ये अन्नमयत्वनिर्देशो मयटो विकारार्थत्वे लिङ्गमित्यर्थः । नन्वापोमय: प्राण इत्यत्र मयटो नास्ति विकारार्थत्वम् । अथाऽपां वायुरूपप्राणे कारणत्वं न सम्भवतीति तत्त्यागः तर्हि प्राक्सिद्धे मनसि प्रत्यहमश्यमानस्यान्नस्य कारणत्वं न सम्भवतीत्यत्राप्यसम्भवस्तुल्यः । कथं च मनसोऽन्नविकारत्वश्रवणमात्रेण सर्वेषामिन्द्रियाणां भौतिकत्वसिद्धिः । उच्यते । वायुरूपः प्राणोऽपां मुख्यो विकारो न भवतीत्याप्यायनमात्रेणाऽमुख्यं विकारत्वं मयडर्थ आश्रीयते न वाऽन्नमयमित्यत्र तस्य मुख्यार्थपरित्यागे कारणमस्ति प्राक्सिद्धेऽपि मनस्युपचितरूपावच्छिन्ने कारणत्वोपपत्तेः । दृश्यते हि प्राक्प्रसिद्धेऽपि तडागे वृष्टिजलस्योपचितरूपावच्छिन्ने कारणत्वम् । एवं तेजोमयी वागित्यत्रापि मयटो मुख्यविकारार्थत्वं द्रष्टव्यम् । एवं वाङ्मनसयोर्भौतिकत्वकथनं स्थालीपुलाकन्यायेनोपलक्षणमित्यन्येषामपीन्द्रियाणां सांख्यकल्पिताहंकार-प्रकृतिकत्वासंभवाद् भौतिकत्वसिद्धिः ॥
इति नवमन्तराविज्ञानाधिकरणम् ॥
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥ प्रासङ्गिकीं संगतिमाह-
एवं तावत्तत्पदवाच्येति ।
पूर्वोत्तराधिकरणयोः संगतिमाह-
यदीन्द्रियोत्पत्तिरिति ।
तन्मृतो देवदत्त इति पाठमाश्रित्य तदिति तस्मादित्यर्थ इति व्याख्यातम् । तस्मान्मृत इति पाठस्तु स्पष्टार्थः ।
देहेन सहेति ।
जीवनित्यत्वश्रुतीनां जीवजननमरणनिमित्तजातकर्मश्राद्धादिविधीनां च विरोधेन पूर्वपक्षे जातकर्मादिविध्यन्यथानुपपत्त्या जीवस्य जनिरङ्गीकार्या । न च तत्र देहजनिर्निमित्तं मृतजातदेहेऽपि जातकर्मादिप्रसङ्गात् । तस्माज्जीवनित्यत्व-श्रुतयो भाक्तत्वेन व्याख्येया इत्येकदेशिमतम् । तत्र श्राद्धादिविधेरन्य-थोपपादयितुमशक्यत्वात् जीवनित्यत्वमवश्यमङ्गीकार्यम् जातकर्मादिविधीनां जीवसंयुक्तदेहजन्म निमित्तं भविष्यतीत्येवं सिद्धान्तयतीत्यर्थः ।
भक्तिश्च शरीरस्योत्पादविनाशौ ततस्तत्संयोग इति टीकाग्रन्थं भक्तिश्च तत्संयोग इति व्यवहितान्वयेन शरीरस्योत्पादविनाशौ स्त इति वाक्यभेदेन च योजयति-
भक्तिरित्यादिना ।
भक्तिश्च शरीरस्योत्पादविनाशवतः संयोग इति पाठे त्वेकमेव वाक्यम् ॥१६॥
इति दशमं चराचरव्यपदेशाधिकरणम् ॥
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
कल्पाद्यन्तयोरुत्पत्तिविनाशवानिति ।
कल्पादौ परमेश्वरसंकल्पमात्रभवा अयोनिजा जीवा जन्मप्रभृत्येव कर्मानुष्ठानशक्ता इति तत्तदुत्पत्यनन्तरकालानुष्ठितसाध्वसाधुकर्मपरम्पराधीना तेषां भोगवैचित्री न पूर्वकल्पानुष्ठितकर्माधीनेति भावः ।
न शुद्धस्येति ।
शुद्धस्यैव स्वरूपेण प्रविलये मुक्तिभाक्त्वमपि न स्यादिति भावः ।
अविभागस्येति च्छेद इति ।
विभागमङ्गीकृत्य सर्वविज्ञानप्रतिज्ञानिर्वाहार्थं कार्यत्वाङ्गीकारे च कल्पादावुत्पन्नानां भोगे वैचित्र्यं न स्यात् । प्राथमिकसाध्वसाधुकर्मकरणस्य तद्वैचित्र्यहेतुत्वे च तत्करणस्य पूर्वकल्पानुष्ठितकर्मापेक्षत्वाभावे तैस्तैर्जीवैः प्रथमं साधून्यसाधूनि च कर्माणि कारयितुमीश्वरस्य वैषम्यनैर्धृण्ये प्रसज्येयातां प्राथमिककर्माचरणेषूदास्ते परमेश्वरस्तदनुसारेणोत्तरोत्तरकर्मण्येव कारयतीत्येवं तस्य सर्वकर्मकारयितृत्ववचनानां द्वितीयादिकर्मविषयतया संकोचकल्पनेऽप्ययम-साधु कर्म करिष्यतीति जानत: परमेश्वरस्य कूपे बालकः पतिष्यतीति जानतस्तत्परिहरणाऽशक्तस्येवौदासीन्यकृतस्तदुभयप्रसङ्गोऽशक्यनिराकरणः । तस्मादनादिकर्मपरम्पराश्रयणाज्जीवानामनादित्वस्य सर्वविज्ञानप्रतिज्ञानस्य चोपपादनार्थमविभाग एवाभ्युपेय इति भावः ॥१७॥
इत्येकादशं आत्माधिकरणम् ॥
ज्ञो ऽत एव ॥ १८ ॥
एवं ज्ञानयोग्यत्वस्येति ।
ब्रह्माभेदविरोधिष्वनित्यत्वास्वप्रकाशत्वाणुत्वस्वाभाविककर्तृत्वेषु निरस्तेषु ज्ञाततदभेदयोग्यताकस्येत्यर्थः । यद्यपि कर्ता शास्त्रार्थवत्त्वा (ब्र. अ. २ पा. ३ सू. ३३) दित्यधिकरणेनोपपादनीयं जीवगतं कर्तृत्वमध्यस्तमित्येतदेवाभेदयोग्यता-ज्ञानोपयोगि न तु परात्तु तच्छ्रुते (ब्र. अ. २ पा. ३ सू. ४१) रित्यधिकरणे व्युत्पादयिष्यमाणं जीवेश्वरयोः प्रवर्त्यप्रवर्तकत्वमपि । तत्तु भेदसापेक्षं सदभेदयोग्यताविरोधित्वशङ्कास्कन्दितं काल्पनिकभेदेन कथंचिदुपपादनीयं तथापि तद्विषयश्रुतिकलहोऽपि क्वचिद्वारणीय इति प्रसङ्गादत्रैव पादे तद्वारणं कृतम् । अतो मूलाधिकरणसङ्गत्यैव प्रासङ्गिकाधिकरणमप्यत्र सङ्गतमिति भावः ॥१८॥
इति द्वादशं ज्ञाधिकरणम् ॥
उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
अचलतोऽपीति ।
यद्यप्यवयव्युत्पत्तौ उत्क्रमणमूर्ध्वदेशाक्रमणरूपं चलत एव भवति तथापि जीववैभववादिनो जीवस्य तदसंभवादुत्क्रमणशब्दस्य देहाभिमाननिवृत्तिमात्रं मरणमिति तत्र रूढिं मन्यन्ते तदाशयानुरोधेनाचलतोपि तत्संभव इत्युक्तम् ।
सापादाना च सतीति ।
उत्कान्तिर्देहादपसृप्तिरूपा साक्षादणुत्वसाधनमित्यत्र गत्यागतिश्रवणमिव विश्लेषावधिरूपापादानश्रवणमपि हेतुस्तत्समुच्चयार्थ इत्यर्थः ।
उत्क्रान्तिरपीत्यपि-शब्दस्य भिन्नक्रमतां विनोत्क्रान्त्यन्वयोपि घटते गत्यागतिवदुत्क्रान्तिरपि गत्यागतिशिरस्कत्वात्सापादानत्वाच्च देहादपसृप्तिरूपा सत्यणुत्वसाधनमिति न केवलमुपादानश्रुतेरित्यादिटीकाग्रन्थं योजयन्नेव तस्य तात्पर्यमाह-
चक्षुष इति ।
केवलमुत्क्रान्तिरणुत्वसाधनमित्येतदपादानश्रुतेरेव न भवति किंतु हृदयादीनां गन्तव्यत्वश्रुतेरपि । यद्यपि हृदयगमनं ततो जागरिते पुन: चक्षुरादिस्थानगमनं च साक्षादणुत्वसाधनं तथापि तथाभूतयेारेव पूर्वोदाहृतगत्यागत्येारुत्क्रान्तेर्देहादपसृप्तिरूपत्वगमकतया तस्य अणुत्वसाधन-तासिद्धाविवानयोरपि तत्सिद्धावुपयोगो युज्यत इति तात्पर्यम् ।
सुषुप्तः पुनरिति ।
सुषुप्तशब्दस्योत्तरवाक्येऽन्वयः । न तु व्याप्नोति सुषुप्त इति पूर्ववाक्ये । स एव तास्तेजोमात्रा इत्यादिवाक्यं मुमूर्षुविषयं शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंस इति मन्त्रः सुषुप्तविषय इति भेदात् ॥१९॥२०॥२१॥
अत्र मात्रेत्यध्याहार इति ।
आराग्रमिति प्रथमान्ते आराग्रमिति मात्रेत्यंशाध्याहार इत्यर्थः ॥२२॥२३॥
उक्तमार्गेणेति ।
त्वगिन्द्रियोदाहरणे नेत्यर्थः ॥२४॥२५॥२६॥२७॥२८॥
तथा सति त्वग्जीवसंयोगस्यापीति ।
महदल्पयोः संयोगोऽल्पानुरोधीति सिद्धान्तिनेवार्णोर्जीवस्य सकलशरीर-व्यापिनीं वेदनां समर्थयमानेन पूर्वपक्षिणा वक्तुं न शक्यमिति भावः ।
ननु जीवमनःसंयोगस्य मनोऽनुरोधित्वेऽपि मन:संयुक्तायास्त्वचः सर्वशरीरव्यापित्वा-त्सर्वाङ्गीणशैत्योपलब्धिरित्ययुक्तं जीवमनःसंयोगवन् मनोनुरोधित्वादित्याशङ्कते-
ननु त्वङ्मनःसंबन्धोऽपीति ।
दण्डवदिति ।
यथैकदेशे गृहीते दण्ड: पुरुषेणाधिष्ठीयते तथेत्यर्थः । ननु- जीवमनःसंयोगो ज्ञानासमवायिकारणं तस्य प्रादेशिकत्वे कथं ज्ञानं व्यापीति शङ्कावारणार्थम्- असमवायिकारणस्य प्रादेशिकत्वेऽपि कार्यमप्रादेशिकं तन्तुसंयोगस्य तन्त्वेकदेशस्थत्वेऽपि पटस्य तन्तुव्यापित्वादिति- केषुचिद्ग्रन्थेष्वधिकः पाठः । यद्यप्यन्तःकरणमण्वित्यादिटीकावाक्यं तद्व्याख्यानं च- मनोऽणु तस्यात्मना संयोगश्च ज्ञानाद्यसमवायिकारणमिति नैयायिकपक्ष-माश्रित्य यदि सिद्धान्तानुसारेण पाञ्चभौतिकं मनः प्रदीपप्रभावत्संकोचविकास-शीलतत्संयोगश्च नासमवायिकारणं तदा नैवात्र परिहरणीया शङ्काऽस्ति।
न चाणोरिति ।
न चाणोर्जीवस्येति पूर्ववाक्योक्तमर्थं विवृणोतीत्यर्थः ।
नन्वत एव हीत्यादिग्रन्थो न युक्तः समीपे स्थितस्यैव गन्धवद्द्रव्यस्येव शीतद्रव्यस्यापि सन्निहितदेशस्थितस्य व्यापको गुण उपलभ्यत इति वक्तुं शक्यत्वादित्याशङ्क्याह-
न चात्रापि विप्रतिपत्तव्यमिति ।
तत्प्रापणविषयमित्याहेति ।
प्रापणग्रहणं सुषुप्तेरप्युपलक्षणं तथैवाग्रिमभाष्यदर्शनात् ॥२९॥३०॥३१॥३२॥
इति त्रयोदशम् उत्क्रान्त्यधिकरणम् ॥
कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥
बन्धमोक्षावस्थाविषयत्वेनेति ।
बन्धावस्थायामाध्यामिकं कर्तृत्वं मोक्षावस्थायां स्वाभाविकमकर्तृत्वमित्येवं विषयभेदेनेत्यर्थः । यद्यपि जीवस्याल्पपरिमाणवत्कर्तृत्वमपि बुद्द्युपाधिकमिति वक्तुं शक्यं तथापि शास्त्रप्रतिपन्नं कर्तृत्वं किमर्थमस्वाभाविकमङ्गीकरणीयं बुद्धेरेव तत्स्वाभाविको धर्मः जीवस्त्वकर्तेति विषयभेदेन विरोधपरिहारोऽस्तु । अथवा- जीवस्यैव संसारदशायां फलमुखकर्तृत्वं न मुक्तिदशायामवस्थाभेदेन तत्परिहारोऽस्त्विति शङ्काद्वयनिराकरणार्थोऽधिकरणद्वयारम्भः ।
क्रियाश्रयत्व इति ।
क्रियावेशो हि विक्रियमाणस्य भवति विक्रियमाणस्य चानित्यत्वं नियतमिति भावः ।
ये इत्यस्य विशेष्यमध्याहरति-
सांख्या इति ।
अनित्यत्वं परिहरतीति ।
कर्तृत्वस्याध्यासिकत्वेन टीकायामनित्यत्वपरिहारः कृतः ।
स्वयं सांख्यान् प्रति भोक्तृत्वप्रतिबन्द्या परिहारान्तरमाह-
चित्स्वभावत्वं चेदिति॥३३॥३४॥३५॥
कोशरूपबुद्धेरभिधानादिति ।
बुद्धिरूपविज्ञानमयकोशपर्याये श्रुतस्य विज्ञानं यज्ञं तनुत इत्यस्य नात्मकर्तृत्वसाधकतेत्यर्थः ॥३६॥
अन्यापेक्षायामपि स्वातन्त्र्यमुपपादनीयमिति ।
न त्वन्याऽनपेक्षोपपादनीयेति भावः ।
प्रकृतसङ्गतेऽर्थे भाष्यं योजयति-
उपलब्धाविति ।
नित्यचैतन्यस्वरूपायां विषयोपलब्धौ तावन्नेन्द्रियाद्यपेक्षा नापि तदपेक्षित-जन्योपलब्ध्यन्तरे उपलब्धेरुपलब्ध्यन्तरानपेक्षत्वात् किंतु नित्योपलब्धावेव विषयोपरक्तरूपायाम् । न च तावता स्वातन्त्र्यव्याघातः सर्वत्र कर्तुरुपकरणा-पेक्षादर्शनादित्यस्मिन्नर्थे भाष्यं योज्यमित्यर्थः ॥३७॥३८॥३९॥
इति चतुर्दशं कर्त्रधिकरणम् ॥
यथा च तक्षोभयथा ॥ ४० ॥
स आत्मा तथेति ।
स आत्मा तत्स्वभावस्येति शब्देनेाक्त इत्यर्थः ।
ननु स्वभावोच्छेदात्स्वभाविनो भावस्य नाशप्रसङ्ग इति धर्मनाशेन धर्मिनाशापादनमयुक्तमित्याशङ्क्य स्वभावसिद्धधर्मनाशे धर्मिनाशः स्यादित्युपपादयति-
स्वभाविनि सतीति ।
परमार्थेति ।
पारमार्थिका शक्तिर्मोक्षेऽप्यनुवर्तत इति वादिनां मत इत्यर्थः ।
भाष्ये कर्तृत्वमात्रस्येति ।
अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवतीति भाष्ये कर्तृत्वसामान्य-स्याहङ्कारिकस्यात्मन्यध्यस्तत्वं निषिध्यत इति प्रतिभाति न च तद्युक्तम् आत्मन्याहङ्कारिककर्तृत्वाध्यासस्याध्यासभाष्ये समर्थितत्वादित्याशङ्क्य चैतन्यकर्तृ-त्वस्यैवात्मन्यध्यसनीयत्वेन निषेध इत्याहेत्यर्थः । तथाविधत्वेनेति स्थाने तथाविरुद्धत्वेनेति क्वचित्पाठः । तत्र तथा आत्मन्यभ्यसनीयत्वेन निषेधः कर्मकर्तृभावस्य विरुद्धत्वादित्यर्थः ।
यदि बुद्धेरुपलब्धिर्भवेदिति ग्रन्थं व्याचष्टे-
बुद्धेः कर्त्र्या इति ॥४०॥
इति पञ्चदशं तक्षाधिकरणम् ॥
परात्तु तच्छ्रुतेः ॥ ४१ ॥ न चेश्वर इत्यादिटीकाग्रन्थेन रागादिरहितस्येश्वरस्य साध्वसाधुकर्मसु प्रवर्तकत्वमेवानुपपन्नमित्युक्त्यनन्तरसमुत्थितशङ्कान्तरनिराकरणार्थं येन धर्माधर्मापेक्षयेत्यादिवाक्यं मध्ये शङ्कान्तरं विना तदनन्वयादिति मत्वा शङ्कान्तरनिराकरणार्थत्वेन योजयति-
तत्र प्रवर्तकत्वमेव तस्यायुक्तमित्यादिना ।
अनेन न चेश्वरः सन् कर्मपरतन्त्र इति युक्तं येन तस्य प्रवर्तनीयधर्माधर्मापेक्षया साध्वसाधुकर्मप्रवर्तयितृत्वववैचित्र्यमुपपद्येतेत्यस्मिनर्थे तद्वाक्यं योजितम् ।
विधिप्रतिषेधयोरिति ।
ईश्वर एव विधिप्रतिषेधयोर्नियुज्येतेति भाष्यस्येश्वर एव विधिनिषेधशास्त्रनियोज्यः स्याद् न तु जीवो न स्वर्गकामनादिमान् मनुष्य इत्यर्थः प्रतिभाति न तु सोर्थो युक्तः न हीश्वरस्य कर्माऽनपेक्षस्य जीवप्रवृत्तिनिवृत्तिकारयितृत्वे तथा दोष आपद्यते किंत्वीश्वरस्य स्वतन्त्रत्वे स एव विधिनिषेधस्थानाभिषिक्तः स्यादित्येव दोष आपद्यतेऽतस्तथार्थस्फूर्तये भाष्ये स्थान इति पदमध्याहरतीत्यर्थः ॥४१॥४२॥
इति षोडशं परायत्ताधिकरणम् ॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३॥ निरतिशयोपाधिसंपद्विभूतियोगादित्यस्य सकलाविद्योपाधिसम्बन्धादित्यर्थः प्रतीयते सोऽर्थो न युक्तः जीवानामेवाविद्याश्रयत्वाद् ब्रह्मणस्तदनाश्रयत्वादित्या-शङ्क्यान्यथा व्याचष्टे-
अधिष्ठानेति ।
अनेनाधिष्ठाने ब्रह्मणि निरतिशयानां स्वकृतदोषरूपातिशयानाधायिना-मुपाधीनां संपद् अविद्योपाधिविषयीकरणं यस्य तस्माद्विभूतियोगाद् अविद्यादोषकृतैश्वर्यपरिच्छेदरहितपारमेश्वररूपसंपादनादिति व्याख्यानं कृतम् । इत्थमपि व्याख्यातुं शक्यम् - उपाधिशब्देन मायोपाधिकृताः सृष्ट्यादिशक्तय उच्यन्ते ताश्च निरतिशया न तु जीवशक्तिवत्कतिपयसृज्यादिविषयत्वेन सातिशयास्तासां संपद्बाहुल्यं सैव विभूतिरैश्वर्यं तदयोगादिति। एवं च लेकेऽप्यधिकशक्तयो राजादयोऽल्पशक्तीनां प्रजादीनामीशत इति दर्शनात्तथैव निरतिशयशक्तिशाली परमेश्वरो निकृष्टोपाधीनामल्पशक्तीनां देवमनुष्यादि-जीवानामीष्ट इति वाक्यार्थः परिनिष्पन्नो भवति। निरतिशयोपाधिसंपन्नश्चेश्वरो हीनोपाधिसंपन्नान् जीवान् प्रशास्तीति भाष्यस्याप्येवमेवार्थः । अयमिह पूर्वपक्ष:- सन्ति तावज् ज्ञातृज्ञेयध्यातृध्येयनियम्यनियामकाधेयाधिकरणभावादिविषया भेदश्रुतयः । सन्ति चाभेदश्रुतयः । यथाऽऽथर्वणिकानां संहितोपनिषदि ब्रह्मसूक्ते ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कितवा उत स्त्रीपुंसौ सब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमानिति मन्त्रः । यथा वा श्वेताश्वतरोपनिषदादिषु त्वं स्त्री त्वं पुमानित्यादयः । न चोभयविधश्रुत्यनुग्रहाय भेदाभेदपचाभ्युपगमो युक्तः तस्य विरोधादिभिर्दुत्वात् ।
तस्मादप्रमाणमेताः श्रुतय इति ।
अत्र टीकानुसारेण सिद्धान्त्येकदेशिमतम् - ईश्वर एव नास्ति। यतो जीवानां भेदाभेदचिन्ता तद्विषयश्रुतयस्तु केवलमर्थवादा: भेदपक्षेऽभेदपक्षे भेदाभेदपक्षे च दोषदर्शनात् । न च तद्दोषपरिहाराय जीवा न सन्तीति वक्तुं युक्तम् तेषां प्रत्यक्षादिसिद्धत्वात् । अतो जीवानामेव जात्यैक्यमवलम्ब्याद्वितीयश्रुतय- इति। भाष्यानुसारेण तु - भेदश्रुतयः स्वार्थपरा: पूर्वाधिकरणनिर्णीतस्य प्रवर्त्यप्रवर्तकभावस्य भेदापेक्षत्वात् स्वामिभृत्ययोस्तथात्वदर्शनात् अभेदश्रुतयस्तु चेतनत्वसाम्यैक्यनिबन्धना उपचरितार्थाः अभेदे सुखदुःखवैचित्र्यानुज्ञापरिहारादेरनुपपत्तेरिति। एवमीश्वरापलापेनैव सिद्धान्त्येकदेशिमतं द्रष्टव्यम् ।
ननु क्रत्वर्थग्रहणेन गोदोहनादिपुरुषार्थप्रवृत्तिः पुरुषाभिप्रायानुरोध्यनुज्ञाधीनाभ्युपगता भवेदिति शङ्कां परिहरतीत्याह-
अपि च पुरुषार्थेऽपीति ॥५०॥५१॥५२॥५३॥
इति सप्तदशं अंशाधिकरणम् ॥
इति श्रीमद्वरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि-श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले द्वितीयाध्यायस्य तृतीयः पादः ॥b॥इति द्वितीयाध्यायस्य पञ्चमहाभूत्-जीवश्रुतीनां विरोधपरिहाराख्यस्तृतीयः पादः ॥
अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥ तथा प्राणाः ॥ १ ॥ ब्रह्मवेदने सर्ववेदनप्रतिज्ञा तदुपपादकश्रुतिविरोधादिति टीकायां ब्रह्मवेदन इत्यस्य द्वन्द्वसमासान्तर्गतपूर्वपदार्थभूतया सर्वविज्ञानप्रतिज्ञयाऽन्वयमपेक्षावशेन दर्शयति-
कस्मिन्निति ।
कस्मिन्सतीत्यर्थः ।
दोषात्त्विष्टिरिति ।
प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्च्छत् स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तन्निरवपत् ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेद् वरुणमेव स्वेन भागधेयेनोपधावति स एवैनं वरुणपाशान्मुञ्चतीति तैत्तिरीया: समामनन्ति। अस्यार्थः- प्रजापतिर्वरुणाय प्रतिग्रहीत्रे अश्वमनयद् अददात् स प्रजापतिः स्वां देवतां प्रतिग्रहीतृत्वेन स्वदेवताभूतं वरुणमार्च्छत् प्रापद् वरुणग्रहशब्दितः जलोदरव्याधियुक्तो जातः तत्परिहारार्थं वारुणीं चतुष्कपालेष्टिं कृतवानिति।
एवमुपक्रमानुसारेणेयं दातुरिष्टिरित्युत्तराधिकरणे स्थास्यन्तमर्थं सिद्धवत्कृत्यैतदधिकरणप्रवृत्तिरित्याह-
ततो दाननिमित्तेष्टिरिति ।
ननु उत्तराधिकरणार्थमनुपेक्ष्य योऽश्वं प्रतिगृह्णातीति यथाश्रुतवैदिकशब्दा-नुसारेण लौकिकेऽश्वप्रतिग्रहे वैदिके वेत्येवमेतदधिकरणप्रवृत्तिः किं न स्यादित्याशङ्क्याह-
न तु लौकिके इति ।
वैदिकत्वं वेदविहितत्वरूपं प्रतिग्रहे न संभवति। यद्यपि प्रतिग्रहैर्ब्राह्मणो धनमर्जयेदिति नियमविधिव्यापारोऽस्ति तथाप्यश्वप्रतिग्रहे सोऽपि नास्ति नोभयतोदतः प्रतिगृह्णातीति तन्निषेधात् किं च शास्त्राद्धि वैदिके न दोषः स्यादिति वैदिके दोषाभावः स्मर्यते, न चाश्वप्रतिग्रहे दोषाभावोऽस्ति। अतो दानविषय एवायं विचार इति भावः ।
न केसरिण इति ।
सुहृदादिभ्यो रागप्राप्तमश्वदानं प्रतिषिद्धम्॥
प्राप्तस्यानुवादकोऽर्थवादोयमिति।
ननु अर्थवादोऽनुपपातादिति (जै. अ. ३ पा. ४ सू. ३५ ) सूत्रेण वरुणग्रहशब्दोर्थवाद एव अश्वदानप्रयुक्ततया जलोदरव्याधेरनुवादादित्युक्तम् इहापि सिद्धान्ते तथैवोक्तं कुतः प्राप्तस्येदानीमनुवादः कीर्त्यते । उच्यते । लोकप्राप्तस्य जलोदरव्याधेरिहानुवादः वरुणो वा एतमश्वदातारं गृह्णातीति निर्देशस्तूपमार्थः । अग्निमेव खलु वा एष प्रविशति योऽवान्तरदीक्षामुपैतीतिवद् इवशब्दयोगात्तत्र वाच्योपमा इह तु सामानाधिकरण्यनिर्देशाद् गम्येति विशेषः । ततश्च जलोदरव्याधिमता तच्चिकित्सेवाश्वं दत्तवतेयमिष्टिरवश्यं कार्येति सिद्धं भवति। किं च प्रजापतिर्वरुणायाश्वमनयदित्याद्यसदर्थवादप्रतीतस्य दोषस्याश्वदातृत्व-सामान्यादन्येष्वपि प्राप्तस्य वरुणो वा एतं गृह्णातीत्यत्रानुवाद इत्युपपद्यते । नन्वियमिष्टिर्मा भूद्दोषनिर्घातार्था तथापि वैदिकइति कुतः लौकिकेऽपि वा लौकिकएव वा किं न स्यात् । उच्यते । न तावदुभयत्र भवितुमर्हति लौकिके पुरुषार्थत्वं वैदिके क्रतुशेषतेत्येकस्य वाक्यस्य क्रतुपुरुषशेषताप्रतिपादकत्वेन वाक्यवैरूप्यप्रसङ्गात् । नापि लौकिकएव वैदिकस्य नैमित्तिकस्य वैदिकं निमित्तं प्रत्यासन्नमिति तद्विहायाप्रत्यासन्नलौकिकग्रहणायोगात्तद्ग्रहणे फलकल्पनागौरव-प्रसङ्गाच्च । अतस्तस्माद्यज्ञे प्रतीयेतेति युक्तः सिद्धान्तः ।
लौकिके धातुसाम्यार्थमिति ।
वमनेनान्तर्गतदोषनिः सरणाद्धातुसाम्यं भवतीति वमनोपायतया वैद्यके सोमपानमुक्तमस्ति तत्कृतं वमनं लौकिकं तस्मिन्नित्यर्थः ।
धातुसाम्यकरत्वान्न दोषतेति ।
धातुसाम्यार्थं वमने क्रियमाणे तात्कालिकेन्द्रियशोषो भवति चेद्भवत्वित्यङ्गीकृतत्वान्न दोष इत्यर्थः ।
मन्त्रलिङ्गादिति ।
सोमरसं प्रति नाभिमतिक्रम्य मागा इत्यूर्ध्वमुखत्वनिषेधकमन्त्र-लिङ्गादित्यर्थः ।
नन्वनुत्पत्तौ तत्त्वान्तरत्वापादनमयुक्तमविद्यादिवदनुत्पत्तावप्य-तत्त्वान्तरत्वोपपत्तेरित्याशङ्क्याह-
अविद्यादीति ॥२॥३॥४॥
इति प्रथमं प्राणोत्पत्त्यधिकरणम्॥
सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
पूर्वपक्ष इति ।
यस्मात्स्थूलात्सूक्ष्माच्च शरीरात् त्वम्पदार्थो विवेक्तव्यः तस्मिन् भौतिके विषये श्रुतिविरोधपरिहारार्थोयं पादः । तत्र सप्तैव प्राणा लिङ्गशरीरान्तर्गतास्तदा तेभ्य एव त्वम्पदार्थो विवेक्तव्यः एकादश चेदन्येभ्योऽपीति प्रयोजनमित्यर्थः ।
ग्रहानतिशेरत इति व्युत्पत्तिमाश्रित्यातिग्रहशब्दस्य विषयेषु वृत्तौ हेतुमाह-
रागोत्पादनेनेति ।
अपानइति च गन्ध इति ।
लक्षणयोच्यत इत्यनुषङ्गः ।
अपानेनेति ।
अपानशब्देन गन्धस्य लक्षणायां हेतुं तद्वाच्येनापश्वासेन करणेनाधेयत्वरूपं संबन्धं श्रुतिरेव वदतीत्यर्थः ।
प्राणान्तरव्यावृत्तिरिति ।
अशीर्षण्यानां प्राणत्वव्यावृत्तिरित्यर्थः ॥६॥
उखाधूपनस्तुतिपरत्वादिति ।
तथा च ये शीर्षण्याः प्राणास्ते सप्तेति लोकसिद्धार्थानुवादेन सप्तभिर्धूपनस्य स्तुतिरिति युक्तं न तु ये शीर्षण्यास्तएव प्राणा इत्यलौकिकार्थपरत्वमिति भावः ॥
तथापि सदनुवाद इति विशेष इति ।
ननु शीर्षण्याः प्राणाः सप्तेत्यपि सदनुवाद एव को विशेषः नेति ब्रूमः । वस्तुतश्चत्वार एव हि शीर्षण्याः प्राणा इति वक्ष्यते टीकायाम् । एकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानान्न चक्षुर्द्वित्वम् एकविनाशे द्वितीयाविनाशान्नैकत्वमित्यक्षपादेन पूर्वोत्तरपक्षसूत्राभ्यां व्यवस्थापितं चक्षुर्द्वित्वं च दूषयिष्यते । इयमपरा योजनेत्यादिग्रन्थेनेन्द्रियाणामेकादशत्वमङ्गीकृत्यैवोत्क्राम-दिन्द्रियसंख्याविषयश्रुतिकलहवारणार्थं वर्णकान्तरमारब्धम् ॥ तत्र सप्तैवोत्क्रामन्ति अन्यानि तु शरीरवत्प्रतिजन्म जायन्त इति पूर्वपक्ष: । एकादशाप्युत्क्रामन्तीति सिद्धान्तः ।
अस्मिन् वर्णके पूर्ववर्णकादुत्कर्षं दर्शयितुं पूर्ववर्णके पूर्वपक्षसूत्रयोजनाक्लेशं पूर्वपक्षोपपादनाय तद्विरुद्धश्रुतियोजनाक्लेशं च दर्शयति-
पूर्वयोजनायां हीति ।
वृत्तिभेदविषयत्वकल्पनेति ।
यद्यपि द्वितीयवर्णकपूर्वपक्षेऽपि ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तीति श्रुतेर्वृत्तिभेदविषयत्वकल्पनाक्लेशोऽस्ति तथाप्यस्मिन् वर्णके स एक एवक्लेश: पूर्ववर्णके क्लेशत्रयमिति विशेषः ।
अध्यात्माधिदैविकोपासनेष्विति ।
अध्यात्मं वागादीनामधिदैवमग्न्यादीनां च सन्त्येकोपासनाद्वह्न्यादिशरीरप्राप्ति-फलकानि तेषु यानि शरीरान्तरेऽप्यनुवर्तमानानीन्द्रियाणि तान्येव तत्क्रतुन्यायादुपासनीयानि । अत: पूर्वपक्षे सप्तानामुपासनमेकादशानामपि सिद्धान्त इति फलभेद: ॥६॥
इति द्वितीयं सप्तगत्यधिकरणम् ॥
अणवश्च ॥ १ ॥ द्वितीयवर्णकेन सङ्गतिमाह-
एकादशानां प्राणानामिति ।
पादसङ्गतिस्तु प्रासङ्गिकी श्रुतिकलहनिरासाभावात्, सांख्यविप्रतिपत्तिमात्र-निरासात् ।
परिच्छेदेति ।
अहमिहैवास्मीति परिच्छेदभानादित्यर्थः ।
आधिदैविकव्यापकेति ।
यद्यपि व्यष्ट्यन्तः करणचैतन्यसंवलनरूपास्मदादिव्यष्ट्यहङ्कारवत्समष्ट्यन्तः करणचैतन्यसंवलनरूपः समष्ट्यहङ्कारोऽस्ति हैरण्यगर्भः स तु व्यापक इति वक्तुं शक्यम् तथापि सांख्याभिमतमहत्प्राकृतिकेन्द्रियप्रकृतिभूतव्यापकाहङ्कारसद्भावे प्रमाणं नास्तीति तात्पर्यम् ॥७॥
इति तृतीयं प्राणाणुत्वाधिकरणम् ॥
श्रेष्ठश्च ॥ ८ ॥
आनीदित्यस्येति ।
सदसदात्मकसकलप्रपञ्चाभिव्यक्त्या महाप्रलयविषयत्वमानीदित्यस्यावगम्यत इत्यर्थः ॥८॥
इति चतुर्थं प्राणश्रैष्ठ्याधिकरणम् ॥
न वायुक्रिये पृथगुपदेशात् ॥ १ ॥ एतस्माज्जायते प्राणः यः प्राणः स वायुरिति प्राणवायुभेदाभेदश्रुत्योर्विरोध इति पूर्वपक्ष: । श्रुत्योर्विरोधे स्मृत्या तत्तात्पर्यं निर्णेतव्यमतः सांख्यस्मृत्या करणानां साधारणवृत्तिः प्राणो वायोर्भिन्न इति सिद्धान्त्येकदेशिमतम् ।
पदभाष्य इति ।
प्रतिपदविवरणरूपं छान्दोग्यभाष्यं पदभाष्यं तत्र वागादीन्द्रियप्राय-पाठात्प्राणो घ्राणमिति व्याख्यातम् इह तु प्राणश्रुति: प्रायपाठाद्बलीयसीति प्राणो मुख्यप्राण उक्त इत्यर्थः ।
कथंचिन्नयनं सिद्धान्तिनोऽपि तुल्यमित्याह-
त्वयाऽपि हीति ।
सिद्धान्तिनाऽपि हि वायुप्राणयोः स्वरूपाऽभेदे तत्त्वाऽभेदमाश्रित्याभेदश्रुतिः वृत्तितद्वद्भेदाभिप्राया बाह्याध्यात्मिकव्यापारद्वैविध्याभिप्राया च भेदश्रुतिरिति व्याख्यातव्यम् । अतः कथंचिद्योजनं तन्मतेऽपि समानमित्यर्थः ।
तर्हि किमिति ।
प्राणो न वायुमात्रं नापि वायोस्तत्त्वान्तरमिति सिद्धान्ते भेदाभेदश्रुत्योरुभयोरपि योजनायां क्लेशोऽस्ति चेत् तर्ह्यभेद इति प्रथमपूर्वपक्ष एव किमिति नाद्रियते तत्र हि भेदश्रुतिमात्रस्य क्लेशेन योजनेत्याशङ्कार्थः ।
परिहाराभिप्रायमाह-
यदा त्विति ।
यदा प्रथमावस्थायां विरुद्धे श्रुती विनिगमनाविरहात्परस्यरत्याजितार्थे वर्तेते तदा लब्धप्रसरया स्मृत्या करणव्यापारः प्राण इति प्रतिपादिते श्रुती तत्परतया योज्येते तत्र भेदश्रुतेर्योजनाया न कश्चन क्लेश: अभेदश्रुतिस्तु वायुशब्दस्यौपचारिकत्वकल्पनया शक्ययोजना । अतः पूर्वं पश्चाच्च भेदाभेदश्रुतिभ्यामभग्नस्वार्थस्मृत्यनुसारेण करणवृत्तिः प्राण इत्येव पूर्वपक्ष आद्रियत इत्यर्थः । प्रत्येकमिन्द्रियाणां वृत्तिः प्राण इति विकल्पे टीकायां दूषणं नोक्तम् ।
तत्र स्वयं दूषणमाह-
प्रत्येकवृत्तित्व इति ॥९॥१०॥
पुरुषार्थत्वात् पुरुषं प्रति पारतन्त्र्यमिति हेतुसाध्ययोरभेदशङ्कां परिहरति-
पुरुषार्थत्वमिति ।
परिच्छेदधारणादिति ग्रन्थे धारणशब्दार्थमाह-
धारणं मेधेति ।
परिच्छेदाहरणादीति पाठे ज्ञानेन्द्रियसाध्यो रूपादिप्रत्ययः परिच्छेदः । हस्तादिकर्मेन्द्रियसाध्य आहरणादिः ॥११॥१२॥
इति पञ्चमं न वायुक्रियाधिकरणम् ॥
अणुश्च ॥ १३ ॥
साम प्राण इति व्युत्पाद्येति ।
एष उ एव साम वाग्वै सा अम एष सा चामश्चेति तत्साम्नः सामत्वमिति पूर्ववाक्येन सामशब्द: प्राणे व्युत्पादितः ।
ननूभयमुभयत्र विषयः तत्र व्यापित्वश्रुतीनामुपासनार्थत्वहेतुरवश्चेत्यधिकरणे दर्शितः अस्मिन्नधिकरणे तु प्राणव्याप्तिकश्रुतेराधिदैविकविषयत्वे हेतुरुच्यत इति विशेषमाह-
हेतुभेदस्य चाधिकरणाभेदकत्वादिति ।
पूर्वपक्षे विशेषाभावे सैद्धान्तिक हेतुभेदमात्रेण नाधिकरणभेदो भवति ईक्षत्यधिकरणादिषु अधिकरणैक्येऽपि सैद्धान्तिकहेतुबाहुल्यदर्शनादिति भावः । स्वमते त्वणवश्चेत्यधिकरणमिन्द्रियविषये सांख्यविप्रतिपत्तिनिरासार्थम् । इदमधिकरणं यद्यपि प्राणविषये श्रुतिविप्रतिपत्तिनिरासार्थम् तथाप्यत्रैकेन्द्रिय-विषयश्रुतिविप्रतिपत्तिनिरासोऽप्यर्थात्सिध्यति। समःप्लुषिणेत्यादेः प्राणे तत्तच्छरीरानुरोधिसंकोचविकासपरतयोपपादनेन हि त्वगिन्द्रियस्यापि तथैव संकोचविकासशालितया सर्वाङ्गीणशैत्योपलब्धिकरणत्वमित्यर्थात्सिध्यति। सम एभिस्त्रिभिर्लोकैरिति प्राणे विभुत्वाम्नानं परम् आधिदैविकविषयतया योजनीयमिति तत्राधिकयत्नसद्भावात् प्राणप्रधानमिदमधिकरणमित्यणुश्चेत्येकवचनेन दर्शितमिति तात्पर्यम् ।
कुटो घट इति ।
घटः कुटो निवापोऽस्त्रीत्यमरसिंहः । समएभिस्त्रिभिर्लोकैरित्येतदिति। समोऽनेन सर्वेणेत्येतत्तु न विभुत्वप्रतिपादनैकान्तिकम् प्लुषिमशकनाग-व्यतिरिक्तमपि यद्यत्प्राण्यस्ति तत्तच्छरीरानुकूलसंकोचविकासशालितया तेन सर्वेणापि सममित्येवमर्थताया अप्युपपत्तेरिति भावः ॥१३॥
इति षष्ठं श्रेष्ठाणुत्वाधिकरणम् ॥
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
न तु करणानामिति ।
ननु- यद्धीत्यादिटीकोक्तस्योत्सर्गस्येन्द्रियेषु प्रवृत्तिर्बलवदुपपादकाभावेना-भ्युपगन्तुमयुक्ता यश्चक्षुषि तिष्ठन्नित्यादेस्तदपवादकस्य सत्त्वादिति- चेत् सत्यम् ईश्वराधिष्ठानमपरामृश्यायं पूर्वपक्षः । अत एव सिद्धान्ते करणानि चेतनाधिष्ठितानीत्यनुमानस्येश्वरेण सिद्धसाधनमाशङ्क्य परिहरिष्यते । न चेश्वरेण सिद्धसाधनत्वम् ।
तदभ्युपगमे त्वयैवोत्सर्गबाधस्येष्टत्वादिति ।
अथवा- उत्सर्गस्येश्वराधिष्ठितत्वांश इवाग्न्याद्यधिष्ठितत्वाद्यंशे त्यागो न कार्यः ।
तत्र बलवत्प्रमाणाभावादिति तात्पर्यम् । अत एव करणानि चेतनाधिष्ठितानीति सिद्धान्त्यनुमानस्य पूर्वपक्षे जीवाधिष्ठितत्वेन सिद्धसाधनत्वम् जीवस्य बलवत्प्रमाणवशादधिष्ठातृत्वमङ्गीकृत्यानुपदं वक्ष्यते-
न च तदस्ति जीव इति ।
यद्यप्यभिमतार्थग्राहकेन्द्रियमनःसंयोजनतदग्रहणार्थचक्षुर्विस्फारणश्रोत्रावधानदानादिना जीवस्येन्द्रियाधिष्ठातृत्वमनुभवसिद्धमुपपद्यते च तदिन्द्रियाणामतीन्द्रिय-त्वेऽपि तेषामभिमतार्थे ग्रहणाय नोदनकारिणीषु नाडीषु स्पार्शनापरोक्षज्ञानस्य तन्मूलप्रयत्नस्य च संभवाद्, नाडीगोचरप्रयत्नेनैव तन्नोदनीयानां श्वासजमलानामिच्छया मोचनधारणदर्शनात् अथ यो वेदेदं जिघ्राणीत्यादिश्रुत्यनुमतं च जीवस्येन्द्रियाधिष्ठातृत्वम् तथापि जीवाधिष्ठानं न सार्वत्रिकम् । अनिच्छतोऽप्यनभिमतज्ञानादिदर्शनादिति तात्पर्यम् ।
न ह वै देवानिति ।
ननु अग्न्यादिदेवताः एतदिन्द्रियसाध्यपुण्यफलभागिन्यः तदधिष्ठातृत्वा-दित्यनुमाने नास्त्यागमविरोधः । सत्यम् अप्रयोजकत्वं त्वनुमानस्य तदा भवति। आगमस्तावदेवतानां पापफलं नास्तीति वदति ततश्च यथा तासां पापहेतुज्ञानकर्मकारयितृत्वेऽपि तथाभूतज्ञानकर्मताश्रयत्वात् तदुत्पत्तावालोकादिव-त्करणानुग्राहकतया सहकारिमात्रत्वाद् न तज्जन्यपापफलभागित्वम् एवं तज्जन्यपुण्यफलभागित्वाभावस्याप्युपपत्तेः । न च पुण्यमेवामुं गच्छतीति श्रुतिबलात्तासां तज्जन्यपुण्यफलभागित्वं शङ्कनीयम् न ह्येषा श्रुतिरिन्द्रियाधिष्ठातृदेवतानां स्वस्वाधिष्ठेयेन्द्रियजन्यज्ञानकर्मप्रयुक्तपुण्यफलभागित्वं ब्रवीति किंतु वाङ्गनःप्राणरूपत्र्यन्नोपासकस्य सार्वत्म्यफलप्राप्त्यनन्तरम् आत्मान्तरगतपापफलानुभवप्रसक्तौ तन्निवारणं करोति। अमुं त्र्यन्नोपासकमुपासनाजन्यं पुण्यमेव गच्छति न त्वात्मान्तरगतं पापमित्यनेन वाक्येन त्र्यन्नोपासकस्य पापप्राप्त्यभावे प्रतिपाद्ये सामान्यमुखेन तत्समर्थनार्थं न ह वै देवानिति वाक्यं देवतामात्रमेव किमपि पापं न स्पृशति हिरण्यगर्भवदुत्कृष्टदेवताभावं प्राप्तं त्र्यन्नोपासकं किमपि पापं न स्पृशतीति किमु वक्तव्यमिति तदभिप्रायः । (तत्किमितीति मृत्युमतीत्य यत्प्राप तत्किमिति प्राप्यविशेषनिर्द्धारणार्थः प्रश्नः ।
सा यदेत्यादिश्रुतिं तदुत्तरत्वेन व्याचष्टे-
उच्यत इति ।
अतिमुक्ता त्यक्तवती ।
अग्निरेवाभवदिति ।
एवं चाग्निभावः प्राप्य इत्युक्तं भवति।
दर्शनाय चक्षुरित्यस्याभिप्रायमाह-
न चैतन्यायेति ।
चैतन्यस्यात्मरूपत्वान्न तत्र चक्षुरपेक्षा किंतु चाक्षुषवृत्ताविति गूढोऽभिप्रायः ।
अमुमभिप्रायं विवरीतुम् अथ यो वेदेदमित्यादिश्रुतिवाक्यं तद्विवृणेति-
अथापीति ।
अथशब्दोऽप्यर्थे वर्तत इत्यर्थः ।
क इहाप्यर्थ इत्याकाङ्क्षायामाह-
दर्शनाद्यर्थं चक्षुराद्यपेक्षायामपीति ।
अथ यत्रैतदाकाशमित्यादिवाक्ये चक्षुर्ग्रहणं सर्वेषामिन्द्रियाणां दर्शनग्रहणं सर्वेन्द्रियजन्यवृत्तीनां चोपलक्षणम् अतो- दर्शनादीति चक्षुरादीति चोभयत्राप्यादिग्रहणम् ।
स्वतएव यो वेदेतीति ।
स्वस्वरूपलाभार्थं कारणमनपेक्ष्य यो वेदेत्यर्थः ।
स आत्मेति ।
वेदेत्यत्र प्रकृत्यर्थभूतवेदनस्वरूप आत्मेत्यर्थः । यदि नित्यात्मस्वरूपमेव वेदनं कुत्र तर्हीन्द्रियापेक्षा किंरूपं च वेदेत्यत्र प्रत्ययार्थभूतं वेदनं प्रति कर्तृत्वमित्याकाङ्क्षायां गन्धाय घ्राणमिति वाक्यम् । तत्र गन्धशब्दो वृत्तिरूपगन्धज्ञानपर इति व्याचष्टे-
तस्येति ।
एवं च गन्धवेदनरूपचैतन्यावच्छेदकवृत्त्युत्पत्त्यर्थमिन्द्रियाद्यपेक्षा तत्कर्तृकत्वोपाधिकं च तदवच्छिन्नस्वस्वरूपकर्तृत्वमित्युक्तं भवति) ॥१४॥१५॥१६॥
इति सप्तमं ज्योतिराद्यधिकरणम् ॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ भेदश्रुतेरिति वैलक्षण्याच्चेति सूत्रयोर्भाष्यकारैरसुरपाप्मविद्धत्वाविद्धत्वगोचरा मृत्युप्राप्तत्वाप्राप्तत्वगोचरा च द्विविधा भेदश्रुतिरुदाहृता टीकाकारैस्तु द्वितीयैवोपात्ता न त्वाद्या तत्किमाद्यशङ्कायामस्वारस्यादित्याशङ्क्य- मृत्युप्राप्तशब्देनैवासुरपाप्म-विद्धत्वस्यापि संगृहीतत्वादित्याह-
मृत्युर्वागादीनां स्व विषयासङ्ग इति ।
असुरशब्देनासुरपाप्मविध्वस्तानिति शब्देन ।
उक्तार्थोपपादनार्थं मृत्युप्राप्तेत्यादिटीकामुपादाय श्रुतिद्वयमप्युपन्यस्यति-
श्रूयते हीति ।
श्रूयत इत्यस्य विषयासङ्गवत्त्वमित्यनेन संबन्ध: ।
त्वं न उद्गायेति ।
देवैर्नियुक्तायां वाचि यो भोग: अभिवदनलक्षणं फलं तद्देवेभ्य आगायत्सकलदेवसाधारणं गानेन सा वाक् संपादितवती तत्र यत्कल्याणं स्वरवर्णादिभ्रंशरहितमभिरूपमभिवदनं तदात्मने आगायादिति लिखितश्रुति-भागस्यार्थः । आदिशब्देन तामभिद्रुत्य पाप्मना विध्यन्नित्यन्तो वाक्यशेषः संगृहीत: । तानि मृत्युरित्यादिश्रुत्यन्तरोदाहरणेऽपि श्रूयत इत्यनुषङ्गः कार्यः । केषुचित्कोशेषु विषयासङ्गवत्त्वमित्यस्य तानि मृत्युरित्यस्य च मध्ये संश्राव्येति पदान्तरयुक्तः पाठो दृश्यते स न साधुरिव लक्ष्यते । यो वाचि भोग इत्यादिश्रुतिरुद्गीथविद्याप्रकरणगता तानि मृत्युरित्यादिश्रुतिः सप्तान्नब्राह्मणगतेति भेदात् ।
अर्थालोचनमिति ज्ञानेन्द्रियाभिप्रायम् । टीकायामन्ये त्वित्यादिना वृत्तिकारमतमुपन्यस्तं तद्भाष्यकारमते सूत्रयोजनाक्लेशोऽस्तीत्यपरितोषादिति वक्तुं भाष्यकारमते सूत्रयोजनां दर्शयति-
भाष्यकारैर्हीति ।
न केवलमध्याहारापेक्षत्वादिति ।
अनेन भेदशब्दाध्याहारभियेत्येतत्प्रतिज्ञायां तत्त्वान्तराणीत्यध्याहारभियेत्येव-मर्थतया व्याख्यातम् ।
घञ्प्रत्ययो भवतीति ।
घञ्प्रत्ययान्तो निपात इत्यर्थः ।
तन्मात्रमयुक्तमित्युक्तं भवतीति ।
वस्तुतस्तु- भाष्यकारीयायामाद्यसूत्रव्याख्यायामयुक्तत्वप्रदर्शनार्थो न भवति वृत्तिकारमतस्योपन्यासः किंतु तस्यैवायुक्तत्वप्रदर्शनार्थः । तस्मिन्नुपन्यस्यमान-एव हि तदयुक्तत्वं स्फुटं प्रतीयते । तथाहि- संशयवाक्येन तावत्प्राणव्यावृत्तत्ववागाद्येकादशानुगतमिन्द्रियत्वं सिद्धान्ते निर्वक्तव्यतया उपक्रान्तम् । अग्रे तु देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वमिन्द्रियत्वमिति कर्मेन्द्रियेभ्योऽपि व्यावृत्तं निरुक्तम् । निष्प्रयोजनं वाऽधिकरणम् । यदि पूर्वपक्षरीत्या प्राणानुगतमिन्द्रियत्वं निरुच्यते यदि वा सिद्धान्तरीत्या तद्व्यावृत्तम् उभयथापि हि नास्ति प्रयोजनम् । न हि वैशेषिकशास्त्रवत्साधर्म्यवैधर्म्यविचारार्था अस्य शास्त्रस्य प्रवृत्तिः । न च प्राणस्येन्द्रियत्वे इन्द्रियेभ्य एव त्वम्पदार्थो विवेक्तव्यः अनिन्द्रियत्वे तु प्राणादपीति प्रयोजनभेदः शङ्कनीयः । न हीन्द्रियेभ्योऽहं भिन्न इति त्वम्पदार्थो विवेक्तव्यः किंत्वन्धः काणो मूको बधिरः कुणिः खञ्ज इत्यादिरूपतत्तदिन्द्रियविशेषाभेदभ्रमनिरासायान्धादहं भिन्न इत्यादिप्रकारेण । अतः प्राणद्वादशानामिन्द्रियत्वेऽपि प्राणादपि त्वम्पदार्थस्य विवेकः कार्य एव । भाष्यकारीये तु पूर्वपक्षे प्राणाद्विवेकव्यतिरेकेणेन्द्रियेभ्यो विवेको न कार्यः । वृत्तिमतः प्राणात्तत्त्वान्तरस्य तद्वृत्तिभ्यस्तत्त्वान्तरत्वस्य कैमुतिकन्यायेन सिद्धेः । पाणिनि स्मृतिमवलम्ब्य पूर्वपक्षोऽपि तुच्छः तामेवावलम्ब्येन्द्रदृष्टेषु विषयेष्विन्द्रजुष्टेषु भोग्येष्विन्द्रसृष्टेषु घटादिष्विन्द्रदत्तेषु ग्रामादिषु चेन्द्रियत्वपूर्वपक्षप्रसङ्गात् इन्द्रियशब्दरूढिमवलम्ब्यातिप्रसङ्गपरिहारे तत एव प्राणव्यावृतेरपि लाभात् सूत्रयोजनाक्लेशभिया तुच्छाधिकरणार्थपरिग्रहस्तु वदान्यगृहान्तःप्रवेशक्लेशभिया तद्द्वारदृष्टपरिग्रहतुल्यः । न च भाष्यकारमते सूत्रयोजनाक्लेशोपि । तथाहि- प्रतिज्ञाध्याहारस्तावदसिद्धः । ते वागादयः श्रेष्ठादन्यत्र श्रेष्ठादन्ये तत्त्वान्तराणीति सौत्रपटैरेव प्रतिज्ञालाभात् । भेदश्रुतेरित्यनेन पैानरुक्त्यमप्यसिद्धम् तद्व्यपदेशादित्यस्य उत्पत्तिव्यपदेशादित्ये-तदर्थकत्वेन भेदव्यपदेशादित्येतदर्थकत्वाभावात् । उत्पत्तिव्यपदेशः प्राणेऽप्यस्तीति व्यभिचारवारणाय श्रेष्ठादन्यत्रेति हेतावपि विशेषणम् । इन्द्रियाणीति मनः सर्वेन्द्रियाणि चेत्येतच्छ्रुतिगतशब्दानुकरणम् । तत्र इतिशब्दमात्रमध्याहर्तव्यम् । तथा च श्रेष्ठव्यतिरेकेण श्रेष्ठोत्पत्तिव्यतिरेकेणे-न्द्रियाणि जायन्त इति शब्देनोत्पत्तिव्यपदेशादिति हेत्वर्थो भवतीति श्रेष्ठव्यतिरेकोक्त्या श्रेष्ठोत्पत्तिव्यतिरेक इन्द्रियाणामुत्पत्तिव्यपदेशोक्तिसामर्थ्याल्लभ्यते । यथा सिंहतुल्यपराक्रमो राजेत्यत्र राज्ञः पराक्रमोक्तिसामर्थ्यात्सिंहोक्त्या सिंहपराक्रमो लभ्यते । एवम्भूत एव हेत्वर्थो भाष्ये व्यपदेशभेदादित्यनेन व्यपदेशविशेषादित्यर्थकेन विवक्षितः । अत एव कोऽयं व्यपदेशभेद इति प्रश्नपूर्वकं हेत्वर्थस्यैव विवरणमुत्तरत्र क्रियते न तु हेत्वर्थस्य प्रसाधनम् हेत्वर्थस्वरूपस्यैव प्रश्नदर्शनात् । अतः श्रेष्ठादन्यत्रेत्येतद्धेतावप्यन्वेति इन्द्रियाणीत्येतद्धेतावेवान्वेतीति। इदं सर्वं भाष्याभिमतमेव । तच्छब्दस्यानन्तरोक्तपरामर्शकत्वमप्युपपद्यतएव न वियदश्रुते (ब्र. अ. २ पा. ३ सू. १) रित्यारभ्योत्पत्तेः प्रकृतत्वात्, तथा प्राणा: (ब्र. अ. २ पा. ४ सू. १) श्रेष्ठश्चे (ब्र. अ. २ पा. ४ सू. ८) ति सूत्रयोः प्राणेन्द्रियविषयतयापि तस्याः प्रकृतत्वात् । एतस्माज्जायत इति विवक्षितमूलश्रुत्युपात्ततयाऽपि तत्परामर्शोपपत्तेश्च । तथा प्राणा इति सूत्रे हि विषयवाक्यसंनिहितोपमानस्यापि तच्छब्देन परामर्शोऽङ्गीकृतः । इहेन्द्रियाणीति सौत्रशब्देनैवोपात्ते मूलश्रुतिवाक्ये तत्संनिहितपरामर्शः सुतरामुपपद्यते । एतेन- प्राण इन्द्रियाणीति संज्ञाभेदमात्रं न तत्त्वान्तरत्वसाधकमिति शङ्काऽपि- निरस्ता प्राणोत्पत्तिव्यतिरेकेणोत्पत्तिकथनस्य हेत्वर्थत्वात् । नन्वेवमपि श्रेष्ठादन्यत्रेत्यस्य साध्यान्वितस्य हेतावव्यावृत्त्याऽन्वयः हेतावितिशब्दाध्याहारश्चेति क्लेशोऽस्तीति- चेद् न परमतेऽप्यावृत्त्या तदन्वयावश्यम्भावात् । टीकायां हि- तेनेन्द्रियशब्देन तेषां वागादीनां व्यपदेशादिति हेतुरुक्तः स तु वागादीनामेव श्रेष्ठं वर्जयित्वेन्द्रियशब्देन व्यपदेशादित्यवधारणापेक्षः अन्यथेन्द्रियव्यपदेशस्य प्राणव्यावृत्तत्वाप्रतीतौ तत्प्रवृत्तिनिमित्तस्येन्द्रियत्वस्य प्राणाद्व्यावृत्त्यषिद्धेः । अत एव चाचार्यैर्दर्पणे सावधारणो हेतुरुपन्यस्तः- तेनेन्द्रियशब्दे तेषामेव वृद्धव्यवहारे व्यपदेशादिति। एतेन- हेतावितिशब्दाध्याहारक्लेशोऽपि- निरस्तः । परमतएव भेदश्रुते- (ब्र. अ. २ पा. ४ सू. ८) रित्यधिकरणान्तरसूत्रे वागादीनीन्द्रियाणि श्रेष्ठात्तत्त्वान्तराणीति प्रतिज्ञाध्याहारार्थबहुक्लेशसद्भावात् । इन्द्रियाणि श्रेष्ठादन्यत्रेत्यस्मात्सूत्रादनुषङ्गतः प्रतिज्ञा लभ्यत इति चेत्तर्हि श्रेष्ठादन्यत्रेत्यस्य ते वागादयः श्रेष्ठादन्यत्रेन्द्रियाणीति पूर्वाधिकरणसाध्यान्वितस्य पुनस्तद्धेतावन्वितस्य भेदश्रुतेरिति सूत्रेऽप्यन्वय इति परमत एवातिक्लेशः । अस्मन्मते त्विन्द्रियाणीत्यस्य विनैवेतिशब्दाध्याहारं तइन्द्रियाणीति पक्षनिर्देशार्थत्वेनाप्यस्त्युपपत्तिः । तथा पक्षनिर्देशस्य मनःसर्वेन्द्रियाणि चेतीन्द्रियोत्पत्तिप्रतिपादकवाक्यस्मरणार्थत्वाद् न वैयर्थ्यं तत एव तत्स्मारणसिद्धेः न हेतावपि तदन्वयापेक्षा इति शब्दाध्याहारेण हेतौ तदन्वयस्यापि अनुकृतेस्तस्य चेति सूत्रे तस्य चेत्यंशस्यैव विवक्षितश्रुतिवाक्यसूचनप्रयोजनात् । तस्मात्स्वरूपव्याक्रियैव निराक्रियेत्यभिप्रेत्य टीकायां वृत्तिकारमतोपन्यास इत्येव युक्तम् ॥१७॥१८॥१९॥
इत्यष्टममिन्द्रियाधिकरणम् ॥
संज्ञामूर्त्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
विषयप्रदर्शकं भाष्यमुदाहृत्य व्याचष्ट इति ।
भाष्यं गृहीत्वा तदुदाहृतं विषयवाक्यं व्याचष्ट इत्यर्थः ।
अरुणादाविति ।
यद्यप्यरुणाधिकरणे एकहायनीद्रव्यवदारुण्यस्यापि साक्षादेव क्रयान्वयः शाब्दो व्युत्पादितः तथापि श्रुतक्रयसाधनत्वनिर्वाहार्थमारुण्यस्यैकहायनी-द्रव्यावच्छेदकत्वेनार्थः पार्ष्णिकान्वयोऽभ्युपगत इति तदभिप्राया परम्परासंबन्धोक्तिः । सप्तदशारत्निर्वाजपेयस्य यूप इति तु साक्षात्प्रधानसंबन्धाऽसंभवेन शाब्दपरम्परासंबन्धाश्रयणे उदाहरणम् ।
यत्र च कर्ता कर्त्रन्तरं प्रति करणमिति ।
जीवस्तावत् तृतीयाश्रुत्या करणत्वेन प्रतीयते चेतनस्य चेतनान्तरं कर्तारं प्रति करणतयापकरणत्वं च प्रयोज्यकर्तृत्वेनैव भवति नान्यथेति भावः । न च पाचयत्योदनं देवदत्तेनेतिवदिह तृतीयायाः कर्त्तर्थत्वं शङ्कनीयम् तत्र ण्यन्तधातूक्ताख्याताभिहितकर्तृकप्रयोजकव्यापारव्यतिरेकेण तत्प्रकृतिभूतपचत्यर्था-नभिहितकर्तृकप्रयोज्यव्यापारवदिहाख्याताभिहितकर्तृकाध्यारोपितप्रयोजकव्यापाररूपव्यापारव्यतिरेकेणानभिहितकर्तृकस्य कस्यचित्प्रयोज्यव्यापारस्याभावात् । तस्मादुत्तमपुरुषनिर्दिष्टाया देवतायाः कर्तृत्वेनान्वये सति तृतीयान्तनिर्द्दिष्टस्य जीवस्य तस्यां करणत्वेनैवान्वयो वक्तव्य इति भावः ।
प्रधानान्वययोग्यतायामिति ।
यथेष्टकाः पक्त्वा भुङ्क्ते इत्यत्रेटकानां प्रधानक्रियान्वयाऽयोग्यत्वा-दुपसर्जनक्रियान्वयः तथेहापीत्यर्थः । प्रवेशक्रियान्वयपक्षेऽपि न कर्तरि तृतीया । न च यथेष्टकाः पक्त्वा भुङ्क्ते इत्यष्टकानां कर्मत्वस्य क्त्वाप्रत्ययेनानभिधानादिष्टका इति कर्मणि द्वितीया तथेह कर्तरि तृतीया शङ्कनीया युक्ता तत्र क्त्वाप्रत्ययस्य कर्मानभिधायित्वाद् द्वितीया समानकर्तृकयोः पूर्वकाल इति स्मरणादिह क्त्वाप्रत्ययेन कर्तुरभिधानमस्तीति न कर्तरि तृतीया युक्ता । न च- क्रियाद्वयकर्तुरैक्यमेव क्त्वाप्रत्ययार्थः न तु तद्गतकर्तृशक्तिरप्यतस्तदन-भिधानात्तत्र तृतीया भवितुमर्हतीति- शङ्कनीयम् तथा सतीष्टकाः पक्त्वाऽहं भोक्ष्य इत्यत्रापि मयेति तृतीयाप्रसङ्गात् । न च- भोजनक्रियाकर्तुराख्यातेनाभिधाना-त्तृतीया न भवतीति वाच्यम् न ह्यनभिहितसूत्रस्याभिहितकारकशक्त्याश्रये तृतीया न भवतीत्यर्थः किंत्वनभिहितकारकशक्त्याश्रये भवतीति भाष्यवार्तिकयोः पर्युदासपक्षाश्रयणात् । अत एव प्रासादे आस्त इत्यत्र प्रसीदन्त्यस्मिन् जना इत्यर्थे विहितेन घञा प्रसादनक्रियाधिकरणत्वस्याभिहितत्वेऽपि आसिक्रियाधि-करणत्वस्यानभिधानात् सप्तमी । एवमिहापि भुजिक्रियाकर्तृत्वस्याभिधानेऽपि पाकक्रियाकर्तृत्वानभिधानात् तृतीया स्यात् । तस्मात्तत्र क्त्वाप्रत्ययेन कर्तृशक्त्यभिधानमाश्रित्यैव तृतीयाभाव उपपादनीयः तथेहापि कर्तरि तृतीया न भवतीति करणार्थैव सेति युक्तम् । तदयमर्थः- सेयं देवता जीवरूपेणानुप्रविश्य तद्भोगार्थं नामरूपे व्याकरवाणीति संकल्पितवतीति॥२०॥२१॥२२॥
इति नवमं संज्ञाक्लृप्त्यधिकरणम् ॥
इति श्रीमद्वरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि-श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले द्वितीयाध्यायस्य चतुर्थः पादः ॥b॥ इति लिङ्गशरीरश्रुतीनां विरोधपरिहाराख्यश्चतुर्थः पादः ॥b॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्येऽविरोधाख्यो द्वितीयोऽध्यायः ॥