अद्वैतशारदा

कल्पतरुपरिमलः

स्मृत्यधिकरणविषयाः

स्मृत्य­न­व­का­श­दो­ष­प्र­सङ्ग इति चेन्ना­न्य­स्मृ­त्य­न­व­का­श­दो­ष­प्र­स­ङ्गात् ॥ १ ॥
सर्वज्ञेति ।
यः सर्वज्ञ इति श्रुत्या ब्रह्मण इव ज्ञानै­र्बि­भ­र्तीति श्रुत्या कपिलस्यापि सार्वज्ञ्यं प्रसिद्धम्, अतः सर्व­ज्ञ­भा­षि­तत्वं वेदसांख्ययेाः सममित्यर्थः । ननु स्मृत्य­न्त­रेभ्यो निरवकाशत्वेन प्राबल्येऽपि श्रुतिभ्यः प्राब­ल्या­भा­वा­त्कथं पूर्वपक्षः इत्यत्राह
पूर्वपक्षमाहेति ।
वेदं कृत्वा वेदिरिति पदा­र्थ­ध­र्म­क्र­म­वि­ष­य­श्रु­तितः क्षुत आचामेदिति स्मृतेः पदा­र्थ­वि­ष­य­त्वे­नेव साव­का­श­श्रु­ति­तोऽपि निरवकाशत्वेन स्मृतेः प्राबल्यं भवेदतः पूर्वपक्षो युक्त इत्याशयः ।
अर्थापहारेणेति ।
सर्व­वे­ष्ट­न­रू­प­स्मृ­त्य­र्था­प­हा­रेण तन्मा­न­भू­त­श्रु­ते­र­प्य­प­हा­रा­त्त­द­नु­मानं बाधि­त­वि­ष­य­मि­त्यर्थः । क्षुत­नि­मि­त्त­का­शु­द्ध्य­प­न­या­र्थ­मा­च­म­न­क­र­णेऽपि न वेद­वे­दि­क्र­म­वि­रोधः; आचमनस्य शुद्धिद्वारा वेदि­क­र­णा­ङ्ग­त्वा­द­ङ्गस्य चाव्य­व­धा­य­क­त्वात् । उक्तं हि वार्तिके-bवेदं कृत्वा यदा वेदिमकृत्वा चामति क्षुते ।bवेदीमेव करोतीति स वक्तुं शक्यते तदा॥bवेदिरेव ह्यनाचम्य कुर्वतो विगुणीभवेत् ।bतामेव सगुणां कर्तुं शुद्ध्या न व्यवधास्यते॥ इति।bसत्यपि व्यवधाने श्रौत­स्मा­र्त­स­क­ल­प­दा­र्थ­प्रा­प्त्य­न­न्त­र­मे­वा­नु­ष्ठा­नाय क्रमस्य संग्राह्यत्वात् पश्चा­त्सं­ग्रा­ह्यस्य पूर्व­प्रा­प्त्य­नु­रो­धेन संग्र­हौ­चि­त्यान्न विरोध: । तदप्युक्तं वार्ति­के-bप्रा­प्तेषु हि पदार्थेषु क्रमः पश्चादपेक्ष्यते ।bयदा प्राप्तेष्वसौ क्लृप्तः केन पश्चा­द्वि­रु­ध्यते॥ इति।
नन्वधिकरणारम्भे तट­स्थे­ना­क्षिप्ते तदारम्भः सिद्धान्तिना समर्थनीयः कथं पूर्वपक्षी समाधत्त इत्यु­क्ति­रि­त्या­शङ्क्य पूर्व­प­क्षो­प­पा­द­क­त्व­सा­म्यात् सिद्धान्त्येव पूर्व­प­क्षि­श­ब्देन लक्षणयोक्त इति व्याचष्टे-
पूर्वपक्षीति ।
पौरुषेयत्वेनेति ।
ननु वेद­स्या­र्थ­ज्ञा­न­पू­र्व­क­त्वेन पौरु­षे­य­त्व­म­त्र­त्य­सि­द्धा­न्त­व­क्ष्य­मा­ण­यैव युक्त्या शास्त्र­यो­नि­त्वा­धि­क­रणे निराकृतं, कथमिह पुनः पौरुषेयत्वशङ्का ? एवं तर्हि सांख्य­त­न्त्र­म­प्य­पैा­रु­षे­य­मेव, तद्वक्तुः कपिलस्य वासुदेवांशत्वेन परब्रह्मरूपतया तस्यापि तन्निः­श्व­सि­त­त्वाऽ­वि­शे­षा­दि­त्या­शयः । ननु श्रुतीनामपि स्फुटतरत्वं विवक्षितं, यथा कथञ्चन श्रुति­त्वे­ना­स्फु­ट­त्व­क­ल्पने कपिलवचसामपि सूत्रत्वेन शक्यं तत्कल्पनम्, अतः स्फुटाऽ­स्फु­टत्वं न वैषम्यम् । अत एव श्रुतयः कपि­ल­व­च­नै­र्नि­र्णे­या­र्था­स्त­त्सा­पेक्षा इत्य­धि­क­र­णा­ना­र­म्भ­श­ङ्कायाः प्रथ­म­स­मा­धा­न­मा­पा­तत इति टीकायामुक्तम् ।
अन्यथा हि स्पृष्ट्वो­द्गा­ये­दिति श्रुतिरपि सर्व­वे­ष्ट­न­स्मृत्या निर्णेयार्था तत्सापेक्षेति कल्पनं प्रस­ज्ये­ते­त्या­शङ्क्य व्याचष्टे-
अनन्यपरत्वमिति ।
पूर्वपक्ष्याशयं निराकरोति-
सग­र­पु­त्र­प्र­त­प्तु­रिति ।
यत्र वासुदेवांशेन वैदिकार्थो वर्ण्यते, तत्र तस्य सार्वा­त्म्यो­प­दे­ष्टृत्वं दृष्टम्, अत­स्त­द्वि­रु­द्धा­र्थो­प­दे­ष्टु­स्त­तोऽ­न्यत्वं निश्चीयत इति भावः ।
तद­र्थ­स्मृ­ति­पू­र्व­का­णी­त्य­त्रापि बहु­व्री­हि­स­मा­स­माह-
तेषामिति ।
तद­र्था­नु­भ­व­पू­र्विका इत्यत्र तमाह-
तासामिति ।
यद्यपि तद­र्थ­स्मृ­ति­पू­र्व­का­णी­त्य­त्रापि बहु­व्री­हि­ग­र्भ­ब­हु­व्री­हि­र­वि­शि­ष्ट­स्त­थापि तद­र्था­नु­भ­व­पू­र्विका इत्यत्र बहु­व्री­हि­द्व­य­प्र­द­र्श­नेन तत्रापि तदुन्नेतुं शक्यमिति लाघवार्था तदनुक्तिः ।
कथञ्चिदित्यर्थ इति ।
विलम्बेनेत्यर्थ इत्यर्थः । अनेनाग्रिमस्य तावदित्यस्य ततः प्रागेवेति शैघ्र्यमर्थ इत्यर्थादुक्तं भवति॥ १॥
दौहित्रस्य कर्मेति ।
ब्राह्म­णा­दे­रा­कृ­ति­ग­ण­त्वात् कर्मणि ष्यञ् प्रत्यय इति भावः ॥२॥ अव्य­क्त­स्यो­त्पत्तौ स्मृतिं प्रदर्श्य तल्लये स्मृत्य­न्त­र­प्र­द­र्श­ना­त्तस्य प्रलये नाशोऽभ्युपगत इति प्रतिभाति, तथाऽभ्युपगमो न युक्तः, तस्य ज्ञानै­क­नि­व­र्त्य­त्वा­भ्यु­प­ग­मा­दि­त्या­शङ्क्य व्याचष्टे-
ज्ञानात्प्रतीयत इति ।
अव्य­क्तो­त्प­त्ति­स्मृ­तिस्तु भूत­सू­क्ष्मो­त्प­त्ति­वि­षया । एवं च यद्यपि लयस्मृतिरपि तद्विषया योजयितुं शक्या, मूल­का­र­ण­वि­ष­य­त्वेऽपि प्रलये सूक्ष्मा­व­स्था­प­त्ति­वि­षया योजयितुं शक्या, तथापि स्वमते मूल­का­र­णा­म­वि­द्या­रू­प­मिति विभाषयितुं ज्ञाना­दि­त्य­ध्या­हृ­तम् । ऋषिं प्रसू­त­मि­त्या­दि­म­न्त्रा­र्द्ध­स्या­य­मर्थः । अग्रे सर्गादौ स्वस्मा­त्प्र­सू­त­मृषिं कपिलं कनकवर्णं हिरण्यगर्भं ज्ञानै­र्ज्ञ­प्ति­क­र­णै­र्वे­दैर्यो बिभर्ति अयं सक­ल­वे­दा­र्थ­वि­द्भ­व­त्वि­त्य­नु­ग्र­ह­क­टा­क्षेण जाय­मा­ना­व­स्था­या­मेव पश्यति चेति यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाँश्च प्रहिणोति तस्मै” । “हिरण्यगर्भं पश्यति जाय­मा­न­मि­त्या­दि­म­न्त्रा­न्त­रै­का­र्थ्यात् ।
अत्र बिभर्तीत्येतद् भृञ्धातोः पोषणमर्थमादाय व्याचष्टे-
पूरयतीति ।
मन्त्र­ग­त­य­च्छ­ब्द­प्र­ति­नि­र्दे­श­क­त­च्छ­ब्द­घ­टितं वाक्यं दर्शयति-
यः स सर्वेषामात्मेति ।
यद्यपि “यो योनिं योनि­म­धि­ति­ष्ठ­त्येको विश्वानि रूपाणि योनीश्च सर्वा इति पूर्वा­र्द्ध­यु­क्तेऽ­स्मिन् मन्त्रे नास्तीदं वाक्यं नापि पूर्वे­त­र­म­न्त्र­यो­रस्ति तयोः विद्याविद्ये ईशते यस्तु सोऽन्य इति सर्वाधिपत्वं कुरुते महात्मेति च विधे­या­न्त­र­प­र­त्वात् तथापि पुरुष एवेदं सर्वं त्वं स्त्री त्वं पुमा­न­सी­त्या­दि­त­त्र­त्य­म­न्त्रा­न्त­र­प्र­ति­प­न्नार्थ इह विधेयत्वेन गृहीतः । तद्ग्रहणं च सार्वा­त्म्य­प्र­ति­पा­द­न­प्र­धा­ना­या­मस्यां श्वेता­श्व­त­रो­प­नि­षदि न भेद­नि­ष्ठ­सां­ख्य­त­न्त्र­क­र्तृ­म­हि­म­प्र­ति­पा­द­नस्य प्रसक्तिरस्तीति तेनापि हेतुना मन्त्रस्य तद्वि­ष­य­त्व­नि­रा­क­र­णार्थं सांख्य­क­र्तृ­वि­ष­य­त्वेऽपि तेन तस्य वेदा­र्थ­ज्ञा­न­व­त्त्व­मात्रं सिध्यति न तु क्वचिदपि विषयेऽस्य भ्रमो विप्रलम्भश्च नास्तीत्येतदपि । मनोस्तु यद्वै किञ्चेति वीप्साशब्देन भेषजत्वोक्त्या च तदुक्तेः सर्वत्राप्यर्थे तदुभयराहित्यं सिध्यतीत्यपि विशेषो द्रष्टव्यः । यजुर्वेदे यो ब्रह्मवर्चसकामः स्यात्तस्माएतं सोमारौद्रं चरुं निर्वपेदिति ब्रह्म­व­र्च­स­का­म­स्येष्टिं विधाय आज्यं प्रोक्षणमाज्येन मार्जयन्ते इत्यन्तेन तस्य प्रत्येकं ब्रह्म­व­र्च­सो­प­यो­गा­र्थ­स­हितं वैशे­षि­क­म­ङ्ग­क­लापं विधाय यावदेव ब्रह्मवर्चनं तत्सर्वं करोतीति फला­र्थ­वा­दा­न­न्त­रम् अतिब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो दुश्चर्मा भव­ती­त्ये­वं­रू­पे­ष्ट्य­नु­ष्ठा­ने­ना­ति­ब्र­ह्म­व­र्चसं क्रियते तेन यजमानः श्विची भवितुं प्रभवतीत्येवं फलमेव पुनर्दोषरूपं संकीर्त्य तत्परिहारार्थं मानवीऋचौ धाय्ये कुर्यादिति मनुना दृष्टे ऋचावग्निं वः पूर्व्यङ्गिरा देवमीडे वसू­ना­मि­त्या­दीनां षण्णाम् ऋचां मध्ये ये केचिट्वे ऋचौ सामिधेनीमध्ये धाय्यारूपेण योजयेदिति विधाय कथं मान­वी­भ्या­मृग्भ्यां श्वित्रपरिहार इत्या­का­ङ्क्षायां यद्वै किञ्च मनु­र­व­द­त्त­द्भे­षजं भेषजमेवास्मै करो­ती­त्य­र्थ­वा­देन तत्संघटनं कृतम् । धर्मवक्त्रा मनुना यन्मन्त्रजातं दृष्टं तत्सर्वं भेषजं भवतीति तदि­द­म­त्रो­दा­हृ­तम् । ननु यद्वै किञ्चेति वचनं न स्वाय­म्भु­व­म­नू­क्तीनां भेष­ज­त्वो­क्ति­परं, किं तु सम­ष्टि­म­नोऽ­भि­मा­नि­हि­र­ण्य­ग­र्भौ­क्ती­नाम्, तैत्ति­री­य­शा­खायां हि “मानवीऋचौ धाय्ये कुर्यादिति विधि­शे­षा­र्थ­वा­द­रू­पम् इदं वचनं श्रूयते । अत्रानूद्यमाने ऋचौ न मनोः प्रकाशिके, किं तु मनसः । देवानां यन्मन इति ह्यनूद्यमानयोः ऋचोः श्रूयते अतो मानवी इत्यत्र सम­ष्टि­म­नो­भि­मा­नि­त्व­ध­र्मेण हिरण्यगर्भः प्रकृ­त्यं­शे­नोक्त इति स एव यद्वै किञ्चेति वाक्येऽपि मनुशब्दोक्तो भवितुमर्हतीति- चेद् , यद्येवं किञ्चि­दि­ष्टि­वि­कृतौ मनोः ऋचः सामिधेन्यो भवन्तीति विधिशेषतया श्रुतं मनुर्वै यत्कि­ञ्चि­द­व­द­त्त­द्भे­ष­ज­मिति वचनमुदाहरणमस्तु । न हि तत्र मनः प्रकाशिका ऋचेा विनियुज्यन्ते, किं तु मानससूक्तगता एव तत्र रूढि­भ­ञ्ज­का­भा­वात् । अत एव तन्त्रवार्तिके मनूक्तीनां भेषजतायामिदमेव वचनमुदाहृतम् । भाष्ये- यद्वै किञ्चे­त्यु­दा­ह­र­ण­म­ना­द­रेण ।
सर्व­ज्ञ­त्वा­दि­भि­रिति ।
ननु- सर्व­ज्ञ­त्वा­दि­व­च­नाद् ममा­न्त­रा­त्मे­त्या­दि­क­म­न्त­र्या­मि­वि­षयं स्यान्न तु जीवै­क्य­वि­ष­य­मिति- चेन्न । बहवः पुरुषा ब्रह्म­न्नि­त्या­दिना प्रश्नो­त्त­र­त्वेन जीव­वि­ष­य­त्वा­व­श्यं­भा­वात् परमेश्वर एक एव जीवभावेन सर्वशरीरेषु वर्तत इति एतद्दृष्ट्या पर­मे­श्व­र­गु­ण­व­र्ण­न­स्या­प्य­वि­रो­धात्
॥ इति प्रथमं स्मृत्यधिकरणम् ॥

एतेन योगः प्रत्युक्तः ॥ ३ ॥ योग­स्व­रू­प­त­त्सा­ध­ने­त्या­दि­टी­का­ग्रन्थं व्याचष्टे-
एषामिति ।
श्रुतौ सांख्य­यो­ग­श­ब्दा­भ्या­मिति ।
नन्विदं श्रौत­लि­ङ्ग­मा­ल­म्ब्या­धि­क­श­ङ्का­प­रि­हारौ सांख्य­यो­ग­सा­धा­रणौ कथं योग­मा­त्र­वि­ष­यत्वं तयोरुक्तम् । उच्यते । कपिलमितिवदिदं श्रुति­सा­मा­न्य­मा­त्र­मिति पूर्वाधिकरण एवोक्तप्रायम् अतो नेदं लिङ्ग­म­धि­क­श­ङ्का­बीजं किं तु योगशास्त्रे योगनिरूपणं श्वेता­श्व­त­रो­प­नि­ष­दा­द्यु­प­दि­ष्ट­यो­ग­प्र­प­ञ्च­न­रू­प­मिति प्रत्य­क्ष­श्रु­ति­मू­ल­त्व­म­धि­क­श­ङ्का­बीजं तस्मिन्नंशे तस्य प्रामाण्येऽपि न तात्पर्याविषये स्वत­न्त्र­प्र­धा­नादौ प्रामाण्यम् अतो न तेन स्वत­न्त्र­प्र­धा­ना­दि­सि­द्धि­रिति तत्परिहारः ॥३॥
इति द्वितीयं योग­प्र­त्यु­क्त्य­धि­क­र­णम् ॥

न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
अचे­त­न­प्र­कृ­ति­क­मिति ।
ननु अवि­द्या­प्र­कृ­ति­क­त्वेन सिद्धसाधनम् चेतनप्रकृतिकं न भव­ती­त्य­र्थ­क­ल्पने सिद्धान्तिमते दृष्टान्ते साध्यवैकल्यम् हेतुविशेषणे वैयर्थ्यं चेति- चेद्, उच्यते कार्यद्रव्यं चेतनप्रकृतिकं न भवति द्रव्य­त्वा­दा­त्मा­वि­द्या­व­दि­त्य­नु­मा­न­मत्र विवक्षितम् । कार्य­द्र­व्य­मा­त्र­प­क्षी­क­र­ण­ज्ञा­प­नाय हेतुविशेषणम् । घटस्यापि पक्षीकरणान्न तत्र साध्य­वै­क­ल्य­शङ्का । घटयतीति घटः घटे­र्ण्य­न्ता­त्प­चा­द्यच् । णेरनिटीति णिलोप: । अघ­टि­त­सं­घ­ट­ना­प­टी­योऽ­ज्ञानं तद्वदित्यर्थः ।
भाष्यटीकयोः प्रत्यु­दा­ह­र­ण­सं­ग­ति­र­ग्रि­म­टी­कायाः प्रदर्शितेति तात्प­र्य­मुक्त्वा स्वय­म­स्या­धि­क­र­णस्य दृष्टा­न्त­सं­ग­ति­माह-
वेदेति ।
प्रत्यक्षमेति ।
स्वदृ­ष्ट­लि­ङ्ग­कस्य स्ववि­शे­ष­तो­दृ­ष्टा­नु­मा­नस्य प्रत्य­क्ष­व­द­ति­वि­श्व­स­नी­य­त्वा­त्प्रायः प्रत्य­क्ष­मि­द­मिति संभावनाविषयता भवतीत्यर्थः । अनुश्रवो वेद: तद्ग­म्य­मा­नु­श्र­वि­कम् । सुखाद्यात्मत्वं सुख­दुः­ख­मा­हा­त्मत्वं तद् उच्चा­व­च­वि­शे­ष­णे­ना­ने­क­प्र­का­र­त्व­वा­चिना साति­श­य­त्वा­दि­सू­च­नेन दर्शितम् ।
तद्व्याचष्ट इति ।
लोक­तोऽ­न­व­ग­म्य­मा­नस्य चेत­न­प्र­कृ­ति­क­त्वस्य केव­ल­श्रु­ता­र्था­पत्या कल्प­ना­या­म­चे­त­न­त्व­प्र­ति­पा­द­क­श­ब्द­वि­रो­धस्य दूष­ण­त­यो­द्भा­व­न­सा­म­र्थ्या­ल्लो­का­नु­भ­व-स­द्भावे श्रुता­र्था­प­त्ते­स्त­द्वि­रोधो न दूषणम् किंतु प्रत्य­क्ष­श्रु­ति­रेव चैत­न्या­न­भि­व्य­क्ति­प­र­तया व्याख्येया भवेदिति सूचितं भाष्ये तद्वि­वृ­णो­ती­त्यर्थः ।
आर्थत्वे उपोद्बलकापेक्षा तदेव नेत्याहेति ।
ननु - आर्थत्वमिहापि तुल्यमेव; भूतेन्द्रियाणां वक्तृ­त्व­वि­व­दि­तृ­त्वा­न्य­था­नु­प­पत्या चैतन्यस्य कल्प्यत्वाद् देवतात्वस्य मनु­ष्य­त्वा­दि­व­च्चै­त­न्य­व्या­प्त­जा­ति­वि­शे­ष­तया तस्य तदनुमेयत्वाच्च । न चेक्षतिश्रवणं चैत­न्य­श्र­व­ण­मे­वेति वाच्यम् ईक्षत्यधिकरणे तस्य भाक्त­त्वे­नेा­क्त­त्वात् प्रलये सुषुप्तानां चेत­ना­ना­म­प­ञ्ची­कृ­त­भू­त­दृ­ष्टि­स­मये चैत­न्यो­द्भ­वा­भा­वेन तस्य तद­भि­मा­नि­दे­व­ते­क्ष­ण­प­र­त्व­स्या­यु­क्त­तया भाक्त­त्वा­व­श्य­म्भा­वा­च्चेति चेदुच्यते - श्रुत­चे­त­न­प्र­कृ­ति­क­त्व­नि­र्वा­हाय भूतेन्द्रियाणां चेत­न­त्व­मे­वा­भ्यु­प­ग­म्यत इति शङ्काग्रन्थे तेजः­प्र­भृ­ती­क्ष­णस्य मुख्यत्वमेव संभ­व­ती­ती­क्ष­त्य­धि­क­र­णो­क्त­भा­क्त­त्वा­क्षे­पे­णात्र शङ्का तद­भा­क्त­त्वो­पो­द्ब­ल­क­तया । मृद­त्र­वी­दि­त्या­द्यु­दा­ह­र­णम् ।
ननु तेजआदिशब्दानां तदधिष्ठातरि परमेश्वरे शक्तिरेव भाष्य­टी­क­यो­र­भि­म­ताऽस्तु किमिति लाक्ष­णि­क­त्व­मु­क्त­मि­त्या­श­ङ्क्याह-
तदिदमुक्तं कथञ्चिदिति ।
ईक्षणस्य मुख्यत्वे कथ­ञ्चि­दि­त्ये­त­न्ना­न्वेति परमेश्वरस्य मुख्ये­क्ष­ण­स­द्भा­वा­द­त­स्त­दी­ये­क्ष­णस्य मुख्यत्वे तेज­आ­दि­श­ब्दा­ना­म­मु­ख्य­त्व­मा­या­ती-त्ये­त­त्सू­च­ना­र्थ­मिति लाक्षणिकत्वमेव तेषां मूलाभिमतमिति भाव: ।
पक्षे एवेति ।
व्यति­रे­कि­हे­तु­व्या­वृ­त्त्यर्थं साध्या­सा­ध­क­वि­शे­ष­णम् । ननु- विशे­ष­व्या­प्त्य­पे­क्षा­या­म­सा­धा­र­ण्येऽपि जग­च्चे­त­न­प्र­कृ­तिकं न भवति, चेत­न­वि­शे­ष­गु­णा­नु­ग­ति­र­हि­त­त्वाद् यद्य­द्वि­शे­ष­गु­णा­नु­ग­ति­र­हितं न तत्तत्प्रकृतिकं यथा सुव­र्ण­वि­शे­ष­गु­णा­नु­ग­ति­र­हितं पटादि न सुव­र्ण­प्र­कृ­ति­क­मिति सामा­न्य­व्या­प्त्य­पे­क्षायां नासाधारण्यम् । न च सामा­न्य­व्या­प्ति­र्य­त्त­द्भ्या­म­न­नु­गता नानु­मा­नो­प­यो­गि­नीति शङ्कनीयम् यो यस्य ग्रन्थस्य प्रणेता स तस्मा­द­धि­क­वि­ष­य­ज्ञा­न­वा­नि­त्ये­व­मा­दि­रू­पाया: सामा­न्य­व्याप्तेः सिद्धा­न्ति­नाऽ­प्य­नु­मा­ना­ङ्ग­तया प्राग­ङ्गी­कृ­त­त्वात् । आचा­र्यै­र­धि­क­र­णा­रम्भे प्रदर्शितस्य विशे­ष­व्या­प्ति­मू­ल­क­स्यै­वा­नु­मा­न­स्या­सा­धा­र­ण्य­श­ङ्का­र­हि­त­त्वा­च्चेति चेत् उच्यते । यत्त­द्भ्या­म­न­नु­गता सामा­न्य­व्या­प्तिर्न स्वत­न्त्राऽ­नु­मा­ना­ङ्गम् । ईश्वरो वेदा­धि­क­द्र­ष्टे­त्या­द्य­नु­मानं बुद्धिसंवादेन श्रुत्य­व­ग­त­सा­र्व­ज्ञ्य­दृ­ढी­क­र­णा­र्थम्, न स्वयमेव कस्यचिदर्थस्य साधनार्थमिति तत्राननुगतापि सामा­न्य­व्या­प्ति­रु­प­न्य­स्यते । तदभावेऽपि हि यथा सोम्यैकेन मृत्पि­ण्डे­ने­त्यादौ दृष्टा­न्तो­प­न्या­स­मा­त्रेण बुद्धिसंवादो जायते । आचार्यैः प्रद­र्शि­त­म­प्य­नु­मा­न­म­प्र­यो­ज­क­त्व­प­रि­हा­राय यदि चेतनप्रकृतिकं स्यात्त­द्वि­शे­ष­गु­णा­नु­ग­ति­म­त्स्या­दिति तर्कमपेक्षमाणं तन्मूलभूतां सामा­न्य­व्या­प्ति­मु­प­जी­व­तीति तदपि नावतिष्ठते, किं त्वापा­त­तोऽ­न­नु­ग­त­सा­मा­न्य­व्या­प्त्य­न­पे­क्ष­मिव भासमानं पूर्व­प­क्षा­व­ल­म्ब­न­म­स्त्वि­त्या­श­येन न विलक्षणत्वादिति सौत्रानुमाने स्पष्टे विद्य­मा­नेऽ­प्य­नु­मा­ना­न्त­र­मा­चा­र्यै­रु­प­न्य­स्तम् । तत्तु महांश्चायं पारिणामिकः स्वभा­व­वि­प्र­कर्षः पुरुषादीनां केशनखादीनां च रूपादिभेदादिति भाष्यो­द्भा­षि­त­व्य­भि­चा­रे­णैव तर्क­मू­ल­सा­मा­न्य­व्या­प्ते­रपि शैथिल्यापादनाद् दूषितमिति तद्दूषणे फला­न्त­र­मा­चा­र्यैर्न कृतम् ।
ननु प्रमा­ण­वि­ष­य­वि­वे­च­क­त­ये­त्य­यु­क्तम् श्रुत्यैव प्रमा­ण­मू­र्द्ध­न्यया तद्वि­ष­य­वि­वे­क­सि­द्धे­रि­त्या­शङ्क्य व्याचष्टे-
वच­न­यु­क्त्या­भा­स­नि­रा­से­नेति ।
आपा­त­त­स्त­द्वि­रो­धि­त्वेन भासमानानां युक्त्याभासानां चानुसंधाने संजातस्य चित्त­क्षो­भ­स्या­प­न­य­नेन श्रुति­वि­ष­य­दा­र्ढ्या­पा­दनं तद्वि­वे­च­न­मि­त्यर्थः । ननु- पूर्व­प­क्ष्यु­प­न्य­स्तेषु तर्क­मू­ला­क्षे­प­हे­तुषु ब्रह्मणः सिद्धरूपत्वेन पृथि­व्या­दि­साम्यं मननरूपतर्कादरणं चेति हेतुद्वयमेव परिहृतम् न तु निर­व­का­श­त्व­प्र­धा­न­प्र­त्या­स­त्ति­हे­तु­द्व­य­मिति- चेत् उच्यते ब्रह्मणः सिद्धरूपत्वेऽपि श्रुत्य­नु­ग्रा­ह­क­त­र्का­द­र­णेऽपि स्वत­न्त्रा­नु­मा­न­वि­ष­यत्वं नास्तीति प्रसाधिते शब्द­सा­ध­ना­क्ष­मस्य चक्षुषस्तद्बाधन इव ब्रह्म­सा­ध­ना­क्ष­म­स्या­नु­मा­नस्य तद्बाधने सामर्थ्याभावः फलितो भवतीत्युपले क्षुर­तै­क्ष्ण्य­स्येव तत्र कुण्ठी­भ­व­तोऽ­नु­मा­नस्य श्रुतितः प्राब­ल्य­हे­तु­क­थ­न­म­स्था­न­वि­जृ­म्भि­त­मिति स्वत एव सिद्धे­स्त­द्धे­तु­द्व­य­मा­हृत्य न दूषितम् ।
न ह्यचे­त­न­स्ये­त्या­दि­ग्रन्थं व्याचष्टे-
अचेतनस्य जगत्कारणस्येति ।
ननु- अचे­त­ना­च्चे­त­न­स्ये­वो­द्भू­त­वि­शे­ष­गु­णा­द­नु­द्भू­त­वि­शे­ष­गु­ण­स्या­प्यु­त्प­त्तिर्न संभवतीति- चेद् न । काष्ठ­ज्वा­ला­भा­ण्ड­त­द्ग­त­वा­रि­स्थ­ते­जसो दीपा­त्तु­षा­ग्ने­श्चो­त्प­त्ति­द­र्श­ना­त्त­त्रो­द्भू­त­रू­पा­व­य­वा­न्त­र­क­ल्पने गौरवात् । घटः प्रकाशत इत्यनुभवदर्शनेन घटादिषु चैत­न्य­मु­द्भू­त­मि­त्यपि कल्पनोपपत्तेश्च । कस्य­चि­त्प्र­का­शते कस्यचिन्न प्रकाशत इति व्यवहारस्तु चैत्रात्यरोऽयं न मैत्रादिति व्यव­हा­र­व­दु­प­प­द्यते पर­त्व­व­च्चै­त­न्य­स्यापि सप्र­ति­यो­गि­क­गु­ण­त्व­क­ल्प­नो­प­पत्तः ।
न तवेति ।
सत्का­र्य­वा­दि­न­स्तत्र शरा­वा­दि­दृ­ष्टा­न्तेऽ­प्यु­क्त­दो­षा­प­त्ति­स्तु­ल्येति भावः ।
कार­णा­नु­वृ­त्त्येति ।
न तु कार्य­रू­पा­नु­वृ­त्त्याऽतो नोभ­य­त्रा­प्यु­क्त­दो­षा­प­त्ति­रिति भावः ।
ननु जाग्र­त्प्र­प­ञ्च­दो­षे­णेव स्वप्न­प्र­प­ञ्च­दो­षे­णापि ब्रह्मणो रूपणमापाद्यमेव, कथमरूपणे दृष्टा­न्ती­क्रि­यत इत्याशङ्क्य जीवे तद­रू­प­ण­स्या­नु­भ­व­सि­द्ध­तया जीवोऽत्र दृष्टान्तो विवक्षित इति व्याख्या­त­मि­त्याह-
अतो न साध्य­स­म­त्व­मि­त्यर्थ इति ॥११॥
योऽन्यत्रात्मन इत्य­त्रा­न्य­त्रे­त्ये­त­त्प्र­थ­मा­र्थेऽ­न्यत्र भूताच्च भव्याच्चेतिवत् ।
सिद्धमर्थमाह-
आत्म­व्य­ति­रे­के­णेति ॥
इति तृतीयं न विल­क्ष­ण­त्वा­धि­क­र­णम् ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
अतिदेशस्येति ।
स्मृते­र्मू­ला­भा­वेऽपि तर्कस्य व्याप्त्या­दि­मू­ल­स­त्त्वा­त्त­द्वि­रो­धेन समन्वयः सङ्कोचनीय इति पूर्वाधिकरणेन प्रत्यु­दा­ह­र­ण­सं­ग­ति­रि­त्यर्थः ।
तेन दृष्टा­न्त­सं­ग­ति­मपि दर्श­य­न्न­ति­दे­शा­धि­क­र­ण­स्या­भ्य­धि­का­श­ङ्का­माह-
यथा हीति ।
इयमारम्भणेति ।
न कार्यं कारणाऽभिन्नम्, नापि तद्भिन्नं सत्यं, किं त्वनि­र्व­च­नी­य­मि­त्यु­प­पा­द­यि­तु­मा­र­म्भ­णा­धि­क­रणे (ब्र. अ. २ पा. १ सू. १४) कार्य­का­र­ण­भे­द­शङ्का निरसनीया इह तु भेद­ग­र्भ­का­र्य­का­र­ण­भावे प्रत्य­क्ष­त्वाऽ­प्र­त्य­क्ष­त्वा­व­से­य­स­त्त्वाऽ­स­त्त्व­वि­रो­धाभ्यां तन्नि­र­स­न­म­भ्यु­च्च­य­मा­त्र­मि­त्यर्थः ।
अस­द­क­र­णा­दि­त्या­दीति ।
अस­द­क­र­णा­दु­पा­दा­न­ग्र­ह­णा­त्स­र्व­सं­भ­वा­भा­वात् ।bशक्तस्य शक्य­क­र­णा­त्का­र­ण­भा­वाच्च कार्यस्य ॥bइति सांख्यानां सत्का­र्य­वा­द­प्र­धा­न­श्लोकः । अस्यार्थः - कार्यं कार­ण­व्या­पा­रा­त्प्रा­गपि सदेव; नीलरूपस्य पीतभावेनेवाऽसतः सत्त्वेन कर्तु­म­श­क्य­त्वात् । उपादानग्रहणाच्च प्रागपि सदेव कार्यम् । उपादानानि कारणानि तेषां कार्येण ग्रहणात् कारणैः कार्यस्य संबन्धादिति यावत् । कारणसंबद्धं हि कार्यं भवद् भवेत् । कारणाऽसंबद्धमेव कार्य­मु­त्प­द्य­ता­मिति चेद्, न सर्वसंभवाभावात् । असंबद्धस्य कार्यत्वे हि असं­ब­द्ध­त्वा­वि­शे­षा­त्सर्वं कार्यं सर्व­स्मा­त्सं­भ­वेद् न चैतदस्ति। असंबद्धमपि कारणं तदेव करोति यत्र शक्तमिति चेद् न शक्तस्य शक्यकरणात् । शक्तमपि हि कार्यं शक्यं करोति नाशक्यम् । अव्य­व­स्था­ता­द­व­स्थ्यात् । शक्यं करोति चेत्कथमसति शक्तिविषयतारूपा शक्यता कार्यस्य कारणात्मत्वादपि कार्यं सदेव । तस्य कारणात्मत्वं च घटशरावादिकं पूर्वाह्णे मृत्कूट एवा­सी­दि­त्य­नु­भ­वेन गुरु­त्व­द्वै­गु­ण्या­नु­प­ल­म्भा­दि­युक्त्या चेति। (ननु पृथु­बु­ध्नो­द­रा­दि­सं­स्था­न­वि­शे­षाणां सदातनत्वेऽपि कदा­चि­त्प्र­त्य­क्षत्वं कदा­चि­त्प­रो­क्षत्वं च पट­कू­र्मा­ङ्गा­दि­प­रि­णा­हा­ना­मि­वा­वि­र्भा­व­ति­रो­भा­वा­भ्या­मु­प­प­द्यते) न हि पट­कू­र्मा­ङ्गा­दि­प­रि­णा­हानां संको­च­ना­व­स्था­या­म­प्र­त्य­क्ष­त्व­म­नु­त्पत्त्या नाशेन वा किं तु तिरोधानेन । ततश्च तेषां विका­श­व्या­पा­रे­णेव दण्ड­च­क्रा­दि­व्या­पा­रेण पृथु­बु­ध्नो­द­रा­दी­ना­म­भि­व्यक्तौ प्रत्यक्षता, अभिव्यक्तिश्च तत्ति­रो­धा­य­क­पि­ण्डा­व­स्थो­प­मर्दः । मुद्गरपातेन घटावस्थोपमर्द इति कपा­ला­व­स्था­भि­व्यक्ति: । कपालानि चूर्णीकृत्य जल­मृ­द­न्त­र­सं­यो­ज­न­म­र्द­ना­दि­भि­र्मा­र्दवं प्रापय्य दण्ड­च­क्रा­दि­व्या­पा­रेण तिरोहिताया घटावस्थायाः पुनरभिव्यक्तिः । एवं पटावस्थायां दाहेन तिरोहितायां तद्भस्मनां क्षिति­त­ल­प­ति­तानां तत्क्षि­ति­प्र­रू­ढ­का­र्पा­स­त­रु­कु­सु­म­फ­ल­प­रि­णतौ क्रमेण तिरोहितायाः पटावस्थायाः पुन­र­भि­व्य­क्ति­रिति। अवस्थानामपि सदातनत्वे प्रत्य­क्ष­त्व­प­रो­क्ष­त्व­व्य­व­स्थायां न क्वचि­द­नु­प­प­त्ति­रिति- चेद् एवं द्रव्य­त­द­व­स्था­वि­शे­षाणां सदा­त­न­त्व­स­म­र्थ­नेऽपि तदा­वि­र्भा­व­ति­रो­भावौ प्रागसन्तौ आग­न्तु­का­वे­वा­भ्यु­प­ग­न्तव्यौ तयोरपि सदातनत्वे घटावस्यायां कदा­चि­त्प्र­त्य­क्षत्वं कदा­चि­त्प­रो­क्ष­त्व­मिति व्यव­स्थाऽ­नु­प­पत्तेः ततश्च तयो­र­स­द­क­र­णा­दि­हे­तूनां प्रतिहतेः । तद्वदेव घटादिद्रव्याणां तदाकारविशेषाणां चाग­न्तु­क­त्व­म­भ्यु­प­गन्तुं युक्तम् इदानीं मृत्पिण्ड एवास्ति घटो नास्ती­त्या­दि­व्य­व­हा­र­द­र्श­नात् कार­ण­च­क्र­व्या­पा­रा­न­न्त­र­मि­दानीं घट आसी­दि­त्या­दि­व्य­व­हा­र­द­र्श­नाच्च, पटपरिणाह इदानीमभिव्यक्त आसीत् प्राक् तिरोहित आसी­दि­त्या­दि­व­दा­वि­र्भा­व­ति­रो­भा­व­व्य­व­हा­रा­भा­वाच्च । शेष­मा­र­म्भ­णा­धि­क­रणे (ब्र. अ. २ पा. १ सू. १४) वक्ष्यते ।
प्रकृतौ हि द्वादशा हे इति ।
नन्वहर्गणानां प्रकृतौ समूहे द्वादशाहे त्रयाणां त्रयाणामन्हां त्रिवृ­त्स्तो­म­क­त्वा­दिकं नास्ति। सत्यम् यत्रास्ति तदुपलक्षणमेतत् ।
तद्य­था­क्व­चि­दे­को­न­प­ञ्चा­श­द्रा­त्र­वि­शेषे श्रूयते- अतिरात्रो नव त्रिवृ­द्व­न्त्य­हानि नव पञ्चदशान्यहानि नव सप्तदशान्यहानि नवै­क­विं­शा­न्य­हानि द्वादशाहस्य दशाहस्य दशाहानि महाव्रतं चातिरात्रश्चेति ।
निश्चि­ता­र्थै­रिति ।
यद्यपि त्रिवृ­दा­दि­शब्दाः स्तोत्री­या­णा­मृचां नव­सं­ख्या­दि­वा­चिनो नाहर्वाचिनः तथापि तेषामन्यत्र लक्षणयाऽहः परत्वं दृष्ट­मि­त्ये­ता­वता ताद­र्थ्य­नि­श्च­योक्तिः ।
ननु तेषां संवत्सरपरत्वमपि त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशा इत्या­दि­द्वा­द­श­वा­र्षि­क­स­त्रो­त्प­त्ति­वा­क्येषु नव त्रिवृतः संवत्सरा नव पञ्चदशा इत्या­दि­ष­ट्त्रिं­श­त्सं­व­त्स­र­स­सो­त्रो­त्प­त्ति­वा­क्येषु च दृष्टम् न च तेषु संव­त्स­र­श­ब्द­स्या­र्था­न­व­धा­र­ण­मस्ति संवत्सरसत्राणां प्रकृतिभूते गवामयने चत्वा­रोऽ­भि­प्लवाः षडह एकः पृष्ठ्यः षडहः समास इति त्रिंशति अहस्सु मास­त्वो­क्ति­लि­ङ्गाद् याव­त्य­श्च­तु­र्विं­शो­क्थ्यस्य स्तोत्री­या­स्ता­वत्यः संवत्सरस्य रात्रय इति संव­त्स­र­रा­त्रीणां षष्ट्यु­त­र­विं­श­त्सं­ख्या­क­च­तु­र्विं­शो­क्थ्य­स्तो­त्री­याभिः सम­सं­ख्य­त्वो­क्ति­लि­ङ्गा­त्सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृत इति स्मरणाच्च साव­न­प­र­त्वा­व­धा­र­णे­ना­नु­ष्ठा­न­प­र्य­न्त­त्व­द­र्श­नात् तथेहापि मुख्यवृत्त्यैव साव­न­सं­व­त्स­र­प­र­त्व­मु­प­प­पा­द­यितुं शक्यमिति पूर्वा­स्व­र­सा­दाह-
औष­धा­दि­सि­द्धि­क­ल्प­ना­पीति ।
सह­स्र­सं­व­त्स­र­जी­व­नो­पा­य­भू­त­मौ­ष­धा­दिकं क्वचि­त्प्रा­मा­णि­क­शास्त्रे दृष्टं क्लृप्तं नास्ति येन सह­स्र­सं­व­त्स­राऽऽ­यु­र­र्थि­तया स्वत एवौ­ष­धा­दि­सि­द्धा­ना­म­धि­कार इति विध्या­क्षे­प­गौ­रवं परिह्रियेत किंतु सह­स्र­सं­व­त्स­र­वि­धि­ब­ला­देव तथा­भू­त­मौ­ष­धा­दि­क­म­स्तीति कल्पनीयम् । न च तथा कल्प­न­याऽ­प्य­धि­का­र­नि­र्वाह: । सामान्यतः कल्पि­त­स्या­प्यौ­ष­धा­दे­रि­द­न्तया परिज्ञानाभावेन तत्सेवया ताव­दा­युः­सं­वा­द­ना­भा­वात् । न ह्यग्नि­सं­व­र्द्धनं स्वर­व­र्ण­प्र­सा­दनं वली­प­लि­त­ना­श­न­मि­त्या­दि­र­सा­य­ना­ना­मिव ताव­दा­युः­सं­पा­द­कस्य रसायनस्येदन्तया परिज्ञानं कथमपि लब्धुं शक्यम् । तावदायुषां गन्ध­र्वा­दी­ना­म­धि­का­रा­श्र­य­णेऽपि तेषां ब्राह्मण्यादिकं तद­भा­वेऽ­प्य­ग्नि­सं­पा­नम् अग्न्यभावेऽपि क्रत्वनुष्ठानं वा कल्पनीयमिति विध्या­क्षे­प­गौ­र­व­म­प­रि­हा­र्य­म­त­स्त­त्प­रि­हा­राय पञ्चपञ्चाशत इति संख्या­वा­चि­श­ब्दस्य संवत्सरा इति कालवाचिशब्दस्य वा लक्षणीयत्वेन वाक्यार्थे वक्तव्ये संख्याशब्दस्य व्यव­स्थि­ता­र्थ­त्वात् संव­त्स­र­श­ब्द­स्या­पा­त­तोऽ­ने­का­र्थ­तया प्रच­ल­द­व­स्थ­त्वा­द­ह­रेव संवत्सर इत्यहनि दृष्ट­प्र­यो­ग­त्वाच्च अह­र्ल­क्ष­ण­त्व­म­भ्यु­पेत्य वाक्यार्थो निर्णेतव्य इति भावः ।
दूर्वाकारेति ।
यद्या­र­म्भ­णा­धि­क­रणे स्फुटी­क­रि­ष्य­माणं विवर्तवादं प्रच्छाद्य सम­न­न्त­र­भो­क्त्रा­प­त्त्य­धि­क­र­णा­व­ल­म्बनं परि­णा­म­वा­द­मा­श्रित्य परमाणुवाददूषणं वक्तव्यम् तदो­पा­दा­नो­पा­दे­य­य­यो­र­ल्पा­धि­क­प­रि­मा­ण­त्व­नि­य­मस्य प्रचि­त­प­रि­मा­ण­कू­ल­पि­ण्डा­द्या­र­ब्धेषु पित्रुप्रभृतिषु व्यभिचार उद्भावनीयः । मेरु­स­र्ष­प­येा­र­न­न्ता­व­य­वा­र­ब्ध­त्वा­वि­शे­षेऽपि तदा­न­न्त्य­यो­रे­वा­ती­त­क्ष­ण­क­ल्पा­न­न्त्य­यो­रिव विशेषोपपादनेन तुल्य­प­रि­मा­ण­प्र­सङ्गं निरस्य क्षोदी­यो­र्था­न्त­र­क­ल्प­ना­प­ति­प्र­स­ङ्गेन च परमाणु कारणवादो दूषणीयः ॥१२॥
इति चतुर्थं शिष्टा­प­रि­ग्र­हा­धि­क­र­णम् ॥

भोक्त्रा­प­त्ते­र­वि­भा­ग­श्चे­त्स्या­ल्लो­क­वत् ॥ १३ ॥ ननु केव­ला­ग­म­ग­म्य­ब्र­ह्म­वि­ष­यत्वं साधकस्येव बाधकस्यापि तर्कस्य न संभवतीति शङ्काया मन्त्रा­र्थ­वा­द­दृ­ष्टा­न्तेन परिहारो न संभवति मन्त्रा­र्थ­वा­द­यो­र्मा­ना­न्त­र­ग­म्य­वि­ष­य­येा­रेव माना­न्त­र­बा­धे­ना­न्य­था­न­य­ना­ङ्गी­का­रा­दि­त्या-श­ङ्क्या­त्रापि माना­न्त­र­ग­म्य­प्र­प­ञ्चा­भा­व­श्रु­ती­ना­मेव तत्स­त्त्व­ग्रा­हि­मा­ना­न्त­रेण बाधः शङ्क्यत इति तत्तात्पर्यमाह-
तर्हि जगद्भेद इति ।
एतदनुसारेण प्रवृत्तवर्तमान शब्दौ व्याख्यातुमयं ग्रन्थः ॥१३॥
इति पञ्चमं भोक्त्रा­प­त्य­धि­क­र­णम् ॥

तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः ॥ १४ ॥ लौकिकप्रमाणानां तत्त्वा­वे­द­क­त्व­प्र­च्या­व­न­रूपो विशे­षोऽ­त्रा­भि­धि­त्सितः कुतोऽवसीयते ? इत्या­का­ङ्क्षायां सौत्रपदेन तद्वि­ष­य­मि­थ्या­त्व­प्र­ति­पा­द­ना­दि­त्याह-
तद­न­न्य­त्व­प­दे­नेति ।
ननु
सौत्रपदाद्बलवति विषयवाक्ये पूर्वा­धि­क­र­ण­व्य­व­स्था­पि­त­भे­दा­भे­दा­नु­गु­ण-दृ­ष्टा­न्तो­पा­दा­ना­त्त­द्दृ­ढी­क­रणे तात्पर्यं कुतो नावसीयत इति शङ्कोत्तरत्वेन प्रति­ज्ञा­वा­क्य­ता­त्प­र्य­व­र्ण­न­परं ग्रन्थमवतारयति-
श्रुताविति ।
तत्त्वज्ञानं चेतीति ।
तत्त्व­स्या­बा­धि­त­रू­पस्य ज्ञानमित्यर्थः । तथा चेदन्तया प्रतीयमानस्य भुजगस्य रज्ज्विदमंश इव सत्तया प्रतीयमानस्य विश्व­स्या­धि­ष्ठा­न­स­दं­श­स्त­त्त्व­मिति सद्रूपे तस्मिन् विज्ञाते विश्व­मा­रो­पि­त­त­त्त­द्वै­शे­षि­क­रू­पे­णाऽ­ज्ञा­त­मपि तत्त्वतो ज्ञातं तज्ज्ञानेनैव विषयीकृतं भवतीत्यर्थः । एतेनासाधारणं स्वरूपं धर्मो वा तत्त्वं न तु भ्रमाधिष्ठानम् । तथा सति सदं­श­स्त­त्त्व­मिति ब्रह्म­शु­क्त्या­द्य­धि­ष्ठा­न­स्या­न­न्द-शु­क्ति­त्वा­दे­र­त­त्त्व­प्र­स­ङ्गा­दिति- निरस्तम् स्वरूपं धर्मो वा बाध्यौ तत्त्व­मि­त्य­बा­धि­त­त्व­वि­शे­ष­णा­व­श्यं­भावे सत्य­सा­धा­र­ण­वि­शे­ष­ण­वै­य­र्थ्यात् । नष्टशब्दो यद्यपि प्रयो­ग­प्रा­चु­र्याद् ध्वस्ते प्रसिद्धः तथापि दृष्ट­न­ष्ट­स्व­रू­प­त्वा­दिति हेतो­र्व्य­ति­रे­क­व्या­प्ति­प्र­द­र्श­न­परे तथा हीत्या­दि­टी­का­ग्रन्थे त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्यस्य वस्तु­स­त्त्व­रू­प­सा­ध्या­भा­व­व्या­प­क­त्व­प्र­द­र्श­नात् त्रिवि­ध­प­रि­च्छे­दोऽत्र हेतुर्विवक्षितो न तु काल­प­रि­च्छे­द­मा­त्रम् । न च त्रिवि­धो­पा­दा­न­वै­य­र्थ्यम् ध्वंसा­त्य­न्ता­भा­वा-न्यो­न्या­भा­व­प्र­ति­यो­गि­त्व­रू­प­हे­तु­त्र­य­प­र­त्वो­प­पत्तेः । अभावत्वेन सर्व­क्रो­डी­क­र­णे­ना-भा­व­प्र­ति­यो­गि­त्व­रू­पै­क­हे­तु­प­र­त्वो­प­प­त्तेश्च ।
न च ब्रह्मणि व्यभिचारः स्वान्यू­न­स­त्ता­क­त्वे­ना­भा­व­वि­शे­ष­णा­दि­त्य­भि­प्रेत्य त्रिवि­ध­सं­ग्र­हार्थं नश प्रदर्शने इति धात्व­र्थ­क­थ­ना­नु­सा­रेण सम­भि­व्या­हृ­त­दृ­ष्ट­प्र­ति­द्व­न्द्वि­वि­ष­य­तौ­चि­त्या­नु­सा­रेण च नष्टशब्दं व्याचष्टे-
अदृष्टमित्यर्थ इति ।
एवं च काला­न्त­र­दे­शा­न्त­र­व­र्ति­तया वस्त्व­न्त­र­ता­दा­त्म्येन चादृ­ष्ट­त्वोक्त्या तत्त­द­र्था­भा­वा­क्षे­पात् काल­प­रि­च्छि­न्न­त्वा­दि­हे­तु­लाभ: ।
नन्वेवं सति नष्टपदेनैव हेतुलाभात् किं दृष्ट­ग्र­ह­णे­ने­त्या­शङ्क्य ध्वंस­का­ला­द्य­व­च्छिन्नः सत्त्वाभाव इह साध्यते स दृष्ट एवेति भ्रान्त­श­ङ्का­वा­र­णार्थं प्रती­ति­का­ला­दि­सा­धा­रणः सत्त्वाभाव: साध्य इति साध्य­श­री­र­ज्ञा­प­नार्थं तदित्याह-
प्रतीतिसमये इति ।
क्वचि­द­दृ­ष्ट­मि­त्यर्थ इति स्थाने अनित्यमित्यर्थ इति पाठस्तु नष्टशब्दस्य ध्वस्ते प्रसि­द्धि­प्रा­चु­र्य­मा­श्रित्य । अस्मिन् पक्षे काल­प­रि­च्छे­द­मा­त्रस्य हेतुत्वाद् ब्रह्मणि व्यति­रे­क­व्या­प्ति­प्र­द­र्श­न­परे टीकाग्रन्थे न ह्यसौ कदा­चि­त्क्व­चि­त्क­थ­ञ्चि­द्वा-ऽ­स्तीति देश­व­स्तु­प­रि­च्छे­द­यो­र­प्य­भा­व­क­थनं काल­प­रि­च्छे­दा­भावे दृष्टा­न्ता­र्थ­मिति योज्यम् ।
टीकायां ये हि दृष्टस्वरूपा इत्यनेन विव­क्षि­त­स्या­नु­मा­नस्य प्राथ­मि­क­त­था­हि­ग्र­न्थेन व्यति­रे­क­व्याप्तिः प्रदर्शिता तस्यैव विपक्षबाधकं द्वैती­यी­क­त­था­हि­ग्र­न्थे­नो­च्यत इति निष्कृष्य तद­नु­मा­न­प्र­द­र्श­न­पू­र्व­क­म­व­ता­र­यति-
विमतमिति ।
सावधिकत्वादिति ।
पूर्वोक्तरीत्या त्रिवि­धा­व­धि­म­त्त्वा­द­नि­त्य­त्वा­दिति वाऽर्थः । साव­धि­क­स­त्त्वा­दिति पाठे साव­धि­क­स्थि­ति­क­त्वा­दि­त्य­र्थ­मा­दा­यो­क्तार्थ एव पर्यवसानं द्रष्टव्यम् । अन्यथा कदा­चि­त्स­त्त्व­म­ङ्गी­कृत्य तेन त्रैका­लि­क­स­त्त्वा­भा­व­सा­धने विरोधात ।
टीका­या­मा­द्य­वि­क­ल्प­द्वयं सत्त्वा­स­त्त्त्वो­भ­य­वि­ष­य­मु­प­न्य­स्याऽ­र्था­न्त­र­त्वा-दि­वि­क­ल्प­द्व­य­म­स­त्व­मा­त्र­वि­ष­य­मु­प­न्य­स्तम् तत् स्वयं सत्त्वे­ना­स­त्त्वेन चानि­र्व­च­नी­य-त्वा­भा­व­सि­द्धये सत्वेऽ­प्य­ति­दि­शति-
अस­त्त्व­व­दि­त्या­दिना ।
ननु सत्वं भावधर्मः असत्त्वं त्वभा­व­रू­प­म­र्था­न्त­र­मि­त्य­भ्यु­प­गमे नास्ति दोषः न चाकि­ञ्चि­त्क­र­ता­या­म­र्था­न्त­रस्य विरो­धि­त्वा­नु­प­पत्तिः तस्य प्रति­यो­गि­न्य­कि­ञ्चि-त्क­र­त्वेऽपि स्वभावादेव प्रति­यो­गि­प्र­ति­क्षे­प­रू­प­वि­रो­धि­त्वो­प­पत्तेः । अन्यथा प्रतियोगिनि किञ्चित्करस्यैव (विरो­धि­त्व­नि­य­मेऽ­त्रै­व­वि­य­द्वा­च­क­स­म­र्थ­ना­र्थस्य सद­स­तो­रे­क­त्व­वि­रो­धा­दिति टीकाग्रन्थस्य सत्स्व­भा­व­स्याऽ­स­त्त्व­वि­रो­धा­दि­त्यस्य ग्रन्थस्य चानिर्वाहात् । उच्यते । सत्त्वासत्त्वे भाव­ध­र्मा­वि­त्य­भ्यु­प­गमे विका­र­नि­त्य­त्वा­पात इति यो दोष उक्तः स सत्त्वमेकमेव भावधर्मो न कदापि भाव­स्या­स­त्व­मि­त्य­भ्यु­प­ग­मेऽपि तुल्यः । अस­त्त्व­म­र्था­न्तरं न चास­त्त्वा­न्त­र­क­र­मि­त्य­भ्यु­प­गमे त्वसन् घट इति सामा­ना­धि­क­र­ण्या­नु­प­पत्तिः । न हि सत्त्वा­स­त्त्व­गो­त्वा­श्व­त्वा­दीनां स्वभावादेव पर­स्प­र­वि­रो­ध­स­द्भा­वेऽपि सदसद्गौरश्व इत्या­दि­सा­मा­ना­धि­क­र­ण्य­मस्ति। न चासन् घट इति सामा­ना­धि­क­र­ण्य­म­भा­व-प्र­ति­योगी घट इत्यर्थकमिति वाच्यम् । तथा सति प्रति­यो­गि­त्व­ध­र्मा­श्र­य­तया विका­र­स­त्त्वा­पा­तात् । एवं सत्त्वा­स­त्त्वा­भ्या­म­नि­र्व­च­नी­य­त्व­मिह विश्व­स्यो­प­पा­दि­तम् । भेदा­भे­दा­भ्या­म­नि­र्व­च­नी­य­त्व­मपि पूर्वाधिकरणे कार्य­का­र­ण­भे­द­वा­दि­भिश्च दर्शितैः परस्परं प्रति­क्षे­प्तु­म­श­क्यै­र्न्यायैः सिद्ध­मि­त्य­नु­सं­धे­यम् । ननु मृदात्मना शरा­वा­दी­ना­मे­कत्वं मृदश्च शरावाद्यात्मना नानात्वमिति परोक्तमापाद्य विकल्पपूर्वकं दूष­ण­म­यु­क्तो­पा­लम्भः मृदेका शरावादयो नानेत्येतावत एव परेणोक्तत्वात् ।
भाष्ये- यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वमिति प्रथ­म­दृ­ष्टा­न्ता­नु­सा­रेण मृदात्मना घट­श­रा­वा­द्या­त्म­नेति आत्म­श­ब्द­यो­र-वि­व­क्षि­ता­र्थ­त्वा­दि­त्या­शङ्क्य तात्पर्यमाह-
मृदेकेति ।
यदि तथा परमतं स्यात् तदा सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­हा­र्थ­म­स्म­दुक्ता रीतिरनुसरणीयेति परमतेऽपि शुद्धाद्वैतमेव सिध्येद् न नानात्वस्य सत्यता । अत­स्त­त्स­त्य­ता­म­नु­रुध्य प्रतिज्ञां निर्वोढुं कार्य­का­र­ण­यो­र्द्व­यो­रपि पर­स्प­रा­त्म­नै­कत्वं नानात्वं च पराभिमतमिति वक्तव्यम् । अत एव नन्वनेकात्मकं ब्रह्मेति भाष्ये कारणस्य कार्या­त्म­ना­भि­प्रा­येण नाना­त्व­मु­क्त­मिति तत्र विकल्प्य दूषणकथनं युक्तमित्यर्थः । अभेद एव स्यादिति पाठमनुरुध्य शुद्धाद्वैतमेव सिध्येदिति तत्तात्पर्यं वर्णितम् । अत्यन्तभेद एव स्यादिति पाठस्तु सुगमः ।
न भवेदपीति ।
भेदमाश्रित्य भव­न­व­द­भे­द­मा­श्रि­त्या­भ­व­न­मपि वक्तुं शक्यमिति भावः । तस्करदृष्टान्तः छान्दोग्ये पुरुषं सोम्योत हस्त­गृ­ही­त­मा­न­य­न्त्य­प­हा­र्षीत् स्तेयमकार्षीत् परशुमस्मै तपते इत्यादिना प्रपञ्चितः ।
असत्यादिति ।
अस­त्या­द­हि­ज्ञा­ना­न्म­र­ण­का­र्य­क्ष­म­भ­यो­त्प­त्ति­र्व­क्ष्यते । ननु असज्ज्ञप्तावसत इवा­हि­ज्ञ­प्ता­व­हे­रु­प­ल­क्ष­ण­त्वेन तादर्थ्यसंभवाद् नाऽहि­ज्ञा­न­स्या­स­त्य­त्व­मिति- चेद् न अस­द्वि­क­ल्प­स्या­स­द्वि­शि­ष्ट­त्वे­ना­सत्त्वे बाधकाभावात् । न च शशशृङ्गमस्तीति ज्ञानाद् भ्रान्तस्य प्रवृ­त्त्य­भा­व­प्र­सङ्गो बाधकः । असतः साधकत्वदर्शनस्य प्राति­भा­सि­क­व्या­व­हा­रि­काणां साधकत्वोपपादने कैमु­ति­क­न्या­ये­ना­नु­कू­ल­त्वात् । अत एव खण्डनकारैरसतः साधकत्वं यत्नेनोपपादितम् । ननु- तथापि व्याव­हा­रि­क­त्वा­दि­नि­र्व­च­ने­ष्व­पे­क्षि­त­म­स­त्प्रा­ति­भा­सि­क­वै­ल­क्षण्यं व्याव­हा­रि­क­म­भ्यु­पे­यम् असत: प्रातिभासिकस्य च तद्वै­ल­क्ष­ण्य­स्या­सति प्रातिभासिके च सत्त्वे­ना­व्या­व­र्त­क­त्वात् अत­स्त­त्रा­स­त्प्रा­ति­भा­सि­क­व­द­हे­र­प्यु­प­ल­क्ष­णत्वं स्यादिति- चेत् न । तत्र विशि­ष्ट­रू­पे­णा­स­दपि प्रातिभासिकमपि स्वरूपेण तद्वैलक्षण्यं विशेषणमिति विवक्षया व्याव­र्त­क­त्वो­प­पत्तेः क्वचि­त्क­स्य­चि­द्बा­ध­क­व­शा­दु­प-ल­क्ष­ण­त्व­क­ल्प­नेऽपि प्रकृते विशेषणत्वे संभवति तद्दृ­ष्टा­न्ते­नो­प­ल­क्ष्या­का­रा­न्त­र-सा­पे­क्षो­प­ल­क्ष­ण­त्व­क­ल्प­ना­यो­गात्, महा­स­र्प­भ्र­म­ज­न्य­भये क्षुद्र­स­र्प­भ्र­म­ज­न्य­भ­या­दु­त्क­र्ष-द­र्श­नेन कार्यो­त्क­र्षा­नु­वि­धे­यो­त्क­र्षस्य सर्पस्य विशेषणतया भय­प्र­यो­ज­क­को­टि-नि­वे­श­ना­व­श्यं­भा­वाच्च ।
परि­हा­र­सा­म्य­मा­हेति ।
ननु कथं परिहारसाम्यम् सत्य­त्वा­वि­शे­षेऽपि यत्का­र­ण­ता­व­च्छे­द­का­व­च्छिन्नं ततः सत्यं कार्यं नान्यस्मादिति नियम: सत्यपक्षे संभवति। आरोपपक्षे त्वजि­न­म­जी­न­मि­त्यु­भ­यो­रपि दैर्घ्या­रो­पाऽ­वि­शेषे धूम­बा­ष्प­यो­र्व्या­प्या­रो­पा­वि­शेषे च कथं नियमः उच्यते । यादृशेन ज्ञानेन सत्यत्वं कार्य­का­र­ण­भा­वा­न­ति­प्र­स­ङ्गो­प­पा­दकं सिद्धं परो मन्यते तादृ­श­ज्ञा­न­सिद्धं व्याव­हा­रि­क­स­त्त्व­म­स्माकं तद­न­ति­प्र­स­ङ्गो-प­पा­द­कम् तत्तु ज्ञानं परस्य सर्वथैव बाध्य­मि­त्य­भि­मानः । आस्माकं तु तद्युक्त्या ब्रह्मज्ञानेन च बाध्यमिति सिद्धान्तः । एवं च धूम एव वह्नि­व्या­प्ति­ज्ञा­नात् तत्स­त्त्व­सिद्धिः न तु धूम­त्व­भ्रा­न्ति­वि­षये बाष्पे तज्ज्ञानादिति पराभिमानात् । अस्माकं धूमे एव वह्नि­व्या­प्या­रो­पा­द्व्या­व­हा­रि­क­व­ह्नि­प्रमा नान्यत्रेति व्यवस्था । यदि क्वचि­द्बा­ष्प­धू­म­भ्र­म­स्थ­लेऽपि संवादिनी सा जायत इति न वस्तु­स­द्व्या­प्ति­मत्वं तत्प्रयोजकम् किं तु साध्यवति लिङ्ग­ज्ञा­न­मा­त्र­मा­रो­पा­ना­रो­प­सा­धा­र­ण­मि­ती­ष्यते तदा यतः साध्य­व­त्त्व­ज्ञा­ना­त्पक्षे साध्यत्वस्य वस्तुसतः सिद्धिं परो मन्यते तद­स्मा­क­मा­रो­प­रू­प­मिति तत्सिद्धं व्यावहारिकं साध्यत्वं तत्प्रयोजककोटौ निवेश्यम् । एव­म­जी­न­म­जि­न­मि­त्य­त्रा­प्यु­प­पा­दनं वर्ण­दै­र्घ्या­देश्च सत्य­त्व­म­श­क्यो-प­पा­द­नम् । न च दीर्घा­दि­ध्व­नि­सा­हित्यं तदभितव्यक्तत्वं वा तत् । न हि दीर्घा­दि­ध्व­नि­स­हिता इमे वर्णा­स्त­द­भि­व्यक्ता वेति प्रतियन्ति लोकाः किं तु दीर्घोऽयं ह्रस्वोऽ­य­मि­त्येव प्रतियन्ति। लोकविरोधेन चानु­भ­व­व्या­ख्याने रजतभ्रमादीनामपि रज­त­स­दृ­श­मि­द­मि­त्या­दि­व्या­ख्यानं को वारयेत् ।
ध्वस्ते इति ।
ध्वंसु गतौ चेति गत्यर्थमादाय यथा चेयं ध्वस्तेति पाठस्य गतिरुक्ता । स्तब्धेति पाठ: सुगम इति त्यकः ।
तर्ह्येवेति ।
कथं चेत्ये­त­त्प्र­कृ­ता­र्था­नु­गु­ण्यार्थं तर्ह्ये­वे­त्यर्थे योजनीयम् । आक्षेपार्थत्वे स्वप्न­दृ­ग­नु­भ­व­भ्रा­न्ति­त्व­स्यैव प्रति­पि­पा­द­यि­षि­त­त्वा­प­त्ते­रिति भावः ।
नानात्वांशेन तु कर्मकाण्डाश्रया इत्यादिनेति ।
ननु- अयं ग्रन्थो भाष्ये पूर्व­प­क्ष­ग्रन्थः टीकायां तु यच्चोक्तमित्यत: प्रागयं ग्रन्थ एव नास्ति तदनन्तरं तु पूर्व­प­क्ष­भा­ष्या­नु­वा­द­रू­पोऽयं ग्रन्थः कथमयं ग्रन्थो नाद्य इत्युक्तमिति सिद्धा­न्त­ग्र­न्थ­त­याऽ­व­ता­रितः । उच्यते । अनेन ग्रन्थेनानूदितः पूर्वपक्ष: सर्व­व्य­व­हा­रा­णा­मेव प्राग् ब्रह्मा­त्म­ता­वि­ज्ञा­ना­त्स­त्य­त्वो­प­प­त्ते­रि­त्या­दि­भा­ष्येण तात्प­र्य­प्र­द­र्श­क­टी­का­ग्र­न्थेन च निराकृत इति प्रदर्शनार्थं पूर्व­प­क्ष­ग्र­न्थो­प­न्यास इति न दोषः । केषुचित्कोशेषु नाना­त्वां­शे­ने­त्या­दि­प्र­ती­क­ग्र­ह­ण­मेव नास्ति तस्मिन् पाठे नाद्य इत्यु­क्त­मि­त्ये­ता­व­तैव सर्व­व्य­व­हा­रा­णा­मि­त्या­दि­भा­ष्य­त­द्व्या­ख्या­ना­भ्या­मिति ज्ञातुं शक्य­त्वा­त्प्र­ती­का­ग्र­ह­णम् ।
यथा खल्विति ।
घटध्वंसो नाम घट­वि­रो­धि­क­पा­ल­रू­प­का­र्या­न्त­रो­दय एव न त्वभावरूपः । तद­ति­रि­क्ता­भा­व­रू­प­ध्वं­स­क­ल्पने गौरवात् कपा­ल­रू­प­वि­रो­धि­का­र्या­न्त­रो­द­ये­नैव ध्वंस­व्य­व­हा­रो­प­प­त्तेश्च ।
ननु कपा­लो­त्प­त्त्य­न­न्तरं घटो नास्तीति व्यवहारविषयः कश्चिदभावोऽपि स्वीकर्तव्यः स एव मुद्ग­र­पा­ता­दि­साध्यो घट­ध्वं­सेाऽ­स्त्वि­त्यत आह-
तस्य तुच्छत्वेनेति ।
सोऽभावो न कस्य­चि­त्का­र्योऽ­भा­व­त्वा­देव । तथा च घटा­प­न­य­ना­न­न्त­र­मिव मुद्ग­र­प­त­ना­न­न्त­र­मपि घटो नास्तीति व्यवहारो नित्य­सं­स­र्गा­भा­व­वि­षय एव ध्वंस­व्य­व­हा­रस्तु कपा­लो­त्प­त्ति­वि­षयः । अत एव कपा­लो­त्प­त्ति­द­शायां कपा­ला­न्यु­त्प­द्यन्त इति व्यवहारवद् घटो ध्वस्त इति व्यवहारः । उत्पन्नेषु कपालेषु कपा­ला­न्यु­त्प­न्ना­नीति व्यवहारवद् घटो ध्वस्त इत्येव व्यवहारः कपा­ल­त­दु­त्प­त्त्यो­र­द­र्शने घटो ध्वस्तो ध्वंसत इति च व्यव­हा­र­यो­र­भा­रश्च । यद्वा तुच्छ­त्वे­ने­त्य­स्या­भा­व­त्वे­नेति नार्थः किं त्वलीकत्वेनेति। तथा च भाव­वि­शे­षै­रे­वा­भा­वस्य व्यव­हा­रो­प­प­त्ते­र्भा­वा­ति­रि­क्ता­भा­व­स्याऽ­प्रा­मा­णि­क­त्वेन कार्य­त्व­श­ङ्का­ना­स्प­द­त्वा­दि­त्यर्थः ॥१४॥
तत्रापि व्यभि­चा­र­स्यो­क्त­त्वा­दिति ।
तद्भा­व­ना­नु­र­क्त­धी­बो­ध्यत्वं न तत्ता­दा­त्म्य­धी­बो­ध्य­त्वम् । भाष्योदाहृते पटे तन्तु­ता­दा­त्म्य­बु­द्धा­भा­वा­द­त­स्त­द्वै­शि­ष्ट्य­बु­द्धि­बो­ध्यत्वं तदिति वक्तव्यं तत्त्वा­लो­क-सं­यु­क्त­त्वे­नैव चाक्षु­ष­धी­वे­द्य­त्व­नि­यते घटे व्यभिचार इति प्रागेवोक्तम् । तस्मा­त्त­द्भा­वो­प­ल­ब्धि­नि­य­त­भा­वो­प­ल­ब्धि­क­त्व­रू­प­हे­त्व­र्थ­प्र­द­र्श­न­प­र­मिदं भाष्यमित्यर्थः । प्राग­नु­प­ल­ब्ध­त्वा­दि­त्य­नेन किं पटा­का­रो­ल्ले­खे­ना­नु­प­ल­ब्धि­र्वि­व­क्षिता उत स्वरूपेण ।
नाद्यः । तदा­नी­मा­ता­न­वि­ता­न­रू­पा­का­र­वि­शे­षा­भा­वेन तदा­का­रो­ल्ले­ख्यु­प­ल­ब्ध्य-भा­व­स्यो­प­प­न्न­तया तस्य द्रव्य­भे­दा­सा­ध­क­त्वा­दि­त्य­भि­प्रेत्य द्विती­य­म­सिद्ध्या दूषयति-
अभेदवादिन इति ॥१५॥
ननु कारणवत्कार्यमपि सत्यमित्येतावता सत्यद्वयं न प्रसज्यते रज्ज्विदन्तायां भुजङ्गइवारोपिते कार्ये कार­ण­ब्र­ह्म­स­त्ताया एव प्रतीति: ।
तदनन्यत्वं च न तदभेदः किन्तु तद्व्य­ति­रे­के­णा­भाव इत्यधिकरणारम्भे वर्णि­त­त्वा­दि­त्या­श­ङ्क्याह-
उक्ता­भि­प्रा­या­न­भिज्ञ इति ।
भावे चेापलब्धेः (ब्र. अ. २.पा. १ सू. १५) सत्त्वा­च्चा­व­र­स्येति (ब्र. अ. २. पा. १ सू. १६) सूत्र­द्व­य­भा­ष्य­टी­का­ग्र­न्थ­च्छा­यया कार्यकारणयोरभेद इष्ट इति प्रतिभासेन प्रागु­क्त­म­र्थ­म­न­नु­सं­द­धा­न­स्यै­वेयं शङ्केत्यर्थः ।
सत्त्वं चेदिति ।
सापेक्षं वाक्यमध्याहारेण पूरयति-
त्रिष्विति ।
यद्येवमिति टीकावाक्यमस्यैव वाक्य­स्या­र्थ­सं­ग्रा­ह­क­मिति न पौनरुक्त्यम् ।
सत्त्वं चैकं कार्यकारणयोरिति षष्ठी भेद­ग­र्भ­सं­ब­न्धार्था चेद­ग्रि­म­हे­तू­क्ति­र्वि­रु­ध्ये­ते­त्या-शङ्क्य स्वरू­प­प­दा­ध्या­हा­रेण व्याचष्टे-
कार्येति ।
कार्य­का­र­ण­यो­र­बा­धि­त­स्व­रू­प­भूतं यत्सत्त्वं तदेकमित्यर्थः । तस्यापि तस्यैवेत्यर्थः । वैप­री­त्य­मे­वा­स्त्विति खल्वियं शङ्का ।
अस्यां शङ्कायां तथा सति हीति ग्रन्थस्य परि­हा­र­स­म­र्प­क­त्वे­ना­न्व­या­भा­वा­त्त­त्सं­घ­ट­ना­र्थ-म­भि­प्रा­या­न­भिज्ञं शङ्कावादिनं प्रति स्वाभि­प्रा­यो­द्घा­ट­न­परं वाक्यमध्याहरति-
न हीति ।
माक्षादभेदं मुख्याभेदं न ब्रूम इत्यर्थः ।
तत्र तयो­रा­रो­पि­त­त्वे­नेति ।
ननु कारणमिह ब्रह्म यत्सदेव सोम्येदमिति श्रुतं यद्विज्ञानाच्च सर्व­त­त्त्व­वि­ज्ञानं प्रतिज्ञातं ततश्च सद्रूपे कारणे कार्यस्यैव समारोपः कथमिह कारणस्यापि समारोपोक्तिः । उच्यते कार्यकारणे उभे अपि सत्ये वस्तुतः परस्परं भिन्ने इत्येवंरूपेण द्वयोरपि सद्रूपे कारणे ब्रह्म­ण्या­रो­पि­तत्वं विवचितमिति न दोषः ।
एव­म­भि­प्रा­यो­द्घा­टने कृते पुन­स्त­स्या­प्यु­परि वैपरीत्यशङ्कां परि­हा­र­ग्र­न्थ­नि­व­र्त्य­त्वेन दर्शयति-
यदि मन्येतेति ।
ननु सत्त्वमारोपितं चेदा­रो­पि­त­सत्त्वे कार्यकारणे अप्यारोपिते स्याताम् कथं तत्स­त्त्व­मे­वे­त्य­व­धा­र­णम् । उच्यते सत्त्व­स्या­भि­न्न­त्वे­ना­रोपो विवक्षितः । एवं च द्वे सत्त्वे स्यातामिति नाभे­द­सि­द्धि­रि­त्येषा प्राक् कृतैव शङ्का स्थापितैव भवति तयोः सत्त्वस्य वा समा­रो­पि­त­त्व­प्र­सङ्ग इति टीका­ग्र­न्थोऽ­प्यु­प­पा­दितो भवति। अन्यथा सत्त्वस्य समारोपितत्वे तद्धर्मिणोः कार्यकारणयेारपि समा­रो­पि­त­त्व­म­व­र्ज­नी­य­मिति वाकारेण विकल्पतः समारोपस्य प्रस­ञ्ज­न­म­नु­प­पन्नं स्यात् । ननु भिन्नत्वेन कार्यकारणयोः समारोपितत्वं सिद्धान्तिना स्वीकृतम् अभिन्नत्वेन सत्त्वस्य समारोपितत्वं पूर्वपक्षिणा ।
एवमुभाभ्यां स्वीकृ­त­स्या­न्य­त­र­स­मा­रो­पि­त­त्वस्य प्रसञ्जनं कस्यानिष्टमिति क्रियत इत्याशङ्क्य स्वीकृ­ता­र्थ­प्र­स­ञ्जनं फलमाह-
अयुक्तं दर्शयितुमिति ।
उभा­भ्या­म­ङ्गी­कृ­त­यो­रा­रो­प­यो­र्म­ध्येऽ­यु­क्त­मा­रोपं निर्द्धारयितुं स्वीकृ­त­प्र­स­ञ्ज­न-मि­त्यर्थः । अयुक्ततामिति पाठे पूर्व­प­क्ष्य­ङ्गी­कृ­ता­रो­प­स्या­यु­क्ततां दर्श­यि­तु­मि­त्यर्थः ।
तामेवेति ।
द्विती­य­पा­ठा­नु­सारी स्त्रीलि­ङ्ग­नि­र्देश: । प्रथमपाठे तु तमेवेति पुंल्लि­ङ्ग­नि­र्दे­शेन भाव्यम् ।
ननु कार्यकारणयोः सत्त्वस्य वा समारोप इति प्रमक्तस्य पक्षद्वयस्य कथं भेदा­भे­द­यो­र­न्य­त­र­स­मा­रो­प­क­ल्प­ना­या­मि­त्य­नु­वाद इत्याशङ्क्य भेदाभेदशब्दौ लाक्षणिकाविति व्याचष्टे-
भेद इति ।
भिन्नत्वेन कार्य­का­र­ण­यो­र­भि­न्न­त्वेन सत्त्वस्य च समारोपौ सिद्धा­न्ति­पू­र्व­प­क्षिभ्यां विवक्षितौ न स्वरूपेणेति विभावयितुमित्थं लाक्ष­णि­क­श­ब्द­प्र­योग इति भावः । एवं च कार्य­का­र­ण­भा­व­स­मा­रो­पोक्तिः फलतो भेद­स­मा­रो­प­प­र्य­व­सिता सत्त्व­स­मा­रो­पो­क्तिश्च अभे­द­स­मा­रो­प­प­र्य­व­सि­तेति फलि­ता­र्थ­म­व­लम्ब्य वयं त्वित्यादिना भेदस्य समारोपितत्वं व्यवस्थापितमिति द्रष्टव्यम् ।
स्वस्मादपीति ।
न च स्वस्माद् भेदः स्वस्मि­न्ना­स्तीति विषयाभावादेव तद्ग्रहणं न प्रसज्यत इति वाच्यम् । एक एव भेदः स्तम्भ­कु­म्भ­यो­र­न्यो­न्य­प्र­ति­यो­गिको वर्तत इति प्रकृते पक्षे यः स्तम्भे कुम्भाद्भेद: तस्यैव कुम्भेऽपि वर्तमानतया विषयाऽभावस्य वक्तु­म­श­क्य­त्वा­दिति भावः ।
एवं च यद्यपि कुम्भ एव कुम्भ­भे­द­प्र­ती­ति­रु­त्पन्ना प्रमा स्याद् विषयाबाधादिति वक्तुं शक्यम् तथापि स्तम्भाद्भेदः कुम्भ एव कुम्भाद्भेदः स्तम्भ एव उभावपि भेदौ प्रतियोगिभेदेन भिन्नाविति पक्षे नेदं दूषणं प्रसरोदति तत्सा­धा­र­ण्यार्थं दूषणान्तरमाह-
सोऽसा­धु­रि­त्या­दिना ।
तत्र भेदाधिकरणत्वेन भेद­प्र­ति­यो­गि­त्वेन च प्रतीत्यपेक्षया मूलो­क्त­म­न्यो­न्या­श्रयं योजयित्वा तत्परिहारार्थम् अधि­क­र­ण­त्व­प्र­ति­यो­गि­त्व­यो­र्भे­द-वि­शे­ष­णाऽ­नि­वे­शने स्वयं दोषमाह-
यस्य कस्यचिदिति ।
ननु- नेदं दोषापादनं युक्तम् शुक्ति­र­ज­त­भ्र­म­स्थले प्रति­यो­ग्य­धि­क­र­ण­ज्ञा­न­रू­प­भे­द-ग्र­ह­का­र­ण­स­त्त्वेऽपि दोषा­त्त­द­ग्र­हो­प­प­त्ते­रिति- चेत् न । तथा सति भ्रमानन्तरं शुक्तित्वे विशेषदर्शनात् प्राग् दोषनिवृत्तौ तद्द­र्श­न­म­न­पेक्ष्य रज­त­भे­द­ग्र­हा­पत्त्या याव­द्वि­शे­ष­द­र्शनं भ्रमा­नु­वृ­त्ते­र­भा­व­प्र­स­ङ्गात् । न च विशेषादर्शनमेव भेद­ग्र­ह­प्र­ति­ब­न्धको दोष इति न विशे­ष­द­र्श­ना­त्प्राग् दोषनिवृत्तिसंभव इति वाच्यम् । एवं हि विशेषदर्शनं रजतभेदग्रहे कारणमङ्गीकृतं स्यात् तच्च न शुक्ति­त्व­द­र्श­न­मा­त्रम् शुक्ति­त्व­र­ज­त­त्व­यो­र­वि­रो­ध­भ्र­म­द­शायां सत्यपि शुक्तित्वदर्शने रजत एव भेद­प्र­त्य­क्षा­नु­द­यात् किन्तु रज­त­भे­द­व्या­प्य­त्वेन तद्दृर्शनमिति वक्तव्यम् । ततश्च नान्यो­न्या­श्र­या­न­ति­वृतिः । न च अभे­द­भ्र­मो­त्त­र­भे­द­प्र­त्यक्षे विशे­ष­द­र्श­ना-पे­क्षा­या­मपि सर्वत्र तद­न­पे­क्ष­णा­त्प्रा­थ­मिकं भेदप्रत्यक्षं न भेद­ज्ञा­ना­पे­क्ष­मिति नान्यो­न्या­श्र­या­प­त्ति­रिति वाच्यम् तत्रापि शुक्ती रज­ता­द्भि­न्ने­त्य­सं­की­र्ण­ध­र्म­प्र­ति­यो­ग्यु-ल्ले­खार्थं भेदव्याप्यत्वेन शुक्ति­त्व­र­ज­त­त्व­ग्र­ह­स्या­व­श्या­पे­क्ष­णी­य­त्वे­ना­न्यो­न्या­श्र­याऽ-नि­वा­र­णात् । न च वाच्यं शुक्ति­त्व­र­ज­त­त्वयोः परस्परं संस­र्गा­भा­व­व्या­प्य­त्व-ग्र­ह­स्त­द­र्थ­म­पे­क्ष्य­ता­मिति शुक्ति­त्व­र­ज­त­त्व­यो­र­भे­द­भ्र­म­द­शायां तयोः पर­स्प­रा­भा­व-व्या­प्य­त्वा­ग्र­हेण तद्ग्रहार्थं तदु­भ­य­भे­द­ग्र­हा­पे­क्ष­णाद् धर्म्य­भे­द­भ्र­म­द­शायां तदु­भ­य­भे­द-ग्र­हाऽ­सं­भवे तद्ग्रहार्थं धर्मि­भे­द­ग्र­ह­स्या­प्य­पे­क्षि­त­त्वा­च्चा­न्यो­न्या­श्र­याऽ­नि­वा­र­णात् । ननु अन्योन्याश्रयेण भेदे प्रतीतिदूषणे तत्रापि मिथ्या­भू­त­भे­द­प्र­ती­तिर्न स्यात् कारणाभावात् न चेष्टापत्तिः प्रती­ति­मा­त्रा­प­ला­पेऽ­नु­भ­व­वि­रो­धात् । उच्यते । सत्यत्व लोकमर्यादया प्राप्तं भेद­ग्र­ह­घ­टि­त­का­र­ण­क­लापं विना भेदप्रतीतिर्न संभवतीति दूषणमुच्यते न तु व्याव­हा­रि­क­भे­द­प्र­ती­ति­र­प­ल­प्यते । अस्मन्मते भेद­त­त्प्र­ती­त्यो­र्मा­या­म­य­त्वेन लोकमर्यादया प्राप्त­का­र­णा­न­पे­क्ष­णात् । न ह्यैन्द्र­जा­लि­क­प्र­द­र्शि­ता­ने­क­प्रा­सा­द­न­ग­रा­दीनि तदपेक्षाणि न वाऽस्मन्मते रज्जुसर्पादीनि तदपेक्षाणि । स्वप्नेषु च कदाप्यदृष्टं दृश्यमानं विनैव पूर्वा­नु­भ­व­सं­स्कारं प्रागनुभूतमिति प्रत्य­भि­ज्ञा­य­मानं दृश्यते । न च सत्यत्वेऽपि ईश्व­र­सा­म­र्थ्यात् क्लृप्तकारणं विना कार्योत्पत्तिः शङ्कनीया । पुरु­ष­सा­म­र्थ्यस्य क्लृप्त­का­र्य­का­र­ण­व्य­व­स्था­न­ति­ल­ङ्घि­त्वात् । न हीश्वरोऽपि गगनपर्वतादीन् वैपरीत्येन सृजति संहरति चेति सत्य­त्व­वा­दि­भि­रु­पे­यते । अस्माकं त्वध्या­रो­पा­प­वा­देन ब्रह्मा­त्मै­क्य­प­राणां स्वार्थ­ता­त्प­र्या­भा­वा­न्मा­यि­क­प्र­प­ञ्च­सृ­ष्टि­र्यथा तथा वाऽस्तु । प्रति­यो­ग्य­धि­क­र­णयोः स्वरूपेण प्रतीतिमात्रं न पर्याप्तं किं तु पर­स्प­र­व्या­वृ­त्त­ध­र्मा­व­च्छे­देन प्रती­ति­र­पे­क्षि­तेति शङ्का­या­म­प्ये­त­देव दूषणं शुक्ती­द­मं­श­र­ज­त­यो­र्भे­द­ग्र­ह­प्र­स­ङ्गा­दिति। न हि शुक्तीदन्त्वं रजतत्वं च न पर­स्प­र­व्या­वृत्तं पर­स्प­र­व्या­वृ­त्त­त्वेन ग्रहापेक्षायां तु प्रागुक्त एवा­न्यो­न्या­श्रयः । अत एव शुक्ति­र­ज­त­भे­द­ग्र­हेण भ्रमा­नु­द­य­प्र­स­ङ्गा­देव । नन्वसाधारणत्वं न भिन्नत्वं येन भेदान्तरापेक्षा स्यात् किं तु तत्त­त्प्र­ति­यो­गि­क­त्वम् ।
तथा च भ्रमस्थले घटा­दि­प्र­ति­यो­गि­क­त्व­भा­नेऽपि दोषाद् रज­त­प्र­ति­यो­गि­क­त्वाऽ­भा­नान्न तद्भेदग्रहरूपता धर्मिज्ञानस्य प्रसज्यत इत्याशङ्क्याह-
इति दिगिति ।
शुक्ति­त्वाऽ­ग्र­हेऽपि दोषनिवृत्तौ रज­त­भे­द­ग्र­हा­पत्या भ्रमा­नु­वृ­त्तिर्न स्यादि­त्या­दि­दू­ष­ण­जा­त­म­त्रापि भवेदिति भावः ।
भेदे­नो­प­जी­व्य­त्वा­दिति ।
ननु स्तम्भ­कु­म्भो­भ­य­वृ­त्ति­भेदो वस्तुत एकमेकं स्तम्भं कुम्भं चाश्रयतु नाम न तावता स्तम्भकुम्भयोः प्रत्येकं सदैक्यं भेदस्योपजीव्यम् तदु­भ­य­ग­त­पृ­थि­वी-त्वा­दि­वद् भेदा­श्र­य­ता­या­म­प्र­यो­ज­क­त्वात् । अस्तु वा यथा कथ­ञ्चि­त्स्त­म्भ­कु­म्भा­दि-ष्वै­क्यस्य भेदा­श्र­य­ता­या­मु­प­जी­व्यता किमायातं प्रकृते । न हि तावता कतरः समारोप्य इति विचार्ययोः सद्रू­पाऽ­भे­द­का­र्य­का­र­ण­भे­द­यो­रु­प­जी­व्यो­प­जी­व­क­भाव: समर्थितो भवति। उच्यते । कार्य­का­र­ण­यो­र्भे­द­मा­त्र­मिह न निराकार्यम् व्याव­हा­रि­क­भे­दस्य सिद्धा­न्ति­नाऽ­प्य­ङ्गी­कृ­त­त्वात् किं तु सत्यभेदो निराकार्यः । भेदसत्यत्वं च धर्मि­स­त्य­त्व­सा­पे­क्षम् । अतः कार्यकारणयोः सद्रू­पा­भे­द­प्र­ती­ति-म­पेक्ष्य तयोः सत्यभेदप्रतीतिः संपादनीयेति तद­भि­प्रा­ये­य­मु­प­जी­व्य­त्वोक्तिः ।
भ्रान्त­भे­दा­नु­वाद इति ।
तदनुवादस्य चेदं फलं यत्स­द्रू­पा­नु­ग­त­प्र­त्य­या­त्स­द्रू­पेण कार्यं कारणाभिन्नमिति खल्व­भे­द­प्र­ति­पा­दनं कार्यम् तत्रा­सं­की­र्ण­ध­र्मि­प्र­ति­यो­ग्यु­ल्ले­खार्थं भेद­प्र­ती­ति­र­पे­क्ष­णीया । अतो भेद­स्या­प्य­भे­दो­प­जी­व्यता तुल्येति शङ्काया निवर्तनम् । तन्निवर्तनं चैवं विवक्षितम् । अस्मा­दि­द­म­भि­न्न­मि­त्य­ने­ने­द­म­स­दृ­श­मि­त्यत्र सादृश्यस्येव भ्रान्ति­प्र­स­क्त­त­याऽ­नु­प्र­वि­ष्टस्य भेदस्य यौ धर्मि­प्र­ति­यो­गिनौ तयोरुल्लेखोऽयं न त्वभेदस्य । असा­दृ­श्य­व­द­भे­दस्य निष्प्र­ति­यो­गि­क­त्वात् । ततश्च नोपजीव्यतया प्राबल्यं प्रति­षे­ध्य­त्वात् ।
अन्यथा नेदं रजतमिति प्रतीतौ प्रसक्तितया रज­त­प्र­ती­ति­र­पे­क्ष­णी­येति तस्याः प्राबल्यं भवेदिति ॥१६॥
नान्यासतीति भाष्ये असतीति पद­च्छे­द­म­भि­प्रेत्य नकारानुषङ्गेण नाप्यसतीति यद्वाक्यान्तरं दर्शितं तत्र कार्य­रू­पे­णे­त्य­धि­का­ध्या­हा­रस्य फलमाह-
कार्येति ।
कार्यरूपेण शक्तेः सत्त्व­मि­हा­पा­द्यते प्रसाध्यते तथा सत्येव हि कार्यस्य प्रागु­त्प­त्ते­र­स­त्व­प्र­ति­क्षेपः सिसाधयिषितः सिध्यति न स्वरू­प­त­स्त­त्स­त्त्व­प्र­सा­ध­न-मा­त्रेण अत­स्त­त्सि­द्धा­र्थ­म­ध्या­हार इत्याशयः ॥१७॥
पुन­रु­क्ति­मा­श­ङ्क्येति ।
यद्यपि सम­वा­य­दू­ष­णा­र्थ­त्वेऽपि सम­वा­या­भ्यु­प­ग­माच्च साम्यादनवस्थिते (ब्र. अ. २. पा. २ सू. १३) रिति द्विती­य­पा­द­सूत्रे वक्तव्येन पुन­रु­क्ति­र्भ­वेत् तथापि तस्यैव संगृह्य स्मरणार्थत्वेन तद­पु­न­रु­क्ति­र्द्र­ष्टव्या ।
व्यास­क्त­त्वा­दिति ।
व्यापा­रा­वि­ष्ट­तया पूर्वा­प­री­भू­त­त्वा­दि­त्यर्थः ।
इतरथा हीति ।
सांख्या­ना­म­स्माकं च सत्का­र्य­वा­दो­प­पा­द­न­च्छा­या­सा­म्येऽपि कार्यं कारणसत्तयैव सद्रूपं स्वत­स्त्व­नि­र्व­च­नी­य­मिति भाष्य­सं­द­र्भ­ता­त्प­र्याऽ­क­थने सांख्यवाद एवाङ्गीकृत: प्रस­ज्ये­ते­त्यर्थः ।
नटवदिति ।
भाष्यो­दा­हृ­त­दृ­ष्टा­न्ता­नु­सारि वाच­स्प­ति­म­त­मि­त्याह-
अज्ञातं नटवदिति ।
नटो हि द्रष्टृ­भि­र­वि­ज्ञा­त­नि­न­रूप एव तत्त­द­भि­ने­या­स­त्य­रू­पतां प्रतिपद्यते एवं जीवैरविज्ञातं ब्रह्मा­स­त्य­वि­य­दा­दि­प्र­प­ञ्चा­का­रतां प्रतिपद्यत इति दृष्टा­न्तोक्त्या वाचस्पतिमतं भाष्याभिमतं निश्चीयत इत्यर्थः ॥१८॥१९॥२०॥
इति षष्ठ­मा­र­म्भ­णा­धि­क­र­णम् ॥

इत­र­व्य­प­दे­शा­द्धि­ता­क­र­णा­दि­दो­ष­प्र­सक्तिः ॥ २१ ॥
ब्रह्मा­त्मै­क्य­मु­क्त­मिति ।
विष­य­वा­क्य­श्रु­त­स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­हार्थं ब्रह्मा­त्मै­क्य­म­प्यत्र विवक्षितम् । अत एव सूत्रे जीवेष्वभेदं जडेषु तद्व्य­ति­रे­के­णा­भावं च संग्रहीतुं तद­न­न्य­त्व­मि­त्यु­क्त­मिति भावः । स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्योपहिता न जान­न्ती­त्ये­क­वा­क्य­तया पाठः सङ्गतः । न जानन्तीति स्थाने स्वेष्टं न जानन्तीति पाठे तेषा­म­ज्ञा­न­म­स्तीति पाठे च स्वाभा­वि­क­मि­त्या­रभ्य वाक्यत्रयमिति योजनीयम् ॥२१॥२२॥२३॥
इति सप्त­म­मि­त­र­व्य­प­दे­शा­धि­क­र­णम् ॥

उप­सं­हा­र­द­र्श­ना­न्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
अद्वि­ती­य­त्व­प्र­यु­क्ता­म­नु­प­प­त्ति­मिति ।
ननु अद्वितीयस्यापि ब्रह्मणो मायया सगु­णे­श्व­र­भा­वा­प­न्नस्य कर्मसापेक्षता वैष­म्य­नै­र्घृण्ये न सापेक्षत्वा (ब्र. अ. २ पा. २ सू. ३) दित्यधिकरणे दर्शयिष्यते अत उपादानैक्येऽपि कर्म­वै­चि­त्र्या­त्का­र्य­वै­चित्र्यं कर्म­क्र­मा­त्का­र्य­क्र­मश्च भविष्यतीति चेद् न । दृष्ट­सा­ध­न­भे­द­त­त्क्र­मा­व­न­पेक्ष्य अदृ­ष्ट­भे­द­त­त्क्र­म­मा­त्रेण कार्य­भे­द­त­त्क्र­मा-द­र्श­ना­दिति भावः ।
साधयत्येवेति ।
साधनमिति करणार्थे ल्युटा अतिशयितं साधकं करणमाहुः । अति­श­योऽ­त्रा­व्य­भि­चा­र­रूपो विवक्षित इति भावः ।
कालान्तरेऽपि वा स इति ।
सोऽपि क्षीरस्य धर्म इति भावः । ननु पयो­म्बु­व­च्चे­त्त­त्रा­पीति (ब्र. अ. २ पा. २ सू. २४) द्विती­य­पा­द­सू­त्रेण क्षीरपरिणामेऽपि पर­मे­श्व­र­स­ङ्क­ल्प­रूपं तद्धर्मभूतं कार­णा­न्त­र­म­स्तीति वक्ष्यते । सत्यं परमेश्वरं कारणं प्रत्या­च­क्षा­णस्य ह्ययं पूर्वपक्ष: । न तस्य लोक­दृ­ष्ट्य­नु­व­र्तिनः क्षीरपरिणामे कार­णा­न्त­र­म­स्तीति तं प्रत्ययं दृष्टान्तः ॥२४॥
अस­हा­य­स्या­धि­ष्ठा­तृ­त्व­स­म­र्प­क­मिति ।
ननु मन्त्रा­र्थ­वा­दा­दरे तत एवेश्वरस्य सङ्कल्पमात्रेण स्रष्टृत्वं सिध्यति तदनादरे देवा­दि­दृ­ष्टा­न्ते­नापि न सिध्यतीति कथमिदं सूत्रं देवा­दि­दृ­ष्टा­न्त­प्र­द­र्श­क­मु­प­प­द्यत इति चेत् उच्यते । अचेतनस्य बाह्य­स­ह­का­रि­नि­र­पे­क्षस्य कारणत्वमुपगम्य चेतनस्यैव तत्प्र­त्या­च­क्षाणः पूर्वपक्षी पादा­दि­मा­र­भ्या­नु­वृत्तः सांख्य एव । स च परमेश्वरस्य स्रष्टृ­त्व­म­स­ह­मा­नोऽपि देवा­दी­ना­मा­जा­न­सिद्धं मनुष्यादीनां योगसाध्यं च अणि­मा­दि­स­त्य­स­ङ्क­ल्प­त्वा­प­र-प­र्या­य­प्रा­का­म्य­प­र्य­न्त­मै­श्व­र्य­म­न्तः­क­र­ण­ध­र्म­म­ङ्गी­क­रो­तीति भूतवशिनां देवादीनां सङ्कल्पमात्रेण स्रष्टृ­त्वा­दि­क­मपि हैर­ण्य­ग­र्भ­व­द­ङ्गी­क­रो­त्येव तेषां तदङ्गीकुर्वतश्च तद्वि­ष­य­म­न्त्रा­र्थ­वा­द­प्रा­मा­ण्य­म­नु­म­त­मिति तदवलम्ब्य सूत्रप्रवृत्तिः ॥
इत्य­ष्ट­म­मु­प­सं­हा­र­द­र्श­ना­धि­क­र­णम् ॥

कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्व­श­ब्द­कोपो वा ॥ २६ ॥
द्व्यणुकमिति ।
द्व्यणु­का­र­म्भा­र्थ­मेकः पर­मा­णु­र­ण्व­न्त­रे­णाऽ­ध­श्चोर्ध्वं च पार्श्व­त­श्च­तस्रो दिशश्चेति षण्णां दिशां मध्ये यत्किं­चि­द्दि­ग्ग­तेन यदा संसृज्यते तदा देवा­व­शि­ष्ट­प­ञ्च­दि­ग्ग­ते­रपि कैश्चिदणुभिरस्य संगर्गो भवन्न निवारयितुं शक्यः । ते च षडपि परमाणवो मध्यगतपरमाणौ भिन्नभिन्न प्रदे­शा­व­च्छिन्ने संसृज्यन्ते चेत्स परमाणुः षडंशः स्यादिति तत्परिहाराय समानदेशा इति वक्तव्यम् । तथा च प्रथि­मा­नु­प­प­त्ति­रि­त्यर्थः । द्व्यणुकएव प्रथि­मा­नु­प­प­त्ति­दोषे वक्तुं शक्येऽपि तार्किकाऽनभिमतं सप्त­प­र­मा­ण्वा­रब्धं द्रव्यं युक्त्या अङ्गी­क­र्त­व्य­मा­पाद्य तत्रै­त­द्दो­षा­भि­धा­न­म्-bष­ट्केन युग­प­द्यो­गा­त्प­र­माणोः षडंशता ।bषण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः ॥bइति न्याय­वा­र्ति­को­दा­हृतं पर­मा­णु­वा­द­दू­ष­ण­श्लो­क­म­नु­सृत्य । ननु मूर्तानां समा­न­दे­श­ता­वि­रो­धा­दे­क­स्मिन् परमाणौ षट्परमाणुसंयोगा व्यापका न संभवन्तीति सप्त­प­र­मा­ण्वा­र­ब्ध­द्र­व्याऽ­सं­भ­वाद् द्व्यणुक एव प्रथि­मा­नु­प­प­त्ति­दोषो वक्तुं युक्त इति चेन्न द्व्यणु­कै­स्त्र्य­णु­का­रम्भं वदतस्तार्किकस्य मते परमाणुषु मूर्त्तत्वेऽपि समा­न­दे­श­ता­वि­रो­धस्य वक्तु­म­श­क्य­त्वा­दे­क­द्व्य­णु­का­र­म्भ­क­प­र­मा­णु­सं­योगे सत्येव तदा­र­म्भ­क­प­र­मा­ण्व­न्तरे द्व्यणु­का­न्त­रा­र­म्भ­क­प­र­मा­णु­सं­यो­ग­स्यापि तेना­ङ्गी­क­र्त­व्य-त्वात् कार­णाऽ­का­र­ण­सं­यो­गा­त्का­र्याऽ­का­र्य­सं­योग इति तन्मते यद­व­य­वा­व­च्छे­दे­ना­व­य­वि­द्व­य­सं­यो­ग­स्त­यो­र­व­य­व­यो­रपि संयेा­गा­व­श्य­म्भा­वात् । तस्मात् षण्णां समानदेशत्व इति श्लोकानुसरणं युक्तमेव । तदनुसरणं च द्व्यणुके कैमु­ति­क­न्या­ये­नै­त­द्दो­ष­सं­यो­ज­नार्थं शङ्का­न्त­र­नि­व­र्त­नार्थं च । तत्र शङ्कान्तरमेवं मा भूत्- पर­मा­ण्वा­र­ब्ध­द्र­व्येषु महत्त्वं तदारब्धेषु त्र्यणुकेषु तत्संभवाद् दृश्य­मा­न­घ­टा­दि­म­ह­त्त्वो­प­पत्तिः इति तन्निवर्तनमेव विवक्षितम् । त्र्यणुकेषु वा कथं महत्त्वं भवेत् कार­ण­म­ह­त्वा­भा­वात् । कार­ण­ब­हु­त्वा­द्भ­वे­दिति चेन्न । सप्त­प­र­मा­ण्वा­र­ब्ध­द्रव्ये सत्यपि कारणबहुत्वे महत्त्वाऽभावाद् व्यभिचारेण कारणबहुत्वस्य कार्य­म­ह­त्त्वाऽ­प्र­यो­ज­क­त्वात् । ननु- निर­व­य­वे­ष्व­सं­यु­क्त­प्र­दे­शा-सं­भ­वेन तद्बहुत्वस्य कार्य­म­ह­त्वा­प्र­यो­ज­क­त्वेऽपि साव­य­व­क­का­र­ण­ब­हुत्वं कार्य­म­ह­त्त्व­प्र­यो­जकं स्यादिति चेत् न । सावयवानामपि पर­मा­ण्वा­र­ब्ध­द्र­व्याणां संयो­ग­स्त­दा­र­म्भ­क­प­र­मा­णु­द्व­य­सं­यो­गा­व­च्छे­देन वाच्यः हस्त­पु­स्त­क­सं­यो­गा­व­च्छे­दे­नेव कायपुस्तकसंयोगः । पर­मा­णु­द्व­य­सं­यो­ग­श्चे­द्व्या­प्य­वृ­त्ति­स्तदा तत्का­र्य­द्र­व्य­सं­यो­गो-ऽपि तदवच्छेदेन भवन् व्याप्यवृतिरेव स्यादिति पर­मा­ण्वा­र­ब्ध­द्र­व्ये­ष्विव तदारब्धेषु त्र्यणुकेष्वपि महत्त्वापत्तिः समानैव ।
द्व्यणुकपिण्ड इति ।
कैमु­ति­क­न्या­य­सि­द्धा­र्थ­प्र­द­र्श­नार्थं द्व्यणुकग्रहणम् ।
अव्या­प्य­वृ­त्ता­विति ।
व्याप्य­वृ­त्त्य­भावे संयोगस्य तत्र वृत्तिरेव न स्यादि­त्य­व्या­प्नु­व­न्वे­त्या­दि-ग्र­न्थे­नो­क्त­मि­त्यर्थः ।
अव्यापने वेत्य­नु­वा­द­स्या­व्या­प्नु­व­न्वे­त्य­नु­वा­दाद् भिन्ना­र्थ­त्व-सि­द्धये प्रदे­श­भे­दे­ना­व्या­प्य­वृ­त्तित्वं तदर्थमाह-
अथेति ।
तत्राहेति ।
ननु- पर­मा­णू­ना­म­व­य­वा­भा­वेऽपि नाना­दि­ग­व­च्छे­द­भे­देन तत्सं­यो­गा­ना­म­व्या­प्य-वृ­त्ति­तो­प­प­द्यत इति चेन्न । दिशा­म­प्य­सं­ब­द्धा­ना­म­व­च्छे­द­क­त्वा­स­म्भवे तत्संबन्धानां संयोगरूपाणां व्याप्य­वृ­त्ति­त्वे­ना­ति­प्र­स­क्त­तया तद­व्या­प्य­वृ­त्ति­तो­प­पा­द­का­व­च्छे­द­क­त्वा-ऽ­स­म्भ­वात् तत्रा­प्य­व­च्छे­द­का­न्त­रा­न्वे­षणे अनवस्थानात् । ननु मेरु­स­र्ष­प­प­रि­मा­ण-सा­म्य­प्र­स­ङ्ग­रू­प­प्र­ति­कू­ल­त­र्केण मूर्त्त­त्व­लि­ङ्ग­को­क्ता­नु­मा­न­प­रा­ह­ति­र्वक्तुं न शक्यते । अन­न्त­क्ष­ण­घ­टि­त­यो­र­वा­न्त­र­क­ल्प­म­हा­क­ल्प­यो­रि­वाऽ­न­न्त­प­र­मा­ण्वा­र­ब्ध­यो­र्मे­रु­भू­गो­ल­क­यो­रिव चान­न्त्य­वि­शे­षो­प­प­त्ते­रि­त्या­शङ्क्य नानेनेत्थं प्रति­कू­ल­त­र्क­प­रा­ह­ति­रु­च्यते किं तु मेरुसर्षपौ समानपरिमाणौ मूर्त्त­त्वा­त्सं­प्र­ति­प­न्न­सा­ध्य­घ­ट­द्व­य­व­दि­त्य­नु­मा­नस्य धर्मि­ग्रा­ह­क­प्र­त्य­क्षे­णेव शङ्कितानुमानस्य धर्मि­ग्रा­ह­का­नु­मा­नेन बाध उच्यते लाघ­व­स­ह­कृ­ते­ना­नु­मा­नेन पर­मा­णो­र्नि­र­व­य­व­त्वेन सिद्धेरित्याहुः ।
यदि प्रत्यक्षेति ।
एवं च बाध एवात्र विपक्षे दण्डो विवक्षितः । इत्थं पर­प्र­क्रि­ये­हा­नू­दिता । न हि स्वमते पर­मा­णो­स्त­न्नि­र­व­य­व­त्वस्य वा सिद्धि­र­भ्यु­प­ग­म्यते ।
कार्यकारणभाव इति ।
कार्य­का­र­ण­यो­र्भाव इति द्विवचनान्ताद् भावशब्देन तयोः पृथग्भावो लभ्यत इत्यारम्भवादे पर्यवसानम् । अन्यत्रापि कृत्स्नै­क­दे­श­वि­क­ल्पेन दूषणं विवक्षितम् । अवयव्यवयवे वर्तमान: कार्त्स्न्येन वर्तते एकदेशेन वा । आद्ये क्वचि­दे­वा­व­य­वेऽ­व­य­वि­प­रि­स­मा­प्ते­र­व­य­वा­न्त­रस्य तद­ना­र­म्भ­क­त्व­प्र­सङ्गः । द्वितीये त्वेकदेशोऽवयव एवेति नात्राप्यवयविनो वृत्ति­वि­क­ल्पेऽ­न­वस्था । तथा अवयवः कृत्स्न­म­व­य­वि­न­मा­र­भते तदेकदेशं वा । आद्ये अव­य­वा­न्त­र­स्या­न­नु­प्र­वे­श­प्र­सङ्गः । द्वितीये सोऽप्ये­क­दे­शोऽ­व­यव इति तस्या­प्ये­क­दे­शा­न्त­रा­र­म्भ­कत्वे अनवस्थेति। इदं दूष­ण­मा­र­म्भ­णा­धि­क­र­ण­भा­ष्येण सिद्धमित्यत्र नोपन्यस्तम् ॥२९॥
इति नवमं कृत्स्न­प्र­स­क्त्य­धि­क­र­णम् ॥

सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
अशरीरस्य न मायेति ।
शरी­र­ग्र­ह­ण­मि­न्द्रि­य­व­र्ग­स्या­प्यु­प­ल­क्ष­णम् । विवरणत्वादिति हि सूत्रकृता पूर्व­प­क्ष­बी­ज­मु­द्भा­व­यि­ष्यते । सूत्रेऽपि करणग्रहणं शरी­र­स्या­प्यु­प­ल­क्ष­णम् । शरी­रे­न्द्रि­य­र­हि­तस्य मायाशक्तिर्न संभवतीति तर्कस्य श्रुतेस्तु शब्दमूलत्वादि (ब्र. अ. २ पा. १ सू. २७) त्यत एव परिहारे सिद्धेऽपि शुष्कतार्किकः श्रुतिमात्रेण न परितुष्येदिति तत्परितोषाय प्रमे­य­स­म्भा­व­ना­ज­न­क­श्रु­त्य­नु­ग्रा­ह­क­न्या­य­प्र­द­र्श­ना­र्थ-म­धि­क­र­णा­रम्भः । तदर्थमेव पूर्वाधिकरणेऽपि श्रुतेस्त्विति तुश­ब्द­द्यो­त्य­त­च्छ्रु­त्य­नु-ग्रा­हक न्यायोपन्यासः ॥३०॥३१॥
इति दशमं सर्वो­पे­ता­धि­क­र­णम् ॥

न प्रयो­ज­न­व­त्त्वात् ॥ ३२ ॥
स्वापादौ प्रयो­ज­ना­न­भि­सं­धि­रूपे श्वासे साध्याभाववदिति ।
अत्राद्ये सप्तम्यौ समानाधिकरणे । सर्व­ज्ञा­नो­प­र­म­रूपो हि स्वापादिः प्रयो­ज­नाऽ­न­भि­सं­धि­रू­पोऽपि भवति। श्वासादौ प्रयो­ज­नाऽ­न­भि­सं­धि­रूपे साध्याभाववदिति क्वचित्पाठः । तस्मिन् पाठे प्रयो­ज­ना­भि­सं­धि­र­हि­त­इ­त्ये­त­द­र्थकं द्विती­य­स­प्त­म्यन्तं श्वासा­दि­वि­शे­ष­णम् । पाठद्वयेऽपि चेतनक्रिया प्रयो­ज­ना­भि­सं­धि­पू­र्वि­केति टीको­प­द­र्शि­त­व्याप्तौ व्यभि­चा­रा­भा­व­शङ्का ॥३२॥ सूत्रे- लीलाशब्दस्य क्रियामात्रं विलासरूपक्रिया चेत्यर्थद्वयं संभवति लीला क्रिया विलासश्चेति स्मरणात् । तत्र क्रिया­मा­त्रा­र्थ­त्व­मा­दाय यादृ­च्छि­का­ङ्ग­ली­च­ल­ना­दि-क्रि­यायां स्वाभा­वि­क­श्वा­स­नि­मे­षा­दि­क्रि­यायां च प्रयो­ज­नो­द्दे­श­र­हि­तायां व्यभिचार उक्तः ।
अथ विलासार्थमादाय व्यभिचार उच्यते तत्रापि तात्का­लि­क­क्षु­द्र­सु­खा­दि­प्र­यो­ज­न­ज्ञा­न­म­स्तीति न व्यभिचार इत्याशङ्कां निरस्यतीत्याह-
यदुक्तमिति ।
लीलाकर्तरि सव्यभिचारमिति ।
सुखितस्य सुखा­नु­भ­व­प्र­युक्ता हासगानादिरूपा प्रयो­ज­नो­द्दे­श­र­हिता दृश्यते । न हि तत्र प्रयोजनमण्वपि संभावयितुं शक्यते । दुःखोद्रेके रोद­न­व­त्सु­खो­द्रेके हासगानादेः प्रयो­ज­ना­द्दे­श­र­हि­तस्य सर्वा­नु­भ­व­सि­द्ध­त्वात् । अत एव हसितरुदितादिषु कारणमेव पृच्छन्ति न प्रयोजनम् ।
न लीलादौ व्यभिचार इति ।
लीला­या­दृ­च्छि­क­स्वा­भा­वि­क­क्रि­यासु च व्यभिचार इत्यर्थः ।bक्रीडार्थं सृष्टिरित्यन्ये भोगार्थमिति चापरे ।bदेवस्यैष स्वभा­वोऽ­य­मा­प्त­का­मस्य का स्पृहा ॥bइति माण्डू­क्यो­प­नि­षदि तात्का­लि­का­न­न्द­प्र­यो­ज­न­ली­ला­त्व­मेव क्रीडार्थं सृष्टिरित्यन्य इत्यनेनानभिमतं प्रदर्शितं न तु हास­गा­ना­दि­तु­ल्य­प्र­यो­ज­नो­द्दे­श­र­हितं लीलात्वम् ।bस्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः ।bदेवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥bइति श्वेता­श्व­त­रो­प­नि­षदि सृष्टेः सृज्य­व­स्तु­स्व­भा­व­तै­वा­न­भि­म­त­त्वेन प्रदर्शिता न तु स्रष्टृस्वभावता । अतो लीला­स्व­भा­व­प­क्ष­योर्न श्रुतिविरोधः ।
एतच्छक्यत्वे निदर्शनमिति ।
पर्वतसेतुबन्धनं बहु­क­र्तृ­त्वा­द्दु­ष्करं सत् शक्यमित्यत्र निद­र्श­न­मि­त्यर्थः । महयां चकारेति पाठः साधुः । मह पूजायामिति धातुः स्वार्थण्यन्तः तस्य कथ­य­ति­व­द­का­रा­न्त­त्वा­दत उपधाया इति वृद्ध्यभावः । महीचकारेति पाठस्त्वस्मादेव धातेारेरजिति कर्मा­र्थ­का­ज­न्तात् च्विप्रत्यये सति अभूततद्भावे तदर्थे भूत­त्वा­वि­द्यायां योजनीयः ।
प्रस­ङ्गा­त्प्र­ति­बि­म्बे­श्व­र­वादे सौत्र­ली­ला­श­ब्द­सा­म­ञ्ज­स्य­माह-
प्रतिबिम्बगता इति ।
लीलाशब्दस्य क्रीडा­वा­चि­ता­या­मिदं दूषणम् न क्रिय­मा­ण­वा­चि­ता­या-म­ना­या­स­सा­ध्य­क्रि­या­ल­क्ष­क­तायां वा ॥३३॥
इति एकादशं न प्रयो­ज­न­व­त्वा­धि­क­र­णम् ॥

वैष­म्य­नै­र्घृण्ये न सापे­क्ष­त्वा­त्तथा हि दर्शयति॥ ३४ ॥
व्यभिचारमाहेति ।
युक्त­वा­दि­त्व­व­च­न­रू­प­वि­ष­म­वा­क्य­स्र­ष्टरि सभ्ये निग्र­हा­नु­ग्र­ह­रू­प­वि­ष­म-कृ­त्य­स्र­ष्टरि सभापतौ च निरवद्ये हेतुसत्त्वेन व्यभिचार इत्यर्थः ।
तत्त­त्प्रा­णि­क­र्म­वा­सने इति ।
स्यादेव विष­म­क­र्मा­नु­ष्ठा­प­नेन वैषम्यं परमेश्वरस्य यदि तत्र स्वातन्त्र्यं भवेत् नत्वेवं सुखदुःखानुभावन इव तद्धे­तु­क­र्मा­नु­ष्ठा­प­नेऽपि तस्य तत्पू­र्व­क­र्म­वा­स­ना-सा­पे­क्ष­त्वा­दिति भावः ॥४३॥३५॥
आगताविति ।
पुण्यपापे विना फल­भो­गा­भ्या­ग­ता­वि­त्यर्थः ।
वेदा­न्ता­न­र्थ­क्य­मिति ।
अक­स्मा­त्पु­ण्य­पा­प­फ­ला­भ्या­गतौ यथा विधि­नि­षे­ध­शा­स्त्रा­न­र्थ­क्यम् एवं पुनः संसारोद्भूतौ मोक्ष­शा­स्त्रा­न­र्थ­क्य­मिति भाष्ये विवक्षितमिति व्याचष्टे इत्यर्थः ।
अनादिकर्मतैवेति ।
स्यादेव कर्मानुष्ठापने वैषम्यं यदि क्वचित्सर्गादौ पूर्व­क­र्म­वा­स­ना­न­पेक्षः किञ्चि­त्क­र्मा­नु­ष्ठा­प­येत् क्वचिदपि कल्पे तन्नास्ति बीजा­ङ्कु­र­न्या­ये­ना­ना­दि­त्वात् कर्म­त­द्वा­स­ना­प्र­वा­ह­स्ये­त्यर्थः ।
भवि­ष्य­च्छ्र­प­ण­म­पे­क्ष्येति ।
इद­म­ग­त्याऽ­ङ्गी­कृ­तम् प्रकृतावपि तुषोपवापसमये कपाले सिद्धस्य पुरो­डा­श­सं­ब­न्ध­स्या­भा­वात् । यत्र तु प्रकृतौ सिद्धसंबन्धो लभ्यते न तत्र भविष्यत्संबन्ध आश्रीयते यथाऽ­ग्नि­हो­त्र­ह­वण्या हवींषि निर्वपतीत्यत्र । तत्र ह्यग्निहोत्रं यया हुतं साऽग्नि­हो­त्र­ह­वणी गृह्यते न तु यया होष्यते सापि प्रकृ­त्या­र­म्भात् पूर्व­म­ग्नि­हो­त्रस्य हुतत्वेन प्रकृ­ति­भू­त­येा­र्द­र्श­पू­र्ण­मा­सयोः सिद्ध­सं­ब­न्ध­व­त्त्वात् । यत्र तु तद्विकृतौ पवमानेष्टौ सिद्धा­ग्नि­हो­त्र­सं­ब­न्धाऽ­ग्नि­हो­त्र-ह­वणी न लभ्यते तत्राऽसंभवाद् निर्वा­प­गु­ण­भू­ताया अग्नि­हो­त्र­ह­वण्या लोप इत्येव गुणलोपे च मुख्य­स्ये­त्य­धि­क­रणे (जै. सू. अ. १० पा. २ सू. ६३) प्रतिपादितम् ॥३६॥
इति द्वादशं वैष­म्य­नै­र्घृ­ण्या­धि­क­र­णम् ॥

सर्व­ध­र्मेो­प­प­त्तेश्च ॥ ३७ ॥
निर्गु­णेऽ­प्य­वि­रु­द्ध­मिति ।
इदमत्र वक्तुं शक्यम्- ब्रह्मणो निर्गु­ण­त्व­म­सि­द्धम् सर्व­ज्ञ­त्वा­दि­गु­ण­क­त्वात् तस्य निमि­त्तो­पा­दा­न­भा­वो­प­पा­द­नार्थं सर्व­ज्ञ­त्व­स­र्व­श­क्ति­क­त्वयोः सर्व­ध­र्मो­प­प­त्ते­श्चे­त्य­ने­नैव सूत्रेण प्रतिपादनात् अन्यो­न्य­ध­र्मां­श्चा­ध्य­स्ये­त्या­दि­भा­ष्य­वा­क्यै­रपि तदनुमोदनाद् वस्तुतो धर्मिभिन्नं ज्ञानादिकं ब्रह्मणि नास्तीति चेत् न घटा­द्यु­पा­दा­ने­ष्वपि वास्त­व­त­द्भि­न्न­रू­पा­दि­गु­णाऽ­सं­प्र­ति­पत्तेः । तत्त्वतो ब्रह्मणि व्याव­हा­रि­क­गु­ण­त्व­मपि नास्ति किं तु स्वरूपप्रकाश एव तत्त­द्वि­ष­यो­प­रा­गेण तत्त­ज्ज्ञा­न­त्व­व्य­प­दे­श­मा­त्र­मिति चेत्, न श्रुति­स्मृ­ति­सि­द्ध­स­र्व­ज्ञ­त्वा­दि­व्य­व­हा­रा­ल­म्ब­नया व्याव­हा­रि­क­ध­र्म­ध­र्मि­भे­द-क­ल्प­नो­प­पत्तौ व्यप­दे­श­मा­त्र­त्वा­भ्यु­प­ग­माऽ­यो­गा­ज्जी­व­ब्र­ह्म­णो­रिव ब्रह्म­त­ज्ज्ञा­न­यो­र­प्य-ना­दि­वि­भा­गा­ङ्गी­का­रेण धर्म­ज्ञा­न­ए­वा­ग­मा­पा­यि­वि­ष­यो­प­रा­ग­प्र­यु­क्ता­वा­न्त­र­भे­द­क­ल्प­नो-प­प­त्तेश्च । तथापि ब्रह्मणि प्रप­ञ्च­ग­त­रू­पा­दि­गुणो नास्तीति चेत् किं ततः । सगु­ण­मे­वेा­पा­दा­न­मिति निय­म­मा­ति­ष्ठ­मा­नस्य कुतार्किकस्य परितोषाय गुण­व­त्त्व­मु­प­पा­दि­त­मेव । न च तन्मतेऽप्यस्ति नियम: कार्य­ग­त­गु­ण­तो­पा­दा­नेन भाव्यमिति। द्व्यणुकेषु महत्त्वाभावात् । न च विशे­ष­गु­ण­वि­ष­योऽयं नियमः । परि­मा­णा­दि­व्या­वृ­त्त­वि­शे­ष­गु­ण­त्वाऽ­नि­र्व­च­नात् । किं च निर्गुणस्य नोपादानत्वमिति परमतेऽपि नास्ति नियमः । प्रथ­म­क्ष­णेऽ­स्यैव घटस्य रूपा­दि­स­म­वा­यि­का­र­ण-त्वा­भ्यु­प­ग­मात् । उपादानशब्देन द्रव्य­स­म­वा­यि­का­र­ण­वि­व­क्षा­या­म­प्र­यो­ज­क­त्वा­दिति। तदे­त­त्स­र्व­मा­चा­र्या­णा­मपि हृदयस्थमेव पूर्वाधिकरणेषु विव­र्त­वा­द­म­न­पे­क्ष्यापि परि­हा­रा­न्त­र­प्र­ति­पा­द­नात् । किं तु सूत्र­भा­ष्या­द्या­लो­च­नया स्फुटमिति कण्ठतो न प्रतिपादितम् ।
नित्य­त्वा­द्या­रो­पो­प­ल­ब्धे­रिति ।
ननु जातिर्नित्येति न प्रत्य­क्षा­रो­पोऽस्ति शब्दा­नु­मा­न­जा­रो­पेषु न प्राति­भा­सि­क­वि­ष­यो­त्प­त्ति­रस्ति अनि­त्य­त्वा­रो­पो­प­ल­ब्धे­रिति पाठेऽप्ययमेव दोषः । न हि घटे दृश्यमाने घटत्वं नष्टमिति प्रत्यक्षारोपः संभवति। नष्टे घटे तत्संभवेऽपि तत्र घटत्वस्य धर्मि­णोऽ­न­भि­व्यक्त्या न तद्धर्मिको नष्टत्वारोपः प्रत्यक्ष इत्युपपद्यते । सत्यम् दशमस्त्वमसीति बोध्यस्येव यस्य सन्निहिते विषये नष्टत्वभ्रमः स व्यव­स्थि­त­वि­ष­य­श्चे­त्तस्य तद्ग­त­जा­ति­न­ष्ट­त्व­भ्रमः सन्नि­हि­त­जा­ति-ध­र्मिकः प्रत्यक्ष उपपद्यत इति तद­भि­प्रा­य­म­नि­त्य­त्वा­रो­पो­प­ल­ब्धे­रिति वचनम् । नित्यत्वेति पाठस्तु मिथ्यात्वेन ज्ञान­नि­व­र्त्यायां जातौ शब्दानुमानजे नित्य­त्वा­रो­पेऽपि प्राति­भा­सि­क­वि­ष­यो­त्प­त्ति­र­स्तीति पक्षमाश्रित्य नेतव्यः । इदमुपलक्षणम् - रात्रौ दीपप्रभायां नीलोत्पलवर्णे रक्त­व­र्ण­त्वा­रोपः विभागे संयो­गा­भा­व­त्वा­रोप इत्या­दि­क­म­प्यु­दा­ह­रणं द्रष्टव्यम् ॥३७॥
इति त्रयोदशं सर्व­ध­र्मो­प­प­त्य­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्याजि श्रीर­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले द्विती­या­ध्या­यस्य प्रथमः पादः॥

अथ द्विती­या­ध्या­यस्य द्वितीयः पादः । रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
मोक्षमाणानामिति ।
मुचोऽकर्मकस्य गुणो वेति सूत्रेण कर्मण: कर्तृ­त्व­वि­व­क्ष­णा­द­क­र्म­कस्य सन्नन्तस्य मुचेर्गुणः । अत्र लोपोऽ­भ्या­स­स्ये­त्य­भ्या­स­लोपः ।
संयोगादयो हीति ।
स्थूलपिण्डस्य यः केन­चि­त्सं­यो­ग­स्त­द्वि­भागः परिमाणविशेषो गुरुत्वविशेषो वा न तेषां कर­ण­प­र्य­न्त­म­नु­वृ­त्ति­र­स्तीति न तेषु व्यभिचार इत्यर्थः । ननु तथापि रूपे व्यभिचारः स्थूलपिण्डे यद्रूपं तस्यैव कणेऽपि दृश्य­मा­न­त्वा­दिति चेद् न ताव­त्का­र्य­का­र­ण­भे­द­वा­दि­मते व्यभिचारः । तन्मते कारणे कार्ये च रूपभेदात् । नापि कार­णा­ति­रि­क्त­का­र्य­नि­र्व­च­नी­य­त्व­वा­दि­मते । तन्मते कार्य­व­त्त­द्रू­प­स्या­प्य-नि­र्व­च­नी­य­स्या­भ्यु­प­ग­म­सं­भ­वात् नापि कार्य­का­र­णाऽ­भे­द­वा­दिनः सांख्यस्य मते । तन्मते पञ्च­त­न्मा­त्र­प्र­कृतौ तामसाहङ्कारे रूपाभावेन तस्य सूक्ष्म­का­र­ण­प­र्य­न्ता-नु­वृ­त्त्य­भा­वात् ।
ननु चेत­ना­न­धि­ष्ठि­तत्वं सांख्येन साध्ये न प्रवेशितमतो विरु­द्ध­त्वा­भि­धा­न­म­यु­क्त­मि­त्या­शङ्क्य तदप्रवेशने सिद्धसाधनं स्यादिति तत्परिहाराय तत्प्र­वे­श­ना­व­श्यं­भा­व­मा­पा­द्येदं विरु­द्ध­त्वा­भि­धा­न­मिति योजयति-
अयमत्रेति ।
एवं शब्दस्येति ।
तथा च यथा कृतकत्वं विरुद्धम् एवं सम­न्व­या­दि­वि­रु­द्ध­श­ब्दा­नु­ष­ङ्गेण वाक्ययोजनेति भावः ।
ननु सांख्यानुमाने विरु­द्ध­त्वो­द्भा­व­न­परं सूत्र­मि­त्यु­क्तम् सिद्धा­न्त्यु­द्भा­व­नी­य­किं­चि­द­नु­मा­न­प­र­मिति नोक्तमत उपा­धि­श­ङ्के­य­म­स्था­न­वि­जृ­म्भि­ते-त्या­शङ्क्य विरु­द्ध­त्वो­प­पा­द­नाय हेतोः साध्य­वि­प­र्य­य­व्या­प्तिर्या सिद्धान्तिना उपपादनीया तत्रे­द­मु­पा­ध्यु­द्भा­व­न­मि­त्य­व­ता­र­यति-
सत्वा­द्य­न्वि­त­त्या­दिति ।
ननु साध­नो­पा­ध्योः­सा­ध्य­व्या­प्य­त्वेन प्रती­य­मा­न­यो­रु­पा­धि­रेव वस्तु­तः­सा­ध्य­व्याप्यः साधने तु तद्गतं साध्य­व्या­प्यत्वं सन्नि­धा­ना­दा­रो­प्यते । अत एवोप समीपे स्थित्वाऽन्यत्र स्वध­र्मा­धा­य­क­त्वाज् जपा­कु­सु­मा­दि­व­न्नि­षि­द्ध­त्वा­दि­रु­पा­धि­रि­त्यु­च्यते ।
ततश्च साधनमेव सर्वत्र सोपाधिकं न साध्यमतोऽत्र साध्यस्य सोपाधिकत्वशङ्का न युक्ते­त्या­शङ्क्य समा­न­न्या­य­त्वा­त्सा­ध­न­व­त्सा­ध्य­स्यापि सोपाधिकत्वं वक्तुं युक्त­मि­त्यु­प­पा­द­यति-
यथेति ।
एवं चान्तरङ्गत्वे स्वध­र्मा­स­ञ्ज­क­त्व­ल­क्ष­ण­मु­क्त­मु­पा­धि­प­द­प्र­वृ­त्ति­नि­मित्तं यद्यपि नास्ति किं तु साध्यान्तर एव तथाप्यन्यदेव प्रवृ­त्ति­नि­मित्तं किञ्चि­द­नु­मा­न-दू­ष­णो­पा­धा­वस्तु । न हि सर्वत्र उपाधिपदस्य तदेव प्रवृ­त्ति­नि­मि­त्त­मिति नियम: उपाधिर्ना धर्मचिन्ता कुटु­म्ब­व्या­पृ­तस्तु यः स्याद­भ्या­गा­रि­क­स्त­स्मि­न्नु­पा­धिश्व पुमा­न­य­मि­त्या­द्य­भि­धा­न­को­शेषु तस्यो­क्त­प्र­वृ­त्ति­नि­मि­त्त­र­हि­ता­र्था­न्त­र­वा­च­क­त्व­स्यापि स्मरणादिति भावः ।
ननु व्यति­रे­क­व्या­प्त्य­न­व­धा­र­णेऽ­प्य­न्वय सहचारमात्रेण केव­ला­न्व­यि­नी­वा­न्व­य­व्या­प्ति­र्ग्र­हीतुं शक्ये­त्या­श­ङ्क्याह-
इतरथेति ।
व्याप्य­व्या­प­क­यो­र्व्य­ति­रे­क­वत्त्वे यत्र व्याप­का­भा­व­स्तत्र व्याप्य­त्वा­भि­मतं वर्तत इति व्यभिचारशङ्काया निरसनाय तत्र तदभावोऽवधारणीयः । न च तदवधारणं शक्यम् । पक्षा­न्य­त्व­रू­प­व्या­प­का­भावो हि पक्ष­मा­त्र­वृत्तिः तत्र च न साध्या­भा­व­नि­र्ण­योऽ­स्ती­त्यर्थः ।
समपदं मुधेति ।
प्रवृ­त्ति­नि­मि­त्त­ला­भार्थं सम­व्या­प्त्य­न्वे­ष­ण­मिति शङ्काया: समाधानं तु अनुपदमेव सिद्धम् । न च प्रवृ­ति­नि­मि­त्त­प­रि­ज्ञा­ना­र्थ­मिह लक्षणमुच्यते किं तु दूष­क­तौ­प­यि­क­रू­प­प­रि­ज्ञा­ना­र्थम् । (सम­व्या­प्त्य­न्वे­ष­ण­मिति शङ्का) तदर्थं च साध्य­व्या­प­क­त्व­मे­वा­पे­क्षितं न तु तद्व्या­प्य­त्व­मपि उपाध्यभावेन पक्षे साध्या­भा­वा-न्न­य­नस्य साध्य­व्या­प­को­पा­धि­व्य­भि­चा­रि­त्वेन साधने साध्य­व्य­भि­चा­रो­न्न­य­नस्य वा तत एव भावात् ।
शङ्कि­त­स्त्व­नु­कू­ल­त­र्कै­रिति ।
साधने साध्य­व्या­प्य­त्व­नि­र्णा­य­कै­र­नु­कू­ल­तर्कैः शङ्कि­तो­पा­धि­रु­द्ध्रि­यते इत्यर्थः । उपा­धि­ल­क्ष­णा­नु­प्र­विष्टं व्यापकत्वं व्याप्ति­प्र­ति­यो­गित्वं न भवति येन व्याप्ति­ल­क्ष­ण­स्यो­पा­धि­ग­र्भ­तया चक्रकाश्रयः स्यात् किंतु साध्य­व­न्नि­ष्ठे­त्या­दि­नि­रु­क्ता-व्य­भि­चा­र­रूपं तदिति नवीनैः कृते समाधाने दूषणमुक्तं नवीनै: ।
एवमपि साध्यत्वस्य व्याप्ति­ग­र्भ­त्वान्न चक्रकोद्धार इति कैश्चिदुक्तं तद्दू­ष­ण­मु­प­न्य­स्यति-
नवीनतरास्त्विति ।
उपाधेः साध्यव्यापकत्वं सपक्षे ग्राह्यं न तु पक्षे सपक्षे च संप्रतिपन्नं तन्न साधनीयमिति। तत्र साधनीयत्वं न साध्यपदस्यार्थ इत्यन्यत्र साधनीयतया संभाव्यमानत्वं तदर्थम् इति वक्तव्यम् । तथा संभावना साध­न­व्या­प­क­त्व­प्र­ति-सं­धा­ना­धी­नेति चक्र­का­प­ति­ता­द­व­स्थ्य­मि­त्यर्थः ।
ननु तदपि व्याप­क­त्व­प्र­ति­बं­धानं साध­न­व­न्नि­ष्ठा­त्य­न्ता­भा­वाऽ­प्र­ति­यो­गि­त्व­वि­ष­य­मस्तु कुतश्चक्रकमिति नवीनतरमते स्पष्टं तद्दूषणं स्वयं किमिति नोच्यत इत्याशङ्क्य अनास्थयेत्याह-
अस्माकमिति ।
एतदिति ।
धूमेन वह्न्य­नु­मा­नेऽ­प्ये­त­त्प­र्व­ते­त­र­व­ह्नि­सा­ध्य­कता स्यादिति शङ्कार्थः । तत्र लाघवसहकृततया वह्नि­मा­त्र­नि­रू­पि­त­व्या­प्ति­ग्रा­ह­क­प्र­मा­णे­ने­वात्र केनचित्प्रमाणेन विरोधो नास्ति सिद्ध­सा­ध­न­प­रि­हा­रार्थं तन्निवेशनस्य पूर्व­प­क्षि­णाऽ­पे­क्ष­णी­य­त्वेन लाघ­वा­द­र­णाऽ­यो­गात् प्रत्युत दृढ­प्र­मा­णा­नु­गुण्यं चास्तीति परिहारार्थः । सुखयति
सुखंकरोति ।
सुखदुःख तत्कृताविति चौरादिको धातुः । ननु- प्रीत्य­प्री­ति­वि­षा­दा­त्मका: प्रका­श­प्र­वृ­त्ति­नि­य­मार्था इति सांख्यैः सत्त्वादीनां सुखा­दि­रू­प­त्व­मु­क्तम् कथं सुखादिहेतुत्वं तदुक्तमापाद्य दूषणमुच्यते । अथ पद्भा­व­त्यु­दा­ह­र­ण­टी­कायां सत्त्वादीनां सुखा­दि­हे­तु­त्व­मपि सांख्या­भि­म­त­मु­प­न्य­स्त-मिति चेत् तर्हि अत्रोच्यमानं दूषणं न लगेत् तत्र प्रति­यो­गि­वि­शे­ष­व्य­व­स्थि­त-स­त्त्वा­द्यु­द्रे­केण तत्र तत्र व्यव­स्थि­त­सु­खा­दि­ज­न­क­त्वस्य समर्थितत्वात् कथं च चन्दनकण्टकादिषु कालविशेषे प्राणिविशेषे च व्यवस्थितं सुखादिजनकत्वं सिद्धान्तिनापि निरसितुं शक्यम् । अनु­भ­व­सि­द्ध­त्वा­दिति- चेत् । अयमिह दूषणाभिप्रायः- भावेषु सुखादिसमन्वयः तथा­भू­त­का­र­णा­नु­माने हेतुः किं प्रत्यक्षसिद्धः उत सुखा­दि­का­र्य­कल्प्यः । नाद्यः असिद्धेः । न हि घटः सुखी सुखमिति वाऽनुभवोऽस्ति द्वितीये सर्वदा सर्वान् प्रति एकरूपं सुखादिकार्यं तत्कल्पकम् उत कालविशेषेषु चानि­य­त­त­त्क­ल्प­कम् | नाद्यः । असिद्धेरेव चन्दनकण्टकादिषु सुखा­दि­हे­तु­त्व­नि­य­मा­भा­वात् । न द्वितीयः अनि­च्छा­प्र­य­त्ना­दि­रू­पा­णा­मपि भावा­ना­म­नि­य­ते­च्छा­प्र­य­त्ना­दि­ज­न­क­त्व­व­द­सु­खा­दि-रू­पा­णा­मपि तेषा­म­नि­य­त­सु­खा­दि­ज­न­क­त्व­सं­भ­वे­नाऽ­नि­य­त­सु­खा­दि­का­र्याणां विषयेषु ताद्रू­प्याऽ­क­ल्प­क­त्वा­दिति। एवं च चन्दनाऽन्वयेऽपि सुखा­दि­व्य­भि­चा­राच्च नैक्य­मि­त्या­हे­त्य­व­ता­रिका विक­ल्पा­न्त­रो­त्त­रा­व­ता­रि­का­त्वेन योजनीया । ननु प्राग्दू­षि­त­ए­वार्थे हेत्व­न्त­र­स­मु­च्च­या­व­ता­रि­का­त्वेन सुखा­दि­व्य­भि­चा­रस्य सत्त्वा­द्यु­द्रे­का­भा­वे­नेा­प­पत्त्या हेत्व­न्त­र­प­र­त्वाऽ­यो­गाद् ।bभेदानां परि­मा­णा­त्स­म­न्व­या­च्छ­क्तितः प्रवृत्तश्च ।bकार­ण­का­र्य­वि­भा­गा­द­वि­भा­गा­द्वै­श्व­रू­प्यस्य ॥bकार­ण­म­स्त्य­व्य­क्त­म्bइति सांख्यैः प्रधानसाधका हेतवो दर्शिताः । अस्यार्थः - विश्वरूपमेव वैश्वरूप्यं त्रैलो­क्या­दि­व­त्स्वा­र्थिकः प्रत्ययः । विश्वरूपस्य प्रपञ्चस्य कार­ण­म­व्य­क्त­मस्ति। कुतः कारणे कार्यस्य विभा­गा­द­वि­भा­गाच्च । सत्कार्यवादे हि कारणे सत एव कार्य­स्या­भि­व्य­क्ति­लयौ विभागाऽविभागौ कूर्मशरीरे सत इव तदवयवजातस्य । ततश्च यत्र कारणे सतः प्रपञ्चस्य विभागाविभागौ तद­व्य­क्त­का­र्या­वस्थं कारणमस्ति। इतश्च तदस्ति। शक्तितः प्रवृत्तेश्च । कारणशक्तितो हि कार्यं प्रवर्तते अश­क्ता­त्का­र्या­नु­त्पत्तेः । शक्तिश्च कारणगता न कार्य­स्या­व्य­क्ता­व­स्थाया भिन्ना प्रमाणवतीति परि­मा­ण­स­म­न्व­या­वा­करे एव स्पष्टौ । तत्र समन्वयो विक­ल्प­म­भि­प्रेत्य दूषितः । परि­मा­ण­दू­ष­ण­प्र­द­र्श­नार्थं मुखतो विकल्पयति
परिमितत्वमिति ।
स्वस­त्ता­म­ति­क्र­म्येति ।
अत्र सह वर्तनं सामानाधिकरण्यं न विवक्षितं किंतु स्वयं यन्न व्याप्नोति तथा­भू­त­व­स्तु­स­त्त्व­मा­त्र­म­त­स्त­थैव नभसि लक्षणानुगतिं दर्शयति-
कारणं हीति ।
लोके हि कारणं मृदादि घटमिव शरावादिकमपि व्याप्नोति घटस्तु शरावादिकमपि न व्याप्नोतीति दृष्टम् । अतः कार्यं कर्तृं कार्या­न्त­रेऽ­प्य­नु­गतं कारणं न व्याप्नो­ती­त्यर्थः ।
ननु शब्द­त­न्मा­त्र­का­र­णकं नभौ गन्ध­त­न्मा­त्रा­दि­क­मपि न व्याप्नोतीति तदव्यापनेन लक्षणानुगतिः किमिति नोक्ते­त्या­श­ङ्क्याह-
गन्धेति ।
नभो गन्धतन्मात्रं सर्वथा न स्पृशतीति तदव्यापनेन लक्षणानुगतिः सुप्रसिद्धेति स्पष्टत्वात् साऽच नोक्तेत्यर्थः । ननु सत्त्व­र­ज­स्त­मस्सु व्यभिचार इति परिहारो न युक्तः अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । नैषामादिः संप्रयोगो वियोगो वोपलभ्यते ॥
इति सांख्यैः सत्त्वा­दी­ना­म­न्यो­न्य­सं­सृ­ष्ट­त्वेन सदा सर्वत्र सद्भावस्य वर्णि­त­त्वा­दि­त्या­श­ङ्क्याह-
परिहरतीति ।
युक्त एवायं परिहारः कार्य­का­र­ण­भा­व­मूलो यस्तादात्म्येन पूर्णानुप्रवेशः सा व्याप्ति­स्त­द­भा­व­रू­प­म­व्या­प­नम् इह परिमितत्वमिति विवक्षितत्वात् । न हि यथा तैः कार्य­जा­त­मि­त्या­दि­ग्र­न्थेन तथैव प्रतिपादनादिति भावः । ननु किमनेन कुसृष्ट्या अर्थ­वि­शे­षा­नु­न्नीय विकल्पनेन परिमितत्वं परि­च्छि­न्न­त्व­मि­त्ये­वास्तु । तथा च सर्वगतेषु गुणपुरुषेषु न व्यभिचारः । न च गुणानां सर्वगतत्वे प्रलये तेषां साम्यापत्तिः सर्गे वैषम्यापतिश्च न स्यादिति वाच्यम् । न हि तावता तेषां प्रलये क्वचि­त्क्क­चि­त्क­दा­चि­देव सत्त्वं सर्गादौ यस्य यदोद्रेकस्तस्य तदाऽन्यत्रापि अव्यापनमित्येष विशे­षोऽ­ङ्गी­कार्यः । हेम­न्त­शि­शि­र­रा­त्रिषु निदाघदिवसेषु सदा सर्वत्र सतामेव हिमातपयोः क्वचि­त्क्व­चि­दु­द्रे­क­वत् सदा सर्वत्र सतामेव गुणानां क्वचि­त्क­दा­चि­त्क­स्य­चि­दु­द्रेक इत्युपपत्तेः । न च हिमा­त­प­यो­र­व­य­व­भू­य­स्त्व­रूप उद्रेकः संभवति न तु गुणानां निरवयवानामिति वाच्यम् ।
तथापि परि­ण­ति­वि­शे­ष­रू­पो­द्रेके अनु­प­प­त्त्य­भा­वा­दिति चेत् न उद्रेकावस्थाया अपि मह­द­ह­ङ्का­रा­द्य­व­स्था­वत् कार्यत्वेन तत्रैव परि­मि­त­त्व­हे­तु­स­त्त्वेन व्यभिचारादिति भावः ॥१॥ सापी­त्य­स्या­न्व­य­सौ­क­र्याय यत्पदमध्याहरति-
या प्रवृत्तिरिति ।
साध्य­वि­रु­द्धो­क्ति­र्व­क्रो­क्ति­रिति ।
सांख्यानां प्रवृत्तेरिति हेतु­र्वि­रु­द्ध­स्त­दी­य­सा­ध्य­सा­धको न भवतीति कण्ठतो नोक्तं किं तु तस्यैव हेतो­स्त­दी­य­सा­ध्य­वि­रु­द्ध­सा­ध्या­न्त­रो­क्ति­रू­प­व­क्रोक्त्या सूचितम् । नित्यः शब्दः कृतकत्वादिति साधयन्तं प्रति अनित्यः शब्दः कृत­क­त्वा­दि­त्य­नु­मा­न­म­नु­कू­ल­त­र्क­स­हितं हि न केवलं पूर्वानुमाने बाध­क­त­याऽ­व­ति­ष्ठते किं तु तस्मिन् विरु­द्ध­त्वो­द्घा­ट­न­प­र्य­न्त­मपि भवति। एवं च हेतु­त्वे­ना­भि­धा­ना­दिति पर्यन्तं साध्य­वि­रु­द्धोक्तौ न हेतुपरं किं तु तस्या एव विवरणमिति योजनीयम् । यद्वा- तत्प­र्य­न्त­पैा­न­रु­क्त्यो­प­पा­द­क­त्वेन पूर्वत्र योजनीयम् । अङ्गित्व (व्या. सू. अ. २ पा. २ सू. ८) सूत्रे वैष­म्याऽ­सं­भ­व­मूला हि प्रकृ­ते­र­नु­प­प­त्ति­रु­च्यते इह तु प्रवृत्ते सांख्य­सा­ध्य­वि­प­री­त­सा­धने हेतुत्वमुपपद्यत इति स्यात् । साध्य­वि­रु­द्ध­त्वोक्तिः वक्रोक्तिरिति क्वचि­त्पा­ठ­स्त­स्मिन् पाठे हेतु­त्वे­ना­भि­धा­ना­द्धे­तोर्या साध्य­वि­रु­द्ध­त्व­स्योक्तिः सूचनारूपा सा वक्रो­क्ति­र्भ­व­ती­त्यर्थः । अस्मिन् व्याख्याने टीकायां वक्रोक्त्येति न करणतृतीया किं तु प्रकृ­त्या­दि­तृ­ती­येति भेदः ।
आलोचनमात्रमिति ।
वस्तु­स्व­रू­प­मा­त्र­गो­चरं ज्ञानमालोचनम् । इद­मि­त्थ­मि­त्य­ध्य­व­सा­य­रूपा तु वृत्ति: त्रिवि­धा­न्तः­क­र­ण­मध्ये बुद्धि­रू­प­स्या­न्तः­क­र­ण­स्येति सांख्यानां मतम् ॥२॥३॥
कर्म­प­रि­पा­का­व­स­रा­भि­ज्ञ­स्येति ।
ननु कर्म­प­रि­पा­का­पेक्षा सांख्यपक्षेऽपि समाना धर्माऽ­ध­र्म­यो­र्मध्ये यः पक्वस्तेनैव तदितरस्य प्रतिबन्ध इति तन्मतेऽपि वक्तव्यत्वादिति चेत् मैवम् । चेत­ना­धि­ष्ठा­न­र­हि­तयोः पाक­स्या­प्य­सं­भ­वाद् उत्तरसूत्रेण धेनू­प­यु­क्त­त­ज्जा­ठ­रा­ग्नि-सं­प­र्का­धी­न­तृ­णा­दि­पा­केऽपि चेत­ना­धि­ष्ठा­ना­पे­क्षाया वक्ष्यमाणत्वात् ॥४॥५॥
अवास्तवस्य न निषेध इति ।
ननु सांख्य­म­तेऽ­प्य­वा­स्तव एव पुरुषस्य भोगः । एवं हि तन्मतम् । पुरु­ष­श्चै­त­न्य­मा­त्र­वपुः कूटस्थो नित्यमुक्तः सांसा­रि­क­सु­ख­दुः­खा­नु­भ­व­रूपो भोगः परिणामिन्या बुद्धेर्धर्मः पुरुषस्य तु बुद्धि­च्छा­या­पत्त्या तदै­क्य­मि­त्रा­प­न्नस्य तद्दर्शनमात्रं भोगः । तेन तस्य विवे­काऽ­ग्र­हा­दा­ध्या­सिकं भोक्तृत्वम् । विवेकख्यात्या भोक्तृ­त्वा­ध्या­स­मा­त्र­नि­वृ­त्ति­र्मोक्षः । वस्तुतः पुरुषो न बद्धो नापि मोक्ष्यत इति। यदाहुः ।bतस्मान्न बध्यतेद्धा न मुच्यते नापि संसरति कश्चित् ।bसंसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥bसत्यम्- पुरुषस्य भेाक्तृत्वमपि सांख्यै­र­भ्यु­प­ग­तम् । यदाहुः ।bसंघा­त­प­रा­र्थ­त्वात् त्रैगु­ण्य­वि­प­र्य­या­द­धि­ष्ठा­नात् ।bपुरुषोऽस्ति भोक्तृ­भा­वा­त्कै­व­ल्यार्थं प्रवृत्तेश्च ॥ इति।bकथमिदं तेषां पर­स्प­र­वि­रु­द्ध­व­च­न­मिति चेत् किं कुर्मः । अत एव विप्र­ति­षे­धा­च्चा­स­म­ञ्ज­स­मिति वक्ष्यते । यदि त्वविरोधार्थं भोगा­श्र­य­बु­द्ध्यै­क्य­द­र्शनं पुरुषस्य भोग इति कल्प्यते तदा तद्दर्शनरूप एव तात्त्विको भोग: पुरुषस्य निर्विकारस्य न संभवतीति दूषणमिहोक्तं द्रष्टव्यम् ॥६॥७॥८॥९॥
एकस्यापि कर्तृ­क­र्म­त्वा­दिति ।
पच्यते फलमित्यत्र हि कर्मकर्त्तरि यक्प्रत्ययः । अतः फलस्यैव कर्तृत्वं कर्मत्वं चाऽवि­वा­द­मि­त्यर्थः ।
कर्म­त्वो­प­चा­रा­दिति ।
कर्मकर्ता कर्तैव केवलं न कर्म कर्म­का­र्य­य­गा­त्मने पदा­दि­भा­क्त्वात्तु कर्मत्वोपचारेण कर्मकर्तेति व्यपदेशः । ननु- पच्यते फलमित्यत्र फल­ग­त-प­रि­ण­त्य­नु­कूलः फल­पा­च­क­चै­व­ग­त­दो­ह­न­व्या­पारः पचिक्रिया तज्जन्यपरिणतिफल शालिनः फलस्य मुख्यमेव कर्म­त्व­मु­प­प­द्यते किम­र्थ­मु­प­चा­रा­श्र­य­ण­मिति चेत् उच्यते । इह पचिधातोः फलगता परिणतिरर्थः न तु तद­नु­कू­ल­पु­रु­ष­व्या­पारः । येन पुरुषव्यापारं प्रत्येव सौकर्यातिशयात् कर्तृत्वेन विवक्षितस्य तज्ज­न्य­क्रि­या­फ­ल­शा­लि­त्वा­त्क­र्म­त्व­मपि मुख्यं संभवतीत्युच्येत न त्वेवम् । कर्म­क­र्तृ­प्र­योगे धातूनां तत्त­त्क्रि­या­फ­ल­वा­चि­त्वात् । यदाह कैयट: लुनातिस्तावद् द्विधा­भ­व­नो­प­स­र्जने द्विधाभावने वर्तते लुनाति केदारं देवदत्तः द्विधा भवन्तं द्विधा भावयतीत्यर्थः । यदा तु केदारस्य सौक­र्या­ति­श­य­वि­व­क्षया देवदत्तव्यापारो न विवक्ष्यते तदा द्विधाभवनमात्रे लुनातिर्वर्तते अने­का­र्थ­त्वा­द्धा­तू­नाम् भिन्ना एव वा धातवो भिन्नार्थाः सारूप्यात्तु तत्त्वाध्यवसायः । तत्र द्विधाभवने केदारस्य कर्तुः कर्मवत् कर्मणा तुल्यक्रिय इति कर्म­का­र्या­ण्य­ति­दि­श्यन्ते तेन लूयते केदारः स्वयमेवेत्यादयः प्रयोगा उपपद्यन्त इति। एवं चात्र परिणतिरेव पचिक्रियेति तामवलम्ब्य पर­स­म­वे­त­क्रि­या­फ­ल­शा­लि­त्वस्य कर्म­त्व­व्या­प­कस्य सम­र्थ­यि­तु­म-श­क्य­त्वाद् व्यापकाभावे च व्याप्यासंभवात् कर्म­त्व­स्यैा­प­चा­रि­क­त्वो­क्ति­र्यु­क्तैव ।
अत्रैव साक्षित्वेन पाणि­नि­सू­त्रां­श­मु­दा­ह­रति-
पाणिनिरिति ।
कर्मवत्कर्मणेति सूत्रे वतिना मुख्य­क­र्म­त्वा­भावः स्पष्टीकृत इत्यर्थः ।
परोक्तदोषानुवाद एवेति ।
यद्य­प्य­ध्या­हा­रे­णा­भ्यु­प­ग­मा­भा­व­स्फो­र­ण­इ­वा­न­ध्या­हा­रेण तद्वि­ष­या­भा­व­स्फो­र­णेऽ-पी­ष्ट­प्र­स­ङ्ग­क­थ­न­रू­प­दू­षणं भयादेव तथापि तथा स्फुटं न भातीति तात्पर्यम् | अवि­भा­गा­प­त्ति­श्चे­त्यत्र अविभागो नैक्यम् ।
अस्यातिवादिनः सांख्यस्य मते भ्रम­वि­ष­यै­क्य­वि­व­र्ता­भा­वा­दि­त्या­शङ्क्य विवेकाग्रह एवाविभागशब्देन विवक्षित इति व्याचष्टे-
अविवेक इति ।
भाष्य­टी­का­स्थ­म­द­र्श­न­शब्दं तमःपरत्वेन व्याचष्टे-
न दृश्यते नेति ।
तुशब्द इति ।
सौत्रेषु पूर्व­प­क्ष­व्या­वृ­त्त्य­र्थेषु तुशब्देषु नका­र­स­मा­ना­र्थत्वं प्रसिद्धम ॥१०॥
इति प्रथमं रच­ना­नु­प­प­त्त्य­धि­क­र­णम् ॥

महद्दीर्घवद्वा ह्रस्व­प­रि­म­ण्ड­ला­भ्याम् ॥ ११ ॥
साम्यकृतेति ।
पर­मा­णु­वा­द­नि­रा­क­र­णा­र्थ­त्व­मा­त्रेण साम्यमिह विवक्षितम् । उभयत्रापि निरा­क­र­णी­य­यु­क्ति­भे­दस्य स्वयमेवोक्ततया सर्वथा साम्याभावात् । यद्वा- शिष्टा­प­रि­ग्र­हा­धि­क­र­ण­नि­रा­कृ­ति­यु­क्ति­र­प्यत्र टीका­या­म­नु­वा­द­रू­पे­णेा­प­न्यस्ता भाष्येऽपि वैशे­षि­क­प्र­क्रि­यो­प­न्या­सेन व्यञ्जितेति तेनापि रूपेण साम्यं विवक्षितम् ।
एवकार इति ।
मायाशबलस्य ब्रह्मण उपादानत्वे मायाऽ­प्यु­पा­दा­न­मिति सिद्धसाधनवारणाय टीकायामेवकारः । तेन चेतनोपादानकं न भवतीति साध्यार्थे पर्यवसानान्न सिद्धसाधनमिति भावः ।
असंयुक्तानामिति ।
द्व्यणुकमारभ्य स्थूलारम्भकत्वं यत् शङ्कावाद्यभिमतं तदभाव इह साध्यः । स चामं­यु­क्ता­व­स्थायां शङ्का­वा­दि­नाऽ­पी­ष्यत इति सिद्धसाधनवारणाय संयु­क्त­वि­शे­ष­ण­मि­त्यर्थः ।
द्व्यणु­क­म­ना­र­भ्येति ।
साध्यविशेषणस्य प्रयोजनमाह-
अनेन बाधोऽपोदित इति ।
परमाणूनां द्व्यणु­का­र­म्भ­द्वारा स्थूला­र­म्भ­क­त्वात् स्थूलं नारभन्त इति साध्यं बाधितं स्याद् द्व्यणु­का­ना­र­भ्येति विशेषणेन तन्निरासः कृत इत्यर्थः ।
स्वापेक्षया स्थूलेति ।
स्थौल्यमत्र परि­मा­णा­धि­क्य­मात्रं विवक्षितं न तु महत्त्वमिति भावः ।
न द्वितीय इत्याहेति ।
द्व्यणु­का­र­म्भ­प्र­क्रि­या­या­स्त्व­याऽ­न­ङ्गी­कृ­त­त्वाद् द्वितीयपक्षो न युज्यत इत्यर्थः ।
अव­य­वा­व­य­वि­भा­व­वि­र­हि­णा­मिति ।
जलाऽऽ­लो­का­दि­वि­र­ल­द्र­व्य­व्य­ति­रि­क्ता­ना­मिति विशे­ष­णा­न्त­र­स्या­प्यु­प­ल­क्ष­ण-मे­तत् । स्वच्छ­ज­ला­न्त­र्ग­त­सि­क­ता­दि­ग्र­ह­णार्थं यत्र जलं तत्रै­वाऽऽ­लो­क­स्या­प्य­ङ्गी-कृ­त­त्वात् ।
नन्वान्तरालिकं कार्यो­प­ल­ब्ध्य­र्थ­मेव त्र्यणुकारम्भ इष्यत इत्याशङ्कते-
अथेति ।
विशेषो वेति ।
द्व्यणुकान्येव त्र्यणु­का­र­म्भ­काणि न परमाणव इत्यत्र विशेषो वक्तव्य इत्यर्थः ।
अस्ति तावदिति ।
ननु अव­य­वि­ना­म­व­य­वा­प­क­र्षो­त्क­र्ष­वै­ष­म्य­प्र­सा­धनं द्वित्व­प्र­भृ­त्या­र­म्भ­क­त्व-प्र­येा­ज­क­ता­प्र­सा­धनं च क्वोपयुज्यते । द्वयोः परमाण्वोः संयोगस्य कदा­चि­द-व­र्ज­नी­य­त्वाद् द्वयोः संयोगे सति सम­वा­य्य­स­म­वा­यि­का­र­ण­स­म­व­धा­नाद् द्व्यणु­को­त्प­त्ति­र­प्र­त्या­ख्ये­येति ऋजुना मार्गेण द्व्यणुकं साधयितुं शक्यम् । न च द्वयोः संयोगान्न कार्य­द्र­व्यो­त्प­त्ति­रिति विवदमानं प्रति तत्प्रसाधनमिति वाच्यम् । तत्रापि कार्य­द्र­व्ये­ष्व­व­य­वो­त्क­र्षा­प­क­र्ष­वै­ष­म्य­प्र­सा­ध­न­स्या­नु­प­यो­गात् । तन्तु­द्व­य­सं­यो­गा-त्सू­त्रो­त्प­त्ति­द­र्श­नेन तथा विवादानवकाशाच्च । तस्माद् द्व्यणु­क­प्र­सा­धने नैतावता यत्नस्योपयोगः । यत् तु परमाणुद्वयेन द्व्यणु­क­व­त्त­त्त्र­येण क्वचित् त्र्यणु­को­त्प­त्ति­र-स्त्विति शङ्काया निराकरणं, तदयुक्तम् । त्रयाणां परमाणूनां द्व्यणुकानामिव कदा­चि­त्सं­यो­ग­यौ­ग­प­द्य­स्या­व­र्ज­नी­य­तया पर­मा­णु­त्र­या­र­ब्ध­त्र्य­णु­क­स्या­प्य­प्र­त्या­ख्ये­य-त्वात् । पर­मा­णु­सा­धा­र­ण्येन द्वित्व­प्र­भृ­त्या­र­म्भ­क­सं­ख्ये­त्य­नु­पदं स्वयमेव प्रसाधित-तया परमाणुत्रित्वं नारम्भकसंख्येति वक्तु­म­श­क्य­त्वाच्च । कार­ण­का­र­ण­जा­ती­य-स्ये­त्या­दि­नि­य­म­स्त्व­सिद्धः । क्वचि­त्त­न्तु­त्र­या­र­ब्ध­सू­त्र­त्र­येण त्रिवि­त्सू­त्रो­त्प­त्ति­र्दृ­श्यते क्वचित् तन्तुत्रयेणेति व्यभिचारात् । यदि सूत्र­त्र­या­र­ब्धा­त्त्रि­वृ­त्सू­त्रा­त्त­न्तु­त्र­या­रब्धं त्रिवृत्सूत्रं विजातीयं तर्हि द्व्यणु­क­त्र­या­र­ब्धात् त्र्यणु­का­त्प­र­मा­णु­त्र­या­रब्धं त्र्यणुकमपि विजातीयमस्तु । अथ पर­मा­णु­त्र­या­रब्धं त्र्यणुकमण्येव भवेदिति भोगभेदाभावेन वैय­र्थ्या­त्त­था­भू­त­त्र्य­णु­को­त्प­त्तिर्न संभवतीति चेन्न । कार­ण­ब­हु­त्वा­न्म­ह­त्त्व­सं­भ­वेन भागभेदोपपत्तेः साम­ग्री­स­द्भा­व­प्र­भा­वि­तस्य कार्यस्य प्रयोजनाभावेन प्रत्या­ख्या­ना-भा­वाच्च । न हि प्रयो­ज­न­क्ष­ति­भिया सामग्री कार्यं नार्जयतीति न्यायाद् भोगभेदाभावेन साम­ग्री­स­द्भा­व­प्र­भा­वि­तस्य कार्यस्य प्रत्याख्याने च द्व्यणुकमपि प्रत्याख्यायेत पर­मा­णु­व­त्त­स्या­प्य­ती­न्द्रि­य­त्वेन भोगभेदाभावात् । यदि द्व्यणुकं त्र्यणु­को­त्प­त्ति­प्र­णा­डि­कया भोगभेदोपयोगि तर्हीदमपि तथास्तु | एतेन- टीको­प­न्य­स्त­द्व्य­णु­क­र­द्व­या­र­भ्य­द्र­व्य­नि­रा­क­र­ण­मपि – निरस्तम् । तस्यापि द्रव्यस्य स्थूल­का­र्यो­त्पा­द­न­प्र­गा­डि­कया द्व्यणु­क­व­द्भो­ग­भे­दो­प­यो­गि­त्वात् । तस्मा­त्स­र्व­मि­द­म-स­म­ञ्ज­स­मिति चेदुच्यते । वैशे­षि­क­प्र­क्रि­या­नु­वा­दोऽ­यम् । अत एवे­त्थ­मु­पा­ल­म्भ­नीयः । अत एव भाष्ये वैशे­षि­का­भि­म­त­व्य­व­स्था­प­क्षा­श्र­य­णेन तदुक्तदूषणस्य व्यभिचारं प्रदर्श्य व्यवस्थापक्षो न स्थायीति सूचनार्थं यदापि बहवः परमाणवो बहूनि द्व्यणु­का­नी­त्या­दि­वा­क्ये­ना­व्य­व­स्था­प­क्ष­मु­द्भाव्य तत्रापि व्यभि­चा­र­सा­म्य­मु­क्तम् । महा­तू­ल­पि­ण्ड­यो­रिति युक्तः पाठः ।
न तु मह­त्तू­ल­पि­ण्ड­यो­रिति ।
आन्महतः समा­ना­धि­क­र­ण-जा­ती­य­यो­रि­त्या­त्व­नि­य­मात् । ननु मह­द्दी­र्घ­व­द्वेति सूत्रे सामानाधिकरण्ये सत्यपि आत्वं न दृश्यते न च तत्र महद्दीर्घशब्दौ द्व्येक­यो­रि­ति­वद् भावप्रधानाविति पदार्थभेदाद् द्वन्द्वसमासः । अतः सामा­ना­धि­क­र­ण्या­भा­वा­न्ना­त्व­प्र­स­क्ति­रिति वाच्यम् । टीकायां ह्रस्व­प­रि­म­ण्ड­ला­भ्या­मि­त्यस्य धर्मिपरतायाः प्रदर्शितत्वेन मह­द्दी­र्घ­श­ब्द­यो­रपि तदन्वयार्थं धर्मिपरताया वक्तव्यत्वात् । यदि तत्र पदार्था-भेदेऽपि पदा­र्थ­ता­व­च्छे­द­क­भे­दाद् द्वन्द्व इति न सामा­ना­धि­क­र­ण्यम्, तर्हीहापि तथास्त्विति- चेदुच्यते । पदार्थाभेदे पदा­र्थ­ता­व­च्छे­द­क­भे­देन द्वन्द्वो न संभवति महा­भा­ष्य­वि­रो­धात् । तत्र हि चार्थे द्वन्द्व इति सूत्रे याज्ञिकश्चासैौ वैया­क­र­ण­श्चे­त्या­दिषु पदा­र्थ­ता­व­च्छे­क­भे­दाद् द्वन्द्व­मा­शङ्क्य शेषो बहुव्रीहिरिति सूत्रतः शेष­इ­त्य­स्या­नु­वृ­त्ते­स्तस्य समा­ना­धि­क­र­ण­स­मा­स­वि­ष­य­त्वेन शेष­त्वा­भा­वा­त्त­द-प्रा­प्ति­रु­प­पा­दिता । कथं तर्हि मह­द्दी­र्घ­व­दि­त्यस्य निर्वाह: । इत्थम् । कानिचित् त्र्यणुकानि महान्ति कानि­चि­द्दी­र्घा­णीति त्र्यणु­क­व्य­क्ति­भे­द­वि­व­क्षया इह द्वन्द्वसमास आश्रीयते । यद्यपि सर्वाणि त्र्यणुकानि महान्ति दीर्घाणि च मह­त्त्व­दी­र्घ­त्वयो: समनियतत्वात्; तथापि कानिचित् त्र्यणुकानि परितो द्व्यणु­क­सं­यो­गै­रु­त्प­द्यन्ते कानि­चि­त्ति­र्य­ग्द्व्य­णु­क­सं­योगैः । तत्र यानि द्वितीयापेक्षया महान्तीति द्विती­या­न्या-द्या­पे­क्षया दीर्घाणीति च प्रत्यययोग्यानि भवन्तीति तथा­भू­त­त्र्य­णु­क­व्य­क्ति-द्वै­वि­ध्या­पे­क्षया द्वन्द्व उपपद्यते । न चेह तथा द्वन्द्व उपपद्यते । न चेह तथा द्वन्द्वो­प­पत्तिः द्वयोरपि तूल­पि­ण्ड­यो­र्म­ह­त्त्वा­धि­क­र­ण­त्वेन विवक्षितत्वात् ।
स्वाश्रयेति ।
स्वेषां विशे­ष­गु­ण­त्वा­भि­म­तानां ये आश्रयास्तेषां व्यवच्छेदे तत्त­द्वि­शे­ष­गु­ण-प्र­वृ­त्ते­त­र­व्या­व­र्तने उचिता अवच्छेदका येऽवा­न्त­र­सा­मा­न्य­वि­शे­षा­स्त­द्वन्त इत्यर्थः । ते चावा­न्त­र­सा­मा­न्य­वि­शेषा नीलरूपादिषु नीलत्वादयः शुक्लरूपे पृथि­व्या­दि­त्र­य­सा­धा­रणे पाक­ज­त्वाऽ­पा­क­ज­त्व­भा­स्व­र­त्वाऽ­भा­स्व­र­त्वानि । एवं रसा­दि­ष्व­प्यू­ह­नी­यम् । स्नेह­त्वा­वा­न्त­र­सा­मा­न्य­स­द्भावे तेन लक्ष­णा­नु­ग­ति­स्त­द­भावे स्नेहत्वेनैव अन्तरशब्दस्य व्याप्यपरत्वात् । अभेदेऽपि व्याप्य­व्या­प­क­भा­व-स­द्भा­वात् ।
अत्र स्वाश्रयशब्दस्य एकै­का­श्र­य­भू­त­व्य­क्ति­प­रत्वे नीलत्वादीनां तदि­त­र­स­क­ल­व्या­व­र्त­क­ता­व­च्छे­द­क­त्वा­भा­वा­द­सं­भव: लक्षणे सामान्यशब्दस्य जातिपरत्वमपहाय धर्म­मा­त्र­प­र­त्व­म­ङ्गी­कृत्य नीलादिषु लक्षणसमर्थने सामा­न्य­गु­णे­ष्वपि तथैव लक्ष­ण­स­म­र्थ­न­सं­भ­वा­द­ति­व्या­प्ति­रि­त्या­श­ङ्क्या­श्र­य­श­ब्देन नवानां मध्ये एकैकद्रव्यं सामान्येन विवक्षितं, न तु तत्त­द्व्य­क्ति­मा­त्र­मिति व्याचष्टे-
नवसु मध्य इति ।
व्यावर्तकाः व्याव­र्त­क­ता­व­च्छे­दकाः । ननु नवसु मध्येऽ­प्ये­कै­क­द्र­व्य­व्य­क्ति­रे­कै­क-वि­शे­ष­गु­ण­व्य­क्ते­रा­श्रय इति तत्त­द्द्र­व्य­व्य­क्ति­ग­त­त­दि­त­र­स­क­ल­व्या­वृ­ति­प्र­यो­ज­क­ता-व­च्छे­द­क­गु­ण­ग­ता­वा­न्त­र­जा­त्य­भा­वा­द­सं­भ­व­ता­द­व­स्थ्यम् । न च लक्ष­ण­प्र­वि­ष्टाऽ-वा­न्त­र­सा­मा­न्येन यज्जातीयो गुणो यावत्सु वर्तते तावत्सु तद्ग­त­त­दि­त­र-व्या­वृ­त्ति­प्र­यो­ज­क­ता­व­च्छे­द­कत्वं विवक्षितम् । अणुपरिमाणादिकं यावत्सु चतु­र्वि­ध­द्व्य­णु­का­दिषु वर्तते ताव­द्ग­ते­त­र­व्या­वृ­त्ति­प्र­यो­ज­क­ता­व­च्छे­द­क­म­णु­प­रि­मा­ण-त्वा­दिकं भवतीति तद्व­ता­म­णु­प­रि­मा­णा­दीनां विशे­ष­गु­ण­त्व­प्र­स­ङ्गा­त्त­दा­श्र­या­श्च­तु­र्वि­ध-द्व्य­णु­का­द­योऽपि हि नवसु मध्ये भवन्त्येव ।
अथ नवसु मध्य इति विशे­ष­ब­ला­न्न­वा­न्य­त­म­मा­त्र­रू­पत्वं स्वाश्रयविशेषणं लभ्यत इति नोक्तदोष इति चेत् तर्हि लाघ­वा­न्न­वा­न्य­त­म­मा­त्र­वृ­त्ति­गु­ण­त्व­मेव लक्ष­ण­म­स्त्वि­त्या­शङ्क्य तत्रै­वो­क्त-ल­क्ष­णा­र्थ­प­र्य­व­सा­न­माह-
एवं चेति ।
पृथिव्यादीति ।
अने­के­त्या­दि­मा­त्रो­क्ता­व­सं­भवः स्याद् नीलत्वादीनां विशे­ष­गु­ण­त्व­प्र­यो­ज­क-सा­मा­न्यानां काक­को­कि­ल­कु­व­ल­या­द्य­ने­क­ल­क्ष­ण­सा­मा­ना­धि­क­र­ण्या­पा­द­क­त्वात् । अतो नव­ल­क्ष­ण­व्य­ति­रि­क्त­व्य­ति­रि­क्त­त्व­म­ने­क­वि­शे­ष­णम् । यद्यपि नवानां लक्षणानां मध्ये इत्य­न्व­य­मु­खेाक्तौ योऽर्थः स एवमुक्तावपि पर्यवस्यति तथापि नवानां लव­णा­ना­म­न­नु­ग­तानां नव­ल­क्ष­ण­व्य­ति­रि­क्त­व्य­ति­रि­क्त­त्वे­ना­नु­ग­मार्थं व्यति­रे­क­मु­खेनो-क्तिः ।
नवत्वविशिष्टेति ।
एकोयं न नवेति प्रतीतेर्नवेमे नैक इति प्रतीतेश्च नव­त्व­वि­शि­ष्टे­भ्य­स्त­त्स­मु­दा­या­न्त­र्ग­त­स्या­प्ये­कस्य एक­स्मा­त्त­द्घ­टि­ता­ना­मपि नवानां भेदोऽस्तीति भावः ।
उपलक्षितेति ।
यत्र विशेषणत्वं न तत्रो­प­ल­क्ष­ण­त्व­मिति नव­त्व­वि­शि­ष्टा­स्त­दु­प­ल­क्षि­त-व्य­ति­रिक्ता इत्युक्तम् । न च ये नव­त्व­वि­शि­ष्टा­स्तेऽ­प्य­पे­क्षा­बु­द्धि­वि­ना­शा­न्न­व-सं­ख्या­वि­नाशे तदुपलक्षिता भवन्तीति वाच्यम् । अपे­क्षा­बु­द्धीनां याव­दा­श्र­य­भा­वि­द्वि-त्वा­दि­सं­ख्या­व्य­ञ्ज­क­त्वे­ना­पे­क्षा­बु­द्धि­त­न्ना­शाभ्यां द्वित्वा­द्यु­त्प­त्ति­ना­शा­न­ङ्गी­का­रात् स्वसमवेतेति विशेष्यमात्रं घट­त्वा­दि­ष्व­ति­व्या­प्त­मिति विशेषणोपादानं सामान्येषु समवेतस्य कस्य­चि­द्ध­र्म­स्या­भा­वा­द­ति­व्या­प्ति­नि­रासः ।
द्रव्यजातीयेति ।
संख्या­दी­ना­मा­श्र­या­न­वापि द्रव्याणि द्रव्य­त्वे­नै­क­जा­ती­यानि तेषां गुणादिभ्यो व्यवच्छेदका: संख्यादय इत्यतिव्याप्तिः ।
नन्वेकजातीयत्वं द्रव्य­त्वा­वा­न्त­र­जात्या विव­क्षि­त­मि­त्या­शङ्क्य तथा सत्य­व्या­प्ति­रि­त्याह-
गगनभेदेति ।
स्वमते कल्पभेदेन गग­न­भे­द­स­त्त्वेऽपि लक्षणवादिमते स नास्तीति भावः ॥२२॥
इति द्वितीयं मह­द्दी­र्घा­धि­क­र­णम् ॥

उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
अनवबोधरूप इति ।
जड­त्वा­वि­शे­षा­द­ण­वोऽ­दृ­ष्टा­श्र­या­स्तव मते किं न स्युरि­त्यु­प­हा­सा­र्थ­म­णु-स­म­वा­यि­त्व­प­क्षो­क्ति­रि­त्यर्थः । तस्य चेत­नाऽ­न­धि­ष्ठि­त­स्या­प्र­वृ­त्ते­रिति कर्म­ण­श्चे­त­ना-धि­ष्ठि­तत्वं न केवलं सांख्या­धि­क­र­णो­क्त­री­त्याऽ­भ्यु­प­ग­न्तव्यं किं त्वदृष्टस्य प्रलयेऽपि सत्त्वात्तदापि द्व्यणु­को­त्पा­द­क­कर्म मा भूदि­त्ये­त­द­र्थ­मपि तद­भ्यु­प­ग­न्त­व्यम् । न च परिपक्वमदृष्टं फलजनकं परिपाकश्च सर्गाद्यसमय एव स्यादिति वाच्यम् । ईश्व­रा­धि­ष्ठा­न­सा­हि­त्य­व्य­ति­रे­केण तत्परिपाकस्य निर्व­क्तु­म­श­क्य­त्वात् । अणुवादिमते गुण­रू­प­स्या­दृ­ष्ट­स्यैा­प­धा­दि­व­त्त­तोऽ­न्यस्य पाकस्यासंभवात् फल­का­ला­दि­सा­हि­त्य­रू­प­तया कथ­ञ्चि­त्त­न्नि­र्व­च­नेऽपि तथा­भू­त­पा­क­यु­क्त­स्या­प्य­दृ­ष्टस्य तन्मतेऽपि पर­मे­श्व­र­वि­नि­यो­ज्य­त्वात् । उक्तं हि न्याय­वा­र्ति­क­कृता - कर्म पुरु­ष­स्ये­श्व­रोऽ­नु­गृ­ह्णाति कोऽनुग्रहार्थः यद्यथाभूतं यस्य च यदा परि­पा­क­का­ल­स्त­त्तथा तदा च विनियुङ्क्त इति।
नन्वस्तु तन्म­तेऽ­पी­श्व­रा­धि­ष्ठि­त­त्वा­द्य­भ्यु­प­गमः यथा तथैवास्तु को दोष इत्याशङ्क्य तत्र पाशुपताधिकरणे (ब्र. अ. २ पा. २ सू. ३७) दूषणं वक्ष्यत इत्याह-
पत्युरिति ।
प्रयत्नविशेषेति ।
प्रायो­भि­प्रा­य­मे­तत् । वायुनापि नोदनदर्शनात् ।
तर्हि न क्वचिदपीति ।
वृक्षादिष्विव संयो­ग­स्या­व्या­प्य­वृ­त्ति­त्वो­प­पा­दकाः प्रदे­श­वि­शे­षा­द­योऽपि वक्तुं न शक्येरन्निति भावः ।
प्रदेशकल्पनया प्रतीतिरवकल्पते चेत्तथैवास्तु को दोष इत्याशङ्क्य तथा सति संयो­ग­त­न्मू­ल­द्व्य­णु­कादिः कल्पितः स्यादिति दूषणे तात्पर्यमाह-
प्रदे­श­क­ल्प­न­याऽ­पीति ॥१२॥
तन्नि­या­म­क­त्वा­त्त­न्तु­प­टो­भयं संश्लि­ष्ट­ता­प्र­यो­ज­क­त्वात् । तत्कारणवत् पटोत्पादनद्वारा तदु­भ­य­सं­श्लि­ष्ट­ता­पा­द­क­वे­मा­दि­वत् । इदमत्र दूषणं वक्तुं शक्यम् - प्रागभावस्यापि पट­का­र­ण­त्वा­त्तस्य तन्तुपटाभ्यां संब­न्धा­भा­वा­द्व्य­भि­चारः । अथ प्रागभावस्य पटे न प्रति­यो­ग्य­नु­यो­गि­भा­व­रूपः स्वरू­प­सं­ब­न्ध­स्तस्य तन्तुभिरपि स्वरूपसंबन्धः कल्प्यः कारणानां मिलितानां कार्यजनकत्वेन कार्योत्पत्तौ तेषां मेल­न­स्या­प्य­पे­क्षि­त­त्वा­न्मे­ल­नस्य च संब­न्ध­रू­प­त्वा­दिति चेत्किं स्वरूपमपि संबन्धो भवितुमर्हति ओमिति चेत् तर्हि अव­य­वा­व­य­व्या­दी­ना­मपि स्वरूपमेव संबन्ध: स्यादिति किं समवायेन । संब­न्धि­स्व­रू­पा­णा­म­न­न्त­त्वा­ल्ला­घ­वेन सर्वानुगत एकः समवायः कल्प्यत इति चेद् न । एकस्यानेकेषां वा कल्पनीयत्वे खलु लाघवादेकस्य कल्प­न­मि­हा­ने­केषां क्लृप्त­त्वा­त्ते­ष्वेव क्लृतेषु संबन्धत्वमात्रं कल्पनीयं न तु समवायस्तद्गतं संबन्धत्वं चेत्युभयं कल्पनीयं गौरवात् । अथ समवायपक्षे समवायस्तद्गतं संबन्धत्वं चेति द्वयमेव कल्पनीयम् अवयवावयव्यादिषु संबन्धत्वकल्पने तेषामननुगतत्वेन क्रोडी­का­र­का­भा­वाद् अनन्तानि संबन्धत्वानि कल्प्यानीति समवायपक्ष एव लाघवमिति चेन्न । निरूपकभेदेन संबन्धत्वे भेदा­न­ङ्गी­का­रेऽ­व­य­वा­दिषु तत्त­द­भा­व­सं­ब­न्ध­त्वस्य क्लृप्त­स्यै­वा­व­य­व्या­दि­सं­ब­न्ध­त्व­रू­प-ताया अपि संभवेन अवयवादिषु संब­न्ध­त्व­स्यै­क­स्या­प्य­क­ल्प­नी­य­त्वा­न्नि­रू­प­क­भे­देन तद्भेदाङ्गीकारे समवायेऽपि तत्त­न्नि­रू­प­क­भे­द­प्र­यु­क्तानां तत्सं­ब­न्ध­त्व­क­ल्प­ना­व­श्यं-भा­वात् समवायपक्षे धर्मि­क­ल्प­ना­गौ­र­व­स्या­धि­कस्य सद्भावादिति। इत्यं दूषणं समवायस्य संब­न्धा­न्त­रा­न­पे­क्षत्वे संयोगोपि तदनपेक्षः स्यादिति वक्ष्य­मा­ण­री­त्यै­वो­न्नेतुं शक्यमिति भाष्यादिषु न कण्ठरवेणोक्तम् ।
पक्षेतरस्यपीति ।
यद्यपि पक्ष­मा­त्र­व्या­वृत्त उपाधिः पक्षेतरः प्रसिद्धः संब­न्ध­त्वो­पा­धिश्च न तथा अप­क्षा­त्सं­यो­गा­दपि व्यावृत्तत्वात् तथा­प्यु­पा­धि­व्य­ति­रे­केण साध्य­व्य­ति­रे­क­सा­धकं यदु­पा­ध्यु­त्थाप्यं प्रति­प­क्षा­नु­मा­न­मु­पा­धे­र्दू­ष­क­ता­बीजं तस्या­सा­धा­र­ण­हे­त्वा­भा­स-दो­ष­ग्र­स्तत्वं पक्षे­त­र­त्व­स्या­नु­पा­धि­तायां बीजम् । यथा पर्व­ती­य­व­न्ह्य­नु­माने तत्प­र्व­ते­त­र­त्व­स्या­नु­पा­धि­ता­या­मयं पर्वतो निर्वह्निः एत­त्प­र्व­त­त्वा­दिति तदु­त्था­प्य­प्र­ति-प­क्षा­नु­मा­नस्य सक­ल­स­प­क्ष­व्या­वृ­त्त­त्व­रू­पे­णा­सा­धा­र­ण्येन दुष्ट­त्वा­त्त­स्या­नु­पा­धि­त्वम् । तदी­य­म­नु­पा­धि­ता­बी­ज­मि­हापि समानम् । समवायोऽसंबद्धः संब­न्ध­त्वा­दि­त्य­त्रापि ह्यस्त्य­सा­धा­र­ण्य­मि­त्यस्य पक्षे­त­र­त्व­सा­म्ये­ना­नु­पा­धि­त्व­शङ्का । उपा­धि­त्व­स­म­र्थ-न­स्या­य­मा­शयः । पक्षे साध्या­भा­व­नि­श्वये सति पक्ष एव सपक्षोपि जातोऽतः सक­ल­स­प­क्ष­व्या­वृ­त्त­त्वा­भा­वाद् नासा­धा­र­ण्य­म­नु­पा­धि­ता­बी­ज­म­स्तीति अगुणत्वे सत्यसंबन्धत्वम् अगु­ण­त्व­वि­शि­ष्टस्य संब­न्ध­त्व­स्या­भा­व­स्तथा च संयोगेऽपि विशे­ष­णा­भा­व­प्र­यु­क्त­वि­शि­ष्टा­भा­व­रू­पो­पा­धि­स­त्त्वान्न साध्या­व्या­प­क­त्वम् ।
संयोगस्य गुण­त्व­म­सि­द्ध­मिति ।
रूपा­दि­च­तु­र्विं­श­त्य­नु­ग­त­स्यै­कस्य गुणत्वस्य निर्व­क्तु­म­श­क्य­त्वा­दिति भावः ।
उभयसिद्धस्थल इति ।
यद्य­प्य­नु­मा­न­वा­दि­मते साध्या­व्या­प­क­त्व­म­प्यु­पा­धि­दोष एनं प्रति प्रति­प­क्षो­न्न­य­ना­सं­भ­वात् तथापि तथा निःशङ्कदोषो न भवतीति तात्पर्यम् । अनध्यवसि -तत्व­म­सा­धा­र­ण्यम् ।
संबन्धत्वे सतीति विशेषणमिति ।
शुद्ध­सा­ध्य­व्या­प­क­त्वा­भा­वेऽपि पक्ष­ध­र्मा­व­च्छि­न्न­सा­ध्य­व्या­प­को­य­मु­पा­धि­रि­त्यर्थः । नन्वेवं प्रति­प­क्षो­न्न­यने शुद्ध­सा­ध्य­व्य­ति­रेको न सिध्ये­दि­त्या­शङ्क्य पक्ष­ध­र्म­रू­प­वि­शे­ष­ण­वति विशि­ष्ट­व्य­ति­रेकः सिध्य­न्वि­शे­ष्य­व्य­ति­रे­क­मा­दाय पर्य­व­स्ये­दि­त्याह
तथा चेति ॥१३॥१४॥
व्याप्तिः प्रमिता वक्तव्येति ।
न च विप­क्ष­बा­ध­का­भा­वा­दिह तर्क­मू­ल­व्या­प्त्य­प्र­मितिः शङ्कनीया रूपादीनां जन्यत्वे हि रूपत्वादिकं प्रयो­ज­क­मे­ष्ट­व्यम् अनु­ग­त­त्वा­ल्ल­घु­त्वाच्च । न तु कार्यगतरूपत्वम् पार्थि­व­प­र­मा­णु­ग­त­पा­क­ज­रू­पा­न­नु­ग­त­त्वाद् गुरुत्वाच्च । तथा च परमाणुष्वपि रूपादिस्वीकारे अग्निसंयेगजन्या रूपादयः स्वोत्पत्तौ स्वाश्र­य­का­र­ण­ग­त­रू­पा­द्य­पे­क्षेति परा­भ्यु­प­ग­त­री­त्यैव जल­प­र­मा­णु­ग­त­रू­पा­दीनां पार्थि­व­प­र­मा­णु­ग­त­श्या­म­रू­पस्य चोत्प­त्ता­व­पे­क्षि­तानां रूपा­दी­ना­मा­श्र­य­त्वेन परमाणूनां कारणीभूता अवयवाः सिध्यन्तो न निवारयितुं शक्यन्ते । सावयवत्वे चाऽनि­त्य­त्व­म­प्य­नि­वा­र्यम् । तथा त्रसरेणुः सम­वा­यि­का­र­णा­रभ्यः महत्त्वे सति चाक्षुषत्वात्, तदपि त्रस­रे­णु­स­म­वा­यि­का­रणं सम­वा­यि­का­र­णा­रभ्यं, मह­दा­र­म्भ­क­त्वा­दिति परैः परमाणुः साध्यते । तथा चाद्यानुमाने विपक्षबाधकतर्क एवमुच्यते । महत्परिमाणस्य जन्यत्वे मह­त्त्वा­प­क­र्ष­मात्रं प्रयोजकं न तु मह­त्प­रि­मा­ण­ग­त­मु­त्क­र्षा­प­क­र्ष­रू­प­जा­ति­द्वयं गौरवात् । तथा च चस­रे­णु­म­ह­त्त्व­स्या­प­कृ­ष्ट­म­ह­त्त्व­रू­प­तया जन्यत्वेन कारणापेक्षायां तत्र स्वाश्र­य­स­म­वा­यि­का­र­ण­ग­त­सं­ख्या­प­रि­मा­ण­प्र­शि­थि­ल­सं­यो­गा­न्य­त­मा­व­श्य­म्भा­वेन चसरेणोः सम­वा­यि­का­र­ण­म­व­स्य­म­भ्यु­प­ग­न्त­व्य­मिति तत्र महत्त्वस्य जन्यत्वे मह­त्त्वा­प­क­र्षोऽपि न प्रयोजक: किंतु परिमाणापकर्ष इति युक्तम् सामान्यस्य लघु­त्वा­द्दी­र्घ­प­रि­मा­णा­नु­ग­त­त्वाच्च । ततश्च चसरेणुमूलकारणे यद्य­प­कृ­ष्ट­प­रि­मा­ण-म­भ्यु­प­ग­म्येत तदा तस्य जन्यत्वेन कार­ण­प­रि­मा­णा­द्य­पे­क्षया तस्य सावयवत्वं प्रसज्येतेति तत्परिहाराय तत्र पर­म­म­ह­त्त्व­स्या­भ्यु­प­ग­न्त­व्य­त्वात् तदुक्तरीत्यैव परि­मा­ण­ग­त­त­ज्ज­न्य­ता­प्र­यो­ज­क­रू­पा­पे­क्षया जग­न्मू­ल­का­र­णा­नु­मा­न­प्र­वृत्तौ तेन परममहद्ब्रह्मैव तथात्वेनानुमितं भवेदिति। एवं च स्थौल्या­नि­त्यत्वे प्रस­ज्ये­या­ता­मिति तर्के स्थौल्य­श­ब्दि­तस्य महत्त्वस्य पर­मा­त्रा­नि­ष्ट­स्या­पा­द­नम् अनित्यत्वस्य तूम­याऽ­नि­ष्ट­स्येति विवेकः ।
सत्प्र­ति­प­क्ष­ता­मा­श­ङ्क्येति ।
ननु जगत्सोपादानं भाव­का­र्य­त्वा­दिति यद्ब्र­ह्म­प­र्य­व­सा­य्य­नु­मा­न­मु­प­न्यस्तं यच्च जगदुपादानं न स्पर्शवन्न चाणु नित्य­त्वा­दि­त्य­नु­मा­ना­न्त­र­मु­प­न्यस्तं तत्रोभयत्रापि पर­मा­णु­नि­त्य­त्वा­नु­मानं न प्रतिपक्षतां भजते । तत्सा­ध्या­भा­वा­वि­ष­य­त्वाद्, जगत्कारणस्य स्पर्श­व­त्त्वेऽ­प्य­णु­त्वेऽपि नित्य­त्व­म­का­र­ण­क­त्वा­दि­भि­रु­प­प­द्यत इति द्विती­या­नु­मा­न­स्या­प्र­यो­ज­कत्वं परमतेरनुमानैः सिध्यति तदपि द्विती­या­नु­मा­न-क­ल्प­ना­पे­क्षम् । तस्मा­त्सा­मा­न्यतो जग­त्का­र­णा­नु­मा­नस्य ब्रह्म­प­र्य­व­सा­नेन पर­मा­ण्व­सि­द्धि­दू­ष­ण­मुक्त्वा नैयायिकोक्तानि पर­मा­णु­नि­त्य­त्वा­नु­मा­ना­न्यपि दूष­य­ती­त्ये­वा­व­ता­र­यितुं युक्तमिति चेदुच्यते । तावत्येवार्थे भाष्य­टी­क­यो­स्ता­त्प­र्यम् तथापि तेषामनुमानानां सिद्धा­न्त­वि­रु­द्धा­र्थ­वि­ष­य­ता­मा­त्रेण प्रति­प­क्ष­व्य­प­देशः कृतः । तदे­त­द­र्था­दि­त्य­नेन सूचितम् ।
प्रती­त्य­प्रा­प्येति ।
निमि­त्त­का­र­ण­त्वेन लब्ध्वेत्यर्थः ॥१५॥१६॥१७॥ उत्सू­त्र­वा­क्य­मिति व्याख्याने स्वयमेव हेतुमाह-
सौत्र­च­श­ब्द­व्या­ख्या­न­त्वा­दिति ।
न तदुत्पाद्यत्वं केषा­ञ्चि­द्गु­णानां सामान्यादीनां च तदभावादिति। यद्यपि द्रव्या­धी­न­नि­रू­प­ण­त्व­मपि शब्दगन्धादिषु नास्ती­त्य­व्या­प­कत्वं समानम् तथापि द्रव्यो­त्प­द्यत्वं वह्न्युत्पाद्ये धूमेऽ­ति­प्र­स­क्त­मिति तदुपेक्षणम् ।
शुक्लत्वं द्रव्यवृत्तीति ।
सामा­ना­धि­क­र­ण्य­प्र­त्य­क्ष­मा­त्रेण नैयायिकमन्यो न परितुष्येदिति तद­नु­ग्रा­ह्य­म­नु­मा­न­मु­प­न्य­स्तम् ।
नन्वा­का­रा­न्त­रा­यो­गोऽ­सिद्धः गुण­त्वा­दि­त्या­शङ्क्य विशिनष्टि-
स्वात­न्त्र्य­प्र­यो­ज­केति ।
ननु तामि­मा­म­यु­त­सिद्धिं विकल्प्य दूष­य­ती­त्य­यु­क्तम् द्रव्या­श्रि­त­त्व­नि­यमो गुणा­दी­ना­म­यु­त­सि­द्धि­रिति निरु­क्त­त्वा­त्तत्र च वक्ष्य­मा­ण­वि­क­ल्पा­प्र­स­रा­दि­त्या-श­ङ्क्या­व­ता­र­यति-
भवेदिति ।
तथापि तामि­मा­मि­त्य­यु­क्त­मि­त्या­शङ्क्य तस्यार्थमाह-
तद­र्थ­वि­क­ल्पोऽ­पीति ।
अपृ­थ­ग्दे­श­त्वा­दयो हि धर्म­ध­र्मि­भा­व­नि­य­म­रू­पाऽ­यु­त्त­सि­द्ध्यु­प­पा­द­क­त्वेन शङ्किता अत­स्त­द­र्थ­वि­क­ल्प­स्त­द्वि­क­ल्प­त्वे­नो­प­च­रित इत्यर्थः ।
प्रका­रा­न्त­रे­णेति ।
अपृथगेको देशो ययोरिति व्युत्प­त्ति­मा­श्रित्य अपृथक्सिद्धत्वं भाष्ये दूषितम् इदानीं पृथ­ग्दे­श­त्वा­भावं तदर्थमाश्रित्य शङ्कत इत्यु­त्त­र­ग्र­न्थस्य सामा­न्य­तोऽ-व­ता­रिका ।
तत्रा­व्य­व­हि­त­ग्र­न्थ­म­व­ता­र­यति-
तत्र तावदिति ।
अन्यदेशत्वं युतसिद्धिरिति ।
युत­सि­द्ध्यु­प­पा­द­क­म­न्य­दे­श­त्व­मि­त्यर्थः ।
सङ्गित्वादिति पाठमाश्रित्य तस्य संब­न्धि­त्वा­दि­त्य­र्थ­श्चे­द्व्य­भि­चारः स्यादि­त्या­शङ्क्य व्याचष्टे-
संयो­गि­त्वा­दि­त्यर्थ इति ।
अभ्युपेत्यापीति ।
आका­शा­त्म­नो­स्त­न्मते संयो­गा­भा­वा­त्त­न्म­त­म­र्या­दया पूर्वोक्तं दूषणं न भव­ती­त्ये­त­दु­क्ता­पृ­थ­ग्दे­श­त्व­स्या­भ्यु­प­गमे मूलम् ।
ननु शुक्ल­त्व­मि­त्या­दीति ।
शुक्लः पटः इत्यादौ शुक्लशब्दस्य शुक्ल­गु­ण­वि­शिष्टे द्रव्ये प्रवीणे कुशलशब्दस्येव निरूढा लक्षणा । न चैवं घटस्य शुक्ल इत्यपि कदा­चि­त्प्र­यो­ग­प्र­सङ्गः । निरू­ढ­ल­क्ष­ण­याऽ­न्यत्र प्रयुक्तस्य पदस्य मुख्येऽ­र्थेऽ-प्र­यो­ग­स्यापि दर्शनात् । न हि कुशलशब्दस्य कुशलवनकर्तरि प्रयोगोऽस्ति। अतस्तत्र गुण­वि­शि­ष्ट­द्र­व्य­ल­क्ष­ण­कात् शुक्लशब्दाद् भावा­र्थ­प्र­त्य­यो­त्पत्त्या शुक्लत्वं शुक्लता शैौक्ल्यं शुक्लिमेत्येव प्रयोग इत्यर्थः ।
धर्मि­ग्रा­ह­क­प्र­त्य­क्ष­वि­रो­धा­दा­भास इति ।
न च पटस्य शुक्लं रूपमिति व्यवहारमूलभूतं भेदविषयं प्रत्य­क्ष­म­प्यस्ति तद् अभेदप्रत्यक्षं बाधेतेति वाच्यम् । न ह्युक्तव्यवहारो भेदविषयः किंतु षष्ठ्य­र्थ­सं­ब­न्ध­वि­षयः । संबन्धेन तु भेदोऽ­नु­मा­त­व्य­स्त­द­प्य­नु­मानं शुक्लः पट इत्य­भे­द­सा­क्षा­त्कारो बाधेत तस्माद्राहो: शिर इतिवदौपचारिकं संब­न्ध­व्य­प­दे­श­मा­त्र­मिति कल्पनीयम् । किं च पटस्य शुक्लं रूप­मि­त्ये­त­त्प­टस्य शुक्लत्वं शौक्ल्य­मि­त्या­दिना समानविषयं शुक्ल­त्व­मि­त्या­दि­प्र­त्यये च गुण­गु­णि­भे­द­वा­दि­भि­र्गुणे यच्छु­क्ल­त्व­म­भ्यु­प­ग­म्यते तदेव पटे प्रतीयतेऽतः पटस्य शुक्लं रूपं शुक्लो गुण इत्या­दि­व्य­व­हा­रोऽपि पट­ग­त­शु­क्ल­त्व­सा­मा­न्य­वि­षय इत्येव वक्तुमुचितम् । शुक्ल­त्व­सा­मान्ये कथं शुक्लशब्द इति चेत् शुक्लगुणे वा कथं शुक्लत्वं शुक्लि­मे­त्या­दि­भा­व­प्र­त्य­यान्तः शब्दः । शुक्लशब्दस्य द्रव्य­ल­क्ष­णा-मा­श्रि­त्येति चेत् तस्येह सामान्ये लक्षणाऽस्तु गौर्नित्येति प्रयोगे गोशब्दस्येव । यद्वा शुक्लशब्द: शुक्ल­द्र­व्य­स्येव तद्ग­त­शु­क्ल­त्व­सा­मा­न्य­स्यापि वाचकः यथा साक्षात्कार शब्दः प्रत्य­क्ष­ज्ञा­न­स्येव तद्ग­त­सा­क्षा­त्त्व­सा­मा­न्य­स्यापि । अत एव घटसाक्षात्कार इति साक्षा­त्का­रि­प्र­मेति च व्यवहारः । एवं च गुणवचनेभ्यो मतु­ल्लो­पा­नु­शा­स­न­मपि सामान्यवाचिभ्यो मतुपः प्रसक्त्या सार्थकं भविष्यति। न चैवमपि साक्षा­त्का­री­ति­श­ब्द­वत् शुक्ल­श­ब्दा­दि­नि­प्र­त्य­येन शुक्लीत्यपि प्रयोगः स्यात् तल्लो­पा­नु­शा­स­ना­भा­वा­दिति वाच्यम् । अर्शआदिगणे वर्ण­श­ब्द­पा­ठ­स्या­र्श­आ­दि­भ्योऽ-च्प्र­त्य­य­वि­धा­ना­र्थ­त्वेन तत इनिठनोर्बाधात् । मतुपस्तु ततो बाधो न भवति प्राणिस्थादातो लज­न्य­त­र­स्या­मि­त्य­तोऽ­न्य­त­र­स्या­ग्र­ह­णस्य वैशे­षि­क­प्र­त्य­यै­र्म­तुपः समु­च्च­या­र्थ­म­नु­वृ­त्य­ङ्गी­का­रात् । अतो मतु­ल्लो­पा­नु­शा­सनं सार्थकम् । एव­म­भे­द­प्र­त्य­क्षा­नु­सा­रेण व्यव­हा­र­व्य­व­स्था­क­रणे लाघवमपि भवति। द्रव्या­ति­रि­क्त­गु­णा­भ्यु­प­गमे हि गुण­स्त­त्सं­ब­न्ध­श्वे­त्यु­भ­य­मपि कल्पनीयमिति गौरवं भवे­त्त­स्मा­ल्ला­घ­वा­नु­गृ­ही­ता­भे­द­प्र­त्य­क्ष­ब­लाद् गुण्यभेद एव गुणानामास्थेयः । सुरभिर्गन्धफली मधुरो गुडः उष्णो वन्हिरिति गन्धादीनामपि द्रव्या­भे­द­प्र­त्य­क्षै­स्त­द्भे­द­नि­रा­सात् । अयं च गुणगुण्यभेदो गुणिपरिशेषेण प्रति­नि­य­ते­न्द्रि­य­ग्रा­ह्य­ना­ना­गु­ण­सं­घा­त­प­रि­शे­षे­णो­भ­य­था­प्य­नि­र्व­च­नी­य­भा­वेन वा पर्य­व­स्य­ती­त्य­न्य­दे­तत् ।
पूर्वपक्षिण एव ग्रन्थ इति ।
न चेत्ययं शब्दः पूर्वपच निराकरणार्थ इत्येवं सिद्धा­न्त­ग्रन्थो न भवति, किं तूत्पत्तेः समवायान्यत्वस्य निराकरणार्थः स इति पूर्वपक्षग्रन्थ एवायमित्यर्थः ।
यद्युच्येतेति ।
प्रती­क­ग्र­ह­णा­न­न्त­र­म­प्रा­प्ति­पू­र्विका प्राप्ति­रि­त्येकं लक्षणम् । अन्य­त­र­क­र्म­जेा-भ­य­क­र्म­ज­प्रा­प्त्यो­र­न्य­त­रे­त्य­परं युत­सि­द्धि­ल­क्ष­णम् । तद्भावश्च न कार्य­का­र­ण-सं­ब­न्धस्य भवतीति क्वचित्पाठः । तत्र कर्मजा प्राप्ति­रि­त्ये­ता­व­देव वक्तव्यं जन­क­क­र्म­द्वै­वि­ध्य­स्प­ष्टी­क­र­णार्थं विशेषणम् । अप्रा­प्ति­पू­र्विका प्राप्ति­र­न्य­त­र­क­र्मजा प्राप्तिः उभयकर्मजा प्राप्तिरिति त्रीणि संयोगलक्षणानि । एतानि च कार्य­का­र­ण­सं­ब­न्धस्य न भवन्तीति पाठान्तरम् । तत्र यद्यपि द्विती­य­तृ­ती­य­ल­क्षणे पर­स्प­र­ल­क्ष्या­व्याप्तिः तथापि तयोर्लक्षणशब्दः प्रका­र­भे­द­मा­त्र­पर इति तत्रापि पाठे कर्मजा प्राप्ति­रि­त्ये­क­मेव लक्षणं लक्ष­ण­द्व­योक्त्या पर्यवस्यति।
उत्पन्ने तत्क्षण एवेति ।
उत्प­त्त्य­न­न्त­र­क्षण एवेत्यर्थः ।
पटसत्ताक्षण इति ।
पटोत्पत्तिक्षण इत्यर्थः ।
असति प्राप्तरि प्राप्त्य­नु­प­प­त्ते­रिति ।
यद्यपि सम­वा­य­नि­त्य­त्व­पक्षे पूर्वक्षणे प्राप्त­र्य­स­त्यपि जन्मसमय एव समवायरूपा कार­ण­प्रा­प्ति­रु­प­प­द्यते तथापि तदनित्यत्वपक्षे दूषणमिदं द्रष्टव्यम् ।
एकाकर्षण इति ।
एक­स्मि­न्ना­कृ­ष्य­माणे इतरेषां तत्सं­सृ­ष्टा­ना­मा­क­र्षणं सावयवानामेव दृश्यते अतो वायुना द्व्यणुके कृष्यमाणे तदवयवयो: पर­मा­ण्वो­र्नि­र­व­य­व­द्र­व्य­त्वा­दा­का­श-व­त्त­त्सं­सृ­ष्ट­त्वेऽ­प्या­क­र्षणं न स्यादित्यर्थः ॥
इति तृतीयं पर­मा­णु­ज­ग­का­र­ण­त्वा­धि­क­र­णम् ॥

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥ माध्य­मि­क­यो­गा­चा­र­सौ­त्रा­न्ति­क­वै­भा­षि­का­णाम् आदि­बु­द्ध­शि­ष्याणां सर्व­शू­न्य-त्व­वि­ज्ञा­न­मा­त्रा­स्ति­त्व­वि­ज्ञा­ना­का­रा­नु­मे­य­बा­ह्या­स्ति­त्व­प्र­त्य­क्ष­बा­ह्या­स्ति­त्व­वि­षया: प्रस्था­न­भे­दा­स्ते­षा­मेव प्रति­प­ति­भे­दा­दिति केचन बुद्धसमयस्था वदन्ति। अन्ये त्वाहुः । सर्वज्ञानां तेषां गुरुवाक्यानि शृण्वतां पुरो­व­र्ति­न्ये­कस्य मैत्र­त्व­बु­द्धि­र­न्यस्य चैत्र­त्व­बु­द्धि­र­प­रस्य स्थाणु­त्व­बु­द्धि­रि­त्या­दि­वद् भ्रान्तिरूपा विरु­द्ध­प्र­ति­प­त्तिर्न संभवति तेषां सर्वज्ञत्वात् षोड­शि­ग्र­ह­णा­ग्र­ह­ण­प्र­त्य­य­व­द्वै­क­ल्पि­का­र्थ­वि­ष­यापि न संभवति क्रियायामिव सिद्धवस्तुनि विकल्पायोगात् । अतः प्रथ­म­मा­दि­बु­द्धे­नो­त्त­म­म­ध्य­मा-ध­म­भा­वि­वि­ने­य­बु­द्ध्य­नु­सा­रेण सर्व­शू­न्य­त्वा­दि­प­न­भेदाः सूचि­ता­स्त­द्वि­व­र­णार्था माध्यमिकादीनां प्रस्थानभेदा इति। तत्र द्वितीयं तन्मतं विवृणोति-
विप्र­ति­प­त्ति­र्हीति ।
असंहतानामिति ।
कार्या­का­रे­णाऽ­सं­ह­ता­ना­म­पी­न्द्रि­य­सं­ब­न्धा­दा­न्त­रेण चित्तेन निरू­प्य­मा­ण­त­याऽऽ-न्त­र­स­मु­दा­य­मध्ये परिगणनमिति भावः ।
अह­मि­त्या­का­र­मा­ल­य­वि­ज्ञा­न­मिति ।
तत्स्या­दा­ल­य­वि­ज्ञानं यद्भ­वे­द­ह­मा­स्प­दम् ।bतत्स्या­त्प्र­वृ­त्ति­वि­ज्ञानं यन्नी­ला­दि­क­मु­ल्लि­खेत् ॥bइति तदीयो व्यवहारः ।
विज्ञानस्कन्धो निर्विकल्प इति ।
केचि­द्दे­व­द­त्ता­दि­नाम संज्ञास्कन्ध इत्याहु: । तन्मते विकल्पोऽपि विज्ञानस्कन्धः ।
अनु­प­ल­ब्धि­लि­ङ्ग­क­मिति ।
यद्यपि प्रातश्चत्वरे गजा­भा­वा­नु­मा­न­व­दि­हा­नु­प­ल­ब्धि­लि­ङ्ग­क­त्वेन तान्त्रि­कै-र्व्य­व­हृ­त­म­नु­मानं नास्ति तथापि व्याप­क­वि­रु­द्धो­प­लब्ध्या यच्चे­त­नाऽ­ना­धि­ष्ठि­त-का­र­णेभ्यः कार्यो­त्प­ते­र्व्या­व­र्तनं प्रसाधयिष्यते तद­भि­प्रा­याऽ­नु­प­ल­ब्धि­लि­ङ्ग­क­त्वोक्तिः । यद्वा अचेतनत्वादिति चैत­न्या­भा­व­लि­ङ्गकं यदनुमानं प्रदर्शयिष्यते तदभिप्राया ।
अतो या कार्यो­त्प­त्ति­रिति ।
ननु या कार्योत्पत्तिः सा चेत­ना­धि­ष्ठि­त­का­र­णेभ्यो भवतीति प्राग् दर्शितेयं व्याप्ति­स्ता­मु­प­जीव्य व्याप­क­वि­रु­द्धो­प­लब्ध्या परपक्षनिरसनं सिद्धा­न्त्य­भि­म­त­चे­त­ना-धि­ष्ठि­त­का­र­ण­व­त्त्व­प्र­सा­धनं च कृतं कथं तद­न­न्त­र­म­व्या­प्ति­सि­द्धि­रु­च्यते । नैष दोषः । प्रथमं या कार्यों­त्प­त्ति­रिति वाक्येन व्याप्यव्यापके उपन्यस्ते तयो­र्व्या­प्ति­ग्र­हा­नु­कू­ल­तर्को विप­र्य­य­प­र्य­व­सा­न­स­हितः स स्वव्या­प­के­त्या­दि­नाऽ­व­ति­ष्ठत इत्यन्तेन ग्रन्थेन दर्शितः । तदनन्तरमतो या कार्यो­त्प­त्ति­रि­त्या­दि­वा­क्येन व्याप्ति­सि­द्धि­रुक्ता । एव­मे­वा­न­न्त­रा­धि­क­र­णेऽपि ये यस्मिन् सत्यपि कदाचित्कास्ते तद­ति­रि­क्ता­पेक्षा इति प्रथमं व्याप्य­व्या­प­क­यो­रु­प­न्यासः ततो व्याप­क­वि­रु­द्धो-प­ल­ब्धि­मू­ल­क­वि­प­र्य­य­प­र्य­व­सा­न­स­हि­त­त­र्को­प­न्यासः ततः प्रथ­मेा­प­न्य­स्त­व्या­प्य-व्या­प­क­यो­र्व्या­प्ति­सि­द्धि­क­थनं च भविष्यति।
तत्कार्यं प्रति हेतुरित्यपीति ।
यद्यप्येवं सति व्यापारवदाश्रय इति विशेषणं न निवेशनीयम् अत एव कुम्भकारकार्ये कुम्भेऽ­ति­व्या­प्ति­वा­र­ण­ला­भा­त्त­न्नि­वे­शने याग­व्या­पा­रा­पू­र्वा­व्या­प्त्या­प­त्तेश्च । तथापि चक्र­भ्र­म­णा­दि­व­त्का­र­ण­क्रि­या­रू­पस्य व्यापा­र­व­दा­श्र­यत्वं नियतं कारणानां कार्यजननाय प्रवृत्तिरपि तत्क्रियारूपा अतस्तत्र व्यापा­र­व्या­पा­रिणोः समसमयत्वे कार्य­का­र­ण­भा­वा­नु­प­प­त्ति­र्भि­न्न­स­म­यत्वे आश्र­या­श्र­यि­भा­वा­नु­प­प­त्ति­रिति दूषणं वक्तुं लक्षणे अनपेक्षितस्यापि तस्य तदनुप्रवेशनेन सद्भाव: स्मारितः ॥१८॥ बाह्य आभ्यन्तरश्च प्रती­त्य­स­मु­त्पादो हेतू­प­नि­ब­न्ध­न­श्चेति द्वाभ्यां कारणाभ्यां भवतीति बौद्धा व्यवहरन्ति। तत्र कारणं प्राप्य कार्यमुत्पद्यत इति यद् अयं प्रतीत्य समुत्पादः कार­णा­त्का­र्यो­त्पाद इत्यर्थः । हेतूपनिबन्धः एकैककारणसंबन्धः । प्रत्य­यो­प­नि­बन्धः कार­ण­स­मु­दा­य­सं­बन्धः । तत्र बाह्यकार्ये हेतू­प­नि­ब­न्ध­स्यो­दा­ह­रणं बीजा­दि­फ­ल­प­र्यन्तं प्रत्य­यो­प­नि­ब­न्ध­स्यो­दा­ह­र­णम् । बीजादङ्कुरजनने महाभूतानि धातुविशेष इति षण्णां धातूनां समवायः । आध्या­त्मि­क­कार्ये हेतू­प­नि­ब­न्ध­स्यो-दा­ह­र­णम् अवि­द्या­दि­दौ­र्म­न­स्यान्तं प्रत्य­यो­प­नि­ब­न्ध­स्यो­दा­ह­र­णम् । पञ्च­भू­ता­न्य­हं-प्र­त्य­य­रूपो विज्ञा­न­धा­तु­श्चेति षण्णां धातूनां समवायः । एवं द्विविधयोरपि कारणवर्गयोः कार्योत्पादे स्वस्व­नि­ष्ठ­चै­त­न्या­पेक्षा वा स्वत­न्त्र­का­र­णा­न्त­र­ग­त-चै­त­न्या­पेक्षा वा नास्तीत्यपि तेषां मतम् । तदिदं सर्वं संक्षेपतः प्रती­त्य­स­मु­त्पा­द­ल­क्ष­ण­मु­क्त­मि­त्या­दिना सोऽयं­प्र­ती­त्य­स­मु­त्पादो दृष्टत्वाद् नान्यथयितव्य इत्यन्तेन टीकाग्रन्थेन प्रपञ्चितम् । तत्रैतेष्वेव षट्सु धातु­ष्वि­त्या­दिना तदे­तै­र­वि­द्या­दि­भि­रा­क्षिप्तः संघात इत्यन्तेन टीकाग्रन्थेन भाष्या­नु­क्रा­न्ता­वि­द्या­दि­दौ­र्म­न­स्या­न्त­स्व­रू­प­वि­व­र­ण­पू­र्वकं तेषां चेतनानपेक्ष: कार्यकारणभाव उपसंहृतः ।
एव­मा­श­ङ्का­सू­त्र­भा­ग­त­द्भा­ष्य­वि­व­र­ण­परे टीकाग्रन्थद्वये व्याख्ये­यां­श­द्व­य­मु­पा­दाय व्याचष्टे-
प्रत्य­यो­प­नि­ब­न्धस्य संग्रा­ह­क­मि­त्या­दिना ।
उत्पा­दा­द­नु­त्पा­दा­द्वे­त्ये­त­द­न्व­य­व्य­ति­रे­क­प­र­तया व्याचष्टे-
यस्मिन् सतीति ।
मनो विज्ञानं च योऽभि­नि­र्व­र्त­य­तीति ।
अत्र पूर्ववाक्यस्य च योऽभि­नि­र्व­र्त­य­ती­त्य­नु­षङ्गः कृतः । यो नाम­रू­प­म­भि­नि­र्व­र्त­यति यश्च मनोरूपं विज्ञा­न­म­भि­नि­र्व­र्त­यति स विज्ञा­न­धा­तु­रु­च्यत इत्यर्थः ।
देहा­का­र­प­रि­ण­ते­ष्विति ।
केचि­द­वि­द्या­दि­रूपं क्वचित् क्वचिद्भेदेन वर्णयन्ति। क्षणि­क­का­र्य­दुः­ख­शू­न्येषु स्थायि­नि­त्य­सु­ख­व­स्तु­बु­द्धि­र­विद्या ततो राग­द्वे­ष­मो­हा­स्ततो धर्मा­ध­र्म­सं­स्कारा इत्येतत्सर्वं संस्का­र­व­शा­ज्जी­वस्य गर्भाशयद्रव्ये वृत्तिलाभो विज्ञानं विज्ञा­न­सं­स­र्गा­द्ग­र्भ­द्र­व्यस्य कल­ल­पे­श्या­द्या­का­रे­णा­भि­व्य­क्ति­र्ना­म­रूपं तद­भि­व्य­क्ति­क्र­मेण निर्वृत्तं षडिन्द्रियायतनं शरीरं षडा­य­त­न­त­न्नि­र्वृ­त­श­री­रे­न्द्रि­यस्य गर्भ­ग­त­वि­ष­ये­न्द्रि­य­सं­स­र्गजं ज्ञानं स्पर्श: तन्निमित्ते सुखदुःखे वेदना सुख­प्रा­प्ति­दुः­ख­प­रि­हा­रार्था विषयोपादानेच्छा तृष्णा तया विषयेषु प्रवृ­त्ति­रु­पा­दानं ततः क्रमेण गर्भानिष्क्रमणं भवः निर्गतस्य मनु­ष्य­त्वा­दि­जा­त्य­भि­मानो जातिः क्रमभाविनी जरामणे प्रसिद्धे म्रियमाणस्य पुत्र­क­ल­त्रा­द्य­भि­ष्व­ङ्गा­द­न्त­र्दाहः शोकः तदुत्थः प्रलापः परिदेवना मरणक्लेशः दुःखं मानसं दुःखं दौर्मनस्यमिति आचा­र्यै­र­प्य­न्योक्त एवा­वि­द्या­श­ब्दार्थः प्रागुक्तः ।
ननु सूत्रे हेतूपनिबन्धे चेत­ना­न­पे­क्षा­म­भ्यु­प­गम्य प्रत्य­यो­प­नि­ब­न्ध­मात्रे तद­पे­क्षा­क­थ­न­म­यु­क्तम् एकैककारणेऽपि तद्व्या­पा­र­यि­तृ­चे­त­ना­पे­क्षाया वक्तुं शक्य­त्वा­दि­त्या­श­ङ्क­याह-
हेतू­प­नि­ब­न्ध­स्त्विति ।
स्वरूपत एव तद­सं­भ­व­स्यो­त्त­र­सूत्रे वक्ष्य­मा­ण­त्वा­द­धि­ष्ठा­तृ­चे­त­ना­भा­वे­नापि तन्निरसनं हत­ह­न­न­मि­त्यु­पे­क्षि­त­मिति भावः । तदे­त­द­ङ्गी­कृ­त्येति पूर्वग्रन्थेन सूचितम् ।
ननु मिलितेभ्य इति ।
ननु- चेतनमन्तरेण देहोत्पत्तिरपि पूर्वपक्षिणा समर्थिता न तत्रा­ङ्कु­रो­त्प­त्ति­दृ­ष्टा­न्ता­पे­क्षाऽ­स्तीति- चेत् सत्यं पञ्च­स्क­न्ध­स­मु­त्पा­दस्तु प्रत्य­यो­प­नि­बन्धो न हेतु­मा­त्रा­धी­ना­त्प­त्ति­रिति टीकायां विशिष्य कारण समु­दा­या­द्दे­हो­त्पत्तौ चेत­ना­पे­क्षाऽ­स्तीति समर्थयितुं प्रारब्धम् । तेना­ङ्कु­रो­त्पत्तौ चेतनापेक्षा त्यक्तेति भ्रान्ते­य­मा­शङ्का । देहो­त्प­त्ति­मा­त्रस्य विशिष्य निर्दे­शेऽ­प्य­ङ्कु­रो­त्प­त्ति­रपि पक्षकोटिरेवेति तत्समाधानम् ।
न च सर्वत्र हेतुत्व इति ।
अङ्कुरादावपि चेतनस्य हेतुत्वे तत्र कारणान्तरेषु सत्सु चेत­न­मा­त्र­व्य­ति­रे­का­द­ङ्कु­रा­दि­व्य­ति­रेको दर्शनीयः स नास्तीति शङ्कार्थः । प्रत्यक्षेण कारणताग्रहे खल्व­न्व­य­व्य­ति­रे­का­पेक्षा, इह तु घटा­दि­दृ­ष्टा­न्ते­ना­ङ्कु­रादौ चेत­न­का­र­ण­स­त्त्व­म­नु­मी­यते । तत्र चेदा­नी­न्त­न­ज्ञा­न­दृ­ष्टा­न्ते­ना­द्य­ज्ञा­नस्य ज्ञाना­न्त­र­ज­न्य­त्वा­नु­मा­न­व­त्त­द­न­पे­क्षेति परिहारार्थः ।
संघा­त­स्या­प्र­यो­ज­क­त्व­मिति ।
संघातस्य कार्यहेतुत्वे हि कार्यो­त्प­त्त्य­र्थ­म­पे­क्षि­तस्य सिद्धये संहन्त्रा भाव्यम् । न तु स कार्यहेतुः किंतु प्रत्ये­क­स­म­र्था­नाम् आर्थ­स­मा­ज­मा­त्र­मि­त्यर्थः ।
अन्ये च बीजक्षणाः सन्तीति ।
भक्ष­णा­द्यु­प­युक्ता इत्यर्थः ।
अन­न्त­र­ज­न्य­बी­ज­ज­नन इति ।
स्वाव्य­व­हि­ता­न­न्त­र­क्ष­ण­जन्यं यद्बीजं तज्जनन इत्यर्थः ।
स्वस्व­का­र्यो­प­ज­नन इत्यनुषङ्ग इति ।
स्वश­ब्दा­न्त­रा­ध्या­हा­रे­णा­नु­षङ्गः इत्यर्थः ।
नन्विति ।
पूर्व­पू­र्व­बी­ज­क्ष­ण­स्यो­त्त­रो­त्त­र­बी­ज­क्ष­ण­ज­नने भव­त्व­न­पे­क्ष­त्वम्, एतावता कथं कुसूलस्थबीज एव कृषीवलः कृती स्यादिति दूषणं भवेद् अन्त्यक्षणस्य कुसू­ला­द्ब­हि­र्भा­व्य­क्षे­त्रे­षू­त्प­न्न­स्यै­वा­ङ्कु­र­ज­न­क­त्व­क­ल्प­नो­प­प­त्ते­रिति शङ्कार्थः ।
ननु यथा­का­र्य­म­नु­प­प­द्य­मानं सत्कारणं नोत्पादयति एवं स्वसा­म­र्थ्ये­नापि तन्नो­त्पा­द­य­त्येव अतः किंतु स्वसा­म­र्थ्ये­नेति कार्यस्य कार­णो­त्पा­द­क­त्वा­भ्यु­प­गमो न युक्त इत्याशङ्क्य साध्याहारं व्याचष्टे-
यदि जनकमिति ।
कार्यं कारणस्य जनकं चेत् स्वसा­म­र्थ्ये­ने­त्येव वक्तव्यं न च तदप्युपपद्यते अविद्यमानस्य साम­र्थ्या­भा­वा­दि­त्यर्थः । क्षण­स्या­भे­द्य­त्वा­दिति क्षणस्य पूर्वभागे अनु­प­कृ­त­त्वा­वस्था उत्तरभागे उप­कृ­त­त्वा­व­स्थेति दर्शयितुं । क्षणस्य भागशो भेत्तु­म­श­क्य­त्वा­दि­त्यर्थः ।
नित्ये­ष्व­णु­ष्विति भाष्यवाक्ये आश्र­या­श्र­यि­भू­ते­ष्वि­त्यस्य विशेष्यं दर्शयति-
भाष्य इति ।
टीकायामवतारितं किमङ्ग पुनरिति द्विती­य­भा­ष्य­वा­क्य­स्थ­मा­श्र­या­श्र­यि­शू­न्ये-ष्वि­त्ये­त­द्भा­व­प्रा­धा­न्येन योजनीयमित्याह-
आश्रयेति ।
आश्र­या­श्र­यि­भू­ते­ष्विति पाठे भोक्तृ­वि­शे­ष­ण­मिति ।
यद्यपि भोक्तृ­र­हि­ते­ष्विति भाष्यपाठे नोपसर्जनानां भोक्तॄणामिदं सप्तम्यन्तं विशेषणं भवितुं नार्हति तथापि भोक्तृ­ष्व­स­त्स्विति पाठा­न्त­र­मा­श्रित्य तद्वि­शे­ष­ण­त्व­मु­क्तम् ।
तद्विशदयतीति ।
नासंहतस्य सामग्रीत्वमिति सिद्धा­न्त्य­भि­स­न्ध्य­वे­दनं खलु प्रागुक्तं तदिदानीमस्तु तावदिति ग्रन्थेन विशदीक्रियते । अनेन हि ग्रन्थेन केवलाद्धेतोः कार्यं नोपजायत इत्येतदास्तां तावदिति नासंहतस्य साम­ग्री­त्व­मि­त्ये­तद् दूषणमिह नोद्घाट्यत इत्युक्तम् ।
सामान्यं हीति ।
भूयोवयवसामान्यं खलु सादृ­श्य­न्त­द­न्या­पो­ह­भ्र­मा­धि­ष्ठा­न­त्वेन कारणमित्यर्थः । यद्यप्येतावता घटरुचकाद्यनुगता मृत्सु­व­र्णा­दि­रू­प­का­र­णता नायाति तथापि टीकायां श्रुतस्य कार­ण­श­ब्द­स्या­र्थोऽयं दूषणं तु तथा चेत्या­द्य­न­न्त­र­ग्र­न्थेन भविष्यतीति तात्पर्यम् ।
नन्विति ।
कार्यकारणभावे सादृ­श्य­म­प्र­येा­जकं किंतु यस्मिन् सति यद्भवति तत्का­र­ण­मि­त्यर्थः ।
तर्हि जातिरेवेति ।
जात्युपाधौ कार­ण­त्व­ग्र­हेऽ­भ्यु­प­ग­म्य­मा­नेऽपि विवक्षितविवेकेन जाते: कारणत्वग्रह उक्तः स्यात् । तथा च व्यक्तीनां कारणत्वं वदता त्वया तासां जात्य­व­स्था­वि­शे­ष­ण­त्वेन जात्यभेदो वक्तव्यः अन्यथा जाते: कारणत्वेन व्यक्तीनां कार­ण­त्वा­नि­र्वा­हात् । न च तथेष्यत इति त्वया वक्तुं शक्यम् । जातिरवस्तुभूता व्यक्तयो वस्तुभूता इति त्वये­ष्य­मा­ण­त्वा­दि­त्यर्थः ।
वस्तुनो नित्यत्वापादानं द्रष्टव्यमिति ।
उत्पा­द­नि­रो­ध­श­ब्द­यो­र्व­स्तु­श­ब्द­प­र्या­यत्वे वस्त्व­ति­रि­क्तो­त्पा­द­नि­रो­धा­न­ङ्गी­का­रा-द्वस्तु नोत्पत्तिमन्न निरोधवदिति स्यात् । तथा च तस्य नित्य­त्वा­प­त्ति­रि­त्यर्थः ॥ २० ॥
उत्त­र­क्ष­णो­त्प­त्ति­काल इति ।
उत्तरक्षगणस्य कार्य­स्यो­त्पत्तिः पूर्वस्मिन् कारणक्षण एव भवतु तथा च न कार­ण­क्ष­ण­स्यो­त्त­र­क्ष­णेऽ­प्य­नु­वृत्त्या स्थायि­त्व­प्र­सङ्गः । नापि कार्योत्पतेः कारणस्य च सम­स­म­य­त्व­हा­नि­रिति शङ्कार्थः ॥ २१ ॥
नन्व­न्त्य­सं­ता­निन इति ।
मुक्ति­प­र्य­न्त­म­नु­व­र्त­मा­नायां विष­यो­प­प्लु­त­चि­त्त­सं­त­ता­व­न्त्यस्य सन्तानिन इत्यर्थः ।
सादृश्यं हीति ।
यद्यपि विष­य­वि­शे­षो­प­रा­ग­कृ­त­सा­दृश्यं न विवक्षितं येन चैत्रा­त्म­रू­प­चि­त्त-सं­ता­नेऽ­नु­व­र्त­मान एव रूपज्ञानप्रवाहे रसज्ञानोत्पत्तौ तत्स­न्ता­न­वि­च्छेदः स्यात् । नापि सत्ता­सा­मा­न्य­कृतं येन सोप­प्ल­व­चि­त्तो­प­रमे मुक्तौ निरु­प­प्ल­व­चि­त्त­स­न्ता­नो­द­येऽपि पूर्व­स­न्ता­नो­च्छेदो न स्यात् किंतु विषयोपप्लवकृतं सादृश्यं विवक्षितमिति वकुं शक्यम् । तथापि निरन्वयविनाशः क्वापि न संभवति द्विती­य­वि­क­ल्प­दोष एवात्रापि द्रष्टव्यः ।
इदानीं प्रत्य­क्षे­णा­नु­वृ­त्ति­मा­हेति ।
तत्तोयं तेजमा मार्त­ण्ड­म­ण्ड­ल­म­म्बु­द­त्वा­यो­प­नी­यत इत्यनुमेयमिति प्रक्रिया । सूर्य­कि­र­ण­त­प्त­शि­ला­त­ल­प­ति­ता­म्बुनि प्रवर्तते न त्वग्नितप्तायः पति­ता­म्बु­नी­त्य-प­रि­तो­षा­त्प्र­का­रा­न्त­रेण परि­हा­र­मा­हे­त्यर्थः ॥२२॥२३॥
तस्य हि न तावदिति ।
भावरूपस्य शब्दस्य द्रव्या­दि­ष­ड्भा­व­ब­हि­र्भा­व­प्र­सङ्गो नास्तीत्यर्थः ।
द्वीन्द्रि­य­ग्रा­ह्येति ।
इदं दत्त्वा इदं देयमिति जर­न्नै­या­यि­क­म­ता­नु­सा­रेण द्वीन्द्रि­य­ग्रा­ह्य­घ­टा­दि-वा­र­णा­र्थम् एकविशेषणे दत्ते पश्चा­द्वा­यु­वा­र­णा­र्थ­म­स्प­र्शत्वे सतीति विशेषणं देयम् । प्रथममेव तस्मिन् दत्ते तु एकविशेषणं नापेक्षितम् ॥२४॥
एकस्य नानाकारत्वं व्याहतमिति ।
ज्ञाना­ति­रि­क्ता­का­रा­न­भ्यु­प­ग­मा­दा­का­र­ना­नात्वं ज्ञाननानात्वमेव पर्य­व­स्ये­दि­त्यर्थः ।
एकज्ञानेनेति ।
एकेनैव ज्ञानेन तत्ते­द­न्ता­व­च्छि­न्न­ना­ना­प­दा­र्थो­ल्लेखे सत्येव तेनेदं सदृशमिति सादृ­श्य­स्फु­र­णा­पे­क्षि­त­ना­ना­त्वो­ल्लेखेा भवतीत्यर्थः ।
ननु न वयमिति ।
प्राग्वि­क­ल्पि­तेषु पक्षेषु तत्ते­द­न्ता­सा­दृ­श्यानि भासन्त एव भासमानानि च ज्ञानस्याकारः ज्ञानं चैकमेवेति पक्षः ।
आका­रा­णा­मा­रो­पि­त­त्वेन वास्त­व­ज्ञा­नै­क­त्व­व्या­घातो नास्तीति पुनराशङ्कते-
तथा च तेनेतीदमिति ।
यतो भिन्नत्वे ज्ञाना­न्त­र­व­द­क­ल्पितः स्यात्तत आकाराणां ज्ञाना­भे­देऽ­भ्यु­प­ग­न्तव्ये पर­स्प­र­म­प्य­भे­दा­पत्त्या पदार्थानां ज्ञानज्ञेययोश्च लेाकप्रसिद्धो भेदो निह्नुतः स्यादित्यर्थः ।
तथा च धर्मिभेदेनेति ।
कस्य­चि­ज्ज्ञा­नस्य नित्यत्वमाकारः कस्य­चि­द­नि­त्य­त्व­मिति धर्मिभेदेन व्यवस्थायां विरो­धा­भा­वा­द्वा­दिनां विवादो न स्यादित्यर्थः ।
आन्त­र­स्या­न­भि­धे­य­स्येति ।
अनभिधेयत्वम् अशक्यसमयो ह्यात्मेति स्वयमेव स्फुटीकरिष्यति।
व्यक्ते­श्वो­क्त­मा­र्गे­णा­श­क्य­ग्र­ह­त्वा­दिति ।
यद्यपि मीमांसकमते शक्यविषयभूताया अपि व्यक्तेः शक्ति­वि­ष­य­सा­मा­न्य­स­मा­न­वि­त्ति­वे­द्य­तया शब्दो­ल्ले­खि­स­वि­क­ल्प­क­प्र­त्य­य­वि­ष­य­त्व­मस्ति तथापि बौद्धैः स्वलक्षणं निर्वि­क­ल्प­क­मा­त्र­वि­षय इत्य­ङ्गी­कृ­त­मि­त्य­श­क्य­ग्र­ह­त्व­मु­क्तम् ।
पाशुपतस्य तपस्विन इति ।
केचन पाशुपताः स्वकी­य­शि­व­भा­ग­व­त­चि­ह्न­तया पूर्वा­चा­र­प्राप्तं जङ्घायां किङ्कि­णी­ब­न्धा­दिकं कुर्वन्ति तत् पृथग्जनाः जनसम्बाधे स्वपरविपर्यासो मा भूदिति कृतं चिह्न­मि­त्या­रोप्य कथमस्य विपर्यासस्य प्रस­क्ति­रि­त्यु­प­ह­सन्ति तेना­पा­म­र­प्र­सि­द्ध­मा­त्म­प्र­थ­न­मि­त्यर्थः । वर्षातपाभ्यां व्योम्नः किं फलमस्ति वर्षे­णा­र्द्र­त्वम् आतपेन शुष्कत्वं वा फलं नास्तीत्यर्थः ।
किं तु चर्मणि वर्षातपयोः फलमस्तीति पूर्वा­र्ध­स्यार्थे स्थिते उत्त­रा­र्द्ध­स्या­र्थ­माह-
चर्मो­प­म­श्चे­दि­त्या­दिना ॥२६॥२७॥
इति चतुर्थं समुदायाधिकरणम् ॥

नाभाव उपलब्धेः ॥ २८ ॥
तथा चार्था­त्प्र­मे­य­मि­थ्या­त्व­मा­प­त्स्यत इति ।
यदा ज्ञानाधिकरणके प्रमाणफले अश­क्ति­व्या­वृ­त्त्य­ज्ञा­न­व्या­वृ­त्त्या­दि-सा­मा­न्या­त्मके तदा तन्मते सामान्यस्य कल्पि­त­त्वा­त्क­ल्पि­तेन प्रमाणेन तत्फलेन च वस्तु­सि­द्ध्य­भा­वा­द­र्था­द्बा­ह्य­व­स्तु­मि­थ्या­त्व­मा­प­त­ती­त्यर्थः ।
न च वस्तुतो भिन्नाभ्यामिति ।
वस्तुतो भिन्नाभ्यां प्रमाणफलाभ्याम् एक­स्या­भे­दा­नु­प­प­त्ते­रे­क­ज्ञा­ना­भे­दा­त्त­योर्न भेद­सि­द्धि­रि­त्यर्थः ।
मा भूत्प्र­मा­ण­फ­ल­यो­र्भे­द­सिद्धिः; सत्येन ज्ञानेन तादात्म्यात् तयोः स्वरूपतः सत्यत्वसिद्धौ तावतां तत्प्रमेयस्य बाह्यवस्तुनः सत्यत्वं सिद्ध्ये­दि­त्या­शङ्क्य तयो­र­न्या­पो­हा­त्म­क­सा­मा­न्य­रू­प­तया स्वरू­प­तोऽ­प्य­स­त्य­त्व-मु­प­पा­द­य­ती­त्य­व­ता­र­यति-
तमेव दर्शयतीति ।
सरूपयन्तमिति तु पाठे अर्थमिति शेष इति ।
सरूपयत्तदिति पाठे सरूपयदित्यस्य तदिति विशेष्यपदमस्ति न तु स्वरूपयन्तमिति पाठेऽ­त­स्त­दु­चि­तोऽ­र्थ­मिति पुँल्लि­ङ्ग­वि­शे­ष्य­श­ब्दोऽ­ध्या­हृतः ।
एक­प­र­मा­ण्वा­त्म­नीति ।
एकपरमाणुस्वरूपे स्थौल्यं गृह्यते स्वाभाविकं भवति न त्वेकपरमाणौ स्थौल्यं सम्भवति अतोऽनेकत्र परमाणौ स्थूल­मि­त्ये­का­का­रेण ग्रहणं न स्वाभा­वि­क­मि­त्य­न्यो­पा­धिकं वाच्यमित्यर्थः ।
व्याघातादिति ।
भेदे तादात्म्यं व्याहतं भेदाभेदपक्षस्तु विरोधान्न सम्भवतीति तत्र तत्रोक्तम् ।
अश्विनाविति ।
यद्यप्यस्त्विनौ देव­भि­ष­जा­व­श्व­यु­जो­र्न­क्ष­त्र­यो­र्दे­वता न तु नक्षत्रे एव अश्वयुजौ नक्षत्रमश्विनौ देवतेति श्रुतेः तथा­प्य­भे­दो­प­चा­रा­द­श्विनौ नक्षत्रे इत्युक्तम् ।
स्वभा­व­हे­तु­रि­त्यस्य बोद्ध­व्य­व­हा­र­सि­द्ध­म­र्थ­माह-
यो यन्मा­त्रा­नु­ब­न्धीति ।
प्रत्य­य­त्व­मा­त्रा­नु­ब­न्धीति ।
स्वप्न­प्र­त्य­या­दिषु बाह्या­ना­ल­म्ब­न­त्व­द­र्श­नात् प्रत्य­य­त्व­मा­त्र­प्र­युक्तं निरा­ल­म्ब­न-त्व­मि­त्यर्थः । निरालम्बनताया: प्रत्ययात्मत्वं भावान्तरमभावो हीति तन्मतेनपोपादयति
निरा­ल­म्ब­न­त्व­स्येति ।
सर्वेऽ­प्या­ल­य­वि­ज्ञा­न­स­न्ता­न­व­र्ति­न­क्षणा हेतव इति वक्तव्यमिति। ननु- सर्वे हेतव इति वा कश्चिदेव हेतुरिति वा नोच्यते, किंतु केचन हेतवः केचिदहेतव इत्युच्यत इति- चेद् न । सर्व­स­न्ता­न­व­र्ति­त्वा­वि­शेषे तथा­व्य­व­स्थि­ति­क­ल्प­ना­यो­गात् । अतो नील­ज्ञा­न­का­दा­चि­त्क­त्व­सि­द्ध्यर्थं बाह्य­स­त्त्व­म­भ्यु­पे­य­मिति भावः । तत्प्र­बो­ध­सा­म­र्थ्य­मि­त्यस्य विव­र­ण­मु­त्त­र­क्ष­ण­ग­त­वा­स­ना­प­रि­पा­का­ख्य­प्र­बो­ध-सा­म­र्थ्य­मिति। तदनन्तरचकारस्तु टीकास्थस्य नील­ज्ञा­नो­प­ज­न­न­सा­म­र्थ्य­स­मु­च्च­या­र्थ­स्या­नु­वादः । एवं हि संतानान्तरस्य कालविप्रकर्षः स्यादिति। यदी­दा­नी­न्त­न­चै­त्र­सं­ता­न­सं­जा­त­नी­ल­ज्ञा­न­स­म­न­न्त­र­पू­र्व­क्षण एव मैत्र­सं­ता­नो-त्पत्तिः स्यात्ततः प्राङ् मैत्रसंतानो न स्यात् तदा प्राङ्मै­त्र­सं­ता­न­रू­पा­पे­क्षि­त-व्य­स­ह­का­र्य­भा­वात् चैत्रसंताने नीलज्ञानानुदय इति वक्तुं शक्यं न त्वेतदस्ति; तथा सति मैत्र­सं­ता­न­रू­प­सं­सा­रस्य सादि­त्व­प्र­स­ङ्गात् । तस्मात्प्रागपि मैत्रतानसत्वे तु काल­वि­प्र­क­र्षऽ­भा­वा­न्नी­ल­ज्ञा­नो­द­य­प्र­सङ्ग इति भाव: ।
स्वसं­ता­न­मा­त्र­नि­मि­त्त­कत्वं विपक्ष इति ।
हेतो­र­प्र­यो­ज­क­त्वेन पक्षस्यैव साध्याभाववत्तया विप­क्ष­त्व­श­ङ्कायां हेतो­र्वि­प­क्ष-व्या­वृत्तिः संदिग्धा भवति पक्षस्य साध्या­भा­व­वत्त्वे तद्वृ­त्ते­र्हे­तेा­र्वि­प­क्ष­वृ­त्ति­तेति। यद्यपि हेतुमति पक्षे साध्यसंदेहः स्वारसिको न व्यभि­चा­र­सं­दे­ह­त्वेन दोषः अनुमानमा चोच्छेदापत्तेः तथा­प्य­प्र­येा­ज­क­त्व­सं­दे­हा­हितः सोऽपि तत्र दोष एवेति भावः ।
स्वस­न्ता­न­मा­त्र­नि­मि­त्त­त्व­मु­प­पा­द­यि­तु­मिति ।
संता­न­मा­त्रा­नि­मि­त्त­त्वेपि कादा­चि­त्क­त्व­मु­प­प­द्यत इति हेतो­र­प्र­यो­ज­क­त्व-मु­प­पा­द­यि­तु­मि­त्यर्थः ।
नन्वा­ल­य­वि­ज्ञा­न­क्ष­णा­ना­मिति ।
चैत्र­मै­त्रा­दि­भि­न्न­सं­त­ति­प­ति­ता­ना­मि­त्यर्थः । न च संतानो नाम कश्चिदिति ग्रन्थेन संतानस्वरूपं निषिध्यत इति प्रतिभाति। तदयुक्तम् ।
अग्रे संता­न­भे­दा­भे­दाभ्यां शक्ति­भे­दा­भे­द­व्य­व­हा­र­द­र्श­ना-दि­त्या­शङ्क्य तद्वाक्यं संतानस्य क्षणो­त्पा­द­क­त्व­नि­षे­धा­र्थ­तया योजयति-
क्षणानां संबन्धीति ।
संतानस्य क्षणोत्पादकत्वे खलू­त्पा­द­का­वि­शे­षा­दे­क­विधं सामर्थ्यं स्याद्, न तु तदस्तीति भावः ।
क्षणभेदेपि न सामर्थ्यभेद इत्युपपाद्येति ।
ननू­क्त­मि­त्या­दि­श­ङ्का­वादी सौत्रान्तिकः क्षणभेदेऽपि प्रति­वि­ज्ञा­न­व्यक्ति न सामर्थ्यभेदः एक­स्मा­दा­ल­य­वि­ज्ञा­न­क्ष­णा­न्नी­ल­ज्ञाने सति पुन­र्नी­ल­ज्ञा­ना­न्त­रा­नु­त्प­त्ति-प्र­स­ङ्गा­दतः सर्वेषामपि तेषां साम­र्थ्य­मा­स्थे­य­मिति नील­ज्ञा­न­का­दा­चि­त्क­त्वा­भा­व-प्र­स­ङ्ग­मु­प­पाद्य स्वमते तत्प्रसङ्गं परिहरतीत्यर्थः ।
विज्ञानवादी सौत्रान्तिकमते हन्त तर्हीत्यादिना दूषणं वदतीत्यवतारयति-
तत्र दूषणमाहेति ।
एकमेव नीलं नीलाकारज्ञानं जन­ये­दि­त्ये­त­द­न­न्तरं न संन्तानान्तरस्य वर्तीति स्थाने नीलान्तरं सन्ता­ना­न्त­र­व­दिति क्वचि­त्पा­ठ­स्तत्र नीलान्तरं सन्ता­ना­न्त­र­व­र्तिनं नीलाकारज्ञानं जनयेत् पीत­स­न्ता­न­व­र्ति­गु­णा­न्त­र­व­दि­त्यर्थो ग्राह्यः ।
यथा च नील­पी­ता­दि­स­न्ता­ना­न्त­रा­णा­मिति ।
एक­स्मा­न्नी­ल­स­न्ता­ना­न्त­रस्य पीतसन्तानस्य च भेदाविशेषेऽपि क्वचि­न्नी­ल-ज्ञा­न­ज­न­न­शक्तिः क्वचि­न्ने­ति­व­दे­क­ज्ञान एवै­क­वि­ज्ञा­न­स­न्त­ति­पा­ति­त्वा­वि­शे­षेऽपि केषु­चि­त्त­ज्ज­न­न­शक्तिः केषुचिन्नेतीति व्यवस्था कल्प्यते दृष्टा­नु­सा­रि­त्वा­त्क­ल्प­नायाः । अतः सन्तानभेदः शक्तिभेद इव तदभेदोऽपि शक्त्यभेदे न प्रयोजक इति भावः ।
अर्था­त्पू­र्व­मिति लभ्यत इति ।
असं­वि­दि­त­त्वो­क्ति­सा­म­र्थ्यात् पूर्वज्ञानमिति लभ्यत इत्यर्थः साम­र्थ्य­मे­वेा­प­पा­द­यति-
वर्त्तमानस्येति ।
संवि­दि­त­त्वा­त्त­दानीं ज्ञाय­मा­न­त्वा­दि­त्यर्थः ।
मति­बु­द्धि­पू­जा­र्थे­भ्य­श्चेति वर्तमाने क्तप्रत्ययः | असंविदितत्वम् अना­ग­तेऽ­प्य­वि­शि­ष्टम् अत­स्त­द्व्या­व­र्तनं विधान्तरेण दर्शयति-
अनागतस्य चेति ।
तादृशज्ञानमिति ।
यत्त­दा­नी­म­ज्ञा­य­मानं सिद्धसत्ताकत्वं तथाभूतज्ञानं वासनेत्यर्थः ।
इद­म­त्रा­कू­त­मि­त्या­दि­टी­का­ग्र­न्थेन वक्ष्यमाणमर्थं भाष्यारूढं करोति-
तत्रभवतेति ।
तथा­पी­त्या­दि­टी­कार्थं मनसि कृत्वाऽवतारयति-
तत्रासम्भवमिति ।
ततः प्राक्तनग्रन्थं तदु­प­यो­गि­न­म­व­ता­र­यति-
तत्र बौद्धेनेति ।
स्थौल्यं ह्यर्थस्येति ।
बाह्यार्थसन्वे युग­प­द­ने­क­दि­ग्दे­श­व्यापि वस्तु स्थूलमिति वक्तव्यम् । तच्च सर्वात्मना कदापि न दृश्यते कर­त­ला­म­ल­का­दी­ना­म­प्य­धो­भा­गा­व­च्छे­देन दर्शनाभावात् । अतो दर्श­ना­द­र्श­ना­भ्याम् एकस्यैव स्थूलवस्तुन आवृ­त­त्व­म­ना­वृ­तत्वं च वाच्यमिति विरु­द्ध­ध­र्मा­ध्या­सा­द्भेदः प्रसज्यते । विज्ञानवादे तु नायं दोषः । तत्र हि विज्ञाने यावानाकारो भासते तावानेवास्ति आवृतस्तु नान्त­र्ब­हि­र्व्या­प्रि­यत इत्यर्थः ।
इदा­नी­मे­त­म­स­म्भ­व­म­नु­म­त्येति ।
आस्तामसम्भवो ममा­नि­र्व­च­नी­य­वा­दिनो मते ते कथं नासम्भव इति प्रति­पा­द­य­ती­त्यर्थः ।
टीकायां व्यति­रे­का­व्य­ति­रे­क­वृ­त्ति­वि­कल्पौ च पर­मा­णो­रं­श­वत्त्वं चोपपादितानि वैशे­षि­क­प­री­क्षा­या­मिति ग्रन्थं विज्ञा­न­वा­दि­म­त­नि­रा­क­र­णा­र्थ­हे­त्व­न्त­र­प­र­त्वेन योजयति-
अर्थस्य ज्ञानाभेदे सत्यवयविन्यवयवे चोक्त­दो­षा­न्त­र­मपि ज्ञाने दुर्वा­र­मि­त्या­हेति ।
अवयवी अवयवेभ्यो भिद्यते न वेति विकल्पो व्यति­रे­काऽ­व्य­ति­रे­क­वि­कल्पः । भेदपक्षे स प्रत्यवयवं कार्त्स्न्येन वर्तते एकदेशेन वेति विकल्पो वृत्तिविकल्पः । एताववयविदोषौ । सूक्ष्मावयवः परमाणुरपि सांशोऽनंशो वेति विकल्पपूर्वकं सांश­त्वा­व­श्य­म्भा­वा­पा­द­नम् अवयवदोषः । एतद्दोषत्रयं विज्ञा­न­वा­दि­म­तेऽपि स्यात् । न हि विज्ञा­न­वा­दि­ना­स्मा­भि­रिव जग­द­नि­र्व­च­नी­य­मि­त्यु­च्यते येन तस्येत्थं विचारासहत्वं भूषणं स्यात् किंतु बाह्या­स्ति­त्व­वा­दि­भि­र्य­द्या­व­द्ब­हि­र­स्ती­त्यु­च्यते तत्सर्वमन्तः सत्य­मे­वा­स्ती­त्यु­च्यते, सत्यत्वे च बहि­रि­वा­न्त­र­प्येते विकल्पदोषाः प्रादुःष्युरिति भावः ।
अमुमेव टीका­ग्र­न्थ­म­व­य­वि­वा­दिनं प्रत्युक्ता दोषाः समुदायवादिनं प्रत्यपि स्युरिति प्रास­ङ्गि­क­सौ­त्रा­न्ति­क­म­त­नि­रा­क­र­णा­र्थ­त्वे­नापि योजयति-
यद्वा विज्ञा­ना­दि­भि­न्न­स्थू­लार्थ इति ।
केषुचित्कोशेषु द्विती­या­त्र­ता­रि­कैव यद्वे­ति­श­ब्द­र­हिता दृश्यते न प्रथमावतारिका यद्यप्ययं व्यति­रे­का­व्य­ति­रे­का­दि­टी­का­ग्रन्थः सर्वैरेव प्रमा­णै­र्ब्र­ह्मार्थ उपलभ्यमानः कथं व्यति­रे­का­व्य­ति­रे­का­दि­वि­क­ल्पैर्न संभवतीत्युच्यत इति भाष्या­नू­दि­त­वि­ज्ञा­न­वा­दि­कृ­त­बा­ह्या­स्ति­त्व­नि­रा­क­र­णार्थं व्यति­रे­का­दि­वि­क­ल्प­वि­व­र­ण­मत्र न कर्त्तव्यम् अधस्तादेव कृतमित्येतदर्थः प्रतिभाति, तथापि न केवलमयं दोषः ममा­नि­र्व­च­नी­य­वा­दिनो मते न प्रस­र­ती­त्ये­ता­वत् किं त्वन्तः सदिति वादिनो बहि: सदिति वादिनश्च बौद्धस्य मते वैशेषिकमत इव प्रस­र­ती­त्यु­ष्ट्र­ल­गु­ड­न्या­योऽ­प्य­नेन ग्रन्थेन सूचित इति प्रदर्शयितुमस्य ग्रन्थस्य विधान्तरेण द्वेधा तात्प­र्य­मा­चा­र्यै­रु­क्तम् ।
परमाणूनिति ।
ज्ञाना­का­र­रू­पा­नि­त्यर्थः ।
चाक्षुषस्य प्रभा­रू­पा­नु­वि­द्ध­बु­द्धि­बो­ध्य­त्व­नि­यमो नास्ति उलू­क­पि­शा­चा­दि­च­क्षु­र्ग्राह्ये व्यभि­चा­रा­दि­त्या­शङ्क्य मनुजैरिति विशेषितमित्याह-
मनुजग्रहणमिति ।
वास्य­वा­स­क­त्व­म­वि­द्यो­प­प्लवे हेतुरिति ।
उत्तरज्ञानस्य नीला­द्या­का­र­स­म­र्प­णो­प­यु­क्त­वा­स­ना­श­क्ति­म­त्पू­र्व­ज्ञानं वासकम् उत्तरज्ञानं वास्यम् । अनयोः संबन्धो वास्यवासकत्वं तस्य सवि­क­ल्प­क­रु­पा­वि­द्यो­प­प्ल­व­हे­तु­त्वोक्त्या विवक्षितविवेकेन वासनाया एव तद्धे­तु­त्व­मुक्तं भवति। अना­दि­वा­स­नो­द्भू­तेति संमतिश्लोकेन च तथैव स्फुटीकरिष्यते ।
भावमिति ।
भावं नीलादिकम् उभयं विज्ञा­न­न­र­वि­षा­णा­दिकं च कर्म मूर्तत्वादि अमूर्तत्वं सत्त्वमसत्त्वं च कर्तृ समाश्रयत इति सत्त्वा­दि­श­ब्दार्थो भावाभावोभयाश्रय उक्त इत्यर्थः ।
न चास्त्वेकः प्रतिसंधाता नैतावता बाह्या­र्थ­सि­द्धि­रि­त्या­श­ङ्क्याह-
त्वया च स नेष्यत इति ।
बाह्यास्तित्व इव क्षणि­क­वि­ज्ञा­न­स­न्त­त्य­ति­रि­क्ता­त्मा­स्ति­त्वेऽपि तन्म­त­भ­ङ्ग­स्तुल्य इति भावः ।
चोदयतीति ग्रन्थ­मा­श­ङ्का­नि­रा­क­र­णा­र्थ­त्वे­ना­व­ता­र­यति-
विज्ञानस्य स्वव्य­ति­रि­क्ता­र्थ­वि­ष­यत्व इति ।
विज्ञा­न­ग्र­ह­ण­मात्र एवेति ।
अन्तः­क­र­ण­वृ­त्ति­रूपं यद्विज्ञानं तन्नी­ला­दि­वि­ष­य­ग्र­हणं तन्मात्र एव स्वीकृते तत्प्र­ति­बि­म्बितो विज्ञानसाक्षी विज्ञानविषयं ग्रहणान्तरं नापेक्षते स्वयमेव तद्भा­व­रू­प­त्वा­दतो नानवस्थेति भाष्यार्थ इत्यर्थः ।
अनु­भ­वि­तु­र्व्या­प्ता­विति ।
अनु­भ­वि­तृ­क­र्तृ­क­व्या­प्ता­वि­त्यर्थः । अनेन साक्षिविषयेति विज्ञा­न­सा­क्षि­ग्र­ह­णा-का­ङ्क्षा­नु­त्पा­दा­दिति भाष्यं विज्ञानसाक्षिणः कर्तु­र्वि­ज्ञा­न­वि­ष­य­ग्र­ह­णा­का­ङ्क्षा­नु-त्पा­दा­दि­त्ये­त­द­र्थ­प­र­तया पूर्वं व्याख्यातं तद्भाष्यमनेन ग्रन्थेन विज्ञा­न­सा­क्षि­क­र्म­क-ग्र­ह­णा­न्त­रा­का­ङ्क्षा­नु­त्पा­दा­दि­त्यपि व्याख्यातं भवतीत्यर्थः ।
वियद्वस्त्विति ।
कुम्भ­स्यो­त्पत्तौ सत्यां तस्य या वियत्संपूर्णता सा विय­द्व­स्तु­स्व­भा­वा­नु­रो­धा­त्स­र्वत्र व्यापकस्य वियतोऽयं स्वभावो यदवच्छेदकस्य कुम्भा­दे­ह­त्पत्तौ सत्यां तेनावच्छिद्यत इति। एवं­भू­त­त­त्स्व­भा­वा­नु­रो­धा­देव न तु कारणान्तरात्सा संपूर्णता । एवं धियां दशा संपूर्णतापि दृग्व­स्तु­स्व­भा­वा­दे­वेति श्लोकार्थः ।
स्वतः­सि­द्ध­प्र­क­ट­तया ज्ञानस्य ग्राह्यत्वमिति संबन्ध इति ।
ज्ञानस्य ग्राह्य­त्व­मि­त्य­स्या­नु­षङ्ग इत्यर्थः ।
व्याप­क­सा­क्षि­सं­ब­न्ध­स्येति ।
अवि­द्या­व­च्छिन्नो जीव एव साक्षी स च विष­य­प्र­दे­शेऽ­प्य­स्तीति विषयस्यापि तत्सं­ब­न्ध­स्तुल्य इत्यर्थः ।
तद­धी­ना­भि­व्य­क्ति­केति ।
व्यापकोऽपि साक्षी स्वच्छा­न्तः­क­र­णा­व­च्छि­न्नोऽ­ना­वृतो विष­या­व­च्छि­न्न-स्त्वा­वृत इत्या­व­र­भ­ङ्गार्थं वृत्य­पे­क्षे­त्यर्थः । एत­त्प्र­प­ञ्च­स्त्व­स्म­त्कृते सिद्धा­न्त­सं­ग्रहे द्रष्टव्यः ।
यथा चाक्षुषी प्रभेति ।
यद्यपि दृष्टान्ते चक्षुः­प्र­मा­त्मकं व्यञ्जकमेकं रूपं वायुश्चेति व्यङ्ग्य­म­व्यङ्ग्यं च भिन्नं दार्ष्टान्तिके व्यङ्ग्य­सा­क्षि­चै­त­न्य­मे­कम् अन्तःकरणं घटादिकं चेति व्यञ्ज­क­म­व्य­ञ्जकं च भिन्नम् तथापि व्यङ्ग्य­व्य­ञ्ज­क­भावो वस्तुमहिम्ना व्यवस्थित इत्ये­ता­वा­न्मात्रे दृष्टान्तः सर्वा­त्म­ता­स­मस्तु दृष्टान्तः प्रागे­वा­चा­र्यै­र्द­र्शितः- मुकुरतले मुखमित्यनेन घट­मु­कु­र­यो­र्मु­ख­सा­न्नि­ध्या­वि­शे­षेपि स्वच्छो मुकुर एव मुखस्य व्यञ्जको न घट इति।
आत्मा ज्ञेय इति ।
ननु इदं शरीरं सात्मकं प्राणा­दि­म­त्त्वा­दि­त्या­नु­मा­नि­क­ज्ञा­न­वि­ष­य­त्वेन चैत्रो विद्वा­नि­त्या­दि­शा­ब्द­ज्ञा­न­वि­ष­य­त्वेन च सिद्धसाधनम् । प्रकाशमानत्वं ज्ञेयत्वं चेत्सा­ध्या­वि­शेषः । अन्यत्र दुर्वचमिति- चेत्, आत्मा अप­रो­क्ष­ज्ञा­न­वि­षयः अनु­मि­ति­शा­ब्द­ज्ञा­ना­ज­न्य­व्य­व­हा­र­वि­ष­य­त्वा­दि­त्यत्र तात्पर्यात् ।
कथं सक­ल­वि­शे­षो­प­सं­ग्र­ह­व­तीति ।
यद्यपि व्यव­हा­र­वि­ष­य­त्व­मेक एव धर्मो हेतुः न तु धूम­व­द­ने­क­व्य­क्ति­रूप इति नात्र सक­ल­हे­तु­व्यु­त्प­त्त्यु­प­सं­ग्र­हा­पेक्षा तथापि सक­ल­हे­त्वा­श्र­यो­प­सं­ग्र­हा-पे­क्षास्ति यो यो धूमवान् सोऽग्नि­मा­नि­त्या­दि­नो­दा­ह­र­ण­वा­क्येन व्याप्तिबोधकेन वीप्सि­त­य­च्छ­ब्दो­प­स्था­पि­त­स­क­ल­हे­त्वा­श्र­येषु साध्य­सं­ब­न्ध­बो­ध­ना­त्त­द­नु­सा­रेण व्याप्ते­र्या­व­द्धे­त्वा­श्र­य­व­र्ति­सा­ध्य­सा­मा­ना­धि­क­र­ण्य­रू­प­ताया वक्तव्यत्वादिति भावः ।
आगन्तुको यस्य नास्ति सोऽनागन्तुकः स चासौ प्रकाशश्चेति बहु­व्री­हि­ग­र्भ­क­र्म­धा­र­य­प­रि­ग्रहे कोऽत्रागन्तुको निषेध्य इति जिज्ञासायामाह-
अर्थादिति ।
नित्या­प­रो­क्ष­त्व­हे­तू­पा­दा­न­सा­म­र्थ्या­दा­ग­न्तु­क­स्त­द्वि­ष­य­प्र­काशो निषेध्य इत्य­र्था­ल्ल­भ्यते इत्यर्थः ।
भासमानत्वमिति ।
आवृ­त­त्वा­द­भा­स­मा­नेऽपि पूर्वोक्तेन भासत इति शब्देन बोध्यत्वमस्तीति तदपि भासमानं भवेदतो बाध­वि­धु­र­मि­त्यु­क्तम् । तथा सत्यसंभवः ब्रह्मा­ति­रि­क्तस्य सर्वस्य बाध्यत्वादिति व्याव­हा­रि­क­वि­शे­ष­णम् ।
वेदा­न्त­ज­न्य­वृ­त्त्यु­पा­धा­विति ।
तथा च यदुपहितं ज्ञेयं न तत्स्व­प्र­का­श­त्वे­ने­ष्यते यत्त्वनुपहितं तथेष्यते न तज्ज्ञेयमिति नासंभव इत्यर्थः । ननु- वृत्त्युपहितस्य तेन रूपेण तद्विषयत्वं नोक्तं किंतु वृत्युपरागे सति वृत्त्यंशं परित्यज्य केव­ल­स्या­त्म­न­स्त­द्वि­ष­य­त्व­मुक्तं वृत्युपरागोत्र सत्त­यै­वो­प­यु­ज्यते न प्रतिभास्यतया । अतो वृत्तिसंसर्गे सत्यात्मा विषयो भवति न तु स्वत इति अत: स्वप्रकाशस्य केवलस्यात्मनो वृत्ति­वि­ष­य­त्वा­ङ्गी­का­रा­द­ज्ञे­य­त्व­व­च­न­म­यु­क्त­मिति- चेद् न उपा­ध्य­घ­ट­नी­य­ज्ञा­न­वि­ष­य-त्वा­भा­वस्य विवक्षितत्वात् । न चैवं मुकु­रो­पा­धि­घ­ट­नी­य­ज्ञा­न­वि­ष­य­भावे मुख­प्र­ति­बि­म्बेऽ­ति­व्याप्तिः प्रतिबिम्बस्य बिम्बा­भि­न्न­त्वा­द्बि­म्बस्य च मुख­प्र­ति­बि­म्बो­पाधिं विनापि ज्ञेयत्वात् ।
संविदभिन्नत्वं चेति ।
इन्द्रि­य­त्वा­व­च्छि­न्ने­न्द्रि­य­ज­न्य­ज्ञा­नत्वं ज्ञानापरोक्ष्यं तद्विषयत्वं विष­या­प­रो­क्ष्य­मिति विभागो नेष्यते किंतु सर्वा­नु­ग­त­मा­प­रोक्ष्यं संविदभिन्नत्वं तच्च संवि­द्रू­प­स्या­त्मनः स्वतः सिद्धं तदन्यस्य बाह्यस्य घटा­दे­रा­न्त­र­स्यान्तः कर­ण­वृ­त्त्या­देश्च संवि­द्य­भे­दे­ना­ध्य­स्त­त्वा­द­भि­व्य­क्त­सं­वि­द­भे­दा­ध्या­स­सि­द्ध­मि­त्यर्थः ।
तत्स­म­र्थ­ना­र्थ­मिति ।
आत्मनो नित्या­प­रो­क्ष­सं­वि­द­भि­न्न­त्व­स­म­र्थ­ना­र्थ­मि­त्यर्थः ।
शश्वदिति ।
हेतुद्वयेऽपीदं विशेषणं घटा­दि­व्या­वृ­त्य­र्थम् । अत एव तस्य व्यति­रे­क­दृ­ष्टा­न्तता । यद्यप्यात्मनो वेदा­न्त­प्र­ति­पा­द्या­ख­ण्डा­न­न्द­रू­पे­णा­वृ­त­त्वा­त्तेन रूपेण संदिग्धत्वमस्ति अत एव तस्य शास्त्र­वि­ष­य­तोक्ता प्रथमसूत्रे तथापि तस्य ज्ञान­सु­खा­दि­सा­क्षि­चै­त­न्य­रू­पे­णा­ना­वृ­त­त्व­म­सं­दि­ग्धत्वं चास्तीति द्विती­य­हे­तो­र्ना­सिद्धिः । न चाप्र­सि­द्ध­वि­शे­ष­ण­त्वम् । प्रथ­मा­नु­मा­न­स्येति शेषः ।
एतदन्येति ।
एत­स्मा­त्प­क्षी­कृ­ता­द­न्य­त्वेन विशेषितं यज्ज्ञेयत्वं तद्रहितं यद्भासमानं तदन्येत्यर्थः । दृष्टान्ते पक्षा­द­न्य­त्व­मा­दाय साध्यसिद्धिः । पक्षो हि ज्ञेयः सन्नपि पक्षा­न्य­त्वा­भा­वा­त्त­द्वि­शि­ष्ट­ज्ञे­य­त्व­र­हितो भवति भासमानश्च तदन्यत्वं पटे संप्रतिपन्नं पक्षे तु न पक्षा­द­न्य­त्व­मा­दाय साध्यसिद्धिः बाधात् किंतु पक्षादन्यत एव कुत­श्चि­त्प­क्षा­न्य­त्व­वि­शि­ष्ट­ज्ञे­य­त्व­र­हि­ता­द्भा­स­मा­ना­द­न्य­त्व­मा­दाय पक्षे साध्य­सि­द्धि­र्वाच्या सिद्धघटादिमध्ये च पक्षा­द­न्य­त्व­वि­शि­ष्ट­ज्ञे­य­त्व­र­हितं भासमानं वस्तु नास्ति सर्वस्यापि भासमानस्य पटादेः पक्षादन्यस्य पक्षा­न्य­त्व­वि­शि­ष्ट­ज्ञे­य­त्व­व­त्त्वात् । अतो यस्मा­द­न्य­त्व­मा­दाय पक्षे साध्यवसानं वाच्यं तत्किं­चि­द­प्र­सिद्धं पक्षा­द­न्य­त्व­वि­शि­ष्ट­ज्ञे­य­त्व­र­हितं भासमानं वस्त्व­ने­ना­नु­मा­नेन सिध्यति। तत्र च विशिष्टराहित्यं न पक्षा­न्य­त्व­वि­शे­ष­णा­भा­वा­द्वक्तुं शक्यम् । यतोऽन्यत्वं पक्षस्य साध्यते तस्य पक्षा­न्य­त्व­नि­य­मा­द­त­स्तत्र ज्ञेय­त्व­रू­प­वि­शे­ष्या­भा­वेन विशिष्टराहित्यं वाच्य­मि­त्य­ज्ञे­य­भा­स­मा­न­व­स्तु­सिद्धिः । अतस्तस्य साध्य­प्र­सि­द्ध्यु­प­पा­द­क­स्या-नु­मा­न­स्या­न­न्तरं क्वचि­त्क्क­चि­त्कोशे अनु­मा­ना­न्त­र­प्र­द­र्शनं तत्र हेतु­वि­शे­ष­ण­व्या­व­र्त्य­क­थ­न­मा­श्र­या­सि­द्धि­प­रि­ह­रणं साध्यार्थकथनं तत्रैव सिद्ध­सा­ध­न­त्व­श­ङ्का­नि­रा­क­र­णा­र्थ­त्वेन न चैत­दि­त्या­दि­टी­का­ग्र­न्थ­वा­क्या­व­ता­रणं च दृष्टं तद्विलिख्यते । तथा देवदत्तस्य तदा­त्मा­स्ति­त्व­जि­ज्ञा­सा­या­मे­क­स्मिन् क्षण एव तदा­त्म­नि­ष्ठ­त­दा­त्म­वि­ष­य­सं­दे­ह­ध्वं­सोऽ­सं­दि­ग्धा­वि­प­री­तै­त­दा­त्मा­नु­भ­व­जन्यः एत­दा­त्मा-भा­व­प्र­मै­त­दा­त्म­वि­प­र्य­या­भ्या­म­ज­न्यत्वे सति जिज्ञा­स्य­मा­नै­त­दा­त्म­गो­च­र­सं­दे­ह-नि­वृ­त्ति­त्वात् पुरु­षा­न्त­र­ग­तै­त­दा­त्म­गो­च­र­त­था­वि­ध­सं­दे­ह­नि­वृ­त्ति­र्व­स्तुनि नास्ती­त्य­भा­व-प्र­म­या­स्तीति भ्रमेण वाऽनवधानेन वा भवति। सा च न भाव­त­त्त्वा­नु­भ­व­ज­न्येति तत्र व्यभिचारः स्यात­न्नि­वृ­त्त्य­र्थ­मे­त­दा­त्मा­भा­वे­त्या­दि­वि­शे­ष­ण­त्र­यम् । न च वाच्यमात्मनः शश्व­द­सं­दि­ग्धत्वे कथं संदेहध्वंसः प्राप्यभावात् संदिग्धत्वे च कथं शश्व­द­सं­दि­ग्ध­त्व­मिति यतः शश्व­द­सं­दि­ग्ध­त्वेऽपि पुरु­षा­न्त­रा­रो­पि­त­ना­स्ति­त्व-को­टिकः संशयः स्यात् स च स्वरू­पा­नु­भ­वा­त्से­त्स्यते । आत्मानुभवजन्य इत्यत्र चास्तीति व्यव­हा­र­हे­तु­र­नु­भव उक्तः स स्वरूपभूतोऽपि संभवतीति।
ननू­क्त­वि­धा­नु­भ­व­ज­न्यत्वं संदेहध्वंसस्य सिद्धं साध्यते आत्म­वि­ष­य­त­था-वि­धा­नु­भ­वा­भ्यु­प­ग­मा­दि­त्या­श­ङ्क्याह-
न चैतदिति ।
यदि ततोऽन्योऽनुभवः संशयच्छेता स्यात् तर्हि तदा­त्म­जि­ज्ञा­सा­या­म­प्य­नु-भ­व­स्या­नु­द­य­सं­भा­व­न­याऽऽ­त्म­सं­देहः स्यादित्यर्थः । स्यादेतत् ।
आत्मजिज्ञासायां तद्विषया संविदुदयत एवेति तत्राह-
अनवस्थेति ।
यश्चे­श्व­र­त­था­वि­धा­नु­भ­व­ज­न्य­त्वेन सिद्धसाधन्वमाह तं प्रत्यनीश्वरेति विशेषणीयम् ।
तदाभ्यां तर्काभ्यां परिशोधितमनुमानं स्वयंप्रकाशत्वे पर्य­व­स्य­ती­त्याह-
तस्मादिति ।
सर्वमिदं प्रक्षिप्तमिव प्रतिभाति न हि साध्य­प्र­सि­द्ध्य­र्था­नु­मा­न-व­दि­हा­नु­मा­ना­न्त­र­म­पे­क्षित् । संदे­हा­नु­त्पा­द­नि­य­म­व­त्सं­दे­ह­नि­वृ­त्ति­नि­य­मोऽ­प्य­ना-ग­न्तु­का­त्मा­नु­भ­व­स­द्भावे साधकान्तरं भवेत् ।
वस्तुतः साधकान्तरमपि न भवति ।
यत­स्त­त्रा­श्र­या­सि­द्धि­र­प­रि­हार्या न हि सर्वानुभवसिद्धे सुखाद्यनुभवितरि साक्षिणि प्रत्यक्षदृष्टे घटइव पुरु­षा­न्त­रो­क्ति­मा­त्रेण नास्तित्वसंदेहः कस्यचिदुदेति यतः संदेहनिवृत्तिः पक्षे सिद्ध्येत् । चार्वाकोऽपि खल्वहमनुभवस्य शरीरं विषयं प्रद­र्श्या­ति­रि­क्त­मा­त्मा­न­म­प­ल­पति न त्वह­म­नु­भ­व­मे­वा­प­ल­पति। न च- चार्वा­को­प­न्य­स्त­श­री­रा­त्म­वा­द­यु­क्ति­श्र­व­ण­क्षु­भि­त­हृ­द­यस्य शरी­रा­ति­रि­क्ता­त्मा­स्ति­त्व-सं­देहो भवतीति तन्निवृत्तिः पक्षे स्यादिति- वाच्यम् तस्य संदेहस्य एक आत्मनः शरीरे भावा (ब्र. सू. अ. ३ पा. २ सू. ५३) दित्य­धि­क­र­णो­क्त­स्थि­र­न्या­या­नु-सं­धा­न­नि­व­र्त्यस्य शरीरविषयत्वेन शङ्कि­ता­न्य­था­सि­द्धि­ना­नु­भ­व­मा­त्रेण निवृ­त्त्य­सं­भ­वात् । किं च टीकायां स्वात्मनि संदेहानुत्पाद एव प्रपञ्चितः संदे­ह­नि­वृ­त्तिस्तु लेशतोऽपि न स्पृष्टा । अतस्तत्र संदे­हा­द्य­नु­त्पा­द­प्र­प­ञ्च­ना­न­न्तरं प्रकृत्य तयोर्न चैत­द­न्या­धी­न­सं­वि­द­न्यत्वे घटते अन­व­स्था­प्र­स­ङ्ग­श्चोक्त इति वाक्ययोः संदे­ह­नि­वृ­त्ति­प­क्ष­का­नु­मा­न­वि­ष­य­सि­द्ध­सा­ध­न­त्व­श­ङ्का­नि­रा­क­र­णा­र्थ­त्वे­ना­व­ता­र­ण­मपि न युक्तम् उक्तानुमानयोः स्वप्र­का­श­त्वा­नु­माने विष­य­प­रि­शो­ध­क­त­र्क­त्वो­क्ति­र­प्य­युक्ता आद्यानुमानस्य साध्य­प्र­सि­द्धि­सं­पा­द­ना­र्थ­त्वात् द्विती­या­नु­मा­नस्य कथं­चि­द­दृ­ष्ट­त्वेऽपि नित्यानुभवे साधकान्तरत्वात् । तस्मान्न चैतदिति टीका­वा­क्य­मा­त्मनो नित्या­प­रो­क्ष­त्वा­भावे कदाचिदात्मनि संदेहः स्यादि­त्ये­त­त्प­रम् । आत्म­वि­ष­य­सं­वि­द­न्त­रो­त्पा­द­नि­यमे वस्तु­सं­दे­हा­नु­त्पाद इति शङ्का­वा­र­णा­र्थ­म­न­व­स्था­प्र­स­ङ्ग­श्चोक्तः इत्येव युक्तम् । तथैवावतारणं कोशान्तरेषु दृश्यते । तेषु खलु साध्य­प्र­सि­द्ध्यु­प­पा­द­क­म­नु­मा­ना­न­न्त­र­मित्थं न चैत­दि­त्या­दि­वा­क्य­यो­र­व­ता­र­णम् ।
विपक्षे दण्डमाह-
न चैतदिति ।
यदि नित्य­सा­क्षा­त्का­र­त्व­मा­त्मनो न स्यातर्हि कदाचिदात्मनि संदेहः स्यादित्यर्थः ।
स्यादेतद्- आत्मविषया संवि­दु­दे­त्ये­वेति तत्राह-
अनवस्थेति ।
एवं ग्रन्थेन व्याख्या­ना­न­न्तरं केषुचित्कोशेषु अधि­क­श­ङ्का­प­रि­हा­र­ग्रन्थो दृश्यते- ननु सुखादीनामपि स्वसत्तायां संदेहाभावसाम्ये कथमात्मैव प्रकाश उच्यते आत्म­प्र­का­शे­नै­वा­नु­ग­तेन तेषा­मा­प­रो­क्ष्य­सं­भवे प्रत्येकं न स्वप्रकाशत्वं कल्प्यमिति। स्पष्टार्थोऽयं ग्रन्थः ।
विपक्षे दण्ड उच्यत इति ।
अनुकूलतर्क उच्यते इत्यर्थः ॥२८॥
साध­न­व्या­प्त्य­नु­मा­न­स्येति ।
स्तम्भा­दि­प्र­त्ययो निरालम्बन इति दर्शि­ता­नु­मा­न­स्ये­त्यर्थः ।
औपचारिको व्याख्यातव्य इति ।
प्रमा­णा­मि­लि­त­सं­स्का­र­ज­त्व­सा­दृ­श्यात् स्वप्नज्ञाने स्मृतिशब्दो गौणो व्याख्येय इत्यर्थः ।
ननू­प­ल­ब्धि­श­ब्दोऽ­नु­भ­व­मा­त्र­परः प्रसिद्ध: किमिति षट्प्र­मा­ण­ज­नि­त­त्वेन विशेष्यते इत्याशङ्क्याह-
एवमव्याख्यान इति ।
तेन संदि­ग्ध­व­स्तु­धर्म इति तेन भाष्येण सूचितमित्यन्वयः ॥२९॥३०॥
ननु किम­न्या­धि­ष्ठा­न­त­त्त्व­बो­ध­ने­नेति ।
प्रत्य­क्षा­दि­प्र­मा­ण­बो­धि­त­वि­प­री­ता­धि­ष्ठा­न­त­त्त्व­बो­धकं प्रमाणं निरधिष्ठानभ्रमं वदतः शून्यवादिनो मते न संभवति चेत् तन्मा भूत्प्र­त्य­क्षा­दि­प्र­ती­त­व­स्तु­गतं यद्विचारासहत्वं तदेव बाधकप्रमाणं भूत्वा प्रत्यक्षादीनां सांव्यवहारिकं प्रामाण्यं तद्वि­ष­या­णा­म­ता­त्त्वि­कत्वं च गमयतीत्यर्थः ।
सदसदादिपक्षेति ।
विचारासहत्वं नाम कश्चि­द्व­स्तु­भूतो धर्मोऽस्त्येव स धर्मः सत्त्वा­स­त्त्व­स­द­स­त्त्वा­नु­भ­या­त्म­क­त्व­प­क्षे­ष्व­न्य­त­म­प­क्ष­प­रि­ग्र­हेण वस्तुभूतो व्यवस्थाप्यते स तु वस्तुतः सत्वादिरूपेण विचारं न सहत इत्ये­ता­व­दे­वो­च्यत इति प्रथ­म­वि­क­ल्पार्थः । विचारासहत्वे सत्त्वा­दि­प­क्षान् परित्यज्य शून्यमेव लभ्यत इति द्विती­य­वि­क­ल्पार्थः ।
अस­त्त्व­व्य­व­स्था­प्र­ति­ज्ञा­वि­रोध इति ।
किंचिदपि वस्त्वसत्येन व्यवस्थापयितुं न शक्यत इति तत्प्र­ति­ज्ञा­वि­रोध इत्यर्थः ॥३१॥
इति प्रतिभातीति ।
यद्यपि बौद्धव्याकरणे पश्यनादिशब्दाः साधुतया व्युत्पादिताः तथापि अना­दि­सि­द्ध­प्र­यो­ग­सि­द्ध­स­क­ल­सा­धु­श­ब्द­सं­ग्रा­ह­क­पा­णि­नी­या­द्य­प­रि­गृ­ही­त­त्वा­द­सा­धवः प्रति­भा­न्ती­त्यर्थः ॥३२॥
इति पञ्च­म­म­भा­वा­धि­क­र­णम् ॥

नैक­स्मि­न्न­सं­भ­वात् ॥ ३३ ॥
अस्तीति कायन्त इति ।
कैधा­तो­रा­दे­च­उ­प­देश इत्यात्वे कर्मणि घञि आतो युगिति युगागमे च सति काय इति रूपम् ।
शास्त्रीयेति ।
शास्त्रीयया तप्त­शि­ला­रो­ह­णा­दि­शा­स्त्र­प्र­भ­वया बाह्यया चेष्टारुपया प्रवृ­त्त्ये­त्यर्थः । आन्त­र­वृ­त्ति­र्य­त्न­रूपा परकीया स्वयमप्रत्यक्षा नापूर्वानुमाने लिङ्गं भवेद् अतो बाह्यग्रहणम् ।
ऊर्ध्वगमनशीलो हीति ।
ऊर्ध्वगमनं जीवस्य स्वभावः । देहे स्थिति­स्त­त्प्र­ति­ब­न्ध­क­क­र्मा­धी­नेति मत­मा­श्रि­त्यो­क्तम् । केचित्तु- चिर­का­ल­श­री­रा­व­स्थि­त­प्र­यु­क्त­ब­न्ध­मु­क्ता­वू­र्ध्व­ग­मनं- मन्यन्ते । ते खल्वेवमाहुः - बन्ध­मु­क्त­स्यो­र्ध्व­ग­मनं दृष्टं यथा पञ्ज­र­मु­क्त­शु­कस्य यथा वा वारि­नि­र्भि­न्न­प­रि­ण­तै­र­ण्ड­बी­जस्य यथा वा दृढ­प­ङ्क­लि­प्त­ज­ल­नि­म­ज्ज­न-प्र­क्षी­ण­प­ङ्क­ले­प­शु­ष्का­ला­बू­फ­लस्य इह त्वना­दि­का­ल­प्र­वृ­त्त­ब­न्ध­वि­ग­मा­त्स­त­तो­र्ध्व­ग­म­न­मिति। आस्रवादिषु पञ्चसु अन्तिमद्वयं फलरूपम् आदिमत्रयं तत्साधनम् । प्रवृ­त्ति­रा­स्र­व­श­ब्दो­क्तै­क­वि­धेति भेदः ।bआस्रवः स्रोतसां द्वारं संवृणोतीति संवरः ।bआस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् ॥bइति जैनेाक्तः संवरः शमदमादिरूप इति टीकायामुक्तम् । तत्रादिशब्देन गुप्ति­स­मि­त्या­दि­र्गृ­ह्यते । काय­वा­ङ्म­नो­नि­ग्रहो गुप्तिः । भूमि­ग­त­ज­न्तु­हिं­सा­प­रि­हा­राय प्रहते मार्गे सम्य­गा­दि­त्य­र­श्मि­प्र­का­शिते निरीक्ष्य संचरणं निय­ता­हा­र­वि­षे­व­ण­मि­त्या­दिकं समितिरिति जैनैः परिभाष्यते ।
आस्रावयति गमयतीति ।
आस्रवत्यनेन जीव इत्य­ण्य­न्ता­दा­स्र­व­शब्दः । ण्यन्ता­च्चे­दा­स्राव इति स्यात् ।
बन्धोष्टविधमिति ।
आस्रवः कर्मणा बन्धो निर्ज­र­स्त­द्वि­मो­च­न­मिति जिनदत्तोक्ते टीकायामन्ये त्विति दर्शिते तु मते बन्धः कर्मापादिता जन्मपरंपरेति द्रष्टव्यम् ।
पूर्वोक्त आस्रवोऽपीति ।
आस्रव इन्द्रि­य­प्र­वृत्तः । घात्य­द्या­ति­क­र्मा­ण्या­क­र­ग्र­न्थ­यो­र्वि­वे­चि­तानि । अन्ये तु विधान्तरेण सद्विवेकमाहुः । जैनमते ज्ञान­द­र्श­न­सु­ख­वी­र्य­गु­ण­कस्य जीवस्य ज्ञानादिगुणानां मोक्ष­द­शा­या­मा­वि­र्भ­वि­ष्यतां संसारदशायां प्रतिघातकानि प्रवाहानादीनि पापरूपाणि चत्वारि घातिकर्माणि । शरी­र­सं­स्था­न­त­द­भि­मा­न­ता-स्थि­ति­त­त्प्र­यु­क्त­मु­खा­दि­नि­र्मि­तानि चत्वा­र्य­घा­ति­क­र्माणि पुण्य­मि­श्रि­त­त्वा­त्पु­ण्य­रू­पा­णीति।
नामि­का­द्वे­द­नी­यस्य भेदमाह-
सक्रियस्य बीजस्येति ।
कायतीति ।
आयुः कायतीत्यर्थे कैधातोरात्वे आतोऽनुपसर्गे क इति कप्रत्यये आतो लोप इटि चेत्याकारलापे सति गोद इतिवदायुष्कमिति रूपम् ।
युग­प­त्त­द्वि­व­क्षा­या­मि­त्यर्धं व्याचष्टे-
युग­प­द­स्ति­त्व­ना­स्ति­त्व­यो­रिति ।
तत्रा­श­क्ति­मु­प­पा­द­यति-
वाचः क्रम­वृ­त्ति­त्वा­दिति ।
आद्याऽ­वा­च्य­वि­वि­व­क्षा­या­मिति सार्धश्लोके कथ­मा­द्या­दि­श­ब्दो­क्तानां सत्त्वा­स­त्त्व­त­दु­भ­य­स­मु­च्च­या­ना­म­वा­च्य­त्वम् ।
नह्यत्र चतुर्थभङ्ग इवाऽ­श­क्ति­र­स्ती­त्या­शङ्क्य तेष्वप्यन्त्येन सह युगपदाद्येन सह युगपदेकैकेन सह युग­प­दि­त्य­ध्या­हा­रे­णा­श­क्ति­मु­प­पा­द­यति-
आद्योऽ­स्ति­त्व­भङ्गे इत्यादिना ।
एवं व्याख्याने पञ्च­मा­दि­भ­ङ्गानां चतुर्थभङ्गात् फलतो भेदाभावमाशङ्क्य प्रकारान्तरेण व्याचष्टे-
अथ वेति ।
तेष्वेव पक्षेष्विति ।
सत्त्वै­का­न्त­पक्षः सांख्याद्यभिमतः सत्कार्यवादः । अस­त्त्वे­का­न्त­पक्षः शून्य­वा­द्य­भि­म­तोऽ­स­द्वादः । क्रमेण सदसत्त्वपक्षो वैशे­षि­का­द्य­भि­मतो घटादीनां मध्ये सतां पूर्वं पश्चाच्च प्राग­भा­व­प्र­ध्वं­स­प्र­ति­यो­गि­त्व­रू­प­म­स­त्त्व­मिति वादः । एतेषां पक्षेषु पूर्वपक्षा उत्तिष्ठन्ति सत्त्वं निर्वक्तुमशक्यं प्राग­भा­वा­दि­प्र­ति­यो­गित्वं निर्व­क्तु­म­श­क्य­मिति तेषां पूर्वपक्षिणां ये तत्त­द­नि­र्वा­च्य­त्वै­का­न्त्य­वादाः तेषां भङ्गाः पञ्चमषष्ठसप्तमा इत्यर्थः ।
नन्वस्ति स्यादिति ।
अस्तीति वर्तमानत्वं बोध्यते स्यादिति काल­त्र­याऽ­न­व­म­र्शि­वि­धे­य­त्वम् । तयोः पर­स्प­र­वि­रु­द्धयोः कथ­मे­क­स्मि­न्नर्थे पर्यवसानं युग­प­द्बो­ध्य­त्व­मि­त्यर्थः ॥३३॥३४॥३५॥३६॥
इति षष्ठ­मे­क­स्मि­न्न­सं­भ­वा­धि­क­र­णम् ॥

पत्यु­र­सा­म­ञ्ज­स्यात् ॥ ३७ ॥ नकुलीशपाशुपता मन्यन्ते कार्य­का­र­ण­यो­ग­वि­धि­दुः­खान्ताः पञ्च पदार्थाः पशुपाशविमोक्षाय बोद्धव्याः । तत्र- कार्याणि पृथिव्यादीनि पञ्चतत्त्वानि रूपादयः पञ्च गुणाश्चेति दशविधानि कारणानि ज्ञाने­न्द्रि­याणि पञ्च­क­र्मे­न्द्रि­याणि पञ्च मनो­बु­द्ध्य­हं­का­र­रू­पाणि त्रीण्य­न्तः­क­र­णा­नीति त्रयोदशविधानि । ध्यानादिरूपो योगः । धर्मा­र्थ­व्या­पारो विधिः । स व्रतद्वाररूपेण द्विविधः । भस्म­स्ना­न­भ­स्म­श­य­नो­प­हा­रादि व्रतम् । आद्ये प्रसिद्धे । उपहारः षड्विध: । हसि­त­गी­त­नृ­त्त­हु­डु­क्का­र­न­म­स्का­र­ज­प­भे­देन । तत्र हसितमट्टहासः । गीतं गान्ध­र्व­शा­स्त्र­प्र­का­रेण । हुडुक्कारो जिह्वा­ता­लु­सं­यो­गा­न्नि­ष्पा­द्य­मानो वृषभनादसदृशो नादः । यत्र लौकिका न भवन्ति तत्र चत्वार्येतानि निगूढं प्रयोक्तव्यानि । जपनमस्कारौ प्रसिद्धौ । द्वाराणि काय­न­स्प­न्द­न­म­न्द­या­न­शृ­ङ्गा­र­णा­त­त्का­र­ण-त­द्भा­ष­ण­भे­देन षड्विधानि । असुप्तस्यैव सुप्त­लि­ङ्ग­प्र­द­र्शनं कायनम् । वात­व्या­ध्य­भि­भू­त­स्येव शरीरावयवानां कम्पनं स्पन्दनम् । उप­ह­त­पा­दे­न्द्रि­य­स्येव गमनं मन्दयानम् । रूपयौवनसंपन्नां कामि­नी­म­व­लो­क्या­त्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तद्वदाचरणं शृङ्गारणा । कार्या­का­र्य­वि­वे­क­वि­क­ल­स्येव लोक­नि­न्दि­त­क­र्म­क­र­ण­मपि तत्कारणम् । व्याह­ता­पा­र्थ­का­दि­श­ब्दो­च्चा­र­ण­मपि तद्भाषणम् । दुःखान्तो द्विविधः - अनात्मकः सात्मकश्च । अनात्मकः सर्व­दुः­खा­ना­म­त्य­न्तो­च्छेदः । सात्मकस्तु दृक्क्रि­या­श­क्ति­ब­ल­ल­क्ष­ग­मै­श्व­र्यम् । तत्र दृक्शक्तिरेकापि विष­य­भे­दा­त्प­ञ्च­धो­प­च­र्यते । दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति । सूक्ष्म­व्य­व­हि­त­वि­प्र­कृ­ष्टा­शे­ष­चा­क्षु­ष­स्पा­र्श­ना­दि­वि­षयं ज्ञानं दर्शनम् । अशेषशब्दविषयं ज्ञानं श्रवणम् । निर­व­शे­ष­शा­स्त्र­वि­षयं ज्ञानं मननम् । ग्रन्थ­तोऽ­र्थ­त­श्चा­सं­दि­ग्ध­ज्ञानं विज्ञानम् । सर्वज्ञत्वं प्रसिद्धम् । क्रिया­श­क्ति­रे­काऽपि त्रिविधोपचर्यते । मनोजवत्वं कामरूपित्वं विकरणधर्मित्वं चेति । निर­ति­श­य­शी­घ्र­गा­मित्वं मनोजवत्वम् । कर्मानपेक्ष्य स्वेच्छ­यै­वा­न­न्त­श­री­रे­न्द्रि­या­धि­ष्ठा­तृत्वं कामरूपित्वम् । उप­सं­हृ­त­श­री­रे­न्द्रि­य­स्यापि निर­ति­श­यै­श्व­र्य­शा­लित्वं विकरणधर्मित्वम् । पशुपतिस्तु परमेश्वरः सर्वत्रापि कार्ये निमित्तं पशूनां कर्मानपेक्ष्य स्वेच्छयैव फलप्रदः । निर­ति­श­य­स्वा­त­न्त्र्य­शा­लि­त्वात् । न चैवं कर्मवैयर्थ्यम् ईश्व­रे­च्छा­नु­गृ­ही­त­क­र्मणः साफल्यात्, तदननुगृहीतस्य कर्मणः पर्ज­न्या­न­नु­गृ­ही­त­कृ­षि­क­र्मण इव नैष्फल्येऽपि दोषाभावात् तद­नु­ग्र­ह­सं­भा­व­नया कर्मसु प्रवृ­त्यु­प­प­त्ते­रिति। एवं पाशु­प­ता­ना­म­न्येषां च सांख्यादीनां केवलं निमि­त्त­का­र­ण­मी­श्वर इति मतमिह निराक्रियते ।
स्वगु­णाऽ­प्र­ख्या­प­ने­नेति ।
तदप्रख्यापनं काय­न­स्प­न्द­ना­दिभिः ।
तत्रानुमानं तावन्न संभवतीति टीकायां तत्रेत्यस्य पूर्व­ग्र­न्था­नु­सा­रेण यद्यपीश्वरस्य निमि­त्त­मा­त्र­त्व­मि­त्यर्थः प्रतिभाति तथापि परा­भि­म­ताऽ­नी­श्व­रा­नु­मा­नानि स्वयमुद्भाव्य निरा­क­र्तु­का­म­स्त­दर्थं तत्रेत्येतत्तु ईश्वरपरामर्शीति व्याचष्टे-
ईश्वर इत्यर्थ इति ।
किं धर्म­वि­ष­य­त्व­सं­स­र्गा­न्यो­न्या­भा­व­व­त्त्व­मिति ।
ननु- घटादिष्वपि संसर्गाभावो नाम संस­र्ग­प्र­ति­यो­गि­का­भावो न भवति येनात्र संसर्गस्य संसर्गाभावो वा तस्या­न्यो­न्या­भावो वेति विकल्पः प्रवर्तेत किंतु घटा­दि­प्र­ति­यो­गि­का­वेव संस­र्गा­भा­वा­न्यो­न्या­भावौ तत्र प्रतियोगिनः संसर्गमारोप्य यस्याभावस्य बुद्धिरिदमिह नास्तीति स संसर्गाभावः । प्रति­यो­गि­न­स्ता­दा­त्म्य­मा­रोप्य यस्याभावस्य बुद्धिरिदमिदं न भवतीति सऽन्योन्याभाव इत्येव परा­भि­म­त­सं­स­र्गा­भा­वाऽ­न्यो­न्या­भा­व­भेदः । अतो धर्म­वि­ष­य­त्व­सं­स­र्गा­भाव इत्युक्ते- नेत्थं विकल्पपरंपरा प्रवर्ततइति- चेन्न संस­र्गा­भा­वा­न्यो­न्या­भा­व­बुद्ध्योः प्रति­यो­गि­ता­दा­त्म्या­रो­प­पू­र्व­क­त्वा­सिद्धेः । तथा हि- भूतले घटो नास्तीति व्यवहारे भूतल इत्यस्य घटेन नान्वयः येन भूतले घटारोपः सिध्येत् किंतु नास्ती­त्य­ने­ना­न्वयः । एवं व्यवहारानुसारेण प्रतीतिरपि घट­प्र­ति­यो­गि­क­भू­त­ला­धि­क­र­ण­का­भा­व­वि­षया न तु भूतलाधिकरणकेन प्रतियोगिना विशे­षि­ता­भा­व­वि­षया । एवं घटः पटो न भवतीति व्यवहारेऽपि घटः पट इति यत्तन्नेति नान्वयः येनाधिकरणे प्रति­यो­गि­ता­दा­त्म्या­रोपः सिध्येत्किंतु घट इत्यस्य न भव­ती­त्य­ने­ना­न्वयः योऽयं घटः स पटो न भवतीति। एवं व्यवहारानुसारेण तन्मू­ल­भू­त­प्र­ती­ति­रपि घटस्याधिकरणस्य पट­प्र­ति­या­गि­का­न्यो­न्या­भा­व­व­त्त्व­वि­षया न तु घट­ता­दा­त्म्या­प­न्नेन प्रतियोगिना विशे­षि­ता­भा­व­वि­षया । एवं सत्येत्र प्रति­यो­गि­नाऽ­धि­क­र­णेन चाभावो निरूप्यत इति परमतमर्यादाऽपि संगच्छते । किं च यदि घटसंसर्गाभावो घटप्रतियोगिकः तदा घटापसरणानन्तरं भूतले घटो नास्तीति प्रती­ति­र्नि­रा­ल­म्बना स्यात् । न हि कदाचित्तत्र स्थित­स्या­त्य­न्ता­भावः संभवति नाप्यन्यत्र तदानीं सतः प्रागभावध्वंसौ संभवतः नाप्यु­त्पा­द­वि­ना­श्य­भा­वा­न्त­र­क­ल्पनं युक्तम् । तद्विकल्पमानं घट­सं­यो­ग­ना­शो-त्प­त्ति­काले उत्पद्यते पुन­र्घ­ट­सं­यो­ज­न­काले नश्य­ती­त्य­भ्यु­प­ग­न्त­व्यम् । एवं च सत्य­व­श्या­भ्यु­प­ग­न्त­व्येन घटा­प­स­र­ण­घ­ट­सं­यो­ज­न­म­ध्य­व­र्तिना संस­र्ग­प्र­ति­यो­गि­का-भा­व­सा­मा­न्ये­नैव प्रतीतिनिर्वाहे किं साम­यि­का­त्य­न्ता­भा­व­क­ल्प­नया । अतो घट­सं­स­र्ग­प्र­ति­य­गो­का­भावो घटसंसर्गाभाव: घटपटयोः पर­स्प­र­प्र­ति­यो­गि­का-भा­वोऽ­न्यो­न्या­भाव इत्येव विभागो वक्तव्य प्रत्य­भि­प्रे­त्यैवं विकल्पपरम्परा कृता ।
अथ वेति ।
तत्रानुमानं तावन्न संभवतीति टीकाग्रन्थ तत्रेत्यस्य यः स्वार­सि­कोऽ­र्थ­स्त्य­क्तस्तं परि­गृ­ह्मो­त्त­र­ग्र­न्थ­स्त­द्वि­ष­य­तया योज्यते ।
अस्मि­न्व्या­ख्याने तस्मा­द­ने­ना­स्मिन् ग्रन्थे प्रमा­णा­न्त­र­मा­स्थे­य­मिति टीकाग्रन्थे यदीश्वरस्य निमि­त्त­मा­त्रत्वे प्रमा­णा­न्त­र­मा­स्थे­य­मि­त्युक्तं तत्रा­स्थी­य­मा­न­मपि न संभवति तदात्मानं स्वय­म­कु­रु­ते­त्या­दि­श्रु­त्यैव बाधा­दि­त्ये­ता­व­त्प­र्यन्तं तात्पर्यं न वक्तव्यं किंतु प्रमा­णा­न्त­रा­का­ङ्क्षा­मा­त्र­परं तद्व्या­ख्ये­य­मि­त्याह-
सामान्यतः श्रुति­व्य­ति­रि­क्तेति ।
व्याप्ते­र­वि­शे­षा­दिति ।
ईश्वरो न द्रव्योपादनमिति ।
येन चेत­न­त्व­हे­तु­नाऽ­नु­मी­यते तेनैव तस्य रागा­दि­म­त्त्व­म­प्य­नु­मातुं शक्यम् । उभयत्रापि मूल­भू­त­व्या­प्ते­र­नु­कू­ल­त­र्क­स­द्भा­वा-ऽ­स­द्भा­वाभ्यां विशे­षा­भा­वा­त्प्र­त्युत रागाद्यनुमान एवानुकूलतर्कः संभवति। संसारिणां रागा­द्यु­पा­दा­न­ता­याम् आत्मत्वमेव प्रयोजकं न तु संसार्यात्मत्वं गौर­वा­दि­त्ये­वं­रूप इति भावः ।
निर­व­द्य­त्व­वि­शे­ष­वि­रुद्ध इति ।
साध्य­वि­रु­द्ध­व­द­नु­मा­न­वा­द्य­भि­म­त­वि­शे­षा­न्त­र­वि­रु­द्धोऽपि हेतु­र्वि­रु­द्ध­हे­त्वा­भास इति भावः ।
तत्रा­प्या­ग­म­प्रा­मा­ण्या­दिति ।
यद्या­ग­म­श्चि­रा­ती­ता­न्नि­र्व्या­पा­रा­द्या­गा­त्स्वर्ग इति बोधयेत् तर्हि तथैवानुमन्येमहि न त्वागमस्तथा बोधयति किंतु यागात्स्वर्ग इत्ये­ता­व­न्मात्रं बोधयति तनु­व्या­पा­र­क­ल्प­ना­या­मपि न विरुध्यत इत्य­वि­रो­धा­त्तत्र लोका­नु­सा­रे­णाऽ­पू­र्व­क­ल्पनं नत्विह तथा रागा­दि­म­त्त्व­क­ल्पनं प्रवर्तते निर­व­द्य­त्वा­दि­श्रु­ति­वि­रो­धा­दिति भावः ।
यदीश्वर इति ग्रन्थे कारुण्यपर इति विशे­ष­ण­स्वा­र­स्य­म­नु­सृत्य तेन ग्रन्थेन व्याव­र्त्या­मि­त­रे­त­रा­श्र­य­दो­ष­प­रि­हा­र­शङ्कां प्रकारान्तरेण दर्शयति-
अथवेति ।
करुणयैव न कर्मभिरतो नान्योन्याश्रय इति भावः ।
कर्मभिः प्रयोजनैरिति ।
अध्ययनेन वसतीतिवत्फलस्य हेतुत्वविवक्षया तृतीयेति भावः ।
पूर्वकर्म कथ­मी­श्व­रा­प्र­व­र्ति­त­मी­श्व­र­प्र­व­र्त­न­ल­क्षणं कार्यं करोतीति टीकाग्रन्थो न युक्तः पूर्व­क­र्म­णोऽ­पी­श्व­र­प्र­व­र्ति­त­त्वस्य परे­णो­च्य­मा­न­त्वा­दि­त्या­श­ङ्क्याह-
ईश्वरेण पूर्वकर्म तावदिति ।
एवं सति प्रव­र्त­क­त्वो­प­प­त्ति­म­नु­क्त्वेति ।
ईश्वरेण पूर्वं कर्म प्रवर्तयितुं न शक्यते कुत्सि­त­फ­ला­नु­द­य­प्र­स­ङ्गा­दि­त्यु­क्ता-नु­प­प­त्ति­प­रि­हा­रा­र्थ­मी­श्व­रस्य प्रव­र्त­क­त्वो­प­प­त्ति­म­नुक्त्वै परः केवलं कर्मेश्वरयोः प्रव­र्त्य­प्र­व­र्त­क­भा­व­स्या­ना­दि­ता­मात्रं यद्यवलम्बेत तदा­नी­म­न्ध­प­र­म्प­रा­दो­ष­मा­हे­त्यर्थः । प्रव­र्त­क­त्वा­नु­प­प­त्ति­मु­क्त्वेति पाठे त्वीश्वरस्य प्रव­र्त­क­त्वा­नु­प­प­त्तिर्या सिद्धा­न्ति­नोक्ता तदनुवाद: ।
अनु­प­प­त्ति­सा­म्या­दिति ।
ईश्व­र­स्या­द्य­त­न­क­र्मणि च प्रव­र्त­क­त्वा­नु­प­पत्तेः साम्यादित्यर्थः । अतो यथा केनचिदन्धेन स पटो रक्त इत्युक्ते कुत इदं श्रुतमिति पर­स्या­का­ङ्क्षायां स यद्यन्यमन्धं तदुपदेष्टारं ब्रूया­त्सोऽ­प्य­नु­यु­क्तोऽ­न्य­मन्धं सोऽप्यपरमन्धं न कंचिदपि स्वोपदेष्टारं चक्षुष्मन्तं ब्रूयाद् अनयान्धपरम्परया प्राप्तः पटरक्तिमा यथै­वाऽ­प्रा­मा­णिकः एवमियमपि कर्मेश्वरयोः प्रव­र्त्य­प्र­व­र्त्त­क­भा­व­प­र­म्प­रो­क्ता­नु­प­प­त्ति-धू­न­न­क्ष­म­च­क्षु­ष्म­त्स्था­नी­य­श्रु­ति­मूला यदि न स्यात् तदा कर्मेश्वरयोः प्रव­र्त्य­प्र­व­र्त­क­भावो न प्रामाणिकः स्यादिति भावः ।
भाष्ये प्रधा­न­पु­रु­षे­श्व­र­त्र­य­मिति कथमुक्तम् पुरुषाणां बहु­त्वा­दि­त्या­शङ्क्य व्याचष्टे-
पुरुषान् जात्यै­की­कृ­त्येति ।
तथापि प्रवा­ह­नि­त्य­त्वा­दिति ।
यदि द्रव्य­त्वा­द­न्त­व­त्त्व­म­नु­मी­यते तदा सर्वेषां संसा­रि­णा­म­नि­त्य­त्वेऽपि प्रवाहरूपेण संसा­र­स्या­नु­वृ­त्तिर्न निवारिता स्यात्तथा च तच्छू­न्य­ता­या­मी­श्वरः किम­धि­ति­ष्ठे­त्किं­वि­षये वास्य सर्व­ज्ञ­त्वे­श्व­रत्वं स्यातामिति भाष्यो­क्त­दू­ष­ण­म­लग्नं स्यात् । अत एव हि विद्वत्सु मुच्यमानेषु सर्वदा ब्रह्माण्डलोके जीवा­ना­म­न­न्त­त्वा­द­शू­न्य­तेति श्लोको­क्त­प्र­का­रे­णाऽ­शू­न्य­ता­नि­र्वा­हो­प­पत्तिः । द्रव्य­त्वा­दि­हे­तुना कुसू­ल­नि­हि­त­बी­ज­व­दे­ता­वन्त एवेति पुरु­षा­णा­मि­य­त्ता­रू­प-सं­ख्या­व­त्त्वा­नु­माने तु तेषां सर्वेषां क्रमेण मुक्तौ शून्य­ता­प­त्ति­रिति दूषणं लग्नं भव­ती­त्य­भि­प्रेत्य संख्या­वि­शे­षा­नु­मा­न­मा­दृ­त­मि­त्यर्थः । एतेन- संख्या­व­त्त्वा­दे­वा­न्त-व­त्त्व­म­नु­मेयं चेदपि प्रधा­न­स्ये­श्व­रस्य जात्यैकीकृतानां पुरुषाणां च त्रित्व­सं­ख्य­याऽ­न्त­व­त्त्व­म­नु­मी­यतां तेषां प्रति­व्य­क्ति­ग­त­यै­क­त्व­सं­ख्यया वा तद­नु­मी­य­ता­मि­त्यपि शङ्का-निरस्ता तावता सर्व­शू­न्य­ता­या­मी­श्व­रस्य ज्ञेया­धि­ष्ठे­या­भा­व­दू­ष­णा­व­का­श­सिद्धेः । तस्मादियन्त एवेति परिच्छिन्नानां जीवानां मध्ये प्रति­क­ल्प­मे­कै­क­स्मि­न्नन्तं प्राप्तेऽ­प्य­ना­द्य­ती­त­क­ल्प­प्र­वाहे सर्वेऽपि जीवा अतीताः स्युरिति कस्य भोगार्थं प्रधा­न­मी­श्व­रोऽ­धि­ति­ष्ठेत् किंविषया वाऽस्य सर्वज्ञता स्याद् इदानीं सर्व­श­ब्दा­र्था­ला­भा­दिति दूष­ण­सि­द्ध्य­र्थ­मि­य­त्ता­रू­प­सं­ख्या-वि­शे­षा­नु­मा­न­म­पे­क्ष्यते । ननु यद्यतीतेषु कल्पेषु इय­त्ता­प­रि­च्छे­दा­भा­व­रू­प-मा­न­न्त्य­मि­ष्यते तदा तत्रैव द्रव्य­त्वा­दि­हे­तो­र्व्य­भि­चारः । यदि नेष्यते तदा जीवा­ना­मि­य­त्ता­रू­प­सं­ख्या­वि­शे­ष­व­त्त्वेऽ­प्य­ती­त­क­ल्पा­पे­क्ष­याऽ­धि­क­सं­ख्या­व­न्तस्त इतीदानीं केषां­चि­त्सं­सा­रि­णा­म­नु­वृ­त्ते­स्त­द्भो­गा­र्थ­मी­श्व­रस्य प्रधा­ना­धि­ष्ठा­तृत्वं सर्वज्ञत्वं चोपपद्यते । अग्रे कदाचित्तदुभयं न स्यादिति चेदिष्टापत्तिः । न हि तत्रा­नु­भ­व­वि­रो­धोऽस्ति। अभ्युपगम्यते च सर्व­मु­क्ति­वा­दि­भि­रग्रे तथाभावः । किं च प्रधा­न­पु­रु­षे­श्व­राणां त्रया­णा­म­प्य­न्त­व­त्त्व­मा­नु­मा­नि­के­श्व­र­वा­दिनं प्रत्यापादितं केन हेतुना सर्वेषु पुरु­षे­ष्व­प्य­ती­तेषु प्रधा­ने­श्व­र­यो­र­व­स्थि­ति­म­भ्यु­प­ग­म्येदं दूषणमुच्यते तस्मादयुक्तमिदं दूषणमिति- चेत् उच्यते । संख्यावन्वेन प्रमेयत्वेन पुरु­षा­णा­मि­य­त्ता­नु­माने सर्वैः पुरु­षै­र­नु­भा­व्यानि यावन्ति दुःखानि तेषामपि इयत्ता हेतुसाम्यात् सिध्यति सा चेयत्ता एका­द्य­ष्टा­द­श­स्था­न­ग­त­प­रा­र्द्ध­मध्य एव किंचि­त्सं­ख्या­वि­शे­ष­मा­दाय पर्यवस्यति। ततश्च सर्वैरपि पुरु­षै­र­ना­दि­का­ल­प्र­वा­ह­प्र­वृ­त्ते­त­र­श­री­रेषु प्रति­श­री­र­म­स्म­दा­द्य­नि­र्धा­र्य­सं­ख्या­वि­शे­षाणि दुःख्या­न्य­नु­भू­यन्त इत्येतावता कालेन सर्वपुरुषगतानां सर्वेषामपि दुःखा­ना­मु­च्छे­दोऽ­व­श्य­म्भा­वी­त्यतो विनैव तत्त्वज्ञानं मुक्तेषु सर्वेषु पुरुषेषु स्वरूपतः स्थिते­ष्व­पी­दानीं स्थितेनापि प्रधानेन तेषां भोगार्थं न प्रवर्तनीयम् । नापीश्वरेण तदधिष्ठेयं नापि सृज्यं वस्तु किञ्चित्तेन क्षेत्रमस्तीति दूषणे तात्पर्यम् । यदि तु द्रव्य­त्व­हे­तु­नैव संख्या­वि­शे­ष­व­त्त्वा­नु­मा­न­मि­ष्यत इति दुःखा­ना­मा­न­न्त्य­म­भ्यु­प­ग­म्येत तदा प्रति­पु­रु­ष­व­र्तिनां दुःखा­ना­मि­य­त्ता­प­रि­च्छे­दा­भ्यु­प­गमे क्रमेण भुज्यमानानां तेषां माषराशिन्यायेन स्वयमेव क्षयः स्यादिति मुक्ते­स्त­त्त्व­ज्ञा­नै­क­सा­ध्य­त्वा­भ्यु­प­ग­म­वि­रोधः । प्रति­पु­रु­ष­व­र्ति­ना­मपि दुःखा­ना­मा­न­न्त्या­भ्यु­प­गमे तत्त्वज्ञाने सति योगसामर्थ्याद् बहूनि शरीराणि परिगृह्य भोगेन नाश्यतया पराभ्युपगतानां दुःखा­ना­मा­न­न्त्या­त्क­दापि क्षयो न स्यादिति तत्त्व­ज्ञा­ना­न्मु­क्त्य­मा­व­प्र­सङ्ग इति दूषणं द्रष्टव्यम् ।
सप्तमी च निमित्तार्थेति ।
क्ङिति चेतिसूत्रवद् निमित्तार्था सप्तमी ज्ञाप­क­हे­तु­प­र्य­व­सि­तेति भावः ।
ननु घटस्य कुलालवज्जगतोपि केन चित्कर्त्रा भाव्यमिति ईश्वरानुमाने स कर्ता कुलालवदेव रागादिमान् स्यात् कुलालो मृदादिकमिव स्वसं­यु­क्त­मे­वा­धि­ति­ष्ठे­द्रू­पा­दि­म­दे­वा­धि­ति­ष्ठेत् श्रोत्र­स्प­र्श­ना­दि­वद् रूपा­दि­ही­न­स्या­प्य-धि­ष्ठाने तदधिष्ठानवदेव प्रधा­ना­द्य­धि­ष्ठा­न­म­प्य­धि­ष्ठा­तृ­भो­गार्थं स्यात् कुलालवदेव च जगत्कर्ता शरीरी स्यात् शरीरित्वे च भोगादिमान् स्यात् प्रधा­न­पु­रु­षे­श्व­राश्च संख्या­व­त्त्वा­त्प­रि­मा­ण­व­त्त्वा­च्चा­न्त­वन्तः स्युः पुरुषाश्च द्रव्यत्वादिभिः संख्या­वि­शे­ष­वन्तः स्युरि­त्य­नु­मा­नानि साम्येन दृष्ट­सा­ध­र्म्य­मा­त्र­म­व­लम्ब्य प्रवृत्तानि पर्वतो महा­न­स­व­द्व­ह्नि­मां­श्चे­त्त­द्व­देव व्यञ्जनवानपि स्यादि­त्ये­त­त्तु­ल्या­नी­त्या­श­ङ्क्याह-
सामान्यतो दृष्टा­नु­मा­नो­प­न्या­स­स्त्विति ।
ईदृ­शे­ना­सा­र­त­रे­णा­प्य­नु­मा­न­जा­तेन दूषयितुं शक्य­त्वा­द­त्य­न्त­तुच्छः पक्ष इति द्योतनार्थं तदुपन्यासः । न ह्यस्मा­द­नु­मा­न­जा­तात् कार्यमात्रं कर्तृ­का­र­क­सा­ध्य-मि­त्या­द्य­नु­माने कश्चि­द्वि­शे­षोऽस्ति घटादिषु दृष्टायां कर्तृजन्यतायां लाघ­वा­त्का­र्य­त्व-मे­वा­व­च्छेकं न तु घट­त्वा­दि­क­म­न­नु­ग­मा­दिति तर्केण दार्ढ्यापादने कार्यमात्रं दाना­दि­व­त्सं­प्र­दा­न­जन्यं पर्ण­प­त­ना­दि­व­द­पा­दा­न­ज­न्य­मिति संप्र­दा­ना­दि­ज­न्य­ता­या­मपि कार्य­त्व­मे­वा­व­च्छे­दकं लाघवान्न तु दान­त्वा­दि­क­म­न­नु­ग­मा­दिति तर्क­दृ­ढी­कृ­ता­नु­मा­नै-र­ङ्कु­रा­दि­कार्ये कर्तृ­का­र­क­व­त्सं­प्र­दा­ना­पा­दा­न­का­र­क­येा­रपि अतीन्द्रिययोः सिद्धि­प्र­स­ङ्गा-दिति भावः । ननु सांख्याधिकरणे कारणानि चेत­ना­धि­ष्ठा­न­म­न्त­रेण कार्याणि न जन­य­न्ती­त्या­नु­मा­नि­के­श्व­र­सि­द्धि­र­ङ्गी­कृता इह कथं तद्दूषणं क्रियते नैष दोष: तत्र पूर्वपक्षे मृद्घटादिषु दृष्टं कार्यानुसारिणा कारणेन भाव्यमिति नियममवलम्ब्य सुख­दुः­ख­मो­हा­त्म­कस्य जगतस्तथाभूतं कारणमनुमिमानं सांख्यं प्रति मृदा­दि­दृ­ष्टा­न्ते­नै­वा­चे­त­नस्य जगत्कारणस्य चेत­ने­ना­धि­ष्ठा­न­मपि सिध्येत् स्वतन्त्रं प्रधानं जगत्कारणमिति निरी­श्व­र­सां­ख्या­भि­मतं न सिध्ये­दि­त्ये­ता­व­न्मा­त्र­मुक्तं न तु स्वत­न्त्र­मी­श्व­रा­नु­मा­न­म­न­व­द्य­मिति तेन नेश्वर: प्रसाधितः ॥
इति सप्तमं पत्यधिकरणम् ॥

उत्प­त्त्य­सं­भ­वात् ॥ ४२ ॥ विष्णुभागवता मन्यन्ते - भगवान् नारायणः परं ब्रह्म स वासु­दे­वा­दि-च­तु­र्व्यू­हा­त्म­नाऽ­व­ति­ष्ठते तत्र वासुदेव: परि­पू­र्ण­षा­ड्गु­ण्य­शाली षड्गुणाश्च ज्ञान­श­क्ति­ब­लै­श्व­र्य­वी­र्य­ते­जांसि चेत­ना­चे­त­ना­त्म­क­स­क­ल­प्र­प­ञ्चा­ह­म्भा­वो­ल्ले­खि­तया सामान्यतो विशेषतश्च सकलवस्तुगोचरं तस्य ज्ञानं ज्ञानमुच्यते । जगत्प्रकृतिभावः शक्तिः । जगत्सृजतोऽस्य श्रमा­भा­व­स्ति­ल­का­ल­क­व­द­प्र­य­त्नेन स्वसृ­ष्ट­स­क­ल­ज­ग­द्भ­रणं च बलम् । अप्र­ति­ह­ते­च्छ­त्व­मै­श्व­र्यम् । जग­त्प्र­कृ­ति­त्वेऽपि पयसो दधिभावेनेव विकारविरहो वीर्यम् । जगत्सृष्टौ सह­का­र्य­न­पे­क्षत्वं परा­भि­भ­व­सा­मर्थ्यं च तेजः । ततो ज्ञानबलोन्मेषेण संकर्षणस्ततो वीर्यै­श्व­र्यो­न्मे­षेण प्रद्युम्नस्ततः शक्तितेजः समुन्मेषेण अनिरुद्धो जायते संकर्षणादयश्च जीवमनोहंकाररूपा इति तन्मतम् । तन्निरासस्य पूर्वाधिकरणेन संगतिमाह-
अधिष्ठातैवेति ।
ननु कापि­ल­पा­त­ञ्ज­ल­स्मृ­ति­प्रा­मा­ण्य­नि­र­स­ना­न­न्तरं कर्तृगौरवेण विशेषेण पाञ्च­रा­त्र­प्रा­मा­ण्य­नि­र­सनं पूर्वपादएव सङ्ग­त­मि­त्या­श­ङ्क्याह-
अवा­न्त­र­सं­ग­ति­व­शा­दिति ।
ननु यदि पाञ्चरात्रं बुद्धिपूर्वा कृति­र्निः­श्व­सि­त­कल्पा श्रुति­र­बु­द्धि­पूर्वा तर्हि विपरीतं बलाबलम् । अबु­द्धि­पू­र्व­कस्य हि प्रामाण्यं घुणाक्षरन्यायेन क्वचिद्भवदपि न सार्वत्रिकं भवेत् ।
सर्वज्ञस्य भगवतो बुद्धिपूर्वा कृतिस्तु मूल­दा­र्ढ्या­त्सा­र्व­त्रिकं प्रामाण्यमश्नुत इत्याशङ्क्याह-
यावद्धीति ।
अयमर्थः- भगवतो बुद्धिरत्र विष्णु­स्मृ­त्या­दि­मू­ल­बु­द्धि­वत् स्मृतिरूपा विवक्षिता उत सर्वज्ञस्य भगवतः प्रत्यक्षं संभवतीति प्रत्यक्षरूपा वा । आद्ये स्मृत्य­न्त­रा­णा­मिव पाञ्च­रा­त्र­स्मृ­ते­रपि वेदमूलत्वेन प्रामाण्यं समर्थनीयम् । द्वितीये भगवतः सार्वज्ञ्यं वेदादवगतमिति समर्थनीयम् । पक्षद्वयेऽपि वेद­प्रा­मा­ण्य­मु­प­जीव्य पाञ्चरात्रस्य प्रामा­ण्य­मु­प­पा­द­नी­यम् । अबु­द्धि­पू­र्व­क­स्यैव तस्य वक्तृ­दो­ष­रा­हि­त्येन प्रामाण्यमविचलं बुद्धिपूर्वकस्य तु वक्तृ­दो­ष­सं­भा­व­नया प्रामाण्यं न तथा स्थिरम् । यद्यपि वेदा­व­ग­त­सा­र्व­ज्ञ्यस्य भ्रान्तिर्न संभवति तथापि वेदविरोधदर्शने सति बुद्ध­दे­श­ना­व­त्त­दंशे व्यामेा­ह­क­त्व­शङ्का नापैति सापि शङ्का यद्यपि न भवति तथापि उपजीव्यविरोधे गौण­त्व­क­ल्प­न­मा­व­श्य­क­मिति। अत्र केचि­त्पा­ञ्च­रा­त्रस्य प्रामाण्यमित्थं समर्थयन्ते - एकायनशाखामूलकं पाञ्चरात्रमिति वेदमूलत्वेनैव तस्य प्रामाण्यम् । एका­य­न­शा­खा­मू­लत्वं च पाञ्चरात्र एवोक्तं संकर्षणादयस्तु न जीवमनोहंकाराः किंतु तदभिमानिनो भगवद्व्यूहाः तेषां च जन­न­मै­च्छि­क­प्रा­दु­र्भा­व­रू­पम् अतो न जीवो­त्प­त्ति­प्र­ति­पा­द­ना­द्वे­द­वि­रोधः । न च- तथापि वेदेषु ये गर्भाधानादयः चत्वा­रिं­श­त्सं­स्काराः समाम्नाताः तद्विपरीतास्ते पाञ्चरात्रे विहिता इत्यप्रामाण्यं- शङ्कनीयम् तेषा­म­प्ये­का­य­न­शा­खा­या­मा­म्ना­ना­च्छा­खा-भे­देन च कर्मणां प्रक्रा­र­भे­द­स्या­न्य­त्रापि संप्र­ति­प­न्न­त्वात् । अत एव तदनुष्ठातॄणामपि न वैकल्यम् । सर्वेषामपि स्वस्व­शा­खेा­क्त­प्र­का­र­क­र्मा­नु­ष्ठा­न­द­र्श­नात् । एवमेव तेषां ग्रन्थेषु कण्ठरवेणोक्तम् । तथा यदप्युक्तं गर्भा­धा­ना­दि­दा­हा­न्त­सं­स्का­रा­न्त­राऽ­से­विनां भाग­व­ता­ना­म­ब्रा­ह्म­ण्य­मिति तत्रा­प्य­ज्ञा­न-मे­वा­प­रा­ध्यति न पुनरायुष्मतो दोषः । यत एते वंशपरम्परया वाज­स­ने­यि­शा­खा-म­धी­यानाः कात्या­य­ना­दि­गृ­ह्यो­क्त­मा­र्गेण गर्भा­धा­ना­दि­सं­स्का­रान् कुर्वते नातो ब्राह्म­ण्या­त्प्र­च्य­वन्ते । ये पुनः सावि­त्र्य­नु­व­च­न­प्र­भृ­ति­त्र­यी­ध­र्म­त्या­गे­नै­का­य­न-श्रु­ति­वि­हि­ता­नेव चत्वा­रिं­श­त्सं­स्का­रान् कुर्वते स्वशा­खा­गृ­ह्यो­क्त­म­र्थ­जा­त­म­नु­ति­ष्ठन्ति न ते शाखा­न्त­री­य­क­र्मा­न­नु­ष्ठा­नेन ब्राह्म­ण्या­त्प्र­च्य­वन्ते । एवं चतुर्व्यूहं भगवन्तं प्रत्यहं पाञ्च­का­लि­के­ना­भि­ग­म­ना­दि­प­ञ्च­केन वार्षशतिकव्रतेन समाराध्य पुरुषः क्लेशैर्मुच्यते । तत्राभिगमनं प्रात­र्भ­ग­व­न्म­न्त्र­ज­प­स्तु­ति­न­म­स्का­रा­दि­कम् । तदनन्तरं पूजार्थं पुष्पा­दि­सं­पा­द­न­मु­पा­दा­नम् । ततः पूजनमिज्या । अतो भग­व­च्छा­स्त्र­त­द­नु­गु­ण­पु­रा­णा­ग­म­श्र­व­ण­चि­न्त­ना­दिकं स्वाध्यायः । ततः सायं­सं­ध्या­न­न्तरं भगवति चित्तसमाधानं योग इति। तैः पाञ्च­रा­त्र­प्रा­मा­ण्य­स­म­र्थ­न­व्या­जेन वयं पाञ्चरात्रिण एकायनशाखिन इत्या­दि­म­न्य­मा­नानां ब्राह्म­ण्य­वै­क­ल्य­मेव प्रतिष्ठापितम् । तथा हि- ये वाज­स­ने­यि­शा­खा­म­धीत्य तच्छा­खा­गृ­ह्यो­क्त­प्र­का­रेण संस्का­रा­न­नु­ति­ष्ठन्ति तेषां शाखारण्डतयैव ब्राह्म­ण्य­वै­कल्यं प्रतिष्ठापितम् । ये तु त्रयीविहितान् संस्कारान् परित्यज्य पाञ्च­रा­त्र­वि­हि­ता­नेव संस्का­रा­न­नु­ति­ष्ठन्ति तेषां वैदिककर्माणि परि­त्य­ज्याऽ­वै­दि­क­क­र्मा­नु­ष्ठा­नेन तत्प्र­ति­ष्ठा­पि­तम् । न ह्येकायनशाखेति काचन शाखा क्वचिदधीयमाना दृश्यते येन तन्मूलतया ते संस्कारा वैदिकाः स्युः । खिल­शा­खा­त्व­क­ल्पनं च न प्रमाणमूलम् । अत­स्त्र­यी­वि­हि­त­सं­स्का­र­वि­प­री­त-सं­स्का­र­वि­धा­नांशे व्यामोहकत्वं त्रयी­ध­र्मा­यो­ग्या­न­धि­कृत्य तद्विधानमिति वा कल्पनीयमित्येषा दिक् । प्रपञ्चस्तु मनोदीपिकायां द्रष्टव्यः ।
व्याख्यातो भाष्य इति ।
आग­म­सि­द्धा­न्त­दि­व्य­सि­द्धा­न्त­त­न्त्र­सि­द्धा­न्त­त­न्त्रा­न्त­र­सि­द्धा­न्त­रूपे चतुर्विधे पाञ्चरात्रे पर­स्प­र­वि­प्र­ति­षेधो मा भूद्वे­द­नि­न्द­क­प­रि­ग्र­ह­वै­दि­क­सं­स्का­र­व­र्ज­नाऽ­वै­दि­क-सं­स्का­र­वि­धा­न­क्षु­द्र­वि­द्या­बा­हु­ल्या­दि­भि­र्वे­द­वि­प्र­ति­षे­धोऽपि भूयान् । स सर्वोऽपि भाष्य­ग­ता­दि­श­ब्द­गृ­हीतो बोद्धव्य इत्यर्थः । एवमवैदिकत्वादेव वैदि­का­प­रि­ग्रा­ह्यत्वं पाञ्च­रा­त्र­स्योक्तं वैखानसशास्त्रे –bआग्नेयं पाञ्चरात्रं तु दीक्षायुक्तं च तान्त्रिकम् ।bअवै­दि­क­त्वा­त्त­त्तन्त्रं ततो वैखानसेन तु ॥bसौम्येन वैदिकेनैव देवदेवं समर्चयेत् ॥ इत्यादिना ।bअत्र नहि­नि­न्दा­न्या­येन वैखा­न­स­प्र­शं­सा­र्थोऽ­य­म­र्थ­वाद इति केषां­चि­त्स­मा­धा­न-म­साधु । अर्थ­वा­देऽ­प्य­वै­दि­क­त्व­हे­तू­क्ति­सा­म­र्थ्येन वेदाऽ­न­धि­कृ­त­वि­ष­य­त्व­सि­द्धे­र-नि­वा­र­णात् । दृष्टं हि पर्व­च­तु­ष्ट­य­युक्ते चातुर्मास्ये द्वयेाः प्रणयन्तीति द्वयोः पर्व­णेा­र­पू­र्वा­ग्नि­प्र­ण­य­ना­न्त­र­वि­धा­नस्य तस्माद् द्वाभ्यामेतीति गम­न­सा­ध­न­त्व­प्र­ति­पा­द-का­र्थ­वा­द­व­शा­दूरु वा एतौ यज्ञस्य यद्वरुणप्रघासः साक­मे­ध­श्चे­त्यू­रु­सं­स्तु­त­व­रु­ण-प्र­घा­स­सा­क­मे­धा­ख्य­प­र्व­द्व­य­वि­ष­य­तया व्यवस्थानम् । एवं च सिद्ध­व­द­वै­दि­क­त्व­की­र्त­न­मेव पाञ्चरात्रस्य एका­य­न­शा­खा­मू­ल­त्व­क­ल्प­न­मपि तुच्छी­क­रो­ती­त्यलं प्रपञ्चेन ॥
इत्य­ष्ट­म­मु­त्प­त्त्य­धि­क­र­णम् ॥
इति­श्री­म­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ वेदा­न्त­क­ल्प­त­रु­प­रि­मले द्विती­य­स्या-ध्या­यस्य द्वितीयः पादः ॥

॥ अथ द्विती­या­ध्या­यस्य तृतीयः पादः ॥ न वियदश्रुतेः ॥ १ ॥ पादार्थमाह-
इहेति ।
भूत­वि­ष­य­वा­क्य­वि­रो­ध­प­रि­हार एव पादार्थः । भोक्तृ­वि­ष­य­वा­क्य­वि­रो­ध-प­रि­हा­रस्तु तत्प्रसङ्गागत इति नार्थ­भे­दा­त्पा­द­भे­द­प्र­सङ्गः । ननु वाक्यानां पर­स्प­र­वि­रो­ध­स­मा­धा­नेन वाक्या­र्था­व­धा­र­णया समन्वये स्थिते तत्र माना­न्त­र­वि­रो­ध­स­मा­धा­नार्थो द्वितीयोऽध्यायः ।
अस्मिन् विय­दा­दि­सृ­ष्टि­वा­क्य­वि­रो­ध­प­रि­हा­रस्य नास्ति सङ्ग­ति­रि­त्या­शङ्क्य विप्र­ति­षे­ध-प्र­स­ङ्गा­ग­तोऽ­य­मिह तत्परिहार इति प्रदर्शनार्थं विप्र­ति­षे­धा­च्चेति भाष्यमित्याह-
प्रासङ्गिकीमिति ।
श्रुति­वि­प्र­ति­षे­धा­दि­त्यर्थ इति ।
ननु कार­ण­वि­ष­य­श्रु­ति­वि­प्र­ति­षेधे इव कार्य­वि­ष­य­श्रु­ति­वि­प्र­ति­षे­धेऽपि समाधानं कृतमेव कारणत्वेन चाकाशादि (ब्र. अ. १ पा, ४ सू. १४) ष्वित्यधिकरणे । तत्र हि सूत्रस्य एकां योज­ना­मा­श्रि­त्या­का­शा­दि­का­र्येषु विगानेऽपि ब्रह्मणः कारणत्वे विगानं नास्ति। अक­ल्पि­त­का­र­ण­व­स्तु­प्र­ति­प­त्त्यु­पा­य­तया कल्पितेषु तात्प­र्याऽ-वि­ष­येषु कार्येषु विगानं तु न दोष इति कार्य­वि­गा­न­म­भ्यु­पे­त्यैकं समाधानं कृतम् । योज­ना­न्त­र­मा­श्रित्य कार्यविगानस्य दोषत्वेऽपि तदिह नास्ति दण्ड­च­क्रा­दि­घृ­त­पू­र्णा­न्त­का­र्य­क­र्तृ­वि­ष­य­या­व­त्का­र्य­क­र्तृ­त्व­क­ति­प­य­का­र्य­क­र्तृ­त्वा­नु­वा­द­क­वा­क्य­द्व­य­वत् तैत्ति­री­य­क­च्छा­न्दो­ग्य­श्रुत्योः प्रामा­ण्यो­प­प­त्ते­रि­त्य­परं समाधानं कृतं किमधिकमिह कर्त्तव्यं समाधानमवशिष्यते । उच्यते । छान्दोग्ये तैत्ति­री­य­क­श्रु­ता­वा­का­श­वा­यू­प­सं­हा­र­म­न­पेक्ष्य तत्र द्वितीयसमाधानं कृतम् । इह तु तदु­प­सं­हा­र­म­प्या­श्रित्य तत्र सम्भा­वि­त­श­ङ्का­नि­रा­क­र­णेन समाधानान्तरं कर्तुमयमारम्भः ।
परपक्षेषु सर्वत्रेति ।
यद्यपि स्ववचनविरोध इव श्रुतिविरोधोऽपि न सर्वेषु परपक्षेषु निराकरणहेतुः बौद्धा­र्ह­त­प­क्ष­नि­रा­क­रणे तान् प्रति श्रुतिविरोधस्य हेतुकरणायोगात् तथापि तेषामपि पक्षाः श्रुतिविरुद्धा इति कृत्वाऽ­स्मा­भि­र्नि­र­स्यन्त इति श्रुतिविरोधो निरसनीयत्वे सार्वत्रिको हेतुर्भवतीति भावः ।
न वियदिति ।
यद्यप्यस्तीति सूत्रमाचार्यैः सिद्धा­न्त­सू­त्र­मिति वक्ष्यते तथापि न वियदिति पूर्व­प­क्ष­सू­त्र­मस्ति त्विति सिद्धा­न्त­सू­त्र­मिति विशि­ष्टा­र्था­भि­प्रा­येण भ्रमत्वमुक्तम् । ननु- किमर्थं तत्र भ्रमत्वमुच्यते तथैवास्तु को दोष: अनुत्पत्तिं पूर्वपक्षं कृत्वो­त्प­त्ति­स­म­र्थ­नेऽपि ह्यनु­त्प­त्ति­श­ङ्के­वो­त्प­त्त्य­नु­त्प­त्ति­श्रु­ति­वि­प्र­ति­षे­ध­श­ङ्कापि निरस्ता भवतीति फलितमर्थमादाय प्रागुक्ता प्रस­ङ्ग­स­ङ्ग­ति­रु­प­प­द्यते । यथा गुणोपसंहारफलाया विद्या­भे­दा­भे­द­चि­न्ताया गुणो­प­सं­हा­र­पा­द­स­ङ्गतिः एवं न वियदिति सूत्रस्य पूर्व­प­क्ष­सू­त्र­ता­या­म­श्रु­ते­रि­त्यस्य विय­दु­त्प­त्ति­प्र­ति­पा­द­न­क्ष­म-श्रु­त्य­भा­वा­दि­त्यर्थ इति नाश्रुतौ क्काचि­त्क­त्व­सा­र्व­त्रि­क­त्व­वि­क­ल्पा­व­काशः वक्ष्य­मा­णा­स­म्भ­वा­दि­हे­तु­ब­लेन विशि­ष्ट­य­श्रु­त्य­भा­वस्य सार्व­त्रि­क­त्वात् । इदं सिद्धा­न्त्ये­क­दे­शि­सू­त्र­मिति पक्षेऽपि हि मुख्य­श्रु­त्य­भा­वा­दि­त्यर्थ इत्या­चा­र्यै­र­य­मे­वार्थः स्फुटीकरिष्यत इति- चेत् सत्यम् तथापि साक्षा­न्नि­रा­क­र­णीयं पूर्वपक्षं प्रापप्य तत्र सिद्धा­न्त्ये­क­दे­शिनः परिहारं प्रथमं प्रदर्श्य तस्यापि निराकरणेन पर­म­सि­द्धा­न्त­प्र­द­र्शनं क्रियत इत्येवं सूत्राणां प्रस­क्त­पू­र्व­प­क्ष­नि­रा­क­र­णा­र्थत्वे सम्भवति अप्र­स­क्त­पू­र्व­प­क्षा­न्त­र­नि­रा­क­र­णा­र्थत्वं सूत्रा­णा­म­ङ्गी­कृत्य तेन फलतः प्रस­क्त­पू­र्व­प­क्ष­नि­रा­क­र­ण­सि­द्ध्य­ङ्गी­कारो न युक्त इति तात्पर्यम् । एवं तर्हि प्रसक्तो विप्र­ति­षे­ध­पू­र्व­पक्ष उत्सूत्रो मा भूद् ।
आद्यसूत्रद्वयं तत्प्र­द­र्श­नार्थं गौण्यसम्भवा (ब्र. अ. २ पा. ३ सू. ३) दित्या­दि­सू­त्र­त्र­य­मेव सिद्धा­न्त्ये­क­दे­शि­म­त­प्र­द­र्श­ना­र्थ­मि­त्य­स्त्विति ये मन्यन्ते तन्मतं दूष­यि­तु­मु­प­न्य­स्यति-
केचित्त्विति ।
दूषयति-
किमश्रुतेरिति ।
अत्रेदं वक्तव्यम्- क्वाचित्क एवायमश्रुतेरिति हेतुः न श्रूयते हि छान्दोग्ये सृष्टि­प्र­क्रि­या­या­म­न्नेन शुङ्गे­ने­त्या­दि­का­र्य­लि­ङ्ग­क­त­त्त­द­व्य­व­हि­त­का­र­णा­नु­मा­न­प्र­क्रि­यायां च कार्यत्वेन वियत् । न चात्र तदुपसंहारः शक्य इति भाष्य एव स्पष्टमुक्तम् । एवं ताव­च्छा­न्दो­ग्य­श्रु­ति­र­श्र­व­ण­लि­ङ्ग­वती उप­सं­हा­र­म­प्य­स­ह­माना विय­दु­त्प­त्त्य-स­म्भ­वा­द्य­नु­गृ­हीता तदुत्पत्तिं प्रति­क्षि­प­ती­त्य­य­मर्थो न वियदिति सूत्रेणोच्यते तैत्ति­री­य­क­श्रुतिः सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­द्य­नु­गृ­हीता तां व्यव­स्था­प­य­ती­त्य­य­म­र्थोऽस्ति त्विति सूत्रेणोच्यते । एवं श्रुति­प्र­ति­षे­ध­पू­र्व­पक्षे सूत्रद्वयेन पर्यवसिते सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­न­म­न्य­था­सि­द्धम् असम्भवादिकमेव त्वन­न्य­था­सि­द्ध­मिति मन्यमानस्य विय­द­नु­त्प­त्ति­वा­दिनः सिद्धा­न्त्ये­क­दे­शिनो मतं सूत्र­त्र­ये­णो­च्यत इत्यङ्गीकारेऽपि न काचि­द­नु­प­प­त्ति­रिति।
अस्ति त्वित्यपि सूत्रं निगूढाभिसंधेः सिद्धान्तिन एवेति ।
ननु अस्य सूत्रस्य सिद्धा­न्त­सू­त्र­त्व­म­ङ्गी­कृत्य सिद्धा­न्ता­भि­प्रा­या­न­भि­व्य­क्त्य-पे­क्ष­मौ­प­चा­रिकं पूर्व­प­क्ष­सू­त्र­त्व­क­थ­न­मिति क्लिष्टयोजना किमर्थं क्रियते पूर्व­प­क्ष­सू­त्र­मे­वे­द­मस्तु एत­त्सू­त्र­व्या­ख्या­ना­न­न्तरं हि भाष्ये ततश्च श्रुत्योर्विरोध इत्यादिना श्रुति­वि­प्र­ति­षे­ध­पू­र्व­पक्षो दर्शितः । तदनन्तरं च तस्मिन् विप्रतिषेधे कश्चि­दा­हे­ती­त्यु­त्त­र­सू­त्रा­व­ता­रणं च कृतं टीका­या­म­प्ये­त­त्सू­त्र­व्या­ख्या­ना­व­सा­न­एव तस्मात्सर्वाः श्रुतयः पर­स्प­र­वि­रो­धिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्ष इति विप्र­ति­षे­ध­पू­र्व­प­क्षो­प­सं­हारः कृतः । सत्यम् टीकायां न विदिति सूत्रं सिद्धा­न्त्ये­क­दे­शिन इत्युपक्रान्तं तस्य च प्रागेव विप्र­ति­षे­ध­पू­र्व­प­क्ष­प्राप्तौ सत्यामुत्थानं वाच्यम् । न च विप्र­ति­षे­ध­पू­र्व­प­क्ष­नि­रा­क­र­णार्थं सिद्धा­न्त्ये­क­दे­शि­मते प्रवर्तिते तदनन्तरमेव पूर्व­प­क्षो­त्था­न­मिति युज्यते । न चाद्यसूत्रे सिद्धा­न्त्ये­क­दे­शि­सू­त्र­त्वेन बहिर्भूते सति केवलेन द्वितीयसूत्रेण विप्र­ति­षे­ध­पू­र्व­प­क्षोपि लम्भयितुं शक्यते । तस्माद्बहिःष्ठ एव पूर्वपक्ष: सिद्धा­न्त्ये­क­दे­शि­सि­द्धा­न्ति­सू­त्राभ्यां निगू­ढ­स्व­स्वा­भि­सं­धिभ्यां स्पष्टीकृतो जात इत्येतावता सूत्र­द्व­य­व्या­ख्या­ना­न­न्तरं भाष्यादिषु पूर्व­प­क्ष­स्फु­टी­क­र­ण­मिति तात्पर्यम् ॥५॥
स्थाला­दि­व­च­न­त्व­मिति ।
(स्थालं भोजनपात्रम्) ।b स्थालंऽ­भो­ज­न­पात्रे स्यादुखायां तु सा स्त्रियाम् । bस्थाली ना तु महादेव इति नैघण्टुका विदुः ॥
षष्ठी तृतीयार्थे इति ।
पूर­ण­गु­णे­त्या­दि­सू­त्रेण पूरणार्थयेागे षष्ठी­स­मा­स­नि­षे­धा­ज्ज्ञा­प­कात् तृतीयार्थे षष्ठी ।
न केवलं विरो­धा­दा­का­श­ज­न्मा­भा­व­क­ल्प­नेति ।
छान्दो­ग्य­श्रु­ता­वा­का­शस्य जन्माभावो न कल्पनीय इति यद् इदं तैत्ति­री­य­श्रु­ति­वि­रो­ध­मा­त्रान्न भवति किंतु छान्दो­ग्य­श्रुतेः क्वचि­द­प्यु­प­येा­गा-भा­वा­द­पी­त्या­हे­त्यर्थः ।
ननूपयोगाभावो न च श्रुतेन तदपबाधने इत्या­दि­ग्र­न्थे-नो­च्यते ततः पूर्वस्तु लभ्य­मि­त्य­न्त­ग्रन्थः संसर्गः श्रौतः भेदस्त्वार्थ इति ग्रन्थेन पुनरुक्त इत्याशङ्क्य तदनुवादकत्वमाह-
तत्रापीति ।
पूर्वो­क्त­वि­रो­धा­नु­वाद एवेति ।
श्रुति­वि­रो­धे­ना­र्थि­कस्य बाध्यत्वं यदुक्तं तस्या­र्थि­क­त्वो­क्ति­मु­खे­ना­नु­वाद इत्यर्थः ।
वाक्य­द्र­य­म­नु­मी­यत इति ।
श्रुत­क­ल्पि­ताभ्यां तेजो­वि­य­त्सृ­ष्टि­वा­क्याभ्यां तद्वित्वमनुमीयत इत्यर्थः ।
उप­सं­हा­रो­दा­ह­र­णा­न्त­रा­भि­प्रा­य­मिति ।
उपसंहारे उदाहरणान्तरं तद्वायुमसृजतेति कल्प्यं वाक्यं तेन सह त्रित्वा­द्ब­हु­व­च­न­मि­त्यर्थः ।
विय­दु­त्प­त्त्य­भ्यु­प­ग­मे­नेति ।
सिद्धा­न्त्ये­क­दे­शिनं प्रति प्रति­ज्ञा­हा­नि­र­व्य­ति­रे­का­दि­ति­त्युक्तां विय­दु­त्प­त्ति­म-भ्यु­प­ग­मय्य सत्यं दर्शितं विरुद्धं तु तदित्यादिना श्रुति­वि­प्र­ति­षे­ध­वा­दिनं पूर्व­प­क्षि­ण­मु­त्थाप्य तन्निराकरणे प्रस्तुते सिद्धा­न्त्ये­क­दे­शिनं प्रति वक्तव्यस्य वियदुत्पत्तौ हेत्वन्तरस्य कथ­न­मि­हा­सं­ग­त­मि­त्यर्थः । यदि तु अपि च च्छान्दो­ग्य­इ­त्या­दि­भा­ष्य­ग्रन्थो वियदुत्पत्तौ हेत्व­न्त­र­प्र­ति­पा­द­नार्थो न भवति किंतु प्रस्तुते विय­त्ते­जः­प्रा­थ­म्य­श्रु­ति­वि­प्र­ति­षे­ध­नि­रा­क­रण एव । पूर्वं हि छन्दोगश्रुतेः तैत्ति­री­य­श्रु­त्य­नु­व­र्त­न­म­र्थतः श्रुते­र्ब­ली­य­स्त्वात् श्रुति­वि­रो­धा­भा­वा­त्क्र­मेण पदा­र्थ­बा­धा­यो­गाच्च समर्थितम् इदानीं छन्दोगश्रुत्या वियदुपसंहारस्य स्वय­मे­वा­पे­क्षि­त­त्वा­दपि तदनुवर्तनं समर्थ्यत इत्येवं यदि व्याख्यायेत तदा प्रस्तु­त­ग्र­न्थे­नै­वै­क­वा­क्य­तेति न सिंहा­व­लो­कि­त­न्या­या­पे­क्षेति द्रष्टव्यम् ।
पराधीनसत्ताका इत्यर्थ इति ।
नन्वेवं- सत्यविद्यावदेव वियतोऽपि स्वतः सत्ता­रा­हि­त्ये­ना­ध्य­स्त­त्व­मात्रं सिध्यति न कार्यत्वमिति- चेत् मा सैत्सी­दि­तोऽ­नु­मा­नात् कार्यत्वं संभूतश्रुत्या हि तत्सिद्धिरभिमता । किमर्थं तर्हीदं सूत्र­सू­चि­त­म­नु­मा­नम् संभू­त­श्रु­ति­गौ­ण­त्वा-पा­द­का­सं­भ­व­श­ङ्का­नि­रा­क­र­णार्थं तथैव च भाष्ये सूत्रमवतारितम् असंभवशङ्का च सम­वा­यि­का­र­णा­द्य­भा­व­प्र­युक्ता पूर्वो­त्त­र­का­ल­यो­र्वि­शे­षा­भा­व­प्र­युक्ता वाऽध्य­स्त­त्व­सिद्धा निवर्ततएव अध्यस्तरजतादिषु रज­ता­व­य­व­त­त्सं­यो­गा­द्या­र­म्भ­काऽ­न­पे­क्ष­णाद् अध्यस्तस्य ज्ञान­नि­व­र्त्य­त्व­नि­य­मेन निवृ­त्त्य­न­न्त­र­का­ल­इ­वो­त्प­त्ति­पू­र्व­का­लेऽपि विय­त्कृ­त­वि­शे­षा­भा­वो­प­प­त्तेश्च । उत्प­त्ति­रा­हि­त्या­नु­मा­नानि तु हेत्व­सि­द्ध­प्र­यो­ज­क­त्वा-दि­दो­ष­प­रा­ह­ता­नीति स्पष्टमेव । अवि­द्या­दा­वि­त्या­दि­श­ब्देन षडस्माकमनादय इत्यु­क्त­जी­वे­श्व­रा­द्य­न्त­र­सं­ग्रहः ।
ननु जीवेश्वरौ स्वरूपतः सत्यौ न परा­धी­न­स­त्ता­का­विति तयो­र्व्य­भि­चा­र­ता­द­व­स्थ्य­मि­त्या­श­ङ्क्याह-
जीवे­श्व­रा­द्य­पीति ।
आदिशब्देन वैरा­जा­द्यै­श्व­र­रू­पा­न्त­र­सं­ग्रहः । विभा­ग­वि­शि­ष्ट­रूपं विना स्वरु­प­मा­त्र­वि­व­क्षायां तु तत्र धर्मि­स­म­स­त्ता­क­वि­भा­ग­रूपो हेतुरपि नास्तीति न व्यभिचार इति द्रष्टव्यम् ।
आत्मान्यत्वे सतीत्यस्य हेतुविशेषणत्वे विशे­ष्यां­श­वै­य­र्थ्य­मा­शङ्क्य विभ­क्त­त्व­हे­त्व­सि­द्धि­प­रि­हा­रा­र्थ­त्वेन योजयति-
नन्वद्वैतवादिन इति ।
आत्मवादे चेति ।
आत्मवादे चात्मनो निरा­क­र­ण­श­ङ्का­नु­प­प­त्ति­रिति यदेतद्भाष्यं तत्रात्मवादे चेत्ये­त­दु­पा­दा­न­वादे चेत्येतत्परतया व्याख्ये­य­मि­त्यर्थः । आत्मवादे चेत्येतदनन्तरम् उपादानवादे चेति प्रति­प­द­नि­र्दे­शेन टीकायां दर्शिते इत्यर्थः । क्वचि­दा­त्म­त्वा­दे­वो­पा­दा­न-त्वा­दे­वेति व्याख्ये­य­मि­त्यर्थ इति पाठो दृश्यते स पाठ आत्मत्वादेव चात्मनो निरा­क­र­ण­श­ङ्का­नु­प­प­त्ति­रिति भाष्य­पा­ठ­म­नु­सृत्य तस्मिन् पाठे टीकायामात्मवादे चेति स्वकीयस्यैव शब्द­स्यो­पा­दा­न­वादे चेति विवरणं तेन भाष्य­स्थ­मा­त्म­त्वा­दिति पद­मु­पा­दा­न­त्वा­दि­त्य­र्थकं व्याख्ये­य­मि­त्य­र्था­त्सू­चितं भवतीत्यर्थः ।
यथा भवतामिति ।
न्यायमते क्षीरमविनष्टं न दध्याकारेण परिणमते किं त्वव­य­व­सं­यो­ग­ना­शात् क्षीरे नष्टे तदा­र­म्भ­क­प­र­मा­णुषु रसान्तरोत्पत्तौ सत्यां द्व्यणु­का­दि­प्र­क्रि­यया दधि­रु­प­द्र­व्या­न्त­रा­रम्भ इति। तथै­वा­क्ष­पा­द­सूत्रं- न पयसः परिणामो गुणा­न्त­र­प्रा­दु­र्भा­वाद् व्यूहान्तराद् द्रव्या­न्त­रो­त्प­त्ति­द­र्शनं पूर्व­द्र­व्य­नि­वृ­त्ते­र­नु­मा­न­मिति। दध्यविनष्टस्य पयसः परिणामो न भवति तद्र­स­वि­रु­द्ध­र­सा­न्त­र­प्रा­दु­र्भा­वा­दिति प्रथमसूत्रार्थः । घटपटादिषु सर्वत्र कुतश्चिद् द्रव्याद् द्रव्या­न्त­र­स्यो­त्पत्तिः व्यूहा­न्त­रा­द­व­य­व­सं­यो­गा­न्त­रा­दिति दृश्यते तदे­त­त्पू­र्व­द्र­व्य­नि­वृत्तौ क्षीर­वि­ना­श­स्या­नु-मा­पकं क्षीरावयवानां संयोगान्तरं पूर्व­सं­यो­ग­वि­नाशं विना न संभवति तद्विनाशे च क्षीर­वि­ना­शोऽ­व­श्य­म्भावी अस­म­वा­यि­का­र­ण­वि­नाशे सति कार्य­स्थि­त्य­सं­भ­वा­दिति द्विती­य­सू­त्रार्थः॥७॥
इति प्रथमं वियदधिकरणम् ॥

एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
प्रधा­ने­नाऽ­प्र­धा­न­बा­ध­मु­क्त्वेति ।
यथा स्वर्ग­का­म­वा­क्येन प्रधानेन को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेत्यप्रधानस्य फलसंदेहवाक्यस्य बाधस्तथेति भावः ॥८॥
इति द्वितीयं मात­रि­श्व­व्या­ख्या­ना­धि­क­र­णम् ॥

असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति न चास्य कश्चिद् जनिता न चाधिपः इति श्रुत्यो­र्वि­रो­धा­द­प्रा­मा­ण्य­मिति पूर्वपक्षे प्राप्ते सिद्धा­न्त्ये­क­दे­शि­म­त-रू­प­त­द्व्या­व­र्त­क­पू­र्व­प­क्षा­न्त­र­प्र­द­र्शकं भाष्यं शङ्को­त्त­र­त्वे­ना­व­ता­र­य­ती­त्याह-
भास्करोक्तेति ।
सन्मात्रं हि ब्रह्मे­त्या­दि­भा­ष्यस्य सत्सामान्यं ब्रह्मोत्पद्यते चेत्स सामा­न्या­न्त­रा­दु­त्प­द्यते सद्विशेषादसतो वेति विक­ल्प­त्र­य­नि­रा­सा­र्थत्वं प्रतीयते टीकायां त्वेतदुक्तं भवतीति तत्ता­त्प­र्य­व­र्ण­न­मु­प­क्र­म्या­न्य­दे­वो­च्यते कथ­म­न­यो­र्व्या­ख्या­न­व्या­ख्ये­य­भाव इत्याशङ्क्य यथा­श्रु­त­भा­ष्य­व्या­ख्या­नार्थो न भवति टीकाग्रन्थः किंतु भाष्या­श­य­स्थ­यु­क्त्य­न्त­र­वि­व­र­ण­पर इति द्योत­य­न्न­व­ता­र­यति-
अपि च विवर्त्तता हीति ।
ब्रह्म कार्यमिति हि वदन् प्रष्टव्य इति ।
यद्यपि कार्यत्वं विवर्तत्वं चेत्सद्रूपस्य ब्रह्मणः कार्यत्वमेव न संभ­व­ती­त्यै­क­ध्येन दूषणं वक्तुं शक्यम् तथापि प्रपञ्चार्थो विकल्पः ।
न द्वितीय इत्याहेति ।
आरम्भपरिणामयोः परं समा­न­स­त्ता­क­यो­रु­पा­दा­नो­पा­दे­य­भावः न तु विवर्त इत्याशयः ।
न तृतीय इत्याहेति ।
यथा­श्रु­त­भा­ष्य­प्र­ती­त­तृ­ती­य­वि­क­ल्प­नि­रा­क­र­णार्थ एव नाप्यसत इति भाष्यग्रन्थः स्ववि­क­ल्पि­त­तृ­ती­य­प­क्ष­नि­रा­क­र­णा­र्थ­त्वे­ना­प्या­वृत्त्या टीकाकारैर्योजित इति भाव: ।
अत्र तु विकारस्य सतो ब्रह्मण इति ।
यत्कारणं तत्कार्यमिति नियमेन ब्रह्मणः कारणाभ्युपगमे तदपि कारणं तेनैव नियमेन कार्यं स्यात् कार्यं च विव­र्त­रू­प­मि­त्यु­क्तम् । ततश्च ब्रह्मणः कार­ण­स­द्भा­वोक्तिः समारोपिते क्वचित्तस्य समारोप इत्य­र्थ­प­र्य­व­सिता भवेत् समारोपिते समारोपश्च क्वचिदपि न प्रमित इत्य­प्रा­मा­णि­क­मि­त्यर्थः ।
नन्वसति समारोपो न संभवतीति माध्य­मि­क­म­त­नि­षेधे समर्थितं न तु समारोपिते समारोपो न संभवतीत्यत आह-
माध्यमिकेति ।
तत्र हि यथा शुक्ति­के­य­मि­त्य­न्य­त्त­त्त्व­म­न­धि­गम्य प्रत्यक्षावगतं रजतं न निषिध्यते एवं प्रत्य­क्षा­दि­प्र­मितः प्रप­ञ्चोऽ­न्य­द­धि­ष्ठा­न­त­त्त्व­म­न­धि­गम्य निषेद्धुं न शक्यते अधि­ष्ठा­न­त्वा­व­ग­म­क­बा­ध­क­प्र­मा­णा­नु­दये प्रत्यक्षादीनां प्रामा­ण्या­वि­घा­तेन तैरेव स्ववि­ष­य­नि­षे­ध­म­स­ह­मा­नै­र्वि­रो­धात् । अतो बाध­क­प्र­मा­णा­व­ग­म्येन तात्त्वि­का­धि­ष्ठा­नेन भाव्य­मि­त्यु­प­पा­दि­तम् । इदमुपपादनमसति समारोपस्येव समारोपिते समारोपस्यापि निषेधकं भवतीति भावः ।
अपरमार्थवचन इति ।
समारोपितवचन इत्यर्थः । अनेन च निर­धि­ष्ठा­न­भ्र­म­प­र­म्प­रा­ना­दि­ते­त्या­हेति प्राची­न­टी­का­ग्र­न्थेऽपि निरधिष्ठानशब्दः समा­रो­पि­ता­धि­ष्ठा­न­पर इत्य­र्था­द्व्या­ख्या­तम् ।
अध्याहारः क्लेश इति ।
स्वमते सतो ब्रह्मणः असंभवः उत्पत्त्यभाव उत्प­त्त्य­नु­प­प­त्ते­रिति सूत्रयोजना । अत्रा­बु­द्धि­स्थस्य कस्यापि नाध्याहारः प्रति­ज्ञा­हा­नि­र­व्य­ति­रेका (ब्र. अ. २ पा. ३ सू. ६) दित्यत्र यदव्यतिरेकः कृत्स्नस्य जगतोऽनूदितः तत्सद्रूपं ब्रह्म बुद्धिस्थम् । विय­न्मा­त­रि­श्वनोः सम­र्थि­तो­त्प­त्ति­रपि इह निषे­ध्य­बु­द्धिस्था सैवाऽ­नु­प­प­त्ते­रि­त्य­त्राऽ­नु­प­प­द्य­माना प्रतियोगिनी बुद्धिस्थेति। परमते तु गुणादिकं नित्यत्वं चाबुद्धिस्थम् अद्वि­ती­य­श्रु­ति­र­प्यु­त्प­त्ति­वद् नाव्य­व­हि­त­बु­द्धि­स्थेति तदध्याहारक्लेशः । पूर्वाधिकरणार्थ एवात्राक्षिप्यत इति। पूर्वा­धि­क­र­णा­क्षे­प­स­मा­धा­ना­र्थ­त्वा­स­ङ्ग­ति­रेव संगतिरिति भावः ।
पूर्व­प­क्षा­भा­सेति ।
आकाशस्य ताव­द­नु­त्प­त्ति­र्न्या­य­शा­स्त्रा­दि­सिद्धा भूगोलकादीनामपि न कदाचिदनीदृशं जगदिति सर्ग­प्र­ल­या­न­भ्यु­प­ग­न्तृ­मते प्रसिद्धा । एव­मु­त्प­त्ति­र­हि­त­त्वेन प्रसि­द्धा­ना­मा­का­शा­दी­ना­मु­त्प­त्त्य­भि­धानं सर्व­का­र्यो­प­ल­क्ष­णा­र्थ­मिति नैक­दे­शो­पा­दा­न-वै­यर्थ्यं न चेत­र­प­रि­सं­ख्या­न­मिति स्पष्टमेव । अतो न पूर्वा­धि­क­र­णा­क्षे­पा­व­काश इति भावः ॥९॥
इति तृती­य­म­सं­भ­वा­धि­क­र­णम् ॥

तेजोतस्तथा ह्याह ॥ १० ॥ अत्र पूर्व­प­क्ष­सं­भा­व­ना­र्थ­मिति सिद्धा­न्त्ये­क­दे­शि­म­त­मिह पूर्वपक्षत्वेन व्यपदिष्टम् । तत्तेजोऽसृजत वायोरग्निरिति श्रुत्योर्विरोध इति पूर्वपक्ष: प्रागेव द्रष्टव्यः ।
तदी­य­षो­ड­श्या­ख्येति ।
षोडशिपात्रस्य खादि­र­त्व­म­प्यू­र्ध्व­पा­त्रा­न्त­रे­भ्योऽ­धिकं यूप­सा­दृ­श्य­म­स्तीति विशिष्य षोड­शि­पा­त्र­ग्र­ह­णम् । एवं च वाजपेयाङ्गत्वेन विधीयमानस्य सप्त­द­शा­र­त्नि­त्वस्य साक्षा­द्वा­ज­पे­या­ख्य­या­ग­क्रि­या­न्व­याऽ­यो­गा­त्त­द­ङ्ग­त्व­नि­र्वा­हार्थं वाज­पे­या­न्व­य्य­र­त्नि­सं­ब­न्ध­यो­ग्य­कि­ञ्चि­द्र­व्या­पे­क्षायां यूपस्य वाज­पे­या­न­न्व­यि­त्वात् षोडशिपात्रस्य प्रदे­य­सेा­म­र­स­धा­र­ण­द्वारा वाज­पे­या­न्व­या­त्त­त्सं­बन्धः सप्त­द­शा­र­त्नि-त्वस्य वाज­पे­या­ङ्ग­त्व­श्रु­त्याऽ­र्थ­प्रायो गौणेन यूप­श­ब्दे­ना­नु­द्यत इत्यर्थः ।
तदङ्गगतयूप इति ।
वाजपेयाङ्गभूता ये पशवस्तद्गते तदङ्गे यूपे सप्त­द­शा­र­त्नित्वं विधीयते । वाजपेयस्येति शब्दस्तु तस्य प्रक­र­ण­प्रा­प्त­वा­ज­पे­य­सं­ब­न्धा­नु­वा­दकः । यद्य­पी­ति­क­र्त­व्य­ता­का­ङ्क्षा­ल­क्ष­ण­प्र­क्र­र­णेन तस्य वाजपेयसंबन्धो न प्राप्नोति वाजपेयाङ्गगतस्य तस्य तदि­ति­क­र्त­व्य­ता­का­ङ्क्षा­पू­र­क­त्वा­भा­वात् तथा­प्य­धि­का­र-ल­क्ष­ण­प्र­क­र­णात् तस्य वाजपेयेन परम्परासंबन्ध: प्राप्नोतीति स वाज­पे­य­स्ये­त्य­ने­ना­नू­द्यत इति भाव: ।
वास्त­वाऽ­भे­दा­दिति ।
वायौ कारणत्वेनानुगतं यद् ब्रह्मरूपं तद­भि­प्रा­य­मि­द­म­भे­द­क­थ­नम् न तु विका­रां­शा­भि­प्रा­यम् । अध्यस्तस्य तस्य तात्त्वि­क­ब्र­ह्मा­भे­दा­यो­गात् वायुभावापन्नस्य ब्रह्मण एव तेजः­क­ल्प­ना­धि­ष्ठा­न­त्व­स्या­नु­पदं वक्ष्य­मा­ण­त्वाच्च ।
पञ्च­म्य­नु­ग्र­हा­येति ।
वायोरिति पञ्चम्या वायोस्तेजसि मृदो घटइवोपादानत्वं प्रतीयते तच्च वायु­रु­प­वि­का­रा­नु­ग­तस्य ब्रह्म­णोऽ­धि­ष्ठा­न­त्व­ए­वो­प­प­द्यते न विका­रा­न्त­रा­नु­ग­तस्य केवलस्य वेति भावः ।
तद्भावापन्नेति ।
तत्रा­धि­ष्ठा­न­त्वेन सत इत्यर्थः ।
लोके कस्य­चि­च्छि­ष्य­स्येति ।
अधिकश्च गुणः साधा­र­ण्येऽ­वि­रो­धात् कांस्य­भो­जि­व­द­मु­ख्येपी (जै. अ. १२ पा. २ सू. ३४) ति पूर्व­त­न्त्रा­धि­क­रणे चिन्तितम्- आग्रयणे आग्ने­यै­न्द्रा­ग्ना­दयो यागाः श्रुताः । तत्र द्यावापृथिव्य एककपालोऽपि श्रुतः स च वैश्व­दे­व­प­र्व­ग­तै­क­क­पा­ल­या­ग­प्र­कृ­तिक इति ततः प्रसूनं बर्हिः प्राप्नोति प्रसूनं पुष्पितं लूनं पुनर्जातं वा । आग्नेयादीनां तु प्रसूनमप्रसूनं वेत्यनियतं बर्हिः । तत्रा­ग्ने­या­दीनां मुख्य­त्वा­त्त­द­नु­रो­धे­ना­नि­यमे प्राप्ते सिद्धान्तः । प्रसू­न­ब­र्हि­रु­पा­दा­नेपि मुख्या­ना­म­प्या­ग्ने­या­दीनां न किंचिद्वैकल्यम् । अप्र­सू­न­ब­र्हि­रु­पा­दाने त्वेक­क­पा­ल-स्यास्ति वैकल्यम् अतस्तमनुरुध्य प्रसूनमेव बर्हि­रु­पा­दे­य­मिति अत्र सूत्रकृता दृष्टान्तीकृत: कांस्यभोजिन्याय इह विवृतः ॥१०॥
इति चतुर्थं तेजोधिकरणम् ॥

आपः ॥ ११ ॥ अति­दे­शा­धि­क­र­ण­मि­दम् । एत­स्मा­ज्जा­य­त­इ­त्यु­प­क्रम्य खं वायुर्ज्योतिराप इति श्रुत्या ब्रह्मजत्वमपां प्रतीतम् । आग्नेय इति कार­क­प­ञ्च­मी­श्रुत्या तेजोयोनित्वं तच्छ्रु­त्यो­र्वि­रोध इति पूर्वपक्ष: । स इदं सर्व­म­सृ­ज­ते­त्या­दि­ब­हु­श्रु­त्य­नु­सा­रेण पञ्चमी क्रमार्थेति श्रुत्योरविरोध इत्येकदेशिमतम् । ब्रह्म­ते­ज­सो­र्वा­स्त­वाऽ­भे­दा-त्ते­जो­यो­नि­त्वेऽपि ब्रह्म­ज­त्व­म­वि­रु­द्धम् । तस्मादापः कारकपञ्चम्या तेजोयोनय इत्यधिकरणशरीरं सर्व पूर्ववत् । अधि­का­श­ङ्का­नि­रा­स­प्र­का­र­माह-
अत्रिवृत्कृतेति ।
अत्रि­वृ­त्कृ­त­यो­र­प्ते­ज­सो­र्वि­रो­ध­ग्रा­ह­क­प्र­मा­णा­भा­वा­द­वि­रु­द्ध­त्व­सिद्धिः ॥
इति पञ्चममबधिकरणम् ॥

पृथि­व्य­धि­का­र­रू­प­श­ब्दा­न्त­रेभ्यः ॥ १२ ॥ ता अन्नमसृजन्त अद्भ्यः पृथिवी इति श्रुत्यो­र्वि­रोधः । अपां व्रीहियवादीनां च वाच­क­यो­र­न्य­त­र­ल­क्ष­णायां विनि­ग­म­ना­वि­र­हा­दिति पूर्वपक्षे सिद्धा­न्त्ये­क­दे­शि­मतं पर­म­सि­द्धा­न्त­व्या­व­र्त­नी­य­त्वा­त्पू­र्व­पक्ष इति टीकायां व्यवहृतम् । अत्र व्युत्प­त्ति­प्र­सि­द्ध­यो­र्भे­द­माह-
योगवृत्त्येति । रूढ्येति च ।
साभ्या­स­पृ­थि­वी­श्रु­त्येति ।
अद्भ्यः पृथिवी पृथिव्या ओषधय इत्ये­क­स्मि­न्प्र­क­रणे पृथि­वी­श­ब्द­द्व­य­श्र­वणं यदपां शर इति श्रुत्यन्तरे पृथि­वी­श­ब्द­श्र­वणं चाभ्यासोक्त्या संगृहीतं वर्ष­नि­मि­त्त­ब­हु­भा­वा­प­त्ति­लि­ङ्गा­न्य­थो­प­प­त्ति­प्र­द­र्श­कम् ।
अन्य­था­प्यु­प­प­त्ते­रि­त्ये­तद् व्याचष्टे-
अन्यथा पार्थि­व­व्री­ह्या­दि­प­र­त्वे­ना­प्यु­प­प­त्ते­रिति ।
व्रीह्मादीनां पार्थि­व­त्वा­त्ते­षा­मद्भ्यो जननोक्त्या पृथिव्या एवाद्भ्यो जननमुक्तं भवतीत्यर्थः । अन्यथा पृथि­वी­प­र­त्वे­ना­प्यु­प­प­त्ते­रिति पाठेऽ­प्य­त्रै­वार्थे पर्यवसानम् ॥१२॥
इति षष्ठं पृथिव्यधिकरणम् ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
ईक्ष­त्या­द्य­धि­क­र­णै­रिति ।
ईक्षत्यधिकरणे श्रुतत्वाच्चेति (ब्र. अ. १ पा. ४ सू. १६) सूत्रे स करणाधिपाधिप इति श्रुतिमुदाहृत्य परमेश्वरस्य जगत्कारणत्वं प्रसाधितम् आनन्दमयाधिकरणे च तद्धे­तु­व्य­प­दे­शा­च्चेति (ब्र. अ. १ पा. १ सू. १४) सूत्रे इदं सर्वमसृजत यदिदं किंचेति श्रुतिमुदाहृत्य तत्र जग­त्क­र्तृ­त्व­लि­ङ्ग­स­म­न्वयो दर्शित: बालाक्यधिकरणे (ब्र. अ. ३ पा. २ सू. ३६) च यो वै बालाकि: एतेषां पुरुषाणां कर्ता यस्य चेतत्कर्म स वै वेदितव्य इति श्रुतिमुदाहृत्य तत्र तत्समन्वयो दर्शितः । कर्तृत्वं च सक­ल­का­र­का­न्त­र­प्र­यो­क्तृ­त्वम् । तेन पर­मे­श्व­रा­न­धि­ष्ठि­तानां भूतानां स्रष्टृ­त्व­नि­षेधो लब्धः । साक्षाच्च सांख्याधिकरणेन (ब्र. अ. १ पा. ४ सू. १) प्रधानस्य चेत­ना­धि­ष्ठा­ना­भावे जग­द्र­च­यि­तृ­त्वा­सं­भवो मृदा­दि­दृ­ष्टा­न्तेन समर्थितः । स न्यायो भूतेष्वपि तुल्यः । यद्यपि तस्य न्यायस्य पाशु­प­ता­द्य­धि­क­रणो (ब्र. अ. पा. २ सू. ३७) क्तप्रतिन्यायैः पराहत्या स्वातन्त्र्येण नार्थसाधनक्षमता तथापि श्रुति­म­नु­ग्राह्य प्रमाणं प्रविष्टस्य तस्य वन­प्र­वि­ष्टृ­सिं­ह­न्या­येन बल­व­त्वा­त्सा­स्त्येव शरणम् । एव­मी­क्ष­त्या­द्य­धि­क­र­णै­र्ग­तार्थः ।
इत्या­श­ङ्का­म­प­न­य­न्निति ।
इत्थ­मा­श­ङ्का­प­न­यनं यथात्मन आकाश इत्यत्रात्मनः स्वात­न्त्र्य­मे­व­मा­का­शा-द्वा­यु­रि­त्या­दि­ष्व­प्या­का­शा­दीनां स्वात­न्त्र्य­मु­ते­श्व­र­पा­र­त­न्त्र्य­मिति यदिह विचार्यते नेदमन्यत्र विचारितं किंतु स्वात­न्त्र्य­पू­र्व­पक्षे यदी­क्ष­त्या­द्य­धि­क­र­णेषु भूतानां ब्रह्मा­धि­ष्ठि­ता­ना­मेव कारणत्वं स्थितं यच्चा­न्त­र्या­म्य­धि­क­रणे (ब्र. अ. १ पा. ३ सू. १८) साक्षाद् ब्रह्मणः सर्वनियन्तृत्वं स्थितं यच्च तेजोत (ब्र. अ. २ पा. ३ सू. १७) इत्यधिकरणे तत्त­द्भू­ता­त्म­नाऽ­व­स्थि­तस्य ब्रह्मण एवो­त्त­रो­त्त­र­का­र्यो­पा­दा­नत्वं स्थितं तस्य सर्व­स्या­प्य­ने­ना­क्षेपो भवतीति विशेषः ।
पूर्वपक्षमाहेति ।
आका­श­द्वा­यु­रि­त्या­दि­श्रु­तेर्य आकाशे तिष्ठ­न्नि­त्या­दि­श्रु­ते­श्चा­का­शा­दि­स्वा­त­न्त्र्य-पा­र­त­न्त्र्य­वि­ष­य­तया विरो­द्धे­ना­प्रा­मा­ण्य­मिति पाद­सं­ग­त­पू­र्व­पक्षे प्राप्ते सत्ये­क­दे­शि­म­त­रूपं पूर्व­प­क्ष­मा­हे­त्यर्थः ।
आका­शा­दि­श­ब्दै­रिति ।
यथा आत्मन आकाश इति स्वतन्त्रे ह्यात्मनि पञ्च­म्य­र्था­न्वयो दृश्यते तथाऽऽ­का­शा­दि­त्या­दि­प­ञ्च­म्य­न्तो­क्ता­ना­मपि तत्प्रायपाठेन स्वात­न्त्र्य­म­व­ग­म्यते । न चाऽचेतनानां स्वात­न्त्र्या­सं­भवः । तत्त­द­भि­मा­नि­दे­व­ता­र्थ­प­रि­ग्र­हात् यमाकाशो न वेदे­त्या­दि­श्रु­ति­ष्वा­का­शा­दि­श­ब्दानां देवतापरत्वस्य दृष्टत्वात् तत्तेज ऐक्ष­ते­त्या­दि­च्छा­न्दो­ग्य­श्रु­ता­वी­क्ष­ण­लि­ङ्गेन तेजः­श­ब्द­स्या­प्य­भि­मा­नि­दे­व­ता­प­र­त्वस्य वक्त­व्य­त्वे­ना­त्रापि तथा­त्वौ­चि­त्या­च्चेति भावः ।
यथाऽऽ­का­शा­द्या­त्म­नेति ।
समुच्चयोपमेयं बाह्यादिषु ब्रह्मस्वरूपेण नोपादानम् आका­शा­दि­त्या­दि-प­ञ्च­म्य­न्त­प­दै­स्त­त्त­द­भि­मा­नि­दे­व­ता­प­दा­ना­म­धि­ष्ठा­तृ­रू­प­नि­मि­त्त­त्वस्य प्रतिपाद्यतया तैरा­का­शा­द्य­नु­ग­तस्य ब्रह्मण उपा­दा­न­त्वाऽ­प्र­ति­पा­द­नात् किंतु स्ववि­का­र­ज­डा­का­शा-दि­भू­त­रू­पेण । नापि स्वरू­पे­णा­धि­ष्ठातृ तत्त­द­भि­मा­नि­दे­व­ता­ना­म­धि­ष्ठा­तृ­त्वा­व­ग­मात् ऐश्वर्यवतीनां च तासां स्वात­न्त्र्यो­प­पत्तेः किंतु तत्त­द­भि­मा­नि­दे­व­ता­त्म­ने­त्यर्थः ।
एवं च सोऽका­म­य­ते­त्या­दि­श्रुतौ ब्रह्मणो यत् सर्वत्र कार्ये कर्तृ­त्व­मु­पा­दा­नत्वं च श्रुतं यच्चा­न्त­र्या­मि­ब्रा­ह्मणे तस्या­का­शा­दि­ष्वपि नियन्तृत्वं श्रुतं तद्वि­रो­ध­मा­शङ्क्य परिहरति-
ननु सोऽका­म­य­ते­त्या­दिना ।
मूलकारणस्य च ब्रह्मण इति ।
अत्र मूल­का­र­ण­त्व­वि­शे­षेण ब्रह्मणः सर्वो­पा­दा­न­त्व­मपि मूल­का­र­ण­त्वा-त्पा­र­म्प­र्ये­णेति दर्शितम् ।
अभि­मा­नि­दे­व­ता­द्वा­रे­णेति ।
आकाशमन्तरो यम­य­ती­त्या­दि­वा­क्य­मा­का­शा­धि­ष्ठा­तृ­दे­व­ता­त्म­भा­वेन व्यवहितस्य ब्रह्मण आका­शा­दि­नि­य­न्तृ­त्व­प­रम् । यमाकाशो न वेदेत्यादिकं कर्तृ­क­र्म­भा­व­वि­रो­धेन स्वस्य स्ववे­द्य­त्वा­भा­व­प­र­मिति भावः ।
आका­शा­दि­श­ब्दै­रिति ।
आकाशादिशब्दानां चेतने तद­भि­मा­नि­दे­व­तायां च प्रयो­ग­स­द्भा­वेऽपि नोभयत्रापि शक्तिः प्रसि­द्धि­प्रा­चु­र्या­नु­सा­रेण तेषामचेतने शक्तिः देवतायां लक्ष­णे­त्यु­प­प­त्ता­वु­भ­यत्र शक्ति­क­ल्प­नाऽ­यो­गात् । एवं मनु­ष्या­दि­श­ब्दा­ना­मपि मनु­ष्य­त्वा­दि­जा­ति­मत्सु देहेषु शक्तिः तद­धि­ष्ठा­तृ­जी­वेषु लक्षणा । न चाका­शा­द्वा­यु­रि­त्या­दि­ष्वा­का­शा­दि­श­ब्दानां लक्षणायां कार­ण­म­स्ती­त्यर्थः ।
तत्र रूढतरत्वादिति ।
अपादाने पञ्चम्याहत्य विहिता प्रसिद्धतरा हेतौ तु ज्ञापकान्वेषणेन कथं­चि­त्स­म­र्थ­नीया न प्रसि­द्धे­त्यर्थः ।
भूता­त्म­ता­मा­प­न्न­स्यो­पा­दा­न­त्व­मु­क्त­मिति भ्रममपनुदतीति ।
आका­शा­दि­वि­का­र­रू­पेण तत्त­द्वि­का­रा­व­च्छि­न्न­रू­पेण वा ब्रह्मण उपा­दा­न­त्व­मु­क्त­मिति भ्रान्तिं निरा­क­रो­ती­त्यर्थः । न विकारात्मना विका­रा­व­च्छि­न्नेन वा पर­स्प­र­व्या­वृ­त्तेन रूपेणोपादानत्वं विवक्षितम् तस्योभयस्यापि कल्पितत्वेन व्याव­हा­रि­का­ध्या­सा­धि­ष्ठा­न­त्वा­यो­गा­त्सृ­ष्टि­नि­रू­प­ण­स्या­ध्या­रो­पा­प­वा­द-न्या­येन निर्वि­शे­ष­ब्र­ह्म­सि­द्धा­र्थ­ताया अस­कृ­दा­वे­दि­त­त्वे­ना­चो­पा­दा­नो­पा­दे­य­भा­व­स्या-धि­ष्ठा­ना­ध्य­स्त­भा­व­रू­प­स्यैव वक्तव्यत्वात् ।bअधिष्ठानं विव­र्ता­ना­मा­श्रयो ब्रह्म शुक्तिवत् ।bजीवा­वि­द्या­दि­कानां स्यादिति सर्वमनाकुलम् ॥bइत्याचार्यैः प्रागुक्तया रीत्या सक­ल­चे­त­ना­चे­त­न­प्र­प­ञ्च­वि­व­र्ता­धि­ष्ठानं सर्वविकारानुगतं यन्निर्विशेषं तेन रूपे­णा­का­श­वि­का­रा­नु­ग­तेन सता वायू­पा­दा­न­त्व­मि­त्या­द्यु­क्त­मिति समाधानार्थः । नन्वेवं सति आका­शा­दि­प­दा­ना­मा­का­शा­द्य­नु­गते ब्रह्मणि लक्षणा स्याद् लक्षणा चानुपदमेव निषिद्धा आत्मन आकाश इत्यादिषु प्रथ­मा­न्ता­ना­मा­का­शा­दि­प­दानां विकारपरत्वस्य दृष्ट­त्वा­त्प­ञ्च­म्य­न्ता­ना­मपि मुख्यवृत्त्या तत्परत्वमेव च युक्तमिति- चेत् उच्यते ब्रह्मण उपा­दा­न­त्वो­क्ति­रि­य­मा­र्थि­का­र्थ­वि­षया । आका­शा­द्वा­यु­रि­त्या­दि­श­ब्दा­र्थस्तु आका­श­वा­य्वा­दी­ना­मेव मृद्घ­ट­न्या­ये­नेा­पा­दा­नो­पा­दे­य­भा­व­स्त­स्मिन् कथिते तदा­का­शा­दि­वि­का­रा­नु­गतं ब्रह्म वाय्वा­द्य­धि­ष्ठा­न­मि­त्य­र्था­त्सि­ध्यति। अन्यथा सच्च­त्य­च्चा­भ­व­दि­त्या­दि­श्रु­त्यु­क्तस्य ब्रह्मणः सर्व­प्र­प­ञ्चा­ध्या­सा­धि­ष्ठा­न­त्व­स्या­नि­र्वा­हात् । इद­मा­का­शा­दि­त्या­दि­प­दानां मुख्यवृत्त्या विका­र­मा­त्र­प­रत्वं तत्त­द्वि­का­रा­नु­ग­तस्य ब्रह्म­णोऽ­धि­ष्ठा­न­त्व­स्या­र्थि­कत्वं च विव­र­णा­चा­र्यै­र्न्या­य­नि­र्णये वर्णितम् । तत्रे­द­म­धि­क­र­ण­मित्थं दर्शितम् - आका­शा­दी­ना­मु­त्त­रो­त्त­र­भू­तो­पा­दा­नत्वं पञ्च­म्य­न्त­प­दै­र्य­द­व­गतं तत्ता­व­द­न्याऽ­न­पेक्षं प्रतीयते तावतेव वायो­रु­पा­दा­ना­काङ्क्षा पूरणात् ।bव्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधना: ।bयवा­श्चै­व­म­त­स्तेषां मिश्रत्वं नावकल्पते ॥bइति न्यायाद् ब्रह्म­णोऽ­प्य­न्या­न­पेक्षं सर्वो­पा­दा­न­त्व­मा­का­शा­देव समुत्पद्यत इति साव­धा­र­ण­श्रु­त्याऽ­व­गतं तत्रा­न्य­त­रो­पा­दा­ने­न्य­त­र­प­दा­र्थ­बा­ध­प्र­स­ङ्गात् श्रुत­प­दा­र्थ­बा­ध­क­ल्प­ना­द्वरं धर्म­बा­ध­क­ल्प­न­मिति विय­द­धि­क­र­णो­क्त­न्या­येन नैरपेक्ष्यधर्मं बाधित्वा समुच्चयो ग्राह्यः । अतः पूर्व­पू­र्व­भू­ता­का­रा­पन्नं ब्रह्मो­त्त­रो­त्त­र­भू­तो­पा­दा­न­मिति। यद्य­प्या­चा­र्या­णा­म­प्य­य­म­र्थोऽ­भि­म­त­स्त­थापि वियदधिकरणेन गतार्थमालोच्य टीका­नु­सा­रे­णा­धि­क­र­ण­श­रीरं प्रकारान्तरेण दर्शितं विय­द­धि­क­र­ण­न्या­य­सि­द्ध­स्त्व­य­मु­पा­दा­न­स­मु­च्च­य­स्ते­जोत इत्यधिकरणएव सिद्धवत्कृत्य व्यवहृतः । अस्माभिस्तु चतु­र्म­त­सा­र­सं­ग्रहे टीकोक्तं न्याय­नि­र्ण­योक्तं चार्थं संयो­ज्या­धि­क­र­ण­श­रीरं दर्शितम् -bतत्त­द्भू­ता­का­रा­पन्नं सदितरजनकमिति कथं श्रुति­द्व­य­वै­श­साद् bव्योमादीनां पञ्चम्या हि श्वसनमुखजनिषु विदिता स्फुटं निरपेक्षता ।bतेषां स्वातन्त्र्यं चादुष्टं सत एव बहु­भ­व­न­दृ­शः­श्रु­ता­वु­प­व­र्ण­ना­दा-bका­शा­दे­वे­त्य­प्यन्या श्रुतिरिह समधिगमयते सतो निरपेक्षताम् ॥bबाधं नार्हन्त्येते सर्वे द्विवि­ध­व­च­न­स­म­धि­गता यतः खलु धर्मि­णःbस­न्त्वा­का­शा­श्चे­हा­सते न हि किमपि विनिगमकं तदन्यतरोज्झितौ ।bतस्माद्बाध्या तद्ध­र्म­त्वा­द्वि­य­द­धि­कृ­ति­क­थि­त­न­या­दियं निर­पे­क्ष­ताbभू­तानां तत्स्वा­तन्त्र्यं च स्थितवति यमयितरि परे न किञ्चन युज्यते ॥bभुज­ङ्ग­वि­जृ­म्भितं नामेदं वृत्तम् । अत्र पूर्व­प­क्ष­श्लेाके यदाकाशादीनां स्वातन्त्र्यं तच्छा­न्दो­ग्य­श्रु­ति­म­व­लम्ब्य निबद्धं तत्र तैत्ति­री­यो­क्त­वि­य­त्प­व­नो­प­सं­हारे तयोरपि तेजोजलयोरिव बहु­भ­व­न­वी­क्ष­णा­यु­क्त­वा­क्य­द्व­य­क­ल्प­नात् तैत्ति­री­य­श्रु­तिस्तु भूतानां न्याय­नि­र्ण­यो­क्त­नि­र­पे­क्षो­पा­दा­न­त्व­प्र­ती­ति­नि­र्वा­हा­र्थ­तया निवे­शि­ते­त्या­चा­र्यो­क्त-पू­र्व­प­क्ष­प्र­का­रा­द्भेद: ॥१३॥
इति सप्तमं तद­भि­ध्या­ना­धि­क­र­णम् ॥

विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ किं दृष्टोऽ­प्य­य­य­क्रम इत्या­दि­सि­द्धा­न्त­को­टि­प्र­द­र्शकं वाक्यं योजयनवतारयति-
घटादीनामिति ।
घटादीनां यो विप­री­तोऽ­प्य­य­क्रमो दृष्टः स भूतानामस्तु किमि­त्या­हे­त्यर्थः ।
अप्ययस्य क्रमा­पे­क्षा­या­मि­त्या­दि­सि­द्धा­न्त­ग्रन्थं तात्प­र्य­क­थ­न­पू­र्व­क­म­व­ता­र­यति-
सन्निधानेऽपीति ।
दृष्टा­नु­मा­ना­प­नी­ते­त्ये­तद् दृष्ट­प­द­स्या­नु­मा­नेा­प­नी­त­प­दस्य च कर्म­धा­र­य­मा­श्रित्य व्याचष्टे-
घटादौ दृष्टेनेति ।
ननु श्रुति­स­न्नि­हि­ता­दपि लौकिकक्रमः सन्निहिततर इत्ययुक्तं तथा सत्य­श्व­दा­न­नि­मि­त्तायां वारु­ण­च­तु­ष्क­पा­लेष्टौ श्रुतिसन्निहितं पौण्ड­री­केऽ­श्व­दानं न निमित्तं किंतु सुहृदादिभ्यः क्रियमाणं लौकिकमश्वदानं निमित्तमिति स्यात् । किं च लोकादरणे लोके दग्धपटादिषु समकालः कार्य­का­र­ण­यो­र­प्ययो दृष्ट इत्यक्रम एवात्र किं न स्यात् ।
यद्युच्येत श्रुतौ भूता­ना­मु­त्पत्तिः क्रमवती दृष्टेति तेषामप्ययेनापि क्रमवता भाव्यमिति तर्हि क्रमा­का­ङ्क्षो­त्था­प­क­त्वेन श्रुता­वु­त्प­त्ति­क्र­म­द­र्शनं प्राथमिकमिति श्रौतक्रम एव लौकिकक्रमाद् बुद्धि­स्थ­स­न्नि­धा­नेन सन्निहिततर इत्य­स्व­र­सा­द्धे­त्व­न्त­रो­क्ति­रि­त्य­व­ता­र­यति-
दृष्टेन क्रमेणेति ।
भूता­ना­म­प्य­य­क्र­मस्तु भूत­शु­द्धि­प्र­का­रेण द्रष्टव्यः । स यथा गन्धा­दि­प­ञ्च­गु­ण-सं­घा­त­रूपा पृथिवी प्रथमं गन्धापचयेन रसा­दि­च­तु­र्गु­ण­स­ङ्घा­ता­त्म­क­ज­ल­रू­प­ता­मा-प­द्यते ततो जलं रसाप्ययेन तेजेारूपतां तेजो रूपाप्ययेन वायुरूपतां वायुः स्पर्शा­प्य­ये­ना­का­श­रू­पतां ततः शब्द­त­न्मा­त्रा­प्यय एवाकाशाप्ययः । एवं रसा­दि­च­तु­र्गु­ण­स­ङ्घा­त­रुपं जलतत्त्वं प्रथमं रसाप्ययेन तेजो­रू­प­ता­मा­प­द्यत इत्यादि द्रष्टव्यम् । गुण­स­ङ्घा­ता­ति­रि­क्त­त­दा­श्र­य­द्र­व्या­भ्यु­प­गमे च पञ्चगुणा पृथिवी चतु­र्गु­ण­ज­ल­रू­प­ता­मा­प­द्यत इत्या­दि­क्र­मोऽ­नु­सं­धेयः ॥१४॥
इत्यष्टमं विपर्ययाधिकरणम् ॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
भूतो­त्प­त्ति­ल­य­शी­लनं हीति ।
यद्यपि तच्छीलनेन पूर्व­प्र­ल­य­पु­न:स­र्ग­म­ध्य­वर्ति कादाचित्कमेवेति निष्प्रपञ्चत्वं लभ्यते न त्वध्य­स्त­वि­य­दा­दि­प्र­प­ञ्च­मि­थ्या­त्व­प­रि­शी­ल­ने­नेव सार्वदिकं निष्प्रपञ्चत्वं तथापि स्थूल­ल­क्ष्या­भ्या­स­न्या­या­त्तत्र क्रमे­णेा­प­यु­ज्यते इति भावः । कथं बुद्धी­न्द्रि­या­णा­मु­त्प­त्ति­चि­न्तेति कर­ण­व्यु­त्प­त्त्या­श्र­य­णेपि मनः सर्वेन्द्रियाणि चेति श्रुतौ सर्व­श­ब्द­गृ­ही­तानां कर्मे­न्द्रि­याणां न संग्रह इति शङ्का अजहल्लक्षणया तेषामपि संग्रह इति समाधानार्थः ।
श्रुति­वि­रो­ध­प­रि­हा­रे­णेति ।
आत्मन आकाश इत्या­दि­श्रु­ते­रे­त­स्मा­ज्जा­य­त­इ­त्या­दि­श्रु­तेश्च भूते­न्द्रि­यो­त्प­त्ति-क्र­म­वि­षये विरोध इति पूर्वपक्ष: । आथ­र्व­ण­पा­ठ­क्र­मा­दि­न्द्रि­याणां प्रथममुत्पत्तिः छान्दोग्ये तेजसः प्रथमं श्रवणेऽपि तैत्ति­री­य­का­म्ना­त­वि­य­त्प­व­नो­प­सं­हा­रेण तेजः­प्रा­थ­म्य­स्येव तैत्तिरीयके वियतः प्रथमं श्रवणेऽपि आथ­र्व­णा­म्ना­त­म­न-इ­न्द्रि­यो­प­सं­हा­रेण विय­त्प्रा­थ­म्य­स्यापि बाधोपपत्तेः । न च- मनइन्द्रियाणां भौतिकत्वेन श्रुत­भू­तो­त्प­त्त्य­न­न्त­र­भा­वि­त्वस्य वक्तव्यतया पाठ­क्र­मा­द­र्थ­क्रमो बलीयानिति तेषां भूतानन्तरं निवेशो युक्त इति- वाच्यम् तेषा­मा­ह­ङ्का­रि­क­त्वेन भौति­क­त्वा­सिद्धेः । न च- यः प्राणः स वायुरिति प्राण­भौ­ति­क­त्व­श्र­व­णो­त्तस्य भूतानन्तरं निवेश: कार्य­स्त­त्प्रा­य­पा­ठा­न्म­न­इ­न्द्रि­या­णा­मपि भूतानन्तरं निवेशः स्यादिति वाच्यम् प्राणस्यार्थतः पाठक्रमबाधेन पश्चा­न्नि­वे­शेऽपि मनस इन्द्रियाणां च प्रायपाठरूपेण स्थानप्रमाणेन पाठ­क्र­म­बा­ध­ना­यो­गा­दि­त्ये­क­दे­शि­म­तम् ।
मनसोऽन्नमयत्वेन निर्देश इति ।
त्रिवृ­त्क­र­ण­रू­प­वि­का­र­क­थ­न­परे वाक्ये अन्न­म­य­त्व­नि­र्देशो मयटो विकारार्थत्वे लिङ्गमित्यर्थः । नन्वापोमय: प्राण इत्यत्र मयटो नास्ति विकारार्थत्वम् । अथाऽपां वायुरूपप्राणे कारणत्वं न सम्भवतीति तत्त्यागः तर्हि प्राक्सिद्धे मनसि प्रत्य­ह­म­श्य­मा­न­स्या­न्नस्य कारणत्वं न सम्भ­व­ती­त्य­त्रा­प्य­स­म्भ­व­स्तुल्यः । कथं च मन­सोऽ­न्न­वि­का­र­त्व­श्र­व­ण­मा­त्रेण सर्वे­षा­मि­न्द्रि­याणां भौतिकत्वसिद्धिः । उच्यते । वायुरूपः प्राणोऽपां मुख्यो विकारो न भव­ती­त्या­प्या­य­न­मा­त्रे­णाऽ­मुख्यं विकारत्वं मयडर्थ आश्रीयते न वाऽन्न­म­य­मि­त्यत्र तस्य मुख्या­र्थ­प­रि­त्यागे कारणमस्ति प्राक्सिद्धेऽपि मन­स्यु­प­चि­त­रू­पा­व­च्छिन्ने कारणत्वोपपत्तेः । दृश्यते हि प्राक्प्र­सि­द्धेऽपि तडागे वृष्टि­ज­ल­स्यो­प­चि­त­रू­पा­व­च्छिन्ने कारणत्वम् । एवं तेजोमयी वागित्यत्रापि मयटो मुख्य­वि­का­रा­र्थत्वं द्रष्टव्यम् । एवं वाङ्म­न­स­यो­र्भौ­ति­क­त्व­क­थनं स्थाली­पु­ला­क­न्या­ये­नो­प­ल­क्ष­ण­मि­त्य­न्ये­षा­म­पी­न्द्रि­याणां सांख्य­क­ल्पि­ता­हं­का­र-प्र­कृ­ति­क­त्वा­सं­भ­वाद् भौतिकत्वसिद्धिः ॥
इति नव­म­न्त­रा­वि­ज्ञा­ना­धि­क­र­णम् ॥

चरा­च­र­व्य­पा­श्र­यस्तु स्यात्त­द्व्य­प­देशो भाक्त­स्त­द्भा­व­भा­वि­त्वात् ॥ १६ ॥ प्रासङ्गिकीं संगतिमाह-
एवं ताव­त्त­त्प­द­वा­च्येति ।
पूर्वो­त्त­रा­धि­क­र­णयोः संगतिमाह-
यदी­न्द्रि­यो­त्प­त्ति­रिति ।
तन्मृतो देवदत्त इति पाठमाश्रित्य तदिति तस्मादित्यर्थ इति व्याख्यातम् । तस्मान्मृत इति पाठस्तु स्पष्टार्थः ।
देहेन सहेति ।
जीव­नि­त्य­त्व­श्रु­तीनां जीव­ज­न­न­म­र­ण­नि­मि­त्त­जा­त­क­र्म­श्रा­द्धा­दि­वि­धीनां च विरोधेन पूर्वपक्षे जात­क­र्मा­दि­वि­ध्य­न्य­था­नु­प­पत्त्या जीवस्य जनिरङ्गीकार्या । न च तत्र देह­ज­नि­र्नि­मित्तं मृतजातदेहेऽपि जात­क­र्मा­दि­प्र­स­ङ्गात् । तस्मा­ज्जी­व­नि­त्य­त्व-श्रु­तयो भाक्तत्वेन व्याख्येया इत्येकदेशिमतम् । तत्र श्राद्धा­दि­वि­धे­र­न्य-थो­प­पा­द­यि­तु­म­श­क्य­त्वात् जीव­नि­त्य­त्व­म­व­श्य­म­ङ्गी­का­र्यम् जात­क­र्मा­दि­वि­धीनां जीव­सं­यु­क्त­दे­ह­जन्म निमित्तं भविष्यतीत्येवं सिद्धा­न्त­य­ती­त्यर्थः ।
भक्तिश्च शरी­र­स्यो­त्पा­द­वि­नाशौ ततस्तत्संयोग इति टीकाग्रन्थं भक्तिश्च तत्संयोग इति व्यवहितान्वयेन शरी­र­स्यो­त्पा­द­वि­नाशौ स्त इति वाक्यभेदेन च योजयति-
भक्तिरित्यादिना ।
भक्तिश्च शरी­र­स्यो­त्पा­द­वि­ना­श­वतः संयोग इति पाठे त्वेकमेव वाक्यम् ॥१६॥
इति दशमं चरा­च­र­व्य­प­दे­शा­धि­क­र­णम् ॥

नात्माऽ­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः ॥ १७ ॥
कल्पा­द्य­न्त­यो­रु­त्प­त्ति­वि­ना­श­वा­निति ।
कल्पादौ पर­मे­श्व­र­सं­क­ल्प­मा­त्र­भवा अयोनिजा जीवा जन्मप्रभृत्येव कर्मा­नु­ष्ठा­न­शक्ता इति तत्त­दु­त्प­त्य­न­न्त­र­का­ला­नु­ष्ठि­त­सा­ध्व­सा­धु­क­र्म­प­र­म्प­रा­धीना तेषां भोगवैचित्री न पूर्व­क­ल्पा­नु­ष्ठि­त­क­र्मा­धी­नेति भावः ।
न शुद्धस्येति ।
शुद्धस्यैव स्वरूपेण प्रविलये मुक्ति­भा­क्त्व­मपि न स्यादिति भावः ।
अविभागस्येति च्छेद इति ।
विभागमङ्गीकृत्य सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नि­र्वा­हार्थं कार्य­त्वा­ङ्गी­कारे च कल्पा­दा­वु­त्प­न्नानां भोगे वैचित्र्यं न स्यात् । प्राथ­मि­क­सा­ध्व­सा­धु­क­र्म­क­र­णस्य तद्वै­चि­त्र्य­हे­तुत्वे च तत्करणस्य पूर्व­क­ल्पा­नु­ष्ठि­त­क­र्मा­पे­क्ष­त्वा­भावे तैस्तैर्जीवैः प्रथमं साधून्यसाधूनि च कर्माणि कार­यि­तु­मी­श्व­रस्य वैष­म्य­नै­र्धृण्ये प्रसज्येयातां प्राथ­मि­क­क­र्मा­च­र­णे­षू­दास्ते पर­मे­श्व­र­स्त­द­नु­सा­रे­णो­त्त­रो­त्त­र­क­र्म­ण्येव कारयतीत्येवं तस्य सर्व­क­र्म­का­र­यि­तृ­त्व­व­च­नानां द्विती­या­दि­क­र्म­वि­ष­य­तया संको­च­क­ल्प­नेऽ­प्य­य­म-साधु कर्म करिष्यतीति जानत: परमेश्वरस्य कूपे बालकः पतिष्यतीति जान­त­स्त­त्प­रि­ह­र­णाऽ­श­क्त­स्ये­वौ­दा­सी­न्य­कृ­त­स्त­दु­भ­य­प्र­स­ङ्गोऽ­श­क्य­नि­रा­क­रणः । तस्मा­द­ना­दि­क­र्म­प­र­म्प­रा­श्र­य­णा­ज्जी­वा­ना­म­ना­दि­त्वस्य सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नस्य चोप­पा­द­ना­र्थ­म­वि­भाग एवाभ्युपेय इति भावः ॥१७॥
इत्येकादशं आत्माधिकरणम् ॥

ज्ञो ऽत एव ॥ १८ ॥
एवं ज्ञान­यो­ग्य­त्व­स्येति ।
ब्रह्मा­भे­द­वि­रो­धि­ष्व­नि­त्य­त्वा­स्व­प्र­का­श­त्वा­णु­त्व­स्वा­भा­वि­क­क­र्तृ­त्वेषु निरस्तेषु ज्ञात­त­द­भे­द­यो­ग्य­ता­क­स्ये­त्यर्थः । यद्यपि कर्ता शास्त्रा­र्थ­वत्त्वा (ब्र. अ. २ पा. ३ सू. ३३) दित्य­धि­क­र­णे­नो­प­पा­द­नीयं जीवगतं कर्तृ­त्व­म­ध्य­स्त­मि­त्ये­त­दे­वा­भे­द­यो­ग्य­ता-ज्ञा­नो­प­योगि न तु परात्तु तच्छ्रुते (ब्र. अ. २ पा. ३ सू. ४१) रित्यधिकरणे व्युत्पा­द­यि­ष्य­माणं जीवेश्वरयोः प्रव­र्त्य­प्र­व­र्त­क­त्व­मपि । तत्तु भेदसापेक्षं सद­भे­द­यो­ग्य­ता­वि­रो­धि­त्व­श­ङ्का­स्क­न्दितं काल्पनिकभेदेन कथंचिदुपपादनीयं तथापि तद्वि­ष­य­श्रु­ति­क­ल­होऽपि क्वचिद्वारणीय इति प्रसङ्गादत्रैव पादे तद्वारणं कृतम् । अतो मूला­धि­क­र­ण­स­ङ्ग­त्यैव प्रास­ङ्गि­का­धि­क­र­ण­म­प्यत्र सङ्गतमिति भावः ॥१८॥
इति द्वादशं ज्ञाधिकरणम् ॥

उत्क्रा­न्ति­ग­त्या­ग­ती­नाम् ॥ १९ ॥
अचलतोऽपीति ।
यद्य­प्य­व­य­व्यु­त्पत्तौ उत्क्र­म­ण­मू­र्ध्व­दे­शा­क्र­म­ण­रूपं चलत एव भवति तथापि जीववैभववादिनो जीवस्य तद­सं­भ­वा­दु­त्क्र­म­ण­श­ब्दस्य देहा­भि­मा­न­नि­वृ­त्ति­मात्रं मरणमिति तत्र रूढिं मन्यन्ते तदा­श­या­नु­रो­धे­ना­च­ल­तोपि तत्संभव इत्युक्तम् ।
सापादाना च सतीति ।
उत्का­न्ति­र्दे­हा­द­प­सृ­प्ति­रूपा साक्षा­द­णु­त्व­सा­ध­न­मि­त्यत्र गत्या­ग­ति­श्र­व­ण­मिव विश्ले­षा­व­धि­रू­पा­पा­दा­न­श्र­व­ण­मपि हेतु­स्त­त्स­मु­च्च­यार्थ इत्यर्थः ।
उत्क्रा­न्ति­र­पी­त्य­पि-श­ब्दस्य भिन्नक्रमतां विनो­त्क्रा­न्त्य­न्व­योपि घटते गत्या­ग­ति­व­दु­त्क्रा­न्ति­रपि गत्या­ग­ति­शि­र­स्क­त्वा­त्सा­पा­दा­न­त्वाच्च देहा­द­प­सृ­प्ति­रूपा सत्य­णु­त्व­सा­ध­न­मिति न केव­ल­मु­पा­दा­न­श्रु­ते­रि­त्या­दि­टी­का­ग्रन्थं योजयन्नेव तस्य तात्पर्यमाह-
चक्षुष इति ।
केव­ल­मु­त्क्रा­न्ति­र­णु­त्व­सा­ध­न­मि­त्ये­त­द­पा­दा­न­श्रु­ते­रेव न भवति किंतु हृदयादीनां गन्त­व्य­त्व­श्रु­ते­रपि । यद्यपि हृदयगमनं ततो जागरिते पुन: चक्षु­रा­दि­स्था­न­ग­मनं च साक्षा­द­णु­त्व­सा­धनं तथापि तथाभूतयेारेव पूर्वो­दा­हृ­त­ग­त्या­ग­त्येा­रु­त्क्रा­न्ते­र्दे­हा­द­प­सृ­प्ति­रू­प­त्व­ग­म­क­तया तस्य अणु­त्व­सा­ध­न-ता­सि­द्धा­वि­वा­न­यो­रपि तत्सि­द्धा­वु­प­योगो युज्यत इति तात्पर्यम् ।
सुषुप्तः पुनरिति ।
सुषु­प्त­श­ब्द­स्यो­त्त­र­वा­क्येऽ­न्वयः । न तु व्याप्नोति सुषुप्त इति पूर्ववाक्ये । स एव तास्तेजोमात्रा इत्यादिवाक्यं मुमूर्षुविषयं शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंस इति मन्त्रः सुषुप्तविषय इति भेदात् ॥१९॥२०॥२१॥
अत्र मात्रे­त्य­ध्या­हार इति ।
आराग्रमिति प्रथमान्ते आराग्रमिति मात्रे­त्यं­शा­ध्या­हार इत्यर्थः ॥२२॥२३॥
उक्तमार्गेणेति ।
त्वगि­न्द्रि­यो­दा­ह­रणे नेत्यर्थः ॥२४॥२५॥२६॥२७॥२८॥
तथा सति त्वग्जी­व­सं­यो­ग­स्या­पीति ।
महदल्पयोः संयो­गोऽ­ल्पा­नु­रो­धीति सिद्धा­न्ति­ने­वा­र्णो­र्जी­वस्य सक­ल­श­री­र-व्या­पिनीं वेदनां समर्थयमानेन पूर्वपक्षिणा वक्तुं न शक्यमिति भावः ।
ननु जीवमनःसंयोगस्य मनोऽ­नु­रो­धि­त्वेऽपि मन:सं­यु­क्ता­या­स्त्वचः सर्व­श­री­र­व्या­पि­त्वा-त्स­र्वा­ङ्गी­ण­शै­त्यो­प­ल­ब्धि­रि­त्य­युक्तं जीवमनःसंयोगवन् मनो­नु­रो­धि­त्वा­दि­त्या­श­ङ्कते-
ननु त्वङ्म­नः­सं­ब­न्धोऽ­पीति ।
दण्डवदिति ।
यथैकदेशे गृहीते दण्ड: पुरु­षे­णा­धि­ष्ठी­यते तथेत्यर्थः । ननु- जीवमनःसंयोगो ज्ञाना­स­म­वा­यि­का­रणं तस्य प्रादेशिकत्वे कथं ज्ञानं व्यापीति शङ्का­वा­र­णा­र्थम्- असमवायिकारणस्य प्रादे­शि­क­त्वेऽपि कार्य­म­प्रा­दे­शिकं तन्तुसंयोगस्य तन्त्वे­क­दे­श­स्थ­त्वेऽपि पटस्य तन्तु­व्या­पि­त्वा­दिति- केषु­चि­द्ग्र­न्थे­ष्व­धिकः पाठः । यद्य­प्य­न्तः­क­र­ण­म­ण्वि­त्या­दि­टी­का­वाक्यं तद्व्याख्यानं च- मनोऽणु तस्यात्मना संयोगश्च ज्ञाना­द्य­स­म­वा­यि­का­र­ण­मिति नैया­यि­क­प­क्ष-मा­श्रित्य यदि सिद्धा­न्ता­नु­सा­रेण पाञ्चभौतिकं मनः प्रदी­प­प्र­भा­व­त्सं­को­च­वि­का­स-शी­ल­त­त्सं­यो­गश्च नासमवायिकारणं तदा नैवात्र परिहरणीया शङ्काऽस्ति।
न चाणोरिति ।
न चाणोर्जीवस्येति पूर्व­वा­क्यो­क्त­मर्थं विवृणोतीत्यर्थः ।
नन्वत एव हीत्यादिग्रन्थो न युक्तः समीपे स्थितस्यैव गन्ध­व­द्द्र­व्य­स्येव शीतद्रव्यस्यापि सन्नि­हि­त­दे­श­स्थि­तस्य व्यापको गुण उपलभ्यत इति वक्तुं शक्य­त्वा­दि­त्या­श­ङ्क्याह-
न चात्रापि विप्र­ति­प­त्त­व्य­मिति ।
तत्प्रा­प­ण­वि­ष­य­मि­त्या­हेति ।
प्रापणग्रहणं सुषु­प्ते­र­प्यु­प­ल­क्षणं तथै­वा­ग्रि­म­भा­ष्य­द­र्श­नात् ॥२९॥३०॥३१॥३२॥
इति त्रयोदशम् उत्क्रा­न्त्य­धि­क­र­णम् ॥

कर्ता शास्त्रा­र्थ­व­त्त्वात् ॥ ३३ ॥
बन्ध­मो­क्षा­व­स्था­वि­ष­य­त्वे­नेति ।
बन्धा­व­स्था­या­मा­ध्या­मिकं कर्तृत्वं मोक्षावस्थायां स्वाभा­वि­क­म­क­र्तृ­त्व­मि­त्येवं विष­य­भे­दे­ने­त्यर्थः । यद्यपि जीव­स्या­ल्प­प­रि­मा­ण­व­त्क­र्तृ­त्व­मपि बुद्द्यु­पा­धि­क­मिति वक्तुं शक्यं तथापि शास्त्र­प्र­ति­पन्नं कर्तृत्वं किम­र्थ­म­स्वा­भा­वि­क­म­ङ्गी­क­र­णीयं बुद्धेरेव तत्स्वाभाविको धर्मः जीवस्त्वकर्तेति विषयभेदेन विरो­ध­प­रि­हा­रोऽस्तु । अथवा- जीवस्यैव संसारदशायां फलमुखकर्तृत्वं न मुक्ति­द­शा­या­म­व­स्था­भे­देन तत्प­रि­हा­रोऽ­स्त्विति शङ्का­द्व­य­नि­रा­क­र­णा­र्थोऽ­धि­क­र­ण­द्व­या­रम्भः ।
क्रियाश्रयत्व इति ।
क्रियावेशो हि विक्रियमाणस्य भवति विक्रियमाणस्य चानित्यत्वं नियतमिति भावः ।
ये इत्यस्य विशे­ष्य­म­ध्या­ह­रति-
सांख्या इति ।
अनित्यत्वं परिहरतीति ।
कर्तृ­त्व­स्या­ध्या­सि­क­त्वेन टीका­या­म­नि­त्य­त्व­प­रि­हारः कृतः ।
स्वयं सांख्यान् प्रति भोक्तृ­त्व­प्र­ति­बन्द्या परिहारान्तरमाह-
चित्स्वभावत्वं चेदिति॥३३॥३४॥३५॥
कोश­रू­प­बु­द्धे­र­भि­धा­ना­दिति ।
बुद्धि­रू­प­वि­ज्ञा­न­म­य­को­श­प­र्याये श्रुतस्य विज्ञानं यज्ञं तनुत इत्यस्य नात्म­क­र्तृ­त्व­सा­ध­क­ते­त्यर्थः ॥३६॥
अन्या­पे­क्षा­या­मपि स्वात­न्त्र्य­मु­प­पा­द­नी­य­मिति ।
न त्वन्याऽ­न­पे­क्षो­प­पा­द­नी­येति भावः ।
प्रकृ­त­स­ङ्ग­तेऽर्थे भाष्यं योजयति-
उपलब्धाविति ।
नित्य­चै­त­न्य­स्व­रू­पायां विषयोपलब्धौ ताव­न्ने­न्द्रि­या­द्य­पेक्षा नापि तद­पे­क्षि­त-ज­न्यो­प­ल­ब्ध्य­न्तरे उप­ल­ब्धे­रु­प­ल­ब्ध्य­न्त­रा­न­पे­क्ष­त्वात् किंतु नित्योपलब्धावेव विष­यो­प­र­क्त­रू­पा­याम् । न च तावता स्वात­न्त्र्य­व्या­घातः सर्वत्र कर्तु­रु­प­क­र­णा-पे­क्षा­द­र्श­ना­दि­त्य­स्मि­न्नर्थे भाष्यं योज्यमित्यर्थः ॥३७॥३८॥३९॥
इति चतुर्दशं कर्त्रधिकरणम् ॥

यथा च तक्षोभयथा ॥ ४० ॥
स आत्मा तथेति ।
स आत्मा तत्स्वभावस्येति शब्देनेाक्त इत्यर्थः ।
ननु स्वभा­वो­च्छे­दा­त्स्व­भा­विनो भावस्य नाशप्रसङ्ग इति धर्मनाशेन धर्मि­ना­शा­पा­द­न­म­यु­क्त­मि­त्या­शङ्क्य स्वभा­व­सि­द्ध­ध­र्म­नाशे धर्मिनाशः स्यादि­त्यु­प­पा­द­यति-
स्वभाविनि सतीति ।
परमार्थेति ।
पारमार्थिका शक्ति­र्मो­क्षेऽ­प्य­नु­व­र्तत इति वादिनां मत इत्यर्थः ।
भाष्ये कर्तृ­त्व­मा­त्र­स्येति ।
अह­ङ्का­र­पू­र्व­क­मपि कर्तृत्वं नोप­ल­ब्धु­र्भ­व­तीति भाष्ये कर्तृ­त्व­सा­मा­न्य-स्या­ह­ङ्का­रि­क­स्या­त्म­न्य­ध्य­स्तत्वं निषिध्यत इति प्रतिभाति न च तद्युक्तम् आत्म­न्या­ह­ङ्का­रि­क­क­र्तृ­त्वा­ध्या­स­स्या­ध्या­स­भाष्ये सम­र्थि­त­त्वा­दि­त्या­शङ्क्य चैत­न्य­क­र्तृ-त्व­स्यै­वा­त्म­न्य­ध्य­स­नी­य­त्वेन निषेध इत्याहेत्यर्थः । तथाविधत्वेनेति स्थाने तथा­वि­रु­द्ध­त्वे­नेति क्वचित्पाठः । तत्र तथा आत्म­न्य­भ्य­स­नी­य­त्वेन निषेधः कर्मकर्तृभावस्य विरु­द्ध­त्वा­दि­त्यर्थः ।
यदि बुद्धे­रु­प­ल­ब्धि­र्भ­वे­दिति ग्रन्थं व्याचष्टे-
बुद्धेः कर्त्र्या इति ॥४०॥
इति पञ्चदशं तक्षाधिकरणम् ॥

परात्तु तच्छ्रुतेः ॥ ४१ ॥ न चेश्वर इत्या­दि­टी­का­ग्र­न्थेन रागा­दि­र­हि­त­स्ये­श्व­रस्य साध्वसाधुकर्मसु प्रव­र्त­क­त्व­मे­वा­नु­प­प­न्न­मि­त्यु­क्त्य­न­न्त­र­स­मु­त्थि­त­श­ङ्का­न्त­र­नि­रा­क­र­णार्थं येन धर्मा­ध­र्मा­पे­क्ष­ये­त्या­दि­वाक्यं मध्ये शङ्कान्तरं विना तदनन्वयादिति मत्वा शङ्का­न्त­र­नि­रा­क­र­णा­र्थ­त्वेन योजयति-
तत्र प्रवर्तकत्वमेव तस्या­यु­क्त­मि­त्या­दिना ।
अनेन न चेश्वरः सन् कर्मपरतन्त्र इति युक्तं येन तस्य प्रव­र्त­नी­य­ध­र्मा­ध­र्मा­पे­क्षया साध्व­सा­धु­क­र्म­प्र­व­र्त­यि­तृ­त्व­व­वै­चि­त्र्य­मु­प­प­द्ये­ते­त्य­स्मि­नर्थे तद्वाक्यं योजितम् ।
विधि­प्र­ति­षे­ध­यो­रिति ।
ईश्वर एव विधि­प्र­ति­षे­ध­यो­र्नि­यु­ज्ये­तेति भाष्यस्येश्वर एव विधि­नि­षे­ध­शा­स्त्र­नि­योज्यः स्याद् न तु जीवो न स्वर्ग­का­म­ना­दि­मान् मनुष्य इत्यर्थः प्रतिभाति न तु सोर्थो युक्तः न हीश्वरस्य कर्माऽनपेक्षस्य जीव­प्र­वृ­त्ति­नि­वृ­त्ति­का­र­यि­तृत्वे तथा दोष आपद्यते किंत्वीश्वरस्य स्वतन्त्रत्वे स एव विधि­नि­षे­ध­स्था­ना­भि­षिक्तः स्यादित्येव दोष आप­द्य­तेऽ­त­स्त­था­र्थ­स्फू­र्तये भाष्ये स्थान इति पद­म­ध्या­ह­र­ती­त्यर्थः ॥४१॥४२॥
इति षोडशं परायत्ताधिकरणम् ॥

अंशो नाना­व्य­प­दे­शा­द­न्यथा चापि दाश­कि­त­वा­दि­त्व­म­धी­यत एके ॥ ४३॥ निर­ति­श­यो­पा­धि­सं­प­द्वि­भू­ति­यो­गा­दि­त्यस्य सक­ला­वि­द्यो­पा­धि­स­म्ब­न्धा­दि­त्यर्थः प्रतीयते सोऽर्थो न युक्तः जीवा­ना­मे­वा­वि­द्या­श्र­य­त्वाद् ब्रह्म­ण­स्त­द­ना­श्र­य­त्वा­दि­त्या-श­ङ्क्या­न्यथा व्याचष्टे-
अधिष्ठानेति ।
अनेनाधिष्ठाने ब्रह्मणि निरतिशयानां स्वकृ­त­दो­ष­रू­पा­ति­श­या­ना­धा­यि­ना-मु­पा­धीनां संपद् अवि­द्यो­पा­धि­वि­ष­यी­क­रणं यस्य तस्मा­द्वि­भू­ति­यो­गाद् अवि­द्या­दो­ष­कृ­तै­श्व­र्य­प­रि­च्छे­द­र­हि­त­पा­र­मे­श्व­र­रू­प­सं­पा­द­ना­दिति व्याख्यानं कृतम् । इत्थमपि व्याख्यातुं शक्यम् - उपाधिशब्देन मायोपाधिकृताः सृष्ट्यादिशक्तय उच्यन्ते ताश्च निरतिशया न तु जीव­श­क्ति­व­त्क­ति­प­य­सृ­ज्या­दि­वि­ष­य­त्वेन सातिशयास्तासां संपद्बाहुल्यं सैव विभूतिरैश्वर्यं तदयोगादिति। एवं च लेकेऽ­प्य­धि­क­श­क्तयो राजा­द­योऽ­ल्प­श­क्तीनां प्रजादीनामीशत इति दर्शनात्तथैव निर­ति­श­य­श­क्ति­शाली परमेश्वरो निकृ­ष्टो­पा­धी­ना­म­ल्प­श­क्तीनां देव­म­नु­ष्या­दि-जी­वा­ना­मीष्ट इति वाक्यार्थः परिनिष्पन्नो भवति। निर­ति­श­यो­पा­धि­सं­प­न्न­श्चे­श्वरो हीनो­पा­धि­सं­प­न्नान् जीवान् प्रशास्तीति भाष्य­स्या­प्ये­व­मे­वार्थः । अयमिह पूर्वपक्ष:- सन्ति तावज् ज्ञातृ­ज्ञे­य­ध्या­तृ­ध्ये­य­नि­य­म्य­नि­या­म­का­धे­या­धि­क­र­ण­भा­वा­दि­वि­षया भेदश्रुतयः । सन्ति चाभेदश्रुतयः । यथाऽऽ­थ­र्व­णि­कानां संहितोपनिषदि ब्रह्मसूक्ते ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कितवा उत स्त्रीपुंसौ सब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमानिति मन्त्रः । यथा वा श्वेता­श्व­त­रो­प­नि­ष­दा­दिषु त्वं स्त्री त्वं पुमानित्यादयः । न चोभ­य­वि­ध­श्रु­त्य­नु­ग्र­हाय भेदा­भे­द­प­चा­भ्यु­प­गमो युक्तः तस्य विरो­धा­दि­भि­र्दु­त्वात् ।
तस्मा­द­प्र­मा­ण­मेताः श्रुतय इति ।
अत्र टीकानुसारेण सिद्धा­न्त्ये­क­दे­शि­म­तम् - ईश्वर एव नास्ति। यतो जीवानां भेदाभेदचिन्ता तद्वि­ष­य­श्रु­त­यस्तु केवलमर्थवादा: भेद­प­क्षेऽ­भे­द­पक्षे भेदाभेदपक्षे च दोषदर्शनात् । न च तद्दोषपरिहाराय जीवा न सन्तीति वक्तुं युक्तम् तेषां प्रत्य­क्षा­दि­सि­द्ध­त्वात् । अतो जीवानामेव जात्यै­क्य­म­व­ल­म्ब्या­द्वि­ती­य­श्रु­तय- इति। भाष्यानुसारेण तु - भेदश्रुतयः स्वार्थपरा: पूर्वा­धि­क­र­ण­नि­र्णी­तस्य प्रव­र्त्य­प्र­व­र्त­क­भा­वस्य भेदापेक्षत्वात् स्वामि­भृ­त्य­यो­स्त­था­त्व­द­र्श­नात् अभेदश्रुतयस्तु चेत­न­त्व­सा­म्यै­क्य­नि­ब­न्धना उपचरितार्थाः अभेदे सुख­दुः­ख­वै­चि­त्र्या­नु­ज्ञा­प­रि­हा­रा­दे­र­नु­प­प­त्ते­रिति। एव­मी­श्व­रा­प­ला­पे­नैव सिद्धा­न्त्ये­क­दे­शि­मतं द्रष्टव्यम् ।
ननु क्रत्व­र्थ­ग्र­ह­णेन गोदो­ह­ना­दि­पु­रु­षा­र्थ­प्र­वृत्तिः पुरु­षा­भि­प्रा­या­नु­रो­ध्य­नु­ज्ञा­धी­ना­भ्यु­प­गता भवेदिति शङ्कां परिहरतीत्याह-
अपि च पुरुषार्थेऽपीति ॥५०॥५१॥५२॥५३॥
इति सप्तदशं अंशाधिकरणम् ॥
इति श्रीम­द्व­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि-श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले द्विती­या­ध्या­यस्य तृतीयः पादः ॥b॥इति द्विती­या­ध्या­यस्य पञ्च­म­हा­भू­त्-जी­व­श्रु­तीनां विरो­ध­प­रि­हा­रा­ख्य­स्तृ­तीयः पादः ॥

अथ द्विती­या­ध्या­यस्य चतुर्थः पादः ॥ तथा प्राणाः ॥ १ ॥ ब्रह्मवेदने सर्व­वे­द­न­प्र­तिज्ञा तदु­प­पा­द­क­श्रु­ति­वि­रो­धा­दिति टीकायां ब्रह्मवेदन इत्यस्य द्वन्द्व­स­मा­सा­न्त­र्ग­त­पू­र्व­प­दा­र्थ­भू­तया सर्व­वि­ज्ञा­न­प्र­ति­ज्ञ­याऽ­न्व­य­म­पे­क्षा­व­शेन दर्शयति-
कस्मिन्निति ।
कस्मि­न्स­ती­त्यर्थः ।
दोषा­त्त्वि­ष्टि­रिति ।
प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­यत् स स्वां देवतामार्च्छत् स पर्यदीर्यत स एतं वारुणं चतु­ष्क­पा­ल­म­प­श्यत् तन्निरवपत् ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रति­गृ­ह्णी­या­त्ता­वतो वारु­णां­श्च­तु­ष्क­पा­ला­न्नि­र्व­पेद् वरुणमेव स्वेन भागधेयेनोपधावति स एवैनं वरु­ण­पा­शा­न्मु­ञ्च­तीति तैत्तिरीया: समामनन्ति। अस्यार्थः- प्रजा­प­ति­र्व­रु­णाय प्रतिग्रहीत्रे अश्वमनयद् अददात् स प्रजापतिः स्वां देवतां प्रति­ग्र­ही­तृ­त्वेन स्वदेवताभूतं वरुणमार्च्छत् प्रापद् वरुणग्रहशब्दितः जलो­द­र­व्या­धि­युक्तो जातः तत्परिहारार्थं वारुणीं चतुष्कपालेष्टिं कृतवानिति।
एव­मु­प­क्र­मा­नु­सा­रे­णेयं दातु­रि­ष्टि­रि­त्यु­त्त­रा­धि­क­रणे स्थास्यन्तमर्थं सिद्ध­व­त्कृ­त्यै­त­द­धि­क­र­ण­प्र­वृ­त्ति­रि­त्याह-
ततो दान­नि­मि­त्ते­ष्टि­रिति ।
ननु उत्त­रा­धि­क­र­णा­र्थ­म­नु­पेक्ष्य योऽश्वं प्रतिगृह्णातीति यथा­श्रु­त­वै­दि­क­श­ब्दा-नु­सा­रेण लौकि­केऽ­श्व­प्र­ति­ग्रहे वैदिके वेत्ये­व­मे­त­द­धि­क­र­ण­प्र­वृत्तिः किं न स्यादि­त्या­श­ङ्क्याह-
न तु लौकिके इति ।
वैदिकत्वं वेदविहितत्वरूपं प्रतिग्रहे न संभवति। यद्यपि प्रति­ग्र­है­र्ब्रा­ह्मणो धनमर्जयेदिति निय­म­वि­धि­व्या­पा­रोऽस्ति तथा­प्य­श्व­प्र­ति­ग्रहे सोऽपि नास्ति नोभयतोदतः प्रतिगृह्णातीति तन्निषेधात् किं च शास्त्राद्धि वैदिके न दोषः स्यादिति वैदिके दोषाभावः स्मर्यते, न चाश्वप्रतिग्रहे दोषाभावोऽस्ति। अतो दानविषय एवायं विचार इति भावः ।
न केसरिण इति ।
सुहृदादिभ्यो राग­प्रा­प्त­म­श्व­दानं प्रतिषिद्धम्॥
प्राप्त­स्या­नु­वा­द­कोऽ­र्थ­वा­दो­य­मिति।
ननु अर्थ­वा­दोऽ­नु­प­पा­ता­दिति (जै. अ. ३ पा. ४ सू. ३५ ) सूत्रेण वरु­ण­ग्र­ह­श­ब्दो­र्थ­वाद एव अश्व­दा­न­प्र­यु­क्त­तया जलो­द­र­व्या­धे­र­नु­वा­दा­दि­त्यु­क्तम् इहापि सिद्धान्ते तथैवोक्तं कुतः प्राप्त­स्ये­दा­नी­म­नु­वादः कीर्त्यते । उच्यते । लोकप्राप्तस्य जलो­द­र­व्या­धे­रि­हा­नु­वादः वरुणो वा एतमश्वदातारं गृह्णातीति निर्दे­श­स्तू­प­मार्थः । अग्निमेव खलु वा एष प्रविशति योऽवा­न्त­र­दी­क्षा­मु­पै­ती­ति­वद् इव­श­ब्द­यो­गा­त्तत्र वाच्योपमा इह तु सामा­ना­धि­क­र­ण्य­नि­र्दे­शाद् गम्येति विशेषः । ततश्च जलोदरव्याधिमता तच्चि­कि­त्से­वाश्वं दत्त­व­ते­य­मि­ष्टि­र­वश्यं कार्येति सिद्धं भवति। किं च प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­य­दि­त्या­द्य­स­द­र्थ­वा­द­प्र­ती­तस्य दोष­स्या­श्व­दा­तृ­त्व-सा­मा­न्या­द­न्ये­ष्वपि प्राप्तस्य वरुणो वा एतं गृह्णा­ती­त्य­त्रा­नु­वाद इत्युपपद्यते । नन्वि­य­मि­ष्टिर्मा भूद्दो­ष­नि­र्घा­तार्था तथापि वैदिकइति कुतः लौकिकेऽपि वा लौकिकएव वा किं न स्यात् । उच्यते । न तावदुभयत्र भवितुमर्हति लौकिके पुरुषार्थत्वं वैदिके क्रतु­शे­ष­ते­त्ये­कस्य वाक्यस्य क्रतु­पु­रु­ष­शे­ष­ता­प्र­ति­पा­द­क­त्वेन वाक्य­वै­रू­प्य­प्र­स­ङ्गात् । नापि लौकिकएव वैदिकस्य नैमित्तिकस्य वैदिकं निमित्तं प्रत्यासन्नमिति तद्वि­हा­या­प्र­त्या­स­न्न­लौ­कि­क­ग्र­ह­णा­यो­गा­त्त­द्ग्र­हणे फल­क­ल्प­ना­गौ­र­व-प्र­स­ङ्गाच्च । अत­स्त­स्मा­द्यज्ञे प्रतीयेतेति युक्तः सिद्धान्तः ।
लौकिके धातु­सा­म्या­र्थ­मिति ।
वम­ने­ना­न्त­र्ग­त­दो­षनिः सर­णा­द्धा­तु­साम्यं भवतीति वमनोपायतया वैद्यके सोम­पा­न­मु­क्त­मस्ति तत्कृतं वमनं लौकिकं तस्मि­न्नि­त्यर्थः ।
धातु­सा­म्य­क­र­त्वान्न दोषतेति ।
धातुसाम्यार्थं वमने क्रियमाणे तात्का­लि­के­न्द्रि­य­शोषो भवति चेद्भ­व­त्वि­त्य­ङ्गी­कृ­त­त्वान्न दोष इत्यर्थः ।
मन्त्र­लि­ङ्गा­दिति ।
सोमरसं प्रति नाभिमतिक्रम्य मागा इत्यू­र्ध्व­मु­ख­त्व­नि­षे­ध­क­म­न्त्र-लि­ङ्गा­दि­त्यर्थः ।
नन्वनुत्पत्तौ तत्त्वा­न्त­र­त्वा­पा­द­न­म­यु­क्त­म­वि­द्या­दि­व­द­नु­त्प­त्ता­व­प्य-त­त्त्वा­न्त­र­त्वो­प­प­त्ते­रि­त्या­श­ङ्क्याह-
अविद्यादीति ॥२॥३॥४॥
इति प्रथमं प्राणो­त्प­त्त्य­धि­क­र­णम्॥

सप्त गते­र्वि­शे­षि­त­त्वाच्च ॥ ५ ॥
पूर्वपक्ष इति ।
यस्मा­त्स्थू­ला­त्सू­क्ष्माच्च शरीरात् त्वम्पदार्थो विवेक्तव्यः तस्मिन् भौतिके विषये श्रुति­वि­रो­ध­प­रि­हा­रा­र्थोयं पादः । तत्र सप्तैव प्राणा लिङ्ग­श­री­रा­न्त­र्ग­ता­स्तदा तेभ्य एव त्वम्पदार्थो विवेक्तव्यः एकादश चेद­न्ये­भ्योऽ­पीति प्रयो­ज­न­मि­त्यर्थः ।
ग्रहानतिशेरत इति व्युत्प­त्ति­मा­श्रि­त्या­ति­ग्र­ह­श­ब्दस्य विषयेषु वृत्तौ हेतुमाह-
रागोत्पादनेनेति ।
अपानइति च गन्ध इति ।
लक्षणयोच्यत इत्यनुषङ्गः ।
अपानेनेति ।
अपानशब्देन गन्धस्य लक्षणायां हेतुं तद्वा­च्ये­ना­प­श्वा­सेन कर­णे­ना­धे­य­त्व­रूपं संबन्धं श्रुतिरेव वदतीत्यर्थः ।
प्राणा­न्त­र­व्या­वृ­त्ति­रिति ।
अशीर्षण्यानां प्राण­त्व­व्या­वृ­त्ति­रि­त्यर्थः ॥६॥
उखा­धू­प­न­स्तु­ति­प­र­त्वा­दिति ।
तथा च ये शीर्षण्याः प्राणास्ते सप्तेति लोक­सि­द्धा­र्था­नु­वा­देन सप्तभिर्धूपनस्य स्तुतिरिति युक्तं न तु ये शीर्षण्यास्तएव प्राणा इत्य­लौ­कि­का­र्थ­प­र­त्व­मिति भावः ॥
तथापि सदनुवाद इति विशेष इति ।
ननु शीर्षण्याः प्राणाः सप्तेत्यपि सदनुवाद एव को विशेषः नेति ब्रूमः । वस्तुतश्चत्वार एव हि शीर्षण्याः प्राणा इति वक्ष्यते टीकायाम् । एक­स्मि­न्ना­सा­स्थि­व्य­व­हिते द्वित्वा­भि­मा­नान्न चक्षु­र्द्वि­त्वम् एकविनाशे द्विती­या­वि­ना­शा­न्नै­क­त्व­मि­त्य­क्ष­पा­देन पूर्वो­त्त­र­प­क्ष­सू­त्राभ्यां व्यवस्थापितं चक्षुर्द्वित्वं च दूषयिष्यते । इयमपरा योज­ने­त्या­दि­ग्र­न्थे­ने­न्द्रि­या­णा­मे­का­द­श­त्व­म­ङ्गी­कृ­त्यै­वो­त्क्रा­म-दि­न्द्रि­य­सं­ख्या­वि­ष­य­श्रु­ति­क­ल­ह­वा­र­णार्थं वर्ण­का­न्त­र­मा­र­ब्धम् ॥ तत्र सप्तै­वो­त्क्रा­मन्ति अन्यानि तु शरी­र­व­त्प्र­ति­जन्म जायन्त इति पूर्वपक्ष: । एका­द­शा­प्यु­त्क्रा­म­न्तीति सिद्धान्तः ।
अस्मिन् वर्णके पूर्व­व­र्ण­का­दु­त्कर्षं दर्शयितुं पूर्ववर्णके पूर्व­प­क्ष­सू­त्र­यो­ज­ना­क्लेशं पूर्व­प­क्षो­प­पा­द­नाय तद्वि­रु­द्ध­श्रु­ति­यो­ज­ना­क्लेशं च दर्शयति-
पूर्वयोजनायां हीति ।
वृत्ति­भे­द­वि­ष­य­त्व­क­ल्प­नेति ।
यद्यपि द्विती­य­व­र्ण­क­पू­र्व­प­क्षेऽपि ते यदाऽ­स्मा­च्छ­री­रा­न्म­र्त्या­दु­त्क्रा­म­न्त्यथ रोदयन्तीति श्रुते­र्वृ­त्ति­भे­द­वि­ष­य­त्व­क­ल्प­ना­क्ले­शोऽस्ति तथाप्यस्मिन् वर्णके स एक एवक्लेश: पूर्ववर्णके क्लेशत्रयमिति विशेषः ।
अध्या­त्मा­धि­दै­वि­को­पा­स­ने­ष्विति ।
अध्यात्मं वागा­दी­ना­म­धि­दै­व­म­ग्न्या­दीनां च सन्त्ये­को­पा­स­ना­द्व­ह्न्या­दि­श­री­र­प्रा­प्ति-फ­ल­कानि तेषु यानि शरी­रा­न्त­रेऽ­प्य­नु­व­र्त­मा­ना­नी­न्द्रि­याणि तान्येव तत्क्र­तु­न्या­या­दु­पा­स­नी­यानि । अत: पूर्वपक्षे सप्ता­ना­मु­पा­स­न­मे­का­द­शा­ना­मपि सिद्धान्त इति फलभेद: ॥६॥
इति द्वितीयं सप्तगत्यधिकरणम् ॥

अणवश्च ॥ १ ॥ द्वितीयवर्णकेन सङ्गतिमाह-
एकादशानां प्राणानामिति ।
पादसङ्गतिस्तु प्रासङ्गिकी श्रुति­क­ल­ह­नि­रा­सा­भा­वात्, सांख्य­वि­प्र­ति­प­त्ति­मा­त्र-नि­रा­सात् ।
परिच्छेदेति ।
अहमिहैवास्मीति परि­च्छे­द­भा­ना­दि­त्यर्थः ।
आधि­दै­वि­क­व्या­प­केति ।
यद्यपि व्यष्ट्यन्तः कर­ण­चै­त­न्य­सं­व­ल­न­रू­पा­स्म­दा­दि­व्य­ष्ट्य­ह­ङ्का­र­व­त्स­म­ष्ट्यन्तः कर­ण­चै­त­न्य­सं­व­ल­न­रूपः सम­ष्ट्य­ह­ङ्का­रोऽस्ति हैरण्यगर्भः स तु व्यापक इति वक्तुं शक्यम् तथापि सांख्या­भि­म­त­म­ह­त्प्रा­कृ­ति­के­न्द्रि­य­प्र­कृ­ति­भू­त­व्या­प­का­ह­ङ्का­र­स­द्भावे प्रमाणं नास्तीति तात्पर्यम् ॥७॥
इति तृतीयं प्राणा­णु­त्वा­धि­क­र­णम् ॥

श्रेष्ठश्च ॥ ८ ॥
आनीदित्यस्येति ।
सद­स­दा­त्म­क­स­क­ल­प्र­प­ञ्चा­भि­व्यक्त्या महा­प्र­ल­य­वि­ष­य­त्व­मा­नी­दि­त्य­स्या­व­ग­म्यत इत्यर्थः ॥८॥
इति चतुर्थं प्राण­श्रै­ष्ठ्या­धि­क­र­णम् ॥

न वायुक्रिये पृथगुपदेशात् ॥ १ ॥ एतस्माज्जायते प्राणः यः प्राणः स वायुरिति प्राण­वा­यु­भे­दा­भे­द­श्रु­त्यो­र्वि­रोध इति पूर्वपक्ष: । श्रुत्यो­र्वि­रोधे स्मृत्या तत्तात्पर्यं निर्णेतव्यमतः सांख्यस्मृत्या करणानां साधारणवृत्तिः प्राणो वायोर्भिन्न इति सिद्धा­न्त्ये­क­दे­शि­म­तम् ।
पदभाष्य इति ।
प्रति­प­द­वि­व­र­ण­रूपं छान्दोग्यभाष्यं पदभाष्यं तत्र वागा­दी­न्द्रि­य­प्रा­य-पा­ठा­त्प्राणो घ्राणमिति व्याख्यातम् इह तु प्राणश्रुति: प्राय­पा­ठा­द्ब­ली­य­सीति प्राणो मुख्यप्राण उक्त इत्यर्थः ।
कथंचिन्नयनं सिद्धान्तिनोऽपि तुल्यमित्याह-
त्वयाऽपि हीति ।
सिद्धान्तिनाऽपि हि वायुप्राणयोः स्वरूपाऽभेदे तत्त्वाऽ­भे­द­मा­श्रि­त्या­भे­द­श्रुतिः वृत्ति­त­द्व­द्भे­दा­भि­प्राया बाह्या­ध्या­त्मि­क­व्या­पा­र­द्वै­वि­ध्या­भि­प्राया च भेदश्रुतिरिति व्याख्यातव्यम् । अतः कथंचिद्योजनं तन्मतेऽपि समानमित्यर्थः ।
तर्हि किमिति ।
प्राणो न वायुमात्रं नापि वायो­स्त­त्त्वा­न्त­र­मिति सिद्धान्ते भेदा­भे­द­श्रु­त्यो­रु­भ­यो­रपि योजनायां क्लेशोऽस्ति चेत् तर्ह्यभेद इति प्रथमपूर्वपक्ष एव किमिति नाद्रियते तत्र हि भेद­श्रु­ति­मा­त्रस्य क्लेशेन योज­ने­त्या­श­ङ्कार्थः ।
परि­हा­रा­भि­प्रा­य­माह-
यदा त्विति ।
यदा प्रथमावस्थायां विरुद्धे श्रुती विनि­ग­म­ना­वि­र­हा­त्प­र­स्य­र­त्या­जि­तार्थे वर्तेते तदा लब्धप्रसरया स्मृत्या करणव्यापारः प्राण इति प्रतिपादिते श्रुती तत्परतया योज्येते तत्र भेद­श्रु­ते­र्यो­ज­नाया न कश्चन क्लेश: अभेदश्रुतिस्तु वायु­श­ब्द­स्यौ­प­चा­रि­क­त्व­क­ल्प­नया शक्ययोजना । अतः पूर्वं पश्चाच्च भेदा­भे­द­श्रु­ति­भ्या­म­भ­ग्न­स्वा­र्थ­स्मृ­त्य­नु­सा­रेण करणवृत्तिः प्राण इत्येव पूर्वपक्ष आद्रियत इत्यर्थः । प्रत्ये­क­मि­न्द्रि­याणां वृत्तिः प्राण इति विकल्पे टीकायां दूषणं नोक्तम् ।
तत्र स्वयं दूषणमाह-
प्रत्ये­क­वृ­त्तित्व इति ॥९॥१०॥
पुरुषार्थत्वात् पुरुषं प्रति पारतन्त्र्यमिति हेतु­सा­ध्य­यो­र­भे­द­शङ्कां परिहरति-
पुरु­षा­र्थ­त्व­मिति ।
परि­च्छे­द­धा­र­णा­दिति ग्रन्थे धार­ण­श­ब्दा­र्थ­माह-
धारणं मेधेति ।
परि­च्छे­दा­ह­र­णा­दीति पाठे ज्ञाने­न्द्रि­य­साध्यो रूपादिप्रत्ययः परिच्छेदः । हस्ता­दि­क­र्मे­न्द्रि­य­साध्य आहरणादिः ॥११॥१२॥
इति पञ्चमं न वायु­क्रि­या­धि­क­र­णम् ॥

अणुश्च ॥ १३ ॥
साम प्राण इति व्युत्पाद्येति ।
एष उ एव साम वाग्वै सा अम एष सा चामश्चेति तत्साम्नः सामत्वमिति पूर्ववाक्येन सामशब्द: प्राणे व्युत्पादितः ।
ननूभयमुभयत्र विषयः तत्र व्यापि­त्व­श्रु­ती­ना­मु­पा­स­ना­र्थ­त्व­हे­तु­र­व­श्चे­त्य­धि­क­रणे दर्शितः अस्मिन्नधिकरणे तु प्राण­व्या­प्ति­क­श्रु­ते­रा­धि­दै­वि­क­वि­ष­यत्वे हेतुरुच्यत इति विशेषमाह-
हेतुभेदस्य चाधि­क­र­णा­भे­द­क­त्वा­दिति ।
पूर्वपक्षे विशेषाभावे सैद्धान्तिक हेतुभेदमात्रेण नाधिकरणभेदो भवति ईक्ष­त्य­धि­क­र­णा­दिषु अधिकरणैक्येऽपि सैद्धा­न्ति­क­हे­तु­बा­हु­ल्य­द­र्श­ना­दिति भावः । स्वमते त्वण­व­श्चे­त्य­धि­क­र­ण­मि­न्द्रि­य­वि­षये सांख्य­वि­प्र­ति­प­त्ति­नि­रा­सा­र्थम् । इदमधिकरणं यद्यपि प्राणविषये श्रुति­वि­प्र­ति­प­त्ति­नि­रा­सा­र्थम् तथा­प्य­त्रै­के­न्द्रि­य-वि­ष­य­श्रु­ति­वि­प्र­ति­प­त्ति­नि­रा­सोऽ­प्य­र्था­त्सि­ध्यति। समः­प्लु­षि­णे­त्यादेः प्राणे तत्त­च्छ­री­रा­नु­रो­धि­सं­को­च­वि­का­स­प­र­त­यो­प­पा­द­नेन हि त्वगि­न्द्रि­य­स्यापि तथैव संको­च­वि­का­स­शा­लि­तया सर्वा­ङ्गी­ण­शै­त्यो­प­ल­ब्धि­क­र­ण­त्व­मि­त्य­र्था­त्सि­ध्यति। सम एभि­स्त्रि­भि­र्लो­कै­रिति प्राणे विभुत्वाम्नानं परम् आधिदैविकविषयतया योजनीयमिति तत्रा­धि­क­य­त्न­स­द्भा­वात् प्राण­प्र­धा­न­मि­द­म­धि­क­र­ण­मि­त्य­णु­श्चे­त्ये­क­व­च­नेन दर्शितमिति तात्पर्यम् ।
कुटो घट इति ।
घटः कुटो निवा­पोऽ­स्त्री­त्य­म­र­सिंहः । सम­ए­भि­स्त्रि­भि­र्लो­कै­रि­त्ये­त­दिति। समोऽनेन सर्वे­णे­त्ये­तत्तु न विभु­त्व­प्र­ति­पा­द­नै­का­न्ति­कम् प्लुषि­म­श­क­ना­ग-व्य­ति­रि­क्त­मपि यद्य­त्प्रा­ण्यस्ति तत्त­च्छ­री­रा­नु­कू­ल­सं­को­च­वि­का­स­शा­लि­तया तेन सर्वेणापि सम­मि­त्ये­व­म­र्थ­ताया अप्युपपत्तेरिति भावः ॥१३॥
इति षष्ठं श्रेष्ठा­णु­त्वा­धि­क­र­णम् ॥

ज्योति­रा­द्य­धि­ष्ठानं तु तदामननात् ॥ १४ ॥
न तु करणानामिति ।
ननु- यद्धी­त्या­दि­टी­को­क्त­स्यो­त्स­र्ग­स्ये­न्द्रि­येषु प्रवृ­त्ति­र्ब­ल­व­दु­प­पा­द­का­भा­वे­ना-भ्यु­प­ग­न्तु­म­युक्ता यश्चक्षुषि तिष्ठ­न्नि­त्या­दे­स्त­द­प­वा­द­कस्य सत्त्वादिति- चेत् सत्यम् ईश्व­रा­धि­ष्ठा­न­म­प­रा­मृ­श्यायं पूर्वपक्षः । अत एव सिद्धान्ते करणानि चेत­ना­धि­ष्ठि­ता­नी­त्य­नु­मा­न­स्ये­श्व­रेण सिद्ध­सा­ध­न­मा­शङ्क्य परिहरिष्यते । न चेश्वरेण सिद्धसाधनत्वम् ।
तदभ्युपगमे त्वयै­वो­त्स­र्ग­बा­ध­स्ये­ष्ट­त्वा­दिति ।
अथवा- उत्स­र्ग­स्ये­श्व­रा­धि­ष्ठि­त­त्वांश इवा­ग्न्या­द्य­धि­ष्ठि­त­त्वा­द्यंशे त्यागो न कार्यः ।
तत्र बल­व­त्प्र­मा­णा­भा­वा­दिति तात्पर्यम् । अत एव करणानि चेत­ना­धि­ष्ठि­ता­नीति सिद्धा­न्त्य­नु­मा­नस्य पूर्वपक्षे जीवा­धि­ष्ठि­त­त्वेन सिद्धसाधनत्वम् जीवस्य बल­व­त्प्र­मा­ण­व­शा­द­धि­ष्ठा­तृ­त्व­म­ङ्गी­कृ­त्या­नु­पदं वक्ष्यते-
न च तदस्ति जीव इति ।
यद्य­प्य­भि­म­ता­र्थ­ग्रा­ह­के­न्द्रि­य­म­नः­सं­यो­ज­न­त­द­ग्र­ह­णा­र्थ­च­क्षु­र्वि­स्फा­र­ण­श्रो­त्रा­व­धा­न­दा­ना­दिना जीव­स्ये­न्द्रि­या­धि­ष्ठा­तृ­त्व­म­नु­भ­व­सि­द्ध­मु­प­प­द्यते च तदि­न्द्रि­या­णा­म­ती­न्द्रि­य-त्वेऽपि तेषामभिमतार्थे ग्रहणाय नोदनकारिणीषु नाडीषु स्पार्श­ना­प­रो­क्ष­ज्ञा­नस्य तन्मू­ल­प्र­य­त्नस्य च संभवाद्, नाडी­गो­च­र­प्र­य­त्ने­नैव तन्नोदनीयानां श्वास­ज­म­ला­ना­मि­च्छया मोच­न­धा­र­ण­द­र्श­नात् अथ यो वेदेदं जिघ्रा­णी­त्या­दि­श्रु­त्य­नु­मतं च जीव­स्ये­न्द्रि­या­धि­ष्ठा­तृ­त्वम् तथापि जीवाधिष्ठानं न सार्वत्रिकम् । अनि­च्छ­तोऽ­प्य­न­भि­म­त­ज्ञा­ना­दि­द­र्श­ना­दिति तात्पर्यम् ।
न ह वै देवानिति ।
ननु अग्न्यादिदेवताः एत­दि­न्द्रि­य­सा­ध्य­पु­ण्य­फ­ल­भा­गिन्यः तद­धि­ष्ठा­तृ­त्वा-दि­त्य­नु­माने नास्त्या­ग­म­वि­रोधः । सत्यम् अप्रयोजकत्वं त्वनुमानस्य तदा भवति। आग­म­स्ता­व­दे­व­तानां पापफलं नास्तीति वदति ततश्च यथा तासां पाप­हे­तु­ज्ञा­न­क­र्म­का­र­यि­तृ­त्वेऽपि तथा­भू­त­ज्ञा­न­क­र्म­ता­श्र­य­त्वात् तदु­त्प­त्ता­वा­लो­का­दि­व-त्क­र­णा­नु­ग्रा­ह­क­तया सह­का­रि­मा­त्र­त्वाद् न तज्ज­न्य­पा­प­फ­ल­भा­गि­त्वम् एवं तज्ज­न्य­पु­ण्य­फ­ल­भा­गि­त्वा­भा­व­स्या­प्यु­प­पत्तेः । न च पुण्यमेवामुं गच्छतीति श्रुति­ब­ला­त्तासां तज्ज­न्य­पु­ण्य­फ­ल­भा­गित्वं शङ्कनीयम् न ह्येषा श्रुति­रि­न्द्रि­या­धि­ष्ठा­तृ­दे­व­तानां स्वस्वा­धि­ष्ठे­ये­न्द्रि­य­ज­न्य­ज्ञा­न­क­र्म­प्र­यु­क्त­पु­ण्य­फ­ल­भा­गित्वं ब्रवीति किंतु वाङ्ग­नः­प्रा­ण­रू­प­त्र्य­न्नो­पा­स­कस्य सार्व­त्म्य­फ­ल­प्रा­प्त्य­न­न्त­रम् आत्मा­न्त­र­ग­त­पा­प­फ­ला­नु­भ­व­प्र­सक्तौ तन्निवारणं करोति। अमुं त्र्यन्नो­पा­स­क­मु­पा­स­ना­जन्यं पुण्यमेव गच्छति न त्वात्मान्तरगतं पापमित्यनेन वाक्येन त्र्यन्नो­पा­स­कस्य पाप­प्रा­प्त्य­भावे प्रतिपाद्ये सामान्यमुखेन तत्समर्थनार्थं न ह वै देवानिति वाक्यं देवतामात्रमेव किमपि पापं न स्पृशति हिर­ण्य­ग­र्भ­व­दु­त्कृ­ष्ट­दे­व­ता­भावं प्राप्तं त्र्यन्नोपासकं किमपि पापं न स्पृशतीति किमु वक्तव्यमिति तदभिप्रायः । (तत्किमितीति मृत्युमतीत्य यत्प्राप तत्किमिति प्राप्य­वि­शे­ष­नि­र्द्धा­र­णार्थः प्रश्नः ।
सा यदे­त्या­दि­श्रुतिं तदुत्तरत्वेन व्याचष्टे-
उच्यत इति ।
अतिमुक्ता त्यक्तवती ।
अग्निरेवाभवदिति ।
एवं चाग्निभावः प्राप्य इत्युक्तं भवति।
दर्शनाय चक्षु­रि­त्य­स्या­भि­प्रा­य­माह-
न चैतन्यायेति ।
चैत­न्य­स्या­त्म­रू­प­त्वान्न तत्र चक्षुरपेक्षा किंतु चाक्षु­ष­वृ­त्ता­विति गूढोऽभिप्रायः ।
अमुमभिप्रायं विवरीतुम् अथ यो वेदे­द­मि­त्या­दि­श्रु­ति­वाक्यं तद्विवृणेति-
अथापीति ।
अथशब्दोऽप्यर्थे वर्तत इत्यर्थः ।
क इहाप्यर्थ इत्या­का­ङ्क्षा­या­माह-
दर्शनाद्यर्थं चक्षु­रा­द्य­पे­क्षा­या­म­पीति ।
अथ यत्रै­त­दा­का­श­मि­त्या­दि­वाक्ये चक्षुर्ग्रहणं सर्वे­षा­मि­न्द्रि­याणां दर्शनग्रहणं सर्वे­न्द्रि­य­ज­न्य­वृ­त्तीनां चोपलक्षणम् अतो- दर्शनादीति चक्षुरादीति चोभ­य­त्रा­प्या­दि­ग्र­ह­णम् ।
स्वतएव यो वेदेतीति ।
स्वस्व­रू­प­ला­भार्थं कारणमनपेक्ष्य यो वेदेत्यर्थः ।
स आत्मेति ।
वेदेत्यत्र प्रकृ­त्य­र्थ­भू­त­वे­द­न­स्व­रूप आत्मेत्यर्थः । यदि नित्या­त्म­स्व­रू­प­मेव वेदनं कुत्र तर्ही­न्द्रि­या­पेक्षा किंरूपं च वेदेत्यत्र प्रत्ययार्थभूतं वेदनं प्रति कर्तृ­त्व­मि­त्या­का­ङ्क्षायां गन्धाय घ्राणमिति वाक्यम् । तत्र गन्धशब्दो वृत्ति­रू­प­ग­न्ध­ज्ञा­न­पर इति व्याचष्टे-
तस्येति ।
एवं च गन्ध­वे­द­न­रू­प­चै­त­न्या­व­च्छे­द­क­वृ­त्त्यु­त्प­त्त्य­र्थ­मि­न्द्रि­या­द्य­पेक्षा तत्क­र्तृ­क­त्वो­पा­धिकं च तद­व­च्छि­न्न­स्व­स्व­रू­प­क­र्तृ­त्व­मि­त्युक्तं भवति) ॥१४॥१५॥१६॥
इति सप्तमं ज्योति­रा­द्य­धि­क­र­णम् ॥

त इन्द्रियाणि तद्व्य­प­दे­शा­द­न्यत्र श्रेष्ठात् ॥ १७ ॥ भेदश्रुतेरिति वैल­क्ष­ण्या­च्चेति सूत्र­यो­र्भा­ष्य­का­रै­र­सु­र­पा­प्म­वि­द्ध­त्वा­वि­द्ध­त्व­गो­चरा मृत्यु­प्रा­प्त­त्वा­प्रा­प्त­त्व­गो­चरा च द्विविधा भेद­श्रु­ति­रु­दा­हृता टीकाकारैस्तु द्विती­यै­वो­पात्ता न त्वाद्या तत्कि­मा­द्य­श­ङ्का­या­म­स्वा­र­स्या­दि­त्या­शङ्क्य- मृत्यु­प्रा­प्त­श­ब्दे­नै­वा­सु­र­पा­प्म-वि­द्ध­त्व­स्यापि संगृ­ही­त­त्वा­दि­त्याह-
मृत्यु­र्वा­गा­दीनां स्व विषयासङ्ग इति ।
असु­र­श­ब्दे­ना­सु­र­पा­प्म­वि­ध्व­स्ता­निति शब्देन ।
उक्ता­र्थो­प­पा­द­नार्थं मृत्यु­प्रा­प्ते­त्या­दि­टी­का­मु­पा­दाय श्रुति­द्व­य­म­प्यु­प­न्य­स्यति-
श्रूयते हीति ।
श्रूयत इत्यस्य विष­या­स­ङ्ग­व­त्त्व­मि­त्य­नेन संबन्ध: ।
त्वं न उद्गायेति ।
देवै­र्नि­यु­क्तायां वाचि यो भोग: अभिवदनलक्षणं फलं तद्देवेभ्य आगा­य­त्स­क­ल­दे­व­सा­धा­रणं गानेन सा वाक् संपादितवती तत्र यत्कल्याणं स्वर­व­र्णा­दि­भ्रं­श­र­हि­त­म­भि­रू­प­म­भि­व­दनं तदात्मने आगायादिति लिखि­त­श्रु­ति-भा­ग­स्यार्थः । आदिशब्देन तामभिद्रुत्य पाप्मना विध्य­न्नि­त्यन्तो वाक्यशेषः संगृहीत: । तानि मृत्यु­रि­त्या­दि­श्रु­त्य­न्त­रो­दा­ह­र­णेऽपि श्रूयत इत्यनुषङ्गः कार्यः । केषुचित्कोशेषु विष­या­स­ङ्ग­व­त्त्व­मि­त्यस्य तानि मृत्युरित्यस्य च मध्ये संश्राव्येति पदान्तरयुक्तः पाठो दृश्यते स न साधुरिव लक्ष्यते । यो वाचि भोग इत्या­दि­श्रु­ति­रु­द्गी­थ­वि­द्या­प्र­क­र­ण­गता तानि मृत्यु­रि­त्या­दि­श्रुतिः सप्ता­न्न­ब्रा­ह्म­ण­ग­तेति भेदात् ।
अर्थालोचनमिति ज्ञाने­न्द्रि­या­भि­प्रा­यम् । टीकायामन्ये त्वित्यादिना वृत्ति­का­र­म­त­मु­प­न्यस्तं तद्भाष्यकारमते सूत्र­यो­ज­ना­क्ले­शोऽ­स्ती­त्य­प­रि­तो­षा­दिति वक्तुं भाष्यकारमते सूत्रयोजनां दर्शयति-
भाष्यकारैर्हीति ।
न केव­ल­म­ध्या­हा­रा­पे­क्ष­त्वा­दिति ।
अनेन भेद­श­ब्दा­ध्या­हा­र­भि­ये­त्ये­त­त्प्र­ति­ज्ञायां तत्त्वा­न्त­रा­णी­त्य­ध्या­हा­र­भि­ये­त्ये­व-म­र्थ­तया व्याख्यातम् ।
घञ्प्रत्ययो भवतीति ।
घञ्प्रत्ययान्तो निपात इत्यर्थः ।
तन्मा­त्र­म­यु­क्त­मि­त्युक्तं भवतीति ।
वस्तुतस्तु- भाष्य­का­री­या­या­मा­द्य­सू­त्र­व्या­ख्या­या­म­यु­क्त­त्व­प्र­द­र्श­नार्थो न भवति वृत्ति­का­र­म­त­स्यो­प­न्यासः किंतु तस्यै­वा­यु­क्त­त्व­प्र­द­र्श­नार्थः । तस्मि­न्नु­प­न्य­स्य­मा­न-एव हि तदयुक्तत्वं स्फुटं प्रतीयते । तथाहि- संशयवाक्येन ताव­त्प्रा­ण­व्या­वृ­त्त­त्व­वा­गा­द्ये­का­द­शा­नु­ग­त­मि­न्द्रि­यत्वं सिद्धान्ते निर्वक्तव्यतया उपक्रान्तम् । अग्रे तु देहाधिष्ठानत्वे सति रूपा­द्या­लो­च­न­क­र­ण­त्व­मि­न्द्रि­य­त्व­मिति कर्मे­न्द्रि­ये­भ्योऽपि व्यावृत्तं निरुक्तम् । निष्प्रयोजनं वाऽधिकरणम् । यदि पूर्वपक्षरीत्या प्राणा­नु­ग­त­मि­न्द्रि­यत्वं निरुच्यते यदि वा सिद्धान्तरीत्या तद्व्यावृत्तम् उभयथापि हि नास्ति प्रयोजनम् । न हि वैशे­षि­क­शा­स्त्र­व­त्सा­ध­र्म्य­वै­ध­र्म्य­वि­चा­रार्था अस्य शास्त्रस्य प्रवृत्तिः । न च प्राण­स्ये­न्द्रि­यत्वे इन्द्रियेभ्य एव त्वम्पदार्थो विवेक्तव्यः अनिन्द्रियत्वे तु प्राणादपीति प्रयोजनभेदः शङ्कनीयः । न हीन्द्रि­ये­भ्योऽहं भिन्न इति त्वम्पदार्थो विवेक्तव्यः किंत्वन्धः काणो मूको बधिरः कुणिः खञ्ज इत्या­दि­रू­प­त­त्त­दि­न्द्रि­य­वि­शे­षा­भे­द­भ्र­म­नि­रा­सा­या­न्धा­दहं भिन्न इत्यादिप्रकारेण । अतः प्राण­द्वा­द­शा­ना­मि­न्द्रि­य­त्वेऽपि प्राणादपि त्वम्पदार्थस्य विवेकः कार्य एव । भाष्यकारीये तु पूर्वपक्षे प्राणा­द्वि­वे­क­व्य­ति­रे­के­णे­न्द्रि­येभ्यो विवेको न कार्यः । वृत्तिमतः प्राणा­त्त­त्त्वा­न्त­रस्य तद्वृ­त्ति­भ्य­स्त­त्त्वा­न्त­र­त्वस्य कैमुतिकन्यायेन सिद्धेः । पाणिनि स्मृतिमवलम्ब्य पूर्वपक्षोऽपि तुच्छः तामे­वा­व­ल­म्ब्ये­न्द्र­दृ­ष्टेषु विष­ये­ष्वि­न्द्र­जु­ष्टेषु भोग्ये­ष्वि­न्द्र­सृ­ष्टेषु घटा­दि­ष्वि­न्द्र­द­त्तेषु ग्रामादिषु चेन्द्रि­य­त्व­पू­र्व­प­क्ष­प्र­स­ङ्गात् इन्द्रि­य­श­ब्द­रू­ढि­म­व­ल­म्ब्या­ति­प्र­स­ङ्ग­प­रि­हारे तत एव प्राण­व्या­वृ­ते­रपि लाभात् सूत्र­यो­ज­ना­क्ले­श­भिया तुच्छा­धि­क­र­णा­र्थ­प­रि­ग्र­हस्तु वदा­न्य­गृ­हा­न्तः­प्र­वे­श­क्ले­श­भिया तद्द्वा­र­दृ­ष्ट­प­रि­ग्र­ह­तुल्यः । न च भाष्यकारमते सूत्र­यो­ज­ना­क्ले­शोपि । तथाहि- प्रति­ज्ञा­ध्या­हा­र­स्ता­व­द­सिद्धः । ते वागादयः श्रेष्ठादन्यत्र श्रेष्ठादन्ये तत्त्वा­न्त­रा­णीति सौत्रपटैरेव प्रतिज्ञालाभात् । भेद­श्रु­ते­रि­त्य­नेन पैान­रु­क्त्य­म­प्य­सि­द्धम् तद्व्य­प­दे­शा­दि­त्यस्य उत्प­त्ति­व्य­प­दे­शा­दि­त्ये-त­द­र्थ­क­त्वेन भेद­व्य­प­दे­शा­दि­त्ये­त­द­र्थ­क­त्वा­भा­वात् । उत्प­त्ति­व्य­प­देशः प्राणेऽ­प्य­स्तीति व्यभिचारवारणाय श्रेष्ठा­द­न्य­त्रेति हेतावपि विशेषणम् । इन्द्रियाणीति मनः सर्वेन्द्रियाणि चेत्ये­त­च्छ्रु­ति­ग­त­श­ब्दा­नु­क­र­णम् । तत्र इति­श­ब्द­मा­त्र­म­ध्या­ह­र्त­व्यम् । तथा च श्रेष्ठ­व्य­ति­रे­केण श्रेष्ठो­त्प­त्ति­व्य­ति­रे­के­णे-न्द्रि­याणि जायन्त इति शब्दे­नो­त्प­त्ति­व्य­प­दे­शा­दिति हेत्वर्थो भवतीति श्रेष्ठ­व्य­ति­रे­कोक्त्या श्रेष्ठो­त्प­त्ति­व्य­ति­रेक इन्द्रि­या­णा­मु­त्प­त्ति­व्य­प­दे­शो­क्ति­सा­म­र्थ्या­ल्ल­भ्यते । यथा सिंह­तु­ल्य­प­रा­क्रमो राजेत्यत्र राज्ञः परा­क्र­मो­क्ति­सा­म­र्थ्या­त्सिं­होक्त्या सिंहपराक्रमो लभ्यते । एवम्भूत एव हेत्वर्थो भाष्ये व्यप­दे­श­भे­दा­दि­त्य­नेन व्यप­दे­श­वि­शे­षा­दि­त्य­र्थ­केन विवक्षितः । अत एव कोऽयं व्यपदेशभेद इति प्रश्नपूर्वकं हेत्वर्थस्यैव विवरणमुत्तरत्र क्रियते न तु हेत्वर्थस्य प्रसाधनम् हेत्व­र्थ­स्व­रू­प­स्यैव प्रश्नदर्शनात् । अतः श्रेष्ठा­द­न्य­त्रे­त्ये­त­द्धे­ता­व­प्य­न्वेति इन्द्रि­या­णी­त्ये­त­द्धे­ता­वे­वा­न्वे­तीति। इदं सर्वं भाष्याभिमतमेव । तच्छ­ब्द­स्या­न­न्त­रो­क्त­प­रा­म­र्श­क­त्व­म­प्यु­प­प­द्य­त­एव न वियदश्रुते (ब्र. अ. २ पा. ३ सू. १) रित्या­र­भ्यो­त्पत्तेः प्रकृतत्वात्, तथा प्राणा: (ब्र. अ. २ पा. ४ सू. १) श्रेष्ठश्चे (ब्र. अ. २ पा. ४ सू. ८) ति सूत्रयोः प्राणे­न्द्रि­य­वि­ष­य­त­यापि तस्याः प्रकृतत्वात् । एतस्माज्जायत इति विव­क्षि­त­मू­ल­श्रु­त्यु­पा­त्त­त­याऽपि तत्प­रा­म­र्शो­प­प­त्तेश्च । तथा प्राणा इति सूत्रे हि विष­य­वा­क्य­सं­नि­हि­तो­प­मा­न­स्यापि तच्छब्देन परा­म­र्शोऽ­ङ्गी­कृतः । इहेन्द्रियाणीति सौत्र­श­ब्दे­नै­वो­पात्ते मूलश्रुतिवाक्ये तत्सं­नि­हि­त­प­रा­मर्शः सुतरामुपपद्यते । एतेन- प्राण इन्द्रियाणीति संज्ञाभेदमात्रं न तत्त्वा­न्त­र­त्व­सा­ध­क­मिति शङ्काऽपि- निरस्ता प्राणो­त्प­त्ति­व्य­ति­रे­के­णो­त्प­त्ति­क­थ­नस्य हेत्वर्थत्वात् । नन्वेवमपि श्रेष्ठा­द­न्य­त्रे­त्यस्य साध्यान्वितस्य हेता­व­व्या­वृ­त्त्याऽ­न्वयः हेता­वि­ति­श­ब्दा­ध्या­हा­र­श्चेति क्लेशोऽस्तीति- चेद् न पर­म­तेऽ­प्या­वृत्त्या तद­न्व­या­व­श्य­म्भा­वात् । टीकायां हि- तेने­न्द्रि­य­श­ब्देन तेषां वागादीनां व्यपदेशादिति हेतुरुक्तः स तु वागादीनामेव श्रेष्ठं वर्ज­यि­त्वे­न्द्रि­य­श­ब्देन व्यप­दे­शा­दि­त्य­व­धा­र­णा­पेक्षः अन्य­थे­न्द्रि­य­व्य­प­दे­शस्य प्राण­व्या­वृ­त्त­त्वा­प्र­तीतौ तत्प्र­वृ­त्ति­नि­मि­त्त­स्ये­न्द्रि­य­त्वस्य प्राणा­द्व्या­वृ­त्त्य­षिद्धेः । अत एव चाचा­र्यै­र्द­र्पणे सावधारणो हेतुरुपन्यस्तः- तेने­न्द्रि­य­शब्दे तेषामेव वृद्धव्यवहारे व्यपदेशादिति। एतेन- हेता­वि­ति­श­ब्दा­ध्या­हा­र­क्ले­शोऽपि- निरस्तः । परमतएव भेदश्रुते- (ब्र. अ. २ पा. ४ सू. ८) रित्य­धि­क­र­णा­न्त­र­सूत्रे वागा­दी­नी­न्द्रि­याणि श्रेष्ठा­त्त­त्त्वा­न्त­रा­णीति प्रति­ज्ञा­ध्या­हा­रा­र्थ­ब­हु­क्ले­श­स­द्भा­वात् । इन्द्रियाणि श्रेष्ठा­द­न्य­त्रे­त्य­स्मा­त्सू­त्रा­द­नु­ष­ङ्गतः प्रतिज्ञा लभ्यत इति चेत्तर्हि श्रेष्ठा­द­न्य­त्रे­त्यस्य ते वागादयः श्रेष्ठा­द­न्य­त्रे­न्द्रि­या­णीति पूर्वा­धि­क­र­ण­सा­ध्या­न्वि­तस्य पुन­स्त­द्धे­ता­व­न्वि­तस्य भेदश्रुतेरिति सूत्रेऽप्यन्वय इति परमत एवातिक्लेशः । अस्मन्मते त्विन्द्रि­या­णी­त्यस्य विनै­वे­ति­श­ब्दा­ध्या­हारं तइन्द्रियाणीति पक्ष­नि­र्दे­शा­र्थ­त्वे­ना­प्य­स्त्यु­प­पत्तिः । तथा पक्षनिर्देशस्य मनः­स­र्वे­न्द्रि­याणि चेती­न्द्रि­यो­त्प­त्ति­प्र­ति­पा­द­क­वा­क्य­स्म­र­णा­र्थ­त्वाद् न वैयर्थ्यं तत एव तत्स्मा­र­ण­सिद्धेः न हेतावपि तदन्वयापेक्षा इति शब्दाध्याहारेण हेतौ तदन्वयस्यापि अनुकृतेस्तस्य चेति सूत्रे तस्य चेत्यंशस्यैव विव­क्षि­त­श्रु­ति­वा­क्य­सू­च­न­प्र­यो­ज­नात् । तस्मा­त्स्व­रू­प­व्या­क्रि­यैव निरा­क्रि­ये­त्य­भि­प्रेत्य टीकायां वृत्ति­का­र­म­तो­प­न्यास इत्येव युक्तम् ॥१७॥१८॥१९॥
इत्य­ष्ट­म­मि­न्द्रि­या­धि­क­र­णम् ॥

संज्ञा­मू­र्त्ति­क्लृ­प्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
विषयप्रदर्शकं भाष्यमुदाहृत्य व्याचष्ट इति ।
भाष्यं गृहीत्वा तदुदाहृतं विषयवाक्यं व्याचष्ट इत्यर्थः ।
अरुणादाविति ।
यद्य­प्य­रु­णा­धि­क­रणे एक­हा­य­नी­द्र­व्य­व­दा­रु­ण्य­स्यापि साक्षादेव क्रयान्वयः शाब्दो व्युत्पादितः तथापि श्रुत­क्र­य­सा­ध­न­त्व­नि­र्वा­हा­र्थ­मा­रु­ण्य­स्यै­क­हा­य­नी-द्र­व्या­व­च्छे­द­क­त्वे­नार्थः पार्ष्णि­का­न्व­योऽ­भ्यु­प­गत इति तदभिप्राया पर­म्प­रा­सं­ब­न्धोक्तिः । सप्त­द­शा­र­त्नि­र्वा­ज­पे­यस्य यूप इति तु साक्षा­त्प्र­धा­न­सं­ब­न्धाऽ­सं­भ­वेन शाब्द­प­र­म्प­रा­सं­ब­न्धा­श्र­यणे उदाहरणम् ।
यत्र च कर्ता कर्त्रन्तरं प्रति करणमिति ।
जीवस्तावत् तृतीयाश्रुत्या करणत्वेन प्रतीयते चेतनस्य चेतनान्तरं कर्तारं प्रति करणतयापकरणत्वं च प्रयो­ज्य­क­र्तृ­त्वे­नैव भवति नान्यथेति भावः । न च पाचयत्योदनं देव­द­त्ते­ने­ति­व­दिह तृतीयायाः कर्त्तर्थत्वं शङ्कनीयम् तत्र ण्यन्त­धा­तू­क्ता­ख्या­ता­भि­हि­त­क­र्तृ­क­प्र­यो­ज­क­व्या­पा­र­व्य­ति­रे­केण तत्प्र­कृ­ति­भू­त­प­च­त्य­र्था-न­भि­हि­त­क­र्तृ­क­प्र­यो­ज्य­व्या­पा­र­व­दि­हा­ख्या­ता­भि­हि­त­क­र्तृ­का­ध्या­रो­पि­त­प्र­यो­ज­क­व्या­पा­र­रू­प­व्या­पा­र­व्य­ति­रे­के­णा­न­भि­हि­त­क­र्तृ­कस्य कस्य­चि­त्प्र­यो­ज्य­व्या­पा­र­स्या­भा­वात् । तस्मा­दु­त्त­म­पु­रु­ष­नि­र्दि­ष्टाया देवतायाः कर्तृ­त्वे­ना­न्वये सति तृती­या­न्त­नि­र्द्दि­ष्टस्य जीवस्य तस्यां कर­ण­त्वे­नै­वा­न्वयो वक्तव्य इति भावः ।
प्रधा­ना­न्व­य­यो­ग्य­ता­या­मिति ।
यथेष्टकाः पक्त्वा भुङ्क्ते इत्यत्रेटकानां प्रधा­न­क्रि­या­न्व­याऽ­यो­ग्य­त्वा-दु­प­स­र्ज­न­क्रि­या­न्वयः तथेहापीत्यर्थः । प्रवे­श­क्रि­या­न्व­य­प­क्षेऽपि न कर्तरि तृतीया । न च यथेष्टकाः पक्त्वा भुङ्क्ते इत्यष्टकानां कर्मत्वस्य क्त्वाप्र­त्य­ये­ना­न­भि­धा­ना­दि­ष्टका इति कर्मणि द्वितीया तथेह कर्तरि तृतीया शङ्कनीया युक्ता तत्र क्त्वाप्र­त्य­यस्य कर्मा­न­भि­धा­यि­त्वाद् द्वितीया समानकर्तृकयोः पूर्वकाल इति स्मरणादिह क्त्वाप्रत्ययेन कर्तु­र­भि­धा­न­म­स्तीति न कर्तरि तृतीया युक्ता । न च- क्रिया­द्व­य­क­र्तु­रै­क्य­मेव क्त्वाप्र­त्य­यार्थः न तु तद्ग­त­क­र्तृ­श­क्ति­र­प्य­त­स्त­द­न-भि­धा­ना­त्तत्र तृतीया भवितुमर्हतीति- शङ्कनीयम् तथा सतीष्टकाः पक्त्वाऽहं भोक्ष्य इत्यत्रापि मयेति तृती­या­प्र­स­ङ्गात् । न च- भोज­न­क्रि­या­क­र्तु­रा­ख्या­ते­ना­भि­धा­ना-त्तृ­तीया न भवतीति वाच्यम् न ह्यन­भि­हि­त­सू­त्र­स्या­भि­हि­त­का­र­क­श­क्त्या­श्रये तृतीया न भवतीत्यर्थः किंत्व­न­भि­हि­त­का­र­क­श­क्त्या­श्रये भवतीति भाष्यवार्तिकयोः पर्यु­दा­स­प­क्षा­श्र­य­णात् । अत एव प्रासादे आस्त इत्यत्र प्रसी­द­न्त्य­स्मिन् जना इत्यर्थे विहितेन घञा प्रसा­द­न­क्रि­या­धि­क­र­ण­त्व­स्या­भि­हि­त­त्वेऽपि आसि­क्रि­या­धि-क­र­ण­त्व­स्या­न­भि­धा­नात् सप्तमी । एवमिहापि भुजि­क्रि­या­क­र्तृ­त्व­स्या­भि­धा­नेऽपि पाक­क्रि­या­क­र्तृ­त्वा­न­भि­धा­नात् तृतीया स्यात् । तस्मात्तत्र क्त्वाप्रत्ययेन कर्तृ­श­क्त्य­भि­धा­न­मा­श्रि­त्यैव तृतीयाभाव उपपादनीयः तथेहापि कर्तरि तृतीया न भवतीति करणार्थैव सेति युक्तम् । तदयमर्थः- सेयं देवता जीव­रू­पे­णा­नु­प्र­विश्य तद्भोगार्थं नामरूपे व्याकरवाणीति संक­ल्पि­त­व­तीति॥२०॥२१॥२२॥
इति नवमं संज्ञा­क्लृ­प्त्य­धि­क­र­णम् ॥
इति श्रीम­द्व­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि-श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले द्विती­या­ध्या­यस्य चतुर्थः पादः ॥b॥ इति लिङ्ग­श­री­र­श्रु­तीनां विरो­ध­प­रि­हा­रा­ख्य­श्च­तुर्थः पादः ॥b॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भा­ष्येऽ­वि­रो­धाख्यो द्वितीयोऽध्यायः ॥