अद्वैतशारदा

कल्पतरुपरिमलः

तदन्तरप्रतिपत्त्यधिकरणविषयाः

प्रथमः पादः॥ तद­न्त­र­प्र­ति­पत्तौ रंहति संपरिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम् ॥१॥
अविरोधेनेति ।
द्विती­या­ध्या­य­कृ­तेन स्मृति­न्या­य­श्रु­ति­वि­रो­ध­स­मा­धा­नेन वेदान्तवेद्यं ब्रह्मे­त्य­स्मि­न्नर्थे प्रतिष्ठिते तस्य ब्रह्मणः प्राप्तौ वेदान्तोक्तं ज्ञानं साधनमिति तत्सो­पा­य­म­स्मि­न्न­ध्याये चिन्त्यत इत्यर्थः । सोपा­य­सा­ध­न­नि­रू­प­ण­म­ध्या­यार्थः । तत्र वेदान्तमूलकं ब्रह्मज्ञानं ब्रह्म­प्रा­प्ति­सा­ध­न­मि­त्ये­त­त्पु­रु­षा­र्था­धि­क­रणे (ब्र. अ. ३ पा. ४ सू. १) निरूपितम् । तच्च जीवा­भि­न्न­ब्र­ह्म­वि­ष­य­मि­त्या­त्मेति तूपगच्छन्ती (ब्र. अ. ४ पा. १ सू. ३) त्यधिकरणे तत्त्व­म­सि­वा­क्या­र्थ­गो­च­र­स्यास्य ज्ञानस्य तत्त्वं­प­दा­र्थ­ज्ञा­न­पू­र्व­क­त्वाद् द्वितीयपादे न स्थानतोऽपीत्यतः प्राक् त्वं पदार्थः शोधितः । ततः प्रभृति तत्पदार्थः शोधितः । शोधितस्य तत्पदार्थस्य तथात्वेन वेदान्तैः सिद्ध्यर्थं तस्मि­न्नु­प­सं­ह­र­णीया विधिनिषेधरूपा धर्मा आन­न्दा­द­य­अ­क्ष­र­धिया (ब्र. अ. ३ पा. ३ सू. ३३) मित्य­धि­क­र­ण­यो­र्द­र्शिताः । प्रथमपादे वैराग्यरूपं , द्विती­य­पा­दा­न्त्या­धि­क­रणे पर­मे­श्व­र­प्र­सा­द­रूपं , तृतीयपादे सगु­ण­वि­ष­या­धि­क­र­णेषु सगु­ण­वि­द्या­प­रि­शी­ल­न­रूपं चतुर्थपादे कर्म­त­त्सं­न्या­स­श­म­द­मा­दि­रूपं च तदुपायजातं निरूपितमिति विवेकः ।
पादसंगतिरिति ।
जीवो­प­क­र­ण­प्रा­णा­दि­स्व­रू­प­नि­रू­प­णा­र्थेन पूर्वपादेन सोप­क­र­ण­जी­व­ग­ता­ग­त­नि­रू­प­णा­र्थ­स्यास्य पादस्य सङ्गतिरित्यर्थः ।
भूतपरिष्वङ्ग इति ।
इदं चिन्ताप्रयोजनं भूतगमनाभावे तदाश्रयाणां प्राणानां गत्यसंभवं सूचयता प्राणगतेश्चेति (ब्र. अ. ३ पा. १ सू. ३) सूत्रेण दर्शितम् । यदि शरी­रो­त्प­त्त्य­व­स्था­मि­त्ये­त­द­न­न्त­रम् आहु­ति­जा­म­ना­हु­ति­मिति द्विविधः पाठः । द्विवि­धोऽ­प्यु­प­पन्नः अग्नि­हो­त्रा­हु­ति­प्र­भ­व­त्वाद् वस्तुत आहु­ति­त्त्वा­भा­वाच्च ।
अधिदैवं यजमानप्राणा इत्यन्वय इति ।
अग्न्यादयो ह्याधि­दै­वि­क­य­ज­मा­न­प्राणाः वागा­द­य­स्त्वा­ध्या­त्मि­क­य­ज­मा­न­प्राणाः । अत आध्या­त्मि­क­प्रा­ण­व्या­व­र्त­क­त्वे­ना­धि­दै­व­मि­त्ये­त­त्प्रा­ण­वि­शे­ष­ण­मिति भावः ।
तथा­पी­त्या­दि­ग्र­न्थो­क्ता­द­र्थात् तथा हीत्या­दि­ग्र­न्थे­नो­च्य­मा­न­स्या­र्थस्य नास्ति विशेषः ; उभ­य­त्रा­पी­ष्टा­दि­का­रिणां जीवस्य च संब­न्ध­म्मा­त्र­प्र­ति­पा­द­नाद् , अतः पुन­रु­क्ति­रि­त्या­शङ्क्य विशेषमाह –
श्रद्धां जुह्व­ती­त्य­त्रेति ।
पूर्वं श्रद्धां जुह्वतीति पञ्चा­ग्नि­वि­द्या­वाक्ये श्रद्धा­श­ब्द­ल­क्षि­ता­स्त्रि­वृ­त्कृता आप एव होम्य­त्वे­नोक्ताः , न तासा­मि­ष्टा­दि­का­रिभिः संबन्ध उक्त इति शङ्का वारिता , इदानीमेष सोमो राजेति दक्षि­ण­मा­र्ग­वाक्ये इष्टादिकर्तॄणां सोम­रा­ज­भा­व­मा­त्र­मुक्तं , न तेषामद्भिः परिष्वङ्ग उक्त इति शङ्का वार्यत इत्यर्थः । श्रुतिद्वयेऽपि पर­स्प­रा­र्थ­वि­शे­ष­ग्र­हणे सोम­रा­ज­श्रु­ति­स्व­र्ग­स्था­न­यो­रै­क्य­मेव हेतुः ।
श्रद्धाहुतिः प्रथमा , कथं द्विती­यो­क्ते­त्या­श­ङ्क्याह –
अन्त्या­हु­त्य­पे­क्ष­येति ।
यजमानशरीरस्य वैता­नि­का­ग्ना­वा­हु­ति­र­न्त्या­हुतिः । सापि छान्दोग्ये दर्शिता "तं प्रेतं दिष्टमितोऽग्नय एव हरन्ती”ति। बृहदारण्यके तु स्पष्टमुक्ता "तस्या­ग्नि­रे­वाग्निः समिदेव समि”दित्यादिना । तदपेक्षया श्रद्धा­हु­ति­र्द्वि­ती­ये­त्यर्थः ।
चन्द्रभूयं गतश्चन्द्रलोकं गत इत्य­न­यो­र्व्या­ख्या­न­व्या­ख्ये­य­भा­व­शङ्कां निराकुर्वन् तयोरन्वयं दर्शयति –
चन्द्रलोकं प्राप्त इति ।
न द्वितीय इत्याहेति ।
अवि­द्यो­पा­धे­र्व्या­प­क­त्वेऽपि पूर्व­दे­ह­त्या­ग­हे­तु­र­न्तः­क­र­णा­द्यु­पाधिः परिच्छिन्न इति भावः ॥१॥
त्र्यणु­का­दे­र­पीति ।
तथा चोदा­हृ­त­त­र्का­नु­मा­ना­ना­मा­भास समानयोगक्षेमतया न साधकतेत्यर्थः ।
उच्छिद्येत चेति ।
अश्वजातीयं गोजातीयेन विरुद्धं तादा­त्म्या­यो­ग्य­मिति या तज्जातीयानां पर­स्प­र­वि­रो­ध­प्र­सिद्धिः सोच्छि­द्ये­ते­त्यर्थः ।
तथा सति दोषमाह –
तथा चेति ।
उक्त­री­त्यो­रे­का­मा­प्ता­दिभ्यः परिच्छिद्य प्रवृ­त्त्यु­प­प­त्ते­रिति ।
एवमनङ्गीकारे च भूत­त्व­मू­र्त­त्वो­पाध्योः समा­वे­शा­ङ्गी­का­रा­द­न्य­त्रा­प्यु­पा­धि­स­मा­वे­श­श­ङ्कया क्वचि­दा­प्त­वा­क्या­द्य­व­ग­ते­र्नि­त्य­त्वा­दि­भि­र­नि­त्य­त्वा­द्य­भा­वा­नु­मानं न सिद्ध्येदिति भावः । ननु गोत्वा­श्व­त्वा­द्य­न­न्त­वि­रु­द्ध­जा­तीनां पर­स्प­रा­सा­मा­ना­धि­क­र­ण्य­म­नु­भू­यते । तत्र च पर­स्प­रा­त्य­न्ता­भा­व­स­मा­ना­धि­क­र­ण­जा­ति­त्व­म­व­च्छे­दकं , न तु गोत्वा­श्व­त्वा­दि­रू­प­त्व­म­न­नु­ग­मा­दिति पर­स्प­र­प­रि­हा­रि­ण्यो­र्जा­त्यो­र­स­मा­वेश सिद्धिः । न चैवमवच्छेदके गौरवाज्जातित्वं न प्रवे­श­नी­य­मि­त्यु­पा­धि­स­ङ्क­र­स्यापि त्यागापत्तिः ; तथा सति घटा­न्य­त्व­प­टा­न्य­त्वयोः घटपटयोरेव पर­स्प­र­प­रि­हा­रि­णो­र­न्य­त्रा­प्य­स­मा­वेशः स्यादिति कुड्यादीनां घटा­द्या­त्म­क­ता­पत्त्या उपाधिसङ्करस्य परि­ह­र्तु­म­श­क्य­त्वेन जाति­वि­शे­ष­ण­गौ­र­वस्य प्रामा­णि­क­त्वा­दिति – चेत् , मैवम् ; किंचि­द्ध­र्म­क्रो­डी­का­रे­णा­न­न्त­व्य­क्तिषु प्रवृ­त्त्या­दि­व्य­व­हा­रार्थं ग्राह्यस्य कार्य­त्व­का­र­ण­त्व­व्या­प्य­त्व­व्या­प­क­त्व­श­क्य­त्वा­दे­रि­वा­सा­मा­ना­धि­क­र­ण्य­स्या­व­च्छे­द­का­पे­क्ष­त्वा­भा­वात् , अनु­ग­ता­व­च्छे­द­का­भा­वेऽ­प्यु­पा­ध्य­सा­मा­ना­धि­क­र­ण्य­व­ज्जा­त्य­सा­मा­ना­धि­क­र­ण्य­स्या­प्या­त्म­ला­भो­प­पत्तेः । किंच जाती­ना­म­सा­मा­ना­धि­क­र­ण्य­मात्रं नावद्यम् ; सर्वासामपि जातीनां यत्किं­चि­त्स­मा­ना­धि­क­र­ण­त्वेन क्वचिदपि जातौ सामा­ना­धि­क­र­ण्य­सा­मा­न्या­भा­वा­भा­वात् । पर­स्प­रा­सा­मा­ना­धि­क­रण्यं तु पर­स्प­र­श­ब्दा­र्था­न­नु­ग­मा­द­न­नु­ग­तम् । एवमवच्छेदकमपि पर­स्प­रा­त्य­न्ता­भा­व­स­मा­ना­धि­क­र­णत्वं तत एवाननुगतम् । तस्मा­त्प­र­स्प­र­श­ब्दा­र्था­नु­सा­रेण गोत्वा­श्व­त्वा­दिषु पृथक् तेन तेन रूपेणासमावेशो ग्राह्य इति पृथि­वी­त्वा­दि­सं­करे न काचिदनुपपत्तिः । किंच सर्वत्र जातिसंकरस्य प्रत्याख्याने मृन्म­य­हि­र­ण्म­या­दि­घ­टेषु घट­त्व­जा­ते­र्दे­व­द­त्ती­य­य­ज्ञ­द­त्ती­य­ता­र­म­न्द­ग­का­रा­दिषु देव­द­त्ती­य­त्वा­दि­जा­तीनां कथमभ्युपगमः ? यदि पृथि­वी­त्वा­दि­व्याप्यं घटत्वं नाना , गत्वा­दि­व्या­प्यानि च देव­द­त्ती­य­त्वा­दीनि नानेति तासु संकरपरिहारः , तर्हीहापि भूगोलके समुद्रादिषु शरीरेषु च पृथि­वी­त्व­ज­ल­त्वा­दिकं नानेति तत्परिहारोऽस्तु ।
पर­स्प­र­प­रि­हा­रि­त्वा­दिति ।
परस्परपरिहारि जाति­त्वा­दि­त्यर्थः । गुण­त्व­रू­प­त्व­यो­र­नै­का­न्ति­कता गोत्वा­श्व­त्व­वि­व­क्षा­पक्षे अविशेषपक्षे च समाना ।
तत्राद्यपक्षे तयो­र­नै­का­न्ति­कतां विवृणोति –
गोत्वाश्वत्वे त्यजतोरिति ।
द्वितीयपक्षे तां विवृणोति –
यत्किंचिदिति ।
प्रसि­द्धि­सा­म­र्थ्या­दिति ।
पञ्च­भू­त­का­र्य­द­र्शनं प्रसिद्धिः ।
एतज्जनकत्वे सतीति ।
पक्षी­कृ­त­दे­व­द­त्त­श­री­र­ज­न­क­त्व­स­मा­ना­धि­क­र­णानि यान्य­नु­द­क­त्वा­ते­ज­स्त्वा­वा­यु­त्वा­ना­का­श­त्वानि तेषा­म­त्य­न्ता­भा­व­वद् यद्भूतं तत्स­म­वा­यि­का­र­ण­क­मि­त्यर्थः ।
पृथि­वी­मा­त्र­स­म­वा­यि­का­र­ण­क­त्वेन पराभिमते दृष्टान्ते समवायिकारणं यद्भूतं पृथिवी तस्य पक्ष­ज­न­क­त्व­वि­शि­ष्टा­नु­द­क­त्वा­त्य­न्ता­भा­व­वत्त्वं पक्ष­ज­न­क­त्व­रू­प­वि­शे­ष­णा­भा­वा­दि­त्याह –
यद्यपीति ।
पक्षे समवायिकारणानि यानि भूनानि तेषा­मु­क्त­रू­प­वि­शि­ष्टा­भा­व­वत्त्वं विशे­ष्या­भा­वा­त्सि­द्ध्य­ती­त्यु­द­का­दि­भू­त­स­म­वा­यि­का­र­ण­क­त्व­सि­द्धि­रि­त्याह –
एतज्जनकत्वे सतीति ।
न चानु­द­क­त्वा­द्य­भा­व­च­तु­ष्ट­य­व­दु­द­का­दि­च­तू­रू­पम् , एकं भूतं नास्तीति साध्यस्य पक्षे बाधः शङ्कनीयः । एत­ज्ज­न­क­त्व­वि­शि­ष्टा­नु­द­क­त्वा­त्य­न्ता­भा­व­व­द्भू­त­स­म­वा­यि­का­र­ण­क­मि­त्ये­व­मा­दि­रू­पाणां चतु­र्णा­म­नु­मा­नानां तेन साध्यनिर्देशेन सूच­ना­द­नु­मा­न­च­तु­ष्ट­येन शरीरस्य पाञ्च­भौ­ति­क­त्व­सि­द्ध्यु­प­पत्तेः । यद्वा – त्र्यात्म­क­त्वात्तु भूयस्त्वा (ब्र. अ. ३ पा. १ सू. २) दिति सूत्रे शरीरकारणानां त्र्यात्म­क­त्व­मुक्तं , तत्प­ञ्चा­त्म­क­त्व­स्यो­प­ल­क्ष­ण­मिति शरीरकारणेषु भूतेषु प्रत्ये­क­मु­द­का­दि­च­तु­रू­प­त्व­सि­द्धा­वपि न बाधः ॥२॥
गति­स्त्वा­श्र­य­स्यै­वेति ।
यदि जीवद्देहे गतिराश्रयस्यैव न प्राणानां , तदा मृतावपि प्राणानां गति­र्ना­भ्यु­प­ग­न्त­व्येति न तदा­श्र­य­भू­त­प­रि­ष्व­ङ्ग­सि­द्धि­रिति शङ्कितुर्हृदयम् ।
एत­च्छ­ङ्का­प­रि­हा­रार्थं जीव­द्द­शा­या­मा­श्रये गच्छति प्राणानां गतिं साधयति –
न चेत् प्राणा गच्छन्तीति ॥३॥४॥
ननु पञ्च­म्या­मा­हु­ता­वि­त्या­दि­टी­का­ग्रन्थो न युक्तः ; प्रथमाहुतावनपां होतव्यत्वेऽपि पञ्च­मा­हु­ते­र­ब्द्र­व्य­क­त्व­मा­त्रे­णापां पुरु­ष­व­च­स्त्व­प्र­का­र­प्र­श्नो­प­प­त्ते­रि­त्या­शङ्क्य पञ्च­स्व­प्या­हु­ति­ष्व­पा­मेव होतव्यत्वं शास्त्रा­न्त­रा­न्नि­र्ज्ञातं तदुपजीव्य प्रथमाहुतावनपां होत­व्य­त्वा­भि­धा­न­स्या­सं­ब­न्ध­त्व­मु­क्त­मि­त्यु­प­पा­द­यति –
पञ्च­म्या­मा­हु­ता­वपां पुरु­ष­श­ब्द­वा­च्यत्वं यथा भवतीत्यादिना ।
ननु – शास्त्रा­न्त­र­म­न­पेक्ष्य प्रश्नो­त्त­र­सं­द­र्भ­प­र्या­लो­च­न­यैव पञ्च­स्व­प्या­हु­तिषु अपा­म­नु­वृ­त्ति­र्नि­श्चेतुं शक्या । यदि ह्यपां पञ्चमपर्याये हूयमानानां पुरु­षा­का­र­प­रि­णामं वक्तुं प्रथ­मा­दि­प­र्या­य­त्वेऽपि तासामेव हूयमानानां सोमराजादिपरिणाम उक्तः स्यात् , तदानी’मिति तु पञ्च­म्या­मा­हु­ता’वि­ती­ति­श­ब्देन प्रकारवाचिना पूर्वो­क्त­स­र्व­प्र­का­र­प­रा­मर्शः संगच्छते ; प्रथ­मा­दि­प­र्या­ये­ष्वापः सोमराजादिभावं प्राप्य पञ्चमपर्याये पुरुषभावं प्राप्नु­व­न्ती­त्य­न्व­यात् , यदि तु श्रद्धा­दि­श­ब्दो­क्ता­ना­म­नपां सोमराजादिभाव उक्तः स्यात् , तदा पूर्वोक्तः सर्वोऽपि प्रकारोऽपां परिणामक्रमविषयो न भवतीति स न संगच्छेत ; अपां पुरु­ष­व­च­स्त्व­प्र­कारे पृष्टे तत्प्रकारं विहाय प्राची­न­प­र्या­ये­ष्व­न्य­द­न्य­दु­च्यते चेदपृष्टोत्तरता स्यात् । अत एव सौत्र­श­ङ्का­भा­ग­वि­व­र­ण­भाष्ये श्रद्धाशब्दस्य प्रत्य­य­प­र­त्व­स­म­र्थ­ना­न­न्तरं तस्मादयुक्तः पञ्च­म्या­मा­हु­ता­वपां पुरुषभाव इति प्रश्नो­त्त­र­यो­र­नु­प­प­त्ति­रे­वो­प­सं­हृ­तेति – चेत् , सत्यम् , एवं प्रश्नो­त्त­र­सं­द­र्भ­प­र्या­लो­च­नया प्रती­य­मा­न­म­प्यपां प्रथ­मा­हु­ति­मा­रभ्य होमद्रव्यत्वं न प्रश्नवाक्य एव विधेयम् । आहुतिष्वपां होमद्रव्यत्वं पञ्चमाहुतौ तासां पुरु­षा­का­र­प­रि­ण­ति­प्र­का­र­श्चे­त्यु­भयं पृष्टमिति प्रश्न­वा­क्य­स्यो­भ­य­वि­ष­य­त्व­क­ल्पने वाक्य­भे­दा­प­त्ते­र्वि­शि­ष्टस्य प्रश्न­वि­ष­य­त्व­क­ल्प­नेऽपि गौरवात् । अतः प्रश्नस्य पुरु­षा­का­र­प­रि­ण­ति­प्र­का­र­रू­प­वि­शे­ष­ण­सं­क्रा­न्त­त्व­सि­द्ध्यर्थं विशे­ष्य­प्रा­प्त्या­का­ङ्क्षायां तत्प्रापकं शास्त्रा­न्त­र­मु­दा­हृ­तम् ।
ननु यदि शास्त्रा­न्त­र­व­शा­त्प­ञ्च­स्व­प्या­हु­ति­ष्वपां होतव्यतास्ति , तदा प्रथ­मा­द्या­हु­ति­ष्वपि हूयमानानां तासां परिणतिविशेषाः संभवन्तीति तेष्वपि सत्सु तानजिज्ञासित्वा पञ्चमाहुतावेव किमर्थं विशेषो जिज्ञास्यते , इत्याशङ्क्य तदभिप्रायमाह –
तत्र प्रथ­मा­द्या­हु­ति­ष्व­पीति ।
यैव पञ्च­म्या­हु­ति­रिति ।
यदेव पञ्च­मा­हु­ति­द्रव्यं तदेव प्रथ­मा­द्या­हु­ति­ष्वपि द्रव्यमिति ताव­च्छा­स्त्रा­न्त­रा­न्नि­श्चि­तम् । तत्र प्रथ­मा­हु­ति­मा­रभ्य हूयमानानामपां पञ्चमाहुतौ केन प्रकारेण पुरुषाकारपरिणाम इति प्रश्ने जिज्ञा­सि­त­प्र­का­र­वि­शे­षा­न्त­र्ग­त­तया प्रथ­मा­द्या­हु­ति­प­रि­ण­ति­क्र­मोऽपि पृष्टो भवतीति पञ्च­मा­हु­ति­वि­शे­ष­मा­त्र­वि­षयः प्रश्न इत्यर्थः ॥५॥
आहु­त्योऽ­पू­र्व­रूपा इति ।
ननु – आहु­ति­ज­न्या­पूर्वं आत्मगुणरूपं जला­द्या­हु­ति­द्र­व्य­ज­न्य­मपि न जलादिरूपमिति तत्प­रि­वे­ष्ट­नोक्त्या न भूत­प­रि­ष्व­ङ्ग­सिद्धिः । तत्सिद्धावपि तत्परिवेष्टनं भाष्य­टी­क­यो­र­न्त्या­हु­त्य­न­न्त­र­मु­क्त­मिति नोत्क्र­म­ण­का­ल­मा­रभ्य प्राण­ग­ति­नि­र्वा­ह­कस्य भूतपरिष्वङ्गस्य सिद्धिरिति – चेत् , उच्यते ; अपूर्वरूपा इत्यनेन सूक्ष्मरूपा इति विवक्षितं , न त्वात्मगुणरूपा इति ; कर्म­णा­मी­श्व­र­प्र­साद एव द्वारमिति सिद्धान्ते यावत्फलं स्थाय्य­दृ­ष्ट­रू­प­द्वा­राऽ­न­ङ्गी­का­रात् । भाष्य­टी­क­यो­र­न्त्या­हु­ति­क­थनं नान्त्या­हु­त्य­न­न्त­र­मद्भिः परि­वे­ष्ट­न­मि­त्ये­त­द­भि­प्रायं , किंतु यजमानस्य शीघ्रं पर­लो­क­न­य­ना­र्थ­म­न्या­हु­त्य­पे­क्षा­भि­प्रा­यम् ; उप­को­स­ल­वि­द्या­या­म­र्चि­रा­दि­मा­र्ग­प्रा­प्ति­र­स्ती­त्यु­क्ति­सा­म­र्थ्या­द­न्येषां शवकर्माकरणे शीघ्रं मार्ग­प्रा­प्ति­र्ना­स्तीति सूच­ने­नो­पा­स­ना­न्त­र­नि­ष्ठानां कर्मिणां च झटिति मार्ग­प्रा­प्त्य­र्थ­म­न्त्ये­ष्ट्य­पे­क्ष­णस्य पदभाष्ये भाष्य­का­रै­रु­क्त­त्वात् ।
आहु­ति­ग­त्या­ग­ति­सा­म्याद् दृष्टा­न्त­त्व­मिति ।
एतेनेयमपि शङ्का निरस्ता - षट्प्र­श्न­नि­रू­पणे अग्नि­हो­त्रा­हु­ति­सू­क्ष्म­रूपैः संपरिष्वक्तस्य जीव­स्यो­र्ध्व­ग­मनं नोच्यते , किंतु तेषा­मे­वा­हु­त्यु­द्दे­श्य­दे­व­ता­तृ­प्त्यर्थं तत्तल्लोकं प्रत्यू­र्ध्व­ग­म­न­मु­च्यते ; "ते अन्तरिक्षं तर्पयतः ते दिवं तर्पयत" इति वाक्यशेषात् , तस्मा­दा­हु­ति­सू­क्ष्मांशा जीवं संवेष्ट्य परलोकं नयन्तीत्यत्र नेदमुदाहरणम् – इति। तथापि भूतसूक्ष्माणां द्युप­र्य­न्तो­त्क्र­मणं पुनरावर्तनं चास्ती­त्ये­ता­व­त्यंशे दृष्टान्तताया अवैकल्यात् । प्रौढ्या विध्यै­क्य­मु­पे­त्येति विद्या­भे­द­वा­दिनां परि­तो­षा­र्थ­मु­क्तम् । वस्तुतस्तु – विद्यै­क्य­मु­प­प­द्यते एव ; द्युपृ­थि­वी­पु­रु­ष­यो­षि­द­ग्नि­क­ल्प­ना­प्र­त्य­भि­ज्ञा­नाद् , योषि­द­ग्नि­प­र्याये पुरु­षा­का­र­प­रि­ण­ति­प्र­त्य­भि­ज्ञा­नाच्च । अथ वाऽऽहु­ति­श्र­व­णयोः सामा­न्य­वि­शे­ष­भा­वे­नै­का­र्थ­प­र्य­व­सा­नो­प­पत्तेः एकै­क­त्रा­नु­क्तानां विशेषाणां पर­स्प­रो­प­सं­हा­रो­प­पत्तेः अन्त­रि­क्ष­प­र्ज­न्ययोः पर­स्प­रो­प­सं­हा­रे­णा­ग्नीनां पञ्च­सं­ख्या­ति­रे­केऽपि "अथह एतानेव पञ्चा­ग्नी­न्वे­देति" पञ्च­स­ख्या­भि­प्रा­ये­णो­प­पत्तेः । अन्यथा तस्या­ग्नि­रे­वाग्निः समिदेव समिदित्यादिना बृह­दा­र­ण्य­को­क्तस्य षष्ठा­ग्ने­र­प्य­नु­प­सं­हा­र­प्र­स­ङ्गात् , एकस्यामेव वाजसनेयिशाखायां शाण्डि­ल्य­वि­द्याया इव पञ्चा­ग्नि­वि­द्याया अपि उभयत्र संकीर्तनस्य विशे­ष­वि­धा­ना­र्थ­त्वो­प­पत्तेः , बहु­त­रा­र्थ­प्र­त्य­भि­ज्ञा­नेऽपि किंचि­द्वै­ल­क्ष­ण्या­दि­मा­त्रेण विद्यै­क्य­प­रि­त्यागे क्वचिदपि विद्यै­क्या­सि­द्धि­प्र­स­ङ्गाच्च । न च – तर्पयत इत्युक्त्या देव­ता­तृ­प्त्य­र्थम् आहु­त्यो­रु­त्क्र­मणं संकीर्त्यत इति – शङ्कनीयम् ; अग्नि­हो­त्रा­हु­त्यो­र­न्त­रि­क्षस्य दिव­स्त­त्त­ल्लो­क­स्थि­त­प्रा­णिनां वोद्दे­श्य­दे­व­ता­त्वा­भा­वेन तेषां तर्प­णी­य­त्वा­यो­गात् । तस्मात्ते देवा भक्षयन्तीति श्रुत्यु­क्त­प्र­का­रे­णा­जा­न­दे­वानां कर्मदेवा भृत्या इत्य­ग्नि­हो­त्रा­हुती भृत्यानयनेन तत्त­ल्लो­क­स्थि­ता­ना­जा­न­दे­वान् प्रीणयत इत्येवमभिप्रायं तर्पयत इति वाक्यद्वयमपि योज्यते ।
अग्नि­स­मि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लि­ङ्गे­ष्विति ।
यथा छान्दोग्ये अपां पुरु­ष­श­ब्द­वा­च्य­प्र­का­र­मा­त्र­वि­ष­य­तया प्रतीयमानस्यापि प्रश्न­स्या­ग्नि­स­मि­द्धू­मा­दि­वि­ष­य­त्व­मपि कल्प्यते ; अन्यथा प्रश्नो­त्त­र­वै­य­धि­क­र­ण्या­पत्तेः , एवमत्रापि श्रव­णो­प­सं­हा­रा­भ्या­म­ग्नि­स­मि­द्धू­मा­दि­ष­ट्स्व­प्यु­त्त­र­वा­क्य­ग­तेषु सत्सु तावत्पर्यन्तं प्रश्न­वा­क्या­ना­म­भि­प्रायः कल्पनीय इति भावः ॥६॥
यथेति शेष इति ।
मूले – यथा सोमस्येति यथा­श­ब्द­यु­क्त­पाठे तु न शेषाध्याहारः । ननु क्रिया­स­म­भि­हा­र­वि­व­क्षायां तस्य तस्य धातो­र्द्वि­र्भा­वोऽ­नु­प्र­यो­गश्च प्राप्नोति ; तत्सू­त्र­वा­र्तिके द्विर्भा­वा­नु­शा­स­नाद् , यथा­वि­ध्य­नु­प्र­योगः पूर्वस्मिन्निति सूत्रेण तस्य धातो­र­नु­प्र­यो­ग­नि­य­माच्च । नैष दोषः ; आप्या­य­ना­प­क्ष­ययोः प्रत्येकं पौनःपुन्यं समु­च्च­य­श्चे­त्यु­भ­य­वि­व­क्षो­प­पत्तेः । उभयविवक्षायां हि समु­च्च­य­वि­व­क्षा­प्र­यु­क्त­मेव कार्यं भवति ; विप्रतिषेधे परं कार्यमिति स्मरणात् । प्रप­ञ्चि­त­श्चा­य­मर्थः प्रथमसूत्रे जायस्व म्रियस्वेति श्रुत्य­र्थ­क­थ­ना­व­सरे ।
युक्त­त­र­श्चा­य­मर्थ इति ।
युक्त­त­र­त्वो­क्ते­र­भि­प्रायं न विद्मः । यद्यप्येष सोमो राजेत्यत्र सोमो राजेति शब्दा­वा­दि­त्या­च्च­न्द्र­म­स­मिति प्रस्तु­त­च­न्द्र­परौ ; तयोस्तत्र लोक­वे­द­प्र­सि­द्ध­त्वा­त्त­द्दे­वा­ना­म­न्न­मिति च तस्मिन् प्रथमां पिबते वह्नि­रि­त्या­दि­प्र­सिद्धं देवा­न्न­त्व­मु­च्यते , तं देवा भक्ष­य­न्ती­त्ये­त­दपि स्वर्गं प्राप्य कर्मदेवरूपा इष्टा­दि­का­रि­णोऽपि तं भुञ्जत इत्येवं तेषां त्रैवि­ष्ट­प­भो­ग­क­थ­ना­र्थम् । एवं च ते धूम­म­भि­सं­भ­व­न्तीति बहु­व­च­ना­न्त­श­ब्देन प्रकृतानां देवा इति बहु­व­च­ना­न्त­श­ब्देन परामर्शः । चन्द्र­म­स­मि­त्ये­क­व­च­ना­न्तेन प्रकृतस्य चन्द्रस्य सोमो राजे­त्ये­क­व­च­ना­न्तेन परामर्श इत्ये­त­द­प्यु­प­प­द्यत इति प्रतिभाति ; तथाप्येष सोमो राजेत्येतस्य प्रकृ­ते­ष्टा­दि­का­रि­प­र­त्व­मेव युक्तम् । पञ्चा­ग्नि­वि­द्या­वाक्ये सोमो राजेति श्रुतस्य प्रथमाहुतितः संभवस्य द्वितीयाहुतौ होतव्यत्वस्य चेष्टादिकारिणीव चन्द्रेऽ­न्व­य­सं­भ­वा­त्प­ञ्चा­ग्नि­वि­द्या­वाक्ये पितृयाणवाक्ये च श्रुतयोः सोमराजशब्दयोः श्रुति­स्था­न­सा­मा­न्या­भ्या­मे­का­र्थ्या­व­श्य­म्भा­वा­त्त­दु­प­जी­व­ने­नैव भूत­प­रि­ष्व­क्त­जी­व­रं­ह­ण­स्या­श्रु­तत्वा ( ब्र. अ. ३ पा. १ सू. ६ ) दिति सूत्रेण समर्थितत्वाच्च । किंच छान्दोग्ये सोमो राजेति प्राप्यस्य सोमस्य प्राधान्येन प्रकृ­त­त्वोक्त्या एतांस्तत्र भक्षयन्तीति श्रुत्य­न्त­र­स्यै­ता­नि­त्यस्य चन्द्रलोकपरत्वे का युक्तिर्दर्शिता स्यात् ? छन्दो­ग­श्रु­त्यर्थे श्रुत्य­न्त­र­स्यापि पर्यवसानं स्यादिति युक्तिरिति चेन्न ; श्रुत्यन्तरे ते चन्द्रं प्राप्यान्नं भक्षयन्तीति कर्मि­णा­मे­वा­न्न­भा­व­श्र­वणं प्राधान्येन प्रकृतत्वं चास्तीति तत्र कर्मि­णा­मे­वा­न्नत्वं भक्ष्यत्वं चोच्यत इति तदनुसारेण छन्दोगश्रुतावपि अन्न­त्व­भ­क्ष्य­त्व­श्र­व­णस्य तद्वि­ष­य­त्व­स्थितौ तन्निर्वाहार्थं पञ्चा­ग्नि­वि­द्या­ग­त­सो­म­रा­ज­श­ब्दै­का­र्थ्य­नि­र्वा­हार्थं च छान्दोग्ये पितृ­या­ण­वा­क्य­ग­त­सो­म­रा­ज­श­ब्द­स्यै­वे­ष्टा­दि­का­रि­प­र­त्व­प्राप्तेः , चन्द्र­वा­च­क­स्या­प्य­मृ­त­म­य­दे­ह­त्व­रू­प­च­न्द्र­सा­दृ­श्य­वि­धा­ना­र्थ­त्वेन देव­भो­ग्य­त्व­रू­प­त­त्सा­दृ­श्य­वि­धा­ना­र्थ­त्वेन चेष्टादिकारिषु गौणतोपपत्तेः । बहु­ष्व­प्ये­क­व­च­नस्य ग्रहं संमार्ष्टि पत्नीं सन्न­ह्ये­त्या­दि­ष्विव प्रति­व्य­क्ति­ग­तै­क­त्वा­नु­वा­द­क­तो­प­प­त्तेश्च । तस्मादस्या युक्त­त­र­त्वो­क्ते­र­भि­प्रा­योऽ­न्वे­ष­णीयः ॥७॥
इति प्रथमं तद­न्त­र­प्र­ति­प­त्त्य­धि­क­र­णम्॥

कृता­त्य­येऽ­नु­श­य­वान् दृष्ट­स्मृ­तिभ्यां यथेतमनेवं च ॥८॥
एकभविकनयादिति ।
प्राणस्य सक­ल­क­र्म­श­क्त्य­भि­व्य­ञ्ज­क­त्वा­द­भि­व्य­क्त­श­क्तिभिः कर्मभिः प्राणा­न­न्त­र­भा­वि­न्ये­क­स्मि­न्नेव शरीरे फलजननावश्यंभाव एकभविकनयः ।
सम्यग्ज्ञानस्य नैष्फल्यमिति ।
न च – आचारेणान्यकृतेन कर्मणा वा जातस्य पुनरपि देहा­न्त­रा­पा­द­नी­य­क­र्म­प­र­म्परा प्रतीयेतेति न सम्यग्ज्ञाने नैष्फल्यमिति – वाच्यम् ; तिर्य­ग्यो­नि­जा­तस्य कर्मा­नु­ष्ठा­न­सा­म­र्थ्या­त्प्रा­गेव मृतस्य वा तेन देहे­ना­चा­रा­न्य­कृ­त­क­र्म­णो­रपि क्षपणेन सम्य­ग्ज्ञा­न­नै­ष्फल्यं स्यादिति भावः ।
लोके तथोपलम्भादिति ।
कर्म­णा­मु­त्त­र­दे­श­सं­यो­गा­दि­फ­ल­वि­ना­श्य­त्व­द­र्श­ना­दि­त्यर्थः ।
स्वर्गा­द­व­रो­ह­ता­मिति कथमवगम्यत इति ।
तृती­य­स्था­ना­द­व­ती­र्णानां दृश्यमानं भोग­वै­चि­त्र्य­मस्तु , अतः स्वर्गादवरोहतां न तद्धे­त्व­नु­श­य­सि­द्धि­रिति शङ्काभिप्रायः । स्वर्गादवरोहतां कपू­य­र­म­णी­या­नु­श­य­श्र­व­णा­त्ते­षा­मपि तत्कृतं भोगवैचित्र्यं भवेदिति परिहाराभिसंधिः । यद्य­प्य­य­म­भि­सं­धि­रि­त्या­दि­टी­का­ग्र­न्थोऽ­न्य­कृ­त­क­र्मणा ब्राह्म­णा­दि­दे­ह­प्रा­प्ति­रिति पूर्वपक्षस्य कपूयचरणा इत्या­दि­ब­हु­व्री­हि­प्र­ति­पाद्ये मतुबर्थे कर्मसंबन्धे मुख्य­सा­क्षा­त्सं­ब­न्ध­रूपे संभ­व­त्य­मु­ख्य­प­र­म्प­रा­सं­ब­न्ध­रूपः स नाश्रयणीय इति युक्त्या निराकरणार्थः प्रतीयते ; तथापि भाष्योक्तं भोग­वै­चि­त्र्य­म­न्व­र्थो­प­प­त्ति­नि­रा­क­र­णे­नो­प­पा­द­यितुं प्रवृत्तस्य टीकाग्रन्थस्य तदप्यानुषङ्गिकं प्रयोजनमिति तात्पर्यम् ।
निमित्तत्वमिति ।
सायंप्रातः काला­व­च्छि­न्न­जी­वनं निमित्तमिति निमि­त्त­सं­को­च­क­तया निमि­त्त­को­ट्य­नु­प्र­वि­ष्ट­त्व­मि­त्यर्थः । पृथग् निमि­त्त­नै­मि­त्ति­क­सं­को­च­क­त्वा­नु­प­पत्तेः अभ्या­सोऽ­क­र्म­शे­षत्वा (जै. अ. ६ पा. २ सू. २३) दिति पूर्व­त­न्त्रा­धि­क­रणे सायं­प्रा­तः­का­ल­यो­र्जी­व­न­वि­शे­ष­ण­तया निमि­त्त­सं­को­च­क­त्व­स्यै­वो­क्त­त्वाच्च ।
उपमिमान इति ।
उत्प्रेक्षमाण इत्यर्थः । वर्णनीयपुरं हि शेष­पु­ण्य­कृ­त­क­ल्पि­त­द्यु­ख­ण्ड­ता­दा­त्म्ये­नो­त्प्रे­क्ष्यते , न तु तथाभूतेन केनचित् द्युखण्डेनेदं सदृ­श­मि­त्यु­प­मी­यते ।
भुवि भोगमिति ।
यस्य कर्मणः स्वर्ग एव फलमुक्तं , तद्विषया भुवि भोगाभावोक्तिः । यस्य तु कर्मणः स्वर्ग­भो­गा­न­न्तरं भुव्यपि फल­म­ने­क­ज­न्मा­नु­यायि श्रुतं , तस्य श्रुति­व­शा­द्भु­व्यपि फलं भवन्न निवार्यते ॥८॥९॥
आचारस्य यागादिवदिति ।
भाष्ये पुरु­षा­र्थ­त्वोक्त्या यागादिवदाचारस्य स्वत­न्त्र­पु­रु­षा­र्थ­सा­ध­नत्वं नोक्तं , किंतु पुरु­ष­सं­स्का­र­त्व­मु­क्त­मि­त्या­हे­त्यर्थः ।
वाक्येन पुरु­ष­ध­र्म­त्व­प्र­ती­ते­रिति ।
जञ्जभ्यमान इति कृत्प्र­त्य­या­न्तेन जृम्भणकर्ता पुरुष उच्यते कर्ता ; कर्तरि कृदि­त्य­नु­शा­स­नात् , तत­स्त­त्स­म­भि­व्या­हा­र­रू­पेण वाक्येन मन्त्रवचनस्य पुरु­षा­र्थ­त्व­म­व­सी­यते , तन्निर्वाहाय प्राणा­पा­ना­वे­वा­त्मन् धत्त­इ­त्य­र्थ­वा­दा­व­गतं चिरजीवित्वं फलमुखेन विपरिणमनीयम् । तीर्थे स्नातीत्यत्र यद्यपि शब्द­त­स्ती­र्थ­स्ना­न­कर्ता न प्रतीयते , आख्यातस्य कर्तृ­सं­ख्या­मा­त्र­वा­चि­त्वात् ; तथापि स्नानं मलापकर्षणार्थं तीर्थविशेषणं सुखा­व­त­र­णा­र्थ­मिति लिङ्गा­त्ती­र्थ­स्ना­न­मपि तत्क­र्तृ­पु­रु­षा­र्थ­त­याऽ­व­ग­म्यते । अतस्तत्रापि तीर्थमेव समानानां भव­ती­त्य­र्थ­वा­द­श्रु­त­फ­ल­वि­प­रि­णामः कार्य इति भावः । एवं च मूले वाक्येनेति शब्दो लिङ्ग­स्या­प्यु­प­ल­क्षको द्रष्टव्यः ।
गुणकर्म तु स्यादिति ।
पुरु­ष­सं­स्का­र­क­त­येति भावः ।
तच्च न पुरुषमात्र इति ।
यथा व्रीहिप्रोक्षणं न व्रीहिमात्रे विधीयते ; वैय­र्थ्या­त्फ­ला­न्त­र­क­ल्पने गौरवाच्च , किंत्व­पू­र्व­सा­ध­नेषु व्रीहिष्विति प्रकृ­त­क्र­त्व­पू­र्व­सा­ध­न­त्व­ला­भा­र्थ­म­ति­प्र­ब­ल­यापि श्रुत्या प्रक­र­ण­म­पे­क्षि­त­म­भ्य­नु­ज्ञा­यते । एवमिहापीति क्रतु­यु­क्त­पु­रु­ष­सं­स्कारौ स्नानमन्त्रवचने , यथा क्रतु­यु­क्त­व्री­हि­सं­स्कारः प्रोक्षणमिति भावः ॥१०॥११॥
कदाचित्सुकृतं कर्मेति श्लोके सुकृतशब्दं दुष्कृ­त­सा­धा­र­ण्येन व्याचष्टे –
सुष्ट्व­भि­मा­न­पू­र्वकं कृतमिति ॥
इति द्वितीयं कृता­त्य­या­धि­क­र­णम् ॥

अनि­ष्टा­दि­का­रि­णा­मपि च श्रुतम् ॥१२॥इ­ष्टा­दि­का­रिणां प्रती­ते­रि­त्यु­क्त­मि­त्या­दिना व्यव­हि­ता­धि­क­र­ण­सं­बन्ध उक्तः । अव्य­व­हि­ता­धि­क­र­ण­सं­ग­ति­माह –
यत्किं­चि­द्या­व­च्छ­ब्द­यो­रिति ।
यथो­पा­त्त­म­नु­ष्ये­ष्विति ।
पुरुषशब्दो मनुष्यवाचित्वेन नैघण्टुकैः स्मृत इति भावः ।
टीकायामसौ लोक इति स्थाने असौ मार्ग इत्यपि पाठान्तरं दृश्यते , तद्व्याचष्टे –
न्यायसाम्यादिति ।
गन्त­व्य­लो­का­सं­पू­रणे मार्गा­सं­पू­र­ण­म­प्य­र्थ­सि­द्ध­मि­त्यर्थः ।
भोग­वै­ष­म्य­म­र्था­द्ग­म्येत इति ।
परमते दुष्कृतिनां चन्द्र­म­ण्ड­ला­रो­होऽस्ति, तेषां सुकृ­ति­भि­र्भो­ग­साम्यं स्यात् ; तत्त्वयुक्तमिति शङ्कां भोग­वै­ष­म्य­प्र­द­र्श­नेन निराकृत्य पूर्व­प­क्षो­प­पा­द­ना­र्थ­मिदं सूत्रं , तत्र भोगवैषम्यं शब्दतो न प्रतीयते , किंतु संयमन इति स्थान­वि­शे­ष­की­र्त­ने­ना­र्था­त्सि­द्ध्यति। न च यदर्थं सूत्र­प्र­वृ­त्ति­स्तस्य शाब्दत्वे संभवति आर्थत्वं वक्तुं युक्तं । तस्मा­च्च­न्द्र­म­ण्ड­ला­रो­हा­व­रो­ह­पू­र्व­प­क्ष­नि­रा­स­स्तु­श­ब्दार्थ इति सिद्धा­न्त­सू­त्र­त्व­मेव वक्तुं युक्तमित्यर्थः । ननु पूर्व­प­क्ष­सू­त्र­त्वेऽपि तुशब्दो भोग­सा­म्य­श­ङ्का­व्या­वृ­त्यर्थं इति विवक्षितार्थः शाब्दो भवत्येव , मैवम् ; सिद्धा­न्त­सू­त्र­ता­या­म­नि­ष्टा­दि­का­रिणां संयमनेऽनुभूय प्रत्य­व­रो­ह­ण­मि­त्ये­त­द­न­न्तरं भाष्ये एवं भूता­रो­हा­व­रो­हा­विति सूत्रशेषयोजनया न तु चन्द्र­म­ण्ड­ला­रो­हा­व­रो­हा­विति तु शब्दार्थः स्पष्टं प्रतीयते । परमते भोगवैषम्यस्य शब्दा­र्थ­त्वा­भा­वात् तत्प्र­ति­द्व­न्द्वि­भो­ग­सा­म्य­श­ङ्का­नि­रा­स­स्तु­श­ब्दा­र्थ­तया स्पष्टं न प्रतीयत इति वैषम्यसद्भावात् । ननु – स्पष्ट­म­प्र­ती­य­मा­नोऽपि स एव तु शब्दार्थो वक्तव्यः ? अन्यथा विद्याकर्मणोः ( ब्र. अ. ३ पा. १ सू. १७ ) इति सूत्रस्य सिद्धा­न्ता­र­म्भ­सू­त्र­त्वा­भावे तद्गततुशब्दस्य वैफ­ल्य­प्र­स­ङ्गा­दिति – चेन्न ? अत्रत्यतु शब्देन दुष्कृतिनां चन्द्र­म­ण्ड­ला­रो­हा­व­रो­ह­श­ङ्काया भोगराहित्येन नैष्फ­ल्या­न्नि­रासे सति सर्वे चन्द्रमसं गच्छन्तीति श्रुतिमवलम्ब्य पुन­स्त­च्छ­ङ्को­त्थितौ मार्ग­द्व­य­भ्र­ष्टानां तृती­य­स्था­नो­क्ति­हे­तुना सर्व­श­ब्द­सं­को­चा­व­श्यं­भा­व­प्र­द­र्श­नेन तन्निरासार्थतया भाष्यएव तत्र­त्य­तु­श­ब्दस्य व्याख्यातत्वात् ।
चन्द्र­म­ण्ड­ला­द­व­रोह इति चाध्या­हा­रा­पेक्षा स्यादिति ।
परमते हि प्रथमं चन्द्र­म­ण्ड­ला­रोहः तत­स्त­स्मा­द­व­रो­ह­स्त­द्द्वारा संयमनं प्राप्या­नु­भू­या­व­त­र­ण­मिति हि सूत्रार्थः । तथा च संयमनेऽनुभूय प्रत्य­व­रो­ह­ण­मि­त्ये­ता­व­त्यंशे मतद्वयेऽपि सूत्रयोजनायाः साम्येऽ­प्या­रो­हा­व­रो­हा­वि­त्यत्र स्वमते श्रुतस्यैव संय­म­न­स्या­रो­ह­णी­य­त्वम् अवरोहापादानत्वं च । परमते तु अध्याहृतस्य चन्द्र­म­ण्ड­ल­स्येति विशेष इत्यर्थः ।
अण्ड­ज­मि­त्या­दि­वि­भागो न युक्तः , अण्डजादीनामपि जीव­ज­त्वा­दि­त्या­शङ्क्य , यज्जी­व­द­व­स्था­ज्जा­यते तज्जीवजं विवक्षितम् , अण्डजादिकं तु किंचिन्मृतादेव जायते , किंचिदचेतनादेव भूतलाज्जलाद्वा जायते , अतो विभागो युक्त इत्याह –
अण्डजं हि किंचिदिति ॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥
इति तृती­य­म­नि­ष्टा­दि­का­र्य­धि­क­र­णम् ॥

साभा­व्या­प­त्ति­रु­प­पत्तेः ॥२२॥
न तु भवतिश्रुतेः सादृ­श्य­ल­क्ष­णा­र्थ­त्वेऽस्ति निमित्तमिति ।
यद्यपि वायुर्भूत्वा धूमो भव­ती­त्या­दि­वा­क्येषु वायु­धू­मा­दि­श­ब्दानां तत्तत्सदृशे गौणी वृत्तिरित्यपि वकुं शक्यम् ; तथापि तद्भा­व­स्त­त्सा­दृ­श्ये­नौ­प­चा­रिको व्याख्येय इति सिद्धा­न्त­टी­का­नु­सा­रा­द्वा­य्वा­दि­सा­दृश्यं वाय्वा­दि­भ­व­न­त्वे­नो­प­च­रि­त­मि­त्य­भि­प्रेत्य सिद्धान्ते भव­ति­श्रु­ते­र्ल­क्ष­णोक्ता ।
वाक्य­शे­षा­न्नि­र्ण­ये­नेति ।
अवरोहतां सूक्ष्मशरीरस्य क्रमे­णा­का­श­वा­यु­भा­वा­पत्तौ तदनुप्रवेशे कर्म­त­याऽ­प्या­काशं वायुमिति द्वितीयानिर्देश उपपद्यते । धूमो भव­ती­त्या­दि­नि­र्दे­शस्तु देवो भवति मनुष्यो भव­ती­त्या­दि­नि­र्दे­श­व­त्त­त्त­च्छ­री­र­कत्व एवोपपद्यत इति व्यवस्थितार्थेन वाक्यशेषेण व्यव­स्थि­ता­र्थ­स्यो­प­क्र­मस्य निर्णयो विवक्षितः । गङ्गायां घोष इत्यत्र गङ्गाशब्दस्य तीरे गङ्गा­सं­ब­न्धि­ती­र­त्वेन लक्षणा , न तु तीरत्वसामान्येन ; गङ्गायां घोष इति वाक्य­श्र­व­णा­न­न्तरं घोषं जिग­मि­षो­र्वि­शिष्य गङ्गातीरे प्रवृ­त्ति­द­र्श­ना­दि­त्येकं मतम् । तीरत्वेनैव लक्षणा , तस्य गङ्गा­सं­ब­न्ध­स्त्व­र्था­त्सि­द्ध्यति , मुख्या­र्था­सं­ब­न्धिनो लक्ष्य­त्वा­यो­गा­दि­त्य­परं मतम् । अग्निर्माणवक इत्यत्र मुख्या­र्थ­सा­दृ­श्य­रू­प­पै­ङ्ग­ल्य­वि­शिष्टे माणवके गौणी वृत्तिरित्येकं मतम् । अग्निशब्दस्य माण­व­क­वृ­त्ति­पै­ङ्ग­ल्य­मात्रे लक्षणा , तद­वि­ना­भा­वा­द्ध­र्मि­प्र­तीतिः , सैव गौणी वृत्तिरित्यपरं मतम् ।
तत्र लक्ष­णा­गौ­ण­वृ­त्यो­र्द्वि­ती­य­म­ता­श्र­य­णेन भेदमाह –
लक्षणायामिति ।
आकाशसदृशा भवन्तीति सूक्ष्मतापत्तिः सादृश्यं ।
गमनकाले यो धूम आसीदिति ।
यद्यपि धूममात्रं श्रुतम् ; तथापि गम­न­का­लो­क्त­प्र­त्य­भि­ज्ञा­ना­दे­व­मु­क्तम् । एव­मु­क्ति­श्चा­का­श­व­द्धू­म­स्यापि पूर्वसिद्धतया ताद्रू­प्ये­णा­नु­श­यिनां सूक्ष्मशरीरस्य परिणामो न संभवतीति न्याय­सा­म्य­सू­च­ना­र्थम् । एवमाकाशवाक्ये धूमवाक्ये च ताद्रूप्येण परिणत्यसंभवात् तत्सा­दृ­श्या­र्थ­क­त्व­व्य­व­स्थितौ वाक्येष्वपि तथै­वा­र्थ­व्य­वस्था सिद्ध्यतीति तात्पर्यम् ।
तत्तुल्यो भवतीति ।
वायु­स्व­भा­वा­नु­वृ­त्ति­व­द्धू­मा­दि­स्व­भा­वा­नु­वृ­त्ति­स्तेन तेन तुल्यता ॥२२॥
इति चतुर्थं साभा­व्या­प­त्त्य­धि­क­र­णम् ॥

नातिचिरेण विशे­षा­त्॥२३॥­आ­का­शा­दि­ष्व­नु­श­यिनां चिरमचिरं वाऽवस्थानमिति विशये नियमकारिणः शास्त्र­स्या­भा­वाद् अनियम इति पूर्वपक्षो भाष्ये दर्शितः , स न युक्तः ; व्रीह्यादिषु चिरा­व­स्था­न­श्रु­ति­ब­ला­दा­का­शा­दि­ष्व­चि­रा­व­स्था­न­ला­भा­दि­त्या­शङ्क्य टीका­का­रै­स्त­दु­प­पा­दनं कृतम् – दुर्नि­ष्प्र­प­त­र­शब्दो न चिरावस्थानवाचकः किंतु दुःख निष्क्रमणवाचकः । अत­स्त­द्व­शा­दा­का­शा­दिभ्यः सुखनिष्क्रमणं लभ्यते , न तु चिरावस्थानमिति । एवं पूर्व­प­क्षो­प­पा­द­न­मपि न युक्तम् ; व्रीह्या­दि­भा­वेऽ­नु­श­यिनां दुःख­स­द्भा­व­स्या­न­न्त­रा­धि­क­रणे निषेत्स्यमानतया दुर्नि­ष्प्र­प­त­र­मि­त्यस्य लक्षणया विल­म्ब­प­र­त्वा­दि­त्य­प­रि­तो­षा­दा­चार्यैः सामान्यतो दृष्टा­व­ल­म्ब­न­पू­र्व­पक्षं प्रदर्श्य तस्य श्रुतार्थापवादः सिद्धान्ते वर्णितः । सामान्यतो दृष्ट­मा­त्रा­व­ल­म्बनः पूर्व­प­क्ष­स्तुच्छ इति तत्रा­प्य­प­रि­तो­षा­दा­चार्यैः पूर्व­प­क्ष­स्ये­त्थ­मु­पो­द्ब­लनं कृतम् । अतो वै खल्वि­त्य­त्रा­तः­शब्दः प्रकृ­ता­ना­मा­का­शा­दीनां सर्वेषां परामर्शक इति सर्वेष्वपि तेषु चिरावस्थानं श्रुतित एव प्रतीयते तद­नु­ग्रा­ह­क­म­नु­मा­न­मिति। अतःशब्दः सम­न­न्त­र­वा­क्यो­क्तान् व्रीह्यादीनेव परामृशेद् , न व्यव­हि­ता­ना­का­शा­दीन् ; सर्व­ना­म­स्वा­भा­व्या­त्तथा च व्रीह्यादिषु चिरा­व­स्था­न­श्रु­ति­सा­म­र्थ्या­दा­का­शा­दि­ष्व­चि­रा­व­स्था­न­ला­भा­त्त­द्बा­धि­त­म­नु­मा­न­मिति सिद्धान्तो वर्णितः । वस्तुतस्तु – यथा­भा­ष्य­म­नि­य­म­पू­र्व­पक्ष एव दृढः । "अतो वै खलु दुर्नि­ष्प्र­प­त­र­मिति” वाक्येन व्रीह्यादिषु चिरावस्थाननियमो बाध्यते न तत्सत्तामात्रम् ; चिरमचिरं वेत्यनियतस्य चिरावस्थानस्य व्रीह्या­दि­ष्व­व­स्था­नो­क्त्यैव लब्धत्वेन तस्या­वि­धे­य­त्वात् । तथा च विशिष्य व्रीह्यादिषु चिरा­व­स्था­न­नि­य­म­प्र­ति­पा­द­न­सा­म­र्थ्या­दा­का­शा­दि­भ्य­श्चि­रा­व­स्था­न­नि­यम एव व्यावर्तते , न त्वनियतं चिरावस्थानमपि । अत एवा­र्ध­म­न्त­र्वे­द्यर्धं बहिर्वेदीति पूय­मा­न­दे­श­वि­धा­व­न्त­र्वे­दी­त्येव विधि­स्त­त्सा­म­र्थ्या­द­र्धा­न्तरं बहिर्वेदीति लभ्यते । अतोऽर्धं बहि­र्वे­दी­त्य­नु­वाद इति पूर्वपक्षे दूषणमुक्तम् "तथा यूपस्य वेदि" (ब्र. अ. ३ पा. ७ सू. १३) रित्यधिकरणे अर्ध­म­न्त­र्वे­दीति निय­म­वि­धि­सा­म­र्थ्या­द­र्धा­न्त­रा­द­न्त­र्वे­दि­नि­यम एव व्यावर्तते , नान्त­र्वे­दि­स्व­रू­प­मि­त्य­र्धा­न्त­र­म­न्त­र्वे­दि­ब­हि­र्वे­दि­वे­त्य­नि­यमः प्राप्नोति , न तु बहिर्वेद्येवेति नियमो लभ्यते । अतोऽर्धं बहि­र्वे­दी­त्य­नु­वाद इति पूर्वपक्षे पाक्षि­का­नु­वा­दोऽयं स्यादिति नित्य­व­च्छ्र­व­ण­वि­रोधः , तत्प­रि­हा­रा­यार्धं बहिर्वेदीत्यपि विध्य­न्त­रा­श्र­यणे वाक्यभेदः , तस्मा­द­न्त­र्वे­दि­ब­हि­र्वे­दि­श­ब्दाभ्यां लक्षि­तोऽ­न्त­रा­ल­देशो विधीयत इत्य­ङ्गी­क­र्त­व्य­मिति। एवं प्राप्तस्य पूर्वपक्षस्य निरासप्रकारोऽपि भाष्य एव विशेषादिति सौत्र­प­द­व्या­ख्या­नेन स्पष्टीकृतः । स इत्थम् । दुर्नि­ष्प्र­प­त­र­मिति तर­प्प्र­त्य­या­र्थ­स्या­ति­श­यस्य प्रति­यो­ग्या­का­ङ्क्षायां प्राग­नु­क्रा­न्ता­नाम् आकाशादीनां बुद्धि­स­न्नि­धा­ना­त्त­त्प्र­ति­यो­गि­त्वे­ना­न्वयः स्यात् । तथा च व्रीह्या­दि­ष्वा­का­शा­द्य­पेक्षा चिर­म­व­स्था­नो­क्ता­वा­का­शा­दि­ष्व­व­स्था­नस्य तद­पे­क्ष­याऽ­ल्प­का­लत्वं पर्यवस्यतीति। ननु – असि­द्ध­स्त­र­प्प्र­त्य­य­स्त­का­र­लो­प­व­द्रे­फो­प­ज­न­स्यापि छान्दसस्य वक्तुं शक्यत्वादिति – चेन्न ; उभ­य­था­सं­भ­वेऽ­र्था­ति­श­य­सि­द्ध्यर्थं तकारलोपेन तर­प्प्र­त्य­य­स­द्भा­व­स्यै­वा­श्र­यितुं युक्तत्वात् , दुरुपपदात् पतिधातोः खलर्थे डप्रत्यये सति दुर्नि­ष्प्र­प­त­र­मिति रूपसिद्धौ विनैव तकारलोपं तर­प्प्र­त्य­या­न्त­त्वस्य निर्वक्तुं सुकरत्वाच्च । "अन्ये­ष्वपि दृश्यत" इति जने­रु­प­प­दा­न्त­रेषु डप्र­त्य­य­वि­धा­य­क­सूत्रे "अन्ये­भ्योऽ­पीति दृश्यत" इति वक्तव्यमिति वार्तिककृता धात्व­न्त­रे­भ्योऽपि डप्प्र­त्य­य­स्या­नु­शि­ष्ट­त्वात् , तत्र दृशिग्रहणं सर्वो­पा­धि­व्य­भि­चा­रा­र्थ­मिति वृत्ति­का­रे­णो­क्त­तया कृत्यल्युटो बहुलमिति बहु­ल­ग्र­ह­णा­द­न्येऽपि कृतः प्राप्तमभिधेयं व्यभिचरन्तीति तेनैवोक्ततया च तस्य डप्रत्ययस्य खल­र्थ­वृ­त्ति­त्वो­प­प­त्तेश्च । एतेनातः शब्दः संको­च­का­भा­वा­दा­का­शा­दि­स­र्व­प­रा­म­र्शक इति शङ्कापि निरवकाशीकृता ; आति­शा­य­नि­क­प्र­त्य­या­र्थ­प्र­ति­यो­गि­त्वे­ना­न्व­यि­ताया वक्तव्यत्वेन तस्या­व्य­व­हि­त­व्री­ह्या­दि­मा­त्र­प­र­त्वा­व­श्यं­भा­वाद् व्रीह्यादिभ्यो दुर्नि­ष्प्र­प­त­र­त्वो­क्ति­सा­म­र्थ्या­दा­का­शा­दि­भ्योऽपि दुर्नि­ष्प्र­प­त­र­त्व­मा­त्र­म­स्तीति तेष्वपि चिरा­व­स्था­ना­व­ग­मात् सूत्रे नाति­चि­रे­णे­त्य­ति­चि­रा­व­स्था­न­नि­षेधः कृतः इत्यास्तां विस्तरः ।
कथं तत्रापि चिरावस्थानेन पूर्वपक्ष इति ।
चिरावस्थानस्य कोट्यन्तरतया प्रवेशनेन कथं पूर्वपक्ष इत्यर्थः । भाष्योक्ते ह्यनि­य­म­पू­र्व­पक्षे चिरावस्थानमपि कोट्यन्तरत्वेन प्रविशति।
व्यवधानादिति ।
विलम्बे दुरु­प­स­र्ग­स्या­प्र­सि­द्ध­त्वेन साक्षाद्वाचकतया तस्मि­न्न­प्र­वृ­त्ते­रि­त्यर्थः ॥२३॥
इति पञ्चमं नातिचिराधिकरणम् ॥

अन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥
ननु क्रतु­प्र­क­र­ण­स्थेति ।
यथा खल्वामतकं कोष्ठे कफं हन्तीति वाक्य­स्ये­ष्ट­सा­ध­नत्वं विषयः कण्ठे कफं करोतीति वाक्य­स्या­नि­ष्ट­सा­ध­नत्वं विषय इति विषयभेदादविरोधः , एवं विधि­नि­षे­ध­यो­र­वि­रो­ध­श्चे­त्तर्हि क्रतुहिंसा विहितापि निषिद्धेति वक्तव्यम् । ततश्च क्रतुमध्ये निषि­द्धा­नु­ष्ठाने कथं क्रतुवैगुण्यं न स्यादिति शङ्कार्थः ।
न हि क्रतुशेषः प्रतिषेध इति ।
यथा कल­ञ्ज­भ­क्ष­ण­प्र­ति­षे­धस्य क्रतु­शे­ष­त्वा­भा­वा­त्क­ल­ञ्ज­भ­क्ष­णेन न क्रतोर्वैकल्यम् , एवं हिंसा­नि­षे­ध­स्यापि क्रतु­शे­ष­त्वा­भा­वा­द्धिं­सया न क्रतोः साकल्यमेव , किंतु क्रतु­सा­क­ल्य­लो­भा­त्पु­रु­षा­र्थ­नि­षे­ध­म­ति­क्रा­मतः पुरुषस्य परं प्रत्यवाय इति परिहारार्थः ।
एवं विहिताया अपीति ।
यथे­ष्ट­सा­ध­न­त्व­बो­ध­ना­स्प­द­मेव तक्र­पा­न­म­नि­ष्ट­सा­ध­न­त्व­बो­ध­न­स्या­प्या­स्प­दम् , एवं विहितैव हिंसा यदि निषेधस्यापि गोचरा स्यात्तर्ह्येव सा दुःख फला स्याद् , नत्वेवं निषेधस्य पुरु­षा­र्थ­हिं­सा­मा­त्र­वि­ष­य­त्वा­दि­त्या­हे­त्यर्थः ।
ननु पुरु­षा­र्थ­हिं­साया एव निषेध्यत्वादिति हेतुसाधनाय प्रवृत्ते तथा­ही­त्या­दि­टी­का­ग्रन्थे हिंसा­नि­षे­ध­स्या­नृ­त­व­द­न­नि­षे­ध­वत् क्रतु­प्र­क­र­णा­म्ना­ना­भा­वात् क्रत्वर्थहिंसा न निषे­ध्ये­त्ये­ता­वति वक्तव्ये यदर्थं निषेध्यं तदर्थो निषेध इति निषे­ध्य­नि­षे­ध­यो­रे­क­वि­ष­य­त्व­नि­य­मोक्तिः क्वोपयुज्यत इत्याशङ्क्य तदुपयोगं दर्शयन्नवतारयति -
क्रत्वर्थो हि प्रतिषेध इति ।
अयमाशयः क्रत्व­र्थ­पु­रु­षा­र्थो­भ­य­वि­धस्य हिंसामात्रस्य पुरुषार्थो निषेध इति सांख्यमतेन खल्वत्र पूर्वपक्षः कृतः । न तन्मतं युज्यते । निषे­ध्य­नि­षे­ध­यो­रे­क­वि­ष­य­त्व­नि­य­मेन निषेधस्य पुरुषार्थत्वे निषेध्यहिंसाया अपि पुरु­षा­र्थ­त्वा­व­श्यं­भा­वा­दि­त्येवं नियमकथनस्य सांख्य­प्र­क्रि­या­नि­रा­क­र­णेन हेतु­सि­द्ध्यु­प­यो­गित्वं तावत् स्पष्टमेव , तर्हि नियमाऽविरोधाय निषे­ध्य­नि­षे­धा­वु­भा­वपि क्रत्वर्थौ स्ताम् , एवमपि पुरुषार्थाया एव निषेधादिति हेतो­र­सि­द्धि­र्भ­वे­दिति शङ्कोत्थानेऽपि निय­म­व­र्ण­न­स्या­स्त्यु­प­योगः , तस्यां शङ्कायां निषेध्यस्य क्रत्व­र्थ­त्वा­सं­भ­वेन दूषितायां तर्ह्य­ना­र­भ्या­धी­तस्य हिंसा­नि­षे­ध­स्या­नृ­त­व­द­न­नि­षे­ध­वत् क्रतू­प­स्था­प­क­प्र­क­र­णा­भा­वेन क्रत्व­र्थ­नि­षे­ध­त्वा­सं­भवे क्रत्वर्थत्वं पुरुषार्थत्वं च विशेषणं विना हिंसि­धा­त्व­र्थ­मा­त्रस्य निषेधोऽस्तु । तथा च क्रत्व­र्थ­हिं­साया अपि निषेधो लभ्यत इति शङ्कायां निषेधस्य क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­बो­ध­नाय वाक्य­वै­रू­प्या­पत्त्या तद्दूषणे चास्त्यस्य निय­म­व­र्ण­न­स्यो­प­योग इति। एवं च क्रत्वर्थो हि प्रतिषेधः क्रत्वर्थं प्रतिषेधेदिति हिंसा­नि­षे­ध­यो­र्व­क्ष्य­मा­ण­नि­य­म­ल­भ्यस्य क्रत्वर्थत्वस्य वचनमग्रे शङ्किष्यमाणस्य क्रतु­पु­रु­षो­भ­या­र्थ­त्व­स्या­प्यु­प­ल­क्ष­ण­मिति वक्ष्य­न्नि­त्ये­त­त्क्र­तु­पु­रु­षो­भ­या­र्थत्वं नास्तीति वक्ष्य­मा­णा­न्त­र­स्या­प्यु­प­ल­क्ष­णम् । तेन प्रकारेण न हिंस्या­दि­त्ये­त­त्क­स्य­चि­त्प्र­क­रणे न समाम्नातमिति दार्ष्टा­न्ति­कां­श­मा­का­ङ्क्षि­त­म­ध्या­हृत्य टीकार्थः कथितः ।
कथं क्रत्वर्थः स्यादिति ।
आज्य­भा­ग­ज­न्यो­प­का­र­स्या­भा­वे­ना­सं­भ­वा­दिति भावः ।
प्राभा­क­रा­स्त्विति ।
प्राभाकराणां पर्युदासपक्षो दर्श­पू­र्ण­मा­स­प्र­क­र­ण­ग­त­वा­क्य­स्या­र्थ­वा­द­त्व­प­क्षश्च हानौ तूपायने (ब्र. अ. ३ पा. ३ सू. २६) त्यधिकरण एव स्पष्टीकरिष्यते ।
प्रवृ­त्ति­कै­म­र्थ्य­नि­र्ण­याय चेति ।
यद्याख्यातेन कर्ताऽभिधीयते , तदा श्रुत्यु­पा­त्त­क­र्तृ­पु­रु­ष­शे­ष­भू­त­म­नृ­त­व­दनं निषेध्यमिति तन्निषेधोऽपि पुरुषार्थो भवति।
यदि तेन कर्ता नाभिधीयते , तदा प्रक­र­ण­स­न्नि­धा­पि­त­क्र­त्वर्थं तन्निषेध्यमिति तन्निषेधोऽपि क्रत्वर्थो भवतीति विचाराणां फलफलिभावमाह –
अभिहितेति ।
ननु – न तौ पशौ करोतीति निषेधे आज्य­भा­ग­व­न्ना­नृतं वदेदिति निषेधे निषेध्यमनृतवदनं क्रत्वर्थतया विहितं नास्तीति – चेत् , सत्यम् ; क्रत्व­र्थ­द्र­व्या­दि­सं­पा­द­नो­पा­य­भूतं यदनृतवदनं तदविहितमपि द्रव्या­र्ज­न­व­त्क्र­तू­प­का­र­क­तया क्रत्वर्थमिह विवक्षितम् । अथवा – व्रीहि­भि­र्यक्ष्य इति संकल्प्य यस्तदलाभे तत्प्र­ति­नि­धी­न्नी­वा­रा­दीन् विहाय यवैर्यजते तस्य तत्सं­क­ल्प­व­च­न­म­नृतं जायत इति तथाभूतमनृतमिह क्रत्व­र्था­नृ­त­व­च­न­मिति विवक्षितम् ।
गम्यमानकर्तुः संख्याया इति ।
समा­न­प्र­त्य­यो­पा­त्त­क­र्तृ­सं­ख्या­भि­धा­न­पक्षे नातिप्रसङ्गः । गम्यमानस्यापि चेत्कर्तुः संख्याऽऽ­ख्या­ते­ना­भि­धी­येत , तदा पदा­न्त­रो­पा­त्त­क­र­णा­दि­संख्या तेन सुतरामभिधातुं शक्येति चैत्रः काष्ठः पचतीत्यपि प्रयोगप्रसङ्ग इत्यर्थः ।
अथ गम्यमानस्यापि कर्तुरेव संख्या तेनाभिधेया , तदैककर्तृके पाके तण्डुलान् पच्यन्त इति प्रयोगप्रसङ्ग इत्याह –
पच्यत इत्यत्रापीति ।
अनभिहितस्यापीति ।
यत्प्रधानं कारकं तत्सं­ख्याऽऽ­ख्या­ते­ना­भि­धे­येति नियमः । तथा च पचति तण्डुलानित्यत्र कर्तुः प्राधा­न्या­त्त­त्संख्या तेनाभिधेया । पच्यन्ते तण्डुला इत्यत्र कर्मणः प्राधा­न्या­त्त­त्संख्या , कारणादीनां तु सर्व­त्रा­प्रा­धा­न्यान्न क्वाप्याख्यातेन तदभिधानप्रसङ्ग इत्यर्थः ।
अनु­वा­द­क­त्व­मा­हेति ।
बल­व­द­नि­ष्टा­न­नु­ब­न्धी­ष्ट­सा­ध­न­त्व­रूपं श्रेयः­सा­ध­न­त्व­म­नूद्य तन्निषेधः क्रियते , स च निषेधो विशे­ष्य­स­त्त्वा­द्वि­शे­ष­ण­नि­षे­ध­मा­दाय पर्य­व­स्य­ती­त्यर्थः ।
रागप्राप्तेति ।
पुरु­षा­र्थे­त्यर्थः । तथा चाख्या­तो­पा­त्त­भा­व­ना­क्षे­पो­प­स्थि­त­पु­रु­ष­शे­ष­हिं­सा­वि­ष­य­त्वेन चारि­ता­र्थ्या­द­नु­प­स्थि­त­क्र­तु­शे­ष­हिं­सा­नु­वा­द­त­न्नि­षे­ध­वि­ष­य­त्व­क­ल्पनं गौर­व­प­रा­ह­त­मि­त्यर्थः ।
ननु पुरुषार्थत्वेन क्रत्वर्थत्वेन च हिंसो­प­स्थि­ति­म­पेक्ष्य तन्निषेधो नोच्यते किंतु हिंसा­सा­मा­न्य­नि­षे­धेन पुरु­षा­र्थ­हिं­सा­नि­षे­ध­वत् क्रत्व­र्थ­हिं­सा­नि­षे­धोऽपि लभ्यत इत्युच्यतेऽतो न क्रत्व­र्थ­तो­प­स्थि­ति­गौ­र­व­मि­त्य­स्व­र­सा­दाह –
उभयनिषेधे चेति ।
रागप्राप्ततेति ।
पुरु­षा­र्थ­ते­त्यर्थः , न तु रागा­धी­न­प्र­वृ­त्ति­वि­ष­य­ते­त्यर्थः । क्रत्व­र्थ­हिं­साया अपि रागा­धी­न­प्र­वृ­त्ति­वि­ष­य­त्वा­त्फ­ल­रागं विनाऽद्यापि प्रवृ­त्त्य­सं­भ­वा­त्का­मा­धि­कारे करणांशे रागतः प्रवृत्तिः , अङ्गेषु वैधी प्रवृत्तिरिति निरालम्बनायाः प्राभा­क­र­प­रि­भा­षायाः सिद्धा­न्ता­न­भि­म­त­त्वा­त्त­द­यु­क्तम् ।
विशे­ष­वि­धि­वि­हि­त­स्या­र्थ­स्येति ।
अत्रेदं वक्तव्यम् – इहा­प्यु­त्स­र्गा­प­वा­द­न्यायः प्रवर्तत एव ; हिंस्यादित्यनेन विहितहिंसाया अपि क्रोडीकारात् । मर­ण­फ­लो­प­हि­त­म­र­ण­का­र­ण­पु­रु­ष­व्या­पा­रत्वं हिंसात्वं हिंसा­श­ब्द­प्र­वृ­त्ति­नि­मित्तं तद्वै­ध­हिं­सा­या­म­प्य­वि­शि­ष्टम् । न च – सत्यपि हिंसा­श­ब्दा­र्थत्वे हिंस्या­दि­त्या­ख्या­तो­पा­त्त­भा­व­ना­क्षि­प्त­त­त्क­र्तृ­पु­रु­ष­शे­ष­भू­तैव हिंसा प्रतीयत इति न तत्र हिंसिधातुना वैध­हिं­सा­क्रो­डी­का­रोस्ति तद्व्या­व­र्त­क­वि­शे­ष­ण­स­द्भा­वा­दिति – वाच्यम् ; उद्देश्ये तथा विशेषणायोगात् । अन्यथा आहवनीयवाक्येऽपि जुहो­ति­धा­तु­नाऽऽ­ख्या­तो­पा­त्त­भा­व­ना­क्षि­प्त­पु­रु­ष­शे­षाणां पुरु­षा­र्थ­हो­मा­ना­मे­वा­नु­वादो न क्रत्व­र्थ­हो­मा­ना­मिति ज्योति­ष्टो­म­क्र­त्व­र्थस्य पदहोमस्य तेना­वि­ष­यी­क­र­णा­दा­ह­व­नी­य­प­द­वा­क्य­यो­रु­त्स­र्गा­प­वा­द­न्यायः प्रत्यु­द्ध्रि­येत , नारि­ष्ट­हो­मा­दीनां च क्रत्व­र्था­ना­मा­ह­व­नी­य­सि­द्धि­र्न­स्यात् । ननु – तत्र प्रत्य­क्ष­वि­धि­वि­हि­तानां सर्वेषां होमा­ना­म­नु­वा­द­सं­भ­वा­द­न­पे­क्षि­तो­द्दे­श्य­वि­शे­षणे वाक्य­भे­दा­प­त्तेर्न पुरुषशेषत्वं विशेषणम् , इह तु हिंसा­मा­त्र­नि­षेधे अनृतवदननिषेधस्य क्रत्वर्थत्वम् । हिंसानिषेधस्य पुरुषार्थत्वम् । लौकिके पुरुषार्थत्वं वैदिके क्रतुशेषतेति वाक्य­वै­रू­प्या­प­त्ते­र्लौ­कि­क­वै­दि­का­न्य­त­र­ग्र­ह­णा­का­ङ्क्षा­या­मु­प­स्थि­त­पु­रु­ष­शे­ष­भू­तैव हिंसा गृह्यते नानु­प­स्थि­त­क्र­तु­शे­ष­भू­तेति – चेन्न ; लौकि­क­वै­दि­को­भ­य­वि­ध­हिं­सा­नि­षे­धस्य पुरु­षा­र्थै­क­रू­प­त्वो­प­पत्तेः । निषे­ध्य­नि­षे­ध­यो­र्वि­ष­यै­क­रू­प्य­नि­य­म­स्त्व­सिद्धः ; स्त्र्युप­ग­म­न­मां­स­भ­क्ष­णा­दीनां प्रतिषेधस्य क्रत्व­र्थ­त्व­द­र्श­नात् "स्त्र्युपा­य­मां­स­भ­क्ष­णा­दि­पु­रु­षा­र्थ­मपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रक­र­णा­श्र­या"दिति वार्तिकोक्तेश्च । तथापि क्रत्वर्थस्य निषेधः क्रत्वर्थ एव न पुरुषार्थ इति नियमोस्तीति चेन्न ; अप्रयोजकत्वात् क्रत्व­र्थ­पु­रु­षा­र्थ­सा­धा­र­णा­प­गो­र­ण­सा­मा­न्या­दि­नि­षे­धानां पुरु­षा­र्थ­त्व­सं­प्र­ति­प­त्तेश्च ; अन्यथा क्रत्व­नु­ष्ठा­न­प्र­ति­ब­न्ध­क­ब्रा­ह्म­णा­प­गो­र­णा­दिषु स्वाच्छ­न्द्य­प्र­स­ङ्गात् । ननु - एवं सति क्रत्व­र्थ­स्यै­वा­नृ­त­व­द­नस्य निषेधः क्रत्वर्थ इति क्रतुमध्ये क्रत्व­र्था­नृ­त­व­दन एव क्रतोर्वैकल्यं , पुरु­षा­र्था­नृ­त­व­दने तु यो नाम क्रतुमध्यस्थ इत्युक्तरीत्या पुरुषस्यैव प्रत्यवाय इति कर्त्र­धि­क­र­ण­सि­द्धान्तो नावतिष्ठेत , उक्त­नि­य­मा­न­ङ्गी­कारे क्रत्वर्थानि पुरुषार्थानि वा याव­न्त्य­नृ­त­व­द­नानि तेषां सर्वेषामपि निषेधस्य क्रत्व­र्थ­त्वो­प­प­त्ते­रिति – चेत् , उच्यते ; नानृतं वदेदिति वाक्ये अनृतं वदेदिति भागस्य प्रक­र­णा­म्ना­ना­द­य­मर्थो भवति अनृतवदनेन दर्श­पू­र्ण­मा­स­यो­रु­प­कु­र्या­दिति। ततश्च नञा संब­न्धा­द­य­मं­शोऽ­नु­वादो न विधि­रि­त्य­व­सा­यात् कृत्स्नस्य वाक्यस्यायमर्थो भवति अनृतवदनेन दर्श­पू­र्ण­मा­स­यो­रु­प­कु­र्या­दिति यत्तन्नेति। इत्थमेवास्य वाक्यस्य योजनाप्रकारो वार्तिके दर्शितः । एवमनया रीत्या प्रक­र­ण­सा­म­र्थ्या­त्क्र­त्व­र्था­नृ­त­व­द­न­नि­षेध एव क्रत्वर्थ इति लाभान्न तन्नि­र्वा­हा­र्थ­मु­क्त­नि­य­मोऽ­पे­क्ष­णीयः । नन्वेवं – प्रक­र­णा­म्ना­ता­नृ­त­व­द­न­नि­षे­ध­वा­क्या­र्थ­क­थने अना­र­भ्या­धी­त­हिं­सा­नि­षे­ध­वा­क्य­स्या­नया प्रक्रि­य­ये­त्थ­मर्थो भवति हिंसया पुरु­ष­स्यो­प­कु­र्या­दिति यत्तन्नेति । तथा च पुरु­षा­र्थ­हिं­सा­नि­षेध एव वाक्यार्थ इति क्रत्व­र्थ­हिं­सायाः तद­वि­ष­य­त्वा­त्तत्र नोत्स­र्गा­प­वा­द­न्या­य­प्र­वृत्तिः । अत इदं घट्टकुट्यां प्रभातमिति – चेत् ; न क्रत्व­र्थ­हिं­सायाः परंपरया पुरु­षो­प­का­र­क­त्वेन तस्या अपि तेन विषयीकरणात् , क्रत्व­र्थ­ता­द्वारा अन्यथा वा यथाकथंचित् पुरु­षो­प­का­र­प­र्य­व­सा­न­मा­त्र­मेव हि तत्रा­नु­वा­द्य­कोटौ प्रविष्टं , यथाऽ­नृ­त­व­द­न­नि­षेधे पुरु­षा­र्थ­ता­द्वा­राऽ­न्यथा वा क्रतू­प­का­र­मा­त्रम् । न हि तत्रानृतवदनं पुरु­षा­र्थ­ता­म­न­पेक्ष्य क्रतूपकारकम् । क्रतू­प­यो­गि­द्र­व्या­दि­रा­हि­त्या­व­स्था­वि­शि­ष्टस्य पुरुषस्यैव हि शेषभूतं सद् द्रव्या­र्ज­नो­पा­या­न्त­र­वत् क्रतूपकारकम् । एवं व्रीहीन् संकल्प्य यवानुपाददानस्य संक­ल्प­व­च­ना­नृ­त­ता­पा­द­न­मपि । न हि तदुभयं क्रत्वर्थतया विहितम् । नन्वेवं – निषे­ध्य­नि­षे­ध­यो­रे­का­र्थ­ता­नि­य­मा­ना­दरे कत्व­र्थ­पु­रु­षा­र्थ­सा­धा­र­ण­हिं­सा­सा­मा­न्य­नि­षे­धस्य केव­ल­पु­रु­षा­र्थ­तो­प­पत्तेः सांख्य एव विजयी स्यात् ; महाफलसाधनस्य यागस्य प्रत्य­क्षा­दि­प्र­मा­णा­प्राप्तं वित्त­व्य­या­या­स­प्र­यु­क्त­मिव पशु­मा­ल­भे­ते­त्या­दि­श्रु­ति­प्राप्तं हिंसा­दि­क­र­म्बि­त­त्व­प्र­यु­क्त­मपि स्वल्प­दुः­ख­म­स्त्विति प्रवृ­त्त्यु­प­पतेः , असति विरोधे हिंसा­सा­मा­न्य­नि­षे­धस्य वैधहिंसाविधिना बाधनायोगात् , अतो हिंसा­नि­षे­ध­वा­क्यस्य वैध­हिं­सा­प­रि­हा­र­मि­च्छता निषेधवाक्यस्य प्रथममेव पुरु­षा­र्थ­हिं­सा­वि­ष­यत्वं वर्णनीयमिति न तत्रो­त्स­र्गा­प­वा­द­न्या­य­प्र­वृत्तिः , अप­वा­द­स­द्भा­व­प्र­यु­क्त­त­द्वि­ष­य­प­रि­हा­र­स्थ­ल­स्यैव तन्न्या­य­वि­ष­य­त्वा­दिति – चेत् , उच्यते ; हिंसा­नि­षे­ध­वि­धा­न­यो­रु­त्स­र्गा­प­वा­द­न्या­य­वि­ष­य­त्वा­भा­व­व्य­व­स्था­प­न­प्र­त्या­शया निर्मूलं निषे­ध्य­नि­षे­ध­यो­रे­क­वि­ष­य­त्व­नि­य­म­म­व­लम्ब्य पुरु­षा­र्थ­हिं­साया एव निषेध इति समर्थनेऽपि तयो­रु­त्स­र्गा­प­वा­द­न्या­य­वि­ष­यता नापैति ; मर­णा­न्त­प्रा­य­श्चि­त्त­मा­ह­वा­भि­मु­ख­ह­न­न­मु­चि­त­द­ण्ड­रू­प­चो­र­ह­ननं स्तेनहननमिति बहूनां पुरु­षा­र्थ­हिं­स­नानां निषेधेन परिहरणीयत्वात् । न हि सुरापस्य ब्राह्म­ण­स्यो­ष्णा­मा­सि­ञ्चेयुः सुरामास्ये मृतः शुध्येदिति शुद्ध्यर्थमेव विहि­त­मा­त्म­ह­न­न­म­शु­द्ध्या­पा­द­क­मिति वक्तुं शक्यम् ; न दोषो हिंसायामाहव इति पर­स्प­रा­ह्वा­न­पू­र्वके धर्मयुद्धे योद्धुमभिमुखस्य हनने दोषाभावः कण्ठत एवोक्तः । ’अदण्ड्यान् दण्डयन् राजा दण्ड्यां­श्चै­वा­प्य­द­ण्ड­यन् । अयशो महदाप्नोति नरकं चैव गच्छति’ । ’स्तेनः प्रकीर्णकेशो मुसली राजा­न­मी­या­त्क­र्मा­च­क्षाणः पूतो वध­मो­क्षा­भ्या­म­घ्न­न्ने­न­स्वी­राजे’ति राज्ञो दण्ड­रू­प­चो­रा­द्य­ह­नने स्तेनाहनने च दोष­स्म­र­णा­त्ता­दृ­श­ह­न­नेऽपि दोषाभावः सिद्धः । तथा च पुरु­षा­र्थ­हिं­सा­नि­षे­ध­प­क्षेऽ­प्य­नु­प­दि­ष्ट­प्रा­य­श्चि­त्त­वि­हि­त­हिं­सा­ति­रि­क्त­हिं­सा­वि­ष­य­त्व­म­वश्यं वक्तव्यम् । तथा च तत एव वैध­प­शु­सं­ज्ञ­प­न­स्या­प्यु­त्स­र्गा­प­वा­द­न्या­ये­नैव परिहारसिद्धेः किं प्रथममेव तत्परिहारार्थं पुरु­षा­र्थ­हिं­साया निषे­ध्य­त्व­क­ल्प­नेन ? “अहिंसन् सर्व­भू­ता­न्य­न्यत्र तीर्थेभ्य” इति छन्दोगोपनिषदि हिंसानिषेधे तीर्थ­प­र्यु­द­स­ने­नापि हिंसा­नि­षे­ध­वि­धा­न­यो­रु­त्स­र्गा­प­वा­द­न्यायः प्रत्याय्यते । तत्र हि तीर्थ­श­ब्दे­ना­ग­र्हिता या हिंसा सा पर्युदस्यते । अगर्हिता चानु­प­दि­ष्ट­प्रा­य­श्चि­त्त­वि­हि­त­हिंसा । अत एव “श्येनेनाभिचरन् यजेत” , “आत­ता­यि­न­मा­यान्तं हन्या­दे­वा­वि­चा­र­यन्” इति विहितयोरपि अभि­चा­रा­त­ता­यि­व­धयोः प्राय­श्चि­त्तो­प­दे­शा­द्ग­र्हि­त­त्वेन न पर्युदासविषयता । एतेन – वैधहिंसायां स्वल्प­दो­षोऽ­स्तीति वदन्तः साङ्ख्याः साङ्ख्य­म­त­नि­रा­सा­सा­म­र्थ्येन वैधपशुसंज्ञपनं हिंसैव न भवति पश्व­नु­ग्र­हा­र्थ­त्व­श्र­व­णा­दिति वद­न्त­श्चै­क­दे­शिनो – निरस्ताः । क्रत्व­र्थ­पु­रु­षा­र्थ­रू­पा­ग­र्हि­त­वै­ध­हिं­सा­मात्रे सामा­न्य­नि­षे­धा­प्र­वृत्तेः , सम­र्थि­त­त्वा­द्धिं­सा­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­स­द्भा­वेन हिंसा­त्वा­भा­वो­क्त्य­यो­गाच्च । न च “न वा इवेतन्म्रियसे तरि­ष्य­सी”त्या­दि­श्र­व­णेन वध्या­नु­ग्र­ह­प­र्य­व­स­न्न­त्वा­द­हिं­सा­त्व­मा­श­ङ्क­नी­यम् ; व्रणशान्त्यर्थं कृता­व­य­व­च्छे­द­नस्य छेद­नी­या­नु­ग्र­हा­र्थ­त्वेऽपि क्रोध­कृ­ता­व­य­व­च्छे­द­सा­धा­र­ण­च्छे­देन शब्द­प्र­वृ­त्ति­नि­मि­त्त­स­द्भा­वेन छेद­न­त्व­व­द्वै­ध­हिं­साया अपि हिंसा­त्व­स्या­नि­वा­र्य­त्वात् । भाष्ये हिंसा­दी­त्या­दि­श­ब्द­गृ­ही­तस्य सोमो­च्छि­ष्ट­भ­क्ष­णस्य सौत्रामण्यादिषु सुराग्रहादीनां चानु­च्छि­ष्ट­भ­क्ष­ण­त्वा­सु­रा­ग्र­ह­त्वा­दीनां वक्तु­म­श­क्य­त्वा­च्चेति यथा­भा­ष्य­मु­त्स­र्गा­प­वा­द­न्यायः समञ्जस एव । हिंसैव वैधमपि संज्ञपनं न हिंस्यादित्यत्र रागकृतता पुरुषार्थता वा । आदौ न हिंस­न­वि­शे­ष­ण­म­स्त्य­थापि नौत्सर्गिकः स्पृशति वैधमयं निषेधः॥ सार्वत्रिको न खलु वृत्ति­नि­मि­त्त­तौल्ये शब्दार्थतापलपनं परिहारहेतुः । उच्छि­ष्ट­भ­क्ष­ण­सु­रा­ग्र­ह­णा­नु­रा­ग­प्रा­प्ता­खि­ल­स्त्र्य­प­रि­हा­र­मु­खे­ष्व­भा­वात्॥ राग­प्र­यु­क्त­पु­रु­षा­र्थ­वि­शे­ष­णेऽपि हिंसा­नि­षे­ध­न­म­स­र्व­ग­मेव वाच्यम् । नो चेद­दो­ष­ल­व­मा­ह­व­हिं­स­नादि व्यावर्तनं प्रतिलभेत कथं निषेधात् ? ॥२४॥२५॥२६॥२७॥
इति अन्या­धि­ष्ठि­ता­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले तृती­य­स्या­ध्या­यस्य प्रथमः पादः॥॥
इति तृतीयाध्यायस्य गत्यागतिचिन्तया वौरा­ग्य­नि­रू­प­णाख्यः प्रथमः पादः॥

तृतीयाध्याये द्वितीयः पादः॥ संध्ये सृष्टिराह हि ॥१॥
कर्मफलस्य याता­या­त­रू­प­त्वे­नेति ।
प्रथमाधिकरणे – तावद्गमनं चिन्तितम् ।ˍ तत्र सक­ल­सं­सा­र­दुः­खा­य­त­नस्य भूते­न्द्रि­य­सं­घा­त­रू­प­दे­ह­सं­ब­न्ध­स्या­ब्र­ह्म­सा­क्षा­त्का­र­मिह परत्र च गता­ग­त­यो­र­नु­वृ­त्ति­र्नि­रू­पिता । तत्रैव भाक्तं वानात्मवित्त्वा (ब्र. अ. ३ पा. १ सू. ७) दिति सूत्रे देवभृत्यभावेन तत्प्रयुक्ते क्लेशकरम्बितस्य स्वर्ग­भो­गा­नु­भ­वस्य तुच्छत्वं सातिशयत्वं चाविष्कृतम् । द्वितीयाधिकरणे – सूक्ष्म­दे­ह­स्यापि कारणतया सक­ल­सं­सा­र­क्ले­श­नि­दा­नस्य कर्मबन्धस्य ब्रह्म­ज्ञा­न­प­र्य­न्त­म­नु­वृ­त्ति­र्नि­रू­पिता । तत्रैव स्वर्गभोगस्य क्षयि­ष्णु­त्व­दो­षोऽपि कृतात्यय (ब्र. अ. ३ पा. १ सू. ८) इति सूत्रभागेन दर्शितः । एव­म­ने­क­दो­ष­दु­ष्ट­स्यापि स्वर्गभोगस्य जनकं यागादिकं प्रतिजन्म याव­ज्जी­व­क­र्त­व्य­स्ना­न­सं­ध्या­व­न्द­ना­दि­वि­हि­ता­नु­ष्ठा­न­नि­षे­ध­प­रि­हा­र­रू­प­ब­हु­वि­ध­श­री­र­क्ले­श­सा­ध्य­स्मा­र्ता­चा­र­सा­पे­क्ष­त्वा­द­ति­दु­ष्क­र­मिति चरणादिति चे (ब्र. अ. ३ पा. १ सू. ९) दित्यादिसूत्रैः प्रकटितम्॥ अनि­ष्टा­दि­का­रिणां तु शुभमार्गेण गतिर्वा ग्रामं गच्छन् वृक्ष­मू­ला­न्यु­प­स­र्प­तीति न्यायेन स्वर्ग­प्रा­प्ति­मात्रं वा नास्तीति तृतीयाधिकरणे वर्णितम् । चतुर्थे – स्वर्गा­द­व­रो­ह­ताम् आका­शा­दि­भा­व­श्र­व­णात् तद­भि­मा­नि­दे­व­ता­ना­मि­वा­का­शा­दि­श­री­र­क­त्व­प्र­युक्तः कियान् दिव्य­भो­गोऽ­स्तीति शङ्का­वा­र­णा­या­का­शा­दिषु संश्ले­ष­मा­त्र­मि­त्यु­क्तम् । पञ्चमे तेषु चिरमचिरं वाऽवस्थानमिति अनि­य­म­नि­रा­स­व्या­जेन व्रीह्यादिषु सुखभोगरहितम् अन­ति­चि­रा­व­स्था­न­मिति दर्शितम् । तच्च तद­भि­मा­नि­जी­वा­त्मना चेत्त­ल्ल­व­न­प­र्य­न्त­मेव भवे­दि­त्य­न­ति­हे­य­त्व­श­ङ्का­नि­रा­क­र­णा­त्तेषु संश्वे­ष­मा­त्र­मिति षष्ठाधिकरणे दर्शितम् । स च संश्लेषस्तेषां शोष­ण­कु­सू­ला­व­स्था­प­ना­व­ह­न­न­फ­ली­क­र­ण­पा­क­भ­क्ष­णा­दि­द­शा­स्व­नु­व­र्त­मानः पितृवीर्यात्मना परिणामपर्यन्त इति रेतःसिक्सूत्रेण (ब्र. अ. ३ पा. १ सू. २६) दर्शितम् । पुरु­ष­भ­क्ष­ण­वि­ष­य­त्व­म­ना­प­न्नेषु व्रीह्यादिषु संश्लि­ष्टा­ना­म­नु­श­यिनां तेषु संश्लेषः , तत्त­द्व्री­ह्या­दि­प­रि­णा­मा­न्त­र­प­र­म्प­रा­क्र­मेण यथा­क­थं­चि­त्पु­रु­ष­भ­क्ष­ण­वि­ष­य­त्व­प्रा­प्त्य­न­न्तरं तेषां तद्वीर्यात्मना परिणामपर्यन्त इत्यपि तेनैव सूत्रेण सूचितम् । पुरु­ष­वी­र्या­नु­प्र­वे­शेऽपि योषितमप्राप्य तेषां न शरीरलाभः । तद्यदि वीर्य­म­प­रि­ग्र­हाणां वन्ध्यादिषु प्रवृत्तानां वा स्यात् , तदा तद्वी­र्य­प­रि­णा­मा­न्त­र­क्र­मेण पुनरपि पुरु­ष­भ­क्ष­ण­वि­ष­यत्वं प्राप्य तद्वी­र्य­सं­स­क्तया ऋतुमतीनां योषितां गर्भ­गो­ल­क­प्र­वे­शा­न­न्त­र­मेव क्वचिज्जन्मनि भोगाश्रयस्य भोग­मो­क्ष­सा­ध­ना­नु­ष्ठा­नो­प­यो­गि­नश्च शरीरस्य लाभ इति योनेः शरीरमिति सूत्रेण दर्शितम् । एवं गतागतनिरूपणेन वैराग्यं दृढी­कृ­त­मि­त्यर्थः ।
जीवा­व­स्था­भे­दोऽ­नु­गतः पादार्थो न भव­ती­त्या­श­ङ्क्याह –
तत्त्व­म्प­दा­र्थ­वि­वे­का­र्थ­मिति ।
महा­वा­क्या­र्था­न्व­यि­प­दा­र्थ­वि­वे­का­ये­त्यर्थः ।
तदवस्थमिति ।
स्वप्नेऽ­प्या­दि­त्या­दि­स­द्भा­वा­दिति भावः ।
मनस्तु स्वप्ने सदपीति ।
व्याव­हा­रि­क­म­पी­त्यर्थः ।
ननु मनो यदि दृश्य­त्वा­न्ना­त्म­भा­स­न­क्षमं , तर्हि स्वाप्न आदित्यादिरपि तत एव तथेति तन्मि­थ्या­त्व­स­म­र्थनं व्यर्थ­मि­त्या­शङ्क्य प्राति­भा­सि­क­त्व­सि­द्ध्यर्थं तदित्याह –
आदित्यादीनामिति ।
शुक्ति­र­ज­ता­त्म­क­मे­क­मेव वस्त्विति ।
रजतावयवैः शुक्त्यवयवैश्च शुक्तिरारब्धा , यथा व्रीह्य­व­य­वै­र्नी­वा­रा­व­य­वै­श्च­र्नी­वारा: । अत एवेष्टिषु व्रीह्यलाभेने सम­ग्र­व्री­ह्य­व­य­वो­पा­दा­नाऽ­सं­भवे सति यथाकथंचिद् व्रीहि­शा­स्त्रा­र्थ­लि­प्सया कति­प­य­व्री­ह्य­व­य­व­वन्तो नीवारा उपादेया इति पूर्वतन्त्रे प्रति­नि­धि­पे­टि­कायां समर्थितम् । इयाँस्तु विशेषः । शुक्तौ शुक्त्यवयवा भूयांस इति प्रायेण शुक्त्याकारो गृह्यते , तद्ग्रहणदशायां तेना­भि­भ­वा­द्र­ज­ता­कारो न गृह्यते । दोष­व­शा­त्त­द­ग्र­हणे गृह्यत इति भावः ॥१॥२॥
तद् दूषयतीति ।
नीवारेषु व्रिह्य­व­य­वा­ना­मिव शुक्तिषु रजतावयवानां सत्त्वे शुक्तिदाहे क्षारभाववद् द्रवी­भा­व­स्या­प्यु­प­ल­ब्धि­प्र­सङ्गः । आधाने रजतशकलाद्यलाभे शुक्ति­श­क­लो­पा­दा­न­प्र­सङ्गः । अतः शुक्तौ रज­ता­व­य­वा­भा­वा­त्त­त्स­त्त्वेन रज­त­ज्ञा­न­प्र­मा­त्व­स­म­र्थ­न­म­यु­क्तम् । कथं­चि­द्र­ज­ता­व­य­व­स­त्त्व­क­ल्प­नेऽपि सर्वा­व­य­वा­व­च्छे­देन शुक्तौ रजतज्ञानस्य चित्रपटे सर्वः पटो रक्त इति ज्ञानस्येव प्रमात्वं निर्वोढुं न शक्यम् । असार्वत्रिकं चैत­द­व­य­वा­ल­म्ब­न­तया प्रमा­त्व­स­म­र्थ­नम् ; तेन नीवारादिषु व्रीह्या­दि­ज्ञा­नस्य प्रमात्वालाभात् । न हि रजतावयवेषु रजतत्वमिव व्रीह्यवयवे व्रीहित्वमस्ति। उत्पले नीलिमा उत्पलेऽरुणिमेति ज्ञानयोश्च प्रमात्वं निर्वोढुमशक्यम् ; द्रव्येषु द्रव्या­न्त­रा­णा­मिव निरवयवेषु गुणेषु गुणा­न्त­रा­णा­म­व­य­वा­नु­प्र­वे­शस्य वक्तु­म­श­क्य­त्वात् , पृथग्भूतयोश्च नीलि­मा­रु­णि­म­गु­ण­यो­रे­कत्र व्याप्य­वृ­त्ति­तया समा­वे­शा­सं­भ­वा­दिति दोषान्मनसिकृत्य दूषयतीत्यर्थः ।
ननु तोय­द्वै­वि­ध्य­वा­दिनं प्रति पिपा­सो­प­श­म­रू­प­तो­या­र्थ­क्रि­या­व्या­वृ­त्ति­सा­धनं न युक्त­मि­त्या­शङ्क्य तोय­द्वै­वि­ध्य­क­ल्प­न­म­यु­क्त­मिति तावदाह –
पिपासोपशामकमिति ।
अकल्पने चेति ।
तोय­द्वै­वि­ध्या­क­ल्पने इत्यर्थः । कल्पनइति पाठे पिपा­सो­प­श­म­क­मु­द­क­मि­त्यै­क­वि­ध्य­क­ल्पन इत्यर्थः ।
तन्निषेधस्य पूर्वेण कर्तु­म­श­क्य­त्वा­दिति ।
ननु – कोऽत्र निषेधः ? यः परेण पूर्वस्य कर्तुं शक्यः सन् पूर्वेण परस्य कर्तुं न शक्य इत्युच्यते , किं ध्वंसः ? उत स्वरूपतो विषयतो वा तदभावबोधनम् ? नाद्यः , द्वित्रि­क्ष­णा­व­स्था­यिनः पूर्व­ज्ञा­न­स्यो­त्त­रा­त्म­वि­शे­ष­गु­ण­मा­त्रा­त्का­लाच्च ध्वंससत्त्वेन तत्साधारणस्य ध्वंसकत्वस्य विरो­धि­वि­ष­य­ज्ञा­नाऽ­सा­धा­र­ण­बा­ध­क­त्व­रू­प­ता­नु­प­पत्तेः । न द्वितीयतृतीयौ ; रजतविषयतया निष्पन्नत्वेन स्वरूपतो नास्तीति तद्रजतविषयं न भवतीति च तस्या­भा­व­बो­ध­ना­सं­भ­वात् । न च रजतज्ञानस्य भ्रम­त्व­प्र­त्या­यनं निषेधः ; दर्पणे चैत्रमुखं नास्तीति पूर्व­प्र­त्य­क्षेण चैत्र­मु­ख­स­न्नि­धा­ना­न­न्त­र­भा­विनो दर्पणे चैत्रमुखमिति प्रत्यक्षस्य वृक्षो­र्ध्वा­ग्र­त्व­प्र­त्य­क्षेण तत्स­म­स­म­य­व­र्ति­ज­ल­प्र­ति­बि­म्बि­त­वृ­क्षा­धो­ग्र­त्व­प्र­त्य­क्षस्य च भ्रम­त्व­प्र­त्या­य­ना­दिति – चेत् , उच्यते ; पूर्वं बाध्यं परं बाधकमिति प्रायिकोक्तिः । लोके प्रवृ­त्ति­सं­वा­दा­दिना वेदे तद­र्थ­त­त्त्व­नि­र्णा­य­क­न्या­येन च बलवद्बाधकम् इतरद्बाध्यमिति व्यवस्था । इयांस्तु विशेषः । परेण पूर्वस्य भ्रम­त्व­प्र­त्या­य­न­मेव बाधः , पूर्वेण परस्य तु सोपा­धि­क­भ्र­म­स्थले भ्रम­त्व­प्र­त्या­यनं बाधः , निरु­पा­धि­क­भ्र­म­स्थले वैदिके चोत्प­त्ति­प्र­ति­बन्धः । अत एव शीघ्रभाविना श्रौतविनियोगेन लैङ्गि­क­वि­नि­यो­गस्य बाध इष्यते ।
भारते वर्षे यो रजनीसमय इति ।
लक्ष­यो­ज­न­वि­स्तृ­त­व­र्तु­ला­का­र­ल­व­णा­र्ण­व­प­रि­वृ­तस्य लक्ष­यो­ज­न­वि­स्तृ­तस्य जम्बूद्वीपस्य मध्ये भूक­म­ल­क­र्णि­का­कृ­ते­रि­ला­वृ­ता­ख्य­म­ध्य­व­र्ष­म­ध्य­म­ध्या­सी­नस्य मेरोर्दक्षिणतो हरि­कि­म्पु­रु­ष­भा­र­ता­ख्यानि त्रीणि वर्षाणि । उत्तरतो रम्य­क­हि­र­ण्म­यो­त्त­र­कु­रु­सं­ज्ञानि त्रीणि । पश्चिमतः केतु­मा­ला­ख्य­मे­कम् । पूर्वतो भद्रा­श्व­सं­ज्ञ­मे­कम् । वसन्ति रमन्ति चैतेषु प्राणिन इति मर्यादा । पर्वतान्तरिताः प्राणि­नि­वा­स­स्था­न­भूता भूप्रदेशा वर्षा­ण्यु­च्यन्ते । तेषु मेरुं प्रद­क्षि­णी­कु­र्वा­ण­स्या­दि­त्यस्य रश्मयो यदा यावत्पर्यन्तं प्राप्नुवन्ति तदा तावत्पर्यन्तं दिवसः अन्यत्र रजनीति व्यवस्था । एवं च भारते वर्षे सूर्या­स्त­म­या­न­न्तरं केतुमाले मेरु­व्य­व­धा­ना­भा­वा­त्सू­र्य­प्र­का­शोऽ­स्तीति दिवसो भवति। अतो रजन्यां दिवसो न विरुद्ध इति शङ्कावारणाय भारते वर्षे रजन्यां सुप्तस्य तत्रैव स्वाप्नं दिव­स­द­र्श­न­मु­दा­हृ­तम् । ननु – इदं रजन्यां दिवसदर्शनं न विरुध्यते ; स्वप्ने पर­मे­श्व­र­सृ­ष्ट­स्व­प्न­दृ­गे­का­नु­भा­व्या­दि­त्य­र­श्मि­प्र­चा­रेण तं प्रति तदा दिवसोपपत्तेः, एवं च मुहू­र्त­मा­त्र­व­र्तिनि स्वप्ने वर्षपूगातिवाहनं च युज्यते ; देवा­दि­का­लो­पा­धिभ्यो मनु­ष्या­दि­का­लो­पा­धी­ना­मिव जाग्र­त्का­लो­पा­धिभ्यः स्वाप्न­का­लो­पा­धीनां सूक्ष्म­त्व­ता­र­त­म्य­क­ल्प­ना­त्का­ल­वि­प­र्या­स­व­द्दे­श­वि­प­र्या­सोऽपि घटते ; स्वप्ने कुरु­दे­शा­धि­ष्ठि­त­श­री­र­स­दृ­शेन यथास्वप्नानुभवं तद्विसदृशेन वा शरीरान्तरेण पञ्चा­ल­दे­श­ग­म­नो­प­पत्तेः , योज­न­श­त­प्रा­प्य­स्यापि देशान्तरस्य क्षणेन प्राप्तेः क्षणेन ततः प्रत्यागतेश्च स्वाप्न­श­री­र­स्या­श्च­र्य­रू­पस्य जाग्र­च्छ­री­र­वि­ल­क्ष­ण­त्वा­दु­प­पत्तेः , जागरे गजादिमत्सु देशेषु रथाद्युपलम्भस्य च स्वप्नार्थानां जागरितार्थानां च जला­लो­क­प­व­न­न्या­येन मूर्तत्वेऽपि मिथः­प्र­ति­घा­त­क­त्वा­भा­व­क­ल्प­न­यो­प­पत्तेः , स्वप्ना­नु­भू­त­र­था­दीनां स्वप्न­दृ­ष्ट­दा­रु­र­था­दि­भ­स्मनां च जाग­रा­न­न्त­र­म­न­नु­भ­वस्य स्वप्नान्ते पर­मे­श्व­र­कृ­त­नि­र­व­शे­ष­स्वा­प्न­प­दा­र्थो­प­सं­हा­र­क­ल्प­नया स्वाप्न­प­दा­र्थानां स्वाप्न­च­क्षु­रा­दि­मा­त्र­ग­म्य­त्व­क­ल्प­नया चोपपत्तेरिति – चेत् , उच्यते , एता­व­ल्लो­क­दृ­ष्ट­वि­रुद्धं किमवलम्ब्य कल्प्यते । बहि­ष्कु­ला­य­श्रुतिं रथा­दि­सृ­ष्टि­श्रुतिं चेति चेत् , न ; बहि­ष्कु­ला­य­श्रुतेः स्वे शरीर इति श्रुत्यनुसारेण भाक्तत्वात् । शरीरान्तरमपि स्वीयमेवेति न विरोध इति चेत् , न ; तस्य पूर्व­श­री­र­व­त्स्वी­य­त्व­म­नु­क्त­सि­द्ध­मिति तस्यावक्तव्यतया तस्याः श्रुते­र्वि­कृ­त­श­री­रा­न्त­र­प­रि­ग्र­ह­द­र्श­नेऽपि बहिः सञ्चारदर्शनेपि शेते पूर्वशरीर एव परिवर्तते नापि बहिः संचरतीति तस्य सर्वस्यापि मिथ्या­त्व­द­र्श­ने­नैव साफ­ल्य­स्यो­प­पा­द­नी­य­त्वाद् , "न तत्र रथा" इत्या­द्यु­प­क्र­मा­नु­सा­रेण भाक्तत्वात् , तत्र लडाख्याताभ्यां रथा­द्य­भा­व­र­था­दि­सृष्ट्योः समा­न­का­ल­त्व­प्र­ति­पा­द­नेन रथादिमिथ्यात्वे तात्प­र्या­व­सा­यात् , अथेत्यव्ययस्य अथा­पी­त्ये­त­द­र्थ­त्वे­ना­प्यु­प­पत्तेः । किं च सृष्टि­श­री­रा­न्त­र­श्रुत्योः स्वार्थपरत्वे प्रक­र­ण­प्र­ति­पा­द्य­प्र­धा­ना­र्थ­वि­रोधः स्यात् , तद्धि प्रकरणमात्मनः स्वयं­ज्यो­तिष्ट्वं साधयितुं प्रवृत्तम् । तत्र जाग्र­द­व­स्था­या­मा­दि­त्या­दि­ज्यो­ति­र्व्य­ति­क­रा­त्तद् दुर्विवेचमिति तद्विवेचनाय स्वप्ना­व­स्थाऽ­व­ता­रिता । तत्र यदि सृष्टिः प्रतिपाद्येत तदा तस्यामपि तद्दुर्विवेचं स्यात् । आदि­त्या­दि­ज्यो­ति­र­न्त­र­स­द्भा­वात् । अतः प्रधा­न­प्र­ति­पा­द्य­वि­रो­धा­त्स्व­र्गा­र्थ­ज्यो­ति­ष्टो­म­प्र­क­रणे तद­ङ्ग­वि­ध्य­र्थ­वा­द­रू­पस्य "को हि तद्वेद यदमुष्मिन् लोकेऽस्ति वा न वेति" वाक्यस्यैव स्वप्न­सृ­ष्टि­श­री­रा­न्त­र­प­रि­ग्र­ह­व­च­नस्य न स्वार्थे तात्पर्यमित्येव वक्तुं युक्तम् । किंच स्वप्ने महासेनायां गज­तु­र­ग­वृ­ष­भो­ष्ट्र­भ­टा­दि­रूपाः पारेपरार्धं चेतना दृश्यन्ते । एवमेकैकस्य स्वप्नं निर्वोढुं कियन्तश्चेतनाः कुतः समानीय परमेश्वरेणापि मेलनीयाः । न हि स्वप्न­नि­र्वा­हा­र्थ­मेव तेन क्वचित्केचन चेतनाः पृथग् निवेशिताः सन्ति। चेतनांशे चेत् स्वप्ना­ना­म­य­था­र्थता , अचेतनांशेऽपि तथाऽस्तु किमर्धजरतीयेन । अवश्यं तच्छ­री­रा­न्त­र­प­रि­ग्र­हेऽपि प्राचीनं तदेवेदं मच्छ­री­र­मि­त्य­भि­मा­नां­शेऽपि स्वाप्न­सृ­ष्ट्य­ङ्गी­का­रेऽपि चिरातीतेषु पित्रादिषु दृश्यमानेषु त एवैते मे पित्रादय इत्य­भि­मा­नां­शेऽपि भ्रमत्वमवश्यं वाच्यम् । आरुक्षमिव शैला­ग्र­मा­वि­क्ष­मिव कान­न­मि­त्या­दि­लो­का­नु­भ­व­सिद्धं च स्वप्नस्य भ्रमत्वम् "उतेव स्त्रीभिः सह मोदमान" इत्या­दि­श्रु­त्याऽपि तदनूदितम् । तस्माद्युक्तं देश­का­ला­दि­वि­प­र्य­येण स्वप्नस्य मिथ्या­त्व­व­र्ण­नम् ॥४॥५॥६॥
इति प्रथमं संध्याधिकरणम् ॥

तदभावो नाडीषु तच्छ्रु­ते­रा­त्मनि च ॥७॥
मूलाऽविद्यायाः स्थित­त्वा­दि­त्यर्थ इति ।
सूच्यत इति शेषः । एवं हि ताव­च्छ­ब्द­स्या­न्वयो भवति। बृहत्पृष्ठं भवतीति ज्योतिष्टोमे माध्य­न्दि­न­प­व­मा­ना­न­न्त­र­भा­वि­मा­हे­न्द्र­स्तोत्रं पृष्ठाख्यं बृहत्पृष्ठं भव­ती­त्या­दि­वा­क्य­द्व­येन बृहद्रथन्तरे तत्साधनत्वेन विधीयते । मृगा­रू­ढ­गी­ति­क्रि­या­रू­प­सा­म­वि­शे­ष­वा­चि­नो­र्बृ­ह­द्र­थ­न्त­र­श­ब्दयोः प्रगी­त­म­न्त्र­सा­ध्य­गु­णि­नि­ष्ठ­गु­णा­भि­धा­न­रू­प­स्तो­त्र­वि­शे­ष­वा­चिनः पृष्ठशब्दस्य च साध्य­सा­ध­न­भा­व­वि­वक्षां विना सामा­ना­धि­क­र­ण्या­यो­गात् , तयो­श्चै­क­स्तो­त्र­सा­ध­न­त्वा­द्व्रि­हि­य­व­न्या­येन विकल्प इत्यर्थः ।
व्रीह्य­नु­ष्ठा­न­पक्षे इति ।
प्रथमं व्रीह्यनुष्ठान इत्यर्थः ।
एवं यवानुष्ठानपक्ष इति ।
( १ ) द्वितीयप्रयोगे यदा यवानुष्ठानं तदा व्रीहि­शा­स्त्रस्य प्रती­त­प्रा­मा­ण्य­प­रि­त्यागः ( २ ) अप्र­ती­ताऽ­प्रा­मा­ण्य­स्वी­का­रश्च द्वौ दोषौ । पुन­स्तृ­ती­य­प्र­योगे ( ३ ) व्रीहि­षू­पा­दी­य­मा­नेषु व्रीहि­शा­स्त्रस्य स्वीकृ­ताऽ­प्रा­मा­ण्य­प­रि­त्यागः ( ४ ) परि­त्य­क्त­प्रा­मा­ण्य­स्वी­का­र­श्चेति द्वौ दोषौ । एवं प्रयोगत्रयेण यवशास्त्रे चत्वारो दोषाः ।
व्रीहिशास्त्रे चत्वार इति ।
एवमष्टदोषदुष्टो विकल्प इत्यर्थः । नाडी­पु­री­त­द्ब्र­ह्मणां विकल्पे तु द्वादश दोषाः प्रसज्येरन् । तथा हि – एकस्यां सुप्तौ नाड्यां शयने पुरीतद्वाक्ये ब्रह्मवाक्ये च प्रत्येकं प्राथमिकौ द्वौ द्वौ दोषौ , सुप्त्यन्तरे पुरीतति शयने नाडीवाक्ये प्राथमिकौ द्वौ दोषौ , पुरीतद्वाक्ये तूपरितनमपि दोषद्वयमिति चत्वारो दोषाः । पुनः सुप्त्यन्तरे ब्रह्मणि शयने ब्रह्म­वा­क्येऽ­प्यु­प­रि­त­न­दो­ष­द्व­यम् । ततः सुप्त्यन्तरे नाड्यां शयने नाडी­वा­क्येऽ­प्यु­प­रि­तनं दोषद्वयमिति स्वापचतुष्टयेन द्वादश दोषाः प्रादुःष्युः । ननु – प्रामा­ण्य­प­रि­त्यागो नाम प्रामा­ण्या­भा­व­स्वी­कार एव ; अन्याऽ­नि­र्व­च­नात् । अप्रा­मा­ण्य­स्वी­का­रोऽपि स एव ; निर्दोषे वेदे विप­र्या­स­रू­पा­प्र­मि­ति­ज­न­क­त्व­स्या­सं­भ­वे­ना­प्रा­मा­ण्य­स्वी­कार इत्य­त्राऽ­प्रा­मा­ण्य­श­ब्दस्य प्रामा­ण्या­भा­व­प­र­त्वात् , तथा चाद्य­यो­र्दो­ष­योर्न भेद इति – चेत् , उच्यते – उभयत्रापि प्रामा­ण्या­भा­व­स्वी­कार एव पर्सवसितो दोषः । तस्य च दोषत्वबीजं द्विविधम् प्रामाण्ये प्रमाणस्य निर्दोषत्वादेः असद्भावरूपं , प्रामाण्याभावे प्रमाणस्य प्रामा­ण्याऽ­नु­प­ल­म्भ­स्या­भा­व­रूपं चेति। एवं च भाव­प्र­मा­ण­स­द्भा­वो­पा­धि­क­तया आद्यो दोषः । अभा­व­प्र­मा­णा­भा­वो­पा­धि­क­तया स एव द्वितीयो दोष इत्युपाधिभेदेन दोषद्वैविध्यं विवक्षितम् । तदुक्तं वार्तिके – प्रमाणं त्वप्रतीतं यदुज्ज्वलं तदपह्नुतम् । एकस्तावदयं दोषः स्यात्प्र­मा­ण­वि­प­र्य­यात्॥ तथा तदप्रमाणत्वं यदभावप्रमाणकम् । भावे सत्यप्यभावेन विनैव परिकल्प्यते॥ इति। अत्राद्यश्लोके – प्रमा­ण­वि­प­र्य­या­दि­त्य­नेन प्रामा­ण्य­स­द्भा­व­वि­ष­य­क­प्र­मा­णाऽ­वि­रो­धा­दि­त्य­र्थ­केन भाव­प्र­मा­णा­स­द्भा­व­मू­लकं प्रामा­ण्या­भा­व­स्वी­का­रस्य दोषत्वं दर्शितम् । द्वितीयेन तु श्लोके­ना­भा­व­प्र­मा­ण­स­द्भा­व­मू­लकं प्रामा­ण्या­भा­व­स्वी­का­रस्य दोषत्वं दर्शितम् । द्विती­य­श्लो­क­स्या­य­मर्थः – यथा प्रामा­ण्य­प­रि­स्यागो दोषस्तथा तदप्रमाणत्वमपि दोषः । यत् यस्माद्धेतोः । अभावप्रमाणकं प्रामा­ण्या­नु­प­ल­ब्धि­रू­पा­भा­व­प्र­मा­ण­ग्राह्यं प्रामा­ण्या­भा­व­रू­प­म­प्र­मा­ण­त्वम् । भावे सत्यपि प्रामा­ण्यो­प­ल­म्भ­रूपे भावे विद्यमानेऽपि तस्याभावेन विनैव कल्प्यते ततो हेतो­र्द्वि­ती­य­दोष इत्यर्थः॥
पृष्ठ­स्तो­त्र­मा­व­र्तत इति ।
ननु – पृष्ठ­स्तो­त्र­मेकं न भवति ; येना­ङ्गा­नु­रो­धा­त्प्र­धा­ना­भ्यासे इदमुदाहरणं भवेत् , किंतु बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृथ­गु­त्प­त्ति­वा­क्याभ्यां बृहत्सामकं रथन्तरसामकं चान्य­द­न्य­त्पृ­ष्ठ­स्तो­त्र­मु­त्प­न्नम् । एवं च यद्यपि स्तुत­श­स्त्रा­धि­क­र­ण­न्या­येन स्तोत्रा­णा­म­दृ­ष्टा­र्थ­त्वात् स्तोत्र­द्व­य­स्यापि समुच्चयः प्राप्नोति ; तथापि बृहद्वा रथन्तरं वा पृष्ठं भवतीति वचनबलाद्विकल्प इत्युक्तं नवमाध्याये वार्तिककारैः । एतदवलम्बनेनैव च तैर्बृ­ह­द्र­थ­न्त­र­ध­र्माणां बृहति प्रस्तूयमाने "समुद्रं मनसा ध्यायेद्रथन्तरे प्रस्तूयमाने संमी­ल­ये­दि­त्ये­व­मा­दीनां यथानिर्देशं व्यवस्था समर्थिता । बृह­द्र­थ­न्त­र­यो­रे­का­र्थत्वे तु व्रीहिधर्माणां यवेष्विव तेषां सुकरः स्यादि­त्य­प्यु­क्तम् । अतः प्रकृतौ प्राप्तस्य समुच्चयस्य विक­ल्प­व­च­ने­ना­पो­दि­तस्य गोस­वा­दि­ष्व­नु­ज्ञा­क­र­ण­ए­वे­द­मु­दा­ह­रणं न त्वङ्गा­नु­रो­धा­त्प्र­धा­ना­भ्यास इति – चेत् , सत्यम् ; माहेन्द्राख्यं पृष्ठ­स्तो­त्र­मे­क­मि­त्य­प्यस्ति मतान्तरम् । तदित्थम् । “पृष्ठैः स्तुवत" इति माहेन्द्रादीनां चतुर्णां स्तोत्रा­णा­मु­त्प­त्ति­वा­क्यम् ; वाक्यशेषे तेषां संकीर्तनात् , तत्र बृहत्पृष्टं भवति रथन्तरं पृष्ठं भवतीति माहेन्द्रे पृष्ठस्तोत्रे बृहद्रथन्तरयोः साधनतया विधा­न­मि­त्ये­का­र्थ­त्वा­देव तयोर्विकल्पः । न तु तद्वि­धा­य­क­वा­क्य­यो­र्वा­का­रोऽस्ति। पृष्ठस्तोत्रे भेदपक्षेऽपि नास्ति बृह­द्र­थ­न्त­र­वा­क्य­यो­र्वा­का­रा­पेक्षा लिङ्ग­द­र्श­ना­त्त­यो­र्वि­क­ल्प­सिद्धेः । समुच्चये हि द्वाद­शा­ग्नि­ष्टो­मस्य स्तोत्राणीति स्तोत्रसंख्या तस्य "नवतिशतं स्तोत्रीया" इति स्तोत्री­य­ऋ­क्संख्या च पीड्येत । त्रयोदश स्तोत्राणि सप्तोत्तरे द्वे शते स्तोत्रीयाश्च स्युः ।
अतः सप्तदशयोः कयो­श्चि­त्स्तो­त्र­यो­र्वै­क­ल्पि­कत्वे वक्तव्ये गोसवे उभे कुर्यादिति विकृतिविशेषेषु बृह­द्र­थ­न्त­र­स्तो­त्र­स­मु­च्च­य­वि­धा­न­लि­ङ्गा­त्प्र­कृतौ तयोरेव विकल्पोऽवसीयत इति ।
धर्मासङ्करस्तु शूर­त्व­चि­त्र­त्वा­दि­श्रु­ति­द्वा­र­भे­दा­नु­गृ­ही­ताद् रथन्तरे प्रस्तूयमाने बृहति प्रस्तूयमाने इति निर्देशभेदात् । रथ­न्त­र­गे­य­ऋ­क्साध्या हि स्तुतिः "अभि त्वा शूर नोनुम" इति शूरत्वादिद्वारा बृहत्साध्या तु स्तुतिः "स त्वं नश्चि­त्रेति" चित्र­त्वा­दि­द्वारा । एवं पृष्ठ­स्तो­त्र­मे­क­म­ने­क­मिति पक्ष­द्व­य­स­द्भा­वा­दे­क­मिति पक्ष­मा­श्रि­त्या­ङ्गा­नु­रो­धात् प्रधा­ना­वृ­त्ति­रु­दा­हृता । ननु कथमत्रेति – बहु­या­ग­स­मु­च्च­य­ए­वे­द­मु­दा­ह­रणं न त्वेकस्य याग­स्या­ङ्गा­नु­रो­धा­द­भ्यासे इति शङ्कार्थः ।
इमां शङ्कां पशुसोमाधिकरणे (जै. अ. २ पा. २ सू. १७ – २० ) सोमो­दा­ह­र­ण­वि­ष­य­सि­द्धान्तं दर्शयन् परिहरति –
इद­म­त्रा­कू­त­मि­त्या­दिना ।
इतराणि त्विन्द्र­वा­य्वा­दि­वि­शि­ष्टेति ।
यागो­त्प­त्ति­वा­क्या­व­गतं सोमलताया हविष्ट्वं रस­द्वा­रे­त्य­भि­ष­वा­दि­सं­स्का­र­वा­क्य­प­र्या­लो­च­नया पर्यवस्यतीति न विरोध इति भावः ।
यदीमानि देवताविधानानीति ।
ऐन्द्र­वा­य्वा­दि­वा­क्यानां देव­ता­वि­धा­ना­र्थत्वे तत्प्रा­पि­त­दे­व­तानां याज्या­नु­वा­क्यानां मन्त्र­व­र्ण­क­ल्पि­त­वि­धि­प्रा­पि­तो­पां­शु­या­ज­दे­व­ता­ना­मि­वै­क­का­र्य­त्वा­द्वि­कल्पः स्याद् , न त्वेवम् ; तेषा­मि­न्द्र­वा­य्वा­दि­दे­व­तो­द्दे­श्य­क­ग्र­ह­ण­वि­धा­ना­र्थ­त्वस्य वक्ष्य­मा­ण­त्वा­दि­त्यर्थः ।
द्रव्यं वेति ।
यदि ग्रहणसंकृतं सर्वं द्रव्यं युगपत्त्यक्तुं शक्यम् , तदापि देवताविकल्पः स्यात् ; विक­ल्पे­नै­कै­का­मेव देवतामुद्दिश्य त्यागसंभवात् । द्रव्यमपि सकृत् त्यक्तुं न शक्यते ; ग्रहचमसेषु तत्त­द्दे­व­तो­द्दे­शेन पृथग् गृहीतानां तथैव पृथक् त्यक्तव्यताया वक्ष्य­मा­ण­त्वा­दि­त्यर्थः ।
प्रथमं युगपत् त्यक्तुं न शक्य­मि­त्ये­त­त्सं­भा­वि­त­स­क­ल­श­ङ्का­नि­रा­क­र­णे­नो­प­पा­द­यति –
न तावदिति ।
ननु दश­मु­ष्टि­प­रि­मि­तापि लता सकृदेव त्यज्यतां , तत्राह –
न च दशापीति ।
अभिषवः चर्मणि सोमलतां निधाय ग्रावभिः कुट्टनम् । प्लावनं वस्त्रेण सोमरसगालनं प्लाव­य­ती­त्या­दि­ने­त्य­न्वयः । गालयतीति तदर्थकथनं तु दश­मु­ष्टि­प­रि­मि­त­स्यापि सोमस्य रस एकस्मिन् पात्रे ग्रहीतुं शक्यो बहु­पा­त्राऽ­प­र्या­प्तश्च । अत एकस्मिन् पात्रे गृहीतस्य सकृदेव त्यागा­द्दे­व­ता­वि­कल्पः सिध्ये­दि­त्या­शङ्क्य रस­बा­हु­ल्य­प्र­त्या­य­नाय ।
निय­त­प­रि­मा­णे­षू­द­क­क­ल­शेषु संस्कृतस्य सोमरसस्येति शाब­र­भा­ष्यो­क्त­वि­शे­षार्थं दर्शयति –
तस्य च नियतेति ।
एवं भूयसोऽपि रसस्य युग­प­त्त्या­ग­शङ्का तत्त­द्दे­व­तो­द्दे­शेन पृथग् ग्रहणं प्रदर्श्य निरस्यतीत्याह –
न च सर्वोऽपीति ।
ग्रहणविकल्पेन देव­ता­वि­क­ल्प­शङ्कां निरस्यतीत्याह –
ननु प्रती­न्द्र­वा­य्वा­दि­क­मिति ।
न चैकस्मिन्पात्रे इति ।
न च – यावान् संमाति तावानेव गृह्यतामिति – शङ्कनीयम् ; कृत्स्नस्य रसस्य देव­ता­र्थ­त्वा­भावे ताव­द्र­स­सं­पा­द­न­स्या­दृ­ष्टा­र्थ­त्व­प्र­स­ङ्गस्य टीकायां वक्ष्य­मा­ण­त्वा­दिति भावः ।
ननु यदि देव­ता­वि­शि­ष्ट­ग्र­ह­ण­वि­धिर्न यागे देवताविधिस्तदा कथमासां देवतानां यागा­न्व­य­सि­द्धि­रि­त्या­श­ङ्क्याह –
ग्रहणमात्रे त्वप­र्य­व­सा­ना­द­र्था­द्दे­व­तानां यागान्वय इति ।
अयं भावः – ऐन्द्र­वा­य­व­मि­त्या­द­य­स्ता­व­द्दे­व­ता­त­द्धि­तान्ताः , न तु संब­न्ध­सा­मा­न्या­दि­वि­ष­य­त­द्धि­तान्ताः । मरुत्वतीयं गृह्णातीत्यत्र छप्रत्ययस्य 'द्यावा­पृ­थि­वी­सु­ना­सी­र­म­रु­त्व­द­ग्नी­षो­म­वा­स्तो­ष्प­ति­गृ­ह­मे­धाच्छ चे’ति सूत्रेण देवतायामेव विहितत्वेन तत्प्रा­य­पा­ठा­दै­न्द्र­वा­य­वा­दि­ष्वपि देव­ता­त­द्धि­त­नि­श्च­यात् । न च ग्रह­णा­न्व­य­मा­त्रेण देव­ता­त्व­नि­र्वाह: ; सूक्तहविषोरेव देव­ता­त­द्धि­त­नि­य­मात् । अत­स्त­त्त­त्पा­त्र­गृ­ही­त­सो­म­र­स­रू­पै­र्ह­विः­सं­ब­न्धे­नैव तेषां देव­ता­त्व­म­र्था­त्प­र्य­व­स्य­तीति।
नन्वभ्यासे प्रमा­णा­भा­व­मुक्त्वा व्रीहि­य­व­स­मु­च्चये प्रमाणविरोध उच्यते , कथ­म­न­यो­रे­क­वि­ष­यत्वं पुरोडाशस्य चेति चकारेण प्रत्याय्यते ? इत्याशङ्क्य प्रमा­णा­भा­वो­क्ति­मपि समुच्चयविषयतया योजयति –
व्रीहियववाक्ये इति ।
वस्तुतस्तु – बहु­पा­त्र­गृ­ही­त­सो­म­र­स­द्र­व्य­क­या­गा­भ्या­स­क­ल्पन इव व्रीहि­य­व­प्र­कृ­ति­क­पु­रो­डा­श­द्व­य­द्र­व्य­क­या­गा­भ्या­स­क­ल्प­नायां तथा बलवत्प्रमाणं नास्ति ; पुरो­डा­श­प्र­कृ­ति­द्र­व्या­का­ङ्क्षायां स्वस्व­शा­स्त्र­स­म­र्पि­त­यो­र्व्री­हि­य­वयोः प्रत्येकं पुरो­डा­श­नि­व­र्त­न­सा­मर्थ्यं पर्यालोचयता प्रयोगवचनेन तयो: पाक्षिकतया ग्रहणोपपत्तेः । अत इह नाभ्यास इत्ये­ता­व­न्मा­त्र­पर इह त्वित्या­दि­ग्रन्थः । पुरोडाशस्य चेत्या­दि­ग्र­न्थ­स्त्वे­क­स्या­मेव सुषुप्तौ नाडी­पु­री­त­द्ब्र­ह्मणां समुच्चयं वक्तुमेकस्मिन् पुरोडाशे यथा व्रीहियवयोर्न समुच्चयस्तथेह किं न स्यादि­त्या­श­ङ्कायां तद्वै­ष­म्य­प्र­द­र्श­ना­र्थ­मु­त्त­र­ग्र­न्थ­शेष इति युक्तम् ; पुरो­डा­श­स्ये­त्या­दि­वा­क्या­न­न्तरं न तु नाडी­पु­री­त­द्ब्र­ह्म­णा­मि­त्या­दि­वा­क्य­प्र­वृ­त्ति­च्छा­यया तथैवावगमात् । इह त्वित्या­दि­ग्र­न्थोऽपि व्रीहि­य­व­स­मु­च्च­य­नि­रा­क­र­णार्थ इति व्याख्यानेपि तत्र पुरो­डा­श­द्व­या­र्थ­तया व्रीहि­य­व­स­मु­च्च­यस्य प्रमाणाभावेन निराकरणम् , इह त्वेक­पु­रो­डा­शा­र्थ­तया तत्समुच्चयस्य प्रमाणविरोधेन निराकरणमिति विष­य­भे­द­स्या­प­रि­हा­र्य­त्वाच्च ।
मिश्र­पु­रो­डा­श­पक्षे प्रमा­ण­वि­रो­ध­मु­प­पा­द­यति –
पुरो­डा­श­चो­द­न­यै­वेति ।
व्रीहि­श्रु­ति­बाधः स्यादिति ।
ननु – समुच्चये सति नाप्रा­प्तां­श­प­रि­पू­र­णार्थं व्रीहि­श्रु­ति­बाधः; सर्वेष्वपि पुरोडाशेषु व्रीहि­प्रा­प्ति­स­त्त्वेन क्वचिदपि तद­प्रा­प्त्य­भा­वात् प्रत्युत विकल्प एव । यवपक्षे व्रीह्य­प्राप्त्या तद्बाधः । एवं यवश्रुतेरपि यवा­प्रा­प्तां­श­प­रि­पू­र­णा­र्थाया न समुच्चये बाधः , किंतु विकल्प एवेति – चेत् , उच्यते ; अश्वशफपरिमाणस्य कृत्स्नस्य पुरोडाशस्य प्रकृ­ति­द्र­व्या­का­ङ्क्षायां व्रीहि­शा­स्त्रा­प्र­वृत्तौ यवनीवारादीनामिव कृत्स्न­पु­रो­डा­श­नि­र्व­र्त­न­स­म­र्थै­क­द्र­व्या­लाभे व्रीहि­य­व­रू­प­द्र­व्य­द्व­य­स्यापि पक्षे प्राप्तिर्भवति , तथा चाका­ङ्क्षा­नु­सा­रिणा व्रीहिशास्त्रेण कृत्स्न­पु­रो­डा­श­प्र­कृ­ति­तया व्रीहिनियमे क्रियमाणे पक्षप्राप्तानां नीवारादीनामिव व्रीहि­य­व­द्र­व्य­द्व­य­स्यापि निवृ­त्ति­र्भ­व­त्येव । कृत्स्न­पु­रो­डा­श­प्र­कृ­ति­तया पक्षप्राप्तानां यवानां परं निवृत्तिर्न भवति ; यव­शा­स्त्र­वि­रो­धात् , मिश्र­द्र­व्य­द्व­य­नि­वृत्तौ तु नानुपपत्तिः ; तद्वि­धा­य­क­शा­स्त्रा­भा­वात् । एवं च मिश्रपुरोडाशे क्रियमाणे व्रीहि­श्रु­ति­बाधः । एवं यव­श्रु­ति­बा­धो­पीति युक्तमुक्तम् । न्यायसुधायां तु – व्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधनाः । यवा­श्चै­व­म­त­स्तेषां मिश्रत्वं नावकल्पते॥ नैव व्रीहिभिरिष्टं स्याद्यवैर्नच यथाश्रुतैः । मिश्रैरिज्येत चेत्तत्र भवेदुभयसाधनम्॥ इति वार्ति­क­श्लो­क­व्या­ख्या­ना­व­सरे समर्थः पदविधिरिति पदमात्रविधेः साम­र्थ्या­पे­क्ष­त्वा­द्व्री­ह्या­दि­प्रा­ति­प­दि­कस्य यवा­दि­सा­पे­क्षत्वे तद्व्या­घा­ता­प­त्ते­र्वि­भ­क्त्य­न्व­या­यो­गा­न्नि­र­पे­क्षा­णा­मेव व्रीहियवानां तृतीयया कर­ण­त्व­प्र­ती­ते­र्मि­श्रवं न युक्तमिति मिश्रपक्षे व्रीहि­भि­र्य­वै­रिति तृतीयाश्रुतिबाध उक्तः ।
प्रकृते गत्य­न्त­र­स­द्भा­वा­दिति ।
नाडीनां पुरी­त­त्प­रि­वे­ष्टि­त­हृ­द­य­पु­ण्ड­री­क­म­ध्य­ग­त­ब्र­ह्म­प्राप्तौ मार्गत्वेन यो हि गङ्गया सागरं गच्छतीति भाष्योक्तरीत्या समुच्चयो घटते , पुरीततोपि प्राकारन्यायेन स घटते , श्रुतावपि बर्हिषि हवीं­ष्या­सा­द­य­तीति वेद्यास्तीर्णे बर्हि­ष्या­सा­द­नी­यानां हविषां वेद्यां हवीं­ष्या­सा­द­य­तीति वेद्या­म­प्य­धि­क­र­ण­त्व­मा­म्ना­यते । एवं द्वार­भे­दा­त्स­मु­च्च­यो­प­प­त्तेर्न विकल्प इत्यर्थः । स्यादेतत् – अथ यदा सुषुप्तो भवति यदा न कंचन वेद हिता नाम नाड्यो द्वास­प्त­ति­स­ह­स्राणि हृद­या­त्पु­री­त­त­म­भि­प्र­ति­ष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते इति जीवस्य हृद­या­न्ना­डी­भि­र्नि­ष्क्रम्य पुरीतति शयनं श्रूयते । हृदयात्पुरीततं गच्छतो नाडीनां मार्ग­त्वो­प­पा­द­नाय हि हृद­या­त्पु­री­त­त­म­भि­प्र­ति­ष्ठन्ते इत्युक्तम् । अतः प्राका­र­न्या­योऽत्र न प्रवर्तते ; न हि प्रासा­दा­न्नि­र्गत्य प्राकारे शेते नृपतिरिति वाक्यं प्राका­र­वे­ष्टि­त­प्रा­सा­द­म­ध्य­ग­प­र्य­ङ्क­श­य­ने­नो­प­पा­द­यितुं शक्यम् , नैष दोषः ; ताभिः प्रत्यवसृप्येति हृद­या­त्प्र­त्या­ग­मनं नोच्यते , किंतु हृदयं परितः स्थिताभ्यः स्वप्न­व­ह­न­ना­डीभ्यः । स यत्रै­त­त्स्व­प्न­या­च­र­ती­त्यु­प­क्रम्य उतेव महाराजो भवत्युतेव महाब्राह्मण इत्यादिना स्वप्न­द­र्श­न­प्र­का­र­म­नूद्य स्वे शरीरे यथाकामं परि­व­र्त­त­इ­त्य­न्तेन स्वप्ना­व­स्था­नि­रू­प­णा­न­न्त­रम् अथ यदा सुषुप्तो भव­ती­त्यु­प­क्र­मात् । हृद­या­त्पु­री­त­त­म­भि­प्र­ति­ष्ठन्त इति तु स्वरूपकथनार्थम् ; द्वास­प्त­ति­स­ह­स्रा­णीति संख्यावचनवद् ।
नाडीषु पुरीततीति निर­पे­क्ष­श्रु­ति­वि­रोधं परिहरति –
निरपेक्षता अपेक्षाभाव उत्सर्ग इति ।
नाडी­पु­री­त­तो­र्ना­डी­ब्र­ह्म­णोश्च समुच्चयं स्वीकृत्य त्रयाणां विकल्पस्यापि स्वीकाराद्वरं सर्वेषां द्वारभेदेन समुच्चयस्यैव स्वीकार इति भावः ।
विक­ल्प­फ­ल­कोऽ­भ्यु­च्चय इति ।
तया वा युक्त्या प्रकृ­ता­र्थ­नि­र्ण­योऽ­नया वा युक्त्येति विकल्पफलके युक्त्य­न्त­र­स­मु­च्चये अयमपिचेति शब्दो न भवतीत्यर्थः ।
इदा­नी­म­तु­ल्या­र्थ­त्वाच्च न विकल्प इत्याहेति ।
यद्यपि प्रागपि द्वार­भे­दे­ना­तु­ल्या­र्थ­त्व­मु­क्तम् ; तथापि जीवस्य ब्रह्मणेव नाडी­पु­रि­तद्भ्यां तादा­त्म्य­सं­प­त्ति­रू­प­वि­व­क्षि­ता­धा­रा­धे­य­भा­व­यो­ग्यता नास्तीत्येवं विधा­न्त­रे­णा­तु­ल्या­र्थ­त्व­मि­दा­नी­मु­च्यत इति भावः ।
समप्रधानत्वे हीति ।
सिद्धा­न्त्य­भि­मतः समुच्चयः समप्राधान्ये न भवति , किंतु गुणप्रधानतयेति न च वयमिह तुल्यं नाड्या­दि­स­मु­च्चयं प्रतिपादयाम इत्यादिभाष्येण वर्ण्यते , तस्य पूर्व­प­क्षि­कृ­त­वि­क­ल्प­नि­रा­सा­र्थ­त्वे­नो­प­योग इत्यर्थः ।
पूर्ववाक्ये उक्त इति ।
एता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामु­ष्मा­दा­दि­त्या­त्प्र­ता­यन्ते ता आसु नाडीषु सृप्ता इति वाक्ये इत्यर्थः ॥७॥८॥
इति द्वितीयं तदभावाधिकरणम् ॥

स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः ॥९॥
आत्य­न्ति­क­त्वे­नेति ।
ब्रह्म­प्रा­प्ति­रौ­त्प­त्ति­कीति तावदुत्सृष्टा मुक्ता वौत्स­र्गि­क­त्वे­ना­व­धा­रि­तेति सुषुप्तावपि सत्संपत्तिः पूर्वाधिकरणे वर्णिता । तस्या अप्या­त्य­न्ति­क­त्व­प्रा­प्ता­व­वि­द्या­शे­ष­त्व­स­म­र्थ­ने­ना­प­वा­दोऽ­स्मि­न्न­धि­क­रणे वर्ण्यत इत्यर्थः । एतेन मिथ्या­ज्ञा­ना­ति­रि­क्ता­म­वि­द्या­म­प­हत्य मिथ्या­ज्ञा­न­व­द­वि­द्याया अपि निवृत्तिं चापाद्य पूर्वपक्षः प्रवर्तत इति दर्शितम् ; अन्यथा पूर्व­प­क्षा­नु­त्था­नात् ।
सुषुप्तस्य नाडी­पु­री­त­तो­र­व­स्था­न­सं­भ­वा­दि­त्या­क्षि­प्यत इति ।
ननु – यदि नाडी­पु­री­त­तो­र­व­स्थानं संभाव्य सत्सं­प­त्ति­रा­क्षि­प्यते, कथं तर्हि तेनान्योत्थानं समर्थ्यते ? संप­न्न­स्यो­त्थानं न संभवतीति युक्त्या खलु तत्समर्थनीयम् , उच्यते – यदि सिद्धान्तिना सुषुप्तस्य सत्सं­प­त्ति­रि­ष्यते , तदा तेना­न्य­स्यै­वो­त्था­न­म­भ्यु­पे­त­व्यम् । यदि कर्मा­नु­स्मृ­त्या­द्य­नु­रो­धा­त्त­स्यै­वो­त्थानं वाच्यम् , तदा तस्य सत्सं­प­त्ति­र्हा­त­व्येति नाडी­पु­री­त­तो­र­व­स्था­न­मु­प­प­द्यते । अतो न पूर्वा­धि­क­र­ण­सि­द्धा­न्त­सि­द्धि­रि­त्या­क्षेपे तात्पर्यम् । एवं च स एवोतिष्ठत्यन्यो वेत्य­नि­य­म­पू­र्व­प­क्षोपि सत्सं­प­त्त्य­भ्यु­प­ग­म­त­त्प­रि­त्या­ग­प­क्ष­द्व­या­नु­सा­रेण व्यवस्थितः पर्यवस्यति। तथासत्येव चात्यन्तिकीं सत्संपत्तिं प्राप्तस्य कथं पाक्षिकतयाऽपि पुनरुत्थानं पूर्व­प­क्षी­क्रि­यत इति शङ्काप्यनवकाशा भवति।
येषामीश्वर एवेति ।
ईश्वरादन्यः संसारी नास्तीति वादिनामीश्वर एव वा संसारी स्यात् , स्वप्न­दृ­ष्ट­म­नु­ष्या­दि­व­त्क­ल्पितो वा । आद्ये तस्य न सुषुप्तिर्न प्रबोधः । द्वितीये प्रातिभासिकस्य नोत्था­ना­दि­व्य­व­हार इति दूषणार्थः ।
द्वे अहनी द्व्यह इति ।
द्वे अहनी समाहृते इत्यर्थे तद्धि­ता­र्थो­त्त­र­प­द­स­मा­हारे चेति समासः । राजा­हः­स­खि­भ्य­ष्ट­जिति समा­सा­न्त­प्र­त्ययः । रात्राह्नाहाः पुंसीति पुंलिङ्गता ॥९॥
इति तृतीयं कर्मा­नु­स्मृ­ति­श­ब्द­वि­ध्य­धि­क­र­णम् ॥

मुग्धेऽ­र्ध­सं­पत्तिः परिशेषात् ॥१०॥
ऐक्य­प्र­त्य­भि­ज्ञा­ना­दिति ।
यद्यप्यत्र व्यक्त्यै­क्य­प्र­त्य­भि­ज्ञानं न संभवति ; सुख­म­ह­म­स्वा­प्स­मिति परा­म­र्शो­न्नी­त­सौ­षु­प्ति­का­नु­भ­व­यो­ग्या­वि­द्या­प­रि­णा­म­वि­शेषः सुषु­प्ति­रि­त्य­भ्यु­प­गमे व्यक्तिभेदस्य स्फुटत्वात् , विशे­ष­वि­ज्ञा­न­सं­स­र्गा­भा­व­कूटः सेत्य­भ्यु­प­ग­मेऽपि तत्तत्कालं मिलि­त­कू­टा­नु­प्र­वि­ष्ट­वि­ज्ञा­न­प्रा­ग­भा­व­प्र­ध्वं­स­व्य­क्तीनां विपर्यासेन कूट­भे­द­स्या­व­र्ज­नी­य­त्वात् ; तथापि क्वचि­न्नि­मी­लि­त­न­य­न­त्व­नि­श्चे­ष्ट­त्वा­दि­वि­शिष्टे पुरुषे सुषुप्तिमेव गतवतो मूर्च्छितमपि तथाभूतं पश्यतो भवति जात्यैक्यविषया प्रत्यभिज्ञा सैवेयमस्य सुषुप्तिरिति स एवायं शङ्ख­ध्व­नि­रि­ति­व­त्सै­वात्र पूर्व­प­क्ष­सा­ध­न­स­मर्था पूर्वपक्षिणा विवक्षिता । एवं च पूर्वाधिकरणे व्यक्त्यै­क्य­वि­षया प्रत्यभिज्ञा इह जात्यै­क्य­वि­ष­येति भेदसद्भावेऽपि प्रत्य­भि­ज्ञा­सा­मान्यं संगत्यर्थं विवक्षितमिति नासंगतिः ।
स्थिर­का­र­ण­स्वी­का­रा­दिति ।
क्षणिकवाद एव समर्थस्य क्षेपा­यो­गा­त्स­मर्थे बीजक्षणे सत्य­ङ्कु­र­ज­न­न­म­व­श्यं­भा­वीति नियमः । स्थिरवादिभिस्तु समर्थस्यापि सहकारिविरहसमये कार्या­ज­न­क­त्व­म­भ्यु­प­ग­त­मिति भावः ।
अद्वयेति ।
तत्प­दा­र्था­भे­द­सि­द्ध्यर्थं त्वंप­दा­र्थ­शो­ध­नाय पूर्वपक्षे जाग­रा­द्य­व­स्था­च­तु­ष्ट­ये­ना­स­बन्धो जीवस्य परिभावनीयः , सिद्धान्ते तु मूर्च्छ­या­पी­त्येवं फलभेद इत्यर्थः ॥१०॥
इति चतुर्थं मुग्धाधिकरणम् ॥

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥ पृथि­व्या­द्यु­पा­धि­प्र­युक्तैः सर्व­ग­न्ध­त्व­वा­म­नी­त्वा­दि­गुणैः शाण्डि­ल्यो­प­को­स­ल­वि­द्या­द्यु­पा­स्यस्य ब्रह्मणः स्वरूपेण भेदो न निषिध्यते , किंतु ज्ञेयत्वेन तद­र्थ­मे­वे­द­म­धि­क­र­ण­मिति ये मन्यन्ते तन्मतं स्वयं दूषयति –
यस्तु कश्चिदिति ।
सिद्धान्तादिति ।
दोषो­पा­धि­प्र­युक्तं चक्षुरादीनां भ्रमकरणत्वमिव पृथि­व्या­द्यु­पा­धि­प्र­युक्तं ब्रह्मणः सविशेषत्वं सत्य­मि­त्ये­वं­रू­प­पू­र्व­प­क्षस्य सिद्धा­न्ता­द्वि­शे­ष­मा­हे­त्यर्थः ।
अयमेव स इत्य­द्वै­त­प्र­ति­पा­द­क­त्वा­दिति ।
अद्वै­त­प्र­ति­पा­दके च ब्रह्मणः सविशेषत्वं विवक्षितमिति वक्तुं न शक्यम् ; विरुद्धविशेषवता ब्रह्मणः जीव­स्या­भे­दा­यो­गा­दिति भावः ॥११॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥१०॥व­च­न­व्य­क्ती­राह किं सल्लक्षणमिति पूर्व­प­क्षा­भि­म­त­प्र­थ­म­व­च­न­व्य­क्ति­प्र­ती­को­पा­दा­नम् । व्यक्तीरिति बहुवचनं पूर्व­प­क्ष­सि­द्धा­न्ता­भि­म­त­व­च­न­व्य­क्ति­त्र­या­भि­प्रा­यम् । ननु वच­न­व्य­क्ति­त्र­यो­प­न्या­साद् द्वौ पूर्वपक्षौ एकः सिद्धान्त इति प्रतिभाति।
अग्रे च सल्लक्षणं प्रकाशलक्षणं च ब्रह्मे­त्ये­क­स्यैव पूर्वपक्षस्य निराकरणं दृश्यते , कथमेतद्युज्यते ? इत्याशङ्क्य द्वितीयतृतीये द्वे अपि वचनव्यक्ती सिद्धान्तिन एवेति व्याख्यातुं द्विती­य­व­च­न­व्य­क्ति­मु­पा­दत्ते –
किं सल्लक्षणमेवेति ।
नन्वियं वचनव्यक्तिः कथं सिद्धा­न्त्य­भि­मता ? एवकारेण प्रका­श­ल­क्ष­ण­त्व­व्या­व­र्त­नात् , सिद्धान्ते च प्रका­श­ल­क्ष­ण­त्वा­ङ्गी­का­रा­दि­त्या­शङ्क्य प्रकाशलक्षणाद् भेदव्यवच्छेद एवकारार्थो न तु प्रका­श­ल­क्ष­ण­त्व­व्य­व­च्छे­दार्थ इति व्याचष्टे –
एवकार इति ।
नन्वेवकारद्वयं प्रका­श­ल­क्ष­ण­त्व­स­ल्ल­क्ष­ण­त्व­व्य­व­च्छे­दार्थं न भवति चेत् , सिद्धा­न्तेऽ­प्यु­भ­य­ल­क्षणं ब्रह्मेति पूर्व­प­क्षा­त्तस्य को विशेष: ? इत्याशङ्क्याह –
ततश्चेति ।
सत्प्र­का­श­भे­दे­नो­भ­य­रूपं ब्रह्मेति पूर्वपक्ष: । तयोरभेदेनैकरूपं तदिति सिद्धान्त इति विशेष इत्यर्थः ।
सच्चेति साध्ये अवैयर्थ्यादिति हेतुं विवृणोति –
सच्छ्रुतेरिति ।
नन्वे­क­दे­श्य­भि­म­त­सि­द्धा­न्त­नि­रा­क­र­ण­प्र­स्ता­वे­ना­प्यु­भ­य­ल­क्ष­ण­मेव ब्रह्मेति शक्यं वक्तुम् ; पूर्वा­भ्यु­प­ग­म­वि­रो­ध­प्र­सं­गा­दिति भाष्यं सिद्धा­न्त्य­भि­म­त­स्यैव पक्षान्तरस्य निराकरणार्थं प्रवृत्तमिति प्रतिभाति , तस्य ताद­र्थ्य­म­यु­क्तम् ; उभयलक्षणत्वं पूर्वपक्षीकृत्य तन्नि­रा­क­र­णा­र्थ­त­यैव द्वितीयाधिकरण प्रवृ­त्ते­रै­क­दे­शि­भि­रु­क्त­त्वा­दि­त्या­शङ्क्य तदपि भाष्यं पूर्वपक्षस्यैव निरा­क­र­णा­र्थ­मि­त्याह –
पूर्व­प­क्षा­नु­त्थान एवेति ।
ननु – पूर्व­प­क्ष­नि­रा­क­र­णा­र्थत्वे प्राग् यदि ताव­द­ने­क­लि­ङ्ग­त्व­मि­त्या­दि­भा­ष्यो­क्त­हे­तुना पौनरुक्त्यमिति – चेत् , न ; प्राक् पूर्वाधिकरणे सिद्धस्यार्थस्य पुनः साध­न­वै­य­र्थ्य­मिति सिद्धा­न्त­दू­ष­ण­त­यो­क्तम् । इदानीं पूर्वा­धि­क­र­ण­सि­द्धान्ते स्थिते तदनुपमृद्य पूर्व­प­क्षो­त्थानं न संभवतीति पूर्व­प­क्ष­दू­ष­ण­त­यो­च्यत इति मुख­भे­दे­ना­पौ­न­रु­क्त्यात् । यद्यपि तत्र सिद्धा­न्त­दू­ष­ण­मपि पूर्व­प­क्षा­नु­त्था­न­मु­प­जी­व्यो­क्तम् , अन्यथा सिद्धा­न्त­वै­य­र्थ्यो­क्त्य­यो­गात् ; तथापि पूर्व­प­क्षा­नु­त्थानं द्वारीकृत्य सिद्धा­न्त­दू­ष­ण­प­र्यन्तं पूर्वभाष्यम् ; इदं तु भाष्यं पूर्व­प­क्षा­नु­त्था­न­मा­त्र­प­र्य­व­सा­यीति भेदः । अत एवाचार्यैरिह पूर्व­प­क्षा­नु­त्थान एवेत्येवकारः कृतः । वस्तुतस्तु – केव­ल­स­ल्ल­क्ष­णत्वे केव­ल­बो­ध­ल­क्ष­णत्वे चोक्तदोषं पश्यन् सिद्धान्ती यद्यगत्या स्वनिराकृतमेव पूर्वपक्षं परिगृह्णीयात् , तदा तस्य न केवलं पूर्वपक्षिण इह पूर्वा­धि­क­र­ण­सि­द्धा­न्तो­क्त­यु­क्ति­वि­रो­ध­मा­त्रम् , अपि तु स्वाभ्यु­प­ग­म­वि­रो­धोऽ­पी­त्य­य­मे­वार्थो भाष्यस्य स्वारसिकः ।
नन्वे­क­दे­शि­सि­द्धान्ते किं दूषणं दृष्ट्वा पर­मा­र्थ­त­त्त्व­भेद एव प्रकृ­ष्ट­प्र­का­श­व­दि­त्य­ख­ण्ड­सिद्ध्या स्वसि­द्धा­न्ता­भि­म­त­त­यो­प­सं­हारः कृतः ? इत्याशङ्क्य टीकाभिप्रेतं पर­सि­द्धा­न्त­दू­षणं दर्शयति –
यश्च सत्ता­प्र­का­श­यो­रिति ।z सर्वात्मना सत्ता­प्र­का­श­यो­र­भे­दा­भ्यु­प­गमे सद्बोधशब्दयोः पर्या­य­त्व­प्र­सङ्गः । अनि­र्वा­च्य­प्र­वृ­त्ति­नि­मि­त्त­भे­देन पर्या­य­त्व­स­मा­धाने त्वस्म­त्सि­द्धान्त एव । न च – तथा निर्ण­या­र्थ­मे­वा­धि­क­र­णा­न्त­र­मि­हा­स्त्विति शङ्कनीयम् ; स्वरू­प­त­ट­स्थ­ल­क्ष­णो­प­पा­द­नार्थं प्रवृत्ते जन्माधिकरण ( ब्र. अ. १ पा. १ सू. २ ) एव स्वरू­प­ल­क्ष­णे­ना­ख­ण्ड­सि­द्धि­रिति पूर्वपक्षस्य निराकृतत्वेन पुनरिह शङ्का­नु­त्था­ना­दि­त्यर्थः । जर्तिलाः आरण्यतिलाः । गवीधुकाः आरण्यगोधूमाः ।
शारी­र­स्ते­जो­म­योऽ­मृ­त­मयः पुरुष इत्ये­त­द­न­न्त­र­मियं पृथिवीति वाक्या­द­नु­ष­क्त­प­दानि योज­य­न्ना­काङ्क्षां पूरयति –
सर्वेषां भूतानां मध्विति ।
मधुशब्दस्य सृज्य­त्व­सा­म्या­ल्ल­क्ष­णी­य­म­र्थ­माह –
उपकारकाविति ।
वाक्य­द्व­या­द­नु­ष­ङ्ग­ल­ब्धानि पदानि योजयित्वा वाक्यान्तरं दर्शयति –
तयोश्च सर्वाणि भूतानि मध्विति ।
एता­व­द­नु­ष­ङ्ग­श्च­का­र­सा­म­र्थ्या­न्म­ध्वि­त्यु­प­क्र­मा­च्चे­त्याह –
चशब्दादिति ।
नाने­वे­ती­व­श­ब्दा­र्थ­माह –
आभासमिति ।
वस्तु­तोऽ­पा­र­मा­र्थि­क­मि­त्यर्थः ।
स्वयं च न कारणमिति ।
वस्तुतः कारणं न भवति ; सत्यस्य कार्य­स्या­भा­वा­दिति भावः ।
पक्षीति लिङ्गशरीरमुच्यत इति ।
मनः प्राण­वि­ज्ञा­नानां लिङ्ग­श­री­रा­न्त­र्ग­तानां पक्ष­पु­च्छा­दि­नि­रू­प­णा­दिति भावः ॥२१॥
इति पञ्च­म­मु­भ­य­लि­ङ्गा­धि­क­र­णम् ॥

प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ ननु यदित्यस्य गच्छ­दि­त्य­र्थ­श्चे­द्वा­यो­रेव संग्रहो नाका­श­स्ये­त्या­श­ङ्क्याह –
ततश्चेति ।
यदित्यनेन गच्छद्धर्म एक­त्रै­वा­व­स्था­ना­भावो लक्ष्यते , स व्याप्तिः आकाशस्यापि तुल्य इति भावः ।
यद्यपि पञ्चभूतेति ।
सम­ष्टि­लि­ङ्ग­श­री­रस्य पञ्च­भू­त­का­र्य­त्वा­त्त­द­भि­मा­निनो हिरण्यगर्भस्य तथात्वमुक्तम् ।
चक्षु­रि­न्द्रि­यस्य तैज­स­त्वा­च्च­क्षु­षो­र­स­त्त्व­व­चनं गोल­का­भि­प्रा­य­मि­त्याह –
चक्षुरिति ।
रूपा­द्यु­प­ल­ब्धिभिः क्रियाभिरिति ।
रूपा­द्यु­प­ल­ब्धि­भि­र्ग­म­ना­दा­न­क्रि­या­भि­श्चे­त्यर्थः ।
आध्यात्मिकेति ।
आध्या­त्मि­क­लि­ङ्ग­श­री­रा­न्त­र्ग­तस्य चक्षुरादेः सम­ष्टि­रू­प­लि­ङ्ग­श­री­रा­न्त­र्ग­ता­दि­त्या­दि­व्य­ष्टि­त्वा­त्स­म­ष्ट्य­भि­मा­निनो हिरण्यगर्भस्य व्यष्ट्यभिमानि देव­ता­त्व­म­प्य­स्तीति हिर­ण्य­ग­र्भ­त्वो­क्ति­रि­त्यर्थः । एवं च लिङ्गशरीरस्य सक­ल­स्थू­ल­श­री­र­व­र्ति­त्वेऽपि तद­भि­मा­नि­दे­व­ता­या­श्च­क्षु­ष्य­व­स्थानं श्रुति­ब­ला­द­ङ्गी­का­र्य­मिति तात्पर्यम् ।
अथवेति ।
आदि­त्य­श्च­क्षु­र्भू­त्वेति श्रुतौ चक्षु­र­नु­ग्रा­ह­क­त्वे­ना­दि­त्यस्य तस्मिन्नवस्थानं प्रसिद्धं , स आदित्यः प्राणा­त्म­नाऽऽ­दि­त्य­म­ण्ड­ल­म­धि­ति­ष्ठन् हिरण्यगर्भ एव ; हिरण्यगर्भस्य तथात्वेन पुराणेषु प्रसिद्धेः , तस्य श्रुति­पु­रा­ण­सि­द्धाया जग­द­ण्डा­दु­त्पत्तेः छान्दो­ग्यो­प­नि­षदि आदित्ये समाम्नानाच्चेति भावः ।
कार्यं शरीरं कर­ण­मि­न्द्रि­य­मिति ।
आधि­दै­वि­का­ध्या­त्मि­क­भेदे द्विविधे सत् त्यदित्युभे द्विविधसदृशभूते आदि­त्य­म­ण्ड­ल­च­क्षु­र्गो­लके चेत्येतत्सर्वं सम­ष्टि­व्य­ष्टि­स्थू­ल­श­री­र­रूपं कार्य­श­ब्दे­नो­क्तम् । द्विविधरसभूतं सम­ष्टि­लि­ङ्ग­श­री­र­द्वयं कर­ण­श­ब्दे­नो­क्त­मिति विभागः । यद्यपि द्विविधमपि लिङ्गशरीरं द्विवि­ध­स­क­ल­स्थू­ल­श­री­र­वर्ति ; तथापि तदभिमानिनो मण्डलगोलकयोः सन्नि­धा­ना­त्त­स्यापि तयो­र्व­र्त­न­म­भि­मा­न्य­भे­दो­प­चा­रा­दु­क्तम् । तदभेदोपचारादेव तस्य हैतस्य पुरुषस्येति अनन्तरवाक्ये पुरु­ष­श­ब्दे­ना­भि­मा­नि­वा­चिना करणद्वयस्य परामर्शः । कार्य­का­र­ण­भा­वे­नेति पाठे तु मूर्तामूर्ते रूपे कारणे तद्रसतयोक्तानि कार्याणि । स्पष्टो विभागः ।
मूर्तमूर्तेति ।
मूर्ता­मू­र्त­वि­ष­येण जागरानुभवेन जनितया वासनया जन्यं विज्ञानं स्वप्न­वि­भ्र­म­स्त­द्वि­षय इत्यर्थः । विज्ञानमयमिति पाठेऽपि विज्ञानविषय इत्येवार्थः ।
दृष्टा­न्तै­रु­पमां दर्शयतीति ।
महा­र­ज­ना­दि­रू­प­स­मानं रूप­मा­द­र्श­य­ती­त्यर्थः ।
महारजनं हरिद्रेति ।
नैघण्टुकास्तु महारजनं कुसुम्भमाहुः ।
वासनाजन्येति ।
वास­ना­ज­न्य­पू­र्व­पू­र्व­स्व­प्न­वि­श्रा­न्ति­व­शा­दु­त्त­रो­त­र­स्व­प्नेषु प्रतीयमाने प्रपञ्चे महा­र­ज­ना­दि­स­मा­न­रू­पा­ध्या­सा­नु­कूलः कोऽप्याकारो लिङ्गशरीरे तादा­त्म्ये­ना­रो­प्यते । तन्निष्ठा रूपभेदाः स्वाप्न­प­दा­र्थेषु भासन्ते तत्प­रि­णा­म­त्वा­त्स्वा­प्न­प­दा­र्था­ना­मिति भावः ।
ननु सत्सामान्यस्य बोध­रू­प­वि­शे­ष­स­त्वा­न्नात्र मूर्ता­मू­र्त­वि­शे­ष­व्या­वृ­त्ता­वपि सत्तासामान्यं व्याव­र्ते­ते­त्या­श­ङ्क्याह –
तच्चेति ।
तत्सत्त्वस्य सामा­न्या­त्म­कत्वं सवा­स­न­मू­र्ता­मू­र्त­सा­धा­र­ण­योक्त्या स्पष्टी­कृ­त­मि­त्यर्थः । अयमाशयः – यथा शोण­क­र्का­द­योऽ­श्व­वि­शेषाः ; शोणोऽश्वः कर्कोऽश्व इत्या­दि­व्या­वृ­त्ता­नु­वृ­त्त­व्य­व­हा­राद् , एवं मूर्ता­मू­र्त­ब्र­ह्म­रू­प­त्वे­नोक्ताः पृथिव्यादयः सद्विशेषाः , सती पृथिवी सज्ज­ल­मि­त्या­दि­व्य­व­हा­रात् , ततश्च यथा शोण­क­र्का­दि­या­व­द्वि­शे­ष­व्या­वृ­त्ता­व­श्व­त्व­सा­मान्यं व्यावर्तते , एवं पृथि­व्या­द्या­त्म­क­या­व­द्रू­प­वि­शे­ष­व्या­वृत्तौ सामान्यं व्यावर्तेत । न च बोध­रू­प­वि­शे­षा­न्त­र­स­द्भा­वा­त्त­द्व्या­वृत्तिः शङ्कनीया ; द्वे वावेत्यवधारणेन ब्रह्मणि मूर्ता­मू­र्त­रू­प­द्व­य­व्य­ति­रे­केण रूपान्तरं नास्तीत्यवगमात् । एवं च बोधात्मकत्वं सहैव ब्रह्मणा धर्मिणा श्रुतमप्यसदेव स्यादिति।
यथा­हु­रि­त्यु­दा­हृ­त­स्या­र्थस्य निर्विशेषं सामान्यं शशविषाणवन्न भवेदिति योज­ना­न्त­र­भ्रान्तिं वारयति –
निर्विशेषं यत्तत्सामान्यं न भवेदिति योजनेति ।
ननु विशेषणत्वादेव योग्य­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह –
अप्र­मि­त­त्व­मे­वेति ।
प्रमितत्वमेव प्रति­षे­धा­यो­ग्यत्वं , न तु विशेषणत्वमिति। ब्रह्मणस्तु प्रमि­त­त्व­म­सि­द्धम् ; रूप­द्व­य­व­न्नि­षे­धा­या­नु­वा­दो­प­प­त्ते­रिति भावः । कर्क ईषल्लोहित इति।
अम­र­सिं­ह­स्त्व­श्व­प्र­क­रणे पृष्ठः स्थूरी सितः कर्क इति श्वेतमश्वं कर्कमाह -
निषेधेन निषेध्य सत्तेति ।
निर्विशेषं सामान्यं न भवेदिति निषेधेन सत्ता किम­र्थ­स्व­भा­व­भूता निषेध्या उत प्रमा­ण­सं­ब­न्धा­त्मि­केति संभा­वि­त­वि­क­ल्प­द्व­य­प्र­ति­षे­धा­र्थ­म­भा­वोऽ­प्र­ती­ति­र्वे­त्यु­क्त­मि­त्यर्थः । द्वे वावेत्यवधारणं तु रूप­द्व­या­ति­रिक्तां ब्रह्मणो बोधरूपतां न व्यवच्छिनत्ति , किं तु रूप­द्व­य­स्या­स­मु­च्च­य­मि­त्या­चार्यैः प्रागेव व्याख्यातम् ।
तत्र यथा विधि­प्रा­प्त­स्येति ।
यजतिषु येय­जा­म­ह­ङ्क­रो­ती­त्ये­त­द­न­न्तरं नानु­या­जे­ष्वि­त्य­ने­ना­नु­या­जेषु येयजामहकरणं निषिध्यत इति पूर्वपक्षे निषेधस्य निषे­ध्य­प्रा­प्ति­पू­र्व­क­त्वान्न हिंस्यादित्यत्र हिंसनस्येव यजतिषु येयजामहकरणस्य लोकतः प्राप्त्य­भा­वाच्च तस्य यजतिषु येयजामहं करोतीत्यनेनैव प्राप्ति­र्व­क्तव्या । तथा च सर्वात्मना प्रति­षे­ध­प्रा­प­क­शा­स्त्र­स्या­प्रा­मा­ण्य­प्र­स­ङ्गाद् विधि­प्र­ति­षे­ध­शा­स्त्र­द्व­य­प्रा­मा­ण्या­या­नु­या­जेषु येयजामहविकल्प आश्रित इत्यर्थः ॥२३॥२४॥२५॥२६॥२७॥२८॥२९॥३०॥
इति षष्ठं प्रकृ­तै­ता­व­त्त्वा­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले तृतीयाध्यायस्य द्वितीयः पादः॥

॥ अथ तृतीयाध्यायस्य तृतीयः पादः॥ सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षात् ॥१॥ पूर्वपादेन सङ्गतिं प्रदर्शयन् पादार्थमाह –
द्वितीयपाद इति ।
तत्त्व­म्प­दा­र्थ­शो­ध­नेन निर्वि­शे­ष­ब्र­ह्मणि निर्धारिते मोक्षसाधनं तज्ज्ञा­नो­प­यो­गि­स­गु­ण­नि­र्गु­ण­वा­क्या­र्थ­नि­र्धा­रणं क्रियत इति पादसंगतिः । हिर­ण्म­या­दि­वाक्यं सगुणविषयं प्रत­र्द­ना­दि­वाक्यं निर्गु­ण­वि­ष­य­मि­त्ये­वं­रू­प­स­गु­ण­नि­र्गु­ण­वा­क्या­र्थ­नि­र्धा­र­णस्य प्रथमाध्यायेन कृतत्वेऽपि नाना­शा­खा­म्ना­त­गु­णो­प­सं­हा­रेण तन्निर्धारणं न कृतमिति तदर्थोऽयं पादः । तथा च गुणोपसंहारः पादार्थ इति भावः ।
ननु सगु­ण­वा­क्या­र्थ­नि­र्धा­रणं विचार्यत्वेन प्रतिज्ञातस्य निर्विशेषस्य ज्ञाने नोपयोगीत्यत आह –
सगुणेति ।
चित्त­शु­द्धि­द्वा­रे­णे­त्यु­प­ल­क्ष­णम् । चित्तै­का­ग्र्य­द्र­ढि­म­सं­पा­द­न­द्वा­रे­त्यपि द्रष्टव्यम् ।
ननु गुणोपसंहारः केषु­चि­दे­वा­धि­क­र­णेषु चिन्त्यते , केषु­चि­द्वि­द्या­ना­म­भेदः , केषुचिद्भेदः , अतो नैकः पादार्थ इत्यत आह –
पादा­र्थो­प­सं­हा­रे­णेति ।
गुणोपसंहार एव पादार्थः । अभेदचिन्ता तदु­प­यो­गि­भे­द­चिन्ता , तद­प­वा­द­त्वे­ने­त्यर्थः ।
अभेदचिन्ता गुणो­प­सं­हा­रो­प­यो­गिनी चेन्नि­र्गु­ण­वि­द्यायां किमिति सा न कृते­त्या­श­ङ्क्याह –
अधिकरणैरिति ।
यद्य­प्या­न­न्दा­धि­क­रणे आन­न्दा­दि­भा­व­रू­प­गु­णो­प­सं­हा­र­चिन्ता अक्ष­र­धि­या­मि­त्य­धि­क­रणे (व्या. सू. अ. ३ पा. ३ सू. ३३ ) स्थूल­त्वा­द्य­भा­व­रू­प­गु­णो­प­सं­हा­र­चि­न्ते­त्य­धि­क­र­ण­द्व­य­मेव निर्गुणविद्याया अव­ग­त­प­र­स्प­र­गु­णो­प­सं­हा­र­वि­ष­यम् ; तथा­प्या­त्म­गृ­ही­ति­रि­त्य­धि­क­रणे प्रथमवर्णके पूर्वपक्षे "आत्मा वा इदमेक एवाग्र आसी­दि”त्यै­त­रे­य­वाक्यं हिर­ण्य­ग­र्भ­वि­ष­यम् । द्विती­य­व­र्ण­क­पू­र्व­पक्षे “सदेव सोम्येदमग्र आसी­दि”त्या­दि­च्छा­न्दो­ग्य­वाक्यं सत्ता­सा­मा­न्य­वि­ष­य­मि­त्यु­भ­य­त्रापि पूर्व­प­क्ष­यो­रा­न­न्दा­दि­गु­णा­नु­प­सं­हारः , सिद्धान्ते तदुपसंहार इति निर्गु­ण­वि­द्या­ग­त­गु­णो­प­सं­हा­र­फ­ल­त्वात् कामाद्यधिकरणे (व्या. सू. अ. ३ पा. ३ सू. ३६) निर्गु­ण­वि­द्यायां सगु­ण­वि­द्या­ग­त­स­त्य­का­मा­दि­गु­णो­प­सं­हा­रस्य साक्षा­न्नि­रू­पि­त­त्वाच्च तद­भि­प्रा­य­म­धि­क­र­णै­रिति बहुवचनम् ।
नामरूपेति ।
काठ­क­का­ला­पा­दि­र्ना­म­भेदः । क्वचिच्छाखायां दर्श­पू­र्ण­मा­स­यो­र­ग्नी­षो­मीय एकादशकपालः श्रूयते शाखान्तरे द्वादशकपाल इति रूपभेदः । कारीर्यादिषु शिरो­भू­मि­भो­ज­ना­दि­र्ध­र्म­वि­शेषः । पुनरुक्तिः अग्नि­हो­त्रा­दि­विधेः शाखा­भे­दे­ना­वि­शे­ष­पु­नः­श्र­व­ण­रू­पोऽ­भ्यासः । निन्दा उदि­ता­नु­दि­त­हो­मयोः । अशक्तिः सर्व­शा­खो­दि­त­स­क­ला­ङ्ग­ग्र­हा­र्थ­ता­व­च्छा­खा­ध्य­य­ना­शक्तिः । मैत्रा­य­णी­या­ना­म­न्वा­रो­ह­सं­ज्ञ­केषु स्थला­रो­ह­ण­म­न्त्रे­ष्व­ग्नि­च­य­नस्य समाप्तिः अन्य­त्रा­न्ये­षा­मिति समाप्तिभेदः । केषां­चि­च्छा­खा­या­मु­दि­त­हो­म­व्य­ति­क्रमे प्रायश्चित्तम् अन्ये­षा­म­नु­दि­त­हो­म­व्य­ति­क्रमे इति प्राय­श्चि­त्त­भेदः । “यदि पुरादिदीक्षाणाः स्युर्बृ­ह­त्सा­मा­न­म­ति­रा­त्र­मु­पे­यु­रु­पेतं ह्येषां रथन्तरं यद्यदिदीक्षाणाः रथ­न्त­र­सा­मा­न­म­ति­रा­त्र­मु­पे­यु­रि”त्य­नि­ष्ट­प्र­थ­म­य­ज्ञानां द्वादशाहदर्शनं शाखाभेदेन द्वाद­शा­ह­भे­देऽ­न्या­र्थ­द­र्श­न­रूपं लिङ्गम् , दिदीक्षाणाः प्राग्दी­क्षि­त­वन्तः । लिटः कानचि द्विर्वचनम् । कथं प्राग्दी­क्षि­तानां द्वादशाहदर्शनं द्वादशाहभेदे लिङ्गमुच्यते ? शाण्डि­ल्य­शा­खा­या"मेष वात्र प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एते­ना­नि­ष्ट्वाऽ­था­न्येन यजते गर्तपत्यमेव तत्कुरुते" इति सर्वक्रतूनां ज्योति­ष्टो­म­पा­श्चा­त्य­त्व­मङ्गं विहितम् । यद्येक एव द्वादशाहो नानाशाखासु विधीयते , तदा तस्य ज्योति­ष्टो­म­पू­र्व­क­त्व­नि­य­मा­द­नि­ष्ट­प्र­थ­म­य­ज्ञस्य द्वादशाहदर्शनं नोपपद्यते । यदि प्रतिशाखं द्वादशाहभेदः स्यात्तदा शाण्डि­ल्य­शा­खा­याम् "अथान्येन यजते" इत्यन्यशब्दस्य शाण्डि­ल्य­शा­खा­ग­त­द्वा­द­शा­हा­दि­वि­ष­य­त्वो­प­पत्तेः शाखा­न्त­र­ग­त­द्वा­द­शा­हानां ज्योति­ष्टो­म­पा­श्चा­त्य­त्व­स्या­वि­धा­नात् । यस्यां शाखा­या­म­नि­ष्ट­प्र­थ­म­य­ज्ञस्य द्वादशाहदर्शनं तच्छा­खा­ग­त­द्वा­द­शा­ह­वि­ष­य­त्वेन तदुपपद्यते । एवं नाम­भे­दा­दि­हे­तुभिः प्रति­शा­ख­म­ग्नि­हो­त्रा­दि­कर्म भिद्यत इति सूत्रार्थः ।
विरु­द्ध­का­ल­द्व­या­सं­भ­वा­दिति ।
यद्यपि कालद्वयं विकल्पेन संभवति ; तथापि निन्द­यो­दि­ता­नु­दि­त­हो­म­प­क्ष­द्व­येऽपि वैगु­ण्या­पा­द­क­मु­दि­ता­नु­दि­त­का­ल­द्व­य­मपि कर्मैक्ये न संभवतीति भावः ।
न केवलं निन्दया वैगुण्यमवगम्यते किंतू­दि­ता­नु­दि­त­का­ल­व्य­ति­क्रमे प्राय­श्चि­त्तो­प­दे­शे­ना­प्ये­त­द्द­र्श­यति –
प्राय­श्चि­त्त­मिति ।
निन्दा­प्रा­य­श्चित्ते इति ।
अन्धं तमः प्रवि­श­न्ती­त्या­दिषु केव­ल­यो­र्वि­द्या­क­र्म­णो­र्नि­न्दा­स­द्भा­वेऽपि भिन्न­शा­खा­ग­त­यो­र­ग्नि­हो­त्र­यो­रिव विद्य­यो­र्भे­दा­पा­दिका निन्दा नास्तीति भावः ।
अस्त्यथैष ज्योति­रि­त्या­दि­नेति ।
प्राग् ज्योतिष्टोमे प्रकृते अथैव ज्योति­रि­त्या­द्यु­प­क्रमः । ज्योतिरिति हि प्राति­प­दि­क­मात्रं न त्वस्य नाम­त्व­म­भि­व्य­क्त­मिति। मात्रशब्देन यजि­सा­मा­ना­धि­क­रण्यं व्यावर्त्यते । अथैष ज्योतिरित्यत्र यजि­सा­मा­ना­धि­क­र­ण्या­भा­वाद् न क्रतु­ना­म­त्व­म­भि­व्य­क्त­मि­त्यर्थः । प्रतीकमात्रमिति क्वचित्पाठः । तत्र ज्योति­ष्टो­म­ना­मा­व­य­व­मा­त्र­मिति नास्य प्रकृ­त­ज्यो­ति­ष्टो­म­ना­म­त्व­म­भि­व्य­क्त­मि­त्यर्थः । यद्यपि तद­भि­व्य­क्ति­सत्त्वे तदिष्टमेव प्रकृते ज्योतिष्टोमे सह­स्र­द­क्षि­णा­ल­क्ष­ण­गु­ण­वि­धि­रिति वदतः पूर्वपक्षिणः ; तथा­प्य­प्र­यो­ज­क­मिह नाम­भे­दा­भे­द­यो­रि­त्य­ग्रि­म­ग्रन्थे नाम यथा पूर्व­प­क्ष्य­भि­मते अभेदे न प्रयोजकम् , एवं सिद्धा­न्त्य­भि­मते भेदेऽपि न प्रयोजकमिति वक्ष्यमाणत्वात् तत्र कथमभेदेन प्रयोजकं ज्योतिरिति प्रकृ­त­ज्यो­ति­ष्टो­म­नाम्ना तद­भे­द­प्र­ती­ते­रि­त्या­श­ङ्का­नि­वा­र­णा­र्थ­त्वे­नेदं वाक्यमिति नेतव्यम् ।
प्राये­णा­ख्या­त­सं­ब­न्धीति ।
आख्या­त­सं­ब­न्ध­स्यापि प्रागेव क्वचि­ल्ल­ब्ध­प्र­वृ­त्ति­नि­मि­त्तकं नाम नाख्या­त­प­र­त­न्त्रम् , यथाऽऽ­ग्ने­या­दीनां प्रयाजादीनां च यागानां सन्निधौ श्रूयमाणे “दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजे­ते"त्य­धि­का­र­वाक्ये यजेतेत्यस्य संनि­हि­त­स­र्व­या­गा­नु­वा­द­स्वा­र­स्येऽपि न तत्पा­र­त­न्त्र्येण दर्श­पू­र्ण­मा­स­ना­म्न­स्ता­व­द्या­ग­वृ­त्तित्वं , किंत्व­मा­वा­स्या­पौ­र्ण­मा­सी­का­ल­यु­ते­ष्वा­ग्ने­या­दिषु क्लृप्त­प्र­वृ­त्ति­नि­मि­त्त­क­त्वा­त्ता­व­न्मा­त्र­वृ­त्ति­त्व­म­भि­प्रेत्य प्राये­णे­त्यु­क्तम् । तथा चाक्लृ­प्त­प्र­वृ­त्ति­नि­मि­त्तकं नामा­ख्या­त­प­र­तन्त्रं , तथाभूतं च ज्योतिरिति नाम , अत­स्त­स्या­ख्या­त­पा­र­त­न्त्र्या­दा­ख्या­तस्य च प्रकृ­त­ज्यो­ति­ष्टो­मा­नु­वा­द­स्वा­र­स्या­त्त­त्प­र­तन्त्रं नामापि तु तत्रैव वर्तितुमर्हतीति भावः । ज्योतिरिति कर्म­सा­मा­ना­धि­क­र­ण्येन कर्म­ना­म­व्य­व­स्था­प­ना­दि­त्या­दि­हे­तू­ना­मिति। अत्र टीकायामसन्नपि ज्योति­रि­त्य­य­मंशः कस्य कर्मनामत्वं व्यव­स्थि­त­मि­त्या­का­ङ्क्षि­तां­श­पू­र­णार्थं स्वयमध्याहृतः ।
द्वादशशतं दक्षिणेति ।
श्रुतौ द्वादशमिति शब्द­स्त­द­स्मि­न्न­धि­क­मिति दशान्ताड्ड इति सूत्र­वि­हि­त­ड­प्र­त्य­यान्तः । ततश्च द्वादशाधिकं शतमित्यर्थः । द्वादशशतं गाव इत्यु­दा­हृ­त­श्रु­ति­वाक्ये गोशब्दाभावेऽपि तत्र निर्दिष्टा द्वादशशतसंख्या गौश्चा­श्वा­श्चा­श्व­र­थश्च गर्द­भ­श्चे­त्या­दि­पू­र्व­सं­द­र्भ­प्र­कृ­त­गो­वि­ष­येति दक्षिणाधिकरणे (जै. सू. अ. १० पा. ३ सू. ३९ – ४९ ।) निर्णी­त­त्वा­द्गाव इत्युक्तम् । अन्या­य­श्चा­ने­क­श­ब्द­त्व­मिति न्यायः प्रकृते उदाहर्तव्यः ।
अतो न्याया­न्त­रो­दा­ह­रणं दृष्टा­न्ता­र्थ­मिति व्याचष्टे –
यथा­ने­का­र्थ­त्व­मिति ।
ज्योति­ज्यों­ति­ष्टो­म­श­ब्द­यो­रे­का­र्थ­त्वा­दिति ।
यद्यपि वसन्तवाक्ये ज्योतिः , शब्दः एक­दे­श्ये­क­दे­श­सं­ब­न्धेन ज्योति­ष्टो­म­शब्दं स्मारयति , स्मृत­ज्यो­ति­ष्टो­म­श­ब्दा­भि­हितो यागो वाक्यार्थान्वयी , न त्वत्र ज्योतिःशब्दो ज्योतिष्टोमस्य वाचकः ; ज्योति­ष्टो­म­ज्यो­तिः­शब्दौ नैकस्य कर्मणो वाचकौ इत्य­नु­प­द­मे­वा­भि­हि­त­त्वात् , वसन्तादिवाक्ये ज्योतिःशब्दः एक­दे­शा­न्त­र­ल­क्ष­णार्थ इत्यनुपदमेव वक्ष्य­मा­ण­त्वाच्च ; तथापि यथा­क­थं­चि­ज्ज्यो­ति­ष्टो­म­या­ग­प्र­ती­त्यु­प­यो­गि­त्वेन श्रुतो ज्योतिःशब्दः प्रयुक्त इत्येतावता तयो­रै­का­र्थ्य­मु­क्तम् । नाम­त­यै­का­र्थ­प्र­ती­त्यु­प­यो­ग्य­ने­क­श­ब्द­प्र­सि­द्धा­व­न्यत्र सुलभतरायामपि क्लिष्टोदाहरणम् अथैष ज्योतिरित्यत्र यस्य ज्योतिःपदस्य ज्योतिष्टोम इति नामान्तरवति वृत्ति­र­न्या­य्येति विचिकित्सते तस्यैवान्यत्र तस्मिन् वृत्ति­र्दृ­ष्टेति दर्शयितुम् ।
यत्तु वसन्तादिवाक्य इति ।
वसन्तादिवाक्ये इव अथैष ज्योति­रि­त्य­त्रा­प्यु­त्स­र्ग­बा­धोऽ­स्त्विति भावः ।
एक­दे­शा­न्त­र­ल­क्ष­णार्थे इति ।
अत्र लक्षणार्थ इत्यनेन एक­दे­श्ये­क­दे­श­सं­ब­न्ध­मू­ल­क­ज्यो­ति­ष्टो­म­श­ब्द­स्मृ­त्य­र्थत्वं विवक्षितम् , न त्वेकदेशान्तरे एकदेशिनि वा लाक्षणिकत्वं शक्य­सं­ब­न्धा­भा­वात् । न हि नामैकदेशस्य किंचिच्छक्यम् ; एकदेशस्य एकदेशिनश्च शक्यसंबन्धो वाऽस्ति। न चैकत्रेतीति प्रती­क­ग्र­ह­णा­न­न्तरं – वसन्तवाक्ये ज्योतिषा यजेतेति आख्याततन्त्रा संज्ञा आख्यातं च काल­वि­धि­सं­क्रा­न्त­मिति पूर्व­क­र्मा­नु­व­दे­देषा तु प्रथ­मा­न्त­त्वा­द­त­न्त्रेति प्रकृ­त­क­र्म­बुद्धिं व्यव­च्छि­न­त्ती­त्यर्थ इति शुद्धः पाठः । वसन्तवाक्ये हि काल­ल­क्ष­णा­नि­मि­त्त­सं­क्रा­न्त­त्वा­द्विधेः कर्म­सि­द्ध्य­नु­प­पत्तिः नान्यत्रेत्यर्थ इति क्वचित्पाठो दृष्टः , सोऽप्य­त्रै­वार्थे कथञ्चिद्योज्यः । तस्मिन् पाठे नान्यत्रेत्यस्य न त्वत्रेत्यर्थः । तथा च वसन्तवाक्ये कर्म­वि­ध्य­नु­प­प­त्ते­रा­ख्या­तेन पूर्व­क­र्मा­नु­व­द­नी­य­मिति तत्स­मा­ना­धि­क­र­ण­ज्यो­तिः­श­ब्द­स्यापि कथ­ञ्चि­त्त­त्प्र­त्या­य­क­त्व­मा­श्रितं , नत्वत्र तदाश्रयणीयम् ; प्रथमान्ते तथा­नु­प­प­त्ति­स्फू­र्त्य­भा­वा­दिति।
तस्यैव नाम्नः कर्मा­न्त­र­वा­च­क­त्वा­दि­त्या­हेति ।
प्रथ­मा­न्त­ज्यो­तिः­श­ब्दस्य विधा­स्य­मा­न­क­र्म­ना­म­ता­या­स्त­दा­नी­म­न­भि­व्य­क्ता­वपि पूर्वा­सं­ब­न्धि­प­देन तेन प्रक­र­ण­वि­च्छे­दा­दिति भावः । अत्र हि द्रव्यदेवतेति वाजि­न­द्र­व्य­दे­व­ता­सं­बन्धो यागेनैव कर्तव्य इति द्रव्य­दे­व­ता­सं­ब­न्धस्य यागा­वि­ना­भा­वा­त्तेन यागानुमितिः ।
टीकायां गुणा­धि­क­र­ण­सं­दे­हो­प­न्या­स­पू­र्व­प­क्ष­कोटौ द्रव्यमात्रस्य विधिरुक्तो न देवतायाः , तत्र किमर्थं देवताया अपि विधिर्नोक्तः अविधाने च देवतायाः कुतो लाभ इत्याशङ्क्याह –
यद्यपीत्यादिना ।
ननूभयोरपि वाक्ययोः समसमयवृत्तेरिति टीकोक्तमयुक्तम् ; आमिक्षावाक्ये स्वार्थमभिधाय पर्यवसिते वाजि­न­वा­क्य­प्र­वृत्तेः , न ह्युत्त­र­वा­क्य­प्र­वृ­त्ति­प­र्यन्तं पूर्व­वा­क्य­म­प­र्य­व­सि­ता­भि­धानं भवतीति क्वचिद् दृष्ट­मि­त्या­श­ङ्क्या­न्य­त्रा­त­था­भा­वेऽपि प्रकृते तथाभावमुपपादयति –
अयमभिप्राय इति ।
यत्र पूर्वा­प­र­वा­क्य­द्व­य­मपि किंचिदंशकल्पनया पूरणीयं भवेत्तत्र नानेकं कल्पनीयं गौरवादिति भावः ।
तद्धि­ता­न्त­प­द­श्रु­ति­मा­त्रा­दिति ।
विश्वे देवा देवता अस्या इति विग्रहवाक्ये अस्या इत्ये­त­द­र्थ­त्वे­ना­मि­क्षायाः प्रवे­शा­त्त­त्स­मा­नार्था तद्धितश्रुतिरपि द्रव्य­दे­व­ता­सं­ब­न्धार्था वाजिभ्य इति चतु­र्थ्य­न्त­श­ब्द­स्तू­द्दे­श्य­दे­व­ता­मा­त्र­म­भि­धत्ते , न तस्या द्रव्यसंबन्धमपि , स तु तत्र वाक्यगम्य एवेति भावः ।
तथा सतीति ।
विग्र­ह­वा­क्य­स्थ­स्यास्या इति पदस्यामिक्षायां पर्यवसानार्थम् आमि­क्षा­प­द­स­म­भि­व्या­हा­रा­पे­क्षाऽ­स्ती­ती­हापि वाक्यबोध्य एव संबन्ध इति भावः ।
श्रौत एवामिक्षासंबन्ध इति ।
पर्य­व­सि­ता­भि­धा­नस्य यत्प्रत्यायनाय पदा­न्त­र­स­म­भि­व्या­हा­रा­पेक्षा तत्रैव वाक्यं प्रमाणं , यत्र त्वप­र्य­व­सि­ता­भि­धा­नाय पदान्तरापेक्षा तत्र पदा­न्त­र­स­न्नि­धा­नेन पर्यवसिता श्रुतिरेव प्रमाणमिति भावः ।
टीकायां तथा­पी­त्या­र­भ्यो­प­ल­क्ष­य­ती­त्य­न्तेन ग्रन्थेन प्रकृते श्रुतितो वाक्यस्य दौर्ब­ल्या­भा­व­मु­प­पा­द­यि­तु­मु­प­क्रम्य तद्विहाय यद्यपीत्यादिना विचारान्तरं प्रवर्तितं , तद­न­न्वि­त­मि­त्या­शङ्क्य उप­ल­क्ष­य­ती­त्य­न्त­स्यो­प­रि­त­न­ग्र­न्थे­ना­न्वयं दर्शयति –
उपलक्षितेषु चेति ।
विश्वान् देवा­नु­प­ल­क्ष­य­ती­त्युक्ते कथं वाजिशब्दोक्ता विश्वेदेवाः स्युः ? शब्दभेदेन देव­ता­भे­दा­दि­त्या­श­ङ्कायां प्रसक्तायां तन्निराकरणेन विश्वान् देवा­नु­प­ल­क्ष­य­ती­त्यर्थे स्थिरीकृते सति तत्फलमिह वाक्य­दौ­र्ब­ल्या­भा­व­ल­क्ष­ण­मग्रे वक्ष्यत इति नानन्वय इति भावः ।
तामेव प्रस­क्ता­मा­शङ्कां दर्शयति –
नन्विति ।
हविःप्रदानसमय इति ।
दर्श­पू­र्ण­मा­स­यो­र्दे­व­ता­प­दा­पेक्षा निगमाः सन्ति , 'अग्नये जुष्टं निर्वपामि' 'अग्नये जुष्टं प्रोक्षामि' 'अग्नेः प्रिया धामानि' 'अग्निरिदं हवि­र­जु­ष­ते'त्या­द्या­स्ते­ष्वा­ह­त्या­ग्नि­प­द­श्र­व­णात् न तेष्वियं चिन्ता , किंतूद्देशत्याग एवेति भावः ।
यदि शब्द एव देवता स्यादर्थरूपा देवता न स्यात्तदा पर्यायाणां न प्रसक्तिरत आह –
अर्थ­रू­प­त्वा­द्दे­व­ता­त्व­स्येति ।
अस्ति ताव­द­ग्न्या­दि­दे­व­ता­श­ब्दे­भ्योऽ­ग्नये जुष्ट­मि­त्या­दि­नि­ग­मेषु नाना­वि­भ­क्त्यु­त्पत्तिः । ताः तेषां प्राति­प­दि­क­त्व­म­न्त­रेण नोत्पद्यन्ते तत्प्रा­ति­प­दि­कत्वं च नार्थ­व­त्त्व­म­न्त­रेण भवतीति सन्त्य­ग्न्या­दि­श­ब्दा­ना­म­र्थास्त एव देवताः ; सास्य देव­ते­त्य­र्थेऽ­ग्न्या­दि­प्रा­ति­प­दि­के­भ्य­स्त­द्धि­तो­त्प­त्ति­द­र्श­ना­दिति भावः ।
तत्तु न स्वर्ग­वा­सि­त्वा­दीति ।
नाकसत्त्वादिकं देवतात्वं चेन्ना­क­स­दा­म­ग्न्या­द्य­भि­मा­निनां लोक­वे­द­प्र­सि­द्ध­प­र्या­य­स­द्भा­वा­त्प­र्यायाः प्रसज्येरन् , न तु तदिह देवतात्वं विवक्षितम् ; मासा­दि­दे­व­ता­न­नु­ग­त­त्वा­दि­त्यर्थः । यद्यपि मासा­द्य­भि­मा­नि­दे­वताः सन्ति , अत एवा­र्चि­रा­दि­प­र्व­भू­तानां मासा­दी­ना­मा­ति­वा­हि­कत्वं वक्ष्यते ; तथापि तन्नानुगतम् ; 'दद्भ्यः स्वाहा' 'हनूभ्यां स्वाहे'त्या­दि­हो­मे­ष्व­श्वस्य दन्त­ह­नु­श­कृ­न्मू­त्रा­दी­ना­मपि देव­ता­त्व­द­र्श­ना­दिति भावः ।
अस्तु हविः प्रति प्राधान्येन निर्देश्यत्वं देवतात्वं , तन्निर्देश एव पर्यायान्तरेण किं न स्यादि­त्या­शङ्क्य सूत्रं योजयन् विधिशब्देनैव निर्देश्यत्वे हेतुमाह –
तत्राग्नेय इतीति ।
शब्दान्तरेण निर्देशे देवतात्वं न स्यादिति ।
अयमाशयः – आग्नेय इति तद्धि­ते­ना­ग्नि­रूपा देवता यागाङ्गत्वेन विधीयत इति वक्तव्यम् । अनु­ष्ठे­य­मु­प­का­रकं चाङ्गं भवति , न चाग्नी­न्द्रा­दि­रूपा देवता यागमध्ये स्वरू­पे­णा­नु­ष्ठातुं शक्याः । न च ऋत्विजामिव देवतानां हस्ता­दि­नो­प­का­र­क­त्व­मस्ति। तस्मा­त्त­द्वा­च­क­श­ब्दो­च्चा­र­ण­मेव पुरु­ष­स्या­नु­ष्ठेयं स्ववा­च­क­श­ब्द­द्वा­रैव तासामुपकारकत्वं चेत्यास्थेयम् । तथा­चा­व­श्य­क­त्वा­द­ग्न्या­दि­श­ब्दानां प्रथ­मो­प­स्थि­त­त्वा­च्चा­ग्न्या­दि­श­ब्द­यु­क्तेन यागेनेष्टं भाव­ये­दि­त्ये­वा­ग्ने­या­दि­प­द­यु­क्त­वि­धि­वा­क्यार्थः । हविस्त्यागकाले यद्वा­च­क­श­ब्दे­नो­द्देशः क्रियते , तस्य देव­ता­त्व­म­र्थ­सि­द्ध­मिति तदेवार्थसिद्धं देवतात्वं तद्धितैरनूद्यते , यथाऽऽ­ग्ने­य­म­ष्टा­क­पालं निर्वपतीति विकृ­ती­ष्टि­वा­क्येऽ­श्रु­तोऽपि द्रव्य­दे­व­ता­सं­बन्धो विधीयते, श्रुतोऽपि निर्वापो न विधीयते , किंतु प्रकृतितः प्राप्नु­व­न्न­नू­द्यते । एत­त्स­र्व­म­भि­प्रे­त्यो­क्त­मा­चा­र्य­श­ब­र­स्वा­मिना – "शब्द एव हविषा संबध्यते तत्संबन्धादर्थो देवता भवि­ष्य­तीति" । तस्मा­च्छ­न्दा­न्त­रेण निर्देशे विधे­या­ग्न्या­दि­श­ब्द­नि­र्दे­शा­र्थ­प्रा­प्य­म­ग्न्या­दीनां देवतात्वं न सिद्ध्येदिति 'आदित्यः प्राय­णी­य­श्च­रुरि’ति विकृतिविशेषे क्वचि­दा­दि­त्य­दे­व­ता­क­या­ग­वि­धा­य­क­मिदं वाक्य­मा­चा­र्यै­र्दृष्टं भविष्यति। ज्योतिष्टोमे तु प्राय­णी­य­च­रु­र­दि­ति­दे­वत्यः । क्वचित्कोशे "यः पापयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्व­पे"दि­त्या­दि­त्य­च­रु­वा­क्यो­दा­ह­रणं दृष्टम् । तदपि शाखा­न्त­र­स्थ­मा­चा­र्यै­र्दृ­ष्ट­मि­त्ये­वो­प­पा­द­नी­यम् । प्रसि­द्ध­तै­त्ति­री­य­शा­खास्थे तु वाक्ये बहु­व­च­ना­न्ता­दि­त्य­श­ब्द­स्त­द्धि­तान्तः ; आदित्यानेव स्वेन भाग­धे­ये­नो­प­धा­व­तीति वाक्यशेषात् ।
सर्व­सं­म­ता­नु­ष्ठा­न­वि­रो­धा­दिति ।
ननु –
अनुष्ठानविरोधः पूर्वपक्षिणो न दूषणम् ; मीमां­सा­नु­सा­र्य­नु­ष्ठा­न­वि­रो­धे­नैव हि सर्वत्र पूर्वपक्ष: , अन्य­थाऽऽ­ग्ने­य­या­ग­एव सर्व­सं­म­ता­नु­ष्ठा­न­वि­रो­धा­दिति वक्तुं शक्ये किं बक­ब­न्ध­वि­धि­प्र­या­सेन ? यद्य­स्मि­न्न­धि­क­रणे पर्यायान्तरेण देवतां निर्दिश्यापि हविः­प्र­दा­न­म­स्त्विति विप्रतिपद्यमानः पूर्वपक्षी सौर्यचरौ निर्वापमन्त्रैः सूर्या­ये­त्ये­वा­नु­ष्ठानं न कदा­प्या­दि­त्या­ये­त्य­नु­ष्ठा­न­मि­त्य­स्मि­न्नंशे विप्र­ति­प­त्ति­र­हितः स्यात् , तदा सर्व­सं­म­ता­नु­ष्ठा­न­वि­रो­धा­दि­त्येवं तवापि संमतमनुष्ठानं विरु­ध्ये­ते­त्ये­त­द­र्थ­तया योजयितुं शक्यम् , न त्वेतदस्ति ।
विधिशब्दस्य मन्त्रत्व (जै. अ. १० पा. ४ सू. २३) इत्ये­त­द­धि­क­र­णा­न­न्तरं प्रवृत्ते तथोत्तरस्यां ततौ तत्प्रकृतित्वा (जै. अ. १० पा. ४ सू. २५) दित्यधिकरणे अस्तु प्रकृताविव सौर्यं चरुं निर्वपेदिति विधिविहितायां विकृतावपि हविःप्रदाने सूर्यशब्दनियमः ; निर्वा­पा­दि­नि­ग­मेषु सूर्या­ये­त्या­दि­व­दा­दि­त्या­ये­त्या­दि­रपि कदा­चि­न्नि­र्दे­शोऽस्तु सौर्यं चरुं निर्व­पे­दि­त्यु­त्प­त्ति­वा­क्येन हविः­प्र­दा­न­मात्रे सूर्यशब्दयोगस्य विहि­त­त्वा­त्प्र­कृ­ता­व­ग्नये जुष्ट­मि­त्या­दि­पा­ठ­व­त्सौ­र्य­चरौ सूर्याय जुष्ट­मि­त्या­दि­पा­ठा­भा­वा­च्चे­त्येव पुनः पूर्वपक्ष इत्यु­त्था­न­द­र्श­नात् । तस्मा­द­नु­ष्ठा­न­वि­रो­धो­क्तिर्न सङ्गच्छत इति – चेत् , उच्यते ; अनु­ष्ठा­न­वि­रो­धा­दि­त्य­त्रा­नु­ष्ठा­न­शब्दः कर­ण­व्यु­त्प­त्त्याऽ­नु­ष्ठा­प­क­वि­धि­परः । तथा चायमर्थः । सौर्यं चरुं निर्वपेदिति वाक्येन सूर्य­श­ब्द­प्र­यो­ग­श्च­रु­मात्रे न विधीयते , किंतु प्रयो­गा­न्त­र्ग­ताश्च निर्वापादिनिगमा इति तेष्वपि सूर्यपदसिद्धिः । न च – एवं सति प्रकृतौ निर्वा­पा­दि­नि­ग­मे­ष्व­ग्नि­प­द­पाठो व्यर्थः स्यात्प्र­यो­गा­ङ्गा­ग्नि­प­द­वि­धा­नत एव तत्सिद्धेरिति – वाच्यम् ; प्रयो­गा­ङ्गा­ग्नि­प­द­नि­र्दे­शस्य प्रयो­गा­न्त­र्ग­तेषु सर्वेषु पदार्थेषु प्रतिपदार्थं प्राप्तौ निर्वा­पा­दि­षू­ज्झि­त्य­न्तेषु केषुचिदेवेति तत्प­रि­सं­ख्या­ना­र्थ­त्वात् । एवं च यदा सौर्यचरौ सूर्य­प­द­प्र­यो­ग­वि­धानं निर्बाधं निर्वा­प­प्र­भृ­त्य­ङ्ग­प­र्य­न्त­मा­क्रा­मति , तदा किमु वक्त­व्य­मु­त्प­त्ति­प­र­वा­क्येऽ­ग्नि­प­द­यो­ग­वि­धानं प्रधानं हविःप्रदानं न त्यज­ती­त्ये­व­मु­त्त­रा­धि­क­र­ण­सि­द्धा­न्त­स्मा­र­णे­नो­प­न्य­स्ता­धि­क­र­ण­सि­द्धा­न्त­दृ­ढी­क­र­णा­र्थे­य­म­नु­ष्ठा­न­वि­रो­धो­क्ति­रिति न काचिदनुपपत्तिः ।
विश्वे­दे­व­प­द­स­न्नि­हि­ता­ना­मिति ।
यद्यप्यन्यत्र तद्धि­ता­दि­वि­ग्र­ह­वा­क्य­स्थ­स­र्व­ना­म­प­रा­म­र्श­नीयं येनार्थगतेन रूपेण सन्निहितं तेनापि पराम्रष्टुं शक्यमिति न सन्नि­धा­प­क­श­ब्द­रू­षि­त­त्वेन परामर्शनियमः ; तथापि प्रकृते विश्वेषां देवानां शब्दै­क­ग­म्या­ना­म­नु­प­स्थि­त­रू­पा­न्त­राणां सन्नि­धा­प­क­श­ब्द­रू­षि­त­त­यै­वो­प­स्थि­ति­नि­य­मोऽ­स्तीति तात्पर्यम् ।
स च न्यायो वचनेन बाधिष्यत इति ।
यथा ह्युदि­ते­ष्टा­वा­ग्ने­ये­न्द्र­श्रु­ति­ब­ली­य­स्त्व­न्यायः पूर्व­दे­व­ता­प­न­य­दे­व­ता­न्त­र­सं­यो­ज­न­व­च­नेन बाध्यते , एव­म­त्रा­पी­त्यर्थः ।
इति तदिदमुत्थितमिति ।
समु­च्चि­त­द्र­व्य­द्व­य­यु­क्त­मेकं कर्म विधीयत इति टीका­वा­क्या­लो­च­नया समु­त्थि­त­मि­त्यर्थः ।
द्रव्य­द्व­य­यु­क्तै­क­क­र्म­वि­धि­रिति पूर्वपक्षे आमि­क्षा­वा­क्य­प्रा­प्त­क­र्मा­नु­वा­देन वाजिनवाक्ये गुणविधिरिति कथं संदे­ह­टी­का­या­मु­क्त­मि­त्या­का­ङ्क्षा­या­माह –
एवं चेति ।
तदा­पा­त­प्र­ति­भा­न­मा­दा­येति ।
आपा­त­प्र­ति­भा­न­मि­त्ये­त­दा­पा­त­द­र्शिनो विनेयान् प्रत्युक्तम् । वस्तुतस्तु – संदेहटीकोक्तमपि विमर्शपूर्वकमेव । तथा हि – द्विवि­धोऽ­स्मि­न्न­धि­क­रणे सिद्धान्तन्यायः प्रवर्तते । उत्प­त्ति­वा­क्य­शि­ष्टा­मि­क्षा­व­रुद्धे यागे वाक्यान्तरेण वाजिनं निवेशनं न लभत इत्यु­त्प­त्ति­शि­ष्ट­ब­ली­य­स्त्व­न्याय एकः । श्रौता­मि­क्षा­व­रु­द्धेषु विश्वेषु देवेषु वाक्येन वाजिनं निवेशनं न लभत इति श्रुति­ब­ली­य­स्त्व­न्यायो द्वितीयः । तत्र द्वितीयस्य टीकायां द्वेधोपमर्दः कृतः । वैश्वदेवीशब्दः श्रुतिर्न भवतीति , श्रुतित्वेऽपि वचनबलादिह श्रुति­ब­ली­य­स्त्व­न्यायो न प्रवर्तत इति च । एवमाद्यस्यापि सिद्धा­न्त­न्या­यस्य द्वेधोपमर्दो विवक्षितः । आमि­क्षो­त्प­त्ति­शिष्टा न भवतीति उत्प­त्ति­शि­ष्ट­त्वेऽपि वच­न­ब­ला­दि­हो­त्प­त्ति­शि­ष्ट­ब­ली­य­स्त्व­न्यायो न प्रवर्तत इति च । अत्र प्रथमः प्रकारः समसमयेति टीकायां कण्ठत उक्तः । द्वितीयस्तु श्रुति­ब­ली­य­स्त्व­न्या­यस्य वच­न­ब­ला­द्बा­धो­क्त्यैव न्याय­तौ­ल्या­दू­हितुं शक्यत इति कण्ठतो नोक्तः । दृष्टं ह्यभ्युदयेष्टौ श्रुति­ब­ली­य­स्त्व­न्या­य­स्ये­वो­त्प­त्ति­शि­ष्ट­ब­ली­य­स्त्व­न्या­य­स्यापि पूर्व­दे­व­ता­प­न­य­दे­व­ता­न्त­र­सं­यो­ज­न­व­च­न­ब­ला­द्बा­ध­नम् । एव­मु­त्प­त्ति­शि­ष्ट­ब­ली­य­स्त्व­न्या­य­बा­धने पूर्व­क­र्मा­नु­वा­देन वाजि­न­मा­त्र­गु­ण­वि­धि­रिति संदे­ह­टी­को­क्त­प्र­का­रोऽपि संगच्छते । वाक्याभ्यां द्रव्य­द्व­य­यु­क्त­मेकं कर्म विधीयत इति पूर्व­प­क्षो­प­सं­हा­र­टी­काऽपि पक्ष­द्व­य­सा­धा­र­ण्येन योजयितुं शक्या । प्रथ­म­वा­क्ये­नै­क­गु­ण­वि­शि­ष्ट­त­यो­त्पन्नं कर्मानूद्य द्वितीयवाक्येन गुणा­न्त­र­वि­धि­रिति पक्षेऽपि हि वाक्यद्वयेनैकं कर्म गुणद्वययुक्तं सिद्ध्यति , न त्वेकवाक्येन, वैश्वदेवीत्यस्य श्रुति­त्वो­प­पा­द­नार्थं प्रवृत्तेः । स्यादे­त­दे­व­मि­त्या­दि­सि­द्धा­न्त­टी­का­ग्र­न्थो­प­सं­हारे तद्धि­त­श्रु­त्य­व­ग­ता­मि­क्षा­ल­क्ष­ण­गु­णा­व­रो­धा­त्पू­र्व­क­र्मा­सं­योगि वाजिनद्रव्यं स्वसंबन्धिकर्म पूर्व­स्मा­द्भि­न­त्तीति वाक्यमपि प्रथ­म­वा­क्य­वि­हितं कर्मानूद्य द्वितीयवाक्येन गुण­मा­त्र­वि­धा­न­मिति पूर्व­प­क्षा­नु­मितिं सूचयति। अन्यथा हि श्रोता­मि­क्षा­व­रु­द्धानां विश्वेषां देवानां वाक्य­प्र­मा­ण­क­वा­जि­न­सं­ब­न्धा­सं­भ­वाद् युगपद् द्रव्य­द्व­य­यु­क्त­वि­श्व­दे­व­दे­व­ता­कै­क­या­ग­वि­धिर्न संभवतीति वक्तव्यं स्यात् । तस्मा­त्सं­दे­ह­टी­कायां पूर्व­प­क्ष­श­री­रो­प­न्या­सोऽपि विमर्शपूर्वक एव । श्रुति­ब­ली­य­स्त्व­न्या­य­मा­दाय सिद्धान्तयतीति । श्रुति­ब­ली­य­स्त्व­म­ङ्गी­कृत्य विश्व­दे­वा­मि­क्षा­सं­बन्धे वैश्व­दे­वी­श­ब्दस्य श्रुतित्वं नास्तीति विवादेन पूर्वपक्षे तस्य तत्र श्रुति­त्वो­प­पा­द­नम् । तस्य श्रुति­त्व­म­ङ्गी­कृत्य श्रुति­ब­ली­य­स्त्व­न्यायः प्रकृते न प्रवर्तत इति विवादेन पूर्वपक्षे तत्प्र­त्यु­प­पा­दनं चेत्युभयमप्यत्र विवक्षितम् । आमि­क्षा­वि­शि­ष्टा­निति , आमि­क्षा­सं­ब­न्ध­मिति च वस्तुवृत्तकथनं , न त्वामिक्षाया अप्य­भि­धे­य­को­टि­नि­वे­शा­भि­प्रा­यम् । एवं च सति कुतोऽ­स्या­मि­क्षा­वा­च­क­त्व­मि­त्या­चा­र्य­ग्रन्थो न तु विश्वेषु देवेषु न तत्संबन्धेनापि तत्संबन्धिमात्र इति टीकाग्रन्थश्च न संगच्छते ।
कुत आमि­क्षा­प­दा­न­पे­क्ष­प्र­त्य­य­प्र­सङ्गः कुतो वा तत्रानपेक्षेति वाक्ययोः पौन­रु­क्त्य­शङ्कां परिहरति –
द्वयं हि सर्व­त्रा­पा­द्य­मिति ।
यदिति द्वितीयान्तः शब्द इति ।
स च पदाभिधेयवस्तुपर इत्यग्रे स्फुटीभविष्यति।
अन­पे­क्षा­व­ग­त­सा­ध­न­भा­वाया इति ।
वैश्वदेवीति तद्धितेनामिक्षा द्रव्या­न्त­रा­न­पेक्षा हविरवगम्यते , तत्सापेक्षाया हविष्ट्वे सामर्थ्याभावेन तद्धि­ता­नु­त्प­त्ति­प्र­स­ङ्गा­दिति भावः । एवं च यदा श्रुति­ब­ली­य­स्त्व­न्या­यस्य द्रव्य­द्व­य­स­मु­च्च­य­प्रा­प­केण वचनेन बाधः पूर्व­प­क्षि­णोक्तः , तदा न केवलया श्रुत्या वाक्यस्य बाधाभावमात्रं , किंतु निर­व­का­श­दे­व­ता­त­द्धि­त­श्रु­ति­बा­धोऽपि स्यादित्यतो वाक्यस्यैव स्वतो दुर्बलस्य सावकाशस्य द्रव्य­दे­व­ता­वि­शि­ष्ट­क­र्मा­न्त­र­वि­धा­य­क­त्व­क­ल्पनं युक्तमिति। एवं समुच्चयपक्षे दोषं दृष्ट्वा वचनबलेन प्राप्यमाणं वाजिनं निर­पे­क्ष­सा­ध­न­भा­व­स­म­र्प­क­त­द्धि­त­श्रु­ति­बा­ध­प­रि­हा­राय विकल्पेनान्वयं लभतामिति पूर्वपक्षी ब्रूया­दि­त्य­भि­प्रा­येण शङ्कितो विकल्पपक्षोऽपि निराकृतः ।
मृदूक्त्या वतिप्रयोग इति ।
कुपि­त­त्वे­ना­व­ग­तेऽपि राज्ञि त्वं कुपित इव वर्तसे इत्युक्तिरिव नित्यत्वेनावगते नित्य­व­दि­त्यु­क्ति­र्मृ­दू­क्ति­रिति भावः । स्यादे­त­द्वा­क्यम् , यागा­न्त­र­वि­धा­ने­नैव तद्धि­त­श्रु­ति­सं­ब­न्ध­सा­मा­न्य­म­क्ष­तम् , अग्नी­षो­मी­य­पु­रो­डा­श­स्ये­वा­ग्निना । एवं च विशि­ष्ट­वि­धि­क­र्मा­न्त­रा­पू­र्वा­न्त­र­क­ल्प­ना­गौ­र­व­प­रि­हा­राय तद्धितश्रुतेरेव संब­न्ध­सा­मा­न्य­रू­पा­व­का­शा­न्त­र­क­ल्पनं युक्तम् ।
न चैवं सति देवताया अलाभप्रसङ्गः ; देवतापेक्षायां क्लृप्त­ह­वि­रे­क­दे­श­सं­ब­न्धानां बुद्धिस्थानां विश्वेषां देवानां देव­ता­त्व­क­ल्प­नो­प­प­त्ते­रि­त्या­श­ङ्को­त्त­र­त्वेन नचाश्व इत्या­दि­ग्र­न्थ­म­व­ता­र­यति –
यत्तूक्तं वचनेनैवेति ।
क्लृप्तो योगः कल्प्यमानां रूढि­मि­वा­बु­द्धि­स्थ­रूढिं बुद्धिस्थयोगो बाधत इति शङ्का­प­रि­हा­रार्थं टीकायां प्रधानं यत्तत्प्रकृतं तदेव सर्वनाम परामृशति नोपसर्जनमिति नोपसर्जनन्यायो दर्शितस्तं विवृणोति –
वैश्व­दे­व­श­ब्दा­मिति ।
उप­स­र्ज­नी­भू­ता­मि­त्यस्य नोप­ल­क्ष­यि­ष्य­ती­त्यस्य च मध्ये एवं सति कर्मा­न्त­र­वि­धि­पक्ष इति पदा­न्या­क­र­ग्र­न्थेषु दृश्यन्ते , तान्यत्र नान्वितानि । हेत्वन्तरमाहेति प्रागवतारिते एवं च सतीति टीकाग्रन्थे चकारः किंचेत्यर्थो हेत्व­न्त­र­मा­हे­त्युक्त्या विवृतः । एवं सतीत्यंशे विवरणीये स्थिते तद्विवरणार्थानि तत्रैव प्रती­को­पा­दा­ना­न­न्तरं लेखनीयानि व्यत्य­स्त­का­कु­प­द­ज­नि­त­भ्रा­न्ति­भि­र्ले­ख­कै­रिह प्रमा­दा­ल्लि­खि­तानि । यद्वा – तत्र व्याख्यातव्य एव सन्नैवं सतीत्यंश इहाकृष्य व्याख्यातः । न चाश्वेत्व इत्यादौ नोप­ल­क्ष­यि­ष्य­ती­त्यन्ते द्विती­य­वा­क्येऽ­प्य­नु­वृ­त्ति­सू­च­नाय तत्रैव व्याख्याने एवं सति विकल्पसमुच्चयो न प्राप्स्यते इति प्रथमवाक्य एवान्वयः प्रतीयेत , एवं सति नोप­ल­क्ष­यि­ष्य­तीति द्विती­य­वा­क्येऽपि विव­क्षि­त­स्त­द­न्वयो न प्रतीयेत ।
ननु नोपसर्जनन्यायो न सर्वनाम्ना परामर्शे प्रवर्तते ; "अथ शब्दानुशासनं केषां शब्दा­ना"मिति महा­भा­ष्य­द­र्श­नाद् , सर्व­ना­म्ना­नु­स­न्धि­र्वृ­त्ति­च्छ­न्न­स्येति वाम­न­सू­त्रा­च्चे­त्य­भि­प्रे­त्या­श­ङ्कते –
ननूपसर्जनभूता अपीति ।
सर्वनामश्रवणे तेनो­प­स­र्ज­न­स्यापि परामर्शो भवति , न चेह वाजिपदे सर्व­ना­म­प­द­श्र­व­ण­मस्ति, किंतु तद्धि­ता­न्त­वि­ग्र­ह­वा­क्य­यो­रै­का­र्थ्य­नि­य­मात् तत्र विग्र­ह­वा­क्य­स्थ­स­र्व­ना­मा­नु­प्र­वे­श­मा­त्रम् । न चात्र तद्धि­ता­न्त­त्व­मपि निश्चितमस्ति ; बुद्धि­स्थ­वि­ष­या­दपि क्लिष्ट­यो­गा­द­क्लि­ष्ट­रू­ढे­रेव न्याय्यत्वात् ।
प्रामाणिके चेतीति ।
तद्धितस्य हवि­र्दे­व­ता­भा­व­सं­ब­न्ध­रू­प­वि­शे­ष­वि­ष­यत्वं परित्यज्य किंचि­द्वि­शे­ष­प­र्य­व­सा­न­सा­पे­क्ष­सं­ब­न्ध­सा­मा­न्य­वि­ष­य­त्व­क­ल्प­ने­नापि तत्प्र­ति­प­त्ति­गौ­र­व­म­प्रा­मा­णि­कम् ; विशे­ष­प­र्य­व­सा­न­ल­म्भ­का­भा­वात् । न च – यागस्य देवतापेक्षया श्रुत­ह­वि­रे­क­दे­श­सं­ब­न्धानां विश्वेषां देवानां देवतात्वकल्पनया संब­न्ध­वि­शे­ष­प­र्य­व­सानं स्यादिति - वाच्यम् ; देवतापेक्षस्य यागस्य श्रवणाभावात् , तद्धितस्य संब­न्ध­सा­मा­न्य­वि­ष­यत्वे च यागकल्पकस्य द्रव्य­दे­व­ता­सं­ब­न्धस्य प्रागनुपस्थिते: , विशि­ष्ट­वि­ध्या­दि­क­ल्प­ना­गौ­रवं तु प्रामाणिकम् ; "पर्य­ग्नि­कृतं पात्नी­व­त­मु­त्सृ­जति" "आज्येन शेषं संस्था­प­य­ती"त्या­दिषु दर्शनादिति भावः॥
एकां भावनां विशिंषन्तीति ।
अपू­र्व­रू­प­फ­लै­क्यो­पा­धिकं भावनैक्यं , न तत्स्वरूपैक्यम् ; प्रय­त्न­व्य­क्तीनां बहु­त्वा­द्गु­ण­भू­त­धा­त्व­र्थानां समुच्चय इति क्रय इवा­रु­णि­मा­दी­ना­मिति भावः ।
एकस्मादेव धातो­र्वि­धा­ना­दिति ।
यद्य­प्यु­दा­हृ­तेषु यजत्यादिषु बहुभ्यो धातुभ्य एकः प्रत्यय इति शङ्का न प्रवर्तते , बहु­धा­त्व­श्र­व­णात् ; तथापि बदरामलकबिल्वा इति बहुभ्यो नामभ्यः सुप इव बहुभ्यो धातुभ्यस्तिङ उत्प­त्ति­र­न्य­त्रापि नास्तीति दर्श­यि­तु­मि­द­मु­क्तम् । एक­धा­त्व­र्था­नु­रक्ता भावना न धात्वर्थान्तरेण संबध्यत इति सामान्यतः खल्वग्रे साध्यं निर्दिश्यते । ननु – पर­स्प­रा­पे­क्षा­णा­मे­क­वा­क्यत्वे हि स प्रयोजकः स्यादिति टीकाग्रन्थो वैदिकशब्दानां बोधकतायां पाठ­क्र­म­स्या­प्र­यो­ज­कत्वे कथ­मु­प­क्र­मो­प­सं­हा­र­यो­रु­प­क्र­म­प्रा­ब­ल्य­व्य­वस्था सिध्ये­दि­त्या­शङ्का निरा­क­र­णा­र्थ­त्वेन व्याख्या­तु­मु­चितः । तथा व्याख्याने हि यत्रैकवाक्यता तत्र पाठक्रमः प्रथमचरमभावे नियामक इत्यु­प­क्र­मो­प­सं­हा­र­व्य­व­स्था­सिद्धिः । यत्र नैकवाक्यत्वं तत्र बोधकतायां पाठक्रमो न नियामक इति वैषम्यकथनेन परिहारसिद्धेः , पाठक्रमस्य प्रया­जा­ना­म­नु­ष्ठा­न­क्रमे इव प्रयाजवाक्यानां बोधनक्रमेऽपि नियामकस्वं स्यादिति शङ्का­नि­रा­क­र­णा­र्थ­त्वेन व्याख्यानं तु न युक्तम् ; तदा हि प्रयाजवैषम्यं प्रयाजवाक्येषु दर्शनीयम् । प्रयाजाः सर्वेऽ­प्य­ख­ण्डो­प­का­र­रूपं स्वप्रयोजनं परस्परापेक्षया संभूय कुर्वन्तीति तेषां मेलनार्थं युग­प­द­नु­ष्ठा­न­प्र­सक्तौ एकेन कर्त्रा बहूनां युग­प­द­नु­ष्ठा­तु­म­श­क्य­तया क्रमापेक्षायां पाठ­क्र­म­स्त­न्नि­या­मक इष्यते । न च प्रया­ज­वा­क्या­नाम् अर्थबोधनरूपं स्वप्रयोजनं जनयितुं परस्परापेक्षा संभू­य­का­रि­त्व­प­र­तया नीयत इत्यपरः क्लेशः । तम्मादिदं व्याख्यानं न युक्तमिति – चेत् , उच्यते ; इह पाठक्रमानादरे उप­क्र­मो­प­सं­हा­र­वै­षम्यं प्रया­जा­दि­या­ग­वै­षम्यं चेत्युभयमपि पर­स्प­रा­पे­क्षा­णा­मिति टीकाग्रन्थेनैव तन्त्रेण प्रदर्श्यत इत्यभिप्रेत्य तत्रा­द्य­वै­ष­म्य­प्र­द­र्श­न­प­र­तया योजनं स्फुट­मि­त्य­प­हा­या­स्फुटं द्विती­य­वै­ष­म्य­प­र­तया योजनमाचार्यैः प्रदर्शितमिति न दोषः । नन्व­ध्य­य­न­मा­त्र­वत (व्या. सू. अ. ३ पा. ४ सू. १२) इति सूत्रे भाष्या­दि­ष्व­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­फ­ल­क­त्व­म­ङ्गी­कृ­तम् । अर्थावबोधः स्तोभा­क्ष­रा­दि­ष्व­व्याप्त इति तत्फलं जप­पा­रा­य­णा­द्य­नु­ग­मे­ना­धी­तेन स्वाध्यायेन यद्भावयितुं शक्यं तत्फ­ल­कोऽ­ध्य­य­न­वि­धि­रिति तदुपपादनीयम् । स्वाध्या­य­श­ब्दा­र्थश्च क्रम­वि­शे­ष­वि­शि­ष्ट­व­र्ण­रा­शि­रि­त्य­ध्य­य­न­गृ­ही­तेन विशेष्यांशेन वर्णराशिनेव विशेषणांशेन क्रमेण यद्भावयितुं शक्यं तद­प्य­ध्य­य­न­फ­ल­त्वेन संगृहीतं भवति।
तथा च यथा विधिपाठक्रमस्य प्रया­जा­द्य­नु­ष्ठा­न­क्रमः फलं , मन्त्र­पा­ठ­क्र­म­स्याऽऽ­ग्ने­या­ग्नी­षो­मी­य­या­ग­क्रमः फलम् , उप­क्र­मो­प­सं­हा­र­पा­ठ­क्र­म­स्यो­प­क्र­म­प्रा­ब­ल्येन वारु­णे­ष्ट्य­श्व­दात्रोः शेषशेषिभावः फलं , काम्येष्टीनां काम्ये­ष्टि­या­ज्या­नु­वा­क्यानां च पाठ­क्र­म­स्ये­ष्टि­वि­शे­षाणां मन्त्रविशेषाणां च शेषशेषिभावः फलम् एवं समि­दा­दि­वा­क्यानां पाठक्रमस्य तेषां विध्यनुवादभावः फलं भवन्न निवा­र्य­ता­मि­त्या­श­ङ्का­प­रि­हा­रा­र्थ­मिह पाठक्रमादरेऽपि विध्य­नु­वा­द­वि­शेषो न सिद्ध्यतीति प्रदर्शनाय प्रवृत्तं कथं­चि­दि­त्या­दि­टी­का­ग्र­न्थ­म­व­ता­र­यति –
ननु धात्वैक्यादिति ।
प्रत्य­भि­ज्ञा­न­मु­क्त­मिति ।
प्रत्यभिज्ञया यागैक्ये सत्येकस्मिन् यागे विधि­द्व­या­न­पे­क्ष­णा­देको विधिरन्योऽनुवाद इति विशेषनिर्णयः पाठक्रमेण सिद्ध्यतीति भावः ।
आख्यातस्य हीति ।
वैदिकस्य लिङा­द्या­ख्या­त­स्या­प्र­वृ­त्त­प्र­व­र्त­क­त्व­मु­त्सर्गः , शासनादेव हि तच्छास्त्रं भवेदिति भावः ।
किं तद्ब­ल­व­द­प­वा­द­क­मिति ।
सन्नि­धि­कृ­त­मै­क्य­प्र­त्य­भि­ज्ञा­न­मात्रं विधि­श्रु­ति­स्व­भा­व­स्या­प­वा­दकं भवितुं नार्हतीति भावः ।
तदपेक्षायामिति ।
तथा च विधि­श्रु­त्य­पे­क्षि­ता­नु­वा­द­क­त्व­सि­द्ध्यर्थं धात्वर्थस्य पूर्ववाक्यतः प्राप्तिं समर्पयन् सन्नि­धि­र्वि­धि­श्रु­ते­र­नु­ग्रा­हको नोपमर्दकः , इह तु गुण­श्र­व­णा­भा­वा­द­नु­वा­दत्वं नापेक्षितमिति विधिश्रुतिः सन्निधिं बाधत इति भावः ।
यदि नामधेयानीति ।
ननु – समिदादीनां पञ्चानां नाम­धे­य­त्व­म­भ्या­सा­त्क­र्म­भेदे सिद्धे सिद्ध्यति , अभेद इति पूर्वपक्षे एकस्य नाम­धे­य­प­ञ्च­का­यो­गा­द्या­ग­विधौ श्रूयमाणं समिदित्येकमेव नाम , अनुवादेषु श्रूयमाणं तनू­न­पा­त­मि­त्या­दिकं विकल्पितदेवतं देवताविधायकं विष्णु­रु­पां­शु­य­ष्टव्य इत्यादिवत् मन्त्र­व­र्ण­प्रा­प्त­दे­व­ताऽ­नु­वा­देन स्तुतिपरं वा वक्तव्यम् । अत एव नाम्न एव भेदो नाभ्या­सा­दि­त्य­युक्ता शङ्केति – चेत् , सत्यम् ; अभ्युपेत्य परिहारान्तरं दर्शयितुमियं शङ्का ॥१॥
अग्नि­ग­त­प­ञ्च­सं­ख्या­यास्तु उत्प­त्ति­शि­ष्ट­त्वा­दिति ।
ननु असौ वाव लोको गौत­मा­ग्नि­रि­त्या­दीनां पश्चानामग्नीनां कीर्तनानन्तरं यद्यदित्थं विदुरित्यादौ स एतान् ब्रह्म गमयतीत्यन्ते वाक्ये वेदनविधानमस्ति , तदतिलङ्घ्य एतानेवं पश्चा­ग्नी­न्वे­दे­त्यादौ शुचिः पूतः पुण्यलोको भवतीत्यन्ते उपसंहारवाक्ये वेदनविधानं किमि­त्य­भ्यु­प­ग­म्यते ? यतः पञ्च­सं­ख्यो­त्प­त्ति­शिष्टा स्यादिति – चेत् , उच्यते ; उभ­य­त्रा­प्या­र्थ­वा­दि­क­फ­ल­श्र­वणं रात्रि­स­त्र­न्या­येन फलपरं विपरिणमय्य लाघ­वा­दे­क­मे­वा­धि­का­र­वा­क्य­म­वा­न्त­र­वा­क्य­द्व­यो­पा­त्त­या­व­द्वि­शे­ष­ण­स­हितं कल्पनीयम् । तत्रैव च वेद­न­स्यो­त्प­त्ति­रपि ; पृथ­गु­त्प­त्ति­वा­क्या­भा­वा­त्त­स्मिन् पञ्च­सं­ख्या­प्य­नु­प्र­वि­ष्टे­त्यु­त्प­त्ति­शि­ष्टत्वं पञ्चसंख्याया उक्तम् ।
षडप्यग्नयः शाखा­द्व­येऽ­प्यु­पास्या इति ।
लोका­न्त­र­ग­म­ना­ग­म­नयोः पुरु­षा­हु­त्या­धा­र­भूताः खलु द्युलो­का­द­योऽ­ग्नयः कीर्त्यन्ते , प्रत्य­क्षा­ग्नि­रपि पुरु­षा­हु­त्या­धा­र­त्वेन कथ्यत इति द्युलो­का­दि­सा­म्या­त्सो­प्यग्निः सर्वथोपास्य इति भावः ।
ननु टीकायां छन्दोगानामिति वक्तव्ये कथं छान्दो­ग्या­ना­मि­त्यु­क्ति­स्त­त्राह –
छन्दोगेन दृष्टां शाखामधीयत इति ।
छान्दोग्या इति छन्दो­गौ­क्थि­क­या­ज्ञि­क­ब­ह्वृ­च­न­टाञ्य इति छन्दो­ग­श­ब्दा­द्ध­र्मा­म्ना­य­यो­रेव ञ्यप्रत्ययो विहितः । छन्दोगेन दृष्टां शाखामधीयत इत्यर्थे ञ्यप्रत्ययः छान्दो­ग्य­रू­पा­पा­दकः कश्चिदन्यो वा प्रत्ययः पाणिनीये विहितो न दृश्यते । अतोऽत्र व्याक­र­णा­न्त­र­म­न्वे­ष­णी­यम् । पाणिनीयानुसारेण तु छान्दोग्यं छन्दो­गा­ना­मा­म्नायो येषा­म­स्ती­त्यर्थे मत्व­र्थी­या­का­र­प्र­त्य­या­न्तोऽत्र छान्दोग्यशब्दो वाच्यः ।
अधिकस्तु षष्ठोऽ­ग्नि­र्वि­क­ल्प्यत इति ।
यद्यपि षष्ठोऽ­ग्नि­श्छा­न्दो­ग्येऽ­प्यु­प­सं­हार्य इति वक्तुमुचितम् ; विरोधाभावेऽपि भाष्येऽपि तथैवोक्तम् ; तथापि विरोधमभ्युपगम्य षोड­शि­ग्र­ह­ण­न्या­येन विकल्पो भविष्यतीति भाष्ये यः पक्ष उक्तः स इह दर्शितः । उप­सं­हा­र­स्त्व­ग्रि­मा­धि­क­र­ण­न्या­येन सेत्स्यतीति स्पष्ट­त्वा­न्नोक्तः ।
ननु किं कठ­प्रो­क्त­त्वा­दि­नि­मि­त्ता­नु­स­र­णे­नेति ।
ननु - काठकशब्दः कठ­प्रो­क्त­त्व­नि­मित्तो न भवति , किंतु कठा­म्ना­य­त्व­नि­मित्तः ; तस्ये­द­मि­त्य­धि­कारे गोत्र­च­र­णा­द्वु­ञिति विहितस्य वुञ­श्च­र­णा­द्ध­र्मा­म्ना­य­यो­रिष्टेः कठेन प्रोक्त­मि­त्यर्थे वुञ्प्रत्ययस्य विधानाभावादिति – चेत् , सत्यम् ; आम्ना­या­र्थ­वु­ञ्प्र­त्य­य­प्र­कृ­ति­भू­त­क­ठ­शब्दे प्रोक्ता­र्थ­प्र­त्य­या­र्थ­स्या­प्य­न्त­र्भा­वोऽस्ति। तत्र कठशब्दस्य कठ­प्रो­क्त­शा­खा­ध्ये­तृ­व­च­न­त्वाद् , अन्यथा कठशब्दस्य चर­ण­वा­चि­त्वा­भा­वेन तत­श्च­र­ण­ल­क्ष­ण­वु­ञ­नु­त्प­त्ति­प्र­स­ङ्गात् । शाखा­सं­ब­न्ध­नि­मि­त्तकः खलु चरणशब्दः । कथं कठशब्दः कठ­प्रो­क्त­शा­खा­ध्ये­तृषु वर्तत इति चेत् , इत्थम् ; कठशब्दात्कठेन प्रोक्त­मि­त्यर्थे कला­पि­वै­श­म्पा­य­ना­न्ते­वा­सि­भ्य­श्चेति सूत्रेण वैश­म्पा­य­ना­न्ते­वा­सि­ल­क्षणे णिनिप्रत्यये तस्य कठचरकाल्लुगिति लुकि पुनरपि कठेत्येवरूपे स्थिते ततः कठप्रोक्तां शाखामधीयत इत्यर्थे प्राग्दीव्यतीये अण्प्रत्यये तस्यापि प्रोक्ता­ल्लु­गिति लुकि सति कठशब्द एव लुप्त­प्रो­क्ता­ध्ये­तृ­प्र­त्य­य­द्वयः कठ­प्रो­क्त­शा­खा­ध्ये­तृ­पु­रु­ष­वाची । तत्र कठ­प्रो­क्त­शा­खायां प्रोक्त­प्र­त्य­य­लो­प­मा­त्रेण कठशब्दो न प्रयोज्यः , किंतु प्रत्य­य­द्व­य­लो­पेन तद­ध्ये­तृ­पु­रु­षे­ष्वेव प्रयोज्यः ; छन्दो­ब्रा­ह्म­णानि च तद्विषयाणीति सूत्रेण प्रोक्त­प्र­त्य­या­न्तानि छन्दांसि ब्राह्मणानि चाध्ये­तृ­वे­दि­तृ­वि­ष­य­प्र­त्य­यो­त्पा­द­ने­ना­ध्ये­तृ­वे­दि­तृ­वि­ष­या­ण्येव प्रयोज्यानीति नियमितत्वात् । अतः काठकशब्दार्थे कठ­प्रो­क्त­स्या­न्त­र्भा­वात् केव­ल­प्रो­क्त­प्र­त्य­या­न्तस्य च कठशब्दस्य शाखाविद्ययोः प्रयो­गा­न­र्ह­त्वा­त्क­ठ­शा­खा­ध्ये­तृ­पु­रु­षा­म्ना­य­वा­चिनः काठकशब्दस्य भवानीपतिशब्दस्य भवइव कठ­प्रो­क्त­शा­खायां वस्तुतः पर्यवसानाच काठकशब्दः कठ­प्रो­क्त­त्व­नि­मि­त्त­क­त्वेन व्यवहृत इति न दोषः ।
ग्रन्थ­सं­ब­न्धा­द्वि­द्यायां च वृत्तिसंभव इति ।
न च विनिगमनाविरहः ; एकस्यां शाखायां मुख्यवृत्तस्य बह्वीषु विद्यासु लक्षणाभ्युपगमे शक्ति­क­ल्प­ना­ला­घ­वस्य विनिगमकत्वात् । उक्तं हि – शाखया ह्येकया योगा­द्ब­हु­क­र्मा­व­बो­ध­नम् । युज्यते कर्मनानात्वं नैक­शा­खो­प­ल­क्ष­णम्॥ इति ।
ननु विद्यासु काठकशब्दः कठ­ध­र्म­त्व­नि­मि­त्तोऽस्तु चर­णा­द्ध­र्मा­म्ना­य­यो­रि­त्य­नु­शा­स­नात् , अतो मुख्य­वृ­त्ति­सं­भवे लक्षणा न कल्पनीयेति काठ­क­वा­ज­स­ने­य­क­तै­त्ति­री­य­का­दि­श­ब्दै­र्वि­द्यानां कठ­वा­ज­स­ने­यि­तै­त्ति­री­या­दि­पु­रु­ष­ध­र्मस्य प्रतीतेस्तासां भेदः स्यादि­त्या­श­ङ्क्याह –
अङ्गीकृत्यापीति ।
अपि­श­ब्दे­नो­क्त­यु­क्ति­र­सा­र्व­त्रिकी ; केव­ल­प्रो­क्त­प्र­त्य­या­न्तया याज्ञ­व­ल्क्या­दि­स­मा­ख्यया विद्या­भे­द­सिद्धेः ।
छन्दो­ब्रा­ह्म­णा­नीति सूत्रे छन्दोग्रहणेन सिद्धेः पुन­र्ब्रा­ह्म­ण­ग्र­ह­णस्य चिर­न्त­न­ऋ­षि­प्रो­क्त­ब्रा­ह्म­ण­प्र­त्या­य­ना­र्थ­त्वे­ना­चि­र­जा­त­या­ज्ञ­व­ल्क्या­दि­प्रो­क्त­ब्रा­ह्म­ण­वि­ष­याणां प्रोक्त­प्र­त्य­या­न्ता­ना­म­ध्ये­तृ­वे­दि­तृ­वि­ष­य­त्व­नि­य­मा­भा­वा­दिति सूचयति -
शाखा­न्त­रा­धि­क­र­णे­नेति ।
प्रौढ्याऽ­भ्यु­प­गते ऐकशास्त्रपक्षे पौनरुक्त्यशङ्का । सैद्धान्तिके शास्त्र­भे­द­प­क्षेऽ­प्येवं योजना । स्वशा­खो­प­यु­क्त­मपि शास्त्रान्तरे चिन्तितं यत्स्वाभिमतं तदिह न चिन्त्यते । यथा न्यायशास्त्रे चिन्तितं कर्मानुमानादि । यथा च पूर्वतन्त्रे चिन्तितम् अग्नि­हो­त्र­वा­क्या­र्थादि । अतः शाखा­न्त­रा­धि­क­र­ण­न्या­योऽपि स्वाभिमत एव तत्र चिन्तितः । अतस्तच्चिन्तने पौन­रु­क्त्य­मिति॥४॥
इति प्रथमं सर्व­वे­दा­न्त­प्र­त्य­या­धि­क­र­णम् ॥

उप­सं­हा­रोऽ­र्था­भे­दा­द्वि­धि­शे­ष­व­त्स­माने च ॥५॥
अन्येऽपि पक्षा इति ।
प्रथमे काण्डे अष्टौ पक्षा विचारिताः । तत्र प्रथ­म­प­ञ्च­म­स­प्त­मा­ष्ट­म­पक्षा इह लिखिताः ।
वैय­र्थ्य­दो­ष­त्र­याभ्यां प्रथमपञ्चमपक्षौ दूषयित्वा सप्तमपक्षं दूषयति –
अतिदेशस्य चेति ।
अखण्डकरणोपकारः सम­स्त­प्र­कृ­ता­ङ्ग­ज­न्य­दृ­ष्टा­दृ­ष्टो­प­का­र­द्वारा प्रधानस्य फल­ज­न­न­सा­म­र्थ्यो­द्बो­ध­नम् । तस्य प्रकृतौ क्लृप्तस्य विकृ­त्य­पे­क्षि­तस्य विकृतावतिदेशो भवन् तत्त­दु­प­का­र­रू­प­ज­न­का­ङ्ग­रू­प­प­दा­र्थान् विनो­प­का­रा­सं­भ­वा­त्प्रा­कृ­त­स­क­ल­प­दा­र्थ­वि­शि­ष्ट­वि­षयो भवतीत्यर्थः । ननु सामान्यतः प्रवृत्तो भव­त्व­ति­दे­श­स्त­स्यै­वा­ज्य­भा­ग­वि­ष­येण विशे­ष­शा­स्त्रे­णो­प­सं­हारः किं न स्यात् ? लुप्त­द्वा­र­प्र­त्या­म्ना­त­प्र­ति­षि­द्ध­व्य­ति­रि­क्त­प­दा­र्थो­प­सं­हा­र­वत् , उच्यते ; सामा­न्य­तोऽ­ति­दे­श­शास्त्रं कल्पयित्वा तस्य विशे­ष­शा­स्त्रे­णो­प­सं­ह­र­णस्य यदा­ज्य­भा­ग­मा­त्रा­नु­ष्ठा­न­फ­ल­मि­ष्यते तत् क्लृप्ता­द्वि­शे­ष­शा­स्त्रत एव भवतीति किं चोदककल्पनया ? अथोच्येत अवैयर्थ्याय प्राकृ­त­स­क­ला­ङ्ग­वि­ष­य­मे­वा­ति­दे­श­शास्त्रं कल्प्यत इति। तत्रेदं दूष­ण­मु­क्त­म­ति­दे­शस्य चेति।
उपकारावच्छेद एवेति ।
अख­ण्डो­प­का­र­स्या­ज्य­भा­गा­ति­रि­क्ता­ङ्गे­भ्योऽ­व­च्छि­द्या­ज्य­भा­ग­यो­रे­वा­व­स्था­प­नम् उपकारावच्छेदः । कथ­म­य­मा­ज्य­भा­ग­वि­धा­नतो लभ्यते ? इति चेत् – इत्थम् , गृह­मे­धी­य­स्ये­ति­क­र्त­व्य­ता­का­ङ्क्षस्य प्रत्य­क्ष­श्रु­त­क्लृ­प्तो­प­का­रा­ज्य­भा­ग­सं­यो­ज­नाया निरा­का­ङ्क्ष­ता­पा­द­नेन तदा­का­ङ्क्षा­मू­ल­क­चो­द­क­क­ल्प­ना­प्र­ति­ब­न्धस्य द्वारा गृहमेधीयस्य प्रकृ­ति­रा­हि­त्य­रू­पा­पू­र्व­ता­सि­द्ध्य­र्थ­मि­द­मा­ज्य­भा­ग­वि­धा­न­मिति चोद­क­सं­भ­व­त्प्रा­प्ति­कयोः पुन­र्वि­धा­न­सा­म­र्थ्या­त्क­ल्प्यते । ततश्च ताभ्या­मे­वा­ख­ण्डो­प­का­र­सि­द्धि­रि­त्यपि कल्प्यते । न चैवं सांग्र­ह­ण्या­दी­ना­म­प्या­म­न­हो­मा­दि­नै­वा­ख­ण्डो­प­कारः सिद्ध्येदिति विकृतिषु यत्कि­ञ्चि­द्वै­शे­षि­का­ङ्ग­श्र­वणे सति प्राकृ­ता­ङ्गा­ति­देशो न स्यादिति – वाच्यम् ; उपकारद्वारा भवन्ती हि पदा­र्थे­ष्वा­काङ्क्षा प्रथमं क्लृप्तो­प­का­रे­ष्वेव भवति , प्रकृतिः क्लृप्तो­प­का­र­प­दा­र्था­द­र्श­ना­द­क्लृ­प्तो­प­का­रा­नपि सन्नि­ध्या­म्ना­तान् गृहीत्वा तत्त­त्प­दा­र्थ­सा­म­र्थ्या­नु­सा­रिण्या दृष्टा­दृ­ष्टो­प­का­र­क­ल्प­नया निर्वृणोति। विकृतिस्तु क्लृप्तो­प­का­र­प्रा­कृ­त­प­दा­र्थ­सत्तां पश्यन्ती सन्नि­ध्या­म्ना­ता­म­न­हो­मा­दी­न­क्लृ­प्तो­प­का­रा­न्वि­हाय क्लृप्तोपकारान् प्राकृ­त­प­दा­र्था­ने­वा­ति­दे­श­प्रा­प्यान् प्रथमं गृह्णाति , ततो निराकाङ्क्षापि सांग्र­ह­ण्या­दि­र्वि­कृ­ति­रा­म्ना­य­वै­य­र्थ्य­प­रि­हा­रा­या­म­न­हो­मा­दी­नपि गृह्णातीति भवति विकृतिष्वतिदेशः । उक्तं हि – क्लृप्तो­प­का­र­सा­काङ्क्षाः प्रथमं प्राकृतैः सह । संबध्यन्ते समीपस्थं विकाराः प्रोज्झ्य चोदितम्॥ इति । गृहमेधीयस्य तु सन्निधौ क्लृप्तो­प­का­रा­वा­ज्य­भागौ श्रुताविति तयोः प्रथमं ग्रहणे सति तत एवोपकारशान्तिः कल्प्यते । अन्यथा पुन­रु­प­श्र­व­ण­वै­य­र्थ्या­प­त्ते­रिति विशेषः ।
अशक्तेः प्रथमाधिकरणे निरस्तत्वादिति ।
न च – पर­शा­खा­ध्य­य­ना­भा­व­प्र­यु­क्ता­श­क्ते­स्तत्र निरा­सेऽ­प्य­न­न्त­शा­खा­म्ना­त­गु­णे­य­त्ता­प­रि­च्छे­दा­श­क्तिर्न निरस्तेति – वाच्यम् ; सर्व­ज्ञै­र्म­ह­र्षिभिः प्रणीतेषु कल्पसूत्रेषु कर्म­णा­म­ङ्गे­य­त्तेव ब्राह्म­वा­सि­ष्ठा­दिषु विद्या­क­ल्पे­षू­पा­स­नानां गुणेयत्तापि निर्धारितेति तेभ्य­स्त­त्प­रि­च्छे­द­सं­भ­वात् ।
प्राप्तयोः पुनर्वचनादिति ।
प्राप्तयोः संभ­व­त्प्रा­प्ति­क­यो­रि­त्यर्थः । चोद­क­प्र­वृ­त्त्य­भा­वा­त्पू­र्व­प­क्ष­ग­त­प­रि­सं­ख्या­प­क्षोऽपि व्युदस्त इति तस्मिन् पक्षे चोद­क­प्र­वृ­त्ति­र­स्ती­त्य­ष्ट­म­प­क्षोऽपि परिसंख्यापक्ष एव ; आज्य­भा­गा­ति­रि­क्ता­ङ्ग­व­र्ज­न­रू­पस्य परि­सं­ख्या­श­ब्दा­र्थस्य तत्रापि सत्त्वात् , तथापि पञ्चमपक्षे शाब्दी परिसंख्या तत्रा­ज्य­भा­ग­या­ग­वि­धे­स्त­दि­त­र­या­ग­प­रि­व­र्जने लक्ष­णा­भ्यु­प­ग­मात् । अत एव सा परिसंख्या त्रिदो­षे­त्यु­क्तम् । अष्टमपक्षे त्वार्थी परिसंख्येति विशेषः । न च – विद्यास्वपि शाखान्तरतः संभ­व­प्रा­प्ति­कानां गुणानां पुनः श्रवणमस्ति येन तद्गु­णा­न्त­र­प­रि­व­र्ज­न­फ­लकं स्यादिति – वाच्यम् ; तस्य गुणो­प­सं­हा­रा­र्थ­वि­द्यै­क्य­प्र­त्य­भि­ज्ञा­ना­र्थ­त्वे­ना­न्य­था­सि­द्ध­त्वा­दिति भावः । आज्य­भा­ग­त­दि­त­रा­ङ्ग­सा­ध्यो­प­कारे अतिदेशप्राप्ते इत्य­त्रो­प­का­र­स्तो­मेऽ­ति­दे­श­प्राप्ते इति क्वचित्पाठः । तत्र मूल­ग­त­पि­ण्ड­श­ब्द­व्या­ख्या­नार्थः स्तोम­श­ब्द­स्त­द­ङ्ग­ज­न्य­दृ­ष्टा­दृ­ष्टो­प­का­र­स­मु­दा­यार्थः । उपकारावच्छेद इत्यत्र तज्जन्यस्य फल­ज­न­न­सा­म­र्थ्यो­द्बो­ध­न­रू­प­स्या­ख­ण्डो­प­का­र­स्यै­वा­ज्य­भा­ग­मा­त्र­ज­न्य­त्वे­ना­व­च्छेदः न तु दृष्टा­दृ­ष्टो­प­का­र­स­मु­दा­य­स्या­ङ्गा­न्त­र­ज­न्य­दृ­ष्टो­प­का­रा­णा­मा­ज्य­भा­ग­ज­न्य­त्वा­सं­भ­वा­त्प्राप्तौ पुनर्विधानमेव बलवद्बाधकमिति तत्र नास्तीति भावः ॥५॥
इति द्विती­य­मु­प­सं­हा­रा­धि­क­र­णम् ॥

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥
प्रजापतिः कर्म­ज्ञा­ना­धि­कृतः पुरुष इति ।
वक्ष्य­मा­ण­वा­गा­दि­वृ­त्ति­रू­पाणां प्रजा­ना­म­प­त्यानां पति­री­श्व­र­स्त­त्त­त्का­र्येषु नियोजने समर्थः कर्मज्ञानेषु लौकि­क­वै­दि­के­ष्व­धि­कृतः पुरुषः क्षेत्रज्ञः । कर्मज्ञानानि हीन्द्रि­य­पा­ट­व­सा­पे­क्षाणि तद­प­त्या­नी­न्द्रि­य­वृ­त्तय इति। यद्यपि तद­प­त्या­नी­न्द्रि­या­णीति व्याख्यातुं युक्तं , ते ह वाच­मू­चु­रि­त्या­द्यु­प­रि­त­न­सं­दर्भे तदपत्यरूपेषु देवेषु वागादीनामेव ह्यनुप्रवेश उक्तः , न तु तद्वृत्तीनां ; बृह­दा­र­ण्य­क­भा­ष्येऽपि तथैव व्याख्यातं , सात्त्वि­क­वृत्त्या संपन्ना देवा­स्ता­म­स­वृ­त्ति­प्र­धाना असुरा इति टीकाया अपि तत्रैव स्वारस्यम् ; तथा­प्यु­द्भ­वा­भि­भ­व­रू­प­स्प­र्धो­क्ति­श्छा­न्दो­ग्य­ग­त­सं­ग्रा­मो­क्तिश्च परस्परभिन्नासु वृत्तिष्वेव सङ्गच्छत इत्येवं व्याख्यातम् । छान्दो­ग्य­भा­ष्येऽ­प्ये­व­मेव व्याख्यातम् । प्रजापतिः कर्म­ज्ञा­ना­धि­कृतः पुरुषः तस्य शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरु­द्धा­स्त­द­प­त्या­नीव तदु­द्भ­व­त्वा­दिति। वृत्ति­वृ­त्ति­म­द­भे­द­वि­व­क्षया न व्याख्यानयोः परस्परविरोधः ।
अवि­ध्य­न्त्स­न्निति ।
विष­या­स­ङ्ग­रू­प­दो­षेण पाप्मना वेद्धु­मै­च्छ­न्नि­त्यर्थः । व्यध ताडन इति धातोः सन्प्र­त्य­या­न्तस्य लङि रूपम् ।
न विद्याभेदकमिति ।
उद्गा­तृ­श­ब्द­स्यो­द्गीथे लक्ष­णा­या­मु­भ­य­त्रापि विद्यैक्यं भवतीत्यर्थः ॥६॥ उद्गीथ उद्गा­न­क्रि­ये­त्य­भि­प्रेत्य टीकायां लक्षणोक्ता । यद्युद्गीथावयव ॐकार इति व्यव­हा­रा­द्गी­य­मा­न­व­र्ण­स­मु­दा­य­रूपा द्वितीया भक्ति­रु­द्गी­थ­स्तदा सौकर्यातिशयेन कर्मण: कर्तृ­त्व­वि­व­क्ष­यो­द्गा­तृ­शब्द उद्गीथस्य वाचक इत्यपि समर्थयितुं शक्यम् ।
ॐकारस्येत्यस्य षष्ठ्य­न्त­स्या­का­ङ्क्षा­पू­र­णार्थं कृत्वेति शेषाध्याहारेऽपि तथा हीत्य­ग्रि­म­ग्र­न्थेन नान्वय इत्याशङ्क्य कृत्वेत्यन्तं भाष्य­प्र­ती­को­पा­दा­न­मि­त्याह –
एतच्चेति ।
यस्य यजमानस्येति । केचित्तु हविरिति द्वितीयान्तम् अभिरभागे इत्यभेर्लक्षणे कर्म­प्र­व­च­नी­य­युक्ते द्विती­ये­त्ये­व­म­वा­न्त­र­वा­क्य­भेदं विना व्याचक्षते , पुर­स्ता­दि­त्ये­तच्च पूर्वस्यां दिशीति व्याचक्षते । निरुप्तं हविरभ्युदेति ज्ञायते देव­ता­र्थ­म­सं­क­ल्पि­तस्य यज­मा­न­द्र­व्य­मा­त्रस्य हविष्ट्वाभावात् । एवं च यद्यपि सिद्धरूपं यज­मा­न­द्र­व्य­मा­त्रम् अना­वि­ष्ट­व्या­पारं चन्द्रो­द­यी­य­ल­क्ष­ण­त्वेन न विशेषणत्वेन निवेशयितुं शक्यम् ; तथापि हविःपदात् प्रतीतस्य सङ्कल्पमात्रस्य विशेषणतोपपत्तौ न पदान्तरप्रतीतः शक­टा­नी­ता­द्व्री­हि­राशेः पुरो­डा­शा­र्थै­क­दे­श­ग्र­ह­ण­ल­क्षणो निर्वापोऽपि निवेशनीयः । अना­का­ङ्क्षि­तो­द्दे­श्य­वि­शे­ष­ण­वि­व­क्षायां वाक्य­भे­दा­प­त्ते­रिति भावः ।
दात्र­ग्न्या­दि­दे­व­ताभ्यो निर्वपेदिति ।
दात्र­ग्न्या­दि­दे­वता उद्दिश्य यजेतेत्यर्थः ।
अभितः सन्निधाविति ।
यमु­प­क्रा­न्त­द­र्श­मभि उदितश्चन्द्रः स यजमानोऽभ्युदित इत्यपि व्याचष्टे॥
दर्शलोपे त्विति ।
ननु – अका­लो­प­क्रा­न्तस्य दर्शस्य लोपोऽस्तु , तावता नैमित्तिकं कर्म कृत्वा किमि­त्यु­प­र­न्त­व्यम् ? सिद्धान्त इव पूर्वपक्षेऽपि मुख्यकाले दर्शकर्तव्यताया आव­श्य­क­त्वा­द्वा­क्या­न्त­रेण दर्शितत्वाच्च । एवं हि "तद्यदि बिभियादभि नोदेष्यतीति महारात्रे हवींषि निर्वपेत् फली­कृ­तै­स्त­ण्डु­लै­रु­पा­सी­तार्थं दधि हविरातञ्चनार्थं निदध्यादर्धं न यद्य­भ्यु­दि­या­त्ते­ना­तञ्च्य प्रचरेद्यदि नान्येद्युस्तेन ब्राह्मणं भोजयेदिति। अस्यार्थः – यः प्रवृ­त्त­द­र्श­तन्त्रो यजमानः किमद्य चतु­र्द­श्या­म­मा­वा­स्या­भ्रान्त्या दर्शः प्रारब्धः किं चन्द्रमा अभ्युदेष्यतीति शङ्कया भयं प्राप्नुयात् , स महत्यामेव रात्रौ हवि­र्नि­रू­प्या­व­हत्य फली­कृ­त्यो­दी­क्ष­माण आसीत । सायंदोहसंपादितं च दधि द्विधा विभज्य तदर्धं मुख्यकाले करिष्यमाणस्य दर्शस्यार्थे तत्पू­र्व­दि­न­सा­यं­दोहं संपाद्य दध्यातञ्चनाय निद­ध्या­द­र्था­न्तरं तदर्थं न निदध्यात्किंतु पूर्ववदेव स्थापयेत् । एवं कृते यद्यभ्युदयः स्यात्तदा मुख्यकाले दर्श­प्रा­र­म्भा­न­न्त­र­मा­त­ञ्च­नार्थं निहितेनार्धेन दध्ना सायं दुग्धे पयस्यातञ्चनं कृत्वा दध्यु­त्पा­द्या­न्ये­द्यु­र्द­धि­यागं निर्वर्तयेद् , यदि नाभ्यु­द­य­स्त­दा­नी­मा­त­ञ्च­नार्थं निहि­ता­द­र्धा­द­न्ये­ना­र्धेन दर्श­नि­वृ­त्ते­स्त­दर्थं दध्यु­त्पा­द­ना­न­पे­क्ष­णे­ना­त­ञ्च­नार्थं निहितमर्धं ब्राह्मणभोजनेन प्रतिपादयेदिति। तदे­त­दा­त­ञ्च­ना­भ्या­स­द­र्शनं सिद्धा­न्त­लि­ङ्ग­त्वेन वर्णितम् । यदि कर्मा­न्त­र­म­भ्यु­द­येष्टिः स्यात्तदा पशुकामेष्टाविव दधि­श्रृ­त­यो­र­धि­क­र­ण­त्वेन प्रणीताकार्ये विधा­ना­दु­पा­दे­य­त्वेन च प्रकृ­त­ग्र­ह­ण­प्र­मा­णा­भा­वा­ल्लौ­किक एव दध्नि पयसि च श्रपणं कृत्वा सायं­दो­हे­ना­का­ल­कृ­ते­नापि प्राय­श्चि­त्त­नि­र्हृ­त­का­ला­प­रा­ध­दो­षेण मुख्यकाले दर्शः कर्तव्यो न दध्य­न्त­र­मु­त्पा­द्यम् । यद्यकाले प्रक्रान्तमेव दर्शकर्म देव­ता­वि­का­र­युक्तं सदभ्युदयेष्टिः स्यात्तदा तदर्थं कृतेन दध्ना तस्यै­वा­नु­ष्ठि­त­त्वा­न्मु­ख्य­का­ल­क­र्त­व्य­द­र्शा­र्थ­म­वश्यं दध्य­न्त­र­मु­त्पा­द्य­मि­त्य­र्थ­व­दा­त­ञ्च­नम् । तत्रा­मु­ख्य­का­ल­कृ­त­सा­यं­दो­हा­र्थे­नै­वा­त­ञ्चनं कार्य­मि­त्ये­ता­वान् विशेषो विधीयत इति। अत्र सिद्धा­न्त­लि­ङ्ग­त­यो­प­न्य­स्ते­ना­त­ञ्च­ना­भ्या­सेन मुख्यकाले दर्शकर्तव्यतापि ज्ञाप्यत इति स्पष्टमेव । पूर्व­प­क्षि­णा­प्य­का­लो­प­क्रान्तं दर्शं त्यक्त्वा नैमित्तिकं कृत्वा पुनर्दर्शः समारम्भणीय इति सिद्धान्तिवदेव मन्यमानेन पुन­रा­र­ब्ध­द­र्श­प्र­यो­गा­द्ब­हि­र­का­ल­कृ­तस्य दध्नो मुख्य­का­ल­क­र्त­व्य­द­र्शा­न­र्ह­त्वे­ना­त­ञ्च­ना­भ्या­सोऽ­भ्यु­दि­तेष्टेः कर्मा­न्त­र­त्वेऽ­प्यु­प­प­द्यत इति तस्य सिद्धा­न्त­लि­ङ्ग­त्व­मे­वा­प­ह्नू­यते , न तु मुख्य­का­ल­क­र्त­व्य­द­र्श­का­ल­ज्ञा­प­क­त्वम् । सिद्धान्तिना त्वका­लो­प­क्र­म­दो­षस्य पूर्वपक्षे नैमित्तिकेन कर्मान्तरेण निर्हृ­त­त्वा­द­का­लो­प­क्रान्त एव दर्शो मुख्यकाले समापनीयः , न तु मुख्यकाले पुनर्दर्श: समारम्भणीय इत्यापाद्य तस्या­त­ञ्च­ना­भ्या­स­लि­ङ्गा­नु­प­पत्तिः समर्थ्यते । अमा­वा­स्या­या­मे­वे­त्या­दि­टी­का­ग्र­न्थोऽपि पूर्व­प­क्ष­सि­द्धा­न्त­सा­धा­र­ण्येन निमि­त्ता­धि­का­रस्य कर्मान्तरस्य विकृ­त­द­र्श­प्र­यो­गस्य वा समाप्त्यनन्तरं मुख्यकाले दर्शः कर्तव्य इत्येतत्पर एव स्वरसतः प्रतिभाति , न सिद्धा­न्त­को­टि­प्र­यो­ज­न­प्र­द­र्श­न­परः पूर्व­प­क्ष­को­टि­प्र­यो­ज­न­प्र­द­र्श­ना­भा­वा­त्त­द­ह­रेव वेद्युद्धरणादि कृत्वे­त्ये­त­दा­त­ञ्च­ना­भ्या­स­लि­ङ्ग­स­म­र्थ­नार्थं पूर्व­प­क्ष्य­नु­सा­रेण पूर्वपक्षेऽपि योजयितुं शक्यम् । अथ­वाऽ­मा­वा­स्या­या­मे­वे­त्या­दि­टी­का­ग्रन्थः सिद्धा­न्त­को­टा­व­नु­ष्ठा­न­प्र­का­र­मा­त्रस्य प्रदर्शनपरः , न तु पूर्वपक्षे मुख्य­का­ल­क­र्तव्यो दर्शो नास्तीति तद्व्या­वृ­त्त­सि­द्धा­न्त­को­टि­फ­ल­प्र­द­र्श­न­परः । पूर्वपक्षे आत­ञ्च­ना­भ्या­स­लि­ङ्गा­नु­प­पत्तिं समर्थयमानेन सिद्धान्तिना पूर्वपक्षेऽपि मुख्यकाले दर्श­या­गा­नु­ष्ठा­नस्य दर्शितत्वाद् , दर्शस्तु लुप्यते कालापराधादिति पूर्व­प­क्षो­प­सं­हा­र­टी­का­ग्र­न्थोऽ­प्या­त­ञ्च­ना­भ्या­स­लि­ङ्ग­स­म­र्थ­न­प्र­वृ­त्त­पू­र्व­प­क्ष्या­श­या­नु­सा­रे­णा­का­लो­प­क्रा­न्त­द­र्श­प्र­यो­ग­मा­त्र­लो­प­परः , कालापराधादिति हेतूक्तेः । तस्मा­द­का­लो­प­का­न्त­द­र्श­प्र­योगं त्यक्त्वा संकल्पप्रभृति कर्मान्तरं पूर्वपक्षे कर्तव्यं सिद्धान्ते त्वका­लो­प­क्रा­न्त­द­र्श­प्र­योग एव देव­ता­न्त­र­सं­यो­ज­न­रू­प­वि­का­र­युक्तः संपादनीय इत्येव पूर्व­प­क्ष­सि­द्धा­न्तयोः प्रयोजनभेदो वक्तुमुचित इति – चेत् , उच्यते ; अकालोपक्रमदोषेण तस्या­म­मा­वा­स्यायां सर्वात्मना दर्शो लुप्तः । मध्य­मा­दि­वा­क्यै­र्वि­हितं कर्मान्तरं तु लुप्तस्य प्रत्या­म्ना­य­रू­पम् । अतो यथा स प्रत्या­म­ने­त्स्था­ना­दि­त्य­धि­क­र­ण­पू­र्व­पक्षे यस्योभयं हवि­रा­र्ति­मा­र्च्छति ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति दधि­शृ­त­रू­प­सा­न्ना­य्य­नाशे निमित्ते विधीयमानो दर्शेष्टितः कर्मान्तररूपः पञ्चशरावयागो दशै­ष्टे­र्ह­वि­र्ना­शेन लोपा­त्त­त्प्र­त्या­म्नाय इति तद­धि­क­र­ण­पू­र्व­पक्षे दर्शेष्टिलोपः । एव­म­भ्यु­द­य­नि­मि­त्तेऽ­पीति कैश्चि­दे­क­दे­शिभिः पूर्वपक्षे प्रयोजनमुक्तं भविष्यति तदनुवादोऽयमिति न दोषः ।
ये मध्य­मा­दि­वा­क्यै­र्दे­व­ता­न्त­रे­ष्विति ।
अत्र पूर्वकर्मणि देवतान्तरविधानं न विवक्षितम् ; तस्यो­त्प­त्ति­शि­ष्ट­गु­णा­व­रो­ध­प­रि­हा­राय देव­ता­प­न­य­वि­धि­प्र­वृ­त्ति­सा­पे­क्ष­त्वेन पर­स्प­रा­श्र­या­पत्तेः , किंतु ये मध्य­मा­दि­वा­क्यै­र्यदि पूर्वकर्मणि देवतान्तरविधिः , यदि वा देव­ता­न्त­र­वि­शि­ष्ट­क­र्मा­न्त­र­विधिः , पक्षद्वयेऽपि देव­ता­न्त­र­वि­धि­र­वि­प्र­ति­पन्न इत्ये­ता­व­द्वि­व­क्षि­तम् । एतावता तत्सजातीयानां देवतानां बुद्धिस्थतोक्ता । तत्प्र­ति­यो­गि­नी­ना­मि­त्य­ने­ना­प्ये­क­ह­विः­सं­ब­न्धि­त्वेन तत्प्र­ति­द्व­न्द्वित्वं न विवक्षितम् , पर­स्प­रा­श्र­य­ता­द­व­स्थ्या­पत्तेः , किंतु साजात्येन तत्सं­ब­न्धि­त्व­मा­त्रम् । अथवा तण्डु­ल­द­धि­शृ­त­शब्दैः प्रकृ­त­द­र्श­ह­विषां प्रत्य­भि­ज्ञा­ना­त्ते­षा­मेव देवतान्तरविधानं ये मध्यमादिवाक्यैः क्रियत इति तावत्प्रतिभाति, तच्च तेषां पूर्व­दे­व­ता­प­न­य­म­न्त­रेण नोपपद्यत इति विम­र्शो­प­स्थि­त­दा­र्शि­क­ह­विषां देवतान्तरविधानं त्रेधा­वा­क्य­स्या­न्य­तः­प्रा­प्ति­म­त्प्र­ती­य­मा­ना­र्थ­त­याऽ­र्था­न्त­र­प­र्य­व­सा­ना­पे­क्षस्य दार्शिकहविषां पूर्वदेवताभ्यो विभागोऽर्थ इति निर्णयहेतुत्वेन विवक्षितम् । अत एव विभागविषयेषु साम­र्थ्य­ल­ब्ध­ह­वि­ष्ट्व­वि­शे­ष­णा­व­श्य­म्भा­वा­त्त­त्तु­ल्य­त्व­स्यापि विवक्षायां वाक्य­भे­दा­प­त्ति­र्व­क्ष्यते हविर्मात्रं विभागविषय इत्यादिना । पूर्वव्याख्याने तु यद्यपि हविष्ट्वं न श्रुतम् ; तथापि तण्डुलानां हवीरूपेणैव देव­ता­सं­ब­न्धित्वं न स्वरूपेणेति हविष्ट्वं तावदश्रुतमपि यस्य हवि­र्नि­रु­प्त­मि­त्यत्र सन्निहितमवश्यं विवक्षणीयम् । अत­स्त­ण्डु­ल­त्व­स्यापि विवक्षायां वाक्य­भे­दा­प­त्ति­रिति योज्यम् ।
ननु श्रुत­त्वेऽ­प्यु­द्दे­श्य­वि­शे­ष­णस्य गहै­क­त्व­स्या­वि­वक्षा तृतीये निर्णीता , तेनैव न्याये­नो­भ­य­त्व­स्या­वि­वक्षा सिद्धा , कथं पूर्वपक्ष: ? इत्याशङ्क्याह –
हविर्वदिति ।
यदा­र्ति­मा­र्च्छ­ती­त्यु­द्दे­श्याया निमित्तभूताया नाश­प्रा­प्ते­र्ह­वि­र्वि­शे­षणं सिद्धान्तेऽपि विव­क्षि­त­म­ङ्गी­क्रि­यते , तत् पदा­न्त­रो­पा­त्त­त्वेन ग्रहै­क­त्व­वै­ल­क्ष­ण्या­च्चे­दु­भ­य­त्व­मपि तत एव विव­क्षि­त­म­स्त्विति भावः ।
विशिष्टोद्देशे वाक्यभेदं विवृणोति –
हविरार्ताविति ।
ननु विशिष्टोद्देशो नाम द्वित्व­वि­शि­ष्ट­ह­वि­रा­र्ते­र्नि­मि­त्त­त­यो­द्देशः । तत्र वाक्यभेदं प्रतिज्ञाय कथं हवि­रु­भ­य­त्व­यो­र्वि­शे­ष­ण­वि­शे­ष्य­भावं विना स्वात­न्त्र्ये­णा­र्त्य­न्वये वाक्यभेदः प्रदर्श्यते ? उच्यते ; नामपदानां पर­स्प­र­म­सं­ब­द्धा­ना­मे­वा­ख्या­ता­न्व­योऽ­रु­णा­धि­क­र­ण­न्या­य­सिद्धः । अत एव बार्हस्पत्यो नैवारः सप्त­द­श­श­रा­व­श्च­रु­र्भ­व­तीति विहितायां विकृतीष्टौ प्राकृते चतु­र्मु­ष्टि­नि­र्वापे चोदकतः प्राप्ते चतु­र्भि­र्मु­ष्टिभिः सप्त­द­श­श­रा­व­पू­र­कस्य चरोः संपा­द­यि­तु­म­श­क्य­त्वेन तत्र संख्या­मु­ष्ट्य­न्य­त­र­बाधे कर्तव्ये मुष्टिलोपात्तु संख्या­लो­प­स्त­द्गु­ण­त्वा­दिति (जै. अ. १० पा. २ सू. ६४ ) सूत्रेण मुष्टि­गु­ण­भू­त­सं­ख्या­बाधः कार्य इति पूर्वपक्षं कृत्वा न निर्वा­प­शे­ष­त्वा­दिति (जै. अ. १० पा. २ सू. ६५) सूत्रेण संख्या­मु­ष्ट­यो­रु­भ­यो­रपि निर्वापशेषत्वेन तयो­र्गु­ण­प्र­धा­न­भा­व­वि­शे­षा­भा­वात् चरमश्रुतस्य मुष्टेरेव बाधः कार्यः । अत­श्च­तु­र्भि­र्म­हा­पात्रैः सप्त­द­श­श­रा­व­च­रु­सं­पा­द­ना­पे­क्षि­त­व्री­हि­नि­र्वापः कार्य इति दशमे सिद्धान्तितम् । अतश्चतुरो मुष्टी­न्नि­र्व­प­ती­त्यत्र संख्या­मु­ष्ट्यो­रि­वात्र हवि­रु­भ­य­त्व­यो­रा­ख्या­ते­नै­वा­न्वयो न तूभयत्वस्य हविरन्वयः । तथापि कथञ्चित्तस्य हविरन्वयः कल्प्येत, यदि तदाकाङ्क्षा स्याद् , न त्वसावस्ति ; हवि­रा­र्ति­मा­त्रस्य निमि­त्त­त्वो­प­पत्तेः । तस्मा­त्सं­ख्या­मु­ष्टि­न्या­येन हवि­रु­भ­य­त्व­यो­रा­ख्या­ता­न्व­य­सिद्धौ संख्या­मु­ष्ट्यु­भ­य­वि­शि­ष्ट­नि­र्वा­प­वि­धा­ने­ना­वा­क्य­भे­देऽ­प्यत्र निमि­त्त­वि­शे­ष­ण­यो­रु­द्दे­श्य­को­टि­नि­वि­ष्ट­यो­र्वि­धे­य­यो­रिव क्रियया वशी­का­र्त्य­वा­भा­वेन क्रिया­या­स्ताभ्यां प्रत्ये­क­सं­ब­न्ध­नि­मित्तो वाक्यभेदो भवतीति हविरार्तौ निर्व­पे­दु­भ­यार्तौ चेति वाक्यभेदो दर्शितः । हविरार्तौ निर्व­पे­दु­भ­य­ह­वि­रार्तौ चेति क्वचित्पाठः । स पाठ एतावन्तमर्थं मनसि निधाय इति उपरि शङ्का­न्त­र­प­रि­हा­रा­र्थ­त्वेन योजनीयः । अत्रैवं शङ्का – नेह हवि­रु­भ­य­त्व­यो­र­प्या­र्त्य­न्वयः , किंतु हवि­रा­र्ति­मा­र्च्छे­दिति हवि­रा­र्ते­र्नि­मि­त्त­त्व­बो­ध­ना­न­न्तरं हविरुभयमिति तस्य हविषः संख्यान्वयो बोध्यते ।
तत्रा­ख्या­ता­श्र­व­णा­दु­भ­यत्वं हविषैव संबध्यते नील­मु­त्प­ल­मि­त्य­त्रो­त्प­ले­नेव नैल्यं , निमि­त्त­प­र्य­व­सा­नार्थं हविषः स्वतः संख्या­का­ङ्क्षा­वि­र­हेऽपि तत्सं­ब­न्ध­बो­ध­ने­नै­द­म्प­र्य­प्र­वृ­त्त­व­च­न­ब­ला­त्तत्र तद्बोधः स्यादेव –
इति ।
एवमपि वाक्यभेदः स्वयं प्रदर्शितयैव रीत्या समापतन्न निवार्य इति परिहारः स्पष्टः । तत्र हवि­रु­भ­य­मि­त्ये­ता­वति द्वितीयवाक्ये प्रदर्शनीये प्रथ­म­वा­क्य­प्रा­प्तां­शा­नु­वा­द­सा­हि­त्ये­नो­भ­य­ह­वि­रार्तौ निर्वपेदिति द्विती­य­वा­क्य­मु­प­न्य­स्तम् ।
वाक्य­भे­द­ता­द­व­स्थ्या­दिति ।
आर्ति­मा­र्च्छे­दि­त्ये­ता­वता निमि­त्ता­प­र्य­व­सा­नात् सा चार्ति­र्ह­वि­र्वि­शि­ष्टेति पृथग्बोधनीयम् । तथा चोभ­य­वि­शे­ष­णा­भा­वेऽ­प्या­र्ति­मा­र्च्छे­द्ध­वि­रा­र्ति­मा­र्च्छे­दिति वाक्य­भे­द­स्त­द­वस्थ इत्यर्थः । सर्वदा सर्वेषामपि यज­मा­ना­ना­म­न्त­त­श्चि­न्ति­त­नि­मि­षि­ता­दि­ना­श­स­त्त्वा­न्ना­श­मात्रं न निमित्तम् , अनि­य­त­त्वा­भा­वा­दि­त्यस्ति हवि­र्वि­शे­ष­णा­पेक्षा , नैव­मु­भ­य­त्व­वि­शे­व­णा­पे­क्षाऽ­स्तीति परिहारार्थः ।
तस्मा­द­वि­व­क्षि­त­मु­भ­य­त्व­मिति ।
श्रुतिगतं तूभयपदं न केवलं दध्न एवार्तिनिमित्तं नापि केवलपयस एवे­त्ये­त­द­र्थ­म­नु­वा­द­मा­त्र­मिति तात्पर्यम् । शाब्दिकास्तु द्वित्व­स्या­वि­वक्षां नानुमन्यन्ते । यदुक्तं हरिणा – एकत्वं वा बहुत्वं वा केषां­चि­द­वि­व­क्षि­तम् । तद्वि­जा­त्य­भि­धा­नाय द्वित्वं तु स्याद्वि­व­क्षि­तम्॥ इति । एत­द्व्या­ख्या­ना­व­सरे हेलाराजेन तथा सति यस्योभयं हविरित्यत्रापि द्वित्वस्य विव­क्षा­या­म­न्य­त­रार्तौ नैमि­त्ति­का­भा­व­प्र­सङ्ग इत्याशङ्क्य समाहितम् । तत्र द्वित्वमात्रं न श्रुतं , किंतु द्व्यवयवः समुदायः ; संख्याया अवयवे तयविति संख्या­वि­शे­ष­यु­क्ता­व­य­व­घ­टि­त­स­मु­दा­या­र्थ­त­य­प्प्र­त्य­या­दे­शा­य­ज­न्त­त्वा­दु­भ­य­श­ब्दस्य । तत­श्चा­त्रो­भ­य­श­ब्दा­र्थ­स्या­व­य­व­द्व­या­र­ब्ध­स­मु­दा­य­स्यै­का­व­य­व­ना­शेऽपि नाशा­न्नि­मि­त्त­म­स्ती­त्य­न्य­त­र­ना­शेऽपि नैमि­त्ति­का­नु­ष्ठा­न­मु­प­प­द्यत इति।
द्रव्य­मु­खे­ने­तीति ।
इह हि दार्शि­क­द्र­व्या­ण्य­प­नी­त­पू­र्व­दे­व­तानि देव­ता­न्त­र­सं­यो­ज­न­सा­का­ङ्क्षा­ण्या­सते , अतो मध्य­मा­दि­श­ब्दानां प्रकृ­त­दा­र्शि­क­द्र­व्य­प­र­त्वा­व­श्यं­भा­वा­त्त­न्मु­खेन दर्श­क­र्म­प्र­त्य­भि­ज्ञानं पूर्वोक्तं सिद्धा­न्त­प्र­यो­जनं न गमयतीत्यवतारितः ततश्चेति टीकाग्रन्थः शङ्का­न्त­र­प­रि­हा­रा­र्थ­त्वे­नापि योजयितुं शक्यः । तत्रेयं शङ्का – कर्मान्तरमिति पूर्वपक्षे भवतु पुन­र्द­र्शा­नु­ष्ठानं प्रक्रान्तस्यैव दर्शस्य विकृ­त­प्र­यो­गोऽ­भ्यु­द­ये­ष्टि­रिति सिद्धान्ते दर्श­स्या­नु­ष्ठि­त­त्वा­त्कि­मिति पुन­र्द­र्शा­नु­ष्ठा­नम् – इति। तत्रायं परि­हा­रः-अ­का­लो­प­क्रा­न्त­दर्शे नैमित्तिकेन विकृतिप्रयोगेण समापितेऽपि मुख्यकाले त्वन­नु­ष्ठि­त­त्वाच्च पुन­स्त­द­नु­ष्ठा­नम् – इति।
पुरो­डा­श­सा­म­र्थ्या­दिति ।
पुरो­डा­श­स्या­पू­प­वि­शे­ष­त्वेन तत्सामर्थ्यादेव तण्डुलादीनां पाकान्तानां प्राप्तिः , व्रीहीनवहन्ति तण्डुलान् पिनष्टि पिष्टं संयौति पुरोडाशं श्रपयति कपालेषु श्रप­य­ती­त्या­दि­वि­ध­यस्तु कर्तृ­क­र­णा­द्यु­पा­य­नि­य­मार्था इति भावः ।
दध्न­स्त­ण्डु­ला­ना­मिति ।
ननु – देव­तै­क्या­द्द­धि­त­ण्डु­लानां पयस्तण्डुलानां च प्रदाने साहित्यं सिद्ध्यति , न तु पाके । स तु पयसः कुम्भ्यां भर्ज­न­क­पा­लेऽ­न्यत्र वा तण्डुलानामिति भेदेनैव प्राप्नोति। न च – दधঁश्चरुं शृते चरुमिति दधि­यु­क्त­त­ण्डु­लानां पयो­यु­क्त­त­ण्डु­लानां च देव­ता­सं­ब­न्ध­बो­ध­नात् तण्डुलानां पाककाले तद्यु­क्त­यो­र्द­धि­प­य­सो­रपि सहपाकः प्राप्नोतीति – वाच्यम् ; दध्नः पयसश्च सप्तम्योः सह­पा­का­द­र्थ­प्रा­प्ता­धि­क­र­ण­त्वा­नु­वा­द­क­तया वक्ष्यमाणत्वेन सप्तमीभ्यां दधिपयःसाहित्येन तण्डुलानां देव­ता­सं­ब­न्धा­भा­वा­दिति – चेत् , अभ्यु­द­ये­ष्टि­प्र­क­रणे 'सह श्रपयती'ति वाक्यमस्ति , तेन दधितण्डुलानां पयस्तण्डुलानां च सह­पा­क­सि­द्धि­रि­त्याहुः ।
त्र्यधिकेति ।
सान्नाय्यदोहं प्रकृत्य श्रूयते -'वाग्य­त­स्तिस्रो दोहयित्वा विसृ­ष्ट­वा­ग­न­न्वा­रभ्य तूष्णीमुत्तरा दोहयती’ति। तत्र कपिञ्जलन्यायेन तिस्र एवोत्तरा गावो न दोग्धव्याः , किंतु यावत्यो यजमानस्य गावस्ताः सर्वा दोग्धव्याः ; "नास्यैतां रात्रिं कुमाराश्च न पयसो लभन्ते" इति वाक्यशेषात् । नचात्र कुमा­रा­णा­म­दृ­ष्टार्थः पयोनिषेधः ; दृष्टार्थत्वे संभ­व­त्य­दृ­ष्टा­र्थ­क­त्व­क­ल्प­ना­नु­प­पत्तेः । अप्यर्थेन च नेत्यनेनापि कृत्स्नस्य यजमानपयसो देवतार्थत्वेन विनि­यो­ग­प्र­ती­ते­श्चेति उत्तरासु न याव­त्स्व­म­पू­र्वत्वा (जै. अ. ११ पा. १ सू. ४६ ) दित्येकादशे निर्णीतम् । तद­र्थोऽ­त्रा­नु­सं­हितः । ननु पुरो­डा­श­नि­वृ­त्ता­विति पुरो­डा­श­सा­म­र्थ्याद् लब्धः तदर्थत्वेन च श्रुतः पाकः पुरोडाशनिवृत्तौ निवर्तेतेति भावः ।
साध­न­वि­शे­षा­श्रि­त­त्वा­दिति ।
यथा व्रीही­न­व­ह­न्ती­त्या­दिषु श्रुता अवहननादयो न व्रीहि­प्र­युक्ताः , किं त्वपू­र्व­सा­ध­न­रू­प­सा­ध­न­वि­शे­ष­प्र­युक्ताः । न हि ते व्रीहय इति कृत्वाऽ­व­ह­न्यन्ते , किं तर्हि ? तण्डु­ला­दि­प्र­णा­डि­कया पुरो­डा­श­नि­र्व­र्त­न­द्वा­रेण यागापूर्वस्य साधनानीति यवेष्वपि तद्रू­प­सा­म्या­त्ते­षा­म­प्य­व­ह­न­ना­दयो भवन्ति , तथा पुरोडाशस्य पाको न पुरो­डा­श­प्र­युक्तः , किं त्वपू­र्व­सा­ध­न­ता­रूपो यस्त­द्धि­त­सा­ध­न­ता­वि­शे­ष­स्त­त्प्र­युक्तः । स च स्थवि­ष्ठा­दि­वा­क्य­द्व­या­म्ना­तेषु तण्डुलेष्वपि समान इति भावः ।
ननु तण्डुलावस्थायां देव­ता­सं­यो­ज­ना­च्च­रु­त्व­स्या­वि­धा­नाच्च तण्डुला एव प्रदेया इति प्रथनपेषणवत् पाकोऽपि निवर्तेत , प्रदे­य­द्र­व्य­सि­द्ध्यर्थो हि पाकः , इह प्रदे­या­स्त­ण्डुला विनैव पाकं सिद्धाः , अत एव चित्रा­या­ग­द्र­व्ये­भ्य­स्त­ण्डु­लेभ्यः पाक­नि­वृ­त्ति­रुक्ता न्याय­र­त्न­मा­लायां –
'तण्डु­ले­भ्योऽ­र्थ­लो­पेन श्रपणं विनि­व­र्तते' इति ।
दोहनानन्तरमेव श्रपितस्य शृतस्य दध्नश्च कथमपि न पाक­प्रा­प्ति­रस्ति। सत्यम् ; इह सह श्रपयतीति वाक्यादेव पाकस्यापि सिद्धिः । स्यादेतत् – चरु­स­प्त­म्य­र्थ­यो­र­नु­वा­द्य­त्वेन तद्वि­धा­न­प्र­यु­क्त­वा­क्य­भे­दा­भा­वेऽपि दधि तण्डु­लां­श्चो­द्दिश्य पय­स्त­ण्डु­लां­श्चो­द्दिश्य देव­ता­सं­ब­न्ध­वि­धा­नेन प्रत्युद्देश्यं वाक्य­प­रि­स­माप्त्या वाक्यभेदो दुर्निवारः । न च वाच्यं सप्त­म्य­न्त­स­म­भि­व्या­हा­र­लभ्यं तण्डुलानां दधियुक्तत्वं पयोयुक्तत्वं च विधेयमस्तु , मा भूत्स­प्त­म्य­र्थ­स्या­नु­वा­द्यत्वं , तथा च सहि­त­स्यै­क­स्यो­द्दे­शान्न वाक्यभेद इति ; तथापि साहित्यं देव­ता­सं­ब­न्ध­श्चे­त्यु­भ­य­वि­धाने वाक्य­भे­दा­नि­वा­र­णा­द्द­धि­प­यः­सा­हि­त्यस्य विधेयत्वे सान्ना­य्य­र­हि­तानां सोम­या­जि­ना­म­प्य­भ्यु­द­ये­ष्टि­र­स्तीति निर्णायकेन सान्ना­य्य­सं­यो­गा­न्ना­स­न्न­यतः स्या (जै. अ. ६ पा. ५ सू. २१ ) दित्यधिकरणेन विरो­ध­प्र­स­ङ्गाच्च । तत्र ह्यसन्नयतो दधि­प­य­सो­र­भा­वा­न्ना­भ्यु­द­ये­ष्टि­रिति पूर्वपक्षे दध्न­स्त­ण्डु­लानां पयसस्तण्डुलानां च प्रत्ये­क­मु­द्दे­श्य­त्वेन तत्सा­हि­त्य­स्या­वि­व­क्षि­त­त्वा­द­स­न्न­य­ता­मपि केव­ल­त­ण्डु­ल­द्र­व्य­का­भ्यु­द­येष्टिः स्यात् । न च चरु­त्व­सि­द्ध्यर्थं दधि­प­य­सो­र्मि­श्र­णा­पेक्षा ; अनू­द्य­मा­न­च­रु­त्व­स्या­न­ङ्ग­त्वेन तदभावे वैकल्याभावाद् , अप्सु श्रप­ण­सं­भ­वा­च्चेति व्यवस्थापितम् । एतेन – देवतापनये प्रयो­ग­वि­शे­ष­श्चो­द्यत इति टीकानुसाराद् द्रव्यद्वयेन देवतया च विशिष्टस्यैकस्य प्रयोगस्य विधानान्न वाक्यभेद इत्यपि शङ्का – निरस्ता ; दधि­प­य­सो­र्वि­धे­य­ता­या­म­स­न्न­य­ता­म­भ्यु­द­या­भा­व­प्र­स­ङ्गात् , प्रयोगस्य प्राप्ततया विका­र­मा­त्र­वि­धा­न­प­र्य­व­सा­नेन वाक्य­भे­द­प­रि­हा­रा­ला­भा­च्चे­त्या­श­ङ्कायां – भवतु वाऽने­क­वा­क्य­क­ल्प­नम् । प्रकृ­ता­धि­का­रा­व­ग­म­ब­ला­द­स्यापि न्याय्यत्वादिति टीका प्रवृत्ता । तत्र यदि प्रकृ­ता­धि­का­रा­व­गमः प्रकृ­त­द­र्श­या­गा­नु­वृ­त्ति­प्र­त्य­भि­ज्ञानं , तदा पञ्चशरावयागोऽपि विकृतो दर्श एव स्यान्न कर्मान्तरम् । तथा सति पञ्चशरावस्तु द्रव्याश्रुतेः प्रतिनिधिः स्यादित्यधिकरणे (जै. अ. ६ पा. ४ सू. २८ ) यदा­र्त­दो­ह­प्र­ति­नि­धि­त्वेन दर्शयाग एव पञ्च­श­रा­व­द्र­व्य­विधिः न तु कर्मा­न्त­र­वि­धि­रिति पूर्वपक्षे पञ्चशरावौदनस्य द्रव्यस्य इन्द्रस्य देवतायाश्च प्रकृ­त­सा­न्ना­य्य­या­गा­नु­वा­देन विधौ वाक्यभेदः स्यादतो द्रव्य­दे­व­ता­वि­शि­ष्ट­नै­मि­त्ति­क­क­र्मा­न्त­र­वि­धि­रिति सिद्धान्तितं तद्विरोधः स्यात् । तथापि प्रकृ­त­प्र­त्य­भि­ज्ञा­नेन वाक्य­भे­द­स्या­सो­ढ­व्य­ता­प­त्ति­रि­त्या­शङ्क्य विशेषितं द्रव्य­द्वा­रे­णेति। अप­नी­त­पू­र्व­दे­व­ता­न्त­र­सं­यो­ज­न­सा­पे­क्षाणि दार्शिकान्येव तण्डुलादीनि गृह्यन्त इत्या­का­ङ्क्षा­नु­सा­रे­णा­व­ग­म्यते । किं च यदि बिभि­या­दि­त्या­दि­वाक्ये महारात्रे फलीकरणपर्यन्तं कृत्वा पेषणमकृत्वा प्रती­क्ष­ण­व­च­ना­द­पीदं ज्ञायते । अभ्यु­द­ये­ष्ट्या­मेत एव तण्डुला “इन्द्राय प्रदात्रे विष्णवे शिपिविष्टाय चे”ति। अन्यथा पेषणात्प्रागेव प्रयोगमवस्थाप्य प्रती­क्ष­ण­म­दृ­ष्टार्थं स्यात् । तथा आतञ्चनार्थस्य दध्य­र्ध­स्या­भ्यु­द­या­भा­व­पक्ष इव तदन्यस्य दध्य­र्ध­स्या­भ्यु­द­य­पक्षे प्रति­प­त्त्य­वि­धा­ना­दिदं ज्ञाप्यते अभ्युदयेष्ट्यां तदेवान्यदर्धं दधीति। अभ्यु­द­या­भा­व­पक्षे दध्य­न्त­रो­त्पा­द­न­स्या­न­पे­क्षि­त­त्वा­दा­त­ञ्च­नार्थं दध्य­र्ध­प्र­ति­प­त्त्य­पे­क्षा­व­द­भ्यु­द­य­पक्षे तदितरार्धस्य लौकि­क­द­धि­सा­ध्या­या­म­भ्यु­द­येष्ट्यां दध्य­न्त­रो­त्पा­द­न­नि­र्वर्त्ये मुख्यकालदर्शे चानु­प­यो­गा­त्प्र­ति­प­त्य­पे­क्षाऽ­स्तीति तत्प्र­ति­प­त्ति­र­प्यु­द­व­र्ण्येत । तथा "विष्णवे शिपिविष्टाय शृते चरु"मिति शृतपदप्रयोगात् ज्ञायते अभ्युदयेष्ट्यां वैदिकप्रसिद्धया रूढ्या शृतशब्दवाच्यः प्रातर्दोह एव पयो न तु लौकिकं पय इति। अन्यथा आदित्यः प्रायणीयः पयसि चरुरित्यत्रेव पयःशब्द एव प्रयुज्येतेति। पशुकामेष्टौ तु गृहीतः शृतशब्दो लौकिकपयसो लक्षणार्थ इति सूत्रकृतैवोक्तं लक्षणार्था शृतश्रुतिरिति। न चेह लक्षणायां कारणमस्ति। एवमिह द्रव्यै­क्य­कृ­ता­न­न्य­था­सिद्धा प्रत्यभिज्ञैव प्रकृ­त­त्व­मा­त्र­कृता वाक्य­भे­द­दो­षा­भा­वात् प्रच्यावयितुं न क्षमेति विशेषं सूचयितुं द्रव्य­द्वा­रे­णे­त्यु­क्तम् । एवं च स्थवि­ष्ठा­दि­वा­क्य­द्वय इव सह श्रपयतीति वाक्येऽपि वाक्यभेदः । स च तण्डुलोद्देशेन प्रत्येकं दध्ना पयसा च सह­पा­क­वि­धि­रि­त्ये­वं­रूपो वा दधितण्डुलानां च पयस्तण्डुलानां च सह­पा­क­वि­धि­रि­त्ये­वं­रूपो वा न भवति ; अस­न्न­य­तोऽ­भ्यु­द­ये­ष्ट्य­भा­व­प्र­स­ङ्गात् , किंतु दध्युद्देशेन पयउद्देशेन च तण्डु­ल­स­ह­पा­क­विधिः । तेन यत्र दधिपयसी तत्रैवेदं वाक्यद्वयं प्रवर्तत इत्य­स­न्न­य­तोऽ­प्य­भ्यु­द­ये­ष्टि­लाभः । एवं चासन्नयतः प्रभू­त­द­धि­प­यः­स­ह­पा­क­प्र­यु­क्तायाः पुरो­डा­श­भा­व­नि­वृ­त्ते­र­भा­वा­त्पु­रो­डा­श­भा­वे­नैव प्रदेयता । चरुशब्दः पाक्षिकानुवादः । दधिपयसोः सप्तमी च स्थवि­ष्ठा­ना­म­णि­ष्ठानां च तण्डुलानां देव­ता­सं­ब­न्ध­व­च्च­रु­भावो विधेयः , स्थवि­ष्ठा­णि­ष्ठ­वा­क्ययोः प्रत्येकं वाक्य­त्रै­वि­ध्यो­प­पत्तेः । एवं चरु­भा­व­स्या­ङ्ग­त्वा­दे­वा­र्था­च्च­रु­भा­व­सा­धने दध्नि पयसि च प्रणीताधर्माणां प्राप्तिर्नवमे स्थापिता , असन्नायिनामप्सु चरोः श्रपणं भाष्यकारैरुक्तं च सङ्गच्छते । टीकायां परस्माच्च वरः वराच्च वरीयानिति व्युत्प­त्ति­र्द­र्शिता ।
तत्र पञ्चम्यन्तस्य परशब्दस्य वरशब्दस्य च पूर्ववाक्ये सामगतिपरंपरायां निवे­शि­त­स्व­र­प्रा­णा­दि­रर्थ इति व्याचष्टे –
पर­स्मा­त्स्व­र­प्रा­णादेः परो वराच्च तस्मादेव वरीयान् वरतर इति ।
परो­व­री­या­नि­त्येकं पदं परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयतीति वाक्य­शे­षा­त्प­र­शब्दे ओत्वनिपातेन सिद्धोयं शब्द उप­न्य­स्ता­र्थ­वि­षयः ॥७॥८॥
इति तृती­य­म­न्य­था­त्वा­धि­क­र­णम् ॥

व्याप्तेश्च समञ्जसम् ॥९॥
स एवार्थ इति ।
उद्गीथेन विशेषणरूपं यमर्थं सिद्धवत्कृत्य विद्याभेदो दर्शितः स एवा­र्थ­श्चि­न्त्यत इत्यर्थः ।
उद्गी­थ­भ­क्ति­सं­ब­न्धिनः प्रण­व­स्यो­पा­स­नाया अधि­का­र­प्र­ति­पा­द­न­मिति ।
प्रतिपादनं विधानम् । तथा चोमि­त्य­क्ष­र­मु­द्गी­थ­मु­पा­सी­ते­त्यत्र उद्गी­थ­भ­क्त्य­व­य­वो­ङ्का­र­क­र्म­वि­शि­ष्टो­पा­स­ना­वि­धि­रयं सोमेन यजे­ते­ति­व­द्वि­शि­ष्ट­वि­धि­रूप उत्पत्तिविधिः । स एव रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथ इत्यत्रोङ्कारे रसतमत्वगुणविधिः । "आपयिता ह वै कामानां भवति य एतदेवं विद्वा­न­क्ष­र­मु­द्गी­थ­मु­पास्ते" इत्य­त्रा­प्ति­गु­ण­विधिः । "समर्धयिता ह वै कामानां भवति य एतदेवं विद्वा­न­क्ष­र­मु­पास्ते" इति तस्मिन् समृद्धिगुणविधिः । आप्ति­स­मृ­द्धि­गु­ण­वि­ध्य­र्थ­वा­द­श्रु­त­फ­ल­द्व­य­ग्र­ह­णेन कल्प्योऽ­धि­का­र­विधिः ।
आप्त्या­दि­दृ­ष्टी­र्वि­धा­तु­मिति ।
दृष्टि­वि­ष­या­ना­प्त्या­दि­गु­णान् विधातुमित्यर्थः ; उत्पत्तिविधिनैव दृष्टिप्राप्तेः ।
पृथ­गु­पा­स­ना­वि­ध्य­भा­वा­दिति ।
वक्ष्य­मा­ण­फ­ल­वि­शि­ष्टो­पा­स­नो­त्प­त्ति­वि­ष­य­त्वेन स्वत­न्त्रो­पा­स­ना­न्त­र­वि­ध्य­भा­वा­दि­त्यर्थः । न च – अत्र मा भूद­य­मु­त्प­त्ति­विधिः यथा­श्रु­त­ग्र­न्थ­स्वा­र­स्या­नु­रो­धे­नो­द्गी­था­व­य­व­त्व­वि­शि­ष्ट­प्र­ण­व­रू­पा­श्र­य­स­म­र्प­ण­प­रोऽ­य­म­स्त्विति - वाच्यम् ; एक­प­द­श्रु­त्यो­पा­स­ना­न्वि­तस्य विधे­स्त­द­ति­ल­ङ्घ­नेन विशे­ष­ण­सं­क्रा­न्ति­क­ल्प­ना­नौ­चि­त्यात् । अन्यथा सोमेन यजेतेति विधे­र­प्य­धि­का­र­वि­धि­ल­भ्य­या­गा­नु­वा­देन सोम­गु­ण­मा­त्र­वि­धि­त्व­क­ल्प­ना­प्र­स­ङ्गा­दिह रस­त­म­त्वा­दि­गु­ण­वि­धिषु त्रिष्वपि विनि­ग­म­ना­वि­र­हा­त्त­त्त­द्गु­ण­वि­शि­ष्टो­पा­स­ना­वि­धि­त्वस्य कल्पनीयतया बहु­वि­शि­ष्ट­ब­हू­पा­स­ना­वि­धि­क­ल्प­ना­गौ­र­व­प्र­स­ङ्गाच्च ।
अपि च गौण्या वृत्तेरिति टीका­या­म­ध्या­स­पक्षे गौणी वृत्तिः सिद्धवत्कृत्य व्यवहृता , विशेषणपक्ष इव तस्मिन्नपि पक्षे लक्षणैव किं न स्यादि­त्या­शङ्क्य तस्मिन् पक्षे दृष्टि­वि­धि­ला­भार्थं गौणी वृत्ति­र­व­श्या­श्र­य­णी­ये­त्याह –
ॐकार उद्गीथदृष्टि विधौ हीति ।
सादृ­श्य­ल­क्ष­णा­गर्भा खलु गौणी । तत­श्चो­द्गी­थ­श­ब्दस्य यद्योङ्कारे गौणी वृत्तिराश्रीयेत , तदो­द्गी­थ­दृ­ष्टि­वि­ष­य­त्वम् । अमी पिष्टपिण्डाः सिंहाः क्रिय­न्ता­मि­त्यत्र सिंहाकारमिव साध्यसादृश्यं गृहीत्वा ॐका­र­मु­द्गी­थ­दृ­ष्टि­वि­षयं कुर्व­न्नु­पा­सी­ते­त्यर्थे पर्यवसानं कर्तुं शक्यमिति दृष्टि­वि­धि­र्ल­भ्येत । अव­य­वा­व­य­वि­सं­ब­न्ध­मू­ल­क­ल­क्ष­णा­श्र­यणे तु सा न लभ्यत इति।
उद्गी­थ­दृ­ष्टि­वि­ष­य­त्वा­दो­ङ्कार उद्गीथ इत्यर्थ इति ।
गौण­वृ­त्त्या­श्र­यणे ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मि­त्य­स्यैव तदर्थो लभ्यत इत्यर्थः । गौण्यां लक्ष­णी­या­र्थ­द्वा­राऽ­र्था­न्तरे शब्दस्य वृत्ते­र्व्य­व­धा­न­मा­हेति। लक्षणीयार्थो मुख्या­र्थ­सा­दृ­श्यम् । ननु – भाष्य­स्वा­र­स्या­न्मु­ख्यार्थे यत्प्र­वृ­त्ति­नि­मित्तं तस्या­न्य­त्रा­रो­पेण शब्दस्य वृत्तिर्गौणी वृत्तिरभिमतेति प्रतीयते । टीका­या­म­प्य­धि­क­र­णो­प­क्रमे तथैव गौणी वृत्तिर्लक्षिता । इह लक्षणागौण्योः सन्नि­क­र्ष­वि­प्र­क­र्ष­प्र­द­र्श­न­भा­ष्य­व्या­ख्या­ना­व­सरे मुख्या­र्थ­सा­दृश्यं लक्षयित्वा तद्द्वारेण तद्व­त्य­र्था­न्तरे वृत्तिर्गौणीति लक्षि­त­ल­क्ष­णा­रूपा सा टीका­का­रै­रा­चा­र्यैश्च वक्ष्यते ? किमर्थमिह भाष्यस्वारस्य परित्यागः ? भाष्योक्त आरोप एव हि प्रकृतोपयोगी प्रसिद्धश्च । तथा हि – अध्यासपक्षे नाम्नि ब्रह्म­त्वा­दे­रो­ङ्कारे उद्गी­थ­त्वा­दे­रा­रो­प्यो­पा­सना वर्णिता , तथोपासना च नाम्नि ब्रह्मशब्दस्य ब्रह्म­त्वा­रो­पे­णो­ङ्कारे उद्गी­थ­श­ब्द­स्यो­द्गी­थ­त्वा­रो­पेण च वृत्तावेव घटते । तस्मादारोपपक्ष एव प्रकृतोपयोगी । प्रसिद्धश्च स एव लोके वेदे च । लोके तावत् – "किम­सु­भि­र्ग्ल­पि­तै­र्जड मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥” इति। अत्र नलविहारातुरया दमयन्त्या चन्द्रं प्रत्युपालम्भः क्रियते । मृतानां मनः चन्द्रे लगतीति प्रतिपादयन्तीं “यत्रास्य पुरुषस्याग्निं वागप्येति वातं प्राण­श्च­क्षु­रा­दित्यं मन­श्च­न्द्र­मि­त्या”दि­श्रुतिं दृष्ट्वा खलु दमयन्ती मृता चेदस्या मनः स्वस्मिन् लग्नं भवेदिति प्रत्याशया मां मारयितुमिच्छसि । सा जडस्य तव प्रत्याशा निष्फला । यतः सा श्रुतिः नल­मु­ख­च­न्द्र­वि­ष­येति विबुधो मन्मथो मह्य­मु­प­दि­ष्ट­वा­निति। एवं श्रुते­श्च­न्द्रा­न्त­र­वि­ष­य­त्व­व­र्णनं नलमुखे चन्द्रत्वारोप एव संगच्छते । एवम् – "अच­तु­र्व­दनो ब्रह्मा द्विबाहुरपरो हरिः । अफाललोचनः शम्भुर्भगवान् बादरायणः ॥" इत्यत्रापि बादरायणे ब्रह्म­त्वा­द्या­रोपे एव चतु­र्व­द­न­त्वा­दि­प्र­सि­द्ध­ब्र­ह्मा­द्ये­कै­क­गु­ण­वै­क­ल्य­व­र्णनं स्वारस्यमश्नुते । अत्य­ल्प­मि­द­मु­दा­हृ­तम् । सर्व­त्रा­रो­प­प्र­माणा एव कार्यसरणयः । एवं – भूतेष्वारोपेषु सादृश्यं व्यङ्ग्यविषयतया कवि­भि­र्वि­व­क्ष्यते , न तु गौण­वृ­त्ति­वि­ष­य­तया । अत एव रूपकेणोपमा व्यज्यत इत्या­ल­ङ्का­रि­क­स­मयः । तथा वेदेऽप्यात्मानं रथिनं विद्धि शरीरं रथमेव चेत्या­दि­ष्वा­त्म­श­री­रा­दिषु रथि­र­था­दि­भा­वा­रोपः सुप्रसिद्धः । अजा­मे­का­मि­त्या­दि­मन्त्रे प्रकृ­ता­व­जा­त्व­क­ल्पना ’असौ वा आदित्यो देव­म­ध्वि’त्या­दा­वा­दि­त्य­म­ण्डले मधु­त्व­क­ल्प­ने­त्या­दि­क­मपि सुप्रसिद्धमेव । इत्थं वेदे आरोपमूलां शब्दवृत्तिं "शरी­र­रू­प­क­वि­न्य­स्त­गृ­ही­ते­रिति" "कल्प­नो­प­दे­शाच्च" "मध्वा­दि­व­द­वि­रोध" इति च सूत्रकारोऽपि स्पष्टमाह । तस्मादिह लक्षि­त­ल­क्ष­णा­रूपा गौणीति व्याख्या­तु­म­यु­क्तम् । न च लक्षणागौण्योः सन्नि­क­र्ष­वि­प्र­क­र्ष­प्र­ति­पा­द­क­व्या­ख्ये­य­भा­ष्य­म­नु­सृत्य तथा व्याख्यानम् ; मुख्या­र्थ­सा­क्षा­त्सं­ब­न्ध­मूला लक्षणा सन्निकृष्टा मुख्या­र्थ­वृ­त्ति­गु­ण­स­मा­न­गु­णा­धि­क­र­ण­त्व­रू­प­प­र­म्प­रा­सं­ब­न्ध­मूला गौणी विप्र­कृ­ष्टे­त्येवं भाष्य­ता­त्प­र्यो­प­प­त्ते­रिति – चेत् , उच्यते ; यथा­भा­ष्य­मा­रो­प­मूला गौणीत्येव टीका­का­रा­णा­मा­चा­र्या­णा­म­प्य­भि­मतं तद­धि­क­र­णो­प­क्र­म­टी­का­त­द्व्या­ख्या­नाभ्यां स्पष्टम् । सन्नि­क­र्ष­वि­प्र­क­र्ष­भाष्यं गौण्यारोपमूला न भवति , किंतु सादृ­श्य­ल­क्ष­णा­मू­लेति ये पूर्वमीमांसका वर्णयन्ति तन्म­ता­नु­सा­रे­णापि योजयितुं शक्यमिति वैभवात्तथा व्याख्यातम् । पूर्व­मी­मां­स­कैर्हि तत्सि­द्धि­पे­टी­कायां यजमानः प्रस्तर इत्यत्र प्रस्तरे यजमानशब्दस्य यजमानत्वारोपेण वृत्तिर्न भवति , किंतु तत्का­र्य­क­र­ण­त्व­रू­प­य­ज­मा­न­सा­दृ­श्ये­नेति महता यत्नेनोपपादितम् । वस्तु­त­स्त्व­त्रापि यजमानत्वारोपेण वृत्तिरित्येव युक्तम् । “उत्तरं बर्हिषः प्रस्तरं सादयति प्रजा वै बर्हिर्यजमानः प्रस्तरो यज­मा­न­मे­वा­य­ज­मा­ना­दु­त्तरं करोती”तिसंदर्भो “रोहितेन त्वाऽग्नि­र्दे­वतां गमयत्वित्याहैते वै देवाश्वा यजमानः प्रस्तरो यदेतैः प्रस्तरं प्रहरति देवाश्वैरेव यजमानं स्वर्गं लोकं गमयती”ति संदर्भश्च संगच्छते । बर्हिष उपरि यत्प्र­स्त­र­स्या­सा­दनं तदेव यज­मा­न­स्या­य­ज­मा­ना­दु­त्त­री­क­र­ण­मिति वचनं हि बर्हिषि प्रस्तरत्वारोपे प्रस्तरे यजमानत्वारोपे च सत्येव संगच्छते । तथा रोहितेन त्वेत्या­दि­भि­र्मन्त्रैः प्रस्तरस्याह – वनीये स्वर्गो लोक आहवनीय इत्य­र्थ­वा­दा­न्त­र­श्रुतेः प्रहरणं प्रक्षेपणमिति वचनमपि मन्त्रेषु देवाश्वत्वस्य प्रस्तरे यज­मा­न­त्व­स्या­ह­व­नीये स्वर्गत्वस्य चारोप एव संगच्छते । एवं सत्यपि वार्तिकादिषु यदा­रो­प­प्र­च्छा­दनं तद्वे­द­प्रा­मा­ण्य­सं­र­क्ष­ण­व्य­स­नि­तया । यद्यपि रुद्र­रो­द­ना­द्य­स­द­र्थ­म­व­लम्ब्य विधेयस्तुतौ तात्पर्यवर्णने प्रामाण्यस्य न क्षतिः ; तथापि – प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे॥ इति न्यायमवलम्ब्य वेद­प्रा­मा­ण्य­प्र­ति­षे­ध­का­रणं किय­तोऽ­प्य­व­का­श­स्या­ला­भा­या­रो­प­पक्षः प्रौढ्या प्रच्छादितः । अलं विस्तरेण ॥९॥
इति चतुर्थं व्याप्त्य­धि­क­र­णम् ॥

सर्वा­भे­दा­द­न्य­त्रेमे ॥१०॥
ननु कौषी­त­कि­वा­क्य­मिति ।
एवंशब्दः सन्निहितावलम्बन इत्येतावता शाखान्तरोक्तं वसिष्ठत्वादिकं न व्यावर्तयति , तस्याप्यनुमानतः सन्नि­हि­त­त्वे­नै­वं­श­ब्द­प­रा­म­र्श­नी­य­त्वा­दिति शङ्कार्थः । सन्नि­धा­पि­त­मे­वै­वं­शब्दः परामृशति न प्रमा­णा­न्त­र­स­न्नि­धा­पि­त­मपि ; अन्यथा गामानयेत्यत्र गोरिव प्रत्य­क्षो­प­स्था­पि­त­घ­ट­स्यापि कर्म­त­याऽ­न्व­य­प्र­स­ङ्गा­दिति परिहारार्थः ।
फलविधिपरे इति ।
अथो य एवं विद्यादित्यादि तदमृतो भवति यदमृता देवा इत्यन्तं तत्र फलवाक्यम् ।
विद्यैक्यद्वारा प्राप्त­शा­खा­न्त­री­य­फ­ल­सं­ब­न्धा­नु­वा­दा­दिति ।
ननु – कौषीतकिशाखायां "तदमृतो भवति यदमृता देवा" इति प्राण­दे­व­ता­सा­युज्यं फलमुक्तम् । शाखान्तरे तु छान्दोग्ये बृहदारण्यके च ज्यैष्ठ्य­श्रै­ष्ठ्य­रू­प­फलं तद्बृहदारण्यके स्वानामिति विशेषणात् ज्ञातिमध्ये वयसा गुणेन चाधि­क्य­रू­प­मै­हि­क­मेव , तत्कुतः शाखा­न्त­री­य­फ­ला­नु­वा­द­सं­भवः ? इति – चेत् , उच्यते ; कौषी­त­कि­शा­खा­या­मि­वास्ति शाखा­न्त­रेऽ­प्य­ना­म्ना­त­व­सि­ष्ठ­त्वा­दि­गुणा प्राणविद्या । अत एव भाष्ये कौषी­त­कि­प्र­भृ­ती­ना­मि­त्यु­क्तम् । तेषु प्राण­दे­व­ता­सा­युज्यं फल­मु­क्त­म­स्ती­त्या­चा­र्या­णा­मा­शयः । ननु – छान्दो­ग्य­बृ­ह­दा­र­ण्य­को­क्त­ज्यै­ष्ठ्य­श्रै­ष्ठ्य­गु­ण­ला­भोऽपि प्राण­दे­व­ता­सा­यु­ज्य­रूप एव ; तत्सायुज्यस्य तद्गु­णा­न्व­य­रू­प­त्वात् , बृहदारण्यके ज्येष्ठश्च श्रेष्ठश्च स्वानां भव­ती­त्ये­त­द­न­न्त­र­मपि च येषां बुभूषति य एवं वेदेति वाक्ये­ना­न्ये­षा­मपि येषां ज्येष्ठश्च श्रेष्ठश्च भवितुमिच्छति तेषामपि ज्येष्ठः श्रेष्ठश्च भवतीति ज्येष्ठ­श्रै­ष्ठ्य­यो­रै­हि­का­मु­ष्मि­क­सा­धा­र­ण्य­स्यो­क्त­त्वात् , एवं फलाभेदोपपादनेन पूर्व­प­क्ष­सि­द्धा­न्त­यो­र्वि­द्यै­क्य­सि­द्ध­व­त्का­र­यो­गात् । तस्मा­त्फ­ला­नु­वा­दे­ना­न्य­व्या­वृ­त्ति­प­र­तो­क्ति­र्यु­क्तैव । ननु पञ्चा­ग्नि­वि­द्या­वै­श्वा­न­र­वि­द्या­दि­फ­ल­वा­क्ये­ष्वपि एवं श्रूयते तेषामपि शाखा­न्त­र­प्रा­प्त­फ­ला­नु­वा­दे­ना­न्य­व्या­वृ­त्ति­प­रता स्यादिति – चेत् , अस्तु , पूर्वपक्षिणः का हानिः ? अत्र सैद्धा­न्ति­क­न्या­य­व्यु­त्पा­द­नेन तेष्व­नु­प­सं­हा­र­श­ङ्का­नि­रासो भविष्यतीति। ननु सत्य­मि­त्या­दि­टी­का­या­म­शा­ब्द­स्यापि शाखा­न्त­री­य­गु­ण­जा­तस्य शाब्दान्वयो युक्तः ; अव्य­भि­च­रि­त­क्र­तु­सं­ब­न्धि­जु­हू­प­स्था­पि­तस्य क्रतोः पर्ण­ता­न्व­य­द­र्श­नात् , तथे­हाऽ­व्य­भि­च­रि­त­व­सि­ष्ठ­त्वा­दि­गु­ण­सं­ब­न्ध्यु­पा­स्य­फ­लो­प­स्था­पि­तस्य वसि­ष्ठ­त्वा­दे­र­न्व­य­सं­भ­वा­दि­त्यु­क्त­मिति प्रतिभाति। तन्न युक्तम् ; शब्दो­प­स्था­पि­त­स्यैव शाब्दा­न्व­य­नि­य­मात् , पर्णतावाक्येऽपि न लिङ्गो­प­स्था­पि­तस्य क्रतोरन्वयः , किंतु जुहूपलक्षितस्य । पर्णताया जुह्वा­कृ­ति­मा­त्रा­र्थत्वे वैयर्थ्यं स्यादिति जुहूपदस्य तद्वति क्रतौ लक्षणा स्वीकृता ।
न चेह कस्यचित्पदस्य शाखा­न्त­री­य­गु­ण­जा­त­ल­क्ष­णायां किंचि­त्का­र­ण­म­स्ती­त्या­शङ्कां वारयति –
सत्यमशाब्दं शाब्दे नान्वेतीति ।
भवति शाब्दमिति ।
स्वशा­खा­म्ना­त­व­त्प­र­शा­खा­म्ना­त­मपि शाब्दमेव ; शाब्दत्वेऽपि कौषी­त­कि­शा­खा­ग­तै­वं­श­ब्दा­र्था­व­ग­ति­स­मये शाखान्तराम्नातं गुणजातं शब्देन नोपस्थितं , किंतु स्वशाखाम्नातं तत्पू­र्वा­प­रा­ने­क­वा­क्य­वि­हितं तदा­श­ब्दे­नो­प­स्थि­तम् । तदानीमशाब्दमपि शब्द­मू­ल­प्र­ति­प­त्त्या­स्प­द­मे­त­त्प्र­क­र­णा­म्ना­त­गु­ण­त्वेन क्रोडीकृतम् एवंशब्दो गोचरयेदिति चेत् , एवं तर्हि शाखा­न्त­रा­म्ना­त­मपि गुण­जा­त­मे­त­द्वि­द्या­सं­ब­न्धि­गु­ण­त्वेन क्रोडीकृतं स गोचरयतीत्यस्तु ; प्रधा­न­भू­त­वि­द्या­घ­टि­त­प्र­क­र­णा­नु­प्र­वे­शा­पे­क्षया विद्यानुप्रवेशे लाघवादिति भावः ।
उपा­स्य­फ­ल­प्र­त्य­भि­ज्ञा­ना­दिति ।
फल­प्र­त्य­भि­ज्ञा­न­मु­प­पा­दि­तम् । स्यादेतत् – वसिष्ठत्वादीनां कौषी­त­कि­शा­खा­म्ना­ता­या­मु­दा­हृ­त­प्रा­ण­वि­द्या­या­मु­प­सं­हारो न युज्यते ; विरोधात् , तथा हि – वाचो वसिष्ठत्वं वाग्मिनः सद्व्यवहारजननेन वसु­म­त्ता­सं­पा­द­कत्वं चक्षुषः प्रतिष्ठात्वं चक्षुष्मतः सम­वि­ष­म­भू­त­ला­दि­प्र­द­र्श­नेन प्रति­ष्ठा­सं­पा­द­कत्वं श्रोत्रस्य संपत्त्वं वेद­शा­स्त्र­त­द­र्थ­श्र­व­णा­दि­सं­पा­द­नेन संपत्करत्वं मनस आयतनत्वं स्रक्च­न्द­ना­दि­वि­ष­य­ज्ञा­न­रू­प­भो­गा­य­त­न­त्व­मिति तत्त­द्वा­क्य­शे­षा­द्य­नु­सा­रेण स्थितम् । अतो यदहं वसि­ष्ठोऽ­स्मी­त्या­दे­र्य­दहं वसु­म­त्ता­सं­पा­द­न­स­म­र्थोस्मि त्वं तद्वसिष्ठोऽसि मत्सामर्थ्यस्य त्वद­धी­न­त्वा­त्त­वै­त­त्सा­म­र्थ्य­मि­त्या­दि­रर्थः । इदं च प्राणस्य वागा­दि­ग­त­त­त्त­त्का­र्य­सं­पा­द­न­सा­म­र्थ्य­नि­मि­त्त­त्व­रूपं वसिष्ठत्वादिकं छान्दो­ग्य­वा­ज­स­ने­य­क­ग­त­प्रा­ण­वि­द्या­या­मु­प­पा­द्यते ; तयोः प्राणो­च्चि­क्र­मि­षायां वागादीनामपि क्रमेण प्रसक्तिवर्णनेन तेषां स्वका­र्य­क­र­ण­सा­म­र्थ्यस्य प्राणाधीनत्वात् । कौषीतकिशाखायां दशमाध्याये यत्प्रा­ण­वि­द्या­म्नानं , तत्रापि वसि­ष्ठ­त्वा­दि­क­मु­प­प­द्यते । तत्र हि "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च स्वानां भव­ती"त्या­रभ्य छान्दो­ग्य­बृ­ह­दा­र­ण्य­क­री­त्यैव प्राणस्य ज्यैष्ठ्य­श्रै­ष्ठ्य­गु­ण­वत्त्वं वागादीनां वसि­ष्ठ­त्वा­दि­गु­ण­कत्वं मुख्यप्राणस्य वागादीनां च श्रैष्ठ्य­वि­ष­य­प­र­स्प­र­वि­वा­देन ब्रह्म­स­भो­प­व­र्णनं यस्मि­न्नु­त्कान्ते शरी­रे­न्द्रि­या­न­व­स्थिति: स श्रेष्ठ इति ब्रह्मवचनं तत्परिचिकीर्षया वागा­दी­ना­मे­कै­कस्य शरीरादुत्क्रम्य पर्यटनं तदा शरी­र­स्ये­न्द्रि­याणां च यथा­पू­र्व­म­व­स्थानं प्राण­स्यो­त्क्र­म­ण­प्र­वृत्तौ तेषां विशरणं ततो भीतानां वागादीनां मोत्क्र­मी­स्त्वन्नः श्रेष्ठ इति मुख्यप्राणं प्रति वच­न­मि­त्ये­त­त्सर्वं क्रमेण वर्णितम् । प्राणे वागा­दि­ग­त­व­सि­ष्ठ­त्वा­दि­गु­ण­स­म­र्प­ण­मात्रं नोक्तम् । कौषीतकिशाखायां चतुर्थाध्याये “अथातो निःश्रे­य­सा­दा­न"मि­त्या­रभ्य या प्राण­वि­द्याऽऽ­म्नाता तस्यामुक्तरूपं वसिष्ठत्वादिकं प्राणे नोपपाद्यते । तत्र हि प्राणा­न­धी­न­का­र्यत्वं वागादीनामुक्तम् । शरीरमात्रस्य प्राणा­धी­न­स्थि­ति­सं­चा­रा­दि­म­त्त्व­मु­क्तम् । “अथातो निःश्रेयसादानं सर्वा वै देवता अहंश्रेयसे विवदमाना अस्मा­च्छ­री­रा­दु­च्च­क्र­मु­स्त­द्दा­रु­भूतं शिश्ये अथैतद्वाक् प्रविवेश तद्वाचा वदच्छिश्य एव । अथैनच्चक्षुः प्रविवेश तद्वा­चा­व­द­च्च­क्षुषा पश्यच्छिश्य एव । अथैनत् श्रोत्रं प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वत् शिश्य एव । अथैनन्मनः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यत् श्रोत्रेण शृण्वत् मनसा ध्यायत् शिश्य एव । अथैनत् प्राणः प्रविवेश तत्तत एव समुत्तस्थाविति। तस्मा­दु­दा­हृ­त­कौ­षी­त­कि­शा­खा­म्ना­त­प्रा­ण­वि­द्यायां वसि­ष्ठ­त्वा­द्यु­प­सं­हारो न युक्त इति – चेत् , उच्यते ; वागा­दी­ना­म­भि­व­द­न­मा­त्रस्य प्राणा­न­धी­न­त्वो­क्ता­विति गोष्ठीषु सद्व्यवहारजननेन वसु­म­त्ता­सं­पा­द­क­त्व­रूपं यद्वसिष्ठत्वम् एवमादिकं शरी­र­स्थि­ति­सं­चा­रा­पेक्षं प्राणा­धी­न­मि­त्ये­त­दि­हा­प्य­नु­म­त­मे­वेति वसि­ष्ठ­त्वा­द्यु­प­सं­हारे न काप्य­नु­प­पत्तिः॥१० ॥
उशब्दोऽप्यर्थ इति ।
तथो इत्यत्र तथा उ इति द्वे पदे इति भावः । प्राणा­त्म­त्व­प्राप्त्या प्राण­सा­यु­ज्य­प्राप्त्या । अथवा – कल्पान्तरे प्राण­दे­व­ता­भा­व­प्राप्त्या॥
इति पञ्चमं सर्वा­भे­दा­धि­क­र­णम् ॥

आनन्दादयः प्रधानस्य॥११॥ संयद्वामत्वादय इत्या­दे­र्य­था­विधि व्यव­स्थे­त्य­न्त­स्या­य­मर्थः । अक्षि­पु­रु­षो­पा­स­ना­र्थ­मु­पा­स्य­गु­ण­त्वा­दयो संयद्वामत्वादयो दध्या­दि­व­द्वि­धेयाः । अतः काला­न्त­र­भा­वि­फ­लो­द्दे­श्य­क­गु­ण­वि­शि­ष्ट­ब्र­ह्मो­पा­स­ना­वि­धि­प्र­युक्तं फला­पू­र्व­म­भ्यु­प­ग­न्त­व्यम् , तत्प्र­यु­क्ता­श्चे­ति­क­र्त­व्य­ता­रूपा धर्माः । कर्त­व्य­त्वे­नो­प­दि­ष्टस्य कथं कर्त­व्य­मि­त्या­का­ङ्क्षा­या­मित्थं कर्त­व्य­मि­त्यु­प­दि­श्य­मा­न­स्त­त्त­त्प्र­का­र­वि­शेषः खल्वि­ति­क­र्त­व्यता , सात्व­पू­र्व­प्र­यु­क्तेति पूर्वतन्त्रे सप्तमाद्ये व्युत्पादितम् । तदित्थं – यद्यपि यागेनाऽपूर्वं कृत्वा स्वर्गं भावयेदिति विधिना याग­क­र्त­व्य­ताऽ­प्य­व­ग­म्यते ; तथापि तत्र न प्रका­रा­का­ङ्क्षाऽस्ति , किंचिदुद्दिश्य द्रव्य­त्या­ग­रू­पस्य लौकिकस्य तस्य निर्ज्ञा­त­प्र­का­र­त्वात् । न ह्योदनं पचेत्युक्ते कथमिति प्रका­र­वि­शे­षा­काङ्क्षा जायते , जायते तु घृतपूरं पचेत्युक्ते । तथे­हा­पू­र्व­क­र्त­व्य­ताया अनि­र्ज्ञा­त­प्र­का­र­त्वा­त्तत्र कथमाकाङ्क्षायां तदि­ति­क­र्त­व्य­ता­रू­प­त­यो­प­दि­श्य­माना धर्मा­स्त­त्प्र­युक्ता इति तदपूर्वमियतो धर्मानपेक्षत इति लोक­त­स्त­त्प­रि­मा­णा­न­व­ग­मा­द्यत्र याव­ता­म­न्व­य­स्ता­व­द्भि­स्त­द्भ­व­तीति विध्य­नु­सा­रे­णा­व­ग­न्त­व्य­त्वात् यथाविधि व्यवस्थेति। एवं चानि­र्ज्ञा­त­प­रि­मा­ण­त्वा­दि­त्य­स्या­नि­र्ज्ञा­त­प­रि­मा­ण­ध­र्म­सा­ध्य­त्वा­दि­त्यर्थः ; अपू­र्व­ब­हु­त्वा­भा­वेन यथा­श्रु­ता­न­न्व­यात् । अथवा – अवा­न्त­रा­पू­र्वा­भि­प्रायं सर्वमिदं वाक्यं योजनीयम् । बहु­गु­ण­वि­शि­ष्ट­ब्र­ह्मो­पा­सने हि पाठक्रमेण गुणचिन्तनेषु बहुषु जायमानेषु प्रया­जा­द्य­पू­र्व­व­द्ब­हू­न्य­वा­न्त­रा­पू­र्वाणि भवन्ति तत्प्रयुक्ताश्च भवन्ति उपास्यफलाः । अङ्गा­पू­र्वा­णा­मपि तद­ङ्ग­गु­ण­प्र­यो­ज­क­त्वा­त्ते­षा­मि­य­त्ता­रूपं परि­मा­ण­म­नि­र्ज्ञातं विध्यधीनं निर्ज्ञातमिति यथाविधि व्यवस्था ।
यावन्त्यो भ्रान्तय इति ।
निर्गु­ण­प्र­क­र­णेषु गुण­वै­शि­ष्ट्या­म्ना­नस्य प्रधा­न­भू­त­नि­र्गु­ण­प्र­मि­त्य­र्थ­त्व­सि­द्ध्यर्थं गुण­वै­शि­ष्ट्यांशं त्यक्तुं ज्ञान­त्वा­न­न्द­त्वा­दी­ना­म­न्य­त­म­गु­ण­वै­शि­ष्ट्य­श्र­व­णेऽपि विरोधस्फूर्तये प्रक­र­णा­न्त­रा­म्ना­त­गु­णो­प­सं­हारे कर्तव्ये विनि­ग­म­ना­वि­र­हा­न्ना­ना­प्र­क­र­णा­म्ना­नात् सर्वगुणोपसंहारः कार्यः । न चैवं सगु­ण­प्र­क­र­णा­म्ना­त­सं­य­द्वा­म­त्वा­दि­गु­णा­ना­मपि निर्गुणप्रकरणे उप­सं­हा­र­प्र­सक्तिः ; सच्चि­दा­न­न्द­त्वा­ना­मु­प­सं­हा­र­स्या­नृ­त­ज­ड­दुः­खा­त्म­त्व­प­रि­च्छि­न्न­त्वा­ना­त्म­त्व­भ्रा­न्ति­नि­वा­र­णे­नेव संय­द्वा­म­त्वा­दी­ना­मु­प­सं­हा­रस्य किंचि­द्भ्रा­न्ति­नि­व­र्त­नेन सच्चि­दा­न­न्दा­प­रि­च्छि­न्न­प्र­त्य­गा­त्म­भू­त­ब्र­ह्म­स्व­रू­प­प्र­मि­त्यु­प­यो­गि­त्वा­भा­वा­दिति भावः ॥११॥१२॥१३॥
इति षष्ठ­मा­न­न्दा­द्य­धि­क­र­णम् ॥

आध्यानाय प्रयोजनाभावात् ॥१४॥
ब्रह्म­स्व­भा­व­भू­तेति ।
सत्ता­दि­सा­मा­न्यानि घट­त्वा­दि­व­द्ध­र्मि­स्व­भा­व­भू­तानि , अर्थादिपरत्वं तु प्रति­यो­गि­सा­पे­क्षम् अस्व­भा­व­भू­त­मि­त्यर्थः । न सर्वै­र्वा­क्यै­रि­न्द्रि­या­दिभ्यः सर्वेभ्यः पुरुषस्य परत्वं शब्दवृत्त्या प्रतिपाद्यते , इन्द्रि­या­दि­भ्योऽ­र्था­दीनां क्रमेण प्रति­पा­द­न­द­र्श­नात् । न च "एकं वृणीते द्वौ वृणीते त्रीन् वृणीते" इत्यत्र त्रयाणां वरणस्य विधा­ने­ना­र्थ­सि­द्धम् एकस्य द्वयोश्च वरणमिव पुरु­ष­स्या­व्य­क्ता­त्प­र­त्व­प्र­ति­पा­द­ने­ना­र्था­दी­ना­मि­न्द्रि­या­दि­प­र­त्व­म­र्थ­सि­द्ध­म­नु­व­दितुं शक्यम् ; तथेहार्थतः सिद्ध्यसंभवात् । तस्मात्तेन तेन वाक्ये­ना­र्था­दि­प­र­त्व­मपि प्रति­पा­द­नी­य­मि­त्यत: सर्वेषां वाक्यानां पुरु­ष­प­र­त्व­प्र­ति­पा­द­न­मात्रे तात्पर्यं कल्पयितुं न युक्तमिति भावः ।
दृष्टप्रयोजने संभवतीति ।
"यद् ग्राम्याणां पशूनां पयसा जुहुयाद् ग्राम्यान् पशून् शुचाऽर्पयेत् यदा­र­ण्या­ना­मा­र­ण्यान् जर्तिलयवाग्वा वा जुहु­या­द्ग­वी­धु­क­य­वाग्वा वा न ग्राम्यान् पशून् हिनस्ति नारण्यान् अथो खल्वा­हु­र­ना­हु­तिर्वै जर्तिलाश्च गवीधुकाश्चेति पयसाग्निहोत्रं जुहो­ती"त्यत्र ग्राम्या­र­ण्य­प­शु­हिं­सा­रा­हि­त्येन प्रशस्तयोरपि जर्ति­ल­ग­वी­धु­क­य­वा­ग्वो­र्य­द­पे­क्षा­याऽ­प­क­र्ष­स्त­त्प­योऽ­त्यन्तं प्रशस्तमिति पयः­प्रा­श­स्त्य­प्र­ति­पा­द­नार्थं जर्ति­ल­ग­वी­धु­क­य­वा­ग्वो­र्वि­धि­स­रू­पा­र्थ­वादो न तु विधिः । एव­मि­न्द्रि­या­द्य­पे­क्षया उत्त­रो­त्त­रो­त्क­र्षा­व­धे­र­व्य­क्ता­दपि परः पुरुष इति पुरु­ष­प­र­त्व­प्र­ति­पा­दन एव तात्पर्यम् । इन्द्रियेभ्यः परा ह्यर्था इत्यादिस्तु तत्त­त्प­र­त्व­प्र­ति­पा­द­क­स­रू­प­स्त­च्छेषः ; पुरु­ष­प­र­त्व­प्र­मि­ति­रूपे दृष्टफलार्थत्वे संभवति उपा­स­ना­द्वा­र­का­दृ­ष्टा­र्थ­त्वा­यो­गात् । भूम­प­र­त्व­प्र­ति­पा­द­न­प­रा­या­मपि भूमविद्यायां नामा­द्यु­पा­स­ना­त­त्फ­ल­श्र­व­ण­स्ये­वा­त्रे­न्द्रि­या­द्यु­पा­स­ना­त­त्फ­ल­श्र­व­ण­स्या­भा­वे­ना­वा­न्त­र­ता­त्प­र्य­क­ल्प­ना­यो­गात् । न च स्मृत्यनुसारेण तत्कल्पनम् ; स्मृतेः सांख्य­क­ल्पि­त­त­त्व­वि­ष­य­त्वेन श्रुते­रा­नु­मा­नि­का­धि­क­रणो (ब्र. सू. अ. १ पा. ४ सू. १) क्तन्या­या­च्छ­री­रे­न्द्रि­या­दि­वि­ष­य­त्वेन च स्मृतेः श्रुत्य­नु­सा­रि­त्वा­भा­वात् । आचा­र्यै­र्व्या­ख्या­तेन प्रकारेण स्मृतेः सांख्य­क­ल्पि­ता­हं­का­रा­दि­वि­ष­य­त्वा­भा­वेऽपि श्रुति­क­ल्पि­त­र­था­श्व­प्र­ग्र­हा­दि­वि­ष­य­त्वा­दिति भावः ॥१४॥१५॥
इति सप्त­म­मा­ध्या­ना­धि­क­र­णम् ॥

आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रात् ॥१६॥
महा­भू­त­स­र्गो­प­सं­हा­रा­त्पा­द­सं­ग­ति­रिति ॥१६॥१७॥
अग्रे वक्ष्यमाणे महा­भू­त­स­र्गा­नु­प­सं­हा­र­रूपे पादार्थे अने­क­वि­ष­य­वा­क्यो­दा­ह­र­ण­पू­र्वकं विद्या­भे­द­पू­र्व­पक्षं कृत्वा विद्यै­क्य­स­म­र्थ­नेन गुणो­प­सं­हा­र­स्या­नि­रू­प­णा­त्पा­द­सं­ग­ति­र्ना­स्तीति यो मन्यते तत्परितोषार्थं वर्णकान्तरमारभत इत्यर्थः । यद्यपि निर्गुणविद्यासु गुणो­प­सं­हा­र­मात्रं विचार्यं , न तु विद्यै­क्य­मि­त्यु­क्त­मा­चार्यैः , पादारम्भे आनन्दादय (ब्र. अ. ३ पा. ३ सू. ११) इत्यधिकरणे च निर्गु­ण­वि­द्यै­क्य­म­ना­क्षि­प्यैव गुणो­प­सं­हा­र­मात्रं चिन्तितम् ; तथापि नैत­स्मि­न्न­धि­क­रणे सगु­ण­वि­द्या­धि­क­र­णे­ष्वि­वा­ने­क­वि­ष­य­वा­क्य­स्प­र्शोऽस्ति , किंतु प्रथ­मा­ध्या­या­धि­क­र­णे­ष्विव कस्य­चि­द्वि­ष­य­वा­क्य­स्या­र्थ­वि­शे­ष­नि­र्धा­र­ण­मात्रं , तत्प्रथमाध्याय एवं सङ्गतमिति यो मन्यते तत्परितोषार्थं वर्णकान्तरारम्भ इति तात्पर्यम् । विद्यै­क्य­गु­णो­प­सं­हा­राऽ­नि­रू­प­णा­दि­त्यस्य सर्वा­भे­दा­धि­क­र­णा­दि­ष्विव विद्यै­क्य­स्या­न­न्दा­धि­क­र­ण­इ­वा­ने­क­वि­ष­य­वा­क्यो­दा­ह­र­ण­पू­र्व­क­गु­णो­प­सं­हा­रस्य चानि­रू­प­णा­दि­त्यर्थः ।
भिन्ना­र्थो­प­क्र­मे­णेति ।
आत्मानात्मसु सत्ता­सा­मा­न्य­यो­गेन प्रयुज्यमानः सच्छब्दः सत्ता­सा­मा­न्य­स्यैव वाचकः ; "विशेष्यं नाभिधा गच्छेत् क्षीण­बु­द्धि­र्वि­शे­षणे" इति न्यायात् । सन् घट इत्यादिप्रयोगे तु घट­श­ब्दा­दि­सा­मा­ना­धि­क­र­ण्या­द्ध­र्मि­प­र्य­न्तता । न च सदेव सोम्येदमित्यत्र धर्मि­प­र्य­न्त­प­द­सा­मा­ना­धि­क­र­ण्य­मस्ति ; ततः सत्तो­प­क्र­मा­च्छा­न्दो­ग्य­वा­क्य­मा­त्मो­प­क्र­मा­द्वा­क्या­द्भि­न्ना­र्थ­मिति विद्याभेद इति पूर्व­प­क्ष­य­ती­त्यर्थः ।
ननु च्छान्दोग्य इति ।
अस्तिधातोः सत्तावाचिनः शतृप्रत्ययान्तः सन्शब्दः सत्ता­वि­शि­ष्ट­ध­र्मि­वाची , सत्ता त्वात्म­मा­त्र­वृत्तिः ; प्रप­ञ्च­स्या­नि­र्वा­च्य­त्वा­दि­त्या­का­श­श­ब्द­व­दे­क­व्य­क्ति­व­चन इत्यु­प­क्र­म­स्या­सं­दि­ग्धा­र्थत्वं शक्य­मु­प­पा­द­यि­तुम् । अतो यथा “वासः परिधत्त" इत्यत्र वासःशब्दस्य त्वविशेषे पर्यवसानमिति संदिग्धार्थस्य क्षौमे पर्यवसानार्थं "एतद्वै सर्वदेवत्यं वासो यत् क्षौम"मि­त्यु­प­सं­हा­रा­पेक्षा , एवमिह सच्छ­ब्द­स्या­त्मनि पर्यवसानार्थं नोप­सं­हा­रा­पे­क्षाऽ­स्तीति शङ्कार्थः ।
अभ्युपेत्यापि सच्छब्दस्य सामा­न्य­वा­चि­त्व­मिति ।
आत्माऽ­ना­त्म­सा­धा­र­ण्येन सत्ता­वि­शि­ष्ट­मा­त्र­वा­चि­त्व­मिह सामान्यवाचित्वं , न तु सत्ता­सा­मा­न्य­वा­चि­त्वम् ; आत्म­रू­प­वि­शे­ष­प­र्य­व­सा­नो­क्ति­वि­रो­धा­पत्तेः ।
श्रुतिद्वयेऽपि विध्यैक्य इति ।
ननु सकलशाखास्वपि निर्गु­ण­वि­धै­क्य­मस्ति , तस्मिन् सत्य­प्या­न­न्द­व­ल्ली­प्र­त­र्द­ना­ख्या­यि­का­क­ठ­व­ल्ली­मु­ण्ड­का­दि­षू­प­क्र­म­भेदो दृश्यते , तथे­हा­प्यु­प­प­द्यते ? कोत्र विशि­ष्यो­प­क्र­म­भे­द­फ­ल­प्रश्नः ? उच्यते ; सत्यपि सक­ल­शा­खा­म्ना­त­नि­र्गु­ण­वि­द्यैक्ये विशिष्य च्छान्दो­ग्य­वा­ज­स­ने­य­क­यो­र्नि­र्गु­ण­वि­द्यै­क्य­मु­च्य­मा­न­म­त्य­न्त­सा­दृ­श्य­वि­शे­ष­कृतं भवितुमर्हति – तथा चात्य­न्त­स­दृ­श­यो­रु­प­क्र­म­भे­दस्य किं फलमिति प्रश्नः ।
अन­यो­रौ­प­सं­हा­रि­क­प्र­त्य­ग्ब्र­ह्मै­क्य­वे­दने पर­स्प­रो­प­का­र­प्र­यु­क्त­मिह विद्यैक्यं विवक्षितं , परस्परोपकारश्च सदा­त्मो­प­क्र­म­भे­दे­नैव भवति , नान्य­थे­त्यु­प­क्र­म­भे­द­फलं न्यायसंग्रहे विव­र­णा­चा­र्यै­रुक्तं दर्शयति –
तद्यथेति ।
अयमर्थः – तत्त्वमसीत्यत्र तत्त्वम्पदयोः श्रौते सामानाधिकरण्ये वाच्यार्थयोः सर्व­ज्ञ­त्व­किं­चि­ज्ज्ञ­त्वा­दि­वि­रु­द्ध­ध­र्मा­क्रा­न्त­यो­र­भे­दा­यो­गे­ना­नु­प­पन्ने सति तत्परिहारार्थं तत्त्वं­प­द­यो­र्वि­रु­द्ध­वि­शे­ष­णां­श­त्या­गेन ब्रह्म­जी­व­स्व­रू­प­मात्रे लक्षणाऽश्रीयते , तथा लक्ष्यमाणावपि ब्रह्मजीवौ भेदेनैव प्रतीयेयातां , लक्ष्य­को­ट्य­न­नु­प्र­वि­ष्ट­स्यापि हि भेदस्य तत्त्वमिति नामभेदप्रयुक्ता प्रती­ति­र­नि­वार्या ; "अथैष ज्योति”रित्यादौ नाम­भे­द­स्या­र्थ­भे­द­प्र­त्या­य­क­तायाः क्लृप्तत्वात् । ततश्च भेद­क­प्र­ती­ता­व­प्य­घ­ट­मा­न­स्या­भे­दस्य साक्षा­द्भे­द­प्र­ती­त्याऽ­त्य­न्त­म­घ­टना स्यात् । अतो भेदकविशेषणयोरिव भेदस्यापि त्यागार्थं लक्ष­णा­न्त­र­मा­श्र­य­णी­यम् , तदपि लक्षणान्तरं तत्त्वं­प­द­यो­रे­वेति पुनरपि नामभेदत्यागाय लक्ष­णा­न्त­र­मा­श्र­य­णी­य­मि­त्य­न­वस्था भवे­त्त­त्प­रि­हा­राय लक्ष्य­मा­ण­ता­द­शा­या­मेव प्रत्य­ग्ब्र­ह्मै­क्य­ब्र­ह्म­प्र­ती­ति­द­शा­या­मेव शाब्दस्याभेदस्य प्रती­ते­र्ना­म­भे­द­न्या­य­लभ्यो भेदो नोन्मज्जति। अत­स्त­त्त्वं­प­दार्थौ जीव­ब्र­ह्म­प­र्यन्तौ लक्षणीयौ , तत्प­र्य­न्त­ल­क्षणा च लक्ष­णी­या­र्थ­प्र­सि­द्धि­म­पे­क्षते ।
तत्र छान्दोग्यवाक्यं तत्त्वमसीत्यतः प्राक्तनं तदर्थं त्वम­र्थ­प­र्य­न्त­मा­न­यति -
सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­ना­दिना ।
वाजसनेयिवाक्यं स वा एष महानज आत्मेत्यतः प्राक्तनं त्वमर्थं तद­र्थ­प­र्य­न्त­मा­न­यति “अत ऊर्ध्वं विमोक्षाय ब्रूही”ति प्रश्नो­त्त­र­ता­लि­ङ्गेन । अतः पर­स्प­रो­प­का­र­रू­प­प्र­यो­ज­नै­क्याद् विद्यैक्यमपि । यद्यपि तत्पदार्थे विशे­ष­णां­श­त्या­गाय छान्दोग्ये वाचा­र­म्भ­णा­दि­श्रु­ति­रु­प­क­रोति , त्वंपदार्थे विशे­ष­णां­श­त्या­गाय वाजसनेयके "अन­न्वा­ग­त­स्तेन भवत्यसङ्गो ह्ययं पुरुष" इत्य­स­ङ्ग­त्व­श्रु­ति­रु­प­क­रो­ती­त्ये­व­मपि परस्परोपकारो वक्तुं शक्यं ; तथापि स्पष्ट­त्वा­त्त­मंशं विहाय तत्त्वं­प­दा­र्थ­यो­र्जी­व­ब्र­ह्म­प­र्य­न्त­ता­प्र­ति­पा­द­नेन पर­स्प­रो­प­का­र­क­त्व­मु­क्तम् । एतेनेयमपि शङ्का निरस्ता । इहापि वर्णके विद्यैक्यं गुणोपसंहारो वा न निर्धार्यते , किं त्वैत­रे­य­क­वा­क्यस्य पूर्ववर्णक इव छान्दो­ग्य­वा­क्यस्य प्रति­पा­द्य­वि­शे­ष्य­मात्रं निर्धार्यते , विद्यै­क्य­चि­न्ता­प­र्य­व­सा­न­क­ल्प­नार्थं परं वाज­स­ने­यि­वा­क्य­मपि उदाहृतम् ।
इदं पूर्व­व­र्ण­केऽ­प्यु­दा­हृत्य किमै­त­रे­य­क­वा­क्य­यो­र्वि­द्या­भेद उत विद्यैक्यमिति शक्यं विचारयितुम् –
इति ।
क्वचिद्ब्रह्मणो जीवै­क्य­प्र­ति­पा­द­न­मि­त्यत्र जीवस्य ब्रह्मै­क्य­प्र­ति­पा­दनं चोप­सं­हा­रा­र्थ­मु­प­क­र्तु­र्ब्र­ह्मणो जीवपर्यन्तताया जीवस्य ब्रह्म­प­र्य­न्त­ता­या­श्चो­प­क्रमे प्रतिपादनस्य छान्दो­ग्य­वा­ज­स­ने­य­क­यो­रेव सद्भा­वा­त्पू­र्व­पक्षे सत्ता­सा­मा­न्य­वि­ष­य­तया छान्दो­ग्य­वा­ज­स­ने­य­क­यो­रिव जीव­वि­शे­ष­जी­व­सा­मा­न्य­वि­ष­य­तया ऐत­रे­य­क­वा­ज­स­ने­य­क­यो­र्वि­द्या­भे­द­स्यो­प­पा­द­यि­तु­म­श­क्य­त्वाच्च जीवविशेषे जीव­सा­मा­न्य­वि­ष­य­तया वच­ना­ना­मु­प­सं­हा­रेण विद्यै­क्यो­प­पत्तेः ॥१६॥१७॥
इत्य­ष्ट­म­मा­त्म­गृ­ही­त्य­धि­क­र­णम्॥

कार्या­ख्या­ना­द­पू­र्वम् ॥१८॥
ज्योति­ष्टो­मा­ङ्ग­त्वे­ना­र्थ­वा­निति ।
मीमां­स­कै­र्द­र्श­पू­र्ण­मा­स­यो­र्ना­नृतं वदेदिति श्रूयते , स निषेधः क्रत्वर्थ: , तेन यो दर्श­पू­र्ण­मा­सा­व­नु­ति­ष्ठन् तदु­प­यो­गि­द्र­व्य­सं­पा­द­ना­र्थि­तया पुरुषार्थं निषे­ध­मु­ल्ल­ङ्घ्याऽ­नृतं वदेत्तस्य न केवलं पुरु­षा­र्थ­नि­षे­धा­ति­ल­ङ्घ­नेन प्रत्यवायमात्रं , किंतु क्रत्व­र्थ­नि­षे­धा­ति­क्र­मेण क्रतो­र्वै­गु­ण्य­म­पीति निर्णीतं कर्त्रधिकरणे (ब्र. अ. ३ पा. ३ सू. ३३) । इह नोदा­ह­र­ण­मा­द­र­णी­य­मिति न्यायमनुसृत्य दर्श­पू­र्ण­मा­स­प­द­स्थाने ज्योतिष्टोमपदं निवेशितम् । ज्योति­ष्टो­म­प्र­क­र­णेऽपि वा “नानृतं वदेदि”ति वाक्यान्तरं दृष्ट्वा न्यायसाम्येन तन्निवेशितम् ।
आच­म­न­प­र्या­लो­च­न­येति ।
अनग्नतावादः साक्षादाचमनस्य न स्तुतिर्भवति , किं त्वाच­म­नी­या­ना­मपां वास­स्त्व­की­र्त­ना­त्त­द्वा­रे­णा­च­म­न­स्तुतौ पर्यवसानं वाच्यं , तदपि न संभ­व­त्या­च­म­न­स्या­वि­धे­य­त्वा­दि­त्यर्थः । अन­ग्न­ता­सं­क­ल्प­प­र्या­लो­च­न­येति । अनग्नतासंकल्पो विधेयः ; सर्वा­ङ्ग­दृ­ष्टि­वि­धि­सा­ह­च­र्यात् , “लम्भुको ह वासो भवत्यनग्नो भवती”ति छान्दोग्ये फला­र्थ­वा­द­श्र­व­णात् । छान्दो­ग्य­का­ण्व­शा­ख­यो­र्वा­स­स्त्व­की­र्त­न­व­दा­च­म­न­वि­धे­र­श्र­व­णेन तत्र वासस्त्वकीर्तन एव विधिपर्यवसानस्य वक्तव्यत्वाच्च । अतो विधे­ये­ना­वि­धे­यस्य स्तुति­क­ल्प­न­म­त्य­न्त­म­न्या­य्य­मि­त्यर्थः ।
प्राण­वि­द्या­ङ्ग­त्वेन यदा आचमनं विधीयत इति ।
प्राणद्वारा सर्व­क­र्म­सा­धा­र­णा­ङ्गात् स्मार्ता­च­म­ना­द­न्य­त्प्रा­ण­वि­द्या­याम् असा­धा­र­णा­ङ्ग­मा­च­म­ना­न्तरं विधे­य­म­भ्यु­प­ग­म्यते । स्मार्ता­त्स­र्व­सा­धा­र­णा­त्प्रा­णा­ग्नि­हो­त्रा­द­न्य­देव वैश्वा­न­र­वि­द्याङ्गं प्राणा­ग्नि­होत्रं , तदा नैमित्तिकेन नित्यस्य प्रस­ङ्ग­सि­द्ध­का­र्य­त­याऽऽ­वृ­त्त्य­न­पे­क्ष­णा­दे­क­मे­वा­च­म­न­मु­भ­य­का­र्या­र्थ­म­ङ्गी­क­र­णी­य­मिति कल्पनागौरवं भवेन्न सिद्धान्त इत्यर्थः ॥१८॥
इति नवमं कार्या­ख्या­ना­धि­क­र­णम् ॥

समान एवं चाभेदात्॥१९॥
ऋग्वेदे यजुर्वेदे चेति ।
सामवेदे यजुर्वेदे च ज्योतिष्टोमः श्रूयत इति पूर्व­मी­मां­स­कै­र्लि­खि­तम् , इह तूदाहरणानास्थया ऋग्वेदे इत्युक्तम् । अथवा – सामवेद एव योनि­ग्र­न्थो­त्त­रा­ग्र­न्थ­रू­प­सा­मा­धा­र­ऋ­क्सं­हि­ता­व­त्त्वा­दृ­ग्वे­द­श­ब्दे­नोक्तः ।
सिद्धान्तितं भेदलक्षण इति ।
शेषलक्षणे इति लेखनीये प्रमा­दा­ल्ले­ख­कै­र्भे­द­ल­क्षणे इति लिखितम् । तृतीयाध्याये हि वाक्यपादे भूय­स्त्वे­नो­भ­य­श्रुती (जै. सू. अ. ३ पा. ३ सू. १०) त्यधिकरणम् ।
प्रयो­ग­वि­धि­स्तत्र निर्णीत इति ।
उच्चैरृचा क्रियते उपांशु यजुषा उच्चैः साम्नेति वाक्यैः ऋग्वे­द­य­जु­र्वे­द­सा­म­वे­दै­र­नु­ष्ठा­प्यानां कर्मणां क्रमा­दु­च्चै­ष्ट्वो­पां­शु­त्वो­च्चै­ष्ट्व­रूपाः स्वरा विहिताः । यस्मिन्वेदे यस्य कर्मणः प्रयो­ग­वि­धि­स्त­त्कर्म तेन वेदे­ना­नु­ष्ठा­प्यते प्रयो­ग­वि­धि­मू­ल­त्वा­द­नु­ष्ठा­नस्य । अतो ज्योतिष्टोमस्य सामवेदे यजुर्वेदे च साधि­का­र­वि­धि­श्र­वणे सति तस्मिन् कतरस्य वेदस्य स्वरो भव­ती­त्या­का­ङ्क्षायां यजुर्वेदस्य स्वर इति निर्णे­तु­म­ङ्ग­भू­य­स्त्वेन यजुर्वेदे प्रयो­ग­वि­धि­स्त­स्मि­न्न­धि­क­रणे निर्णीत इत्यर्थः ।
प्रकृते विद्यै­क्याऽ­सि­द्धि­दू­षणं प्रत्याचष्टे –
यतोऽपीति ।
अङ्गभूयस्त्वं प्रयोगविधेरेव निर्णा­य­क­मु­त्प­त्ति­वि­धि­नि­र्ण­या­नु­प­यो­गीति दूषणमनूद्य निराकरोति –
न चाङ्ग­भू­य­स्त्व­मिति ।
अङ्ग­सा­क­ल्य­धी­सा­पेक्षं प्रयो­ग­वि­धि­क­ल्पनं यत्रा­ङ्गा­बा­हुल्यं तत्रा­ङ्ग­सा­क­ल्य­धी­र्भ­वति , न तु यत्रा­ज्ञा­ना­म­ल्पी­यस्त्वं तत्रापि । न हि महति तरुषण्डे कतिपयतरुहानेपि वनबुद्धिवत् पञ्च­ष­ट्त­रु­वृन्दे वनबुद्धिर्भवति। अतोऽ­ङ्ग­भू­यस्त्वं प्रयोगविधेरेव नियामकं नोत्प­त्ति­वि­धे­रिति प्रकृ­ता­नु­प­यो­ग­वा­द्य­भि­प्रायः ।
प्रयो­गाऽ­वि­ना­भू­त­त्वे­नेति ।
प्रयो­ग­वि­धि­व्या­प्यस्य प्रयो­ग­वि­धि­स­म­व्या­प्त­मु­त्प­त्ति­विधिं प्रत्यपि व्याप्य­त्व­म­स्तीति भावः ॥१९॥
इति दशमं समानाधिकरणम् ॥

संब­न्धा­दे­व­म­न्य­त्रापि ॥२०॥ विषयशुद्ध्यर्थं विद्यो­प­क्र­म­श्रु­ति­मु­दा­हृत्य विवृणोति –
आप इति ।
आपोऽत्र पञ्चा­ग्नि­वि­द्या­या­मापः पुरुषवचसो भव­न्ती­त्य­त्रे­हा­मुत्र च संचरतां जीवानामिव प्रथमजीवस्य हिरण्यगर्भस्य शरीरारम्भार्थं भूतान्तरसहिता आप उच्यन्ते । सूक्ष्मा­व­स्थास्ता एव इदं सर्वं व्याकृतं समस्तं जग­द्धि­र­ण्य­ग­र्भ­श­री­र­रू­पम् अग्रे नाम­रू­प­व्या­क­र­णा­त्प्राक् आसुः नान्य­द्वि­का­र­जा­त­मा­सी­दि­त्यर्थः । तावे­ता­वा­दि­त्या­क्षि­पु­रु­षा­व­न्यो­न्य­स्मि­न्ना­दि­त्य­पु­रु­षोऽ­क्षि­पु­रु­षेऽ­क्षि­पु­रु­ष­श्चा­दि­त्य­पु­रुषे परस्परोपकारं कुर्वन्तौ प्रतिष्ठितौ । एष आदित्यपुरुषः अस्मि­न्न­क्षि­पु­रुषे रश्मिभिः प्रका­श­दा­ने­ना­नु­ग्रहं कुर्व­न्प्र­ति­ष्ठितः । अक्षिपुरुषः अमु­ष्मि­न्ना­दि­त्य­पु­रुषे प्राणैरनुग्रहं कुर्वन् प्रतिष्ठितः । प्राणै­रा­दि­त्य­पु­रु­ष­स्या­नु­ग्र­ह­स्तस्य प्राण­सू­क्ष्म­रू­प­त्वा­त्त­थात्वं च तस्य पुरु­ष­वि­द्या­धि­क­रणे अक्षि­त­म­सी­त्या­दि­म­न्त्र­त्र­य­व्या­ख्या­नेन स्पष्टीकरिष्यते ॥२०॥२१॥२२॥
इत्येकादशं संबन्धाधिकरणम् ॥

संभृ­ति­द्यु­व्या­प्त्यपि चातः ॥२३॥ नन्वा­धि­दै­वि­क­वि­भू­ति­ब्र­ह्म­प्र­त्य­भि­ज्ञा­न­मा­त्र­म­न्य­त्रा­म्ना­त­गु­णा­ना­मु­प­सं­हारे न हेतुः ; वैश्वा­न­र­षो­ड­श­क­ला­दि­वि­द्या­म्ना­त­गु­णा­ना­मपि पर­स्प­रो­प­सं­हा­र­प्र­स­ङ्गा­दि­त्या­शङ्क्य तदु­भ­य­प्र­त्य­भि­ज्ञा­न­मा­त्र­मिह नोप­सं­हा­र­हे­तु­त्वेन विवक्षितं , किंतु विध्यश्रवणेन खिल­ग्र­न्थ­प­ठि­त­त्वेन चोपष्टब्धं तदित्याह –
यद्यपीत्यादिना ॥२३॥
इति द्वादशं संभृत्यधिकरणम् ॥

पुरु­ष­वि­द्या­या­मिव चेत­रे­षा­म­ना­म्ना­नात् ॥२४॥ पुरुषो वाव यज्ञ इत्या­दि­ख­ण्ड­द्वये विष­य­वि­वे­का­र्थ­म­पे­क्षि­तानि तत्र तत्र स्थितानि वाक्यानि संकलय्य दर्शयति –
पुरुषो वावेति ।
ता अस्य दीक्षेति श्रुतिपाठः , साऽस्य दीक्षेति दीक्षा­श­ब्द­सा­मा­ना­धि­क­र­ण्ये­ना­र्था­नु­सा­रा­दे­क­व­च­नेन पठितम् । यद्धसति जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेतीति श्रुति­र­र्थ­तोऽ­नू­दिता । शब्द­व­त्त्व­सा­मा­न्या­दिति संपत्तिहेतुभूतं साम्यं श्रुतिविवक्षितं स्वयं विवृतम् । तं चेदेतस्मिन्वयसि किंचिदुपतपेदिति श्रुतिपाठः । किंचि­दि­त्ये­त­द्व्या­ख्या­नार्थं – व्याध्या­दी­त्यु­क्तम् । अक्षि­त­म­सी­त्या­दि­त­न्म­न्त्र­त्रये पुरुषयज्ञे सवनदेवतात्वेन प्रस्तुतानां प्राणानां सूक्ष्म­रू­प­मा­धि­दै­वि­क­मा­दि­त्या­त्म­क­म­क्षि­त­मि­त्या­दि­श­ब्दै­रु­च्यते । अक्षि­त­म­क्षी­ण­म­क्षतं वा अच्युतं स्वस्व­रू­पा­द­प्र­च्युतं प्राणसंज्ञितं प्राणरूपं च सूक्ष्म­त­त्त्वा­त्स­म्यक् तनूकृतं च प्राण­सू­क्ष्म­रूपं सावित्रं तत्त्व­मि­त्ये­त­त्त­त्रैते ऋचौ भवतः , आदित्प्रत्नस्य रेतस उद्वयं तम­स­स्प­री­त्या­दिना सावि­त्र­म­न्त्र­द्व­यस्य यजु­स्त्र­य­प्र­ति­पा­दि­ता­र्थ­प्र­ति­पा­द­क­त्वे­ना­व­त­र­णा­त्स्प­ष्टम् । ननु छान्दो­ग्य­बृ­ह­दा­र­ण्य­क­ग­तो­द्गी­थ­वि­द्य­यो­र्ब­हु­त­र­प्र­त्य­भि­ज्ञाने सत्य­प्य­ल्प­वै­रू­प्य­मा­त्रेण भेदोऽन्यथात्वं शब्दा­दि­त्य­धि­क­रणे (जै. अ. ३ पा. ३ सू. ६) व्युत्पादितः , कथमिह छान्दो­ग्य­तै­त्ति­री­य­का­म्ना­त­पु­रु­ष­वि­द्य­यो­र्ब­हु­त­र­वै­रूप्ये जाग्रति मर­णा­व­भृ­थ­त्व­सा­म्य­मा­त्रे­णा­भेदः शङ्क्यते ? उच्यते ; उद्गी­थ­वि­द्य­यो­र्ब­हु­त­र­प्र­त्य­भि­ज्ञाने सत्य­प्यु­प­क्र­म­भे­दा­त्प्र­धा­नो­पा­स्य­भे­दाच्च भेद उक्तः , इह तु छान्दोग्ये यत्पुरुषस्य यज्ञत्वं प्रधा­न­मु­पा­स्य­मु­प­क्रान्तं तदेव तैत्तिरीयकेऽपि ; विदुषो यज्ञस्येति सामा­ना­धि­क­र­ण्या­द्वि­द्व­त्सं­ब­न्धिनः कस्यचिद्यज्ञस्य तत्रा­सं­पा­दि­त­त्वाच्च । यज्ञावयवा एव हि तत्र संपादिताः । अतः प्रधा­न­सा­रू­प्या­द­व­य­वा­सा­रू­प्य­म­ष्टा­क­पा­ल­त्व­द्वा­द­श­क­पा­ल­त्वा­दि­व­द्वि­क­ल्प­यि­ष्यते । एकमपि प्रधानमेव ह्यनुरोध्यं न बहवोऽपि गुणाः । अत एव यूप­प्र­कृ­ति­र्मुख्यः खादिरो यदा तनुत्वेन तक्ष­णा­दि­सं­स्का­रा­योग्यो लब्धः , कदरस्तु स्थूल­स्त­द्योग्यो लब्धः , तदा बहूनां संस्का­र­शा­स्त्रा­णा­म­नु­ग्र­हाय कदरो ग्राह्य इति पूर्वपक्षे – एकस्यापि मुख्य­स्या­नु­ग्र­हाय खादिर एव ग्राह्यः ; असंभवतां संस्काराणामस्तु लोप इति सिद्धान्तितं षष्ठे इत्य­धि­का­श­ङ्क­याऽत्र पूर्वपक्षे (इत्थमधिकाशङ्का इह त्वसा­धा­र­ण­गु­ण­प्र­त्य­भि­ज्ञा­ना­द्वि­द्यै­क्य­मिति पूर्व­प­क्ष­य­ती­त्य­व­ता­रि­कया पुरु­ष­य­ज्ञ­त्व­मु­भ­य­त्रा­प्य­वि­शि­ष्ट­मिति टीकाग्रन्थेन च दर्शिता ।) भाष्या­द्यु­क्त­प्र­का­रेण विदुषो यज्ञस्येत्यत्र वैय­धि­क­र­ण्य­क­ल्प­नाद् वक्ष्य­मा­णा­मा­त्मा­दिषु यज­मा­ना­दि­क­ल्प­ना­मा­लोच्य तदर्थसमूहस्य यज्ञत्वेन प्रकरणलब्धेन विद्व­त्सं­ब­न्धि­त्वेन चानुवादसंभवाच्च अत्रा­प्यु­प­क्रा­न्त­प्र­धा­न­भेद एवास्तीति सिद्धान्तः ॥२४॥
इति त्रयोदशं पुरु­ष­वि­द्या­धि­क­र­णम् ॥

वेधाद्यर्थ भेदात् ॥२५॥
सन्नि­धि­ल­क्ष­ण­मिति ।
यद्य­पी­ति­क­र्त­व्य­ता­का­ङ्क्षा­ल­क्षणं चतुर्थं , सन्निधिस्तु स्थान­प्र­मा­णा­वा­न्त­र­भे­द­रूपं पञ्चमं प्रमाणम् ; तथापि मीमांसकैः स्थान­प्र­मा­ण­वि­शे­ष­रू­पोऽपि सन्निधिस्तत्र तत्र प्रकरणशब्देनापि व्यवह्रियते । गोदोहनस्य प्रक­र­णा­त्प्र­ण­य­न­रू­पा­श्र­य­लाभ इत्यादिस्थलेषु । तद्व्य­व­हा­र­म­नु­रु­ध्याऽत्र सन्निधावपि प्रक­र­ण­त्वो­क्ति­रि­ति­क­र्त­व्य­ता­काङ्क्षा पारिभाषिकं प्रकरणं सन्नि­धि­लौ­कि­क­प्र­क­र­ण­मिति विशेषः । काम्येष्टीनाम् इत्या­दे­र्वि­शे­ष­सं­बन्धो दृष्ट इत्य­न्त­स्या­य­मर्थः – काम्ये­ष्टि­काण्डे प्रथ­म­मि­न्द्रा­ग्नि­दे­वत्यं काम्येष्टिद्वयं ततो वैश्वानरदेवत्यं काम्ये­ष्टि­द्व­य­मि­त्ये­वं­प्र­का­रेण काम्येष्टयः पठिताः । काम्य­या­ज्या­नु­वा­क्या­काण्डे प्रथ­म­मि­न्द्रा­ग्नि­दे­वत्यं याज्या­नु­वा­क्या­यु­ग­ल­द्वयं ततो वैश्वा­न­र­दे­व­त्य­मि­त्ये­वं­क्र­मेण याज्या­नु­वा­क्या­मन्त्राः समाम्नाताः । तत्र काम्ये­ष्टि­का­ण्डस्य याज्या­नु­वा­क्या­का­ण्डस्य च समाख्यायाः संज्ञाया एक­त्वा­त्सा­मा­न्यतः संबन्धः सिद्ध्यति , एता­सा­मि­ष्टी­ना­मेते याज्या­नु­वा­क्या­मन्त्रा इति , विशेषस्तु संबन्धः प्रथमाया इष्टेः प्रथमं याज्या­नु­वा­क्या­यु­गलं द्वितीयाया द्विती­य­मि­त्ये­वं­रूपः सन्निधिवशादिति॥ अत्रे­ष्टि­का­ण्डस्य मन्त्रकाण्डस्य च संज्ञै­क्ये­ने­ष्टीनां मन्त्राणां च संबन्धो मीमां­स­कै­र्नोक्तः किंतु मन्त्र­का­ण्ड­स्यैव काम्य­या­ज्या­नु­वा­क्या­का­ण्ड­मिति संज्ञया । आचार्यैस्तु न्याय­सं­ग्र­होक्तं समा­ख्या­ल­क्ष­ण­म­नु­रुध्य संज्ञै­क्य­मु­क्तम् । न्यायसंग्रहे हि समाख्या यौगिकी संज्ञेति मीमां­स­को­क्त­प्र­कारं विहाय प्रका­रा­न्त­र­मा­श्रि­तम् । प्रवे­श­द्व­या­म्ना­तयोः संबन्धनिमित्तं संज्ञैक्यं समाख्या , यथाऽ­ति­मु­क्ति­हो­मा­ना­म­ग्नि­र्यज्ञं नयतु प्रजा­न­न्नि­त्या­दि­म­न्त्राणां च संब­न्ध­नि­मि­त्त­मा­ध्व­र्य­व­सं­ज्ञै­क्य­मिति। अत्रा­पी­ष्टि­म­न्त्र­का­ण्डयोः काम्ये­ष्टि­का­ण्ड­मि­त्ये­व­मा­दि­रू­पैका संज्ञा­स्ती­त्या­चा­र्या­णा­म­भि­प्रायः । इह सन्नि­धि­व­शा­द्वि­शे­ष­सं­ब­न्ध­लाभ इति यदुक्तं , तत्राप्यस्ति मीमांसकानां विमतिः ।
ते खल्वित्थमाहुः –
द्विवि­ध­स्ता­व­दा­म्ना­न­सा­दे­श्य­रूपः क्रमः यथासंख्याम्नानं सन्निध्याम्नानं चेति ।
तत्रा­द्ये­नो­दा­हृ­ता­ना­मि­ष्टि­म­न्त्राणां संबन्धः , न तु सन्निधिना ; भिन्न­प्र­दे­शा­म्ना­तानां तेषां पर­स्प­र­स­न्नि­ध्य­भा­वात् , सन्निधिना तु ’शुन्धध्वं दैव्यायेति’ मन्त्रस्य सान्ना­य्य­पा­त्र­शु­न्धने विनियोग इत्यतोऽत्र सन्निधिशब्दः सादेश्यमात्रे यथा­सं­ख्य­रू­प­वि­शे­ष­प­र्य­व­सायी व्याख्येयः । ननु प्रकृते मन्त्रकर्मणां विद्या­स­न्नि­ध्या­म्ना­न­म­स्त्यतो दार्ष्टा­न्ति­क­सा­रू­प्या­या­न्यतो लब्ध­सा­मा­न्य­सं­ब­न्धानां विशे­ष­सं­ब­न्ध­मात्रे सन्निधिः प्रभवति , यथा प्रक­र­णा­पा­दि­त­क्र­त्व­पू­र्व­सं­ब­न्धानां शुन्ध­न­म­न्त्रा­दीनां सान्ना­य्य­पा­त्रा­दि­सं­बन्धे । न च इह सामा­न्य­सं­ब­न्धा­पा­दकं प्रकरणमस्त्यतः सन्निधिरत्र न प्रभ­व­ती­त्यु­दा­ह­र्त­व्यम् । सत्य­मि­त्थ­मु­दा­ह­रणं न हि यथा दर्श­पू­र्ण­मा­सा­वा­र­भ्ये­त्या­दि­टी­का­ग्र­न्थेन प्रकृते प्रकरणाभावं प्रद­र्श­य­ताऽ­व­गन्तुं शक्यमिति तद्विहाय प्रकरणान्तरेण दार्ष्टा­न्ति­क­सा­रू­प्या­र्थ­मा­चा­र्यै­र्य­था­सं­ख्यो­दा­ह­रणं कृतम् । दार्ष्टान्तिके हि तदु­प­नि­ष­दा­म्ना­ता­भि­र्ब­ह्वी­भि­र्वि­द्या­भि­र्म­न्त्र­क­र्मणां सामा­न्य­सं­ब­न्धा­पा­दकं किंचिन्नास्तीति प्रति­पि­पा­द­यि­षि­तम् । तत्र यथा काम्य­या­ज्या­नु­वा­क्यानां बह्वी­भि­रि­ष्टिभिः सामा­न्य­स­ब­न्धा­पा­दकं समा­ख्यै­क्य­म­स्तीति व्यति­रे­क­दृ­ष्टा­न्तो­दा­ह­र­णम् ।
अङ्ग­प्र­धा­न­यो­रि­त्या­दि­पू­र्व­प­क्षो­प­पा­द­क­ग्र­न्थ­स्या­य­मा­शयः –
यथा सांग्र­ह­ण्या­दि­वि­कृ­तीनां क्लृप्तो­प­का­र­प्रा­कृ­ता­ङ्ग­सं­ब­न्धेन प्रथमभाविना नैरा­का­ङ्क्ष्येऽ­प्या­म­न­हो­मा­दीनां प्रधा­ना­न्व­य­सा­का­ङ्क्षाणां सन्नि­धा­न­त­स्ता­सा­मा­का­ङ्क्षो­त्था­प­ना­द­भि­व्य­क्तेन प्रकरणेन सामा­न्य­सं­व­न्ध­सिद्धौ सन्नि­धा­ना­दा­म­न­हो­मा­दीनां यथा­सा­म­र्थ्य­मा­रा­दु­प­का­र­क­त्वा­दि­ना­न्व­य­स्त­थे­हा­पीति ।
भाष्य­ग­त­स्या­सा­वि­त्यस्य व्याख्यानं –
सन्निधिरिति ।
अकस्मादित्यस्य व्याख्यानं –
विना विषयेणेति ।
विना फलेनेत्यर्थः । अर्थवत्त्वे संभवतीति ह्युपक्रान्तम् । आश्रयितुम् अङ्गीकर्तुम् ।
न युक्त इति ।
न हीत्यत्रत्यस्य न युक्त इत्यत्रान्वयो दर्शितः । अनेन सन्निधेः साफल्यसंभवे निष्फ­लोऽ­सा­व­ङ्गी­कर्तुं न युक्त इति भाष्यार्थ उक्तो भवति।
ननु तद­र्थ­शा­स्त्रा­दि­हे­तु­भि­र्म­न्त्रा­णा­म­र्थ­वि­वक्षा नास्तीति पूर्वपक्षे प्राप्ते अविशिष्टस्तु वाक्यार्थ (जै. अ. १ पा. २ सू. ४०) इति सूत्रे लोके इव मन्त्रेष्वपि वाक्या­र्थ­वि­व­क्षा­स्ती­त्ये­ता­व­न्मा­त्र­मु­च्यते , न तु तेषां प्रयो­ग­स­म­वे­ता­र्थ­प्र­का­श­ने­नो­प­योगः , अतः प्रयो­ग­स­म­वे­ता­र्थे­त्या­दि­टी­काऽ­नु­प­प­न्ने­त्या­शङ्क्य तात्पर्यगत्या तावत्पर्यन्तः सूत्रार्थ इति व्याचष्टे –
लोकवेदयोरिति ।
तत्स­र्वा­र्थ­म­वि­शे­षा­दिति ।
अनारभ्य विधानानां प्रकृ­ति­गा­मि­त्व­मिति निर्णयार्थस्य पर्ण­म­य्य­धि­क­र­णस्य षष्ठपादादिमस्य पूर्वपक्षसूत्रं सर्वा­र्थ­म­प्र­क­रणा ( जै. अ. ३ पा. ६ सू. १) दित्येवंरूपं , तदिहार्थतः पठितम् । तत्स­र्वा­र्थ­म­वि­शे­षा­दि­त्ये­वं­रूपं तु शेषलक्षणे तृतीयपादे पौष्ण­पे­ष­णा­धि­क­र­णस्य पूर्व­प­क्ष­सू­त्रम् ।
न प्रव­र्ग्य­सं­ब­न्ध­वि­शे­ष­हे­तु­त्व­मिति ज्ञापनार्थ इति ।
यद्यपि प्रवर्ग्यस्य ज्योति­ष्टो­म­सं­ब­न्ध­रूपे संबन्धविशेषे हेतु­त्व­मु­प­स­दा­मस्ति , उपसदुपस्थापिते एव ज्योतिष्टोमे प्रव­र्ग्य­सं­ब­न्धस्य बोधनीयत्वात् ; तथापि न तद­भा­व­ज्ञा­प­ना­र्थ­त्व­मि­हो­प­सदा सहेत्यस्योक्तं , किंतु प्रव­र्ग्यो­प­स­दो­र­ङ्गा­ङ्गि­भा­व­रू­प­सं­ब­न्ध­वि­शे­षा­भा­व­ज्ञा­प­ना­र्थ­त्वम् । तेन – पुर­स्ता­दु­प­स­दा­मि­त्या­दि­वाक्यं प्रव­र्ग्य­स्यो­प­स­दु­प­स्था­पि­त­क्र­त्व­ङ्ग­त्व­बो­धकं मा भूत् , उप­स­द­ङ्ग­त्व­बो­ध­क­मस्तु, राज­न्य­वा­सि­ष्ठानां नाराशंसो द्वितीयः प्रयाज इत्य­त्रे­वो­प­स­दा­मि­त्यत्र षष्ठ्याः शेषि­वि­ष­य­त्वो­प­प­त्ते­रिति शङ्का , पुर­स्ता­च्छ­ब्द­स­त्त्वा­द्दि­ग्यो­ग­ल­क्षणे षष्ठीयं न शेषिविषया , न च प्राप्तानुवादेन पूर्वकालत्वे विधी­य­मा­नेऽ­ङ्गा­ङ्गि­भा­वोऽपि विधातुं शक्यते , वाक्य­भे­द­प्र­स­ङ्गा­दिति परिहारसूचनेन – व्यावर्तिता । एवमेव चतुर्थाध्याये "पुर­स्ता­दु­प­सदां सौम्येन प्रच­रन्ती"ति राज­सू­या­न्त­र्ग­त­वाक्ये सौम्य­च­रू­प­स­दो­र­ङ्गा­ङ्गि­भावो विधीयत इति पूर्वपक्षो निरस्तः ।
इतरपदानामपि सम­वे­ता­र्थ­त्व­मिति ।
यद्यपि निर्वापमन्त्रे सवि­त्रा­दि­प­दा­न्य­स­म­वे­ता­र्था­न्येव ; असमवेतानामपि सम­वे­त­वि­शे­ष­ण­त­याऽ­भि­धा­न­म­दृ­ष्टा­र्थम् , अत एव तेषां प्रकृतिष्वनूह इति नवमाध्याये निर्णीतम् ; तथापि तद्वि­शि­ष्टा­ग्न्य­र्थ­नि­र्वा­प­रू­प­स­म­वे­ता­र्थ­प­र्य­व­सा­ना­भि­प्रा­येण सम­वे­ता­र्थ­त्व­मु­क्तम् ।
तदिह सन्निधिरिति ।
यदि सन्नि­धि­र्वा­क्य­ग­म्य­मर्थं प्रत्याख्यातुं प्रवर्तेत , तर्ह्येव बलवता वाक्येन सन्नि­धि­र्बा­ध्येत , न त्वेव­म­स्ती­त्यर्थः ।
ननु विरोधाभावेन प्रबलदुर्बल प्रमा­ण­ल­भ्य­वि­नि­यो­ग­द्व­या­भ्यु­प­गमे बला­ब­ला­धि­क­र­ण­वि­रोधः स्यात् , श्रुत्यादिभिः क्वचन विनियुक्तानां विरोधाभावेन लिङ्गा­दि­भि­र­न्य­त्रापि विनि­यो­गो­प­प­त्ते­रि­त्या­श­ङ्क्याह –
तदनेनेति ।
तत्रा­प्ये­व­मे­वा­स्त्विति पूर्वपक्ष्याशय इति भावः ।
क्त्वः समा­न­क­र्तृ­त्व­म­व­ग­म्यत इत्यत्र क्त्व इत्यस्यार्थमाह –
क्त्वाप्र­त्य­य­स्येति ।
क्त्वाप्र­त्य­या­दिति व्याख्यातव्यं , षष्ठ्य­न्त­पा­ठस्तु लेखकप्रमादागतः ।
"धातु­सं­बन्धे प्रत्यया" इति सूत्रा­द्धा­तु­सं­बन्ध इत्य­स्या­नु­वृ­त्त्याऽ­नु­वृ­त्तस्य द्वयो­र्धा­त्व­र्थ­यो­र्गु­ण­प्र­धा­न­भा­वेन संबन्धोऽर्थ इत्येतदुपपादयति –
धातुसंबन्ध इत्युक्त इत्यादिना ।
धातो­रि­त्ये­क­त्वा­धि­का­रा­दिति हेतुः धातु­द्व­या­त्प्र­त्य­य­वि­ध्य­नु­प­पत्तौ , धातुद्वयापत्तौ त्वेकस्य धातोः स्वेनैव संबन्धायोगो हेतुः ।
समा­न­क­र्तृ­क­त्वा­दे­क­प्र­यो­ग­ता­मिति ।
यद्यपि शरदि वाजपेयानन्तरं बृहस्पतिसवस्य कालः वसन्ते कर्तव्य इति चतुर्थएव निर्णीतत्वाद् बृहस्पतिसवस्य तद्व्य­ति­रि­क्त­स­क­ला­ङ्ग­स­हि­त­वा­ज­पे­य­प्र­यो­गात् पृथक् प्रयोगोऽस्ति ; तथापि स्वारा­ज्य­फ­ला­र्थि­रा­ज­सू­य­क­र्त्रै­क्य­प्र­युक्तं महा­प्र­यो­गै­क्य­म­स्ती­त्या­शयः ।
प्रयोगो भिद्येतेति ।
महा­प्र­यो­गै­क्य­मपि न भवेदित्यर्थः । न चैकमेव वाक्यं दूरस्थं कर्म सन्निधापयति अन्याङ्गत्वेन च विधत्त इति युज्यत इति। सन्निधिना विपरिवृत्तौ सत्यां वाक्यं विधिमात्रपरं दृष्टम् । यथाऽ­ग्नि­हो­त्र­वि­धि­स­न्निधौ श्रूयमाणं दध्ना जुहोतीति वाक्यम् । यत्र न सन्नि­धि­स्त­त्रै­केन वाक्येन विपरिवृत्तौ कृतायाम् अन्यद्वाक्य विधिपरं दृष्टम् , यथा गवा­म­य­ना­दि­ग­तै­र्ज्यो­ति­र्गौ­रा­यु­रि­त्या­द्य­हः­क्लृ­प्ति­व­च­नै­र्ज्यो­ति­रा­द्य­भि­धा­ना­ना­मे­का­ह­क्र­तु­रू­पाणां सोमयागानां विपरिवृत्तौ कृतायां “यं कामं कामयते तमे­ते­ना­प्नोती”ति वचनान्तरेण तत्रैकदेशतया फले विधानम् ।
एवमेव प्रक­र­णा­न्त­रा­धि­क­रणे वार्ति­क­कृ­तै­त­द्व­च­न­मु­दा­हृ­त्यो­क्तम् –
'एकेन वचनेन पर्यु­प­स्था­प्या­प­रेण फले विधीयन्ते' इति ।
न चेह तथा वाक्यद्वयमस्ति। न च – एतद्वाक्यं प्रसिद्धं बृह­स्प­ति­स­व­प्र­त्य­भि­ज्ञा­प­ना­र्थ­मे­वास्तु प्रत्य­भि­ज्ञा­प­ना­वै­य­र्थ्याय तस्याङ्गत्वेन विधिः कल्प्यतामिति – वाच्यम् ; क्त्वाप्र­त्य­य­श्र­व­णा­द­त्रैव वाक्ये वाजपेयोत्तरकाले बृह­स्प­ति­स­व­वि­धे­र­प्य­ङ्गी­क­र्त­व्य­त्वात् । तस्मा­त्प्र­त्य­भि­ज्ञा­प­ना­भि­धा­न­रू­प­व्या­पा­र­द्व­या­वेशे वाक्य­भे­द­प्र­स­ङ्गा­द्वि­धा­ना­व­श्यं­भा­वेन प्रत्य­भि­ज्ञा­न­वि­रहे सति कर्मा­न्त­र­वि­धा­न­मेव प्राप्नो­ती­त्यर्थः ।
मतद्वयेपि संमतमिति ।
मत­द्व­य­मा­चा­र्य­मतं गुरुमतं च । सत्य­म­भ्यु­पे­त्य­वाद इति॥
ननु –
किमर्थं समाधीयते ? मीमांसकानां मुद्राभङ्ग इह चिकीर्षित एव कृत इति किमिति नोच्यते ? विधानं प्रत्यभिज्ञानं चैकस्मिन् वाक्ये न संभवतीति मीमांसकमुद्रा हि निरालम्बना ; प्रत्यभिज्ञानं पदकृत्यं विधानं वाक्य­कृ­त्य­मि­त्ये­क­स्मिन् वाक्ये तदु­भ­य­स­मा­वे­श­सं­भ­वात् , अन्यथा "आज्यभागौ यज­ती"त्यत्र का गति: ? न हि तत्रा­ज्य­भा­गा­ना­म­व्य­ति­रे­केण प्रसि­द्धा­ज्य­भा­गयोः प्रत्य­भि­ज्ञा­प­क­मस्ति ।
न च चोदकः प्रत्यभिज्ञापकः । चोद­क­लो­पा­ङ्गी­का­रान्न वा तत्र विधा­य­क­म­न्य­दस्ति। न च प्रत्य­भि­ज्ञा­प­ना­वै­य­र्थ्याय विधिः कल्प­नी­योऽ­स्त्विति शङ्कितुं शक्यम् ; क्लृप्तो­प­का­र­प्रा­कृ­ता­ङ्ग­वि­ष­य­प्र­त्य­क्ष­वि­धिना नैराकाङ्क्ष्येण हि तत्र चोदकलोप इष्यते , आज्यभागयोरिति चेद्विधिः कल्पनीयः । चोदक एव किमिति न कल्प्येत ? तथात्वे हीति­क­र्त­व्य­ता­काङ्क्षा प्रकामं परिपूर्णा भवेत् । आज्यभागौ यजतीत्येतच्च "यदा­ग्ने­यो­ष्टा­क­पा­लोऽ­मा­वा­स्यायां भव­ती­ति"व­द­नु­वा­द­मात्रं स्यात् । तस्मा­दा"ज्य­भागौ यज­ती­त्य"त्रैव विधानं प्रत्यभिज्ञानं चेत्य­भ्यु­प­ग­न्त­व्यम् । एवमेवोक्तं भाष्यादिष्वपि । एवं तर्हि मासा­ग्नि­हो­त्र­मपि नित्या­ग्नि­हो­त्रान्न भिद्येत ; नित्या­ग्नि­हो­त्र­स्यैव नाम्ना प्रत्य­भि­ज्ञा­पि­तस्य तत्रापि विधानसंभवादिति चेद , अस्तु का हानिः ? संप्रतिपन्नं हि नित्या­ग्नि­हो­त्रस्य प्रक­र­णा­न्त­रेऽ­प्य­ग्नि­हो­त्र­नाम्ना प्रत्यभिज्ञानम् । यथा शतपथब्राह्मणे दर्श­पू­र्ण­मा­स­प्र­क­रणे चातुर्मास्येषु गृहमेधीयप्रकरणे च स यवाग्वैतां रात्रि­म­ग्नि­होत्रं जुहोतीति अश्वमेधप्रकरणे च वाग्यतस्यैतां रात्रि­म­ग्नि­होत्रं जुहोतीति। एतेन – धातुना पूर्वापरीभूततया प्रतीतस्य नाम्ना प्रत्यभिज्ञानं न संभवतीत्यपि शङ्का – निरस्ता । कथं च धात्व­र्थो­प­स्था­प­क­त्वा­भा­वा­त्त­न्ना­म­त्व­म­ग्नि­हो­त्र­श­ब्दस्य भवेत् ? ननु – विहितस्य नित्या­ग्नि­हो­त्रस्य पुन­र्वि­धा­ना­यो­गेन विधि­यो­ग्य­क­र्मा­न्त­र­प­र­त्वा­व­श्यं­भा­वेन तत्परतन्त्रं नामापि कर्मान्तरपरं स्यादिति चेद , न ; स्वातन्त्र्येण विहितस्यापि नित्या­ग्नि­हो­त्रस्य सत्रा­ङ्ग­त्व­सि­द्धये पुन­र्वि­धा­न­सं­भ­वे­ना­ख्या­तस्य भेदौदासीन्ये सति कांस्य­भो­जि­न्या­या­दा­ख्याते – नैव नाम्नोऽ­नु­व­र्त­नी­य­त्वा­न्ना­म्नोऽ­प्र­सि­द्धा­र्थ­ता­या­मा­ख्या­त­पा­र­त­न्त्र्येऽपि प्रसि­द्धा­र्थ­ता­या­मा­ख्या­त­स्यैव नाम­पा­र­त­न्त्र्याच्च । न चैवं सति प्रक­र­णा­न्त­रा­धि­क­र­ण­वि­रोधः ; तस्य धात्व­र्था­भे­देऽ­प्य­ध्या­या­र्थ­भूतो भावनाभेदः स्वत­न्त्र­प­र­त­न्त्र­वि­ध्या­य­त्तोऽ­स्ती­त्ये­त­त्प­र­त्वात् । उक्तं च वार्तिककृता तस्मिन्नधिकरणे – नाम्ना धात्वर्थमात्रं च सन्निधाप्येत शक्तितः । भावना त्वनु­प­स्था­ना­द्भि­द्य­माना न वार्यते॥ इति । ननु – तथापि उक्तं क्रियाभिधानं तच्छ्रु­ता­व­न्यत्र विधिप्रदेशः स्या (जै. अ. ७ पा. ३ सू. १) दिति सप्तमाधिकरणेन मासाग्निहोत्रे नित्या­ग्नि­हो­त्र­ध­र्माणां नाम्नाऽतिदेशं प्रतिपादयता विरोधः स्यादिति – चेत् , न ; तस्य नित्या­ग्नि­हो­त्र­प्र­क­रण इव मासा­ग्नि­हो­त्र­स्थ­लेऽपि देव­ता­वि­धा­न­कृ­ताऽ­ग्नि­हो­त्र­नाम्नः प्रवृ­त्ति­नि­मि­त्ता­भि­व्य­क्ति­र्ना­स्ती­त्य­स्फु­ट­श­क्ति­क­त्वा­भि­प्रा­य­त्वात् , प्रत्य­क्षा­द्गु­ण­सं­यो­गा­त्क्रि­या­भि­धानं स्यात्त­द­भा­वेऽ­प्र­सिद्धं स्या (जै. अ. ३ पा. ३ सू. ४ ) दिति तदधिकरणसूत्रेण तथा तद­भि­प्रा­य­स्फु­टी­क­र­णात् । तस्मा­त्स्व­त­न्त्र­बृ­ह­स्प­ति­स­व­स्यैव वाजपेयाङ्गतायां न कश्चिद्विरोध इत्येवं सैद्धान्तिकः पक्षोऽ­भ्यु­प­गन्तुं युक्तः । अत एव विवरणाचार्यैरपि पुरुषार्थस्य सौत्रा­म­णि­बृ­ह­स्प­ति­स­वा­दे­र­ग्नि­च­य­न­वा­ज­पे­या­दि­प्र­क­र­णा­न्त­रेषु तत्त­त्क­र्मा­ङ्ग­तया विधानं सिद्धवत्कृत्य व्यवहृतम् । तस्मा­द­भ्यु­पे­त्य­वाद इति न वक्तव्यमिति – चेत् , सत्य­म­न­भ्यु­पे­त्य­वा­द­त्वो­क्ति­रे­वे­यम् । एता­व­द्दू­र­वि­वे­च­नाऽ­स­म­र्थान् विनेयान् प्रत्य­भ्यु­पे­त्य­वा­द­रूपा । अथवाऽङ्गं बृहस्पतिसवः कर्मा­न्त­र­मि­त्य­भ्यु­प­ग­त­वतां मीमांसकानां कर्मा­न्त­र­त्व­प­क्षोऽ­प्य­भ्यु­पे­त्य­वा­द­रू­पो­स्ती­त्ये­त­त्परे यम­भ्यु­पे­त्य­वा­द­त्वोक्तिः । गुरुणा हि निब­न्ध­न­टी­का­या­म­ङ्ग­सौ­त्रा­म­णि­बृ­ह­स्प­ति­स­वयोः कर्मान्तरत्वं प्रसाधितवताऽपि विव­र­ण­टी­का­या­म­क­र्मा­न्त­रत्वं व्यवहृतम् । एवमिदं मीमांसकदृष्ट्या न व्यव­स्थि­त­मु­दा­ह­र­ण­मिति मत्वैवं तन्मते व्यव­स्थि­तो­दा­ह­रणं खदि­र­त्वा­दी­त्यु­दा­ह­र­णा­न्त­र­म­न्वि­ष्टम् ।
नाङ्गा­ङ्गि­त्व­बो­ध­क­मिति ।
नाम्ना प्रसि­द्ध­यो­र्द­र्श­पू­र्ण­मा­सयोः सोमद्रव्येण प्रसिद्धस्य सोमयागस्य च प्रत्य­भि­ज्ञा­ना­त्तेषां च साधिकारत्वेन विनि­ग­म­ना­वि­र­हान्न किंचि­द­ङ्ग­त्वे­ना­न्य­वि­धानं शक्यमित्यर्थः । ननु – सोमयागे विधिश्रवणं तस्याङ्गत्वेन विधाने विनिगमकमस्तीति – चेत् ; उच्यते ; सोमस्य दर्श­पू­र्ण­मा­सा­ङ्गत्वे तद्विकृतीनां दीक्ष­णी­या­दि­सो­म­या­गा­ङ्गे­ष्टी­ना­मपि सोऽहं स्यादिति दीक्ष­णी­या­दि­स­हि­तस्य सोमयागस्य सिद्धौ दीक्षणीयादीनां साङ्गत्वसिद्धि: , सोमयागसहितानां दीक्षणीयादीनां सिद्धौ सोमयागस्य साङ्ग­त्व­सि­द्धि­रिति परस्पराश्रयः स्यात् । तत्परिहाराय दीक्षणीयादिषु सोम­या­ग­व्य­ति­रि­क्तै­ष्टि­क­वि­ध्य­न्त­रा­ति­देशः कल्पनीयः । दर्शपूर्णमासयोः सोमाङ्गत्वे विधे­र्गु­ण­सं­क्र­मणं कल्पनीयमेवं प्राप्तौ किमत्र कल्पनीयमित्यत्र विनिगमनाविरहो विवक्षितः ।
ननु क्वचि­त्सो­म­या­ग­प्र­क­रणे इति ।
ननू­त्प­त्ति­का­ल­वि­षय (जै. अ. ४ पा. ३ सू. ३) इति चतु­र्था­ध्या­या­धि­क­र­ण­प्र­थ­म­सूत्रे यदनुक्रान्तं तत्र दर्श­पू­र्ण­मा­सा­ङ्ग­सो­म­द्र­व्य­क­या­गा­न्त­र­वि­धि­रिति पूर्वपक्षो दर्शितः , स कथमुपपद्यते ? अस्य वाक्यस्य सोमप्रकरणे श्रवणात् , तदा हि सोमाङ्गत्वेन दर्श­पू­र्ण­मा­स­वि­धि­रिति पूर्वपक्षः कार्यः । सत्यमिदं वाक्यं दर्श­पू­र्ण­मा­स­प्र­क­रणे श्रूयत इति भाष्यकारमत्या तत्र भाष्य­का­रो­क्त­प्र­का­रेण तद­धि­क­र­ण­म­नु­क्रा­न्तम् , इह वार्ति­क­का­र­म­ता­नु­सा­रि­टी­को­क्त­प्र­का­रेण सोमयागे बृह­स्प­ति­स­व­वै­षम्यं दर्शितमिति न विरोधः ।
अनुवादे लाभमाहेति ।
प्रक­र­णि­सो­मा­ङ्ग­तया दर्श­पू­र्ण­मा­स­यो­र्विधौ स्वत­न्त्रा­धि­का­र­यो­स्त­यो­र­ङ्ग­तया विधा­ने­ना­त्रा­पा­ततः प्राधा­न्य­प­रि­त्या­ग­स्या­भावो लाभः । दर्श­पू­र्ण­मा­सो­त्त­र­काले सोमयागविधौ विधिः समा­न­प­दो­पा­त्त­वि­षयो भवति , पक्षान्तरे तु गुणसंक्रान्तो विधिः स्यादिति तत्प्र­स­क्त्य­भा­वोऽपि लाभ इति द्रष्टव्यम् ।
अत एव विनि­यु­क्त­वि­नि­यो­गेऽ­पीति ।
क्रत्वर्थतया विनियुक्तस्य खादिरादेः पुरुषार्थतया विनियोगान्तरं विनि­यु­क्त­वि­नि­योगः ।
स्वार्थबोधे श्रुतेः शीघ्र­प्र­वृ­त्ते­रिति ।
वाक्य­स­म­र्प­णी­य­वि­शे­ष­ण­वि­शे­ष्य­भा­वो­पे­तस्य श्रौतस्य शेषशेषिभावस्य लैङ्गि­क­वि­नि­यो­गेन विरोधः समर्थनीय इति श्रुति­वा­क्य­यो­र­न्यो­न्या­पे­क्ष­यो­र्लि­ङ्गेन विरोधेऽपि श्रुतेः स्वप्रमेये वाक्यतः शीघ्रं प्रवृत्तेः श्रुति­लि­ङ्ग­वि­रोधे एवे­द­मु­दा­ह­र­ण­मि­त्यर्थः । तथा श्रौतस्य शेषशेषिभावस्य प्रति­यो­गि­वि­शे­ष­स­म­र्प­णेन गुणभूतं वाक्यं , प्रधानेन च विरोधो लक्षणीय इत्यतोऽपि श्रुति­लि­ङ्ग­वि­रोधे एवेदमुदाहरणम् । अपि च लिङ्गे बलीयसि यस्य बाधः तल्लिङ्गेन विरुध्यते , न चात्र बलीयसि वाक्यं बाध्यते , किंतु गार्ह­प­त्य­श्रु­ति­रिन्द्रे लक्षणया द्विती­या­श्रु­तिर्वा सामीप्ये लक्षणया बाध्यते , वाक्यं तु पद­त्र­य­स­म­भि­व्या­हा­र­रूपं तथैवावतिष्ठते, तर्हि लिङ्ग­वा­क्य­वि­रो­धो­दा­ह­रणे लिङ्गबाध्यस्य "स्योनं ते" इत्यादेः सुमनस्यमान इत्यन्तस्य वाक्यस्य लिङ्गेन बाधे वाक्य­द्व­य­क­ल्प­नाऽस्ति। अतोऽपि श्रुति­लि­ङ्ग­वि­रोधे एवेदमुदाहरणम् ।
ननु - उपस्थापयितव्य इत्यस्य प्रकाशयितव्य इत्यर्थः कुतो लब्ध इत्या­का­ङ्क्षा­या­माह –
ऋच इति ।
उपान्मन्त्रकरणे इति सूत्रेण उप­पू­र्वा­त्ति­ष्ठ­ते­र्धातोः मन्त्र­क­र­ण­केऽर्थे वर्त­मा­ना­दा­त्म­ने­पदं विहितम् । मन्त्रकरणं मन्त्रकार्यं तच्च प्रका­श­न­मे­वे­त्यु­क्ता­र्थ­लाभ इति भावः । केचित्तु – उप­पू­र्वा­त्ति­ष्ठ­ते­र्धा­तो­रा­त्म­ने­पदं , तदर्थं एव समीपावस्थाने मन्त्रकरणके विधीयते , समीपोपस्थानं मन्त्रकरणकं तदा स्याद्य­द्य­भि­धा­न­फ­लकं स्यात् । तथा चोपस्थापयितव्य इत्यस्य समीपेऽवस्थाय प्रकाशयितव्य इत्यर्थः – इत्याहुः । नन्वाचार्यैरनेन श्रुति­लि­ङ्गा­धि­क­र­ण­म­प्या­क्षि­प्त­मिति पूर्वग्रन्थेन प्रब­ल­दु­र्ब­ला­भ्या­मपि प्रमा­णा­भ्या­मु­भ­यत्र विनियोगोऽस्तु विरोधाभावादिति पूर्वपक्षः श्रुति­लि­ङ्गा­धि­क­रणे निराकृत इति सूचितं , कथमिह लैङ्गिक एव विनियोगो न श्रौत इति पूर्वपक्षः क्रियते ? उच्यते ; वस्तुतस्तथैव श्रुति­लि­ङ्गा­धि­क­रणे पूर्वपक्षः , लैङ्गिक एव विनियोगो न श्रौत इति पूर्वपक्षवचनात् । यथार्थमैन्द्री स्यादित्यधिकरणे निराकृतत्वात् , तथापि टीकाकारैरिह ऐन्द्र्यधिकरणं लिखितवद्भिः प्रब­ल­स्त­द­धि­क­र­ण­पू­र्व­पक्ष एव श्रुति­लि­ङ्गा­धि­क­र­ण­पू­र्व­प­क्ष­त्वेन लिखित इत्याचार्यैरपि तदनुवर्तनं कृतम् । श्रुतेः शेषत्वे ज्ञातेऽ­न­न्त­र­मर्थे तादृशी शक्तिः कल्प्यत इति। अग्निना सिञ्चेदित्यत्र शक्तिकल्पनस्य बाधि­त­त्वा­द­प्रा­मा­ण्य­मिति भावः ।
गौणमपि सामर्थ्यमिति ।
गौणशब्द इह स्वगु­णा­न्य­गु­ण­सा­धा­र­ण्येन गुण­यो­ग­नि­मि­त्त­क­त्व­मा­त्र­परो योग­गौ­ण­वृ­त्ति­सा­धा­रणः । अत इन्द्रशब्दस्य यौगि­क­त्व­प्र­द­र्श­केन प्रभवति हि स्वोचि­ता­या­मि­त्या­द्य­ग्रि­म­ग्र­न्थेन न विरोधः । यदि परमैश्वर्ये इति धातोरिन्द्रशब्द इत्ययं योगः प्रदर्शितः । यदि 'ऋज्रे­न्द्रा­ग्र­व­ज्रे'त्या­दि­सू­त्रे­णे­न्धि­धातो रन्प्र­त्य­या­न्त­तया निपातननिष्पन्न इन्द्रशब्द इष्यते , तदा गार्हपत्ये योगः सुतरां संगच्छते । अग्नावेव खल्विन्धि दीप्ताविति धात्वर्थः सुप्रसिद्धः । ननु – श्रौते गार्ह­प­त्य­शे­षत्वे सुप्रसिद्ध ऋगा­म्ना­त­स्यै­न्द्र­श­ब्दस्य तस्मिन् यौगिकी वृत्तिः कल्पनीया । तदेव कथं सिद्ध्यति ? न ह्यैन्द्रीति तद्धितान्तेन प्रातिपदिकेन इन्द्र­शे­ष­त­याऽ­नू­दिता ऋग्गा­र्ह­प­त्य­शे­ष­त्वेन तृतीयया विधातुं शक्या । "प्रया­ज­शे­षेण हवीं­ष्य­भि­घा­र­य­ती"त्यत्र सत्यामपि तृतीयायां प्रया­ज­शे­ष­त­याऽ­नू­दि­तस्य हि द्विर­भि­घा­र­ण­शे­ष­त्वेन विधानं न संभवतीति तृतीयामविगणय्य प्रयाजशेषं हविष्षु क्षारयेदिति प्रया­ज­शे­ष­प्र­ति­प­त्ति­वि­धा­ना­र्थत्वं वाक्यस्य समाश्रितम् , तथे­हा­पी­न्द्र­शे­ष­त्वे­ना­नू­दि­ताया ऋचो गार्ह­प­त्य­शे­ष­त्वेन विधानं न संभवतीति गार्हपत्यसमीपे स्थित्वेन्द्रः प्रकाशयितव्य इत्य­र्थ­स­मा­श्र­यणं युक्तमिति चेत् - उच्यते ; ऐन्द्री­प्रा­ति­प­दि­के­ने­न्द्र­प्र­का­श­क­ता­मा­त्र­रू­प­मि­न्द्र­शे­ष­त्व­मु­च्यते ; न त्विन्द्रो­प­स्था­न­वि­नि­यु­क्त­त्व­रू­पम् ; तद्वि­नि­यो­ज­क­बु­द्ध्य­भा­वात् । इन्द्र­प्र­का­श­कत्वं च न गार्ह­प­त्यो­प­स्थाने विनियोगेन विरुध्यते ; मुख्य­त­ये­न्द्र­प्र­का­श­क­स्यापि गौणवृत्त्या गार्ह­प­त्य­प्र­का­श­क­त्व­सं­भ­वात् । अतो विरो­धा­भा­वा­द्वि­धि­वाक्ये क्वचिदपि पदे जघ­न्य­वृ­त्ति­र्ना­भ्यु­प­ग­न्तव्या । अवश्यं क्वचिदाश्रयणीया जघ­न्य­वृ­त्ति­र­नु­वा­दके तेन विधिना विनियोज्ये मन्त्र एवाश्रयितव्येति युक्तम् । प्रक­र­णा­म्ना­न­सा­म­र्थ्या­दि­त्यस्य दर्श­पू­र्ण­मा­स­प्र­क­र­णा­म्ना­न­सा­म­र्थ्या­दिति व्याख्यानं कोशेषु दृश्यते , तत्प्रायो लेख­क­प्र­मा­दा­पा­दि­तम् , अग्निचयनप्रकरणे ख”ल्वैन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठत” इति विधिराम्नायते ।
ननु यथा प्रत्य­क्षे­णा­ग्नि­र्बो­ध्यते इति ।
ननु – श्रुति­लि­ङ्गाभ्यां तुल्य­ब­ला­भ्या­मस्य मन्त्रस्य गार्ह­प­त्य­शे­ष­त्व­मि­न्द्र­शे­षत्वं चास्तीति शङ्का न पूर्वपक्षिणो युक्ता ; लिङ्गा­दि­न्द्र­शे­ष­त्व­मे­वेति हि पूर्वपक्षः कृतः । तथाशङ्कायां च यथा प्रत्य­क्षा­नु­मा­नाभ्यां वह्निर्बोध्यते इति न दृष्टा­न्ती­क­र्तु­मु­चितं किंतु यथैकस्य पर्वतस्य प्रत्य­क्षा­नु­मा­नाभ्यां हृदवत्त्वं वह्निमत्वं चेति दृष्टा­न्ती­क­र्त­व्य­मिति – चेत् , उच्यते ; लिङ्गेन साक्षा­द्वि­नि­योगो न कल्पनीय इति प्रतिज्ञायां हि श्रौता­द्वि­नि­यो­गा­त्क­ल्प­नी­य­स्या­र्थ­वि­प्र­क­र्षा­दिति टीकायां हेतुरुक्तः , स च लिङ्गस्य साक्षा­द्वि­नि­यो­ज­क­त्व­शङ्कां सोप­प­त्ति­का­म­व­तार्य तन्नि­रा­सा­र्थ­त्वे­ना­व­ता­र­णीयः । तस्य साक्षा­द्वि­नि­यो­ज­कत्वे च श्रुत्या हि लिङ्गस्य तुल्य­ब­ल­त्व­मे­वा­याति नाधिकबलवत्त्वम् ; श्रुते­र्लि­ङ्ग­सा­पे­क्ष­त्वस्य निराकृतत्वात् । अत इह श्रुति­लि­ङ्गाभ्यां विनियोगद्वयमिति पूर्वपक्षोऽपि टीकाशयस्थ इत्य­भि­प्रे­त्याऽऽभ्यां तुल्य­ब­ला­भ्या­मु­भ­यत्र विनियोग इति शङ्का कृता , दृष्टान्तस्तु श्रुति­व­ल्लि­ङ्गे­नापि स्वातन्त्र्येण स्वविषयबोधनं संभवति ; वह्नि­वि­ष­य­प्र­त्य­क्ष­व­त्त­द्वि­ष­या­नु­मा­ने­नापि तत्प्र­त्य­क्ष­नि­र­पे­क्षेण वह्नि­बो­ध­द­र्श­ना­दि­त्ये­ता­व­न्मात्रे योजनीयः । यद्वा – इन्द्रे विनियोगः श्रुत्येव लिङ्गेनापि बोधयितुं शक्य इत्यस्मिन्नर्थे दृष्टान्तोऽयम् । अत्र दार्ष्टा­न्ति­कांश उन्नेयः । इत्थं लिङ्गस्य स्वातन्त्र्ये सति फलितं श्रुति­लि­ङ्ग­यो­स्तु­ल्य­ब­ल­त्व­म­व­ल­म्ब्यो­भ­यत्र विनियोगाशङ्का एवं लिङ्ग­श्रु­ति­मि­त्या­दिना दर्शिता । तत्रैवमित्यस्य एवं सतीत्यर्थ इति न किंचिदवद्यम् ।
अनुयोग आक्षेप इति ।
यद्यपि प्रश्नोऽनुयोगः पृच्छा चेत्यनुयोगशब्दः प्रश्नेऽ­नु­शिष्टः ; तथापि शास्त्रेषु प्रश्न आक्षे­प­प­र्य­व­सा­यी­त्येवं व्याख्यातम् ॥
यत्त­त्प­द­स­म­भि­व्या­हार इति ।
तत्प­द­द­र्श­ना­द­ध्या­हृतं यत्प­द­मि­त्यु­भ­य­स­म­भि­व्या­हार उक्तः ।
तावत्युक्ते इति ।
विभज्यमानत्वे सति साका­ङ्क्ष­त्व­मिति लक्षणे विभ­ज्य­मा­न­मि­त्ये­ता­व­त्युक्ते इत्यर्थः ।
अर्थै­क­त्व­वि­शे­ष­णस्य त्विति ।
यद्यपि विभ­ज्य­मा­न­सा­का­ङ्क्ष­त्व­मात्रं "तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मि­क्षे"त्य­त्रा­ति­व्याप्तं, तत्रा­प्यु­त्त­र­वाक्ये तत्पदसद्भावेन विभागे पूर्व­सा­का­ङ्क्ष­तायाः सद्भावात् ; तथापि यजुः­श­ब्दा­भि­धे­येषु प्रश्लि­ष्ट­प­ठि­त­म­न्त्रेषु परिमाणं दुर्ज्ञानमिति तज्ज्ञानाय निरूपितेऽस्मिन् लक्षणे यजूरूपमेव विशे­ष­ण­व्या­वर्त्यं वक्तव्यं , तत्तु "स्योनं ते” इत्यादिकमेव ; विभ­ज्य­मा­न­सा­का­ङ्क्ष­य­जु­ष्ट्व­स्या­न्य­त्रा­ति­व्या­प्ति­श­ङ्का­भा­वात् , "स्योनं ते" इत्यादिमन्त्रे च पूर्वपक्षदशायां वाक्यभेदो न सिद्ध इति व्याव­र्त्या­भा­वा­द­र्थै­क­त्व­वि­शे­षणं नोपा­त्त­मि­त्यर्थः ।
अग्नये निर्व­पा­मि­प­दा­भ्या­मे­क­वा­क्यतां कल्पयित्वेति ।
यद्य­प्ये­क­वा­क्यता स्वत एव प्रतीयते ; तथा­प्य­स­म­वे­ता­र्थ­त्वेन वाक्या­न­न्त­र्भा­व­शङ्कां परिहृत्य प्रतीतैकवाक्यता निर्वहणीयेति – कल्प­यि­त्वे­त्यु­क्तम् ।
अभिधानसामर्थ्यं कल्प्यतामिति ।
निर्वा­पा­न्व­यो­प­यो­गि­त­त्प्र­शं­सा­भि­धा­न­सा­मर्थ्यं कल्प्य­ता­मि­त्यर्थः , न तु निर्वा­पा­भि­धा­न­सा­मर्थ्यं कल्प्यतामिति ; निर्वपामीत्यनेन पौन­रु­क्त्या­पत्तेः । एवं दार्ष्टा­न्ति­केऽपि कृत्स्न­म­न्त्रस्य यदा सदनकरणे विनि­यो­ग­स्त­दो­त्त­र­भा­गस्य प्रति­ष्ठा­प­ना­र्थ­त्व­रू­प­त­द्वि­शे­षा­भि­धा­न­सा­म­र्थ्य­क­ल्प­नेति द्रष्टव्यम् ।
अत्रैकशब्दः प्रयुक्त इति ।
सिद्धान्ते यजुः­प­रि­मा­ण­ल­क्षणे अर्थै­क­त्व­वि­शे­ष­ण­स्या­पे­क्षि­त­त्वा­दे­क­शब्दः प्रयुक्त इत्यर्थः ।
तदपेक्षायां हेतुं सिद्धान्ते तद्व्या­व­र्त्य­सिद्धं दर्शयति –
स्योनं त इत्यस्येति ।
एवमेकत्वविशेषणे कृते तत्प्र­यु­क्त­ल­क्ष­णा­सं­भ­व­प­रि­हा­रार्थं प्रधानमिति विशेषणमित्याह –
एकस्मिन्वाक्ये इति ।
प्राप्ति­मा­त्रो­प­पादि चेति ।
निःश्रे­ण्या­रो­ह­ण­प्राप्यं प्रासादादि प्राप्तिमात्रेण लभ्यमित्यर्थः ।
विलम्बेन लभ्यं चेत्प­श्चा­दा­रू­ढोऽपि कदाचित्फलं गृह्णी­या­दि­त्या­श­ङ्का­प­रि­हा­रा­र्थ­मिदं विशेषणम् पश्चि­मोऽ­व­त­रे­न्मु­धेति ।
एवमेव वाक्य­मू­ल­क­सा­म­र्थ्या­दि­क­ल्प­ना­क्रमो विनियोगलक्षणं फलमगृहीत्वा परावर्तत इति दार्ष्टान्तिके योजनीयम् ।
भेदेन विनियोगः स्यादिति ।
अग्नये जुष्टं निर्व­पा­मी­त्ये­त­द­ति­रि­क्तानां देवस्य त्वेत्या­दि­प­दा­ना­मिति शेषः ।
तथा­स­त्य­ति­प्र­स­ङ्गा­न्त­र­म­प्या­प­ते­दि­त्याह –
तथा चेति ।
सद­ना­दि­प­दा­ति­रि­क्त­प­दानां स्योन­मा­दि­प­दा­नाम् ।
यत्र तु विरोधि लिङ्गम् , अस्य तु विवरणं –
पृथगिति ।
अगतेर्वरमिति ।
यदि पृथ­क्क­र्म­व­र्ति­प­दा­र्था­प्र­का­श­क­प­दानां वा सामर्थ्यकल्पनेन विनियोजकत्वं न स्यात् , तदा तेषां गत्यन्तराभावेन वैफल्यं स्यात् , ततो वरं तेषां वाक्यं विनि­यो­ज­क­मि­त्या­श्र­य­ण­मि­त्यर्थः ।
उदा­हृ­त­श्लो­क­स्थ­मे­व­मिति पदमुपादाय व्याचष्टे –
लिङ्गा­द्वा­क्य­भङ्ग इत्यर्थ इति ॥ कार्या­न्त­रा­पे­क्षा­व­शे­नेति ।
कार्या­न्त­र­मि­ति­क­र्त­व्यता । तथा च सन्नि­ध्या­म्ना­त­प­दा­र्थ­सं­ब­न्धा­पा­द­के­ति­क­र्त­व्य­ता­का­ङ्क्षा­व­त्प्र­धा­न­व­चनं प्रक­र­ण­मि­त्युक्तं भवति। तद्विशेषणभावात् क्वचि­दि­ति­क­र्त­व्य­ता­का­ङ्क्षा­व­शेन सन्नि­हि­त­वा­क्या­न्त­र­स­म्बन्धः प्रकरणमिति व्यवह्रियते । क्वचि­दि­ति­क­र्त­व्य­ता­का­ङ्क्षैव प्रकरणमिति व्यवह्रियते । इदं कर्म­प्र­क­र­ण­मा­त्रा­सा­धा­रणं प्रकरणलक्षणम् । ब्रह्म­प्र­क­र­ण­सा­धा­रणं तु तल्ल­क्ष­ण­मा­का­ङ्क्षा­या­मि­ति­क­र्त­व्य­ता­का­ङ्क्षा­वि­ष­य­त्व­वि­शे­षणं विहाय निर्वक्तव्यम् ।
सन्नि­हि­त­क­र­णो­प­कारे संभवतीति ।
सन्नि­ध्या­म्ना­तस्य करणस्योपकारे आका­ङ्क्षा­व­शा­द्बु­द्धिस्थे फले संभ­व­त्य­बु­द्धि­स्थ­स्व­र्ग­फ­ल­क­ल्पना न युक्तेत्यर्थः । अयमेव हेतु­र­नु­ष­ङ्गा­र्थ­वा­दि­क­फ­ला­क­ल्प­न­यो­रपि । स्वर्ग­स्या­ना­का­ङ्क्ष­त्वा­दि­त्य­भ्यु­च्च­य­मा­त्रम् ; स्वर्गस्य दर्श­पू­र्ण­मा­स­क­र­णा­न्व­येऽ­ना­का­ङ्क्ष­त्वेऽपि प्रयाजादीनां फलाकाङ्क्षया तदन्वयसंभवात् , “या ते अग्ने अया­श­ये"त्या­दि­म­न्त्रा­न्व­येन निरा­का­ङ्क्ष­स्यापि "तनू­र्व­र्षि­ष्ठे"त्या­दि­वा­क्य­शे­षस्य "या ते अग्ने रजाशया" "या ते अग्ने हराशयेति” मन्त्रयोरपि तदा­का­ङ्क्षा­मा­त्रे­णा­नु­ष­ङ्गस्य द्वितीयेऽध्याये निर्णीतत्वात् , चतुर्थाध्याये 'वैश्व­देवीं सांग्रहणीं निर्वपेद् ग्रामकाम' इत्यत्र श्रुतस्य फलस्य सांग्र­ह­णी­ष्टि­रू­प­का­र­णा­न्व­येन निरा­का­ङ्क्ष­त्वेऽ­प्या“म­न­म­स्या­म­न­स्य­देवा इति तिस्र आहु­ती­र्जु­होती"ति तत्स­न्नि­ध्या­म्ना­तानां होमानां फला­का­ङ्क्ष­या­नु­षङ्गः इति पूर्वपक्षं कृत्वा सांग्र­ह­णी­ति­क­र्त­व्य­ता­रू­पेण तदुपकारात्मकफले संभवति नानुषङ्गः कल्पनीय इति सिद्धा­न्ति­त­त्वाच्च ।
वर्मकरणादीति ।
"वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य यत्प्र­या­जा­नू­याजा इज्यन्ते" इत्यर्थवादोक्तं फलं रात्रि­स­त्र­न्या­येन न विप­रि­ण­म­नी­य­मि­त्यर्थः ।
देव­ता­सं­बो­ध­न­प्र­धान इति ।
पर­सं­बो­ध­ना­र्थ­लो­ड­न्ता­ख्या­त­युक्तः पदसमूहो निगद इति यद्यपि निगदाधिकरणे वर्णितम् ; तथापि सूक्तवाकनिगद इडानिगद इत्या­दि­व्य­व­हा­र­द­र्श­ना­द­न्य­त्रापि नितरां गद्यत इत्यु­च्चै­ष्ट्व­यो­गेन तद्व्य­व­हा­रोऽ­स्तीति भावः ।
दधिपयसोरभाव इति ।
यद्य­प्य­सो­म­या­जिनो दधिपयसोरभाव ऐन्द्रा­ग्न­पु­रो­डा­श­श्चे­त्यु­भयं तत्त­द्व­च­न­ब­ला­न्मि­लि­तम् , नतु प्रयो­ज्य­प्र­यो­ज­क­भा­वात् ; अन्यथा वैपरीत्यमेव किं न स्यात् ; तथा­प्य­र्थ­स­मा­ज­मा­त्र­म­व­लम्ब्य प्रयो­ज्य­प्र­यो­ज­क­भाव उपचरितः ।
अवी­वृ­धे­ता­मि­त्या­दि­म­न्त्र­शेष इति ।
इदं हवि­र­जु­ष­ता­मि­त्यं­श­स्या­प्यु­प­ल­क्ष­ण­मे­तत् ॥
नाने­ष्टि­प­शु­सो­म­स­मु­दाय इति ।
अनु­म­त्या­दि­दे­व­ता­का­ना­मि­ष्टी­ना­म­ह्ना­दि­प­शु­कानां पशुबन्धानां सोमयागानां च सन्निधौ पठिते "राजा स्वाराज्यकामो राजसूयेन यजे­ते”त्य­धि­का­र­वाक्ये श्रुतस्य राजसूयपदस्य नाम­धे­य­स्या­प्र­सि­द्धा­र्थ­त्वे­ना­ख्या­त­पा­र­त­न्त्र्या­दा­ख्या­तस्य च सन्नि­हि­त­स­क­ल­या­गा­नु­वा­द­स्वा­र­स्या­त्स­न्नि­हि­त­स­क­ले­ष्टि­प­शु­सो­म­स­मु­दायो राजसूय इत्यर्थः ।
शौन: शेपाख्यानं विवृणोति –
शुनःशेपः किलेति ।
तदित्थम् – "हरि­श्च­न्द्रस्य राज्ञः शतं जाया बभूवुः । तासु पुत्रमलभमानः स्वगृहे वसन्तं नारदं पुत्रप्रयोजनं पप्रच्छ । स पुत्रवतः प्रशंसया तद्रहितस्य निन्दया च पुत्रलाभमतितरां प्रशस्य जातेन पुत्रेण वरुणं यक्ष्ये इति संकल्पे कृते तव पुत्रो भवितेत्युवाच । हरि­श्च­न्द्र­स्त­थेति सङ्कल्प्य रोहितं नाम पुत्रं लेभे । तदैव वरुणेन मामनेन यजस्वेति पृष्टो दन्तो­त्प­त्त्य­न­न्त­र­मिति तदनन्तरं पृष्टो दन्त­प­त­ना­न­न्त­र­मिति ततः पृष्टो द्विती­य­द­न्तो­त्प­त्त्य­न­न्त­र­मिति तदनु पृष्टः कवचधरे जाते इति च तावत्पर्यन्तं कालं पशु­भा­वा­न­र्ह­तो­द्भा­व­नेन क्षपयामास । कवचधरं कुमारं दृष्ट्वा मामनेन यजस्वेति वरुणेन पृष्टे कुमारो धनुर्गृहीत्वा वनं प्रतस्थे । हरिश्चन्द्रो वरुणगृहीतो जलो­द­र­व्या­धि­युक्तो यज्ञे । रोहितः संवत्सरं वने चरित्वा प्रत्यागतः संचारे फलं प्रद­र्श­य­ते­न्द्रे­णो­प­दिष्टः पुनरपि संवत्सरं वने चरित्वा प्रत्याजगाम । एवं पुन­रि­न्द्र­स्यो­प­दे­शात् षड्वारानेकैकं संवत्सरं वने चचार । षष्ठे पर्याये पुत्र­व­न्त­म­जी­ग­र्त­ना­मानं ऋषिं वने दृष्ट्वा तमेकं पुत्रं ययाचेति हरिश्चन्द्रेण कर्तव्ये वरुणयज्ञे पशुत्वेन नियुज्य स्वात्म­नि­ष्क्र­या­र्थम् । तदा पिता ज्येष्ठं माता कनिष्ठपुत्रं च दातुं नान्वमन्यत । अर्थान्मध्यमः शुनःशेपो देयः पर्यवसितः । तं क्रीत्वा समागत्य वरुणं यष्टुं पुत्रो ददौ । पिता च हरिश्चन्द्रो राजसूयं प्रार­भ्या­भि­षे­च­नीये शुनःशेपं पशुं सङ्कल्पयामास । अजीगर्तः पुनः शतं गृहीत्वा तं विश­सि­तु­मु­द्युक्तः । तस्मि­न्वि­श­सि­तु­मु­द्युक्ते शुनःशेपो वरुणं तुष्टाव । वरुणस्य प्रीत्या पाशा­द्वि­मु­क्त­स्तत्र यज्ञे होतारं विश्वामित्रं प्राप्य तस्य पुत्रो बभूवेति। आचा­र्यै­र्ह­रि­श्च­न्द्रेण कर्तुं प्रारब्धो राजसूय एव पुरुषपशुकत्वेन पुरुषमेध उपचरितः” ।
विकल्पेन पूर्वपक्षं वक्ष्यन्निति ।
संदे­ह­टी­का­या­म­भि­षे­च­नी­य­स्यै­वा­ङ्ग­मिति पूर्व­प­क्ष­को­टि­प्र­द­र्श­न­मु­प­क्र­म­मा­त्र­मिति भावः । ननु – आकाङ्क्षितमपि सन्नि­हि­त­मे­वा­न्वेति सन्नि­हि­त­म­प्या­का­ङ्क्षि­त­मे­वा­न्वे­ती­त्या­का­ङ्क्षा­स­न्नि­धा­न­यो­र्लोके पर­स्प­रा­पे­क्षा­द­र्श­नेन प्रक­र­ण­स­न्नि­धा­न­यो­स्तु­ल्य­ब­ल­तया प्रक­र­णा­द्रा­ज­सू­यस्य वाङ्गं सन्नि­धा­ना­द­भि­षे­च­नी­यस्य वाङ्गमिति विकल्पेन पूर्वपक्ष इत्येतन्न युज्यते ; राजसूयस्य प्रकरणासिद्धेः , तद­न्त­र्ग­ता­ना­मि­ष्ट्या­दीनां विकृतित्वेन क्लृप्तो­प­का­र­प्रा­कृ­ता­ङ्ग­सं­ब­न्ध­नि­रा­का­ङ्क्ष­त्वात् , प्रक­र­ण­स­त्त्वेऽपि सन्नि­ध्य­नु­रो­ध­पक्ष इव प्रक­र­णा­नु­रो­ध­प­क्षेऽ­प्य­भि­षे­च­नी­या­ङ्ग­त्व­स्या­व­श्यं­भा­वेन नित्यस्य तस्य वैक­ल्पि­क­त्वा­सं­भ­वा­च्चेति – चेत् , उच्यते ; इष्ट्या­द्या­त्मना नैरा­का­ङ्क्ष्येऽपि राज­सू­या­त्म­नाऽ­स्त्या­काङ्क्षा पवित्रादारभ्य क्षत्र­स्य­धृ­ति­प­र्यन्तं राजसूयः ; यर्ह्येता उत्पु­ना­ती­त्या­दि­ष्व­ङ्ग­वा­क्येषु राज­सू­य­प­रा­म­र्शा­नु­वृत्त्या तदा­त्म­ने­ति­क­र्त­व्य­ता­का­ङ्क्षो­त्था­प­नात् । विकल्पोक्तिस्तु अभि­षे­च­नी­या­ति­रि­क्त­प­वि­त्रा­दि­प्र­धा­ना­न्त­र­वि­षया । एवं च संदे­ह­टी­काऽ­प्य­ङ्ग­श­ब्दस्य नित्या­ङ्ग­त्व­वि­ष­य­तया अथ क्रम इत्येतदनन्तरं प्रकरणतुल्यवत इत्यध्याहारेण चोक्तार्थे सुयोजेति नोप­क्र­म­वि­रो­धोऽपि ।
ननु प्रक­र­णा­द्रा­ज­सू­या­र्थ­त्व­मिति ।
विरोधे हि प्रक­र­ण­स­न्नि­धा­नयोः पाक्षि­क­प्र­वृ­त्ति­र्वाच्या । सक­ल­रा­ज­सू­या­ङ्ग­त्वा­भि­षे­च­नी­या­ङ्ग­त्व­यो­र्नास्ति विरोधः । न च सन्नि­धा­ने­ना­भि­षे­च­नी­य­मा­त्रा­ङ्गत्वं बोध्यमिति विरोधः शङ्कनीयः ; प्रक­र­ण­स­न्नि­धा­न­यो­स्तु­ल्य­ब­ल­व­त्व­पू­र्व­प­क्षेऽपि प्रकरणबोध्यस्य प्रधा­ना­न्त­रा­ङ्ग­त्व­स्या­प्र­ति­क्षे­प्य­तया सन्निधिना तन्मा­त्रा­ङ्ग­त्वा­ला­भात् , अतो विरो­धा­भा­वा­त्स­मु­च्च­योऽ­स्त्विति भावः । सन्नि­धि­बो­ध्य­म­भि­षे­च­नी­या­ङ्गत्वं पवि­त्रा­दि­स­क­ल­प्र­धा­ना­ङ्गत्वं बोधयता प्रकरणेनैव बोधितमिति सन्निधिबोध्यस्य समु­च्च­य­स्या­भा­वान्न समुच्चयः संभवति।
अथोच्येत सन्नि­धि­ब­ला­द­भि­षे­च­नी­या­र्थ­त्वेन किंचिदनुष्ठानं प्रक­र­ण­ब­ला­त्स­क­ल­रा­ज­सू­या­र्थ­त्वे­ना­न्य­दि­त्य­नु­ष्ठा­न­स­मु­च्चयः संभवतीति , तत्राह –
अभि­षे­च­नी­य­स्या­पीति ।
अभिषेचनीयार्थं यत्रा­भि­षे­च­नी­य­मा­हे­न्द्र­स्तो­त्र­काले उपा­ख्या­ना­द्य­नु­ष्ठेयं तत्रैव सक­ल­रा­ज­सू­या­र्थ­म­प्य­नु­ष्ठे­यम् , अभि­षे­च­नी­या­न­न्त­र­मा­म्ना­त­स्यापि साम्रा­ज्या­भि­षे­कात् प्राची­न­स्यो­पा­ख्या­ना­दे­म­हे­न्द्र­स्तोत्रं प्रत्यभिषिच्यत इति साम्रा­ज्या­भि­षे­का­प­क­र्ष­वि­धि­प्र­यु­क्तस्य तद­न्ता­प­क­र्ष­न्या­य­सि­द्ध­स्या­प­क­र्षस्य पक्ष­द्व­येऽ­प्य­वि­शे­षात् । तथा च देश­का­ल­त्रै­क्या­दि­द­म­नु­ष्ठा­न­म­भि­षे­च­नी­या­र्थ­मेव , न तु सक­ल­रा­ज­सू­या­र्थ­मिति विशे­ष­ग्र­ह­णा­भा­वा­द­भि­षे­च­नी­या­र्थ­मे­वा­नु­ष्ठानं सक­ल­रा­ज­सू­या­र्थ­मपि भवेत् । अतोऽ­भि­षे­च­नी­य­मा­त्रार्थं पृथ­ग­नु­ष्ठा­नाऽ­ला­भा­द­नु­ष्ठा­न­भे­दे­नापि समुच्चयोपपादनं न संभवतीति कदा­चि­द­भि­षे­च­नी­यार्थं कदा­चि­त्स­क­ल­रा­ज­सू­या­र्थ­मिति विक­ल्पे­नै­वा­नु­ष्ठा­न­म­प्यु­प­पा­द­नी­य­मिति भावः ।
न चैवं चिन्ता­वै­य­र्थ्य­मिति ।
एवं हि सति न कश्चि­दु­पा­ख्या­ना­द्य­नु­ष्ठाने विशेषः । न च तद­न­नु­ष्ठा­नेऽ­भि­षे­च­नी­य­मा­त्र­वै­कल्यं पवि­त्रा­दि­स­क­ल­वै­कल्यं वेत्यतो विशेषः ; पक्षद्वयेऽपि पर­माऽ­पू­र्वाऽ­नु­त्प­त्ति­दो­ष­स्यै­क­रू­प­त्वात् । तस्मादेषा चिन्ता व्यर्थेति न शङ्क­नी­य­मि­त्यर्थः ।
तत्सिद्धय इति ।
तदी­य­स­र्वा­व­य­वा­र्थ­त्व­सि­द्धय इत्यर्थः । तत्सिद्धौ राज­सू­या­न्त­र्ग­त­स­क­ले­ष्टि­प­शु­सो­म­वि­कृ­ति­ष्व­ति­दे­शेन नित्यो­पा­ख्या­ना­दि­प्राप्तिः , पूर्वपक्षे त्वभि­षे­च­नी­य­वि­कृ­ता­वेव नित्या तत्प्राप्तिः अन्यविकृतिषु वैकल्पिकीति फलभेद इति भावः ।
क्षत्रस्य धृतिरिष्टिरिति ।
“अग्नि­ष्टो­म­म­न्तत आहरति अग्निः सर्वा देवता देवतास्वेव प्रति­ति­ष्ठती"ति राज­सू­य­प्र­क­र­णान्ते श्रवणात् क्षत्रस्य धृतिः सोमयागविशेष इत्यवगम्यते । "क्षत्राणां धृति­स्त्रि­ष्टो­मोऽ­ग्नि­ष्टोमः पञ्चापवर्गः । तेन अन्ततो यजेत संतिष्ठते राजसूय" इत्या­प­स्त­म्ब­व­च­ना­दपि तथाऽवसीयते । इष्टिरिति त्वाचार्यैः शाखान्तरं कल्पसूत्रान्तरं वा दृष्ट्वोक्तम् ।
प्रधा­न­स्या­का­ङ्क्षा­या­म­नु­व­र्त­मा­ना­या­मिति ।
राज­सू­य­स्या­काङ्क्षा पवित्रादारभ्य प्राक्सि­द्धाऽ­नु­व­र्तते , अभि­षे­च­नी­य­स­न्नि­धिना तु तदा­नी­मु­त्था­प­नीया । अतः सह प्रस्थितयो राज­सू­या­का­ङ्क्षा­भि­षे­च­नी­य­स­न्नि­धा­न­यो­राद्या शीघ्रं विनियोगफलं गृह्णीयादिति भावः ॥ स्यादेतत् – क्रम­प्र­क­र­ण­वि­रो­धो­दा­ह­र­ण­मि­द­म­यु­क्तम् ; उपा­ख्या­न­वि­दे­व­ना­दी­ना­म­भि­षे­च­नी­य­म­ध्य­ग­त­त्वेन तद­ङ्ग­त्व­स्यै­वो­चि­त­त्वात् । ननु – अनुष्ठानमेव तेषा­म­भि­षे­च­नी­य­म­ध्य­ग­त­मा­म्नानं त्वभि­षे­च­नी­या­न­न्त­रम् । एव­म­न­न्त­र­मा­म्ना­नेऽपि तेभ्यः पश्चा­दा­म्ना­त­स्या­भि­षे­कस्य माहे­न्द्र­स्तोत्रं प्रत्यभिषिच्यत इत्य­भि­षे­च­नी­या­ङ्ग­मा­हे­न्द्र­स्तो­त्र­का­लेऽ­प­कृ­ष्ट­तया तद­न्ता­प­क­र्ष­न्या­येन तेषामपि तत्रा­प­क­र्षा­त्त­न्म­ध्येऽ­नु­ष्ठा­न­मा­त्रम् । ततश्च तेषां महाप्रकरणेन राज­सू­य­सं­यो­गा­द­भि­षे­च­नी­य­म­ध्येऽ­नु­ष्ठा­न­मा­त्रेण न तेष्व­भि­षे­च­नी­या­ङ्ग­त्वा­पा­दकं तद­वा­न्त­र­प्र­क­र­ण­मु­न्मि­षति ; असंयुक्तं प्रकरणादिति न्यायात् । एवमेव च चतु­र्थ­प­ञ्च­म­यो­र्नि­र्णी­त­मिति – चेत् , स्यादेतदेवं यद्य­भि­षे­च­नी­य­मध्ये तेषामाम्नानं न स्यात् । अस्ति तु “तद्विशोभयं राजाऽभूदि”ति। पञ्चाक्षान् प्रयच्छतीति शौनः­शे­फ­मा­ख्या­यते इति च । एतदनन्तरमपि हि "मारुतस्य चैक­विं­श­ति­क­पा­लस्य वैश्वदेव्यै चामिक्षाया अग्नये स्विष्टकृते सम­व­द्य"तीति प्रागु­प­क्रा­न्ता­भि­षे­च­नी­या­ङ्गे­ष्टि­शे­षा­नु­व­र्त­नम् । “अपांनप्त्रे स्वाहो­र्जो­नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहेति तिस्र आहु­ती­र्जु­हो­ती"त्य­भि­षे­च­नी­या­ङ्ग­हो­म­वि­शे­ष­वि­धानं च दृश्यते । अतो­भि­षे­च­नी­या­ङ्ग­स­दृ­शा­द्वि­दे­व­ना­दे­स्त­द­वा­न्त­र­प्र­क­र­ण­स­द्भावः स्पष्ट एव । यदि शाखान्तरे क्वचि­त्ते­षा­म­भि­षे­च­नी­य­स­मा­प्त्य­न­न्त­र­मा­म्नानं स्यात् , तथा­प्य­त्रा­वा­न्त­र­प्र­क­र­णेन सिद्धं तदङ्गत्वम् ; अन्य­त्रा­प्य­प्र­त्या­ख्येयं महा­प्र­क­र­णा­द­वा­न्त­र­प्र­क­र­णस्य बलीयस्त्वादिति – चेत् , उच्यते ; नोदाहरणमादरणीयं न्याय­मा­त्र­नि­ष्ठ­म­धि­क­र­णम् । यत्र क्रमस्यैव प्रकरणेन विरोधः नावा­न्त­र­प्र­क­र­ण­स­द्भा­व­श­ङ्कास्ति , तदत्र मुख्यमुदाहरणं भविष्यति कृत्वाचिन्तया त्विद­मु­दा­ह­र­ण­मिति न कश्चिद्विरोधः ।
संबन्ध आनुमानिक इति ।
पदा­र्था­न्त­र­रू­पेण वैशिष्ट्येन संबन्धोऽनुमेय इत्यर्थः । ननु विशि­ष्ट­वा­च­क­त्वेऽपि वैशिष्ट्यं तत्प्र­ति­यो­ग्य­नु­यो­गिनौ चेति त्रयो वाच्याः प्रसज्येरन्निति तुल्यो दोषः ।
प्रति­यो­गि­वि­शे­ष­वि­शिष्टं द्रव्यमुच्यत इति विशिष्टरूपेण वाच्येकसमर्थनं तत्सं­ब­द्ध­द्र­व्य­मु­च्यत इति संब­न्ध­वा­च­क­त्व­प­क्षेऽपि संब­न्ध­सा­मा­न्य­मेव श्रुत्या लभ्यते न तु विनियोगरूपः संबन्धविशेष इत्याह –
अपि च भवत्विति ।
सन्नि­धि­मु­प­क­ल्प­य­तीति ।
ननु – सन्निध्यभावेऽपि – 'यस्य येनार्थसंबन्धो दूरस्थेनापि तेन सः । अर्थतो ह्यस­म­र्था­ना­मा­न­न्त­र्य­म­का­र­णम्'॥ इति न्यायात् संबन्धो घटते । अशक्यं चान्य­त्रा­म्ना­ता­ना­म­न्य­स­न्नि­ध्या­म्ना­न­क­ल्प­नम् । तस्मात्समाख्यया सन्निधिकल्पनं तावदयुक्तम् , तथा सन्नि­धि­नाऽऽ­का­ङ्क्षा­क­ल्प­न­मपि न युक्तम् ; सन्निध्यभावेऽपि पुरो­डा­श­पा­त्र­शु­न्ध­न­स्या­नु­ष्ठा­नाय स्मृति­ज­न­का­का­ङ्क्षा­स­त्वात् तथाऽऽ­का­ङ्क्षा­यै­क­वा­क्य­त्व­क­ल्प­न­मपि न युक्तम् ; शुन्धनविधेः शुन्ध­न­प्र­का­श­क­म­न्त्र­वि­नि­यो­ज­क­वि­ध्ये­क­वा­क्य­त्वा­द्व्री­ह्या­दि­रीत्या विनि­यो­ज्य­प­दा­र्थ­रू­पेण मन्त्रे­णै­क­वा­क्य­त्वा­न­पे­क्ष­णात् वाक्येन साम­र्थ्य­क­ल्प­न­मपि न युक्तम् ; शुन्ध­न­प्र­का­श­न­सा­म­र्थ्यस्य स्फुटतरत्वात् , स्फुट­त­र­त­त्प्र­का­श­न­सा­म­र्थ्य­लब्ध एव हि शुन्धनसंबन्धः समाख्यया पुरो­डा­श­पा­त्र­शु­न्धने बोधनीयः स्थानेन साना­य्य­पा­त्र­शु­न्धने वेति संदेहो दर्शित इति – चेत् , उच्यते ; संब­न्धे­ना­म्ना­न­स­न्निधेः कल्पनमिह न विवक्षितं , किंत्व­नु­ष्ठा­न­स­न्निधेः । स तु घटत एव । अन्य­त्रा­म्ना­त­स्या­प्य­न्य­त्रा­नु­ष्ठा­न­स­न्नि­धिना च सन्नि­ध्य­नु­ष्ठी­य­मा­न­म­न्त्र­वि­शे­षा­का­ङ्क्षा­क­ल्पनं विवक्षितं , तत्तु प्राङ् न सिद्धम् ; अनु­ष्ठे­या­र्थ­स्मृ­ति­ज­न­क­मा­त्रा­पे­क्षाऽपि हि प्राक्सिद्धा , तदाकाङ्क्षया चैकवाक्यत्वं पुरो­डा­श­पा­त्र­शु­न्ध­न­वि­धे­र्म­न्त्र­सं­ब­न्ध­मा­त्र­रूपं विवक्षितं तत्तु प्रका­श्य­प्र­का­श­क­भा­व­रू­प­मु­प­प­द्यते , तत्प्र­का­श­क­त्व­नि­र्वा­हार्थं च शुन्ध­न­सा­मा­न्य­प्र­का­श­कस्य मन्त्रस्य पुरो­डा­श­पा­त्र­शु­न्ध­न­प्र­का­श­न­सा­मर्थ्यं कल्पनीयमिति तत्कल्पनं विवक्षितम् ।
अतः सर्व­मे­त­दु­प­प­न्नम् । अर्थेषु प्रतीतिविरोधो न वस्तुविरोध इति टीकायां वस्तुविरोधाभावे विवक्षितं हेतुमाह –
दध्न उभ­या­र्थ­त्व­द­र्श­ना­दिति ।
प्रती­ति­वि­रो­ध­स­द्भावे विवक्षितं हेतुमाह –
अन्यशेषस्येति ।
ननु अन्य­शे­ष­स्या­न्य­शे­ष­त्व­रूपं वस्तुतो न विरु­द्ध­मि­त्य­नु­प­द­मे­वोक्तं , कथं तद्विरोधो हेतूक्रियते ? अथा­न्य­शे­ष­त्वे­ना­नू­दि­त­स्या­न्य­शे­ष­त्वे­ना­नु­वा­दा­द­न्य­स्यैव शेष इत्ययमर्थो लभ्यते ; व्याव­र्त­क­स्व­भा­वानां विशे­ष­णा­ना­म­न्य­यो­ग­व्य­व­च्छे­द­स्वा­र­स्यात् , तथा­चा­नू­द्य­मा­न­वि­धी­य­मा­ना­र्थ­यो­र्वि­रु­द्धयोः प्रत्यायनमेकेन वाक्येन न संभ­व­ती­त्ये­वं­रूपः प्रतीतिविरोधो विवक्षितः । अने­नै­वा­भि­प्रा­येण दृष्टान्त उक्तः , यद् देवदत्तीयं तद्यज्ञदत्तशेष इतिवदिति।
यदिति ।
अत्र हि यद्दे­व­द­त्ती­य­मि­त्य­नेन देवदत्तस्यैव स्वमुच्यते , न तु यज्ञदत्तस्यापि साधारणम् ; तथा सति देवदत्तस्य स्वसंबन्धे यज्ञ­द­त्त­सा­पे­क्ष­तया सामर्थ्याभावेन तद्धि­ता­नु­त्प­त्ति­प्र­स­ङ्गात् ।
तर्ह्य­धि­ष्ठा­न­ल­क्ष­ण­येति ।
यत्रा­नु­वा­देऽ­न्य­शे­ष­त्व­वा­चकः शब्दोऽस्ति "पुरो­डा­श­क­पा­लेन तुषा­नु­प­व­पति" “परिधौ पशुं नियु­ञ्जी­तेत्या”दौ तद्वि­ष­येऽ­य­म­धि­ष्ठा­न­ल­क्ष­णोक्तिः । तत्र हि पुरो­डा­श­शे­ष­त्वा­दि­रू­प­वि­शे­ष­णांशं विहाय वस्तु­त­स्त­द­धि­ष्ठाने कपा­ला­दि­वि­शे­ष्य­मात्रे लक्षणा पुरो­डा­श­क­पा­ला­दि­श­ब्द­स्या­भ्यु­पेता , प्रकृ­त­द­धि­बृ­ह­स्प­ति­स­व­वि­षया न भवति त्विय­म­धि­ष्ठा­न­ल­क्ष­णोक्तिः ; तयो­र­न्य­शे­ष­त्व­स­म­र्प­क­श­ब्दा­भा­वात् ।
तत्तुल्यमिति ।
ननु – अधिष्ठानलक्षणया विरोधसमाधानं विद्यायां मन्त्रस्य विनियोगेऽपि तुल्यमिति न वक्तव्यम् ; सन्निधिकल्पनीये विद्या­वि­नि­यो­ग­वाक्ये वैधादिमन्त्रस्य दधि­बृ­ह­स्प­ति­स­व­व­त्स्व­रू­पेण ग्रह­ण­स्यो­प­प­न्न­त­याऽ­न्य­शे­ष­त्वे­नो­पा­दा­ना­भा­वात् , अतो यद्यप्यथैष प्रतीतिविरोधो न वस्तुविरोध इति शङ्कानन्तरं स विद्या­वि­नि­यो­गेऽपि तुल्य इति टीकाग्रन्थस्य विरो­ध­तौ­ल्या­र्थ­कत्वं परिहृत्य विरो­ध­स­मा­धा­ना­र्थ­क­त्व­मु­प­पा­द­यितुं शङ्का­ग्र­न्थ­स्यैव कस्मिं­श्चि­द्वि­रो­ध­स­मा­धाने तात्प­र्य­मुक्त्वा विद्याविनियोगे तत्तौ­ल्य­व­च­न­स्यापि तत्स­मा­धा­न­तौ­ल्य­प­रत्वं वक्तव्यं तदाप्येवं वक्तुमुचितम् । दधि­बृ­ह­स्प­ति­स­व­यो­र­नू­द्य­मा­न­यो­र­न्य­शे­ष­त्व­प्र­त्या­य­क­वि­शे­ष­णा­भा­वा­न्नास्ति विरोध इति चेद्विद्यायां मन्त्रस्य विनियोगेऽपि तुल्यमिति। तस्मा­द­धि­ष्ठा­न­ल­क्ष­णया विरो­ध­स­मा­धा­न­तौ­ल्य­व­च­न­म­यु­क्त­मिति – चेत् , उच्यते ; अन्य­शे­ष­त्व­प्र­त्या­य­क­वि­शे­ष­ण­स­त्त्वेऽ­प्य­धि­ष्ठा­न­ल­क्ष­णया विरोधसमाधानेन विनि­यु­क्त­वि­नि­योगः कर्तुं शक्यते , इह तदभावे किमु वक्तव्यमिति कैमु­ति­क­न्या­यो­द्घा­ट­ना­र्थ­म­नया भङ्ग्या विरो­ध­स­मा­धा­न­तौ­ल्य­मु­क्त­मिति न काचिदनुपपत्तिः ।
एकस्मिन् प्रयोगे मन्त्रा­वृ­त्ति­प्र­स­ङ्गा­दिति ।
यद्यप्ययं न दोषः ; ज्योति­ष्टो­म­प्र­क­र­णा­म्ना­तस्य "अग्नआयाहि वीतये" इति मन्त्रस्य यजुर्वेदे "आग्ने­य्या­ग्नी­घ्न­मु­प­ति­ष्ठत" इत्या­ग्नी­घ्नो­प­स्था­नेऽपि विनियोगदर्शनात् , तत्र विनि­यो­ज­क­प्र­मा­ण­द्व­या­नु­सा­रेण यद्येकस्मिन्नपि ज्योति­ष्टो­म­प्र­योगे मन्त्रावृत्तिः , तर्ह्यै­न्द्र्या­दा­वपि तथा स्यादिति चेत् , एवं तर्हि श्रुति­लि­ङ्गा­धि­क­र­ण­म­प्या­क्षि­प्यै­त­द­धि­क­र­ण­प्र­वृ­त्ति­रि­त्यस्तु । एवमेव खल्वा­चा­र्यै­रुक्तं पूर्वपक्षे ।
ननु बृह­स्प­ति­स­व­न्या­येन विनि­यु­क्त­वि­नि­यो­गो­प­पा­दनं न युक्तम् ; अङ्ग­बृ­ह­स्प­ति­स­वस्य स्वत­न्त्र­बृ­ह­स्प­ति­स­वा­द­न्य­त्वस्य मीमां­स­कै­रु­क्त­त्वा­दि­त्या­श­ङ्क्याह –
बृह­स्प­ति­स­वो­दा­ह­रणं त्विति ।
अत्र वक्तव्यं प्रागेवोक्तम् ।
अस्त्य­धि­का­श­ङ्केति टीकाया अर्थमाह –
अस्य पुनः स्मारणस्येति ।
ननु टीकायां नेहे­त्या­दि­श्लो­क­त­द्वि­व­र­णा­भ्या­म­धि­का­श­ङ्का­प­रि­हारो यः कृतः , सोऽपि श्रुति­लि­ङ्गा­द्य­धि­क­र­णस्थ एव ।
तथा हि –
द्विविधो बाधः प्राप्त­बा­धोऽ­प्रा­प्त­बा­ध­श्चेति ।
तत्र दशमे वैकृ­त­वि­धि­वा­क्य­शे­षेण चोदकेन कृष्णलादिषु प्राप्त­स्यै­वा­व­ह­न­ना­दे­र्द्वा­र­लो­पा­दिना बाधो निरूपितः । तृतीये तु श्रुत्या­दि­भि­र्लि­ङ्गा­दीनां स्वस्व­प्र­मे­य­प­रि­च्छे­द­प्रा­प्ति­र­हि­ता­ना­मेव नैराकाङ्क्ष्येण प्राप्ति­नि­रो­ध­ल­क्ष­णोऽ­प्रा­प्त­बाधो निरूपित इति पूर्वमीमांसकैः कृतो विभा­ग­स्त­द­नु­सा­रेण टीकायामपि बला­ब­ला­धि­क­र­णा­नु­क्र­मणे ऐन्द्री­म­न्त्रा­दीनां प्रथ­म­प्र­वृ­त्त­श्रु­त्या­दि­भि­र्नि­रा­का­ङ्क्षी­क­र­णे­ना­प्रा­प्त­बाध एव वर्णितः ।
तथा चेय­म­धि­का­श­ङ्का­प­रि­हा­रो­क्ति­र­यु­क्ते­त्या­श­ङ्कते –
यद्यपीति ।
श्रुत्या­दि­भि­र्लि­ङ्गा­दि­बाधः पूर्व­म­न्त्र­नि­रू­पि­तोऽ­प्रा­प्त­बाधः सन्नपि प्रका­श्य­स्ये­न्द्रादेः प्रका­श­क­म­न्त्रा­द्या­का­ङ्क्षा­व­शा­त्प्रा­प्त­बा­ध­क­श­ङ्का­मा­त्र­स्यापि विषयो भवति , इह तु तदपि नास्ति ; विद्यायाः मन्त्रा­का­ङ्क्षा­वि­र­हा­दिति भेदप्रदर्शनेन पौनरुक्त्यं परिहरति –
तथापीति ।
ननु – इन्द्रस्य नास्ति प्रका­श­क­म­न्त्रा­काङ्क्षा , अग्निचयनप्रकरणे तस्य यष्ट­व्य­त्वा­दि­नाऽ­ना­म्ना­त­त्वेन प्रका­श­ना­न­पे­क्ष­णा­दिति – चेत् , सत्यम् ; नोदा­ह­र­ण­मा­द­र­णी­यम् उदाहरणान्तरं भविष्यति “इमामगृभ्णन् रशनामृतस्ये”ति मन्त्रस्य "इत्य­श्वा­भि­धा­नी­मा­दत्त" इती­ति­का­र­श्रुत्या तृती­या­श्रु­ति­स­मा­ना­र्थ­याऽ­श्व­र­श­ना­ग्र­हणे विनियोगे कृतेऽपि रश­ना­ग्र­ह­ण­प्र­का­श­न­सा­म­र्थ्य­रू­पा­ल्लि­ङ्गाद् गर्द­भ­र­श­ना­ग्र­ह­णेऽपि प्राप्तिः शङ्कितुं शक्यते ; तस्या­प्य­श्व­र­श­ना­ग्र­ह­ण­व­द­ग्नि­च­य­नेऽ­नु­ष्ठे­यस्य तन्म­न्त्रा­का­ङ्क्ष­त्वा­त्त­दि­हो­दा­ह­र­णम् । ननु – प्राप्ति­श­ङ्का­स­द्भा­व­त­द­भा­वाभ्यां विशेषकथने वेधा­द्य­धि­क­र­णा­ना­र­म्भ­क­श­ङ्कैव स्थिरीकृता स्यात् , प्राप्ति­म­त्त्व­श­ङ्का­स्प­द­स्यापि लिङ्गादेः श्रुत्या बाधे पूर्वतन्त्रे निरूपिते सति तच्छ­ङ्काऽ­ना­स्प­दस्य विद्या­स­न्नि­धे­र्लि­ङ्गा­दि­भि­र्बा­धस्य कैमुतिकन्यायेन सिद्धेरिति – चेत् , उच्यते ; शास्त्रभेदान्न पौन­रु­क्त्य­मि­त्येव मुख्यः परि­हा­रोऽ­त्रा­भि­सं­हितः । क्वचित्प्रौढ्या व्यव­हृ­त­मै­क­शा­स्त्र्य­पक्षं यथा­क­थं­चि­त्स­म­र्थ­यि­तु­म­भ्यु­च्च­य­रू­पे­य­म­धि­का­श­ङ्का­प­रि­हा­र­यो­रुक्तिः । अधिकाशङ्कापि वस्तुतोऽत्र नास्त्येव ; अविरोधे प्रब­ल­दु­र्ब­ल­यो­रपि श्रुति­लि­ङ्ग­योर्न बाध्यबाधकभाव इत्यतः श्रुत्या क्वचि­द्वि­नि­यु­क्त­स्यापि लिङ्गेनान्यत्र विनियोगो घटत इत्येव श्रुति­लि­ङ्गा­धि­क­रणे पूर्वपक्षकरणात् । ऐक­शा­स्त्र्य­पक्षे भाष्या­दि­ष्व­धि­क­श­ङ्का­प­रि­हा­रा­व­न्या­वपि सूचितौ । लिङ्गा­दि­भि­र­न्यत्र विनियुक्तानां मन्त्रादीनां विद्यायामपि सन्निधिना विनियोगः कल्पनीयः ; अन्यथा विद्या­स­न्नि­ध्या­म्ना­न­वै­य­र्थ्य­प्र­स­ङ्गात् । "अथा­तोऽ­ग्नि­ष्टो­मे­ना­नु­य­ज­न्तीति" वाक्ये­ना­ह­व­नी­या­धा­र­तया चित्याग्नौ प्रकृ­त्य­ग्नि­ष्टोमे प्राप्तेऽ­प्यु­त्त­र­वेद्याः प्रक­र­णा­म्ना­न­वै­य­र्थ्य­प­रि­हा­रार्थं तदाधारतया प्राप्ति­म­ङ्गी­कृत्य विष­म­शि­ष्ट­यो­र­ग्यु­त्त­र­वे­द्यो­र्वि­क­ल्पोऽ­प्य­भ्यु­प­ग­म्यते , अत्र विकल्पाप्रसक्तौ सन्नि­धि­वै­यर्थ्यं परिहर्तव्यमिति किमु वक्त­व्य­मि­त्य­धि­का­शङ्का । विद्या­स­न्नि­ध्या­म्ना­नम् आर­ण्य­क­त्व­प्रा­प्त्य­र्थ­त्वे­ना­न्य­था­सि­द्धम् , अन्यत्र विनियोगेन निराकाङ्क्षाणां नान्यत्र विनि­यो­ग­क­ल्प­न­क्ष­म­मिति परिहारः । यजे­ते­त्या­दि­स­मा­न­प­द­श्रुतौ प्रकृ­ति­प्र­त्य­य­यो­र­न्यो­न्या­पे­क्षा­स­त्त्वा­द­व्या­प्ति­वा­र­णाय पदेऽ­न्य­स्मि­न्निति विशेषणम् । तथा च स्वार्थाभिधाने पदा­न्त­र­नि­र­पेक्षः शब्दः श्रुतिरिति लक्षणार्थः । "बर्हि­र्दे­व­स­दनं दामी"त्या­दि­म­न्त्रेषु शब्दशक्तिवत् "स्रुवे­णा­व­द्य­ती"त्या­दि­वि­धिषु स्रुवादीनां द्रव­द्र­व्या­द्य­व­दा­न­श­क्ति­रिह लिङ्गमिति तत्साधारण्याय भावगतेत्युक्तम् । समानदेशत्वं यथासंख्येन सन्निधिना वा । सन्नि­धि­र­प्या­म्ना­न­स­न्नि­धि­र­नु­ष्ठा­न­स­न्नि­धि­रिति द्विविधः ॥२५॥
त्रैलोक्यमिति ।
"अन्त­रि­क्षो­दरः कोशो भूमिबुध्नो न जीर्यति । दिशो ह्यस्य स्त्रक्तयो द्यौरस्योत्तरं बिलं स एष वसुधान" इत्यादिना त्रैलोक्यस्य कोशत्वेन कर्म­फ­ल­रू­प­व­सु­नि­धा­ना­र्थ­पे­टि­का­त्वे­नो­पा­सना पुत्र­दी­र्घा­यु­ष्ट्व­फ­लार्थं विहिता । तस्य कोशस्य भूमिर्मूलावयवः अन्तरिक्षमुदरं द्यौः पिधानार्थ ऊर्ध्वावयवः दिशः कोणा इति प्रसि­द्ध­को­श­सा­दृ­श्या­पा­द­का­व­य­व­क­ल्पना कृता ।
भूरिति इमं लोकमित्यर्थ इति ।
इदं मन्त्र­ग­त­श­ब्द­मात्रं गृहीत्वा व्याख्यातम् । श्रौते तु वाक्यशेषे भूरित्यस्य लोकत्रयपरत्वेन व्याख्यानं दृश्यते । "अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्ये अन्तरिक्षं प्रपद्ये दिवं प्रपद्ये इत्ये­त­द­वो­च"मिति॥
इति चतुर्दशं वेधाद्यधिकरणम् ॥

हानौ तूपा­य­न­श­ब्द­शे­ष­त्वात् कुशा­छ­न्द­स्तु­त्यु­प­गा­न­व­त्त­दु­क्तम् ॥२६॥
पर­त्रा­व­स्था­न­सा­पे­क्ष­त्वा­दिति ।
अवश्यं हि कुत­श्चि­त्प्र­हीणं किंचिदुपैति , यथाऽ­श्वा­त्प्र­हीणं रोमवृन्दं भूप्रदेशमिति हान­स्यो­पा­य­ना­पेक्षा , विद्यमानयोः सुकृतदुष्कृतयोः फल­ज­न­ना­व­श्य­म्भा­वा­दपि तदपेक्षाऽस्तीति भावः ।
समिध इति ।
उद्गातॄणां प्रस्तावकर्मणि स्तोत्र­सं­ख्या­ग­ण­नार्था दारुशलाकाविशेषा इत्यर्थः ।
औदुम्बरा इति विशेषणादिति ।
अनेन शाट्या­य­नि­शा­खायां कुशशब्दः पुल्लिङ्ग इति सूचितम् । स्त्रीलिङ्गत्वे त्वौदुम्बर्य इति स्यात् ।
यदि तु कस्यांचिदिति ।
औदुम्बर्य इति भाष्यप्रयोगं दृष्ट्वा तदनुकार्य श्रुत्युन्नयनम् ।
पर्यु­दा­सा­धि­क­र­ण­वि­ष­य­मा­हेति ।
ननु – नदी­क्षि­ता­धि­क­र­ण­सि­द्धा­न्त­सूत्रं भाष्यकारैः पठितं , तत्किमिति टीकाकारैः पर्यु­दा­सा­धि­क­र­ण­सि­द्धा­न्त­सू­त्र­मत्र पठितमापाद्य पर्यु­दा­सा­धि­क­र­ण­म­नु­क्र­म्यते ? किमिति च तद­नु­मो­द­न­मा­चार्यैः क्रियते ? इत्थं हि नदी­क्षि­ता­धि­क­र­णम् । दीक्षितो न जुहोतीति ज्योति­ष्टो­म­प्र­क­र­णा­म्नातं वाक्यं क्रत्व­र्थ­पु­रु­षा­र्थ­सा­धा­र­ण्येन सर्वेषामपि होमानां प्रतिषेधकम् , अथवा क्रत्वर्थेषु प्रत्य­क्ष­शि­ष्टान् विहा­या­ति­दे­श­प्रा­प्तानां क्रत्वर्थानां पुरुषार्थानां च होमानां प्रतिषेधकमिति पूर्व­प­क्षेऽ­प्य­ग्नि­हो­त्रा­दि­हो­मानां स्वस्वविधिभिः क्रतुमध्ये कर्तव्यतया नदी­क्षि­त­व­च­ने­ना­क­र्त­व्य­तया च पर्यु­दा­सा­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन प्रति­षे­धा­ङ्गी­कारे विकल्पः स्यात् , तत्परिहाराय नदी­क्षि­त­वा­क्य­स्या­ग्नि­हो­त्रा­दि­वा­क्य­शे­ष­त्व­म­भ्यु­प­गम्य नञः पर्यु­दा­स­वृ­त्ति­रा­श्र­य­णीया , तेनादीक्षितो याव­ज्जी­व­म­ग्नि­होत्रं जुहो­ती­त्य­ग्नि­हो­त्रा­दि­वा­क्या­ना­मर्थः संपद्यत इति। तदेव चाधिकरणं प्रदे­शा­न्त­र­स्थ­वा­क्यस्य प्रदे­शा­न्त­र­स्थ­वा­क्य­शे­ष­तायां प्रसाधनीयत्वेन प्रस्तुतायां दृष्टा­न्त­त्वे­नो­दा­हर्तुं युक्तं न पर्यु­दा­सा­धि­क­र­ण­मिति – चेत् , उच्यते ; नदीक्षितवाक्ये प्रतिषेधाश्रयणे वस्तुतो विकल्पो न प्रसज्यते ; होमनिषेधः क्रत्वर्थो होमः पुरुषार्थ इति विधि­नि­षे­ध­यो­र्वि­ष­य­भे­दात् । उभयोरपि क्रत्वर्थत्वेन विषयैक्ये हि षोड­शि­ग्र­ह­णा­ग्र­ह­ण­रीत्या तयोरन्यतरस्य यस्य कस्य­चि­त्प­रि­ग्र­हेऽपि क्रतोः साद्गु­ण्या­द्वि­कल्पो भवेत् , इह तु होमनिषेध एव क्रत्वर्थ इति होमपक्षे क्रतो­र्वै­गु­ण्या­द्वि­क­ल्पस्य न प्रसक्तिः । कृत्वा चिन्तया तु तत् सूत्रं प्रवृत्तम् । यदि प्रतिषेधाश्रयणे विकल्पः प्रसज्यते , तदा नदी­क्षि­त­वा­क्य­स्या­ग्नि­हो­त्रा­दि­वा­क्य­शे­ष­त्व­म­ङ्गी­कृ­त्यापि सुपरिहरणीयम् । किंचि­त्प्र­क­र­णा­म्ना­त­स्यै­कस्य शब्दस्य प्रदे­शा­न्त­र­आ­म्ना­ता­ने­क­वा­क्य­शे­ष­भा­वा­दपि पापीयान् विकल्प इति न्यायं व्युत्पादयितुम् । अतः पर्यु­दा­सा­धि­क­र­ण­पू­र्व­पक्षे एव वस्तुतो विक­ल्प­प्रा­प्ति­रिति तद­धि­क­र­ण­सि­द्धा­न्त­सू­त्र­मे­वात्र पठि­त­व्य­मि­त्या­श­येन टीका­का­रै­र्भा­ष्य­म­न्यथा कृतम् । आचार्यैश्च तदनुमोदितम् । भाष्यकाराणां त्वयमाशयः – प्रतिषेधपक्षे विकल्पो भवत्येव । अग्नि­हो­त्रा­द्य­नु­ष्ठाने सोमयागवैकल्यं तदननुष्ठाने याव­ज्जी­वा­ग्नि­हो­त्र­सं­क­ल्प­वै­क­ल्य­मि­त्य­न्य­त­र­वै­क­ल्या­भ्यु­प­ग­मे­ना­ग्नि­हो­त्र­ज्यो­ति­ष्टो­मा­नु­ष्ठा­नस्य तयोर्विकल्पं विना गत्यन्तराभावात् । किंच चोद­क­प्रा­प्त­क्र­त्व­र्थ­हो­म­प्र­ति­षेधे पर्यु­दा­सा­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन प्रत्य­क्ष­शि­ष्ट­हो­म­प्र­ति­षेधे च चतु­र्विं­श­न्म­न्त्र­त­त्प्र­ति­षे­ध­न्या­ये­ना­नि­वार्यो विकल्पः । यदि च विक­ल्प­प्र­स­क्त्य­भा­वेऽपि प्रदे­शा­न्त­र­स्थ­वा­क्य­शे­ष­भा­वेन तदन्वयादपि विकल्पः पापीयानिति न्याय­व्यु­त्पा­द­नार्थं नदीक्षिताधिकरणं स्यात् , तदा सुतरां तद­धि­क­र­ण­सू­त्रो­दा­ह­रणं प्रकृतोपयोगि ; प्रदे­शा­न्त­र­स्थानां कुशा­छ­न्दः­स्तु­त्यु­प­गा­न­वि­शे­ष­वा­क्यानां हानो­पा­दा­नो­भ­य­वि­ष­य­वा­क्यस्य च प्रदे­शा­न्त­र­स्थ­वा­क्य­शे­ष­भाव एव युक्तो न विकल्प इत्युपपादयितुं खलू­दा­ह­र­ण­म­न्वि­ष्यत इति। ननु "न तौ पशौ करो­ती"त्य­र्थ­वाद इति टीकोक्तमयुक्तम् ; पूर्वमीमांसकैः खल्वपूर्वे चार्थवादः स्या (जै. भ. १० पा. ८ सू. ५) दित्यधिकरणे "न तौ पशौ करोती"ति पशावाज्यभागयोः, प्रतिषेधार्थः न तु दार्श­पौ­र्ण­मा­सि­का­ज्य­भा­ग­स्तु­त्य­र्थोऽ­नु­वादः ; पशा­वा­ज्य­भा­ग­प्र­ति­षे­ध­स्या­प्रा­प्त­त्वात् , अधिकरणं तु न सोमेऽध्वर इत्येतद्विषयम् । तदित्थम् । अयं प्रति­षे­धोऽ­र्थ­वादो वेति संशये सोमाङ्गेषु दीक्षणीयादिषु चोद­क­प्रा­प्त­यो­रा­ज्य­भा­ग­यो­रयं प्रतिषेधः "तस्यैकशतं प्रया­जा­नू­याजा" इत्यत्र दीक्ष­णी­या­द्य­ङ्गानां प्रया­जा­नू­या­जा­ना­मिव तथा­भू­त­यो­रा­ज्य­भा­ग­यो­रपि सोमसंबन्धित्वेन कीर्त­नो­प­प­त्ते­रिति प्राप्ते तथा सति “न तौ पशौ करो­ती”त्ये­त­द्वै­यर्थं स्यात् ; न सोमेऽध्वर इत्यत एव दीक्ष­णी­या­दि­व­त्सो­माङ्गे अग्नीषोमीयपशौ तद्विकृतिषु सवनीयादिषु चाज्य­भा­ग­प्र­ति­षे­ध­ला­भात् । अतस्तौ न पशावित्यस्यायं प्रति­व­स्तू­प­मा­वि­धया दृष्टा­न्त­स­म­र्प­णेन स्तुत्य­र्थोऽ­र्थ­वाद इति।
तस्मादयुक्तं "न तौ पशा­वि"त्यस्य टीको­क्त­म­र्थ­वा­द­त्व­मि­त्या­श­ङ्क्याह –
तथा क्वचि­त्प­शु­प्र­क­र­णेऽ­पीति ।
अयमाशयः – न तौ पशौ करोतीति पशुप्रकरणेऽपि किंचिद्वाक्यं टीका­का­रै­र्दृ­ष्ट­मस्ति , तस्या­ज्य­भा­ग­वर्ज्यं प्रकृ­ति­व­त्कु­र्या­दिति पर्यु­दा­स­कृत्त्या प्रकृ­ति­व­च्छ­ब्द­शे­ष­त्वे­ना­न्वये सति तल्लब्धस्य पशा­वा­ज्य­भा­गा­भा­व­स्या­नु­वादो न तौ पशाविति न सोमे इति सोमे नित्यप्राप्तस्य तदभावस्यानुवादः ।
उभयमपि विधे­या­ज्य­भा­ग­स्तु­त्य­र्थ­मिति ।
एवं च प्रतिषेधपक्षे पशा­वा­ज्य­भा­ग­यो­र्वि­कल्पः , पर्युदासपक्षे नित्यमेव वर्जनमिति विशेषः । यद्यपि दर्श­पू­र्ण­मा­स­प्र­क­र­णा­म्ना­त­स्यैव "न तौ पशा"वि­त्यस्य प्रक­र­णा­दु­त्कृ­ष्टस्य पर्यु­दा­स­वृत्त्या पाशु­क­प्र­कृ­ति­व­च्छ­ब्द­शे­षत्वं वक्तुं शक्यम् , प्राभाकरैरपि पर्युदासपक्षं सम­र्थ­य­मा­नै­स्त­थै­वो­क्तम् ; तथापि टीको­क्त­म­नु­वा­दत्वं पशुप्रकरणे तथाभूतं वाक्यं विना न निर्वहतीति तत्स­द्भा­वो­ङ्गी­कृतः ॥
अवधूतेति ।
लोके त्यक्त­स­क­ल­क­र्मा­ण­म­व­धू­त­माहुः । तत्र धूननस्य त्यागार्थत्वं प्रसि­द्ध­मि­त्यर्थः । यद्य­प्य­व­धू­त­श­ब्द­स्यो­क्ता­र्थ­प­र­ता­या­म­व­धू­त­क­र्मेति प्रयोक्तव्यम् ; तथापि विभक्तधनेषु भ्रातृषु विभक्ता भ्रातर इति­व­द्ग­म्य­मा­न­त्वा­दु­त्त­र­प­द­स्या­प्र­योगः । धातूनां निर्दि­ष्टा­र्थ­व्य­ति­रे­के­णा­प्य­र्था­न्त­र­स­द्भावे शाब्दिका ज्ञापकमाहुः । धातुपाठे कुर्द खुर्द गुर्द गुद क्रीडा­या­मे­वे­त्ये­व­कारः पठ्यते , स धात्वन्तराणां धातुपाठे निर्दि­ष्टा­द­र्था­न्त­र­म­प्य­स्तीति ज्ञापयति ; अन्य­थाऽ­र्थ­नि­र्दे­शा­देव क्रीडा­मा­त्रा­र्थ­त्व­सि­द्धे­रे­व­का­र­वै­य­र्थ्या­दिति ॥२६॥
इति पञ्चदशं हान्यधिकरणम् ॥

सांपराये तर्त­व्या­भा­वा­त्तथा ह्यन्ये ॥२७॥ टीकायां –
सुकृ­त­दु­ष्कृ­त­क्ष­य­स्त्विति ।
न च वाच्यं पर्य­ङ्क­वि­द्या­या­म­र्चि­रा­दि­पथं प्राप्तस्य मध्ये चन्द्रेण सह संवादोक्तेः संवादस्य शरी­र­सा­ध्य­त्वा­त्त­दर्थं कर्मा­पे­क्षा­स्तीति ; विद्या­सा­म­र्थ्या­देव मार्गेऽपि शरीरलाभोपपत्तेः । अवश्यं हि विद्यायाः दिव्य­श­री­रो­त्पा­द­नेऽपि सामर्थ्यं वक्तव्यम् । अन्यथा पर्य­ङ्क­वि­द्या­या­मेव देवयानेन पथा ब्रह्मलोकं प्राप्तस्य पर्यङ्कस्थेन ब्रह्मणा सह संवादोक्तेः का गतिः ? ॥२७॥२८॥
इति षोडशं सांपरायाधिकरणम् ॥

गते­र­र्थ­व­त्त्व­मु­भ­य­थाऽ­न्यथा हि विरोधः ॥२९॥
एनसः पापात् परीति ।
अपपरी वर्जने इति वर्जनार्थोऽत्र परिशब्दः पञ्च­म्य­पा­ङ्प­रि­भि­रिति तद्योगे पञ्चमी । स्वकृतमन्यकृतं चास्म­द­नु­भा­व्य­फ­ल­मेनो वर्जयित्वा विनाश्य परिपालयतेति योजना ।
पिपृतेति ।
पॄ पालनपूरणयोरिति धातुः । “यदेनश्चकृमा वयं यद्वाऽ­न्य­कृ­त­मा­रिम अनया समिधा वयं सर्वं तदपमृन्महे” इति सामवेदमन्त्रे "इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः तेनो मुञ्चन्त्वेनसो यद­न्य­कृ­त­मा­रि­मेति" यजुर्वेदमन्त्रे चान्य­कृ­त­पा­प­स्या­न्यत्र सङ्क्रमणं स्पष्टमेव श्रूयते । एव­म­ने­क­श्रु­ति­प्र­ति­प­न्नेऽर्थे शङ्का­नु­त्था­नान्न तद्व्या­व­र्त­ना­र्थ­त्वेन सूत्रं योजनीयमित्यपि द्रष्टव्यम् ॥२९॥३०॥
इति सप्तदशं गते­र­र्थ­व­त्त्वा­धि­क­र­णम् ॥

अनियमः सर्वासामविरोधः शब्दा­नु­मा­ना­भ्याम् ॥३१॥
उभयत्रापीति ।
नारि­ष्ट­हो­मा­ना­म­प्य­ङ्ग­प्र­धा­ना­र्थै­र्ब­र्हि­रा­ज्या­दि­धर्मैः कति­प­य­ध­र्म­व­त्त्व­म­स्तीति भावः ।
श्रुत्यादयो हि द्विप्रकारा इति ।
ननु – इदं विशे­ष­क­थ­न­म­नु­प­प­न्नम् ; व्रीहि­श्रु­ते­र्नि­रु­प्ताऽ­नि­रु­प्त­व्री­हि­ष्वि­वै­न्द्री­श्रु­ते­रु­पा­स्ति­प्र­क­र­णा­म्ना­ताऽ­ना­म्ना­ता­ने­कै­न्द्रीषु साधारण्यात् । प्रकृ­ता­नु­प­युक्तं चेदं प्रकारद्वयकथनम् । न चैवमिति यत्रापीति च टीकाग्रन्थयोः प्रक­र­णा­म्ना­ताऽ­ना­म्ना­त­श्रु­त्या­दि­वि­ष­य­त्व­स्यैव स्पष्टं प्रतीयमानतया तयोः सामा­न्य­वि­शे­ष­वि­ष­य­श्रु­त्या­दि­वि­ष­य­त्वा­प्र­तीतेः । उच्यते – इन्द्रो देवता अस्या इति विग्र­ह­वा­क्य­स­मा­ना­र्थ­त्वा­दै­न्द्री­श्रु­ते­र्वि­ग्र­ह­वा­क्य­स्थस्य च सर्वनाम्नः "कदाचन स्तरी­रसी"ति प्रकृ­तै­न्द्री­वि­ष­य­त्वा­दै­न्द्री­श्रु­ते­र्वि­शे­ष­वि­ष­य­त्व­मु­क्तम् । यत्रापीति टीकाग्रन्थस्य प्रकरणाभावे श्रुत्या­दि­कृ­त­वि­नि­यो­ग­नि­र्वा­हाय प्रकरणं कल्प­नी­य­मि­त्ये­त­द­र्थ­प­रत्वं न युक्तम् ; न हि "यदाहवनीये जुहो­ती"त्य­ना­र­भ्या­धी­त­श्रौ­त­वि­नि­योगे "यस्य पर्णमयी जुहू­र्भ­व­ती"त्य­ना­र­भ्या­धी­त­वा­क्य­वि­नि­योगे च श्रुति­वा­क्याभ्यां प्रक­र­ण­क­ल्प­न­मि­ष्यते । तथा सति श्रुत्या­दि­षू­त्त­रो­त्त­र­मेव पूर्व­पू­र्व­क­ल्प­ना­म­पेक्ष्य प्रमाणं , न तु पूर्व­पू­र्व­मु­त्त­रो­त्त­र­क­ल्प­ना­म­पे­क्ष्येति बला­ब­ला­धि­क­र­ण­म­र्या­दा­भ­ङ्गा­पत्तेः । तस्मात् क्लृप्त­क­ल्प­नी­य­प्र­क­र­ण­क­श्रु­त्या­दि­वि­ष­य­त्व­मु­दा­हृ­त­टी­का­वा­क्य­द्व­य­स्या­नु­प­प­न्न­मि­त्या­लो­च्या­चा­र्यै­र्वि­ष­या­न्तरं दर्शितम् । वस्तुतस्तु – अप्र­क­र­णा­म्ना­त­श्रु­त्या­दि­कृ­त­वि­नि­यो­ग­नि­र्वा­हाय प्रकरणकल्पनमपि टीको­क्त­मु­प­पा­द­यितुं शक्यम् ; श्रुत्या­दि­षू­त्त­रो­त्त­रस्य स्वप­रि­च्छे­द्य­प्र­मेये पूर्व­पू­र्व­क­ल्प­ना­पेक्षा हि बला­ब­ला­धि­क­र­ण­दौ­र्ब­ल्य­हे­तु­त्वेन दर्शिता , साऽत्र नोच्यते , किंत्व­ना­र­भ्या­धी­त­श्रु­त्या­दि­कृ­त­वि­शे­ष­वि­नि­यो­ग­नि­र्वा­हा­याऽ­पू­र्वै­द­म­र्थ्य­रू­प­सा­मा­न्य­वि­नि­यो­ग­हे­तु­त्वा­का­ङ्क्षा­ल­क्षण प्रक­र­ण­क­ल्प­न­मु­च्यते । न च प्रमे­य­भे­दे­ना­न्या­पे­क्षा­मात्रं स्वप्र­मे­य­प­रि­च्छे­दार्थां श्रुत्या­दि­प्र­वृत्तिं निरुन्धे , येन प्रकरणादिह श्रुत्यादीनां बला­ब­ला­धि­क­र­णो­क्त­दौ­र्ब­ल्य­मा­प­ते­दिति।
प्रकरणस्य वाक्या­द्बा­ध­मा­श­ङ्क्या­हेति ।
यद्यपि वाक्यस्यापि स्वप्र­मे­य­वि­शे­ष­वि­नि­यो­ग­नि­र्वा­हाय सामा­न्य­वि­नि­यो­ग­हे­तु­प्र­क­र­णा­पे­क्ष­ण­म­नु­प­द­मे­वो­क्त­मिति वाक्येन स्वापे­क्षि­त­प्र­क­र­ण­बा­ध­न­म­श­क्य­श­ङ्कम् ; तथापि यथा­क­थं­चि­त्प्र­क­र­ण­बा­ध­क­त्वेन शङ्कनीयं वाक्यमप्यत्र नास्तीति दर्शयितुं शङ्कोत्थापनमिति द्रष्टव्यम् । सिद्धान्ते प्रकरणस्य वाक्याविरोधिन एव वाक्येन सामा­न्य­स­ब­न्ध­नि­र्वा­हा­या­न्वे­षणं , न तु विरोधिनोऽपीति यदुक्तम् , इदं सर्वासां विद्यानां गत्य­पे­क्षा­ल­क्ष­ण­लि­ङ्ग­स्यापि समानम् । लिङ्गमपि हि स्ववि­रो­धि­प्र­क­रणं नानुरुन्धे ; दर्श­पू­र्ण­मा­स­प्र­क­र­णा­दिभ्यः पूषा­द्य­नु­म­न्त्र­ण­म­न्त्राणां पूष­दे­व­ता­क­या­गा­दि­षू­त्क­र्षा­भ्यु­प­ग­मात् । ननु – विद्याद्वये गत्या­म्ना­न­म­नु­चि­न्त­ना­र्थ­मि­त्ये­त­द­यु­क्तम् ; सर्वास्वपि विद्यासु गतिरनुचिन्तनीया , तत्क्र­तु­न्या­या­द्ग­ते­र­प्या­न्त­रा­लि­क­वि­द्या­फ­ल­त्वात् , "एतमितः प्रेत्या­भि­सं­भ­वि­तास्मी"ति शाण्डि­ल्य­वि­द्यायां ब्रह्म­प्रा­प्ति­व­द्ग­ते­र­प्य­नु­चि­न्त­नी­य­कोटौ निवेशनात् । तत्र हि प्रेत्येति प्रकर्षेण गमनं दूरा­ध्व­ग­म­न­मु­च्यते , तत्तु देव­या­न­मा­र्ग­ग­म­न­मेव भवति।
सूत्रकारेणापि चतुर्थाध्याये गत्यनुचिन्तनस्य सक­ल­वि­द्या­सा­धा­र­ण्य­मु­क्तम् –
विद्या­सा­म­र्थ्या­त्त­च्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गा­च्चेति ।
गतिचिन्तनस्य सर्व­ब्र­ह्म­वि­द्या­सा­धा­र­ण्येऽपि पञ्चा­ग्नि­वि­द्यायां ब्रह्मविषयायां प्राप्त्य­र्थ­त्वेन तद्य इत्थं विदुरिति वचनं सफलम् । उप­को­स­ल­वि­द्या­याम् "अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदु चने"त्या­र­भ्या­र्चि­रा­दि­मा­र्ग­क­थ­नम् अक्षि­पु­रु­षो­पा­स­कस्य पुत्रै­र्द­ह­न­क­र्म­णोऽ­कृ­त­त्वेऽपि त्वरि­त­मे­वा­र्चि­रा­दि­ग­ति­प्रा­प्ति­रस्ति न विद्या­न्त­र­शी­लि­ना­मिव तत्प्राप्तौ विलम्बोऽस्तीति विशे­ष­प्र­द­र्श­ना­र्थ­त्वेन सफलम् । "एतेन प्रतिपद्यमाना इमं मानवं नावर्तन्त" इत्य­ना­वृ­त्ति­फ­ल­रू­प­वि­शे­ष­प्र­द­र्श­ने­नापि सफलम् ।
तस्मा­दु­भ­य­त्रा­म्ना­त­म­नु­चि­न्त­ना­र्थ­मि­त्ये­त­त्क­थ­मु­प­पा­द­नी­य­मिति –
चेत् , इत्थम् ; यत् प्राप्त्य­र्थ­मा­म्नानं यच्च विशे­ष­प्र­द­र्श­नार्थं तद­नु­चि­न्त­ना­र्थ­मपि भवति ।
अनुचिन्तनमेव हि साक्षा­द्वि­द्या­शेषः तद्विषयभूता गतिः क्काचि­त्क­स्त­दीयो विशे­ष­श्चा­नु­चि­न्त­न­नि­र्वा­हा­र्थ­त्वेन कथितोऽतः प्राधा­न्या­द­नु­चि­न्तनं फलत्वेनोक्तमिति न कश्चिद्दोषः ॥३१॥
इत्य­ष्टा­द­श­म­नि­य­मा­धि­क­र­णम् ॥

याव­द­धि­का­र­म­व­स्थि­ति­रा­धि­का­रि­का­णाम् ॥३२॥
ऐश्व­र्य­फ­ल­क­त्व­मिति ।
निर्गु­ण­वि­द्यायाः पर­म­मु­क्ति­फ­ल­क­त्वा­सं­भवे निर्गु­ण­वि­द्या­वा­क्य­शे­षा­म्नातं "स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानै­र्वे"त्या­दि­स­गु­ण­वि­द्या­फ­ल­की­र्तनं निर्गु­ण­वि­द्या­फ­ल­मे­वा­भ्यु­पेतं स्यादिति भावः ॥३२॥
इत्येकोनविंशं याव­द­धि­का­रा­धि­क­र­णम् ॥

अक्षरधियां त्ववरोधः सामा­न्य­त­द्भा­वा­भ्या­मौ­प­स­द­व­त्त­दु­क्तम् ॥३३॥
वार­व­न्ता­दि­प­द­व­न्तीति ।
अश्वं नत्वा वारवन्तमिति वार­व­न्त­प­द­व­त्या­मृचि गीतं साम वारवन्तीयम् । यज्ञायज्ञा वो अग्नय इति यज्ञा­य­ज्ञा­प­द­व­त्या­मृचि गीतं साम यज्ञायज्ञीयम् । वामदेव्यं तु वामदेवेन दृष्टं साम । वार­व­न्ता­दि­प­द­व­न्तीति बहुवचनं छत्रिन्यायेन योज्यम् ।
उत्पत्त्यादिषु मध्यइति ।
यद्यपि सर्वेषां विधी­ना­मु­त्प­त्ति­वि­नि­यो­ग­प्र­यो­गा­धि­का­र­श­क्ति­रस्ति ; तथापि लाघवार्थं विधयो विध्य­न्त­र­प्रा­प्यांशं विहा­या­प्रा­प्तां­श­मात्रे विश्राम्यन्ति , यथा दर्श­पू­र्ण­मा­स­यो"र्य­दा­ग्ने­योऽ­ष्टा­क­पाल" इत्यादय उत्पत्तिविधयः 'दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजे­ते"त्य­धि­का­र­विधिः । स एवा­ङ्ग­वा­क्यै­रे­क­वा­क्य­ता­पन्नो विनियोगविधिः । “पौर्णमास्यां पूर्णमास्या यजेत अमा­वा­स्या­या­म­मा­वा­स्यया यजेते”ति प्रयोगविधिः । विध्यन्तराभावे त्वेकस्यैव विधे­श्चा­तू­रू­प्यम् । यथा "ऐन्द्रा­ग्न­मे­का­द­श­क­पालं निर्व­पे­त्प्र­जा­काम" इति ॥३३॥
इति विंश­म­क्ष­र­ध्य­धि­क­र­णम् ॥

इयदामननात् ॥३४॥
अत्र गुहाधिकरणेन पौन­रु­क्त्य­मा­शङ्क्य तत्रोक्ता पिबच्छब्दस्य लक्षणा न युक्ता ; मुख्या­र्थ­सं­भ­वात् । न च प्रकरणेन वाक्यशेषेण वा लक्षणा ; ताभ्यां बलीयसो वाक्यस्य बाधा­यो­गा­दि­त्य­धि­का­श­ङ्का­मु­द्भाव्य न केवलं प्रकरणेन वाक्यस्य बाघ उच्यते , किंतू­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­मि­त­म­हा­वा­क्य­वि­रो­धे­ना­वा­न्त­र­वा­क्यस्य बाध उच्यत इति परि­हा­र­व्यु­त्पा­द­ना­र्थ­त्वे­ना­धि­क­र­णस्य साफल्यमुक्तमिति प्रतीयते । तत्रो­प­क्र­मो­प­सं­हा­रा­नु­सा­रेण मध्यमवाक्यं नेयमित्येतदपि प्रत­र्द­ना­धि­क­र­णा­दिषु बहुशः क्षुण्णम् । तस्मा­दि­त्थ­म­धि­क­र­णस्य साफल्यं वक्तव्यम् । मन्त्र­यो­रौ­त्प­त्ति­क­द्वि­त्व­वि­शि­ष्ट­मा­ध्या­त्मिकं वस्तुद्वयं ताव­त्प्र­ति­पाद्यं , तच्चो­भ­य­त्रा­प्य­भि­न्न­मिति प्रतीयते । तुल्या­भि­धा­न­रू­प­स­मा­ख्या­प्र­मा­ण­व­शा­दिति टीको­क्त­न्या­य­व्यु­त्पा­द­ना­र्थ­मि­द­म­धि­क­र­णम् । न च समाख्यायाः किंचि­द्बा­ध­क­मस्ति , प्रत्यु­ता­नु­ग्रा­ह­क­मे­वा­स्तीति बाधकाभावं व्यतिरेकमुखेन व्यव­स्था­प­यि­तु­मु­प­क्र­मो­प­सं­हा­र­प्र­द­र्श­न­मिति ॥३४॥
इत्ये­क­विं­श­मि­य­द­धि­क­र­णम् ॥

अन्तरा भूत­ग्रा­म­व­त्स्वा­त्मनः ॥३५॥
युवेति ।
"अपत्यं पौत्रप्रभृति गोत्रं" "जीवति तु वंश्ये युवे"ति पाणि­नी­यो­क्त­ल­क्षणं युवा­प­त्य­मि­त्यर्थः ।
अपरोक्षादिति ।
व्यत्ययो बहुलमिति छान्दसेन विभ­क्ति­व्य­त्य­येन प्रथमार्थे पञ्चमी ।
अभ्या­सा­त्स­र्वा­न्त­र­त्व­प्र­त्य­भि­ज्ञा­ना­च्चेति ।
ननु द्वावत्र पूर्वपक्षौ । उभयत्र वेद्यभेद इत्येकः । वेद्या­भे­देऽ­प्य­भ्या­सा­द्वि­द्या­भेद इति द्वितीयः । तत्रा­द्य­नि­रा­क­र­ण­एव सर्वा­न्त­र­त्व­प्र­त्य­भि­ज्ञा­युक्तिः , न द्वितीयनिराकरणे ; सर्वा­न्त­र­त्व­प्र­त्य­भि­ज्ञा­न­स्या­वि­शे­ष­पु­नः­श्र­व­ण­रू­पा­भ्या­सो­प­पा­द­क­तया द्वितीयपक्ष एवो­प­पा­द­क­त्व­स्या­चा­र्यै­रग्रे वक्ष्यमाणत्वात् । तस्य तु निराकरणम् अभ्या­सा­सि­द्ध्य­न्य­था­सि­द्धिभ्यां करिष्यते । सत्यम् ; प्रथ­म­पू­र्व­प­क्ष­नि­रा­क­र­ण­यु­क्ति­रे­वात्र सिद्धा­न्त­को­ट्यु­प­पा­द­क­यु­क्ति­त्वेन लिखिता , द्विती­य­पू­र्व­पक्षे निरा­क­र­ण­यु­क्तिस्तु वक्ष्यमाणा ज्ञातुं शक्येति न लिखिता ॥३५॥३६॥
इति द्वाविं­श­म­न्त­र­त्वा­धि­क­र­णम् ॥

व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥
भाष्य­का­रै­र­धि­क­र­णान्ते जाबा­लै­रै­त­रे­यि­भिश्च प्रदर्शितस्य व्यतिहारस्य समाने विषये उपसंहारः कार्य इत्युक्तम् । तत्र समाने विषये इत्ये­त­त्स­मा­न­गु­ण­वि­द्या­न्त­र­वि­षयं सक­ला­हं­ग्र­हो­पा­स­ना­परं वा ॥३७॥
इति त्रयोविंशं व्यति­हा­रा­धि­क­र­णम् ॥

सैव हि सत्यादयः ॥३८॥
नन्विहाधिकरणे सत्य­वि­द्या­भे­दा­भे­द­चि­न्ता­व­त्स­त्य­हृ­द­य­वि­द्या­भे­दा­भे­द­चि­न्तापि कर्तुं शक्यते ; सत्यविद्यायां "जयतीमान् लोकानि"ति फलनिर्देश: , हृदयविद्यायां "एष प्रजा­प­ति­र्य­द्धृ­द­य­मे­त­द्ब्र­ह्मै­त­त्सर्वं तदेतत् त्र्यक्षरं हृदयमिति हृ इत्ये­क­म­क्ष­र­म­भि­ह­र­न्त्यस्मै स्वाश्चान्ये च य एवं वेद इत्येकमक्षरं द इत्यस्मै स्वाश्चान्ये च य एवं वेद यमि­त्ये­क­म­क्ष­र­मेति स्वर्गं लोकं य एवं वेदे'ति फलनिर्देशभेदः पूर्व­प­क्ष­न्या­य­स्तुल्यः । तच्छब्दद्वयेन प्रकृ­त­हृ­द­य­ब्र­ह्म­स्व­रू­प­प्र­का­र­प­रा­म­र्शेन तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यरूपतोच्यत इति वेद्याभेदान्न विद्याभेदः । फल­नि­र्दे­श­भे­द­स्त्व­सिद्धः ; "जयतीमान् लोकानि"ति प्रधा­न­ब्र­ह्मो­पा­स­नायाः फलवत्त्वे सिद्धे तद­ङ्ग­हृ­द­या­ना­म­क्ष­रो­पा­स­ना­फ­ल­नि­र्दे­श­स्या­र्थ­वा­द­त्वात् , प्रधानेऽप्येवं कामपदेन फल­नि­र्दे­शा­भा­वात् । सत्रन्यायेन फलविपरिणामे कल्पनीये प्रधाने तदवयवे यत्किञ्चित्फलं श्रुतं सर्वस्यापि जाते­ष्टि­फ­ल­न्या­येन समु­च्च­य­क­ल्प­नो­प­प­त्ते­श्चेति सिद्धा­न्त­न्या­योऽपि तुल्यः । "अथ एष प्रजा­प­ति­र्य­द्धृ­द­य­मि"त्या­रभ्य "तस्यो­प­नि­ष­द­ह­मिति हन्ति पाप्मानं जहाति च य एवं वेदे"त्य­न्तेन संदर्भेण विधीयमानैकैव विद्ये­त्ये­व­म­धि­क­र­ण­व्यु­त्पा­द्येऽर्थे वक्तव्ये किमिति "स यो ह वैतदि"ति मध्ये गृहीत्वा भेदाभेदचिन्ता ? उच्यते । एकदेशे कृता चिन्ता तुल्य­न्या­य­त­यै­क­दे­शा­न्त­रेऽपि संचारयितुं शक्येति क्वचिदियं चिन्ता कृता ॥३८॥
इति चतुर्विंशं सत्याधिकरणम् ॥

कामादीतरत्र तत्र चायतनादिभ्यः ॥३९॥
तस्य न स्थानतोऽपीति ।
उपलक्षणमेतत् – इहाप्यधिकरणे भाष्य­का­रै­र्बृ­ह­दा­र­ण्य­कोक्ता निर्गुणविद्या तत्पू­र्वो­त्त­र­स­न्द­र्भो­दा­ह­र­णेन छान्दो­ग्य­व­र्णिता सगु­ण­वि­द्ये­त्ये­तांश्च सत्यान् कामानिति तत्र­त्य­वा­क्यो­दा­ह­र­णेन च स्पष्टीकृतम् । एतांश्च सत्यान् कामा­नि­त्ये­त­दु­दा­ह­र­णे­नापि बृहदारण्यकोक्ता विद्या निर्गुणविद्येति व्यञ्जितम् । कथमिति चेत् ? इत्थम् , विद्या­न्त­रे­षू­पा­स्य­गु­णा­ना­मु­प­दे­श­मात्रं कृतं तावतैव गुण­वि­शि­ष्टो­पा­सना सिद्ध्यतीति इह तु गुणा­ना­म­प्यु­पा­सना विधीयते , तत्किमर्थं ? बृहदारण्यके उपसंहृता एते निर्गु­ण­प्र­क­र­णा­नु­सा­रे­णा­नु­पा­स्या­स्त­थे­हा­प्य­नु­पास्या मा भूव­न्नि­त्ये­त­द­र्थ­मि­त्येव कल्पनीयम् ; प्रयो­ज­ना­न्त­रा­भा­वात् , काम­श­ब्द­सं­गृ­ही­त­गु­ण­जा­त­व्य­ति­रि­क्ता­द्या­वा­पृ­थि­व्या­दि­स­मा­ना­धा­र­त्व­प्र­मु­ख­गु­णा­ना­म­नु­पा­स्य­तायाः प्रयो­ज­क­त्व­क­ल्पने परि­सं­ख्या­र्थ­त्व­प्र­स­ङ्गात् । गुणानां पृथ­गु­पा­स­ना­सि­द्ध्य­र्थत्वं स्यादिति चेत् , न तावद्धर्मिणं विना उपासना पृथगुपासना ; श्रुतौ सत्य­का­मा­दि­श­ब्दानां धर्मि­प­र्य­न्त­त्वेन गुणो­पा­स­ना­वि­धा­नेऽपि गुण­वि­शि­ष्ट­ध­र्म्यु­पा­स­ना­प्राप्तेः । नापि धर्मिविशेषणतयैव गुणानां क्रमेणोपासना पृथगुपासना ; शाण्डि­ल्य­वि­द्या­दिषु मनो­म­या­दि­गु­णा­ना­मपि तथैवोपासनेति ततो विशेषाभावात् । नापि गुण­वि­शे­ष्य­को­पा­सना पृथगुपासना ; तस्यापि विवक्षितत्वे "अस्मिन् कामाः समाहिता" इति गुण­वि­शे­ष्य­को­प­दे­श­त­स्त­ल्ला­भात् । तस्मा­द­स्म­दु­क्त­मेव तत्प्रयोजनमिति युक्तम् । तन्मुखेन च भाष्य­का­रै­र्वा­ज­स­ने­यो­क्त­वि­द्याया निर्गु­ण­वि­द्यात्वं व्यञ्जितम् । ननु – छान्दो­ग्य­वा­ज­स­ने­य­को­क्त­वि­द्ययोः सगु­ण­नि­र्गु­ण­वि­ष­य­तया भेदेऽ­प्या­य­त­न­त्वा­दि­सा­म्य­मा­त्रेण पर­स्प­र­गु­णो­प­सं­हारे समाख्याभेदेन भिन्न­यो­र्द­ह­र­शा­ण्डि­ल्य­वि­द्य­यो­रपि पर­स्प­र­गु­णो­प­सं­हारः स्यात् ? तयोरपि हृदयायतनम् ; “एतत्सत्यं ब्रह्मपुरं मनोमयोऽयं पुरुषो भाः सत्यमि”त्युक्तं सत्यत्वम् , “अथ य आत्मा स सेतुर्विधृतिः सत्य­धृ­ति"रि­त्युक्ता धृतिः , “सत्यकामः सत्यसङ्कल्पो भारूपः सत्यसङ्कल्प इत्युक्तं सत्य­स­ङ्क­ल्प­त्वम् , “सर्वस्येशानः सर्व­स्या­धि­प­ति"रि­त्यु­भ­य­त्रा­प्युक्ते सर्वे­श्व­र­त्व­स­र्वा­धि­प­तित्वे चेत्येवं बहवो गुणाः समाना दृश्यन्त इति – चेत् , नात्र साक्षान्मुख्य उपा­स­ना­र्थ­गु­णो­प­सं­हार उच्यते । किंत्वेकैकत्र श्रुतानां गुणा­ना­म­न्य­त्रापि सत्य­का­म­त्वा­दि­सा­म­र्थ्येन हृद­या­य­त­न­त्वा­दि­सा­म्येन चोपस्थितानां स्तुति­प्र­क­र्ष­मा­त्र­प्र­यो­ज­न­तो­च्यते , एवमेव हि ध्येय­त्व­म­पू­र्व­मि­त्या­दिना अतोऽ­न्त­र्भा­व­मा­त्र­मु­प­सं­हार इत्यन्तेन प्राक्त­न­ग्र­न्थे­नो­क्तम् । अन्यत्राप्ययं न्यायो भवत्विति चेद् , भवतु नाम ; नैतावता विद्याभेदे ध्याना­र्थ­गु­णो­प­सं­हा­र­प्र­सङ्गः ॥३९॥
इति पञ्चविंशं कामाद्यधिकरणम् ॥

आदरादलोपः ॥४०॥
पूर्वोऽतिथिभ्य इत्या­दि­स्तु­त्यु­प­प­त्त्य­र्थ­मिति ।
यद्यपि पूर्वोऽ­ति­थि­भ्योऽ­श्नी­या­दि­त्ययं विधिः , यथा वै स्वय­म­हु­त्वे­त्या­दि­स्त­द­र्थ­वाद एव स्तावकः ; तथाप्यर्थवादो यथा विधेये आदरावहः , एवमिह "पूर्वोऽ­ति­थिभ्य" इति विधिरपि प्राणा­ग्नि­होत्रे आदरावह इति साम्याद्विधिरपि स्तुतिकोटौ निवेशितः । यद्वा – "पूर्वोऽ­ति­थि­भ्योऽ­श्नी­या"दि­त्य­य­मा­दि­र्य­स्ये­त्य­त­द्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­णाऽ­र्थ­वा­दांश एव गृहीतः ।
यदे­त­द­क्षा­भ्य­ञ्ज­न­मिति ।
अक्षा­भ्य­ञ्ज­न­म­प्ये­क­हा­य­नी­न­य­नस्य प्रयोजकं चेद­क्षा­भ्य­ञ्ज­ना­त्प्राक् पदपांस्वपचारे तत्संपादनार्थं पुन­र­प्ये­क­हा­य­नी­न­यनं कार्यम् , अप्रयोजकं चेत्पुनस्तन्न कार्यम् । अक्षाभ्यञ्जनं तु पांस्व­न्त­रे­णा­न्येन वा कार्यमिति फलभेदः ।
नन्वे­क­हा­य­नी­क्र­या­र्था­न­यनं क्रया­भ्य­ञ्ज­नो­भ­या­र्थ­मस्तु , उभयोरपि नय­न­सा­ध्य­त्वा­वि­शे­षा­दि­त्या­श­ङ्क्याह –
यदर्था च सेति ।
यदर्थद्रव्यं तत्संस्कारोऽपि द्रव्यद्वारा तदर्थ एव स्यादिति भावः ।
सप्त­म­प­द­पां­सु­ग्र­ह­ण­मि­त्यर्थ इति ।
एवं च टीकाकारपक्षे पदकर्मेति सूत्रपदेन पदपांसुग्रहणं विवक्षितं , तद्विषयः प्रयो­ज­क­त्वा­प्र­यो­ज­क­त्व­वि­चार इति प्रथमं शिलायां सप्तमपदनिधाने पद­पां­सु­ग्र­ह­णार्थं पुन­र­प्ये­क­हा­य­नी­न­यनं पूर्वपक्षे कार्यं सिद्धान्ते नेति फलभेदः । पक्षद्वयेऽपि पूर्व­प­क्ष­सि­द्धा­न्त­न्यायौ समानौ । वस्तुतः – पांसु­ग्र­ह­ण­म­क्षा­भ्य­ञ्जनं चेत्यु­भ­य­म­प्य­धि­क­र­ण­स्यो­दा­ह­र­णम् । एक­स्मि­न्नु­दा­हृते न्याय­सा­म्या­द­न्य­द­प्यु­दा­ह­र­ण­मु­प­गन्तुं शक्य­मि­त्य­भि­प्रेत्य टीकाकारैः प्रथमातिक्रमे कारणं नास्तीति पांसु­ग्र­ह­ण­मु­दा­हृ­तम् । आचा­र्यै­स्त्व­क्षा­ञ्ज­न­म­प्यु­दा­ह­र­ण­मिति स्पष्टीकर्तुं तदुदाहृतम् । तस्यै­क­हा­य­नी­न­य­न­सा­ध्य­तायाः पांसु­ग्र­ह­ण­द्वा­र­क­तया तस्यै­क­हा­य­नी­न­य­न­प्र­यो­ज­क­त्व­स­म­र्थ­ने­नैव पांसु­ग्र­ह­ण­स्यापि तत्प्र­यो­ज­क­त्व­सा­म­र्थ्या­त्स­म­र्थितं भवतीति तन्नोदाहृतम् ।
प्रागु­च्य­मा­न­म­श­न­म­प्य­ग्नि­हो­त्र­मे­वेति ।
अत एवाधिकरणारम्भे पादसङ्गतिः । टीकायां प्राणा­ग्नि­हो­त्र­मेव पूर्व­भो­ज­न­श­ब्दे­नो­क्तम् ।
स्वामि­भो­ज­न­मि­त्य­ध्या­हार इति ।
यद­ति­थि­भो­ज­नो­त्त­र­कालं विहितं स्वामिभोजनं सम­या­द­प­कृ­ष्ये­त्यत्र विद्यमानं स्वामिभोजनपदम् अप­क­र्ष­क­र्म­स­म­र्थ­क­तया द्विती­या­न्त­मि­त्य­भि­प्रेत्य विहि­त­मि­त्य­स्या­न्व­यार्थं प्रथमान्तस्य स्वामि­भो­ज­न­प­दा­न्त­र­स्या­ध्या­हार उक्तः । वस्तुतस्तु – तदेव पदं प्रथमान्तं वक्तुं शक्यम् । अपकृष्य विहितमित्यत्र विधा­न­रू­प­प्र­धा­न­क्रि­या­क­र्म­णोऽ­भि­हि­त­त्व­मा­त्रे­णा­श्रु­त­प­दस्य प्रथ­मा­न्त­त्वो­प­पत्तेः , अयं ब्राह्म­ण­स्त­तोऽ­प­कृ­ष्यात्र नीत इत्या­दि­प्र­यो­ग­द­र्श­नात् । अतो नाध्या­हा­रा­पेक्षा ।
उपसदादिधर्मइति ।
उपसद आदयो यस्या­ग्नि­हो­त्रस्य तदुपसदादि । भावप्रधानो निर्देशः । तथा चोप­स­दा­दि­त्व­धर्मः उप­स­दा­न­न्त­र्य­धर्म इत्यर्थः ।
देव­ता­न्त­रा­व­रु­द्ध­त्वा­दिति ।
आग्ने­य­म­ष्टा­क­पा­ल­म­ग्नी­षो­मी­य­मे­का­द­श­क­पा­ल­मि­त्या­दि­वि­धिभिः कृत्स्नस्य पुरोडाशस्य देव­ता­न्त­रा­र्थ­त्वा­व­ग­मा­दि­त्यर्थः । न च - द्व्यव­दा­न­मा­त्र­स्याग्नौ प्रक्षे­पा­त्ता­व­दे­वा­ग्न्या­द्य­र्थ­मिति – शङ्कनीयम् ; उत्प­त्ति­वा­क्या­नु­सा­रात् । कृत्स्नेन पुरो­डा­शे­ना­ग्न्या­दि­यागः , प्रक्षेपमात्रं व्यवदानस्य ; तेन द्व्यव­दा­न­प्र­क्षे­प­काले कृत्स्नः पुरो­डा­शोऽ­ग्न्या­दि­दे­व­तायै मनसा त्यक्तव्य इति सर्व­प्र­दा­ना­धि­क­रणे वार्तिककारैः स्थापितत्वात् । प्राणिमात्रस्य वराहमेषहरिणादेः ।
उक्तं च वार्तिकेऽपि जाघन्यधिकरणे –
"नाव­श्य­मिति यच्छागादेव ग्रहीतव्या जाघनी ; जाघ­नी­ना­म­का­व­य­व­मा­त्र­श्र­व­णादि”ति ।
अनित्यानां च प्रारब्धानामिति ।
प्रार­ब्ध­का­म्य­क­र्म­णा­मि­त्यर्थः ।
अविशिष्टत्वेन प्रत्य­भि­ज्ञा­ना­दिति ।
प्रति­नि­धि­द्र­व्येषु नीवारादिषु मुख्य­व्री­ह्या­दि­द्र­व्या­व­य­वा­नु­प्र­वे­श­प्र­यु­क्त­सा­दृ­श्य­मू­ला­त्प्र­त्य­भि­ज्ञा­ना­दि­त्यर्थः ।
नाग्नि­हो­त्र­ह­व­णीति ।
यद्य­प्य­ग्नि­होत्रं यया होष्यते साप्य­ग्नि­हो­त्र­ह­व­णीति वक्तुं शक्या , ल्युटो हि भूतकाले विधानाभावात् ; तथापि भाव्यर्थे प्रमाणाभावात् प्रवृ­त्ति­नि­मि­त्त­नि­र्धा­र­णाय ययाऽग्निहोत्रं हुतं सैवा­ग्नि­हो­त्र­ह­वणी ग्राह्येति भावः ।
तद्विशिष्टत्वेन श्रुतस्येति ।
यद्यपि "चतुरो मुष्टी­न्नि­र्व­पती"ति संख्या­मु­ष्टि­वि­शिष्टे निर्वापे विहिते अग्नि­हो­त्र­ह­व­ण्येति वाक्यान्तरेण तत्साधनमात्रं विधीयेत ; तथापि तस्मिन्वाक्ये साध­न­वि­शे­ष­वि­शि­ष्ट­त्व­प्र­ती­ति­र­स्तीति तद्वि­शि­ष्ट­त्व­श्र­व­ण­मु­क्तम् ।
पश्चा­त्प्रा­प्नो­तीति ।
यद्य­प्य­ख­ण्डो­प­का­र­मु­खेन सकलपदार्थानां युगपदेव प्रापकश्चोदकः , न तु चोदकस्य प्रतिपदार्थं पृथ­ग्व्या­पा­रोऽस्ति , न वा प्रतिपदार्थं चोदकभेदोऽस्ति ; तथापि प्रकृ­ति­व­च्छ­ब्देन युग­प­त्प्रा­प्ते­ष्वपि पदा­र्थे­ष्व­नु­ष्ठा­न­काले तत्त­द­वा­न्त­रो­प­का­रा­पे­क्षा­क्र­मेण तत्त­दु­प­का­र­ज­न­क­प­दा­र्था­नु­ष्ठा­ना­पे­क्षि­त­बु­द्धि­क्र­मोऽ­स्ती­त्ये­त­द­व­लम्ब्य प्राप्ति­पौ­र्वा­प­र्य­मु­क्तम् ।
अर्थ­वा­द­ग­त­स्त्विति ।
सोमो वै वाजि­न­मि­त्य­र्थ­वादे सोमे वाजिनशब्दवत् "एष वै दर्श­पू­र्ण­मा­स­यो­र­व­भृथ" इति अर्थवादे अपां व्युत्सेके अवभृथशब्दवच्च सिद्ध­सा­दृ­श्य­मा­त्र­पर इत्यर्थः ।
परि­मा­ण­वि­शे­ष­वा­निति ।
गुञ्जा­बी­ज­प­रि­माणं परिमाणविशेषः ।
अवघातादय इति ।
आदिशब्देन निष्फ­ली­क­र­ण­ग्र­ह­णम् ।
ननु वितु­षी­भा­वा­दि­ल­क्ष­ण­द्वा­रा­भावे बाध एव युक्त इति कथं पूर्वपक्ष: ? इत्यत्राह –
अचराविति ।
अनवस्रावितान्तर ऊष्म­प­क्वौ­द­न­वि­शे­ष­वाची चरुशब्द इति दशमे निर्णीतम् । तथा चाचरौ चरुशब्दोऽयं चरुधर्माणाम् अव­घा­ता­दी­ना­म­ति­दे­शकः स्यादित्यर्थः ।
सत्यां गतौ विधौ गौणत्वायोगादिति ।
अग्नि­हो­त्र­श­ब्दस्तु द्रव्य­दे­व­ता­पे­क्षा­व­शा­द्वि­धि­गतो गौणोऽभ्युपगतः । न चेहा­व­घा­ता­द्य­पे­क्षा­स्तीति वैषम्यमिति भावः ।
गत्यभावादिति ।
द्वारलोपात् श्रप­ण­व­द्वि­शे­ष­वि­ध्य­भा­वा­च्चेति भावः ।
नन्व­ति­थि­भो­ज­नो­त्त­र­का­ल­मि­त्या­दि­श­ङ्कायाः पूर्वपक्षोपयोगं दर्शयति –
ननु स्वामि­भो­ज­न­स्येति ।
अतः प्राणा­ग्नि­हो­त्र­स्यै­वेति ।
तथाचादरलिङ्गस्य न परि­हा­र­सि­द्धि­रिवि भावः ॥४१॥
इति षड्विं­श­मा­द­रा­धि­क­र­णम्॥

तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृष्टेः पृथ­ग्ध्य­प्र­ति­बन्धः फलम् ॥४२॥
रात्रि­स­त्रा­णा­म­गत्या विपरिणाम आश्रित इति ।
ननु – विप­रि­णा­मा­ना­श्र­यणे अर्थवादमात्रता स्यात् , सा च फल­वि­प­रि­णा­मा­श्र­य­णात् जघ­न्ये­त्य­नु­प­द­मेव टीकाकारो वक्ष्यति , अर्थ­वा­द­मा­त्र­त्वेऽ­त्य­न्त­प­रोक्षा वृत्तिर्यथा न तथा फलपरत्व इति , आचार्या अपि तत्त­थै­वा­नु­मो­दि­ष्यन्ते , अतः पूर्वापरविरोध इति – चेत् , उच्यते ; अर्थवादभावात् फलविपरिणाम एव जघन्यः । तत्र हि ये प्रति­ति­ष्ठा­सन्ति त एता रात्री­रु­पे­यु­रिति यत्त­दो­र्व्य­त्यासः सन­र्था­न्त­र्भा­व­श्चेति बह्वी क्लिष्टकल्पना , उदा­हृ­त­टी­का­वाक्यं तु प्रकृ­तो­द्गी­थो­पा­स­ना­द्य­भि­प्रा­यम् । तासां क्रत्व­र्थ­त्व­पक्षे हि पर्णतावाक्य इवा­व्य­भि­च­रि­त­लि­ङ्गो­प­स्था­पि­त­क्र­तु­ल­क्षणां विधावङ्गीकृत्य वाक्यशेषस्य प्राश­स्त्य­ल­क्ष­णा­प्य­ङ्गी­क­र्तव्या , ततो वरं वाक्य­शे­ष­मा­त्रस्य फल­वि­प­रि­णा­म­क­ल्प­नेति। अत एव यत्र प्रकरणात् क्रतु­सं­ब­न्ध­सिद्धिः , क्रतू­प­स्थि­त्यर्थं विधौ लक्षणा न वक्तव्या तत्र वर्म­क­र­णा­दि­वा­क्य­शेषे टीका­या­म­प्य­र्थ­वा­द­तै­वा­ङ्गी­कृ­तेति न कश्चिद्विरोधः ।
क्रतूपकारस्य सिद्धत्वादिति ।
प्रयाजाञ्जनयोः प्रकरणात् क्रतू­प­का­र­सिद्धिः , पर्णतायास्तु फल­क­ल्प­ना­प­क्षेऽपि क्रतू­प­स्थि­त्य­व­श्यं­भा­वात् ।
सा सप्तम्यर्थेति ।
नन्वा­दि­त्या­दि­म­तय इत्याद्यधिकरणे द्वितीया सप्तम्यर्थेति न वक्ष्यते , किंतु कर्मार्थैव , सप्तमी तु तृतीयार्था । तेन लोकशब्दस्य लोक­दृ­ष्टि­प­र­त्व­म­ङ्गी­कृत्य लोकदृष्ट्या सामो­पा­सी­ते­त्यर्थ इति वक्ष्यते । सत्यम् । इह सप्तम्यर्थेति वक्ष्यत इत्यस्यायमर्थः । सामदृष्ट्या लोकानुपासीतेति तद­धि­क­र­ण­पू­र्व­पक्षे लोकेष्विति सप्तम्या योऽर्थः अनी­प्सि­त­क­र्मत्वं लोका­ना­म­न्य­त्रापि नियुक्तानाम् असं­स्का­र्य­त­ये­प्सि­त­क­र्म­त्वा­यो­गात् तदेव तत्सिद्धान्ते सामेति द्वितीयाया अर्थ इति वक्ष्यत इति। यद्यपि कर्मा­र्था­प­रि­त्या­ग­मात्रं वक्ष्यते , न तु कर्म­णोऽ­नी­प्सि­त­त्वम् ; तथाप्युपासनायाः कर्मा­र्थ­त्वा­सं­भ­वाद् अर्था­द­नी­प्सि­तत्वे पर्यवसानं भवति , कर्म­णा­मु­पा­स­ना­र्थ­तायां हि दृष्टार्थता लभ्यते ; निरा­ल­म्ब­नो­पा­स­ना­नु­प­प­त्ते­रा­ल­म्ब­नस्य तदपेक्षितत्वात् । उपासनायाः कर्मा­र्थ­त्वेऽ­दृ­ष्टा­र्थता स्याद् ; उपा­स­ने­नो­द्गी­था­दि­षू­त्प­त्ति­प्रा­प्ति­वि­कृ­ती­ना­म­सं­भ­वे­ना­दृ­ष्ट­सं­स्का­र­स्यैव वक्तव्यत्वात् । दृष्टा­दृ­ष्ट­फ­ल­प­र्य­व­सा­य्य­न्व­य­द्व­य­सं­भवे च दृष्ट­फ­ल­प­र्य­व­सा­य्ये­वा­न्वयो ग्राह्यः । अत एव "खलेवाली यूपो भव­ती"त्यस्य यः खादिरादिः प्रकृतितः प्राप्तो यूपः तस्य खले­वा­ल्या­कृ­ति­प­र­तायां त्वदृष्टार्थता स्यादिति विधे­र्दृ­ष्टा­र्थ­त्व­लि­प्सया खलेवाल्या यूपकार्ये विधिराश्रितः । ननु तेनो­ङ्का­रे­णो­भा­वपि कुरुत इत्यादिना आप्त्या­दि­गु­ण­क­वि­ज्ञा­नस्य षोड­शि­ग्र­ह­ण­व­द­नि­य­ता­ङ्ग­त्व­म­ङ्गी­कृत्य तद्वि­ज्ञा­ना­वि­ज्ञा­नयोः फलाभेदं पूर्वपक्षयित्वा षोडशिग्रहणपक्षे इवा­ङ्ग­भू­य­स्त्वात् फलभूयस्त्वेन न्यायसिद्धेन सिद्धान्तः क्रियत इति तेनोभौ कुरुत इत्या­दि­श्रु­ति­र्व्या­ख्याता । इदं व्याख्यानं विद्ययेति तृतीयाश्रुत्या विज्ञानस्य कर्मा­ङ्ग­त्व­प्र­तीतेः , वीर्यवत्तरमिति तरपा विज्ञानपक्षे फल­भू­य­स्त्व­प्र­ती­तेश्च श्रुति­स्वा­र­स्या­नु­सा­र्यपि प्रकृ­ता­धि­क­र­णा­र्थ­वि­रु­द्धम् । उच्यते ; श्रुतौ वीर्यशब्देन फलं नोच्यते । वीर्यं हि लोके कार्यानुकूलं बलमिति प्रसिद्धं , न तु कार्यमेव । बलवत्तरत्वं च कर्मणः स्वफ­ल­ज­न­न­प्र­ति­ब­न्ध­का­पे­क्षया वक्तव्यम् ; अन्यस्य प्रकृ­ता­नु­प­यो­गात् । अतः स्वफ­ल­दा­नो­न्मु­खेन विरो­धि­क­र्मा­न्त­रे­णा­प्र­ति­ब­न्ध­रूपं फलान्तरवत्त्वं वीर्य­व­त्त­र­त्व­मि­त्यौ­चि­त्या­द­व­सी­यते । एवं च विद्ययेति तृतीयाश्रुतिः फलान्तरार्थस्य विज्ञानस्य मुख्यं कर्मशेषत्वं न प्रतिपादयति , किंतु कर्मभिरविलम्बेन फले जननीये तदुपकारकत्वरूपं मुख्यमेव शेषत्वमिति न श्रुते­र­ङ्ग­भू­य­स्त्वात् फल­भू­य­स्त्व­मि­त्य­स्मि­न्नर्थे स्वारस्यं , किंतु पृथ­ग्ध्य­प्र­ति­बन्धः फलमिति सूत्रोक्त एवार्थे । तस्मा­द­ङ्गा­धि­क्या­त्फ­ला­धि­क्य­मि­त्या­चा­र्य­व­च­नम् अप्र­ति­ब­न्धो­प­का­र­ज­न­क­सा­हि­त्यात् फल­स्या­वि­ल­म्ब­ल­क्ष­णम् इत्येतत्परतया व्याख्येयम् ॥४२॥
इति सप्तविंशं तन्नि­र्धा­र­णा­धि­क­र­णम् ॥

प्रदानवदेव तदुक्तम् ॥४३॥ ननु वायु­प्रा­ण­यो­स्त­त्त्वा­भे­देऽ­प्य­व­स्था­भे­दाद् भेदो "न वायुक्रिये पृथ­गु­प­दे­शा"दि­त्य­धि­क­रणे निर्णीतः , ततः प्रयोगभेद उपपन्न इत्याशङ्क्य हेत्वन्तरमाह –
तत्प्रा­प्ति­ल­क्ष­णेति ।
ननु – वाजसनेयके अध्या­त्म­प्रा­ण­श्रै­ष्ठ्या­नु­चि­न्त­नस्य "तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवतीति य एवं वेदेति" फलमुक्त्वा अथा­धि­दे­व­त­मि­त्यु­प­क्रा­न्तस्य वायु­श्रै­ष्ठ्या­नु­चि­न्त­नस्य "तेन एतस्यै देवतायै सायुज्यं सलोकतां जयती"ति फलान्तरमुक्तम् । अतो वाजसनेयके न फलैक्यं सिद्धम् , छान्दोग्ये "अन्न­वा­न­न्नादो भवति य एवं वेदे"त्यु­त्प­त्ति­वा­क्य­श्रु­त­फ­लै­क्येऽपि तत्फ­ल­मु­पा­स्य­दे­व­ता­प्रा­प्ति­रूपं न भवति , अत­स्त­त्प्रा­प्ति­ल­क्ष­ण­फ­लै­क्या­दिति हेतोरुभयत्रापि नान्वय इति – चेत् , उच्यते ; वाजसनेयके "योऽयं मध्यमः प्राणः प्राणाद्वा एष सूर्य उदे­ती­त्यु­प­क्र­मो­प­सं­हा­रै­क­रू­प्यात् कृत्स्नमपीदं प्रक­र­ण­मे­क­वि­द्या­वि­ष­य­मिति उप­सं­हा­र­श्रु­त­दे­व­ता­सा­यु­ज्य­रू­प­फ­लै­क्य­मु­क्तम् । अर्थ­वा­दा­न्त­र­प्राप्तं कुलश्रैष्ठ्यं फलान्तरं भवति चेद् , भवतु नाम , छान्दोग्ये तत्प्रा­प्ति­ल­क्ष­ण­फ­ला­श्र­व­णेऽपि पूर्वपक्षे हेतु­त­याऽ­पे­क्षि­तस्य फलैक्यस्य सद्भावोऽस्तीति तावता संगतिः । उपा­स्य­भे­द­फ­लैक्ये यद्यपि सत्यविद्यायामपि स्तः ; तथापि तत्रा­क्ष्या­दि­त्य­स्था­न­भे­दा­त्पृ­थ­ग­नु­चि­न्तनं व्यक्तमिति पूर्व­प­क्ष­सं­भा­व­नार्थं प्राण­श्रै­ष्ठ्य­विद्या संवर्गविद्या चोदाहृता ।
वत्कारो धर्मस्येति ।
दधि­त­ण्डु­ला­दि­व­दिति वति­प्र­त्य­योऽ­ध्या­त्म­म­धि­दै­वतं च भिन्नस्य गुण­जा­त­स्यो­प­मार्थ इत्यर्थः ।
देव­ता­का­ण्डा­धि­क­र­ण­स्येति ।
यद्यपि संकर्षकाण्डो न देवताविचारार्थं प्रवर्तितः , किंतु द्वाद­श­ल­क्ष­ण्य­वि­चा­रि­त­ना­ना­वि­ष­य­न्या­य­वि­चा­रा­त्म­क­स्त­त्प­रि­शिष्टः तन्त्र­प्र­स­ङ्ग­व­दु­प­दे­शा­ति­दे­श­सा­धा­र­ण्येन प्रकीर्णकः प्रवर्तितः । न हि तत्र देव­ता­वि­चा­रे­णो­प­क्रम उपसंहारो वाऽस्ति। तत्र ह्य"नुय­ज­ती­त्य­नु­व­ष­ट्का­र­श्चो­द्यते" इति सूत्रेण प्रथमं सोमस्याग्रे व्रीही­त्य­नु­य­ज­ती­त्यत्र किमै­न्द्र­वा­य­वा­दि­या­गेषु मन्त्रविधानमुत कर्मा­न्त­र­वि­धा­न­मिति विचारेणोपक्रमः , "पशा­वु­त्तमे प्रयाजे स्रुगादापनो न विद्यते संप्रे­षि­त­त्वाद्" विद्यते वाऽन्यकालत्वाद् यथाऽऽ­ज्य­सं­प्रेषो यथाऽऽ­ज्य­सं­प्रेष' इति सूत्राभ्यां पशौ प्रथ­म­प्र­या­जो­प­क्रमे होत्रा प्रयु­क्तोऽ­ग्नि­र्होता वेत्व­ग्नि­र्होत्रं वेत्वित्यादिः स्रुगा­दा­प­न­मन्त्र उक्तः प्रयाजोपक्रमे न प्रयोक्तव्य उत तदानीमपि प्रयोक्तव्य इति विचारेण शास्त्रसमापनम् ; तथापि संकर्षे देव­ता­वि­धा­न­र­हि­ते­षू­पां­शु­या­जा­दिषु देवताऽस्ति न वा प्रयाजादिषु देवतावाचिनः समि­द्ब­र्हि­रा­दि­शब्दाः दर्श­पू­र्ण­मा­सा­ङ्ग­प्र­सि­द्ध­स­मि­द्ब­र्हि­रा­दि­प­रा­स्त­द­न्य­परा वा "अग्निं होत्रायावह स्वं महि­मा­न­मा­व­हे"त्यत्र होत्र­श­ब्दो­क्त­हो­म­द्र­व्या­र्थ­त्वेन श्रुतः स्विष्ट­कृ­द­ग्नि­रा­ह­व­नीयो गार्हपत्यो वा पशौ यष्टव्या वनस्पतिदेवता पश्व­ङ्ग­यू­प­रू­पाऽन्या वा स्वाहा देवा आज्यपा जुषाणा इत्यत्राज्यपाः सक­ल­प्र­या­जा­नू­या­ज­दे­वताः , उत्त­म­प्र­या­जा­नू­या­ज­मा­त्र­दे­वता वा ग्रहाणां वैराजस्य स्तोत्रा­ये­त्या­दि­च­तु­र्थी­नि­र्दि­ष्टानि स्तोत्राणि देवता आग्नेयं गृह्णा­ती­त्या­दि­त­द्धि­त­नि­र्दिष्टा अग्न्यादयो वा "यां देवतां वषट्करिष्यन् स्यात्तां मनसा ध्यायेदि”ति देव­ता­वा­चि­श­ब्द­ध्या­न­विधिः देव­ता­र्थ­ध्या­न­वि­धिर्वा "यजेति द्व्यक्षरं ये यजामह इति पञ्चा­क्ष­रमि"ति विहि­त­यो­र्य­ज­ये­य­जा­म­ह­यो­रग्निं विष्णु­मि­त्या­दि­द्वि­ती­या­न्त­दे­व­तानां निर्देशः कार्यो न वा, "आवह देवा­न्य­ज­मा­नाये"ति प्राक­र­णि­क­स­क­ल­दे­व­ता­वि­षयो वा अग्नि­म­ग्न­आ­व­हे­त्या­दि­नि­र्दे­क्ष्य­मा­णा­ग्न्या­दि­दे­व­ता­मा­त्र­वि­षयो वा "देवान् यजे"ति प्रथ­मा­नू­या­जो­प­क्र­म­प्रैषे देवानिति शब्दः प्रथ­मा­नू­या­ज­दे­व­ता­वि­षयः सर्वा­नु­या­ज­दे­व­ता­वि­षयो वेत्या­दि­दे­व­ता­वि­चा­र­भू­य­स्त्वाद् भूम्ना संक­र्ष­का­ण्ड­स्यैव देवताकाण्ड इत्यपि व्यवहारोऽस्तीति तस्य तेनोपादानम् ।
पूर्वपक्षं सिद्धान्तं चाहेति ।
संकर्षे नाना­प्र­दा­ना­धि­क­र­णात् पूर्वाधिकरणे "तेषां पृथक्कृतानां निरवदानं यथाऽन्येषां हविः­पृ­थ­क्त्वादि"ति सूत्रेण ऐन्द्रा­दि­पु­रो­डा­शा­ना­म­ध्य­र्धां­श­श्र­पणे कृते अवदानवेलायां पुरोडाशान् पृथक्कृत्य पृथगवदानानि तन्म­ध्य­पू­र्वा­र्धाभ्यां ग्राह्याणि उत पुरोडाशत्रयादपि सहैवावदानानि ग्राह्याणीति संशये हविर्भेदात् पृथगिति पूर्वपक्षं प्रापय्य "वचनात् सर्वेषां सहाऽ­व­दी­येते"ति सूत्रेण “सर्वे­षा­म­भि­ग­म­य­न्न­व­द्यती”ति वचनात् सर्वे­षा­मि­न्द्रा­दीनां त्रयाणां पुरो­डा­शा­न­भि­ग­म­यन् प्रापयन्नवद्यति न पर्या­ये­णे­त्ये­त­द­र्थ­का­त्स­है­वा­व­दा­नम् । नास्ति वचनस्यातिभारः ; पुरोडाशानां मध्यभागे नली­क­प्र­वे­श­ना­द्यु­पा­येन मध्यादपि युगपदवदानं ग्राह्यमिति सिद्धान्तः कृतः । तत”स्तेषां पृथक् प्रदा­न­म­व­दा­नै­क­त्वा”दिति सूत्रे­णा­स्या­धि­क­र­णस्य पूर्वपक्षः कृतः । अत्रा­व­दा­नै­क­त्वा­दिति सौत्रहेतुरेव मिलितानां श्रप­णा­वि­शे­षा­दिति टीकाग्रन्थे विवक्षितः ।
प्रथ­म­पु­रो­डा­श­प्र­दान इति ।
अस्याः त्रिपुरोडाशायाः त्रैधा­त­वी­या­ख्याया इष्टे­र्या­ज्या­नु­वा­क्या­रू­प­तया प्राच्यां दिशि त्वमिन्द्रोसि राज्ये­त्या­द­य­स्तिस्र ऋचः समाम्नाताः । तत्र प्रथमयागे प्रथमानुवाक्या मध्यमा याज्या पुनःप्रयोगे द्वितीयभागे मध्यमानुवाक्या तृतीया याज्या , पश्चा­त्तृ­ती­य­प्र­योगे तृतीयाऽनुवाक्या या पूर्वं प्रथ­म­प्र­यो­गेऽ­नु­वाक्या प्रथमा साऽत्र याज्येत्यर्थः ।
संकर्षे नाना­प्र­दा­ना­धि­क­र­ण­स्या”न्या­र्थ­प्र­द­र्श­नाच्चे”ति गुणसूत्रं भाष्यकृता भवस्वामिनेत्थं व्याख्यातम् –
याज्याऽ­नु­वा­क्या­वि­नि­यो­ग­परं वचनं प्रधानभेदं प्रकाशयति , “प्रथमामनूच्य मध्यमया यजेद् मध्य­मा­म­नू­च्यो­त्त­मया यजेद् उत्तमामनूच्य प्रथमया यजेद् एवं सर्वा अनुवाक्याः सर्वा याज्या भवन्ति” इति ।
तद­नु­सा­रे­णे­त्थ­मा­चा­र्य­व­चनं योजितम् ।
प्राणने प्राप्ते प्राण्यादिति ।
अत्रेयं विषयशुद्धिः –
अध्यात्मं प्राणं वागा­दीं­श्चा­धि­दै­वतं वायु­म­ग्न्या­दीं­श्चो­प­क्रम्य "अथ यो है तान­न­न्ता­नु­पास्ते अनन्तं स लोकं जयती"ति तेषा­मु­पा­स­ना­सा­फ­ल्य­मुक्त्वा "अथातो व्रत­मी­मां­से"त्य­ध्यात्मं प्राण­स्या­धि­दै­वतं वायोश्च व्रतं तदुपासकेन कार्यं , न तु वागा­दी­ना­म­ग्न्या­दीनां वेति निर्धारणार्थं विचारं प्रस्तुत्य वागा­दी­ना­म­भि­व­द­ना­दि­नि­य­म­रू­प­स्या­ग्न्या­दीनां प्रज्व­ल­ना­दि­नि­य­म­रू­पस्य च व्रतस्य तेषां श्रान्त्य­स्त­म­याभ्यां भङ्गमुक्त्वा आध्या­त्मि­का­धि­दै­व­त­भे­द­भि­न्नस्य प्राणस्य स्वव्या­पा­र­नि­य­म­रू­प­व्र­ता­भ­ङ्ग­मुक्त्वा "तस्मा­दे­क­मेव व्रतं चरे­दि"त्य­भ­ग्न­व्र­तस्य प्राणस्यैव व्रतं तद्व्या­पा­र­रू­प­मु­पा­स­नया प्राणात्मतां प्राप्त उपासकश्चरेन्न वागा­दि­व्या­पा­र­म­भि­व­द­ना­दि­रू­प­मि­ती­त­र­नि­वृत्तिं विधाय तत् किं प्राण­व्र­त­मि­त्या­का­ङ्क्षा­या­मि­द­मा­म्ना­यते प्राण्या­च्चै­वा­पा­न्या­च्चेति ।
तत्र जीवत उपासकस्य स्वरससिद्धयोः प्राण­ना­पा­न­न­व्या­पा­र­यो­र्वि­धानं व्यर्थ­मि­त्या­शङ्क्य प्राण्या­च्चै­वेति एवकारलब्धा अप्रसक्तयोः प्राण­ना­पा­न­न­व्या­पा­रयोः कदाचिदिच्छया प्रसक्तस्य निरोधस्य निवृ­त्ति­र्व्र­त­त्वेन विव­क्षि­ते­त्या­चा­र्यै­र्द­र्शि­तम् –
प्राणने प्राप्ते प्राण्यादपानने प्राप्तेऽ­पा­न्या­त्प्रा­णा­पा­न­नि­रो­धनं न कुर्यादित्यर्थ इति ।
ननु – एकमेवेति यावज्जीवं वागा­दि­व्या­पा­र­नि­वृत्तिः कथं विहिता ? अशक्यत्वादिति – चेत् , उच्यते ; वागा­दि­व्या­पा­रे­ष्वपि प्राण­व्या­पा­र­ता­दृष्टिः कर्तव्या , वागा­दि­भि­र­भ­ग्न­व्र­त­त्वेन प्राणस्य श्रैष्ठ्यं निर्धार्य प्राणा­ना­म­रू­पत्वं प्राप्तमिति "हन्ताऽ­स्यैव सर्वे रूप­म­सा­मेति" "एतस्यैव सर्वे रूप­म­भ­वं­स्त­स्मा­दे­त­ए­ते­ना­ख्या­यन्ते प्राणा" इतीति प्राचीनसंदर्भे प्रतिपादितत्वेन वागा­दि­व्या­पा­रेषु प्राण­व्या­पा­र­ता­दृ­ष्टे­रु­चि­त­त्वा­दिति तात्पर्यम् । अतो वागा­दि­व्या­पा­रस्य स्वरूपतो निवृत्तिर्न विधेयेति नाश­क्या­नु­ष्ठा­नता । केषु­चि­न्मू­ल­को­शेषु – प्राणने प्राप्ते अपान्याद् अपानने प्राप्ते प्राण्यात् प्राणापाननिरोधं कुर्यादित्यर्थ इति पाठो दृश्यते । स पाठो बृहदारण्यके प्राण­स्या­भ­ग्न­व­त­त्वो­प­क्र­म­वि­रो­धा­त्त­द्भा­ष्य­वा­र्ति­क­कृ­द्व्या­ख्या­न­वि­रो­धाच्च न सांप्रदायिकः ।
सायुज्यं समानदेहतामिति ।
दिह उपचय इति धातोर्घञन्तो देहशब्दो योगेनोपचयवाची भोगसमृद्धिपरः । अतः समा­न­भो­ग­ता­मि­त्यर्थः , न तु सारू­प्य­मि­त्यर्थः । उत्कृ­ष्टो­पा­स­ना­फ­लस्य भोग­सा­म्य­रू­प­तायाः सूत्रकृता वक्ष्यमाणत्वात् ॥४३॥
इति अष्टाविंशं प्रदानाधिकरणम्॥

लिङ्ग­भू­य­स्त्वा­त्तद्धि बलीयस्तदपि ॥४४॥
प्रकरणेनेति ।
नन्व­ग्नि­र­ह­स्य­ब्रा­ह्मणे मनश्चिदादीनां क्रतो­र्वि­नि­यो­जकं क्रतुप्रकरणं नास्ति , किंत्व­ना­र­भ्या­धी­तस्य क्रत्व­ङ्ग­स्या­ग्ने­रेव प्रकरणं , तावतश्च क्रत्व­ङ्ग­प्रा­य­पा­ठ­ल­क्षणः संनिधिरेव लभ्यते । सत्यम् ; संनिधिरेवात्र लौकि­क­प्र­क­र­ण­ल­क्षणः प्रक­र­ण­श­ब्दे­नोक्तः ।
अर्थ­ग­त­मु­दा­ह­र­तीति ।
पशुना यजेतेत्यत्र तृती­यै­क­व­च­ना­र्थस्य एकत्वस्य समानपदोपात्तेन पशुना नान्वयः एकः पशुरिति , किंतु समा­न­प्र­त्य­यो­पा­त्तेन करणकारकेणान्वयः ; एकत्वसंख्या करणकारकमिति समानपदश्रुतेः समा­न­प्र­त्य­य­श्रु­ते­र­न्त­र­ङ्ग­तया बलीयस्त्वात् । तदुक्तम् – तथा ’पश्वङ्गमेकत्वं पदश्रुत्या प्रतीयते । समा­न­प्र­त्य­य­श्रुत्या बलीयस्या क्रियाङ्गता’॥ इति , एवं शब्दान्वये स्थिते संख्यायाः साक्षा­त्क्रि­या­नि­र्व­र्त­क­त्वा­यो­गाद् द्वारा­न्व­या­पे­क्षायां संख्याया अव­च्छे­द­सा­म­र्थ्य­रू­पा­ल्लि­ङ्गा­त्प­शु­द्र­व्या­व­च्छे­द­क­त­याऽ­रु­णै­क­हा­य­नी­न्या­येन पार्ष्ठिकान्वय इति मीमांसका वदन्ति , तदि­हो­दा­ह­र­ती­त्यर्थः ।
पत्नी­सं­या­जा­न्ता­न्य­हानि संतिष्ठन्त इति वचनादिति ।
ननु – द्वाद­शा­ह­प्र­क­र­णा­म्नातं सर्वे­षा­म­ह्ना­म­सा­धा­र­ण­मिदं वचनम् अहरन्तरमपि स्पृशेदेव , अतोऽ­ह­र­न्त­र­प­क्षेऽ­प्ये­त­द्व­च­न­वि­रोधः समान इति – चेत् , उच्यते ; अहरन्तरपक्षे प्राय­णी­या­द्यु­द­य­नी­या­न्ता­ना­मह्नां बद्धक्रमत्वाद् मानसं त्रयोदशमहः स्यात् पत्नी­सं­या­जा­न्त­व­च­न­मु­क्त­म­ह­र्व­र्ज­यित्वा , अस्थितो हि तर्हि यज्ञ इति वाक्य­शे­षा­दि­व­शा­दिति "पत्नी­सं­या­ज­न्तत्वं सर्वे­षा­म­वि­शे­षादि"ति नावमिकाधिकरणे निर्णीतम् । अतोऽहन्तरपक्षे नास्ति वचनविरोधः ।
दशरात्रस्य द्वाद­शा­ह­वि­कृ­ति­त्वा­दिति ।
ननु द्वादशाहस्य प्राय­णी­योऽ­ति­रात्रः प्रथममहः ततः पृष्ठ्यः षड­ह­स्त­त­श्छ­न्दो­म­च­तु­ष्टयं तत उदयनीयोऽतिरात्र इति द्वादशाहानि । तत्र चतुर्थे छन्दोमे अविवाक्येऽह्नि मानसग्रहः , ततश्च द्वादशाहविकृतौ दशरात्रे द्वादशाहस्य प्रायणीयमारभ्य द्वादशानामह्नां धर्माः प्रवर्तेरन्निति तृती­य­च्छ­न्दो­ग­धर्म एव दशरात्रस्य दशमेऽहनि प्रवर्तेतेति तस्मि­न्न­वि­वा­क्य­ध­र्मा­प्र­वृत्तेः कथं मान­स­ग्र­ह­प्राप्तिः ? उच्यते ; द्वाद­शा­ह­वि­कृ­तिषु द्वादशाहस्य प्रायणीयोदयनीयौ वर्जयित्वा मध्यमदशरात्रस्य धर्माः प्रवर्तन्त इति दशमे "चोदनासु त्वपू­र्व­त्वा­ल्लि­ङ्गेन धर्मनियमः स्या" (जै. अ. १० पा. ५ सू. १२) दित्यधिकरणे निर्णीतम् । तस्मिन्नधिकरणे द्वाद­शा­ह­वि­कृ­तिषु द्विरात्रादिषु द्वादशाहस्य अह्नां धर्मा आदित आरभ्य प्रवर्तन्ते , प्रथमातिक्रमे कारणाभावादिति प्रापय्य सिद्धान्तितं लिङ्गविशेषैः प्रायणीयोदयनीयौ वर्जयित्वा मध्य­म­द­श­रा­त्र­ध­र्मा­णा­मेव विकृतिषु प्रवृत्तिः । तथा हि -द्विरात्रे श्रूयते – "यत्प्रथमं तद् द्वितीयं यद् द्वितीयं तत्तृ­ती­यमि"ति। द्विरात्रे यत्प्रथममहः तद् द्वादशाहे द्वितीयं यद् द्विरात्रे द्वितीयं तद् द्वादशाहे तृतीयमित्यर्थः । इदमेकं लिङ्गम् । तथा द्विरात्र एव "जगतीमं तर्प्यन्ती”ति पार्ष्ठिकस्य तृतीयस्याह्नो जागतस्यान्तरायः श्रूयते । सोऽपि पार्ष्ठिकेन द्वितीयेनाऽह्ना द्विरात्रस्य समाप्तिं प्रथयत् प्राय­णी­य­व­र्ज्या­ति­दे­श­लि­ङ्ग­तया द्वादशाहस्य मध्यमेषु दशसु अहःसु दश­रा­त्र­श­ब्द­प्र­सि­द्धि­रस्ति द्विरा­त्रा­दि­चो­द­ना­स्वपि रात्रशब्दोऽस्ति , तच्चोदनालिङ्गं विशेषलिङ्गं सद­ह­र्ग­ण­त्व­सा­मा­न्य­लि­ङ्गाद् बलीयः । तेन यत्प्रथमं तद्द्वि­ती­य­मि­त्या­दि­लि­ङ्गा­नु­गृ­ही­तेन द्विरा­त्रा­दि­वि­कृ­तिषु मध्य­म­द­श­रा­त्र­स्यैव प्रवृत्तिरिति।
तस्मा­न्म­ध्य­म­द­श­रात्रे दश­म­म­ह­र­वि­वा­क्य­मिति दशरात्रस्य दशमेऽहनि तद्ध­र्म­प्र­वृत्त्या मान­स­ग्र­ह­प्रा­प्ति­रस्ति ।
एवं च भाष्ये दशरात्रशब्दस्य द्वाद­शा­हा­न्त­र्ग­त­म­ध्य­म­द­श­रा­त्र­वि­ष­य­तै­वो­प­प­न्नेति विकृ­ति­द­श­रा­त्रा­न्वे­ष­ण­मपि न कार्यमिति द्रष्टव्यम् ॥४४॥४५॥
मनो­वृ­त्ति­ष्व­ग्नि­त्व­दृ­ष्टि­वि­धे­रिति ।
क्रत्व­ङ्गा­ना­श्रि­त­त्व­हेतुं षट्त्रिं­श­त्स­ह­स्रा­णी­त्या­दि­श्रु­त्य­र्थो­प­न्या­से­नो­प­पा­द­यति –
षट्त्रिंशतं सहस्राणीति ।
श्रुता­वा­त्म­नोऽ­ग्नी­नि­त्य­त्रा­त्मन इति षष्ठी ; अग्नीनां तद्वृत्तिषु दृष्टिविधानाद् , वृत्ति­म­द्भा­व­सं­ब­न्धा­र्थे­त्य­भि­प्रेत्य तदर्थं विवृणोति –
आत्मनो वृत्तीरग्नीनिति ।
नन्व­तु­ल्य­का­र्य­त्वेन विकल्पासंभवे स्पष्टे कथं विकल्पेन पूर्वपक्ष: , पूर्वविकल्प इति सूत्रेण कृतः ? इत्याशङ्क्याह –
क्रिया­नु­प्र­वे­श­मा­त्र­मिति ।
विकल्पः पूर्वपक्षे न विवक्षितः , प्रसि­द्धा­ग्नि­वि­ल­क्ष­णा­ग्नि­प्र­का­र­भे­द­मात्रं सूत्रे विकल्पशब्देन विव­क्षि­त­मे­व­म­य­म­प्य­ग्नि­वि­कल्प इति भाष्ये तस्य व्याख्यातत्वात् । इह तु विकल्प इति मन्द­श­ङ्का­मा­त्रस्य निरा­क­र­ण­मि­त्यर्थः । इत्थमवतारिकया टीकायां यदु­क्त­मि­त्ये­त­दा­शं­सायां भूतवद्विधानाद् यदि वक्तुमिष्टं यदि विवक्षितं इत्येवंपरतया व्याख्यातं भवति।
तद­ङ्गा­वे­ष्टा­व­पीति ।
तद­न्त­र्ग­ता­वे­ष्टा­वि­त्यर्थः ; राज­सू­या­न्त­र्ग­ते­ष्टि­प­शु­सो­मानां सर्वेषां सम­प्र­धा­न­त्वे­नाऽ­वे­ष्टे­र­ङ्ग­त्वा­भा­वात् ।
राज्यस्य कर्ता राजेति ।
त्रैवर्णिकानां राजत्वादिति ।
यद्यपि क्षत्रियस्यैव राज्यपरिपालनं धर्मः ; तथाऽ­प्यु­ल्ल­ङ्घि­त­म­र्यादौ ब्राह्म­ण­वै­श्या­वपि राज्यं कुर्वाणौ दृश्येते । अतस्तावपि राजशब्दवाच्यौ ; शब्दवाच्यतायां प्रवृ­त्ति­नि­मि­त्त­स­द्भा­व­मा­त्र­स्या­पे­क्षि­त­त्वा­दिति भावः ।
शास्त्रसहितेति ।
शास्त्र­स­हि­ता­ना­मा­र्याणां प्रसि­द्ध्ये­त्यर्थः । गावोऽनुधावन्ति अनुकुर्वन्ति चतुष्पात्त्वेन ।
शुक्ला­दि­श­ब्देभ्य इति ।
जडा­दि­श­ब्दा­ना­मु­प­ल­क्ष­ण­मे­तत् । शुक्ला­दि­श­ब्देभ्यो हि भावार्थमात्रे ष्यञिमनिचौ प्रत्ययौ विहितौ । तत्र शुक्लस्य भावः शौक्ल्यं शुक्लि­मे­त्या­द्यु­दा­ह­र­णम् । उदाहृतसूत्रे जाड्या­दि­गु­ण­व­च­नेभ्यो ब्राह्म­णा­दि­भ्यश्च भाव­क­र्म­णो­र­र्थयोः ष्यञ्प्र­त्य­य­मात्रं विधीयते जाड्यं मौढ्यमित्यादि तदुदाहरणम्॥ अना­दि­वृ­द्ध­व्य­व­हा­र­रू­ढ­त्वा­दिति॥ ननु तथात्वेऽपि स्वर­व­र्णा­दि­भ्रंशे प्रत्य­वा­य­म­नु­सं­द­धा­ना­ना­मा­र्याणां प्रसि­द्धि­रा­प्ति­मू­ल­त्वेन बलवती , म्लेच्छानां तु गवादिविषये गाव्या­दि­श­ब्द­म­प­भ्रंशं प्रयुञ्जानानां प्रसि­द्धि­र­ना­प्ति­मू­ल­त्वेन दुर्बला , अतः स्वरूपतस्तावन्न विशे­षोऽ­स्ती­त्ये­त­द­यु­क्तम् , राजशब्दे त्वार्य­प्र­सि­द्धे­र्नास्ति वेदानुग्रह इत्ये­त­द­प्य­यु­क्तम् ; "सोमोऽ­स्माकं ब्राह्मणानां राजा सोम ओषधीनां राजा तौ वा एतौ देवतानां यद­ग्नी­षोमौ" "इन्द्रो राजा जग­त­श्च­र्ष­णी­ना"मि­त्या­दि­वे­दा­नु­ग्र­ह­स­त्त्वात् , तदभावेऽपि स्वत एवा­र्य­प्र­सि­द्धे­र्ब­ल­व­त्त्व­वि­शे­ष­स­द्भा­वाच्च । विशे­ष­मा­हे­त्य­प्य­यु­क्तम् ; स्मृत्य­नु­ग्र­हस्य वक्ष्य­मा­ण­री­त्यो­भ­य­त्रा­प्य­वि­शे­षात् । स्मृत्यनुगृहीतो म्लेच्छप्रयोग आर्य­प्र­यो­गा­द्ब­ली­या­नि­त्य­प्य­यु­क्तम् ; राज्यशब्दे गुण­व­च­ना­दि­सू­त्र­वि­धी­य­मा­न­ष्य­ञ्प्र­त्य­य­प्र­कृ­ति­भू­तस्य ब्राह्म­णा­दि­ग­ण­प­ठि­तस्य राजशब्दस्य क्षत्रि­या­र्थ­ताया इव पालकार्थताया अप्युपपन्नतया स्मृते­रु­भ­य­सा­धा­र­ण्यात् । न हि विधी­य­मा­न­प्र­त्य­या­र्था­द­न्य­देव प्रकृ­त्य­र्थ­प्र­वृ­त्ति­नि­मित्तं ग्राह्यमिति नियमोऽस्ति ; काठकशब्दे कठ­प्रो­क्त­शा­खा­ध्या­यि­ना­मा­म्नाय इत्यर्थके गोत्र­च­र­णा­दि­सू­त्र­वि­धी­य­मा­न­प्र­त्य­या­र्थस्य कठ­प्रो­क्ता­म्ना­यस्य कठ­प्रो­क्त­शा­खा­ध्या­यि­वा­च­क­क­ठ­श­ब्द­रू­प­प्र­कृ­त्य­र्थ­प्र­वृ­त्ति­नि­मि­त्ता­न्त­र्भा­व­द­र्श­नात् , घटस्य शौक्ल्यमित्यत्र वर्ण­दृ­ढा­दि­सू­त्र­वि­धी­य­मा­नस्य ष्यञ्प्र­त्य­या­र्थस्य शुक्लगुणस्यैव शुक्ल­गु­ण­वि­शि­ष्ट­द्र­व्य­वि­ष­य­शु­क्ल­श­ब्द­रू­प­प्र­कृ­त्य­र्थ­प्र­वृ­त्ति­नि­मि­त्त­त्व­द­र्श­नात् । किंच ब्राह्म­णा­दि­ग­ण­प­ठि­तस्य राजशब्दस्य पालकार्थत्वमेव ग्राह्यम् ; अन्यथा "यौव­रा­ज्येन संयोक्तुमैच्छत् प्रीत्या मही­प­ति"रि­त्या­दि­प्र­यो­गेषु ष्यञ्प्रत्ययो न स्यात् । तत्र राजशब्दस्य क्षत्रि­या­र्थत्वे युवत्वराजत्वयोः प्रागेव सिद्धतया संयो­क्तु­मि­ष्य­मा­ण­स्या­ला­भात् । न च – तत्र मा भूत् ष्यञ्प्रत्ययः “पत्य­न्त­पु­रो­हि­ता­दिभ्यो यगि"ति भावकर्मणोरेव विहितो यक्प्र­त्य­योऽस्तु , पुरो­हि­ता­दि­ग­णेऽपि राजशब्दस्य पाठादिति - वाच्यम् ; तत्र राजाऽसमासे इत्ये­त­द­स­मा­स­ग­तस्य राजशब्दस्य पाठेन ततो युव­रा­ज­श­ब्दा­द्य­ग­प्राप्त्या ष्यञ एवा­न्वे­ष­णी­य­त्वात् , ब्राह्म­णा­दि­ग­ण­प­ठि­त­स्यैव तस्यापि पाल­का­र्थ­त्वो­प­प­त्तेश्च , जनपदविशेषवाचिनो विदे­ह­प­ञ्चा­ला­दि­श­ब्दात् तस्य राजेत्यर्थे अप­त्या­र्थ­प्र­त्य­या­ति­दे­शके “तस्य राज­न्य­प­त्य­वदि”ति वार्तिके राजशब्दस्य पालकार्थतायाः संप्र­ति­प­न्न­त्वाच्च । विदेहानां राजा वैदेहः पञ्चालानां राजा पाञ्चाल इत्यादि हि तदुदाहरणम् । एवं राजपदस्य पाल­का­र्थ­त्वा­ध्य­व­साये सति यत्कर्मधारय इति ब्राह्म­ण­कु­मा­र­यो­रिति चानुक्तौ राजेति पूर्वपदं ब्राह्म­ण­कु­मा­र­यो­रु­त्त­र­प­द­यो­र­न्य­त­रस्यां प्रकृतिस्वरो भवति पूर्व­प­द­प्र­कृ­ति­स्व­र­वि­धा­य­कस्य “राजा चे”ति सूत्रस्योदाहरणं राजब्राह्मण इति तदपि राज­त्व­ब्रा­ह्म­ण­त्व­यो­र्यु­ग­प­त्सा­मा­ना­धि­क­र­ण्या­दा­ञ्जस्यं लभते । ननु – मा भूद् राज्य­श­ब्द­व्यु­त्पा­द­क­स्मृत्या म्लेच्छ­प्र­सि­द्धे­र­नु­ग्रहः , "राज­श्व­शु­रा­द्यदि"ति स्मृत्या राज­श­ब्दा­द­प­त्त्यार्थे यत्प्र­त्य­य­वि­धा­ना­र्थया तु स्यात् , क्षत्रियापत्य इव जन­प­द­पा­ल­क­ब्रा­ह्म­णा­द्य­पत्ये राज­न्य­श­ब्द­प्र­यो­गा­भा­वेन तत्र प्रकृतिभूतस्य राजपदस्य क्षत्रि­या­र्थ­ताया एव ग्राह्यत्वादिति – चेत् , किं ततः ? एव­मा­र्य­प्र­सि­द्धे­रपि पाणि­नि­स्मृ­त्य­नु­ग्र­होऽ­स्तीति राजसूयवाक्ये क्षत्रियग्रहे नैव किंचिद्विनिगमकं लब्धम् । एतेन – स्मृतिशब्देन आर्षं धर्म­शा­स्त्रा­दि­क­म­नु­ग्रा­ह­क­त्वेन विवक्षितम् । गौतमीये हि धर्मशास्त्रे द्विजा­ती­ना­म­ध्य­य­न­मिज्या दानमिति त्रैवर्णिकानां साधा­र­ण­ध­र्मो­क्त्य­न­न्तरं ब्राह्म­ण­स्या­धिकाः प्रव­च­न­या­ज­न­प्र­ति­ग्रहा इत्यादिना ब्राह्म­ण­वै­शे­षि­क­ध­र्मा­नुक्त्वा क्षत्रि­य­वै­शे­षि­क­ध­र्मो­क्ति­प्र­स्तावे राज्ञोऽधिकं रक्षणं सर्वभूतानामिति राजशब्दः प्रयुक्तः । न च तस्य पालकार्थग्रहणं युक्तम् ; प्रकरणानुरोधात् , पालकमेवोद्दिश्य पाल­न­वि­धा­ना­यो­गाच्च । न हि यः पालकः तेन पालनं कर्त­व्य­मि­त्य­न्वेति , एवं धर्म­शा­स्त्रा­न्त­र­म­प्यु­दा­ह­र्त­व्यम् । स्मृतिग्रहणमत्र श्रुते­र­प्यु­प­ल­क्ष­णम् । अस्ति हि म्लेच्छ­प्र­सि­द्धे­र­नु­ग्रा­हिका "राजा­न­म­भि­षे­च­येत् तिष्येन श्रवणेन वेति" श्रुतिः । अत्र राज्ञः सतोऽभिषेको विधीयते । न च क्षत्रियत्वमिव पालकत्वं प्राक् सिद्धमस्ति ; अभिषिक्तस्य स्मृतिषु पालनविधानात् । न च यूपं तक्षतीत्यत्र तक्षणेन यूपं कुर्यादितिवद् , अभिषेकेण राजानं कुर्यादिति क्लिष्टयोजनं न्याय्यम् ; यूप­श­ब्दा­र्थ­स्येव राजशब्दार्थस्य प्राक्सि­द्ध­स्या­स­त्त्वा­भा­वाद् , म्लेच्छ­प्र­यो­ग­प्र­सि­द्धस्य क्षत्रियस्य सत्त्वादिति – निरस्तम् । एवमपि विनि­ग­म­ना­वि­र­ह­दू­ष­णा­न­ति­ल­ङ्घ­नाद , आर्य­प्र­सि­द्धे­रपि श्रुत्य­नु­ग्र­हस्य दर्शितत्वात् , "नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर । विविक्ते देवराजानमिदं वच­न­म­ब्र­वीत्"॥ इत्या­दि­स्मृ­त्य­नु­ग्र­ह­स्यापि सत्त्वात् । "राज्यायैव तेऽभिषिच्यन्ते तेनैतान् राजे­त्या­च­क्षत" इति श्रुतौ "रञ्जनात् खलु राजत्वं प्रजानां पाल­ना­दपी"ति भारतवचने च पालकत्वं राजशब्दार्थ इति साक्षादेव प्रतिपादनाच्च । एतेनैव – क्षत्रियवाचिनो राजपदस्य पाल­क­त्व­सा­दृ­श्याद् आर्याणां जनपदपरिपालके ब्राह्मणादौ प्रयोग इत्ये­त­द­र्थ­का­ग्रि­म­ग्र­न्थ­स्या­प्य­यु­क्तत्वं – व्याख्यातम् ; पालकवाचिन एव पाल­क­त्व­यो­ग्य­क्ष­त्रिये गौणतेति वैपरीत्यस्यापि वक्तुं शक्यत्वात् , तस्मा­त्स­र्वोऽ­य­म­नु­प­पन्नः सिद्धान्तग्रन्थ इति – चेत् , उच्यते ; विनि­ग­म­ना­वि­र­हा­द­र्थ­द्व­य­स­त्त्वेऽपि राजसूयवाक्ये क्षत्रिय एवार्थो ग्राह्यः । सप्र­ति­यो­गि­कौ­पा­धि­क­ध­र्म­रू­प­पा­ल­क­त्वा­पे­क्षया निष्प्र­ति­यो­गि­का­ख­ण्ड­रू­प­ध­र्म­क्ष­त्रि­य­जा­ते­र्ल­घु­त्वेन असति बाधके लघु­प्र­वृ­त्ति­नि­मि­त्त­का­र्थ­ग्र­ह­णौ­चि­त्यात् । न च – अवे­ष्टि­वा­क्य­ग­त­त्रै­व­र्णि­क­प्रा­प्ति­द्यो­त­क­य­दि­श­ब्द­स्वा­र­स्याद् गुरोरप्यर्थस्य ग्रहणं स्यादिति – वाच्यम् , द्योत­क­नि­पा­त­स्वा­र­स्या­नु­रो­धेन वाचकानां स्वार­स्य­हा­ना­यो­गात् । वस्तुतस्तु – श्रुति­स्मृ­ति­प्र­यो­ग­वै­या­क­र­ण­व्य­व­हा­रा­णा­मु­भ­यत्र साम्येऽपि क्षत्रियेष्वेव शक्तिः ; तेषु क्षत्रि­य­त्व­जा­ते­रिव पाल­के­ष्व­नु­ग­ताऽ­न­ति­प्र­स­क्त­श­क्य­ता­व­च्छे­द­क­रू­पा­भा­वात् । तथा हि – न पालनमात्रं निमित्तम् सर्व­सा­धा­र­ण्य­प्र­स­ङ्गात् ; अस्ति हि सर्वेषामपि पुत्र­दा­र­ध­ना­दि­वि­ष­य­म­न्ततः स्वशरीरविषयं वा पालनम् । नापि जनपदपरिपालनं निमित्तम् ; राज्ञा नियुक्ते तत्त­त्प­दा­धि­का­रिणि सत्यपि तस्मिन् राजपदाप्रयोगात् । नापि स्वतन्त्रपालनं निमित्तम् ; सम्राजा नृपतिना देशविशेषे राज­भा­वे­ना­भि­षिक्ते तदभावात् । किंच विनापि पालकत्वं श्रैष्ठ्य­मा­त्रेण राजपदप्रयोगो मृगराजः पक्षिराजो वृक्ष­रा­ज­श्चे­ती­त्या­दि­व्य­व­हारे दृश्यते । तस्य "राज­द­न्ता­दिषु पर"मि­त्यु­प­स­र्ज­न­प­र­नि­पा­त­वि­धा­य­क­पा­णि­नि­स्मृ­त्य­नु­ग्र­होऽ­प्यस्ति। तस्मा­द­नु­ग­ताऽ­न­ति­प्र­स­क्त­जा­ति­नि­मि­त्तकः क्षत्रियार्थ एव राजशब्दः क्षत्रियेषु प्रायेण पालकत्वस्य तत्कृतस्य श्रैष्ठ्यस्य च सद्भा­वा­त्क्व­चित् पालके केन­चि­त्के­न­चि­द्गु­णेन श्रैष्ठ्ये च तस्य निरूढा लक्षणेत्येव युक्तम् । इत्थं राज­श­ब्द­स्या­ने­का­र्थ­त्वेऽपि राजसूयवाक्ये लाघवात् क्षत्रियार्थो ग्राह्य इति व्यवस्थापनं वस्तुतस्त्वस्य क्षत्रि­या­र्थ­त्व­मे­वेति व्यवस्थापनं च तस्य क्षत्रि­या­र्थ­त्व­स­द्भा­वा­धी­नम् , तत्तु स्मृत्या­द्य­नु­गृ­ही­त­म्ले­च्छ­प्र­सि­द्धि­प्र­सा­द­ल­भ्य­मिति तदुक्तिः । एवं च स्वरूपतस्तावन्न विशे­षोऽ­स्ती­त्यस्य राज­श­ब्द­गो­च­र­यो­रा­र्य­म्ले­च्छ­प्र­यो­ग­यो­र्गो­गा­वी­श­ब्द­प्र­यो­ग­यो­रिव स्वरूपतो वर्णविकाररूपः श्रुति­स्मृ­त्य­नु­ग्र­ह­स­द्भा­व­कृतो वा विशेषो नास्तीत्यर्थः । एवमिह म्लेच्छ­प्र­सि­द्धे­र­प­भ्रं­श­त्वा­दि­मू­ल­क­दौ­र्ब­ल्य­शङ्का निरस्ता । तदनन्तरवाक्येन यव­व­रा­हा­दि­श­ब्दे­ष्वा­र्य­प्र­सि­द्धे­रेव वाक्य­शे­षा­नु­ग्रहः । अतस्तत्र तदादर इति प्रकृ­ता­द्वै­ष­म्य­मु­क्तम् । नास्ति वेदानुग्रह इत्यनेन वाक्य­शे­षा­नु­ग्रहो नास्तीत्युक्तम् । यदि राज­सू­य­वा­क्य­शे­षा­नु­ग्रहः स्यादा­र्य­प्र­सिद्धेः , तदा तद्वा­क्य­ग­त­रा­ज­श­ब्दस्य वक्ष्यमाणरीत्या प्रवृ­त्ति­नि­मि­त्त­गौ­रवं गौण­वृ­त्त्या­पत्तिं चाविगणय्य पालक एवार्थो ग्राह्यः स्यात् ; “गौण्या लक्षणया वापि वाक्यशेषेण वा पुनः । वेदो यमाश्रयत्यर्थं को नु तं प्रतिकूलयेत्” इति न्यायात् । अतो वाक्यशेषाभाव उक्तः । विशेषमाहेत्यस्य राजसूयवाक्ये राजशब्दस्य क्षत्रि­या­र्थ­ग्र­हणे प्रवृ­त्ति­नि­मि­त्त­ला­घ­व­रूपं मुख्य­वृ­त्ति­ला­भ­रूपं वा विशे­ष­मा­हे­त्यर्थः । स तु विशेषः क्षत्रि­य­त्व­प्र­सिद्धेः स्मृत्य­नु­ग्र­होक्त्या राजशब्दस्य क्षत्रिये शक्ति­स­द्भा­व­व्य­व­स्था­प­न­द्वारा सूचितः ।
तद्व्या­व­र्त­कत्वे वाक्य­भे­द­प्र­स­ङ्गा­दिति ।
विशि­ष्टो­द्दे­श­प्र­यु­क्त­वा­क्य­भे­द­प्र­स­ङ्गा­दि­त्यर्थः । ननु – राजपदस्य कर्तृ­स­म­र्प­क­त्वेऽपि वाक्य­भे­द­स्तुल्यः , उत्प­त्ति­वा­क्य­वि­हि­तान् यागाननूद्यैकेन फलसंबन्धस्य कर्तृसंबन्धस्य च विधानायोगादिति – चेत् ; स्यादेवं वाक्यभेदः , यदि कर्तृवत्फलमपि विधेयं स्यात् , न त्वेवम् ; तस्य काल­व­द­नु­पा­दे­य­त्वात् । अतः फलमनूद्य यागा विधेया इति तद­ङ्गा­ख्या­तो­पा­त्त­सं­ख्या­व­च्छे­द्य­क­र्तृ­वि­शे­ष­रू­प­तया राजैव विशिष्टविधिना विधेयो न फलमिति न वाक्य­भे­द­प्र­सङ्गः ।
न ह्यधि­का­र­वा­क्या­न्त­र­ग­त­मिति ।
तट­स्थ­वा­क्य­वि­हि­त­म­ङ्गम् अवे­ष्टि­प्र­यो­ग­द्व­य­सा­धा­रणं स्याद् , राजा तु स्वारा­ज्या­धि­का­र­वा­क्य­श्रुत इति स्वारा­ज्य­फ­ला­र्था­या­मे­वा­वे­ष्टा­वङ्गं स्याद् , न त्वन्ना­द्य­फ­ला­र्था­या­म­पी­त्यर्थः ।
तथाप्येतयेति प्रकृतपरामर्शं सर्वनामपदं याव­द्वि­शि­ष्टा­वेष्टिः प्रकृता , तावद्विविष्टां तां परामृशेद् , अतोऽ­धि­का­रा­न्त­रेऽपि स्वारा­ज्य­का­म­क­र्तृका स्यादिति मन्द­श­ङ्का­मु­द्भाव्य निराकरोति –
यद्युच्येतेति ।
मध्ये निधानासंभवादिति ।
मध्यदेशनिधानं हविषां यौगपद्ये एव संभवतीति भावः । ननु यत्रान्तरवेष्टौ सिद्धान्तिना तन्त्रभेदः समर्थनीयः , न तत्र लिङ्ग­द­र्श­न­मे­क­व­चनं चास्ति , यत्रास्ति बहिरवेष्टौ न तत्र तन्त्रभेदः सिषाधयिषित इति कथं लिङ्ग­द­र्श­नै­क­व­च­नाभ्यां पूर्वपक्ष: ? इत्थम् ; उक्तहेतुभ्यां बहिरवेष्टौ तावदैकतन्त्र्यं निर्विवादम् । अतस्तत्र दक्षिणाशब्दो दक्षिणावयवपर इति मिलितैव दक्षिणा वाच्या ; अन्यथा तत्र तन्त्र­भे­द­प्र­स­ङ्गात् । तथा चान्तरवेष्टावपि स दक्षिणाशब्दो दक्षिणावयवपरः स्यादिति दक्षि­णा­भे­दा­भे­दा­दै­क­त­न्त्र्य­मिति। कथं तर्हि सिद्धान्तः ? इत्थम् ; वर्ण­त्र­य­सं­युक्तो बहि­र­वे­ष्टि­प्र­यो­ग­स्ता­व­द्रा­ज­मा­त्र­क­र्तृ­का­द­न्त­र­वे­ष्टि­प्र­यो­गाद् भिन्नः । तथा च तत्रागत्या दक्षिणाशब्दो दक्षि­णा­व­य­व­ल­क्षको जात इति प्रयोगान्तरे दक्षि­णा­वा­क्या­न्व­येऽपि स लक्षको वक्तव्य इत्यत्र न मानमस्ति ; ऐन्द्र­म­न्त्र­स्या­ग्न्यु­प­स्थाने लक्ष­क­स्यै­न्द्रेऽपि कर्मणि विनियोगवशात् प्रयु­ज्य­मा­न­स्यैव मुख्या­र्थ­तो­प­पत्तेः । अतो दक्षि­णा­भे­दा­द­न्त­र­वेष्टौ तन्त्रभेद इति इत्थं पूर्व­प­क्ष­सि­द्धा­न्त­प्र­कारः सूत्रकृता क्रत्व­र्था­या­मिति चेदिति सूत्रे­णो­द्धा­टितः । तत्र क्रत्वर्थत्वं क्रत्व­न्त­र्भा­व­मात्रं विवक्षितमिति न प्राधान्यविरोधः ।
न राज­मा­त्र­क­र्तृ­केति ।
राज­मा­त्र­क­र्तृ­क­त्वेन वर्ण­त्र­य­सं­यो­गा­भा­वा­द­न्त­रिष्टौ न मध्य­नि­धा­ना­दि­प्रा­प्ति­रि­त्यर्थः । तत­श्चै­क­त­न्त्र्य­हे­त्व­भा­वेन दक्षिणाशब्दस्य दक्षिणावयवे लक्षणाया अकल्पनीयतया दक्षि­णा­भे­दा­त्त­न्त्र­भेद इति तात्पर्यम् ।
विरु­द्ध­त्व­मा­श­ङ्क्येति ।
अत्र नित्यः शब्दः कृतकत्वादितिवत् पक्षे साध्यसाधकत्वेन निर्दिष्टस्य हेतोः साध्या­भा­व­सा­ध­क­त्व­रूपं विरु­द्ध­हे­त्वा­भा­सत्वं नोच्यते , अन्तरिष्टौ मध्य­नि­धा­न­प्रा­प्त्य­भा­वा­दि­द्वारा तन्त्र­भे­द­सा­ध­क­त्वे­ना­भि­म­तस्य वर्ण­त्र­य­सं­यो­गा­भा­व­स्यै­क­त­न्त्र्य­सा­ध­क­त्वा­भा­वात् किंतु बहिरिष्ट्यां य एक­त­न्त्र्य­सा­ध­क­त्वे­ना­भि­मतो वर्णत्रयसंयोगः , तस्यान्तरिष्टौ सत्त्वेन तस्या साध्या­भा­व­रू­पै­क­त­न्त्र्या­सि­द्ध्या­प­त्ति­रूपं विरु­द्ध­त्व­मु­च्यते ॥४७॥४८॥४९॥५०॥५१॥५२॥ तेऽग्नयो मनसैवाधीयन्त । यद्यपि मन­श्चि­दा­दी­ना­म­ग्न्या­धा­न­स्थ­ण्डि­ल­रू­पे­णो­पा­स्या­ना­म­ग्नी­ना­मा­धानं नास्ति , किंतु तेषु निधे­य­स्या­ह­व­नी­यस्य ; तथा­प्य­भे­दो­प­चा­रा­दा­ह­व­नी­य­स्या­धानं तेषा­मा­धा­र­त्वे­नो­प­च­रि­तम् ।
एष्वग्निषु ग्रहा अगृह्यन्तेति ।
एष्वग्निषु सत्स्वित्यर्थः । एवं ग्रहग्रहणोक्ते यज्ञ­नि­ष्प­त्त्यर्थं कृत्स्नस्य सन्नि­प­त्यो­प­का­र­कस्य मानसस्योक्तेश्च तन्निर्वर्त्यो मानसः क्रतुरपि विवक्षित इति द्रष्टव्यम् । न च – एवं सति मनश्चिदादीनां भाष्योक्तं स्वातन्त्र्यं विरुध्येतेति – शङ्कनीयम् ; क्रिया­नु­प्र­वे­शा­भा­व­मा­त्रस्य स्वात­न्त्र्योक्त्या विवक्षितत्वात् । अथा­प्य­ग्रि­मा­धि­क­र­ण­सं­ग­ति­भाष्ये मनश्चिदादीनां पुरु­षा­र्थ­त्व­मुक्तं कथमुपपादनीयमिति चेत् , इत्थम् इष्ट­क­चि­तोऽ­ग्नि­रु­त्त­र­वे­दि­व­त्के­व­ल­क्र­त्वर्थो न भवति , किंतु पुरुषार्थोऽपि पशु­का­म­श्चि­न्वी­ते­त्यपि श्रवणात् , अभा­गि­प्र­ति­षे­ध­वा­र्तिके तस्य वाक्य­स्यो­दा­हृ­त­त्वात् । तथा च तेषामेकैक एव तावान् यावानसौ पूर्व इति विद्यामयाग्निषु क्रिया­म­या­ग्नि­का­र्या­ति­दे­श­स्या­ग्नि­धा­र­ण­रू­प­त­त्का­र्य­वि­ष­य­त्व­स्या­सं­भ­वात् पशुरूपफलविषयतैव सिद्ध्यति क्रिया­म­या­ग्नि­र्या­वत् पशु­सा­ध­क­स्ता­व­त्प­शु­सा­धक एकोऽग्निरिति याव­त्ता­व­च्छ­ब्दा­ञ्ज­स्याच्च । ग्रहणादिभिः सन्नि­प­त्यो­प­का­रकैः स्तोत्र­श­स्त्रा­दि­भि­रा­रा­दु­प­का­र­कैश्च निर्वर्त्यो मानसक्रमस्तु तदा­श्र­य­त्वे­नो­प­यु­ज्यते । क्रिया­म­या­ग्नि­व­द्वि­द्या­म­या­ग्न­योऽपि क्रत्वाश्रिता एव । पशु­फ­ल­सा­ध­ना­नी­त्ये­त­न्मा­न­फ­ल­क्र­त्व­ङ्गो­प­दे­श­सा­म­र्थ्यात् ज्ञायते । न हि मानसानि ग्रहणादीनि विद्या­म­या­ग्न्य­ङ्गानि ; तेषां तन्नि­र्व­र्त­क­त्वा­भा­वात् । नापि फलान्तरार्थानि ; तेषां फला­न्त­रो­प­दे­शा­भा­वात् । न च – सार्वत्रिकत्वं सर्व­भू­त­क­र्तृ­कत्वं विद्या­म­या­ग्नि­च­य­नम् विदुषः स्वाप­का­लेऽ­प्य­नु­व­र्त­मानं कथं तदी­य­वि­द्या­म­य­क्र­त्वा­श्रितं स्याद् ? बहिः­प्र­यो­ग­व­र्ति­त्वा­दिति – शङ्कनीयम् ; सर्वा­धि­क­स­र्व­भू­त­क­र्तृ­क­मपि विद्या­म­या­ग्नि­च­य­न­मि­दानीं मद­नु­ष्ठी­य­मा­न­क्र­त्वा­श्रि­त­मिति भावनया तदा­श्रि­त­त्वो­प­पत्तेः । न हि भाव­ना­मा­त्र­साध्यं किं नाम साधयितुमशक्यम् । तस्मा­त्प­शु­फ­ला­र्थ­तया पुरु­षा­र्थ­त्वो­क्ति­र­प्यु­प­प­द्यत इति न किंचिदवद्यम्॥
इत्येकोनत्रिंशं लिङ्ग­भू­य­स्त्वा­धि­क­र­णम्॥

एक आत्मनः शरीरे भावात् ॥५३॥
यज्ञायुधीति ।
पैतृमेधिके कर्मणि यजमानशरीरे यज्ञपात्राणां सादनं विधाय पठ्यते "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं याती"ति। स्फ्यादीनि यज्ञसाधनानि यज्ञा­यु­धा­नि"स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं चे”त्याद्य­नु­क्रम्य "एतानि वै दश यज्ञा­यु­धानी"ति श्रव­णा­त्त­त्सा­द­नेन तद्वान् यजमानः स एष इति निर्दिष्टः प्रत्यक्षदृश्यो देह एव ; तस्य तदानीमेव दहनेन भस्मीभवतः स्वर्गगमनं प्रत्य­क्ष­वि­रु­द्धम् । न च देहातिरिक्त आत्मा देहाभेदोपचारात् "स एष" इति निर्दिष्ट इति वक्तुं शक्यम् ; देहा­ति­रि­क्ता­त्मनि प्रमाणाभावात् । अतस्तद्वाक्यं न प्रमाणमिति प्राप्तौ तत्प­रि­हा­रा­या­त्रत्य एवार्थो भाष्यकृता तत्रापकृष्य वर्णित इत्यर्थः । अयमर्थो भट्ट­पा­दै­र­प्युक्तः – इत्याह नास्ति­क्य­नि­रा­क­रि­ष्णु­रा­त्मा­स्तितां भाष्यकृदत्र युक्त्या । दृढ­त्व­मे­त­द्वि­ष­यस्तु बोधः प्रयाति वेदा­न्त­नि­षे­व­णेन॥ इति ।
यद्य­पी­त्या­दि­ग्र­न्थस्य घटा­दि­दृ­ष्टा­न्तेन देहा­चै­त­न्या­नु­मा­न­प्र­द­र्शने तथा­पी­त्या­दि­ग्र­न्थस्य तत्र बाधो­न्नी­त­प­क्षे­त­रो­पा­ध्यु­द्भा­वने च तात्पर्यं दर्शयति –
देहो न चेतन इति ।
तथाविधेति ।
यदि घट­दृ­ष्टा­न्तोऽ­स्ती­त्ये­ता­वता देहो न चेतन इत्यनुमानं प्रवर्तेत , तदा जला­दि­दृ­ष्टा­न्तेन मदिराया मद­क­र­त्वा­भा­वा­नु­मा­न­मपि स्यादि­त्ये­व­मा­भा­स­स­मा­न­यो­ग­क्षे­म­त्व­रूपं प्रति­कू­ल­त­र्क­म­प्या­हे­त्यर्थः ।
तस्माद्देह धर्मैरिति ।
अहं­प्र­त्य­य­वि­ष­य­स्या­त्मनो देह­ध­र्मै­स्ता­दा­त्म्या­नु­भ­वा­दिति योजना ।
यदा नित्य­स्या­त्म­न­श्चै­त­न्य­म­नि­त्य­गु­ण­वि­शेष इति ।
यद्यात्मा क्षणि­क­त्वा­दि­रू­पे­णा­नित्यः स्याद् , यदि वा चैतन्यं शब्द­व­त्का­दा­चि­त्का­भि­व्य­क्ति­म­त्त्वेन नित्यं स्यात्तदा नानै­का­न्त्य­मि­त्या­श­ङ्क्या­त्मनि नित्यत्वं विशेषगुणे चानित्यत्वं विशेषणमुक्तम् ।
ज्ञानं न देहविशेषगुण इति ।
न च सामा­न्य­गु­ण­त्व­सि­द्ध्याऽ­र्था­न्त­रम् ; अष्ट­द्र­व्य­व्या­व­र्त­कस्य तस्य विशे­ष­गु­ण­त्व­नि­य­मेन सामा­न्य­गु­ण­त्वा­सं­भ­व­स्यो­क्त­त्वा­दिति भावः ।
किंतु निमित्तत्वेनेति ।
तथा च जीव­मृ­ता­व­स्थ­यो­र्य­द­स­द्भा­व­स­द्भा­वाभ्यां प्राण­चे­ष्टा­दि­त­द­भावौ , स देहा­धि­ष्ठा­ताऽऽ­त्मैव सिद्ध्येदिति भावः ।
नन्व­दृ­ष्ट­स­द्भा­वा­स­द्भा­वाभ्यां जीवमृतावस्थयोः प्राणचेष्टाभावौ स्याताम् , अतो निमि­त्त­त्वे­नात्मा न कल्पनीय इत्या­श­ङ्का­नि­रा­क­र­णार्थं तस्यापीति टीका­ग्र­न्थ­मु­पा­दाय व्याचष्टे –
अदृष्टमपि विशेषगुण इति ।
गुणत्वे सतीति ।
गुणत्वविशिष्टं यद्दे­व­द­त्ते­त­र­प्र­त्य­क्ष­वि­ष­यत्वं तद्र­हि­त­त्वा­दि­त्यर्थः ।
देह­ग­त­गु­रु­त्वा­दा­विति ।
तत्र विशेष्याभावेन विशि­ष्टा­भा­व­रू­प­हे­तु­स­त्त्वा­द­नै­का­न्त्य­प­रि­हा­राय तत्रापि साध्यं संपादयितुं विशे­ष­ग्र­ह­ण­मि­त्यर्थः ।
इच्छा­द्य­ति­रि­क्तेति ।
देवदत्तस्य स्वकीयेच्छादिषु न परप्रत्यक्षं , परकीयेच्छादिषु न स्वप्र­त्य­क्ष­मि­त्ये­व­मि­च्छा­दि­मात्र एव चार्वाकाणां स्वप­र­प्र­त्य­क्षा­भा­व­प्र­सिद्धिः , नान्यत्रान्यस्य स्वमा­त्र­प्र­त्य­क्षस्य पर­मा­त्र­प्र­त्य­क्षस्य चाभावाद् उभ­यो­र­प्य­प्र­त्य­क्ष­स्या­ती­न्द्रि­यस्य तन्मते अभावाच्चेति भावः ।
दृष्टा­न्ता­भा­वा­दिति ।
ननु – अस्ति व्यति­रे­क­दृ­ष्टान्तः ये देहधर्मास्ते स्वरू­प­प्र­त्यक्षा इति हि देहरूपादिषु दृश्यते , टीकायामपि व्यति­रे­क­दृ­ष्टान्तो दर्शितः ; हेतौ पर­ग्र­ह­णे­ना­न्व­य­दृ­ष्टा­न्त­स­द्भा­वोऽपि सूचितः । तेन हीच्छादिमात्रं न पक्षः , किंतु कस्य­चि­दे­वे­च्छा­दय इति दर्शितम् । अन्यथा सर्व­स्या­पी­च्छा­श्र­यस्य सत्त्वेन पर­श­ब्दा­र्थ­त्वा­भा­वात् । एवं च देव­द­त्त­स्ये­च्छा­दयो न देव­द­त्त­दे­ह­वि­शे­ष­गुणाः , देव­द­त्त­त­दि­त­र­प्र­त्य­क्ष­त्वा­भा­वाद् , इतरेच्छादिवदिति टीकोक्तहेतुके अनुमाने न काचि­द­नु­प­प­त्ति­रिति – चेत् , सत्यम् ; एवमपि साध्यं विशे­ष­णी­य­मा­सी­दिति यथाश्रुतग्रन्थो न घटत इत्या­चा­र्यो­क्ति­र्यु­क्तैव । इयांस्तु विशेषः – आचार्योपन्यस्ते हेतौ टीको­क्त­स्व­वि­शे­ष­ण­म­प­हाय गुणत्वविशेषणं कृतम् । उभयमपि तत्त­द­भि­म­ता­न्व­य­दृ­ष्टान्ते साध­न­वै­क­ल्य­प­रि­हा­रा­र्थ­मि­त्यत्र न विशेषः ।
अयावद्भूतेति ।
यावन्ति भूतानि ताव­त्स्व­स­द­पी­त्यर्थः , न तु याव­त्स्वा­श्र­य­भू­त­का­ल­व­र्त्य­पी­त्यर्थः ; अनु­क्ता­नु­भा­ष­णा­पा­तात् , यद्यपि सम­स्त­व्य­स्ते­ष्वि­त्या­दि­पू­र्व­प­क्ष­टी­का­ग्रन्थे भूत­व्य­क्त्य­न्त­रेषु चैत­न्या­स­त्त्व­स्यै­वो­क्त­त्वाद् , इहापि देहाकारपरिणतेषु स्यादि­त्या­चा­र्योक्त्या मद­श­क्ते­र्म­दि­रा­व­य­वे­ष्व­स­त्त्व­म­ङ्गी­कृत्य मद­श­क्ति­दृ­ष्टा­न्त­वै­ष­म्य­प्र­द­र्श­केन अपि च मद­श­क्ति­रि­त्या­द्य­ग्रि­म­टी­का­ग्र­न्थेन च भूत­व्य­क्त्य­न्त­रे­ष्व­स­द­पी­त्य­र्थस्य स्फुटीकरणाच्च ।
याव­द्दे­ह­भा­वि­त्वा­नु­मा­न­व­दिति ।
यथा विशेषगुणत्वेन हेतुना चैतन्यस्य याव­द्दे­ह­का­ल­भा­वि­त्वा­नु­मानं , तथा याव­द्भू­त­व­र्ति­त्वा­नु­मा­न­स्यापि प्रवृ­त्ते­रि­त्यर्थः । ननु पूर्वं तथानुमानं नोपन्यस्तम् , इहापि याव­द्भू­त­व्य­क्ति­भा­वि­त्वा­नु­मानं यद्य­पी­त्या­दि­टी­का­ग्र­न्थेन नोपन्यस्यते ; अनु­मा­न­यो­र्बा­धि­त­वि­ष­य­त्वात् , किंतु पूर्वं चैतन्यं यदि देहविशेषगुणः स्याद् याव­द्दे­ह­का­ल­वर्ती स्यादिति तर्क उपन्यस्तः । इहापि यदि देहविशेषगुणः स्याद् याव­द्भू­त­व्य­क्त्य­नु­व­र्ते­तेति तर्क उपन्यस्यते । याव­द्भू­त­म­नु­व­र्ते­तेति हि टीकाग्रन्थः । तदनुसारेण यद्यपीत्यस्य यदी­त्य­र्थ­ग्र­ह­ण­मु­चि­तम् । एवं च निराकृतं विशे­ष­गु­ण­त्व­म­भ्यु­पेत्य यद्य­पी­त्या­दि­टी­का­ग्र­न्थ­प्र­वृ­त्ति­रिति तत्ता­त्प­र्य­क­थ­न­म­प्य­यु­क्तम् । हेतुत्वे खलु सिद्ध्यपेक्षा , न तु यदि वह्निर्न स्यादि­ति­व­दा­पा­द­कत्वे । सत्यम् ; यद्यपीत्यस्य स्वार­स्य­म­नु­रु­ध्या­चार्यैः प्रौढ्या व्याख्या­ना­न्त­र­म­ङ्गी­कृ­त­मि­त्य­दोषः ।
मात्रयापि (?) मद­ज­न­क­त्वाऽ­द­र्श­ना­दिति ।
यद्यपि चूर्णेऽपि योग्यतारूपं मद­ज­न­क­त्व­म­स्त्येव , केवलं तु चूर्णं सह­का­रि­वै­क­ल्या­न्मदं न जनयतीति वक्तुं शक्यम् ; तथापि चूर्णं मदं न जनयति , किंतु चर्व­णा­दि­सा­ध्य­स्ता­म्बू­लाख्यः पूगा­दि­त्र­य­प­रि­णा­म­वि­शेषः । न चैतावता स्वतो मदहानिकरे चूर्णेऽपि मदजनकत्वं कल्पनीयमिति तात्पर्यम् ।
वित्तेः क्रम­व­द्व्या­पा­रा­यो­गा­दिति ।
अधि­क­र­ण­प्र­ति­यो­गि­ग्र­ह­ण­पू­र्वकं खलु भेदग्रहणम् । अतः प्रथमं तदुभयग्रहणं पश्चाद् भेदग्रहणमिति प्रत्यक्षस्य विरम्य व्यापारो न संभवतीत्यर्थः ।
प्रति­यो­गि­भे­द­सि­द्ध्य­सि­द्ध्यो­रिति ।
भेदग्रहणं , प्रति­यो­गि­ग्र­ह­णा­पेक्षं, प्रतियोगित्वेन प्रतियोगिग्रहणं च भेद­ग्र­ह­णा­पे­क्ष­मिति पर­स्प­रा­श्र­य­मि­त्यर्थः । एतेन – प्रति­यो­गि­वि­शि­ष्ट­भे­द­प्र­त्यक्षे विर­म्य­व्या­पा­र­दोषो न प्रसज्यते ; युगपदेव प्रति­यो­ग्य­धि­क­र­ण­वि­शि­ष्ट­भे­द­वि­ष­य­त्व­स्वी­का­रात् , प्रति­यो­गि­वि­ष­य­स्या­धि­क­र­ण­वि­ष­यस्य च विशेषणज्ञानतया कारणस्य ज्ञाना­न्त­र­त्व­स्वी­का­रा­दि­त्यपि शङ्का – निरस्ता ; तस्य ज्ञानस्य भेद­नि­रू­प्य­प्र­ति­यो­गि­त्व­वि­ष­य­ताया अपि वक्तव्यत्वेन पर­स्प­रा­श्र­या­नु­द्धा­रात् ॥५४॥
इति त्रिंश­मै­का­त्म्या­धि­क­र­णम् ॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥ स्वरा­दी­त्या­दि­श­ब्देन वर्ण­भे­द­श्चि­त्या­ग्न्या­दि­प्र­का­र­भे­दश्च गृह्यते । यद्य­प्यो­ङ्का­रा­व­यव उद्गीथ उपास्यः , तत्र स्वरवर्णभेदो नास्ति ; तथापि स्वरभदेः संभावितः उद्गीथस्यावयव उपास्य इति विधौ कस्यो­द्गी­थ­स्या­व­यव इति विशे­षा­का­ङ्क्षा­या­मु­द्गीथे सामो­क्था­दि­वि­ष­यो­पा­स­नायां च स्वरवर्णोभयभेदः संभवति। पूर्वाधिकरणस्य प्रास­ङ्गि­क­त्वा­द्व्य­व­हि­ता­धि­क­र­णेन सङ्ग­ति­र्व­क्त­व्ये­त्य­भि­प्रेत्य तामपि दर्शयति –
अथ वेति ।
का श्रुतिरस्माभिः पीड्यत इति ।
सङ्कोचलक्षणं तु पीडनं सन्नि­धि­व­शा­त्स­ह्य­मि­त्य­त्रापि शक्लं पटमानयेत्ययमेव दृष्टान्तः ।
दृष्टा­न्त­वै­षम्यं विवृण्वन् सिद्धा­न्त­ग्र­न्थ­म­व­ता­र­यति –
दृष्टान्त इति ।
मा बाधीत्यत्र लुङन्तमाख्यातम् । माङ्यो­गा­द­डा­ग­मा­भावः ॥५५॥५६॥
एकत्र होतव्या इति ।
पञ्च प्रयाजानू प्राचो यजतीति देशभेदविधानेन विकल्पितमिदं देशैक्ये विधानम् ।
छागस्य वपाया इत्या­द्य­ध्व­र्यु­प्रै­ष­स्या­र्थ­माह –
छागादेरिति ।
आदिशब्दो वैकृ­त­प­श्व­न्त­र­प्रै­ष­ग­त­प­शु­जा­त्य­न्त­र­सं­ग्र­हार्थः ।
स जनास इन्द्र इति शेष इति ।
अनेन सजनपदवत्सूक्तं हि सजनीयम् । यो जात इति सूक्तं कथं सज­नी­य­मि­त्या­का­ङ्क्षायां मन्त्रा­न्त­र­रू­प­शे­ष­द­र्श­ने­नेदं सूक्तं सजनीयं भव­ती­त्यु­प­पा­दि­तम् । अस्मिन् सूक्ते अन्त्यामृचं विना प्रत्यृचं सजनास इन्द्र इति मन्त्रान्ते विद्यते इति इदं सजनीयं भवतीति भावः॥
इत्ये­क­त्रिं­श­म­ङ्गा­व­ब­द्धा­धि­क­र­णम्॥

भूम्नः क्रतु­व­ज्ज्या­यस्त्वं तथा हि दर्शयति ॥५७॥
"वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति यन्न­व­क­पा­ल­स्तृ­वृ­तै­वा­स्मिन् तेजो दधाति यद्दशकपालो विरा­जै­वा­स्मि­न्न­न्नाद्यं दधाति यदे­का­द­श­क­पा­ल­स्त्रि­ष्टु­भै­वा­स्मि­न्नि­न्द्रियं दधाति यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति यस्मिन् जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती"ति समाम्नायः ।
तमर्थतः सङ्क्षिप्य दर्शयति –
वैश्वानरमिति ।
अत्र कपालानां प्राप्ता अष्ट­सं­ख्या­दि­रूपा गुणा विधीयन्ते , उत प्राप्ता­भि­स्ता­भि­रे­क­दे­श­द्वारा विधेया द्वादशसंख्या स्तूयत इति संशये महा­सं­ख्या­या­म­वा­न्त­र­सं­ख्या­न्त­र्भा­वस्य शतेन पञ्चा­श­द­नु­मा­ना­दिना सुप्रसिद्धत्वेन द्वाद­श­सं­ख्या­वि­धा­न­तोऽ­ष्ट­त्वा­दीनां प्राप्तेः स्तुत्यर्थतैव युक्तेति कथं पूर्वपक्ष इत्याशङ्क्य परिहरति –
यद्यपीति ।
तथापि न परि­च्छे­द­क­त्व­मिति ।
वस्तुतः सन्त्य­प्य­ष्टा­दि­संख्या द्वाद­श­सं­ख्या­सं­ख्ये­यानां कपालानां न परिच्छेदिका , न विशेषणानि ; संभ­व­द्वि­रो­धि­व्या­व­र्तकं च नील­मु­त्प­ल­मि­त्यादौ विशेषणं भवति , न च द्वाद­श­स्व­ष्ट­त्वा­दयः पर्याप्तवृत्तयः संभवन्ति। न वा विरो­धि­सं­ख्या­व्या­व­र्तिका । अतः परिच्छेदकत्वेन तासां न प्राप्ति­रि­त्यर्थः । ननु – मा भूत्प­रि­च्छे­द­क­त्वेन प्राप्तिः , अन्त­र्भा­व­मा­त्रेण प्राप्तिरस्ति , द्वादशसु निष्कृष्टानां केषां­चि­त्प­रि­च्छे­द­क­त्वे­नापि प्राप्तिरस्ति , यथा शतं ब्राह्मणाः सोमान् भक्षयन्तीत्यत्र शतमध्ये निष्कृष्टानां केषां­चि­त्प­रि­च्छे­द­क­त्वेन दशसंख्यायाः प्राप्तिः , अत एव दशैकैकं चम­स­म­नु­स­र्प­न्तीति तदनुवाद इति – चेत् , उच्यते ; यथा­क­थं­चि­त्प्रा­प्ति­मा­त्र­मिह न पर्याप्तं , किंतु कपा­ल­सा­ध्य­पु­रो­डा­श­द्र­व्य­सं­स्का­रा­र्थ­तया तत्प­रि­च्छे­द­क­त्वेन प्राप्तिः । "तद्धि­ता­र्थो­त्त­र­प­द­स­मा­हारे चे"ति सूत्रेण तद्धितार्थे संस्कृते विषयभूते अष्टादिशब्दानां कपालशब्दस्य च समासे पश्चा­द­ष्ट­क­पा­ल­प्रा­ति­प­दि­का­द­ष्टसु कपालेषु संस्कृ­त­मि­त्य­र्थेऽ­ण्प्र­त्यये तस्य "द्विगो­र्लु­ग­न­पत्ये" इति लुकि सत्य­ष्टा­क­पा­ला­दि­श­ब्द­नि­ष्पत्तेः । न च द्वाद­श­सं­ख्या­व­द­ष्ट­त्वा­दि­सं­ख्यानां पुरो­डा­श­सं­स्का­रा­ङ्ग­तया प्राप्ति­र्य­द­ष्टा­क­पालो भव­ती­त्या­दि­वा­क्य­प्र­वृत्तेः प्रागस्ति। तस्मा­त्ते­ष्व­ष्ट­त्वा­दि­सं­ख्यानां संस्काराङ्गतया विधिरिति गुणविधिपक्ष एवाश्रयणीयः । न च – उत्प­त्ति­शि­ष्ट­द्वा­द­श­सं­ख्या­वि­रो­धात् तद्वि­रु­द्धा­ष्ट­त्वा­दि­सं­ख्या­वि­धिर्न घटत इति – शङ्कनीयम् ; एकं हीदं वाक्यं वैश्वानरं द्वाद­श­क­पा­ल­मि­त्यादि पशुमान् भवतीत्यन्तम् । नचै­क­स्मि­न्वाक्ये विधेयेषु संख्या­वि­शे­षे­षू­त्प­त्त्यु­त्प­न्न­शि­ष्ट­वि­वे­कोऽस्ति। तस्मादेकेन वाक्येन विहितानां विरु­द्ध­सं­ख्या­वि­शे­षाणां वैक­ल्पि­का­ङ्ग­त्वेन विधिषु न काचि­द­नु­प­प­त्ति­रिति भावः ।
उत्प­त्ति­शि­ष्टेति ।
उप­क्र­मो­प­सं­हा­रै­क­रू­प्ये­णै­क­वा­क्य­त्वेऽपि वैश्वा­न­र­म­ष्टा­क­पालं नवकपालं दश­क­पा­ल­मे­का­द­श­क­पालं द्वादशकपालं निर्व­पे­दि­त्या­म्ना­ना­भा­वाद् द्वादशकपालं निर्व­पे­दि­त्ये­ता­वता विधि­वा­क्य­स­माप्तेः द्वाद­श­सं­ख्यै­वो­त्प­त्ति­शिष्टा , न तु प्रथ­मा­न्ता­ष्टा­क­पा­ला­दि­श­ब्दोक्ता अष्ट­त्वा­दि­संख्या इति तेषां विध्य­न्त­र­स­म­र्पि­ता­ना­म­न्वयो वाच्यः । न त्वयं संभवति ; उत्प­त्ति­शि­ष्ट­गु­णा­व­रो­धा­दि­त्यर्थः ।
विध्य­न्त­र­स­मा­श्र­यणे विध्य­र्थ­वा­द­भा­वे­ना­न्वय इवो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­तम् एकवाक्यत्वं न संरक्षितं स्यादित्याह –
अपि चेति ।
वस्तुतः प्राप्तानीति ।
संज्ञामात्रेण प्राप्ता­नी­त्यर्थः । एवं चाष्टा­क­पा­ला­दि­श­ब्दा­नाम् अष्ट­त्वा­दि­सं­ख्या­प­रि­च्छि­न्न­क­पा­ल­सं­स्कृ­त­वा­चिना द्वाद­श­क­पा­ल­सं­स्कृ­त­पु­रो­डा­शा­व­य­वे­ष्व­ष्ट­क­पा­ला­दि­स्थि­तेषु लक्षणाया वृत्ति­रे­ष्ट­व्येति भावः ।
स्तुत्यर्थमिति ।
गजा­श्वा­दि­स्तु­ति­द्वारा सेनाया इव नेत्रा­दि­स्तु­ति­द्वारा शरी­र­स्ये­व­चा­ष्ट­त्वा­दि­सं­ख्या­स्तुत्या तत्सं­ख्ये­य­क­पा­ल­नि­ष्ठ­पु­रो­डा­शा­व­य­व­स्तु­त्याच द्वाद­श­सं­ख्या­या­स्त­त्सं­ख्ये­य­क­पा­ल­नि­ष्ठ­पु­रो­डा­शा­व­य­वि­नश्च स्तुत्य­र्थ­मि­त्यर्थः ।
किं च यद्य­ष्टा­क­पा­ला­दिषु विधयः श्रूयेरन् , तदो­प­क्र­मो­प­सं­हा­रा­व­ग­त­मे­क­वा­क्य­त्व­म­ङ्ग­प्र­धा­न­वि­धि­रू­पा­ने­का­वा­न्त­र­वा­क्य­घ­टि­त­म­हा­वा­क्यै­क­रू­प­तया कथं­चि­त्स­म­र्थ्येत , न तु तदस्तीत्याह –
वर्त­मा­ना­प­दे­शा­ना­मिति ।
उप­क्र­मो­प­सं­हा­र­यो­रे­क­वि­द्या­वि­ष­य­त्वे­नेति ।
ननु – भूम­वि­द्या­प्र­क­र­णो­प­क्र­मो­प­सं­हा­र­यो­रा­त्म­वि­द्या­वि­ष­य­त्वेऽपि मध्ये नामा­द्यु­पा­स­न­त­त्फ­ल­श्र­व­णात् तद्वि­ध­योऽ­प्य­ङ्गी­कृताः ? तथेह किं न स्याद् , वैषम्यात् । इह हि व्यस्तोपासनासु निन्दा श्रूयते ; न चार­ब्ध­स­म­स्तो­पा­सनाः ? पुरु­ष­वि­ष­या­स्त­न्निन्दाः अवि­ज्ञा­त­म­म­स्तो­पा­स­ना­ना­मपि प्राची­न­शा­ला­दीनां व्यस्तो­पा­स­ना­भि­र्नि­न्दि­त­त्वात् । किंच मूर्धा त्वेष चात्मेति होवा­चे­त्या­दि­वा­क्येषु द्युप्रभृतीनां स्वत­न्त्रो­पा­स्य­त्व­व्य­व­च्छेदः कृतः । "एते वै खलु पूयं पृथ­गि­वे­म­मा­त्मानं वैश्वानरं विद्वां­सोऽ­न्न­म­त्ये­ती"ती­व­का­रेण व्यस्तोपासनानां भ्रम­मू­ल­त्व­मु­द्धा­टि­तम् । एवं वैषम्यान्नात्र भूम­वि­द्या­न्या­य­श­ङ्का­व­काशः ॥५७॥
इति द्वात्रिंशं भूम­ज्या­य­स्त्वा­धि­क­र­णम् ॥

नाना शब्दादिभेदात् ॥५८॥
अपूर्वसाधनमिति ।
अपूर्वसाधनभूता या पुरुषप्रवृत्तिः सा भावनेत्यर्थः ।
तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वादिति ।
उपासनानां स्वतो यागदानहोमवद् भेदाभावाद् वेद्यस्य ब्रह्मण एकत्वेन विषयीकृतस्यापि भेदस्याभावाद् ब्रह्मगुणानां सिद्धतया सिद्ध­ब्र­ह्म­वि­शे­ष­ण­तया च स्वतः परतो वा कार्यत्वाभावेन कार्य­वि­शे­ष­ण­वा­जि­ना­दि­गु­ण­व­द्भे­द­क­त्वा­भा­वाच्च न विद्याभेद इत्यर्थः । एवं च यथा सत्यविद्यायां सत्यस्य ब्रह्मणो वेद्य­स्यै­क­स्या­क्ष्या­दि­त्य­स्था­न­यो­र­ह­र­ह­र्ना­म­भे­देन पृथ­ग­नु­चि­न्त­नेऽ­प्ये­क­वि­द्या­त्वम् , यथा वा संवर्गविद्यायां वायुत्वस्य वेद्यस्यैकस्य बाह्या­ध्या­त्मि­क­भे­देन वागा­द्य­ग्न्या­दि­सं­ह­र्तृ­त्व­गु­ण­भे­देन च पृथ­ग­नु­चि­न्त­नेऽ­प्ये­क­वि­द्यात्वं , तथो­प­को­स­ल­वि­द्या­न्त­रा­दि­त्य­वि­द्या­द­ह­र­वि­द्या­दीनां स्थानभेदेन शाण्डि­ल्य­वि­द्या­वै­श्वा­न­र­वि­द्या­दी­ना­म­णु­त्व­म­ह­त्वा­दि­गु­ण­भे­दे­ना­न्या­सा­मपि विद्यानां तत्त­त्प्र­क­र­णा­म्ना­त­गु­ण­वि­शे­षैश्च पृथ­ग­नु­चि­न्त­नेऽ­प्ये­क­वि­द्या­त्व­मिति पूर्वपक्षाशयः ।
किमु­पा­स­ना­वा­क्ये­त्षू­पा­स­ना­भा­व­ना­रू­प­का­र्य­प्र­ति­पा­दनं नास्तीति गुणभेदेन तद्भेदो नास्तीत्युच्यते , अथवा –
गुणानां कार्य­वि­शे­ष­ण­त्वा­भा­वे­ना­का­र्य­तया तद्भेदाद्भेदो नास्तीति , उत तेषां कार्यान्वयेऽपि गुणिन एकत्वेन गुणभेदान्न भेद इति ।
नाद्य इत्याह –
यदि वस्तुनिष्ठानीति ।
उपासनावाक्यानां भाव­ना­रू­प­का­र्य­प­र­त्वा­भावे प्रव­र्त­क­वि­ध्य­भा­वा­दे­क­वि­द्या­त्व­प­क्षेऽपि तदनुष्ठानं न स्यादिति भावः ।
द्विती­य­प­क्ष­मा­शङ्क्य परि­ह­र­ती­त्य­व­ता­र­यति –
उपा­स­ना­प्र­वृ­त्ते­रिति ।
ब्रह्म­वि­शे­ष­णा­ना­मपि गुणा­ना­म­रु­णै­क­हा­य­नी­न्या­या­दु­पा­स­ना­भा­व­ना­रू­प­का­र्या­न्व­योऽ­स्तीति भावः ।
तृतीयमाशङ्क्य निरा­क­रो­ती­त्य­व­ता­र­यति –
ननु सत्य­का­म­त्वा­दि­गु­णा­ना­मिति ।
दशद्रव्याणामिति ।
दश­सं­ख्या­यु­क्त­द्र­व्या­णा­मिति मध्यमपदलोपी समासः । दशद्रव्याणि पयो­द­ध्या­ज्य­त­ण्डु­लौ­द­न­य­वा­गू­मां­स­सो­म­ज­ल­तै­लानि ॥५८॥
इति त्रयस्त्रिंशं शब्दा­दि­भे­दा­धि­क­र­णम् ॥

विक­ल्पोऽ­वि­शि­ष्ट­फ­ल­त्वात् ॥५९॥
अहं­ग्र­हो­पा­स्य­देवो भूत्वेति ।
त्वं वा अहमस्मि भगवो देवते अहं वै त्वम­सी­त्य­भे­द­ध्या­न­दा­र्ढ्येन तज्ज­न्य­सा­क्षा­त्का­रोऽ­प्यु­पा­स्य­दे­वोऽ­ह­म­स्मीति जायते । तं लब्ध्वै­वो­पा­स्य­दे­व­ता­सा­युज्यं प्राप्नो­ती­त्यर्थः ॥५९॥
इति चतुस्त्रिंशं विकल्पाधिकरणम् ॥

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्व­हे­त्व­भा­वात् ॥६०॥
इति पञ्चत्रिंशं काम्याधिकरणम् ॥

अङ्गेषु यथाश्रयभावः ॥६१॥ कामनाया अवि­धे­य­त्वा­दि­त्य­न्तेन ग्रन्थेन प्रयो­ग­वि­ध्या­क्षे­प्य­तया काम­ना­नि­य­म­स्या­सं­भव उक्तः , न तु सर्वथा तदसंभवः ; "तद्य­थाऽऽ­म्र­फ­लार्थे निमित्ते च्छाया गन्ध इत्यनूत्पद्यते , एवं धर्मं चर्यमाणम् अर्था अनू­त्प­द्यन्ते" इत्या­प­स्त­म्बो­क्त­न्या­यात् स्वर्गा­द्य­र्थ­म­नु­ष्ठी­य­मा­नेषु क्रतुषु तत्प्रयोगमध्ये समु­च्चि­त्या­नु­ष्ठेयैः कैश्चन पदार्थैरयत्नेन नान्तरीयकतया सिद्ध्यत्सु फलेषु कामबहुलानां कर्मणां स्वत एव कामनाऽसंभवात् , अन्यथा प्रस्त­र­प्र­ह­र­ण­प्र­भृ­त्य­ङ्ग­फ­लेषु का गतिः ? अपा­प­श्लो­क­श्र­व­णा­द्या­र्थ­वा­दि­क­मे­वा­ङ्ग­फलं न विवक्षितम् ; "आयु­रा­शास्त" इत्या­दि­म­न्त्र­क­रणे प्रका­श्य­मा­यु­रा­दि­रूपं प्रस्त­र­प्र­ह­र­ण­प्र­भृ­त्य­ङ्ग­फलं तु विवक्षितमेव । करणमन्त्रस्य पदैः सर्वै­र­प्य­नु­ष्ठे­य­स्यैव साक्षा­त्सं­ब­न्धि­द्व­य­प्र­का­श्य­त्व­नि­य­मेन प्रस्त­र­या­ग­क­र­ण­म­न्त्र­प्र­का­श्या­ना­मा­यु­रा­दीनां तत्फलतयैव तत्संबन्धस्य निर्वहणीयत्वात् , एवमेव नवमाध्याये स्थापितत्वात् । ननु सिद्धा­न्त­भा­ष्य­व्या­ख्या­ना­न­न्तरं समाहारादिति पूर्व­प­क्ष­सू­त्र­भाष्यं व्याख्यायते , इदं व्यत्य­स्त­मि­त्या­श­ङ्क्याह –
एव­म­धि­क­र­ण­स्या­र्थ­मु­क्त्वेति ।
बुद्धि­सौ­क­र्या­र्थ­म­धि­क­र­ण­श­रीरं सङ्कल्पितम् , इदानीं पूर्व­प­क्ष­भा­ष्य­व्या­ख्ये­यां­श­मु­पा­दाय व्याख्यायत इत्यर्थः ।
तत्र यद्या­श्र­य­त­न्त्र­त्वा­दु­पा­स­नानां पुरुषार्थानामपि समुच्चयः , तदा गोदोहनादीनामपि स्यात् अवि­शे­षा­दि­त्या­शङ्क्य ततो विशे­ष­प्र­द­र्श­नार्थं सूत्रं –
शिष्टेश्चेति ।
गोदोहनादयः चम­सा­दि­स्था­ना­प­न्न­त­यो­प­दि­श्यन्ते , तेषां समुच्चये चमसादीनां निवृत्त्या चमसेनापः प्रण­ये­दि­त्या­दि­शा­स्त्रा­णा­म­प्रा­माण्यं स्यादिति गोदोहनादीनां न समुच्चयः । नैवमुपासनानां किंचि­त्स्था­ना­प­त्त्यो­प­दे­शोऽस्ति , किंतु तत्स्था­ना­प­त्ति­रा­हि­त्ये­नो­द्गी­था­द्यु­प­दे­श­वि­शिष्ट एव तेषामुपदेश इति। एवमस्य सूत्रस्यार्थो भाष्य एव स्पष्ट इत्यर्थः ।
समु­च्च­य­लि­ङ्ग­द­र्श­न­त्व­घ­टकं भाष्यमिति ।
छान्दोग्ये "य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः" इत्युद्गातुः प्रण­वो­द्गी­थै­क्यो­पा­स­ना­वि­धे­र­र्थ­वादो होतृ­ष­द­ना­दि­त्यादिः । उद्गा­तृ­वे­द­वि­हि­त­प्र­ण­वो­द्गी­थै­क­त्व­वि­ज्ञा­नस्य ऋग्वे­दो­दि­त­प्र­ण­व­सं­ब­न्ध­नि­यमो दृष्टः । अयं वेदा­न्त­रो­दि­तो­पा­स­ना­सं­ब­न्ध­नि­य­मोऽपि तस्यास्तीत्यत्र लिङ्गम् । वेदा­न्त­रो­दि­त­प्र­ण­व­रू­प­प­दा­र्थ­सं­ब­न्धेन सह वेदान्तरोदिततया सादृश्यात् सादृ­श्य­म­व­ल­म्ब्या­प्यस्ति लिङ्गोपन्यासः । यथा “विधिश्चानर्थकः क्वचि­त्त­स्मा­त्स्तुतिः प्रतीयेत तत्सा­मा­न्या­दि­त­रेषु तथात्वमिति” जैमिनिसूत्रे । तत्र "ह्यौदु­म्बरो यूपो भवतीत्यूर्ग्वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जं पशू­ना­प्नो­त्यू­र्जोऽ­व­रुद्ध्यै" इत्य­त्रो­र्ग­व­रो­ध­श­ब्दो­क्ता­न्न­प्रा­प्ति­रू­प­फ­लाय यूपाश्रय उदुम्बरतागुणो विधीयत इति प्रापय्य वैकृ­त­सो­मा­पौ­ष्ण­प­शु­प्र­क­रणे चोदकप्राप्यस्य यूप­स्या­प्र­कृ­त­त्वेन प्रक­र­णा­दा­श्र­य­सं­ब­न्धा­ला­भाद् वाक्ये­नै­वा­श्र­य­सं­ब­न्धस्य फलसंबन्धस्य च बोधने वाक्य­भे­द­प्र­स­ङ्गाच्च गुणफलविधिर्न संभ­व­ती­त्ये­वं­जा­ती­यका अर्थवादा इति सिद्धान्तं कृत्वा "क्वचि­द­प्सु­यो­निर्वा अश्व" इत्या­दा­व­प्सु­यो­नि­रश्वः कर्तव्य इत्ये­व­मा­दि­वि­धि­र­श­क्य­त्वान्न संभवति। "वायुर्वै क्षेपिष्ठा देव­ते"त्यादौ वायुः क्षेपिष्ठः कार्य इत्यादिविधिः सिद्धत्वान्न संभवतीति तत्र स्तुत्य­र्थ­त्व­मेव वाच्यम् ; तत्सा­मा­न्या­द्वि­ध्य­सं­भ­व­रू­प­त­त्सा­दृ­श्या­दि­त­रे­षू­दु­म्ब­रा­दि­ष्वपि तथात्वमिति सादृश्यमवलम्ब्य स्तुत्य­र्थ­त्व­मु­प­पा­दि­तम् । एवमिहापि योजनीयम् । "एवं समा­हा­रा"दिति सूत्रे समाहारशब्दोक्तं दोषसमाधानं हेतुत्वेन न विवक्षितं , किंतु “आन­न्द­म­योऽ­भ्या­सा”दि­त्य­त्रा­न­न्द­म­य­शब्द इव समाहारशब्दः स्थल­प्र­द­र्श­नार्थ इति द्रष्टव्यम् ।
आश्र­य­सा­धा­र­ण्येति ।
अत्रेदं वक्तव्यम् – यदो­ङ्का­र­स्या­श्र­यस्य वेदत्रये साधारण्येन तदा­श्रि­तो­पा­स­ना­या­स्त­था­त्व­मु­पा­स­नानां समुच्चये लिङ्गमुक्तं भाष्ये , तदयुक्तम् ; "ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सी­ते"त्यत्र स वेदव्यापिन ओङ्का­र­मा­त्र­स्यो­पा­स­ना­श्र­यत्वं मा भूदि­त्ये­त­द­र्थ­मु­द्गी­था­व­य­व­त्वेन विशेषणमिति "व्याप्तेश्च सम­ञ्ज­स"मि­त्य­धि­क­रणे निरू­पि­त­त्वे­नो­पा­स­ना­श्र­य­त्वेन प्रकृ­त­स्यो­ङ्का­रस्य सर्व­वे­द­सा­धा­र­ण्या­भा­वात् "तेनेयं त्रयी विद्ये"ति प्रकृ­त­प­रा­म­र्शि­त­च्छ­ब्दे­नो­पा­स­ना­श्र­य­त्वेन प्रकृ­त­स्यो­ङ्का­रस्य परामर्श इति तस्य वेद­त्र­य­सा­धा­र­ण्य­सिद्धौ तद्द्वारा “तदनुज्ञाक्षरं यद्धि किंचि­द­नु­जा­ना­त्यो­मि­त्येव तदाहे”ति प्राची­न­वा­क्य­ग­त­त­च्छ­ब्द­स्या­प्यु­पा­स­ना­श्र­यो­ङ्का­र­प­रा­म­र्शि­त्वे­नो­पा­स­नानां लोक­सा­धा­र­ण्य­स्यापि सिद्धि­प्र­स­ङ्गात् , कथं­चि­दा­श्र­य­सा­धा­र­ण्ये­नो­पा­स­नानां वेद­त्र­य­सा­धा­र­ण्य­सि­द्धा­वपि तेन सर्वेषु क्रतुप्रयोगेषु निय­मे­ना­नु­ष्ठे­य­त्व­ल­क्ष­णस्य समु­च्च­य­स्या­सि­द्धेश्च । यच्चान्वयस्य व्यतिरेकेण दृढी­क­र­ण­मा­चा­र्यै­रु­क्तम् , तदप्ययुक्तम् ; वेद­त्र­य­सा­धा­र­ण्य­रू­प­स्या­न्व­यस्य तद्विलक्षणेन आश्रयस्य सर्व­प्र­यो­ग­सा­धा­र­ण्या­भावे तदा­श्रि­त­स्यो­पा­स­नस्य सर्व­प्र­यो­ग­सा­धा­र­ण्या­भाव इति व्यतिरेकेण वह्न्यभावे धूमाभाव इति व्यतिरेकेणेव दृढी­क­र­णाऽ­सिद्धेः , आश्रयतन्त्रत्वे सत्यप्याश्रयस्य सर्व­प्र­यो­ग­सा­धा­र­ण्या­भा­वात् तदा­श्रि­तो­पा­स­ना­ना­म­यो­गाच्च । तस्माद् गुण­सा­धा­र­ण्य­सू­त्रस्य वृत्ति­का­र­कृ­त­व्या­ख्या­न­मु­प­हा­सा­र्थ­म­नूद्य भाष्यकारैरथ वेत्यादिना स्वयं व्याख्यानान्तरं कृतमिति तात्पर्यकथनं युक्तम् ।
चमसं चोन्नीयेति ।
यद्यपि ग्रह­ण­स्तो­त्र­श­स्त्रा­णा­मिव सह­भा­व­ग्र­ह­ण­स्या­भावः समुच्चयाभावे न हेतुः , तदभावेऽपि प्रयाजादीनां तद्धर्माणां च समुच्चयदर्शनात् ; तथापि तद्वदिह पुरुषार्थानां प्रयो­ग­व­च­न­प­रि­हा­रा­सं­भ­वात् । सह­भा­व­श्रु­ति­र­स्तीति चेत् , तद्व­शा­त्स­मु­च्च­य­सि­द्धि­र­न्वे­ष­णीया , साऽपि नास्तीति न समुच्चय इति भावः । छान्दोग्ये "यदि ऋक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयाद् यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद् यदि सामतो रिष्येत् स्वः स्वाहे­त्या­ह­व­नीये जुहु­या"दि­त्यु­प­दि­श्या­म्ना­यते एवं विद्ध वा इत्यादि । तत्र यज्ञस्य रक्षा­ङ्ग­वै­क­ल्य­प्र­यु­क्त­दो­ष­प­रि­हारः यजमानस्य रक्षा­फ­ल­व­त्क­र्मणा कर्म­फ­ला­प्र­ति­बन्धः ऋत्विजां रक्षा­म­न्त्रो­च्चा­र­णेषु स्वरा­दि­भ्रं­श­प्र­यु­क्त­दो­ष­प­रि­हारः ; अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः । आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः॥ इति मन्त्रहीने ऋत्विजां दोषस्मरणात् । एवं च यद्यु­द्गी­था­द्यु­पा­सना नित्याः स्युः , तदा तत्फलतया कर्म­फ­ला­प्र­ति­ब­न्ध­सिद्धेः प्रण­वो­द्गी­थै­क­त्वो­पा­स­ना­फ­ल­त­यो­द्गातुः स्वर­भ्रं­शा­दि­दो­ष­प­रि­हा­रा­दि­सि­द्धेश्च यजमानस्य सर्वे­षा­मृ­त्विजां च ब्रह्मणा परिपाल्यत्वं नोच्येत , तदु­च्य­मा­न­मु­पा­स­ना­ना­म­नि­त्यत्वं ज्ञापयतीति लिङ्ग­द­र्श­न­मु­क्तम् । तत्रो­दा­हृ­त­श्रु­ता­वे­वं­वि­च्छब्दः प्रकृ­त­प्रा­य­श्चि­त्ता­भि­ज्ञ­पर इत्यर्थः ॥६४॥६५॥६६॥
इति षट्त्रिशं यथा­क्ष­य­भा­वा­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जिश्री – रङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ वेदा­न्त­क­ल्प­त­रु­प­रि­मले तृतीयाध्यायस्य तृतीयः पादः॥ ॥

अथ तृतीयाध्यायस्य चतुर्थः पादः॥ पुरु­षा­र्थोऽ­तः­श­ब्दा­दिति बादरायणः ॥१॥ पूर्व­पा­दे­ना­व­स­र­सं­गतिं दर्शयन् पादार्थमाह –
अपूर्वमिति ।
ब्रह्मविद्यानां स्वातन्त्र्येण फल­सा­ध­न­त्व­नि­रू­पणं तदि­ति­क­र्त­व्य­ता­नि­रू­पणं च न पादार्थः ; अर्थभेदेन पाद­भे­द­प्र­स­ङ्गात् , किंतु तदि­ति­क­र्त­व्य­ता­नि­रू­प­ण­मेव ; फलकरणस्य सत इति­क­र्त­व्य­ता­का­ङ्क्षेति तदा­का­ङ्क्षा­सि­द्ध्य­र्थ­मु­पो­द्घा­त­त्वेन प्रथमाधिकरणे तासां स्वातन्त्र्येण फलकरणत्वस्य निरूपणमिति द्रष्टव्यम् ।
कर्मा­न­पे­क्षा­णा­मिति ।
स्वयं कर्माङ्गभावेन कर्मा­पे­क्षा­र­हि­तानां स्वयमेव फल­क­र­णा­ना­मि­त्यर्थः ।
का नामे­ति­क­र्त­व्य­तेति ।
उप­को­स­ल­वि­द्या­दिषु कासु­चि­त्स­गु­ण­वि­द्या­ग्नि­वि­द्या­द्या­रा­दु­प­का­र­का­ङ्गो­प­देशे सत्यपि निर्गुणविद्याया अवि­द्या­नि­वृ­त्ति­रू­प­दृ­ष्ट­फ­लो­त्पा­दने आरा­दु­प­का­र­का­न­पे­क्षा­या­मपि सर्वासां विद्यानां चित्त­शु­द्धि­चि­त्तै­का­ग्र्य­द्वारा सन्नि­प­त्यो­प­का­र­केषु ज्ञेयो­पा­स्य­ब्र­ह्म­स्व­रू­प­ज्ञा­नार्थं प्रमाणाभावेन च सन्नि­पा­ति­ष्वा­का­ङ्क्षाऽ­स्तीति तात्पर्यार्थः ।
ननु फल­भे­दा­भे­दा­व­न्त­रे­णेति ।
यद्यपि फलाभेदेऽपि गुणभेदेन ब्रह्म­लो­क­प्रा­प्ति­फ­ल­क­वि­द्यानां भेदो भवति , विद्याभेदेऽपि हृद­या­य­त­न­त्वा­दिना सगु­ण­नि­र्गु­ण­वि­द्ययोः सत्य­का­म­त्वा­दि­गु­णो­प­सं­हारो भवति , विद्यैक्येऽपि सत्य­वि­द्या­या­म­क्ष्या­दि­त्य­स्था­न­भे­दे­ना­ह­म­ह­र्ना­म­क­त्व­ल­क्ष­ण­गु­णा­नु­प­सं­हारो भवति ; तथापि प्रायोऽ­भि­प्रा­ये­णै­त­दु­क्तम् ।
न प्रकरणादिति ।
प्रक­र­णा­दा­त्म­ज्ञानं कर्माङ्गं न भवति ; प्रक­र­ण­स्या­भा­वा­दि­त्यर्थः ।
न वाक्यादिति ।
अनारभ्यवादः शब्द­स­म­र्पि­त­क्र­त्व­ङ्गतां लिङ्गो­प­स्था­पि­त­क्र­त्व­ङ्गतां वा वाक्यप्रमाणेन विधत्ते । तद्यथा – “अथा­तोऽ­ग्नि­म­ग्नि­ष्टो­मे­ना­नु­य­ज­न्ती”त्य­ना­र­भ्य­वा­दोऽ­ग्नि­ष्टो­म­श­ब्द­स­म­र्पि­त­क्र­त्व­ङ्गतां चित्या­ग्ने­र­ग्नि­ष्टो­मा­दि­प­द­स­म­भि­व्या­हा­र­रू­पेण वाक्यप्रमाणेन विधत्ते । "यस्य पर्णमयी जुहू­र्भ­व­ती"त्य­ना­र­भ्य­वादो जुहू­लि­ङ्गो­प­स्था­पि­त­जु­हू­प­द­ल­क्षि­त­क्र­त्व­ङ्गतां पर्णतायाः पर्ण­म­यी­जु­हू­प­दा­दि­स­म­भि­व्या­हा­र­रू­पेण वाक्यप्रमाणेन विधत्ते , न वाऽऽत्म­ज्ञा­न­वा­क्येषु क्रतुसमर्पकः शब्दोऽस्ति , न च तदुपस्थापकं लिङ्गमस्ति ; आत्मनो व्यभिचारित्वे नात­ल्लि­ङ्ग­त्वा­दि­त्यर्थः ।
अनुस्मारयन् वर्तत इत्यर्थ इति ।
टीका­या­म­नु­स्मा­र­य­न्नि­त्ये­त­द­न­न्तरं जुह्वा­दि­व­द्वा­क्ये­नैव तज्ज्ञानं पर्ण­ता­व­त्क्र­त्व­र्थ­ता­मा­पा­द्यत इति पाठं दृष्ट्वा अनु­स्मा­र­य­न्नि­त्य­स्या­पा­द्यत इत्य­ने­ना­न­न्व­या­द्व­र्तत इत्यध्याहारः कृतः । क्रत्व­र्थ­ता­मा­पा­द­य­तीति पाठे तु नाध्या­हा­रा­पेक्षा ।
ननु देहा­ति­रि­क्ता­त्मनि सत्य­प्य­व्य­भि­च­रि­त­क्र­तु­सं­बन्धे नास्ति तद्भाने सति क्रतु­स्मृ­ति­नि­यमः ; कारणे सति कार्य­नि­य­मा­भा­वात् , न हि धूमस्य दर्शने सति वह्नि­स्मृ­ति­र्नि­यता । तथा च यस्य "आत्मा द्रष्टव्य" इत्या­दि­वा­क्य­श्र­व­ण­काले क्रतुस्मृतिः , तस्य लक्षणया वाक्ये­ना­त्म­द­र्श­नस्य क्रत्व­र्थ­ता­प्र­ति­पत्तिः , यस्य न तत्स्मृतिः , तस्य नेत्यव्यवस्थिता वाक्यार्थधीः स्यादि­त्या­शङ्क्य परिहरति —
यद्यपीति ।
कापि प्रवृ­त्ति­र्भ­व­तीति ।
सर्वा­नु­भ­व­सि­द्ध­मे­त­दिति भावः ।
व्याप्यव्यतिरेक विज्ञानमिति ।
देहा­ति­रि­क्ता­त्म­ज्ञानं पार­लौ­कि­क­फ­ल­सा­ध­न­वि­ष­ये­च्छा­दि­ज­न­क­क्र­तु­स्मृ­ति­नि­य­त­मि­त्यर्थः । एवमपीह क्रतु­स्मृ­ति­नि­य­मो­प­पा­दनं संभ­व­ती­त्ये­त­दुक्तं न सार्वत्रिकम् ; पर्ण­ता­दि­वि­ध्य­व्या­प­ना­त्त­त्फ­ल­क­ल्प­ना­र्थ­वा­दि­क­फ­ल­वि­प­रि­णा­मा­दि­दो­ष­प­रि­हा­राय स्वत एव पर्णतादीनां फल­व­द­न्व­या­का­ङ्क्षया वाक्या­त्प्र­क­र­णाद्वा तदलाभाद् , लिङ्गात् फल­व­त्क्र­तु­स्मृ­ति­नि­यम इति सार्वत्रिकं तदुपपादनम् ।
आचा­रा­द्य­न्या­र्थ­द­र्श­न­मिति ।
ननु एत­दु­पो­द्ब­ल­ना­र्थ­मिति टीकाग्रन्थः स्वय­म­स्व­त­न्त्र­स्या­चा­रादेः पर्ण­म­यी­न्या­य­प्रा­प­क­म­पे­क्ष्यो­न्मे­ष­प­र­त्वेन व्याख्यातुं न युक्तः , किंतु देहातिरिक्तस्य वेदा­न्त­प्र­ति­पा­द्य­स्या­त्मनः परा­र्थ­त्वा­भा­वा­द­व्य­भि­चा­र­क्र­तु­स­म्ब­न्धा­भा­वाच्च इह पर्ण­म­यी­न्या­य­स्या­नु­न्मे­ष­प्रा­प्ता­वा­चा­रा­दि­क­म­पेक्ष्य तदुन्मेषपरत्वेन व्याख्यातुं युक्तः , असकृदावेदितं ह्यधस्ताद् वेदा­न्ता­ना­म­क­र्त्र­न­न्या­र्था­त्म­प­र­त्वम् । न च तस्ये­हो­प­म­र्दोऽस्ति पूर्वपक्षे , न वा सिद्धान्ते तस्यात्मनः परार्थत्वाभावे न्याया­न्त­रो­प­न्या­सोऽस्ति , प्राक्सि­द्ध­न्या­य­जा­त­मेव हि इहापि सिद्धान्ते स्मारितम् ; देहातिरिक्तस्य च कर्तु­र्ना­व्य­भि­च­रि­त­क्र­तु­सं­ब­न्धोऽस्ति, दानादिभिरपि तस्य सबन्धात् , न च – अत्र क्रतुशब्दो विहि­त­क­र्म­मा­त्रो­प­ल­क्षक इति वाच्यम् ; निषि­द्ध­क­र्म­भि­रपि संबन्धात् । तान्यपि हि स्वफलभोगार्थं देहा­ति­रि­क्ता­त्म­सा­पे­क्षाणि । यदि त्वत्र क्रतुशब्दः पार­लौ­कि­क­फ­ल­सा­ध­न­वि­हि­त­नि­षि­द्ध­सा­धा­र­ण­क­र्म­मा­त्रो­प­ल­क्षकः स्यात् , तदा यथा­त्म­द­र्श­न­सं­स्कृ­ते­नैव कर्त्राऽ­नु­ष्ठितं विहितं कर्म स्वर्गादिसाधनं यथा तेनैवानुष्ठितं निषिद्धं कर्म नरकसाधनमिति पाम­रा­नु­ष्ठि­त­नि­षि­द्ध­क­र्मणां नरकजनकत्वं न स्यात् , "तद्यथा पुष्करपलाश आपो न श्लिष्यन्त" इति येषा­मा­त्म­द­र्श­न­वतां पापाश्लेषः श्रुतः , तेषामेव तन्नरकजनकं स्यात् । ननु – निषेधवाक्येषु प्रत्यवायफलकं निषि­द्धा­नु­ष्ठानं न शास्त्रार्थः, किंतु प्रत्य­वा­य­प­रि­हा­र­फ­लकं निषि­द्धा­न­नु­ष्ठानं प्रत्य­वा­य­प­रि­हा­राय भवतीति शास्त्रा­र्था­ङ्गी­कारे नोक्तदोषः ; निषि­द्धा­नु­ष्ठा­नेन प्रत्यवायजनने देहा­ति­रि­क्ता­त्म­ज्ञा­ना­न­पे­क्ष­णा­दिति – चेत् , मैवम् ; एवं सति वेदा­न्त­ज­न्या­त्म­ज्ञा­न­र­हि­तानां निषि­द्धा­न­नु­ष्ठा­नेऽपि प्रत्य­वा­या­प­रि­हा­रा­द­व­श्यं­भावी प्रत्यवायो निषि­द्धा­नु­ष्ठा­ने­नै­वा­स्त्विति प्रतिसंधानेन तेषां तद­नु­ष्ठा­न­प्र­सङ्गो दुर्वार । किंचात्र क्रत्व­व्य­भि­चा­र­श­ब्दे­ना­ग्नि­सा­ध्य­क­र्मा­व्य­भि­चार एव पूर्वपक्षिणा विवक्षित इति वक्तव्यम् । अन्यथा "ऊर्ध्व­रे­तस्सु च शब्दे ही"ति सूत्रोक्तस्य विद्या­स्वा­त­न्त्र्य­हे­तो­र­न­न्व­या­पत्तेः , पार­लौ­कि­क­फ­ल­क­र्मा­व्य­भि­चा­र­वि­व­क्षायां नैष्ठिकादीनामपि स्वाश्र­य­ध­र्म­रू­प­क­र्म­स­त्त्वाद् विद्या­या­स्त­द­ङ्ग­त्वो­प­पत्या स्वातन्त्र्यं न सिद्ध्येत् । तस्मा­द्वे­दा­न्त­प्र­ति­पा­द्य­स्या­त्मनः पारा­र्थ्य­क्र­त्व­व्य­भि­चा­र­यो­र­भा­वा­दिह पर्ण­म­यी­न्या­याऽ­नु­न्मे­षेण तदु­ज्जी­व­ना­र्थ­म­ग्रि­म­श्रु­ति­लि­ङ्गा­दि­व­र्ण­न­मि­त्येव व्याख्यातुं युक्तम् । न च – अन्यार्थदर्शनं स्वयं­प्रा­प­क­सा­पे­क्षम् इह तद्रहितं कथमन्योपोद्बलकं स्यादिति — शङ्कनीयम् ; आचारदर्शनमेव हि वैश्वा­न­र­वि­द्या­दि­प्र­शं­सा­र्थ­त्वाद् अन्यार्थदर्शनम् । यदेवेति श्रुतिरेव । तत्र यदेव करोतीति सर्व­ना­मा­व­धा­र­णाभ्यां व्याप्ति­ग­म­काभ्यां सर्वं कर्मानूद्य तत्साधनत्वेन विद्या तृतीयाश्रुत्या विधीयत इति स्पष्टमेव प्रतीयते । न च "तेनोभौ कुरुत" इति विद्या­वि­ही­न­स्यापि कर्मोक्त्या कश्चिद्दोषः ; तावता हि षोडशिग्रहणवद् वैक­ल्पि­का­ङ्गत्वं सिद्ध्यति , न त्वनङ्गत्वम् । अत एव तदेव वीर्यवत्तरं भवतीति विद्या­प­क्षेऽ­ङ्ग­भू­य­स्त्व­प्र­युक्तं फल­भू­य­स्त्व­म­नू­द्यते , समन्वारम्भणं तु सिद्धा­न्तेऽ­प्य­ङ्गी­क्रि­यते ; तद्वतो विधानमप्यविचलो हेतुरधीत्येति ह्यध्य­य­न­क­र­णि­का­र्थ­ज्ञा­न­फ­ल­प­र्यन्ता भावनोच्यते , फलापवर्गित्वाद् भावनायाः । अत एव "वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजे­ते"त्यत्र वाजपेये प्रधा­न­या­गा­नु­ष्ठा­ना­न­न्त­र­मेव बृह­स्प­ति­स­व­या­ग­प्राप्तौ फलापवर्गिणी भावना फलाऽ­पू­र्व­प­र्य­न्तेति तन्नि­ष्प­त्त्य­र्थो­दी­च्या­ङ्ग­स­हि­त­वा­ज­पे­य­प्र­यो­ग­स­मा­प्त्य­न­न्त­र­मेव बृहस्पतिसव इति मीमां­स­कै­र­ङ्गी­क्रि­यते , अध्ययनं च स्वस्ववेदस्य कार्त्स्न्येन विहितम् । तथा चाधीतस्य कृत्स्नस्य वेद­स्या­र्था­व­बो­ध­फ­ल­प­र्य­न्त­स्या­धी­त्येति गृह­स्था­श्र­म­क­र्मसु विनियोगात् कर्म­भा­ग­ज्ञा­न­स्येव कथ­मौ­प­नि­ष­दा­त्म­ज्ञा­न­स्यापि कर्मा­नु­ष्ठा­नो­प­यो­गि­तया तत्र विनियोगो न सिद्ध्येत् ? एवं नियमोऽप्यविकलः पूर्वपक्षहेतुः । “ईशावास्यमिदं सर्व­मि”त्या­त्मो­प­दे­श­पू­र्वकं हि “कुर्वन्नेवे”ति श्रवणमात्मविदो जीवनस्य कर्मसु विनियोगं बोध­य­दा­त्म­वि­द्याया एव विधिविभक्त्या कर्माङ्गत्वं बोधयेत् । एवं च आचा­र­द­र्श­न­म­न्या­र्थ­द­र्श­न­मपि विद्याकर्मणोः समप्राधान्येन कर्मणो विद्या­ङ्ग­त्वे­नो­प­प­द्य­मा­न­मपि “यदेव विद्य­ये"त्या­द्य­नु­गृ­हीतं विद्यायाः कर्माङ्गत्वे पर्य­व­स्य­ल्लिङ्गं भवेदेव । तस्मा­त्प­र्ण­म­यी­न्या­यो­ज्जी­व­नार्थं श्रुति­लि­ङ्गो­प­न्यास इत्येव युक्तम् । एवं हि सति देहातिरिक्तस्य कर्तुः क्रत्व­व्य­भि­चा­रोऽस्तु वा , मा वा , "आत्मा द्रष्टव्य" इत्यादिना विधी­य­मा­ना­त्म­वि­द्या­या­स्त­व्य­प्र­त्य­येन ताव­दा­त्म­सं­स्का­रार्थ त्वमवगतं , “यदेव विद्यये”ति श्रुत्या तस्याः क्रत्व­र्थ­त्व­म­प्य­व­गतं , "य आचा­र्य­कु­ला­द्वे­द­म­धी­त्ये"त्य­ध्य­य­न­फ­लो­प­नि­ष­दा­त्मा­व­बो­धस्य कर्मा­र्थ­त्वो­क्त्याऽपि विद्यायाः कर्मा­र्थ­त्व­म­व­गतं, विद्यायाः स्वातन्त्र्ये विद्या­नु­ष्ठा­नो­प­यो­गि­न­स्तस्य कर्मा­र्थ­त्वा­यो­गात् । औप­नि­ष­दा­त्म­सं­स्का­र­रू­प­वि­द्यायाः क्रत्व­र्थ­त्व­मौ­प­नि­ष­दा­त्मनः क्रत्वर्थत्वे सत्येवोपपद्यते ; यजमानस्य क्रत्वर्थत्वे सत्येव हि यज­मा­न­सं­स्का­र­स्या­ञ्ज­नादेः क्रत्व­र्थ­त्व­मिति पर्ण­म­यी­न्या­योऽत्र लब्धप्रसरो भवतीति – चेद् , उच्यते ; विद्यायाः क्रत्व­र्थ­त्व­सा­ध­नां­शेन पर्ण­म­यी­न्या­या­नु­ग्रा­ह­क­मपि यदेव विद्ययेत्यादिकं केव­ल­क्र­त्व­र्थ­त्व­सा­ध­नाय पर्ण­म­यी­न्या­य­सा­पे­क्षम् , अन्यथा दध्या­दि­व­द्वि­द्यायाः पुरु­षा­र्थ­त्व­म­प्यस्तु , फलस्यापि श्रवणादिति शङ्काया निवारणं न भवेत् । तस्मा­त्प­र्ण­म­यी­न्या­या­नु­ग्रा­ह­कत्वं "यदेव विष­ये"त्या­दे­रे­त­दु­पो­द्ब­ल­ना­र्थ­मिति येन टीका­ग्र­न्थे­नोक्तं तेनैव तस्य केव­ल­पु­रु­षा­र्थ­त्व­सा­ध­नांशे न स्वात­न्त्र्य­मिति तदंशे पर्ण­म­यी­न्या­य­सा­पे­क्ष­त्व­मपि दर्शि­त­मि­त्य­भि­प्रा­येण तथाऽवतारितम् । तथा च वनसिंहन्यायेन प्रमा­ण­त­र्क­न्या­येन वोभ­यो­र­प्यं­श­भे­देन पर­स्प­रा­पे­क्षा­या­मपि न परस्पराश्रयदोषः ।
तच्छ्रु­ते­रि­त्या­दि­सू­त्रा­णीति ।
यद्यपि तच्छ्रुतेरिति सूत्रं यदेव विद्ययेति श्रुति­प्र­द­र्श­कम् ; तथापि तृती­या­श्रु­त्य­व­ग­त­क्र­त्व­ङ्ग­त्व­लि­ङ्गेन आर्थ­वा­दि­क­फ­ल­वि­व­क्षया केव­ल­क्र­त्व­ङ्ग­त्व­म­व­ग­न्त­व्य­मिति तदं­शा­भि­प्रा­या­त्त­च्छ्रु­ते­रि­ति­सू­त्रस्य लिङ्ग­प­र­त्वोक्तिः ।
एत­ल्लि­ङ्ग­द­र्श­न­मिति ।
क्वाचि­त्की­य­म­न्य­था­सि­द्ध्यु­क्तिर्न सार्वत्रिकी ; निर्गु­ण­वि­द्या­प्र­क­र­णेऽपि तत्र तत्र गृह­स्थ­क­र्मा­नु­ब­न्ध्यु­पा­ख्या­न­द­र्श­ना­दि­त्या­श­ये­नै­त­दि­त्यु­क्तम् ।
सर्व­वि­ष­य­त्व­श­ङ्का­मिति ।
"यश्चैवं वेदेति" पूर्व­वा­क्य­ग­तै­वं­श­ब्द­सा­म­र्थ्या­द्वि­द्या­श­ब्दस्य प्रकृतं विद्या­मा­त्र­वि­ष­य­त्व­म­व­श्यं­भा­वीति भावः । विभागः शतवदिति सूत्रं विद्व­द­वि­द्व­त्पु­रु­ष­भे­देन विद्या­क­र्म­णो­र­नु­व्र­ज­न­व्य­व­स्था­प­क­म­यु­क्तम् ; निर्गुणविद्यावत उत्क्र­म­ण­ग­म­न­यो­र­भा­वेन विद्या­या­स्त­द­नु­व्र­ज­ना­भा­वात् , सगुणविद्यायाः फलभूयस्त्वार्थं कर्म­सा­पे­क्ष­त्वेन विद्या­क­र्म­णो­रे­क­स्मिन् पुरुषे साहि­त्यो­प­पत्त्या विभा­गा­न­पे­क्ष­णात् तस्मा­च्छ­त­न्या­येन विभागो न सूत्रणीय इति न चेदं सम­न्वा­र­म्भ­व­च­न­मि­त्या­दि­भा­ष्येण दर्शि­त­मि­त्ये­त­द­वि­भा­गेऽपि न दोष इत्या­दि­टी­का­ग्र­न्थे­नो­क्तम् । अयं स्पष्टत्वान्न व्याख्यात इत्यस्तु । अध्ययनमात्रवत इति सूत्रस्य तु भाष्य­टी­का­ग्रन्थौ विचारणीयौ । भाष्ये तावत् स्वातन्त्र्येण यत् प्रयो­ज­न­व­द्य­दा­त्म­द­र्शनं तत् मात्रग्रहणेन व्यावर्त्यते , न त्वध्य­य­न­फ­ल­म­र्था­व­बो­धनं , न चैता­व­तो­प­नि­ष­द­र्था­व­बो­ध­न­स्यापि कर्मा­ङ्ग­त्व­प्र­सङ्गः ; क्रत्व­न्त­र­ज्ञा­नस्य क्रत्वन्तर इव तस्य कर्ममात्रे अन­ङ्ग­त्वो­प­प­त्ते­रि­त्यु­क्तम् । अनेन भाष्ये­णा­र्था­व­बो­ध­फ­ल­का­ध्य­य­ने­ति­क­र्त­व्य­ता­रू­पेण स्नानात् प्राचीनेन विचारेण कृत्स्न­वे­दा­र्था­व­बो­ध­म­ङ्गी­कृत्य तत्रो­प­नि­ष­दं­शा­र्था­व­बो­धस्य कर्म­सू­प­यो­ग­मात्रं व्यावर्तितमिति प्रतिभाति , तदयुक्तम् ; उपनिषद्विचारस्य साध­न­च­तु­ष्ट­य­सं­प­न्ना­धि­का­रि­क­त्वे­ना­धी­त­वे­द­मा­त्रा­धि­का­रि­क­त्वा­भा­वात् । टीकायां तु – मात्र­ग्र­ह­णे­नो­प­नि­ष­दं­श­स्या­ध्य­य­न­मेव व्यावर्त्यत इत्युक्तम् । इदमप्ययुक्तम् ; अध्ययनविधेः कृत्स्न­स्व­शा­खा­वि­ष­य­त्वात् । तस्मादिदं भाष्य­टी­का­ग्र­न्थ­द्वयं स्फुटविरोधं विचारणीयं कथ­मा­चा­र्यै­स्त्य­क्त­मिति चेत् , उच्यते ; भाष्य­का­रै­रा­त्म­ज्ञा­नस्य कर्मा­न­ङ्ग­त्वोक्त्या दार­प­रि­ग्र­ह­प्र­भृ­त्य­व­श्या­नु­ष्ठे­य­नि­र­न्त­र­सं­त­न्य­मा­न­क­र्मा­नु­ष्ठा­नो­प­यो­गि­तया कर्मभागविचार एव स्नानात्पूर्वं, न तूप­नि­ष­द्वि­चा­रोऽ­पी­त्ये­त­त्सू­चि­त­मिति स्पष्टमेव । आचा­र्य­कु­ला­द्वे­द­म­धी­त्ये­त्यत्र त्वधी­त्ये­त्य­ध्य­य­न­नि­वृ­त्ति­मा­त्र­मुक्तं , न तु फल­भा­व­ना­प­र्य­न्ताऽ­ध्य­य­न­नि­वृत्तिः ; "वाज­पे­ये­ने­ष्ट्वे"त्यत्र तृती­या­श्रु­त्य­व­ग­त­फ­ल­भा­व­ना­क­र­ण­त्व­नि­र्वा­हाय तत्प­र्य­न्त­या­ग­नि­वृ­त्त्य­र्थ­त्वा­भ्यु­प­ग­मेऽ­प्यत्र ताद­व­स्थ्य­स्या­न­ङ्गी­क­र्त­व्य­त्वात् , “अधीत्य वेदं न विजानाति योऽर्थमि”ति श्रुत्यन्तरे अधी­त्ये­त्य­स्या­ध्य­य­न­नि­वृ­त्ति­मा­त्रा­र्थ­त्व­द­र्श­नाच्च । न चैवं­स­त्य­धी­त्या­भि­स­मा­वृ­त्त्येति श्रुता­व­ध्य­य­ना­न­न्त­र­मेव समा­व­र्त­न­प्र­सङ्गः ; अग्नि­हो­त्रा­द्य­नु­ष्ठा­नो­प­यो­गि­तया समा­व­र्त­ना­त्पूर्वं कर्म­वि­चा­र­प्राप्तेः । अग्नि­हो­त्रा­दि­क­र्म­सं­बन्धे सति कर्म­वि­चा­र­त­द­र्थ­गु­रु­कु­ल­वा­स­यो­र­व­का­शा­भा­वात् । तस्माद् भाष्ये न काचिदनुपपत्तिः । टीकायां मात्र­ग्र­ह­ण­स्यो­प­नि­ष­द­ध्य­य­न­व्या­व­र्त­क­त्वो­क्ति­र्वि­चा­र­सा­ध्य­त्वा­व­बो­ध­प­र्य­न्ता­ध्य­य­न­व्या­व­र्त­क­त्वा­भि­प्राया । सा च विशे­ष्य­व्या­व­र्त­नाऽ­सं­भ­वाद् विशे­ष­ण­मा­त्र­व्या­व­र्त­नार्था पर्यवस्यति। सर्वमिदं प्रथ­म­सू­त्र­प्र­ति­पा­दि­ता­र्थ­प­र्या­लो­च­न­याऽ­व­गन्तुं शक्य­मि­त्या­चा­र्यै­स्त्य­क्तम् ।
बहुदक्षिणेन विश्वजिदादिनेति ।
विश्वजिति द्वादशशताधिकं यस्य यावद् भूमि­पु­रु­षा­श्व­र­ज­त­वर्जं स्वमस्ति , तत्सर्वं दीयत इति तस्य बहु­द­क्षि­ण­त्व­मु­क्तम् । आदिशब्देन बहुदक्षिणत्वेन प्रसि­द्ध­स्या­श्व­मे­धस्य सप्त­द­शोऽ­ग्नि­ष्टो­म­स्तस्य दीक्ष­णी­या­या­मिष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आति­थ्या­या­मि­त्यादि अष्टा­विं­श­ति­श­त­म­ष्टा­विं­श­ति­श­त­मा­नानि वशाया वपायामित्यन्तेन बहु­द­क्षि­ण­त­यो­क्तस्य च ग्रहणम् । तत्र हि दीक्ष­णी­या­प्रा­य­णी­या­ति­थ्या­ष­डु­प­स­द­ग­ग्नी­षो­मी­य­प­शु­स­व­नी­य­प­शु­स­व­न­त्र­यो­द­य­नी­या­नु­ब­न्ध्य­प­शुषु द्वाद­श­मा­न­मा­र­भ्यो­त्त­रो­त्त­र­द्वि­गुणा दक्षिणोक्ता । कुर्वन्नेव कर्माणि वर्तेथा इति कर्म­सं­क्रा­न्ति­वि­धि­क­ल्पनं । कर्मा­शु­भ­मि­त्य­शु­भ­त्वा­ध्या­हारः । यावज्जीवं संत­न्य­मा­न­स­त्क­र्म­म­हि­म्नाऽ­न्त­रा­न्तरा जातं पापं कर्म नश्यतीत्यर्थः । इदं व्याख्यानं नाविशेषादिति सूत्रानुसारेण विद्व­द्वि­ष­य­त्व­मा­श्रित्य । स्तुत­येऽ­नु­मि­ति­र्वेति सूत्रानुसारेण विद्वद्विषयत्वे तु भाष्यकारैः श्रुत्यभिप्रायो दर्शित इति न व्याख्यातम् । तस्मिन् पक्षे आम­न्त्र­ण­श­ब्दोक्ते कामचारेण लिङ् यथाकामं कर्म करोतु नामेत्यर्थः । नान्य­थे­तोऽ­स्ती­त्यस्य इतो विद्या­सा­म­र्थ्याद् अन्यथा संसा­र­नि­वृ­त्ति­र्ना­स्ती­त्यर्थः ।
अयं लोकः प्रत्यक्षं फलमिति ।
अनेन यथा “यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते" इत्या­दि­क­र्म­वि­शे­षा­र्थ­वा­द­नि­र्दि­ष्ट­फ­ल­स्यो­भ­य­त्रापि वर्त­मा­न­नि­र्दे­शेन प्रतीयमानं तात्कालिकत्वं प्रत्य­क्ष­वि­रु­द्ध­मिति तत्परिहाराय व्यव­धा­र­ण­क­ल्प­ना­पे­क्ष­णात् ततः क्रतुफलेन फलवत्त्वकल्पना बलीयसीति तत्सिद्धये क्रत्व­न्व­या­काङ्क्षा , नैवमिह तदाकाङ्क्षास्ति ; "ब्रह्म वेद ब्रह्मैव भवती”ति विद्या­र्थ­वा­द­नि­र्दि­ष्ट­फ­लस्य विद्या­स­मा­न­का­ल­तायाः प्रत्य­क्ष­वि­रु­द्ध­त्वा­भा­वात् , लोकेऽपि भ्रान्ति­नि­व­र्तके तत्त्व­सा­क्षा­त्का­र­प्र­यु­क्ता­धि­ष्ठा­न­स्व­रू­पा­वि­र्भा­वस्य तात्का­लि­क­त्व­द­र्श­ना­च्चेति प्रकृते पर्ण­म­यी­न्या­य­वै­षम्यं सूचितम् । इदं भाष्यालोचनया स्पष्टमिति नोक्तम् ॥९॥१०॥११॥१२॥१३॥१४॥१५॥१६॥१७॥
इति प्रथमं पुरु­षा­र्था­धि­क­र­णम् ॥

परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥
आक्षे­प­ल­क्ष­णा­मिति ।
ननु आक्षेपस्य समाधानं कथमनेनाधिकरणेन लभ्यते ? तत्र हि "त्रयो धर्म­स्कन्धा" इति विषयवाक्याद् धर्मशब्देन ब्रह्म­चा­रि­वा­न­प्र­स्थ­यो­र्द­र्शि­त­म­भ्यु­द­य­सा­ध­न­क­र्मा­स्तित्वं तथैवाङ्गीकृतं संन्या­सि­नोऽ­प्य­धि­क­शौ­चा­ष्ट­ग्रा­स­नि­य­म­श­म­द­मा­दि­रूपं कर्माङ्गीकृतं तस्य तपः­श­ब्द­वा­च्य­त्व­मात्रं परं प्रतिक्षिप्तम् , उच्यते ; संन्यासिनो विद्यां प्रति प्राधान्ययोग्यं किमपि कर्मानङ्गीकृतम् । सम­धि­क­शौ­चा­दे­रा­न­र्थ­क्य­मिति चेन्न ; सर्वापेक्षाचेति सूत्रो­क्त­न्या­येन सर्व­क­र्मा­पे­क्षि­त­त्वा­दा­चा­रा­न्त­र्ग­तस्य तस्य विद्या­र्थ­त्व­श्र­व­णाच्च शुद्धि­त्व­सं­पा­द­क­तया शमदमादेः “शमदमाद्युपेतः स्यादि”ति सूत्रो­क्त­न्या­येन चित्तै­का­ग्र्य­सं­पा­द­क­तया च विद्यो­प­यो­गि­त्वात् , स्वात­न्त्र्ये­णा­भ्यु­द­य­सा­ध­नस्य सर्वस्य कर्मणः संन्यासिना त्यक्तत्वात् । अत­स्त­था­भू­त­सं­न्या­सा­श्र­मा­स्ति­त्व­प्र­सा­ध­नेन कृताक्षेपं समाधानं लभ्यते ।
प्रणवाख्य ब्रह्मणः प्रस्तु­त­त्वा­दिति ।
ननु – छान्दोग्ये त्रयो धर्मस्कन्धा इत्यु­प­क्रा­न्तस्य खण्डस्योङ्कार एवेदं सर्वमिति समापनात् तस्मिन् प्रणवः प्रस्तुत इत्युपपद्यतां , मधुविद्यायां च "गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पमि"ति प्रणवे ब्रह्म­श­ब्द­द­र्श­नात् प्रणवाख्यं ब्रह्मे­त्यु­प­प­द्यते , "ब्रह्म­संस्थ" इत्यत्र ब्रह्मशब्दस्य प्रणवपरत्वं तु नोपपद्यते ; तदु­पा­स­ने­ना­मृ­त­त्वा­नु­प­पत्तेः ; "नान्यः पन्था" इति श्रुतिविरोधात् , नचे­हा­मृ­त­त्व­मा­पे­क्षिकं वक्तुं शक्यम् ; तथा सति पुण्य­लो­क­भा­जा­मा­श्र­मा­न्त­रा­णा­मपि तत्सत्त्वेन तदपेक्षया ब्रह्म­सं­स्थ­स्यो­त्क­र्षा­ला­भा­प­त्ते­रिति – चेत् , उच्यते ; प्रश्नोपनिषदि त्रिमा­त्र­प्र­ण­व­प्र­तीका या ब्रह्मो­पा­स­नोक्ता , सैवात्रापि विवक्षिता ; तस्याश्च ब्रह्मलोके तत्त्व­सा­क्षा­त्का­रो­त्पा­द­न­द्वा­राऽऽ­त्य­न्ति­का­मृ­त­त्व­फ­ल­त्व­मु­क्त­मि­त्य­त्रापि तदु­क्ति­रु­प­प­द्यते इति तात्पर्यम् । प्रण­व­प्र­क­र­णा­न­नु­रोधे तु ब्रह्मसंस्थपदं स्वातन्त्र्येण पर­ब्र­ह्म­नि­ष्ठा­परं , न तु प्रण­व­प्र­ती­क­ब्र­ह्मो­पा­स­ना­प­र­मिति द्रष्टव्यम् ॥१८॥१९॥
अप्रा­प्ता­र्थ­द्व­य­प्र­ति­भा­ना­दिति ।
गृहस्थाश्रमस्य प्रत्य­क्ष­श्रु­ति­प्रा­प्त­त्वात् त्रिषु धर्मस्कन्धेषु नैष्ठि­क­वा­न­प्र­स्थ­रू­प­मे­वा­प्रा­प्त­मिति भावः । महापितृयज्ञ इति शाखान्तरं दृष्ट्वोक्तम् । प्रेताग्निहोत्र एवाधस्तात् समिधमिति विधिः प्रसिद्धः ।
अनुवाद इत्यत्र हेतुः –
वर्तमानापदेशाद् विधि­श­ब्दा­श्र­व­णात् हिश­ब्द­श्रु­ते­श्चेति ।
अप्रा­प्त­स्या­नु­वादो न संभवतीति बाध­क­वा­र­णा­र्थ­मु­परि समिधः प्राप्ते­रि­त्यु­क्तम् । प्राप्त्यु­प­पा­दकं हवि­षोऽ­भ्य­र्हि­त­द्र­व्य­त्वा­दि­त्यादि ।
वाक्या­न्त­र­प्राप्ता समिन्नियम्यत इति ।
तेनैव वाक्यान्तरेणेति शेषः ।
हविषः प्राग्देश इति ।
स्रुग्दण्ड एव हवि­रा­धा­र­बि­ल­स्था­ना­प­र­भा­ग­रूपः प्राग्देशशब्देन विवक्षितः ।
यदापि परामर्श एवायमिति भाष्येण स्तुति­सा­म­र्थ्यात् ब्रह्मसंस्थत्वे विधिरभ्युपेय इति प्रसाधितं तत्प्र­सा­ध­नी­य­प्र­कृ­त­सं­न्या­सा­श्र­म­सिद्धौ नोपयोगि ; गृह­स्था­दी­ना­मे­वा­मृ­त­त्व­फ­ल­क­ब्र­ह्म­सं­स्था­वि­धि­सं­भ­वा­दि­त्या­शङ्क्य एत­च्छ­ङ्का­नि­रा­क­र­ण­फलं विचारान्तरं भाष्य­का­रै­रा­र­भ्यत इत्य­व­ता­र­य­ती­त्याह –
ब्रह्म­सं­स्थ­ता­वि­धा­व­पीति ।
यद्यपि नोप­न्य­स्त­श­ङ्का­नि­रा­क­र­णार्थं विचा­रा­न्त­र­मा­र­भ्यते , किंतु तपःशब्देन संन्या­सा­श्र­म­स्यापि ग्रहणं चतु­र्णा­म­प्या­श्र­माणां ब्रह्म­सं­स्थ­ताऽ­मृ­त­त्व­फ­लो­च्यते इति वृत्ति­का­र­म­त­नि­रा­क­र­णा­र्थम् ; तथापि तन्नि­रा­क­र­णा­र्थे­नैव गृह­स्था­द्या­श्र­मेषु ब्रह्म­सं­स्थ­प­द­स्या­व­य­वा­र्था­सं­भ­व­प्र­द­र्श­केन वक्ष्य­मा­ण­न्या­ये­नो­प­न्य­स्त­श­ङ्का­नि­रा­क­र­ण­म­प्य­नु­ष­ङ्गतो लभ्यत इति तात्पर्यम् । किं च गृह­स्था­दि­ष्व­मृ­त­त्व­फ­ल­क­ब्र­ह्म­सं­स्था­वि­ध्य­भ्यु­प­ग­मेऽपि विद्यायाः स्वातन्त्र्यं सिद्ध्यत्येव ; कर्माङ्गत्वे फला­र्थ­त्वा­सं­भ­वा­दि­त्यपि द्रष्टव्यम् ।
प्रथ­म­मा­ग्ने­या­दयो मन्त्रा इति ।
प्रथमशब्दादग्रे पुन­रा­ग्ने­य्या­ग्नी­ध्न­मिति पुनःशब्दाच्च एकस्मिन्नेव वेदे मन्त्रा­म्ना­न­स्तो­त्र­वि­नि­यो­गो­प­स्था­न­वि­नि­योगाः क्रमिका इति प्रतीयते । अन्ये तु मन्त्रा­म्ना­न­स्तो­त्र­वि­नि­योगौ सामवेदे उप­स्था­न­वि­नि­यो­गस्तु यजुर्वेद इत्याहुः ।
अप्र­कृ­ता­ग्ने­यी­ग्र­हण इति ।
अयमर्थः – अग्नी­ध्नो­प­स्था­नस्य द्वे रूपे , आग्नी­ध्नो­प­स्था­नत्वं ज्योति­ष्टो­मा­पू­र्व­सि­द्ध्यौ­प­यि­क­व्या­पा­रत्वं चोभयमपि विधातव्यम् ; केव­ला­ग्नी­ध्नो­प­स्था­न­त्व­वि­धाने हि नैष्फल्यं स्यात् , फलं वा कल्प्येत , तद्य­द्य­प्र­कृ­ता­ग्नेयी गृह्येत , तदा रूप­द्व­य­म­प्य­ने­नैव वाक्येन विधातव्यमिति गौरवं भवेत् , प्रकृ­ता­ग्ने­यी­ग्र­हणे तु तस्याः प्रकरणाम्नानात् ज्योतिष्टोमगतो व्यापारः कर्त­व्य­त्वे­ना­व­धा­रि­तस्य व्यापा­र­स्या­ग्नी­ध्नो­प­स्था­ना­त्म­क­वि­शे­ष­रू­प­त्व­म­वि­धेयं य आग्नेय्या ज्योतिष्टोमे व्यापारः कर्तव्यः , स आग्नी­ध्नो­प­स्था­ना­त्मक इति विधेयलाघवं लभ्यते ।
अतो लाघवार्थं प्रकृतैव ग्राह्येति ।
न तस्याः पारार्थ्यमिति ।
यदि पारार्थ्यमपि विनि­यो­गा­न्त­रेऽ­नु­प्र­वि­शेत् , तदा विनि­यु­क्त­वि­नि­यो­ग­वि­रो­ध­दोषः स्याद्यथा "पुरो­डा­श­क­पा­लेन तुषा­नु­प­व­प­ती"त्य­त्रा­धि­ष्ठा­न­ल­क्ष­णा­न­ङ्गी­कारे । तदा हि कपाले पुरो­डा­श­शे­ष­त्व­वि­शे­ष­णम् अन्य­शे­ष­त्व­व्य­व­च्छे­दकं स्याद् ; विशेषणानां स्ववि­रो­धि­व्या­व­र्त­क­स्व­भा­व­त्वात् । तथा चानु­वा­द्य­पु­रो­डा­श­शे­ष­त्व­वि­धे­य­तु­षो­प­वा­प­शे­ष­त्वयोः परस्परविरोधाद् वाक्या­र्थ­प्र­ती­तिर्न निष्पद्येतेति तत्र विनि­यु­क्त­वि­नि­यो­ग­वि­रोधो दोषः । तत्परिहाराय च पुरो­डा­श­शे­ष­त्व­रू­प­वि­शे­ष­णां­श­म­प­हाय वस्तु­त­स्त­द­धि­ष्ठा­न­क­पा­ल­स्व­रू­प­मात्रे पुरो­डा­श­क­पा­ल­श­ब्दस्य लक्षणाऽङ्गीकृता । न चेहाग्नेय्याः स्तोत्र­शे­ष­त्व­रू­प­वि­शे­ष­ण­श्र­व­ण­मस्ति , येन विनि­यु­क्त­वि­नि­यो­ग­वि­रो­ध­शङ्का स्यादित्यर्थः ।
ननु यथा "व्रीही­न्प्रो­क्ष­ती"त्यत्र व्रीहिषु क्रतु­शे­ष­त्व­वि­शे­ष­णा­श्र­व­णेऽपि प्राक्क्र­तु­शे­ष­त्वेन विनियुक्तत्वात् क्रतुशेषाणामेव तेषां ग्रहणम् , एव­मि­हा­प्या­ग्नेय्याः प्राक् स्तोत्र­सा­ध­न­त्वेन विनियुक्तत्वात् तथाभूताया एव तस्या ग्रहणं भवेदिति स्तोत्र­शे­ष­त्वे­नो­पा­त्ताया उप­स्था­न­शे­ष­त्व­बो­धने विनि­यु­क्त­वि­नि­यो­ग­दोषः स्यादि­त्या­श­ङ्क्याह –
यदि पुनरिति ।
व्रीहयः क्वचित्कार्ये न विधीयन्ते , किंतु व्रीहीनुद्दिश्य प्रोक्ष­ण­सं­स्कारो विधीयते , यथा­प्र­ती­त­मे­वो­द्देश्यं क्वचि­दु­प­यु­क्त­मेव संस्कार्यमिति च क्रत्व­पू­र्वा­र्थ­त्वे­नैव व्रीहीणां ग्रहणमिति युज्यते , न तथे­हा­ग्ने­यी­मु­द्दिश्य तत्सं­स्का­र­त्वे­नो­प­स्थानं विधीयते , किं त्वाग्नेय्येव तृती­या­श्रु­त्यो­प­स्थाने साधनत्वेन विधीयते । न च यत्र वाक्ये यद्विधीयते तस्य तत्रो­द्दे­शोऽ­प्यस्ति ; तथा सति हि तदु­द्दे­शे­ना­न्य­दपि विधेयमिति वाक्यभेदः स्याद् । अतोऽत्र नाग्ने­य्यु­द्दे­श्येति न व्रीहिन्यायेन तस्यां पारा­र्थ्य­वि­वक्षा प्रसज्यत इत्यर्थः ।
ननु सन्नि­हि­त­व्य­क्ति­प­र­त्व­मे­वे­त्य­यु­क्तम् सन्निधिना स्थान­प्र­मा­णे­ना­वि­शे­ष­प्र­वृ­त्त­श्रु­ति­सं­को­चा­यो­गा­दि­त्या­श­ङ्क्याह –
अग्निदेवतेति ।
न सामान्यमात्रे इति ।
यद्य­प्या­कृ­त्य­धि­क­र­ण­न्या­येन जातिरर्थः प्राप्नोति ।
तथा­प्य­ग्नि­दे­व­ता­प्र­का­श­क­त्व­रू­पा­व­य­वा­र्थस्य जातावनन्वयाद् आग्नेयीशब्दस्य व्यक्तिरेवार्थः , अतो न जाति­द्वा­रे­णा­स­न्नि­हि­त­व्य­क्त्य­नु­प्र­वेशो भवतीत्यर्थः । ननु – अग्नि­दे­व­त्या­ना­मृचां नाना­छ­न्द­स्त्वाद् नानारूपत्वाच्च न तास्व­व­य­वा­र्था­ति­रि­क्त­म­नु­गतं जातिरूपं सामान्यमस्ति , अतः सामान्ये योगो न घटत इत्युक्तिर्न युक्तेति - चेत् , सत्यम् ; अति­रि­क्त­सा­मा­न्या­भ्यु­प­ग­मेऽपि इह व्यक्ति­वा­चि­त्व­मेव वक्त­व्य­मि­त्य­भ्यु­प­ग­म­वा­दोऽ­यम् ।
अस्तु व्यक्ति­वा­चि­त्वम् , तथा­प्य­वि­शे­ष­प्र­वृ­त्त­श्रु­त्य­नु­ग्र­हा­या­स­न्नि­हि­त­व्य­क्ति­प­र­त्व­म­प्य­स्ती­त्या­श­ङ्क्याह –
तद्धि­ता­न्त­र्व­तीति ।
अग्नि­र्दे­व­ताऽस्या इति विग्र­ह­वा­क्य­ग­त­स­र्व­ना­मा­र्था­न्त­र्भा­वात् सर्वनाम्नः सन्नि­हि­त­प­रा­म­र्शि­त्व­स्वा­भा­व्यात् सर्व­ना­म­श्रु­त्य­पे­क्षा­कृतः सन्निधिना संकोचो न दोषायेति भावः ।
ननु व्यक्त्य­पे­क्ष­त्वेऽ­पीति ।
यद्यप्ययं व्यक्तिशब्दः ; तथापि सन्नि­हि­त­व्य­क्ति­प­र­त्व­म­यु­क्तम् ; तस्याः स्तोत्र­वि­नि­यु­क्त­त्वेन गतरसत्वात् , किन्त्व­स­न्नि­हि­त­व्य­क्ति­प­र­त्व­मेव हि युक्तमित्यर्थः ।
व्यतिरेकमुखेन विवृणोतीति ।
न त्वसा­धा­र­णा­भ्या­मु­प­क्र­म­स­माप्ती श्लिष्येते इत्ये­त­द्व्य­ति­रे­क­मु­खेन विवरणम् ।
अधिकमप्याहेति ।
समधिकशौचं तव इति पूर्वं शङ्कितम् , इदानीं शमादिकमपि तप इति शङ्कनीयान्तरमपि निर­सि­तु­मा­हे­त्यर्थः । यद्वा – ग्रास­शौ­च­नि­य­म­यो­स्त­प­स्त्वा­भावे गृह­स्थ­सा­धा­र­ण्या­दिति हेतुरुक्तः , स तु शमादेरपि तपस्त्वाभावे साधारणो हेतुः ; आत्मनि सर्वेन्द्रियाणि संप्र­ति­ष्ठा­प्येति गृहस्थस्यापि तदु­चि­त­बा­ह्या­न्त­रे­न्द्रि­य­नि­ग्र­ह­वि­धा­नात् । इदानीं शौचनियमस्य शमादेश्च तपस्त्वाभावे हेत्व­न्त­र­मा­हे­त्यर्थः । "शौच­सं­तो­षेति" पातञ्जलसूत्रे शौचं तावत्पृथग् गृहीतमिति स्पष्टं संतोषशब्देन शमदमादिकमपि तपसः पृथग् गृहीतं , तद्र­हि­त­स्ये­न्द्रि­य­व­श्यस्य सर्व­दै­वा­सं­तो­षा­दिदं पृथग्ग्रहणं हेत्वन्तरम् ।
एवं च भाष्यमपीति ।
ब्रह्मसंस्थ इति श्रुते­र्गृ­ह­स्था­दि­वि­षये यदा तदेत्यध्याहारेण भिक्षु­वि­ष­येऽ­न­ध्या­हा­रेण च योजने उक्तदोषं वाक्य­वै­रू­प्य­ल­क्षणं हृदि कृत्वा स्पष्ट­त्वा­न्म­न­स्येव निधाय यथा­श्रु­ता­र्थो­पा­दाने यदा­त­दे­त्य­ध्या­हा­रा­न­ध्या­हारौ विहाय यथा­श्रु­ता­र्थ­ग्र­हणे फलभेदव्यपदेशं पूर्व­प­क्ष­नि­रा­स­हेतुं व्यपदेशभेदोऽत्र भवतीति भाष्यं वदतीत्येवं तद्भाष्यं टीका­का­रै­र्व्या­ख्यातं भवतीत्यर्थः ।
तपःशब्देन भिक्षो­र­ग्र­ह­ण­म­ङ्गी­कृ­त्या­वि­रो­धो­प­पा­दने प्रागुक्तदोषं स्मारयति –
यदा तदेति ।
वाक्य­वै­रू­प्या­दे­वेति ।
तेन तद्ग्र­ह­ण­म­ङ्गी­कृ­त्या­वि­रो­धो­प­पा­दने दोषमाह –
न च संन्यासस्येति ।
आग्नेयीन्यायेन दृढीकृतः पूर्वपक्षः कथमाभास इत्याशङ्क्य रूढिः सिद्धान्तिन इष्टे­त्या­रो­पा­भि­प्रा­ये­य­मा­भा­स­त्वो­क्ति­रि­त्याह –
सिद्धान्तिन इति ।
कथं त्रयाणां ब्रह्म­सं­स्थ­त्वा­सं­भव इति ।
आग्नेयीन्यायेन प्रकृतेषु त्रिषु वर्तमानः श्रौत­ब्र­ह्म­सं­स्थ­शब्द एव कर्मच्छिद्रेषु ब्रह्मनिष्ठा ब्रह्मसंस्थेति तेषां ब्रह्म­सं­स्था­सं­भ­व­मु­प­पा­द­य­तीति भावः । ब्रह्म­सं­स्थ­श­ब्दस्य गृह­स्था­दि­सा­धा­रण्ये वैरूप्यापत्तेः , तत्सा­धा­र­ण्या­सं­भ­वाच्च प्रकृ­त­वि­ष­य­त्वा­नु­प­प­त्ते­र­प्र­कृ­त­वि­ष­यत्वं युज्यते । प्रकृतार्थलाभे ह्यप्र­कृ­त­प­रा­म­र्शित्वं परिहरणीयं , न तदलाभेऽपि । अत एवा"ग्ने­य­सू­क्तेन संव­त्स­र­मु­प­द­धा­न­मा­सीत सूक्ते­ना­वि­च्छे­दाये"ति यावन्ति दाश­त­यी­ष्वा­ग्ने­यानि सूक्तानि ताव­ता­मि­ष्ट­को­प­धाने विनियोगे तेषां सूक्तानां तत्रा­प्र­कृ­त­त्वेऽ­प्या­ग्ने­य­श­ब्देन परामर्श इष्यते । यदि तु ब्रह्मणि संस्थाऽस्येति सप्तमीसमासं विहाय “स्थः क चे”ति सूत्रेण स्थाधातोः कर्तरि विहितं कप्र­त्य­य­मा­श्रित्य ब्रह्मणि संस्थ इति सप्तमीतत्पुरुष आद्रियते , तदा सर्व­ना­मा­न्त­र्भा­वा­दा­ग्ने­यी­न्या­येन प्रकृ­त­प­रा­म­र्शि­त्व­श­ङ्काया एव नावकाश इत्यपि द्रष्टव्यम् ।
ब्रह्म­सा­क्षा­त्का­र­का­मस्य तदधिकारिणः सत्त्वादिति ।
ब्रह्म­सा­क्षा­त्का­रश्च चित्रा­या­गा­दि­फ­ल­व­दा­मु­ष्मि­क­सा­धा­रणं फलमिति जन्मा­न्त­र­सं­प­न्न­सं­न्या­सा­पू­र्वस्य गार्ह­स्थ्य­द­शायां कृत­श्र­व­णा­दि­क­स्यापि भवति। अत एव वामदेवस्य गर्भस्थस्य प्राग­कृ­त­सं­न्या­स­स्यैव साक्षात्कारोदयः श्रूयते । देवा­दी­ना­म­प्य­कृ­त­सं­न्या­सा­ना­मेव साक्षा­त्का­र­स्तेन मुक्तिश्च श्रूयते – "तद्यो देवानां प्रत्यबुध्यत स एव तद­भ­व­दि"त्यादौ । घण्टिकास्थानानि । पुण्य­क्षे­त्र­वि­शेषा गोदावरीतटादिषु प्रसिद्धाः । आथर्वणीं श्रुतिम् “अथास्य पुरुषस्य चत्वारि स्थानानि भव­न्ती”त्यु­प­क्रम्य ब्रह्मोपनिषदिति प्रसिद्धाम् ।
नचात्र सशिखमिति ।
"सोत्त­री­य­मन्नं भुञ्जी­ते"ति­व­त्क­र्तृ­वि­शे­ष­ण­सा­हित्ये सशिखमिति शब्दः , न तु सघृतमन्नं भुञ्जी­ते­ति­व­त्क­र्म­सा­हित्य इति भावः । एतदुपलक्षणम् – बहिः­सू­त्र­मि­त्ये­त­द­प्य­प­प­रि­ब­हि­र­ञ्चवः पञ्चम्या इति पञ्चम्यन्तेन कृता­व्य­यी­भा­व­स­मासं सूत्रा­द्ब­हि­र्भू­त­स्यापि सर्वस्यापि त्याग­प्र­ति­पा­द­नार्थं , न तु यज्ञोपवीतस्येति यत्तेषां मतं , तदप्यत्र विवक्षितं निरा­स­क­हे­तु­सा­म्यात् ।
बाह्यशिखां व्यावर्त्येति ।
एत­द्बा­ह्य­य­ज्ञो­प­वी­त­व्या­व­र्त­न­स्या­प्यु­प­ल­क्ष­णम् । ज्ञान­य­ज्ञो­प­वी­तिन इत्यपि वाक्य­शे­षा­म्ना­न­वि­शे­ष­णो­दा­ह­र­णाद् लोका­क्ष­गृ­ह्य­व­चनं च "अथातः पर­म­हं­स­प­रि­व्रा­ज्य­विधिं व्याख्या­स्याम" इत्युपक्रम्य प्रवृत्तं "सशिखान् केशान्निकृत्य विसृज्य यज्ञो­प­वी­त"मि­त्या­दि­क­म­त्रो­प­बृं­हणं द्रष्टव्यम् । एतेन – "कुर्व­न्ने­वेह कर्माणि जिजीविषेच्छतं समा" इति ज्ञान­स्तु­त्य­र्थ­क­र्मा­नु­म­ति­रिति "स्तुत­येऽ­नु­म­तिर्वे" (ब्र. अ. ३ पा. ४ सू. १४) ति सूत्रो­क्त­न्या­येन ज्ञान­स्तु­त्य­र्थ­मेव शिखा­य­ज्ञो­प­वी­त­त्या­गा­नु­म­ति­रि­त्यपि तेषां मतं – निरस्तम् ; शिखा­व­प­ना­दि­वि­धा­य­को­प­बृं­ह­णा­नु­गृ­ही­त­स­शि­ख­व­प­न­य­ज्ञो­प­वी­त­त्या­ग­वि­धि­स्ता­व­क­त्व­स्यैव वाक्यशेषस्य वक्तव्यत्वेन ज्ञान­स्ता­व­क­त्वो­क्त्य­यो­गात् । न हि “परिधीन् परिदधाति रक्षसामपहत्यै न पुर­स्ता­त्प­रि­द­धाती"ति प्राग्दे­श­प­रि­धा­न­प­र्यु­दा­स­शे­ष­स्या”दित्यो ह्येवोद्यन् पुरस्ताद् रक्षां­स्य­प­ह­न्ती"त्य­र्थ­वा­दस्य तत्स्ता­व­क­त्व­म­प­हा­या­दि­त्य­स्ता­व­क­त्व­क­ल्पना युक्ता । ननु – “ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान् घोरा­न्म­हा­रौ­र­व­सं­ज्ञ­कान् ॥” इति परमहंसोपनिषदि यतीनां ज्ञानमेव दण्डो न काष्ठमिति श्रवणस्य ज्ञान­स्तु­त्य­र्थ­त्व­मेव वक्तव्यम् , न काष्ठ­द­ण्ड­व्या­व­र्त­क­त्वम् ; दण्डधारणस्य सिद्धा­न्तेऽ­प्य­भ्यु­प­ग­त­त्वात् , दण्डधारणे रौर­वा­दि­प्राप्तेः केना­प्य­न­भ्यु­प­ग­त­त्वाच्च , तद्वदिहापि किं न स्यादिति – चेत् , उच्यते ; तत्र “सर्वान् कामान् परि­त्य­ज्या­द्वैते परमे स्थिति"रिति ब्रह्मनिष्ठायाः प्रकृतत्वेन स्तुत्य­र्थ­त्व­मु­प­प­द्यते , यः संन्यस्यापि ब्रह्मनिष्ठां विहाय केवलमन्नलाभाय यतिलिङ्गकाष्ठं धृत्वाऽ­भि­श­स्त­प­ति­त­प­र्य­न्तानां सर्वे­षा­म­न्न­म­श्नन् पर्यटति तस्य रौर­वा­दि­प्रा­प्ति­रि­त्य­प्यु­प­प­द्यते , इह तु शिखा­य­ज्ञो­प­वी­त­त्या­ग­वि­धि­शे­षस्य तत्स्तावकत्वमेव वक्तव्यं , न तु ज्ञान­स्ता­व­क­त्व­मिति वैषम्यम् ।
एतेन – यज्ञो­प­वी­त­त्या­ग­विधिः पुरा­ण­य­ज्ञो­प­वी­त­वि­षयः गृह­स्थ­धा­र्य­द्वि­ती­य­य­ज्ञो­प­वी­त­वि­षयो वेति यत्केषांचिन्मतं , तत् शिखावपनविधावपि पुरा­ण­शि­खा­वि­ष­य­त्वेन सञ्चारयितुं शक्यं तदपि – प्रत्युक्तम् ; ज्ञानशिखिनो ज्ञान­य­ज्ञो­प­वी­तिन इति “अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखेति” च वाक्यविशेषे सर्वथैव बाह्य­शि­खो­प­वी­त­व्या­व­र्त­नात् , परमहंसोपनिषदि “अद्व­या­न­न्द­वि­ज्ञा­न­घन एवास्मि तदेव मम परमं धाम तदेव शिखा तदेवोपवीतं चे”त्येवमेव बाह्य­शि­खो­प­वी­त­व्या­व­र्त­नात् , आरुण्युपनिषदि “दण्डमाच्छादनं कौपीनं परिग्रहेत् शेषं विसृजेदि”ति सर्वं त्यक्त्वा दण्ड­कौ­पी­ना­च्छा­द­न­मा­त्र­स्यैव परि­ग्रा­ह्य­तो­क्तेश्च , प्रत्य­क्ष­श्रु­ति­वि­रो­धेन नूत­नो­प­वी­ता­दि­ग्र­ह­णा­र्थ­क­श्रु­ति­स्मृ­ति­क­ल्प­ना­नु­प­प­त्तेश्च , तादृ­ग्व­च­न­स­द्भावे कुटी­च­का­दि­वि­ष­य­त्वो­प­प­त्तेश्च शिखा­य­ज्ञो­प­वी­त­त्या­ग­वि­धे­रु­त्ता­न­बु­द्धि­भि­रु­न्नीतां विष­या­न्त­र­क­ल्पनां निरस्यति –
न चैतद् द्वित्रिदिनेति ।
सिद्धं प्रति तद्वै­य­र्थ्या­दिति ।
उत्प­न्न­ब्र­ह्म­सा­क्षा­त्कारं प्रति ध्यान­वि­धि­वै­य­र्थ्या­दि­त्यर्थः । एतदुपलक्षणम् – उत्ती­र्ण­स­र्व­वि­धि­जातं प्रति वस­ना­दि­वि­धि­वै­य­र्थ्या­च्चे­त्यपि द्रष्टव्यम् ।
सर्वत्यागादस्ति संभव इति ।
सर्वं व्यक्तवत एवावासस्त्वं संभवति ; "त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं मेखलां यज्ञो­प­वी­त­मि­त्ये­तद् भूः स्वाहेत्यप्सु परि­त्य­ज्या­त्मा­न­म­न्वि­च्छेद् यथा­जा­त­रू­प­धर" इति जाबालोपनिषदि सर्वं त्यक्तवत एव यथाजातरूपधर इत्य­वा­स­स्त्वोक्तेः , परमहंसोपनिषदि सामान्यतः परमहंसस्य दण्ड­कौ­पी­ना­च्छा­द­न­मा­त्र­ग्र­ह­ण­मुक्त्वा "तच्च न मुख्योऽस्ति कोऽयं मुख्य इति तदयं मुख्यो न दण्डं न शिखां न यज्ञोपवीतं नाच्छादनं चरति परमहंस" इति मुख्य­प­र­म­हं­स­स्या­वा­स­स्त्वो­क्तेश्च , वैश्वानरसूत्रे "पर­म­हं­सानां वृक्षमूले शून्यागारे श्मशाने वासिनः साम्बरा दिगम्बरा वा न तेषां धर्मा­ध­र्मा”वि­त्या­दि­नो­दा­हृ­तो­प­नि­ष­दु­प­बृं­ह­णाच्च । तस्मा­द्य­म­स्मृ­ता­व­वा­स­स्त्वो­क्ति­स्त­त्स­ह­नि­य­त­तया श्रुतिसिद्धं शिखा­य­ज्ञो­प­वी­त­त्या­ग­मपि स्मर्तु­रा­श­य­स्थ­मा­वि­ष्क­रो­तीति भावः ।
हृदि प्राणाः प्रतिष्ठिता इति प्राण­प्र­क्र­मा­दिति ।
हृदि प्राणश्च ज्योतिश्चेति प्राणो­प­क्र­मा­दि­त्यु­दा­ह­र­णी­यम् ; बहु­व­च­ना­न्त­प्रा­ण­श­ब्दस्य चक्षु­रा­दि­प­र­त्वेन हिर­ण्य­ग­र्भ­प­र­त्वा­भा­वात् ।
सादृश्यरूपेति ।
यद्यपि "सशिखं वपनं कृत्वा बहिःसूत्रं त्यजे­द्बुधः" इत्ये­त­स्यो­त्त­रार्धे “यदक्षरं परं ब्रह्म तत्सूत्रमिति धार­ये­दि”त्य­स्मिन् पठितस्य ब्रह्मपरस्य सूत्रशब्दस्य सूत्र­सा­दृ­श्य­मूला गौणी वृत्तिर्वाच्या , "येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योग­वि­त्त­त्व­द­र्शि­वान् ॥" इत्य­न­न्त­र­म­न्त्रा­नु­रो­धात् ; तथापि बहिः­सू­त्र­मि­त्यत्र सा न वाच्या ; विका­र­वि­का­रि­भा­व­रू­प­सा­क्षा­त्सं­ब­न्ध­मू­ल­क­स­न्नि­कृ­ष्टा­र्थ­ल­क्ष­णो­प­पत्तेः । "ज्ञान­शि­खिनो ज्ञान­य­ज्ञो­प­वी­तिनः । शिखा ज्ञानमयी यस्य उपवीतं च तन्मयमि"ति वाक्यशेषेण त्याज्य­सू­त्र­स्यो­प­वी­त­त्वा­व­धा­र­णा­च्चेति तात्पर्यम् ।
हृच्छ­ब्दो­क्त­मिति ।
"हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च तद्विदुः ॥” इति श्लोके हृच्छब्दोक्तं ब्रह्म तच्छब्देन परामृश्य तस्य त्रिवृच्छब्देन त्रिवृ­त्कृ­त­प्र­प­ञ्चा­त्म­त्व­प­रेण त्रिसू­त्र­त्व­सं­पा­द­ना­दि­त्यर्थः ।
यज्ञो­प­वी­त­सा­ध्येति ।
मूत्र­पु­री­ष­क­र्म­भो­ज­ना­दि­प्र­युक्तं प्राय­त्य­मु­च्छि­ष्टत्वं स्वापा­दि­नि­मित्तं तदशुचित्वम् उभयमपि यज्ञोपवीतं विना कृतेऽप्याचमने नापैति। "विना यज्ञोपवीतेन आचा­न्तोऽ­प्य­शु­चि­र्भ­वे"दि­त्या­दि­स्म­र­णात् । अत उच्छि­ष्टा­शु­चि­त्व­नि­वृ­त्ति­र्य­ज्ञो­प­वी­त­सा­ध्ये­त्यर्थः ।
एतेनेति ।
यज्ञो­प­वी­त­का­र्या­शु­चि­त्व­नि­वृ­त्ति­क­र­त्वे­ने­त्यर्थः ।
एकार्थत्वादिति ।
तथा च बहिःसूत्रं त्यजेदित्यतोऽपि संन्यासस्य प्रकृतत्वं वक्तुं शक्यमित्यर्थः ।
अपरमहंस इति ।
औपनिषदस्य पर­म­हं­स­वि­ष­य­य­ज्ञो­प­वी­ता­दि­त्या­ग­व­च­नस्य पर्यु­दा­स­वृत्त्या नित्योदकी नित्य­य­ज्ञो­प­वी­ती­त्या­दि­क­र्म­का­ण्ड­ग­त­य­ज्ञो­प­वी­ता­दि­वि­ध्य­न्व­येन तदेकवाक्यतेति भावः ।
नित्यविधिभिरिति ।
पुरुषार्थतया सर्वकर्मार्थतया च सदो­प­वी­ता­दि­धा­र­ण­वि­षयो नित्यविधयः , ते तद्धा­र­ण­नि­वृ­त्तितः प्रत्यवायं कल्पयित्वा पुरुषं सदा तद्धारणे प्रवर्तयन्ति , तेषु सत्सु निषेधः कथं प्रत्य­वा­या­पा­दिकां निवृत्तिं कारयेद् , अतो निषे­धोऽ­भ्यु­प­गन्तुं न युक्त इत्यर्थः ।
ननु निषेधः प्रवृत्तौ प्रत्यवायं कल्पयित्वा निवर्तयतु , न च प्रव­र्त­क­शा­स्त्रेण विरोधस्तस्य सामा­न्य­शा­स्त्रस्य निषे­ध­शा­स्त्र­वि­ष­य­प­र­म­हं­सा­ति­रि­क्त­वि­ष­य­त्वेन व्यव­स्थो­प­प­त्ते­रि­त्या­श­ङ्क्याह –
न च प्रवृत्ताविति ।
पर­म­हं­स­वि­ष­येऽ­प्यु­प­वी­ता­दि­धा­र­ण­वि­धयः प्रवर्तन्ते , न वा , प्रवर्तन्ते चेत्कथमुपवीतादि निषेद्धुं शक्यम् ? न हि शास्त्र­प्रा­प्तस्य रागप्राप्तवत् सर्वथा निषेधोऽस्ति ; प्राप­क­शा­स्त्र­स्या­प्रा­मा­ण्य­प्र­स­ङ्गात् , विक­ल्पा­भ्यु­प­ग­ता­व­ष्ट­दो­ष­दुष्टः स एव दोषः ।
न प्रवर्तन्ते चेत्तत्राह –
तथा सतीति ।
निषे­ध्य­प्रा­प्त्य­भावे निषेधः सर्वथैव नात्मा­न­मा­सा­द­ये­दि­त्यर्थः । प्रवर्तन्त इति पक्षे निषेधस्य विकल्पेन वोन्मेषोऽस्ति , सोऽपि नास्त्यस्मिन् पक्ष इत्याशयेन सर्व­ना­श­प्र­स­ङ्गा­दि­त्यु­क्तम् ।
तस्मात्पर्युदास इति ।
न च पर्युदासपक्षे प्रक­र­णा­न्त­र­ग­त­वा­क्य­शे­ष­त्व­म­ङ्गी­क­र्तव्यं , ततो वरं विकल्प एवास्त्विति – वाच्यम् ; अयमेको दोषः पर्युदासे , विकल्पेऽष्टौ दोषा इति तस्यैव परिहरणीयत्वात् । "दीक्षितो न जुहोति" "न तौ पशौ करो­ती”त्य­न­यो­र्वि­क­ल्प­प­रि­हा­रार्थं पर्यु­दा­स­वृ­त्त्याऽ­ग्नि­हो­त्रा­दि­वा­क्य­पा­शु­क­प्र­कृ­ति­वत् शब्द­शे­ष­त्व­यो­र्भ­ट्टा­चा­र्यै­र्गु­रु­भि­रपि अङ्गीकृतत्वाच्च ।
व्यवह्रियमाणेति ।
पराशरस्मृतिर्हि श्लोकरूपा द्वादशाध्यायी सर्वेषु देशेषु व्यवह्रियते । तत्रैतद्वाक्यं न दृश्यत इत्यर्थः ।
कल्पने चेति ।
यदि सामान्यतः संन्यासिविषये कल्प्यते , तदा कुटीचकादिषु चारितार्थ्यं स्पष्टम् , विशेषतः परमहंसविषये तु कल्पनैव नोन्मज्जति ; प्रत्य­क्ष­श्रु­ति­वि­रो­धात् । सशिखमिति ब्रह्मो­प­नि­ष­द्व­चनं हि परमहंसविषयम् ; योग­मु­त्त­म­मा­स्थित इति श्रवणात् , सम्य­ज्ज्ञा­न­सा­ध­नानां संन्यासानां मध्ये पारमहंस्यमेव ह्युत्तमं साधनं सर्व­क­र्म­त्या­गे­ना­न­न्य­व्या­पा­र­तया दृढ­चि­त्तै­का­ग्र्य­सं­भ­वात् । "दण्ड­मा­च्छा­दनं कौपीनं परिग्रहेत् शेषं विसृ­जे­दि"त्या­रु­ण्यु­प­नि­ष­द्व­च­न­मपि परमहंसविषयम् ; "आरुणिः प्रजापतेर्लोकं जगाम तं गत्वोवाच केन भगवन् कर्माण्यशेषतो विसृजानीति सर्व­क­र्म­त्या­गो­प­क्र­मात् , कुटीचकादिषु तदभावात् , अग्रे च तस्यामुपनिषदि अथातः पर­म­हं­स­प­रि­व्रा­ज­का­ना­मिति परमहंसमुपक्रम्य "त्यजेत् पितरं पुत्रम् अग्न्युपवीतं कर्म कलत्रं यच्चा­न्य­द­पी­हे"त्या­म्ना­नात् , "त्रिदण्डं कम­ण्ड­लु"मि­त्या­दि­जा­बा­लो­प­नि­ष­द्व­च­न­मपि परमहंसविषयम् ; तत्र “परमहंसा नाम संव­र्त­का­रु­णि­श्वे­त­के­त्वि"त्या­द्यु­प­क्र­मात् "संन्यासेन देहत्यागं करो­ती"त्य­न्तेन संन्या­स­वृ­त्ति­क­थ­ना­न­न्तरं "स परमहंसो नामे"त्यु­प­सं­हा­राच्च । "दण्डं न शिखा”मि­त्या­दि­प­र­म­हं­सो­प­नि­ष­द्व­च­न­म­प्यथ योगिनां परमहंसानां कोऽयं मार्ग ? इति परमोपक्रमादेव परमहंसविषयमिति स्पष्टम् । “अथ परि­व्रा­डे­क­शा­टी­प­रि­हितो मुण्डो­द­र­पा­त्र्य­र­ण्य­नित्यो भिक्षार्थं ग्रामं प्रविशेदासायं प्रद­क्षि­णे­ना­वि­चि­कि­त्सन् सार्ववर्णिकं भैक्षचर्यम् अभि­श­स्त­प­ति­त­व­र्ज­म­य­ज्ञो­प­वीती शौचनिष्ठः काममेकं वैण­व­द­ण्ड­मा­द­दीते”ति मैत्रा­य­णो­प­नि­ष­द्व­च­न­मपि परमहंसविषयमेव ; मुण्डै­क­द­ण्ड­त्व­लि­ङ्गात् । एवंभूताभिः प्रत्य­क्ष­श्रु­ति­भि­र्वि­रुद्धाः श्रूयमाणाः स्मृतयः सन्ति चेदप्रमाणमेव , यथा संन्या­स­वि­धा­य­क­प्र­त्य­क्ष­श्रु­ति­वि­रु­द्धा­स्त­न्नि­रा­क­र­ण­स्मृ­तयः । आपस्तम्बसूत्रे ऊर्ध्व­रे­त­सा­मा­श्र­माणां देव­या­न­प­थ­श्र­व­णा­द­नु­ग्र­ह­मा­त्रेण वृष्ट्या­न­य­ना­प­त्य­दा­ना­दि­श­क्ति­स­द्भा­वाच्च प्राश­स्त्य­म­स्तीति पूर्वपक्षं कृत्वा त्रयी­वि­द्य­वृ­द्धानां तु वेदाः प्रमाणमिति निष्ठा , तत्र यानि श्रूयन्ते व्रीहि­य­व­प­श्वा­ज्य­प­यः­क­पा­ल­प­त्नी­यो­क्त्रा­प्यु­च्चै­र्नीचैः कार्यमिति त्रयीविरुद्ध आचा­रोऽ­प्र­मा­ण­मिति मन्यत इति तेषा­म­प्रा­मा­णि­क­त्वेन निराकरणं कृतम् । गृहस्थधर्मेषु वर्तमानानामेव ब्रह्मलोक आश्रमान्तरं प्रशंसन्नपि प्रत्य­वै­ती­त्य­स्मि­न्नर्थे ब्रह्म­व­च­न­म­प्यु­दा­हृ­तम् । त्रयीविद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानं य एतानि कुर्वते तैरिहत्सह स्म सोरजो भूत्वा ध्वंस­तेऽ­न्य­त्प्र­शं­सन्नि”ति। तथा महाभारते कर्णा­दि­व­ध­नि­र्विण्णं प्रव्र­ज­नो­द्युक्तं युधिष्ठिरं प्रति भ्रातॄणां द्रौपद्याः ऋषीणां भगवतश्च वचनानि संन्या­स­नि­न्दा­प­राणि बहूनि श्रूयन्ते । काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम् । लिङ्गा­न्य­न्ना­र्थ­मे­तानि न मोक्षायेति मे मतिः॥ इत्यादीनि । यदि प्रत्य­क्ष­श्रु­ति­वि­रु­द्धा­न्यपि स्मृति­व­च­ना­न्य­पे­क्ष्ये­रन् , तदा संन्यास एव प्रत्याख्यायेत , क्व तत्रो­प­वी­ता­दि­स­द­स­द्भा­व­चिन्ता ? यद्युच्येत कर्म­ठा­ना­पा­त­वि­रक्त्या प्रव्र­ज­नो­द्यु­क्ताঁ­स्ततो निवर्त्य कर्मस्वेव नितरां कर्तु­मा­प­स्त­म्ब­सूत्रे संन्या­स­नि­रा­क­र­णम् , युधिष्ठिरं राज्यपरिपालने प्रवर्तयितुं तन्नि­रा­क­र­ण­मि­त्येवं प्रत्य­क्ष­सं­न्या­स­वि­ध्य­वि­रो­धेन तादृग्वचनजातं नीयत इति , तदा पार­म­हं­स्यो­प­यु­क्त­ती­व्र­वै­रा­ग्य­रा­हि­त्येऽपि तत्स्वी­क­र­ण­प्र­वृ­त्तान् कुटीचकादीन् यथापूर्वं स्वस्व­वृ­त्ता­व­व­स्था­प­यितुं परमहंसानामपि शिखा­य­ज्ञो­प­वी­ता­दि­क­मस्ति न कश्चिद्विशेष इति तत्त­द्वृ­त्ति­प्र­शं­सा­र्थ­त्वेन तान्यपि वचनानि नीयन्तां ; प्रत्य­क्ष­श्रु­ति­वि­रो­धस्य परि­ह­र­णी­य­त्वा­वि­शे­षात् । "कर्म­ण्य­धि­कृता ये तु वैदिके ब्राह्मणादयः । एभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि तैः स्मृतम् ॥” इति ब्रह्मो­प­नि­ष­द्व­च­नो­प­बृं­ह­णार्थं व्यासस्मरणं यज्ञोपवीतं कर्मा­ङ्ग­मि­त्यादि , यद्यपि परमहंसस्यापि श्रव­ण­म­न­न­ध्या­न­प्र­ण­व­ज­प­भो­ज­ना­च­म­ना­दि­क­र्मा­स्तीति सर्वकर्मार्थतया विहितमुपवीतं तस्मा­त्प्रा­प्नोति ; तथापि तस्या­त्म­ज्ञा­नो­प­वी­त­स­त्त्वात् तेनैव तन्निर्वाहः । तथैव कौषी­त­कि­ब्रा­ह्मणे प्रश्नो­त्त­रा­भ्या­मु­प­पा­दि­तम् । तत्र हि "किमस्य यज्ञोपवीतम् ? का वाऽस्य शिखा ? कथं वोप­स्प­र्श­न"मिति प्रश्नः । "इदमेवास्य तद्यज्ञोपवीतं यदात्मज्ञानं विद्या शिखे"त्या­द्यु­त्त­रम् । अत्रो­प­स्प­र्श­न­ग्र­हणं श्रव­णा­दी­ना­म­प्यु­प­ल­क्ष­णम्। "ज्ञान­शि­खिनो ज्ञान­य­ज्ञो­प­वी­तिन" इत्या­दि­प्रा­गु­दा­हृ­त­व­च­न­तोऽपि संन्यासिकर्म बाह्य­शि­खा­य­ज्ञो­प­वी­ता­न­पे­क्ष­मि­त्य­व­धृ­तम् । अत­स्त­दि­त­रा­श्र­म­क­र्मा­ङ्ग­त्व­मेव बाह्य­य­ज्ञो­प­वी­तस्य परिशिष्यते । तदभावात् परमहंसस्य न तदपेक्षेति भावः ।
केचन प्राक्तनमुपवीतं त्यक्त्वा नूतनं ग्राह्यम् ; "नखानि निकृत्य पुराणवस्त्रं यज्ञोपवीतं कमण्डलुं त्यक्त्वा नवानि गृहीत्वा ग्रामं प्रविशेदि”ति स्मरणादिति मन्यन्ते , तन्मतनिरासार्थं वैयासिकं तत्र­त्य­दृ­ष्टा­न्त­व­च­न­म­प्यु­दा­ह­रति –
अग्निहोत्रेति ।
अग्नि­हो­त्र­वि­नाशो यज­मा­न­पा­ति­त्या­दि­नाऽ­ग्नि­वि­नाशः । इष्ट्यन्तः चरमेष्ट्यन्तः । एवं च नूत­न­ग्र­ह­ण­स्मृ­ति­र्ब­हू­द­का­दि­वि­ष­येति भावः ।
एकदण्डी त्रिदण्डीति ।
अत्र शिखी त्रिदण्डीति बहूदकादिविषयं , मुण्डित एकदण्डीति परमहंसविषयं , काषायमात्रधारिण इति यो मुख्यपरमहंसो दण्डमप्यनिच्छन् पाम­र­ज­न­सं­को­च­प­रि­हा­राय कौपी­ना­च्छा­द­न­मात्रं धारयति तद्विषयम् । न च परमहंसस्यापि त्रिदण्डित्वं शङ्कनीयम् ; जाबालोपनिषदि पार­म­हं­स्य­प्र­वेशे त्रिदण्डं कम­ण्ड­लु­मि­त्या­दिना त्रिद­ण्ड­प­रि­त्या­ग­स्यो­क्त­त्वात् । आरुण्युपनिषदि "कुटीचको ब्रह्मचारी कुटुम्बं विसृजेत् पात्रं विसृजेद् दण्डान् विसृ­जे"दिति कुटीचकस्य पार­म­हं­स्य­प्र­वेशे “दण्डानि”ति बहुवचनेन त्रिद­ण्ड­प­रि­त्या­ग­मुक्त्वा अनन्तरं "सखा मा गोपा­ये"त्या­दि­क"मेतं सोऽश्मा­न­मृ­च्छ­त्वि"त्यन्तं मन्त्र­मु­पा­दा­या­न्तेन मन्त्रेण "कृत्वोर्ध्वं वैणवं दण्डं कौपीनं च परि­ग्र­हे"दिति तेन मन्त्रेण एक­द­ण्ड­प­रि­ग्र­ह­स्यो­क्त­त्वाच्च । स्कन्दपुराणे च – “कौपीनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् । अक्षमालां च गृह्णीयाद्वैणवं दण्डमव्रणम्॥ पर­म­हं­स­स्त्रि­दण्डं च रज्जुं गोवालनिर्मिताम् । शिखां यज्ञोपवीतं च नित्यकर्म च संत्यजेत् ॥” इति परमहंसस्य त्रिद­ण्ड­त्या­गै­क­द­ण्ड­ग्र­ह­ण­यो­रु­क्त­त्वाच्च । "अथ पर­म­प­रि­व्रा­ज­क­लिङ्गं सर्वतः परिमोक्षमेके सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परि­त्य­ज्या­त्मा­न­म­न्वि­च्छेत् शिखा­य­ज्ञो­प­वी­त­त्रि­द­ण्ड­क­म­ण्ड­लु­क­पा­लानां त्यागीति" विश्वामित्रेण , "तदूर्ध्वं यज्ञोपवीतं मन्त्रमाच्छादनं यष्टिं शिक्यं जलपवित्रं कमण्डलुं पात्रमित्येतानि वर्ज­यि­त्वाऽ­थै­क­द­ण्ड­क­म­ण्ड­लु­क­पा­ला­ना­दत्ते सखा मा गोपायेति" बोधायनेन च परमहंसस्य त्रिद­ण्ड­त्या­गै­क­द­ण्ड­ग्र­ह­ण­यो­रु­क्त­त्वात् । एतेन – परमहंसस्य त्रिदण्डालाभे एकदण्डग्रहणं कार्यमिति तयो­र्मु­ख्या­मु­ख्य­तया विकल्पं कल्पयन्तो "नष्टे जलपवित्रे च त्रिदण्डे वा प्रमादतः । एकं तु वैणवं दण्डं पालाशं बैल्वमेव वा । गृहीत्वा विच­रे­त्ता­व­द्या­व­ल्लभ्यं त्रिदण्डकम् ॥” इति स्मृति­व­च­न­मु­दा­ह­रन्तो – निरस्ताः ; जाबालोपनिषदि पार­म­हं­स्य­प्र­वेशे त्रिद­ण्ड­त्या­ग­स्यो­क्त­त्वात् , अनन्तरं "यथा­जा­त­रू­प­धरो निष्प­रि­ग्रह" इत्युक्तत्वेन पुन­स्त्रि­द­ण्डा­न्त­र­प­रि­ग्र­हा­नु­म­ते­र­ना­श­ङ्क­नी­य­त्वाच्च , आरुण्युपनिषदि त्रिद­ण्ड­त्या­ग­पू­र्व­क­मे­क­द­ण्ड­ग्र­ह­ण­स्यो­क्त­त्वाच्च , "त्रिद­ण्डस्य परित्याग एकदण्डस्य धारणम् । एकस्मिन् दृश्यते वाक्ये तस्मादस्य प्रधानता ॥” इति व्यास­स्मृ­ता­वा­रु­ण्यु­प­नि­ष­द्व­च­ना­व­ल­म्ब­ने­नैव पर­म­हं­सा­ना­मे­क­द­ण्ड­स्या­मु­ख्य­त्व­श­ङ्काया निराकृतत्वाच्च । तस्मा­द­मु­ख्य­त्व­स्म­रणं कुटीचकादिविषयं योज्यम् । तथा सति "पालाशं बैल्वमौदुम्बरं दण्डमजिनं मेखलां यज्ञोपवीतं च त्यक्त्वे"त्या­र­ण्यु­प­नि­ष­दु­प­सं­हा­र­व­च­न­मपि धृता­मु­ख्यै­क­द­ण्ड­कु­टी­च­का­दि­पा­र­म­हं­स्य­प्र­वे­श­वि­ष­य­त­यो­प­प­द्यते । ननु – अस्तु शिखा­य­ज्ञो­प­वी­त­र­हि­तै­क­द­ण्डा­दिकं परमहंसस्य मुख्यं , तत्सन्निहितं त्रिदण्डादिकमपि तस्य विकल्पेन मुख्यं भवन्न निवारयितुं शक्यम् ; अन्यथा पर­म­हं­स­वि­ष­य­त्रि­द­ण्डा­दि­व­च­नानां निरा­ल­म्ब­न­त्वा­पत्तेः । “इन्द्रस्य वज्रोसीति वैणवान् दण्डान् दक्षिणे पाणौ धारयेद् एकं वा यद्येकं तदा सशिखं वपनं कृत्वा यज्ञोपवीतं त्यजेदि”ति मैत्रा­य­णी­य­श्रुतौ "एकदण्डी त्रिदण्डी वा मुण्डः शिखी वे"त्यादि­स्मृ­तिषु च विकल्पस्मरणात् । "काममेकं त्ववैणवं दण्डमाददीते”ति मैत्रा­य­णी­य­श्रु­ता­वे­क­द­ण्ड­विधौ कामशब्दोक्त्या "यथा­जा­त­रू­प­धरः प्राचीमुदीचीं वा दिशं प्रव्रजोत्तिष्ठ भगवन् दण्डं गृहा­णे­त्य­ध्व­र्युणा दत्तं मस्तकप्रमाणं सन्नमृजुं सौम्यमेकं वैणवं दण्डमिन्द्रस्य वज्रोऽसि सखा मा गोपायेति यदीच्छेद् दधीते"ति लोकाक्षगृह्ये यदीच्छेदिति शब्देन वैणवदण्डस्य पाक्षि­क­ता­स्फु­टी­क­र­णाच्च , त्रिद­ण्ड­प­रि­त्या­गा­दि­व­च­ना­ना­मे­क­द­ण्डा­दि­प­क्ष­वि­ष­य­त­यो­प­प­त्तेश्च । तस्मा­त्पा­र­म­हंस्ये पाक्षिकतयाऽपि प्रविशत् त्रिदण्डादिकं न प्रत्याख्यातुं शक्यमितीदं पारमहंस्ये यथा कथं­च­स्त्रि­द­ण्डा­दि­स­द्भावं व्यवस्थापयितुं धृतव्यसनानां ब्रह्मा­स्त्र­मिति – चेत् , उच्यते ; विकल्प एवाष्टदोषदुष्टः सति गत्यन्तरे न युक्त ; नतरां त्रिद­ण्डै­क­द­ण्डा­दि­क­यो­र्गु­रु­ल­घुनोः समविकल्पः । नत­मा­मे­क­द­ण्डा­द्य­सं­भवे त्रिद­ण्डा­दि­क­म­पीति मुख्या­मु­ख्य­वि­कल्पः ; तस्मात्केनापि प्रकारेण व्यव­स्थि­त­वि­क­ल्पा­सं­भ­वाद् वाश­ब्द­यु­क्ता­न्यु­दा­हृ­त­श्रु­ति­स्मृ­ति­व­च­नानि प्रागु­दा­हृ­त­ब­हु­श्रु­ति­स्मृ­त्य­नु­सा­रेण कुटीचकादिविषये परमहंसविषये च व्यव­स्थि­त­वि­क­ल्पानि योज्यानि । मैत्रा­य­णी­य­श्रुतौ कामशब्दस्य लोकाक्षगृह्ये यदीच्छेदिति शब्दस्य चाग्रहणेन विकल्पार्थतैव स्वरसतः प्रतीयते । तत्र चाग्रहणपक्षो मुख्य­वि­द्व­त्प­र­म­हं­स­वि­षयं पक्षान्तरं अमु­ख्य­वि­वि­दि­षु­प­र­म­हं­स­वि­ष­य­मिति वचनानुसारेण व्यवतिष्ठते । परमहंसविषये त्रिदण्डवचनं यदि क्वचि­त्क्व­चि­त्स्यात् , तत्सर्वं वाग्द­ण्डा­दि­वि­ष­यम् । तथाह मनुः – "वाग्द­ण्डोऽथ मनोदण्डः कर्मदण्डश्च ते त्रयः । यस्यैते नियता बुद्धौ त्रिदण्डीति स उच्यते ॥” इति। दक्षश्चेमं श्लोकं पठित्वा वाग्द­ण्डा­दि­ल­क्ष­ण­माह – "वाग्दण्डो मौन­मा­ति­ष्ठे­त्क­र्म­द­ण्ड­स्त्व­नी­हता । मानसस्य तु दण्डस्य प्राणायामो विधीयते ॥” इति। एवं च "चतुर्धा भिक्षवो विप्राः सर्वेचैव त्रिद­ण्डिन" इति त्रिदण्डस्य सर्व­सं­न्या­स­सा­धा­र­ण्य­व­च­ना­न्यपि वाग्द­ण्डा­दि­वि­ष­य­त्वेन व्याख्यातानि ; युधि­ष्ठि­र­ध­न­ञ्ज­ययोः परि­व्रा­ज­क­वे­ष­ग्र­हणे यज्ञो­प­वी­ता­दि­स­द्भावो राजगृहेषु चिर­नि­वा­सा­र्थि­तया कुटी­च­का­द्य­नु­क­र­णाद् यज्ञो­प­वी­ता­द्य­त्या­गेन कुटी­च­का­द्य­नु­क­रणे संभवति स्वाश्र­म­वि­रु­द्धेन तत्त्यागेन पर­म­हं­सा­नु­क­र­णाऽ­नौ­चि­त्यात् । एवं दशाननस्यापि कुटी­च­का­द्य­नु­क­र­णा­देव यज्ञो­प­वी­ता­दि­स­द्भावो राज­ध­र्म­प्र­शं­सा­र्थ­मिति राजधर्मप्रशंसया युधिष्ठिरं राज्ये प्रवर्तयितुं संन्या­सा­श्र­म­नि­न्दायां "मुण्डा निस्तन्तव" इति शिखा­य­ज्ञो­प­वी­त­रा­हि­त्येन संन्या­सा­श्र­म­प­रा­मर्शः कृतः । तेन ताद्धर्म्यं तस्या­श्र­म­स्या­व­सी­यते । यथा – "अग्नि­होत्रं त्रयो वेदास्त्रिदण्डं भस्मकुण्डनम् । बुद्धि­पौ­रु­ष­ही­नानां जीविकेति बृहस्पतिः॥ इति" बृहस्पतिमतं प्रशंसितुं वैदि­क­नि­न्दा­या­म­ग्नि­हो­त्रा­दि­प­रा­म­र्शेन वैदिकमार्गस्य ताद्धर्म्यमिति भावः ।
सतामप्यविरोधि यदिति ।
सन्तः ब्रह्म­सा­क्षा­त्का­र­वन्तः । “अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरि”ति श्रुते­स्ते­षा­म­द्वि­ती­य­ब्र­ह्म­सा­क्षा­त्का­र­नि­र­स्त­स­म­स्त­क­र्तृ­क­र्म­क्रि­या­दि­भे­द­प्र­प­ञ्चा­ना­म­प्य­वि­रोधि , नैष्कर्म्यादिति भावः । अस­ता­म­प्य­वि­रो­धीति क्वचित्पाठः । तत्रासन्तः पापिनः ये तेषामप्यविरोधि सक­ल­पा­प­क्ष­य­हे­तु­त्वा­दिति भावः । यजुःशाखायाम् यजुः­शा­खा­ख्य­वे­द­शा­खा­वि­शेषे परब्रह्मोदितं "न्यास" इति ब्रह्मे­त्या­दि­श्रुतौ ।
तत्तदागमेति ।
आग­म­य­न्त्य­र्था­नि­त्या­गमाः प्रमाणानि , ते तु श्रुतिवाक्यादय आगमास्तेषां कर्माणि तानि तत्तदागमानि तान्याचरन्तीति तत्तदागमाचाराः , 'कर्म­ण्यणि'ति कर्मण्युपपदे धातोरण्प्रत्ययः । यज्ञ­दा­न­त­पः­प्र­भृ­ति­ब­हु­वि­ध­क­र्मा­नु­ष्ठा­न­शु­द्धा­न्तः­क­र­णा­स्तै­श्चे­ष्टि­त­म­नु­ष्ठि­त­मि­त्यर्थः । चेष्टितमित्यनेन बहवोऽत्र प्रवृत्ता इति सूच्यते । ब्रह्मा­रा­ध­न­मु­ख्यानां पर­ब्र­ह्मो­पा­स­ना­प्र­भृ­तीनां तीव्रतेजसां महाफलानां व्रतानां परमं तेभ्यः श्रेष्ठ­मि­त्य­न्वयः । दण्डहस्तास्तु संज्ञाता हस्तगतदण्डेनैव लिङ्गेन परमहंसा इति ज्ञायमानाः पुरा देहान्तरे मया चीर्णं , न तु तस्मिन् देहे गृहीतम् ; पार­म­हं­स्य­त्या­गेन पुन­रा­श्र­मा­न्त­र­प­रि­ग्र­हा­सं­भ­वात् , शिखायज्ञोपवीतेन त्यक्तेन कथमसौ द्विज इति देवलोकेषु देवदानवैः पूजितोऽपि स निन्द्यत इत्यन्वयः । मूर्खै­रि­त्य­ध्या­ह­र्त­व्यम् । ननु जाबालोपनिषदि परमहंसानां संव­र्ता­रु­णि­श्वे­त­के­तु­दु­र्वा­स­ऋ­भु­नि­दा­घ­ज­ड­भ­र­त­द­त्ता­त्रे­य­रै­व­र्त­क­प्र­भृ­तय इति दुर्वाससः परमहंसेषु परिगणनं कृतं , तस्य च हंस­डि­म्भ­को­पा­ख्याने ताभ्यां छिन्नाः शिक्यादयो वर्णिताः ।
अतः शिक्य­त­त्स­ह­च­रि­त­त्रि­द­ण्ड­प­वि­त्रा­दिकं पर­म­हं­स­स्या­प्य­स्ती­त्य­व­सी­यते इत्याशङ्क्याह –
पराक्रान्तं चेति ।
अयमाशयः – तस्मि­न्नु­पा­ख्याने "हंसाः पर­म­हं­साश्चे"ति दुर्वा­स­स­म­नु­व­र्त­माना हंसादयोऽपि यतयो वर्णिताः , तदी­य­शि­क्या­दि­वि­षयं भविष्यति शिक्य­च्छे­दा­दि­व­च­नम् । किंच श्वेत­के­तु­प्र­भृ­त­योऽपि तत्र परमहंसेषु परिगणिताः । न च तेषामाश्रमेण पारमहंस्यमस्ति ; ब्रह्म­च­र्या­दि­श्र­व­णात् । अत­स्त­त्त्व­सा­क्षा­त्का­र­व­त्त्वेन वृत्त्या पार­म­हं­स्य­मु­प­पा­द­नी­यम् । एवमेव दुर्वाससोऽपि भविष्यति। अत एव तस्य तत्र तत्र राजगृहादिषु चिरनिवासोऽपि पुराणेषु प्रतिपाद्यते इत्यादिपरिहार उन्नेय इति॥२०॥
इति द्वितीयं परामर्शाधिकरणम् ॥

स्तुति­मा­त्र­मु­पा­दा­ना­दिति चेन्ना­पू­र्व­त्वात् ॥२१॥ ननु ब्रह्म­वि­द्या­सा­ध­न­वि­चारे उद्गी­थ­वि­द्या­वि­ष­य­वि­चा­रस्य न पादसङ्गतिः , नापि शास्त्रा­ध्या­य­स­ङ्ग­ति­स्त­द­भावे पूर्वा­धि­क­र­ण­सं­ग­ति­मा­त्र­म­प्र­यो­ज­क­मि­त्या­शङ्क्य कैमुतिकन्यायेन पुरु­षा­र्था­धि­क­र­णा­र्थ­दृ­ढी­क­र­णो­प­यो­ग­माह –
यदा रसतमत्वादिति ।
विद्या­ङ्ग­क­र्म­वी­र्य­व­त्त­र­त्वो­प­यु­क्त­त्वा­द्वि­द्या­पे­क्षि­त­चि­त्तै­का­ग्र्य­शि­ख­रा­रो­ह­ण­सो­पा­न­त्वाद् उप­नि­ष­दा­म्ना­त­त्वेन प्रत्या­स­न्न­त्वात् शास्त्रा­न्त­रे­ष्व­वि­चा­रि­त­त्वा­च्चात्र विचार इति प्राण­वि­द्या­दि­सा­धा­र­णायां संगतौ स्थिता­या­मि­य­म­स्या­धि­क­र­णस्य वैशेषिकी सङ्गतिरुक्ता ।
चित्पतिस्त्वेति ।
ज्योतिष्टोमे "चित्प­ति­स्त्वे"त्या­द­य­स्त्रयो मन्त्रा यजमानपावनार्था आम्नाताः । तत्रा­च्छि­द्रे­णे­त्यादिः शेषः किमव्यवहितेनैव तृतीयमन्त्रेण संबध्यते , उत सर्वैरिति संदेहे मन्त्राणां स्वतो निरा­का­ङ्क्ष­त्वा­द­च्छि­द्रे­णे­त्यादेः क्रियारहितस्य साका­ङ्क्ष­त्वेऽ­प्य­व्य­व­हि­ता­न्व­येन निर्वृतेस्तेनैव संबध्यत इति प्रापय्य राद्धान्तितं भेदलक्षणे । ज्योति­ष्टो­म­प्र­क­र­णा­म्ना­ना­त्त­द­पू­र्व­सा­ध­न­प­व­न­क्रि­या­न्व­य­द्वारा तदपूर्वान्वयो वाच्यः । पव­न­क्रि­या­न्व­यश्च तस्या­च्छि­द्रे­णे­त्या­दि­तृ­ती­या­न्त­प­दो­पा­त्त­त­त्क­र­ण­प्र­का­श­न­द्वारा निर्वाह्यः । पवनक्रिया त्वेकैव त्रिभिः पवयतीति श्रुतिबलात् परं विक­ल्पा­र्हा­णा­मपि तत्प्र­का­श­क­म­न्त्राणां समुच्चयः । तथा च मन्त्रभेदेऽपि शेषिण्याः पवनक्रियाया एकत्वात् करणद्वारा तत्प्रकाशनार्थः शेषः सर्व­त्रा­नु­ष­ज्यते ; प्रधा­ना­नु­सा­रि­त्वाद् गुणस्येति।
अच्छि­द्रे­णे­त्ये­षोऽ­र्थ­वाद इति ।
मन्त्रै­क­दे­श­त्वेऽ­प्य­श्वि­नो­र्बा­हु­भ्या­मि­ति­व­द­स­म­वे­त­या­र्थ­वा­द­तोक्ता ।
वैश्वदेव इति ।
वैश्व­दे­व­व­रु­ण­प्र­घा­स­सा­क­मे­ध­सु­ना­सी­री­याख्ये पर्व­च­तु­ष्ट­य­युक्ते चातुर्मास्ये वैश्व­दे­वि­का­ना­मा­ग्ने­या­दीनां पञ्चानां हविषां यद् ब्राह्मणं तस्य वारु­ण­प्र­घा­सि­के­ष्वा­ग्ने­या­दि­प­ञ्चसु अतिदेशार्थं प्रवृत्तम् – एतद् ब्राह्म­णा­न्ये­वेति वचनं , वार्त्रघ्नानि वा एतानि हवींषीत्यादि तदर्थवादानां नव प्रयाजा इत्या­दि­त­द­ङ्ग­वि­धीनां चातिदेशिकमिति सप्तमे निर्णीतम् ।
सन्नि­हि­त­वि­ध्य­भा­वा­ङ्गी­का­रे­णेति ।
एतेन रस­त­म­त्वा­द्युक्तिः सन्नि­हि­तो­पा­स­न­वि­धि­स्तु­त्य­र्थेति पूर्वपक्षे कर्तुं शक्ये किमिति व्यव­हि­तो­द्गी­था­दि­स्तु­त्य­र्थेति सूत्रभाष्ययोः पूर्वपक्षः कृत इत्याशङ्कायाः सन्नि­हि­त­वि­ध्य­भा­वेऽपि स्तुत्य­र्थ­त­यो­प­पा­द­यितुं शक्यत इति न्याय­व्यु­त्पा­द­नार्थं कृत्वाचिन्तया तथा पूर्वपक्षः कृत इति परिहारो यद्यत्र सन्नि­हि­तो­पा­स­ना­वि­धि­र्ना­स्तीति टीकाग्रन्थेन कृत्वा­चि­न्ता­त्व­प्र­द­र्श­केन सूचितः स्फुटीकृतः । भावशब्दाच्चेति सूत्रं च कृत्वा­चि­न्तो­द्घा­ट­ना­र्थ­मिति द्रष्टव्यम् ।
अस्ति तु तदित्यतिरेके परिहार इति गुरु­ग्र­न्थ­स्यार्थं तद्व्या­ख्ये­य­भा­ष्य­ता­त्प­र्य­क­थ­न­पू­र्वकं विशदयति –
विधिनैवेति ।
यथा लोक इति ।
ननु – लोके “पटो भवती”ति पदद्वयानवगतो रक्तिमगुणरूपः कश्चन विशेषो रक्तपदेन बोध्यते , तद्बोधश्च रक्त­प­ट­दि­दृ­क्षो­पा­दि­त्सा­वतां प्रवृत्तौ तज्जिहासावतां निवृत्तौ चोपयुज्यत इति युक्ता तत्राकाङ्क्षा , इह तु स्तुति­नि­न्दा­प­दै­र्बोध्यं कंचिद्विशेषं न पश्यामः । प्राश­स्त्या­प्रा­श­स्त्य­मिति चेत् , तदेव किमिति विशिष्य न जानीमः । न च तद्बोधः प्रवृ­त्ति­नि­वृ­त्त्यु­प­योगी ; विधि­नि­षे­ध­ल­भ्ये­ष्टा­नि­ष्ट­सा­ध­न­ता­बो­धा­देव तदुभयोपपत्तेः , न च तदुभयानुपयोगि शास्त्रं भवतीति – चेत् , अत्राहुः ; बल­व­द­नि­ष्टा­नु­ब­न्धि­त्व­म­प्रा­शस्त्यं तदपि निवृत्त्युपयोगि ; सत्य­पी­ष्ट­सा­ध­न­ता­ज्ञाने बल­व­द­नि­ष्टा­नु­ब­न्धि­त्वे­ना­व­गते सवि­षा­न्न­भो­ज­ना­दा­व­प्र­वृत्तेः , बल­व­द­नि­ष्टा­न­नु­ब­न्धित्वं प्राशस्त्यं , तदपि प्रवृ­त्त्यु­प­योगि ; सत्य­प्य­नि­ष्ट­सा­ध­न­ता­ज्ञाने बल­व­द­नि­ष्टा­न­नु­ब­न्धि­त्वे­ना­व­गते यागादौ प्रवृत्तेः । तदुभयं यद्यपि विधि­नि­षे­धा­भ्या­मा­क्षेप्तुं शक्यम् , अन्यथा तयोः प्रव­र्त­क­त्व­नि­व­र्त­क­त्वा­नु­प­पत्तेः ; तथापि विधिनिषेधौ सत्सु स्तुति­नि­न्दा­प­देषु तत एव तल्लाभो भवि­ष्य­ती­त्या­क्षे­प­गौ­र­व­म­स­ह­मानौ तत्स­न्नि­धा­नो­त्था­पि­ता­काङ्क्ष्या तदे­क­वा­क्य­ता­म­नु­भ­वतः । यत्र वसन्तादिवाक्ये तेषामभावः , तत्र स्वयमेव तदाक्षिपत इति। अन्ये तु –विधि­नि­षे­ध­वाक्यैः कर्म­णा­मि­ष्टा­नि­ष्ट­सा­ध­न­त्व­बो­धनं तद्यो­ग्य­ता­ज्ञा­न­म­पे­क्षते , तदर्थवादाश्च विधे­य­नि­षे­ध्य­क­र्म­सं­ब­न्धि­गु­ण­दो­षान् कीर्त­य­न्त­स्तेषां कर्म­णा­मि­ष्टा­नि­ष्ट­सा­ध­न­त्व­यो­ग्य­ता­बोधं जनयन्ति ।
इष्ट­सा­ध­न­त्व­यो­ग्य­त्व­मेव प्राशस्त्यम् , अनि­ष्ट­सा­ध­न­त्व­यो­ग्य­त्व­मेव च निन्दा । यद्यपि योग्यताज्ञानं ज्ञानकारणं , यद्यपि च वेद­प्रा­मा­ण्य­दृ­ढा­व­धा­र­णाद् न्यायलभ्ये स्वस्वार्थे सर्वाणि वैदिकवाक्यानि योग्यान्येवेति सामान्यतो योग्यतानिश्चयः सम्भवति ; तथापि सत्स्वर्थवादेषु तज्जन्यो योग्यतानिश्वयो विधि­नि­षे­ध­वा­क्या­र्थ­बो­ध­का­र­ण­मिति कल्प्यत इति –वदन्ति।
अर्थवादस्य साका­ङ्क्ष­त्वा­दिति ।
गुणस्य प्रधा­ना­नु­व­र्त­ना­का­ङ्क्षा­स­त्वा­दिति भावः ।
नत्विह रसतमत्वादेरिति ।
ननु रस­त­म­त्वा­दे­रु­द्गी­थ­वि­ध्य­न­पे­क्षा­या­म­प्यु­द्गी­था­दि­विधेः स्तुति­प्र­क­र्ष­ला­भाय रस­त­म­त्वा­द्य­पे­क्षया तदन्वयः स्याद् , अत एव सुकृ­त­दु­ष्कृ­त­यो­र्हा­नो­पा­यने यत्र श्रुते केवलोपायनं वा यत्र श्रुतं तत्रोपायनस्य तद्विद्यान्वयेन निरपेक्षत्वेऽपि , यत्र निर्गु­ण­वि­द्यायां केवलहानं श्रुतम् “अश्व इव रोमाणि विधूय पापमि”ति तत्रापि स्तुति­प्र­क­र्ष­ला­भाय विद्या­पे­क्ष­यो­पा­य­न­श­ब्द­स्या­न्वयो भाष्यकारैरुक्तः ; सत्य­का­म­त्वा­दीनां च दह­रो­पा­स­ना­या­मु­पा­स्य­गु­ण­त­याऽ­न्व­येन निराकाङ्क्षाणां निर्गु­ण­वि­द्या­या­मपि स्तुति­प्र­क­र्ष­ला­भा­या­न्व­योऽ­ङ्गी­कृत इति – चेत् , उच्यते ; हानोपायनाधिकरणे (ब्र. अ. ३ पा. ३ सू. २६) स्तुतिप्रकर्षो भाष्य­का­रै­रा­नु­ष­ङ्गि­क­प्र­यो­ज­न­त­योक्तः , न तूपा­य­न­श­ब्दा­न्वये प्रमाणतया प्रमाणं , तत्रावश्यकं कुतश्चिद्धीनं किंचिदुपैतीति हान­स्यो­पा­य­ना­पेक्षा कुतश्चिद्धीनमपि सुकृतदुष्कृतं फलजननाय कंचि­दा­श्र­य­म­पे­क्षत इति तदपेक्षा चेत्युभयमेव कामाद्यधिकरणे (ब्र. अ. ३ पा. ३ सू. ३९) हृद­या­य­त­न­त्वा­दि­सा­म्येन विद्या­द्व­या­म्ना­त­गु­ण­सा­म­र्थ्येन चोप­स्था­पि­तै­र्वि­द्या­न्त­र­गुणैः स्वत एव भवतः स्तुति­प्र­क­र्षस्य त्यागो न कार्य इति सोऽङ्गीकृतः , तथेहापि कर्म­का­ण्ड­ग­तो­द्गी­था­दि­वि­धिषु स्वत एव रस­त­म­त्वा­द्यु­प­स्थि­तिर्वा रस­त­म­त्वा­दि­श्र­व­णे­षू­द्गी­था­दि­वि­ध्यु­प­स्थि­तिर्वा भवति चेदस्तु रस­त­म­त्वा­दि­नो­द्गी­था­दि­स्तु­ति­रपि । न चैवं सिद्धान्तस्य पूर्वपक्षाभेदः ; रसतमत्वादीनां केव­ल­स्तु­त्य­र्थ­त्वेन पूर्वपक्षः , उपा­स्य­त्व­स­द्भा­वेन सिद्धान्त इति भेदात् । अत एव सूत्रे पूर्व­प­क्ष­प्र­द­र्शने स्तुतिमात्रमिति मात्रशब्देन केव­ल­स्तु­त्य­र्थ­तया पूर्वपक्ष इति दर्शितम् । पूर्व­प­क्ष­नि­रा­क­र­णा­र्थेन च नञा न स्तुति­मा­त्र­मि­त्ये­त­द­र्थ­के­ना­पू­र्व­त्वा­दु­पा­स्यस्य सतः स्तुत्य­र्थ­त्व­मपि भवति चेद् भव­त्वि­त्य­ङ्गी­कृ­तम् । अत एव च सन्नि­हि­तो­पा­स­ना­वि­धि­स­द्भा­वेऽपि व्यव­हि­तो­द्गी­था­दि­वि­धि­स्तु­त्य­र्थ­तया पूर्वपक्षः सूत्र­भा­ष्य­यो­र्द­र्शितः । पूर्वपक्ष: कामा­द्य­धि­क­र­ण­न्या­ये­नो­द्गी­था­दि­वि­धि­स्ता­व­क­त्व­सिद्धौ सन्नि­हि­तो­पा­स­ना­वि­ध्य­न्व­य­स्यापि क्लृप्तेन स्ताव­क­त्वे­नै­वो­प­पत्तेः सत्य­का­मा­दि­ष्वे­ताঁश्च सत्यान् कामा­नि­ति­व­दु­पा­स्य­गु­ण­त­याऽ­प्य­न्वये विशेषवचनाभावात् केव­ल­स्तु­त्य­र्थ­त्व­मे­वेति पूर्वपक्ष: सुदृढो भवति। सन्नि­हि­तो­पा­स­ना­वि­धि­स्तु­त्य­र्थ­त­यैव पूर्वपक्षकरणे तु न तथा पूर्वपक्षः सुदृढः स्यात् ; अन्यत्र स्तुत्यर्थत्वेन क्लृप्त्यभावे उपा­स­ना­वि­धि­स­न्नि­धा­ना­दु­पा­स्य­गु­ण­त­यै­वा­न्व­यौ­चि­त्यात् । वेदान्तेषु हि निर्गु­ण­प्र­क­र­णा­भावे गुणा­म्ना­न­स्यो­पा­स­ना­र्थ­त्व­मे­वौ­त्स­र्गि­कम् । अत एवा­ना­र­भ्या­धी­तानां सम्भू­त्या­दि­गु­णा­ना­मु­पा­स­ना­वि­धि­स­न्नि­धि­र­हि­ता­ना­म­प्यु­पा­स­ना­र्थत्वं सिद्धवत्कृत्य किं तेषां क्लृप्त­शा­ण्डि­ल्य­वि­द्या­द्य­न्वयः , उत तत्रैव कल्प्येन विद्या­न्त­रे­णा­न्वय इति विशेषचिन्ता सम्भूत्यधिकरणे कृता । इह क्लृप्तो­पा­स­ना­वि­धि­श्र­वणे तदु­पा­स्य­गु­ण­त­याऽ­न्वयः कथं प्रत्याख्यायेत ? यद्येषामेव रस­त­म­त्वा­दी­ना­म­न्यत्र स्ताव­क­त­याऽ­न्व­य­क्लृ­प्ति­रु­त्स­र्ग­बा­ध­क­तया नापेक्ष्येत । यद्येवं पूर्वपक्षः , कथं तर्हि सिद्धान्तः ? सतोरपि ह्यपूर्वत्वं भावशब्दयोः सत्य­का­मा­दि­गु­णा­ना­म­न्यत्र स्तुत्य­र्था­दीनां सन्नि­हि­त­वि­धा­वु­पा­स्य­गु­ण­त­याऽ­न्वये प्रति­प्र­स­वा­पेक्षा दृष्टा , नैवमिह प्रति­प्र­स­वोक्तिः । तदभावे कथमेकस्य सन्नि­हि­त­वि­धा­वु­पा­स्त्य­र्थ­त्व­म­न्यत्र स्तुत्यर्थत्वं च स्यात् ? नैष दोषः ; स एव प्रतिप्रसव एकस्य तथोभयार्थसंभवे लिङ्गदर्शनतया प्रकृ­त­सि­द्धा­न्तो­प­योगी भविष्यति। अस्मिन् पक्षे न कृत्वाचिन्तेति न तदुद्घाटनार्थं सूत्रं , किंतु यद्यत्र सन्निहितोपासना विधिर्न श्रूयते तदाऽन्यत्र केव­ल­स्तु­त्य­र्थत्वं शङ्क्येतापि , न तदश्रवणमस्तीति प्रद­र्श­ना­र्थ­मिति द्रष्टव्यम् ।
न हि धात्वर्थभेद इति ।
कृभ्व­स्ति­रू­प­धा­त्व­र्थ­भेदे कुर्यात् क्रियेतेति लका­रा­र्थ­क­र्तृ­क­र्म­रू­प­का­र­क­भेदे वा विधिलक्षणं न भिद्यते ; विधि­नि­म­न्त्र­णा­दि­सू­त्रेषु लिङा­द्य­य­र्थ­त­यो­क्तस्य विधे­स्त­द्भे­देऽपि सर्व­त्रै­क­रू­प्यस्य वक्त­व्य­त्वा­दि­त्यर्थः । न्याय­वि­त्स्म­र­ण­म­यु­क्त­मि­ती­द­मु­प­ल­क्षणं भाष्य­का­रै­रु­पा­सी­ते­त्या­दयो विधिशब्दा इत्युक्त्वा तत्र संमतित्वेन कुर्यात् क्रियेतेत्यादि विधि­त्व­प्र­ति­पा­द­क­व­च­नो­दा­ह­र­ण­म­प्य­यु­क्त­मिति शङ्कान्तरमपि द्रष्टव्यम् ।
विधिलक्षणं तावदाहेति ।
इष्टसाधनत्वं विधिः । तच्च लिङा­द्या­का­रे­णा­ख्या­त­वा­च्य­मा­ख्या­त­सा­मा­न्या­का­रेण तद्वाच्यायां पुरु­ष­प्र­य­त्न­रू­पायां भाव­ना­या­म­न्वे­तीति। यथा "पशुना यजे­ते"त्यत्र सुविभक्तिरूपेण तृतीयावाच्ये करणकारके एकवचनरूपेण तद्वा­च्य­मे­क­ख­मिति भावः । इष्टसाधनत्वं विधिरिति स्वमतमुक्तम् । केचित्तु – प्रवर्तकः खलु विधिः , स तु वैदिको लिङादिशब्द इति स एव विधिः – इत्याहुः । अन्ये तु –लिङा­दि­श­ब्द­मा­त्रस्य प्रवर्तकत्वे अनवगतार्थस्यापि प्रव­र्त­क­त्व­प्र­स­ङ्गात् तदर्थो नियोगः प्रवर्तकः , स विधिरिति वदन्ति। अपरे तु –कल्प्या­पू­र्व­रू­पस्य नियोगस्य लिङा­दि­वा­च्य­त्वा­भा­वा­त्त­द्वाच्या शब्दभावना प्रवर्तिका सा विधिरिति – भणन्ति। शब्दभावना हि शब्द­व्या­पा­र­रू­पाऽ­भि­मता , सा न ताव­द­भि­धा­व्या­पा­र­रूपा ; घटा­दि­श­ब्दा­भि­धा­त्व­द­र्थ­बो­धा­नु­कू­ल­श­ब्द­व्या­पा­र­रू­पायाः स्वयं तदर्थत्वाभावात् ।
नापि शब्द­भा­व­ना­प­र­प­र्यायं लिङादिवाच्यं शब्दस्यैव व्यापारान्तरं कल्पनीयम् ; तत्कल्पनायां प्रमाणाभावात् , प्रवर्तकतया लोका­नु­भ­व­सि­द्ध­स्ये­ष्ट­सा­ध­न­त्व­स्यैव लिङा­द्य­र्थ­त्वो­प­प­त्ते­रि­त्य­मु­मर्थं शङ्को­द्घा­ट­न­पू­र्वकं सूचयति –
ननु शब्द एवेति ।
कृञ् चेत्य­नु­क्रि­य­मा­ण­रू­पा­प­रि­ज्ञा­न­प­रि­हा­रा­र्थम् ऋकारान्तादेव विभक्तिः कृता ।
उदाहृतवानिति ।
कुर्यात् क्रियेतेति श्लोककृदिति शेषः ।
ननु सन्तु कृभ्वस्तयो भाव­ना­सा­मा­न्य­व­चनाः , तथापि भाव­ना­ग­ते­ष्ट­सा­ध­न­त्व­रू­प­प­रि­ज्ञा­नार्थं सर्व­धा­त्व­र्था­नु­ग­त­भा­व­ना­या­मु­दा­ह­र्त­व्यायां किमिति कृभ्व­स्ती­ना­मे­वो­दा­ह­र­ण­मि­त्या­श­ङ्का­नि­रा­क­र­णाय प्रवृत्तं सामा­न्यो­क्ता­विति ग्रन्थं व्याचष्टे –
यद्यपि धातव इति ।
सर्वत्र व्याप्त्य­र्थ­मिति ।
पच­त्या­द्य­न­न्ता­ख्या­त­प­दो­दा­ह­र­णा­स­म्भ­वात् सामान्योदाहरणे तत एव सर्व­वि­शे­षा­नु­ग­ति­र­व­गन्तुं शक्यत इति लाघवार्थं सामा­न्यो­दा­ह­र­ण­मि­त्यर्थः । अतोऽ­स्म­च्छ्लो­क­स्यो­दा­ह­रणं भाष्यकारीयमपि न प्रकृ­तेऽ­स­ङ्ग­त­मिति भावः ।
ननु कृभ्वस्तयो यदि भावनावाचिनः , तदा कुर्या­दि­त्या­ख्यातैः किमभिधीयत ? इत्या­का­ङ्क्षा­या­माह –
एतद्धातुगतेति ।
तत्र लिङा­द्य­र्था­का­र­वा­च्य­मि­ष्ट­सा­ध­न­त्व­मेव भाव­ना­न्वि­त­मा­ख्या­ता­भि­धे­य­मि­त्यर्थः , आख्याताकारेण तु प्रकृ­त्य­र्थ­भू­तैव भावना प्रत्य­ये­ना­प्य­नू­द्यते , द्वावित्यत्र द्वित्वसंख्येव ।
न तु प्रतिधात्विति ।
कृभ्वस्तिषु धातुभेदेन वा कर्तृ­क­र्म­ल­का­र­कृ­द्रू­प्र­त्य­य­भे­देन वा भावनाभेदो नास्तीत्यर्थः ।
कृदन्तत्वेन द्रव्या­भि­धा­यि­त्वा­दिति ।
आख्यातानि न द्रव्य­प­र्य­न्तानि , किंतु भाव­ना­मा­त्र­नि­ष्ठानि , तत्र कुर्यादित्यादौ कर्तरि प्रयोगे भावनाक्षिप्तस्य कर्तुरन्वयः स्वर्गकामः कुर्यादिति। क्रियेतेत्यादौ कर्मणि प्रयोगे तदाक्षिप्तस्य कर्मणोऽन्वयः पाकः क्रियेतेति , न तु कर्तृकर्मणी लकारवाच्ये ; तयो­स्ति­ङाऽ­न­भि­हि­त­त्वेऽपि तत्सं­ख्या­या­स्ति­ङाऽ­भि­हि­त­त्वाद् यद­न­भि­हि­ता­धि­का­र­वि­हिते द्वितीयातृतीये न भवत इति स्वर्गवास इति पाक इति च प्राति­प­दि­का­र्थ­मा­त्र­वि­हिता प्रथमा । कृत्प्र­त्य­यास्तु कर्तृकर्मादिषु विहिताः न केवलं भावनावाचिनः , किंतु भाव­नो­प­स­र्ज­न­क­र्तृ­क­र्मा­दि­का­र­क­प­र्यन्ताः । न च – आख्यातानामपि तत्पर्यन्तत्वं स्यात् , पक्ता चैत्रः पक्तव्य ओदन इतिवत् पचति चैत्रः पच्यते ओदन इति कर्तृ­क­र्म­का­र­का­धि­ष्ठा­न­वा­चिनां सामा­ना­धि­क­र­ण्या­वि­शे­षा­दिति – शङ्कनीयम् ; भाव­प्र­धा­न­मा­ख्या­त­मिति स्मृत्यनुसारेण आख्यातानां भाव­ना­प्रा­धा­न्या­ङ्गी­का­रा­त्त­था­त्वेऽ­प्या­ख्या­ता­र्थ­भा­व­नायाः कर्तृ­क­र्मा­क्षे­प­क­तया तदा­क्षि­प्त­क­र्त्रा­दि­सा­मा­ना­धि­क­र­ण्येन पचति चैत्र इत्यादिप्रयोगः । वार्तिककारास्तु – यथाऽऽख्यातेषु भावनया कर्तृ­क­र्मा­क्षेपः एवं कृदन्तेषु कर्त्रा­दि­का­र­कै­र्भा­व­ना­क्षेप इति – मन्यन्ते ।
यथाहु: –
यथैव भाव­ना­प्र­धा­न­त्वा­दा­ख्या­तेषु तत्संबन्धादेव गुण­भू­त­का­र­क­प्र­ती­ति­सि­द्धेर्न कर्तृ­क­र्म­णो­र­भि­धानं भविष्यति , एवं कर्त्रा­द्य­भि­धा­ना­देव तद­न्य­था­नु­प­पत्त्या भाव­ना­सि­द्धे­र­न­भि­धा­नम् ; गम्य­मा­ना­पे­क्ष­यैव च सामा­ना­धि­क­र­ण्य­मिति ।
ननु भवनभावने प्रयो­ज्य­प्र­यो­ज­क­व्या­पारौ , घटो भवति तं कुलालो भावयतीति विवरणात् , अतः कृभ्वस्तयो भावनावाचिन इत्य­यु­क्त­मि­त्या­शङ्क्य निराकरोति –
यद्यपीति ।
अस्ति ताव­द­स्ति­भ­व­त्यो­रपि भावना , सा क्वचि­द्भ­वि­तृ­निष्ठा क्वचिदन्यनिष्ठा , दण्डी भवेदित्यत्र भवितृनिष्ठा “तस्मा­त्प्रा­य­णी­य­स्याह्ना ऋत्विजा भवि­त­व्य­मि”त्यत्र कर्म­सं­ब­न्ध­नि­मि­त्त­ऋ­त्वि­ग्भा­व­ना­रू­प­व­र­ण­क्रि­या­क­र्तृ­य­ज­मा­न­निष्ठा । तथा च अस्तिभवत्योरपि भाव­ना­स­द्भा­व­मा­त्रेण करो­ति­व­द्भा­व­ना­वा­चि­त्व­मु­क्तम् ।
तदाहेति ।
कर्तृ­क­र्म­का­र­क­भे­देऽपि भाव­नै­क्य­मा­हे­त्यर्थः ।
भ्वादेशादिति ।
आर्धधातुकविषये अस्ते­र्भू­रि­त्य­य­मा­देशो विहितः । अतो भवितव्यं भूये­ते­त्यु­दा­ह­र­ण­द्व­य­म­स्ति­धा­तु­सा­धा­र­ण­मि­त्यर्थः । सार्वधातुकविषये स्यादि­त्यु­दा­ह­रणं श्लोकेऽस्तीति तन्नोदाहृतमिति भावः ।
आक्षिप्तकर्मिका भावनेति ।
यद्यपि भव­ते­र­स्ते­श्चा­क­र्म­क­त्वाद् भवितव्यमिति भावे तव्यप्रत्ययः भूयेतेति च भावे लकारः ; तथापि तद­र्थ­भ­व­न­क्रि­या­क्षिप्ता भावना सकर्मिका , तस्याश्च दण्डिनेति तृतीयोपात्तो भवनक्रियाकर्तैव कर्म , तस्य स्वरूपेण सिद्धत्वेऽपि दण्डित्वाकारेण साध्यत्वात् ।
भवतिरस्तिश्चेति ।
तथा च पर्यायत्वाद् भवत्युदाहरणेनैव चारि­ता­र्थ्य­मि­त्य­स्त्यु­दा­ह­रणं न कार्यमिति शङ्कार्थः । भूतानां पृथि­व्या­श्रि­तानां पृथिवी रसः उत्कृष्टा पृथिव्या अप्स्वोतप्रोता या आपो रसः अपां तत्कार्यभूता ओषधय ओषधीनां तत्परिणामः पुरुषः पुरुषस्य वाक्प्रधानस्य वाग्रसः वाच ऋग् रसः वाङ्मध्ये सारभूतत्वादृचः साम रसः तत्प­रि­ष्का­र­क­त्वात् साम्न उद्गीथ उद्गीथावयवॐकार आदिभूतो रस इत्येवं पृथि­व्या­द्यु­त्क­र्ष­ता­र­त­म्य­प­र्य­व­सा­न­भू­मित्वं रसतमत्वम् ।
पर­मा­त्म­प्र­ती­क­त्वा­दिति ।
प्रणवे प्रतीके पर­मा­त्म­दृ­ष्ट्यो­पा­सनं शैव्य­प्र­श्न­प्र­सि­द्धम् ।
अर्धं स्थानमिति ।
"अथ ह गौतमो राज्ञो­र्ध­मे­या­ये"त्या­दि­श्रु­तिषु अर्धशब्दः स्थाने प्रसिद्धः ।
तदर्हतीति यत्प्रत्यये ब्रह्मस्थानार्ह इत्यस्य ब्रह्मतुल्य इत्य­र्थ­प­र्य­व­साने सति केनाकारेण तौल्य­मि­त्या­का­ङ्क्षा­या­माह –
ब्रह्मवदुपास्य इति ।
ब्रह्म­ना­म­त्वाच्च ब्रह्म­व­दु­पा­स्यता । ननु – "परमः परार्थ्य" इत्येतत् तेनेयं त्रयी विद्या वर्तते ओमि­त्या­श्रा­व­य­त्यो­मिति शंस­त्यो­मि­त्यु­द्गा­य­त्ये­त­स्ये­वा­क्ष­र­स्या­प­चित्या इत्येतच्च स्तुत्यर्थमिति संप्रतिपन्नं तथा रसतमत्वमपि किं न स्यात् ? न ह्याप्ति­स­मृ­द्धि­गु­ण­यो­र्वे­दने यथा "आपयिता ह वै कामानां भवति य एतदेवं विद्वा­न­क्ष­र­मु­द्गी­थ­मु­पास्ते" इति फलवचनं , नैवं रसतमत्वस्य वेदने किंचि­त्फ­ल­व­च­न­म­स्तीति – चेत् , उच्यते ; परमत्वं परार्थत्वं त्रयी­वि­द्या­सा­ध्य­सो­म­या­गा­ङ्ग­स्तो­त्र­श­स्त्रा­श्र­व­ण­प्र­व­र्त­कत्वं चोङ्का­र­सा­मा­न्यस्य गुणः , तत्त्वि­हो­पा­स्य­स्यो­द्गी­था­व­य­वो­ङ्का­र­स्यैव गुणः , आश्र­व­ण­प्र­व­र्त­क­त्वा­दे­स्त­त्रा­भा­वात् । तस्मा­द­त­द्गु­ण­त्वा­दु­पा­स्य­गु­ण­त­याऽ­न्वयो न संभवति , स्तुतिद्वारतया त्वन्वयः संभवति ; अन्य­दी­य­गु­ण­की­र्त­न­स्यापि परंपरासंबन्धेन स्तावकत्वोपपतेः । दृष्टं हि "वेतसशाखया चावकाभिश्च विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचं शम­य­ती"त्यत्र अपां शान्त­त्व­गु­ण­की­र्त­नस्य तत्प्र­भ­व­वे­त­स­शा­खा­स्तुतौ पर्यवसानम् । रसतमत्वं चाति­स­मृ­द्धि­व­दु­द्गी­था­व­य­वो­ङ्का­र­गु­ण­त्वेन कीर्तितमिति तत्की­र्त­न­स्यो­पा­स्य­स­म­र्प­कत्वं संभवति न स्तुति­मा­त्रा­र्थ­कत्वं कल्पनीयमिति विशेषः ॥२१॥२२॥
इति तृतीयं स्तुति­मा­त्रा­धि­क­र­णम् ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥
स्तुत्य­र्थ­त्वा­त्स­का­शा­दिति ।
स्तुत्य­र्थ­त्वा­पे­क्ष­ये­त्यर्थः ।
आश्विनग्रहशंसने इति ।
आश्वि­न­स्तो­त्र­शं­सन इत्यर्थः । "ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्र­मु­पा­कु­र्यादि"ति ग्रह­ग्र­ह­ण­स्तो­त्रो­पा­क­र­णयोः पौर्वा­प­र्य­स­म्ब­न्ध­श्र­व­णाद् ग्रहशब्देन स्तोत्रं लक्षितम् ।
ननु यस्य मन्त्रस्य श्रौतो विनि­यो­ग­स्त­द्वि­नि­योगं सर्वश्रुतिः सहतां , यस्य लिङ्गा­दि­भि­र्वि­नि­यो­गस्तं नियोगं कथं सहे­ते­त्या­श­ङ्क्याह –
क्वचि­त्स­मा­न­स्येति ।
क्वचिद्विनियोगे समानस्य तद्वि­नि­यो­ज­क­प्र­मा­णेन तुल्यबलस्यात एव विनियोगान्तरं सोढवतः सर्वशब्दस्य लिङ्गा­दि­भि­र्दु­र्ब­लै­र­न्य­त्रापि यो विनि­यो­ग­स्त­द्वि­घा­त­कत्वं नास्ति , तत्र हेतु: –
सकृ­त्प्र­वृ­त्त­स्या­व­कु­ण्ठ­ना­भा­वा­दिति ।
एकत्र त्यक्तनियमस्य सर्व­श­ब्द­स्या­न्य­त्रापि नित्य­म­त्या­ग­वि­रो­धि­नि­य­न्त्र­णा­सं­भ­वा­दि­त्यर्थः । ननु एवं सति ज्योतिष्टोमे स्तोत्र­वि­नि­यु­क्ता­ना­मृचां मध्ये कस्या­श्चि­दा­ग्नेय्या आग्नी­ध्नो­प­स्थाने श्रौतविनियोगेन स्तोत्र­वि­नि­यो­ग­नि­य­म­न­भङ्गो जात इति स्तोत्र­वि­नि­यु­क्तानां सर्वासामपि ऋचां लिङ्गात् तत्र तत्र विनियोगः प्रसज्येत ? श्रौतविनियोगेन नैरा­का­ङ्क्ष्यान्न तासां लैङ्गिको विनियोगः , आका­ङ्क्षा­मू­ल­त्वा­ल्लि­ङ्गेन विनियोगकल्पनाया इति चेत् , तर्हि दाशतयीनामपि श्रौत­वि­नि­यो­ग­नि­रा­का­ङ्क्षाणां नास्ति लैङ्गिको विनियोग इति लिङ्गा­दि­भि­र्म­न्त्र­वि­नि­यो­गो­क्ति­रियं निरालम्बनेति – चेत् , उच्यते ; यासां श्रौतविनियोगेन निरा­का­ङ्क्षा­णा­मपि दाश­त­यी­ना­म­व­श्यं­भावी लैङ्गिको विनि­यो­ग­स्त­द्वि­ष­य­मि­द­मा­चा­र्य­व­चनं , यथा यत्रै­क­विं­श­ति­म­नु­ब्रू­यात् प्रति­ष्ठा­का­म­स्ये­त्यादौ सामि­धे­नी­वि­वृद्धिः श्रुता , तत्र प्रवो­वा­जी­या­द्य­भ्या­सेन संख्यापूरणं न भवति , किंतु ऋग­न्त­रा­ग­मे­ने­त्य­भ्या­सेन संख्यापूरणं सामि­धे­नी­ष्व­भ्या­स­प्र­कृ­तित्वा (जै. अ. १० पा. ५ सू. २७) दिति दाशमिकाधिकरणे स्थितम् । तत्र गम्य­मा­ना­ना­मृ­चाम् अभि­प्र­का­श­न­लि­ङ्ग­दे­वाऽऽ­ग­मा­त्त­दा­ग­मा­भावे सामि­धे­नी­प­रि­च्छे­द­कै­क­विं­श­ति­सं­ख्या­नु­प­पत्तेः आगमे चाग्नि­प्र­का­श­न­लि­ङ्ग­स्यैव शरणीकरणीयत्वात् । न च – जप­पा­रा­य­णा­दि­वि­नि­यु­क्ता­ना­मपि विधिवाक्यानां यथा विधायकत्वं तथा परि­प्ल­व­वि­नि­यु­क्त­ना­म­प्यु­पा­ख्या­नानां स्तावकत्वं स्यादिति – वाच्यम् ; अग्नि­हो­त्रा­दि­विधौ प्रवृ­त्ति­वि­शे­षोऽ­स्तीति जप­पा­रा­य­णा­दि­वि­धि­व­द्वि­धा­य­क­त्वा­भ्यु­प­ग­मेऽपि स्तुतौ प्रवृ­त्ति­वि­शे­षा­ला­भेन शंस­न­वि­नि­यो­ग­नि­रा­का­ङ्क्षाणां सन्निधिमात्रेण स्तुत्य­र्थ­त्व­क­ल्प­ना­यो­गा­दिति भावः ।
उप­ल­क्ष­णा­र्थ­त्वेन व्याख्यायतामिति ।
विशे­ष­प्र­वृ­त्तो­प­क्र­मा­नु­सा­रे­णौ­प­सं­हा­रि­क­वि­शे­ष­श्र­व­णस्य यथा कथंचिद् व्याख्या­न­मे­क­स्तोमे वा क्रतुसंयोगा (जै. अ. ५ पा. ३ सू. ४३) दिति पाञ्चमिकाधिकरणे स्थितम् ।
तत्र हि "एष वाव प्रथमो यज्ञो यज्ञानां यद् ज्योतिष्टोमो य एते­ना­नि­ष्ट्वाऽ­था­न्येन यजते गर्तपात्यमेव तत् कुरुते" इत्य­त्रा­न्य­श­ब्दस्य “यो हि तृवृदन्यं यत्र क्रतुमापाद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तमि”ति वाक्य­शे­ष­ग­त­तृ­वृ­दा­दि­स्तो­म­क­क्र­तु­सं­की­र्त­ना­नु­सा­रेण तावन्मात्रे संकु­चि­त­वृ­त्तित्वं पूर्वपक्षीकृत्य राद्धान्तितम् –
अवि­शे­ष­प्र­वृ­त्तो­प­क्र­म­ग­त­चो­द­ना­नु­सा­रेण वाक्यशेषे विशेषाम्नानं तृवृ­दा­दि­स्तो­म­प्र­शं­सा­र्थ­त्वेन कथं­चि­न्ने­त­व्य­मिति ।
तथेहापि स्यादिति शङ्कार्थः । अव­च्छे­द­क­वि­धि­पु­नः­श्रु­त्य­वै­य­र्थ्या­यो­प­क्र­म­ग­त­स्यापि सर्वशब्दस्यात्र सङ्कोच इति परिहारो मूल एव स्पष्टः । किंच अन­न्त­शा­खा­म्ना­ता­स­ङ्कु­चि­त­स­र्वा­ख्या­न­शं­स­ना­सं­भ­वात् सर्वशब्दस्य स्वत एव किञ्चिदवच्छेदेन सङ्को­चा­का­ङ्क्षायां तत्स­ङ्को­च­क­वा­क्य­शे­षा­नु­स­र­ण­मु­प­प­द्यत इत्यपि द्रष्टव्यम् । कथापरो ग्रन्थः पञ्चतन्त्रादिः ॥२३॥२४॥
इति चतुर्थं पारि­प्ल­वा­धि­क­र­णम् ॥

अत एव चाग्नी­न्ध­ना­द्य­न­पेक्षा ॥२५॥ भाष्य­टी­क­यो­र­स्फु­ट­म­धि­क­र­ण­श­रीरं दर्शयति –
ब्रह्मविद्येति ।
ब्रह्मविद्या मोक्षे जननीये कर्मा­णी­ति­क­र्त­व्य­ता­रू­पे­णा­पे­क्षते न वेति संशयः । तदर्थं यज्ञादीनां किं विद्याफले मोक्षेऽन्वय उत विविदिषायामिति संशयः । पूर्व­त्रा­ख्या­तानां विद्यासन्निधिना विद्या­शे­ष­त्व­मु­क्तम् , एवमेव प्रकरणेन यज्ञादीनां मोक्ष­फ­ल­क­म­ब्र­ह्म­वि­द्या­शे­ष­त्व­मिति संगतिः ।
तत्र पूर्वपक्षे हेतुमाह –
यज्ञेनेति ।
यज्ञेन विवि­दि­ष­न्ती­त्या­द्य­न्व­याद् यज्ञादीनां तृतीयाश्रुत्या विविदिषायां साधनत्वेनान्वयः प्रतीयते , स च न संभवति ; विष­य­सौ­न्द­र्य­ल­भ्या­या­स्तस्या यज्ञा­दि­भि­र­सा­ध­नी­य­त्वात् , अतो विवि­दि­षा­प्र­कृ­त्य­र्थ­भू­तायां विद्यायां तदन्वयः । तस्यामपि प्रमा­णा­धी­न­ज­न­नायां तेषां स्वरू­प­नि­र्व­र्त­क­त्वा­सं­भ­वा­त्फ­लो­प­का­र्य­त्वे­ना­न्वय इति फलतो मोक्षान्वय इत्यर्थः ।
तत्र सिद्धान्तमाह –
अस्मिन्पक्षे इति ।
तृतीयाश्रुत्या विविदिषायां यज्ञादीनां करणत्वं प्रतीयते । न च तदसंभवः ; अवि­शु­द्धा­न्तः­क­र­णानां ब्रह्मविद्यायां विष­य­सौ­न्द­र्य­प्र­ति­सं­धा­न­मू­लेच्छा न संभवतीति तद्वि­शु­द्धि­सं­पा­द­न­द्वारा तस्यां करणत्वोपपत्तेः । अतो विविदिषायामेव यज्ञाद्यन्वय इति न मोक्षे कर्मापेक्षास्ति ; अवि­द्या­स्त­म­य­रूपे मोक्षे विद्या­ति­रि­क्त­सा­ध­ना­नु­प­यो­गा­दि­त्यर्थः ॥२५॥
इति पञ्च­म­म­ग्नी­न्ध­ना­धि­क­र­णम् ॥

सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत् ॥२६॥
तर्हि सा स्वोत्प­त्ता­व­पीति ।
पूर्वाधिकरणे यज्ञादीनां यद्वि­वि­दि­षा­सा­ध­न­त्व­मुक्तं , तद्वि­द्या­सा­ध­न­त्व­प­र्य­व­सायि ; विविदिषायाः स्वतः पुरु­षा­र्थ­त्वा­भा­वे­ना­न­न्द­सा­क्षा­त्का­र­रू­प­ब्र­ह्म­वि­द्यो­प­यो­गे­नैव पुरुषार्थता वक्तव्येति तद­भा­वा­त्पू­र्वा­धि­क­र­णे­ना­क्षे­पिकी संगतिरुक्ता ।
अपि चानेन वाक्येनेति ।
ननु – विविदिषोद्देशेन यज्ञादिविधानं प्रागुक्तम् , अतो विवि­दि­षा­वि­धा­ना­दि­वि­क­ल्पोऽ­स्था­न­वि­जृ­म्भित इति – चेत् , उच्यते ; विविदिषोद्देशेन विधानमेव न संभवति , तस्याः फलत्वायोगात् । फलत्वं हि विद्या­रू­प­फ­ल­ज­न­क­त्वो­पा­धिकं वाच्यम् ; तस्याः स्वतः फलत्वाभावात् । तथा च विविदिषाफले विद्यायां प्रागे­वे­च्छा­सत्त्वे सैव विविदिषेति तस्याः सिद्धत्वात् तदसत्त्वे तस्यां फल­ज­न­क­त्वो­पा­धि­क­पु­रु­षा­र्थ­त्वा­प्र­तीतेः । एवं विविदिषायाः फल­त्वे­ना­न्व­या­सं­भ­व­पू­र्व­पक्षो यथा सुन्दरेऽपि गुडा­दा­वि­त्या­दि­त­त्प­रि­हा­र­सि­द्धा­न्त­ग्र­न्थेन सूचितः । एवमुक्ते यदीच्छादिविधानं यज्ञा­दि­वा­क्यार्थं केचन मन्दमतयः शङ्केरन् , तन्निराकरणार्था इमे विकल्पा इति न दोषः । एवं च केनापि प्रकारेण यज्ञादिवाक्यस्य विधा­य­क­त्वा­यो­गाद् विद्या­स्तु­त्य­र्थ­मेव तद्वाक्यमिति पूर्वपक्षः स्थितः । यथा सुन्दरेऽपि गुडा­दा­वि­त्या­दि­सि­द्धा­न्त­ग्र­न्थ­स्यार्थः प्रथ­म­सू­त्रेऽ­स्माभिः स्फुटीकृतः तत्रैव द्रष्टव्यः ।
प्रत्य­क्प्रा­वण्यं कर्मफलं दृष्ट्वेति ।
तदुक्तं सुरे­श्व­रा­चार्यैः – प्रत्य­क्प्र­व­णतां बुद्धेः कर्माण्यापाद्य शुद्धितः । कृता­र्था­न्य­स्त­मा­यान्ति प्रावृडन्ते घना इव॥ इति ।
भास्करोक्तमिति ।
विद्या­वि­वि­दि­ष­यो­रिव मोक्षस्यापि प्रतिबन्धकानि कर्माणि सन्ति , तन्निरासार्थं शमा­दि­व­त्क­र्म­णा­म­नु­वृ­त्ति­रिति शङ्का । "भिद्यते हृद­य­ग्र­न्थि”रि­त्या­दि­शा­स्त्राद् विद्य­यै­वा­व­शि­ष्ट­स­क­ल­क­र्म­नि­वृ­त्ति­र्भ­व­तीति परिहाराभिप्रायः ।
शास्त्र­कृ­त­त्वा­द­श्र­द्धाया इति ।
लौकि­क­प्र­मा­ण­मू­ल­मि­थ्या­त्व­बु­द्धि­प्र­भ­व­श्र­द्धया स्वप्रा­र­ब्ध­सो­म­या­गा­दि­कस्य मध्ये प्रबुद्धस्य पुरुषस्य कर्म­शे­ष­त्या­गेऽपि किल न प्रत्यवायः , शास्त्र­मू­ल­मि­थ्या­त्व­बु­द्धि­प्र­भ­व­श्र­द्धया स्वत एव कर्मणामस्तमये नास्ति प्रत्यवाय इति किमु वक्तव्यमिति भावः ॥२६॥२७॥
इति षष्ठं सर्वा­पे­क्षा­धि­क­र­णम् ॥

सर्वा­न्ना­नु­म­तिश्च प्राणात्यये तद्दर्शनात् ॥२८॥ यस्मि­न्नु­त्क्रान्ते इदं शरीरं पतेत् तच्च श्रेष्ठमिति यस्मि­न्नु­त्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स च श्रेष्ठ इति श्रुतौ प्रजापतिवाक्यम् । तदर्थोऽत्र भङ्ग्यन्तरेण दर्शितः ।
प्राणो­त्क्रान्तौ त्वपतदिति ।
प्राण उच्चिक्रमिष्यन् स यथा सुहय: षड्विशशङ्कून् समखिददेवमितरान् प्राणान् समखिदत् तं हाभिसमेत्योचुः भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति श्रुतिवाक्यम् , तदर्थं इहापि भङ्ग्यन्तरेण दर्शितः ।
प्रवृ­त्ति­वि­शे­ष­क­र­ण­ता­लाभे प्रयोजन इति ।
अनेन लाभ इति निमित्तसप्तमी "चर्मणि द्वीपिनं हन्ती­ति"व­त्प्र­यो­ज­नस्य निमित्तत्वपक्षे विवक्षितेति व्याख्यातं भवति। ग्राम्य­व्या­पा­र­ग­त­चे­ष्टा­दिषु हिङ्का­रा­दि­दृ­ष्टि­र्वि­हि­तेति हिङ्कारादिषु ग्राम्य­व्या­पा­र­ग­त­चे­ष्टा­दृ­ष्टि­र्वि­हि­ते­त्येवं सप्तम्यर्थस्य हिङ्कारादिषु योजनेन व्यवधारणकल्पना कार्या । एवमेव हि "लोकेषु पञ्चविधं सामो­पा­सी­ते"त्या­दि­श्रु­ति­वा­क्येषु सप्त­मी­द्वि­ती­य­यो­र्व्य­त्यस्य योजनया व्यवधारणकल्पना स्थास्यति। तां श्रुति­शै­ली­म­नु­सृ­त्या­चा­र्यै­रु­क्तम् ।
अशक्तेरिति श्लोक­प्र­ती­क­मा­दाय श्लोकं व्याचष्टे –
सर्वान्नस्येति ।
करभ उष्ट्र इति ।
उष्ट्र­शि­शु­रि­त्यर्थः ।
अडा­दे­र­श्र­व­णा­दिति ।
लेटोऽडाटाविति अडागम आडागमश्च लेटो विहितः , तद­श्र­व­णा­दि­त्यर्थः ।
अपू­र्व­त्वा­भा­वा­दि­त्ये­तद् विधि­यो­ग्या­र्थ­र­हि­त­त्वा­दि­त्ये­त­द­र्थ­कम् अभिप्रेत्य तदर्थस्य विधियोग्यतां त्रेधा विभज्य दर्शयति –
सर्वमन्नं भवतीत्यस्येति ।
नन्व­नु­वा­द­त्व­म­सि­द्धम् ; स्वरूपतो भक्षणस्य प्राप्तत्वेऽपि प्राण­वि­द्या­ङ्ग­त्वेन तत्प्रा­प्त्य­भा­वात् , अनदनीयत्वं न दोषः ; कृष्ण­ल­व­द­न­द­नी­य­स्यापि किंचि­द्भ­क्ष­णो­प­पत्तेः , कलञ्जादौ निषिद्धत्वमपि न दोषः ; विधिनिषेधयोः क्रत्व­र्थ­पु­रु­षा­र्थ­तया व्यव­स्थो­प­प­त्ते­रि­त्या­श­ङ्का­नि­रा­क­र­णार्थं न च सत्यां गता­वि­त्या­दि­ग्र­न्थ­म­व­तार्य व्याचष्टे –
शास्त्रान्तरेति ।
क्लृप्तत्वादिति ।
अनेन क्लृप्त­शा­स्त्र­वि­रो­धि­शा­स्त्रा­न्त­र­क­ल्प­नैव न प्रवर्तते , येना­प्रा­प्त्या­द्यु­प­पा­द­ने­ना­नु­वा­द­त्वा­सि­द्ध्या­दि­क­मु­च्ये­तेति भावः ।
सुरावर्जमिति ।
पैष्टी­व­र्ज­मि­त्यर्थः । गौडी­मा­ध्व्यो­र्म­र­णा­न्त­प्रा­य­श्चि­त्ता­भा­वात् । "सुरापस्य ब्राह्म­ण­स्यो­ष्णा­मा­सि­ञ्चेयुः सुरामास्ये मृतः शुद्ध्येदि"ति गौत­म­स्मृ­ते­र्म­र­ण­प्र­स­ङ्गेऽपि सा न पेयेति। केचित्तु – अन­न्य­सा­ध्य­व्या­ध्यु­प­श­मार्थं पेयैव ; तत्र मर­णा­न्ति­क­प्रा­य­श्चि­त्ता­भा­वाद् , "एता­न्ये­वा­तु­रस्य भिषक्क्रियायां प्रतिषिद्धानि भवन्ति यानि चान्या­न्ये­वं­प्र­का­राणि तेष्वप्यदोष इति सुम­न्तो­स्त्व­दो­ष­त्व­स्म­र­णस्य प्राय­श्चि­त्त­ला­घ­व­सू­च­ना­र्थ­त्वात् , "गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकं च चान्द्रा­य­ण­म­नु­क्र­मात् ॥“ इति बार्ह­स्प­त्य­ल­घु­प्रा­य­श्चि­त्त­वि­धा­नस्य तादृग्विषयताया वक्त­व्य­त्वा­च्चेति – आहुः ।
वर्जयेदिति शेष इति ।
मद्यं नित्यं ब्राह्मण इति भाष्योदाहृता गौतमस्मृतिः । तत्र वर्जयेद् मधु­मां­स­ग­न्ध­मा­ल्ये­त्या­दि­पू­र्व­वा­क्याद् वर्ज­ये­दि­त्य­नु­व­र्तते स शेष इत्युक्तः ॥२८॥२९॥३०॥३१॥
इति सर्वा­न्ना­नु­म­त्य­धि­क­र­णम् ॥

विहि­त­त्वा­च्चा­श्र­म­क­र्मापि ॥३२॥
विवि­दि­ष­न्ती­त्य­स्येति ।
यज्ञादिवाक्ये वर्तमानापदेशात् कर्म­का­ण्ड­इ­वे­ति­क­र्त­व्य­ता­म्ना­ना­भा­वाच्च तस्यैव स्तुत्य­र्थ­त्व­म­ध्य­व­सी­यत इति भावः ।
वास्त­व­वि­रो­धे­नेति ।
षोड­शि­ग्र­ह­णा­ग्र­ह­ण­न्या­य­सं­चा­रणे तथैव विरोधपरिहाराय विक­ल्पोऽ­भ्यु­प­ग­न्तव्य इति काम्यप्रयोगे नित्या­न­नु­ष्ठा­नात् प्रत्यवायः स्यान्नि­त्या­नि­त्य­सं­योगे वास्त­व­वि­रो­धा­न­ङ्गी­कारे च पूर्वतन्त्रे नित्या­नि­त्य­सं­यो­ग­वि­रो­धस्य दोष­त्व­क­थै­वा­स्त­मि­या­दिति भावः ।
आव­श्य­क­त्वा­ना­व­श्य­क­त्व­प्र­ती­ते­रिति ।
जीव­न­नि­मि­त्त­क­त­याऽऽ­व­श्य­कत्वं विद्या­र्थि­त­याऽ­ना­व­श्य­क­त्व­मिति विषयभेदादिह न नित्या­नि­त्य­सं­यो­ग­वि­रोधः । यत्र तु नित्य­स्या­नि­त्य­मेव द्वारं तत्र परं नित्या­नि­त्य­सं­योगो विरुध्यत इति स दोषः ।
यथा भिन्ने जुहोतीति ।
अत्र हि होमो भिन्नाधिकरणकः तत्संस्कार इति पूर्वपक्षे भिन्ने इत्यस्य संस्कार्यपरतया निमि­त्त­प­र­त्वा­भा­वेन होमो नित्यः स्याद् द्वारं तु भिन्नमनित्यम् ; दर्श­पू­र्ण­मा­स­मध्ये पात्रादिभेदस्य कादाचित्कत्वात् । अतो होमो न नित्यं दर्श­पू­र्ण­मा­स­यो­रु­प­कु­र्यात् अनि­त्य­भि­न्न­द्वा­रेति वाक्यार्थबोधो न निष्पद्यते अनि­त्य­द्वा­र­क­त्व­म­स्या­प्य­नि­त्य­त्व­प्र­स­ङ्गा­दिति विरोधपरिहाराय भिन्ने इत्यस्य निमित्तपरत्वं सिद्धा­न्तेऽ­ङ्गी­कृ­तम् । अतस्तादृग्विषयो नित्या­नि­त्य­सं­यो­ग­वि­रोधो दोष इति प्रथेति भावः ।
न चेन्नि­त्य­प्र­यो­ग­स्यै­वेति ।
साध्यविषये प्रयोगैक्ये विरोधपरिहारो न संभवति ; विकल्पेन विरोधपरिहारे च कदा­चि­न्नि­त्या­न­नु­ष्ठा­नेन प्रत्यवायः स्यात् । अतो नित्यप्रयोगोऽपि पृथक्कर्तव्य इति भावः । विकृत्येत्यस्य सोपपत्तिकं व्याख्यानं – प्रयो­ग­स्ये­त्यादि ।
बाधि­त्वे­त्य­न्ते­नापि तत्सिद्धेरिति ग्रन्थं व्याचष्टे –
काम्य­नै­मि­त्ति­काभ्यां नित्य­का­र्य­सि­द्धे­रिति ।
उक्त­म­र्थ­मु­प­पा­द­यति –
यादृशो हीति ।
कर्त­व्य­स्ये­त्यर्थ इति ।
सिद्ध­रू­प­स्यै­वै­कस्य साध्यस्य नित्या­नि­त्या­त्म­वि­रोधो नास्तीत्यर्थः ।
कर्मसु सत्स्विति ।
ननु कर्मणां विद्या­र्थ­त्व­पक्षे विद्यो­त्प­त्ति­प­र्यन्तं कर्मणां फला­प­व­र्गा­णा­म­नु­वृ­त्ति­रि­त्यस्तु , विविदिषार्थानि कर्मा­णी­त्या­चा­र्य­पक्षे न तेषां विद्यो­त्प­त्ति­प­र्य­न्त­म­नु­वृ­त्ति­रस्ति , सत्यम् ; विद्या­र्थ­त्व­प­क्ष­मा­श्रित्य सत्स्विति वर्तमानतोक्ता । विवि­दि­षा­र्थ­त्व­पक्षे तु कालविशेषानादरेण सद्भावमात्रं विव­क्षि­त­मि­त्य­दोषः ।
एका हि प्रतिपत्तिरिति ।
अङ्गाध्ययनवतो वेदा­न्त­वा­क्य­श्र­व­ण­मा­त्र­ज­न्या­द्वै­त­वि­ष­या­पा­त­द­र्श­न­रूपा प्रतिपत्तिरेका श्रवणाख्या , अन्या शास्त्र­नि­रू­पि­त­न्या­य­चि­न्ता­नु­गृ­ही­त­वे­दा­न्त­वा­क्य­ज­न्य­त­द्वि­ष­य­नि­र्ण­य­रूपा मननाख्येत्यर्थः ।
उक्तं हि सर्वा­पे­क्षा­धि­क­र­ण­टी­कायां – प्रथमा ताव­दु­प­नि­ष­द्वा­क्य­श्र­व­ण­मा­त्राद् भवति यां किलाचक्षते श्रवणमिति , द्वितीया चिन्तासहितात् तस्मा­दे­वो­प­नि­ष­द्वा­क्या­द्या­मा­च­क्षते -
मननमितीति ॥३३॥
यद्यपि “सर्वथाऽपि त एवो­भ­य­लि­ङ्गा”दिति सूत्र­म­धि­क­र­णा­न्त­र­प­र­त्वेन योजयितुं शक्यम् ; प्रक­र­णा­न्त­रा­धि­क­र­ण­न्या­येन पूर्व­प­क्षा­न्त­रो­त्था­नात् , तस्य च टीकायां प्रदर्शनात् ननु "याव­ज्जी­व­म­ग्नि­होत्रं जुहु­या­दि"त्या­चा­र्य­ग्र­न्थस्य दृष्टा­न्त­वै­ष­म्येण पूर्वा­धि­क­र­ण­स्थि­त­नि­त्य­वि­द्या­र्थ­य­ज्ञा­दि­प्र­यो­गै­क्या­क्षे­प­रू­प­त्वेन तस्यैवाक्षेपस्य पूर्वा­धि­क­र­ण­स­ङ्ग­त्य­र्थ­त्वो­प­प­त्तेश्च ; तथापि खादिरादिषु नित्या­नि­त्य­वि­रो­ध­प­रि­हा­रस्य पूर्वतन्त्रे क्षुण्णतया फल्गु­स्त­द­व­ल­म्बनः पूर्वपक्षः । अतः पूर्वसूत्रद्वयं प्रक­र­णा­न्त­र­न्या­या­ल­म्ब­न­पू­र्व­प­क्षो­त्था­प­क­तया तच्छेषत्वेन प्रवृ­त्त­मि­त्य­भि­प्रेत्य न्यायनिर्णये विवरणाचार्यैः कृत­मै­का­धि­क­र­ण्य­मा­चा­र्यै­र­नु­सृ­तम् । ननु –अत्र सिद्धान्ते प्रक­र­णा­न्त­रा­धि­क­र­ण­न्या­य­वै­षम्यं किमुक्तं , किं मासा­ग्नि­हो­त्र­स्ये­वात्र यज्ञा­दे­र्वि­धा­न­मेव नास्तीति , किं वा धातुनोपादाय विधानं नास्तीति। नाद्यः ; विविदिषोद्देशेन यज्ञा­दि­वि­धा­ना­ङ्गी­का­रात् । यद्युच्येत प्रसिद्धस्य यज्ञादेः प्राप्तत्वेन तस्याप्राप्तं विद्या­फ­ल­सं­ब­न्ध­मात्रं विधीयत इति , इदं तत्रापि वक्तुं शक्यम् ; प्रसि­द्ध­स्यै­वा­ग्नि­हो­त्रस्य मास­गु­ण­सं­ब­न्ध­मात्रं विधेयमिति। यदि तत्र काले कर्म विधीयत इति विहितस्य विधानायोगात् कर्मान्तरम् , तर्हीहापि फले कर्मविधानमिति तत एव न्याया­त्क­र्मा­न्त­रत्वं वर्जनीयम् । नापि द्वितीयः ; इह यज्ञादेर्विधाने विहितस्य पुनर्विधानं न संभवतीति न्यायतौल्ये च जाग्रति धातुनोपादाय विधानं नास्तीति वैष­म्य­स्या­प्र­यो­ज­क­त्वात् । धातुनोपादाने साध्यतया प्रतीतेः कर्मान्तरता भवति , न तु नाम्नोपादाने ततः सिद्धतया प्रतीतेरिति चेत् । यदि सिद्धतया प्रतीतिः , कथं तर्हि विधेयत्वम् ? यदि नाम्नो­पा­त्त­स्या­वि­धे­यत्वं कथं न कर्मान्तरत्वम् ? विहितस्य विधानायोगात् , तस्मादिह प्रक­र­णा­न्त­र­न्या­य­वै­षम्यं न स्फुटमिति – चेत् , उच्यते ; इह यज्ञा­दि­श­ब्दो­पात्तं कर्म यज्ञा­दे­र­न्य­च्चे­त्त­त्किं­रूपं कर्मेत्यवगन्तुं न शक्यते , इष्टि­प­शु­सो­मा­दि­रू­पाणां यज्ञादीनां मध्ये कैर्यज्ञादिभिः सादृश्यमवलम्ब्य प्रवृत्तया गौण्या वृत्त्या यज्ञा­दि­श­ब्द­प्र­वृ­त्ति­रि­त्य­प्य­व­गन्तुं न शक्यते , यज्ञादिनाम्ना द्रव्ये देवताद्यतिदेशे सति देव­तो­द्दे­श्य­क­द्र­व्य­त्या­ग­त्वा­दि­रू­प­य­ज्ञा­दि­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­प्रा­प्ते­र­नि­वा­र्य­त्वेन यज्ञा­दि­भि­न्न­त्व­मपि विधेयस्य कर्मणः समर्थयितुं न शक्यते । तस्मादिह यज्ञा­दि­सा­धा­र­ण­श­ब्दानां "यज्ञोऽ­ध्य­यनं दानमिति प्रथम" इत्या­दि­श्रु­ति­ष्विव प्रसि­द्ध­य­ज्ञा­दि­प­र­त्व­मेव युक्तं , न मासा­ग्नि­हो­त्र­ना­म­व­द­प्र­सि­द्ध­प­र­त्व­मिति प्रक­र­णा­न्त­र­न्या­य­वै­ष­म्य­मिह विवक्षितम् । तदिदं यज्ञा­द­य­स्त्व­न्य­त्रै­वो­त्पन्ना आख्या­ता­प­र­त­न्त्रै­र्य­ज्ञा­दि­श­ब्दै­र­नू­द्यन्त इति ग्रन्थेन सूचितम् ।
तत्रा­प्य­मा­वा­स्या­दि­काल इति ।
एवंच यदा­ग्ने­य­वा­क्य­म­मा­वा­स्या­या­मे­क­स्या­ग्ने­य­या­गस्य पौर्ण­मा­स्या­म­न्यस्य च विधायकतया वाक्य­द्व­य­ता­मा­प­द्यत इति भावः ।
सायं जुहो­ती­त्या­दा­विति ।
यद्य­प्य­ग्नि­होत्रं जुहु­या­त्स्व­र्ग­काम इत्यत्र प्राप्तस्यैव होमस्य फले विधिरितिवदिह काले विधिरिति वक्तुं शक्यम् ; तथाप्यभ्युपेत्य परिहारं दर्शयितुमियं शङ्का ॥३४॥३५॥
इत्य­ष्ट­म­मा­श्र­म­क­र्मा­धि­क­र­णम्॥

अन्तरा चापि तु तद्दृष्टेः ॥३६॥
यदि नित्यानामेव यज्ञादीनां विनियोगभेदेन विद्यार्थत्वं , तर्हि तद्रहितानां विधुरादीनां न विद्याधिकार इति संगतिः । ते विद्या­या­म­धि­क्रि­यन्ते न वेति तेषां जप­य­ज्ञ­दा­ना­दि­क­र्म­स­द्भा­वा­द­ना­श्र­मि­त्व­नि­न्द­नाच्च संशयः । तेषा­मा­श्र­म­क­र्मा­भा­वा­द­ना­श्र­मि­क­र्म­भ्योऽपि ब्रह्म­वि­द्या­सं­भवे बह्वा­या­स­सा­ध्या­ना­मा­श्र­म­क­र्मणां ब्रह्म­वि­द्या­र्थ­त्वेन विधानस्य वैय­र्थ्य­प्र­स­ङ्गाच्च ते नाधिक्रियन्त इति पूर्वः पक्षः ।
तद­भा­वा­द­नु­ष्ठि­त­सा­ध­न­स्येति ।
यदि जन्मा­न्त­रा­नु­ष्ठि­त­सा­धनः प्रार­ब्ध­व­शा­दा­त्य­न्ति­क­ही­न­जातौ जातस्तस्यापि प्रतिबन्धाभावे विद्योत्पद्यत इत्यर्थः ॥३६॥३७॥३८॥३९॥
इति नवमं विधुराधिकरणम् ॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि निय­मा­त्त­द्रू­पा­भा­वेभ्यः ॥४०॥
किमु वक्तव्यमिति ।
अना­श्र­म­व­र्ति­त्वा­दा­श्र­म­व­र्तित्वं ज्याय इति पूर्वसूत्रेण कथितत्वादिति भावः ।
अरण्यमियादिति पदमिति श्रुतिं व्यवहितान्वयेन पदशब्दार्थकथनेन व्याचष्टे –
अरण्यमिति यत्पदमिति ॥४०॥
इति दशमं तद्भूताधिकरणम् ॥

न चाधिकारिकमपि पत­ना­नु­मा­ना­त्त­द­यो­गात् ॥४१॥ अव­की­र्णि­प­श्व­धि­क­र­ण­सूत्रे तद्वदित्यतिदेशं विप­री­त­मु­प­न­य­न­हो­मा­धि­क­रणं दर्शयति –
उपनयनहोमा इति ।
आहवनीये कार्या इति ।
न च – "क्षौमे वसा­ना­व­ग्नि­मा­द­धी­या­ता"मि­त्या­धाने पत्नी­स­त्त्व­श्र­व­णा­दु­प­न­य­ना­त्प्राग् दार­प­रि­ग्र­हा­भा­वाद् आधानासंभवेन आहवनीयो न संभवतीति – शङ्कनीयम् ; ताद­र्थ्ये­नो­प­न­य­ना­त्प्रा­गेव दार­प­रि­ग्र­ह­सं­भ­वात् , स्नात्वा भार्या­म­धि­ग­च्छे­दिति वच­न­स्या­प­त्या­र्थ­दा­र­प­रि­ग्र­ह­वि­ष­य­त्वो­प­प­त्ते­रिति भावः ।
जातपुत्र आदधीतेति वचनादिति ।
जायामवाप्य दश­मेऽ­ह­न्य­ग्नी­ना­द­धी­ते­त्या­धा­नस्य काला­न्त­र­वि­धा­न­स­त्त्वेऽपि सोऽपि कालः कृतदारस्यैव संभवति। न चोपनयनात्प्राग् दारपरिग्रहः संभवति ; "स्नात्वा भार्या­म­धि­ग­च्छेदि”ति समा­व­र्त­नो­त्त­र­का­ल­ता­व­च­नस्य रत्य­प­त्य­ध­र्म­रू­प­स­र्व­प्र­यो­ज­ना­र्थ­दा­र­प­रि­ग्र­ह­वि­ष­य­त्वाद् , “धर्मे चार्थे च नाति­च­रि­तव्ये"ति वचनादिति भावः ।
एव­म­व­की­र्णि­प­शु­र­पीति ।
अवकीर्णी स्नात्वा भार्या­म­धि­ग­म्या­ग्नी­ना­धा­या­ह­व­नीये अव­की­र्णि­प्रा­य­श्चि­त्त­पशुं करो­त्वि­त्य­धि­का­शङ्का । कृत­प्रा­य­श्चि­त्ते­नैव दारपरिग्रहः कार्यः ; “अवि­प्लु­त­ब्र­ह्म­चर्यो लक्षण्यां स्त्रिय­मु­द्व­हेदि”ति वचनात् । अतोऽ­व­की­र्णि­प­शु­र­प्यु­प­न­य­न­हो­म­व­ल्लौ­कि­का­ग्ना­विति सिद्धान्तः ।
केचित्तु –
सौत्रस्य तद्वदित्यस्य यथा स्थप­ती­ष्टि­लौ­कि­काग्नौ तथे­त्य­व्य­व­हि­त­पू­र्वा­धि­क­र­ण­न्या­या­ति­दे­श­म­र्थ­मि­च्छन्ति ।
आचार्याणां तु व्यव­हि­तो­प­न­य­न­हो­मा­धि­क­र­ण­न्या­या­ति­देशं तदर्थं वर्णि­त­व­ता­म­य­म­भि­प्रायः – आधा­न­स्या­प्रा­प्त­का­ल­त्वा­दिति न्याय­सा­म्य­मु­प­न­य­न­हो­मा­धि­क­र­णे­नैव , न तु स्थप­ती­ष्ठ्य­धि­क­र­णेन । तत्र ह्यत्रैवर्णिकेन निषादेन कृत­म­प्या­धा­न­मा­ह­व­नी­य­सं­स्का­रा­धा­यकं न भवति ; तस्याधाने विशे­ष­व­च­ना­भा­वा­दिति न्यायः । तस्मा­द­व्य­व­हि­त­न्या­या­ति­दे­शाऽ­सं­भ­वात् पानव्यापच्च तद्वदिति (जै. अ. ३ पा. ४ सू. ३८) सूत्र­ग­त­स्ये­वास्य तद्वच्छब्दस्य व्यव­हि­त­न्या­या­ति­दे­श­कत्वं युक्तमिति ॥४१॥४२॥
इति एका­द­श­मा­धि­का­रि­का­धि­क­र­णम् ॥

बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥
बहु­ल­मु­प­ल­म्भा­दिति ।
तथा च पापे निवृत्तेऽपि ततो जाताया अशु­द्धे­र­नु­वृ­त्ति­रु­प­प­द्यत इति भावः ।
तथैव चाप­स्त­म्ब­स्मृतिः –
"नास्या­स्मिँ­ल्लोके प्रत्या­प­त्ति­र्वि­द्यते कल्मषं तु निर्हन्यत" इति ।
संपिबेदिति ।
संवसेदिति पाठान्तरम् ।
व्याख्या­यो­दा­ह­र­तीति ।
व्याख्या­ने­नै­वा­र्थत उदाहरति , न तु श्लोक­रू­पे­णे­त्यर्थः ।
कामतः कृतमपीति ।
अनेन श्लोकेन कामत इति पदं कृत­मि­त्य­ने­ना­नु­ष­क्ते­ना­न्वितं सदपैतीति क्रियया संबध्यत इति दर्शितम् । अव्यवहार्य इत्या­दि­श्लो­क­शेषो बाल­ह­न्त्रा­दि­वि­ष­य­तया टीकायां योजितः ।
श्लोकस्य ब्रह्म­ह­त्या­दि­पा­त­क­वि­ष­य­त्वात् तच्छेषस्य कथं बाल­ह­न्त्रा­दि­वि­ष­यत्वं स्यादि­त्या­श­ङ्क्याह –
बाल­व­धा­द्यु­प­ल­क्ष­णार्थं मत्वेति ।
मत्वेत्यनेन श्लोकशेषस्य ब्रह्म­व­धा­दि­वि­ष­य­त्व­मपि वक्तुं शक्यम् , महापातककृतामपि प्राय­श्चि­त्ते­नै­हि­क­शु­द्ध्य­भा­वात् । बाल­ह­न्त्रा­दी­ना­मै­हि­क­शु­द्ध्य­भावे शर­णा­ग­त­बा­ल­स्त्री­घा­त­कान् संवसेन्न तु । चीर्णव्रतानपि सतः कृत­घ्न­स­हि­ता­नि­मान्॥ इति याज्ञ­व­ल्की­य­व­च­ना­न्त­र­स­त्त्वा­दिति सूचितम् । केचित्तु – याज्ञ­व­ल्क्य­श्लोके व्यवहार्य इति पदच्छेदं कृत्वा कामकृते महापातके “विहितं यदकामानां कामात्तद् द्विगुणं भवेदि”ति वचनबलादिह व्यवहार्यो जायते ; अन्यथा द्विगु­ण­प्रा­य­श्चि­त्त­वै­य­र्थ्या­पत्तेः , परत्र नरकजननशक्त्या सह दुरितमनुवर्तत एव । नास्या­स्मिँ­ल्लोके इत्यादिवचनं तु स्वाश्र­म­प्र­च्यु­तो­र्ध्व­रे­तो­वि­ष­यम् । नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् । शुद्धानामपि लोकेस्मिन् प्रत्यापत्तिर्न विद्यते॥ इति कौशि­क­व­च­नै­का­र्थ्यात् – इत्याहुः ॥४३॥
इति द्वादशं बहिरधिकरणम् ॥

स्वामिनः फल­श्रु­ते­रि­त्या­त्रेयः ॥४४॥
आश्रि­तो­पा­स्ति­क­र्तृ­त्व­मिति ।
अत्रोपास्तिपदं प्रकृताभिप्रायं विवक्षितं , न तूत्स­र्ग­श­री­र­प्र­वि­ष्टम् ; एत­द­धि­क­र­ण­सि­द्धा­न्त­स्थितेः प्राक् तथो­त्स­र्ग­सं­प्र­ति­प­त्त्य­भा­वात् । यदि किंचि­ज्जा­य­मा­ना­ङ्गा­श्रि­त­मु­पा­सनं यजमानेन कर्तव्यमिति संप्रतिपत्तिः स्यात् , तदा तत्र सिद्ध­मु­त्स­र्ग­म­व­ल­म्ब्यो­द्गा­तृ­क­र्तृ­का­ङ्गा­श्रि­तो­पा­स­न­स्यो­द्गा­तृ­क­र्तृ­कत्वे प्राप्ते तस्यापवादः क्रियेत , तथा नास्ति संप्रतिपत्तिः । तथा­भू­तो­पा­स­न­स­द्भावे तस्य ऋत्विजापि कर्तुं शक्यतया "तस्मै हि परिक्रीयत" इति सिद्धा­न्त­हे­तु­ब­लेन तस्य ऋत्वि­क्क­र्तृ­क­त्व­स्यैव प्राप्तेः । तस्मा­द­ङ्गा­श्रि­त­म­ङ्ग­कर्त्रा कर्त­व्य­मि­त्ये­वो­त्स­र्ग­श­रीरं विवक्षितम् । दृष्टं हि "ममाग्ने वर्च" इति मन्त्रस्य प्रत्य­गा­शी­ष्ट्वेन याज­मा­न­तौ­चि­त्येऽपि सूक्त­वा­क­म­न्त्र­प्र­ति­पा­द्या­यु­रा­दि­फ­ल­न्या­येन विवक्षितस्य तत्प्र­ति­पा­द्य­फ­लस्य यज­मा­न­गा­मि­त्वेऽ­प्य­न्वा­धा­न­कर्त्रा अध्व­र्यु­णै­वा­न्वा­धा­न­क­र­ण­म­न्त्र­तया तदङ्गस्यापि वक्तव्यत्वम् । तस्मा­दि­हो­पा­स्ति­ग्र­ह­ण­म­वि­व­क्षि­तम् । यदि तद्विवक्षितं समर्थनीयं , तदा लिङ्ग­भू­य­स्त्वा­धि­क­र­ण­वि­चा­रिते विद्या­म­येऽ­ग्ना­वयं वाव लोक एषोऽग्निश्चित इति भूलो­क­दृ­ष्टि­र्म­नुष्या यजुष्मत्य इष्टका इत्या­दि­ने­ष्ट­का­दिषु मनु­ष्या­दि­दृ­ष्टिश्च विधीयत इति तत्रो­त्स­र्ग­सं­प्र­ति­प­त्ति­र्द्र­ष्टव्या । तत्र ह्ये”वंविदे सर्वाणि भूतानि चिन्वन्ती"ति वचनात् सर्व­भू­ता­न्त­र्ग­तस्य विदुषोऽपि स्ववृ­त्ति­रू­पे­ष्ट­का­च­य­न­क­र्तृ­त्व­मस्ति। अग्नि­त­द­ङ्गे­ष्ट­का­श्रि­त­भू­लो­क­त­न्म­ध्य­ग­त­म­नु­ष्य­दृ­ष्ट्या­द्यु­पा­स­ना­क­र्तृ­त्व­म­प्यस्ति । "बको दाल्भ्य" इत्या­दि­लि­ङ्ग­व­त्सू­पा­स­ने­षू­त्स­र्ग­सि­द्धि­रा­स्थेया । अस्मिन् पूर्वपक्षे "तं ह बको दाल्भ्य" इत्यादिलिङ्गस्य पूर्व­प­क्ष­न्या­येन प्रत्याख्यानं तद­व­ल­म्ब­न­प्र­वृ­त्त­मु­त्स­र्ग­म­भ्यु­प­गम्य तदपवादोक्तेः , यासूपास्तिषु तदपवादोऽस्ति तावन्मात्रविषय एव च याज­मा­न­त्व­वि­चा­रो­पा­स्ति­वि­षयः , आद्यपक्षे तु सर्वो­पा­स्ति­वि­षयः । तं ह बक इत्यादिलिङ्गस्य च पूर्व­प­क्ष­न्या­येन प्रत्याख्यानं , न तु द्वितीयपक्ष इव न्यायानादरः । अग्रे तमुद्गीथं बको नामे­त्या­दि­श­ङ्का­प­रि­हा­र­ग्रन्थे न्यायेन लिङ्ग­प्र­त्या­ख्या­न­म­प्या­द्य­प­क्षा­भि­प्रा­यम् ।
वर्षति हास्मै य उपास्त इत्यादिवचनादिति ।
न केवलमिदं वचनं फलो­पा­स­ना­सा­मा­ना­धि­क­र­ण्य­प्र­ति­पा­द­ना­दु­त्स­र्ग­स्या­प­वा­दकं , किंतु उपास्त इत्येकवचनबलादपि । अत्र ह्युपास्त इत्यनेन वृष्टौ पञ्चविधं सामोपासीतेति उपक्रान्तं हिङ्का­र­प्र­स्ता­वो­द्गी­थ­प्र­ती­हा­र­नि­ध­नेषु पुरो­वा­त­मे­घ­प्रा­दु­र्भा­व­वृ­ष्टि­वि­द्यु­द्ग­र्जि­त­यु­ग­ल­दृ­ष्टि­स­मा­प्ति­दृ­ष्ट्यो­पा­स­न­मु­च्यते । न च हिङ्कारादीनां पञ्चा­ना­मु­द्गा­तृ­त्र­य­क­र्तृ­का­णा­मे­क­क­र्तृ­क­त्व­मस्ति , येना­ङ्गा­नु­ष्ठा­तैक एव तदा­श्रि­तो­पा­स्ति­कर्ता भवेद् । अत एक­क­र्तृ­क­ता­या­मु­द्गा­तृषु विनि­ग­म­ना­वि­र­हा­द­प्यु­त्स­र्ग­बा­धेन फलभाजो यज­मा­न­स्यै­वो­पा­स्ति­क­र्तृ­त्व­मा­स्थे­य­मिति भावः । वच­ना­दि­त्ये­त­दु­प­ल­क्ष­णम् । फलभाज एव प्रधा­न­क­र्तृ­त्व­मिति वक्ष्य­मा­ण­न्या­या­द­प्यु­त्स­र्ग­बाधो द्रष्टव्यः ।
पतितैरिति ।
पतितैः संव्ययहारे हि कदाचित् ते ऋत्विजो भवेयुः , कुतः ? उपा­स्ती­ना­मृ­त्वि­क्क­र्म­त्वाद् , यथा विद्यार्थं सोममनुतिष्ठन् तस्य वीर्य­व­त्त­र­त्वा­र्थ­मु­पा­सनां कारयितुमिच्छति यजमानः , पतितव्यतिरेकेण चोपासनविदोऽन्ये न लब्धाः , तदा पतितेनाहं सोम­पा­न­मौ­द्गात्रं करिष्यामीति मैत्री­व्य­व­हा­र­ब­ला­दु­त­स्त­द्दा­क्षि­ण्यात् तं न प्रत्याचक्षीत । अतस्तत्परिहाराय पतितैः संव्यवहारं त्यजेदित्यर्थः ।
प्रकृतोपयोग इति ।
न केवलं वचनात् पति­त­सं­व्य­व­हा­र­स्त्य­क्तव्यः ; किंतु स्वक­र्त­व्य­क­र्म­ना­श­प्र­स­ङ्गा­द­पीति पूर्वा­धि­क­र­णार्थं हेत्व­न्त­र­ला­भ­हे­तु­तया प्रकृतोपयोग इत्यर्थः । इह संभवात् प्रयो­ज­ना­न्त­र­मुक्तं विद्या­र्थ­क­र्म­वी­र्य­व­त्त­र­त्व­सं­पा­द­को­पा­स­न­वि­ष­य­स्यास्य विचारस्य तद्वि­ष­य­प्रा­च्यो­दी­च्य­वि­चा­रा­न्त­र­व­दु­प­यो­गा­न्तरं संप्र­ति­प­न्न­म­स्त्येव ।
यदि कामयेतेति वाक्येनेति ।
मिनु­या­दि­त्यु­क्त­स­दो­मानं ताव­द­ध्व­र्यु­क­र्तृकं यजु­र्वे­द­स्या­ध्व­र्य­व­स­मा­ख्यया सन्नि­धा­पि­त­स्या­ध्व­र्यो­स्तत्र कर्तृ­त्वे­ना­न्व­यात् । अतो मिनु­या­त्का­म­ये­तेति क्रिया­द्व­य­स­म­भि­व्या­हा­र­रू­पेण वाक्येन सदोमानस्य कर्तु­र­ध्व­र्यो­रेव फल­सं­ब­न्ध­बो­ध­ना­दि­त्यर्थः ।
तपसः प्रधा­न­फ­ल­सि­द्ध्य­र्थ­त्वा­दिति ।
ननु प्रधा­न­फ­ल­सि­द्ध्य­र्थ­म­पी­त­र­द­ङ्ग­जातं समा­ख्या­ब­ला­द­ध्व­र्यु­प्र­भृ­ति­भि­र­नु­ष्ठी­यते , सत्यम् ; इह प्रधा­न­फ­ल­सि­द्ध्य­र्थ­त्वा­दि­त्य­नेन प्रधा­न­फ­लो­त्प­त्ति­प्र­ति­ब­न्ध­क­य­ज­मा­न­ग­ता­ध­र्म­नि­वृ­त्ति­द्वारा प्रधा­न­फ­ल­सि­द्ध्य­र्थत्वं विवक्षितम् । तन्निवृत्तिश्च यज­मा­न­ग­ते­नै­वा­न­श­न­रू­प­दुः­खा­नु­भ­वेन भवति। एवं तपसः प्रति­ब­न्ध­क­नि­वृ­त्ति­रू­प­दृ­ष्ट­फ­ला­र्थत्वे संभवति नाऽपू­र्व­रू­पा­दृ­ष्ट­सं­स्का­रा­र्थत्वं कल्पनीयमिति।
ननु उक्तहेतुना तयो­र्या­ज­मा­न­त्व­मस्तु , कर्मा­ङ्गा­श्रि­त­नी­चै­स्त्वा­दि­फ­ल­मपि याजमानमित्यत्र को हेतु­रि­त्या­का­ङ्क्षा­या­म­र्थ­सं­यो­गा­दिति सूत्रोक्तं हेतुं विवृणोति –
यजेतेत्यादिना ।
साङ्ग­प्र­धा­न­फ­ल­स्येति ।
ननु – गुणफलमङ्गस्य प्रधानस्य वा न फलं , किंत्व­ङ्गा­श्रि­तस्य गुणस्यैवेति – चेत् , न ; गुण­स्या­ङ्गा­श्र­यणं विना स्वतः फल­ज­न­ना­स­म­र्थ­त­याऽ­ङ्ग­स्यापि फल­ज­न­न­को­ट्य­नु­प्र­वे­शात् । तथा च प्रधा­न­वा­क्य­ग­ता­त्म­ने­प­द­श्रु­ति­वि­रो­धा­द­ङ्ग­वा­क्य­ग­त­क्रि­या­द्व­यै­क­क­र्तृ­क­त्व­स­म­र्प­का­ख्या­त­द्व­य­स­म­भि­व्या­हा­रा­त्मक वाक्यप्रमाणं बाधित्वा "यदि कामयेत यजमान" इत्य­ध्या­हा­र्य­मिति भावः । तथा मिनुयादिति पर­स्मै­प­द­श्रु­ति­ब­ला­दपि वाक्य­प्र­मा­ण­भङ्गो द्रष्टव्यः । डुमिञ् प्रक्षेपणे इति धातो­र्ञि­त्वा­द­क­र्त्र­भि­प्राये क्रियाफले विहिता हि परस्मैपदश्रुतिः नीचैः सदोमानस्य तत्क­र्त्र­ति­रि­क्त­ग­त­फ­ला­र्थतां बोधयति।
ननु – काण्डाधिकरणे अङ्गा­श्रि­त­गु­ण­फ­लानां यज­मा­न­गा­मि­त्व­मु­क्तम् , न तूपा­स­ना­ना­मृ­त्वि­क्क­र्तृ­कत्वं , कथं तेन पौन­रु­क्त्य­श­ङ्के­त्या­श­ङ्क्याह –
अत्राङ्ग फलस्येति ।
अङ्गा­श्रि­त­गु­ण­फ­ल­मा­त्रस्य विशिष्य याज­मा­न­त्वो­क्त्याऽ­ङ्ग­त­दा­श्रि­त­गु­णा­ना­मा­र्त्वि­ज्य­त्व­म­र्था­दुक्तं भवतीत्येवं पौन­रु­क्त्य­श­ङ्के­त्यर्थः ।
कथं तर्हि तन्नि­रा­स­स्त­त्राह –
सा न कार्येति ।
ऋत्वि­क्क­र्तृ­कत्वं न्याया­न्त­र­साध्यं सिद्धवत्कृत्य तत्र फलमात्रस्य याजमानत्वमुक्तं , न तु तदपि तत्र सिषाधयिषितम् ; तत्सा­ध­क­न्या­या­नु­प­न्या­सा­दिति भावः । ननु – इह त्वेवं­जा­ती­य­का­नी­त्या­दि­टी­का­वाक्ये चकारयुक्तं पाठं गृहीत्वा तत्रो­पा­स­ना­नी­त्य­ने­ना­न्व­य­मुक्त्वा सदो­मा­ना­दि­क्र­त्व­ङ्ग­जा­ती­य­का­न्यु­पा­स­नानि च याज­मा­ना­न्या­र्त्वि­ज्यानि वेति विचार्यत इत्येवं तद्वाक्यं व्याख्यातम् । तदिदं व्याख्या­न­म­यु­क्तम् ; सदो­मा­ना­दी­ना­म­ङ्गा­ना­मृ­त्वि­क्क­र्तृ­क­त्व­स्यात्र विचा­रा­भा­वा­त्स­र्वे­षा­म­ङ्गा­ना­मृ­त्वि­क्क­र्तृ­क­त्वस्य शास्त्रफलं प्रयो­क्त­री­त्य­धि­क­र­ण­सि­द्ध­तायाः स्वय­मे­वा­चा­र्यै­र­नु­पदं वक्ष्य­मा­ण­त्वाच्च । न च सदः­क­र­णा­दि­क्र­त्व­ङ्ग­जा­ती­य­का­नी­त्या­चा­र्य­वा­क्यस्य सदः­क­र­णा­दि­क्र­त्व­ङ्गा­श्रि­त­नी­चै­स्त्वा­दि­फ­ला­र्थ­गु­ण­जा­ती­या­नी­त्यर्थो वाच्यः , सदोनीचैस्त्वस्य सदो­मा­न­क­र्त्र­ध्व­र्यु­व्य­ति­रि­क्त­नि­र्व­र्त्य­त्वा­सं­भ­वेन तत्रापि गोदो­ह­ना­दि­न्या­येन याज­मा­न­त्व­वि­चा­रा­यो­गा­दिति – चेत् , उच्यते ; इह सदः­क­र­णा­दी­ना­मृ­त्वि­क्क­र्तृ­त्व­स्या­वि­चा­र्य­स्यापि टीकायां विचा­र्य­तो­क्ति­स्त­था­काम इत्यधिकरणे तस्य विचा­रि­त­त्व­द्यो­त­ना­र्थे­त्या­चा­र्या­णा­म­भि­प्रायः । सोऽय­म­भि­प्रा­य­स्त­था­काम इत्य­धि­क­र­णे­ही­त्या­द्य­न­न्त­र­वा­क्ये­नैव स्फुटीकृतः । यद्वा – सदः­क­र­णा­दि­क्र­त्व­ङ्ग­जा­ती­या­नी­त्यस्य क्रत्व­ङ्गा­श्रि­तस्य नीचैस्त्वस्य निष्फ­ला­र्थ­गु­ण­त्वेन सजा­ती­या­नी­त्यु­पा­स्ति­व­त्क्रि­या­रू­पाणि यजमानेन पृथगनुष्ठातुं शक्यानि कर्म­का­ण्डा­म्ना­तानी तानीत्यर्थः । एवं चाङ्गानामपि ऋत्वि­क्क­र्तृ­कत्वं न चिन्ति­त­मि­त्यु­प­रि­त­न­वाक्ये अङ्गा­ना­मि­त्य­स्या­ङ्गा­श्रि­त­क­र्म­का­ण्डा­म्ना­त­क्रि­या­रू­प­गु­णा­ना­मि­त्यर्थः । ननु – टीकायां चका­र­स­द्भा­वेऽ­प्ये­वं­जा­ती­य­कानि नीचैस्त्ववत् फला­र्था­न्य­ङ्गा­व­ब­द्धानि चेति उपा­स­ना­ग­त­वि­शे­ष­ण­द्व­य­स­मु­च्च­या­र्थ­त्वेन चकारेण योज्यताम् इति – चेत् , अस्तु तदपि व्याख्यानम् तत्स्प­ष्ट­मि­त्या­चा­र्यैर्न स्पृष्टम् ।
उपा­स्ती­ना­म­न­ङ्ग­त्वा­दिति ।
अङ्गानि हि ऋत्वि­क्क­र्तृ­काणि , प्रधानस्य तु यागस्य यजमानकर्तृकत्वं संप्रतिपन्नम् । उपास्तयोऽपि फलश्रुतेः प्रधानभूताः । अतो याजमानत्वशङ्का । एवं च यद्यपि परि­क्र­या­म्ना­नात् क्रतौ यद्यत्कर्तव्यं तत्स­र्व­मृ­त्वि­ग्भि­रेव कर्त­व्य­मि­त्यु­त्सर्गः ; तथापि प्रधानयाग इव फल­श्रु­त्य­वि­शे­षाद् यजमानकर्तृत्वम् ।
ननु यदि फला­र्थ­गु­ण­प्र­धा­न­त्वात् फलभाजा कर्तव्यः , तर्हि गोदोहनादिरपि याजमानः स्यादि­त्या­श­ङ्क्या­स्यो­त्स­र्गस्य गोदोहनादिषु त्यागः , न तु शक्ये क्वचिदपीति । परिहरति –
न चैवमित्यादिना ।
फलार्थगुणे तदपवाद इति भावः । "वर्षति हास्मा" इत्यादिवचने यजमानपदाभावेऽपि फलस्वामिन उपा­स­ना­धि­का­रि­त्वा­व­ग­माद् यजमानस्य फलस्वामित्वात् ।
अत एवोपासनाकर्ता वाक्य­प्र­मा­णे­ना­व­सी­यत इति कृत­श­ङ्का­प­रि­हा­रार्थं टीका­या­स्ता­त्प­र्य­माह –
कर्म­णी­श्व­रोऽ­धि­का­री­त्या­दिना ।
औत्सर्गिकस्येति ।
ननु – सर्वं कर्म ऋत्वि­जा­मि­ति­व­त्सर्वं फलं यज­मा­न­स्ये­त्य­य­म­प्यु­त्स­र्ग­श्चे­त्कथं फलो­त्स­र्ग­न्या­य­म­व­लम्ब्य "वर्षति हास्मा" इत्यादि यज­मा­न­स्यो­पा­स­ना­क­र्तृत्वे प्रमा­ण­मा­श­ङ्क्यते ? कर्त्रु­त्स­र्ग­न्या­ये­नो­द्गातुः फलभाक्त्वात् , तत्प्रमाणं किं न स्यादिति – चेत् , मैवम् ; प्रधा­न­वा­क्य­ग­ता­त्म­ने­प­द­श्रु­ति­मू­ला­त्फ­लो­त्स­र्गा­त्प­रि­क्र­य­रू­पा­ङ्ग­वा­क्य­मू­लस्य कर्तु­रु­त्स­र्गस्य दुर्बलत्वात् ।
यज­मा­न­स्ये­त्या­दि­टी­का­वाक्यं योजयति –
यज­मा­न­स्यो­पा­स­न­मिति ।
तस्ये­त्य­स्या­र्थ­माह –
उपासकस्य सत इति ।
तत्र दृष्टान्त इति ।
यज­मा­न­स्यो­पा­स­न­मि­त्यत्र फलं दृष्टा­न्ती­कृ­त­मि­त्यर्थः ।
उपासनं प्रधा­न­त्वा­द्य­ज­मा­नेन कर्तव्यमिति पूर्व­प­क्षो­प­पा­द­क­न्या­य­स्या­र्थ­वा­दि­क­लि­ङ्ग­द­र्श­नेन बाधमाशङ्कते –
नन्विति ।
न्यायं न बाधत इति ।
किंतु न्यायेन लिङ्गदर्शनमेव बाध्यत इति भावः ॥४४॥ यस्त्वत्र न्यायबाध उक्त इत्यग्रे न्यायेन लिङ्गदर्शनस्य बाध उक्त इत्यनूद्यते टीकायाम् ।
तस्मै हि परिक्रीयत इति सौत्रहेतुमपहाय लिङ्गदर्शनं किमि­त्यु­प­न्य­स्यत इत्या­का­ङ्क्षायां तस्य साक्षा­त्सि­द्धा­न्त­हे­तु­त्वा­नु­प­प­त्ते­रिति दर्शयितुं ताम­नु­प­प­त्ति­मु­द्घा­ट­यति –
ननु तस्मै हीति ।
"तस्मै हि परिकीयत" इत्यत्र तस्मा इत्यस्य किम­ङ्गा­श्रि­तो­पा­स्ति­क­र­णा­ये­त्यर्थ उताङ्गकरणायेति ।
आद्ये असिद्धिमुक्त्वा तामुपपादयति –
अङ्गाश्रितेति ।
ननु अस्तु द्वितीयः , न च – अङ्गकरणाय परिक्रयस्य तदा­श्रि­तो­पा­स्ति­प­र्य­न्तत्वं न सिद्ध्येदिति शङ्कनीयम् ; आ सन्नि­धा­ना­त्त­त्प­र्य­न्त­ता­सि­द्धे­रि­त्या­शङ्का सन्नि­धा­न­म­ति­प्र­स­ञ्ज­क­तया दूषयति –
यत्र हीति ।
ननु प्रथममृत्विजां कर्तृत्वं प्रमाय पश्चा­त्ता­द­र्थ्येन ते न परिक्रीयन्ते , "स्वर्ग­कामो यजेत" इति सामा­ना­धि­क­र­ण्या­त्म­ने­प­दाभ्यां फलभाजो यजमानस्यैव कर­णे­ति­क­र्त­व्य­ता­स­हि­त­भा­व­ना­क­र्तृत्वे प्राप्ते दक्षिणया ऋत्विजां परि­क्र­य­णा­म्ना­नात् तद्दृ­ष्टा­र्थ­त्वाय सामा­ना­धि­क­र­ण्या­त्म­ने­प­दाभ्यां प्रमितं यजमानस्य कर्तृत्वं ऋत्विग्द्वारकं प्रयोजकम् , प्रयोजकत्वेऽपि प्रमि­त­क­र्तृ­त्वा­न­पा­या­दिति परि­क्र­या­म्ना­न­ब­ला­देव पश्चात् ऋत्विजां कर्तृत्वं प्रमीयते । पूर्वतन्त्रेऽपि "शास्त्र­फलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात्समं प्रयोगे स्याद्” ( जै. अ. ३ पा. ७ सु. २०) "अन्यो वा स्यात्प­रि­क्र­या­म्ना­ना­दि­प्र­ति­षे­धा­त्प्र­त्य­गा­त्मनी" (जै. अ. ७ पा. ४ सू. २) ति पूर्व­प­क्ष­सि­द्धा­न्त­सू­त्राभ्यां तथैव व्यवस्थापितम् । तस्माद्यत्र हि तेषां कर्तृत्वं प्रमितं तदर्थं ते परिक्रेतव्या इत्यु­क्ति­र­यु­क्तेति – चेद् , नायुक्तेति ब्रूमः । न हि प्रथ­म­प्र­मि­त­क­र्तृ­त्व­नि­र्वा­हाय ऋत्विजां परिक्रयो विधीयते इत्यनेन वाक्येनोच्यते , किंतु यत्र तेषां परि­क्र­या­म्ना­नात् कर्तृत्वं प्रमा­ण­व­त्ता­व­द­र्थ­मेव ते परिक्रेतव्या नाधिककरणार्थमपि । यथा स्फ्यादी­ना­मु­द्ध­न­नादि यावत्कार्यं वचनान्तरैः प्रमितं तावदर्थमेव तानि संपादनीयानि , न तु यद्यत्कर्तुं शक्यते स्फ्यादिभिः तदर्थमपि तद् द्रव्यं चोत्प­त्ति­सं­यो­गात् तदर्थमेव चोद्यत इत्य­धि­क­र­णो­क्त­न्या­य­म­व­ल­म्ब्यो­च्यते न तत्र काचिदनुपपत्तिः ।
संपादयितुं युज्यत इति ।
फलाय घटत इत्यस्य फलाय चेष्टते फल­सि­द्ध्यु­प­यो­गि­का­र्येषु व्याप्रियत इत्यर्थः संभवति , स तु घट चेष्टायामिति धात्वर्थानुगमेन स्पष्ट इति नोक्तः । अनेन यज­मा­न­गा­मि­फ­लार्थं यद्या­व­द्व­क्तव्यं तस्य सर्वस्यार्थे परिक्रयः , न तु प्रक­र­ण्य­धि­का­र­वा­क्य­नि­र्दि­ष्ट­फलं यावता सिद्ध्यति तावत एवार्थे , तावदर्थत्वेऽपि न दोषः ; अङ्गा­व­ब­द्धो­पा­स्तीनां तस्मिन्नपि फले प्रति­ब­न्ध­नि­वृ­त्ति­द्वा­रो­प­यो­गात् । अतो न स्फ्याधि­क­र­ण­वि­रोध इति दर्शितं भवति।
कांस्य­भो­जि­न्या­ये­नेति ।
ननु – अविरोधे कांस्य­भो­जि­न्यायः , इह प्रधानम् फलभाजा साक्षादेव कर्तव्यमिति प्रागेव दर्श­ना­द्वि­रो­धोऽ­स्तीति – चेत् , न ; यागस्य स्वामि­क­र्तृ­कत्वं न प्राधा­न्य­प्र­युक्तं , किंतु स्वामिद्रव्ये स्वत्व­त्या­गोऽ­न्येन कर्तुमशक्य इति ऋत्वि­ग­श­क्ति­प्र­यु­क्तम् । अत एवाङ्गस्यापि यजमानद्रव्येण परि­क्र­य­स्या­न्येन कर्तु­म­श­क्य­त्वा­द्या­ज­मा­नत्वं प्रधा­नेऽ­प्य­ग्नि­हो­त्र­होमे स्वत्वत्यागांशं विना प्रक्षे­पां­श­स्या­न्येन कर्तुं शक्यत्वाद् आध्वर्यवत्वम् । तस्मा­द्यु­क्तोऽत्र कांस्य­भो­जि­न्यायः ।
तदर्थमपीति ।
लिङ्ग­व­शा­दु­पा­स­नस्य ऋत्वि­क्क­र्तृ­कत्वे सिद्धे ऋत्वि­क्प­रि­क्र­यस्य तादर्थ्यमपि सिद्ध्यतीति भाष्य­का­रै­स्त­त्सा­धा­र­ण्येन "तस्मै हि परिक्रीयत" इति सूत्रावयवो व्याख्यात इत्यर्थः ।
एतच्च सर्वमिति ।
ननु भाष्ये सूत्रावयवोक्तं हेतुं प्राधा­न्ये­नो­प­न्यस्य तथा चेत्या­दि­ग्र­न्थेन तदुपोद्बलकं लिङ्ग­मु­प­न्य­स्त­मिति प्रतिभाति , न तु लिङ्गं प्रधा­न­हे­तु­त­यो­प­न्य­स्त­मिति। नैष दोषः ; अर्थवशेन तस्य प्राधान्यात् भाष्यकाराणामपि तथैवाशय इति तात्पर्यम् । भाष्य­स्वा­र­स्या­नु­रो­धात् सौत्रं हेतुं प्राधा­न्ये­नो­प­न्यस्य तदनुग्राहकतया लिङ्ग­मु­प­न्य­स्त­मिति भाष्या­श­य­व­र्ण­नेऽपि न दोषः ; लिङ्ग­म­न­पे­क्ष्यैव परि­क्र­य­स्यो­पा­स्ति­सा­धा­र­ण­तायाः स्फ्याधि­क­र­ण­वि­रो­ध­प­रि­हा­रे­णा­स्माभिः समर्थितत्वात् । तत्सा­धा­र­ण्य­सि­द्धे­र्लि­ङ्ग­मु­ख­नि­री­क्ष­कत्वे लिङ्गं यदुपास्तिविषयं परिक्रयस्य ताव­न्मा­त्र­वि­ष­य­ताया एव सिद्धि­प्र­स­ङ्गाच्च । तं ह बको दाल्भ्य इति लिङ्गं हि प्राण­दृ­ष्ट्यो­ङ्को­रो­पा­स­न­मा­त्र­वि­षयं तस्य न्याय­सि­द्धा­र्था­नु­वा­द­क­त्वे­नो­पा­स­न­वि­शे­ष­प्र­स्ता­व­म­न­पेक्ष्य सर्वविषयता सिद्ध्यति। अत एव सौर्या­ङ्ग­प्र­भृ­ती­ना­म­नु­प­दि­ष्ट­ध­र्मा­णा­म­न्यत इति­क­र्त­व्य­ता­का­ङ्क्षायां लौकि­क­स्था­ली­पा­का­दी­ति­क­र्त­व्यता न भवति , किंतु दर्श­पू­र्ण­मा­सा­दितो वैदिकीति निर्णयार्थं प्रवृत्ते "स लौकिकः स्यादृ­ष्ट­प्र­वृ­त्तित्वा" (जै. अ. ७ पा. ४ सू. १०) दिति साप्तमिकाधिकरणे "विध्यन्तो वा प्रकृ­ति­व­च्चो­द­नायां प्रवर्तेत तथा हि लिङ्ग­द­र्शन"(जै. अ. ७ पा. ४ सू. ११) मिति सिद्धा­न्त­सू­त्रेण सौर्या­दि­चो­द­नायां प्रकृतिषु दर्श­पू­र्ण­मा­सा­दि­ष्विव तदीय एव वैदिको विध्यन्तः प्रवर्तते । तथा हि लिङ्गं दृश्यते । यथा हि सौर्यचरौ दार्श­पू­र्ण­मा­सि­क­प्र­या­ज­प्राप्तिं सिद्धवत्कृत्य "प्रयाजे प्रयाजे कृष्णलं जुहोती"ति कृष्ण­ल­वि­धा­ना­र्थ­स्त­द­नु­वाद इति सिद्धा­न्तो­प­पा­द­ना­न­न्तरं “लिङ्ग­हे­तु­त्वा­द­लिङ्गे लौकिकं स्या”दिति (जै. अ. ७ पा. ४ सू. १२) सूत्रेण यदि लिङ्गेन वैदिको विध्यन्तो नियम्यते , तर्हि यत्रै"न्द्रा­ग्न­मे­का­द­श­क­पालं निर्व­पे"दि­त्यादौ तन्नास्ति , तत्र लौकि­की­ति­क­र्त­व्यता स्यादिति शङ्कामुत्थाप्य "लिङ्गस्य पूर्व­व­त्त्वा­च्चो­द­ना­श­ब्द­सा­मा­न्या­दे­के­नापि निरूप्येत यथा स्थाली­पु­ला­केने"ति सूत्रेण यदि लिङ्गं वैदि­क­वि­ध्य­न्त­र­प्रा­प­क­त्वे­नो­प­न्यस्तं स्यात् , तदाऽयं दोषो भवेद् , न तथोपन्यस्तं , किंतु त्रेता­ग्नि­सा­ध्य­त्वा­दि­सा­म्या­द­नु­प­दि­ष्ट­ध­र्म­केषु सौर्यादिषु सर्वेष्वपि वैदि­क्ये­वे­ति­क­र्त­व्य­तेति न्याय­प्रा­प्ता­नु­वा­द­क­त­यो­प­न्यस्तं तत्तु­ल्य­न्या­य­पू­र्वकं लिङ्गमेकत्र दृश्यमानं तुल्यन्यायानां सर्वेषां धर्मवत्तां ज्ञापयति। यथा स्थाल्यां तुल्यपाकानां पुला­का­ना­मे­क­मु­द्धृत्य शृतं दृश्य­मा­न­म­न्ये­षा­मपि शृतत्वं ज्ञाप­य­ती­त्यु­क्तम् । तस्मादिह लिङ्गस्य न्याय­प्रा­प्ता­नु­वा­द­त­यैव सर्वो­पा­स­ना­वि­ष­य­त्व­मु­प­पा­द­नी­यम् । स न्यायः सूत्रे हेतुतया निर्दिष्ट इति तस्यैव सिद्धा­न्त­हे­तुत्वं भाष्य­स्वा­र­स्या­नु­रो­धेन वर्णनीयम् । आचार्यैस्तु टीकायां तं हेतुं विहाय प्रथमं लिङ्गोपन्यासस्य तात्पर्यमेव भविष्यतीति तदुपपादनमात्रं कृतम् । आचार्याणां तु लिङ्गं न्याय­प्रा­प्ता­नु­वा­द­क­मि­त्येव स्वाभिप्रायः ।
तदवष्टम्भेन हि पूर्व­प­क्ष­ग्रन्थे तैरुक्तम् –
तच्च लिङ्गं सर्व­त्रा­र्त्वि­ज्य­मु­पा­स्तीनां गमयतीति ।
ननु यत्तू­क्त­मि­त्या­दि­भा­ष्येण "वर्षति हास्मा" इति श्रुतौ फलोपासनयोः सामा­ना­धि­क­र­ण्य­श्र­व­णात् फलभाजो यज­मा­न­स्यै­वो­पा­स­ना­क­र्तृत्वं वाच्यमिति पूर्वपक्षे कृता शङ्काऽनूदिता , तत्र ऋत्विजां फल­भा­क्त्व­नि­षे­धकः पारा­र्थ्या­दि­त्या­दि­प­रि­हा­र­ग्रन्थो न युक्तस्तेषां फल­भा­क्त्व­स्या­ना­श­ङ्कि­त­त्वा­दि­त्या­शङ्क्य परिहारग्रन्थस्य तात्पर्यमाह –
परार्थत्वादिति भाष्येणेति ।
अनेन परा­र्थ­वा­दि­त्या­दि­फ­ल­सं­ब­न्धा­नु­प­प­त्ते­रि­त्यन्तं पारार्थ्येन हेतुं ऋत्विजां फल­सं­ब­न्ध­नि­षे­धा­र्थ­मेकं वाक्यं न भवति , किंतु परा­र्थ­त्वा­दृ­त्विज इत्येतावदेकं वाक्य­म­नू­दि­त­श­ङ्का­प­रि­हा­रार्थं तेन ऋत्वि­ग्भि­र्य­त्क्रि­यते , न तत्र तद्वारकं यजमानस्यैव कर्तृत्वम् , तेषां पारार्थ्यात् । अतः फलो­पा­स­ना­सा­मा­ना­धि­क­र­ण्य­श्रुतेः “स्वर्गकामो यजेते”ति फल­त­द­र्थ­सा­ङ्ग­प्र­धा­ना­नु­ष्ठा­न­सा­मा­ना­धि­क­र­ण्य­श्रु­ते­रिव नानुपपत्तिरिति परिहारो दर्शितः । यदि परा­र्थ­त्वा­दृ­त्विजां तत्कर्मणि यजमानस्यैव कर्तृत्वं तदा किमपि फलमृत्विजो न स्यादिति "आत्मने वा यजमानाय वेति" श्रुतिविरोधः । तस्मा­दृ­त्वि­क्क­र्मणि क्वचित्क्वचिद् ऋत्विजामपि स्वातन्त्र्यं वक्तव्यं , तद्वदुपासनेऽपि तेषां स्वातन्त्र्यं स्यात् , ते यद्यु­पा­स­ना­क­र्तारः स्युः । न हि तेषा­मु­पा­स­ना­क­र्तृत्वे यजमानकर्तृकं तदङ्गं तत्प्रधानं वा फलजननाय तदपेक्षितं किंचि­द­स्ती­त्यु­पा­स­नांशे पारा­र्थ्य­हे­तो­र­सि­द्धि­मा­शङ्क्य तत्प­रि­हा­रा­र्थ­म­न्य­त्रे­त्यादि वाक्यान्तरमिति वाक्यभेदेन भाष्यं व्याख्यातम् । ननु – केवलं वचनादेव ऋत्विजां फलसंबन्धो न भवति , किं तु न्यायतोऽपि ; "ममाग्ने वर्चो विह­वे­ष्व­स्त्वि"त्य­न्वा­धा­न­क­र­ण­म­न्त्र­स्या­ध्व­र्युणा वक्तव्यतया तेन प्रकाश्यं वर्चःप्रभृति फलमध्वर्योरेव हि वक्तव्यम् , ममास्त्विति प्रत्य­गा­शी­र्लि­ङ्गात् , एव­मु­प­स­द­न­स्यो­द्गा­तृ­क­र्तृ­कत्वे फलार्थस्य कृत्स्नस्य तन्मा­त्र­क­र्तृ­क­त्व­लि­ङ्गाद् दह­रा­द्यु­पा­स­ना­फ­ल­वद् उद्गी­था­द्यु­पा­स­ना­फ­ल­मपि साक्षा­त्क­र्तृ­गामि स्यादि­त्या­श­ङ्का­प­रि­हा­रार्थं श्रुते­श्चे­त्या­दि­भाष्यं "ममाग्ने वर्च" इत्या­दि­म­न्त्र­प्र­का­श्य­फ­ल­मपि याजमानमेवेति निर्णयार्थं प्रवृत्तस्य कर­णे­ष्व­र्थ­वत्त्वा (जै. अ. ३ पा. ८ सू. २५) दिति पूर्व­त­न्त्रा­धि­क­र­णस्य स्मारणार्थम् । तत्र हि वर्चःप्रभृति फलमपि यजमानगाम्येव प्रधा­न­वा­क्य­ग­ता­त्म­ने­प­द­श्रुत्या साङ्ग­प्र­धा­न­भा­व­ना­वि­ष­य­या­ङ्ग­भा­व­ना­ना­मपि यज­मा­न­गा­मि­फ­ल­त्व­स्यो­क्त­त्वेन तद्विरुद्धस्य मन्त्र­ग­त­प्र­त्य­गा­शी­र्लि­ङ्गस्य बाध्यतया मन्त्रे ममपदस्य यजमान एव स्वकी­य­त­यौ­प­चा­रि­क­त्व­क­ल्प­ना­दिति सिद्धा­न्त­व्य­व­स्था­प­ना­न­न्तरं लिङ्ग­द­र्श­ना­च्चेति (जै. अ. ३ पा. ८ सू. २७) गुण­सू­त्र­स्यो­दा­ह­र­ण­त्वेन "यां वै कांचने”ति श्रुतिर्लिखिता । इह तदुदाहरणेन वचनं विना लिङ्गमात्रेण क्वचिदपि ऋत्विग्गतं फलं न भवति , ऋत्वि­क्क­र्म­फ­लस्य यजमानगामिताया औत्सर्गिकत्वे प्रब­ल­श्रु­ति­न्या­य­स­त्त्वा­दिति कृतशङ्कापरिहारः सूचितः । एवं सामान्यत आर्त्वि­ज्य­फ­ल­मा­त्रस्य यजमानगामित्वे श्रुतिं समुदाहृत्य विशिष्य ऋत्वि­क्क­र्तृ­को­पा­स­न­फ­लस्य तद्गामित्वे श्रुतिरुदाहृता ।
भाष्ये "तस्मादु हैवं­विदि"ति , तत्र तस्मा­दि­त्य­स्या­र्थ­माह –
यस्मादिति ।
तस्मादिति शब्दो हि प्रागुक्तं हेतुं करोति , तच्च "सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोका एताঁश्चाप्नोति देवकामाঁश्च अथानेनैव ये चैत­स्मा­द­र्वाञ्चो लोका­स्ताঁ­श्चा­प्नोति मनु­ष्य­का­माঁश्चे"ति पूर्ववाक्यम् । तत्र "सोऽमुनैव सोऽने­नै­वे"त्य­नयोः फलि­ता­र्थ­स्त­त्क्र­तु­न्या­य­ल­भ्य­स्त­दु­भ­या­त्मको भूत्वेत्यनेन दर्शितः । एकस्य युग­प­दु­भ­या­त्म­कत्वं "स एकधा भव­ती"त्या­दि­श्रु­ता­वु­पा­स­ना­सा­म­र्थ्येन युग­प­द­ने­क­श­री­र­प­रि­ग्र­ह­स्यो­क्त­त्वा­दु­प­प­न्नम् । ये चामु­ष्मा­त्प­राञ्चो लोका ये वैत­स्मा­द­र्वाञ्चो लोका" इति वाक्य­द्व­यो­क्त­फ­ल­स­मु­च्च­येन फलितोऽर्थः सर्वा­ल्लो­का­ना­प्नो­ती­त्य­नेन दर्शितः । ननु यजमानगामि खलूपासनाफलं कथमिहोद्गातुः फलमुक्तं , नैष दोषः , वचनादृत्विजोऽपि फल­म­स्ती­त्य­नु­प­द­मे­वो­क्तम् , इह च "य एवं विद्वान् साम गायत्युभौ स गायती"ति प्रकृत उद्गाता “सोऽमु­नै­वे”त्य­न­यो­र्वा­क्य­यो­स्त­च्छ­ब्दाभ्यां परामृश्यते । अतोऽत्रापि वच­न­ब­ला­दृ­त्वि­जोऽपि फल­भा­क्त्व­म­वि­रु­द्ध­मि­त्या­चा­र्या­णा­म­भि­प्रायः । एवमपि व्याख्यातुं शक्यम् । "य एवं विद्वान् साम गाय­ती"त्यत्र सामगाने प्रयोजककर्ता यजमानो गाय­ती­त्य­ने­नो­च्यते ; उद्गातुरेकस्य पञ्च­भ­क्ति­क­कृ­त्स्न­सा­म­गा­तृ­त्वा­भा­वेन प्रयो­ज­क­क­र्तृ­प­र­त­यैव कृत्स्नसामगाने एककर्तृकत्वस्य निर्वाह्यत्वात् , उद्गातृविषयत्वे साम­श­ब्द­स्यो­द्गा­तृ­गे­य­सा­म­भागे लाक्ष­णि­क­त्वा­पत्तेः । अतः प्राग्यजमान एव प्रकृतः , तस्यैव च "सोऽमुनैव सोऽने­नैवे"ति तच्छब्दाभ्यां परामृष्टस्य फल­भा­क्त्व­मु­च्यते । यस्मा­दे­व­मु­द्गा­तृ­क­र्तृ­क­स्या­प्यु­पा­स­नस्य यजमान एव फलभागी , तस्मादेवंविद् उक्तो­पा­स­ना­प्र­का­र­प­रि­ज्ञा­तो­द्गाता अक्ष्या­दि­त्य­पु­रु­षो­पा­स­नेन यजमानं संतो­ष्याऽ­धि­क­द्र­व्य­लि­प्सु­श्चेद् यजमानं पृच्छेदिति। एवं व्याख्याने तु नास्त्य­त्रो­द्गातुः फलभाक्त्वे वचनमिति विशेषः ।
किं कामं फलमागायानीति ।
अत्र किं फलमित्यस्य “येचाऽ­मु­ष्मा”दिति वाक्योक्तं वा “ये चैतस्मादि”ति वाक्योक्तं फलं वेति न प्रश्नार्थः । "य एवं विद्वान् साम गायत्युभौ स गायती"ति वच­ना­नु­सा­रे­णा­क्ष्या­दि­त्य­पु­रु­षो­पा­स­न­यो­रे­क­वि­द्या­त्वेन द्विवि­ध­लो­का­वाप्त्योः समु­च्चि­त­यो­र्वि­द्या­फ­ल­त्वात् , किन्तु किमिदं तव विद्यानुष्ठानं कर्मार्थमिति कृत­वी­र्य­व­त्त­र­त्व­मेव फलभागायानि उत फलार्थमिति सर्व­लो­का­वा­प्त्या­दि­क­म­पीति प्रश्नार्थः । “आगा­या­नी"त्ये­त­द­न­न्त­र"मेष ह्येव कामा­गा­न­स्येष्ट" इति वाक्यम् , तत्र किमर्थं फलप्रश्नः । उपासनां करवाणि न वेत्येव प्रष्टव्यम् । कृता­या­मु­पा­स­नायां यजमानेन यत्फलं सङ्कल्पितं तत्स्वयमेव भवि­ष्य­ती­त्या­श­ङ्का­प­रि­हा­रार्थं "कामं ध्याय­न्न­प्र­मत्तः स्तुवी­ते"त्य­त्रो­द्गा­तु­रपि याज­मा­न­फ­ल­का­म­ना­श्र­व­णाद् यज­मा­न­स्ये­ष्ट­मिदं फलं भवत्विति स्वयमपि ध्यायन्नेव तत्फलं संपादयितुमीष्ट इति परिहाराभिप्रायः ।
तस्य वाक्यस्यार्थमाह –
समर्थो हीति ॥४५॥४६॥
इति त्रयोदशं स्वाम्यधिकरणम् ॥

सह­का­र्य­न्त­र­विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥
बाल्येनेति ।
"नायमात्मा बलहीनेन लभ्य" इति श्रवणात् साङ्गा­ध्य­य­न­ज­न्या­पा­त­ब्र­ह्म­ज्ञा­न­रू­पस्य श्रवणस्य बलं तत्प्रतिष्ठापकं युक्ति­भि­र­नु­चि­न्त­न­रूपं मननमेव बलं तेन योऽय­म­सं­भा­व­ना­नि­रासः स बलस्य भाव इति बाल्य­त्वे­नो­प­च­रितः , स एव मननेनेति मननकार्यत्वाद् मन­न­त्वे­ना­प्यु­प­च­रितः । इदं व्याख्यानं बृह­दा­र­ण्य­क­भा­ष्या­नु­सा­रेण ।
"अना­वि­ष्कु­र्व­न्न­न्व­या­दि"त्य­धि­क­रणे वक्ष्यमाणेन प्रकारेण बालस्य कर्म बाल्यमिति व्युत्प­त्ति­म­व­लम्ब्य व्याख्यानान्तरं –
शुद्धहृदयत्वेन वेति ।
ब्रह्मा­ह­मि­त्य­व­ग­च्छ­तीति ब्राह्मण इति शेष इति सूत्र­स्या­धि­का­रा­र्थ­त्व­व­ल्ल­क्ष­णा­र्थ­त्व­म­प्य­ङ्गी­कृत्य तेन चक्षुषा गृह्यत इति चाक्षु­ष­मि­त्या­दि­रू­प­सिद्धेः शब्द­वि­द्भि­रु­क्त­त्वात् तेनैव सूत्रे­णो­क्तार्थे शैषि­कोऽ­ण्प्र­त्ययो द्रष्टव्यः । ब्रह्म अणति अवगच्छतीति ब्राह्मण इति पाठे तु कर्म­ण्य­णि­त्य­ण्प्र­त्ययः । धातू­ना­म­ने­का­र्थ­त्वात् शब्द­क­र्म­क­स्या­ण­ते­रि­हा­व­ग­त्य­र्थता । साक्षात्कारवत इति भाष्ये हि विद्यावतः संन्यासिन इति व्याख्यानं , तद्व्याख्यानं “तं वैतमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ती"ति विद्वत्संन्यासः प्राक् प्रकृतः विदित्वेति विशे­ष­णा­दि­त्ये­त­द­भि­प्रायं वाच्यं , तत्र च विद्वत्संन्यासे साक्षात्कारवति विद्यातिशयः सिद्ध इति भावः । विद्याशब्देनेति भाष्ये प्रकृतो विद्वत्संन्यासो न विवक्षितः , किंत्वेतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति वाक्या­न्त­र­सिद्धो विवि­दि­षु­सं­न्यासः ; संन्या­स­सा­मा­न्य­ग्र­हणे प्रकरणमपेक्षते , न तु तद्वि­शे­ष­ग्र­ह­णेऽपि ; विद्या­ति­श­य­वि­धे­र­नु­रो­ध्य­त्वा­दिति भावः ।
भेददर्शनवशात् पाक्षि­का­प्राप्तौ विधिरिति भाष्य­टी­को­क्त­म­यु­क्तम् , अन्व­य­व्य­ति­रे­का­व­ग­त­फ­ल­सा­ध­न­भावे फलार्थिनां व्यासङ्गमात्रेण कदा­चि­द­त्रा­प्र­वृ­त्ति­नि­रा­साय विध्य­न­पे­क्ष­णा­दि­त्या­शङ्क्य तत्तात्पर्यमाह –
शाब्द­ज्ञा­ना­त्कृ­त­कृ­त्यतां मन्वान इति ।
यथा दारान्तरपुत्रैः कृतकृत्यतां मन्वानस्य दारान्तरारागेण रोषेण वा अनुगमनाप्राप्तौ "ऋता­वु­पे­या­देवे"ति नियमविधिः , तथेहापीति भावः । एवं चावि­धे­य­त्व­मु­क्त­मि­त्य­स्या­पू­र्व­वि­ध्य­वि­ष­य­त्व­मु­क्तम् , इह तु निय­म­वि­धि­वि­ष­य­त्व­मु­च्यत इति पूर्वा­प­र­वि­रो­ध­प­रि­हारो द्रष्टव्यः ।
एवमपि विधिच्छायानीति सम­न्व­य­सू­त्र­भा­ष्यस्य तत्र­त्य­टी­का­ग्र­न्थस्य च नाञ्ज­स्य­मि­त्य­प­रि­तु­ष्य­न्नाह –
अथवेति ।
दारा­न्त­र­पु­त्रै­रिव अत्र शाब्दज्ञानेन कृतकृत्यतां मन्वानस्य मूलं नास्ति ; दारा­न्त­र­पु­त्रै­रे­वा­नृ­ण्य­वत् शाब्द­ज्ञा­न­मा­त्रेण ध्यानं विना साक्षात्कारस्य सिद्ध्य­सं­भ­वा­द­तोऽत्र न नियमविध्यपेक्षा । अतः – पक्षेणेति सौत्र­प­द­त­द्भा­ष्य­यो­र्भे­द­द­र्श­न­व्या­स­ङ्गाद् ध्यानेऽ­नु­त्स­ह­मा­न­स्यो­त्सा­ह­ज­न­नार्थं विधि­स­रू­पोऽ­य­म­र्थ­वाद इत्यत्रैव तात्पर्यमिति भावः ।
विध्यभावपक्षमेव सिद्धा­न्त­म­व­लम्ब्य तमुपपादयति –
अपि चेति ।
श्रव­ण­म­न­न­ध्या­नानां क्रमेण भवतां ब्रह्म­सा­क्षा­त्का­र­प­र्य­व­सा­नेन फलवत्त्वमिष्यते । तत्र श्रव­ण­म­ध्य­य­न­वि­ध्या­य­त्त­सा­ङ्गा­ध्य­य­न­ज­न्या­पा­त­ज्ञा­न­रूपं न कमपि विधिमपेक्षत इतीष्टमेव । तदेव फल­व­द­र्थ­नि­र्ण­या­र्थ­वि­चा­रा­त्मके मनने प्रवर्तयेदिति तत्रापि न विधिरपेक्ष्यते । न च – अन­पे­क्ष­स्व­त­न्त्र­वि­चा­रस्य द्वैत­शा­स्त्र­वि­चा­रस्य वा पक्षे प्राप्तौ निय­म­वि­धे­र­व­का­शोऽ­स्तीति - शङ्कनीयम् ; “तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेदि”ति निय­म­वि­धा­ना­दा­द्य­नि­य­म­सिद्धेः , शास्त्रा­न्त­र­वि­चा­र­स्या­द्वि­ती­य­ब्र­ह्म­सा­क्षा­त्का­रा­नु­पा­य­त्वा­देव तदप्राप्तेः । नच – द्वैत­शा­स्त्र­वि­चा­रस्य मोक्षा­र्थ­ब्र­ह्म­ज्ञा­नो­पा­य­त्व­भ्रान्त्या तत्प्राप्तिः संभवतीति - वाच्यम् ; भ्रान्ति­प्र­यु­क्त­प्राप्तेः नियमविधिनापि वार­यि­तु­म­श­क्य­त्वात् , तस्यापि निय­म­वि­धे­र्द्वै­ति­कृ­त­यो­ज­नया द्वैत­शा­स्त्र­वि­चा­र­नि­य­म­वि­ष­य­ता­भ्रा­न्ति­स­म्भ­वात् । न च – वेदा­न्ता­र्थ­ग्र­थ­न­प­र­पु­रा­ण­भा­षा­प्र­ब­न्धा­दि­वि­चा­र­स्यापि पक्षे प्राप्तौ वेदान्ता एव विचारणीया इति निय­म­वि­ध्य­पे­क्षाऽ­स्तीति – वाच्यम् ; वेदेनैव वेदार्थो ज्ञातव्य इत्यध्ययनविधित एव तस्य नियमस्य लाभात् , “इति­हा­स­पु­रा­णाभ्यां वेदं समुपबृंहयेदि”ति वेदो­प­बृं­ह­ण­त्वे­नैव पुरा­णा­दि­वि­नि­यो­गात् , "न म्लेच्छभाषां शिक्षे­ते"त्या­दि­भि­र्नि­षि­द्धस्य भाषा­प्र­ब­न्ध­स्या­प्रा­प्तेश्च । न च – न्यायविचारं विनाऽस्य वाक्यस्यायमर्थ इति न्याय­सि­द्धा­र्थ­वि­ष­य­गु­रू­प­दे­श­स्यापि पक्षे प्राप्तिरस्तीति – शङ्कनीयम् ; लक्षणमुखेन हि ब्रह्म निर्धार्य ध्यानेन तत्साक्षात्कारः संपादनीयः । ब्रह्म­स­द्भा­व­मात्रं संप्रतिपद्य तत्किं ब्रह्मेतीदंतया निर्धा­र­णा­र्थ­मु­प­स­न्नाय भृगवे यतो वेत्या­दि­ल­क्ष­ण­मु­खेन तदुपदिश्य तद्वि­जि­ज्ञा­स­स्वे­त्यु­क्ति­सा­म­र्थ्यात् लक्षणेनैव ब्रह्म निर्धार्य ध्यातव्यमिति नियमोन्नयनात् । न हि श्रृङ्ग­ग्रा­हि­क­यो­प­दे­श­स्यापि ध्यान­सा­क्षा­त्का­रो­प­यो­गि­ब्र­ह्म­नि­र्धा­र­णो­पा­यत्वे गुरूपाये लक्षणमुखेन ब्रह्मनिर्धारणे गुरुः शिष्यं प्रवर्तयेत् । तन्मुखेन ब्रह्मनिर्धारणं च प्रधा­ना­द्य­ति­व्या­प्ति­नि­रा­से­ना­सं­भ­व­नि­रा­सेन च लक्ष­ण­दृ­ढी­क­र­णार्थं सर्व­वे­दा­न्त­नि­र्णा­य­क­न्या­य­वि­चा­र­म­पे­क्षते । सगु­ण­नि­र्गु­ण­वा­क्य­वि­वे­च­नेन निर्गु­ण­वा­क्य­प्र­ति­प­न्ना­न­न्दा­दि­गु­णा­स्थू­ल­त्वा­दि­नि­षे­धो­प­सं­हा­रे­णा­ख­ण्ड­वा­क्या­र्थ­नि­र्धा­र­ण­मपि तमपेक्षते ; न्यायानुसंधानाय चेदं वाक्यं सगुणविषयमिदं निर्गुणविषयमिति न्याया­नु­सं­धा­न­र­हि­त­स्या­सं­क­रेण धारणासंभवात् , तद­सं­भ­वेऽ­प्ये­त­द्वाक्यं सगु­ण­वि­ष­य­मे­त­न्नि­र्गु­ण­वि­ष­य­मिति न्याया­नु­सं­धा­न­र­हि­त­स्या­सं­क­रेण धारणासम्भवात् , तदसंभवे च स्वय­म­नु­प­प­त्ति­प्र­ति­सं­धा­ने­ना­न्या­क्षे­प­कृ­ता­नु­प­प­त्ति­प्र­ति­सं­धा­नेन वा क्षोभितहृदयस्य प्राची­न­नि­र्धा­र­णा­न्य­था­भा­वा­पत्तेः ; यस्य प्राग्भ­व­कृ­त­न्या­य­वि­चा­र­वा­स­ना­ति­श­य­व­शा­दु­प­दे­श­मा­त्र­तोऽपि निश्चलं बृह­स्प­ति­ना­प्य­क्षोभ्यं निर्धारणं सभवति , तस्य मन­ना­न­पे­क्षा­या­मपि दोषाभावात् । अत एव "तत्कारणं सांख्य­यो­गा­भि­प­न्नमि”ति श्रुत्या सांख्य­यो­ग­श­ब्दितं विचा­रो­प­दे­श­मा­त्र­पू­र्व­क­ब्र­ह्म­प्र­ति­प­त्त्यु­पा­य­द्व­य­मु­क्तम् । न च – सोपा­धि­का­त्म­सा­क्षा­त्का­र­क्लृ­प्त­क­र­ण­भा­व­म­नो­व्या­पा­रस्य पक्षे प्राप्तिरस्तीति – शङ्कनीयम् ; ज्ञानमात्रे क्लृप्त­का­र­ण­भा­वस्य “समाहितो भूत्वे”ति विशि­ष्या­त्म­द­र्शने नित­रा­म­पे­क्षि­त­त्वेन श्रुतस्य च तस्य नियतप्राप्ततया व्याव­र्त­ना­यो­गात् । तथापि मनसःकरणतया प्राप्तिः पाक्षिकीति चेद् , न ; "मन­सै­वा­नु­द्र­ष्ट­व्यमि”ति श्रुतेः “श्रव­णा­दि­सं­स्कृतं मन आत्मदर्शने करणमि”ति गीता­भा­ष्य­द­र्श­नाच्च मनस एव करणतयाऽपि नियमेन प्राप्तेः । एवं पाक्षि­क­स्या­प्यु­पा­या­न्त­रस्य प्राप्त्यसंभवे समु­च्च­ये­नो­पा­या­न्त­रस्य व्याव­र्त­न­यो­ग्यस्य प्राप्ति­र्दु­रा­पा­स्तेति नोपा­य­प­रि­सं­ख्यापि शङ्कार्हा ।
अवघातो हीति ।
दर्श­पू­र्ण­मा­स­यो­रु­त्प­त्ति­शि­ष्ट­पु­रो­डा­शा­व­रु­द्धे­ष्वा­ग्ने­या­दि­या­गेषु साक्षा­त्सा­ध­न­त्वेन निवेशमलभमाना “व्रीहि­भि­र्य­जेते”ति यागसाधनभावेन श्रुतव्रीहयः पुरोडाशद्वारा तदन्वयं लभन्ते । तेषां पुरो­डा­श­सा­ध­न­त्वा­त्त­ण्डु­ला­दि­द्वा­रेति तण्डु­ल­भा­व­ना­पे­क्षि­तोऽ­व­घातः प्रत्य­क्ष­वि­धि­म­न­पेक्ष्य सामर्थ्यादेव प्राप्नोति , किंतु नखविदलनादिकमपि तद्वदेव पक्षे प्राप्नुयादिति साम­र्थ्या­द­व­घा­तस्य प्राप्तिः सार्वत्रिकी न भवेत् , अत­स्त­त्सा­र्व­त्रि­क­त्व­सि­द्धये निय­म­वि­धि­रा­श्री­यत इत्यर्थः ।
इमामगृभ्णन्निति ।
अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं चानुष्ठेयम् । अत­स्त­त्प्र­क­र­णा­म्ना­तस्य "इमा­म­गृ­भ्णन्नि”ति मन्त्रस्य रश­ना­ग्र­ह­ण­प्र­का­श­न­सा­म­र्थ्य­रू­पा­ल्लि­ङ्गाद् उभयत्रापि विनि­यो­ग­प्रा­प्ता­वि­मा­म­गृ­भ्णन् रश­ना­मृ­त­स्ये­त्य­श्वा­भि­धा­नी­मा­दत्त इति परि­सं­ख्या­वि­धि­र्ग­र्द­भ­र­श­ना­ग्र­ह­णाद् मन्त्र­व्या­व­र्त­न­फलं स्वीक्रियत इत्यर्थः । यद्यपि नियमविधावपि नख­वि­द­ल­ना­दि­नि­वृ­त्ति­रस्ति ; तथा­प्य­व­घा­ता­प्रा­प्तां­श­प­रि­पू­रणे कृते तन्नि­वृ­त्ति­र्भ­व­तीति प्राथमिकत्वाद् विधेयगतत्वेन प्रत्या­स­न्न­त्वा­द­प्रा­प्तां­श­प­रि­पू­रणं तत्र फलम् । इत­र­नि­वृ­त्ति­रा­नु­ष­ङ्गिकी , परिसंख्यायां तु द्वयोरपि नित्य­प्रा­प्ते­र­प्रा­प्तां­श­प­रि­पू­र­णा­सं­भ­वा­दि­त­र­नि­वृ­त्ति­रेव फल­म­यो­गा­न्य­यो­ग­व्य­व­च्छे­द­रू­प­फ­लाभ्यां निय­म­प­रि­सं­ख्य­यो­र्भेदः ।
न त्विति ।
ननु – यथा प्रसि­द्ध­यो­र्नि­य­म­प­रि­सं­ख्यो­दा­ह­र­ण­यो­र्वि­क­ल्प­स­मु­च्च­याभ्यां प्राप्नु­व­दु­पा­या­न्त­र­मस्ति , नैव­म­त्रो­पा­या­न्तरं संभवतीत्यनेन ग्रन्थेनोच्यते , नैतद्युक्तम् ; नियमविधौ यथाऽ­व­घा­त­प्र­ति­द्व­न्द्वि­न­ख­वि­द­ल­न­मु­पा­या­न्त­र­मस्ति , नैव­मि­मा­म­गृ­भ्ण­न्निति मन्त्रस्य प्रति­द्व­न्द्वि­र­श­ना­प्र­का­श­नो­पा­या­न्त­र­मस्ति , किंतु मन्त्र­प्र­का­श्य­म­श्व­र­श­ना­ग्र­ह­ण­प्र­ति­द्वन्द्वि गर्द­भ­र­श­ना­ग्र­ह­ण­मु­पा­या­न्त­र­मे­वास्ति , अतः प्रकृते उपायान्तरसंभवे उदा­हृ­त­प­रि­सं­ख्या­वि­धे­र्व्य­ति­रे­क­दृ­ष्टा­न्तता न घटत इति – चेत् , सत्यम् ; उपा­यो­पे­य­सा­धा­र­ण्येन निव­र्त­नी­य­प्र­ति­द्व­न्द्वि­सं­भ­व­मात्रे व्यति­रे­क­दृ­ष्टा­न्तता विवक्षितेति न दोषः । उपा­या­न्त­र­प­रि­सं­ख्यायां तु गृह­मे­धी­या­ज्य­भा­ग­वि­धा­न­मु­दा­ह­र­णम् । तद्धि गृह­मे­धी­या­पे­क्षि­ता­ख­ण्डो­प­का­रो­पा­य­त्वे­ना­ज्य­भा­ग­द्व­य­त­दि­त­रा­ङ्ग­क­ला­पयोः प्राप्ता­वि­त­रा­ङ्ग­क­ला­प­व्या­व­र्तनं फलम् । ननु च – ब्रह्म­सा­क्षा­त्का­र­व्य­क्ता­वु­पा­या­न्त­रा­सं­भ­वा­दि­त्या­दि­श­ङ्का­प­रि­हा­र­ग्र­न्थ­यो­र्नि­य­म­वि­ध्यु­प­पा­द­ना­र्थता प्रतीयते , तत्रो­पा­या­न्त­र­प्राप्तौ हि नियमविधिः । न च ब्रह्म­सा­क्षा­त्कारे वेदा­न्त­श्र­व­णा­दि­व्य­ति­रे­के­णो­पा­या­न्त­र­मस्ति , अतस्तत्र विधि­म­भ्यु­प­ग­च्छ­ताऽ­पू­र्व­वि­धि­रा­स्थेय इति शङ्का विशिष्य गृही­त­का­र्य­का­र­ण­भा­व­स्यो­पा­या­न्त­र­स्या­भा­वेऽपि साक्षा­त्का­र­यो­ग्य­सू­क्ष्मा­र्थ­वि­ष­य­क­शा­स्त्रश्र वणादिकं तत्सा­क्षा­त्का­र­का­र­ण­मिति तत्र शास्त्र­श्र­व­णा­दिषु सामान्यतः कार्य­का­र­ण­भा­व­ग्र­हेण क्रोडीकृतं पुरा­ण­श्र­व­णा­दि­क­म­प्यु­पा­या­न्त­र­म­स्तीति निय­म­वि­धि­र्युक्तः । सामा­न्य­का­र्य­का­र­ण­भा­व­ग्र­ह­मू­ल­प्रा­प्ति­मा­त्र­मेव निय­म­वि­धा­वु­प­यु­ज्यते , यथाऽवघातादाविति परिहारश्च वर्णित इति प्रतीयते । नैतद्युक्तम् ; न ह्यत्र निय­म­वि­ध्यु­प­पा­दनं प्रस्तुतम् ; पूर्वो­त्त­र­ग्र­न्थ­यो­स्त­न्नि­रा­क­र­णा­र्थ­त्वात् , न चाचार्यैः प्रदर्शितो निय­म­वि­धि­प­क्षोऽपि पाक्षि­को­पा­या­न्त­र­प्रा­प्ति­युक्तः , किंतु ऋतु­ग­म­ना­दि­नि­य­म­वि­धि­व­त्पा­क्षि­का­प्रा­प्ति­युक्तः । न चेमौ शङ्का­प­रि­हा­र­ग्रन्थौ निय­म­वि­ध्यु­प­पा­द­न­म­न­पेक्ष्य केव­ल­म­पू­र्व­वि­ध्य­भा­वो­प­पा­द­न­प­र­तया योजयितुं शक्यौ । कथम् ? शङ्का ताव­द­पू­र्व­वि­ध्यु­प­पा­द­न­वि­ष­य­तया योजयितुं न शक्या ; न ह्युपा­या­न्त­रा­सं­भवः साक्षा­द­पू­र्व­वि­धित्वे हेतुः ; पश्वा­दि­षू­पा­या­न्त­र­सं­भ­वेऽपि "चित्रया यजेत पशुकाम" इत्या­दी­ना­म­पू­र्व­वि­धि­त्व­द­र्श­नात् , प्रया­जा­दि­ज­न्यो­प­का­रे­षू­पा­या­न्त­रा­सं­भ­वेऽपि "प्रयाजे प्रयाजे कृष्णलं जुहो­ती"त्या­दीनां प्रयाजाद्यंशे अनु­वा­द­त्व­द­र्श­नाच्च । तथा परि­हा­रोऽ­प्य­पू­र्व­वि­ध्य­भा­वो­प­पा­द­न­वि­ष­य­तया योजयितुं न शक्यः ; न हि परिहारग्रन्थेन वेदा­न्त­श्र­व­णा­दे­र­पू­र्व­वि­धि­वि­रोधी मानान्तरसिद्धः कार्य­का­र­ण­भा­वोऽ­भि­धी­यते , किंतु तत्प्र­ति­द्व­न्द्विन उपायान्तरस्य ; इत­र­थे­त्या­दि­ग्रन्थे उपा­या­न्त­रा­प­रि­ज्ञा­नात् , अतो हेतुना तथा तदा­श­य­स्फु­टी­क­र­णा­दिति।
तस्मादिमौ शङ्का­प­रि­हा­र­ग्र­न्था­व­नु­चि­ता­विति –
चेत् , उच्यते ; ब्रह्म­सा­क्षा­त्कारे वेदा­न्त­श्र­व­णा­दिकं कारणमिति विशिष्य तयोः कार्य­का­र­ण­भा­व­ग्रा­ह­क­मु­पा­या­न्तरं मानान्तरं नास्ति ।
अतो माना­न्त­रा­प्रा­प्त­का­र्य­का­र­ण­भा­व­वि­ष­य­त्वा­द­पू­र्व­विधिः श्रव­णा­दि­ष्व­ङ्गी­क­र्तव्य इति शङ्कार्थः । विशिष्य कार्य­का­र­ण­भा­व­ग्रा­ह­का­भा­वेऽपि सामान्यतः साक्षा­त्का­र­यो­ग्यस्य बहुशः श्रव­ण­म­न­ना­दि­भि­र्नि­र्धा­रि­त­स्व­रू­पस्य चिरन्तनाभ्यस्तं ध्यानं मानसे तत्साक्षात्कारे कारणमिति कामि­नी­भा­व­ना­त­त्सा­क्षा­त्का­र­यो­र्गृ­हीतः कार्य­का­र­ण­भा­वोऽस्ति। अतो नापू­र्व­वि­धे­र­व­काशः । सामान्यतः कार्य­का­र­ण­भा­व­ग्र­होऽ­प्य­पू­र्व­वि­धि­वि­रोधि ; अन्यथा निय­म्या­व­घा­त­व्य­क्ति­सा­ध्या­पू­र्वी­य­त­ण्डु­ल­व्यक्तौ य उपा­य­नि­य­म्योऽ­व­घातः तस्यान्तरमवकाशः कारणत्वेन प्रवेशः तस्या­प­रि­ज्ञा­ना­न्मा­ना­न्त­रेण ज्ञाना­भा­वा­द­पू­र्व­विधिः स्यादिति परिहारार्थः ।
सर्वमानेति ।
द्रष्टव्य इति हि दर्शनरूपं फलमिहाश्रितम् । तच्च सर्वेषां प्रमाणानां साधारणं फलम् । अतः सर्वेषु प्रमा­णे­ष्वा­त्म­द­र्श­न­फ­ला­र्थ­म­नि­य­मेन प्रसक्तेषु वेदान्त एव तत्र प्रमाणमिति नियमनाय श्रोतव्य इत्यनेन वेदा­न्त­श्र­व­ण­मा­हे­त्यर्थः ।
सन्निधानादेवेति ।
योग्य­ता­व­शा­दि­त्यर्थः । वेदान्तैकवेद्ये ब्रह्मा­त्मै­कत्वे तद­ति­रि­क्त­प्र­मा­णानां योग्यतया निवृत्तौ वेदा­न्त­श्र­व­ण­नि­यमः स्वयमेव लभ्यते , तदर्थं श्रोतव्य इत्य­ने­ना­नु­व­द­न्तीति वार्तिकार्थ इति तात्पर्यम् ॥४७॥
तच्चा­नु­प­प­न्न­मिति ।
यदि बाल्य­प्र­धा­न­मा­श्र­मा­न्त­र­मपि भवेत् , तदा तदनुपपन्नं स्यात् , अत­स्त­था­भू­त­मा­श्र­मा­न्तरं नास्तीत्यर्थः ॥४८॥
वैखानसा इति ।
उक्तं महाभारते – ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । चत्वार आश्रमाः प्रोक्ता एकैकस्तु चतुर्विधः॥इति। तत्र गायत्रादयो ब्रह्मचारिभेदाः । वार्तावृत्तयः शालीनवृत्तयो यायावरा घोर­सं­न्या­सि­का­श्चेति गृहस्थभेदाः । वैखानसाद्या वनस्थभेदाः । कुटी­च­क­ब­हू­द­क­हं­स­प­र­म­हंसा यतिभेदाः ॥४९॥
इति चतुर्दशं सह­का­र्य­न्त­र­वि­ध्य­धि­क­र­णम् ॥

अना­वि­ष्कु­र्व­न्न­न्व­यात् ॥५०॥
शेषि­वि­ध्य­नु­ग्र­ह­ण­मिति ।
बाल्यं ताव­द्वि­द्या­शे­ष­त्वेन विधीयते , विद्या च कामचारादिभ्यो निवृत्तेनैव लभ्यते , "नाविरतो दुश्च­रि­ता"दि­त्या­दि­श्रुतेः , अन­न्य­व्या­पा­र­त्वस्य विद्या­भ्या­से­ना­पे­क्षि­त­त्वाच्च । शेषिविरोधेन च शेषो ग्राह्यः । अत एव यदा यूपार्थं तनुरेव खदिरो लब्धः , तत्र तक्षणादौ कृते अति­क­नी­य­स्त्व­प्राप्त्या पश्व­न­प­क्र­म­ण­प्र­यो­ज­नकं पशुनियोजनार्थं यूपद्रव्यं न संभवति चेत् , तक्षणादित्यागो "द्रव्य­सं­स्का­र­वि­रोधे द्रव्यं तद­र्थ­त्वा"दिति (जै. अ. ६ पा. ३ सू. ३८) पूर्व­त­न्त्रा­धि­क­रणे निर्णीतः । यदैवं शेषिविरोधे क्लृप्तस्यापि शेषस्य त्यागः , तदा किमु वक्तव्यम् ? इह तद्विरोधी बाल्यशब्दस्य संभ­वि­ता­र्था­न्त­र­स्या­र्थ­त्वेन न ग्राह्य इत्यत्रेति भावः । ननु – शास्त्रा­न्त­रा­बा­ध­न­म­परं कार­ण­मि­त्ये­त­द­यु­क्तम् ; क्रत्व­र्थ­पु­रु­षा­र्थ­तया विषयभेदापत्तेः , न च विष­य­भे­दे­ना­वि­रो­धोऽपि ; बाल्य­वा­म­दे­व्यो­पा­स­का­दिषु क्लृप्तसंकोचस्य नियमविधायिन: सामा­न्य­शा­स्त्र­स्यैव संको­चा­नौ­चि­त्यात् , विशे­ष­शा­स्त्रा­सं­को­चाय सामा­न्य­शा­स्त्र­स्यैव संको­च­न­स्या­न्यत्र क्लृप्तत्वाच्च । तथा हि – द्वादशाहे "संस्थिते षडहे मध्वाशयेद् घृतं वेति" ऋत्विजां वैकल्पिकं मध्वशनं विहितम् , द्वादशाहः सत्रा­ही­नो­भ­या­त्मकः । सत्रे यजमाना एव ऋत्विजः । यजमानानां ब्रह्म­च­र्य­वि­धा­नाद् ब्रह्म­च­र्य­श­ब्दा­र्थस्य वेदा­ध्य­य­न­स्या­धी­त­वे­देषु दीक्षितेषु विधानायोगेन ब्रह्म­च­र्य­श­ब्दस्य तद्धर्मलक्षकतया तद्ध­र्मा­न्त­र्गतो मध्वशननिषेधोऽपि तेषां सामान्यतः प्राप्तः । तत्र यद्यपि सामा­न्य­शा­स्त्रा­बा­धाय मध्व­श­न­स्या­ही­न­द्वा­द­शा­ह­वि­ष­य­तया संकोचः कल्पयितुं शक्यते ; तथापि विशेषशास्त्रस्य लक्ष­ण­प्र­ति­प­दो­क्त­न्या­येन बल­व­त्त्वा­दे­त­द­नु­सा­रेण सामा­न्य­शा­स्त्र­स्यैव ज्योति­ष्टो­मा­द­ति­दे­श­प्रा­प्तस्य विशे­ष­शा­स्त्रा­नु­सा­रेण मध्व­श­न­व्य­ति­रि­क्तेषु संकोचः “यो मधुन दीक्षितो ब्रह्म­चा­रि­त्वा­दिति" (जै. अ. १० पा. ६ सू. ३२) पूर्व­त­न्त्रा­धि­क­रणे निर्णीतः । तस्माद् सामा­न्य­शा­स्त्रा­बा­ध­न­म­परं कारणं भवितुं नार्हतीति – चेद् , सत्यम् ; शेष्यनुग्रहेण कारणेन सिद्ध­स्या­र्थ­स्या­नु­ष­ङ्गिकं प्रयोजनं कारणान्तरत्वेन व्यपदिष्टमिति न दोषः । तदे­त­च्छा­स्त्रा­न्त­र­बा­ध­न­मेवं सति न भवि­ष्य­ती­त्यु­क्ति­भङ्ग्या सूचितम् ॥५०॥
इति पञ्चदशं अना­वि­ष्का­रा­धि­क­र­णम् ॥

ऐहि­क­म­प्य­प्र­स्तु­त­प्र­ति­बन्धे तद्दर्शनात् ॥५१॥
श्रव­णा­दि­घ­ट­क­त्वा­दिति ।
विवि­दि­षो­त्पा­द­न­द्वा­रेति शेषः ।
विद्ययाऽवश्यं भाव्यमिति ।
यदि विद्या यज्ञादिफलं स्यात् , तदा चित्रा­दि­फ­ल­व­त्क­दा­चि­दा­मु­ष्मि­क्यपि भवेद् , न त्वेतदस्ति ; यज्ञादीनां विविदिषामात्रेण चारितार्थ्यात् । अतः श्रवणादिषु सत्सु विद्ययाऽवश्यं भाव्यं चक्षु­रा­दि­व्या­पा­रेषु सत्सु घटा­दि­प्र­मि­त्ये­वेति भावः ।
न चैवमिति ।
प्रति­ब­न्ध­क­नि­रा­सार्थं खलु यज्ञा­दि­क­म­नु­ष्ठी­यते । यदि तस्यापि प्रति­ब­न्ध­क­नि­वृ­त्ति­रू­प­स्व­फ­ल­ज­नने प्रति­ब­न्ध­का­न्तरं स्यात् , तदा तन्नि­वृ­त्त्य­र्थ­मपि कर्मा­न्त­र­म­नु­ष्ठेयं भवेत् । एवं तत्त­त्प्र­ति­ब­न्ध­क­नि­वृ­त्त्य­र्थ­म­पी­त्य­न­व­स्थे­त्यर्थः । इदमुपलक्षणं – सत्यामपि विविदिषायां विद्या­द्यु­त्प­त्ति­प्र­ति­ब­न्ध­क­क­र्म­नि­रा­सार्थं कर्मानुष्ठेयं स्यादिति ब्रह्मसंस्थायाः कदापि नावकाशः स्यादित्यपि दोषो द्रष्टव्यः ।
यज्ञा­दि­प्र­ति­ब­न्ध­क­स्येति ।
यज्ञादीनां विवि­दि­षा­श्र­व­ण­म­न­न­नि­दि­ध्या­स­न­सा­क्षा­त्का­राणां च प्रतिबन्धकानि दुरितानि संभाव्यन्ते , तत्र यज्ञा­दि­प्र­ति­ब­न्ध­कानि भोगैकनाश्यानीति भोगेन तत्क्षये सत्येव यज्ञा­द्य­नु­ष्ठा­नम् , विवि­दि­षा­दि­प्र­ति­ब­न्ध­कानि तु प्रार­ब्धा­न्य­प्रा­र­ब्धानि च द्विविधानि । यस्य सर्वाण्यपि प्रारब्धानि तस्य सत्यपि यज्ञा­द्य­नु­ष्ठाने भोगेन प्रारब्धक्षये सति जन्मान्तर एव विवि­दि­षा­दि­प्र­वृत्तिः । यस्य सर्वा­ण्य­प्य­प्रा­र­ब्धानि , तस्य तेषां यज्ञादिभिः क्षयाद् यज्ञा­द्य­नु­ष्ठा­न­ज­न्म­न्येव । यस्य तु श्रवणादिषु पूर्व­स्या­प्रा­र­ब्धानि प्रति­ब­न्ध­का­न्यु­त्त­रस्य प्रारब्धानि तस्य प्रतिबन्धकरहितं पूर्व­पू­र्व­वि­वि­दि­षा­ज­न्य­मु­त्प­द्यते प्रार­ब्ध­प्र­ति­ब­न्ध­मु­त्त­रो­त्तरं जन्मान्तर इति विवेकः । एवंच विवि­दि­ष­न्ति­वा­क्या­नु­सा­रेण कर्मणां विवि­दि­षा­सा­ध­न­त्व­व"त्क­षाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते" इत्या­दि­व­च­ना­नु­सा­रे­णा­वि­द्या­दि­प्र­ति­ब­न्ध­क­क­र्म­क्ष­य­सा­ध­न­त्व­म­प्या­चा­र्या­णा­म­भि­म­त­मिति द्रष्टव्यम् ।
प्राग्भवीयेति ।
अत एव हि केषांचिदेवेह जन्मनि गान्ध­र्व­शा­स्त्र­वि­चारे पूर्व­ज­न्म­वा­स­ना­व­शात् झटिति षड्जा­दि­सा­क्षा­त्कारो जायते नान्येषामिति भावः ।
देव­ता­प्र­णि­धा­ना­द्य­पे­क्षि­ता­या­श्चेति ।
वीणा­वा­द­न­त­त्त्वज्ञः श्रुति­जा­ति­वि­शा­रदः । ताल­ज्ञ­श्चा­प्र­या­सेन मोक्षमार्गं निगच्छति॥ गीतिज्ञो यदि योगेन नाप्नोति परमां गतिम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥२॥ इति याज्ञ­व­ल्क्य­स्मृतौ संगीतज्ञानस्य महा­फ­ल­त्व­स्म­र­णाद् देव­ता­प्र­सा­दा­पे­क्षि­तेति भावः ॥५१॥
इति षोड­श­मै­हि­का­धि­क­र­णम् ॥

एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृतेः ॥५२॥
तथा च सातिशयत्वादिति ।
निकृ­ष्टा­प­कृ­ष्ट­सा­ध­न­सा­ध्य­त्वेन सातिशयत्वसिद्धौ ततः कर्मसाध्यत्वमपि विद्याया अनुमीयत इत्यर्थः ।
तत्र तत्र साधकेष्विति ।
श्रुत्यु­प­प­त्ति­रू­पेषु बहुषु साधकेषु सत्स्वित्यर्थः ।
तर्हि स एवास्त्विति ।
निव­र्त्य­वि­शे­षो­पा­धिक एव विशे­षोऽ­स्त्वि­त्यर्थः । यद्द्वा­रे­त्या­दि­पाठे निव­र्त्य­वि­शे­ष­द्वा­रे­त्यर्थः । तर्हि सावशेष एवास्त्वित्यपि पाठान्तरम् । पाठत्रयेऽपि फलत एकोऽर्थः । अवि­द्या­का­म­क­र्मा­दि­क्षये सावशेषे अव­शि­ष्टा­व­र­ण­ता­र­त­म्येन सूक्ष्म­सू­क्ष्म­त­र­सू­क्ष्म­त­म­व­स्त्रा­वृ­त­र­वि­म­ण्ड­ल­प्र­का­श­वद् ब्रह्मा­न­न्द­प्र­काशो मोक्षे तारतम्येन भवेदिति सातिशयो मोक्ष इति पाठत्रयेऽपि तात्पर्यम् । टीका­या­म­प्य­य­मर्थो येन तद्वि­शे­षा­न्मोक्षो विशेषवान् भवतीति वाक्येन स्फुटीकृतः ।
अविशेषसंभवादिति ।
तथा चाप्र­यो­ज­क­म­नु­मा­न­मि­त्यर्थः ।
ननु स्नेह­व­र्त्यु­त्क­र्षा­प­क­र्षाभ्यां दीपज्वालाया इव श्रव­णा­द्यु­त्क­र्षा­प­क­र्षाभ्यां विद्यायाः स्वरूपतोऽपि विशेषः स्यात् सोऽत्र हेतु­रि­त्या­श­ङ्क्याह –
स्वाभा­वि­क­स्त्विति ।
भेदा­भे­द­वि­क­ल्पा­स­ह­त्व­मिति ।
अद्वै­त­श्रु­ति­वि­रो­धाद् न भिन्ना विशेषाः । अभेदे च ते न परस्परविलक्षणाः । भेदाभेदपक्षश्च दूषित इति भावः ॥५२॥
इति सप्तदशं मुक्ति­फ­ला­नि­य­मा­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य्य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले तृती­य­स्या­ध्या­यस्य चतुर्थः पादः॥
॥समाप्तश्चायं साध­ना­ख्य­स्तृ­ती­योऽ­ध्यायः॥
॥इति तृतीयाध्यायस्य निर्गु­ण­वि­द्यायां अन्त­र­ङ्ग­ब­हि­र­ङ्ग­सा­ध­न­वि­चा­रा­ख्य­श्च­तुर्थः पादः॥
॥इति श्रीम­द्ब्र­ह्म­सू­त्र­शां­क­र­भाष्ये साध­ना­ख्य­स्तृ­ती­योऽ­ध्यायः ॥