कल्पतरुपरिमलः
तदन्तरप्रतिपत्त्यधिकरणविषयाः
प्रथमः पादः॥ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥
अविरोधेनेति ।
द्वितीयाध्यायकृतेन स्मृतिन्यायश्रुतिविरोधसमाधानेन वेदान्तवेद्यं ब्रह्मेत्यस्मिन्नर्थे प्रतिष्ठिते तस्य ब्रह्मणः प्राप्तौ वेदान्तोक्तं ज्ञानं साधनमिति तत्सोपायमस्मिन्नध्याये चिन्त्यत इत्यर्थः । सोपायसाधननिरूपणमध्यायार्थः । तत्र वेदान्तमूलकं ब्रह्मज्ञानं ब्रह्मप्राप्तिसाधनमित्येतत्पुरुषार्थाधिकरणे (ब्र. अ. ३ पा. ४ सू. १) निरूपितम् । तच्च जीवाभिन्नब्रह्मविषयमित्यात्मेति तूपगच्छन्ती (ब्र. अ. ४ पा. १ सू. ३) त्यधिकरणे तत्त्वमसिवाक्यार्थगोचरस्यास्य ज्ञानस्य तत्त्वंपदार्थज्ञानपूर्वकत्वाद् द्वितीयपादे न स्थानतोऽपीत्यतः प्राक् त्वं पदार्थः शोधितः । ततः प्रभृति तत्पदार्थः शोधितः । शोधितस्य तत्पदार्थस्य तथात्वेन वेदान्तैः सिद्ध्यर्थं तस्मिन्नुपसंहरणीया विधिनिषेधरूपा धर्मा आनन्दादयअक्षरधिया (ब्र. अ. ३ पा. ३ सू. ३३) मित्यधिकरणयोर्दर्शिताः । प्रथमपादे वैराग्यरूपं , द्वितीयपादान्त्याधिकरणे परमेश्वरप्रसादरूपं , तृतीयपादे सगुणविषयाधिकरणेषु सगुणविद्यापरिशीलनरूपं चतुर्थपादे कर्मतत्संन्यासशमदमादिरूपं च तदुपायजातं निरूपितमिति विवेकः ।
पादसंगतिरिति ।
जीवोपकरणप्राणादिस्वरूपनिरूपणार्थेन पूर्वपादेन सोपकरणजीवगतागतनिरूपणार्थस्यास्य पादस्य सङ्गतिरित्यर्थः ।
भूतपरिष्वङ्ग इति ।
इदं चिन्ताप्रयोजनं भूतगमनाभावे तदाश्रयाणां प्राणानां गत्यसंभवं सूचयता प्राणगतेश्चेति (ब्र. अ. ३ पा. १ सू. ३) सूत्रेण दर्शितम् । यदि शरीरोत्पत्त्यवस्थामित्येतदनन्तरम् आहुतिजामनाहुतिमिति द्विविधः पाठः । द्विविधोऽप्युपपन्नः अग्निहोत्राहुतिप्रभवत्वाद् वस्तुत आहुतित्त्वाभावाच्च ।
अधिदैवं यजमानप्राणा इत्यन्वय इति ।
अग्न्यादयो ह्याधिदैविकयजमानप्राणाः वागादयस्त्वाध्यात्मिकयजमानप्राणाः । अत आध्यात्मिकप्राणव्यावर्तकत्वेनाधिदैवमित्येतत्प्राणविशेषणमिति भावः ।
तथापीत्यादिग्रन्थोक्तादर्थात् तथा हीत्यादिग्रन्थेनोच्यमानस्यार्थस्य नास्ति विशेषः ; उभयत्रापीष्टादिकारिणां जीवस्य च संबन्धम्मात्रप्रतिपादनाद् , अतः पुनरुक्तिरित्याशङ्क्य विशेषमाह –
श्रद्धां जुह्वतीत्यत्रेति ।
पूर्वं श्रद्धां जुह्वतीति पञ्चाग्निविद्यावाक्ये श्रद्धाशब्दलक्षितास्त्रिवृत्कृता आप एव होम्यत्वेनोक्ताः , न तासामिष्टादिकारिभिः संबन्ध उक्त इति शङ्का वारिता , इदानीमेष सोमो राजेति दक्षिणमार्गवाक्ये इष्टादिकर्तॄणां सोमराजभावमात्रमुक्तं , न तेषामद्भिः परिष्वङ्ग उक्त इति शङ्का वार्यत इत्यर्थः । श्रुतिद्वयेऽपि परस्परार्थविशेषग्रहणे सोमराजश्रुतिस्वर्गस्थानयोरैक्यमेव हेतुः ।
श्रद्धाहुतिः प्रथमा , कथं द्वितीयोक्तेत्याशङ्क्याह –
अन्त्याहुत्यपेक्षयेति ।
यजमानशरीरस्य वैतानिकाग्नावाहुतिरन्त्याहुतिः । सापि छान्दोग्ये दर्शिता "तं प्रेतं दिष्टमितोऽग्नय एव हरन्ती”ति। बृहदारण्यके तु स्पष्टमुक्ता "तस्याग्निरेवाग्निः समिदेव समि”दित्यादिना । तदपेक्षया श्रद्धाहुतिर्द्वितीयेत्यर्थः ।
चन्द्रभूयं गतश्चन्द्रलोकं गत इत्यनयोर्व्याख्यानव्याख्येयभावशङ्कां निराकुर्वन् तयोरन्वयं दर्शयति –
चन्द्रलोकं प्राप्त इति ।
न द्वितीय इत्याहेति ।
अविद्योपाधेर्व्यापकत्वेऽपि पूर्वदेहत्यागहेतुरन्तःकरणाद्युपाधिः परिच्छिन्न इति भावः ॥१॥
त्र्यणुकादेरपीति ।
तथा चोदाहृततर्कानुमानानामाभास समानयोगक्षेमतया न साधकतेत्यर्थः ।
उच्छिद्येत चेति ।
अश्वजातीयं गोजातीयेन विरुद्धं तादात्म्यायोग्यमिति या तज्जातीयानां परस्परविरोधप्रसिद्धिः सोच्छिद्येतेत्यर्थः ।
तथा सति दोषमाह –
तथा चेति ।
उक्तरीत्योरेकामाप्तादिभ्यः परिच्छिद्य प्रवृत्त्युपपत्तेरिति ।
एवमनङ्गीकारे च भूतत्वमूर्तत्वोपाध्योः समावेशाङ्गीकारादन्यत्राप्युपाधिसमावेशशङ्कया क्वचिदाप्तवाक्याद्यवगतेर्नित्यत्वादिभिरनित्यत्वाद्यभावानुमानं न सिद्ध्येदिति भावः । ननु गोत्वाश्वत्वाद्यनन्तविरुद्धजातीनां परस्परासामानाधिकरण्यमनुभूयते । तत्र च परस्परात्यन्ताभावसमानाधिकरणजातित्वमवच्छेदकं , न तु गोत्वाश्वत्वादिरूपत्वमननुगमादिति परस्परपरिहारिण्योर्जात्योरसमावेश सिद्धिः । न चैवमवच्छेदके गौरवाज्जातित्वं न प्रवेशनीयमित्युपाधिसङ्करस्यापि त्यागापत्तिः ; तथा सति घटान्यत्वपटान्यत्वयोः घटपटयोरेव परस्परपरिहारिणोरन्यत्राप्यसमावेशः स्यादिति कुड्यादीनां घटाद्यात्मकतापत्त्या उपाधिसङ्करस्य परिहर्तुमशक्यत्वेन जातिविशेषणगौरवस्य प्रामाणिकत्वादिति – चेत् , मैवम् ; किंचिद्धर्मक्रोडीकारेणानन्तव्यक्तिषु प्रवृत्त्यादिव्यवहारार्थं ग्राह्यस्य कार्यत्वकारणत्वव्याप्यत्वव्यापकत्वशक्यत्वादेरिवासामानाधिकरण्यस्यावच्छेदकापेक्षत्वाभावात् , अनुगतावच्छेदकाभावेऽप्युपाध्यसामानाधिकरण्यवज्जात्यसामानाधिकरण्यस्याप्यात्मलाभोपपत्तेः । किंच जातीनामसामानाधिकरण्यमात्रं नावद्यम् ; सर्वासामपि जातीनां यत्किंचित्समानाधिकरणत्वेन क्वचिदपि जातौ सामानाधिकरण्यसामान्याभावाभावात् । परस्परासामानाधिकरण्यं तु परस्परशब्दार्थाननुगमादननुगतम् । एवमवच्छेदकमपि परस्परात्यन्ताभावसमानाधिकरणत्वं तत एवाननुगतम् । तस्मात्परस्परशब्दार्थानुसारेण गोत्वाश्वत्वादिषु पृथक् तेन तेन रूपेणासमावेशो ग्राह्य इति पृथिवीत्वादिसंकरे न काचिदनुपपत्तिः । किंच सर्वत्र जातिसंकरस्य प्रत्याख्याने मृन्मयहिरण्मयादिघटेषु घटत्वजातेर्देवदत्तीययज्ञदत्तीयतारमन्दगकारादिषु देवदत्तीयत्वादिजातीनां कथमभ्युपगमः ? यदि पृथिवीत्वादिव्याप्यं घटत्वं नाना , गत्वादिव्याप्यानि च देवदत्तीयत्वादीनि नानेति तासु संकरपरिहारः , तर्हीहापि भूगोलके समुद्रादिषु शरीरेषु च पृथिवीत्वजलत्वादिकं नानेति तत्परिहारोऽस्तु ।
परस्परपरिहारित्वादिति ।
परस्परपरिहारि जातित्वादित्यर्थः । गुणत्वरूपत्वयोरनैकान्तिकता गोत्वाश्वत्वविवक्षापक्षे अविशेषपक्षे च समाना ।
तत्राद्यपक्षे तयोरनैकान्तिकतां विवृणोति –
गोत्वाश्वत्वे त्यजतोरिति ।
द्वितीयपक्षे तां विवृणोति –
यत्किंचिदिति ।
प्रसिद्धिसामर्थ्यादिति ।
पञ्चभूतकार्यदर्शनं प्रसिद्धिः ।
एतज्जनकत्वे सतीति ।
पक्षीकृतदेवदत्तशरीरजनकत्वसमानाधिकरणानि यान्यनुदकत्वातेजस्त्वावायुत्वानाकाशत्वानि तेषामत्यन्ताभाववद् यद्भूतं तत्समवायिकारणकमित्यर्थः ।
पृथिवीमात्रसमवायिकारणकत्वेन पराभिमते दृष्टान्ते समवायिकारणं यद्भूतं पृथिवी तस्य पक्षजनकत्वविशिष्टानुदकत्वात्यन्ताभाववत्त्वं पक्षजनकत्वरूपविशेषणाभावादित्याह –
यद्यपीति ।
पक्षे समवायिकारणानि यानि भूनानि तेषामुक्तरूपविशिष्टाभाववत्त्वं विशेष्याभावात्सिद्ध्यतीत्युदकादिभूतसमवायिकारणकत्वसिद्धिरित्याह –
एतज्जनकत्वे सतीति ।
न चानुदकत्वाद्यभावचतुष्टयवदुदकादिचतूरूपम् , एकं भूतं नास्तीति साध्यस्य पक्षे बाधः शङ्कनीयः । एतज्जनकत्वविशिष्टानुदकत्वात्यन्ताभाववद्भूतसमवायिकारणकमित्येवमादिरूपाणां चतुर्णामनुमानानां तेन साध्यनिर्देशेन सूचनादनुमानचतुष्टयेन शरीरस्य पाञ्चभौतिकत्वसिद्ध्युपपत्तेः । यद्वा – त्र्यात्मकत्वात्तु भूयस्त्वा (ब्र. अ. ३ पा. १ सू. २) दिति सूत्रे शरीरकारणानां त्र्यात्मकत्वमुक्तं , तत्पञ्चात्मकत्वस्योपलक्षणमिति शरीरकारणेषु भूतेषु प्रत्येकमुदकादिचतुरूपत्वसिद्धावपि न बाधः ॥२॥
गतिस्त्वाश्रयस्यैवेति ।
यदि जीवद्देहे गतिराश्रयस्यैव न प्राणानां , तदा मृतावपि प्राणानां गतिर्नाभ्युपगन्तव्येति न तदाश्रयभूतपरिष्वङ्गसिद्धिरिति शङ्कितुर्हृदयम् ।
एतच्छङ्कापरिहारार्थं जीवद्दशायामाश्रये गच्छति प्राणानां गतिं साधयति –
न चेत् प्राणा गच्छन्तीति ॥३॥४॥
ननु पञ्चम्यामाहुतावित्यादिटीकाग्रन्थो न युक्तः ; प्रथमाहुतावनपां होतव्यत्वेऽपि पञ्चमाहुतेरब्द्रव्यकत्वमात्रेणापां पुरुषवचस्त्वप्रकारप्रश्नोपपत्तेरित्याशङ्क्य पञ्चस्वप्याहुतिष्वपामेव होतव्यत्वं शास्त्रान्तरान्निर्ज्ञातं तदुपजीव्य प्रथमाहुतावनपां होतव्यत्वाभिधानस्यासंबन्धत्वमुक्तमित्युपपादयति –
पञ्चम्यामाहुतावपां पुरुषशब्दवाच्यत्वं यथा भवतीत्यादिना ।
ननु – शास्त्रान्तरमनपेक्ष्य प्रश्नोत्तरसंदर्भपर्यालोचनयैव पञ्चस्वप्याहुतिषु अपामनुवृत्तिर्निश्चेतुं शक्या । यदि ह्यपां पञ्चमपर्याये हूयमानानां पुरुषाकारपरिणामं वक्तुं प्रथमादिपर्यायत्वेऽपि तासामेव हूयमानानां सोमराजादिपरिणाम उक्तः स्यात् , तदानी’मिति तु पञ्चम्यामाहुता’वितीतिशब्देन प्रकारवाचिना पूर्वोक्तसर्वप्रकारपरामर्शः संगच्छते ; प्रथमादिपर्यायेष्वापः सोमराजादिभावं प्राप्य पञ्चमपर्याये पुरुषभावं प्राप्नुवन्तीत्यन्वयात् , यदि तु श्रद्धादिशब्दोक्तानामनपां सोमराजादिभाव उक्तः स्यात् , तदा पूर्वोक्तः सर्वोऽपि प्रकारोऽपां परिणामक्रमविषयो न भवतीति स न संगच्छेत ; अपां पुरुषवचस्त्वप्रकारे पृष्टे तत्प्रकारं विहाय प्राचीनपर्यायेष्वन्यदन्यदुच्यते चेदपृष्टोत्तरता स्यात् । अत एव सौत्रशङ्काभागविवरणभाष्ये श्रद्धाशब्दस्य प्रत्ययपरत्वसमर्थनानन्तरं तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति प्रश्नोत्तरयोरनुपपत्तिरेवोपसंहृतेति – चेत् , सत्यम् , एवं प्रश्नोत्तरसंदर्भपर्यालोचनया प्रतीयमानमप्यपां प्रथमाहुतिमारभ्य होमद्रव्यत्वं न प्रश्नवाक्य एव विधेयम् । आहुतिष्वपां होमद्रव्यत्वं पञ्चमाहुतौ तासां पुरुषाकारपरिणतिप्रकारश्चेत्युभयं पृष्टमिति प्रश्नवाक्यस्योभयविषयत्वकल्पने वाक्यभेदापत्तेर्विशिष्टस्य प्रश्नविषयत्वकल्पनेऽपि गौरवात् । अतः प्रश्नस्य पुरुषाकारपरिणतिप्रकाररूपविशेषणसंक्रान्तत्वसिद्ध्यर्थं विशेष्यप्राप्त्याकाङ्क्षायां तत्प्रापकं शास्त्रान्तरमुदाहृतम् ।
ननु यदि शास्त्रान्तरवशात्पञ्चस्वप्याहुतिष्वपां होतव्यतास्ति , तदा प्रथमाद्याहुतिष्वपि हूयमानानां तासां परिणतिविशेषाः संभवन्तीति तेष्वपि सत्सु तानजिज्ञासित्वा पञ्चमाहुतावेव किमर्थं विशेषो जिज्ञास्यते , इत्याशङ्क्य तदभिप्रायमाह –
तत्र प्रथमाद्याहुतिष्वपीति ।
यैव पञ्चम्याहुतिरिति ।
यदेव पञ्चमाहुतिद्रव्यं तदेव प्रथमाद्याहुतिष्वपि द्रव्यमिति तावच्छास्त्रान्तरान्निश्चितम् । तत्र प्रथमाहुतिमारभ्य हूयमानानामपां पञ्चमाहुतौ केन प्रकारेण पुरुषाकारपरिणाम इति प्रश्ने जिज्ञासितप्रकारविशेषान्तर्गततया प्रथमाद्याहुतिपरिणतिक्रमोऽपि पृष्टो भवतीति पञ्चमाहुतिविशेषमात्रविषयः प्रश्न इत्यर्थः ॥५॥
आहुत्योऽपूर्वरूपा इति ।
ननु – आहुतिजन्यापूर्वं आत्मगुणरूपं जलाद्याहुतिद्रव्यजन्यमपि न जलादिरूपमिति तत्परिवेष्टनोक्त्या न भूतपरिष्वङ्गसिद्धिः । तत्सिद्धावपि तत्परिवेष्टनं भाष्यटीकयोरन्त्याहुत्यनन्तरमुक्तमिति नोत्क्रमणकालमारभ्य प्राणगतिनिर्वाहकस्य भूतपरिष्वङ्गस्य सिद्धिरिति – चेत् , उच्यते ; अपूर्वरूपा इत्यनेन सूक्ष्मरूपा इति विवक्षितं , न त्वात्मगुणरूपा इति ; कर्मणामीश्वरप्रसाद एव द्वारमिति सिद्धान्ते यावत्फलं स्थाय्यदृष्टरूपद्वाराऽनङ्गीकारात् । भाष्यटीकयोरन्त्याहुतिकथनं नान्त्याहुत्यनन्तरमद्भिः परिवेष्टनमित्येतदभिप्रायं , किंतु यजमानस्य शीघ्रं परलोकनयनार्थमन्याहुत्यपेक्षाभिप्रायम् ; उपकोसलविद्यायामर्चिरादिमार्गप्राप्तिरस्तीत्युक्तिसामर्थ्यादन्येषां शवकर्माकरणे शीघ्रं मार्गप्राप्तिर्नास्तीति सूचनेनोपासनान्तरनिष्ठानां कर्मिणां च झटिति मार्गप्राप्त्यर्थमन्त्येष्ट्यपेक्षणस्य पदभाष्ये भाष्यकारैरुक्तत्वात् ।
आहुतिगत्यागतिसाम्याद् दृष्टान्तत्वमिति ।
एतेनेयमपि शङ्का निरस्ता - षट्प्रश्ननिरूपणे अग्निहोत्राहुतिसूक्ष्मरूपैः संपरिष्वक्तस्य जीवस्योर्ध्वगमनं नोच्यते , किंतु तेषामेवाहुत्युद्देश्यदेवतातृप्त्यर्थं तत्तल्लोकं प्रत्यूर्ध्वगमनमुच्यते ; "ते अन्तरिक्षं तर्पयतः ते दिवं तर्पयत" इति वाक्यशेषात् , तस्मादाहुतिसूक्ष्मांशा जीवं संवेष्ट्य परलोकं नयन्तीत्यत्र नेदमुदाहरणम् – इति। तथापि भूतसूक्ष्माणां द्युपर्यन्तोत्क्रमणं पुनरावर्तनं चास्तीत्येतावत्यंशे दृष्टान्तताया अवैकल्यात् । प्रौढ्या विध्यैक्यमुपेत्येति विद्याभेदवादिनां परितोषार्थमुक्तम् । वस्तुतस्तु – विद्यैक्यमुपपद्यते एव ; द्युपृथिवीपुरुषयोषिदग्निकल्पनाप्रत्यभिज्ञानाद् , योषिदग्निपर्याये पुरुषाकारपरिणतिप्रत्यभिज्ञानाच्च । अथ वाऽऽहुतिश्रवणयोः सामान्यविशेषभावेनैकार्थपर्यवसानोपपत्तेः एकैकत्रानुक्तानां विशेषाणां परस्परोपसंहारोपपत्तेः अन्तरिक्षपर्जन्ययोः परस्परोपसंहारेणाग्नीनां पञ्चसंख्यातिरेकेऽपि "अथह एतानेव पञ्चाग्नीन्वेदेति" पञ्चसख्याभिप्रायेणोपपत्तेः । अन्यथा तस्याग्निरेवाग्निः समिदेव समिदित्यादिना बृहदारण्यकोक्तस्य षष्ठाग्नेरप्यनुपसंहारप्रसङ्गात् , एकस्यामेव वाजसनेयिशाखायां शाण्डिल्यविद्याया इव पञ्चाग्निविद्याया अपि उभयत्र संकीर्तनस्य विशेषविधानार्थत्वोपपत्तेः , बहुतरार्थप्रत्यभिज्ञानेऽपि किंचिद्वैलक्षण्यादिमात्रेण विद्यैक्यपरित्यागे क्वचिदपि विद्यैक्यासिद्धिप्रसङ्गाच्च । न च – तर्पयत इत्युक्त्या देवतातृप्त्यर्थम् आहुत्योरुत्क्रमणं संकीर्त्यत इति – शङ्कनीयम् ; अग्निहोत्राहुत्योरन्तरिक्षस्य दिवस्तत्तल्लोकस्थितप्राणिनां वोद्देश्यदेवतात्वाभावेन तेषां तर्पणीयत्वायोगात् । तस्मात्ते देवा भक्षयन्तीति श्रुत्युक्तप्रकारेणाजानदेवानां कर्मदेवा भृत्या इत्यग्निहोत्राहुती भृत्यानयनेन तत्तल्लोकस्थितानाजानदेवान् प्रीणयत इत्येवमभिप्रायं तर्पयत इति वाक्यद्वयमपि योज्यते ।
अग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेष्विति ।
यथा छान्दोग्ये अपां पुरुषशब्दवाच्यप्रकारमात्रविषयतया प्रतीयमानस्यापि प्रश्नस्याग्निसमिद्धूमादिविषयत्वमपि कल्प्यते ; अन्यथा प्रश्नोत्तरवैयधिकरण्यापत्तेः , एवमत्रापि श्रवणोपसंहाराभ्यामग्निसमिद्धूमादिषट्स्वप्युत्तरवाक्यगतेषु सत्सु तावत्पर्यन्तं प्रश्नवाक्यानामभिप्रायः कल्पनीय इति भावः ॥६॥
यथेति शेष इति ।
मूले – यथा सोमस्येति यथाशब्दयुक्तपाठे तु न शेषाध्याहारः । ननु क्रियासमभिहारविवक्षायां तस्य तस्य धातोर्द्विर्भावोऽनुप्रयोगश्च प्राप्नोति ; तत्सूत्रवार्तिके द्विर्भावानुशासनाद् , यथाविध्यनुप्रयोगः पूर्वस्मिन्निति सूत्रेण तस्य धातोरनुप्रयोगनियमाच्च । नैष दोषः ; आप्यायनापक्षययोः प्रत्येकं पौनःपुन्यं समुच्चयश्चेत्युभयविवक्षोपपत्तेः । उभयविवक्षायां हि समुच्चयविवक्षाप्रयुक्तमेव कार्यं भवति ; विप्रतिषेधे परं कार्यमिति स्मरणात् । प्रपञ्चितश्चायमर्थः प्रथमसूत्रे जायस्व म्रियस्वेति श्रुत्यर्थकथनावसरे ।
युक्ततरश्चायमर्थ इति ।
युक्ततरत्वोक्तेरभिप्रायं न विद्मः । यद्यप्येष सोमो राजेत्यत्र सोमो राजेति शब्दावादित्याच्चन्द्रमसमिति प्रस्तुतचन्द्रपरौ ; तयोस्तत्र लोकवेदप्रसिद्धत्वात्तद्देवानामन्नमिति च तस्मिन् प्रथमां पिबते वह्निरित्यादिप्रसिद्धं देवान्नत्वमुच्यते , तं देवा भक्षयन्तीत्येतदपि स्वर्गं प्राप्य कर्मदेवरूपा इष्टादिकारिणोऽपि तं भुञ्जत इत्येवं तेषां त्रैविष्टपभोगकथनार्थम् । एवं च ते धूममभिसंभवन्तीति बहुवचनान्तशब्देन प्रकृतानां देवा इति बहुवचनान्तशब्देन परामर्शः । चन्द्रमसमित्येकवचनान्तेन प्रकृतस्य चन्द्रस्य सोमो राजेत्येकवचनान्तेन परामर्श इत्येतदप्युपपद्यत इति प्रतिभाति ; तथाप्येष सोमो राजेत्येतस्य प्रकृतेष्टादिकारिपरत्वमेव युक्तम् । पञ्चाग्निविद्यावाक्ये सोमो राजेति श्रुतस्य प्रथमाहुतितः संभवस्य द्वितीयाहुतौ होतव्यत्वस्य चेष्टादिकारिणीव चन्द्रेऽन्वयसंभवात्पञ्चाग्निविद्यावाक्ये पितृयाणवाक्ये च श्रुतयोः सोमराजशब्दयोः श्रुतिस्थानसामान्याभ्यामेकार्थ्यावश्यम्भावात्तदुपजीवनेनैव भूतपरिष्वक्तजीवरंहणस्याश्रुतत्वा ( ब्र. अ. ३ पा. १ सू. ६ ) दिति सूत्रेण समर्थितत्वाच्च । किंच छान्दोग्ये सोमो राजेति प्राप्यस्य सोमस्य प्राधान्येन प्रकृतत्वोक्त्या एतांस्तत्र भक्षयन्तीति श्रुत्यन्तरस्यैतानित्यस्य चन्द्रलोकपरत्वे का युक्तिर्दर्शिता स्यात् ? छन्दोगश्रुत्यर्थे श्रुत्यन्तरस्यापि पर्यवसानं स्यादिति युक्तिरिति चेन्न ; श्रुत्यन्तरे ते चन्द्रं प्राप्यान्नं भक्षयन्तीति कर्मिणामेवान्नभावश्रवणं प्राधान्येन प्रकृतत्वं चास्तीति तत्र कर्मिणामेवान्नत्वं भक्ष्यत्वं चोच्यत इति तदनुसारेण छन्दोगश्रुतावपि अन्नत्वभक्ष्यत्वश्रवणस्य तद्विषयत्वस्थितौ तन्निर्वाहार्थं पञ्चाग्निविद्यागतसोमराजशब्दैकार्थ्यनिर्वाहार्थं च छान्दोग्ये पितृयाणवाक्यगतसोमराजशब्दस्यैवेष्टादिकारिपरत्वप्राप्तेः , चन्द्रवाचकस्याप्यमृतमयदेहत्वरूपचन्द्रसादृश्यविधानार्थत्वेन देवभोग्यत्वरूपतत्सादृश्यविधानार्थत्वेन चेष्टादिकारिषु गौणतोपपत्तेः । बहुष्वप्येकवचनस्य ग्रहं संमार्ष्टि पत्नीं सन्नह्येत्यादिष्विव प्रतिव्यक्तिगतैकत्वानुवादकतोपपत्तेश्च । तस्मादस्या युक्ततरत्वोक्तेरभिप्रायोऽन्वेषणीयः ॥७॥
इति प्रथमं तदन्तरप्रतिपत्त्यधिकरणम्॥
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥
एकभविकनयादिति ।
प्राणस्य सकलकर्मशक्त्यभिव्यञ्जकत्वादभिव्यक्तशक्तिभिः कर्मभिः प्राणानन्तरभाविन्येकस्मिन्नेव शरीरे फलजननावश्यंभाव एकभविकनयः ।
सम्यग्ज्ञानस्य नैष्फल्यमिति ।
न च – आचारेणान्यकृतेन कर्मणा वा जातस्य पुनरपि देहान्तरापादनीयकर्मपरम्परा प्रतीयेतेति न सम्यग्ज्ञाने नैष्फल्यमिति – वाच्यम् ; तिर्यग्योनिजातस्य कर्मानुष्ठानसामर्थ्यात्प्रागेव मृतस्य वा तेन देहेनाचारान्यकृतकर्मणोरपि क्षपणेन सम्यग्ज्ञाननैष्फल्यं स्यादिति भावः ।
लोके तथोपलम्भादिति ।
कर्मणामुत्तरदेशसंयोगादिफलविनाश्यत्वदर्शनादित्यर्थः ।
स्वर्गादवरोहतामिति कथमवगम्यत इति ।
तृतीयस्थानादवतीर्णानां दृश्यमानं भोगवैचित्र्यमस्तु , अतः स्वर्गादवरोहतां न तद्धेत्वनुशयसिद्धिरिति शङ्काभिप्रायः । स्वर्गादवरोहतां कपूयरमणीयानुशयश्रवणात्तेषामपि तत्कृतं भोगवैचित्र्यं भवेदिति परिहाराभिसंधिः । यद्यप्ययमभिसंधिरित्यादिटीकाग्रन्थोऽन्यकृतकर्मणा ब्राह्मणादिदेहप्राप्तिरिति पूर्वपक्षस्य कपूयचरणा इत्यादिबहुव्रीहिप्रतिपाद्ये मतुबर्थे कर्मसंबन्धे मुख्यसाक्षात्संबन्धरूपे संभवत्यमुख्यपरम्परासंबन्धरूपः स नाश्रयणीय इति युक्त्या निराकरणार्थः प्रतीयते ; तथापि भाष्योक्तं भोगवैचित्र्यमन्वर्थोपपत्तिनिराकरणेनोपपादयितुं प्रवृत्तस्य टीकाग्रन्थस्य तदप्यानुषङ्गिकं प्रयोजनमिति तात्पर्यम् ।
निमित्तत्वमिति ।
सायंप्रातः कालावच्छिन्नजीवनं निमित्तमिति निमित्तसंकोचकतया निमित्तकोट्यनुप्रविष्टत्वमित्यर्थः । पृथग् निमित्तनैमित्तिकसंकोचकत्वानुपपत्तेः अभ्यासोऽकर्मशेषत्वा (जै. अ. ६ पा. २ सू. २३) दिति पूर्वतन्त्राधिकरणे सायंप्रातःकालयोर्जीवनविशेषणतया निमित्तसंकोचकत्वस्यैवोक्तत्वाच्च ।
उपमिमान इति ।
उत्प्रेक्षमाण इत्यर्थः । वर्णनीयपुरं हि शेषपुण्यकृतकल्पितद्युखण्डतादात्म्येनोत्प्रेक्ष्यते , न तु तथाभूतेन केनचित् द्युखण्डेनेदं सदृशमित्युपमीयते ।
भुवि भोगमिति ।
यस्य कर्मणः स्वर्ग एव फलमुक्तं , तद्विषया भुवि भोगाभावोक्तिः । यस्य तु कर्मणः स्वर्गभोगानन्तरं भुव्यपि फलमनेकजन्मानुयायि श्रुतं , तस्य श्रुतिवशाद्भुव्यपि फलं भवन्न निवार्यते ॥८॥९॥
आचारस्य यागादिवदिति ।
भाष्ये पुरुषार्थत्वोक्त्या यागादिवदाचारस्य स्वतन्त्रपुरुषार्थसाधनत्वं नोक्तं , किंतु पुरुषसंस्कारत्वमुक्तमित्याहेत्यर्थः ।
वाक्येन पुरुषधर्मत्वप्रतीतेरिति ।
जञ्जभ्यमान इति कृत्प्रत्ययान्तेन जृम्भणकर्ता पुरुष उच्यते कर्ता ; कर्तरि कृदित्यनुशासनात् , ततस्तत्समभिव्याहाररूपेण वाक्येन मन्त्रवचनस्य पुरुषार्थत्वमवसीयते , तन्निर्वाहाय प्राणापानावेवात्मन् धत्तइत्यर्थवादावगतं चिरजीवित्वं फलमुखेन विपरिणमनीयम् । तीर्थे स्नातीत्यत्र यद्यपि शब्दतस्तीर्थस्नानकर्ता न प्रतीयते , आख्यातस्य कर्तृसंख्यामात्रवाचित्वात् ; तथापि स्नानं मलापकर्षणार्थं तीर्थविशेषणं सुखावतरणार्थमिति लिङ्गात्तीर्थस्नानमपि तत्कर्तृपुरुषार्थतयाऽवगम्यते । अतस्तत्रापि तीर्थमेव समानानां भवतीत्यर्थवादश्रुतफलविपरिणामः कार्य इति भावः । एवं च मूले वाक्येनेति शब्दो लिङ्गस्याप्युपलक्षको द्रष्टव्यः ।
गुणकर्म तु स्यादिति ।
पुरुषसंस्कारकतयेति भावः ।
तच्च न पुरुषमात्र इति ।
यथा व्रीहिप्रोक्षणं न व्रीहिमात्रे विधीयते ; वैयर्थ्यात्फलान्तरकल्पने गौरवाच्च , किंत्वपूर्वसाधनेषु व्रीहिष्विति प्रकृतक्रत्वपूर्वसाधनत्वलाभार्थमतिप्रबलयापि श्रुत्या प्रकरणमपेक्षितमभ्यनुज्ञायते । एवमिहापीति क्रतुयुक्तपुरुषसंस्कारौ स्नानमन्त्रवचने , यथा क्रतुयुक्तव्रीहिसंस्कारः प्रोक्षणमिति भावः ॥१०॥११॥
कदाचित्सुकृतं कर्मेति श्लोके सुकृतशब्दं दुष्कृतसाधारण्येन व्याचष्टे –
सुष्ट्वभिमानपूर्वकं कृतमिति ॥
इति द्वितीयं कृतात्ययाधिकरणम् ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥इष्टादिकारिणां प्रतीतेरित्युक्तमित्यादिना व्यवहिताधिकरणसंबन्ध उक्तः । अव्यवहिताधिकरणसंगतिमाह –
यत्किंचिद्यावच्छब्दयोरिति ।
यथोपात्तमनुष्येष्विति ।
पुरुषशब्दो मनुष्यवाचित्वेन नैघण्टुकैः स्मृत इति भावः ।
टीकायामसौ लोक इति स्थाने असौ मार्ग इत्यपि पाठान्तरं दृश्यते , तद्व्याचष्टे –
न्यायसाम्यादिति ।
गन्तव्यलोकासंपूरणे मार्गासंपूरणमप्यर्थसिद्धमित्यर्थः ।
भोगवैषम्यमर्थाद्गम्येत इति ।
परमते दुष्कृतिनां चन्द्रमण्डलारोहोऽस्ति, तेषां सुकृतिभिर्भोगसाम्यं स्यात् ; तत्त्वयुक्तमिति शङ्कां भोगवैषम्यप्रदर्शनेन निराकृत्य पूर्वपक्षोपपादनार्थमिदं सूत्रं , तत्र भोगवैषम्यं शब्दतो न प्रतीयते , किंतु संयमन इति स्थानविशेषकीर्तनेनार्थात्सिद्ध्यति। न च यदर्थं सूत्रप्रवृत्तिस्तस्य शाब्दत्वे संभवति आर्थत्वं वक्तुं युक्तं । तस्माच्चन्द्रमण्डलारोहावरोहपूर्वपक्षनिरासस्तुशब्दार्थ इति सिद्धान्तसूत्रत्वमेव वक्तुं युक्तमित्यर्थः । ननु पूर्वपक्षसूत्रत्वेऽपि तुशब्दो भोगसाम्यशङ्काव्यावृत्यर्थं इति विवक्षितार्थः शाब्दो भवत्येव , मैवम् ; सिद्धान्तसूत्रतायामनिष्टादिकारिणां संयमनेऽनुभूय प्रत्यवरोहणमित्येतदनन्तरं भाष्ये एवं भूतारोहावरोहाविति सूत्रशेषयोजनया न तु चन्द्रमण्डलारोहावरोहाविति तु शब्दार्थः स्पष्टं प्रतीयते । परमते भोगवैषम्यस्य शब्दार्थत्वाभावात् तत्प्रतिद्वन्द्विभोगसाम्यशङ्कानिरासस्तुशब्दार्थतया स्पष्टं न प्रतीयत इति वैषम्यसद्भावात् । ननु – स्पष्टमप्रतीयमानोऽपि स एव तु शब्दार्थो वक्तव्यः ? अन्यथा विद्याकर्मणोः ( ब्र. अ. ३ पा. १ सू. १७ ) इति सूत्रस्य सिद्धान्तारम्भसूत्रत्वाभावे तद्गततुशब्दस्य वैफल्यप्रसङ्गादिति – चेन्न ? अत्रत्यतु शब्देन दुष्कृतिनां चन्द्रमण्डलारोहावरोहशङ्काया भोगराहित्येन नैष्फल्यान्निरासे सति सर्वे चन्द्रमसं गच्छन्तीति श्रुतिमवलम्ब्य पुनस्तच्छङ्कोत्थितौ मार्गद्वयभ्रष्टानां तृतीयस्थानोक्तिहेतुना सर्वशब्दसंकोचावश्यंभावप्रदर्शनेन तन्निरासार्थतया भाष्यएव तत्रत्यतुशब्दस्य व्याख्यातत्वात् ।
चन्द्रमण्डलादवरोह इति चाध्याहारापेक्षा स्यादिति ।
परमते हि प्रथमं चन्द्रमण्डलारोहः ततस्तस्मादवरोहस्तद्द्वारा संयमनं प्राप्यानुभूयावतरणमिति हि सूत्रार्थः । तथा च संयमनेऽनुभूय प्रत्यवरोहणमित्येतावत्यंशे मतद्वयेऽपि सूत्रयोजनायाः साम्येऽप्यारोहावरोहावित्यत्र स्वमते श्रुतस्यैव संयमनस्यारोहणीयत्वम् अवरोहापादानत्वं च । परमते तु अध्याहृतस्य चन्द्रमण्डलस्येति विशेष इत्यर्थः ।
अण्डजमित्यादिविभागो न युक्तः , अण्डजादीनामपि जीवजत्वादित्याशङ्क्य , यज्जीवदवस्थाज्जायते तज्जीवजं विवक्षितम् , अण्डजादिकं तु किंचिन्मृतादेव जायते , किंचिदचेतनादेव भूतलाज्जलाद्वा जायते , अतो विभागो युक्त इत्याह –
अण्डजं हि किंचिदिति ॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥
इति तृतीयमनिष्टादिकार्यधिकरणम् ॥
साभाव्यापत्तिरुपपत्तेः ॥२२॥
न तु भवतिश्रुतेः सादृश्यलक्षणार्थत्वेऽस्ति निमित्तमिति ।
यद्यपि वायुर्भूत्वा धूमो भवतीत्यादिवाक्येषु वायुधूमादिशब्दानां तत्तत्सदृशे गौणी वृत्तिरित्यपि वकुं शक्यम् ; तथापि तद्भावस्तत्सादृश्येनौपचारिको व्याख्येय इति सिद्धान्तटीकानुसाराद्वाय्वादिसादृश्यं वाय्वादिभवनत्वेनोपचरितमित्यभिप्रेत्य सिद्धान्ते भवतिश्रुतेर्लक्षणोक्ता ।
वाक्यशेषान्निर्णयेनेति ।
अवरोहतां सूक्ष्मशरीरस्य क्रमेणाकाशवायुभावापत्तौ तदनुप्रवेशे कर्मतयाऽप्याकाशं वायुमिति द्वितीयानिर्देश उपपद्यते । धूमो भवतीत्यादिनिर्देशस्तु देवो भवति मनुष्यो भवतीत्यादिनिर्देशवत्तत्तच्छरीरकत्व एवोपपद्यत इति व्यवस्थितार्थेन वाक्यशेषेण व्यवस्थितार्थस्योपक्रमस्य निर्णयो विवक्षितः । गङ्गायां घोष इत्यत्र गङ्गाशब्दस्य तीरे गङ्गासंबन्धितीरत्वेन लक्षणा , न तु तीरत्वसामान्येन ; गङ्गायां घोष इति वाक्यश्रवणानन्तरं घोषं जिगमिषोर्विशिष्य गङ्गातीरे प्रवृत्तिदर्शनादित्येकं मतम् । तीरत्वेनैव लक्षणा , तस्य गङ्गासंबन्धस्त्वर्थात्सिद्ध्यति , मुख्यार्थासंबन्धिनो लक्ष्यत्वायोगादित्यपरं मतम् । अग्निर्माणवक इत्यत्र मुख्यार्थसादृश्यरूपपैङ्गल्यविशिष्टे माणवके गौणी वृत्तिरित्येकं मतम् । अग्निशब्दस्य माणवकवृत्तिपैङ्गल्यमात्रे लक्षणा , तदविनाभावाद्धर्मिप्रतीतिः , सैव गौणी वृत्तिरित्यपरं मतम् ।
तत्र लक्षणागौणवृत्योर्द्वितीयमताश्रयणेन भेदमाह –
लक्षणायामिति ।
आकाशसदृशा भवन्तीति सूक्ष्मतापत्तिः सादृश्यं ।
गमनकाले यो धूम आसीदिति ।
यद्यपि धूममात्रं श्रुतम् ; तथापि गमनकालोक्तप्रत्यभिज्ञानादेवमुक्तम् । एवमुक्तिश्चाकाशवद्धूमस्यापि पूर्वसिद्धतया ताद्रूप्येणानुशयिनां सूक्ष्मशरीरस्य परिणामो न संभवतीति न्यायसाम्यसूचनार्थम् । एवमाकाशवाक्ये धूमवाक्ये च ताद्रूप्येण परिणत्यसंभवात् तत्सादृश्यार्थकत्वव्यवस्थितौ वाक्येष्वपि तथैवार्थव्यवस्था सिद्ध्यतीति तात्पर्यम् ।
तत्तुल्यो भवतीति ।
वायुस्वभावानुवृत्तिवद्धूमादिस्वभावानुवृत्तिस्तेन तेन तुल्यता ॥२२॥
इति चतुर्थं साभाव्यापत्त्यधिकरणम् ॥
नातिचिरेण विशेषात्॥२३॥आकाशादिष्वनुशयिनां चिरमचिरं वाऽवस्थानमिति विशये नियमकारिणः शास्त्रस्याभावाद् अनियम इति पूर्वपक्षो भाष्ये दर्शितः , स न युक्तः ; व्रीह्यादिषु चिरावस्थानश्रुतिबलादाकाशादिष्वचिरावस्थानलाभादित्याशङ्क्य टीकाकारैस्तदुपपादनं कृतम् – दुर्निष्प्रपतरशब्दो न चिरावस्थानवाचकः किंतु दुःख निष्क्रमणवाचकः । अतस्तद्वशादाकाशादिभ्यः सुखनिष्क्रमणं लभ्यते , न तु चिरावस्थानमिति । एवं पूर्वपक्षोपपादनमपि न युक्तम् ; व्रीह्यादिभावेऽनुशयिनां दुःखसद्भावस्यानन्तराधिकरणे निषेत्स्यमानतया दुर्निष्प्रपतरमित्यस्य लक्षणया विलम्बपरत्वादित्यपरितोषादाचार्यैः सामान्यतो दृष्टावलम्बनपूर्वपक्षं प्रदर्श्य तस्य श्रुतार्थापवादः सिद्धान्ते वर्णितः । सामान्यतो दृष्टमात्रावलम्बनः पूर्वपक्षस्तुच्छ इति तत्राप्यपरितोषादाचार्यैः पूर्वपक्षस्येत्थमुपोद्बलनं कृतम् । अतो वै खल्वित्यत्रातःशब्दः प्रकृतानामाकाशादीनां सर्वेषां परामर्शक इति सर्वेष्वपि तेषु चिरावस्थानं श्रुतित एव प्रतीयते तदनुग्राहकमनुमानमिति। अतःशब्दः समनन्तरवाक्योक्तान् व्रीह्यादीनेव परामृशेद् , न व्यवहितानाकाशादीन् ; सर्वनामस्वाभाव्यात्तथा च व्रीह्यादिषु चिरावस्थानश्रुतिसामर्थ्यादाकाशादिष्वचिरावस्थानलाभात्तद्बाधितमनुमानमिति सिद्धान्तो वर्णितः । वस्तुतस्तु – यथाभाष्यमनियमपूर्वपक्ष एव दृढः । "अतो वै खलु दुर्निष्प्रपतरमिति” वाक्येन व्रीह्यादिषु चिरावस्थाननियमो बाध्यते न तत्सत्तामात्रम् ; चिरमचिरं वेत्यनियतस्य चिरावस्थानस्य व्रीह्यादिष्ववस्थानोक्त्यैव लब्धत्वेन तस्याविधेयत्वात् । तथा च विशिष्य व्रीह्यादिषु चिरावस्थाननियमप्रतिपादनसामर्थ्यादाकाशादिभ्यश्चिरावस्थाननियम एव व्यावर्तते , न त्वनियतं चिरावस्थानमपि । अत एवार्धमन्तर्वेद्यर्धं बहिर्वेदीति पूयमानदेशविधावन्तर्वेदीत्येव विधिस्तत्सामर्थ्यादर्धान्तरं बहिर्वेदीति लभ्यते । अतोऽर्धं बहिर्वेदीत्यनुवाद इति पूर्वपक्षे दूषणमुक्तम् "तथा यूपस्य वेदि" (ब्र. अ. ३ पा. ७ सू. १३) रित्यधिकरणे अर्धमन्तर्वेदीति नियमविधिसामर्थ्यादर्धान्तरादन्तर्वेदिनियम एव व्यावर्तते , नान्तर्वेदिस्वरूपमित्यर्धान्तरमन्तर्वेदिबहिर्वेदिवेत्यनियमः प्राप्नोति , न तु बहिर्वेद्येवेति नियमो लभ्यते । अतोऽर्धं बहिर्वेदीत्यनुवाद इति पूर्वपक्षे पाक्षिकानुवादोऽयं स्यादिति नित्यवच्छ्रवणविरोधः , तत्परिहारायार्धं बहिर्वेदीत्यपि विध्यन्तराश्रयणे वाक्यभेदः , तस्मादन्तर्वेदिबहिर्वेदिशब्दाभ्यां लक्षितोऽन्तरालदेशो विधीयत इत्यङ्गीकर्तव्यमिति। एवं प्राप्तस्य पूर्वपक्षस्य निरासप्रकारोऽपि भाष्य एव विशेषादिति सौत्रपदव्याख्यानेन स्पष्टीकृतः । स इत्थम् । दुर्निष्प्रपतरमिति तरप्प्रत्ययार्थस्यातिशयस्य प्रतियोग्याकाङ्क्षायां प्रागनुक्रान्तानाम् आकाशादीनां बुद्धिसन्निधानात्तत्प्रतियोगित्वेनान्वयः स्यात् । तथा च व्रीह्यादिष्वाकाशाद्यपेक्षा चिरमवस्थानोक्तावाकाशादिष्ववस्थानस्य तदपेक्षयाऽल्पकालत्वं पर्यवस्यतीति। ननु – असिद्धस्तरप्प्रत्ययस्तकारलोपवद्रेफोपजनस्यापि छान्दसस्य वक्तुं शक्यत्वादिति – चेन्न ; उभयथासंभवेऽर्थातिशयसिद्ध्यर्थं तकारलोपेन तरप्प्रत्ययसद्भावस्यैवाश्रयितुं युक्तत्वात् , दुरुपपदात् पतिधातोः खलर्थे डप्रत्यये सति दुर्निष्प्रपतरमिति रूपसिद्धौ विनैव तकारलोपं तरप्प्रत्ययान्तत्वस्य निर्वक्तुं सुकरत्वाच्च । "अन्येष्वपि दृश्यत" इति जनेरुपपदान्तरेषु डप्रत्ययविधायकसूत्रे "अन्येभ्योऽपीति दृश्यत" इति वक्तव्यमिति वार्तिककृता धात्वन्तरेभ्योऽपि डप्प्रत्ययस्यानुशिष्टत्वात् , तत्र दृशिग्रहणं सर्वोपाधिव्यभिचारार्थमिति वृत्तिकारेणोक्ततया कृत्यल्युटो बहुलमिति बहुलग्रहणादन्येऽपि कृतः प्राप्तमभिधेयं व्यभिचरन्तीति तेनैवोक्ततया च तस्य डप्रत्ययस्य खलर्थवृत्तित्वोपपत्तेश्च । एतेनातः शब्दः संकोचकाभावादाकाशादिसर्वपरामर्शक इति शङ्कापि निरवकाशीकृता ; आतिशायनिकप्रत्ययार्थप्रतियोगित्वेनान्वयिताया वक्तव्यत्वेन तस्याव्यवहितव्रीह्यादिमात्रपरत्वावश्यंभावाद् व्रीह्यादिभ्यो दुर्निष्प्रपतरत्वोक्तिसामर्थ्यादाकाशादिभ्योऽपि दुर्निष्प्रपतरत्वमात्रमस्तीति तेष्वपि चिरावस्थानावगमात् सूत्रे नातिचिरेणेत्यतिचिरावस्थाननिषेधः कृतः इत्यास्तां विस्तरः ।
कथं तत्रापि चिरावस्थानेन पूर्वपक्ष इति ।
चिरावस्थानस्य कोट्यन्तरतया प्रवेशनेन कथं पूर्वपक्ष इत्यर्थः । भाष्योक्ते ह्यनियमपूर्वपक्षे चिरावस्थानमपि कोट्यन्तरत्वेन प्रविशति।
व्यवधानादिति ।
विलम्बे दुरुपसर्गस्याप्रसिद्धत्वेन साक्षाद्वाचकतया तस्मिन्नप्रवृत्तेरित्यर्थः ॥२३॥
इति पञ्चमं नातिचिराधिकरणम् ॥
अन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥
ननु क्रतुप्रकरणस्थेति ।
यथा खल्वामतकं कोष्ठे कफं हन्तीति वाक्यस्येष्टसाधनत्वं विषयः कण्ठे कफं करोतीति वाक्यस्यानिष्टसाधनत्वं विषय इति विषयभेदादविरोधः , एवं विधिनिषेधयोरविरोधश्चेत्तर्हि क्रतुहिंसा विहितापि निषिद्धेति वक्तव्यम् । ततश्च क्रतुमध्ये निषिद्धानुष्ठाने कथं क्रतुवैगुण्यं न स्यादिति शङ्कार्थः ।
न हि क्रतुशेषः प्रतिषेध इति ।
यथा कलञ्जभक्षणप्रतिषेधस्य क्रतुशेषत्वाभावात्कलञ्जभक्षणेन न क्रतोर्वैकल्यम् , एवं हिंसानिषेधस्यापि क्रतुशेषत्वाभावाद्धिंसया न क्रतोः साकल्यमेव , किंतु क्रतुसाकल्यलोभात्पुरुषार्थनिषेधमतिक्रामतः पुरुषस्य परं प्रत्यवाय इति परिहारार्थः ।
एवं विहिताया अपीति ।
यथेष्टसाधनत्वबोधनास्पदमेव तक्रपानमनिष्टसाधनत्वबोधनस्याप्यास्पदम् , एवं विहितैव हिंसा यदि निषेधस्यापि गोचरा स्यात्तर्ह्येव सा दुःख फला स्याद् , नत्वेवं निषेधस्य पुरुषार्थहिंसामात्रविषयत्वादित्याहेत्यर्थः ।
ननु पुरुषार्थहिंसाया एव निषेध्यत्वादिति हेतुसाधनाय प्रवृत्ते तथाहीत्यादिटीकाग्रन्थे हिंसानिषेधस्यानृतवदननिषेधवत् क्रतुप्रकरणाम्नानाभावात् क्रत्वर्थहिंसा न निषेध्येत्येतावति वक्तव्ये यदर्थं निषेध्यं तदर्थो निषेध इति निषेध्यनिषेधयोरेकविषयत्वनियमोक्तिः क्वोपयुज्यत इत्याशङ्क्य तदुपयोगं दर्शयन्नवतारयति -
क्रत्वर्थो हि प्रतिषेध इति ।
अयमाशयः क्रत्वर्थपुरुषार्थोभयविधस्य हिंसामात्रस्य पुरुषार्थो निषेध इति सांख्यमतेन खल्वत्र पूर्वपक्षः कृतः । न तन्मतं युज्यते । निषेध्यनिषेधयोरेकविषयत्वनियमेन निषेधस्य पुरुषार्थत्वे निषेध्यहिंसाया अपि पुरुषार्थत्वावश्यंभावादित्येवं नियमकथनस्य सांख्यप्रक्रियानिराकरणेन हेतुसिद्ध्युपयोगित्वं तावत् स्पष्टमेव , तर्हि नियमाऽविरोधाय निषेध्यनिषेधावुभावपि क्रत्वर्थौ स्ताम् , एवमपि पुरुषार्थाया एव निषेधादिति हेतोरसिद्धिर्भवेदिति शङ्कोत्थानेऽपि नियमवर्णनस्यास्त्युपयोगः , तस्यां शङ्कायां निषेध्यस्य क्रत्वर्थत्वासंभवेन दूषितायां तर्ह्यनारभ्याधीतस्य हिंसानिषेधस्यानृतवदननिषेधवत् क्रतूपस्थापकप्रकरणाभावेन क्रत्वर्थनिषेधत्वासंभवे क्रत्वर्थत्वं पुरुषार्थत्वं च विशेषणं विना हिंसिधात्वर्थमात्रस्य निषेधोऽस्तु । तथा च क्रत्वर्थहिंसाया अपि निषेधो लभ्यत इति शङ्कायां निषेधस्य क्रत्वर्थत्वपुरुषार्थत्वबोधनाय वाक्यवैरूप्यापत्त्या तद्दूषणे चास्त्यस्य नियमवर्णनस्योपयोग इति। एवं च क्रत्वर्थो हि प्रतिषेधः क्रत्वर्थं प्रतिषेधेदिति हिंसानिषेधयोर्वक्ष्यमाणनियमलभ्यस्य क्रत्वर्थत्वस्य वचनमग्रे शङ्किष्यमाणस्य क्रतुपुरुषोभयार्थत्वस्याप्युपलक्षणमिति वक्ष्यन्नित्येतत्क्रतुपुरुषोभयार्थत्वं नास्तीति वक्ष्यमाणान्तरस्याप्युपलक्षणम् । तेन प्रकारेण न हिंस्यादित्येतत्कस्यचित्प्रकरणे न समाम्नातमिति दार्ष्टान्तिकांशमाकाङ्क्षितमध्याहृत्य टीकार्थः कथितः ।
कथं क्रत्वर्थः स्यादिति ।
आज्यभागजन्योपकारस्याभावेनासंभवादिति भावः ।
प्राभाकरास्त्विति ।
प्राभाकराणां पर्युदासपक्षो दर्शपूर्णमासप्रकरणगतवाक्यस्यार्थवादत्वपक्षश्च हानौ तूपायने (ब्र. अ. ३ पा. ३ सू. २६) त्यधिकरण एव स्पष्टीकरिष्यते ।
प्रवृत्तिकैमर्थ्यनिर्णयाय चेति ।
यद्याख्यातेन कर्ताऽभिधीयते , तदा श्रुत्युपात्तकर्तृपुरुषशेषभूतमनृतवदनं निषेध्यमिति तन्निषेधोऽपि पुरुषार्थो भवति।
यदि तेन कर्ता नाभिधीयते , तदा प्रकरणसन्निधापितक्रत्वर्थं तन्निषेध्यमिति तन्निषेधोऽपि क्रत्वर्थो भवतीति विचाराणां फलफलिभावमाह –
अभिहितेति ।
ननु – न तौ पशौ करोतीति निषेधे आज्यभागवन्नानृतं वदेदिति निषेधे निषेध्यमनृतवदनं क्रत्वर्थतया विहितं नास्तीति – चेत् , सत्यम् ; क्रत्वर्थद्रव्यादिसंपादनोपायभूतं यदनृतवदनं तदविहितमपि द्रव्यार्जनवत्क्रतूपकारकतया क्रत्वर्थमिह विवक्षितम् । अथवा – व्रीहिभिर्यक्ष्य इति संकल्प्य यस्तदलाभे तत्प्रतिनिधीन्नीवारादीन् विहाय यवैर्यजते तस्य तत्संकल्पवचनमनृतं जायत इति तथाभूतमनृतमिह क्रत्वर्थानृतवचनमिति विवक्षितम् ।
गम्यमानकर्तुः संख्याया इति ।
समानप्रत्ययोपात्तकर्तृसंख्याभिधानपक्षे नातिप्रसङ्गः । गम्यमानस्यापि चेत्कर्तुः संख्याऽऽख्यातेनाभिधीयेत , तदा पदान्तरोपात्तकरणादिसंख्या तेन सुतरामभिधातुं शक्येति चैत्रः काष्ठः पचतीत्यपि प्रयोगप्रसङ्ग इत्यर्थः ।
अथ गम्यमानस्यापि कर्तुरेव संख्या तेनाभिधेया , तदैककर्तृके पाके तण्डुलान् पच्यन्त इति प्रयोगप्रसङ्ग इत्याह –
पच्यत इत्यत्रापीति ।
अनभिहितस्यापीति ।
यत्प्रधानं कारकं तत्संख्याऽऽख्यातेनाभिधेयेति नियमः । तथा च पचति तण्डुलानित्यत्र कर्तुः प्राधान्यात्तत्संख्या तेनाभिधेया । पच्यन्ते तण्डुला इत्यत्र कर्मणः प्राधान्यात्तत्संख्या , कारणादीनां तु सर्वत्राप्राधान्यान्न क्वाप्याख्यातेन तदभिधानप्रसङ्ग इत्यर्थः ।
अनुवादकत्वमाहेति ।
बलवदनिष्टाननुबन्धीष्टसाधनत्वरूपं श्रेयःसाधनत्वमनूद्य तन्निषेधः क्रियते , स च निषेधो विशेष्यसत्त्वाद्विशेषणनिषेधमादाय पर्यवस्यतीत्यर्थः ।
रागप्राप्तेति ।
पुरुषार्थेत्यर्थः । तथा चाख्यातोपात्तभावनाक्षेपोपस्थितपुरुषशेषहिंसाविषयत्वेन चारितार्थ्यादनुपस्थितक्रतुशेषहिंसानुवादतन्निषेधविषयत्वकल्पनं गौरवपराहतमित्यर्थः ।
ननु पुरुषार्थत्वेन क्रत्वर्थत्वेन च हिंसोपस्थितिमपेक्ष्य तन्निषेधो नोच्यते किंतु हिंसासामान्यनिषेधेन पुरुषार्थहिंसानिषेधवत् क्रत्वर्थहिंसानिषेधोऽपि लभ्यत इत्युच्यतेऽतो न क्रत्वर्थतोपस्थितिगौरवमित्यस्वरसादाह –
उभयनिषेधे चेति ।
रागप्राप्ततेति ।
पुरुषार्थतेत्यर्थः , न तु रागाधीनप्रवृत्तिविषयतेत्यर्थः । क्रत्वर्थहिंसाया अपि रागाधीनप्रवृत्तिविषयत्वात्फलरागं विनाऽद्यापि प्रवृत्त्यसंभवात्कामाधिकारे करणांशे रागतः प्रवृत्तिः , अङ्गेषु वैधी प्रवृत्तिरिति निरालम्बनायाः प्राभाकरपरिभाषायाः सिद्धान्तानभिमतत्वात्तदयुक्तम् ।
विशेषविधिविहितस्यार्थस्येति ।
अत्रेदं वक्तव्यम् – इहाप्युत्सर्गापवादन्यायः प्रवर्तत एव ; हिंस्यादित्यनेन विहितहिंसाया अपि क्रोडीकारात् । मरणफलोपहितमरणकारणपुरुषव्यापारत्वं हिंसात्वं हिंसाशब्दप्रवृत्तिनिमित्तं तद्वैधहिंसायामप्यविशिष्टम् । न च – सत्यपि हिंसाशब्दार्थत्वे हिंस्यादित्याख्यातोपात्तभावनाक्षिप्ततत्कर्तृपुरुषशेषभूतैव हिंसा प्रतीयत इति न तत्र हिंसिधातुना वैधहिंसाक्रोडीकारोस्ति तद्व्यावर्तकविशेषणसद्भावादिति – वाच्यम् ; उद्देश्ये तथा विशेषणायोगात् । अन्यथा आहवनीयवाक्येऽपि जुहोतिधातुनाऽऽख्यातोपात्तभावनाक्षिप्तपुरुषशेषाणां पुरुषार्थहोमानामेवानुवादो न क्रत्वर्थहोमानामिति ज्योतिष्टोमक्रत्वर्थस्य पदहोमस्य तेनाविषयीकरणादाहवनीयपदवाक्ययोरुत्सर्गापवादन्यायः प्रत्युद्ध्रियेत , नारिष्टहोमादीनां च क्रत्वर्थानामाहवनीयसिद्धिर्नस्यात् । ननु – तत्र प्रत्यक्षविधिविहितानां सर्वेषां होमानामनुवादसंभवादनपेक्षितोद्देश्यविशेषणे वाक्यभेदापत्तेर्न पुरुषशेषत्वं विशेषणम् , इह तु हिंसामात्रनिषेधे अनृतवदननिषेधस्य क्रत्वर्थत्वम् । हिंसानिषेधस्य पुरुषार्थत्वम् । लौकिके पुरुषार्थत्वं वैदिके क्रतुशेषतेति वाक्यवैरूप्यापत्तेर्लौकिकवैदिकान्यतरग्रहणाकाङ्क्षायामुपस्थितपुरुषशेषभूतैव हिंसा गृह्यते नानुपस्थितक्रतुशेषभूतेति – चेन्न ; लौकिकवैदिकोभयविधहिंसानिषेधस्य पुरुषार्थैकरूपत्वोपपत्तेः । निषेध्यनिषेधयोर्विषयैकरूप्यनियमस्त्वसिद्धः ; स्त्र्युपगमनमांसभक्षणादीनां प्रतिषेधस्य क्रत्वर्थत्वदर्शनात् "स्त्र्युपायमांसभक्षणादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रया"दिति वार्तिकोक्तेश्च । तथापि क्रत्वर्थस्य निषेधः क्रत्वर्थ एव न पुरुषार्थ इति नियमोस्तीति चेन्न ; अप्रयोजकत्वात् क्रत्वर्थपुरुषार्थसाधारणापगोरणसामान्यादिनिषेधानां पुरुषार्थत्वसंप्रतिपत्तेश्च ; अन्यथा क्रत्वनुष्ठानप्रतिबन्धकब्राह्मणापगोरणादिषु स्वाच्छन्द्यप्रसङ्गात् । ननु - एवं सति क्रत्वर्थस्यैवानृतवदनस्य निषेधः क्रत्वर्थ इति क्रतुमध्ये क्रत्वर्थानृतवदन एव क्रतोर्वैकल्यं , पुरुषार्थानृतवदने तु यो नाम क्रतुमध्यस्थ इत्युक्तरीत्या पुरुषस्यैव प्रत्यवाय इति कर्त्रधिकरणसिद्धान्तो नावतिष्ठेत , उक्तनियमानङ्गीकारे क्रत्वर्थानि पुरुषार्थानि वा यावन्त्यनृतवदनानि तेषां सर्वेषामपि निषेधस्य क्रत्वर्थत्वोपपत्तेरिति – चेत् , उच्यते ; नानृतं वदेदिति वाक्ये अनृतं वदेदिति भागस्य प्रकरणाम्नानादयमर्थो भवति अनृतवदनेन दर्शपूर्णमासयोरुपकुर्यादिति। ततश्च नञा संबन्धादयमंशोऽनुवादो न विधिरित्यवसायात् कृत्स्नस्य वाक्यस्यायमर्थो भवति अनृतवदनेन दर्शपूर्णमासयोरुपकुर्यादिति यत्तन्नेति। इत्थमेवास्य वाक्यस्य योजनाप्रकारो वार्तिके दर्शितः । एवमनया रीत्या प्रकरणसामर्थ्यात्क्रत्वर्थानृतवदननिषेध एव क्रत्वर्थ इति लाभान्न तन्निर्वाहार्थमुक्तनियमोऽपेक्षणीयः । नन्वेवं – प्रकरणाम्नातानृतवदननिषेधवाक्यार्थकथने अनारभ्याधीतहिंसानिषेधवाक्यस्यानया प्रक्रिययेत्थमर्थो भवति हिंसया पुरुषस्योपकुर्यादिति यत्तन्नेति । तथा च पुरुषार्थहिंसानिषेध एव वाक्यार्थ इति क्रत्वर्थहिंसायाः तदविषयत्वात्तत्र नोत्सर्गापवादन्यायप्रवृत्तिः । अत इदं घट्टकुट्यां प्रभातमिति – चेत् ; न क्रत्वर्थहिंसायाः परंपरया पुरुषोपकारकत्वेन तस्या अपि तेन विषयीकरणात् , क्रत्वर्थताद्वारा अन्यथा वा यथाकथंचित् पुरुषोपकारपर्यवसानमात्रमेव हि तत्रानुवाद्यकोटौ प्रविष्टं , यथाऽनृतवदननिषेधे पुरुषार्थताद्वाराऽन्यथा वा क्रतूपकारमात्रम् । न हि तत्रानृतवदनं पुरुषार्थतामनपेक्ष्य क्रतूपकारकम् । क्रतूपयोगिद्रव्यादिराहित्यावस्थाविशिष्टस्य पुरुषस्यैव हि शेषभूतं सद् द्रव्यार्जनोपायान्तरवत् क्रतूपकारकम् । एवं व्रीहीन् संकल्प्य यवानुपाददानस्य संकल्पवचनानृततापादनमपि । न हि तदुभयं क्रत्वर्थतया विहितम् । नन्वेवं – निषेध्यनिषेधयोरेकार्थतानियमानादरे कत्वर्थपुरुषार्थसाधारणहिंसासामान्यनिषेधस्य केवलपुरुषार्थतोपपत्तेः सांख्य एव विजयी स्यात् ; महाफलसाधनस्य यागस्य प्रत्यक्षादिप्रमाणाप्राप्तं वित्तव्ययायासप्रयुक्तमिव पशुमालभेतेत्यादिश्रुतिप्राप्तं हिंसादिकरम्बितत्वप्रयुक्तमपि स्वल्पदुःखमस्त्विति प्रवृत्त्युपपतेः , असति विरोधे हिंसासामान्यनिषेधस्य वैधहिंसाविधिना बाधनायोगात् , अतो हिंसानिषेधवाक्यस्य वैधहिंसापरिहारमिच्छता निषेधवाक्यस्य प्रथममेव पुरुषार्थहिंसाविषयत्वं वर्णनीयमिति न तत्रोत्सर्गापवादन्यायप्रवृत्तिः , अपवादसद्भावप्रयुक्ततद्विषयपरिहारस्थलस्यैव तन्न्यायविषयत्वादिति – चेत् , उच्यते ; हिंसानिषेधविधानयोरुत्सर्गापवादन्यायविषयत्वाभावव्यवस्थापनप्रत्याशया निर्मूलं निषेध्यनिषेधयोरेकविषयत्वनियममवलम्ब्य पुरुषार्थहिंसाया एव निषेध इति समर्थनेऽपि तयोरुत्सर्गापवादन्यायविषयता नापैति ; मरणान्तप्रायश्चित्तमाहवाभिमुखहननमुचितदण्डरूपचोरहननं स्तेनहननमिति बहूनां पुरुषार्थहिंसनानां निषेधेन परिहरणीयत्वात् । न हि सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्येदिति शुद्ध्यर्थमेव विहितमात्महननमशुद्ध्यापादकमिति वक्तुं शक्यम् ; न दोषो हिंसायामाहव इति परस्पराह्वानपूर्वके धर्मयुद्धे योद्धुमभिमुखस्य हनने दोषाभावः कण्ठत एवोक्तः । ’अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति’ । ’स्तेनः प्रकीर्णकेशो मुसली राजानमीयात्कर्माचक्षाणः पूतो वधमोक्षाभ्यामघ्नन्नेनस्वीराजे’ति राज्ञो दण्डरूपचोराद्यहनने स्तेनाहनने च दोषस्मरणात्तादृशहननेऽपि दोषाभावः सिद्धः । तथा च पुरुषार्थहिंसानिषेधपक्षेऽप्यनुपदिष्टप्रायश्चित्तविहितहिंसातिरिक्तहिंसाविषयत्वमवश्यं वक्तव्यम् । तथा च तत एव वैधपशुसंज्ञपनस्याप्युत्सर्गापवादन्यायेनैव परिहारसिद्धेः किं प्रथममेव तत्परिहारार्थं पुरुषार्थहिंसाया निषेध्यत्वकल्पनेन ? “अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्य” इति छन्दोगोपनिषदि हिंसानिषेधे तीर्थपर्युदसनेनापि हिंसानिषेधविधानयोरुत्सर्गापवादन्यायः प्रत्याय्यते । तत्र हि तीर्थशब्देनागर्हिता या हिंसा सा पर्युदस्यते । अगर्हिता चानुपदिष्टप्रायश्चित्तविहितहिंसा । अत एव “श्येनेनाभिचरन् यजेत” , “आततायिनमायान्तं हन्यादेवाविचारयन्” इति विहितयोरपि अभिचाराततायिवधयोः प्रायश्चित्तोपदेशाद्गर्हितत्वेन न पर्युदासविषयता । एतेन – वैधहिंसायां स्वल्पदोषोऽस्तीति वदन्तः साङ्ख्याः साङ्ख्यमतनिरासासामर्थ्येन वैधपशुसंज्ञपनं हिंसैव न भवति पश्वनुग्रहार्थत्वश्रवणादिति वदन्तश्चैकदेशिनो – निरस्ताः । क्रत्वर्थपुरुषार्थरूपागर्हितवैधहिंसामात्रे सामान्यनिषेधाप्रवृत्तेः , समर्थितत्वाद्धिंसाशब्दप्रवृत्तिनिमित्तसद्भावेन हिंसात्वाभावोक्त्ययोगाच्च । न च “न वा इवेतन्म्रियसे तरिष्यसी”त्यादिश्रवणेन वध्यानुग्रहपर्यवसन्नत्वादहिंसात्वमाशङ्कनीयम् ; व्रणशान्त्यर्थं कृतावयवच्छेदनस्य छेदनीयानुग्रहार्थत्वेऽपि क्रोधकृतावयवच्छेदसाधारणच्छेदेन शब्दप्रवृत्तिनिमित्तसद्भावेन छेदनत्ववद्वैधहिंसाया अपि हिंसात्वस्यानिवार्यत्वात् । भाष्ये हिंसादीत्यादिशब्दगृहीतस्य सोमोच्छिष्टभक्षणस्य सौत्रामण्यादिषु सुराग्रहादीनां चानुच्छिष्टभक्षणत्वासुराग्रहत्वादीनां वक्तुमशक्यत्वाच्चेति यथाभाष्यमुत्सर्गापवादन्यायः समञ्जस एव । हिंसैव वैधमपि संज्ञपनं न हिंस्यादित्यत्र रागकृतता पुरुषार्थता वा । आदौ न हिंसनविशेषणमस्त्यथापि नौत्सर्गिकः स्पृशति वैधमयं निषेधः॥ सार्वत्रिको न खलु वृत्तिनिमित्ततौल्ये शब्दार्थतापलपनं परिहारहेतुः । उच्छिष्टभक्षणसुराग्रहणानुरागप्राप्ताखिलस्त्र्यपरिहारमुखेष्वभावात्॥ रागप्रयुक्तपुरुषार्थविशेषणेऽपि हिंसानिषेधनमसर्वगमेव वाच्यम् । नो चेददोषलवमाहवहिंसनादि व्यावर्तनं प्रतिलभेत कथं निषेधात् ? ॥२४॥२५॥२६॥२७॥
इति अन्याधिष्ठिताधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले तृतीयस्याध्यायस्य प्रथमः पादः॥॥
इति तृतीयाध्यायस्य गत्यागतिचिन्तया वौराग्यनिरूपणाख्यः प्रथमः पादः॥
तृतीयाध्याये द्वितीयः पादः॥ संध्ये सृष्टिराह हि ॥१॥
कर्मफलस्य यातायातरूपत्वेनेति ।
प्रथमाधिकरणे – तावद्गमनं चिन्तितम् ।ˍ तत्र सकलसंसारदुःखायतनस्य भूतेन्द्रियसंघातरूपदेहसंबन्धस्याब्रह्मसाक्षात्कारमिह परत्र च गतागतयोरनुवृत्तिर्निरूपिता । तत्रैव भाक्तं वानात्मवित्त्वा (ब्र. अ. ३ पा. १ सू. ७) दिति सूत्रे देवभृत्यभावेन तत्प्रयुक्ते क्लेशकरम्बितस्य स्वर्गभोगानुभवस्य तुच्छत्वं सातिशयत्वं चाविष्कृतम् । द्वितीयाधिकरणे – सूक्ष्मदेहस्यापि कारणतया सकलसंसारक्लेशनिदानस्य कर्मबन्धस्य ब्रह्मज्ञानपर्यन्तमनुवृत्तिर्निरूपिता । तत्रैव स्वर्गभोगस्य क्षयिष्णुत्वदोषोऽपि कृतात्यय (ब्र. अ. ३ पा. १ सू. ८) इति सूत्रभागेन दर्शितः । एवमनेकदोषदुष्टस्यापि स्वर्गभोगस्य जनकं यागादिकं प्रतिजन्म यावज्जीवकर्तव्यस्नानसंध्यावन्दनादिविहितानुष्ठाननिषेधपरिहाररूपबहुविधशरीरक्लेशसाध्यस्मार्ताचारसापेक्षत्वादतिदुष्करमिति चरणादिति चे (ब्र. अ. ३ पा. १ सू. ९) दित्यादिसूत्रैः प्रकटितम्॥ अनिष्टादिकारिणां तु शुभमार्गेण गतिर्वा ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीति न्यायेन स्वर्गप्राप्तिमात्रं वा नास्तीति तृतीयाधिकरणे वर्णितम् । चतुर्थे – स्वर्गादवरोहताम् आकाशादिभावश्रवणात् तदभिमानिदेवतानामिवाकाशादिशरीरकत्वप्रयुक्तः कियान् दिव्यभोगोऽस्तीति शङ्कावारणायाकाशादिषु संश्लेषमात्रमित्युक्तम् । पञ्चमे तेषु चिरमचिरं वाऽवस्थानमिति अनियमनिरासव्याजेन व्रीह्यादिषु सुखभोगरहितम् अनतिचिरावस्थानमिति दर्शितम् । तच्च तदभिमानिजीवात्मना चेत्तल्लवनपर्यन्तमेव भवेदित्यनतिहेयत्वशङ्कानिराकरणात्तेषु संश्वेषमात्रमिति षष्ठाधिकरणे दर्शितम् । स च संश्लेषस्तेषां शोषणकुसूलावस्थापनावहननफलीकरणपाकभक्षणादिदशास्वनुवर्तमानः पितृवीर्यात्मना परिणामपर्यन्त इति रेतःसिक्सूत्रेण (ब्र. अ. ३ पा. १ सू. २६) दर्शितम् । पुरुषभक्षणविषयत्वमनापन्नेषु व्रीह्यादिषु संश्लिष्टानामनुशयिनां तेषु संश्लेषः , तत्तद्व्रीह्यादिपरिणामान्तरपरम्पराक्रमेण यथाकथंचित्पुरुषभक्षणविषयत्वप्राप्त्यनन्तरं तेषां तद्वीर्यात्मना परिणामपर्यन्त इत्यपि तेनैव सूत्रेण सूचितम् । पुरुषवीर्यानुप्रवेशेऽपि योषितमप्राप्य तेषां न शरीरलाभः । तद्यदि वीर्यमपरिग्रहाणां वन्ध्यादिषु प्रवृत्तानां वा स्यात् , तदा तद्वीर्यपरिणामान्तरक्रमेण पुनरपि पुरुषभक्षणविषयत्वं प्राप्य तद्वीर्यसंसक्तया ऋतुमतीनां योषितां गर्भगोलकप्रवेशानन्तरमेव क्वचिज्जन्मनि भोगाश्रयस्य भोगमोक्षसाधनानुष्ठानोपयोगिनश्च शरीरस्य लाभ इति योनेः शरीरमिति सूत्रेण दर्शितम् । एवं गतागतनिरूपणेन वैराग्यं दृढीकृतमित्यर्थः ।
जीवावस्थाभेदोऽनुगतः पादार्थो न भवतीत्याशङ्क्याह –
तत्त्वम्पदार्थविवेकार्थमिति ।
महावाक्यार्थान्वयिपदार्थविवेकायेत्यर्थः ।
तदवस्थमिति ।
स्वप्नेऽप्यादित्यादिसद्भावादिति भावः ।
मनस्तु स्वप्ने सदपीति ।
व्यावहारिकमपीत्यर्थः ।
ननु मनो यदि दृश्यत्वान्नात्मभासनक्षमं , तर्हि स्वाप्न आदित्यादिरपि तत एव तथेति तन्मिथ्यात्वसमर्थनं व्यर्थमित्याशङ्क्य प्रातिभासिकत्वसिद्ध्यर्थं तदित्याह –
आदित्यादीनामिति ।
शुक्तिरजतात्मकमेकमेव वस्त्विति ।
रजतावयवैः शुक्त्यवयवैश्च शुक्तिरारब्धा , यथा व्रीह्यवयवैर्नीवारावयवैश्चर्नीवारा: । अत एवेष्टिषु व्रीह्यलाभेने समग्रव्रीह्यवयवोपादानाऽसंभवे सति यथाकथंचिद् व्रीहिशास्त्रार्थलिप्सया कतिपयव्रीह्यवयववन्तो नीवारा उपादेया इति पूर्वतन्त्रे प्रतिनिधिपेटिकायां समर्थितम् । इयाँस्तु विशेषः । शुक्तौ शुक्त्यवयवा भूयांस इति प्रायेण शुक्त्याकारो गृह्यते , तद्ग्रहणदशायां तेनाभिभवाद्रजताकारो न गृह्यते । दोषवशात्तदग्रहणे गृह्यत इति भावः ॥१॥२॥
तद् दूषयतीति ।
नीवारेषु व्रिह्यवयवानामिव शुक्तिषु रजतावयवानां सत्त्वे शुक्तिदाहे क्षारभाववद् द्रवीभावस्याप्युपलब्धिप्रसङ्गः । आधाने रजतशकलाद्यलाभे शुक्तिशकलोपादानप्रसङ्गः । अतः शुक्तौ रजतावयवाभावात्तत्सत्त्वेन रजतज्ञानप्रमात्वसमर्थनमयुक्तम् । कथंचिद्रजतावयवसत्त्वकल्पनेऽपि सर्वावयवावच्छेदेन शुक्तौ रजतज्ञानस्य चित्रपटे सर्वः पटो रक्त इति ज्ञानस्येव प्रमात्वं निर्वोढुं न शक्यम् । असार्वत्रिकं चैतदवयवालम्बनतया प्रमात्वसमर्थनम् ; तेन नीवारादिषु व्रीह्यादिज्ञानस्य प्रमात्वालाभात् । न हि रजतावयवेषु रजतत्वमिव व्रीह्यवयवे व्रीहित्वमस्ति। उत्पले नीलिमा उत्पलेऽरुणिमेति ज्ञानयोश्च प्रमात्वं निर्वोढुमशक्यम् ; द्रव्येषु द्रव्यान्तराणामिव निरवयवेषु गुणेषु गुणान्तराणामवयवानुप्रवेशस्य वक्तुमशक्यत्वात् , पृथग्भूतयोश्च नीलिमारुणिमगुणयोरेकत्र व्याप्यवृत्तितया समावेशासंभवादिति दोषान्मनसिकृत्य दूषयतीत्यर्थः ।
ननु तोयद्वैविध्यवादिनं प्रति पिपासोपशमरूपतोयार्थक्रियाव्यावृत्तिसाधनं न युक्तमित्याशङ्क्य तोयद्वैविध्यकल्पनमयुक्तमिति तावदाह –
पिपासोपशामकमिति ।
अकल्पने चेति ।
तोयद्वैविध्याकल्पने इत्यर्थः । कल्पनइति पाठे पिपासोपशमकमुदकमित्यैकविध्यकल्पन इत्यर्थः ।
तन्निषेधस्य पूर्वेण कर्तुमशक्यत्वादिति ।
ननु – कोऽत्र निषेधः ? यः परेण पूर्वस्य कर्तुं शक्यः सन् पूर्वेण परस्य कर्तुं न शक्य इत्युच्यते , किं ध्वंसः ? उत स्वरूपतो विषयतो वा तदभावबोधनम् ? नाद्यः , द्वित्रिक्षणावस्थायिनः पूर्वज्ञानस्योत्तरात्मविशेषगुणमात्रात्कालाच्च ध्वंससत्त्वेन तत्साधारणस्य ध्वंसकत्वस्य विरोधिविषयज्ञानाऽसाधारणबाधकत्वरूपतानुपपत्तेः । न द्वितीयतृतीयौ ; रजतविषयतया निष्पन्नत्वेन स्वरूपतो नास्तीति तद्रजतविषयं न भवतीति च तस्याभावबोधनासंभवात् । न च रजतज्ञानस्य भ्रमत्वप्रत्यायनं निषेधः ; दर्पणे चैत्रमुखं नास्तीति पूर्वप्रत्यक्षेण चैत्रमुखसन्निधानानन्तरभाविनो दर्पणे चैत्रमुखमिति प्रत्यक्षस्य वृक्षोर्ध्वाग्रत्वप्रत्यक्षेण तत्समसमयवर्तिजलप्रतिबिम्बितवृक्षाधोग्रत्वप्रत्यक्षस्य च भ्रमत्वप्रत्यायनादिति – चेत् , उच्यते ; पूर्वं बाध्यं परं बाधकमिति प्रायिकोक्तिः । लोके प्रवृत्तिसंवादादिना वेदे तदर्थतत्त्वनिर्णायकन्यायेन च बलवद्बाधकम् इतरद्बाध्यमिति व्यवस्था । इयांस्तु विशेषः । परेण पूर्वस्य भ्रमत्वप्रत्यायनमेव बाधः , पूर्वेण परस्य तु सोपाधिकभ्रमस्थले भ्रमत्वप्रत्यायनं बाधः , निरुपाधिकभ्रमस्थले वैदिके चोत्पत्तिप्रतिबन्धः । अत एव शीघ्रभाविना श्रौतविनियोगेन लैङ्गिकविनियोगस्य बाध इष्यते ।
भारते वर्षे यो रजनीसमय इति ।
लक्षयोजनविस्तृतवर्तुलाकारलवणार्णवपरिवृतस्य लक्षयोजनविस्तृतस्य जम्बूद्वीपस्य मध्ये भूकमलकर्णिकाकृतेरिलावृताख्यमध्यवर्षमध्यमध्यासीनस्य मेरोर्दक्षिणतो हरिकिम्पुरुषभारताख्यानि त्रीणि वर्षाणि । उत्तरतो रम्यकहिरण्मयोत्तरकुरुसंज्ञानि त्रीणि । पश्चिमतः केतुमालाख्यमेकम् । पूर्वतो भद्राश्वसंज्ञमेकम् । वसन्ति रमन्ति चैतेषु प्राणिन इति मर्यादा । पर्वतान्तरिताः प्राणिनिवासस्थानभूता भूप्रदेशा वर्षाण्युच्यन्ते । तेषु मेरुं प्रदक्षिणीकुर्वाणस्यादित्यस्य रश्मयो यदा यावत्पर्यन्तं प्राप्नुवन्ति तदा तावत्पर्यन्तं दिवसः अन्यत्र रजनीति व्यवस्था । एवं च भारते वर्षे सूर्यास्तमयानन्तरं केतुमाले मेरुव्यवधानाभावात्सूर्यप्रकाशोऽस्तीति दिवसो भवति। अतो रजन्यां दिवसो न विरुद्ध इति शङ्कावारणाय भारते वर्षे रजन्यां सुप्तस्य तत्रैव स्वाप्नं दिवसदर्शनमुदाहृतम् । ननु – इदं रजन्यां दिवसदर्शनं न विरुध्यते ; स्वप्ने परमेश्वरसृष्टस्वप्नदृगेकानुभाव्यादित्यरश्मिप्रचारेण तं प्रति तदा दिवसोपपत्तेः, एवं च मुहूर्तमात्रवर्तिनि स्वप्ने वर्षपूगातिवाहनं च युज्यते ; देवादिकालोपाधिभ्यो मनुष्यादिकालोपाधीनामिव जाग्रत्कालोपाधिभ्यः स्वाप्नकालोपाधीनां सूक्ष्मत्वतारतम्यकल्पनात्कालविपर्यासवद्देशविपर्यासोऽपि घटते ; स्वप्ने कुरुदेशाधिष्ठितशरीरसदृशेन यथास्वप्नानुभवं तद्विसदृशेन वा शरीरान्तरेण पञ्चालदेशगमनोपपत्तेः , योजनशतप्राप्यस्यापि देशान्तरस्य क्षणेन प्राप्तेः क्षणेन ततः प्रत्यागतेश्च स्वाप्नशरीरस्याश्चर्यरूपस्य जाग्रच्छरीरविलक्षणत्वादुपपत्तेः , जागरे गजादिमत्सु देशेषु रथाद्युपलम्भस्य च स्वप्नार्थानां जागरितार्थानां च जलालोकपवनन्यायेन मूर्तत्वेऽपि मिथःप्रतिघातकत्वाभावकल्पनयोपपत्तेः , स्वप्नानुभूतरथादीनां स्वप्नदृष्टदारुरथादिभस्मनां च जागरानन्तरमननुभवस्य स्वप्नान्ते परमेश्वरकृतनिरवशेषस्वाप्नपदार्थोपसंहारकल्पनया स्वाप्नपदार्थानां स्वाप्नचक्षुरादिमात्रगम्यत्वकल्पनया चोपपत्तेरिति – चेत् , उच्यते , एतावल्लोकदृष्टविरुद्धं किमवलम्ब्य कल्प्यते । बहिष्कुलायश्रुतिं रथादिसृष्टिश्रुतिं चेति चेत् , न ; बहिष्कुलायश्रुतेः स्वे शरीर इति श्रुत्यनुसारेण भाक्तत्वात् । शरीरान्तरमपि स्वीयमेवेति न विरोध इति चेत् , न ; तस्य पूर्वशरीरवत्स्वीयत्वमनुक्तसिद्धमिति तस्यावक्तव्यतया तस्याः श्रुतेर्विकृतशरीरान्तरपरिग्रहदर्शनेऽपि बहिः सञ्चारदर्शनेपि शेते पूर्वशरीर एव परिवर्तते नापि बहिः संचरतीति तस्य सर्वस्यापि मिथ्यात्वदर्शनेनैव साफल्यस्योपपादनीयत्वाद् , "न तत्र रथा" इत्याद्युपक्रमानुसारेण भाक्तत्वात् , तत्र लडाख्याताभ्यां रथाद्यभावरथादिसृष्ट्योः समानकालत्वप्रतिपादनेन रथादिमिथ्यात्वे तात्पर्यावसायात् , अथेत्यव्ययस्य अथापीत्येतदर्थत्वेनाप्युपपत्तेः । किं च सृष्टिशरीरान्तरश्रुत्योः स्वार्थपरत्वे प्रकरणप्रतिपाद्यप्रधानार्थविरोधः स्यात् , तद्धि प्रकरणमात्मनः स्वयंज्योतिष्ट्वं साधयितुं प्रवृत्तम् । तत्र जाग्रदवस्थायामादित्यादिज्योतिर्व्यतिकरात्तद् दुर्विवेचमिति तद्विवेचनाय स्वप्नावस्थाऽवतारिता । तत्र यदि सृष्टिः प्रतिपाद्येत तदा तस्यामपि तद्दुर्विवेचं स्यात् । आदित्यादिज्योतिरन्तरसद्भावात् । अतः प्रधानप्रतिपाद्यविरोधात्स्वर्गार्थज्योतिष्टोमप्रकरणे तदङ्गविध्यर्थवादरूपस्य "को हि तद्वेद यदमुष्मिन् लोकेऽस्ति वा न वेति" वाक्यस्यैव स्वप्नसृष्टिशरीरान्तरपरिग्रहवचनस्य न स्वार्थे तात्पर्यमित्येव वक्तुं युक्तम् । किंच स्वप्ने महासेनायां गजतुरगवृषभोष्ट्रभटादिरूपाः पारेपरार्धं चेतना दृश्यन्ते । एवमेकैकस्य स्वप्नं निर्वोढुं कियन्तश्चेतनाः कुतः समानीय परमेश्वरेणापि मेलनीयाः । न हि स्वप्ननिर्वाहार्थमेव तेन क्वचित्केचन चेतनाः पृथग् निवेशिताः सन्ति। चेतनांशे चेत् स्वप्नानामयथार्थता , अचेतनांशेऽपि तथाऽस्तु किमर्धजरतीयेन । अवश्यं तच्छरीरान्तरपरिग्रहेऽपि प्राचीनं तदेवेदं मच्छरीरमित्यभिमानांशेऽपि स्वाप्नसृष्ट्यङ्गीकारेऽपि चिरातीतेषु पित्रादिषु दृश्यमानेषु त एवैते मे पित्रादय इत्यभिमानांशेऽपि भ्रमत्वमवश्यं वाच्यम् । आरुक्षमिव शैलाग्रमाविक्षमिव काननमित्यादिलोकानुभवसिद्धं च स्वप्नस्य भ्रमत्वम् "उतेव स्त्रीभिः सह मोदमान" इत्यादिश्रुत्याऽपि तदनूदितम् । तस्माद्युक्तं देशकालादिविपर्ययेण स्वप्नस्य मिथ्यात्ववर्णनम् ॥४॥५॥६॥
इति प्रथमं संध्याधिकरणम् ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥
मूलाऽविद्यायाः स्थितत्वादित्यर्थ इति ।
सूच्यत इति शेषः । एवं हि तावच्छब्दस्यान्वयो भवति। बृहत्पृष्ठं भवतीति ज्योतिष्टोमे माध्यन्दिनपवमानानन्तरभाविमाहेन्द्रस्तोत्रं पृष्ठाख्यं बृहत्पृष्ठं भवतीत्यादिवाक्यद्वयेन बृहद्रथन्तरे तत्साधनत्वेन विधीयते । मृगारूढगीतिक्रियारूपसामविशेषवाचिनोर्बृहद्रथन्तरशब्दयोः प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानरूपस्तोत्रविशेषवाचिनः पृष्ठशब्दस्य च साध्यसाधनभावविवक्षां विना सामानाधिकरण्यायोगात् , तयोश्चैकस्तोत्रसाधनत्वाद्व्रिहियवन्यायेन विकल्प इत्यर्थः ।
व्रीह्यनुष्ठानपक्षे इति ।
प्रथमं व्रीह्यनुष्ठान इत्यर्थः ।
एवं यवानुष्ठानपक्ष इति ।
( १ ) द्वितीयप्रयोगे यदा यवानुष्ठानं तदा व्रीहिशास्त्रस्य प्रतीतप्रामाण्यपरित्यागः ( २ ) अप्रतीताऽप्रामाण्यस्वीकारश्च द्वौ दोषौ । पुनस्तृतीयप्रयोगे ( ३ ) व्रीहिषूपादीयमानेषु व्रीहिशास्त्रस्य स्वीकृताऽप्रामाण्यपरित्यागः ( ४ ) परित्यक्तप्रामाण्यस्वीकारश्चेति द्वौ दोषौ । एवं प्रयोगत्रयेण यवशास्त्रे चत्वारो दोषाः ।
व्रीहिशास्त्रे चत्वार इति ।
एवमष्टदोषदुष्टो विकल्प इत्यर्थः । नाडीपुरीतद्ब्रह्मणां विकल्पे तु द्वादश दोषाः प्रसज्येरन् । तथा हि – एकस्यां सुप्तौ नाड्यां शयने पुरीतद्वाक्ये ब्रह्मवाक्ये च प्रत्येकं प्राथमिकौ द्वौ द्वौ दोषौ , सुप्त्यन्तरे पुरीतति शयने नाडीवाक्ये प्राथमिकौ द्वौ दोषौ , पुरीतद्वाक्ये तूपरितनमपि दोषद्वयमिति चत्वारो दोषाः । पुनः सुप्त्यन्तरे ब्रह्मणि शयने ब्रह्मवाक्येऽप्युपरितनदोषद्वयम् । ततः सुप्त्यन्तरे नाड्यां शयने नाडीवाक्येऽप्युपरितनं दोषद्वयमिति स्वापचतुष्टयेन द्वादश दोषाः प्रादुःष्युः । ननु – प्रामाण्यपरित्यागो नाम प्रामाण्याभावस्वीकार एव ; अन्याऽनिर्वचनात् । अप्रामाण्यस्वीकारोऽपि स एव ; निर्दोषे वेदे विपर्यासरूपाप्रमितिजनकत्वस्यासंभवेनाप्रामाण्यस्वीकार इत्यत्राऽप्रामाण्यशब्दस्य प्रामाण्याभावपरत्वात् , तथा चाद्ययोर्दोषयोर्न भेद इति – चेत् , उच्यते – उभयत्रापि प्रामाण्याभावस्वीकार एव पर्सवसितो दोषः । तस्य च दोषत्वबीजं द्विविधम् प्रामाण्ये प्रमाणस्य निर्दोषत्वादेः असद्भावरूपं , प्रामाण्याभावे प्रमाणस्य प्रामाण्याऽनुपलम्भस्याभावरूपं चेति। एवं च भावप्रमाणसद्भावोपाधिकतया आद्यो दोषः । अभावप्रमाणाभावोपाधिकतया स एव द्वितीयो दोष इत्युपाधिभेदेन दोषद्वैविध्यं विवक्षितम् । तदुक्तं वार्तिके – प्रमाणं त्वप्रतीतं यदुज्ज्वलं तदपह्नुतम् । एकस्तावदयं दोषः स्यात्प्रमाणविपर्ययात्॥ तथा तदप्रमाणत्वं यदभावप्रमाणकम् । भावे सत्यप्यभावेन विनैव परिकल्प्यते॥ इति। अत्राद्यश्लोके – प्रमाणविपर्ययादित्यनेन प्रामाण्यसद्भावविषयकप्रमाणाऽविरोधादित्यर्थकेन भावप्रमाणासद्भावमूलकं प्रामाण्याभावस्वीकारस्य दोषत्वं दर्शितम् । द्वितीयेन तु श्लोकेनाभावप्रमाणसद्भावमूलकं प्रामाण्याभावस्वीकारस्य दोषत्वं दर्शितम् । द्वितीयश्लोकस्यायमर्थः – यथा प्रामाण्यपरिस्यागो दोषस्तथा तदप्रमाणत्वमपि दोषः । यत् यस्माद्धेतोः । अभावप्रमाणकं प्रामाण्यानुपलब्धिरूपाभावप्रमाणग्राह्यं प्रामाण्याभावरूपमप्रमाणत्वम् । भावे सत्यपि प्रामाण्योपलम्भरूपे भावे विद्यमानेऽपि तस्याभावेन विनैव कल्प्यते ततो हेतोर्द्वितीयदोष इत्यर्थः॥
पृष्ठस्तोत्रमावर्तत इति ।
ननु – पृष्ठस्तोत्रमेकं न भवति ; येनाङ्गानुरोधात्प्रधानाभ्यासे इदमुदाहरणं भवेत् , किंतु बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृथगुत्पत्तिवाक्याभ्यां बृहत्सामकं रथन्तरसामकं चान्यदन्यत्पृष्ठस्तोत्रमुत्पन्नम् । एवं च यद्यपि स्तुतशस्त्राधिकरणन्यायेन स्तोत्राणामदृष्टार्थत्वात् स्तोत्रद्वयस्यापि समुच्चयः प्राप्नोति ; तथापि बृहद्वा रथन्तरं वा पृष्ठं भवतीति वचनबलाद्विकल्प इत्युक्तं नवमाध्याये वार्तिककारैः । एतदवलम्बनेनैव च तैर्बृहद्रथन्तरधर्माणां बृहति प्रस्तूयमाने "समुद्रं मनसा ध्यायेद्रथन्तरे प्रस्तूयमाने संमीलयेदित्येवमादीनां यथानिर्देशं व्यवस्था समर्थिता । बृहद्रथन्तरयोरेकार्थत्वे तु व्रीहिधर्माणां यवेष्विव तेषां सुकरः स्यादित्यप्युक्तम् । अतः प्रकृतौ प्राप्तस्य समुच्चयस्य विकल्पवचनेनापोदितस्य गोसवादिष्वनुज्ञाकरणएवेदमुदाहरणं न त्वङ्गानुरोधात्प्रधानाभ्यास इति – चेत् , सत्यम् ; माहेन्द्राख्यं पृष्ठस्तोत्रमेकमित्यप्यस्ति मतान्तरम् । तदित्थम् । “पृष्ठैः स्तुवत" इति माहेन्द्रादीनां चतुर्णां स्तोत्राणामुत्पत्तिवाक्यम् ; वाक्यशेषे तेषां संकीर्तनात् , तत्र बृहत्पृष्टं भवति रथन्तरं पृष्ठं भवतीति माहेन्द्रे पृष्ठस्तोत्रे बृहद्रथन्तरयोः साधनतया विधानमित्येकार्थत्वादेव तयोर्विकल्पः । न तु तद्विधायकवाक्ययोर्वाकारोऽस्ति। पृष्ठस्तोत्रे भेदपक्षेऽपि नास्ति बृहद्रथन्तरवाक्ययोर्वाकारापेक्षा लिङ्गदर्शनात्तयोर्विकल्पसिद्धेः । समुच्चये हि द्वादशाग्निष्टोमस्य स्तोत्राणीति स्तोत्रसंख्या तस्य "नवतिशतं स्तोत्रीया" इति स्तोत्रीयऋक्संख्या च पीड्येत । त्रयोदश स्तोत्राणि सप्तोत्तरे द्वे शते स्तोत्रीयाश्च स्युः ।
अतः सप्तदशयोः कयोश्चित्स्तोत्रयोर्वैकल्पिकत्वे वक्तव्ये गोसवे उभे कुर्यादिति विकृतिविशेषेषु बृहद्रथन्तरस्तोत्रसमुच्चयविधानलिङ्गात्प्रकृतौ तयोरेव विकल्पोऽवसीयत इति ।
धर्मासङ्करस्तु शूरत्वचित्रत्वादिश्रुतिद्वारभेदानुगृहीताद् रथन्तरे प्रस्तूयमाने बृहति प्रस्तूयमाने इति निर्देशभेदात् । रथन्तरगेयऋक्साध्या हि स्तुतिः "अभि त्वा शूर नोनुम" इति शूरत्वादिद्वारा बृहत्साध्या तु स्तुतिः "स त्वं नश्चित्रेति" चित्रत्वादिद्वारा । एवं पृष्ठस्तोत्रमेकमनेकमिति पक्षद्वयसद्भावादेकमिति पक्षमाश्रित्याङ्गानुरोधात् प्रधानावृत्तिरुदाहृता । ननु कथमत्रेति – बहुयागसमुच्चयएवेदमुदाहरणं न त्वेकस्य यागस्याङ्गानुरोधादभ्यासे इति शङ्कार्थः ।
इमां शङ्कां पशुसोमाधिकरणे (जै. अ. २ पा. २ सू. १७ – २० ) सोमोदाहरणविषयसिद्धान्तं दर्शयन् परिहरति –
इदमत्राकूतमित्यादिना ।
इतराणि त्विन्द्रवाय्वादिविशिष्टेति ।
यागोत्पत्तिवाक्यावगतं सोमलताया हविष्ट्वं रसद्वारेत्यभिषवादिसंस्कारवाक्यपर्यालोचनया पर्यवस्यतीति न विरोध इति भावः ।
यदीमानि देवताविधानानीति ।
ऐन्द्रवाय्वादिवाक्यानां देवताविधानार्थत्वे तत्प्रापितदेवतानां याज्यानुवाक्यानां मन्त्रवर्णकल्पितविधिप्रापितोपांशुयाजदेवतानामिवैककार्यत्वाद्विकल्पः स्याद् , न त्वेवम् ; तेषामिन्द्रवाय्वादिदेवतोद्देश्यकग्रहणविधानार्थत्वस्य वक्ष्यमाणत्वादित्यर्थः ।
द्रव्यं वेति ।
यदि ग्रहणसंकृतं सर्वं द्रव्यं युगपत्त्यक्तुं शक्यम् , तदापि देवताविकल्पः स्यात् ; विकल्पेनैकैकामेव देवतामुद्दिश्य त्यागसंभवात् । द्रव्यमपि सकृत् त्यक्तुं न शक्यते ; ग्रहचमसेषु तत्तद्देवतोद्देशेन पृथग् गृहीतानां तथैव पृथक् त्यक्तव्यताया वक्ष्यमाणत्वादित्यर्थः ।
प्रथमं युगपत् त्यक्तुं न शक्यमित्येतत्संभावितसकलशङ्कानिराकरणेनोपपादयति –
न तावदिति ।
ननु दशमुष्टिपरिमितापि लता सकृदेव त्यज्यतां , तत्राह –
न च दशापीति ।
अभिषवः चर्मणि सोमलतां निधाय ग्रावभिः कुट्टनम् । प्लावनं वस्त्रेण सोमरसगालनं प्लावयतीत्यादिनेत्यन्वयः । गालयतीति तदर्थकथनं तु दशमुष्टिपरिमितस्यापि सोमस्य रस एकस्मिन् पात्रे ग्रहीतुं शक्यो बहुपात्राऽपर्याप्तश्च । अत एकस्मिन् पात्रे गृहीतस्य सकृदेव त्यागाद्देवताविकल्पः सिध्येदित्याशङ्क्य रसबाहुल्यप्रत्यायनाय ।
नियतपरिमाणेषूदककलशेषु संस्कृतस्य सोमरसस्येति शाबरभाष्योक्तविशेषार्थं दर्शयति –
तस्य च नियतेति ।
एवं भूयसोऽपि रसस्य युगपत्त्यागशङ्का तत्तद्देवतोद्देशेन पृथग् ग्रहणं प्रदर्श्य निरस्यतीत्याह –
न च सर्वोऽपीति ।
ग्रहणविकल्पेन देवताविकल्पशङ्कां निरस्यतीत्याह –
ननु प्रतीन्द्रवाय्वादिकमिति ।
न चैकस्मिन्पात्रे इति ।
न च – यावान् संमाति तावानेव गृह्यतामिति – शङ्कनीयम् ; कृत्स्नस्य रसस्य देवतार्थत्वाभावे तावद्रससंपादनस्यादृष्टार्थत्वप्रसङ्गस्य टीकायां वक्ष्यमाणत्वादिति भावः ।
ननु यदि देवताविशिष्टग्रहणविधिर्न यागे देवताविधिस्तदा कथमासां देवतानां यागान्वयसिद्धिरित्याशङ्क्याह –
ग्रहणमात्रे त्वपर्यवसानादर्थाद्देवतानां यागान्वय इति ।
अयं भावः – ऐन्द्रवायवमित्यादयस्तावद्देवतातद्धितान्ताः , न तु संबन्धसामान्यादिविषयतद्धितान्ताः । मरुत्वतीयं गृह्णातीत्यत्र छप्रत्ययस्य 'द्यावापृथिवीसुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ चे’ति सूत्रेण देवतायामेव विहितत्वेन तत्प्रायपाठादैन्द्रवायवादिष्वपि देवतातद्धितनिश्चयात् । न च ग्रहणान्वयमात्रेण देवतात्वनिर्वाह: ; सूक्तहविषोरेव देवतातद्धितनियमात् । अतस्तत्तत्पात्रगृहीतसोमरसरूपैर्हविःसंबन्धेनैव तेषां देवतात्वमर्थात्पर्यवस्यतीति।
नन्वभ्यासे प्रमाणाभावमुक्त्वा व्रीहियवसमुच्चये प्रमाणविरोध उच्यते , कथमनयोरेकविषयत्वं पुरोडाशस्य चेति चकारेण प्रत्याय्यते ? इत्याशङ्क्य प्रमाणाभावोक्तिमपि समुच्चयविषयतया योजयति –
व्रीहियववाक्ये इति ।
वस्तुतस्तु – बहुपात्रगृहीतसोमरसद्रव्यकयागाभ्यासकल्पन इव व्रीहियवप्रकृतिकपुरोडाशद्वयद्रव्यकयागाभ्यासकल्पनायां तथा बलवत्प्रमाणं नास्ति ; पुरोडाशप्रकृतिद्रव्याकाङ्क्षायां स्वस्वशास्त्रसमर्पितयोर्व्रीहियवयोः प्रत्येकं पुरोडाशनिवर्तनसामर्थ्यं पर्यालोचयता प्रयोगवचनेन तयो: पाक्षिकतया ग्रहणोपपत्तेः । अत इह नाभ्यास इत्येतावन्मात्रपर इह त्वित्यादिग्रन्थः । पुरोडाशस्य चेत्यादिग्रन्थस्त्वेकस्यामेव सुषुप्तौ नाडीपुरीतद्ब्रह्मणां समुच्चयं वक्तुमेकस्मिन् पुरोडाशे यथा व्रीहियवयोर्न समुच्चयस्तथेह किं न स्यादित्याशङ्कायां तद्वैषम्यप्रदर्शनार्थमुत्तरग्रन्थशेष इति युक्तम् ; पुरोडाशस्येत्यादिवाक्यानन्तरं न तु नाडीपुरीतद्ब्रह्मणामित्यादिवाक्यप्रवृत्तिच्छायया तथैवावगमात् । इह त्वित्यादिग्रन्थोऽपि व्रीहियवसमुच्चयनिराकरणार्थ इति व्याख्यानेपि तत्र पुरोडाशद्वयार्थतया व्रीहियवसमुच्चयस्य प्रमाणाभावेन निराकरणम् , इह त्वेकपुरोडाशार्थतया तत्समुच्चयस्य प्रमाणविरोधेन निराकरणमिति विषयभेदस्यापरिहार्यत्वाच्च ।
मिश्रपुरोडाशपक्षे प्रमाणविरोधमुपपादयति –
पुरोडाशचोदनयैवेति ।
व्रीहिश्रुतिबाधः स्यादिति ।
ननु – समुच्चये सति नाप्राप्तांशपरिपूरणार्थं व्रीहिश्रुतिबाधः; सर्वेष्वपि पुरोडाशेषु व्रीहिप्राप्तिसत्त्वेन क्वचिदपि तदप्राप्त्यभावात् प्रत्युत विकल्प एव । यवपक्षे व्रीह्यप्राप्त्या तद्बाधः । एवं यवश्रुतेरपि यवाप्राप्तांशपरिपूरणार्थाया न समुच्चये बाधः , किंतु विकल्प एवेति – चेत् , उच्यते ; अश्वशफपरिमाणस्य कृत्स्नस्य पुरोडाशस्य प्रकृतिद्रव्याकाङ्क्षायां व्रीहिशास्त्राप्रवृत्तौ यवनीवारादीनामिव कृत्स्नपुरोडाशनिर्वर्तनसमर्थैकद्रव्यालाभे व्रीहियवरूपद्रव्यद्वयस्यापि पक्षे प्राप्तिर्भवति , तथा चाकाङ्क्षानुसारिणा व्रीहिशास्त्रेण कृत्स्नपुरोडाशप्रकृतितया व्रीहिनियमे क्रियमाणे पक्षप्राप्तानां नीवारादीनामिव व्रीहियवद्रव्यद्वयस्यापि निवृत्तिर्भवत्येव । कृत्स्नपुरोडाशप्रकृतितया पक्षप्राप्तानां यवानां परं निवृत्तिर्न भवति ; यवशास्त्रविरोधात् , मिश्रद्रव्यद्वयनिवृत्तौ तु नानुपपत्तिः ; तद्विधायकशास्त्राभावात् । एवं च मिश्रपुरोडाशे क्रियमाणे व्रीहिश्रुतिबाधः । एवं यवश्रुतिबाधोपीति युक्तमुक्तम् । न्यायसुधायां तु – व्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधनाः । यवाश्चैवमतस्तेषां मिश्रत्वं नावकल्पते॥ नैव व्रीहिभिरिष्टं स्याद्यवैर्नच यथाश्रुतैः । मिश्रैरिज्येत चेत्तत्र भवेदुभयसाधनम्॥ इति वार्तिकश्लोकव्याख्यानावसरे समर्थः पदविधिरिति पदमात्रविधेः सामर्थ्यापेक्षत्वाद्व्रीह्यादिप्रातिपदिकस्य यवादिसापेक्षत्वे तद्व्याघातापत्तेर्विभक्त्यन्वयायोगान्निरपेक्षाणामेव व्रीहियवानां तृतीयया करणत्वप्रतीतेर्मिश्रवं न युक्तमिति मिश्रपक्षे व्रीहिभिर्यवैरिति तृतीयाश्रुतिबाध उक्तः ।
प्रकृते गत्यन्तरसद्भावादिति ।
नाडीनां पुरीतत्परिवेष्टितहृदयपुण्डरीकमध्यगतब्रह्मप्राप्तौ मार्गत्वेन यो हि गङ्गया सागरं गच्छतीति भाष्योक्तरीत्या समुच्चयो घटते , पुरीततोपि प्राकारन्यायेन स घटते , श्रुतावपि बर्हिषि हवींष्यासादयतीति वेद्यास्तीर्णे बर्हिष्यासादनीयानां हविषां वेद्यां हवींष्यासादयतीति वेद्यामप्यधिकरणत्वमाम्नायते । एवं द्वारभेदात्समुच्चयोपपत्तेर्न विकल्प इत्यर्थः । स्यादेतत् – अथ यदा सुषुप्तो भवति यदा न कंचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते इति जीवस्य हृदयान्नाडीभिर्निष्क्रम्य पुरीतति शयनं श्रूयते । हृदयात्पुरीततं गच्छतो नाडीनां मार्गत्वोपपादनाय हि हृदयात्पुरीततमभिप्रतिष्ठन्ते इत्युक्तम् । अतः प्राकारन्यायोऽत्र न प्रवर्तते ; न हि प्रासादान्निर्गत्य प्राकारे शेते नृपतिरिति वाक्यं प्राकारवेष्टितप्रासादमध्यगपर्यङ्कशयनेनोपपादयितुं शक्यम् , नैष दोषः ; ताभिः प्रत्यवसृप्येति हृदयात्प्रत्यागमनं नोच्यते , किंतु हृदयं परितः स्थिताभ्यः स्वप्नवहननाडीभ्यः । स यत्रैतत्स्वप्नयाचरतीत्युपक्रम्य उतेव महाराजो भवत्युतेव महाब्राह्मण इत्यादिना स्वप्नदर्शनप्रकारमनूद्य स्वे शरीरे यथाकामं परिवर्ततइत्यन्तेन स्वप्नावस्थानिरूपणानन्तरम् अथ यदा सुषुप्तो भवतीत्युपक्रमात् । हृदयात्पुरीततमभिप्रतिष्ठन्त इति तु स्वरूपकथनार्थम् ; द्वासप्ततिसहस्राणीति संख्यावचनवद् ।
नाडीषु पुरीततीति निरपेक्षश्रुतिविरोधं परिहरति –
निरपेक्षता अपेक्षाभाव उत्सर्ग इति ।
नाडीपुरीततोर्नाडीब्रह्मणोश्च समुच्चयं स्वीकृत्य त्रयाणां विकल्पस्यापि स्वीकाराद्वरं सर्वेषां द्वारभेदेन समुच्चयस्यैव स्वीकार इति भावः ।
विकल्पफलकोऽभ्युच्चय इति ।
तया वा युक्त्या प्रकृतार्थनिर्णयोऽनया वा युक्त्येति विकल्पफलके युक्त्यन्तरसमुच्चये अयमपिचेति शब्दो न भवतीत्यर्थः ।
इदानीमतुल्यार्थत्वाच्च न विकल्प इत्याहेति ।
यद्यपि प्रागपि द्वारभेदेनातुल्यार्थत्वमुक्तम् ; तथापि जीवस्य ब्रह्मणेव नाडीपुरितद्भ्यां तादात्म्यसंपत्तिरूपविवक्षिताधाराधेयभावयोग्यता नास्तीत्येवं विधान्तरेणातुल्यार्थत्वमिदानीमुच्यत इति भावः ।
समप्रधानत्वे हीति ।
सिद्धान्त्यभिमतः समुच्चयः समप्राधान्ये न भवति , किंतु गुणप्रधानतयेति न च वयमिह तुल्यं नाड्यादिसमुच्चयं प्रतिपादयाम इत्यादिभाष्येण वर्ण्यते , तस्य पूर्वपक्षिकृतविकल्पनिरासार्थत्वेनोपयोग इत्यर्थः ।
पूर्ववाक्ये उक्त इति ।
एता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता इति वाक्ये इत्यर्थः ॥७॥८॥
इति द्वितीयं तदभावाधिकरणम् ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥
आत्यन्तिकत्वेनेति ।
ब्रह्मप्राप्तिरौत्पत्तिकीति तावदुत्सृष्टा मुक्ता वौत्सर्गिकत्वेनावधारितेति सुषुप्तावपि सत्संपत्तिः पूर्वाधिकरणे वर्णिता । तस्या अप्यात्यन्तिकत्वप्राप्तावविद्याशेषत्वसमर्थनेनापवादोऽस्मिन्नधिकरणे वर्ण्यत इत्यर्थः । एतेन मिथ्याज्ञानातिरिक्तामविद्यामपहत्य मिथ्याज्ञानवदविद्याया अपि निवृत्तिं चापाद्य पूर्वपक्षः प्रवर्तत इति दर्शितम् ; अन्यथा पूर्वपक्षानुत्थानात् ।
सुषुप्तस्य नाडीपुरीततोरवस्थानसंभवादित्याक्षिप्यत इति ।
ननु – यदि नाडीपुरीततोरवस्थानं संभाव्य सत्संपत्तिराक्षिप्यते, कथं तर्हि तेनान्योत्थानं समर्थ्यते ? संपन्नस्योत्थानं न संभवतीति युक्त्या खलु तत्समर्थनीयम् , उच्यते – यदि सिद्धान्तिना सुषुप्तस्य सत्संपत्तिरिष्यते , तदा तेनान्यस्यैवोत्थानमभ्युपेतव्यम् । यदि कर्मानुस्मृत्याद्यनुरोधात्तस्यैवोत्थानं वाच्यम् , तदा तस्य सत्संपत्तिर्हातव्येति नाडीपुरीततोरवस्थानमुपपद्यते । अतो न पूर्वाधिकरणसिद्धान्तसिद्धिरित्याक्षेपे तात्पर्यम् । एवं च स एवोतिष्ठत्यन्यो वेत्यनियमपूर्वपक्षोपि सत्संपत्त्यभ्युपगमतत्परित्यागपक्षद्वयानुसारेण व्यवस्थितः पर्यवस्यति। तथासत्येव चात्यन्तिकीं सत्संपत्तिं प्राप्तस्य कथं पाक्षिकतयाऽपि पुनरुत्थानं पूर्वपक्षीक्रियत इति शङ्काप्यनवकाशा भवति।
येषामीश्वर एवेति ।
ईश्वरादन्यः संसारी नास्तीति वादिनामीश्वर एव वा संसारी स्यात् , स्वप्नदृष्टमनुष्यादिवत्कल्पितो वा । आद्ये तस्य न सुषुप्तिर्न प्रबोधः । द्वितीये प्रातिभासिकस्य नोत्थानादिव्यवहार इति दूषणार्थः ।
द्वे अहनी द्व्यह इति ।
द्वे अहनी समाहृते इत्यर्थे तद्धितार्थोत्तरपदसमाहारे चेति समासः । राजाहःसखिभ्यष्टजिति समासान्तप्रत्ययः । रात्राह्नाहाः पुंसीति पुंलिङ्गता ॥९॥
इति तृतीयं कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥
मुग्धेऽर्धसंपत्तिः परिशेषात् ॥१०॥
ऐक्यप्रत्यभिज्ञानादिति ।
यद्यप्यत्र व्यक्त्यैक्यप्रत्यभिज्ञानं न संभवति ; सुखमहमस्वाप्समिति परामर्शोन्नीतसौषुप्तिकानुभवयोग्याविद्यापरिणामविशेषः सुषुप्तिरित्यभ्युपगमे व्यक्तिभेदस्य स्फुटत्वात् , विशेषविज्ञानसंसर्गाभावकूटः सेत्यभ्युपगमेऽपि तत्तत्कालं मिलितकूटानुप्रविष्टविज्ञानप्रागभावप्रध्वंसव्यक्तीनां विपर्यासेन कूटभेदस्यावर्जनीयत्वात् ; तथापि क्वचिन्निमीलितनयनत्वनिश्चेष्टत्वादिविशिष्टे पुरुषे सुषुप्तिमेव गतवतो मूर्च्छितमपि तथाभूतं पश्यतो भवति जात्यैक्यविषया प्रत्यभिज्ञा सैवेयमस्य सुषुप्तिरिति स एवायं शङ्खध्वनिरितिवत्सैवात्र पूर्वपक्षसाधनसमर्था पूर्वपक्षिणा विवक्षिता । एवं च पूर्वाधिकरणे व्यक्त्यैक्यविषया प्रत्यभिज्ञा इह जात्यैक्यविषयेति भेदसद्भावेऽपि प्रत्यभिज्ञासामान्यं संगत्यर्थं विवक्षितमिति नासंगतिः ।
स्थिरकारणस्वीकारादिति ।
क्षणिकवाद एव समर्थस्य क्षेपायोगात्समर्थे बीजक्षणे सत्यङ्कुरजननमवश्यंभावीति नियमः । स्थिरवादिभिस्तु समर्थस्यापि सहकारिविरहसमये कार्याजनकत्वमभ्युपगतमिति भावः ।
अद्वयेति ।
तत्पदार्थाभेदसिद्ध्यर्थं त्वंपदार्थशोधनाय पूर्वपक्षे जागराद्यवस्थाचतुष्टयेनासबन्धो जीवस्य परिभावनीयः , सिद्धान्ते तु मूर्च्छयापीत्येवं फलभेद इत्यर्थः ॥१०॥
इति चतुर्थं मुग्धाधिकरणम् ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥ पृथिव्याद्युपाधिप्रयुक्तैः सर्वगन्धत्ववामनीत्वादिगुणैः शाण्डिल्योपकोसलविद्याद्युपास्यस्य ब्रह्मणः स्वरूपेण भेदो न निषिध्यते , किंतु ज्ञेयत्वेन तदर्थमेवेदमधिकरणमिति ये मन्यन्ते तन्मतं स्वयं दूषयति –
यस्तु कश्चिदिति ।
सिद्धान्तादिति ।
दोषोपाधिप्रयुक्तं चक्षुरादीनां भ्रमकरणत्वमिव पृथिव्याद्युपाधिप्रयुक्तं ब्रह्मणः सविशेषत्वं सत्यमित्येवंरूपपूर्वपक्षस्य सिद्धान्ताद्विशेषमाहेत्यर्थः ।
अयमेव स इत्यद्वैतप्रतिपादकत्वादिति ।
अद्वैतप्रतिपादके च ब्रह्मणः सविशेषत्वं विवक्षितमिति वक्तुं न शक्यम् ; विरुद्धविशेषवता ब्रह्मणः जीवस्याभेदायोगादिति भावः ॥११॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥१०॥वचनव्यक्तीराह किं सल्लक्षणमिति पूर्वपक्षाभिमतप्रथमवचनव्यक्तिप्रतीकोपादानम् । व्यक्तीरिति बहुवचनं पूर्वपक्षसिद्धान्ताभिमतवचनव्यक्तित्रयाभिप्रायम् । ननु वचनव्यक्तित्रयोपन्यासाद् द्वौ पूर्वपक्षौ एकः सिद्धान्त इति प्रतिभाति।
अग्रे च सल्लक्षणं प्रकाशलक्षणं च ब्रह्मेत्येकस्यैव पूर्वपक्षस्य निराकरणं दृश्यते , कथमेतद्युज्यते ? इत्याशङ्क्य द्वितीयतृतीये द्वे अपि वचनव्यक्ती सिद्धान्तिन एवेति व्याख्यातुं द्वितीयवचनव्यक्तिमुपादत्ते –
किं सल्लक्षणमेवेति ।
नन्वियं वचनव्यक्तिः कथं सिद्धान्त्यभिमता ? एवकारेण प्रकाशलक्षणत्वव्यावर्तनात् , सिद्धान्ते च प्रकाशलक्षणत्वाङ्गीकारादित्याशङ्क्य प्रकाशलक्षणाद् भेदव्यवच्छेद एवकारार्थो न तु प्रकाशलक्षणत्वव्यवच्छेदार्थ इति व्याचष्टे –
एवकार इति ।
नन्वेवकारद्वयं प्रकाशलक्षणत्वसल्लक्षणत्वव्यवच्छेदार्थं न भवति चेत् , सिद्धान्तेऽप्युभयलक्षणं ब्रह्मेति पूर्वपक्षात्तस्य को विशेष: ? इत्याशङ्क्याह –
ततश्चेति ।
सत्प्रकाशभेदेनोभयरूपं ब्रह्मेति पूर्वपक्ष: । तयोरभेदेनैकरूपं तदिति सिद्धान्त इति विशेष इत्यर्थः ।
सच्चेति साध्ये अवैयर्थ्यादिति हेतुं विवृणोति –
सच्छ्रुतेरिति ।
नन्वेकदेश्यभिमतसिद्धान्तनिराकरणप्रस्तावेनाप्युभयलक्षणमेव ब्रह्मेति शक्यं वक्तुम् ; पूर्वाभ्युपगमविरोधप्रसंगादिति भाष्यं सिद्धान्त्यभिमतस्यैव पक्षान्तरस्य निराकरणार्थं प्रवृत्तमिति प्रतिभाति , तस्य तादर्थ्यमयुक्तम् ; उभयलक्षणत्वं पूर्वपक्षीकृत्य तन्निराकरणार्थतयैव द्वितीयाधिकरण प्रवृत्तेरैकदेशिभिरुक्तत्वादित्याशङ्क्य तदपि भाष्यं पूर्वपक्षस्यैव निराकरणार्थमित्याह –
पूर्वपक्षानुत्थान एवेति ।
ननु – पूर्वपक्षनिराकरणार्थत्वे प्राग् यदि तावदनेकलिङ्गत्वमित्यादिभाष्योक्तहेतुना पौनरुक्त्यमिति – चेत् , न ; प्राक् पूर्वाधिकरणे सिद्धस्यार्थस्य पुनः साधनवैयर्थ्यमिति सिद्धान्तदूषणतयोक्तम् । इदानीं पूर्वाधिकरणसिद्धान्ते स्थिते तदनुपमृद्य पूर्वपक्षोत्थानं न संभवतीति पूर्वपक्षदूषणतयोच्यत इति मुखभेदेनापौनरुक्त्यात् । यद्यपि तत्र सिद्धान्तदूषणमपि पूर्वपक्षानुत्थानमुपजीव्योक्तम् , अन्यथा सिद्धान्तवैयर्थ्योक्त्ययोगात् ; तथापि पूर्वपक्षानुत्थानं द्वारीकृत्य सिद्धान्तदूषणपर्यन्तं पूर्वभाष्यम् ; इदं तु भाष्यं पूर्वपक्षानुत्थानमात्रपर्यवसायीति भेदः । अत एवाचार्यैरिह पूर्वपक्षानुत्थान एवेत्येवकारः कृतः । वस्तुतस्तु – केवलसल्लक्षणत्वे केवलबोधलक्षणत्वे चोक्तदोषं पश्यन् सिद्धान्ती यद्यगत्या स्वनिराकृतमेव पूर्वपक्षं परिगृह्णीयात् , तदा तस्य न केवलं पूर्वपक्षिण इह पूर्वाधिकरणसिद्धान्तोक्तयुक्तिविरोधमात्रम् , अपि तु स्वाभ्युपगमविरोधोऽपीत्ययमेवार्थो भाष्यस्य स्वारसिकः ।
नन्वेकदेशिसिद्धान्ते किं दूषणं दृष्ट्वा परमार्थतत्त्वभेद एव प्रकृष्टप्रकाशवदित्यखण्डसिद्ध्या स्वसिद्धान्ताभिमततयोपसंहारः कृतः ? इत्याशङ्क्य टीकाभिप्रेतं परसिद्धान्तदूषणं दर्शयति –
यश्च सत्ताप्रकाशयोरिति ।z सर्वात्मना सत्ताप्रकाशयोरभेदाभ्युपगमे सद्बोधशब्दयोः पर्यायत्वप्रसङ्गः । अनिर्वाच्यप्रवृत्तिनिमित्तभेदेन पर्यायत्वसमाधाने त्वस्मत्सिद्धान्त एव । न च – तथा निर्णयार्थमेवाधिकरणान्तरमिहास्त्विति शङ्कनीयम् ; स्वरूपतटस्थलक्षणोपपादनार्थं प्रवृत्ते जन्माधिकरण ( ब्र. अ. १ पा. १ सू. २ ) एव स्वरूपलक्षणेनाखण्डसिद्धिरिति पूर्वपक्षस्य निराकृतत्वेन पुनरिह शङ्कानुत्थानादित्यर्थः । जर्तिलाः आरण्यतिलाः । गवीधुकाः आरण्यगोधूमाः ।
शारीरस्तेजोमयोऽमृतमयः पुरुष इत्येतदनन्तरमियं पृथिवीति वाक्यादनुषक्तपदानि योजयन्नाकाङ्क्षां पूरयति –
सर्वेषां भूतानां मध्विति ।
मधुशब्दस्य सृज्यत्वसाम्याल्लक्षणीयमर्थमाह –
उपकारकाविति ।
वाक्यद्वयादनुषङ्गलब्धानि पदानि योजयित्वा वाक्यान्तरं दर्शयति –
तयोश्च सर्वाणि भूतानि मध्विति ।
एतावदनुषङ्गश्चकारसामर्थ्यान्मध्वित्युपक्रमाच्चेत्याह –
चशब्दादिति ।
नानेवेतीवशब्दार्थमाह –
आभासमिति ।
वस्तुतोऽपारमार्थिकमित्यर्थः ।
स्वयं च न कारणमिति ।
वस्तुतः कारणं न भवति ; सत्यस्य कार्यस्याभावादिति भावः ।
पक्षीति लिङ्गशरीरमुच्यत इति ।
मनः प्राणविज्ञानानां लिङ्गशरीरान्तर्गतानां पक्षपुच्छादिनिरूपणादिति भावः ॥२१॥
इति पञ्चममुभयलिङ्गाधिकरणम् ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ ननु यदित्यस्य गच्छदित्यर्थश्चेद्वायोरेव संग्रहो नाकाशस्येत्याशङ्क्याह –
ततश्चेति ।
यदित्यनेन गच्छद्धर्म एकत्रैवावस्थानाभावो लक्ष्यते , स व्याप्तिः आकाशस्यापि तुल्य इति भावः ।
यद्यपि पञ्चभूतेति ।
समष्टिलिङ्गशरीरस्य पञ्चभूतकार्यत्वात्तदभिमानिनो हिरण्यगर्भस्य तथात्वमुक्तम् ।
चक्षुरिन्द्रियस्य तैजसत्वाच्चक्षुषोरसत्त्ववचनं गोलकाभिप्रायमित्याह –
चक्षुरिति ।
रूपाद्युपलब्धिभिः क्रियाभिरिति ।
रूपाद्युपलब्धिभिर्गमनादानक्रियाभिश्चेत्यर्थः ।
आध्यात्मिकेति ।
आध्यात्मिकलिङ्गशरीरान्तर्गतस्य चक्षुरादेः समष्टिरूपलिङ्गशरीरान्तर्गतादित्यादिव्यष्टित्वात्समष्ट्यभिमानिनो हिरण्यगर्भस्य व्यष्ट्यभिमानि देवतात्वमप्यस्तीति हिरण्यगर्भत्वोक्तिरित्यर्थः । एवं च लिङ्गशरीरस्य सकलस्थूलशरीरवर्तित्वेऽपि तदभिमानिदेवतायाश्चक्षुष्यवस्थानं श्रुतिबलादङ्गीकार्यमिति तात्पर्यम् ।
अथवेति ।
आदित्यश्चक्षुर्भूत्वेति श्रुतौ चक्षुरनुग्राहकत्वेनादित्यस्य तस्मिन्नवस्थानं प्रसिद्धं , स आदित्यः प्राणात्मनाऽऽदित्यमण्डलमधितिष्ठन् हिरण्यगर्भ एव ; हिरण्यगर्भस्य तथात्वेन पुराणेषु प्रसिद्धेः , तस्य श्रुतिपुराणसिद्धाया जगदण्डादुत्पत्तेः छान्दोग्योपनिषदि आदित्ये समाम्नानाच्चेति भावः ।
कार्यं शरीरं करणमिन्द्रियमिति ।
आधिदैविकाध्यात्मिकभेदे द्विविधे सत् त्यदित्युभे द्विविधसदृशभूते आदित्यमण्डलचक्षुर्गोलके चेत्येतत्सर्वं समष्टिव्यष्टिस्थूलशरीररूपं कार्यशब्देनोक्तम् । द्विविधरसभूतं समष्टिलिङ्गशरीरद्वयं करणशब्देनोक्तमिति विभागः । यद्यपि द्विविधमपि लिङ्गशरीरं द्विविधसकलस्थूलशरीरवर्ति ; तथापि तदभिमानिनो मण्डलगोलकयोः सन्निधानात्तस्यापि तयोर्वर्तनमभिमान्यभेदोपचारादुक्तम् । तदभेदोपचारादेव तस्य हैतस्य पुरुषस्येति अनन्तरवाक्ये पुरुषशब्देनाभिमानिवाचिना करणद्वयस्य परामर्शः । कार्यकारणभावेनेति पाठे तु मूर्तामूर्ते रूपे कारणे तद्रसतयोक्तानि कार्याणि । स्पष्टो विभागः ।
मूर्तमूर्तेति ।
मूर्तामूर्तविषयेण जागरानुभवेन जनितया वासनया जन्यं विज्ञानं स्वप्नविभ्रमस्तद्विषय इत्यर्थः । विज्ञानमयमिति पाठेऽपि विज्ञानविषय इत्येवार्थः ।
दृष्टान्तैरुपमां दर्शयतीति ।
महारजनादिरूपसमानं रूपमादर्शयतीत्यर्थः ।
महारजनं हरिद्रेति ।
नैघण्टुकास्तु महारजनं कुसुम्भमाहुः ।
वासनाजन्येति ।
वासनाजन्यपूर्वपूर्वस्वप्नविश्रान्तिवशादुत्तरोतरस्वप्नेषु प्रतीयमाने प्रपञ्चे महारजनादिसमानरूपाध्यासानुकूलः कोऽप्याकारो लिङ्गशरीरे तादात्म्येनारोप्यते । तन्निष्ठा रूपभेदाः स्वाप्नपदार्थेषु भासन्ते तत्परिणामत्वात्स्वाप्नपदार्थानामिति भावः ।
ननु सत्सामान्यस्य बोधरूपविशेषसत्वान्नात्र मूर्तामूर्तविशेषव्यावृत्तावपि सत्तासामान्यं व्यावर्तेतेत्याशङ्क्याह –
तच्चेति ।
तत्सत्त्वस्य सामान्यात्मकत्वं सवासनमूर्तामूर्तसाधारणयोक्त्या स्पष्टीकृतमित्यर्थः । अयमाशयः – यथा शोणकर्कादयोऽश्वविशेषाः ; शोणोऽश्वः कर्कोऽश्व इत्यादिव्यावृत्तानुवृत्तव्यवहाराद् , एवं मूर्तामूर्तब्रह्मरूपत्वेनोक्ताः पृथिव्यादयः सद्विशेषाः , सती पृथिवी सज्जलमित्यादिव्यवहारात् , ततश्च यथा शोणकर्कादियावद्विशेषव्यावृत्तावश्वत्वसामान्यं व्यावर्तते , एवं पृथिव्याद्यात्मकयावद्रूपविशेषव्यावृत्तौ सामान्यं व्यावर्तेत । न च बोधरूपविशेषान्तरसद्भावात्तद्व्यावृत्तिः शङ्कनीया ; द्वे वावेत्यवधारणेन ब्रह्मणि मूर्तामूर्तरूपद्वयव्यतिरेकेण रूपान्तरं नास्तीत्यवगमात् । एवं च बोधात्मकत्वं सहैव ब्रह्मणा धर्मिणा श्रुतमप्यसदेव स्यादिति।
यथाहुरित्युदाहृतस्यार्थस्य निर्विशेषं सामान्यं शशविषाणवन्न भवेदिति योजनान्तरभ्रान्तिं वारयति –
निर्विशेषं यत्तत्सामान्यं न भवेदिति योजनेति ।
ननु विशेषणत्वादेव योग्यत्वमसिद्धमित्याशङ्क्याह –
अप्रमितत्वमेवेति ।
प्रमितत्वमेव प्रतिषेधायोग्यत्वं , न तु विशेषणत्वमिति। ब्रह्मणस्तु प्रमितत्वमसिद्धम् ; रूपद्वयवन्निषेधायानुवादोपपत्तेरिति भावः । कर्क ईषल्लोहित इति।
अमरसिंहस्त्वश्वप्रकरणे पृष्ठः स्थूरी सितः कर्क इति श्वेतमश्वं कर्कमाह -
निषेधेन निषेध्य सत्तेति ।
निर्विशेषं सामान्यं न भवेदिति निषेधेन सत्ता किमर्थस्वभावभूता निषेध्या उत प्रमाणसंबन्धात्मिकेति संभावितविकल्पद्वयप्रतिषेधार्थमभावोऽप्रतीतिर्वेत्युक्तमित्यर्थः । द्वे वावेत्यवधारणं तु रूपद्वयातिरिक्तां ब्रह्मणो बोधरूपतां न व्यवच्छिनत्ति , किं तु रूपद्वयस्यासमुच्चयमित्याचार्यैः प्रागेव व्याख्यातम् ।
तत्र यथा विधिप्राप्तस्येति ।
यजतिषु येयजामहङ्करोतीत्येतदनन्तरं नानुयाजेष्वित्यनेनानुयाजेषु येयजामहकरणं निषिध्यत इति पूर्वपक्षे निषेधस्य निषेध्यप्राप्तिपूर्वकत्वान्न हिंस्यादित्यत्र हिंसनस्येव यजतिषु येयजामहकरणस्य लोकतः प्राप्त्यभावाच्च तस्य यजतिषु येयजामहं करोतीत्यनेनैव प्राप्तिर्वक्तव्या । तथा च सर्वात्मना प्रतिषेधप्रापकशास्त्रस्याप्रामाण्यप्रसङ्गाद् विधिप्रतिषेधशास्त्रद्वयप्रामाण्यायानुयाजेषु येयजामहविकल्प आश्रित इत्यर्थः ॥२३॥२४॥२५॥२६॥२७॥२८॥२९॥३०॥
इति षष्ठं प्रकृतैतावत्त्वाधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले तृतीयाध्यायस्य द्वितीयः पादः॥
॥ अथ तृतीयाध्यायस्य तृतीयः पादः॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥ पूर्वपादेन सङ्गतिं प्रदर्शयन् पादार्थमाह –
द्वितीयपाद इति ।
तत्त्वम्पदार्थशोधनेन निर्विशेषब्रह्मणि निर्धारिते मोक्षसाधनं तज्ज्ञानोपयोगिसगुणनिर्गुणवाक्यार्थनिर्धारणं क्रियत इति पादसंगतिः । हिरण्मयादिवाक्यं सगुणविषयं प्रतर्दनादिवाक्यं निर्गुणविषयमित्येवंरूपसगुणनिर्गुणवाक्यार्थनिर्धारणस्य प्रथमाध्यायेन कृतत्वेऽपि नानाशाखाम्नातगुणोपसंहारेण तन्निर्धारणं न कृतमिति तदर्थोऽयं पादः । तथा च गुणोपसंहारः पादार्थ इति भावः ।
ननु सगुणवाक्यार्थनिर्धारणं विचार्यत्वेन प्रतिज्ञातस्य निर्विशेषस्य ज्ञाने नोपयोगीत्यत आह –
सगुणेति ।
चित्तशुद्धिद्वारेणेत्युपलक्षणम् । चित्तैकाग्र्यद्रढिमसंपादनद्वारेत्यपि द्रष्टव्यम् ।
ननु गुणोपसंहारः केषुचिदेवाधिकरणेषु चिन्त्यते , केषुचिद्विद्यानामभेदः , केषुचिद्भेदः , अतो नैकः पादार्थ इत्यत आह –
पादार्थोपसंहारेणेति ।
गुणोपसंहार एव पादार्थः । अभेदचिन्ता तदुपयोगिभेदचिन्ता , तदपवादत्वेनेत्यर्थः ।
अभेदचिन्ता गुणोपसंहारोपयोगिनी चेन्निर्गुणविद्यायां किमिति सा न कृतेत्याशङ्क्याह –
अधिकरणैरिति ।
यद्यप्यानन्दाधिकरणे आनन्दादिभावरूपगुणोपसंहारचिन्ता अक्षरधियामित्यधिकरणे (व्या. सू. अ. ३ पा. ३ सू. ३३ ) स्थूलत्वाद्यभावरूपगुणोपसंहारचिन्तेत्यधिकरणद्वयमेव निर्गुणविद्याया अवगतपरस्परगुणोपसंहारविषयम् ; तथाप्यात्मगृहीतिरित्यधिकरणे प्रथमवर्णके पूर्वपक्षे "आत्मा वा इदमेक एवाग्र आसीदि”त्यैतरेयवाक्यं हिरण्यगर्भविषयम् । द्वितीयवर्णकपूर्वपक्षे “सदेव सोम्येदमग्र आसीदि”त्यादिच्छान्दोग्यवाक्यं सत्तासामान्यविषयमित्युभयत्रापि पूर्वपक्षयोरानन्दादिगुणानुपसंहारः , सिद्धान्ते तदुपसंहार इति निर्गुणविद्यागतगुणोपसंहारफलत्वात् कामाद्यधिकरणे (व्या. सू. अ. ३ पा. ३ सू. ३६) निर्गुणविद्यायां सगुणविद्यागतसत्यकामादिगुणोपसंहारस्य साक्षान्निरूपितत्वाच्च तदभिप्रायमधिकरणैरिति बहुवचनम् ।
नामरूपेति ।
काठककालापादिर्नामभेदः । क्वचिच्छाखायां दर्शपूर्णमासयोरग्नीषोमीय एकादशकपालः श्रूयते शाखान्तरे द्वादशकपाल इति रूपभेदः । कारीर्यादिषु शिरोभूमिभोजनादिर्धर्मविशेषः । पुनरुक्तिः अग्निहोत्रादिविधेः शाखाभेदेनाविशेषपुनःश्रवणरूपोऽभ्यासः । निन्दा उदितानुदितहोमयोः । अशक्तिः सर्वशाखोदितसकलाङ्गग्रहार्थतावच्छाखाध्ययनाशक्तिः । मैत्रायणीयानामन्वारोहसंज्ञकेषु स्थलारोहणमन्त्रेष्वग्निचयनस्य समाप्तिः अन्यत्रान्येषामिति समाप्तिभेदः । केषांचिच्छाखायामुदितहोमव्यतिक्रमे प्रायश्चित्तम् अन्येषामनुदितहोमव्यतिक्रमे इति प्रायश्चित्तभेदः । “यदि पुरादिदीक्षाणाः स्युर्बृहत्सामानमतिरात्रमुपेयुरुपेतं ह्येषां रथन्तरं यद्यदिदीक्षाणाः रथन्तरसामानमतिरात्रमुपेयुरि”त्यनिष्टप्रथमयज्ञानां द्वादशाहदर्शनं शाखाभेदेन द्वादशाहभेदेऽन्यार्थदर्शनरूपं लिङ्गम् , दिदीक्षाणाः प्राग्दीक्षितवन्तः । लिटः कानचि द्विर्वचनम् । कथं प्राग्दीक्षितानां द्वादशाहदर्शनं द्वादशाहभेदे लिङ्गमुच्यते ? शाण्डिल्यशाखाया"मेष वात्र प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽथान्येन यजते गर्तपत्यमेव तत्कुरुते" इति सर्वक्रतूनां ज्योतिष्टोमपाश्चात्यत्वमङ्गं विहितम् । यद्येक एव द्वादशाहो नानाशाखासु विधीयते , तदा तस्य ज्योतिष्टोमपूर्वकत्वनियमादनिष्टप्रथमयज्ञस्य द्वादशाहदर्शनं नोपपद्यते । यदि प्रतिशाखं द्वादशाहभेदः स्यात्तदा शाण्डिल्यशाखायाम् "अथान्येन यजते" इत्यन्यशब्दस्य शाण्डिल्यशाखागतद्वादशाहादिविषयत्वोपपत्तेः शाखान्तरगतद्वादशाहानां ज्योतिष्टोमपाश्चात्यत्वस्याविधानात् । यस्यां शाखायामनिष्टप्रथमयज्ञस्य द्वादशाहदर्शनं तच्छाखागतद्वादशाहविषयत्वेन तदुपपद्यते । एवं नामभेदादिहेतुभिः प्रतिशाखमग्निहोत्रादिकर्म भिद्यत इति सूत्रार्थः ।
विरुद्धकालद्वयासंभवादिति ।
यद्यपि कालद्वयं विकल्पेन संभवति ; तथापि निन्दयोदितानुदितहोमपक्षद्वयेऽपि वैगुण्यापादकमुदितानुदितकालद्वयमपि कर्मैक्ये न संभवतीति भावः ।
न केवलं निन्दया वैगुण्यमवगम्यते किंतूदितानुदितकालव्यतिक्रमे प्रायश्चित्तोपदेशेनाप्येतद्दर्शयति –
प्रायश्चित्तमिति ।
निन्दाप्रायश्चित्ते इति ।
अन्धं तमः प्रविशन्तीत्यादिषु केवलयोर्विद्याकर्मणोर्निन्दासद्भावेऽपि भिन्नशाखागतयोरग्निहोत्रयोरिव विद्ययोर्भेदापादिका निन्दा नास्तीति भावः ।
अस्त्यथैष ज्योतिरित्यादिनेति ।
प्राग् ज्योतिष्टोमे प्रकृते अथैव ज्योतिरित्याद्युपक्रमः । ज्योतिरिति हि प्रातिपदिकमात्रं न त्वस्य नामत्वमभिव्यक्तमिति। मात्रशब्देन यजिसामानाधिकरण्यं व्यावर्त्यते । अथैष ज्योतिरित्यत्र यजिसामानाधिकरण्याभावाद् न क्रतुनामत्वमभिव्यक्तमित्यर्थः । प्रतीकमात्रमिति क्वचित्पाठः । तत्र ज्योतिष्टोमनामावयवमात्रमिति नास्य प्रकृतज्योतिष्टोमनामत्वमभिव्यक्तमित्यर्थः । यद्यपि तदभिव्यक्तिसत्त्वे तदिष्टमेव प्रकृते ज्योतिष्टोमे सहस्रदक्षिणालक्षणगुणविधिरिति वदतः पूर्वपक्षिणः ; तथाप्यप्रयोजकमिह नामभेदाभेदयोरित्यग्रिमग्रन्थे नाम यथा पूर्वपक्ष्यभिमते अभेदे न प्रयोजकम् , एवं सिद्धान्त्यभिमते भेदेऽपि न प्रयोजकमिति वक्ष्यमाणत्वात् तत्र कथमभेदेन प्रयोजकं ज्योतिरिति प्रकृतज्योतिष्टोमनाम्ना तदभेदप्रतीतेरित्याशङ्कानिवारणार्थत्वेनेदं वाक्यमिति नेतव्यम् ।
प्रायेणाख्यातसंबन्धीति ।
आख्यातसंबन्धस्यापि प्रागेव क्वचिल्लब्धप्रवृत्तिनिमित्तकं नाम नाख्यातपरतन्त्रम् , यथाऽऽग्नेयादीनां प्रयाजादीनां च यागानां सन्निधौ श्रूयमाणे “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यधिकारवाक्ये यजेतेत्यस्य संनिहितसर्वयागानुवादस्वारस्येऽपि न तत्पारतन्त्र्येण दर्शपूर्णमासनाम्नस्तावद्यागवृत्तित्वं , किंत्वमावास्यापौर्णमासीकालयुतेष्वाग्नेयादिषु क्लृप्तप्रवृत्तिनिमित्तकत्वात्तावन्मात्रवृत्तित्वमभिप्रेत्य प्रायेणेत्युक्तम् । तथा चाक्लृप्तप्रवृत्तिनिमित्तकं नामाख्यातपरतन्त्रं , तथाभूतं च ज्योतिरिति नाम , अतस्तस्याख्यातपारतन्त्र्यादाख्यातस्य च प्रकृतज्योतिष्टोमानुवादस्वारस्यात्तत्परतन्त्रं नामापि तु तत्रैव वर्तितुमर्हतीति भावः । ज्योतिरिति कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनादित्यादिहेतूनामिति। अत्र टीकायामसन्नपि ज्योतिरित्ययमंशः कस्य कर्मनामत्वं व्यवस्थितमित्याकाङ्क्षितांशपूरणार्थं स्वयमध्याहृतः ।
द्वादशशतं दक्षिणेति ।
श्रुतौ द्वादशमिति शब्दस्तदस्मिन्नधिकमिति दशान्ताड्ड इति सूत्रविहितडप्रत्ययान्तः । ततश्च द्वादशाधिकं शतमित्यर्थः । द्वादशशतं गाव इत्युदाहृतश्रुतिवाक्ये गोशब्दाभावेऽपि तत्र निर्दिष्टा द्वादशशतसंख्या गौश्चाश्वाश्चाश्वरथश्च गर्दभश्चेत्यादिपूर्वसंदर्भप्रकृतगोविषयेति दक्षिणाधिकरणे (जै. सू. अ. १० पा. ३ सू. ३९ – ४९ ।) निर्णीतत्वाद्गाव इत्युक्तम् । अन्यायश्चानेकशब्दत्वमिति न्यायः प्रकृते उदाहर्तव्यः ।
अतो न्यायान्तरोदाहरणं दृष्टान्तार्थमिति व्याचष्टे –
यथानेकार्थत्वमिति ।
ज्योतिज्योंतिष्टोमशब्दयोरेकार्थत्वादिति ।
यद्यपि वसन्तवाक्ये ज्योतिः , शब्दः एकदेश्येकदेशसंबन्धेन ज्योतिष्टोमशब्दं स्मारयति , स्मृतज्योतिष्टोमशब्दाभिहितो यागो वाक्यार्थान्वयी , न त्वत्र ज्योतिःशब्दो ज्योतिष्टोमस्य वाचकः ; ज्योतिष्टोमज्योतिःशब्दौ नैकस्य कर्मणो वाचकौ इत्यनुपदमेवाभिहितत्वात् , वसन्तादिवाक्ये ज्योतिःशब्दः एकदेशान्तरलक्षणार्थ इत्यनुपदमेव वक्ष्यमाणत्वाच्च ; तथापि यथाकथंचिज्ज्योतिष्टोमयागप्रतीत्युपयोगित्वेन श्रुतो ज्योतिःशब्दः प्रयुक्त इत्येतावता तयोरैकार्थ्यमुक्तम् । नामतयैकार्थप्रतीत्युपयोग्यनेकशब्दप्रसिद्धावन्यत्र सुलभतरायामपि क्लिष्टोदाहरणम् अथैष ज्योतिरित्यत्र यस्य ज्योतिःपदस्य ज्योतिष्टोम इति नामान्तरवति वृत्तिरन्याय्येति विचिकित्सते तस्यैवान्यत्र तस्मिन् वृत्तिर्दृष्टेति दर्शयितुम् ।
यत्तु वसन्तादिवाक्य इति ।
वसन्तादिवाक्ये इव अथैष ज्योतिरित्यत्राप्युत्सर्गबाधोऽस्त्विति भावः ।
एकदेशान्तरलक्षणार्थे इति ।
अत्र लक्षणार्थ इत्यनेन एकदेश्येकदेशसंबन्धमूलकज्योतिष्टोमशब्दस्मृत्यर्थत्वं विवक्षितम् , न त्वेकदेशान्तरे एकदेशिनि वा लाक्षणिकत्वं शक्यसंबन्धाभावात् । न हि नामैकदेशस्य किंचिच्छक्यम् ; एकदेशस्य एकदेशिनश्च शक्यसंबन्धो वाऽस्ति। न चैकत्रेतीति प्रतीकग्रहणानन्तरं – वसन्तवाक्ये ज्योतिषा यजेतेति आख्याततन्त्रा संज्ञा आख्यातं च कालविधिसंक्रान्तमिति पूर्वकर्मानुवदेदेषा तु प्रथमान्तत्वादतन्त्रेति प्रकृतकर्मबुद्धिं व्यवच्छिनत्तीत्यर्थ इति शुद्धः पाठः । वसन्तवाक्ये हि काललक्षणानिमित्तसंक्रान्तत्वाद्विधेः कर्मसिद्ध्यनुपपत्तिः नान्यत्रेत्यर्थ इति क्वचित्पाठो दृष्टः , सोऽप्यत्रैवार्थे कथञ्चिद्योज्यः । तस्मिन् पाठे नान्यत्रेत्यस्य न त्वत्रेत्यर्थः । तथा च वसन्तवाक्ये कर्मविध्यनुपपत्तेराख्यातेन पूर्वकर्मानुवदनीयमिति तत्समानाधिकरणज्योतिःशब्दस्यापि कथञ्चित्तत्प्रत्यायकत्वमाश्रितं , नत्वत्र तदाश्रयणीयम् ; प्रथमान्ते तथानुपपत्तिस्फूर्त्यभावादिति।
तस्यैव नाम्नः कर्मान्तरवाचकत्वादित्याहेति ।
प्रथमान्तज्योतिःशब्दस्य विधास्यमानकर्मनामतायास्तदानीमनभिव्यक्तावपि पूर्वासंबन्धिपदेन तेन प्रकरणविच्छेदादिति भावः । अत्र हि द्रव्यदेवतेति वाजिनद्रव्यदेवतासंबन्धो यागेनैव कर्तव्य इति द्रव्यदेवतासंबन्धस्य यागाविनाभावात्तेन यागानुमितिः ।
टीकायां गुणाधिकरणसंदेहोपन्यासपूर्वपक्षकोटौ द्रव्यमात्रस्य विधिरुक्तो न देवतायाः , तत्र किमर्थं देवताया अपि विधिर्नोक्तः अविधाने च देवतायाः कुतो लाभ इत्याशङ्क्याह –
यद्यपीत्यादिना ।
ननूभयोरपि वाक्ययोः समसमयवृत्तेरिति टीकोक्तमयुक्तम् ; आमिक्षावाक्ये स्वार्थमभिधाय पर्यवसिते वाजिनवाक्यप्रवृत्तेः , न ह्युत्तरवाक्यप्रवृत्तिपर्यन्तं पूर्ववाक्यमपर्यवसिताभिधानं भवतीति क्वचिद् दृष्टमित्याशङ्क्यान्यत्रातथाभावेऽपि प्रकृते तथाभावमुपपादयति –
अयमभिप्राय इति ।
यत्र पूर्वापरवाक्यद्वयमपि किंचिदंशकल्पनया पूरणीयं भवेत्तत्र नानेकं कल्पनीयं गौरवादिति भावः ।
तद्धितान्तपदश्रुतिमात्रादिति ।
विश्वे देवा देवता अस्या इति विग्रहवाक्ये अस्या इत्येतदर्थत्वेनामिक्षायाः प्रवेशात्तत्समानार्था तद्धितश्रुतिरपि द्रव्यदेवतासंबन्धार्था वाजिभ्य इति चतुर्थ्यन्तशब्दस्तूद्देश्यदेवतामात्रमभिधत्ते , न तस्या द्रव्यसंबन्धमपि , स तु तत्र वाक्यगम्य एवेति भावः ।
तथा सतीति ।
विग्रहवाक्यस्थस्यास्या इति पदस्यामिक्षायां पर्यवसानार्थम् आमिक्षापदसमभिव्याहारापेक्षाऽस्तीतीहापि वाक्यबोध्य एव संबन्ध इति भावः ।
श्रौत एवामिक्षासंबन्ध इति ।
पर्यवसिताभिधानस्य यत्प्रत्यायनाय पदान्तरसमभिव्याहारापेक्षा तत्रैव वाक्यं प्रमाणं , यत्र त्वपर्यवसिताभिधानाय पदान्तरापेक्षा तत्र पदान्तरसन्निधानेन पर्यवसिता श्रुतिरेव प्रमाणमिति भावः ।
टीकायां तथापीत्यारभ्योपलक्षयतीत्यन्तेन ग्रन्थेन प्रकृते श्रुतितो वाक्यस्य दौर्बल्याभावमुपपादयितुमुपक्रम्य तद्विहाय यद्यपीत्यादिना विचारान्तरं प्रवर्तितं , तदनन्वितमित्याशङ्क्य उपलक्षयतीत्यन्तस्योपरितनग्रन्थेनान्वयं दर्शयति –
उपलक्षितेषु चेति ।
विश्वान् देवानुपलक्षयतीत्युक्ते कथं वाजिशब्दोक्ता विश्वेदेवाः स्युः ? शब्दभेदेन देवताभेदादित्याशङ्कायां प्रसक्तायां तन्निराकरणेन विश्वान् देवानुपलक्षयतीत्यर्थे स्थिरीकृते सति तत्फलमिह वाक्यदौर्बल्याभावलक्षणमग्रे वक्ष्यत इति नानन्वय इति भावः ।
तामेव प्रसक्तामाशङ्कां दर्शयति –
नन्विति ।
हविःप्रदानसमय इति ।
दर्शपूर्णमासयोर्देवतापदापेक्षा निगमाः सन्ति , 'अग्नये जुष्टं निर्वपामि' 'अग्नये जुष्टं प्रोक्षामि' 'अग्नेः प्रिया धामानि' 'अग्निरिदं हविरजुषते'त्याद्यास्तेष्वाहत्याग्निपदश्रवणात् न तेष्वियं चिन्ता , किंतूद्देशत्याग एवेति भावः ।
यदि शब्द एव देवता स्यादर्थरूपा देवता न स्यात्तदा पर्यायाणां न प्रसक्तिरत आह –
अर्थरूपत्वाद्देवतात्वस्येति ।
अस्ति तावदग्न्यादिदेवताशब्देभ्योऽग्नये जुष्टमित्यादिनिगमेषु नानाविभक्त्युत्पत्तिः । ताः तेषां प्रातिपदिकत्वमन्तरेण नोत्पद्यन्ते तत्प्रातिपदिकत्वं च नार्थवत्त्वमन्तरेण भवतीति सन्त्यग्न्यादिशब्दानामर्थास्त एव देवताः ; सास्य देवतेत्यर्थेऽग्न्यादिप्रातिपदिकेभ्यस्तद्धितोत्पत्तिदर्शनादिति भावः ।
तत्तु न स्वर्गवासित्वादीति ।
नाकसत्त्वादिकं देवतात्वं चेन्नाकसदामग्न्याद्यभिमानिनां लोकवेदप्रसिद्धपर्यायसद्भावात्पर्यायाः प्रसज्येरन् , न तु तदिह देवतात्वं विवक्षितम् ; मासादिदेवताननुगतत्वादित्यर्थः । यद्यपि मासाद्यभिमानिदेवताः सन्ति , अत एवार्चिरादिपर्वभूतानां मासादीनामातिवाहिकत्वं वक्ष्यते ; तथापि तन्नानुगतम् ; 'दद्भ्यः स्वाहा' 'हनूभ्यां स्वाहे'त्यादिहोमेष्वश्वस्य दन्तहनुशकृन्मूत्रादीनामपि देवतात्वदर्शनादिति भावः ।
अस्तु हविः प्रति प्राधान्येन निर्देश्यत्वं देवतात्वं , तन्निर्देश एव पर्यायान्तरेण किं न स्यादित्याशङ्क्य सूत्रं योजयन् विधिशब्देनैव निर्देश्यत्वे हेतुमाह –
तत्राग्नेय इतीति ।
शब्दान्तरेण निर्देशे देवतात्वं न स्यादिति ।
अयमाशयः – आग्नेय इति तद्धितेनाग्निरूपा देवता यागाङ्गत्वेन विधीयत इति वक्तव्यम् । अनुष्ठेयमुपकारकं चाङ्गं भवति , न चाग्नीन्द्रादिरूपा देवता यागमध्ये स्वरूपेणानुष्ठातुं शक्याः । न च ऋत्विजामिव देवतानां हस्तादिनोपकारकत्वमस्ति। तस्मात्तद्वाचकशब्दोच्चारणमेव पुरुषस्यानुष्ठेयं स्ववाचकशब्दद्वारैव तासामुपकारकत्वं चेत्यास्थेयम् । तथाचावश्यकत्वादग्न्यादिशब्दानां प्रथमोपस्थितत्वाच्चाग्न्यादिशब्दयुक्तेन यागेनेष्टं भावयेदित्येवाग्नेयादिपदयुक्तविधिवाक्यार्थः । हविस्त्यागकाले यद्वाचकशब्देनोद्देशः क्रियते , तस्य देवतात्वमर्थसिद्धमिति तदेवार्थसिद्धं देवतात्वं तद्धितैरनूद्यते , यथाऽऽग्नेयमष्टाकपालं निर्वपतीति विकृतीष्टिवाक्येऽश्रुतोऽपि द्रव्यदेवतासंबन्धो विधीयते, श्रुतोऽपि निर्वापो न विधीयते , किंतु प्रकृतितः प्राप्नुवन्ननूद्यते । एतत्सर्वमभिप्रेत्योक्तमाचार्यशबरस्वामिना – "शब्द एव हविषा संबध्यते तत्संबन्धादर्थो देवता भविष्यतीति" । तस्माच्छन्दान्तरेण निर्देशे विधेयाग्न्यादिशब्दनिर्देशार्थप्राप्यमग्न्यादीनां देवतात्वं न सिद्ध्येदिति 'आदित्यः प्रायणीयश्चरुरि’ति विकृतिविशेषे क्वचिदादित्यदेवताकयागविधायकमिदं वाक्यमाचार्यैर्दृष्टं भविष्यति। ज्योतिष्टोमे तु प्रायणीयचरुरदितिदेवत्यः । क्वचित्कोशे "यः पापयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्वपे"दित्यादित्यचरुवाक्योदाहरणं दृष्टम् । तदपि शाखान्तरस्थमाचार्यैर्दृष्टमित्येवोपपादनीयम् । प्रसिद्धतैत्तिरीयशाखास्थे तु वाक्ये बहुवचनान्तादित्यशब्दस्तद्धितान्तः ; आदित्यानेव स्वेन भागधेयेनोपधावतीति वाक्यशेषात् ।
सर्वसंमतानुष्ठानविरोधादिति ।
ननु –
अनुष्ठानविरोधः पूर्वपक्षिणो न दूषणम् ; मीमांसानुसार्यनुष्ठानविरोधेनैव हि सर्वत्र पूर्वपक्ष: , अन्यथाऽऽग्नेययागएव सर्वसंमतानुष्ठानविरोधादिति वक्तुं शक्ये किं बकबन्धविधिप्रयासेन ? यद्यस्मिन्नधिकरणे पर्यायान्तरेण देवतां निर्दिश्यापि हविःप्रदानमस्त्विति विप्रतिपद्यमानः पूर्वपक्षी सौर्यचरौ निर्वापमन्त्रैः सूर्यायेत्येवानुष्ठानं न कदाप्यादित्यायेत्यनुष्ठानमित्यस्मिन्नंशे विप्रतिपत्तिरहितः स्यात् , तदा सर्वसंमतानुष्ठानविरोधादित्येवं तवापि संमतमनुष्ठानं विरुध्येतेत्येतदर्थतया योजयितुं शक्यम् , न त्वेतदस्ति ।
विधिशब्दस्य मन्त्रत्व (जै. अ. १० पा. ४ सू. २३) इत्येतदधिकरणानन्तरं प्रवृत्ते तथोत्तरस्यां ततौ तत्प्रकृतित्वा (जै. अ. १० पा. ४ सू. २५) दित्यधिकरणे अस्तु प्रकृताविव सौर्यं चरुं निर्वपेदिति विधिविहितायां विकृतावपि हविःप्रदाने सूर्यशब्दनियमः ; निर्वापादिनिगमेषु सूर्यायेत्यादिवदादित्यायेत्यादिरपि कदाचिन्निर्देशोऽस्तु सौर्यं चरुं निर्वपेदित्युत्पत्तिवाक्येन हविःप्रदानमात्रे सूर्यशब्दयोगस्य विहितत्वात्प्रकृतावग्नये जुष्टमित्यादिपाठवत्सौर्यचरौ सूर्याय जुष्टमित्यादिपाठाभावाच्चेत्येव पुनः पूर्वपक्ष इत्युत्थानदर्शनात् । तस्मादनुष्ठानविरोधोक्तिर्न सङ्गच्छत इति – चेत् , उच्यते ; अनुष्ठानविरोधादित्यत्रानुष्ठानशब्दः करणव्युत्पत्त्याऽनुष्ठापकविधिपरः । तथा चायमर्थः । सौर्यं चरुं निर्वपेदिति वाक्येन सूर्यशब्दप्रयोगश्चरुमात्रे न विधीयते , किंतु प्रयोगान्तर्गताश्च निर्वापादिनिगमा इति तेष्वपि सूर्यपदसिद्धिः । न च – एवं सति प्रकृतौ निर्वापादिनिगमेष्वग्निपदपाठो व्यर्थः स्यात्प्रयोगाङ्गाग्निपदविधानत एव तत्सिद्धेरिति – वाच्यम् ; प्रयोगाङ्गाग्निपदनिर्देशस्य प्रयोगान्तर्गतेषु सर्वेषु पदार्थेषु प्रतिपदार्थं प्राप्तौ निर्वापादिषूज्झित्यन्तेषु केषुचिदेवेति तत्परिसंख्यानार्थत्वात् । एवं च यदा सौर्यचरौ सूर्यपदप्रयोगविधानं निर्बाधं निर्वापप्रभृत्यङ्गपर्यन्तमाक्रामति , तदा किमु वक्तव्यमुत्पत्तिपरवाक्येऽग्निपदयोगविधानं प्रधानं हविःप्रदानं न त्यजतीत्येवमुत्तराधिकरणसिद्धान्तस्मारणेनोपन्यस्ताधिकरणसिद्धान्तदृढीकरणार्थेयमनुष्ठानविरोधोक्तिरिति न काचिदनुपपत्तिः ।
विश्वेदेवपदसन्निहितानामिति ।
यद्यप्यन्यत्र तद्धितादिविग्रहवाक्यस्थसर्वनामपरामर्शनीयं येनार्थगतेन रूपेण सन्निहितं तेनापि पराम्रष्टुं शक्यमिति न सन्निधापकशब्दरूषितत्वेन परामर्शनियमः ; तथापि प्रकृते विश्वेषां देवानां शब्दैकगम्यानामनुपस्थितरूपान्तराणां सन्निधापकशब्दरूषिततयैवोपस्थितिनियमोऽस्तीति तात्पर्यम् ।
स च न्यायो वचनेन बाधिष्यत इति ।
यथा ह्युदितेष्टावाग्नेयेन्द्रश्रुतिबलीयस्त्वन्यायः पूर्वदेवतापनयदेवतान्तरसंयोजनवचनेन बाध्यते , एवमत्रापीत्यर्थः ।
इति तदिदमुत्थितमिति ।
समुच्चितद्रव्यद्वययुक्तमेकं कर्म विधीयत इति टीकावाक्यालोचनया समुत्थितमित्यर्थः ।
द्रव्यद्वययुक्तैककर्मविधिरिति पूर्वपक्षे आमिक्षावाक्यप्राप्तकर्मानुवादेन वाजिनवाक्ये गुणविधिरिति कथं संदेहटीकायामुक्तमित्याकाङ्क्षायामाह –
एवं चेति ।
तदापातप्रतिभानमादायेति ।
आपातप्रतिभानमित्येतदापातदर्शिनो विनेयान् प्रत्युक्तम् । वस्तुतस्तु – संदेहटीकोक्तमपि विमर्शपूर्वकमेव । तथा हि – द्विविधोऽस्मिन्नधिकरणे सिद्धान्तन्यायः प्रवर्तते । उत्पत्तिवाक्यशिष्टामिक्षावरुद्धे यागे वाक्यान्तरेण वाजिनं निवेशनं न लभत इत्युत्पत्तिशिष्टबलीयस्त्वन्याय एकः । श्रौतामिक्षावरुद्धेषु विश्वेषु देवेषु वाक्येन वाजिनं निवेशनं न लभत इति श्रुतिबलीयस्त्वन्यायो द्वितीयः । तत्र द्वितीयस्य टीकायां द्वेधोपमर्दः कृतः । वैश्वदेवीशब्दः श्रुतिर्न भवतीति , श्रुतित्वेऽपि वचनबलादिह श्रुतिबलीयस्त्वन्यायो न प्रवर्तत इति च । एवमाद्यस्यापि सिद्धान्तन्यायस्य द्वेधोपमर्दो विवक्षितः । आमिक्षोत्पत्तिशिष्टा न भवतीति उत्पत्तिशिष्टत्वेऽपि वचनबलादिहोत्पत्तिशिष्टबलीयस्त्वन्यायो न प्रवर्तत इति च । अत्र प्रथमः प्रकारः समसमयेति टीकायां कण्ठत उक्तः । द्वितीयस्तु श्रुतिबलीयस्त्वन्यायस्य वचनबलाद्बाधोक्त्यैव न्यायतौल्यादूहितुं शक्यत इति कण्ठतो नोक्तः । दृष्टं ह्यभ्युदयेष्टौ श्रुतिबलीयस्त्वन्यायस्येवोत्पत्तिशिष्टबलीयस्त्वन्यायस्यापि पूर्वदेवतापनयदेवतान्तरसंयोजनवचनबलाद्बाधनम् । एवमुत्पत्तिशिष्टबलीयस्त्वन्यायबाधने पूर्वकर्मानुवादेन वाजिनमात्रगुणविधिरिति संदेहटीकोक्तप्रकारोऽपि संगच्छते । वाक्याभ्यां द्रव्यद्वययुक्तमेकं कर्म विधीयत इति पूर्वपक्षोपसंहारटीकाऽपि पक्षद्वयसाधारण्येन योजयितुं शक्या । प्रथमवाक्येनैकगुणविशिष्टतयोत्पन्नं कर्मानूद्य द्वितीयवाक्येन गुणान्तरविधिरिति पक्षेऽपि हि वाक्यद्वयेनैकं कर्म गुणद्वययुक्तं सिद्ध्यति , न त्वेकवाक्येन, वैश्वदेवीत्यस्य श्रुतित्वोपपादनार्थं प्रवृत्तेः । स्यादेतदेवमित्यादिसिद्धान्तटीकाग्रन्थोपसंहारे तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं स्वसंबन्धिकर्म पूर्वस्माद्भिनत्तीति वाक्यमपि प्रथमवाक्यविहितं कर्मानूद्य द्वितीयवाक्येन गुणमात्रविधानमिति पूर्वपक्षानुमितिं सूचयति। अन्यथा हि श्रोतामिक्षावरुद्धानां विश्वेषां देवानां वाक्यप्रमाणकवाजिनसंबन्धासंभवाद् युगपद् द्रव्यद्वययुक्तविश्वदेवदेवताकैकयागविधिर्न संभवतीति वक्तव्यं स्यात् । तस्मात्संदेहटीकायां पूर्वपक्षशरीरोपन्यासोऽपि विमर्शपूर्वक एव । श्रुतिबलीयस्त्वन्यायमादाय सिद्धान्तयतीति । श्रुतिबलीयस्त्वमङ्गीकृत्य विश्वदेवामिक्षासंबन्धे वैश्वदेवीशब्दस्य श्रुतित्वं नास्तीति विवादेन पूर्वपक्षे तस्य तत्र श्रुतित्वोपपादनम् । तस्य श्रुतित्वमङ्गीकृत्य श्रुतिबलीयस्त्वन्यायः प्रकृते न प्रवर्तत इति विवादेन पूर्वपक्षे तत्प्रत्युपपादनं चेत्युभयमप्यत्र विवक्षितम् । आमिक्षाविशिष्टानिति , आमिक्षासंबन्धमिति च वस्तुवृत्तकथनं , न त्वामिक्षाया अप्यभिधेयकोटिनिवेशाभिप्रायम् । एवं च सति कुतोऽस्यामिक्षावाचकत्वमित्याचार्यग्रन्थो न तु विश्वेषु देवेषु न तत्संबन्धेनापि तत्संबन्धिमात्र इति टीकाग्रन्थश्च न संगच्छते ।
कुत आमिक्षापदानपेक्षप्रत्ययप्रसङ्गः कुतो वा तत्रानपेक्षेति वाक्ययोः पौनरुक्त्यशङ्कां परिहरति –
द्वयं हि सर्वत्रापाद्यमिति ।
यदिति द्वितीयान्तः शब्द इति ।
स च पदाभिधेयवस्तुपर इत्यग्रे स्फुटीभविष्यति।
अनपेक्षावगतसाधनभावाया इति ।
वैश्वदेवीति तद्धितेनामिक्षा द्रव्यान्तरानपेक्षा हविरवगम्यते , तत्सापेक्षाया हविष्ट्वे सामर्थ्याभावेन तद्धितानुत्पत्तिप्रसङ्गादिति भावः । एवं च यदा श्रुतिबलीयस्त्वन्यायस्य द्रव्यद्वयसमुच्चयप्रापकेण वचनेन बाधः पूर्वपक्षिणोक्तः , तदा न केवलया श्रुत्या वाक्यस्य बाधाभावमात्रं , किंतु निरवकाशदेवतातद्धितश्रुतिबाधोऽपि स्यादित्यतो वाक्यस्यैव स्वतो दुर्बलस्य सावकाशस्य द्रव्यदेवताविशिष्टकर्मान्तरविधायकत्वकल्पनं युक्तमिति। एवं समुच्चयपक्षे दोषं दृष्ट्वा वचनबलेन प्राप्यमाणं वाजिनं निरपेक्षसाधनभावसमर्पकतद्धितश्रुतिबाधपरिहाराय विकल्पेनान्वयं लभतामिति पूर्वपक्षी ब्रूयादित्यभिप्रायेण शङ्कितो विकल्पपक्षोऽपि निराकृतः ।
मृदूक्त्या वतिप्रयोग इति ।
कुपितत्वेनावगतेऽपि राज्ञि त्वं कुपित इव वर्तसे इत्युक्तिरिव नित्यत्वेनावगते नित्यवदित्युक्तिर्मृदूक्तिरिति भावः । स्यादेतद्वाक्यम् , यागान्तरविधानेनैव तद्धितश्रुतिसंबन्धसामान्यमक्षतम् , अग्नीषोमीयपुरोडाशस्येवाग्निना । एवं च विशिष्टविधिकर्मान्तरापूर्वान्तरकल्पनागौरवपरिहाराय तद्धितश्रुतेरेव संबन्धसामान्यरूपावकाशान्तरकल्पनं युक्तम् ।
न चैवं सति देवताया अलाभप्रसङ्गः ; देवतापेक्षायां क्लृप्तहविरेकदेशसंबन्धानां बुद्धिस्थानां विश्वेषां देवानां देवतात्वकल्पनोपपत्तेरित्याशङ्कोत्तरत्वेन नचाश्व इत्यादिग्रन्थमवतारयति –
यत्तूक्तं वचनेनैवेति ।
क्लृप्तो योगः कल्प्यमानां रूढिमिवाबुद्धिस्थरूढिं बुद्धिस्थयोगो बाधत इति शङ्कापरिहारार्थं टीकायां प्रधानं यत्तत्प्रकृतं तदेव सर्वनाम परामृशति नोपसर्जनमिति नोपसर्जनन्यायो दर्शितस्तं विवृणोति –
वैश्वदेवशब्दामिति ।
उपसर्जनीभूतामित्यस्य नोपलक्षयिष्यतीत्यस्य च मध्ये एवं सति कर्मान्तरविधिपक्ष इति पदान्याकरग्रन्थेषु दृश्यन्ते , तान्यत्र नान्वितानि । हेत्वन्तरमाहेति प्रागवतारिते एवं च सतीति टीकाग्रन्थे चकारः किंचेत्यर्थो हेत्वन्तरमाहेत्युक्त्या विवृतः । एवं सतीत्यंशे विवरणीये स्थिते तद्विवरणार्थानि तत्रैव प्रतीकोपादानानन्तरं लेखनीयानि व्यत्यस्तकाकुपदजनितभ्रान्तिभिर्लेखकैरिह प्रमादाल्लिखितानि । यद्वा – तत्र व्याख्यातव्य एव सन्नैवं सतीत्यंश इहाकृष्य व्याख्यातः । न चाश्वेत्व इत्यादौ नोपलक्षयिष्यतीत्यन्ते द्वितीयवाक्येऽप्यनुवृत्तिसूचनाय तत्रैव व्याख्याने एवं सति विकल्पसमुच्चयो न प्राप्स्यते इति प्रथमवाक्य एवान्वयः प्रतीयेत , एवं सति नोपलक्षयिष्यतीति द्वितीयवाक्येऽपि विवक्षितस्तदन्वयो न प्रतीयेत ।
ननु नोपसर्जनन्यायो न सर्वनाम्ना परामर्शे प्रवर्तते ; "अथ शब्दानुशासनं केषां शब्दाना"मिति महाभाष्यदर्शनाद् , सर्वनाम्नानुसन्धिर्वृत्तिच्छन्नस्येति वामनसूत्राच्चेत्यभिप्रेत्याशङ्कते –
ननूपसर्जनभूता अपीति ।
सर्वनामश्रवणे तेनोपसर्जनस्यापि परामर्शो भवति , न चेह वाजिपदे सर्वनामपदश्रवणमस्ति, किंतु तद्धितान्तविग्रहवाक्ययोरैकार्थ्यनियमात् तत्र विग्रहवाक्यस्थसर्वनामानुप्रवेशमात्रम् । न चात्र तद्धितान्तत्वमपि निश्चितमस्ति ; बुद्धिस्थविषयादपि क्लिष्टयोगादक्लिष्टरूढेरेव न्याय्यत्वात् ।
प्रामाणिके चेतीति ।
तद्धितस्य हविर्देवताभावसंबन्धरूपविशेषविषयत्वं परित्यज्य किंचिद्विशेषपर्यवसानसापेक्षसंबन्धसामान्यविषयत्वकल्पनेनापि तत्प्रतिपत्तिगौरवमप्रामाणिकम् ; विशेषपर्यवसानलम्भकाभावात् । न च – यागस्य देवतापेक्षया श्रुतहविरेकदेशसंबन्धानां विश्वेषां देवानां देवतात्वकल्पनया संबन्धविशेषपर्यवसानं स्यादिति - वाच्यम् ; देवतापेक्षस्य यागस्य श्रवणाभावात् , तद्धितस्य संबन्धसामान्यविषयत्वे च यागकल्पकस्य द्रव्यदेवतासंबन्धस्य प्रागनुपस्थिते: , विशिष्टविध्यादिकल्पनागौरवं तु प्रामाणिकम् ; "पर्यग्निकृतं पात्नीवतमुत्सृजति" "आज्येन शेषं संस्थापयती"त्यादिषु दर्शनादिति भावः॥
एकां भावनां विशिंषन्तीति ।
अपूर्वरूपफलैक्योपाधिकं भावनैक्यं , न तत्स्वरूपैक्यम् ; प्रयत्नव्यक्तीनां बहुत्वाद्गुणभूतधात्वर्थानां समुच्चय इति क्रय इवारुणिमादीनामिति भावः ।
एकस्मादेव धातोर्विधानादिति ।
यद्यप्युदाहृतेषु यजत्यादिषु बहुभ्यो धातुभ्य एकः प्रत्यय इति शङ्का न प्रवर्तते , बहुधात्वश्रवणात् ; तथापि बदरामलकबिल्वा इति बहुभ्यो नामभ्यः सुप इव बहुभ्यो धातुभ्यस्तिङ उत्पत्तिरन्यत्रापि नास्तीति दर्शयितुमिदमुक्तम् । एकधात्वर्थानुरक्ता भावना न धात्वर्थान्तरेण संबध्यत इति सामान्यतः खल्वग्रे साध्यं निर्दिश्यते । ननु – परस्परापेक्षाणामेकवाक्यत्वे हि स प्रयोजकः स्यादिति टीकाग्रन्थो वैदिकशब्दानां बोधकतायां पाठक्रमस्याप्रयोजकत्वे कथमुपक्रमोपसंहारयोरुपक्रमप्राबल्यव्यवस्था सिध्येदित्याशङ्का निराकरणार्थत्वेन व्याख्यातुमुचितः । तथा व्याख्याने हि यत्रैकवाक्यता तत्र पाठक्रमः प्रथमचरमभावे नियामक इत्युपक्रमोपसंहारव्यवस्थासिद्धिः । यत्र नैकवाक्यत्वं तत्र बोधकतायां पाठक्रमो न नियामक इति वैषम्यकथनेन परिहारसिद्धेः , पाठक्रमस्य प्रयाजानामनुष्ठानक्रमे इव प्रयाजवाक्यानां बोधनक्रमेऽपि नियामकस्वं स्यादिति शङ्कानिराकरणार्थत्वेन व्याख्यानं तु न युक्तम् ; तदा हि प्रयाजवैषम्यं प्रयाजवाक्येषु दर्शनीयम् । प्रयाजाः सर्वेऽप्यखण्डोपकाररूपं स्वप्रयोजनं परस्परापेक्षया संभूय कुर्वन्तीति तेषां मेलनार्थं युगपदनुष्ठानप्रसक्तौ एकेन कर्त्रा बहूनां युगपदनुष्ठातुमशक्यतया क्रमापेक्षायां पाठक्रमस्तन्नियामक इष्यते । न च प्रयाजवाक्यानाम् अर्थबोधनरूपं स्वप्रयोजनं जनयितुं परस्परापेक्षा संभूयकारित्वपरतया नीयत इत्यपरः क्लेशः । तम्मादिदं व्याख्यानं न युक्तमिति – चेत् , उच्यते ; इह पाठक्रमानादरे उपक्रमोपसंहारवैषम्यं प्रयाजादियागवैषम्यं चेत्युभयमपि परस्परापेक्षाणामिति टीकाग्रन्थेनैव तन्त्रेण प्रदर्श्यत इत्यभिप्रेत्य तत्राद्यवैषम्यप्रदर्शनपरतया योजनं स्फुटमित्यपहायास्फुटं द्वितीयवैषम्यपरतया योजनमाचार्यैः प्रदर्शितमिति न दोषः । नन्वध्ययनमात्रवत (व्या. सू. अ. ३ पा. ४ सू. १२) इति सूत्रे भाष्यादिष्वध्ययनविधेरर्थावबोधफलकत्वमङ्गीकृतम् । अर्थावबोधः स्तोभाक्षरादिष्वव्याप्त इति तत्फलं जपपारायणाद्यनुगमेनाधीतेन स्वाध्यायेन यद्भावयितुं शक्यं तत्फलकोऽध्ययनविधिरिति तदुपपादनीयम् । स्वाध्यायशब्दार्थश्च क्रमविशेषविशिष्टवर्णराशिरित्यध्ययनगृहीतेन विशेष्यांशेन वर्णराशिनेव विशेषणांशेन क्रमेण यद्भावयितुं शक्यं तदप्यध्ययनफलत्वेन संगृहीतं भवति।
तथा च यथा विधिपाठक्रमस्य प्रयाजाद्यनुष्ठानक्रमः फलं , मन्त्रपाठक्रमस्याऽऽग्नेयाग्नीषोमीययागक्रमः फलम् , उपक्रमोपसंहारपाठक्रमस्योपक्रमप्राबल्येन वारुणेष्ट्यश्वदात्रोः शेषशेषिभावः फलं , काम्येष्टीनां काम्येष्टियाज्यानुवाक्यानां च पाठक्रमस्येष्टिविशेषाणां मन्त्रविशेषाणां च शेषशेषिभावः फलम् एवं समिदादिवाक्यानां पाठक्रमस्य तेषां विध्यनुवादभावः फलं भवन्न निवार्यतामित्याशङ्कापरिहारार्थमिह पाठक्रमादरेऽपि विध्यनुवादविशेषो न सिद्ध्यतीति प्रदर्शनाय प्रवृत्तं कथंचिदित्यादिटीकाग्रन्थमवतारयति –
ननु धात्वैक्यादिति ।
प्रत्यभिज्ञानमुक्तमिति ।
प्रत्यभिज्ञया यागैक्ये सत्येकस्मिन् यागे विधिद्वयानपेक्षणादेको विधिरन्योऽनुवाद इति विशेषनिर्णयः पाठक्रमेण सिद्ध्यतीति भावः ।
आख्यातस्य हीति ।
वैदिकस्य लिङाद्याख्यातस्याप्रवृत्तप्रवर्तकत्वमुत्सर्गः , शासनादेव हि तच्छास्त्रं भवेदिति भावः ।
किं तद्बलवदपवादकमिति ।
सन्निधिकृतमैक्यप्रत्यभिज्ञानमात्रं विधिश्रुतिस्वभावस्यापवादकं भवितुं नार्हतीति भावः ।
तदपेक्षायामिति ।
तथा च विधिश्रुत्यपेक्षितानुवादकत्वसिद्ध्यर्थं धात्वर्थस्य पूर्ववाक्यतः प्राप्तिं समर्पयन् सन्निधिर्विधिश्रुतेरनुग्राहको नोपमर्दकः , इह तु गुणश्रवणाभावादनुवादत्वं नापेक्षितमिति विधिश्रुतिः सन्निधिं बाधत इति भावः ।
यदि नामधेयानीति ।
ननु – समिदादीनां पञ्चानां नामधेयत्वमभ्यासात्कर्मभेदे सिद्धे सिद्ध्यति , अभेद इति पूर्वपक्षे एकस्य नामधेयपञ्चकायोगाद्यागविधौ श्रूयमाणं समिदित्येकमेव नाम , अनुवादेषु श्रूयमाणं तनूनपातमित्यादिकं विकल्पितदेवतं देवताविधायकं विष्णुरुपांशुयष्टव्य इत्यादिवत् मन्त्रवर्णप्राप्तदेवताऽनुवादेन स्तुतिपरं वा वक्तव्यम् । अत एव नाम्न एव भेदो नाभ्यासादित्ययुक्ता शङ्केति – चेत् , सत्यम् ; अभ्युपेत्य परिहारान्तरं दर्शयितुमियं शङ्का ॥१॥
अग्निगतपञ्चसंख्यायास्तु उत्पत्तिशिष्टत्वादिति ।
ननु असौ वाव लोको गौतमाग्निरित्यादीनां पश्चानामग्नीनां कीर्तनानन्तरं यद्यदित्थं विदुरित्यादौ स एतान् ब्रह्म गमयतीत्यन्ते वाक्ये वेदनविधानमस्ति , तदतिलङ्घ्य एतानेवं पश्चाग्नीन्वेदेत्यादौ शुचिः पूतः पुण्यलोको भवतीत्यन्ते उपसंहारवाक्ये वेदनविधानं किमित्यभ्युपगम्यते ? यतः पञ्चसंख्योत्पत्तिशिष्टा स्यादिति – चेत् , उच्यते ; उभयत्राप्यार्थवादिकफलश्रवणं रात्रिसत्रन्यायेन फलपरं विपरिणमय्य लाघवादेकमेवाधिकारवाक्यमवान्तरवाक्यद्वयोपात्तयावद्विशेषणसहितं कल्पनीयम् । तत्रैव च वेदनस्योत्पत्तिरपि ; पृथगुत्पत्तिवाक्याभावात्तस्मिन् पञ्चसंख्याप्यनुप्रविष्टेत्युत्पत्तिशिष्टत्वं पञ्चसंख्याया उक्तम् ।
षडप्यग्नयः शाखाद्वयेऽप्युपास्या इति ।
लोकान्तरगमनागमनयोः पुरुषाहुत्याधारभूताः खलु द्युलोकादयोऽग्नयः कीर्त्यन्ते , प्रत्यक्षाग्निरपि पुरुषाहुत्याधारत्वेन कथ्यत इति द्युलोकादिसाम्यात्सोप्यग्निः सर्वथोपास्य इति भावः ।
ननु टीकायां छन्दोगानामिति वक्तव्ये कथं छान्दोग्यानामित्युक्तिस्तत्राह –
छन्दोगेन दृष्टां शाखामधीयत इति ।
छान्दोग्या इति छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्य इति छन्दोगशब्दाद्धर्माम्नाययोरेव ञ्यप्रत्ययो विहितः । छन्दोगेन दृष्टां शाखामधीयत इत्यर्थे ञ्यप्रत्ययः छान्दोग्यरूपापादकः कश्चिदन्यो वा प्रत्ययः पाणिनीये विहितो न दृश्यते । अतोऽत्र व्याकरणान्तरमन्वेषणीयम् । पाणिनीयानुसारेण तु छान्दोग्यं छन्दोगानामाम्नायो येषामस्तीत्यर्थे मत्वर्थीयाकारप्रत्ययान्तोऽत्र छान्दोग्यशब्दो वाच्यः ।
अधिकस्तु षष्ठोऽग्निर्विकल्प्यत इति ।
यद्यपि षष्ठोऽग्निश्छान्दोग्येऽप्युपसंहार्य इति वक्तुमुचितम् ; विरोधाभावेऽपि भाष्येऽपि तथैवोक्तम् ; तथापि विरोधमभ्युपगम्य षोडशिग्रहणन्यायेन विकल्पो भविष्यतीति भाष्ये यः पक्ष उक्तः स इह दर्शितः । उपसंहारस्त्वग्रिमाधिकरणन्यायेन सेत्स्यतीति स्पष्टत्वान्नोक्तः ।
ननु किं कठप्रोक्तत्वादिनिमित्तानुसरणेनेति ।
ननु - काठकशब्दः कठप्रोक्तत्वनिमित्तो न भवति , किंतु कठाम्नायत्वनिमित्तः ; तस्येदमित्यधिकारे गोत्रचरणाद्वुञिति विहितस्य वुञश्चरणाद्धर्माम्नाययोरिष्टेः कठेन प्रोक्तमित्यर्थे वुञ्प्रत्ययस्य विधानाभावादिति – चेत् , सत्यम् ; आम्नायार्थवुञ्प्रत्ययप्रकृतिभूतकठशब्दे प्रोक्तार्थप्रत्ययार्थस्याप्यन्तर्भावोऽस्ति। तत्र कठशब्दस्य कठप्रोक्तशाखाध्येतृवचनत्वाद् , अन्यथा कठशब्दस्य चरणवाचित्वाभावेन ततश्चरणलक्षणवुञनुत्पत्तिप्रसङ्गात् । शाखासंबन्धनिमित्तकः खलु चरणशब्दः । कथं कठशब्दः कठप्रोक्तशाखाध्येतृषु वर्तत इति चेत् , इत्थम् ; कठशब्दात्कठेन प्रोक्तमित्यर्थे कलापिवैशम्पायनान्तेवासिभ्यश्चेति सूत्रेण वैशम्पायनान्तेवासिलक्षणे णिनिप्रत्यये तस्य कठचरकाल्लुगिति लुकि पुनरपि कठेत्येवरूपे स्थिते ततः कठप्रोक्तां शाखामधीयत इत्यर्थे प्राग्दीव्यतीये अण्प्रत्यये तस्यापि प्रोक्ताल्लुगिति लुकि सति कठशब्द एव लुप्तप्रोक्ताध्येतृप्रत्ययद्वयः कठप्रोक्तशाखाध्येतृपुरुषवाची । तत्र कठप्रोक्तशाखायां प्रोक्तप्रत्ययलोपमात्रेण कठशब्दो न प्रयोज्यः , किंतु प्रत्ययद्वयलोपेन तदध्येतृपुरुषेष्वेव प्रयोज्यः ; छन्दोब्राह्मणानि च तद्विषयाणीति सूत्रेण प्रोक्तप्रत्ययान्तानि छन्दांसि ब्राह्मणानि चाध्येतृवेदितृविषयप्रत्ययोत्पादनेनाध्येतृवेदितृविषयाण्येव प्रयोज्यानीति नियमितत्वात् । अतः काठकशब्दार्थे कठप्रोक्तस्यान्तर्भावात् केवलप्रोक्तप्रत्ययान्तस्य च कठशब्दस्य शाखाविद्ययोः प्रयोगानर्हत्वात्कठशाखाध्येतृपुरुषाम्नायवाचिनः काठकशब्दस्य भवानीपतिशब्दस्य भवइव कठप्रोक्तशाखायां वस्तुतः पर्यवसानाच काठकशब्दः कठप्रोक्तत्वनिमित्तकत्वेन व्यवहृत इति न दोषः ।
ग्रन्थसंबन्धाद्विद्यायां च वृत्तिसंभव इति ।
न च विनिगमनाविरहः ; एकस्यां शाखायां मुख्यवृत्तस्य बह्वीषु विद्यासु लक्षणाभ्युपगमे शक्तिकल्पनालाघवस्य विनिगमकत्वात् । उक्तं हि – शाखया ह्येकया योगाद्बहुकर्मावबोधनम् । युज्यते कर्मनानात्वं नैकशाखोपलक्षणम्॥ इति ।
ननु विद्यासु काठकशब्दः कठधर्मत्वनिमित्तोऽस्तु चरणाद्धर्माम्नाययोरित्यनुशासनात् , अतो मुख्यवृत्तिसंभवे लक्षणा न कल्पनीयेति काठकवाजसनेयकतैत्तिरीयकादिशब्दैर्विद्यानां कठवाजसनेयितैत्तिरीयादिपुरुषधर्मस्य प्रतीतेस्तासां भेदः स्यादित्याशङ्क्याह –
अङ्गीकृत्यापीति ।
अपिशब्देनोक्तयुक्तिरसार्वत्रिकी ; केवलप्रोक्तप्रत्ययान्तया याज्ञवल्क्यादिसमाख्यया विद्याभेदसिद्धेः ।
छन्दोब्राह्मणानीति सूत्रे छन्दोग्रहणेन सिद्धेः पुनर्ब्राह्मणग्रहणस्य चिरन्तनऋषिप्रोक्तब्राह्मणप्रत्यायनार्थत्वेनाचिरजातयाज्ञवल्क्यादिप्रोक्तब्राह्मणविषयाणां प्रोक्तप्रत्ययान्तानामध्येतृवेदितृविषयत्वनियमाभावादिति सूचयति -
शाखान्तराधिकरणेनेति ।
प्रौढ्याऽभ्युपगते ऐकशास्त्रपक्षे पौनरुक्त्यशङ्का । सैद्धान्तिके शास्त्रभेदपक्षेऽप्येवं योजना । स्वशाखोपयुक्तमपि शास्त्रान्तरे चिन्तितं यत्स्वाभिमतं तदिह न चिन्त्यते । यथा न्यायशास्त्रे चिन्तितं कर्मानुमानादि । यथा च पूर्वतन्त्रे चिन्तितम् अग्निहोत्रवाक्यार्थादि । अतः शाखान्तराधिकरणन्यायोऽपि स्वाभिमत एव तत्र चिन्तितः । अतस्तच्चिन्तने पौनरुक्त्यमिति॥४॥
इति प्रथमं सर्ववेदान्तप्रत्ययाधिकरणम् ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥५॥
अन्येऽपि पक्षा इति ।
प्रथमे काण्डे अष्टौ पक्षा विचारिताः । तत्र प्रथमपञ्चमसप्तमाष्टमपक्षा इह लिखिताः ।
वैयर्थ्यदोषत्रयाभ्यां प्रथमपञ्चमपक्षौ दूषयित्वा सप्तमपक्षं दूषयति –
अतिदेशस्य चेति ।
अखण्डकरणोपकारः समस्तप्रकृताङ्गजन्यदृष्टादृष्टोपकारद्वारा प्रधानस्य फलजननसामर्थ्योद्बोधनम् । तस्य प्रकृतौ क्लृप्तस्य विकृत्यपेक्षितस्य विकृतावतिदेशो भवन् तत्तदुपकाररूपजनकाङ्गरूपपदार्थान् विनोपकारासंभवात्प्राकृतसकलपदार्थविशिष्टविषयो भवतीत्यर्थः । ननु सामान्यतः प्रवृत्तो भवत्वतिदेशस्तस्यैवाज्यभागविषयेण विशेषशास्त्रेणोपसंहारः किं न स्यात् ? लुप्तद्वारप्रत्याम्नातप्रतिषिद्धव्यतिरिक्तपदार्थोपसंहारवत् , उच्यते ; सामान्यतोऽतिदेशशास्त्रं कल्पयित्वा तस्य विशेषशास्त्रेणोपसंहरणस्य यदाज्यभागमात्रानुष्ठानफलमिष्यते तत् क्लृप्ताद्विशेषशास्त्रत एव भवतीति किं चोदककल्पनया ? अथोच्येत अवैयर्थ्याय प्राकृतसकलाङ्गविषयमेवातिदेशशास्त्रं कल्प्यत इति। तत्रेदं दूषणमुक्तमतिदेशस्य चेति।
उपकारावच्छेद एवेति ।
अखण्डोपकारस्याज्यभागातिरिक्ताङ्गेभ्योऽवच्छिद्याज्यभागयोरेवावस्थापनम् उपकारावच्छेदः । कथमयमाज्यभागविधानतो लभ्यते ? इति चेत् – इत्थम् , गृहमेधीयस्येतिकर्तव्यताकाङ्क्षस्य प्रत्यक्षश्रुतक्लृप्तोपकाराज्यभागसंयोजनाया निराकाङ्क्षतापादनेन तदाकाङ्क्षामूलकचोदककल्पनाप्रतिबन्धस्य द्वारा गृहमेधीयस्य प्रकृतिराहित्यरूपापूर्वतासिद्ध्यर्थमिदमाज्यभागविधानमिति चोदकसंभवत्प्राप्तिकयोः पुनर्विधानसामर्थ्यात्कल्प्यते । ततश्च ताभ्यामेवाखण्डोपकारसिद्धिरित्यपि कल्प्यते । न चैवं सांग्रहण्यादीनामप्यामनहोमादिनैवाखण्डोपकारः सिद्ध्येदिति विकृतिषु यत्किञ्चिद्वैशेषिकाङ्गश्रवणे सति प्राकृताङ्गातिदेशो न स्यादिति – वाच्यम् ; उपकारद्वारा भवन्ती हि पदार्थेष्वाकाङ्क्षा प्रथमं क्लृप्तोपकारेष्वेव भवति , प्रकृतिः क्लृप्तोपकारपदार्थादर्शनादक्लृप्तोपकारानपि सन्निध्याम्नातान् गृहीत्वा तत्तत्पदार्थसामर्थ्यानुसारिण्या दृष्टादृष्टोपकारकल्पनया निर्वृणोति। विकृतिस्तु क्लृप्तोपकारप्राकृतपदार्थसत्तां पश्यन्ती सन्निध्याम्नातामनहोमादीनक्लृप्तोपकारान्विहाय क्लृप्तोपकारान् प्राकृतपदार्थानेवातिदेशप्राप्यान् प्रथमं गृह्णाति , ततो निराकाङ्क्षापि सांग्रहण्यादिर्विकृतिराम्नायवैयर्थ्यपरिहारायामनहोमादीनपि गृह्णातीति भवति विकृतिष्वतिदेशः । उक्तं हि – क्लृप्तोपकारसाकाङ्क्षाः प्रथमं प्राकृतैः सह । संबध्यन्ते समीपस्थं विकाराः प्रोज्झ्य चोदितम्॥ इति । गृहमेधीयस्य तु सन्निधौ क्लृप्तोपकारावाज्यभागौ श्रुताविति तयोः प्रथमं ग्रहणे सति तत एवोपकारशान्तिः कल्प्यते । अन्यथा पुनरुपश्रवणवैयर्थ्यापत्तेरिति विशेषः ।
अशक्तेः प्रथमाधिकरणे निरस्तत्वादिति ।
न च – परशाखाध्ययनाभावप्रयुक्ताशक्तेस्तत्र निरासेऽप्यनन्तशाखाम्नातगुणेयत्तापरिच्छेदाशक्तिर्न निरस्तेति – वाच्यम् ; सर्वज्ञैर्महर्षिभिः प्रणीतेषु कल्पसूत्रेषु कर्मणामङ्गेयत्तेव ब्राह्मवासिष्ठादिषु विद्याकल्पेषूपासनानां गुणेयत्तापि निर्धारितेति तेभ्यस्तत्परिच्छेदसंभवात् ।
प्राप्तयोः पुनर्वचनादिति ।
प्राप्तयोः संभवत्प्राप्तिकयोरित्यर्थः । चोदकप्रवृत्त्यभावात्पूर्वपक्षगतपरिसंख्यापक्षोऽपि व्युदस्त इति तस्मिन् पक्षे चोदकप्रवृत्तिरस्तीत्यष्टमपक्षोऽपि परिसंख्यापक्ष एव ; आज्यभागातिरिक्ताङ्गवर्जनरूपस्य परिसंख्याशब्दार्थस्य तत्रापि सत्त्वात् , तथापि पञ्चमपक्षे शाब्दी परिसंख्या तत्राज्यभागयागविधेस्तदितरयागपरिवर्जने लक्षणाभ्युपगमात् । अत एव सा परिसंख्या त्रिदोषेत्युक्तम् । अष्टमपक्षे त्वार्थी परिसंख्येति विशेषः । न च – विद्यास्वपि शाखान्तरतः संभवप्राप्तिकानां गुणानां पुनः श्रवणमस्ति येन तद्गुणान्तरपरिवर्जनफलकं स्यादिति – वाच्यम् ; तस्य गुणोपसंहारार्थविद्यैक्यप्रत्यभिज्ञानार्थत्वेनान्यथासिद्धत्वादिति भावः । आज्यभागतदितराङ्गसाध्योपकारे अतिदेशप्राप्ते इत्यत्रोपकारस्तोमेऽतिदेशप्राप्ते इति क्वचित्पाठः । तत्र मूलगतपिण्डशब्दव्याख्यानार्थः स्तोमशब्दस्तदङ्गजन्यदृष्टादृष्टोपकारसमुदायार्थः । उपकारावच्छेद इत्यत्र तज्जन्यस्य फलजननसामर्थ्योद्बोधनरूपस्याखण्डोपकारस्यैवाज्यभागमात्रजन्यत्वेनावच्छेदः न तु दृष्टादृष्टोपकारसमुदायस्याङ्गान्तरजन्यदृष्टोपकाराणामाज्यभागजन्यत्वासंभवात्प्राप्तौ पुनर्विधानमेव बलवद्बाधकमिति तत्र नास्तीति भावः ॥५॥
इति द्वितीयमुपसंहाराधिकरणम् ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥
प्रजापतिः कर्मज्ञानाधिकृतः पुरुष इति ।
वक्ष्यमाणवागादिवृत्तिरूपाणां प्रजानामपत्यानां पतिरीश्वरस्तत्तत्कार्येषु नियोजने समर्थः कर्मज्ञानेषु लौकिकवैदिकेष्वधिकृतः पुरुषः क्षेत्रज्ञः । कर्मज्ञानानि हीन्द्रियपाटवसापेक्षाणि तदपत्यानीन्द्रियवृत्तय इति। यद्यपि तदपत्यानीन्द्रियाणीति व्याख्यातुं युक्तं , ते ह वाचमूचुरित्याद्युपरितनसंदर्भे तदपत्यरूपेषु देवेषु वागादीनामेव ह्यनुप्रवेश उक्तः , न तु तद्वृत्तीनां ; बृहदारण्यकभाष्येऽपि तथैव व्याख्यातं , सात्त्विकवृत्त्या संपन्ना देवास्तामसवृत्तिप्रधाना असुरा इति टीकाया अपि तत्रैव स्वारस्यम् ; तथाप्युद्भवाभिभवरूपस्पर्धोक्तिश्छान्दोग्यगतसंग्रामोक्तिश्च परस्परभिन्नासु वृत्तिष्वेव सङ्गच्छत इत्येवं व्याख्यातम् । छान्दोग्यभाष्येऽप्येवमेव व्याख्यातम् । प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः तस्य शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धास्तदपत्यानीव तदुद्भवत्वादिति। वृत्तिवृत्तिमदभेदविवक्षया न व्याख्यानयोः परस्परविरोधः ।
अविध्यन्त्सन्निति ।
विषयासङ्गरूपदोषेण पाप्मना वेद्धुमैच्छन्नित्यर्थः । व्यध ताडन इति धातोः सन्प्रत्ययान्तस्य लङि रूपम् ।
न विद्याभेदकमिति ।
उद्गातृशब्दस्योद्गीथे लक्षणायामुभयत्रापि विद्यैक्यं भवतीत्यर्थः ॥६॥ उद्गीथ उद्गानक्रियेत्यभिप्रेत्य टीकायां लक्षणोक्ता । यद्युद्गीथावयव ॐकार इति व्यवहाराद्गीयमानवर्णसमुदायरूपा द्वितीया भक्तिरुद्गीथस्तदा सौकर्यातिशयेन कर्मण: कर्तृत्वविवक्षयोद्गातृशब्द उद्गीथस्य वाचक इत्यपि समर्थयितुं शक्यम् ।
ॐकारस्येत्यस्य षष्ठ्यन्तस्याकाङ्क्षापूरणार्थं कृत्वेति शेषाध्याहारेऽपि तथा हीत्यग्रिमग्रन्थेन नान्वय इत्याशङ्क्य कृत्वेत्यन्तं भाष्यप्रतीकोपादानमित्याह –
एतच्चेति ।
यस्य यजमानस्येति । केचित्तु हविरिति द्वितीयान्तम् अभिरभागे इत्यभेर्लक्षणे कर्मप्रवचनीययुक्ते द्वितीयेत्येवमवान्तरवाक्यभेदं विना व्याचक्षते , पुरस्तादित्येतच्च पूर्वस्यां दिशीति व्याचक्षते । निरुप्तं हविरभ्युदेति ज्ञायते देवतार्थमसंकल्पितस्य यजमानद्रव्यमात्रस्य हविष्ट्वाभावात् । एवं च यद्यपि सिद्धरूपं यजमानद्रव्यमात्रम् अनाविष्टव्यापारं चन्द्रोदयीयलक्षणत्वेन न विशेषणत्वेन निवेशयितुं शक्यम् ; तथापि हविःपदात् प्रतीतस्य सङ्कल्पमात्रस्य विशेषणतोपपत्तौ न पदान्तरप्रतीतः शकटानीताद्व्रीहिराशेः पुरोडाशार्थैकदेशग्रहणलक्षणो निर्वापोऽपि निवेशनीयः । अनाकाङ्क्षितोद्देश्यविशेषणविवक्षायां वाक्यभेदापत्तेरिति भावः ।
दात्रग्न्यादिदेवताभ्यो निर्वपेदिति ।
दात्रग्न्यादिदेवता उद्दिश्य यजेतेत्यर्थः ।
अभितः सन्निधाविति ।
यमुपक्रान्तदर्शमभि उदितश्चन्द्रः स यजमानोऽभ्युदित इत्यपि व्याचष्टे॥
दर्शलोपे त्विति ।
ननु – अकालोपक्रान्तस्य दर्शस्य लोपोऽस्तु , तावता नैमित्तिकं कर्म कृत्वा किमित्युपरन्तव्यम् ? सिद्धान्त इव पूर्वपक्षेऽपि मुख्यकाले दर्शकर्तव्यताया आवश्यकत्वाद्वाक्यान्तरेण दर्शितत्वाच्च । एवं हि "तद्यदि बिभियादभि नोदेष्यतीति महारात्रे हवींषि निर्वपेत् फलीकृतैस्तण्डुलैरुपासीतार्थं दधि हविरातञ्चनार्थं निदध्यादर्धं न यद्यभ्युदियात्तेनातञ्च्य प्रचरेद्यदि नान्येद्युस्तेन ब्राह्मणं भोजयेदिति। अस्यार्थः – यः प्रवृत्तदर्शतन्त्रो यजमानः किमद्य चतुर्दश्याममावास्याभ्रान्त्या दर्शः प्रारब्धः किं चन्द्रमा अभ्युदेष्यतीति शङ्कया भयं प्राप्नुयात् , स महत्यामेव रात्रौ हविर्निरूप्यावहत्य फलीकृत्योदीक्षमाण आसीत । सायंदोहसंपादितं च दधि द्विधा विभज्य तदर्धं मुख्यकाले करिष्यमाणस्य दर्शस्यार्थे तत्पूर्वदिनसायंदोहं संपाद्य दध्यातञ्चनाय निदध्यादर्थान्तरं तदर्थं न निदध्यात्किंतु पूर्ववदेव स्थापयेत् । एवं कृते यद्यभ्युदयः स्यात्तदा मुख्यकाले दर्शप्रारम्भानन्तरमातञ्चनार्थं निहितेनार्धेन दध्ना सायं दुग्धे पयस्यातञ्चनं कृत्वा दध्युत्पाद्यान्येद्युर्दधियागं निर्वर्तयेद् , यदि नाभ्युदयस्तदानीमातञ्चनार्थं निहितादर्धादन्येनार्धेन दर्शनिवृत्तेस्तदर्थं दध्युत्पादनानपेक्षणेनातञ्चनार्थं निहितमर्धं ब्राह्मणभोजनेन प्रतिपादयेदिति। तदेतदातञ्चनाभ्यासदर्शनं सिद्धान्तलिङ्गत्वेन वर्णितम् । यदि कर्मान्तरमभ्युदयेष्टिः स्यात्तदा पशुकामेष्टाविव दधिश्रृतयोरधिकरणत्वेन प्रणीताकार्ये विधानादुपादेयत्वेन च प्रकृतग्रहणप्रमाणाभावाल्लौकिक एव दध्नि पयसि च श्रपणं कृत्वा सायंदोहेनाकालकृतेनापि प्रायश्चित्तनिर्हृतकालापराधदोषेण मुख्यकाले दर्शः कर्तव्यो न दध्यन्तरमुत्पाद्यम् । यद्यकाले प्रक्रान्तमेव दर्शकर्म देवताविकारयुक्तं सदभ्युदयेष्टिः स्यात्तदा तदर्थं कृतेन दध्ना तस्यैवानुष्ठितत्वान्मुख्यकालकर्तव्यदर्शार्थमवश्यं दध्यन्तरमुत्पाद्यमित्यर्थवदातञ्चनम् । तत्रामुख्यकालकृतसायंदोहार्थेनैवातञ्चनं कार्यमित्येतावान् विशेषो विधीयत इति। अत्र सिद्धान्तलिङ्गतयोपन्यस्तेनातञ्चनाभ्यासेन मुख्यकाले दर्शकर्तव्यतापि ज्ञाप्यत इति स्पष्टमेव । पूर्वपक्षिणाप्यकालोपक्रान्तं दर्शं त्यक्त्वा नैमित्तिकं कृत्वा पुनर्दर्शः समारम्भणीय इति सिद्धान्तिवदेव मन्यमानेन पुनरारब्धदर्शप्रयोगाद्बहिरकालकृतस्य दध्नो मुख्यकालकर्तव्यदर्शानर्हत्वेनातञ्चनाभ्यासोऽभ्युदितेष्टेः कर्मान्तरत्वेऽप्युपपद्यत इति तस्य सिद्धान्तलिङ्गत्वमेवापह्नूयते , न तु मुख्यकालकर्तव्यदर्शकालज्ञापकत्वम् । सिद्धान्तिना त्वकालोपक्रमदोषस्य पूर्वपक्षे नैमित्तिकेन कर्मान्तरेण निर्हृतत्वादकालोपक्रान्त एव दर्शो मुख्यकाले समापनीयः , न तु मुख्यकाले पुनर्दर्श: समारम्भणीय इत्यापाद्य तस्यातञ्चनाभ्यासलिङ्गानुपपत्तिः समर्थ्यते । अमावास्यायामेवेत्यादिटीकाग्रन्थोऽपि पूर्वपक्षसिद्धान्तसाधारण्येन निमित्ताधिकारस्य कर्मान्तरस्य विकृतदर्शप्रयोगस्य वा समाप्त्यनन्तरं मुख्यकाले दर्शः कर्तव्य इत्येतत्पर एव स्वरसतः प्रतिभाति , न सिद्धान्तकोटिप्रयोजनप्रदर्शनपरः पूर्वपक्षकोटिप्रयोजनप्रदर्शनाभावात्तदहरेव वेद्युद्धरणादि कृत्वेत्येतदातञ्चनाभ्यासलिङ्गसमर्थनार्थं पूर्वपक्ष्यनुसारेण पूर्वपक्षेऽपि योजयितुं शक्यम् । अथवाऽमावास्यायामेवेत्यादिटीकाग्रन्थः सिद्धान्तकोटावनुष्ठानप्रकारमात्रस्य प्रदर्शनपरः , न तु पूर्वपक्षे मुख्यकालकर्तव्यो दर्शो नास्तीति तद्व्यावृत्तसिद्धान्तकोटिफलप्रदर्शनपरः । पूर्वपक्षे आतञ्चनाभ्यासलिङ्गानुपपत्तिं समर्थयमानेन सिद्धान्तिना पूर्वपक्षेऽपि मुख्यकाले दर्शयागानुष्ठानस्य दर्शितत्वाद् , दर्शस्तु लुप्यते कालापराधादिति पूर्वपक्षोपसंहारटीकाग्रन्थोऽप्यातञ्चनाभ्यासलिङ्गसमर्थनप्रवृत्तपूर्वपक्ष्याशयानुसारेणाकालोपक्रान्तदर्शप्रयोगमात्रलोपपरः , कालापराधादिति हेतूक्तेः । तस्मादकालोपकान्तदर्शप्रयोगं त्यक्त्वा संकल्पप्रभृति कर्मान्तरं पूर्वपक्षे कर्तव्यं सिद्धान्ते त्वकालोपक्रान्तदर्शप्रयोग एव देवतान्तरसंयोजनरूपविकारयुक्तः संपादनीय इत्येव पूर्वपक्षसिद्धान्तयोः प्रयोजनभेदो वक्तुमुचित इति – चेत् , उच्यते ; अकालोपक्रमदोषेण तस्याममावास्यायां सर्वात्मना दर्शो लुप्तः । मध्यमादिवाक्यैर्विहितं कर्मान्तरं तु लुप्तस्य प्रत्याम्नायरूपम् । अतो यथा स प्रत्यामनेत्स्थानादित्यधिकरणपूर्वपक्षे यस्योभयं हविरार्तिमार्च्छति ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति दधिशृतरूपसान्नाय्यनाशे निमित्ते विधीयमानो दर्शेष्टितः कर्मान्तररूपः पञ्चशरावयागो दशैष्टेर्हविर्नाशेन लोपात्तत्प्रत्याम्नाय इति तदधिकरणपूर्वपक्षे दर्शेष्टिलोपः । एवमभ्युदयनिमित्तेऽपीति कैश्चिदेकदेशिभिः पूर्वपक्षे प्रयोजनमुक्तं भविष्यति तदनुवादोऽयमिति न दोषः ।
ये मध्यमादिवाक्यैर्देवतान्तरेष्विति ।
अत्र पूर्वकर्मणि देवतान्तरविधानं न विवक्षितम् ; तस्योत्पत्तिशिष्टगुणावरोधपरिहाराय देवतापनयविधिप्रवृत्तिसापेक्षत्वेन परस्पराश्रयापत्तेः , किंतु ये मध्यमादिवाक्यैर्यदि पूर्वकर्मणि देवतान्तरविधिः , यदि वा देवतान्तरविशिष्टकर्मान्तरविधिः , पक्षद्वयेऽपि देवतान्तरविधिरविप्रतिपन्न इत्येतावद्विवक्षितम् । एतावता तत्सजातीयानां देवतानां बुद्धिस्थतोक्ता । तत्प्रतियोगिनीनामित्यनेनाप्येकहविःसंबन्धित्वेन तत्प्रतिद्वन्द्वित्वं न विवक्षितम् , परस्पराश्रयतादवस्थ्यापत्तेः , किंतु साजात्येन तत्संबन्धित्वमात्रम् । अथवा तण्डुलदधिशृतशब्दैः प्रकृतदर्शहविषां प्रत्यभिज्ञानात्तेषामेव देवतान्तरविधानं ये मध्यमादिवाक्यैः क्रियत इति तावत्प्रतिभाति, तच्च तेषां पूर्वदेवतापनयमन्तरेण नोपपद्यत इति विमर्शोपस्थितदार्शिकहविषां देवतान्तरविधानं त्रेधावाक्यस्यान्यतःप्राप्तिमत्प्रतीयमानार्थतयाऽर्थान्तरपर्यवसानापेक्षस्य दार्शिकहविषां पूर्वदेवताभ्यो विभागोऽर्थ इति निर्णयहेतुत्वेन विवक्षितम् । अत एव विभागविषयेषु सामर्थ्यलब्धहविष्ट्वविशेषणावश्यम्भावात्तत्तुल्यत्वस्यापि विवक्षायां वाक्यभेदापत्तिर्वक्ष्यते हविर्मात्रं विभागविषय इत्यादिना । पूर्वव्याख्याने तु यद्यपि हविष्ट्वं न श्रुतम् ; तथापि तण्डुलानां हवीरूपेणैव देवतासंबन्धित्वं न स्वरूपेणेति हविष्ट्वं तावदश्रुतमपि यस्य हविर्निरुप्तमित्यत्र सन्निहितमवश्यं विवक्षणीयम् । अतस्तण्डुलत्वस्यापि विवक्षायां वाक्यभेदापत्तिरिति योज्यम् ।
ननु श्रुतत्वेऽप्युद्देश्यविशेषणस्य गहैकत्वस्याविवक्षा तृतीये निर्णीता , तेनैव न्यायेनोभयत्वस्याविवक्षा सिद्धा , कथं पूर्वपक्ष: ? इत्याशङ्क्याह –
हविर्वदिति ।
यदार्तिमार्च्छतीत्युद्देश्याया निमित्तभूताया नाशप्राप्तेर्हविर्विशेषणं सिद्धान्तेऽपि विवक्षितमङ्गीक्रियते , तत् पदान्तरोपात्तत्वेन ग्रहैकत्ववैलक्षण्याच्चेदुभयत्वमपि तत एव विवक्षितमस्त्विति भावः ।
विशिष्टोद्देशे वाक्यभेदं विवृणोति –
हविरार्ताविति ।
ननु विशिष्टोद्देशो नाम द्वित्वविशिष्टहविरार्तेर्निमित्ततयोद्देशः । तत्र वाक्यभेदं प्रतिज्ञाय कथं हविरुभयत्वयोर्विशेषणविशेष्यभावं विना स्वातन्त्र्येणार्त्यन्वये वाक्यभेदः प्रदर्श्यते ? उच्यते ; नामपदानां परस्परमसंबद्धानामेवाख्यातान्वयोऽरुणाधिकरणन्यायसिद्धः । अत एव बार्हस्पत्यो नैवारः सप्तदशशरावश्चरुर्भवतीति विहितायां विकृतीष्टौ प्राकृते चतुर्मुष्टिनिर्वापे चोदकतः प्राप्ते चतुर्भिर्मुष्टिभिः सप्तदशशरावपूरकस्य चरोः संपादयितुमशक्यत्वेन तत्र संख्यामुष्ट्यन्यतरबाधे कर्तव्ये मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वादिति (जै. अ. १० पा. २ सू. ६४ ) सूत्रेण मुष्टिगुणभूतसंख्याबाधः कार्य इति पूर्वपक्षं कृत्वा न निर्वापशेषत्वादिति (जै. अ. १० पा. २ सू. ६५) सूत्रेण संख्यामुष्टयोरुभयोरपि निर्वापशेषत्वेन तयोर्गुणप्रधानभावविशेषाभावात् चरमश्रुतस्य मुष्टेरेव बाधः कार्यः । अतश्चतुर्भिर्महापात्रैः सप्तदशशरावचरुसंपादनापेक्षितव्रीहिनिर्वापः कार्य इति दशमे सिद्धान्तितम् । अतश्चतुरो मुष्टीन्निर्वपतीत्यत्र संख्यामुष्ट्योरिवात्र हविरुभयत्वयोराख्यातेनैवान्वयो न तूभयत्वस्य हविरन्वयः । तथापि कथञ्चित्तस्य हविरन्वयः कल्प्येत, यदि तदाकाङ्क्षा स्याद् , न त्वसावस्ति ; हविरार्तिमात्रस्य निमित्तत्वोपपत्तेः । तस्मात्संख्यामुष्टिन्यायेन हविरुभयत्वयोराख्यातान्वयसिद्धौ संख्यामुष्ट्युभयविशिष्टनिर्वापविधानेनावाक्यभेदेऽप्यत्र निमित्तविशेषणयोरुद्देश्यकोटिनिविष्टयोर्विधेययोरिव क्रियया वशीकार्त्यवाभावेन क्रियायास्ताभ्यां प्रत्येकसंबन्धनिमित्तो वाक्यभेदो भवतीति हविरार्तौ निर्वपेदुभयार्तौ चेति वाक्यभेदो दर्शितः । हविरार्तौ निर्वपेदुभयहविरार्तौ चेति क्वचित्पाठः । स पाठ एतावन्तमर्थं मनसि निधाय इति उपरि शङ्कान्तरपरिहारार्थत्वेन योजनीयः । अत्रैवं शङ्का – नेह हविरुभयत्वयोरप्यार्त्यन्वयः , किंतु हविरार्तिमार्च्छेदिति हविरार्तेर्निमित्तत्वबोधनानन्तरं हविरुभयमिति तस्य हविषः संख्यान्वयो बोध्यते ।
तत्राख्याताश्रवणादुभयत्वं हविषैव संबध्यते नीलमुत्पलमित्यत्रोत्पलेनेव नैल्यं , निमित्तपर्यवसानार्थं हविषः स्वतः संख्याकाङ्क्षाविरहेऽपि तत्संबन्धबोधनेनैदम्पर्यप्रवृत्तवचनबलात्तत्र तद्बोधः स्यादेव –
इति ।
एवमपि वाक्यभेदः स्वयं प्रदर्शितयैव रीत्या समापतन्न निवार्य इति परिहारः स्पष्टः । तत्र हविरुभयमित्येतावति द्वितीयवाक्ये प्रदर्शनीये प्रथमवाक्यप्राप्तांशानुवादसाहित्येनोभयहविरार्तौ निर्वपेदिति द्वितीयवाक्यमुपन्यस्तम् ।
वाक्यभेदतादवस्थ्यादिति ।
आर्तिमार्च्छेदित्येतावता निमित्तापर्यवसानात् सा चार्तिर्हविर्विशिष्टेति पृथग्बोधनीयम् । तथा चोभयविशेषणाभावेऽप्यार्तिमार्च्छेद्धविरार्तिमार्च्छेदिति वाक्यभेदस्तदवस्थ इत्यर्थः । सर्वदा सर्वेषामपि यजमानानामन्ततश्चिन्तितनिमिषितादिनाशसत्त्वान्नाशमात्रं न निमित्तम् , अनियतत्वाभावादित्यस्ति हविर्विशेषणापेक्षा , नैवमुभयत्वविशेवणापेक्षाऽस्तीति परिहारार्थः ।
तस्मादविवक्षितमुभयत्वमिति ।
श्रुतिगतं तूभयपदं न केवलं दध्न एवार्तिनिमित्तं नापि केवलपयस एवेत्येतदर्थमनुवादमात्रमिति तात्पर्यम् । शाब्दिकास्तु द्वित्वस्याविवक्षां नानुमन्यन्ते । यदुक्तं हरिणा – एकत्वं वा बहुत्वं वा केषांचिदविवक्षितम् । तद्विजात्यभिधानाय द्वित्वं तु स्याद्विवक्षितम्॥ इति । एतद्व्याख्यानावसरे हेलाराजेन तथा सति यस्योभयं हविरित्यत्रापि द्वित्वस्य विवक्षायामन्यतरार्तौ नैमित्तिकाभावप्रसङ्ग इत्याशङ्क्य समाहितम् । तत्र द्वित्वमात्रं न श्रुतं , किंतु द्व्यवयवः समुदायः ; संख्याया अवयवे तयविति संख्याविशेषयुक्तावयवघटितसमुदायार्थतयप्प्रत्ययादेशायजन्तत्वादुभयशब्दस्य । ततश्चात्रोभयशब्दार्थस्यावयवद्वयारब्धसमुदायस्यैकावयवनाशेऽपि नाशान्निमित्तमस्तीत्यन्यतरनाशेऽपि नैमित्तिकानुष्ठानमुपपद्यत इति।
द्रव्यमुखेनेतीति ।
इह हि दार्शिकद्रव्याण्यपनीतपूर्वदेवतानि देवतान्तरसंयोजनसाकाङ्क्षाण्यासते , अतो मध्यमादिशब्दानां प्रकृतदार्शिकद्रव्यपरत्वावश्यंभावात्तन्मुखेन दर्शकर्मप्रत्यभिज्ञानं पूर्वोक्तं सिद्धान्तप्रयोजनं न गमयतीत्यवतारितः ततश्चेति टीकाग्रन्थः शङ्कान्तरपरिहारार्थत्वेनापि योजयितुं शक्यः । तत्रेयं शङ्का – कर्मान्तरमिति पूर्वपक्षे भवतु पुनर्दर्शानुष्ठानं प्रक्रान्तस्यैव दर्शस्य विकृतप्रयोगोऽभ्युदयेष्टिरिति सिद्धान्ते दर्शस्यानुष्ठितत्वात्किमिति पुनर्दर्शानुष्ठानम् – इति। तत्रायं परिहारः-अकालोपक्रान्तदर्शे नैमित्तिकेन विकृतिप्रयोगेण समापितेऽपि मुख्यकाले त्वननुष्ठितत्वाच्च पुनस्तदनुष्ठानम् – इति।
पुरोडाशसामर्थ्यादिति ।
पुरोडाशस्यापूपविशेषत्वेन तत्सामर्थ्यादेव तण्डुलादीनां पाकान्तानां प्राप्तिः , व्रीहीनवहन्ति तण्डुलान् पिनष्टि पिष्टं संयौति पुरोडाशं श्रपयति कपालेषु श्रपयतीत्यादिविधयस्तु कर्तृकरणाद्युपायनियमार्था इति भावः ।
दध्नस्तण्डुलानामिति ।
ननु – देवतैक्याद्दधितण्डुलानां पयस्तण्डुलानां च प्रदाने साहित्यं सिद्ध्यति , न तु पाके । स तु पयसः कुम्भ्यां भर्जनकपालेऽन्यत्र वा तण्डुलानामिति भेदेनैव प्राप्नोति। न च – दधঁश्चरुं शृते चरुमिति दधियुक्ततण्डुलानां पयोयुक्ततण्डुलानां च देवतासंबन्धबोधनात् तण्डुलानां पाककाले तद्युक्तयोर्दधिपयसोरपि सहपाकः प्राप्नोतीति – वाच्यम् ; दध्नः पयसश्च सप्तम्योः सहपाकादर्थप्राप्ताधिकरणत्वानुवादकतया वक्ष्यमाणत्वेन सप्तमीभ्यां दधिपयःसाहित्येन तण्डुलानां देवतासंबन्धाभावादिति – चेत् , अभ्युदयेष्टिप्रकरणे 'सह श्रपयती'ति वाक्यमस्ति , तेन दधितण्डुलानां पयस्तण्डुलानां च सहपाकसिद्धिरित्याहुः ।
त्र्यधिकेति ।
सान्नाय्यदोहं प्रकृत्य श्रूयते -'वाग्यतस्तिस्रो दोहयित्वा विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयती’ति। तत्र कपिञ्जलन्यायेन तिस्र एवोत्तरा गावो न दोग्धव्याः , किंतु यावत्यो यजमानस्य गावस्ताः सर्वा दोग्धव्याः ; "नास्यैतां रात्रिं कुमाराश्च न पयसो लभन्ते" इति वाक्यशेषात् । नचात्र कुमाराणामदृष्टार्थः पयोनिषेधः ; दृष्टार्थत्वे संभवत्यदृष्टार्थकत्वकल्पनानुपपत्तेः । अप्यर्थेन च नेत्यनेनापि कृत्स्नस्य यजमानपयसो देवतार्थत्वेन विनियोगप्रतीतेश्चेति उत्तरासु न यावत्स्वमपूर्वत्वा (जै. अ. ११ पा. १ सू. ४६ ) दित्येकादशे निर्णीतम् । तदर्थोऽत्रानुसंहितः । ननु पुरोडाशनिवृत्ताविति पुरोडाशसामर्थ्याद् लब्धः तदर्थत्वेन च श्रुतः पाकः पुरोडाशनिवृत्तौ निवर्तेतेति भावः ।
साधनविशेषाश्रितत्वादिति ।
यथा व्रीहीनवहन्तीत्यादिषु श्रुता अवहननादयो न व्रीहिप्रयुक्ताः , किं त्वपूर्वसाधनरूपसाधनविशेषप्रयुक्ताः । न हि ते व्रीहय इति कृत्वाऽवहन्यन्ते , किं तर्हि ? तण्डुलादिप्रणाडिकया पुरोडाशनिर्वर्तनद्वारेण यागापूर्वस्य साधनानीति यवेष्वपि तद्रूपसाम्यात्तेषामप्यवहननादयो भवन्ति , तथा पुरोडाशस्य पाको न पुरोडाशप्रयुक्तः , किं त्वपूर्वसाधनतारूपो यस्तद्धितसाधनताविशेषस्तत्प्रयुक्तः । स च स्थविष्ठादिवाक्यद्वयाम्नातेषु तण्डुलेष्वपि समान इति भावः ।
ननु तण्डुलावस्थायां देवतासंयोजनाच्चरुत्वस्याविधानाच्च तण्डुला एव प्रदेया इति प्रथनपेषणवत् पाकोऽपि निवर्तेत , प्रदेयद्रव्यसिद्ध्यर्थो हि पाकः , इह प्रदेयास्तण्डुला विनैव पाकं सिद्धाः , अत एव चित्रायागद्रव्येभ्यस्तण्डुलेभ्यः पाकनिवृत्तिरुक्ता न्यायरत्नमालायां –
'तण्डुलेभ्योऽर्थलोपेन श्रपणं विनिवर्तते' इति ।
दोहनानन्तरमेव श्रपितस्य शृतस्य दध्नश्च कथमपि न पाकप्राप्तिरस्ति। सत्यम् ; इह सह श्रपयतीति वाक्यादेव पाकस्यापि सिद्धिः । स्यादेतत् – चरुसप्तम्यर्थयोरनुवाद्यत्वेन तद्विधानप्रयुक्तवाक्यभेदाभावेऽपि दधि तण्डुलांश्चोद्दिश्य पयस्तण्डुलांश्चोद्दिश्य देवतासंबन्धविधानेन प्रत्युद्देश्यं वाक्यपरिसमाप्त्या वाक्यभेदो दुर्निवारः । न च वाच्यं सप्तम्यन्तसमभिव्याहारलभ्यं तण्डुलानां दधियुक्तत्वं पयोयुक्तत्वं च विधेयमस्तु , मा भूत्सप्तम्यर्थस्यानुवाद्यत्वं , तथा च सहितस्यैकस्योद्देशान्न वाक्यभेद इति ; तथापि साहित्यं देवतासंबन्धश्चेत्युभयविधाने वाक्यभेदानिवारणाद्दधिपयःसाहित्यस्य विधेयत्वे सान्नाय्यरहितानां सोमयाजिनामप्यभ्युदयेष्टिरस्तीति निर्णायकेन सान्नाय्यसंयोगान्नासन्नयतः स्या (जै. अ. ६ पा. ५ सू. २१ ) दित्यधिकरणेन विरोधप्रसङ्गाच्च । तत्र ह्यसन्नयतो दधिपयसोरभावान्नाभ्युदयेष्टिरिति पूर्वपक्षे दध्नस्तण्डुलानां पयसस्तण्डुलानां च प्रत्येकमुद्देश्यत्वेन तत्साहित्यस्याविवक्षितत्वादसन्नयतामपि केवलतण्डुलद्रव्यकाभ्युदयेष्टिः स्यात् । न च चरुत्वसिद्ध्यर्थं दधिपयसोर्मिश्रणापेक्षा ; अनूद्यमानचरुत्वस्यानङ्गत्वेन तदभावे वैकल्याभावाद् , अप्सु श्रपणसंभवाच्चेति व्यवस्थापितम् । एतेन – देवतापनये प्रयोगविशेषश्चोद्यत इति टीकानुसाराद् द्रव्यद्वयेन देवतया च विशिष्टस्यैकस्य प्रयोगस्य विधानान्न वाक्यभेद इत्यपि शङ्का – निरस्ता ; दधिपयसोर्विधेयतायामसन्नयतामभ्युदयाभावप्रसङ्गात् , प्रयोगस्य प्राप्ततया विकारमात्रविधानपर्यवसानेन वाक्यभेदपरिहारालाभाच्चेत्याशङ्कायां – भवतु वाऽनेकवाक्यकल्पनम् । प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति टीका प्रवृत्ता । तत्र यदि प्रकृताधिकारावगमः प्रकृतदर्शयागानुवृत्तिप्रत्यभिज्ञानं , तदा पञ्चशरावयागोऽपि विकृतो दर्श एव स्यान्न कर्मान्तरम् । तथा सति पञ्चशरावस्तु द्रव्याश्रुतेः प्रतिनिधिः स्यादित्यधिकरणे (जै. अ. ६ पा. ४ सू. २८ ) यदार्तदोहप्रतिनिधित्वेन दर्शयाग एव पञ्चशरावद्रव्यविधिः न तु कर्मान्तरविधिरिति पूर्वपक्षे पञ्चशरावौदनस्य द्रव्यस्य इन्द्रस्य देवतायाश्च प्रकृतसान्नाय्ययागानुवादेन विधौ वाक्यभेदः स्यादतो द्रव्यदेवताविशिष्टनैमित्तिककर्मान्तरविधिरिति सिद्धान्तितं तद्विरोधः स्यात् । तथापि प्रकृतप्रत्यभिज्ञानेन वाक्यभेदस्यासोढव्यतापत्तिरित्याशङ्क्य विशेषितं द्रव्यद्वारेणेति। अपनीतपूर्वदेवतान्तरसंयोजनसापेक्षाणि दार्शिकान्येव तण्डुलादीनि गृह्यन्त इत्याकाङ्क्षानुसारेणावगम्यते । किं च यदि बिभियादित्यादिवाक्ये महारात्रे फलीकरणपर्यन्तं कृत्वा पेषणमकृत्वा प्रतीक्षणवचनादपीदं ज्ञायते । अभ्युदयेष्ट्यामेत एव तण्डुला “इन्द्राय प्रदात्रे विष्णवे शिपिविष्टाय चे”ति। अन्यथा पेषणात्प्रागेव प्रयोगमवस्थाप्य प्रतीक्षणमदृष्टार्थं स्यात् । तथा आतञ्चनार्थस्य दध्यर्धस्याभ्युदयाभावपक्ष इव तदन्यस्य दध्यर्धस्याभ्युदयपक्षे प्रतिपत्त्यविधानादिदं ज्ञाप्यते अभ्युदयेष्ट्यां तदेवान्यदर्धं दधीति। अभ्युदयाभावपक्षे दध्यन्तरोत्पादनस्यानपेक्षितत्वादातञ्चनार्थं दध्यर्धप्रतिपत्त्यपेक्षावदभ्युदयपक्षे तदितरार्धस्य लौकिकदधिसाध्यायामभ्युदयेष्ट्यां दध्यन्तरोत्पादननिर्वर्त्ये मुख्यकालदर्शे चानुपयोगात्प्रतिपत्यपेक्षाऽस्तीति तत्प्रतिपत्तिरप्युदवर्ण्येत । तथा "विष्णवे शिपिविष्टाय शृते चरु"मिति शृतपदप्रयोगात् ज्ञायते अभ्युदयेष्ट्यां वैदिकप्रसिद्धया रूढ्या शृतशब्दवाच्यः प्रातर्दोह एव पयो न तु लौकिकं पय इति। अन्यथा आदित्यः प्रायणीयः पयसि चरुरित्यत्रेव पयःशब्द एव प्रयुज्येतेति। पशुकामेष्टौ तु गृहीतः शृतशब्दो लौकिकपयसो लक्षणार्थ इति सूत्रकृतैवोक्तं लक्षणार्था शृतश्रुतिरिति। न चेह लक्षणायां कारणमस्ति। एवमिह द्रव्यैक्यकृतानन्यथासिद्धा प्रत्यभिज्ञैव प्रकृतत्वमात्रकृता वाक्यभेददोषाभावात् प्रच्यावयितुं न क्षमेति विशेषं सूचयितुं द्रव्यद्वारेणेत्युक्तम् । एवं च स्थविष्ठादिवाक्यद्वय इव सह श्रपयतीति वाक्येऽपि वाक्यभेदः । स च तण्डुलोद्देशेन प्रत्येकं दध्ना पयसा च सहपाकविधिरित्येवंरूपो वा दधितण्डुलानां च पयस्तण्डुलानां च सहपाकविधिरित्येवंरूपो वा न भवति ; असन्नयतोऽभ्युदयेष्ट्यभावप्रसङ्गात् , किंतु दध्युद्देशेन पयउद्देशेन च तण्डुलसहपाकविधिः । तेन यत्र दधिपयसी तत्रैवेदं वाक्यद्वयं प्रवर्तत इत्यसन्नयतोऽप्यभ्युदयेष्टिलाभः । एवं चासन्नयतः प्रभूतदधिपयःसहपाकप्रयुक्तायाः पुरोडाशभावनिवृत्तेरभावात्पुरोडाशभावेनैव प्रदेयता । चरुशब्दः पाक्षिकानुवादः । दधिपयसोः सप्तमी च स्थविष्ठानामणिष्ठानां च तण्डुलानां देवतासंबन्धवच्चरुभावो विधेयः , स्थविष्ठाणिष्ठवाक्ययोः प्रत्येकं वाक्यत्रैविध्योपपत्तेः । एवं चरुभावस्याङ्गत्वादेवार्थाच्चरुभावसाधने दध्नि पयसि च प्रणीताधर्माणां प्राप्तिर्नवमे स्थापिता , असन्नायिनामप्सु चरोः श्रपणं भाष्यकारैरुक्तं च सङ्गच्छते । टीकायां परस्माच्च वरः वराच्च वरीयानिति व्युत्पत्तिर्दर्शिता ।
तत्र पञ्चम्यन्तस्य परशब्दस्य वरशब्दस्य च पूर्ववाक्ये सामगतिपरंपरायां निवेशितस्वरप्राणादिरर्थ इति व्याचष्टे –
परस्मात्स्वरप्राणादेः परो वराच्च तस्मादेव वरीयान् वरतर इति ।
परोवरीयानित्येकं पदं परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयतीति वाक्यशेषात्परशब्दे ओत्वनिपातेन सिद्धोयं शब्द उपन्यस्तार्थविषयः ॥७॥८॥
इति तृतीयमन्यथात्वाधिकरणम् ॥
व्याप्तेश्च समञ्जसम् ॥९॥
स एवार्थ इति ।
उद्गीथेन विशेषणरूपं यमर्थं सिद्धवत्कृत्य विद्याभेदो दर्शितः स एवार्थश्चिन्त्यत इत्यर्थः ।
उद्गीथभक्तिसंबन्धिनः प्रणवस्योपासनाया अधिकारप्रतिपादनमिति ।
प्रतिपादनं विधानम् । तथा चोमित्यक्षरमुद्गीथमुपासीतेत्यत्र उद्गीथभक्त्यवयवोङ्कारकर्मविशिष्टोपासनाविधिरयं सोमेन यजेतेतिवद्विशिष्टविधिरूप उत्पत्तिविधिः । स एव रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथ इत्यत्रोङ्कारे रसतमत्वगुणविधिः । "आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते" इत्यत्राप्तिगुणविधिः । "समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुपास्ते" इति तस्मिन् समृद्धिगुणविधिः । आप्तिसमृद्धिगुणविध्यर्थवादश्रुतफलद्वयग्रहणेन कल्प्योऽधिकारविधिः ।
आप्त्यादिदृष्टीर्विधातुमिति ।
दृष्टिविषयानाप्त्यादिगुणान् विधातुमित्यर्थः ; उत्पत्तिविधिनैव दृष्टिप्राप्तेः ।
पृथगुपासनाविध्यभावादिति ।
वक्ष्यमाणफलविशिष्टोपासनोत्पत्तिविषयत्वेन स्वतन्त्रोपासनान्तरविध्यभावादित्यर्थः । न च – अत्र मा भूदयमुत्पत्तिविधिः यथाश्रुतग्रन्थस्वारस्यानुरोधेनोद्गीथावयवत्वविशिष्टप्रणवरूपाश्रयसमर्पणपरोऽयमस्त्विति - वाच्यम् ; एकपदश्रुत्योपासनान्वितस्य विधेस्तदतिलङ्घनेन विशेषणसंक्रान्तिकल्पनानौचित्यात् । अन्यथा सोमेन यजेतेति विधेरप्यधिकारविधिलभ्ययागानुवादेन सोमगुणमात्रविधित्वकल्पनाप्रसङ्गादिह रसतमत्वादिगुणविधिषु त्रिष्वपि विनिगमनाविरहात्तत्तद्गुणविशिष्टोपासनाविधित्वस्य कल्पनीयतया बहुविशिष्टबहूपासनाविधिकल्पनागौरवप्रसङ्गाच्च ।
अपि च गौण्या वृत्तेरिति टीकायामध्यासपक्षे गौणी वृत्तिः सिद्धवत्कृत्य व्यवहृता , विशेषणपक्ष इव तस्मिन्नपि पक्षे लक्षणैव किं न स्यादित्याशङ्क्य तस्मिन् पक्षे दृष्टिविधिलाभार्थं गौणी वृत्तिरवश्याश्रयणीयेत्याह –
ॐकार उद्गीथदृष्टि विधौ हीति ।
सादृश्यलक्षणागर्भा खलु गौणी । ततश्चोद्गीथशब्दस्य यद्योङ्कारे गौणी वृत्तिराश्रीयेत , तदोद्गीथदृष्टिविषयत्वम् । अमी पिष्टपिण्डाः सिंहाः क्रियन्तामित्यत्र सिंहाकारमिव साध्यसादृश्यं गृहीत्वा ॐकारमुद्गीथदृष्टिविषयं कुर्वन्नुपासीतेत्यर्थे पर्यवसानं कर्तुं शक्यमिति दृष्टिविधिर्लभ्येत । अवयवावयविसंबन्धमूलकलक्षणाश्रयणे तु सा न लभ्यत इति।
उद्गीथदृष्टिविषयत्वादोङ्कार उद्गीथ इत्यर्थ इति ।
गौणवृत्त्याश्रयणे ओमित्येतदक्षरमुद्गीथमित्यस्यैव तदर्थो लभ्यत इत्यर्थः । गौण्यां लक्षणीयार्थद्वाराऽर्थान्तरे शब्दस्य वृत्तेर्व्यवधानमाहेति। लक्षणीयार्थो मुख्यार्थसादृश्यम् । ननु – भाष्यस्वारस्यान्मुख्यार्थे यत्प्रवृत्तिनिमित्तं तस्यान्यत्रारोपेण शब्दस्य वृत्तिर्गौणी वृत्तिरभिमतेति प्रतीयते । टीकायामप्यधिकरणोपक्रमे तथैव गौणी वृत्तिर्लक्षिता । इह लक्षणागौण्योः सन्निकर्षविप्रकर्षप्रदर्शनभाष्यव्याख्यानावसरे मुख्यार्थसादृश्यं लक्षयित्वा तद्द्वारेण तद्वत्यर्थान्तरे वृत्तिर्गौणीति लक्षितलक्षणारूपा सा टीकाकारैराचार्यैश्च वक्ष्यते ? किमर्थमिह भाष्यस्वारस्य परित्यागः ? भाष्योक्त आरोप एव हि प्रकृतोपयोगी प्रसिद्धश्च । तथा हि – अध्यासपक्षे नाम्नि ब्रह्मत्वादेरोङ्कारे उद्गीथत्वादेरारोप्योपासना वर्णिता , तथोपासना च नाम्नि ब्रह्मशब्दस्य ब्रह्मत्वारोपेणोङ्कारे उद्गीथशब्दस्योद्गीथत्वारोपेण च वृत्तावेव घटते । तस्मादारोपपक्ष एव प्रकृतोपयोगी । प्रसिद्धश्च स एव लोके वेदे च । लोके तावत् – "किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥” इति। अत्र नलविहारातुरया दमयन्त्या चन्द्रं प्रत्युपालम्भः क्रियते । मृतानां मनः चन्द्रे लगतीति प्रतिपादयन्तीं “यत्रास्य पुरुषस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रमित्या”दिश्रुतिं दृष्ट्वा खलु दमयन्ती मृता चेदस्या मनः स्वस्मिन् लग्नं भवेदिति प्रत्याशया मां मारयितुमिच्छसि । सा जडस्य तव प्रत्याशा निष्फला । यतः सा श्रुतिः नलमुखचन्द्रविषयेति विबुधो मन्मथो मह्यमुपदिष्टवानिति। एवं श्रुतेश्चन्द्रान्तरविषयत्ववर्णनं नलमुखे चन्द्रत्वारोप एव संगच्छते । एवम् – "अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अफाललोचनः शम्भुर्भगवान् बादरायणः ॥" इत्यत्रापि बादरायणे ब्रह्मत्वाद्यारोपे एव चतुर्वदनत्वादिप्रसिद्धब्रह्माद्येकैकगुणवैकल्यवर्णनं स्वारस्यमश्नुते । अत्यल्पमिदमुदाहृतम् । सर्वत्रारोपप्रमाणा एव कार्यसरणयः । एवं – भूतेष्वारोपेषु सादृश्यं व्यङ्ग्यविषयतया कविभिर्विवक्ष्यते , न तु गौणवृत्तिविषयतया । अत एव रूपकेणोपमा व्यज्यत इत्यालङ्कारिकसमयः । तथा वेदेऽप्यात्मानं रथिनं विद्धि शरीरं रथमेव चेत्यादिष्वात्मशरीरादिषु रथिरथादिभावारोपः सुप्रसिद्धः । अजामेकामित्यादिमन्त्रे प्रकृतावजात्वकल्पना ’असौ वा आदित्यो देवमध्वि’त्यादावादित्यमण्डले मधुत्वकल्पनेत्यादिकमपि सुप्रसिद्धमेव । इत्थं वेदे आरोपमूलां शब्दवृत्तिं "शरीररूपकविन्यस्तगृहीतेरिति" "कल्पनोपदेशाच्च" "मध्वादिवदविरोध" इति च सूत्रकारोऽपि स्पष्टमाह । तस्मादिह लक्षितलक्षणारूपा गौणीति व्याख्यातुमयुक्तम् । न च लक्षणागौण्योः सन्निकर्षविप्रकर्षप्रतिपादकव्याख्येयभाष्यमनुसृत्य तथा व्याख्यानम् ; मुख्यार्थसाक्षात्संबन्धमूला लक्षणा सन्निकृष्टा मुख्यार्थवृत्तिगुणसमानगुणाधिकरणत्वरूपपरम्परासंबन्धमूला गौणी विप्रकृष्टेत्येवं भाष्यतात्पर्योपपत्तेरिति – चेत् , उच्यते ; यथाभाष्यमारोपमूला गौणीत्येव टीकाकाराणामाचार्याणामप्यभिमतं तदधिकरणोपक्रमटीकातद्व्याख्यानाभ्यां स्पष्टम् । सन्निकर्षविप्रकर्षभाष्यं गौण्यारोपमूला न भवति , किंतु सादृश्यलक्षणामूलेति ये पूर्वमीमांसका वर्णयन्ति तन्मतानुसारेणापि योजयितुं शक्यमिति वैभवात्तथा व्याख्यातम् । पूर्वमीमांसकैर्हि तत्सिद्धिपेटीकायां यजमानः प्रस्तर इत्यत्र प्रस्तरे यजमानशब्दस्य यजमानत्वारोपेण वृत्तिर्न भवति , किंतु तत्कार्यकरणत्वरूपयजमानसादृश्येनेति महता यत्नेनोपपादितम् । वस्तुतस्त्वत्रापि यजमानत्वारोपेण वृत्तिरित्येव युक्तम् । “उत्तरं बर्हिषः प्रस्तरं सादयति प्रजा वै बर्हिर्यजमानः प्रस्तरो यजमानमेवायजमानादुत्तरं करोती”तिसंदर्भो “रोहितेन त्वाऽग्निर्देवतां गमयत्वित्याहैते वै देवाश्वा यजमानः प्रस्तरो यदेतैः प्रस्तरं प्रहरति देवाश्वैरेव यजमानं स्वर्गं लोकं गमयती”ति संदर्भश्च संगच्छते । बर्हिष उपरि यत्प्रस्तरस्यासादनं तदेव यजमानस्यायजमानादुत्तरीकरणमिति वचनं हि बर्हिषि प्रस्तरत्वारोपे प्रस्तरे यजमानत्वारोपे च सत्येव संगच्छते । तथा रोहितेन त्वेत्यादिभिर्मन्त्रैः प्रस्तरस्याह – वनीये स्वर्गो लोक आहवनीय इत्यर्थवादान्तरश्रुतेः प्रहरणं प्रक्षेपणमिति वचनमपि मन्त्रेषु देवाश्वत्वस्य प्रस्तरे यजमानत्वस्याहवनीये स्वर्गत्वस्य चारोप एव संगच्छते । एवं सत्यपि वार्तिकादिषु यदारोपप्रच्छादनं तद्वेदप्रामाण्यसंरक्षणव्यसनितया । यद्यपि रुद्ररोदनाद्यसदर्थमवलम्ब्य विधेयस्तुतौ तात्पर्यवर्णने प्रामाण्यस्य न क्षतिः ; तथापि – प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे॥ इति न्यायमवलम्ब्य वेदप्रामाण्यप्रतिषेधकारणं कियतोऽप्यवकाशस्यालाभायारोपपक्षः प्रौढ्या प्रच्छादितः । अलं विस्तरेण ॥९॥
इति चतुर्थं व्याप्त्यधिकरणम् ॥
सर्वाभेदादन्यत्रेमे ॥१०॥
ननु कौषीतकिवाक्यमिति ।
एवंशब्दः सन्निहितावलम्बन इत्येतावता शाखान्तरोक्तं वसिष्ठत्वादिकं न व्यावर्तयति , तस्याप्यनुमानतः सन्निहितत्वेनैवंशब्दपरामर्शनीयत्वादिति शङ्कार्थः । सन्निधापितमेवैवंशब्दः परामृशति न प्रमाणान्तरसन्निधापितमपि ; अन्यथा गामानयेत्यत्र गोरिव प्रत्यक्षोपस्थापितघटस्यापि कर्मतयाऽन्वयप्रसङ्गादिति परिहारार्थः ।
फलविधिपरे इति ।
अथो य एवं विद्यादित्यादि तदमृतो भवति यदमृता देवा इत्यन्तं तत्र फलवाक्यम् ।
विद्यैक्यद्वारा प्राप्तशाखान्तरीयफलसंबन्धानुवादादिति ।
ननु – कौषीतकिशाखायां "तदमृतो भवति यदमृता देवा" इति प्राणदेवतासायुज्यं फलमुक्तम् । शाखान्तरे तु छान्दोग्ये बृहदारण्यके च ज्यैष्ठ्यश्रैष्ठ्यरूपफलं तद्बृहदारण्यके स्वानामिति विशेषणात् ज्ञातिमध्ये वयसा गुणेन चाधिक्यरूपमैहिकमेव , तत्कुतः शाखान्तरीयफलानुवादसंभवः ? इति – चेत् , उच्यते ; कौषीतकिशाखायामिवास्ति शाखान्तरेऽप्यनाम्नातवसिष्ठत्वादिगुणा प्राणविद्या । अत एव भाष्ये कौषीतकिप्रभृतीनामित्युक्तम् । तेषु प्राणदेवतासायुज्यं फलमुक्तमस्तीत्याचार्याणामाशयः । ननु – छान्दोग्यबृहदारण्यकोक्तज्यैष्ठ्यश्रैष्ठ्यगुणलाभोऽपि प्राणदेवतासायुज्यरूप एव ; तत्सायुज्यस्य तद्गुणान्वयरूपत्वात् , बृहदारण्यके ज्येष्ठश्च श्रेष्ठश्च स्वानां भवतीत्येतदनन्तरमपि च येषां बुभूषति य एवं वेदेति वाक्येनान्येषामपि येषां ज्येष्ठश्च श्रेष्ठश्च भवितुमिच्छति तेषामपि ज्येष्ठः श्रेष्ठश्च भवतीति ज्येष्ठश्रैष्ठ्ययोरैहिकामुष्मिकसाधारण्यस्योक्तत्वात् , एवं फलाभेदोपपादनेन पूर्वपक्षसिद्धान्तयोर्विद्यैक्यसिद्धवत्कारयोगात् । तस्मात्फलानुवादेनान्यव्यावृत्तिपरतोक्तिर्युक्तैव । ननु पञ्चाग्निविद्यावैश्वानरविद्यादिफलवाक्येष्वपि एवं श्रूयते तेषामपि शाखान्तरप्राप्तफलानुवादेनान्यव्यावृत्तिपरता स्यादिति – चेत् , अस्तु , पूर्वपक्षिणः का हानिः ? अत्र सैद्धान्तिकन्यायव्युत्पादनेन तेष्वनुपसंहारशङ्कानिरासो भविष्यतीति। ननु सत्यमित्यादिटीकायामशाब्दस्यापि शाखान्तरीयगुणजातस्य शाब्दान्वयो युक्तः ; अव्यभिचरितक्रतुसंबन्धिजुहूपस्थापितस्य क्रतोः पर्णतान्वयदर्शनात् , तथेहाऽव्यभिचरितवसिष्ठत्वादिगुणसंबन्ध्युपास्यफलोपस्थापितस्य वसिष्ठत्वादेरन्वयसंभवादित्युक्तमिति प्रतिभाति। तन्न युक्तम् ; शब्दोपस्थापितस्यैव शाब्दान्वयनियमात् , पर्णतावाक्येऽपि न लिङ्गोपस्थापितस्य क्रतोरन्वयः , किंतु जुहूपलक्षितस्य । पर्णताया जुह्वाकृतिमात्रार्थत्वे वैयर्थ्यं स्यादिति जुहूपदस्य तद्वति क्रतौ लक्षणा स्वीकृता ।
न चेह कस्यचित्पदस्य शाखान्तरीयगुणजातलक्षणायां किंचित्कारणमस्तीत्याशङ्कां वारयति –
सत्यमशाब्दं शाब्दे नान्वेतीति ।
भवति शाब्दमिति ।
स्वशाखाम्नातवत्परशाखाम्नातमपि शाब्दमेव ; शाब्दत्वेऽपि कौषीतकिशाखागतैवंशब्दार्थावगतिसमये शाखान्तराम्नातं गुणजातं शब्देन नोपस्थितं , किंतु स्वशाखाम्नातं तत्पूर्वापरानेकवाक्यविहितं तदाशब्देनोपस्थितम् । तदानीमशाब्दमपि शब्दमूलप्रतिपत्त्यास्पदमेतत्प्रकरणाम्नातगुणत्वेन क्रोडीकृतम् एवंशब्दो गोचरयेदिति चेत् , एवं तर्हि शाखान्तराम्नातमपि गुणजातमेतद्विद्यासंबन्धिगुणत्वेन क्रोडीकृतं स गोचरयतीत्यस्तु ; प्रधानभूतविद्याघटितप्रकरणानुप्रवेशापेक्षया विद्यानुप्रवेशे लाघवादिति भावः ।
उपास्यफलप्रत्यभिज्ञानादिति ।
फलप्रत्यभिज्ञानमुपपादितम् । स्यादेतत् – वसिष्ठत्वादीनां कौषीतकिशाखाम्नातायामुदाहृतप्राणविद्यायामुपसंहारो न युज्यते ; विरोधात् , तथा हि – वाचो वसिष्ठत्वं वाग्मिनः सद्व्यवहारजननेन वसुमत्तासंपादकत्वं चक्षुषः प्रतिष्ठात्वं चक्षुष्मतः समविषमभूतलादिप्रदर्शनेन प्रतिष्ठासंपादकत्वं श्रोत्रस्य संपत्त्वं वेदशास्त्रतदर्थश्रवणादिसंपादनेन संपत्करत्वं मनस आयतनत्वं स्रक्चन्दनादिविषयज्ञानरूपभोगायतनत्वमिति तत्तद्वाक्यशेषाद्यनुसारेण स्थितम् । अतो यदहं वसिष्ठोऽस्मीत्यादेर्यदहं वसुमत्तासंपादनसमर्थोस्मि त्वं तद्वसिष्ठोऽसि मत्सामर्थ्यस्य त्वदधीनत्वात्तवैतत्सामर्थ्यमित्यादिरर्थः । इदं च प्राणस्य वागादिगततत्तत्कार्यसंपादनसामर्थ्यनिमित्तत्वरूपं वसिष्ठत्वादिकं छान्दोग्यवाजसनेयकगतप्राणविद्यायामुपपाद्यते ; तयोः प्राणोच्चिक्रमिषायां वागादीनामपि क्रमेण प्रसक्तिवर्णनेन तेषां स्वकार्यकरणसामर्थ्यस्य प्राणाधीनत्वात् । कौषीतकिशाखायां दशमाध्याये यत्प्राणविद्याम्नानं , तत्रापि वसिष्ठत्वादिकमुपपद्यते । तत्र हि "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च स्वानां भवती"त्यारभ्य छान्दोग्यबृहदारण्यकरीत्यैव प्राणस्य ज्यैष्ठ्यश्रैष्ठ्यगुणवत्त्वं वागादीनां वसिष्ठत्वादिगुणकत्वं मुख्यप्राणस्य वागादीनां च श्रैष्ठ्यविषयपरस्परविवादेन ब्रह्मसभोपवर्णनं यस्मिन्नुत्कान्ते शरीरेन्द्रियानवस्थिति: स श्रेष्ठ इति ब्रह्मवचनं तत्परिचिकीर्षया वागादीनामेकैकस्य शरीरादुत्क्रम्य पर्यटनं तदा शरीरस्येन्द्रियाणां च यथापूर्वमवस्थानं प्राणस्योत्क्रमणप्रवृत्तौ तेषां विशरणं ततो भीतानां वागादीनां मोत्क्रमीस्त्वन्नः श्रेष्ठ इति मुख्यप्राणं प्रति वचनमित्येतत्सर्वं क्रमेण वर्णितम् । प्राणे वागादिगतवसिष्ठत्वादिगुणसमर्पणमात्रं नोक्तम् । कौषीतकिशाखायां चतुर्थाध्याये “अथातो निःश्रेयसादान"मित्यारभ्य या प्राणविद्याऽऽम्नाता तस्यामुक्तरूपं वसिष्ठत्वादिकं प्राणे नोपपाद्यते । तत्र हि प्राणानधीनकार्यत्वं वागादीनामुक्तम् । शरीरमात्रस्य प्राणाधीनस्थितिसंचारादिमत्त्वमुक्तम् । “अथातो निःश्रेयसादानं सर्वा वै देवता अहंश्रेयसे विवदमाना अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं शिश्ये अथैतद्वाक् प्रविवेश तद्वाचा वदच्छिश्य एव । अथैनच्चक्षुः प्रविवेश तद्वाचावदच्चक्षुषा पश्यच्छिश्य एव । अथैनत् श्रोत्रं प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वत् शिश्य एव । अथैनन्मनः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यत् श्रोत्रेण शृण्वत् मनसा ध्यायत् शिश्य एव । अथैनत् प्राणः प्रविवेश तत्तत एव समुत्तस्थाविति। तस्मादुदाहृतकौषीतकिशाखाम्नातप्राणविद्यायां वसिष्ठत्वाद्युपसंहारो न युक्त इति – चेत् , उच्यते ; वागादीनामभिवदनमात्रस्य प्राणानधीनत्वोक्ताविति गोष्ठीषु सद्व्यवहारजननेन वसुमत्तासंपादकत्वरूपं यद्वसिष्ठत्वम् एवमादिकं शरीरस्थितिसंचारापेक्षं प्राणाधीनमित्येतदिहाप्यनुमतमेवेति वसिष्ठत्वाद्युपसंहारे न काप्यनुपपत्तिः॥१० ॥
उशब्दोऽप्यर्थ इति ।
तथो इत्यत्र तथा उ इति द्वे पदे इति भावः । प्राणात्मत्वप्राप्त्या प्राणसायुज्यप्राप्त्या । अथवा – कल्पान्तरे प्राणदेवताभावप्राप्त्या॥
इति पञ्चमं सर्वाभेदाधिकरणम् ॥
आनन्दादयः प्रधानस्य॥११॥ संयद्वामत्वादय इत्यादेर्यथाविधि व्यवस्थेत्यन्तस्यायमर्थः । अक्षिपुरुषोपासनार्थमुपास्यगुणत्वादयो संयद्वामत्वादयो दध्यादिवद्विधेयाः । अतः कालान्तरभाविफलोद्देश्यकगुणविशिष्टब्रह्मोपासनाविधिप्रयुक्तं फलापूर्वमभ्युपगन्तव्यम् , तत्प्रयुक्ताश्चेतिकर्तव्यतारूपा धर्माः । कर्तव्यत्वेनोपदिष्टस्य कथं कर्तव्यमित्याकाङ्क्षायामित्थं कर्तव्यमित्युपदिश्यमानस्तत्तत्प्रकारविशेषः खल्वितिकर्तव्यता , सात्वपूर्वप्रयुक्तेति पूर्वतन्त्रे सप्तमाद्ये व्युत्पादितम् । तदित्थं – यद्यपि यागेनाऽपूर्वं कृत्वा स्वर्गं भावयेदिति विधिना यागकर्तव्यताऽप्यवगम्यते ; तथापि तत्र न प्रकाराकाङ्क्षाऽस्ति , किंचिदुद्दिश्य द्रव्यत्यागरूपस्य लौकिकस्य तस्य निर्ज्ञातप्रकारत्वात् । न ह्योदनं पचेत्युक्ते कथमिति प्रकारविशेषाकाङ्क्षा जायते , जायते तु घृतपूरं पचेत्युक्ते । तथेहापूर्वकर्तव्यताया अनिर्ज्ञातप्रकारत्वात्तत्र कथमाकाङ्क्षायां तदितिकर्तव्यतारूपतयोपदिश्यमाना धर्मास्तत्प्रयुक्ता इति तदपूर्वमियतो धर्मानपेक्षत इति लोकतस्तत्परिमाणानवगमाद्यत्र यावतामन्वयस्तावद्भिस्तद्भवतीति विध्यनुसारेणावगन्तव्यत्वात् यथाविधि व्यवस्थेति। एवं चानिर्ज्ञातपरिमाणत्वादित्यस्यानिर्ज्ञातपरिमाणधर्मसाध्यत्वादित्यर्थः ; अपूर्वबहुत्वाभावेन यथाश्रुतानन्वयात् । अथवा – अवान्तरापूर्वाभिप्रायं सर्वमिदं वाक्यं योजनीयम् । बहुगुणविशिष्टब्रह्मोपासने हि पाठक्रमेण गुणचिन्तनेषु बहुषु जायमानेषु प्रयाजाद्यपूर्ववद्बहून्यवान्तरापूर्वाणि भवन्ति तत्प्रयुक्ताश्च भवन्ति उपास्यफलाः । अङ्गापूर्वाणामपि तदङ्गगुणप्रयोजकत्वात्तेषामियत्तारूपं परिमाणमनिर्ज्ञातं विध्यधीनं निर्ज्ञातमिति यथाविधि व्यवस्था ।
यावन्त्यो भ्रान्तय इति ।
निर्गुणप्रकरणेषु गुणवैशिष्ट्याम्नानस्य प्रधानभूतनिर्गुणप्रमित्यर्थत्वसिद्ध्यर्थं गुणवैशिष्ट्यांशं त्यक्तुं ज्ञानत्वानन्दत्वादीनामन्यतमगुणवैशिष्ट्यश्रवणेऽपि विरोधस्फूर्तये प्रकरणान्तराम्नातगुणोपसंहारे कर्तव्ये विनिगमनाविरहान्नानाप्रकरणाम्नानात् सर्वगुणोपसंहारः कार्यः । न चैवं सगुणप्रकरणाम्नातसंयद्वामत्वादिगुणानामपि निर्गुणप्रकरणे उपसंहारप्रसक्तिः ; सच्चिदानन्दत्वानामुपसंहारस्यानृतजडदुःखात्मत्वपरिच्छिन्नत्वानात्मत्वभ्रान्तिनिवारणेनेव संयद्वामत्वादीनामुपसंहारस्य किंचिद्भ्रान्तिनिवर्तनेन सच्चिदानन्दापरिच्छिन्नप्रत्यगात्मभूतब्रह्मस्वरूपप्रमित्युपयोगित्वाभावादिति भावः ॥११॥१२॥१३॥
इति षष्ठमानन्दाद्यधिकरणम् ॥
आध्यानाय प्रयोजनाभावात् ॥१४॥
ब्रह्मस्वभावभूतेति ।
सत्तादिसामान्यानि घटत्वादिवद्धर्मिस्वभावभूतानि , अर्थादिपरत्वं तु प्रतियोगिसापेक्षम् अस्वभावभूतमित्यर्थः । न सर्वैर्वाक्यैरिन्द्रियादिभ्यः सर्वेभ्यः पुरुषस्य परत्वं शब्दवृत्त्या प्रतिपाद्यते , इन्द्रियादिभ्योऽर्थादीनां क्रमेण प्रतिपादनदर्शनात् । न च "एकं वृणीते द्वौ वृणीते त्रीन् वृणीते" इत्यत्र त्रयाणां वरणस्य विधानेनार्थसिद्धम् एकस्य द्वयोश्च वरणमिव पुरुषस्याव्यक्तात्परत्वप्रतिपादनेनार्थादीनामिन्द्रियादिपरत्वमर्थसिद्धमनुवदितुं शक्यम् ; तथेहार्थतः सिद्ध्यसंभवात् । तस्मात्तेन तेन वाक्येनार्थादिपरत्वमपि प्रतिपादनीयमित्यत: सर्वेषां वाक्यानां पुरुषपरत्वप्रतिपादनमात्रे तात्पर्यं कल्पयितुं न युक्तमिति भावः ।
दृष्टप्रयोजने संभवतीति ।
"यद् ग्राम्याणां पशूनां पयसा जुहुयाद् ग्राम्यान् पशून् शुचाऽर्पयेत् यदारण्यानामारण्यान् जर्तिलयवाग्वा वा जुहुयाद्गवीधुकयवाग्वा वा न ग्राम्यान् पशून् हिनस्ति नारण्यान् अथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेति पयसाग्निहोत्रं जुहोती"त्यत्र ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिलगवीधुकयवाग्वोर्यदपेक्षायाऽपकर्षस्तत्पयोऽत्यन्तं प्रशस्तमिति पयःप्राशस्त्यप्रतिपादनार्थं जर्तिलगवीधुकयवाग्वोर्विधिसरूपार्थवादो न तु विधिः । एवमिन्द्रियाद्यपेक्षया उत्तरोत्तरोत्कर्षावधेरव्यक्तादपि परः पुरुष इति पुरुषपरत्वप्रतिपादन एव तात्पर्यम् । इन्द्रियेभ्यः परा ह्यर्था इत्यादिस्तु तत्तत्परत्वप्रतिपादकसरूपस्तच्छेषः ; पुरुषपरत्वप्रमितिरूपे दृष्टफलार्थत्वे संभवति उपासनाद्वारकादृष्टार्थत्वायोगात् । भूमपरत्वप्रतिपादनपरायामपि भूमविद्यायां नामाद्युपासनातत्फलश्रवणस्येवात्रेन्द्रियाद्युपासनातत्फलश्रवणस्याभावेनावान्तरतात्पर्यकल्पनायोगात् । न च स्मृत्यनुसारेण तत्कल्पनम् ; स्मृतेः सांख्यकल्पिततत्वविषयत्वेन श्रुतेरानुमानिकाधिकरणो (ब्र. सू. अ. १ पा. ४ सू. १) क्तन्यायाच्छरीरेन्द्रियादिविषयत्वेन च स्मृतेः श्रुत्यनुसारित्वाभावात् । आचार्यैर्व्याख्यातेन प्रकारेण स्मृतेः सांख्यकल्पिताहंकारादिविषयत्वाभावेऽपि श्रुतिकल्पितरथाश्वप्रग्रहादिविषयत्वादिति भावः ॥१४॥१५॥
इति सप्तममाध्यानाधिकरणम् ॥
आत्मगृहीतिरितरवदुत्तरात् ॥१६॥
महाभूतसर्गोपसंहारात्पादसंगतिरिति ॥१६॥१७॥
अग्रे वक्ष्यमाणे महाभूतसर्गानुपसंहाररूपे पादार्थे अनेकविषयवाक्योदाहरणपूर्वकं विद्याभेदपूर्वपक्षं कृत्वा विद्यैक्यसमर्थनेन गुणोपसंहारस्यानिरूपणात्पादसंगतिर्नास्तीति यो मन्यते तत्परितोषार्थं वर्णकान्तरमारभत इत्यर्थः । यद्यपि निर्गुणविद्यासु गुणोपसंहारमात्रं विचार्यं , न तु विद्यैक्यमित्युक्तमाचार्यैः , पादारम्भे आनन्दादय (ब्र. अ. ३ पा. ३ सू. ११) इत्यधिकरणे च निर्गुणविद्यैक्यमनाक्षिप्यैव गुणोपसंहारमात्रं चिन्तितम् ; तथापि नैतस्मिन्नधिकरणे सगुणविद्याधिकरणेष्विवानेकविषयवाक्यस्पर्शोऽस्ति , किंतु प्रथमाध्यायाधिकरणेष्विव कस्यचिद्विषयवाक्यस्यार्थविशेषनिर्धारणमात्रं , तत्प्रथमाध्याय एवं सङ्गतमिति यो मन्यते तत्परितोषार्थं वर्णकान्तरारम्भ इति तात्पर्यम् । विद्यैक्यगुणोपसंहाराऽनिरूपणादित्यस्य सर्वाभेदाधिकरणादिष्विव विद्यैक्यस्यानन्दाधिकरणइवानेकविषयवाक्योदाहरणपूर्वकगुणोपसंहारस्य चानिरूपणादित्यर्थः ।
भिन्नार्थोपक्रमेणेति ।
आत्मानात्मसु सत्तासामान्ययोगेन प्रयुज्यमानः सच्छब्दः सत्तासामान्यस्यैव वाचकः ; "विशेष्यं नाभिधा गच्छेत् क्षीणबुद्धिर्विशेषणे" इति न्यायात् । सन् घट इत्यादिप्रयोगे तु घटशब्दादिसामानाधिकरण्याद्धर्मिपर्यन्तता । न च सदेव सोम्येदमित्यत्र धर्मिपर्यन्तपदसामानाधिकरण्यमस्ति ; ततः सत्तोपक्रमाच्छान्दोग्यवाक्यमात्मोपक्रमाद्वाक्याद्भिन्नार्थमिति विद्याभेद इति पूर्वपक्षयतीत्यर्थः ।
ननु च्छान्दोग्य इति ।
अस्तिधातोः सत्तावाचिनः शतृप्रत्ययान्तः सन्शब्दः सत्ताविशिष्टधर्मिवाची , सत्ता त्वात्ममात्रवृत्तिः ; प्रपञ्चस्यानिर्वाच्यत्वादित्याकाशशब्दवदेकव्यक्तिवचन इत्युपक्रमस्यासंदिग्धार्थत्वं शक्यमुपपादयितुम् । अतो यथा “वासः परिधत्त" इत्यत्र वासःशब्दस्य त्वविशेषे पर्यवसानमिति संदिग्धार्थस्य क्षौमे पर्यवसानार्थं "एतद्वै सर्वदेवत्यं वासो यत् क्षौम"मित्युपसंहारापेक्षा , एवमिह सच्छब्दस्यात्मनि पर्यवसानार्थं नोपसंहारापेक्षाऽस्तीति शङ्कार्थः ।
अभ्युपेत्यापि सच्छब्दस्य सामान्यवाचित्वमिति ।
आत्माऽनात्मसाधारण्येन सत्ताविशिष्टमात्रवाचित्वमिह सामान्यवाचित्वं , न तु सत्तासामान्यवाचित्वम् ; आत्मरूपविशेषपर्यवसानोक्तिविरोधापत्तेः ।
श्रुतिद्वयेऽपि विध्यैक्य इति ।
ननु सकलशाखास्वपि निर्गुणविधैक्यमस्ति , तस्मिन् सत्यप्यानन्दवल्लीप्रतर्दनाख्यायिकाकठवल्लीमुण्डकादिषूपक्रमभेदो दृश्यते , तथेहाप्युपपद्यते ? कोत्र विशिष्योपक्रमभेदफलप्रश्नः ? उच्यते ; सत्यपि सकलशाखाम्नातनिर्गुणविद्यैक्ये विशिष्य च्छान्दोग्यवाजसनेयकयोर्निर्गुणविद्यैक्यमुच्यमानमत्यन्तसादृश्यविशेषकृतं भवितुमर्हति – तथा चात्यन्तसदृशयोरुपक्रमभेदस्य किं फलमिति प्रश्नः ।
अनयोरौपसंहारिकप्रत्यग्ब्रह्मैक्यवेदने परस्परोपकारप्रयुक्तमिह विद्यैक्यं विवक्षितं , परस्परोपकारश्च सदात्मोपक्रमभेदेनैव भवति , नान्यथेत्युपक्रमभेदफलं न्यायसंग्रहे विवरणाचार्यैरुक्तं दर्शयति –
तद्यथेति ।
अयमर्थः – तत्त्वमसीत्यत्र तत्त्वम्पदयोः श्रौते सामानाधिकरण्ये वाच्यार्थयोः सर्वज्ञत्वकिंचिज्ज्ञत्वादिविरुद्धधर्माक्रान्तयोरभेदायोगेनानुपपन्ने सति तत्परिहारार्थं तत्त्वंपदयोर्विरुद्धविशेषणांशत्यागेन ब्रह्मजीवस्वरूपमात्रे लक्षणाऽश्रीयते , तथा लक्ष्यमाणावपि ब्रह्मजीवौ भेदेनैव प्रतीयेयातां , लक्ष्यकोट्यननुप्रविष्टस्यापि हि भेदस्य तत्त्वमिति नामभेदप्रयुक्ता प्रतीतिरनिवार्या ; "अथैष ज्योति”रित्यादौ नामभेदस्यार्थभेदप्रत्यायकतायाः क्लृप्तत्वात् । ततश्च भेदकप्रतीतावप्यघटमानस्याभेदस्य साक्षाद्भेदप्रतीत्याऽत्यन्तमघटना स्यात् । अतो भेदकविशेषणयोरिव भेदस्यापि त्यागार्थं लक्षणान्तरमाश्रयणीयम् , तदपि लक्षणान्तरं तत्त्वंपदयोरेवेति पुनरपि नामभेदत्यागाय लक्षणान्तरमाश्रयणीयमित्यनवस्था भवेत्तत्परिहाराय लक्ष्यमाणतादशायामेव प्रत्यग्ब्रह्मैक्यब्रह्मप्रतीतिदशायामेव शाब्दस्याभेदस्य प्रतीतेर्नामभेदन्यायलभ्यो भेदो नोन्मज्जति। अतस्तत्त्वंपदार्थौ जीवब्रह्मपर्यन्तौ लक्षणीयौ , तत्पर्यन्तलक्षणा च लक्षणीयार्थप्रसिद्धिमपेक्षते ।
तत्र छान्दोग्यवाक्यं तत्त्वमसीत्यतः प्राक्तनं तदर्थं त्वमर्थपर्यन्तमानयति -
सर्वविज्ञानप्रतिज्ञानादिना ।
वाजसनेयिवाक्यं स वा एष महानज आत्मेत्यतः प्राक्तनं त्वमर्थं तदर्थपर्यन्तमानयति “अत ऊर्ध्वं विमोक्षाय ब्रूही”ति प्रश्नोत्तरतालिङ्गेन । अतः परस्परोपकाररूपप्रयोजनैक्याद् विद्यैक्यमपि । यद्यपि तत्पदार्थे विशेषणांशत्यागाय छान्दोग्ये वाचारम्भणादिश्रुतिरुपकरोति , त्वंपदार्थे विशेषणांशत्यागाय वाजसनेयके "अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष" इत्यसङ्गत्वश्रुतिरुपकरोतीत्येवमपि परस्परोपकारो वक्तुं शक्यं ; तथापि स्पष्टत्वात्तमंशं विहाय तत्त्वंपदार्थयोर्जीवब्रह्मपर्यन्तताप्रतिपादनेन परस्परोपकारकत्वमुक्तम् । एतेनेयमपि शङ्का निरस्ता । इहापि वर्णके विद्यैक्यं गुणोपसंहारो वा न निर्धार्यते , किं त्वैतरेयकवाक्यस्य पूर्ववर्णक इव छान्दोग्यवाक्यस्य प्रतिपाद्यविशेष्यमात्रं निर्धार्यते , विद्यैक्यचिन्तापर्यवसानकल्पनार्थं परं वाजसनेयिवाक्यमपि उदाहृतम् ।
इदं पूर्ववर्णकेऽप्युदाहृत्य किमैतरेयकवाक्ययोर्विद्याभेद उत विद्यैक्यमिति शक्यं विचारयितुम् –
इति ।
क्वचिद्ब्रह्मणो जीवैक्यप्रतिपादनमित्यत्र जीवस्य ब्रह्मैक्यप्रतिपादनं चोपसंहारार्थमुपकर्तुर्ब्रह्मणो जीवपर्यन्तताया जीवस्य ब्रह्मपर्यन्ततायाश्चोपक्रमे प्रतिपादनस्य छान्दोग्यवाजसनेयकयोरेव सद्भावात्पूर्वपक्षे सत्तासामान्यविषयतया छान्दोग्यवाजसनेयकयोरिव जीवविशेषजीवसामान्यविषयतया ऐतरेयकवाजसनेयकयोर्विद्याभेदस्योपपादयितुमशक्यत्वाच्च जीवविशेषे जीवसामान्यविषयतया वचनानामुपसंहारेण विद्यैक्योपपत्तेः ॥१६॥१७॥
इत्यष्टममात्मगृहीत्यधिकरणम्॥
कार्याख्यानादपूर्वम् ॥१८॥
ज्योतिष्टोमाङ्गत्वेनार्थवानिति ।
मीमांसकैर्दर्शपूर्णमासयोर्नानृतं वदेदिति श्रूयते , स निषेधः क्रत्वर्थ: , तेन यो दर्शपूर्णमासावनुतिष्ठन् तदुपयोगिद्रव्यसंपादनार्थितया पुरुषार्थं निषेधमुल्लङ्घ्याऽनृतं वदेत्तस्य न केवलं पुरुषार्थनिषेधातिलङ्घनेन प्रत्यवायमात्रं , किंतु क्रत्वर्थनिषेधातिक्रमेण क्रतोर्वैगुण्यमपीति निर्णीतं कर्त्रधिकरणे (ब्र. अ. ३ पा. ३ सू. ३३) । इह नोदाहरणमादरणीयमिति न्यायमनुसृत्य दर्शपूर्णमासपदस्थाने ज्योतिष्टोमपदं निवेशितम् । ज्योतिष्टोमप्रकरणेऽपि वा “नानृतं वदेदि”ति वाक्यान्तरं दृष्ट्वा न्यायसाम्येन तन्निवेशितम् ।
आचमनपर्यालोचनयेति ।
अनग्नतावादः साक्षादाचमनस्य न स्तुतिर्भवति , किं त्वाचमनीयानामपां वासस्त्वकीर्तनात्तद्वारेणाचमनस्तुतौ पर्यवसानं वाच्यं , तदपि न संभवत्याचमनस्याविधेयत्वादित्यर्थः । अनग्नतासंकल्पपर्यालोचनयेति । अनग्नतासंकल्पो विधेयः ; सर्वाङ्गदृष्टिविधिसाहचर्यात् , “लम्भुको ह वासो भवत्यनग्नो भवती”ति छान्दोग्ये फलार्थवादश्रवणात् । छान्दोग्यकाण्वशाखयोर्वासस्त्वकीर्तनवदाचमनविधेरश्रवणेन तत्र वासस्त्वकीर्तन एव विधिपर्यवसानस्य वक्तव्यत्वाच्च । अतो विधेयेनाविधेयस्य स्तुतिकल्पनमत्यन्तमन्याय्यमित्यर्थः ।
प्राणविद्याङ्गत्वेन यदा आचमनं विधीयत इति ।
प्राणद्वारा सर्वकर्मसाधारणाङ्गात् स्मार्ताचमनादन्यत्प्राणविद्यायाम् असाधारणाङ्गमाचमनान्तरं विधेयमभ्युपगम्यते । स्मार्तात्सर्वसाधारणात्प्राणाग्निहोत्रादन्यदेव वैश्वानरविद्याङ्गं प्राणाग्निहोत्रं , तदा नैमित्तिकेन नित्यस्य प्रसङ्गसिद्धकार्यतयाऽऽवृत्त्यनपेक्षणादेकमेवाचमनमुभयकार्यार्थमङ्गीकरणीयमिति कल्पनागौरवं भवेन्न सिद्धान्त इत्यर्थः ॥१८॥
इति नवमं कार्याख्यानाधिकरणम् ॥
समान एवं चाभेदात्॥१९॥
ऋग्वेदे यजुर्वेदे चेति ।
सामवेदे यजुर्वेदे च ज्योतिष्टोमः श्रूयत इति पूर्वमीमांसकैर्लिखितम् , इह तूदाहरणानास्थया ऋग्वेदे इत्युक्तम् । अथवा – सामवेद एव योनिग्रन्थोत्तराग्रन्थरूपसामाधारऋक्संहितावत्त्वादृग्वेदशब्देनोक्तः ।
सिद्धान्तितं भेदलक्षण इति ।
शेषलक्षणे इति लेखनीये प्रमादाल्लेखकैर्भेदलक्षणे इति लिखितम् । तृतीयाध्याये हि वाक्यपादे भूयस्त्वेनोभयश्रुती (जै. सू. अ. ३ पा. ३ सू. १०) त्यधिकरणम् ।
प्रयोगविधिस्तत्र निर्णीत इति ।
उच्चैरृचा क्रियते उपांशु यजुषा उच्चैः साम्नेति वाक्यैः ऋग्वेदयजुर्वेदसामवेदैरनुष्ठाप्यानां कर्मणां क्रमादुच्चैष्ट्वोपांशुत्वोच्चैष्ट्वरूपाः स्वरा विहिताः । यस्मिन्वेदे यस्य कर्मणः प्रयोगविधिस्तत्कर्म तेन वेदेनानुष्ठाप्यते प्रयोगविधिमूलत्वादनुष्ठानस्य । अतो ज्योतिष्टोमस्य सामवेदे यजुर्वेदे च साधिकारविधिश्रवणे सति तस्मिन् कतरस्य वेदस्य स्वरो भवतीत्याकाङ्क्षायां यजुर्वेदस्य स्वर इति निर्णेतुमङ्गभूयस्त्वेन यजुर्वेदे प्रयोगविधिस्तस्मिन्नधिकरणे निर्णीत इत्यर्थः ।
प्रकृते विद्यैक्याऽसिद्धिदूषणं प्रत्याचष्टे –
यतोऽपीति ।
अङ्गभूयस्त्वं प्रयोगविधेरेव निर्णायकमुत्पत्तिविधिनिर्णयानुपयोगीति दूषणमनूद्य निराकरोति –
न चाङ्गभूयस्त्वमिति ।
अङ्गसाकल्यधीसापेक्षं प्रयोगविधिकल्पनं यत्राङ्गाबाहुल्यं तत्राङ्गसाकल्यधीर्भवति , न तु यत्राज्ञानामल्पीयस्त्वं तत्रापि । न हि महति तरुषण्डे कतिपयतरुहानेपि वनबुद्धिवत् पञ्चषट्तरुवृन्दे वनबुद्धिर्भवति। अतोऽङ्गभूयस्त्वं प्रयोगविधेरेव नियामकं नोत्पत्तिविधेरिति प्रकृतानुपयोगवाद्यभिप्रायः ।
प्रयोगाऽविनाभूतत्वेनेति ।
प्रयोगविधिव्याप्यस्य प्रयोगविधिसमव्याप्तमुत्पत्तिविधिं प्रत्यपि व्याप्यत्वमस्तीति भावः ॥१९॥
इति दशमं समानाधिकरणम् ॥
संबन्धादेवमन्यत्रापि ॥२०॥ विषयशुद्ध्यर्थं विद्योपक्रमश्रुतिमुदाहृत्य विवृणोति –
आप इति ।
आपोऽत्र पञ्चाग्निविद्यायामापः पुरुषवचसो भवन्तीत्यत्रेहामुत्र च संचरतां जीवानामिव प्रथमजीवस्य हिरण्यगर्भस्य शरीरारम्भार्थं भूतान्तरसहिता आप उच्यन्ते । सूक्ष्मावस्थास्ता एव इदं सर्वं व्याकृतं समस्तं जगद्धिरण्यगर्भशरीररूपम् अग्रे नामरूपव्याकरणात्प्राक् आसुः नान्यद्विकारजातमासीदित्यर्थः । तावेतावादित्याक्षिपुरुषावन्योन्यस्मिन्नादित्यपुरुषोऽक्षिपुरुषेऽक्षिपुरुषश्चादित्यपुरुषे परस्परोपकारं कुर्वन्तौ प्रतिष्ठितौ । एष आदित्यपुरुषः अस्मिन्नक्षिपुरुषे रश्मिभिः प्रकाशदानेनानुग्रहं कुर्वन्प्रतिष्ठितः । अक्षिपुरुषः अमुष्मिन्नादित्यपुरुषे प्राणैरनुग्रहं कुर्वन् प्रतिष्ठितः । प्राणैरादित्यपुरुषस्यानुग्रहस्तस्य प्राणसूक्ष्मरूपत्वात्तथात्वं च तस्य पुरुषविद्याधिकरणे अक्षितमसीत्यादिमन्त्रत्रयव्याख्यानेन स्पष्टीकरिष्यते ॥२०॥२१॥२२॥
इत्येकादशं संबन्धाधिकरणम् ॥
संभृतिद्युव्याप्त्यपि चातः ॥२३॥ नन्वाधिदैविकविभूतिब्रह्मप्रत्यभिज्ञानमात्रमन्यत्राम्नातगुणानामुपसंहारे न हेतुः ; वैश्वानरषोडशकलादिविद्याम्नातगुणानामपि परस्परोपसंहारप्रसङ्गादित्याशङ्क्य तदुभयप्रत्यभिज्ञानमात्रमिह नोपसंहारहेतुत्वेन विवक्षितं , किंतु विध्यश्रवणेन खिलग्रन्थपठितत्वेन चोपष्टब्धं तदित्याह –
यद्यपीत्यादिना ॥२३॥
इति द्वादशं संभृत्यधिकरणम् ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥ पुरुषो वाव यज्ञ इत्यादिखण्डद्वये विषयविवेकार्थमपेक्षितानि तत्र तत्र स्थितानि वाक्यानि संकलय्य दर्शयति –
पुरुषो वावेति ।
ता अस्य दीक्षेति श्रुतिपाठः , साऽस्य दीक्षेति दीक्षाशब्दसामानाधिकरण्येनार्थानुसारादेकवचनेन पठितम् । यद्धसति जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेतीति श्रुतिरर्थतोऽनूदिता । शब्दवत्त्वसामान्यादिति संपत्तिहेतुभूतं साम्यं श्रुतिविवक्षितं स्वयं विवृतम् । तं चेदेतस्मिन्वयसि किंचिदुपतपेदिति श्रुतिपाठः । किंचिदित्येतद्व्याख्यानार्थं – व्याध्यादीत्युक्तम् । अक्षितमसीत्यादितन्मन्त्रत्रये पुरुषयज्ञे सवनदेवतात्वेन प्रस्तुतानां प्राणानां सूक्ष्मरूपमाधिदैविकमादित्यात्मकमक्षितमित्यादिशब्दैरुच्यते । अक्षितमक्षीणमक्षतं वा अच्युतं स्वस्वरूपादप्रच्युतं प्राणसंज्ञितं प्राणरूपं च सूक्ष्मतत्त्वात्सम्यक् तनूकृतं च प्राणसूक्ष्मरूपं सावित्रं तत्त्वमित्येतत्तत्रैते ऋचौ भवतः , आदित्प्रत्नस्य रेतस उद्वयं तमसस्परीत्यादिना सावित्रमन्त्रद्वयस्य यजुस्त्रयप्रतिपादितार्थप्रतिपादकत्वेनावतरणात्स्पष्टम् । ननु छान्दोग्यबृहदारण्यकगतोद्गीथविद्ययोर्बहुतरप्रत्यभिज्ञाने सत्यप्यल्पवैरूप्यमात्रेण भेदोऽन्यथात्वं शब्दादित्यधिकरणे (जै. अ. ३ पा. ३ सू. ६) व्युत्पादितः , कथमिह छान्दोग्यतैत्तिरीयकाम्नातपुरुषविद्ययोर्बहुतरवैरूप्ये जाग्रति मरणावभृथत्वसाम्यमात्रेणाभेदः शङ्क्यते ? उच्यते ; उद्गीथविद्ययोर्बहुतरप्रत्यभिज्ञाने सत्यप्युपक्रमभेदात्प्रधानोपास्यभेदाच्च भेद उक्तः , इह तु छान्दोग्ये यत्पुरुषस्य यज्ञत्वं प्रधानमुपास्यमुपक्रान्तं तदेव तैत्तिरीयकेऽपि ; विदुषो यज्ञस्येति सामानाधिकरण्याद्विद्वत्संबन्धिनः कस्यचिद्यज्ञस्य तत्रासंपादितत्वाच्च । यज्ञावयवा एव हि तत्र संपादिताः । अतः प्रधानसारूप्यादवयवासारूप्यमष्टाकपालत्वद्वादशकपालत्वादिवद्विकल्पयिष्यते । एकमपि प्रधानमेव ह्यनुरोध्यं न बहवोऽपि गुणाः । अत एव यूपप्रकृतिर्मुख्यः खादिरो यदा तनुत्वेन तक्षणादिसंस्कारायोग्यो लब्धः , कदरस्तु स्थूलस्तद्योग्यो लब्धः , तदा बहूनां संस्कारशास्त्राणामनुग्रहाय कदरो ग्राह्य इति पूर्वपक्षे – एकस्यापि मुख्यस्यानुग्रहाय खादिर एव ग्राह्यः ; असंभवतां संस्काराणामस्तु लोप इति सिद्धान्तितं षष्ठे इत्यधिकाशङ्कयाऽत्र पूर्वपक्षे (इत्थमधिकाशङ्का इह त्वसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यमिति पूर्वपक्षयतीत्यवतारिकया पुरुषयज्ञत्वमुभयत्राप्यविशिष्टमिति टीकाग्रन्थेन च दर्शिता ।) भाष्याद्युक्तप्रकारेण विदुषो यज्ञस्येत्यत्र वैयधिकरण्यकल्पनाद् वक्ष्यमाणामात्मादिषु यजमानादिकल्पनामालोच्य तदर्थसमूहस्य यज्ञत्वेन प्रकरणलब्धेन विद्वत्संबन्धित्वेन चानुवादसंभवाच्च अत्राप्युपक्रान्तप्रधानभेद एवास्तीति सिद्धान्तः ॥२४॥
इति त्रयोदशं पुरुषविद्याधिकरणम् ॥
वेधाद्यर्थ भेदात् ॥२५॥
सन्निधिलक्षणमिति ।
यद्यपीतिकर्तव्यताकाङ्क्षालक्षणं चतुर्थं , सन्निधिस्तु स्थानप्रमाणावान्तरभेदरूपं पञ्चमं प्रमाणम् ; तथापि मीमांसकैः स्थानप्रमाणविशेषरूपोऽपि सन्निधिस्तत्र तत्र प्रकरणशब्देनापि व्यवह्रियते । गोदोहनस्य प्रकरणात्प्रणयनरूपाश्रयलाभ इत्यादिस्थलेषु । तद्व्यवहारमनुरुध्याऽत्र सन्निधावपि प्रकरणत्वोक्तिरितिकर्तव्यताकाङ्क्षा पारिभाषिकं प्रकरणं सन्निधिलौकिकप्रकरणमिति विशेषः । काम्येष्टीनाम् इत्यादेर्विशेषसंबन्धो दृष्ट इत्यन्तस्यायमर्थः – काम्येष्टिकाण्डे प्रथममिन्द्राग्निदेवत्यं काम्येष्टिद्वयं ततो वैश्वानरदेवत्यं काम्येष्टिद्वयमित्येवंप्रकारेण काम्येष्टयः पठिताः । काम्ययाज्यानुवाक्याकाण्डे प्रथममिन्द्राग्निदेवत्यं याज्यानुवाक्यायुगलद्वयं ततो वैश्वानरदेवत्यमित्येवंक्रमेण याज्यानुवाक्यामन्त्राः समाम्नाताः । तत्र काम्येष्टिकाण्डस्य याज्यानुवाक्याकाण्डस्य च समाख्यायाः संज्ञाया एकत्वात्सामान्यतः संबन्धः सिद्ध्यति , एतासामिष्टीनामेते याज्यानुवाक्यामन्त्रा इति , विशेषस्तु संबन्धः प्रथमाया इष्टेः प्रथमं याज्यानुवाक्यायुगलं द्वितीयाया द्वितीयमित्येवंरूपः सन्निधिवशादिति॥ अत्रेष्टिकाण्डस्य मन्त्रकाण्डस्य च संज्ञैक्येनेष्टीनां मन्त्राणां च संबन्धो मीमांसकैर्नोक्तः किंतु मन्त्रकाण्डस्यैव काम्ययाज्यानुवाक्याकाण्डमिति संज्ञया । आचार्यैस्तु न्यायसंग्रहोक्तं समाख्यालक्षणमनुरुध्य संज्ञैक्यमुक्तम् । न्यायसंग्रहे हि समाख्या यौगिकी संज्ञेति मीमांसकोक्तप्रकारं विहाय प्रकारान्तरमाश्रितम् । प्रवेशद्वयाम्नातयोः संबन्धनिमित्तं संज्ञैक्यं समाख्या , यथाऽतिमुक्तिहोमानामग्निर्यज्ञं नयतु प्रजानन्नित्यादिमन्त्राणां च संबन्धनिमित्तमाध्वर्यवसंज्ञैक्यमिति। अत्रापीष्टिमन्त्रकाण्डयोः काम्येष्टिकाण्डमित्येवमादिरूपैका संज्ञास्तीत्याचार्याणामभिप्रायः । इह सन्निधिवशाद्विशेषसंबन्धलाभ इति यदुक्तं , तत्राप्यस्ति मीमांसकानां विमतिः ।
ते खल्वित्थमाहुः –
द्विविधस्तावदाम्नानसादेश्यरूपः क्रमः यथासंख्याम्नानं सन्निध्याम्नानं चेति ।
तत्राद्येनोदाहृतानामिष्टिमन्त्राणां संबन्धः , न तु सन्निधिना ; भिन्नप्रदेशाम्नातानां तेषां परस्परसन्निध्यभावात् , सन्निधिना तु ’शुन्धध्वं दैव्यायेति’ मन्त्रस्य सान्नाय्यपात्रशुन्धने विनियोग इत्यतोऽत्र सन्निधिशब्दः सादेश्यमात्रे यथासंख्यरूपविशेषपर्यवसायी व्याख्येयः । ननु प्रकृते मन्त्रकर्मणां विद्यासन्निध्याम्नानमस्त्यतो दार्ष्टान्तिकसारूप्यायान्यतो लब्धसामान्यसंबन्धानां विशेषसंबन्धमात्रे सन्निधिः प्रभवति , यथा प्रकरणापादितक्रत्वपूर्वसंबन्धानां शुन्धनमन्त्रादीनां सान्नाय्यपात्रादिसंबन्धे । न च इह सामान्यसंबन्धापादकं प्रकरणमस्त्यतः सन्निधिरत्र न प्रभवतीत्युदाहर्तव्यम् । सत्यमित्थमुदाहरणं न हि यथा दर्शपूर्णमासावारभ्येत्यादिटीकाग्रन्थेन प्रकृते प्रकरणाभावं प्रदर्शयताऽवगन्तुं शक्यमिति तद्विहाय प्रकरणान्तरेण दार्ष्टान्तिकसारूप्यार्थमाचार्यैर्यथासंख्योदाहरणं कृतम् । दार्ष्टान्तिके हि तदुपनिषदाम्नाताभिर्बह्वीभिर्विद्याभिर्मन्त्रकर्मणां सामान्यसंबन्धापादकं किंचिन्नास्तीति प्रतिपिपादयिषितम् । तत्र यथा काम्ययाज्यानुवाक्यानां बह्वीभिरिष्टिभिः सामान्यसबन्धापादकं समाख्यैक्यमस्तीति व्यतिरेकदृष्टान्तोदाहरणम् ।
अङ्गप्रधानयोरित्यादिपूर्वपक्षोपपादकग्रन्थस्यायमाशयः –
यथा सांग्रहण्यादिविकृतीनां क्लृप्तोपकारप्राकृताङ्गसंबन्धेन प्रथमभाविना नैराकाङ्क्ष्येऽप्यामनहोमादीनां प्रधानान्वयसाकाङ्क्षाणां सन्निधानतस्तासामाकाङ्क्षोत्थापनादभिव्यक्तेन प्रकरणेन सामान्यसंवन्धसिद्धौ सन्निधानादामनहोमादीनां यथासामर्थ्यमारादुपकारकत्वादिनान्वयस्तथेहापीति ।
भाष्यगतस्यासावित्यस्य व्याख्यानं –
सन्निधिरिति ।
अकस्मादित्यस्य व्याख्यानं –
विना विषयेणेति ।
विना फलेनेत्यर्थः । अर्थवत्त्वे संभवतीति ह्युपक्रान्तम् । आश्रयितुम् अङ्गीकर्तुम् ।
न युक्त इति ।
न हीत्यत्रत्यस्य न युक्त इत्यत्रान्वयो दर्शितः । अनेन सन्निधेः साफल्यसंभवे निष्फलोऽसावङ्गीकर्तुं न युक्त इति भाष्यार्थ उक्तो भवति।
ननु तदर्थशास्त्रादिहेतुभिर्मन्त्राणामर्थविवक्षा नास्तीति पूर्वपक्षे प्राप्ते अविशिष्टस्तु वाक्यार्थ (जै. अ. १ पा. २ सू. ४०) इति सूत्रे लोके इव मन्त्रेष्वपि वाक्यार्थविवक्षास्तीत्येतावन्मात्रमुच्यते , न तु तेषां प्रयोगसमवेतार्थप्रकाशनेनोपयोगः , अतः प्रयोगसमवेतार्थेत्यादिटीकाऽनुपपन्नेत्याशङ्क्य तात्पर्यगत्या तावत्पर्यन्तः सूत्रार्थ इति व्याचष्टे –
लोकवेदयोरिति ।
तत्सर्वार्थमविशेषादिति ।
अनारभ्य विधानानां प्रकृतिगामित्वमिति निर्णयार्थस्य पर्णमय्यधिकरणस्य षष्ठपादादिमस्य पूर्वपक्षसूत्रं सर्वार्थमप्रकरणा ( जै. अ. ३ पा. ६ सू. १) दित्येवंरूपं , तदिहार्थतः पठितम् । तत्सर्वार्थमविशेषादित्येवंरूपं तु शेषलक्षणे तृतीयपादे पौष्णपेषणाधिकरणस्य पूर्वपक्षसूत्रम् ।
न प्रवर्ग्यसंबन्धविशेषहेतुत्वमिति ज्ञापनार्थ इति ।
यद्यपि प्रवर्ग्यस्य ज्योतिष्टोमसंबन्धरूपे संबन्धविशेषे हेतुत्वमुपसदामस्ति , उपसदुपस्थापिते एव ज्योतिष्टोमे प्रवर्ग्यसंबन्धस्य बोधनीयत्वात् ; तथापि न तदभावज्ञापनार्थत्वमिहोपसदा सहेत्यस्योक्तं , किंतु प्रवर्ग्योपसदोरङ्गाङ्गिभावरूपसंबन्धविशेषाभावज्ञापनार्थत्वम् । तेन – पुरस्तादुपसदामित्यादिवाक्यं प्रवर्ग्यस्योपसदुपस्थापितक्रत्वङ्गत्वबोधकं मा भूत् , उपसदङ्गत्वबोधकमस्तु, राजन्यवासिष्ठानां नाराशंसो द्वितीयः प्रयाज इत्यत्रेवोपसदामित्यत्र षष्ठ्याः शेषिविषयत्वोपपत्तेरिति शङ्का , पुरस्ताच्छब्दसत्त्वाद्दिग्योगलक्षणे षष्ठीयं न शेषिविषया , न च प्राप्तानुवादेन पूर्वकालत्वे विधीयमानेऽङ्गाङ्गिभावोऽपि विधातुं शक्यते , वाक्यभेदप्रसङ्गादिति परिहारसूचनेन – व्यावर्तिता । एवमेव चतुर्थाध्याये "पुरस्तादुपसदां सौम्येन प्रचरन्ती"ति राजसूयान्तर्गतवाक्ये सौम्यचरूपसदोरङ्गाङ्गिभावो विधीयत इति पूर्वपक्षो निरस्तः ।
इतरपदानामपि समवेतार्थत्वमिति ।
यद्यपि निर्वापमन्त्रे सवित्रादिपदान्यसमवेतार्थान्येव ; असमवेतानामपि समवेतविशेषणतयाऽभिधानमदृष्टार्थम् , अत एव तेषां प्रकृतिष्वनूह इति नवमाध्याये निर्णीतम् ; तथापि तद्विशिष्टाग्न्यर्थनिर्वापरूपसमवेतार्थपर्यवसानाभिप्रायेण समवेतार्थत्वमुक्तम् ।
तदिह सन्निधिरिति ।
यदि सन्निधिर्वाक्यगम्यमर्थं प्रत्याख्यातुं प्रवर्तेत , तर्ह्येव बलवता वाक्येन सन्निधिर्बाध्येत , न त्वेवमस्तीत्यर्थः ।
ननु विरोधाभावेन प्रबलदुर्बल प्रमाणलभ्यविनियोगद्वयाभ्युपगमे बलाबलाधिकरणविरोधः स्यात् , श्रुत्यादिभिः क्वचन विनियुक्तानां विरोधाभावेन लिङ्गादिभिरन्यत्रापि विनियोगोपपत्तेरित्याशङ्क्याह –
तदनेनेति ।
तत्राप्येवमेवास्त्विति पूर्वपक्ष्याशय इति भावः ।
क्त्वः समानकर्तृत्वमवगम्यत इत्यत्र क्त्व इत्यस्यार्थमाह –
क्त्वाप्रत्ययस्येति ।
क्त्वाप्रत्ययादिति व्याख्यातव्यं , षष्ठ्यन्तपाठस्तु लेखकप्रमादागतः ।
"धातुसंबन्धे प्रत्यया" इति सूत्राद्धातुसंबन्ध इत्यस्यानुवृत्त्याऽनुवृत्तस्य द्वयोर्धात्वर्थयोर्गुणप्रधानभावेन संबन्धोऽर्थ इत्येतदुपपादयति –
धातुसंबन्ध इत्युक्त इत्यादिना ।
धातोरित्येकत्वाधिकारादिति हेतुः धातुद्वयात्प्रत्ययविध्यनुपपत्तौ , धातुद्वयापत्तौ त्वेकस्य धातोः स्वेनैव संबन्धायोगो हेतुः ।
समानकर्तृकत्वादेकप्रयोगतामिति ।
यद्यपि शरदि वाजपेयानन्तरं बृहस्पतिसवस्य कालः वसन्ते कर्तव्य इति चतुर्थएव निर्णीतत्वाद् बृहस्पतिसवस्य तद्व्यतिरिक्तसकलाङ्गसहितवाजपेयप्रयोगात् पृथक् प्रयोगोऽस्ति ; तथापि स्वाराज्यफलार्थिराजसूयकर्त्रैक्यप्रयुक्तं महाप्रयोगैक्यमस्तीत्याशयः ।
प्रयोगो भिद्येतेति ।
महाप्रयोगैक्यमपि न भवेदित्यर्थः । न चैकमेव वाक्यं दूरस्थं कर्म सन्निधापयति अन्याङ्गत्वेन च विधत्त इति युज्यत इति। सन्निधिना विपरिवृत्तौ सत्यां वाक्यं विधिमात्रपरं दृष्टम् । यथाऽग्निहोत्रविधिसन्निधौ श्रूयमाणं दध्ना जुहोतीति वाक्यम् । यत्र न सन्निधिस्तत्रैकेन वाक्येन विपरिवृत्तौ कृतायाम् अन्यद्वाक्य विधिपरं दृष्टम् , यथा गवामयनादिगतैर्ज्योतिर्गौरायुरित्याद्यहःक्लृप्तिवचनैर्ज्योतिराद्यभिधानानामेकाहक्रतुरूपाणां सोमयागानां विपरिवृत्तौ कृतायां “यं कामं कामयते तमेतेनाप्नोती”ति वचनान्तरेण तत्रैकदेशतया फले विधानम् ।
एवमेव प्रकरणान्तराधिकरणे वार्तिककृतैतद्वचनमुदाहृत्योक्तम् –
'एकेन वचनेन पर्युपस्थाप्यापरेण फले विधीयन्ते' इति ।
न चेह तथा वाक्यद्वयमस्ति। न च – एतद्वाक्यं प्रसिद्धं बृहस्पतिसवप्रत्यभिज्ञापनार्थमेवास्तु प्रत्यभिज्ञापनावैयर्थ्याय तस्याङ्गत्वेन विधिः कल्प्यतामिति – वाच्यम् ; क्त्वाप्रत्ययश्रवणादत्रैव वाक्ये वाजपेयोत्तरकाले बृहस्पतिसवविधेरप्यङ्गीकर्तव्यत्वात् । तस्मात्प्रत्यभिज्ञापनाभिधानरूपव्यापारद्वयावेशे वाक्यभेदप्रसङ्गाद्विधानावश्यंभावेन प्रत्यभिज्ञानविरहे सति कर्मान्तरविधानमेव प्राप्नोतीत्यर्थः ।
मतद्वयेपि संमतमिति ।
मतद्वयमाचार्यमतं गुरुमतं च । सत्यमभ्युपेत्यवाद इति॥
ननु –
किमर्थं समाधीयते ? मीमांसकानां मुद्राभङ्ग इह चिकीर्षित एव कृत इति किमिति नोच्यते ? विधानं प्रत्यभिज्ञानं चैकस्मिन् वाक्ये न संभवतीति मीमांसकमुद्रा हि निरालम्बना ; प्रत्यभिज्ञानं पदकृत्यं विधानं वाक्यकृत्यमित्येकस्मिन् वाक्ये तदुभयसमावेशसंभवात् , अन्यथा "आज्यभागौ यजती"त्यत्र का गति: ? न हि तत्राज्यभागानामव्यतिरेकेण प्रसिद्धाज्यभागयोः प्रत्यभिज्ञापकमस्ति ।
न च चोदकः प्रत्यभिज्ञापकः । चोदकलोपाङ्गीकारान्न वा तत्र विधायकमन्यदस्ति। न च प्रत्यभिज्ञापनावैयर्थ्याय विधिः कल्पनीयोऽस्त्विति शङ्कितुं शक्यम् ; क्लृप्तोपकारप्राकृताङ्गविषयप्रत्यक्षविधिना नैराकाङ्क्ष्येण हि तत्र चोदकलोप इष्यते , आज्यभागयोरिति चेद्विधिः कल्पनीयः । चोदक एव किमिति न कल्प्येत ? तथात्वे हीतिकर्तव्यताकाङ्क्षा प्रकामं परिपूर्णा भवेत् । आज्यभागौ यजतीत्येतच्च "यदाग्नेयोष्टाकपालोऽमावास्यायां भवतीति"वदनुवादमात्रं स्यात् । तस्मादा"ज्यभागौ यजतीत्य"त्रैव विधानं प्रत्यभिज्ञानं चेत्यभ्युपगन्तव्यम् । एवमेवोक्तं भाष्यादिष्वपि । एवं तर्हि मासाग्निहोत्रमपि नित्याग्निहोत्रान्न भिद्येत ; नित्याग्निहोत्रस्यैव नाम्ना प्रत्यभिज्ञापितस्य तत्रापि विधानसंभवादिति चेद , अस्तु का हानिः ? संप्रतिपन्नं हि नित्याग्निहोत्रस्य प्रकरणान्तरेऽप्यग्निहोत्रनाम्ना प्रत्यभिज्ञानम् । यथा शतपथब्राह्मणे दर्शपूर्णमासप्रकरणे चातुर्मास्येषु गृहमेधीयप्रकरणे च स यवाग्वैतां रात्रिमग्निहोत्रं जुहोतीति अश्वमेधप्रकरणे च वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति। एतेन – धातुना पूर्वापरीभूततया प्रतीतस्य नाम्ना प्रत्यभिज्ञानं न संभवतीत्यपि शङ्का – निरस्ता । कथं च धात्वर्थोपस्थापकत्वाभावात्तन्नामत्वमग्निहोत्रशब्दस्य भवेत् ? ननु – विहितस्य नित्याग्निहोत्रस्य पुनर्विधानायोगेन विधियोग्यकर्मान्तरपरत्वावश्यंभावेन तत्परतन्त्रं नामापि कर्मान्तरपरं स्यादिति चेद , न ; स्वातन्त्र्येण विहितस्यापि नित्याग्निहोत्रस्य सत्राङ्गत्वसिद्धये पुनर्विधानसंभवेनाख्यातस्य भेदौदासीन्ये सति कांस्यभोजिन्यायादाख्याते – नैव नाम्नोऽनुवर्तनीयत्वान्नाम्नोऽप्रसिद्धार्थतायामाख्यातपारतन्त्र्येऽपि प्रसिद्धार्थतायामाख्यातस्यैव नामपारतन्त्र्याच्च । न चैवं सति प्रकरणान्तराधिकरणविरोधः ; तस्य धात्वर्थाभेदेऽप्यध्यायार्थभूतो भावनाभेदः स्वतन्त्रपरतन्त्रविध्यायत्तोऽस्तीत्येतत्परत्वात् । उक्तं च वार्तिककृता तस्मिन्नधिकरणे – नाम्ना धात्वर्थमात्रं च सन्निधाप्येत शक्तितः । भावना त्वनुपस्थानाद्भिद्यमाना न वार्यते॥ इति । ननु – तथापि उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्या (जै. अ. ७ पा. ३ सू. १) दिति सप्तमाधिकरणेन मासाग्निहोत्रे नित्याग्निहोत्रधर्माणां नाम्नाऽतिदेशं प्रतिपादयता विरोधः स्यादिति – चेत् , न ; तस्य नित्याग्निहोत्रप्रकरण इव मासाग्निहोत्रस्थलेऽपि देवताविधानकृताऽग्निहोत्रनाम्नः प्रवृत्तिनिमित्ताभिव्यक्तिर्नास्तीत्यस्फुटशक्तिकत्वाभिप्रायत्वात् , प्रत्यक्षाद्गुणसंयोगात्क्रियाभिधानं स्यात्तदभावेऽप्रसिद्धं स्या (जै. अ. ३ पा. ३ सू. ४ ) दिति तदधिकरणसूत्रेण तथा तदभिप्रायस्फुटीकरणात् । तस्मात्स्वतन्त्रबृहस्पतिसवस्यैव वाजपेयाङ्गतायां न कश्चिद्विरोध इत्येवं सैद्धान्तिकः पक्षोऽभ्युपगन्तुं युक्तः । अत एव विवरणाचार्यैरपि पुरुषार्थस्य सौत्रामणिबृहस्पतिसवादेरग्निचयनवाजपेयादिप्रकरणान्तरेषु तत्तत्कर्माङ्गतया विधानं सिद्धवत्कृत्य व्यवहृतम् । तस्मादभ्युपेत्यवाद इति न वक्तव्यमिति – चेत् , सत्यमनभ्युपेत्यवादत्वोक्तिरेवेयम् । एतावद्दूरविवेचनाऽसमर्थान् विनेयान् प्रत्यभ्युपेत्यवादरूपा । अथवाऽङ्गं बृहस्पतिसवः कर्मान्तरमित्यभ्युपगतवतां मीमांसकानां कर्मान्तरत्वपक्षोऽप्यभ्युपेत्यवादरूपोस्तीत्येतत्परे यमभ्युपेत्यवादत्वोक्तिः । गुरुणा हि निबन्धनटीकायामङ्गसौत्रामणिबृहस्पतिसवयोः कर्मान्तरत्वं प्रसाधितवताऽपि विवरणटीकायामकर्मान्तरत्वं व्यवहृतम् । एवमिदं मीमांसकदृष्ट्या न व्यवस्थितमुदाहरणमिति मत्वैवं तन्मते व्यवस्थितोदाहरणं खदिरत्वादीत्युदाहरणान्तरमन्विष्टम् ।
नाङ्गाङ्गित्वबोधकमिति ।
नाम्ना प्रसिद्धयोर्दर्शपूर्णमासयोः सोमद्रव्येण प्रसिद्धस्य सोमयागस्य च प्रत्यभिज्ञानात्तेषां च साधिकारत्वेन विनिगमनाविरहान्न किंचिदङ्गत्वेनान्यविधानं शक्यमित्यर्थः । ननु – सोमयागे विधिश्रवणं तस्याङ्गत्वेन विधाने विनिगमकमस्तीति – चेत् ; उच्यते ; सोमस्य दर्शपूर्णमासाङ्गत्वे तद्विकृतीनां दीक्षणीयादिसोमयागाङ्गेष्टीनामपि सोऽहं स्यादिति दीक्षणीयादिसहितस्य सोमयागस्य सिद्धौ दीक्षणीयादीनां साङ्गत्वसिद्धि: , सोमयागसहितानां दीक्षणीयादीनां सिद्धौ सोमयागस्य साङ्गत्वसिद्धिरिति परस्पराश्रयः स्यात् । तत्परिहाराय दीक्षणीयादिषु सोमयागव्यतिरिक्तैष्टिकविध्यन्तरातिदेशः कल्पनीयः । दर्शपूर्णमासयोः सोमाङ्गत्वे विधेर्गुणसंक्रमणं कल्पनीयमेवं प्राप्तौ किमत्र कल्पनीयमित्यत्र विनिगमनाविरहो विवक्षितः ।
ननु क्वचित्सोमयागप्रकरणे इति ।
ननूत्पत्तिकालविषय (जै. अ. ४ पा. ३ सू. ३) इति चतुर्थाध्यायाधिकरणप्रथमसूत्रे यदनुक्रान्तं तत्र दर्शपूर्णमासाङ्गसोमद्रव्यकयागान्तरविधिरिति पूर्वपक्षो दर्शितः , स कथमुपपद्यते ? अस्य वाक्यस्य सोमप्रकरणे श्रवणात् , तदा हि सोमाङ्गत्वेन दर्शपूर्णमासविधिरिति पूर्वपक्षः कार्यः । सत्यमिदं वाक्यं दर्शपूर्णमासप्रकरणे श्रूयत इति भाष्यकारमत्या तत्र भाष्यकारोक्तप्रकारेण तदधिकरणमनुक्रान्तम् , इह वार्तिककारमतानुसारिटीकोक्तप्रकारेण सोमयागे बृहस्पतिसववैषम्यं दर्शितमिति न विरोधः ।
अनुवादे लाभमाहेति ।
प्रकरणिसोमाङ्गतया दर्शपूर्णमासयोर्विधौ स्वतन्त्राधिकारयोस्तयोरङ्गतया विधानेनात्रापाततः प्राधान्यपरित्यागस्याभावो लाभः । दर्शपूर्णमासोत्तरकाले सोमयागविधौ विधिः समानपदोपात्तविषयो भवति , पक्षान्तरे तु गुणसंक्रान्तो विधिः स्यादिति तत्प्रसक्त्यभावोऽपि लाभ इति द्रष्टव्यम् ।
अत एव विनियुक्तविनियोगेऽपीति ।
क्रत्वर्थतया विनियुक्तस्य खादिरादेः पुरुषार्थतया विनियोगान्तरं विनियुक्तविनियोगः ।
स्वार्थबोधे श्रुतेः शीघ्रप्रवृत्तेरिति ।
वाक्यसमर्पणीयविशेषणविशेष्यभावोपेतस्य श्रौतस्य शेषशेषिभावस्य लैङ्गिकविनियोगेन विरोधः समर्थनीय इति श्रुतिवाक्ययोरन्योन्यापेक्षयोर्लिङ्गेन विरोधेऽपि श्रुतेः स्वप्रमेये वाक्यतः शीघ्रं प्रवृत्तेः श्रुतिलिङ्गविरोधे एवेदमुदाहरणमित्यर्थः । तथा श्रौतस्य शेषशेषिभावस्य प्रतियोगिविशेषसमर्पणेन गुणभूतं वाक्यं , प्रधानेन च विरोधो लक्षणीय इत्यतोऽपि श्रुतिलिङ्गविरोधे एवेदमुदाहरणम् । अपि च लिङ्गे बलीयसि यस्य बाधः तल्लिङ्गेन विरुध्यते , न चात्र बलीयसि वाक्यं बाध्यते , किंतु गार्हपत्यश्रुतिरिन्द्रे लक्षणया द्वितीयाश्रुतिर्वा सामीप्ये लक्षणया बाध्यते , वाक्यं तु पदत्रयसमभिव्याहाररूपं तथैवावतिष्ठते, तर्हि लिङ्गवाक्यविरोधोदाहरणे लिङ्गबाध्यस्य "स्योनं ते" इत्यादेः सुमनस्यमान इत्यन्तस्य वाक्यस्य लिङ्गेन बाधे वाक्यद्वयकल्पनाऽस्ति। अतोऽपि श्रुतिलिङ्गविरोधे एवेदमुदाहरणम् ।
ननु - उपस्थापयितव्य इत्यस्य प्रकाशयितव्य इत्यर्थः कुतो लब्ध इत्याकाङ्क्षायामाह –
ऋच इति ।
उपान्मन्त्रकरणे इति सूत्रेण उपपूर्वात्तिष्ठतेर्धातोः मन्त्रकरणकेऽर्थे वर्तमानादात्मनेपदं विहितम् । मन्त्रकरणं मन्त्रकार्यं तच्च प्रकाशनमेवेत्युक्तार्थलाभ इति भावः । केचित्तु – उपपूर्वात्तिष्ठतेर्धातोरात्मनेपदं , तदर्थं एव समीपावस्थाने मन्त्रकरणके विधीयते , समीपोपस्थानं मन्त्रकरणकं तदा स्याद्यद्यभिधानफलकं स्यात् । तथा चोपस्थापयितव्य इत्यस्य समीपेऽवस्थाय प्रकाशयितव्य इत्यर्थः – इत्याहुः । नन्वाचार्यैरनेन श्रुतिलिङ्गाधिकरणमप्याक्षिप्तमिति पूर्वग्रन्थेन प्रबलदुर्बलाभ्यामपि प्रमाणाभ्यामुभयत्र विनियोगोऽस्तु विरोधाभावादिति पूर्वपक्षः श्रुतिलिङ्गाधिकरणे निराकृत इति सूचितं , कथमिह लैङ्गिक एव विनियोगो न श्रौत इति पूर्वपक्षः क्रियते ? उच्यते ; वस्तुतस्तथैव श्रुतिलिङ्गाधिकरणे पूर्वपक्षः , लैङ्गिक एव विनियोगो न श्रौत इति पूर्वपक्षवचनात् । यथार्थमैन्द्री स्यादित्यधिकरणे निराकृतत्वात् , तथापि टीकाकारैरिह ऐन्द्र्यधिकरणं लिखितवद्भिः प्रबलस्तदधिकरणपूर्वपक्ष एव श्रुतिलिङ्गाधिकरणपूर्वपक्षत्वेन लिखित इत्याचार्यैरपि तदनुवर्तनं कृतम् । श्रुतेः शेषत्वे ज्ञातेऽनन्तरमर्थे तादृशी शक्तिः कल्प्यत इति। अग्निना सिञ्चेदित्यत्र शक्तिकल्पनस्य बाधितत्वादप्रामाण्यमिति भावः ।
गौणमपि सामर्थ्यमिति ।
गौणशब्द इह स्वगुणान्यगुणसाधारण्येन गुणयोगनिमित्तकत्वमात्रपरो योगगौणवृत्तिसाधारणः । अत इन्द्रशब्दस्य यौगिकत्वप्रदर्शकेन प्रभवति हि स्वोचितायामित्याद्यग्रिमग्रन्थेन न विरोधः । यदि परमैश्वर्ये इति धातोरिन्द्रशब्द इत्ययं योगः प्रदर्शितः । यदि 'ऋज्रेन्द्राग्रवज्रे'त्यादिसूत्रेणेन्धिधातो रन्प्रत्ययान्ततया निपातननिष्पन्न इन्द्रशब्द इष्यते , तदा गार्हपत्ये योगः सुतरां संगच्छते । अग्नावेव खल्विन्धि दीप्ताविति धात्वर्थः सुप्रसिद्धः । ननु – श्रौते गार्हपत्यशेषत्वे सुप्रसिद्ध ऋगाम्नातस्यैन्द्रशब्दस्य तस्मिन् यौगिकी वृत्तिः कल्पनीया । तदेव कथं सिद्ध्यति ? न ह्यैन्द्रीति तद्धितान्तेन प्रातिपदिकेन इन्द्रशेषतयाऽनूदिता ऋग्गार्हपत्यशेषत्वेन तृतीयया विधातुं शक्या । "प्रयाजशेषेण हवींष्यभिघारयती"त्यत्र सत्यामपि तृतीयायां प्रयाजशेषतयाऽनूदितस्य हि द्विरभिघारणशेषत्वेन विधानं न संभवतीति तृतीयामविगणय्य प्रयाजशेषं हविष्षु क्षारयेदिति प्रयाजशेषप्रतिपत्तिविधानार्थत्वं वाक्यस्य समाश्रितम् , तथेहापीन्द्रशेषत्वेनानूदिताया ऋचो गार्हपत्यशेषत्वेन विधानं न संभवतीति गार्हपत्यसमीपे स्थित्वेन्द्रः प्रकाशयितव्य इत्यर्थसमाश्रयणं युक्तमिति चेत् - उच्यते ; ऐन्द्रीप्रातिपदिकेनेन्द्रप्रकाशकतामात्ररूपमिन्द्रशेषत्वमुच्यते ; न त्विन्द्रोपस्थानविनियुक्तत्वरूपम् ; तद्विनियोजकबुद्ध्यभावात् । इन्द्रप्रकाशकत्वं च न गार्हपत्योपस्थाने विनियोगेन विरुध्यते ; मुख्यतयेन्द्रप्रकाशकस्यापि गौणवृत्त्या गार्हपत्यप्रकाशकत्वसंभवात् । अतो विरोधाभावाद्विधिवाक्ये क्वचिदपि पदे जघन्यवृत्तिर्नाभ्युपगन्तव्या । अवश्यं क्वचिदाश्रयणीया जघन्यवृत्तिरनुवादके तेन विधिना विनियोज्ये मन्त्र एवाश्रयितव्येति युक्तम् । प्रकरणाम्नानसामर्थ्यादित्यस्य दर्शपूर्णमासप्रकरणाम्नानसामर्थ्यादिति व्याख्यानं कोशेषु दृश्यते , तत्प्रायो लेखकप्रमादापादितम् , अग्निचयनप्रकरणे ख”ल्वैन्द्र्या गार्हपत्यमुपतिष्ठत” इति विधिराम्नायते ।
ननु यथा प्रत्यक्षेणाग्निर्बोध्यते इति ।
ननु – श्रुतिलिङ्गाभ्यां तुल्यबलाभ्यामस्य मन्त्रस्य गार्हपत्यशेषत्वमिन्द्रशेषत्वं चास्तीति शङ्का न पूर्वपक्षिणो युक्ता ; लिङ्गादिन्द्रशेषत्वमेवेति हि पूर्वपक्षः कृतः । तथाशङ्कायां च यथा प्रत्यक्षानुमानाभ्यां वह्निर्बोध्यते इति न दृष्टान्तीकर्तुमुचितं किंतु यथैकस्य पर्वतस्य प्रत्यक्षानुमानाभ्यां हृदवत्त्वं वह्निमत्वं चेति दृष्टान्तीकर्तव्यमिति – चेत् , उच्यते ; लिङ्गेन साक्षाद्विनियोगो न कल्पनीय इति प्रतिज्ञायां हि श्रौताद्विनियोगात्कल्पनीयस्यार्थविप्रकर्षादिति टीकायां हेतुरुक्तः , स च लिङ्गस्य साक्षाद्विनियोजकत्वशङ्कां सोपपत्तिकामवतार्य तन्निरासार्थत्वेनावतारणीयः । तस्य साक्षाद्विनियोजकत्वे च श्रुत्या हि लिङ्गस्य तुल्यबलत्वमेवायाति नाधिकबलवत्त्वम् ; श्रुतेर्लिङ्गसापेक्षत्वस्य निराकृतत्वात् । अत इह श्रुतिलिङ्गाभ्यां विनियोगद्वयमिति पूर्वपक्षोऽपि टीकाशयस्थ इत्यभिप्रेत्याऽऽभ्यां तुल्यबलाभ्यामुभयत्र विनियोग इति शङ्का कृता , दृष्टान्तस्तु श्रुतिवल्लिङ्गेनापि स्वातन्त्र्येण स्वविषयबोधनं संभवति ; वह्निविषयप्रत्यक्षवत्तद्विषयानुमानेनापि तत्प्रत्यक्षनिरपेक्षेण वह्निबोधदर्शनादित्येतावन्मात्रे योजनीयः । यद्वा – इन्द्रे विनियोगः श्रुत्येव लिङ्गेनापि बोधयितुं शक्य इत्यस्मिन्नर्थे दृष्टान्तोऽयम् । अत्र दार्ष्टान्तिकांश उन्नेयः । इत्थं लिङ्गस्य स्वातन्त्र्ये सति फलितं श्रुतिलिङ्गयोस्तुल्यबलत्वमवलम्ब्योभयत्र विनियोगाशङ्का एवं लिङ्गश्रुतिमित्यादिना दर्शिता । तत्रैवमित्यस्य एवं सतीत्यर्थ इति न किंचिदवद्यम् ।
अनुयोग आक्षेप इति ।
यद्यपि प्रश्नोऽनुयोगः पृच्छा चेत्यनुयोगशब्दः प्रश्नेऽनुशिष्टः ; तथापि शास्त्रेषु प्रश्न आक्षेपपर्यवसायीत्येवं व्याख्यातम् ॥
यत्तत्पदसमभिव्याहार इति ।
तत्पददर्शनादध्याहृतं यत्पदमित्युभयसमभिव्याहार उक्तः ।
तावत्युक्ते इति ।
विभज्यमानत्वे सति साकाङ्क्षत्वमिति लक्षणे विभज्यमानमित्येतावत्युक्ते इत्यर्थः ।
अर्थैकत्वविशेषणस्य त्विति ।
यद्यपि विभज्यमानसाकाङ्क्षत्वमात्रं "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षे"त्यत्रातिव्याप्तं, तत्राप्युत्तरवाक्ये तत्पदसद्भावेन विभागे पूर्वसाकाङ्क्षतायाः सद्भावात् ; तथापि यजुःशब्दाभिधेयेषु प्रश्लिष्टपठितमन्त्रेषु परिमाणं दुर्ज्ञानमिति तज्ज्ञानाय निरूपितेऽस्मिन् लक्षणे यजूरूपमेव विशेषणव्यावर्त्यं वक्तव्यं , तत्तु "स्योनं ते” इत्यादिकमेव ; विभज्यमानसाकाङ्क्षयजुष्ट्वस्यान्यत्रातिव्याप्तिशङ्काभावात् , "स्योनं ते" इत्यादिमन्त्रे च पूर्वपक्षदशायां वाक्यभेदो न सिद्ध इति व्यावर्त्याभावादर्थैकत्वविशेषणं नोपात्तमित्यर्थः ।
अग्नये निर्वपामिपदाभ्यामेकवाक्यतां कल्पयित्वेति ।
यद्यप्येकवाक्यता स्वत एव प्रतीयते ; तथाप्यसमवेतार्थत्वेन वाक्यानन्तर्भावशङ्कां परिहृत्य प्रतीतैकवाक्यता निर्वहणीयेति – कल्पयित्वेत्युक्तम् ।
अभिधानसामर्थ्यं कल्प्यतामिति ।
निर्वापान्वयोपयोगितत्प्रशंसाभिधानसामर्थ्यं कल्प्यतामित्यर्थः , न तु निर्वापाभिधानसामर्थ्यं कल्प्यतामिति ; निर्वपामीत्यनेन पौनरुक्त्यापत्तेः । एवं दार्ष्टान्तिकेऽपि कृत्स्नमन्त्रस्य यदा सदनकरणे विनियोगस्तदोत्तरभागस्य प्रतिष्ठापनार्थत्वरूपतद्विशेषाभिधानसामर्थ्यकल्पनेति द्रष्टव्यम् ।
अत्रैकशब्दः प्रयुक्त इति ।
सिद्धान्ते यजुःपरिमाणलक्षणे अर्थैकत्वविशेषणस्यापेक्षितत्वादेकशब्दः प्रयुक्त इत्यर्थः ।
तदपेक्षायां हेतुं सिद्धान्ते तद्व्यावर्त्यसिद्धं दर्शयति –
स्योनं त इत्यस्येति ।
एवमेकत्वविशेषणे कृते तत्प्रयुक्तलक्षणासंभवपरिहारार्थं प्रधानमिति विशेषणमित्याह –
एकस्मिन्वाक्ये इति ।
प्राप्तिमात्रोपपादि चेति ।
निःश्रेण्यारोहणप्राप्यं प्रासादादि प्राप्तिमात्रेण लभ्यमित्यर्थः ।
विलम्बेन लभ्यं चेत्पश्चादारूढोऽपि कदाचित्फलं गृह्णीयादित्याशङ्कापरिहारार्थमिदं विशेषणम् पश्चिमोऽवतरेन्मुधेति ।
एवमेव वाक्यमूलकसामर्थ्यादिकल्पनाक्रमो विनियोगलक्षणं फलमगृहीत्वा परावर्तत इति दार्ष्टान्तिके योजनीयम् ।
भेदेन विनियोगः स्यादिति ।
अग्नये जुष्टं निर्वपामीत्येतदतिरिक्तानां देवस्य त्वेत्यादिपदानामिति शेषः ।
तथासत्यतिप्रसङ्गान्तरमप्यापतेदित्याह –
तथा चेति ।
सदनादिपदातिरिक्तपदानां स्योनमादिपदानाम् ।
यत्र तु विरोधि लिङ्गम् , अस्य तु विवरणं –
पृथगिति ।
अगतेर्वरमिति ।
यदि पृथक्कर्मवर्तिपदार्थाप्रकाशकपदानां वा सामर्थ्यकल्पनेन विनियोजकत्वं न स्यात् , तदा तेषां गत्यन्तराभावेन वैफल्यं स्यात् , ततो वरं तेषां वाक्यं विनियोजकमित्याश्रयणमित्यर्थः ।
उदाहृतश्लोकस्थमेवमिति पदमुपादाय व्याचष्टे –
लिङ्गाद्वाक्यभङ्ग इत्यर्थ इति ॥ कार्यान्तरापेक्षावशेनेति ।
कार्यान्तरमितिकर्तव्यता । तथा च सन्निध्याम्नातपदार्थसंबन्धापादकेतिकर्तव्यताकाङ्क्षावत्प्रधानवचनं प्रकरणमित्युक्तं भवति। तद्विशेषणभावात् क्वचिदितिकर्तव्यताकाङ्क्षावशेन सन्निहितवाक्यान्तरसम्बन्धः प्रकरणमिति व्यवह्रियते । क्वचिदितिकर्तव्यताकाङ्क्षैव प्रकरणमिति व्यवह्रियते । इदं कर्मप्रकरणमात्रासाधारणं प्रकरणलक्षणम् । ब्रह्मप्रकरणसाधारणं तु तल्लक्षणमाकाङ्क्षायामितिकर्तव्यताकाङ्क्षाविषयत्वविशेषणं विहाय निर्वक्तव्यम् ।
सन्निहितकरणोपकारे संभवतीति ।
सन्निध्याम्नातस्य करणस्योपकारे आकाङ्क्षावशाद्बुद्धिस्थे फले संभवत्यबुद्धिस्थस्वर्गफलकल्पना न युक्तेत्यर्थः । अयमेव हेतुरनुषङ्गार्थवादिकफलाकल्पनयोरपि । स्वर्गस्यानाकाङ्क्षत्वादित्यभ्युच्चयमात्रम् ; स्वर्गस्य दर्शपूर्णमासकरणान्वयेऽनाकाङ्क्षत्वेऽपि प्रयाजादीनां फलाकाङ्क्षया तदन्वयसंभवात् , “या ते अग्ने अयाशये"त्यादिमन्त्रान्वयेन निराकाङ्क्षस्यापि "तनूर्वर्षिष्ठे"त्यादिवाक्यशेषस्य "या ते अग्ने रजाशया" "या ते अग्ने हराशयेति” मन्त्रयोरपि तदाकाङ्क्षामात्रेणानुषङ्गस्य द्वितीयेऽध्याये निर्णीतत्वात् , चतुर्थाध्याये 'वैश्वदेवीं सांग्रहणीं निर्वपेद् ग्रामकाम' इत्यत्र श्रुतस्य फलस्य सांग्रहणीष्टिरूपकारणान्वयेन निराकाङ्क्षत्वेऽप्या“मनमस्यामनस्यदेवा इति तिस्र आहुतीर्जुहोती"ति तत्सन्निध्याम्नातानां होमानां फलाकाङ्क्षयानुषङ्गः इति पूर्वपक्षं कृत्वा सांग्रहणीतिकर्तव्यतारूपेण तदुपकारात्मकफले संभवति नानुषङ्गः कल्पनीय इति सिद्धान्तितत्वाच्च ।
वर्मकरणादीति ।
"वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य यत्प्रयाजानूयाजा इज्यन्ते" इत्यर्थवादोक्तं फलं रात्रिसत्रन्यायेन न विपरिणमनीयमित्यर्थः ।
देवतासंबोधनप्रधान इति ।
परसंबोधनार्थलोडन्ताख्यातयुक्तः पदसमूहो निगद इति यद्यपि निगदाधिकरणे वर्णितम् ; तथापि सूक्तवाकनिगद इडानिगद इत्यादिव्यवहारदर्शनादन्यत्रापि नितरां गद्यत इत्युच्चैष्ट्वयोगेन तद्व्यवहारोऽस्तीति भावः ।
दधिपयसोरभाव इति ।
यद्यप्यसोमयाजिनो दधिपयसोरभाव ऐन्द्राग्नपुरोडाशश्चेत्युभयं तत्तद्वचनबलान्मिलितम् , नतु प्रयोज्यप्रयोजकभावात् ; अन्यथा वैपरीत्यमेव किं न स्यात् ; तथाप्यर्थसमाजमात्रमवलम्ब्य प्रयोज्यप्रयोजकभाव उपचरितः ।
अवीवृधेतामित्यादिमन्त्रशेष इति ।
इदं हविरजुषतामित्यंशस्याप्युपलक्षणमेतत् ॥
नानेष्टिपशुसोमसमुदाय इति ।
अनुमत्यादिदेवताकानामिष्टीनामह्नादिपशुकानां पशुबन्धानां सोमयागानां च सन्निधौ पठिते "राजा स्वाराज्यकामो राजसूयेन यजेते”त्यधिकारवाक्ये श्रुतस्य राजसूयपदस्य नामधेयस्याप्रसिद्धार्थत्वेनाख्यातपारतन्त्र्यादाख्यातस्य च सन्निहितसकलयागानुवादस्वारस्यात्सन्निहितसकलेष्टिपशुसोमसमुदायो राजसूय इत्यर्थः ।
शौन: शेपाख्यानं विवृणोति –
शुनःशेपः किलेति ।
तदित्थम् – "हरिश्चन्द्रस्य राज्ञः शतं जाया बभूवुः । तासु पुत्रमलभमानः स्वगृहे वसन्तं नारदं पुत्रप्रयोजनं पप्रच्छ । स पुत्रवतः प्रशंसया तद्रहितस्य निन्दया च पुत्रलाभमतितरां प्रशस्य जातेन पुत्रेण वरुणं यक्ष्ये इति संकल्पे कृते तव पुत्रो भवितेत्युवाच । हरिश्चन्द्रस्तथेति सङ्कल्प्य रोहितं नाम पुत्रं लेभे । तदैव वरुणेन मामनेन यजस्वेति पृष्टो दन्तोत्पत्त्यनन्तरमिति तदनन्तरं पृष्टो दन्तपतनानन्तरमिति ततः पृष्टो द्वितीयदन्तोत्पत्त्यनन्तरमिति तदनु पृष्टः कवचधरे जाते इति च तावत्पर्यन्तं कालं पशुभावानर्हतोद्भावनेन क्षपयामास । कवचधरं कुमारं दृष्ट्वा मामनेन यजस्वेति वरुणेन पृष्टे कुमारो धनुर्गृहीत्वा वनं प्रतस्थे । हरिश्चन्द्रो वरुणगृहीतो जलोदरव्याधियुक्तो यज्ञे । रोहितः संवत्सरं वने चरित्वा प्रत्यागतः संचारे फलं प्रदर्शयतेन्द्रेणोपदिष्टः पुनरपि संवत्सरं वने चरित्वा प्रत्याजगाम । एवं पुनरिन्द्रस्योपदेशात् षड्वारानेकैकं संवत्सरं वने चचार । षष्ठे पर्याये पुत्रवन्तमजीगर्तनामानं ऋषिं वने दृष्ट्वा तमेकं पुत्रं ययाचेति हरिश्चन्द्रेण कर्तव्ये वरुणयज्ञे पशुत्वेन नियुज्य स्वात्मनिष्क्रयार्थम् । तदा पिता ज्येष्ठं माता कनिष्ठपुत्रं च दातुं नान्वमन्यत । अर्थान्मध्यमः शुनःशेपो देयः पर्यवसितः । तं क्रीत्वा समागत्य वरुणं यष्टुं पुत्रो ददौ । पिता च हरिश्चन्द्रो राजसूयं प्रारभ्याभिषेचनीये शुनःशेपं पशुं सङ्कल्पयामास । अजीगर्तः पुनः शतं गृहीत्वा तं विशसितुमुद्युक्तः । तस्मिन्विशसितुमुद्युक्ते शुनःशेपो वरुणं तुष्टाव । वरुणस्य प्रीत्या पाशाद्विमुक्तस्तत्र यज्ञे होतारं विश्वामित्रं प्राप्य तस्य पुत्रो बभूवेति। आचार्यैर्हरिश्चन्द्रेण कर्तुं प्रारब्धो राजसूय एव पुरुषपशुकत्वेन पुरुषमेध उपचरितः” ।
विकल्पेन पूर्वपक्षं वक्ष्यन्निति ।
संदेहटीकायामभिषेचनीयस्यैवाङ्गमिति पूर्वपक्षकोटिप्रदर्शनमुपक्रममात्रमिति भावः । ननु – आकाङ्क्षितमपि सन्निहितमेवान्वेति सन्निहितमप्याकाङ्क्षितमेवान्वेतीत्याकाङ्क्षासन्निधानयोर्लोके परस्परापेक्षादर्शनेन प्रकरणसन्निधानयोस्तुल्यबलतया प्रकरणाद्राजसूयस्य वाङ्गं सन्निधानादभिषेचनीयस्य वाङ्गमिति विकल्पेन पूर्वपक्ष इत्येतन्न युज्यते ; राजसूयस्य प्रकरणासिद्धेः , तदन्तर्गतानामिष्ट्यादीनां विकृतित्वेन क्लृप्तोपकारप्राकृताङ्गसंबन्धनिराकाङ्क्षत्वात् , प्रकरणसत्त्वेऽपि सन्निध्यनुरोधपक्ष इव प्रकरणानुरोधपक्षेऽप्यभिषेचनीयाङ्गत्वस्यावश्यंभावेन नित्यस्य तस्य वैकल्पिकत्वासंभवाच्चेति – चेत् , उच्यते ; इष्ट्याद्यात्मना नैराकाङ्क्ष्येऽपि राजसूयात्मनाऽस्त्याकाङ्क्षा पवित्रादारभ्य क्षत्रस्यधृतिपर्यन्तं राजसूयः ; यर्ह्येता उत्पुनातीत्यादिष्वङ्गवाक्येषु राजसूयपरामर्शानुवृत्त्या तदात्मनेतिकर्तव्यताकाङ्क्षोत्थापनात् । विकल्पोक्तिस्तु अभिषेचनीयातिरिक्तपवित्रादिप्रधानान्तरविषया । एवं च संदेहटीकाऽप्यङ्गशब्दस्य नित्याङ्गत्वविषयतया अथ क्रम इत्येतदनन्तरं प्रकरणतुल्यवत इत्यध्याहारेण चोक्तार्थे सुयोजेति नोपक्रमविरोधोऽपि ।
ननु प्रकरणाद्राजसूयार्थत्वमिति ।
विरोधे हि प्रकरणसन्निधानयोः पाक्षिकप्रवृत्तिर्वाच्या । सकलराजसूयाङ्गत्वाभिषेचनीयाङ्गत्वयोर्नास्ति विरोधः । न च सन्निधानेनाभिषेचनीयमात्राङ्गत्वं बोध्यमिति विरोधः शङ्कनीयः ; प्रकरणसन्निधानयोस्तुल्यबलवत्वपूर्वपक्षेऽपि प्रकरणबोध्यस्य प्रधानान्तराङ्गत्वस्याप्रतिक्षेप्यतया सन्निधिना तन्मात्राङ्गत्वालाभात् , अतो विरोधाभावात्समुच्चयोऽस्त्विति भावः । सन्निधिबोध्यमभिषेचनीयाङ्गत्वं पवित्रादिसकलप्रधानाङ्गत्वं बोधयता प्रकरणेनैव बोधितमिति सन्निधिबोध्यस्य समुच्चयस्याभावान्न समुच्चयः संभवति।
अथोच्येत सन्निधिबलादभिषेचनीयार्थत्वेन किंचिदनुष्ठानं प्रकरणबलात्सकलराजसूयार्थत्वेनान्यदित्यनुष्ठानसमुच्चयः संभवतीति , तत्राह –
अभिषेचनीयस्यापीति ।
अभिषेचनीयार्थं यत्राभिषेचनीयमाहेन्द्रस्तोत्रकाले उपाख्यानाद्यनुष्ठेयं तत्रैव सकलराजसूयार्थमप्यनुष्ठेयम् , अभिषेचनीयानन्तरमाम्नातस्यापि साम्राज्याभिषेकात् प्राचीनस्योपाख्यानादेमहेन्द्रस्तोत्रं प्रत्यभिषिच्यत इति साम्राज्याभिषेकापकर्षविधिप्रयुक्तस्य तदन्तापकर्षन्यायसिद्धस्यापकर्षस्य पक्षद्वयेऽप्यविशेषात् । तथा च देशकालत्रैक्यादिदमनुष्ठानमभिषेचनीयार्थमेव , न तु सकलराजसूयार्थमिति विशेषग्रहणाभावादभिषेचनीयार्थमेवानुष्ठानं सकलराजसूयार्थमपि भवेत् । अतोऽभिषेचनीयमात्रार्थं पृथगनुष्ठानाऽलाभादनुष्ठानभेदेनापि समुच्चयोपपादनं न संभवतीति कदाचिदभिषेचनीयार्थं कदाचित्सकलराजसूयार्थमिति विकल्पेनैवानुष्ठानमप्युपपादनीयमिति भावः ।
न चैवं चिन्तावैयर्थ्यमिति ।
एवं हि सति न कश्चिदुपाख्यानाद्यनुष्ठाने विशेषः । न च तदननुष्ठानेऽभिषेचनीयमात्रवैकल्यं पवित्रादिसकलवैकल्यं वेत्यतो विशेषः ; पक्षद्वयेऽपि परमाऽपूर्वाऽनुत्पत्तिदोषस्यैकरूपत्वात् । तस्मादेषा चिन्ता व्यर्थेति न शङ्कनीयमित्यर्थः ।
तत्सिद्धय इति ।
तदीयसर्वावयवार्थत्वसिद्धय इत्यर्थः । तत्सिद्धौ राजसूयान्तर्गतसकलेष्टिपशुसोमविकृतिष्वतिदेशेन नित्योपाख्यानादिप्राप्तिः , पूर्वपक्षे त्वभिषेचनीयविकृतावेव नित्या तत्प्राप्तिः अन्यविकृतिषु वैकल्पिकीति फलभेद इति भावः ।
क्षत्रस्य धृतिरिष्टिरिति ।
“अग्निष्टोममन्तत आहरति अग्निः सर्वा देवता देवतास्वेव प्रतितिष्ठती"ति राजसूयप्रकरणान्ते श्रवणात् क्षत्रस्य धृतिः सोमयागविशेष इत्यवगम्यते । "क्षत्राणां धृतिस्त्रिष्टोमोऽग्निष्टोमः पञ्चापवर्गः । तेन अन्ततो यजेत संतिष्ठते राजसूय" इत्यापस्तम्बवचनादपि तथाऽवसीयते । इष्टिरिति त्वाचार्यैः शाखान्तरं कल्पसूत्रान्तरं वा दृष्ट्वोक्तम् ।
प्रधानस्याकाङ्क्षायामनुवर्तमानायामिति ।
राजसूयस्याकाङ्क्षा पवित्रादारभ्य प्राक्सिद्धाऽनुवर्तते , अभिषेचनीयसन्निधिना तु तदानीमुत्थापनीया । अतः सह प्रस्थितयो राजसूयाकाङ्क्षाभिषेचनीयसन्निधानयोराद्या शीघ्रं विनियोगफलं गृह्णीयादिति भावः ॥ स्यादेतत् – क्रमप्रकरणविरोधोदाहरणमिदमयुक्तम् ; उपाख्यानविदेवनादीनामभिषेचनीयमध्यगतत्वेन तदङ्गत्वस्यैवोचितत्वात् । ननु – अनुष्ठानमेव तेषामभिषेचनीयमध्यगतमाम्नानं त्वभिषेचनीयानन्तरम् । एवमनन्तरमाम्नानेऽपि तेभ्यः पश्चादाम्नातस्याभिषेकस्य माहेन्द्रस्तोत्रं प्रत्यभिषिच्यत इत्यभिषेचनीयाङ्गमाहेन्द्रस्तोत्रकालेऽपकृष्टतया तदन्तापकर्षन्यायेन तेषामपि तत्रापकर्षात्तन्मध्येऽनुष्ठानमात्रम् । ततश्च तेषां महाप्रकरणेन राजसूयसंयोगादभिषेचनीयमध्येऽनुष्ठानमात्रेण न तेष्वभिषेचनीयाङ्गत्वापादकं तदवान्तरप्रकरणमुन्मिषति ; असंयुक्तं प्रकरणादिति न्यायात् । एवमेव च चतुर्थपञ्चमयोर्निर्णीतमिति – चेत् , स्यादेतदेवं यद्यभिषेचनीयमध्ये तेषामाम्नानं न स्यात् । अस्ति तु “तद्विशोभयं राजाऽभूदि”ति। पञ्चाक्षान् प्रयच्छतीति शौनःशेफमाख्यायते इति च । एतदनन्तरमपि हि "मारुतस्य चैकविंशतिकपालस्य वैश्वदेव्यै चामिक्षाया अग्नये स्विष्टकृते समवद्य"तीति प्रागुपक्रान्ताभिषेचनीयाङ्गेष्टिशेषानुवर्तनम् । “अपांनप्त्रे स्वाहोर्जोनप्त्रे स्वाहाऽग्नये गृहपतये स्वाहेति तिस्र आहुतीर्जुहोती"त्यभिषेचनीयाङ्गहोमविशेषविधानं च दृश्यते । अतोभिषेचनीयाङ्गसदृशाद्विदेवनादेस्तदवान्तरप्रकरणसद्भावः स्पष्ट एव । यदि शाखान्तरे क्वचित्तेषामभिषेचनीयसमाप्त्यनन्तरमाम्नानं स्यात् , तथाप्यत्रावान्तरप्रकरणेन सिद्धं तदङ्गत्वम् ; अन्यत्राप्यप्रत्याख्येयं महाप्रकरणादवान्तरप्रकरणस्य बलीयस्त्वादिति – चेत् , उच्यते ; नोदाहरणमादरणीयं न्यायमात्रनिष्ठमधिकरणम् । यत्र क्रमस्यैव प्रकरणेन विरोधः नावान्तरप्रकरणसद्भावशङ्कास्ति , तदत्र मुख्यमुदाहरणं भविष्यति कृत्वाचिन्तया त्विदमुदाहरणमिति न कश्चिद्विरोधः ।
संबन्ध आनुमानिक इति ।
पदार्थान्तररूपेण वैशिष्ट्येन संबन्धोऽनुमेय इत्यर्थः । ननु विशिष्टवाचकत्वेऽपि वैशिष्ट्यं तत्प्रतियोग्यनुयोगिनौ चेति त्रयो वाच्याः प्रसज्येरन्निति तुल्यो दोषः ।
प्रतियोगिविशेषविशिष्टं द्रव्यमुच्यत इति विशिष्टरूपेण वाच्येकसमर्थनं तत्संबद्धद्रव्यमुच्यत इति संबन्धवाचकत्वपक्षेऽपि संबन्धसामान्यमेव श्रुत्या लभ्यते न तु विनियोगरूपः संबन्धविशेष इत्याह –
अपि च भवत्विति ।
सन्निधिमुपकल्पयतीति ।
ननु – सन्निध्यभावेऽपि – 'यस्य येनार्थसंबन्धो दूरस्थेनापि तेन सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्'॥ इति न्यायात् संबन्धो घटते । अशक्यं चान्यत्राम्नातानामन्यसन्निध्याम्नानकल्पनम् । तस्मात्समाख्यया सन्निधिकल्पनं तावदयुक्तम् , तथा सन्निधिनाऽऽकाङ्क्षाकल्पनमपि न युक्तम् ; सन्निध्यभावेऽपि पुरोडाशपात्रशुन्धनस्यानुष्ठानाय स्मृतिजनकाकाङ्क्षासत्वात् तथाऽऽकाङ्क्षायैकवाक्यत्वकल्पनमपि न युक्तम् ; शुन्धनविधेः शुन्धनप्रकाशकमन्त्रविनियोजकविध्येकवाक्यत्वाद्व्रीह्यादिरीत्या विनियोज्यपदार्थरूपेण मन्त्रेणैकवाक्यत्वानपेक्षणात् वाक्येन सामर्थ्यकल्पनमपि न युक्तम् ; शुन्धनप्रकाशनसामर्थ्यस्य स्फुटतरत्वात् , स्फुटतरतत्प्रकाशनसामर्थ्यलब्ध एव हि शुन्धनसंबन्धः समाख्यया पुरोडाशपात्रशुन्धने बोधनीयः स्थानेन सानाय्यपात्रशुन्धने वेति संदेहो दर्शित इति – चेत् , उच्यते ; संबन्धेनाम्नानसन्निधेः कल्पनमिह न विवक्षितं , किंत्वनुष्ठानसन्निधेः । स तु घटत एव । अन्यत्राम्नातस्याप्यन्यत्रानुष्ठानसन्निधिना च सन्निध्यनुष्ठीयमानमन्त्रविशेषाकाङ्क्षाकल्पनं विवक्षितं , तत्तु प्राङ् न सिद्धम् ; अनुष्ठेयार्थस्मृतिजनकमात्रापेक्षाऽपि हि प्राक्सिद्धा , तदाकाङ्क्षया चैकवाक्यत्वं पुरोडाशपात्रशुन्धनविधेर्मन्त्रसंबन्धमात्ररूपं विवक्षितं तत्तु प्रकाश्यप्रकाशकभावरूपमुपपद्यते , तत्प्रकाशकत्वनिर्वाहार्थं च शुन्धनसामान्यप्रकाशकस्य मन्त्रस्य पुरोडाशपात्रशुन्धनप्रकाशनसामर्थ्यं कल्पनीयमिति तत्कल्पनं विवक्षितम् ।
अतः सर्वमेतदुपपन्नम् । अर्थेषु प्रतीतिविरोधो न वस्तुविरोध इति टीकायां वस्तुविरोधाभावे विवक्षितं हेतुमाह –
दध्न उभयार्थत्वदर्शनादिति ।
प्रतीतिविरोधसद्भावे विवक्षितं हेतुमाह –
अन्यशेषस्येति ।
ननु अन्यशेषस्यान्यशेषत्वरूपं वस्तुतो न विरुद्धमित्यनुपदमेवोक्तं , कथं तद्विरोधो हेतूक्रियते ? अथान्यशेषत्वेनानूदितस्यान्यशेषत्वेनानुवादादन्यस्यैव शेष इत्ययमर्थो लभ्यते ; व्यावर्तकस्वभावानां विशेषणानामन्ययोगव्यवच्छेदस्वारस्यात् , तथाचानूद्यमानविधीयमानार्थयोर्विरुद्धयोः प्रत्यायनमेकेन वाक्येन न संभवतीत्येवंरूपः प्रतीतिविरोधो विवक्षितः । अनेनैवाभिप्रायेण दृष्टान्त उक्तः , यद् देवदत्तीयं तद्यज्ञदत्तशेष इतिवदिति।
यदिति ।
अत्र हि यद्देवदत्तीयमित्यनेन देवदत्तस्यैव स्वमुच्यते , न तु यज्ञदत्तस्यापि साधारणम् ; तथा सति देवदत्तस्य स्वसंबन्धे यज्ञदत्तसापेक्षतया सामर्थ्याभावेन तद्धितानुत्पत्तिप्रसङ्गात् ।
तर्ह्यधिष्ठानलक्षणयेति ।
यत्रानुवादेऽन्यशेषत्ववाचकः शब्दोऽस्ति "पुरोडाशकपालेन तुषानुपवपति" “परिधौ पशुं नियुञ्जीतेत्या”दौ तद्विषयेऽयमधिष्ठानलक्षणोक्तिः । तत्र हि पुरोडाशशेषत्वादिरूपविशेषणांशं विहाय वस्तुतस्तदधिष्ठाने कपालादिविशेष्यमात्रे लक्षणा पुरोडाशकपालादिशब्दस्याभ्युपेता , प्रकृतदधिबृहस्पतिसवविषया न भवति त्वियमधिष्ठानलक्षणोक्तिः ; तयोरन्यशेषत्वसमर्पकशब्दाभावात् ।
तत्तुल्यमिति ।
ननु – अधिष्ठानलक्षणया विरोधसमाधानं विद्यायां मन्त्रस्य विनियोगेऽपि तुल्यमिति न वक्तव्यम् ; सन्निधिकल्पनीये विद्याविनियोगवाक्ये वैधादिमन्त्रस्य दधिबृहस्पतिसववत्स्वरूपेण ग्रहणस्योपपन्नतयाऽन्यशेषत्वेनोपादानाभावात् , अतो यद्यप्यथैष प्रतीतिविरोधो न वस्तुविरोध इति शङ्कानन्तरं स विद्याविनियोगेऽपि तुल्य इति टीकाग्रन्थस्य विरोधतौल्यार्थकत्वं परिहृत्य विरोधसमाधानार्थकत्वमुपपादयितुं शङ्काग्रन्थस्यैव कस्मिंश्चिद्विरोधसमाधाने तात्पर्यमुक्त्वा विद्याविनियोगे तत्तौल्यवचनस्यापि तत्समाधानतौल्यपरत्वं वक्तव्यं तदाप्येवं वक्तुमुचितम् । दधिबृहस्पतिसवयोरनूद्यमानयोरन्यशेषत्वप्रत्यायकविशेषणाभावान्नास्ति विरोध इति चेद्विद्यायां मन्त्रस्य विनियोगेऽपि तुल्यमिति। तस्मादधिष्ठानलक्षणया विरोधसमाधानतौल्यवचनमयुक्तमिति – चेत् , उच्यते ; अन्यशेषत्वप्रत्यायकविशेषणसत्त्वेऽप्यधिष्ठानलक्षणया विरोधसमाधानेन विनियुक्तविनियोगः कर्तुं शक्यते , इह तदभावे किमु वक्तव्यमिति कैमुतिकन्यायोद्घाटनार्थमनया भङ्ग्या विरोधसमाधानतौल्यमुक्तमिति न काचिदनुपपत्तिः ।
एकस्मिन् प्रयोगे मन्त्रावृत्तिप्रसङ्गादिति ।
यद्यप्ययं न दोषः ; ज्योतिष्टोमप्रकरणाम्नातस्य "अग्नआयाहि वीतये" इति मन्त्रस्य यजुर्वेदे "आग्नेय्याग्नीघ्नमुपतिष्ठत" इत्याग्नीघ्नोपस्थानेऽपि विनियोगदर्शनात् , तत्र विनियोजकप्रमाणद्वयानुसारेण यद्येकस्मिन्नपि ज्योतिष्टोमप्रयोगे मन्त्रावृत्तिः , तर्ह्यैन्द्र्यादावपि तथा स्यादिति चेत् , एवं तर्हि श्रुतिलिङ्गाधिकरणमप्याक्षिप्यैतदधिकरणप्रवृत्तिरित्यस्तु । एवमेव खल्वाचार्यैरुक्तं पूर्वपक्षे ।
ननु बृहस्पतिसवन्यायेन विनियुक्तविनियोगोपपादनं न युक्तम् ; अङ्गबृहस्पतिसवस्य स्वतन्त्रबृहस्पतिसवादन्यत्वस्य मीमांसकैरुक्तत्वादित्याशङ्क्याह –
बृहस्पतिसवोदाहरणं त्विति ।
अत्र वक्तव्यं प्रागेवोक्तम् ।
अस्त्यधिकाशङ्केति टीकाया अर्थमाह –
अस्य पुनः स्मारणस्येति ।
ननु टीकायां नेहेत्यादिश्लोकतद्विवरणाभ्यामधिकाशङ्कापरिहारो यः कृतः , सोऽपि श्रुतिलिङ्गाद्यधिकरणस्थ एव ।
तथा हि –
द्विविधो बाधः प्राप्तबाधोऽप्राप्तबाधश्चेति ।
तत्र दशमे वैकृतविधिवाक्यशेषेण चोदकेन कृष्णलादिषु प्राप्तस्यैवावहननादेर्द्वारलोपादिना बाधो निरूपितः । तृतीये तु श्रुत्यादिभिर्लिङ्गादीनां स्वस्वप्रमेयपरिच्छेदप्राप्तिरहितानामेव नैराकाङ्क्ष्येण प्राप्तिनिरोधलक्षणोऽप्राप्तबाधो निरूपित इति पूर्वमीमांसकैः कृतो विभागस्तदनुसारेण टीकायामपि बलाबलाधिकरणानुक्रमणे ऐन्द्रीमन्त्रादीनां प्रथमप्रवृत्तश्रुत्यादिभिर्निराकाङ्क्षीकरणेनाप्राप्तबाध एव वर्णितः ।
तथा चेयमधिकाशङ्कापरिहारोक्तिरयुक्तेत्याशङ्कते –
यद्यपीति ।
श्रुत्यादिभिर्लिङ्गादिबाधः पूर्वमन्त्रनिरूपितोऽप्राप्तबाधः सन्नपि प्रकाश्यस्येन्द्रादेः प्रकाशकमन्त्राद्याकाङ्क्षावशात्प्राप्तबाधकशङ्कामात्रस्यापि विषयो भवति , इह तु तदपि नास्ति ; विद्यायाः मन्त्राकाङ्क्षाविरहादिति भेदप्रदर्शनेन पौनरुक्त्यं परिहरति –
तथापीति ।
ननु – इन्द्रस्य नास्ति प्रकाशकमन्त्राकाङ्क्षा , अग्निचयनप्रकरणे तस्य यष्टव्यत्वादिनाऽनाम्नातत्वेन प्रकाशनानपेक्षणादिति – चेत् , सत्यम् ; नोदाहरणमादरणीयम् उदाहरणान्तरं भविष्यति “इमामगृभ्णन् रशनामृतस्ये”ति मन्त्रस्य "इत्यश्वाभिधानीमादत्त" इतीतिकारश्रुत्या तृतीयाश्रुतिसमानार्थयाऽश्वरशनाग्रहणे विनियोगे कृतेऽपि रशनाग्रहणप्रकाशनसामर्थ्यरूपाल्लिङ्गाद् गर्दभरशनाग्रहणेऽपि प्राप्तिः शङ्कितुं शक्यते ; तस्याप्यश्वरशनाग्रहणवदग्निचयनेऽनुष्ठेयस्य तन्मन्त्राकाङ्क्षत्वात्तदिहोदाहरणम् । ननु – प्राप्तिशङ्कासद्भावतदभावाभ्यां विशेषकथने वेधाद्यधिकरणानारम्भकशङ्कैव स्थिरीकृता स्यात् , प्राप्तिमत्त्वशङ्कास्पदस्यापि लिङ्गादेः श्रुत्या बाधे पूर्वतन्त्रे निरूपिते सति तच्छङ्काऽनास्पदस्य विद्यासन्निधेर्लिङ्गादिभिर्बाधस्य कैमुतिकन्यायेन सिद्धेरिति – चेत् , उच्यते ; शास्त्रभेदान्न पौनरुक्त्यमित्येव मुख्यः परिहारोऽत्राभिसंहितः । क्वचित्प्रौढ्या व्यवहृतमैकशास्त्र्यपक्षं यथाकथंचित्समर्थयितुमभ्युच्चयरूपेयमधिकाशङ्कापरिहारयोरुक्तिः । अधिकाशङ्कापि वस्तुतोऽत्र नास्त्येव ; अविरोधे प्रबलदुर्बलयोरपि श्रुतिलिङ्गयोर्न बाध्यबाधकभाव इत्यतः श्रुत्या क्वचिद्विनियुक्तस्यापि लिङ्गेनान्यत्र विनियोगो घटत इत्येव श्रुतिलिङ्गाधिकरणे पूर्वपक्षकरणात् । ऐकशास्त्र्यपक्षे भाष्यादिष्वधिकशङ्कापरिहारावन्यावपि सूचितौ । लिङ्गादिभिरन्यत्र विनियुक्तानां मन्त्रादीनां विद्यायामपि सन्निधिना विनियोगः कल्पनीयः ; अन्यथा विद्यासन्निध्याम्नानवैयर्थ्यप्रसङ्गात् । "अथातोऽग्निष्टोमेनानुयजन्तीति" वाक्येनाहवनीयाधारतया चित्याग्नौ प्रकृत्यग्निष्टोमे प्राप्तेऽप्युत्तरवेद्याः प्रकरणाम्नानवैयर्थ्यपरिहारार्थं तदाधारतया प्राप्तिमङ्गीकृत्य विषमशिष्टयोरग्युत्तरवेद्योर्विकल्पोऽप्यभ्युपगम्यते , अत्र विकल्पाप्रसक्तौ सन्निधिवैयर्थ्यं परिहर्तव्यमिति किमु वक्तव्यमित्यधिकाशङ्का । विद्यासन्निध्याम्नानम् आरण्यकत्वप्राप्त्यर्थत्वेनान्यथासिद्धम् , अन्यत्र विनियोगेन निराकाङ्क्षाणां नान्यत्र विनियोगकल्पनक्षममिति परिहारः । यजेतेत्यादिसमानपदश्रुतौ प्रकृतिप्रत्यययोरन्योन्यापेक्षासत्त्वादव्याप्तिवारणाय पदेऽन्यस्मिन्निति विशेषणम् । तथा च स्वार्थाभिधाने पदान्तरनिरपेक्षः शब्दः श्रुतिरिति लक्षणार्थः । "बर्हिर्देवसदनं दामी"त्यादिमन्त्रेषु शब्दशक्तिवत् "स्रुवेणावद्यती"त्यादिविधिषु स्रुवादीनां द्रवद्रव्याद्यवदानशक्तिरिह लिङ्गमिति तत्साधारण्याय भावगतेत्युक्तम् । समानदेशत्वं यथासंख्येन सन्निधिना वा । सन्निधिरप्याम्नानसन्निधिरनुष्ठानसन्निधिरिति द्विविधः ॥२५॥
त्रैलोक्यमिति ।
"अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति । दिशो ह्यस्य स्त्रक्तयो द्यौरस्योत्तरं बिलं स एष वसुधान" इत्यादिना त्रैलोक्यस्य कोशत्वेन कर्मफलरूपवसुनिधानार्थपेटिकात्वेनोपासना पुत्रदीर्घायुष्ट्वफलार्थं विहिता । तस्य कोशस्य भूमिर्मूलावयवः अन्तरिक्षमुदरं द्यौः पिधानार्थ ऊर्ध्वावयवः दिशः कोणा इति प्रसिद्धकोशसादृश्यापादकावयवकल्पना कृता ।
भूरिति इमं लोकमित्यर्थ इति ।
इदं मन्त्रगतशब्दमात्रं गृहीत्वा व्याख्यातम् । श्रौते तु वाक्यशेषे भूरित्यस्य लोकत्रयपरत्वेन व्याख्यानं दृश्यते । "अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्ये अन्तरिक्षं प्रपद्ये दिवं प्रपद्ये इत्येतदवोच"मिति॥
इति चतुर्दशं वेधाद्यधिकरणम् ॥
हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॥२६॥
परत्रावस्थानसापेक्षत्वादिति ।
अवश्यं हि कुतश्चित्प्रहीणं किंचिदुपैति , यथाऽश्वात्प्रहीणं रोमवृन्दं भूप्रदेशमिति हानस्योपायनापेक्षा , विद्यमानयोः सुकृतदुष्कृतयोः फलजननावश्यम्भावादपि तदपेक्षाऽस्तीति भावः ।
समिध इति ।
उद्गातॄणां प्रस्तावकर्मणि स्तोत्रसंख्यागणनार्था दारुशलाकाविशेषा इत्यर्थः ।
औदुम्बरा इति विशेषणादिति ।
अनेन शाट्यायनिशाखायां कुशशब्दः पुल्लिङ्ग इति सूचितम् । स्त्रीलिङ्गत्वे त्वौदुम्बर्य इति स्यात् ।
यदि तु कस्यांचिदिति ।
औदुम्बर्य इति भाष्यप्रयोगं दृष्ट्वा तदनुकार्य श्रुत्युन्नयनम् ।
पर्युदासाधिकरणविषयमाहेति ।
ननु – नदीक्षिताधिकरणसिद्धान्तसूत्रं भाष्यकारैः पठितं , तत्किमिति टीकाकारैः पर्युदासाधिकरणसिद्धान्तसूत्रमत्र पठितमापाद्य पर्युदासाधिकरणमनुक्रम्यते ? किमिति च तदनुमोदनमाचार्यैः क्रियते ? इत्थं हि नदीक्षिताधिकरणम् । दीक्षितो न जुहोतीति ज्योतिष्टोमप्रकरणाम्नातं वाक्यं क्रत्वर्थपुरुषार्थसाधारण्येन सर्वेषामपि होमानां प्रतिषेधकम् , अथवा क्रत्वर्थेषु प्रत्यक्षशिष्टान् विहायातिदेशप्राप्तानां क्रत्वर्थानां पुरुषार्थानां च होमानां प्रतिषेधकमिति पूर्वपक्षेऽप्यग्निहोत्रादिहोमानां स्वस्वविधिभिः क्रतुमध्ये कर्तव्यतया नदीक्षितवचनेनाकर्तव्यतया च पर्युदासाधिकरणपूर्वपक्षन्यायेन प्रतिषेधाङ्गीकारे विकल्पः स्यात् , तत्परिहाराय नदीक्षितवाक्यस्याग्निहोत्रादिवाक्यशेषत्वमभ्युपगम्य नञः पर्युदासवृत्तिराश्रयणीया , तेनादीक्षितो यावज्जीवमग्निहोत्रं जुहोतीत्यग्निहोत्रादिवाक्यानामर्थः संपद्यत इति। तदेव चाधिकरणं प्रदेशान्तरस्थवाक्यस्य प्रदेशान्तरस्थवाक्यशेषतायां प्रसाधनीयत्वेन प्रस्तुतायां दृष्टान्तत्वेनोदाहर्तुं युक्तं न पर्युदासाधिकरणमिति – चेत् , उच्यते ; नदीक्षितवाक्ये प्रतिषेधाश्रयणे वस्तुतो विकल्पो न प्रसज्यते ; होमनिषेधः क्रत्वर्थो होमः पुरुषार्थ इति विधिनिषेधयोर्विषयभेदात् । उभयोरपि क्रत्वर्थत्वेन विषयैक्ये हि षोडशिग्रहणाग्रहणरीत्या तयोरन्यतरस्य यस्य कस्यचित्परिग्रहेऽपि क्रतोः साद्गुण्याद्विकल्पो भवेत् , इह तु होमनिषेध एव क्रत्वर्थ इति होमपक्षे क्रतोर्वैगुण्याद्विकल्पस्य न प्रसक्तिः । कृत्वा चिन्तया तु तत् सूत्रं प्रवृत्तम् । यदि प्रतिषेधाश्रयणे विकल्पः प्रसज्यते , तदा नदीक्षितवाक्यस्याग्निहोत्रादिवाक्यशेषत्वमङ्गीकृत्यापि सुपरिहरणीयम् । किंचित्प्रकरणाम्नातस्यैकस्य शब्दस्य प्रदेशान्तरआम्नातानेकवाक्यशेषभावादपि पापीयान् विकल्प इति न्यायं व्युत्पादयितुम् । अतः पर्युदासाधिकरणपूर्वपक्षे एव वस्तुतो विकल्पप्राप्तिरिति तदधिकरणसिद्धान्तसूत्रमेवात्र पठितव्यमित्याशयेन टीकाकारैर्भाष्यमन्यथा कृतम् । आचार्यैश्च तदनुमोदितम् । भाष्यकाराणां त्वयमाशयः – प्रतिषेधपक्षे विकल्पो भवत्येव । अग्निहोत्राद्यनुष्ठाने सोमयागवैकल्यं तदननुष्ठाने यावज्जीवाग्निहोत्रसंकल्पवैकल्यमित्यन्यतरवैकल्याभ्युपगमेनाग्निहोत्रज्योतिष्टोमानुष्ठानस्य तयोर्विकल्पं विना गत्यन्तराभावात् । किंच चोदकप्राप्तक्रत्वर्थहोमप्रतिषेधे पर्युदासाधिकरणपूर्वपक्षन्यायेन प्रत्यक्षशिष्टहोमप्रतिषेधे च चतुर्विंशन्मन्त्रतत्प्रतिषेधन्यायेनानिवार्यो विकल्पः । यदि च विकल्पप्रसक्त्यभावेऽपि प्रदेशान्तरस्थवाक्यशेषभावेन तदन्वयादपि विकल्पः पापीयानिति न्यायव्युत्पादनार्थं नदीक्षिताधिकरणं स्यात् , तदा सुतरां तदधिकरणसूत्रोदाहरणं प्रकृतोपयोगि ; प्रदेशान्तरस्थानां कुशाछन्दःस्तुत्युपगानविशेषवाक्यानां हानोपादानोभयविषयवाक्यस्य च प्रदेशान्तरस्थवाक्यशेषभाव एव युक्तो न विकल्प इत्युपपादयितुं खलूदाहरणमन्विष्यत इति। ननु "न तौ पशौ करोती"त्यर्थवाद इति टीकोक्तमयुक्तम् ; पूर्वमीमांसकैः खल्वपूर्वे चार्थवादः स्या (जै. भ. १० पा. ८ सू. ५) दित्यधिकरणे "न तौ पशौ करोती"ति पशावाज्यभागयोः, प्रतिषेधार्थः न तु दार्शपौर्णमासिकाज्यभागस्तुत्यर्थोऽनुवादः ; पशावाज्यभागप्रतिषेधस्याप्राप्तत्वात् , अधिकरणं तु न सोमेऽध्वर इत्येतद्विषयम् । तदित्थम् । अयं प्रतिषेधोऽर्थवादो वेति संशये सोमाङ्गेषु दीक्षणीयादिषु चोदकप्राप्तयोराज्यभागयोरयं प्रतिषेधः "तस्यैकशतं प्रयाजानूयाजा" इत्यत्र दीक्षणीयाद्यङ्गानां प्रयाजानूयाजानामिव तथाभूतयोराज्यभागयोरपि सोमसंबन्धित्वेन कीर्तनोपपत्तेरिति प्राप्ते तथा सति “न तौ पशौ करोती”त्येतद्वैयर्थं स्यात् ; न सोमेऽध्वर इत्यत एव दीक्षणीयादिवत्सोमाङ्गे अग्नीषोमीयपशौ तद्विकृतिषु सवनीयादिषु चाज्यभागप्रतिषेधलाभात् । अतस्तौ न पशावित्यस्यायं प्रतिवस्तूपमाविधया दृष्टान्तसमर्पणेन स्तुत्यर्थोऽर्थवाद इति।
तस्मादयुक्तं "न तौ पशावि"त्यस्य टीकोक्तमर्थवादत्वमित्याशङ्क्याह –
तथा क्वचित्पशुप्रकरणेऽपीति ।
अयमाशयः – न तौ पशौ करोतीति पशुप्रकरणेऽपि किंचिद्वाक्यं टीकाकारैर्दृष्टमस्ति , तस्याज्यभागवर्ज्यं प्रकृतिवत्कुर्यादिति पर्युदासकृत्त्या प्रकृतिवच्छब्दशेषत्वेनान्वये सति तल्लब्धस्य पशावाज्यभागाभावस्यानुवादो न तौ पशाविति न सोमे इति सोमे नित्यप्राप्तस्य तदभावस्यानुवादः ।
उभयमपि विधेयाज्यभागस्तुत्यर्थमिति ।
एवं च प्रतिषेधपक्षे पशावाज्यभागयोर्विकल्पः , पर्युदासपक्षे नित्यमेव वर्जनमिति विशेषः । यद्यपि दर्शपूर्णमासप्रकरणाम्नातस्यैव "न तौ पशा"वित्यस्य प्रकरणादुत्कृष्टस्य पर्युदासवृत्त्या पाशुकप्रकृतिवच्छब्दशेषत्वं वक्तुं शक्यम् , प्राभाकरैरपि पर्युदासपक्षं समर्थयमानैस्तथैवोक्तम् ; तथापि टीकोक्तमनुवादत्वं पशुप्रकरणे तथाभूतं वाक्यं विना न निर्वहतीति तत्सद्भावोङ्गीकृतः ॥
अवधूतेति ।
लोके त्यक्तसकलकर्माणमवधूतमाहुः । तत्र धूननस्य त्यागार्थत्वं प्रसिद्धमित्यर्थः । यद्यप्यवधूतशब्दस्योक्तार्थपरतायामवधूतकर्मेति प्रयोक्तव्यम् ; तथापि विभक्तधनेषु भ्रातृषु विभक्ता भ्रातर इतिवद्गम्यमानत्वादुत्तरपदस्याप्रयोगः । धातूनां निर्दिष्टार्थव्यतिरेकेणाप्यर्थान्तरसद्भावे शाब्दिका ज्ञापकमाहुः । धातुपाठे कुर्द खुर्द गुर्द गुद क्रीडायामेवेत्येवकारः पठ्यते , स धात्वन्तराणां धातुपाठे निर्दिष्टादर्थान्तरमप्यस्तीति ज्ञापयति ; अन्यथाऽर्थनिर्देशादेव क्रीडामात्रार्थत्वसिद्धेरेवकारवैयर्थ्यादिति ॥२६॥
इति पञ्चदशं हान्यधिकरणम् ॥
सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥२७॥ टीकायां –
सुकृतदुष्कृतक्षयस्त्विति ।
न च वाच्यं पर्यङ्कविद्यायामर्चिरादिपथं प्राप्तस्य मध्ये चन्द्रेण सह संवादोक्तेः संवादस्य शरीरसाध्यत्वात्तदर्थं कर्मापेक्षास्तीति ; विद्यासामर्थ्यादेव मार्गेऽपि शरीरलाभोपपत्तेः । अवश्यं हि विद्यायाः दिव्यशरीरोत्पादनेऽपि सामर्थ्यं वक्तव्यम् । अन्यथा पर्यङ्कविद्यायामेव देवयानेन पथा ब्रह्मलोकं प्राप्तस्य पर्यङ्कस्थेन ब्रह्मणा सह संवादोक्तेः का गतिः ? ॥२७॥२८॥
इति षोडशं सांपरायाधिकरणम् ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥२९॥
एनसः पापात् परीति ।
अपपरी वर्जने इति वर्जनार्थोऽत्र परिशब्दः पञ्चम्यपाङ्परिभिरिति तद्योगे पञ्चमी । स्वकृतमन्यकृतं चास्मदनुभाव्यफलमेनो वर्जयित्वा विनाश्य परिपालयतेति योजना ।
पिपृतेति ।
पॄ पालनपूरणयोरिति धातुः । “यदेनश्चकृमा वयं यद्वाऽन्यकृतमारिम अनया समिधा वयं सर्वं तदपमृन्महे” इति सामवेदमन्त्रे "इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः तेनो मुञ्चन्त्वेनसो यदन्यकृतमारिमेति" यजुर्वेदमन्त्रे चान्यकृतपापस्यान्यत्र सङ्क्रमणं स्पष्टमेव श्रूयते । एवमनेकश्रुतिप्रतिपन्नेऽर्थे शङ्कानुत्थानान्न तद्व्यावर्तनार्थत्वेन सूत्रं योजनीयमित्यपि द्रष्टव्यम् ॥२९॥३०॥
इति सप्तदशं गतेरर्थवत्त्वाधिकरणम् ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३१॥
उभयत्रापीति ।
नारिष्टहोमानामप्यङ्गप्रधानार्थैर्बर्हिराज्यादिधर्मैः कतिपयधर्मवत्त्वमस्तीति भावः ।
श्रुत्यादयो हि द्विप्रकारा इति ।
ननु – इदं विशेषकथनमनुपपन्नम् ; व्रीहिश्रुतेर्निरुप्ताऽनिरुप्तव्रीहिष्विवैन्द्रीश्रुतेरुपास्तिप्रकरणाम्नाताऽनाम्नातानेकैन्द्रीषु साधारण्यात् । प्रकृतानुपयुक्तं चेदं प्रकारद्वयकथनम् । न चैवमिति यत्रापीति च टीकाग्रन्थयोः प्रकरणाम्नाताऽनाम्नातश्रुत्यादिविषयत्वस्यैव स्पष्टं प्रतीयमानतया तयोः सामान्यविशेषविषयश्रुत्यादिविषयत्वाप्रतीतेः । उच्यते – इन्द्रो देवता अस्या इति विग्रहवाक्यसमानार्थत्वादैन्द्रीश्रुतेर्विग्रहवाक्यस्थस्य च सर्वनाम्नः "कदाचन स्तरीरसी"ति प्रकृतैन्द्रीविषयत्वादैन्द्रीश्रुतेर्विशेषविषयत्वमुक्तम् । यत्रापीति टीकाग्रन्थस्य प्रकरणाभावे श्रुत्यादिकृतविनियोगनिर्वाहाय प्रकरणं कल्पनीयमित्येतदर्थपरत्वं न युक्तम् ; न हि "यदाहवनीये जुहोती"त्यनारभ्याधीतश्रौतविनियोगे "यस्य पर्णमयी जुहूर्भवती"त्यनारभ्याधीतवाक्यविनियोगे च श्रुतिवाक्याभ्यां प्रकरणकल्पनमिष्यते । तथा सति श्रुत्यादिषूत्तरोत्तरमेव पूर्वपूर्वकल्पनामपेक्ष्य प्रमाणं , न तु पूर्वपूर्वमुत्तरोत्तरकल्पनामपेक्ष्येति बलाबलाधिकरणमर्यादाभङ्गापत्तेः । तस्मात् क्लृप्तकल्पनीयप्रकरणकश्रुत्यादिविषयत्वमुदाहृतटीकावाक्यद्वयस्यानुपपन्नमित्यालोच्याचार्यैर्विषयान्तरं दर्शितम् । वस्तुतस्तु – अप्रकरणाम्नातश्रुत्यादिकृतविनियोगनिर्वाहाय प्रकरणकल्पनमपि टीकोक्तमुपपादयितुं शक्यम् ; श्रुत्यादिषूत्तरोत्तरस्य स्वपरिच्छेद्यप्रमेये पूर्वपूर्वकल्पनापेक्षा हि बलाबलाधिकरणदौर्बल्यहेतुत्वेन दर्शिता , साऽत्र नोच्यते , किंत्वनारभ्याधीतश्रुत्यादिकृतविशेषविनियोगनिर्वाहायाऽपूर्वैदमर्थ्यरूपसामान्यविनियोगहेतुत्वाकाङ्क्षालक्षण प्रकरणकल्पनमुच्यते । न च प्रमेयभेदेनान्यापेक्षामात्रं स्वप्रमेयपरिच्छेदार्थां श्रुत्यादिप्रवृत्तिं निरुन्धे , येन प्रकरणादिह श्रुत्यादीनां बलाबलाधिकरणोक्तदौर्बल्यमापतेदिति।
प्रकरणस्य वाक्याद्बाधमाशङ्क्याहेति ।
यद्यपि वाक्यस्यापि स्वप्रमेयविशेषविनियोगनिर्वाहाय सामान्यविनियोगहेतुप्रकरणापेक्षणमनुपदमेवोक्तमिति वाक्येन स्वापेक्षितप्रकरणबाधनमशक्यशङ्कम् ; तथापि यथाकथंचित्प्रकरणबाधकत्वेन शङ्कनीयं वाक्यमप्यत्र नास्तीति दर्शयितुं शङ्कोत्थापनमिति द्रष्टव्यम् । सिद्धान्ते प्रकरणस्य वाक्याविरोधिन एव वाक्येन सामान्यसबन्धनिर्वाहायान्वेषणं , न तु विरोधिनोऽपीति यदुक्तम् , इदं सर्वासां विद्यानां गत्यपेक्षालक्षणलिङ्गस्यापि समानम् । लिङ्गमपि हि स्वविरोधिप्रकरणं नानुरुन्धे ; दर्शपूर्णमासप्रकरणादिभ्यः पूषाद्यनुमन्त्रणमन्त्राणां पूषदेवताकयागादिषूत्कर्षाभ्युपगमात् । ननु – विद्याद्वये गत्याम्नानमनुचिन्तनार्थमित्येतदयुक्तम् ; सर्वास्वपि विद्यासु गतिरनुचिन्तनीया , तत्क्रतुन्यायाद्गतेरप्यान्तरालिकविद्याफलत्वात् , "एतमितः प्रेत्याभिसंभवितास्मी"ति शाण्डिल्यविद्यायां ब्रह्मप्राप्तिवद्गतेरप्यनुचिन्तनीयकोटौ निवेशनात् । तत्र हि प्रेत्येति प्रकर्षेण गमनं दूराध्वगमनमुच्यते , तत्तु देवयानमार्गगमनमेव भवति।
सूत्रकारेणापि चतुर्थाध्याये गत्यनुचिन्तनस्य सकलविद्यासाधारण्यमुक्तम् –
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्चेति ।
गतिचिन्तनस्य सर्वब्रह्मविद्यासाधारण्येऽपि पञ्चाग्निविद्यायां ब्रह्मविषयायां प्राप्त्यर्थत्वेन तद्य इत्थं विदुरिति वचनं सफलम् । उपकोसलविद्यायाम् "अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदु चने"त्यारभ्यार्चिरादिमार्गकथनम् अक्षिपुरुषोपासकस्य पुत्रैर्दहनकर्मणोऽकृतत्वेऽपि त्वरितमेवार्चिरादिगतिप्राप्तिरस्ति न विद्यान्तरशीलिनामिव तत्प्राप्तौ विलम्बोऽस्तीति विशेषप्रदर्शनार्थत्वेन सफलम् । "एतेन प्रतिपद्यमाना इमं मानवं नावर्तन्त" इत्यनावृत्तिफलरूपविशेषप्रदर्शनेनापि सफलम् ।
तस्मादुभयत्राम्नातमनुचिन्तनार्थमित्येतत्कथमुपपादनीयमिति –
चेत् , इत्थम् ; यत् प्राप्त्यर्थमाम्नानं यच्च विशेषप्रदर्शनार्थं तदनुचिन्तनार्थमपि भवति ।
अनुचिन्तनमेव हि साक्षाद्विद्याशेषः तद्विषयभूता गतिः क्काचित्कस्तदीयो विशेषश्चानुचिन्तननिर्वाहार्थत्वेन कथितोऽतः प्राधान्यादनुचिन्तनं फलत्वेनोक्तमिति न कश्चिद्दोषः ॥३१॥
इत्यष्टादशमनियमाधिकरणम् ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३२॥
ऐश्वर्यफलकत्वमिति ।
निर्गुणविद्यायाः परममुक्तिफलकत्वासंभवे निर्गुणविद्यावाक्यशेषाम्नातं "स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वे"त्यादिसगुणविद्याफलकीर्तनं निर्गुणविद्याफलमेवाभ्युपेतं स्यादिति भावः ॥३२॥
इत्येकोनविंशं यावदधिकाराधिकरणम् ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥
वारवन्तादिपदवन्तीति ।
अश्वं नत्वा वारवन्तमिति वारवन्तपदवत्यामृचि गीतं साम वारवन्तीयम् । यज्ञायज्ञा वो अग्नय इति यज्ञायज्ञापदवत्यामृचि गीतं साम यज्ञायज्ञीयम् । वामदेव्यं तु वामदेवेन दृष्टं साम । वारवन्तादिपदवन्तीति बहुवचनं छत्रिन्यायेन योज्यम् ।
उत्पत्त्यादिषु मध्यइति ।
यद्यपि सर्वेषां विधीनामुत्पत्तिविनियोगप्रयोगाधिकारशक्तिरस्ति ; तथापि लाघवार्थं विधयो विध्यन्तरप्राप्यांशं विहायाप्राप्तांशमात्रे विश्राम्यन्ति , यथा दर्शपूर्णमासयो"र्यदाग्नेयोऽष्टाकपाल" इत्यादय उत्पत्तिविधयः 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यधिकारविधिः । स एवाङ्गवाक्यैरेकवाक्यतापन्नो विनियोगविधिः । “पौर्णमास्यां पूर्णमास्या यजेत अमावास्यायाममावास्यया यजेते”ति प्रयोगविधिः । विध्यन्तराभावे त्वेकस्यैव विधेश्चातूरूप्यम् । यथा "ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम" इति ॥३३॥
इति विंशमक्षरध्यधिकरणम् ॥
इयदामननात् ॥३४॥
अत्र गुहाधिकरणेन पौनरुक्त्यमाशङ्क्य तत्रोक्ता पिबच्छब्दस्य लक्षणा न युक्ता ; मुख्यार्थसंभवात् । न च प्रकरणेन वाक्यशेषेण वा लक्षणा ; ताभ्यां बलीयसो वाक्यस्य बाधायोगादित्यधिकाशङ्कामुद्भाव्य न केवलं प्रकरणेन वाक्यस्य बाघ उच्यते , किंतूपक्रमोपसंहारैकरूप्यावगमितमहावाक्यविरोधेनावान्तरवाक्यस्य बाध उच्यत इति परिहारव्युत्पादनार्थत्वेनाधिकरणस्य साफल्यमुक्तमिति प्रतीयते । तत्रोपक्रमोपसंहारानुसारेण मध्यमवाक्यं नेयमित्येतदपि प्रतर्दनाधिकरणादिषु बहुशः क्षुण्णम् । तस्मादित्थमधिकरणस्य साफल्यं वक्तव्यम् । मन्त्रयोरौत्पत्तिकद्वित्वविशिष्टमाध्यात्मिकं वस्तुद्वयं तावत्प्रतिपाद्यं , तच्चोभयत्राप्यभिन्नमिति प्रतीयते । तुल्याभिधानरूपसमाख्याप्रमाणवशादिति टीकोक्तन्यायव्युत्पादनार्थमिदमधिकरणम् । न च समाख्यायाः किंचिद्बाधकमस्ति , प्रत्युतानुग्राहकमेवास्तीति बाधकाभावं व्यतिरेकमुखेन व्यवस्थापयितुमुपक्रमोपसंहारप्रदर्शनमिति ॥३४॥
इत्येकविंशमियदधिकरणम् ॥
अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥
युवेति ।
"अपत्यं पौत्रप्रभृति गोत्रं" "जीवति तु वंश्ये युवे"ति पाणिनीयोक्तलक्षणं युवापत्यमित्यर्थः ।
अपरोक्षादिति ।
व्यत्ययो बहुलमिति छान्दसेन विभक्तिव्यत्ययेन प्रथमार्थे पञ्चमी ।
अभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्चेति ।
ननु द्वावत्र पूर्वपक्षौ । उभयत्र वेद्यभेद इत्येकः । वेद्याभेदेऽप्यभ्यासाद्विद्याभेद इति द्वितीयः । तत्राद्यनिराकरणएव सर्वान्तरत्वप्रत्यभिज्ञायुक्तिः , न द्वितीयनिराकरणे ; सर्वान्तरत्वप्रत्यभिज्ञानस्याविशेषपुनःश्रवणरूपाभ्यासोपपादकतया द्वितीयपक्ष एवोपपादकत्वस्याचार्यैरग्रे वक्ष्यमाणत्वात् । तस्य तु निराकरणम् अभ्यासासिद्ध्यन्यथासिद्धिभ्यां करिष्यते । सत्यम् ; प्रथमपूर्वपक्षनिराकरणयुक्तिरेवात्र सिद्धान्तकोट्युपपादकयुक्तित्वेन लिखिता , द्वितीयपूर्वपक्षे निराकरणयुक्तिस्तु वक्ष्यमाणा ज्ञातुं शक्येति न लिखिता ॥३५॥३६॥
इति द्वाविंशमन्तरत्वाधिकरणम् ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥
भाष्यकारैरधिकरणान्ते जाबालैरैतरेयिभिश्च प्रदर्शितस्य व्यतिहारस्य समाने विषये उपसंहारः कार्य इत्युक्तम् । तत्र समाने विषये इत्येतत्समानगुणविद्यान्तरविषयं सकलाहंग्रहोपासनापरं वा ॥३७॥
इति त्रयोविंशं व्यतिहाराधिकरणम् ॥
सैव हि सत्यादयः ॥३८॥
नन्विहाधिकरणे सत्यविद्याभेदाभेदचिन्तावत्सत्यहृदयविद्याभेदाभेदचिन्तापि कर्तुं शक्यते ; सत्यविद्यायां "जयतीमान् लोकानि"ति फलनिर्देश: , हृदयविद्यायां "एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत् त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद इत्येकमक्षरं द इत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेदे'ति फलनिर्देशभेदः पूर्वपक्षन्यायस्तुल्यः । तच्छब्दद्वयेन प्रकृतहृदयब्रह्मस्वरूपप्रकारपरामर्शेन तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यरूपतोच्यत इति वेद्याभेदान्न विद्याभेदः । फलनिर्देशभेदस्त्वसिद्धः ; "जयतीमान् लोकानि"ति प्रधानब्रह्मोपासनायाः फलवत्त्वे सिद्धे तदङ्गहृदयानामक्षरोपासनाफलनिर्देशस्यार्थवादत्वात् , प्रधानेऽप्येवं कामपदेन फलनिर्देशाभावात् । सत्रन्यायेन फलविपरिणामे कल्पनीये प्रधाने तदवयवे यत्किञ्चित्फलं श्रुतं सर्वस्यापि जातेष्टिफलन्यायेन समुच्चयकल्पनोपपत्तेश्चेति सिद्धान्तन्यायोऽपि तुल्यः । "अथ एष प्रजापतिर्यद्धृदयमि"त्यारभ्य "तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेदे"त्यन्तेन संदर्भेण विधीयमानैकैव विद्येत्येवमधिकरणव्युत्पाद्येऽर्थे वक्तव्ये किमिति "स यो ह वैतदि"ति मध्ये गृहीत्वा भेदाभेदचिन्ता ? उच्यते । एकदेशे कृता चिन्ता तुल्यन्यायतयैकदेशान्तरेऽपि संचारयितुं शक्येति क्वचिदियं चिन्ता कृता ॥३८॥
इति चतुर्विंशं सत्याधिकरणम् ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥३९॥
तस्य न स्थानतोऽपीति ।
उपलक्षणमेतत् – इहाप्यधिकरणे भाष्यकारैर्बृहदारण्यकोक्ता निर्गुणविद्या तत्पूर्वोत्तरसन्दर्भोदाहरणेन छान्दोग्यवर्णिता सगुणविद्येत्येतांश्च सत्यान् कामानिति तत्रत्यवाक्योदाहरणेन च स्पष्टीकृतम् । एतांश्च सत्यान् कामानित्येतदुदाहरणेनापि बृहदारण्यकोक्ता विद्या निर्गुणविद्येति व्यञ्जितम् । कथमिति चेत् ? इत्थम् , विद्यान्तरेषूपास्यगुणानामुपदेशमात्रं कृतं तावतैव गुणविशिष्टोपासना सिद्ध्यतीति इह तु गुणानामप्युपासना विधीयते , तत्किमर्थं ? बृहदारण्यके उपसंहृता एते निर्गुणप्रकरणानुसारेणानुपास्यास्तथेहाप्यनुपास्या मा भूवन्नित्येतदर्थमित्येव कल्पनीयम् ; प्रयोजनान्तराभावात् , कामशब्दसंगृहीतगुणजातव्यतिरिक्ताद्यावापृथिव्यादिसमानाधारत्वप्रमुखगुणानामनुपास्यतायाः प्रयोजकत्वकल्पने परिसंख्यार्थत्वप्रसङ्गात् । गुणानां पृथगुपासनासिद्ध्यर्थत्वं स्यादिति चेत् , न तावद्धर्मिणं विना उपासना पृथगुपासना ; श्रुतौ सत्यकामादिशब्दानां धर्मिपर्यन्तत्वेन गुणोपासनाविधानेऽपि गुणविशिष्टधर्म्युपासनाप्राप्तेः । नापि धर्मिविशेषणतयैव गुणानां क्रमेणोपासना पृथगुपासना ; शाण्डिल्यविद्यादिषु मनोमयादिगुणानामपि तथैवोपासनेति ततो विशेषाभावात् । नापि गुणविशेष्यकोपासना पृथगुपासना ; तस्यापि विवक्षितत्वे "अस्मिन् कामाः समाहिता" इति गुणविशेष्यकोपदेशतस्तल्लाभात् । तस्मादस्मदुक्तमेव तत्प्रयोजनमिति युक्तम् । तन्मुखेन च भाष्यकारैर्वाजसनेयोक्तविद्याया निर्गुणविद्यात्वं व्यञ्जितम् । ननु – छान्दोग्यवाजसनेयकोक्तविद्ययोः सगुणनिर्गुणविषयतया भेदेऽप्यायतनत्वादिसाम्यमात्रेण परस्परगुणोपसंहारे समाख्याभेदेन भिन्नयोर्दहरशाण्डिल्यविद्ययोरपि परस्परगुणोपसंहारः स्यात् ? तयोरपि हृदयायतनम् ; “एतत्सत्यं ब्रह्मपुरं मनोमयोऽयं पुरुषो भाः सत्यमि”त्युक्तं सत्यत्वम् , “अथ य आत्मा स सेतुर्विधृतिः सत्यधृति"रित्युक्ता धृतिः , “सत्यकामः सत्यसङ्कल्पो भारूपः सत्यसङ्कल्प इत्युक्तं सत्यसङ्कल्पत्वम् , “सर्वस्येशानः सर्वस्याधिपति"रित्युभयत्राप्युक्ते सर्वेश्वरत्वसर्वाधिपतित्वे चेत्येवं बहवो गुणाः समाना दृश्यन्त इति – चेत् , नात्र साक्षान्मुख्य उपासनार्थगुणोपसंहार उच्यते । किंत्वेकैकत्र श्रुतानां गुणानामन्यत्रापि सत्यकामत्वादिसामर्थ्येन हृदयायतनत्वादिसाम्येन चोपस्थितानां स्तुतिप्रकर्षमात्रप्रयोजनतोच्यते , एवमेव हि ध्येयत्वमपूर्वमित्यादिना अतोऽन्तर्भावमात्रमुपसंहार इत्यन्तेन प्राक्तनग्रन्थेनोक्तम् । अन्यत्राप्ययं न्यायो भवत्विति चेद् , भवतु नाम ; नैतावता विद्याभेदे ध्यानार्थगुणोपसंहारप्रसङ्गः ॥३९॥
इति पञ्चविंशं कामाद्यधिकरणम् ॥
आदरादलोपः ॥४०॥
पूर्वोऽतिथिभ्य इत्यादिस्तुत्युपपत्त्यर्थमिति ।
यद्यपि पूर्वोऽतिथिभ्योऽश्नीयादित्ययं विधिः , यथा वै स्वयमहुत्वेत्यादिस्तदर्थवाद एव स्तावकः ; तथाप्यर्थवादो यथा विधेये आदरावहः , एवमिह "पूर्वोऽतिथिभ्य" इति विधिरपि प्राणाग्निहोत्रे आदरावह इति साम्याद्विधिरपि स्तुतिकोटौ निवेशितः । यद्वा – "पूर्वोऽतिथिभ्योऽश्नीया"दित्ययमादिर्यस्येत्यतद्गुणसंविज्ञानबहुव्रीहिणाऽर्थवादांश एव गृहीतः ।
यदेतदक्षाभ्यञ्जनमिति ।
अक्षाभ्यञ्जनमप्येकहायनीनयनस्य प्रयोजकं चेदक्षाभ्यञ्जनात्प्राक् पदपांस्वपचारे तत्संपादनार्थं पुनरप्येकहायनीनयनं कार्यम् , अप्रयोजकं चेत्पुनस्तन्न कार्यम् । अक्षाभ्यञ्जनं तु पांस्वन्तरेणान्येन वा कार्यमिति फलभेदः ।
नन्वेकहायनीक्रयार्थानयनं क्रयाभ्यञ्जनोभयार्थमस्तु , उभयोरपि नयनसाध्यत्वाविशेषादित्याशङ्क्याह –
यदर्था च सेति ।
यदर्थद्रव्यं तत्संस्कारोऽपि द्रव्यद्वारा तदर्थ एव स्यादिति भावः ।
सप्तमपदपांसुग्रहणमित्यर्थ इति ।
एवं च टीकाकारपक्षे पदकर्मेति सूत्रपदेन पदपांसुग्रहणं विवक्षितं , तद्विषयः प्रयोजकत्वाप्रयोजकत्वविचार इति प्रथमं शिलायां सप्तमपदनिधाने पदपांसुग्रहणार्थं पुनरप्येकहायनीनयनं पूर्वपक्षे कार्यं सिद्धान्ते नेति फलभेदः । पक्षद्वयेऽपि पूर्वपक्षसिद्धान्तन्यायौ समानौ । वस्तुतः – पांसुग्रहणमक्षाभ्यञ्जनं चेत्युभयमप्यधिकरणस्योदाहरणम् । एकस्मिन्नुदाहृते न्यायसाम्यादन्यदप्युदाहरणमुपगन्तुं शक्यमित्यभिप्रेत्य टीकाकारैः प्रथमातिक्रमे कारणं नास्तीति पांसुग्रहणमुदाहृतम् । आचार्यैस्त्वक्षाञ्जनमप्युदाहरणमिति स्पष्टीकर्तुं तदुदाहृतम् । तस्यैकहायनीनयनसाध्यतायाः पांसुग्रहणद्वारकतया तस्यैकहायनीनयनप्रयोजकत्वसमर्थनेनैव पांसुग्रहणस्यापि तत्प्रयोजकत्वसामर्थ्यात्समर्थितं भवतीति तन्नोदाहृतम् ।
प्रागुच्यमानमशनमप्यग्निहोत्रमेवेति ।
अत एवाधिकरणारम्भे पादसङ्गतिः । टीकायां प्राणाग्निहोत्रमेव पूर्वभोजनशब्देनोक्तम् ।
स्वामिभोजनमित्यध्याहार इति ।
यदतिथिभोजनोत्तरकालं विहितं स्वामिभोजनं समयादपकृष्येत्यत्र विद्यमानं स्वामिभोजनपदम् अपकर्षकर्मसमर्थकतया द्वितीयान्तमित्यभिप्रेत्य विहितमित्यस्यान्वयार्थं प्रथमान्तस्य स्वामिभोजनपदान्तरस्याध्याहार उक्तः । वस्तुतस्तु – तदेव पदं प्रथमान्तं वक्तुं शक्यम् । अपकृष्य विहितमित्यत्र विधानरूपप्रधानक्रियाकर्मणोऽभिहितत्वमात्रेणाश्रुतपदस्य प्रथमान्तत्वोपपत्तेः , अयं ब्राह्मणस्ततोऽपकृष्यात्र नीत इत्यादिप्रयोगदर्शनात् । अतो नाध्याहारापेक्षा ।
उपसदादिधर्मइति ।
उपसद आदयो यस्याग्निहोत्रस्य तदुपसदादि । भावप्रधानो निर्देशः । तथा चोपसदादित्वधर्मः उपसदानन्तर्यधर्म इत्यर्थः ।
देवतान्तरावरुद्धत्वादिति ।
आग्नेयमष्टाकपालमग्नीषोमीयमेकादशकपालमित्यादिविधिभिः कृत्स्नस्य पुरोडाशस्य देवतान्तरार्थत्वावगमादित्यर्थः । न च - द्व्यवदानमात्रस्याग्नौ प्रक्षेपात्तावदेवाग्न्याद्यर्थमिति – शङ्कनीयम् ; उत्पत्तिवाक्यानुसारात् । कृत्स्नेन पुरोडाशेनाग्न्यादियागः , प्रक्षेपमात्रं व्यवदानस्य ; तेन द्व्यवदानप्रक्षेपकाले कृत्स्नः पुरोडाशोऽग्न्यादिदेवतायै मनसा त्यक्तव्य इति सर्वप्रदानाधिकरणे वार्तिककारैः स्थापितत्वात् । प्राणिमात्रस्य वराहमेषहरिणादेः ।
उक्तं च वार्तिकेऽपि जाघन्यधिकरणे –
"नावश्यमिति यच्छागादेव ग्रहीतव्या जाघनी ; जाघनीनामकावयवमात्रश्रवणादि”ति ।
अनित्यानां च प्रारब्धानामिति ।
प्रारब्धकाम्यकर्मणामित्यर्थः ।
अविशिष्टत्वेन प्रत्यभिज्ञानादिति ।
प्रतिनिधिद्रव्येषु नीवारादिषु मुख्यव्रीह्यादिद्रव्यावयवानुप्रवेशप्रयुक्तसादृश्यमूलात्प्रत्यभिज्ञानादित्यर्थः ।
नाग्निहोत्रहवणीति ।
यद्यप्यग्निहोत्रं यया होष्यते साप्यग्निहोत्रहवणीति वक्तुं शक्या , ल्युटो हि भूतकाले विधानाभावात् ; तथापि भाव्यर्थे प्रमाणाभावात् प्रवृत्तिनिमित्तनिर्धारणाय ययाऽग्निहोत्रं हुतं सैवाग्निहोत्रहवणी ग्राह्येति भावः ।
तद्विशिष्टत्वेन श्रुतस्येति ।
यद्यपि "चतुरो मुष्टीन्निर्वपती"ति संख्यामुष्टिविशिष्टे निर्वापे विहिते अग्निहोत्रहवण्येति वाक्यान्तरेण तत्साधनमात्रं विधीयेत ; तथापि तस्मिन्वाक्ये साधनविशेषविशिष्टत्वप्रतीतिरस्तीति तद्विशिष्टत्वश्रवणमुक्तम् ।
पश्चात्प्राप्नोतीति ।
यद्यप्यखण्डोपकारमुखेन सकलपदार्थानां युगपदेव प्रापकश्चोदकः , न तु चोदकस्य प्रतिपदार्थं पृथग्व्यापारोऽस्ति , न वा प्रतिपदार्थं चोदकभेदोऽस्ति ; तथापि प्रकृतिवच्छब्देन युगपत्प्राप्तेष्वपि पदार्थेष्वनुष्ठानकाले तत्तदवान्तरोपकारापेक्षाक्रमेण तत्तदुपकारजनकपदार्थानुष्ठानापेक्षितबुद्धिक्रमोऽस्तीत्येतदवलम्ब्य प्राप्तिपौर्वापर्यमुक्तम् ।
अर्थवादगतस्त्विति ।
सोमो वै वाजिनमित्यर्थवादे सोमे वाजिनशब्दवत् "एष वै दर्शपूर्णमासयोरवभृथ" इति अर्थवादे अपां व्युत्सेके अवभृथशब्दवच्च सिद्धसादृश्यमात्रपर इत्यर्थः ।
परिमाणविशेषवानिति ।
गुञ्जाबीजपरिमाणं परिमाणविशेषः ।
अवघातादय इति ।
आदिशब्देन निष्फलीकरणग्रहणम् ।
ननु वितुषीभावादिलक्षणद्वाराभावे बाध एव युक्त इति कथं पूर्वपक्ष: ? इत्यत्राह –
अचराविति ।
अनवस्रावितान्तर ऊष्मपक्वौदनविशेषवाची चरुशब्द इति दशमे निर्णीतम् । तथा चाचरौ चरुशब्दोऽयं चरुधर्माणाम् अवघातादीनामतिदेशकः स्यादित्यर्थः ।
सत्यां गतौ विधौ गौणत्वायोगादिति ।
अग्निहोत्रशब्दस्तु द्रव्यदेवतापेक्षावशाद्विधिगतो गौणोऽभ्युपगतः । न चेहावघाताद्यपेक्षास्तीति वैषम्यमिति भावः ।
गत्यभावादिति ।
द्वारलोपात् श्रपणवद्विशेषविध्यभावाच्चेति भावः ।
नन्वतिथिभोजनोत्तरकालमित्यादिशङ्कायाः पूर्वपक्षोपयोगं दर्शयति –
ननु स्वामिभोजनस्येति ।
अतः प्राणाग्निहोत्रस्यैवेति ।
तथाचादरलिङ्गस्य न परिहारसिद्धिरिवि भावः ॥४१॥
इति षड्विंशमादराधिकरणम्॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥४२॥
रात्रिसत्राणामगत्या विपरिणाम आश्रित इति ।
ननु – विपरिणामानाश्रयणे अर्थवादमात्रता स्यात् , सा च फलविपरिणामाश्रयणात् जघन्येत्यनुपदमेव टीकाकारो वक्ष्यति , अर्थवादमात्रत्वेऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्व इति , आचार्या अपि तत्तथैवानुमोदिष्यन्ते , अतः पूर्वापरविरोध इति – चेत् , उच्यते ; अर्थवादभावात् फलविपरिणाम एव जघन्यः । तत्र हि ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति यत्तदोर्व्यत्यासः सनर्थान्तर्भावश्चेति बह्वी क्लिष्टकल्पना , उदाहृतटीकावाक्यं तु प्रकृतोद्गीथोपासनाद्यभिप्रायम् । तासां क्रत्वर्थत्वपक्षे हि पर्णतावाक्य इवाव्यभिचरितलिङ्गोपस्थापितक्रतुलक्षणां विधावङ्गीकृत्य वाक्यशेषस्य प्राशस्त्यलक्षणाप्यङ्गीकर्तव्या , ततो वरं वाक्यशेषमात्रस्य फलविपरिणामकल्पनेति। अत एव यत्र प्रकरणात् क्रतुसंबन्धसिद्धिः , क्रतूपस्थित्यर्थं विधौ लक्षणा न वक्तव्या तत्र वर्मकरणादिवाक्यशेषे टीकायामप्यर्थवादतैवाङ्गीकृतेति न कश्चिद्विरोधः ।
क्रतूपकारस्य सिद्धत्वादिति ।
प्रयाजाञ्जनयोः प्रकरणात् क्रतूपकारसिद्धिः , पर्णतायास्तु फलकल्पनापक्षेऽपि क्रतूपस्थित्यवश्यंभावात् ।
सा सप्तम्यर्थेति ।
नन्वादित्यादिमतय इत्याद्यधिकरणे द्वितीया सप्तम्यर्थेति न वक्ष्यते , किंतु कर्मार्थैव , सप्तमी तु तृतीयार्था । तेन लोकशब्दस्य लोकदृष्टिपरत्वमङ्गीकृत्य लोकदृष्ट्या सामोपासीतेत्यर्थ इति वक्ष्यते । सत्यम् । इह सप्तम्यर्थेति वक्ष्यत इत्यस्यायमर्थः । सामदृष्ट्या लोकानुपासीतेति तदधिकरणपूर्वपक्षे लोकेष्विति सप्तम्या योऽर्थः अनीप्सितकर्मत्वं लोकानामन्यत्रापि नियुक्तानाम् असंस्कार्यतयेप्सितकर्मत्वायोगात् तदेव तत्सिद्धान्ते सामेति द्वितीयाया अर्थ इति वक्ष्यत इति। यद्यपि कर्मार्थापरित्यागमात्रं वक्ष्यते , न तु कर्मणोऽनीप्सितत्वम् ; तथाप्युपासनायाः कर्मार्थत्वासंभवाद् अर्थादनीप्सितत्वे पर्यवसानं भवति , कर्मणामुपासनार्थतायां हि दृष्टार्थता लभ्यते ; निरालम्बनोपासनानुपपत्तेरालम्बनस्य तदपेक्षितत्वात् । उपासनायाः कर्मार्थत्वेऽदृष्टार्थता स्याद् ; उपासनेनोद्गीथादिषूत्पत्तिप्राप्तिविकृतीनामसंभवेनादृष्टसंस्कारस्यैव वक्तव्यत्वात् । दृष्टादृष्टफलपर्यवसाय्यन्वयद्वयसंभवे च दृष्टफलपर्यवसाय्येवान्वयो ग्राह्यः । अत एव "खलेवाली यूपो भवती"त्यस्य यः खादिरादिः प्रकृतितः प्राप्तो यूपः तस्य खलेवाल्याकृतिपरतायां त्वदृष्टार्थता स्यादिति विधेर्दृष्टार्थत्वलिप्सया खलेवाल्या यूपकार्ये विधिराश्रितः । ननु तेनोङ्कारेणोभावपि कुरुत इत्यादिना आप्त्यादिगुणकविज्ञानस्य षोडशिग्रहणवदनियताङ्गत्वमङ्गीकृत्य तद्विज्ञानाविज्ञानयोः फलाभेदं पूर्वपक्षयित्वा षोडशिग्रहणपक्षे इवाङ्गभूयस्त्वात् फलभूयस्त्वेन न्यायसिद्धेन सिद्धान्तः क्रियत इति तेनोभौ कुरुत इत्यादिश्रुतिर्व्याख्याता । इदं व्याख्यानं विद्ययेति तृतीयाश्रुत्या विज्ञानस्य कर्माङ्गत्वप्रतीतेः , वीर्यवत्तरमिति तरपा विज्ञानपक्षे फलभूयस्त्वप्रतीतेश्च श्रुतिस्वारस्यानुसार्यपि प्रकृताधिकरणार्थविरुद्धम् । उच्यते ; श्रुतौ वीर्यशब्देन फलं नोच्यते । वीर्यं हि लोके कार्यानुकूलं बलमिति प्रसिद्धं , न तु कार्यमेव । बलवत्तरत्वं च कर्मणः स्वफलजननप्रतिबन्धकापेक्षया वक्तव्यम् ; अन्यस्य प्रकृतानुपयोगात् । अतः स्वफलदानोन्मुखेन विरोधिकर्मान्तरेणाप्रतिबन्धरूपं फलान्तरवत्त्वं वीर्यवत्तरत्वमित्यौचित्यादवसीयते । एवं च विद्ययेति तृतीयाश्रुतिः फलान्तरार्थस्य विज्ञानस्य मुख्यं कर्मशेषत्वं न प्रतिपादयति , किंतु कर्मभिरविलम्बेन फले जननीये तदुपकारकत्वरूपं मुख्यमेव शेषत्वमिति न श्रुतेरङ्गभूयस्त्वात् फलभूयस्त्वमित्यस्मिन्नर्थे स्वारस्यं , किंतु पृथग्ध्यप्रतिबन्धः फलमिति सूत्रोक्त एवार्थे । तस्मादङ्गाधिक्यात्फलाधिक्यमित्याचार्यवचनम् अप्रतिबन्धोपकारजनकसाहित्यात् फलस्याविलम्बलक्षणम् इत्येतत्परतया व्याख्येयम् ॥४२॥
इति सप्तविंशं तन्निर्धारणाधिकरणम् ॥
प्रदानवदेव तदुक्तम् ॥४३॥ ननु वायुप्राणयोस्तत्त्वाभेदेऽप्यवस्थाभेदाद् भेदो "न वायुक्रिये पृथगुपदेशा"दित्यधिकरणे निर्णीतः , ततः प्रयोगभेद उपपन्न इत्याशङ्क्य हेत्वन्तरमाह –
तत्प्राप्तिलक्षणेति ।
ननु – वाजसनेयके अध्यात्मप्राणश्रैष्ठ्यानुचिन्तनस्य "तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवतीति य एवं वेदेति" फलमुक्त्वा अथाधिदेवतमित्युपक्रान्तस्य वायुश्रैष्ठ्यानुचिन्तनस्य "तेन एतस्यै देवतायै सायुज्यं सलोकतां जयती"ति फलान्तरमुक्तम् । अतो वाजसनेयके न फलैक्यं सिद्धम् , छान्दोग्ये "अन्नवानन्नादो भवति य एवं वेदे"त्युत्पत्तिवाक्यश्रुतफलैक्येऽपि तत्फलमुपास्यदेवताप्राप्तिरूपं न भवति , अतस्तत्प्राप्तिलक्षणफलैक्यादिति हेतोरुभयत्रापि नान्वय इति – चेत् , उच्यते ; वाजसनेयके "योऽयं मध्यमः प्राणः प्राणाद्वा एष सूर्य उदेतीत्युपक्रमोपसंहारैकरूप्यात् कृत्स्नमपीदं प्रकरणमेकविद्याविषयमिति उपसंहारश्रुतदेवतासायुज्यरूपफलैक्यमुक्तम् । अर्थवादान्तरप्राप्तं कुलश्रैष्ठ्यं फलान्तरं भवति चेद् , भवतु नाम , छान्दोग्ये तत्प्राप्तिलक्षणफलाश्रवणेऽपि पूर्वपक्षे हेतुतयाऽपेक्षितस्य फलैक्यस्य सद्भावोऽस्तीति तावता संगतिः । उपास्यभेदफलैक्ये यद्यपि सत्यविद्यायामपि स्तः ; तथापि तत्राक्ष्यादित्यस्थानभेदात्पृथगनुचिन्तनं व्यक्तमिति पूर्वपक्षसंभावनार्थं प्राणश्रैष्ठ्यविद्या संवर्गविद्या चोदाहृता ।
वत्कारो धर्मस्येति ।
दधितण्डुलादिवदिति वतिप्रत्ययोऽध्यात्ममधिदैवतं च भिन्नस्य गुणजातस्योपमार्थ इत्यर्थः ।
देवताकाण्डाधिकरणस्येति ।
यद्यपि संकर्षकाण्डो न देवताविचारार्थं प्रवर्तितः , किंतु द्वादशलक्षण्यविचारितनानाविषयन्यायविचारात्मकस्तत्परिशिष्टः तन्त्रप्रसङ्गवदुपदेशातिदेशसाधारण्येन प्रकीर्णकः प्रवर्तितः । न हि तत्र देवताविचारेणोपक्रम उपसंहारो वाऽस्ति। तत्र ह्य"नुयजतीत्यनुवषट्कारश्चोद्यते" इति सूत्रेण प्रथमं सोमस्याग्रे व्रीहीत्यनुयजतीत्यत्र किमैन्द्रवायवादियागेषु मन्त्रविधानमुत कर्मान्तरविधानमिति विचारेणोपक्रमः , "पशावुत्तमे प्रयाजे स्रुगादापनो न विद्यते संप्रेषितत्वाद्" विद्यते वाऽन्यकालत्वाद् यथाऽऽज्यसंप्रेषो यथाऽऽज्यसंप्रेष' इति सूत्राभ्यां पशौ प्रथमप्रयाजोपक्रमे होत्रा प्रयुक्तोऽग्निर्होता वेत्वग्निर्होत्रं वेत्वित्यादिः स्रुगादापनमन्त्र उक्तः प्रयाजोपक्रमे न प्रयोक्तव्य उत तदानीमपि प्रयोक्तव्य इति विचारेण शास्त्रसमापनम् ; तथापि संकर्षे देवताविधानरहितेषूपांशुयाजादिषु देवताऽस्ति न वा प्रयाजादिषु देवतावाचिनः समिद्बर्हिरादिशब्दाः दर्शपूर्णमासाङ्गप्रसिद्धसमिद्बर्हिरादिपरास्तदन्यपरा वा "अग्निं होत्रायावह स्वं महिमानमावहे"त्यत्र होत्रशब्दोक्तहोमद्रव्यार्थत्वेन श्रुतः स्विष्टकृदग्निराहवनीयो गार्हपत्यो वा पशौ यष्टव्या वनस्पतिदेवता पश्वङ्गयूपरूपाऽन्या वा स्वाहा देवा आज्यपा जुषाणा इत्यत्राज्यपाः सकलप्रयाजानूयाजदेवताः , उत्तमप्रयाजानूयाजमात्रदेवता वा ग्रहाणां वैराजस्य स्तोत्रायेत्यादिचतुर्थीनिर्दिष्टानि स्तोत्राणि देवता आग्नेयं गृह्णातीत्यादितद्धितनिर्दिष्टा अग्न्यादयो वा "यां देवतां वषट्करिष्यन् स्यात्तां मनसा ध्यायेदि”ति देवतावाचिशब्दध्यानविधिः देवतार्थध्यानविधिर्वा "यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरमि"ति विहितयोर्यजयेयजामहयोरग्निं विष्णुमित्यादिद्वितीयान्तदेवतानां निर्देशः कार्यो न वा, "आवह देवान्यजमानाये"ति प्राकरणिकसकलदेवताविषयो वा अग्निमग्नआवहेत्यादिनिर्देक्ष्यमाणाग्न्यादिदेवतामात्रविषयो वा "देवान् यजे"ति प्रथमानूयाजोपक्रमप्रैषे देवानिति शब्दः प्रथमानूयाजदेवताविषयः सर्वानुयाजदेवताविषयो वेत्यादिदेवताविचारभूयस्त्वाद् भूम्ना संकर्षकाण्डस्यैव देवताकाण्ड इत्यपि व्यवहारोऽस्तीति तस्य तेनोपादानम् ।
पूर्वपक्षं सिद्धान्तं चाहेति ।
संकर्षे नानाप्रदानाधिकरणात् पूर्वाधिकरणे "तेषां पृथक्कृतानां निरवदानं यथाऽन्येषां हविःपृथक्त्वादि"ति सूत्रेण ऐन्द्रादिपुरोडाशानामध्यर्धांशश्रपणे कृते अवदानवेलायां पुरोडाशान् पृथक्कृत्य पृथगवदानानि तन्मध्यपूर्वार्धाभ्यां ग्राह्याणि उत पुरोडाशत्रयादपि सहैवावदानानि ग्राह्याणीति संशये हविर्भेदात् पृथगिति पूर्वपक्षं प्रापय्य "वचनात् सर्वेषां सहाऽवदीयेते"ति सूत्रेण “सर्वेषामभिगमयन्नवद्यती”ति वचनात् सर्वेषामिन्द्रादीनां त्रयाणां पुरोडाशानभिगमयन् प्रापयन्नवद्यति न पर्यायेणेत्येतदर्थकात्सहैवावदानम् । नास्ति वचनस्यातिभारः ; पुरोडाशानां मध्यभागे नलीकप्रवेशनाद्युपायेन मध्यादपि युगपदवदानं ग्राह्यमिति सिद्धान्तः कृतः । तत”स्तेषां पृथक् प्रदानमवदानैकत्वा”दिति सूत्रेणास्याधिकरणस्य पूर्वपक्षः कृतः । अत्रावदानैकत्वादिति सौत्रहेतुरेव मिलितानां श्रपणाविशेषादिति टीकाग्रन्थे विवक्षितः ।
प्रथमपुरोडाशप्रदान इति ।
अस्याः त्रिपुरोडाशायाः त्रैधातवीयाख्याया इष्टेर्याज्यानुवाक्यारूपतया प्राच्यां दिशि त्वमिन्द्रोसि राज्येत्यादयस्तिस्र ऋचः समाम्नाताः । तत्र प्रथमयागे प्रथमानुवाक्या मध्यमा याज्या पुनःप्रयोगे द्वितीयभागे मध्यमानुवाक्या तृतीया याज्या , पश्चात्तृतीयप्रयोगे तृतीयाऽनुवाक्या या पूर्वं प्रथमप्रयोगेऽनुवाक्या प्रथमा साऽत्र याज्येत्यर्थः ।
संकर्षे नानाप्रदानाधिकरणस्या”न्यार्थप्रदर्शनाच्चे”ति गुणसूत्रं भाष्यकृता भवस्वामिनेत्थं व्याख्यातम् –
याज्याऽनुवाक्याविनियोगपरं वचनं प्रधानभेदं प्रकाशयति , “प्रथमामनूच्य मध्यमया यजेद् मध्यमामनूच्योत्तमया यजेद् उत्तमामनूच्य प्रथमया यजेद् एवं सर्वा अनुवाक्याः सर्वा याज्या भवन्ति” इति ।
तदनुसारेणेत्थमाचार्यवचनं योजितम् ।
प्राणने प्राप्ते प्राण्यादिति ।
अत्रेयं विषयशुद्धिः –
अध्यात्मं प्राणं वागादींश्चाधिदैवतं वायुमग्न्यादींश्चोपक्रम्य "अथ यो है ताननन्तानुपास्ते अनन्तं स लोकं जयती"ति तेषामुपासनासाफल्यमुक्त्वा "अथातो व्रतमीमांसे"त्यध्यात्मं प्राणस्याधिदैवतं वायोश्च व्रतं तदुपासकेन कार्यं , न तु वागादीनामग्न्यादीनां वेति निर्धारणार्थं विचारं प्रस्तुत्य वागादीनामभिवदनादिनियमरूपस्याग्न्यादीनां प्रज्वलनादिनियमरूपस्य च व्रतस्य तेषां श्रान्त्यस्तमयाभ्यां भङ्गमुक्त्वा आध्यात्मिकाधिदैवतभेदभिन्नस्य प्राणस्य स्वव्यापारनियमरूपव्रताभङ्गमुक्त्वा "तस्मादेकमेव व्रतं चरेदि"त्यभग्नव्रतस्य प्राणस्यैव व्रतं तद्व्यापाररूपमुपासनया प्राणात्मतां प्राप्त उपासकश्चरेन्न वागादिव्यापारमभिवदनादिरूपमितीतरनिवृत्तिं विधाय तत् किं प्राणव्रतमित्याकाङ्क्षायामिदमाम्नायते प्राण्याच्चैवापान्याच्चेति ।
तत्र जीवत उपासकस्य स्वरससिद्धयोः प्राणनापाननव्यापारयोर्विधानं व्यर्थमित्याशङ्क्य प्राण्याच्चैवेति एवकारलब्धा अप्रसक्तयोः प्राणनापाननव्यापारयोः कदाचिदिच्छया प्रसक्तस्य निरोधस्य निवृत्तिर्व्रतत्वेन विवक्षितेत्याचार्यैर्दर्शितम् –
प्राणने प्राप्ते प्राण्यादपानने प्राप्तेऽपान्यात्प्राणापाननिरोधनं न कुर्यादित्यर्थ इति ।
ननु – एकमेवेति यावज्जीवं वागादिव्यापारनिवृत्तिः कथं विहिता ? अशक्यत्वादिति – चेत् , उच्यते ; वागादिव्यापारेष्वपि प्राणव्यापारतादृष्टिः कर्तव्या , वागादिभिरभग्नव्रतत्वेन प्राणस्य श्रैष्ठ्यं निर्धार्य प्राणानामरूपत्वं प्राप्तमिति "हन्ताऽस्यैव सर्वे रूपमसामेति" "एतस्यैव सर्वे रूपमभवंस्तस्मादेतएतेनाख्यायन्ते प्राणा" इतीति प्राचीनसंदर्भे प्रतिपादितत्वेन वागादिव्यापारेषु प्राणव्यापारतादृष्टेरुचितत्वादिति तात्पर्यम् । अतो वागादिव्यापारस्य स्वरूपतो निवृत्तिर्न विधेयेति नाशक्यानुष्ठानता । केषुचिन्मूलकोशेषु – प्राणने प्राप्ते अपान्याद् अपानने प्राप्ते प्राण्यात् प्राणापाननिरोधं कुर्यादित्यर्थ इति पाठो दृश्यते । स पाठो बृहदारण्यके प्राणस्याभग्नवतत्वोपक्रमविरोधात्तद्भाष्यवार्तिककृद्व्याख्यानविरोधाच्च न सांप्रदायिकः ।
सायुज्यं समानदेहतामिति ।
दिह उपचय इति धातोर्घञन्तो देहशब्दो योगेनोपचयवाची भोगसमृद्धिपरः । अतः समानभोगतामित्यर्थः , न तु सारूप्यमित्यर्थः । उत्कृष्टोपासनाफलस्य भोगसाम्यरूपतायाः सूत्रकृता वक्ष्यमाणत्वात् ॥४३॥
इति अष्टाविंशं प्रदानाधिकरणम्॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥
प्रकरणेनेति ।
नन्वग्निरहस्यब्राह्मणे मनश्चिदादीनां क्रतोर्विनियोजकं क्रतुप्रकरणं नास्ति , किंत्वनारभ्याधीतस्य क्रत्वङ्गस्याग्नेरेव प्रकरणं , तावतश्च क्रत्वङ्गप्रायपाठलक्षणः संनिधिरेव लभ्यते । सत्यम् ; संनिधिरेवात्र लौकिकप्रकरणलक्षणः प्रकरणशब्देनोक्तः ।
अर्थगतमुदाहरतीति ।
पशुना यजेतेत्यत्र तृतीयैकवचनार्थस्य एकत्वस्य समानपदोपात्तेन पशुना नान्वयः एकः पशुरिति , किंतु समानप्रत्ययोपात्तेन करणकारकेणान्वयः ; एकत्वसंख्या करणकारकमिति समानपदश्रुतेः समानप्रत्ययश्रुतेरन्तरङ्गतया बलीयस्त्वात् । तदुक्तम् – तथा ’पश्वङ्गमेकत्वं पदश्रुत्या प्रतीयते । समानप्रत्ययश्रुत्या बलीयस्या क्रियाङ्गता’॥ इति , एवं शब्दान्वये स्थिते संख्यायाः साक्षात्क्रियानिर्वर्तकत्वायोगाद् द्वारान्वयापेक्षायां संख्याया अवच्छेदसामर्थ्यरूपाल्लिङ्गात्पशुद्रव्यावच्छेदकतयाऽरुणैकहायनीन्यायेन पार्ष्ठिकान्वय इति मीमांसका वदन्ति , तदिहोदाहरतीत्यर्थः ।
पत्नीसंयाजान्तान्यहानि संतिष्ठन्त इति वचनादिति ।
ननु – द्वादशाहप्रकरणाम्नातं सर्वेषामह्नामसाधारणमिदं वचनम् अहरन्तरमपि स्पृशेदेव , अतोऽहरन्तरपक्षेऽप्येतद्वचनविरोधः समान इति – चेत् , उच्यते ; अहरन्तरपक्षे प्रायणीयाद्युदयनीयान्तानामह्नां बद्धक्रमत्वाद् मानसं त्रयोदशमहः स्यात् पत्नीसंयाजान्तवचनमुक्तमहर्वर्जयित्वा , अस्थितो हि तर्हि यज्ञ इति वाक्यशेषादिवशादिति "पत्नीसंयाजन्तत्वं सर्वेषामविशेषादि"ति नावमिकाधिकरणे निर्णीतम् । अतोऽहन्तरपक्षे नास्ति वचनविरोधः ।
दशरात्रस्य द्वादशाहविकृतित्वादिति ।
ननु द्वादशाहस्य प्रायणीयोऽतिरात्रः प्रथममहः ततः पृष्ठ्यः षडहस्ततश्छन्दोमचतुष्टयं तत उदयनीयोऽतिरात्र इति द्वादशाहानि । तत्र चतुर्थे छन्दोमे अविवाक्येऽह्नि मानसग्रहः , ततश्च द्वादशाहविकृतौ दशरात्रे द्वादशाहस्य प्रायणीयमारभ्य द्वादशानामह्नां धर्माः प्रवर्तेरन्निति तृतीयच्छन्दोगधर्म एव दशरात्रस्य दशमेऽहनि प्रवर्तेतेति तस्मिन्नविवाक्यधर्माप्रवृत्तेः कथं मानसग्रहप्राप्तिः ? उच्यते ; द्वादशाहविकृतिषु द्वादशाहस्य प्रायणीयोदयनीयौ वर्जयित्वा मध्यमदशरात्रस्य धर्माः प्रवर्तन्त इति दशमे "चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्या" (जै. अ. १० पा. ५ सू. १२) दित्यधिकरणे निर्णीतम् । तस्मिन्नधिकरणे द्वादशाहविकृतिषु द्विरात्रादिषु द्वादशाहस्य अह्नां धर्मा आदित आरभ्य प्रवर्तन्ते , प्रथमातिक्रमे कारणाभावादिति प्रापय्य सिद्धान्तितं लिङ्गविशेषैः प्रायणीयोदयनीयौ वर्जयित्वा मध्यमदशरात्रधर्माणामेव विकृतिषु प्रवृत्तिः । तथा हि -द्विरात्रे श्रूयते – "यत्प्रथमं तद् द्वितीयं यद् द्वितीयं तत्तृतीयमि"ति। द्विरात्रे यत्प्रथममहः तद् द्वादशाहे द्वितीयं यद् द्विरात्रे द्वितीयं तद् द्वादशाहे तृतीयमित्यर्थः । इदमेकं लिङ्गम् । तथा द्विरात्र एव "जगतीमं तर्प्यन्ती”ति पार्ष्ठिकस्य तृतीयस्याह्नो जागतस्यान्तरायः श्रूयते । सोऽपि पार्ष्ठिकेन द्वितीयेनाऽह्ना द्विरात्रस्य समाप्तिं प्रथयत् प्रायणीयवर्ज्यातिदेशलिङ्गतया द्वादशाहस्य मध्यमेषु दशसु अहःसु दशरात्रशब्दप्रसिद्धिरस्ति द्विरात्रादिचोदनास्वपि रात्रशब्दोऽस्ति , तच्चोदनालिङ्गं विशेषलिङ्गं सदहर्गणत्वसामान्यलिङ्गाद् बलीयः । तेन यत्प्रथमं तद्द्वितीयमित्यादिलिङ्गानुगृहीतेन द्विरात्रादिविकृतिषु मध्यमदशरात्रस्यैव प्रवृत्तिरिति।
तस्मान्मध्यमदशरात्रे दशममहरविवाक्यमिति दशरात्रस्य दशमेऽहनि तद्धर्मप्रवृत्त्या मानसग्रहप्राप्तिरस्ति ।
एवं च भाष्ये दशरात्रशब्दस्य द्वादशाहान्तर्गतमध्यमदशरात्रविषयतैवोपपन्नेति विकृतिदशरात्रान्वेषणमपि न कार्यमिति द्रष्टव्यम् ॥४४॥४५॥
मनोवृत्तिष्वग्नित्वदृष्टिविधेरिति ।
क्रत्वङ्गानाश्रितत्वहेतुं षट्त्रिंशत्सहस्राणीत्यादिश्रुत्यर्थोपन्यासेनोपपादयति –
षट्त्रिंशतं सहस्राणीति ।
श्रुतावात्मनोऽग्नीनित्यत्रात्मन इति षष्ठी ; अग्नीनां तद्वृत्तिषु दृष्टिविधानाद् , वृत्तिमद्भावसंबन्धार्थेत्यभिप्रेत्य तदर्थं विवृणोति –
आत्मनो वृत्तीरग्नीनिति ।
नन्वतुल्यकार्यत्वेन विकल्पासंभवे स्पष्टे कथं विकल्पेन पूर्वपक्ष: , पूर्वविकल्प इति सूत्रेण कृतः ? इत्याशङ्क्याह –
क्रियानुप्रवेशमात्रमिति ।
विकल्पः पूर्वपक्षे न विवक्षितः , प्रसिद्धाग्निविलक्षणाग्निप्रकारभेदमात्रं सूत्रे विकल्पशब्देन विवक्षितमेवमयमप्यग्निविकल्प इति भाष्ये तस्य व्याख्यातत्वात् । इह तु विकल्प इति मन्दशङ्कामात्रस्य निराकरणमित्यर्थः । इत्थमवतारिकया टीकायां यदुक्तमित्येतदाशंसायां भूतवद्विधानाद् यदि वक्तुमिष्टं यदि विवक्षितं इत्येवंपरतया व्याख्यातं भवति।
तदङ्गावेष्टावपीति ।
तदन्तर्गतावेष्टावित्यर्थः ; राजसूयान्तर्गतेष्टिपशुसोमानां सर्वेषां समप्रधानत्वेनाऽवेष्टेरङ्गत्वाभावात् ।
राज्यस्य कर्ता राजेति ।
त्रैवर्णिकानां राजत्वादिति ।
यद्यपि क्षत्रियस्यैव राज्यपरिपालनं धर्मः ; तथाऽप्युल्लङ्घितमर्यादौ ब्राह्मणवैश्यावपि राज्यं कुर्वाणौ दृश्येते । अतस्तावपि राजशब्दवाच्यौ ; शब्दवाच्यतायां प्रवृत्तिनिमित्तसद्भावमात्रस्यापेक्षितत्वादिति भावः ।
शास्त्रसहितेति ।
शास्त्रसहितानामार्याणां प्रसिद्ध्येत्यर्थः । गावोऽनुधावन्ति अनुकुर्वन्ति चतुष्पात्त्वेन ।
शुक्लादिशब्देभ्य इति ।
जडादिशब्दानामुपलक्षणमेतत् । शुक्लादिशब्देभ्यो हि भावार्थमात्रे ष्यञिमनिचौ प्रत्ययौ विहितौ । तत्र शुक्लस्य भावः शौक्ल्यं शुक्लिमेत्याद्युदाहरणम् । उदाहृतसूत्रे जाड्यादिगुणवचनेभ्यो ब्राह्मणादिभ्यश्च भावकर्मणोरर्थयोः ष्यञ्प्रत्ययमात्रं विधीयते जाड्यं मौढ्यमित्यादि तदुदाहरणम्॥ अनादिवृद्धव्यवहाररूढत्वादिति॥ ननु तथात्वेऽपि स्वरवर्णादिभ्रंशे प्रत्यवायमनुसंदधानानामार्याणां प्रसिद्धिराप्तिमूलत्वेन बलवती , म्लेच्छानां तु गवादिविषये गाव्यादिशब्दमपभ्रंशं प्रयुञ्जानानां प्रसिद्धिरनाप्तिमूलत्वेन दुर्बला , अतः स्वरूपतस्तावन्न विशेषोऽस्तीत्येतदयुक्तम् , राजशब्दे त्वार्यप्रसिद्धेर्नास्ति वेदानुग्रह इत्येतदप्ययुक्तम् ; "सोमोऽस्माकं ब्राह्मणानां राजा सोम ओषधीनां राजा तौ वा एतौ देवतानां यदग्नीषोमौ" "इन्द्रो राजा जगतश्चर्षणीना"मित्यादिवेदानुग्रहसत्त्वात् , तदभावेऽपि स्वत एवार्यप्रसिद्धेर्बलवत्त्वविशेषसद्भावाच्च । विशेषमाहेत्यप्ययुक्तम् ; स्मृत्यनुग्रहस्य वक्ष्यमाणरीत्योभयत्राप्यविशेषात् । स्मृत्यनुगृहीतो म्लेच्छप्रयोग आर्यप्रयोगाद्बलीयानित्यप्ययुक्तम् ; राज्यशब्दे गुणवचनादिसूत्रविधीयमानष्यञ्प्रत्ययप्रकृतिभूतस्य ब्राह्मणादिगणपठितस्य राजशब्दस्य क्षत्रियार्थताया इव पालकार्थताया अप्युपपन्नतया स्मृतेरुभयसाधारण्यात् । न हि विधीयमानप्रत्ययार्थादन्यदेव प्रकृत्यर्थप्रवृत्तिनिमित्तं ग्राह्यमिति नियमोऽस्ति ; काठकशब्दे कठप्रोक्तशाखाध्यायिनामाम्नाय इत्यर्थके गोत्रचरणादिसूत्रविधीयमानप्रत्ययार्थस्य कठप्रोक्ताम्नायस्य कठप्रोक्तशाखाध्यायिवाचककठशब्दरूपप्रकृत्यर्थप्रवृत्तिनिमित्तान्तर्भावदर्शनात् , घटस्य शौक्ल्यमित्यत्र वर्णदृढादिसूत्रविधीयमानस्य ष्यञ्प्रत्ययार्थस्य शुक्लगुणस्यैव शुक्लगुणविशिष्टद्रव्यविषयशुक्लशब्दरूपप्रकृत्यर्थप्रवृत्तिनिमित्तत्वदर्शनात् । किंच ब्राह्मणादिगणपठितस्य राजशब्दस्य पालकार्थत्वमेव ग्राह्यम् ; अन्यथा "यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपति"रित्यादिप्रयोगेषु ष्यञ्प्रत्ययो न स्यात् । तत्र राजशब्दस्य क्षत्रियार्थत्वे युवत्वराजत्वयोः प्रागेव सिद्धतया संयोक्तुमिष्यमाणस्यालाभात् । न च – तत्र मा भूत् ष्यञ्प्रत्ययः “पत्यन्तपुरोहितादिभ्यो यगि"ति भावकर्मणोरेव विहितो यक्प्रत्ययोऽस्तु , पुरोहितादिगणेऽपि राजशब्दस्य पाठादिति - वाच्यम् ; तत्र राजाऽसमासे इत्येतदसमासगतस्य राजशब्दस्य पाठेन ततो युवराजशब्दाद्यगप्राप्त्या ष्यञ एवान्वेषणीयत्वात् , ब्राह्मणादिगणपठितस्यैव तस्यापि पालकार्थत्वोपपत्तेश्च , जनपदविशेषवाचिनो विदेहपञ्चालादिशब्दात् तस्य राजेत्यर्थे अपत्यार्थप्रत्ययातिदेशके “तस्य राजन्यपत्यवदि”ति वार्तिके राजशब्दस्य पालकार्थतायाः संप्रतिपन्नत्वाच्च । विदेहानां राजा वैदेहः पञ्चालानां राजा पाञ्चाल इत्यादि हि तदुदाहरणम् । एवं राजपदस्य पालकार्थत्वाध्यवसाये सति यत्कर्मधारय इति ब्राह्मणकुमारयोरिति चानुक्तौ राजेति पूर्वपदं ब्राह्मणकुमारयोरुत्तरपदयोरन्यतरस्यां प्रकृतिस्वरो भवति पूर्वपदप्रकृतिस्वरविधायकस्य “राजा चे”ति सूत्रस्योदाहरणं राजब्राह्मण इति तदपि राजत्वब्राह्मणत्वयोर्युगपत्सामानाधिकरण्यादाञ्जस्यं लभते । ननु – मा भूद् राज्यशब्दव्युत्पादकस्मृत्या म्लेच्छप्रसिद्धेरनुग्रहः , "राजश्वशुराद्यदि"ति स्मृत्या राजशब्दादपत्त्यार्थे यत्प्रत्ययविधानार्थया तु स्यात् , क्षत्रियापत्य इव जनपदपालकब्राह्मणाद्यपत्ये राजन्यशब्दप्रयोगाभावेन तत्र प्रकृतिभूतस्य राजपदस्य क्षत्रियार्थताया एव ग्राह्यत्वादिति – चेत् , किं ततः ? एवमार्यप्रसिद्धेरपि पाणिनिस्मृत्यनुग्रहोऽस्तीति राजसूयवाक्ये क्षत्रियग्रहे नैव किंचिद्विनिगमकं लब्धम् । एतेन – स्मृतिशब्देन आर्षं धर्मशास्त्रादिकमनुग्राहकत्वेन विवक्षितम् । गौतमीये हि धर्मशास्त्रे द्विजातीनामध्ययनमिज्या दानमिति त्रैवर्णिकानां साधारणधर्मोक्त्यनन्तरं ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहा इत्यादिना ब्राह्मणवैशेषिकधर्मानुक्त्वा क्षत्रियवैशेषिकधर्मोक्तिप्रस्तावे राज्ञोऽधिकं रक्षणं सर्वभूतानामिति राजशब्दः प्रयुक्तः । न च तस्य पालकार्थग्रहणं युक्तम् ; प्रकरणानुरोधात् , पालकमेवोद्दिश्य पालनविधानायोगाच्च । न हि यः पालकः तेन पालनं कर्तव्यमित्यन्वेति , एवं धर्मशास्त्रान्तरमप्युदाहर्तव्यम् । स्मृतिग्रहणमत्र श्रुतेरप्युपलक्षणम् । अस्ति हि म्लेच्छप्रसिद्धेरनुग्राहिका "राजानमभिषेचयेत् तिष्येन श्रवणेन वेति" श्रुतिः । अत्र राज्ञः सतोऽभिषेको विधीयते । न च क्षत्रियत्वमिव पालकत्वं प्राक् सिद्धमस्ति ; अभिषिक्तस्य स्मृतिषु पालनविधानात् । न च यूपं तक्षतीत्यत्र तक्षणेन यूपं कुर्यादितिवद् , अभिषेकेण राजानं कुर्यादिति क्लिष्टयोजनं न्याय्यम् ; यूपशब्दार्थस्येव राजशब्दार्थस्य प्राक्सिद्धस्यासत्त्वाभावाद् , म्लेच्छप्रयोगप्रसिद्धस्य क्षत्रियस्य सत्त्वादिति – निरस्तम् । एवमपि विनिगमनाविरहदूषणानतिलङ्घनाद , आर्यप्रसिद्धेरपि श्रुत्यनुग्रहस्य दर्शितत्वात् , "नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर । विविक्ते देवराजानमिदं वचनमब्रवीत्"॥ इत्यादिस्मृत्यनुग्रहस्यापि सत्त्वात् । "राज्यायैव तेऽभिषिच्यन्ते तेनैतान् राजेत्याचक्षत" इति श्रुतौ "रञ्जनात् खलु राजत्वं प्रजानां पालनादपी"ति भारतवचने च पालकत्वं राजशब्दार्थ इति साक्षादेव प्रतिपादनाच्च । एतेनैव – क्षत्रियवाचिनो राजपदस्य पालकत्वसादृश्याद् आर्याणां जनपदपरिपालके ब्राह्मणादौ प्रयोग इत्येतदर्थकाग्रिमग्रन्थस्याप्ययुक्तत्वं – व्याख्यातम् ; पालकवाचिन एव पालकत्वयोग्यक्षत्रिये गौणतेति वैपरीत्यस्यापि वक्तुं शक्यत्वात् , तस्मात्सर्वोऽयमनुपपन्नः सिद्धान्तग्रन्थ इति – चेत् , उच्यते ; विनिगमनाविरहादर्थद्वयसत्त्वेऽपि राजसूयवाक्ये क्षत्रिय एवार्थो ग्राह्यः । सप्रतियोगिकौपाधिकधर्मरूपपालकत्वापेक्षया निष्प्रतियोगिकाखण्डरूपधर्मक्षत्रियजातेर्लघुत्वेन असति बाधके लघुप्रवृत्तिनिमित्तकार्थग्रहणौचित्यात् । न च – अवेष्टिवाक्यगतत्रैवर्णिकप्राप्तिद्योतकयदिशब्दस्वारस्याद् गुरोरप्यर्थस्य ग्रहणं स्यादिति – वाच्यम् , द्योतकनिपातस्वारस्यानुरोधेन वाचकानां स्वारस्यहानायोगात् । वस्तुतस्तु – श्रुतिस्मृतिप्रयोगवैयाकरणव्यवहाराणामुभयत्र साम्येऽपि क्षत्रियेष्वेव शक्तिः ; तेषु क्षत्रियत्वजातेरिव पालकेष्वनुगताऽनतिप्रसक्तशक्यतावच्छेदकरूपाभावात् । तथा हि – न पालनमात्रं निमित्तम् सर्वसाधारण्यप्रसङ्गात् ; अस्ति हि सर्वेषामपि पुत्रदारधनादिविषयमन्ततः स्वशरीरविषयं वा पालनम् । नापि जनपदपरिपालनं निमित्तम् ; राज्ञा नियुक्ते तत्तत्पदाधिकारिणि सत्यपि तस्मिन् राजपदाप्रयोगात् । नापि स्वतन्त्रपालनं निमित्तम् ; सम्राजा नृपतिना देशविशेषे राजभावेनाभिषिक्ते तदभावात् । किंच विनापि पालकत्वं श्रैष्ठ्यमात्रेण राजपदप्रयोगो मृगराजः पक्षिराजो वृक्षराजश्चेतीत्यादिव्यवहारे दृश्यते । तस्य "राजदन्तादिषु पर"मित्युपसर्जनपरनिपातविधायकपाणिनिस्मृत्यनुग्रहोऽप्यस्ति। तस्मादनुगताऽनतिप्रसक्तजातिनिमित्तकः क्षत्रियार्थ एव राजशब्दः क्षत्रियेषु प्रायेण पालकत्वस्य तत्कृतस्य श्रैष्ठ्यस्य च सद्भावात्क्वचित् पालके केनचित्केनचिद्गुणेन श्रैष्ठ्ये च तस्य निरूढा लक्षणेत्येव युक्तम् । इत्थं राजशब्दस्यानेकार्थत्वेऽपि राजसूयवाक्ये लाघवात् क्षत्रियार्थो ग्राह्य इति व्यवस्थापनं वस्तुतस्त्वस्य क्षत्रियार्थत्वमेवेति व्यवस्थापनं च तस्य क्षत्रियार्थत्वसद्भावाधीनम् , तत्तु स्मृत्याद्यनुगृहीतम्लेच्छप्रसिद्धिप्रसादलभ्यमिति तदुक्तिः । एवं च स्वरूपतस्तावन्न विशेषोऽस्तीत्यस्य राजशब्दगोचरयोरार्यम्लेच्छप्रयोगयोर्गोगावीशब्दप्रयोगयोरिव स्वरूपतो वर्णविकाररूपः श्रुतिस्मृत्यनुग्रहसद्भावकृतो वा विशेषो नास्तीत्यर्थः । एवमिह म्लेच्छप्रसिद्धेरपभ्रंशत्वादिमूलकदौर्बल्यशङ्का निरस्ता । तदनन्तरवाक्येन यववराहादिशब्देष्वार्यप्रसिद्धेरेव वाक्यशेषानुग्रहः । अतस्तत्र तदादर इति प्रकृताद्वैषम्यमुक्तम् । नास्ति वेदानुग्रह इत्यनेन वाक्यशेषानुग्रहो नास्तीत्युक्तम् । यदि राजसूयवाक्यशेषानुग्रहः स्यादार्यप्रसिद्धेः , तदा तद्वाक्यगतराजशब्दस्य वक्ष्यमाणरीत्या प्रवृत्तिनिमित्तगौरवं गौणवृत्त्यापत्तिं चाविगणय्य पालक एवार्थो ग्राह्यः स्यात् ; “गौण्या लक्षणया वापि वाक्यशेषेण वा पुनः । वेदो यमाश्रयत्यर्थं को नु तं प्रतिकूलयेत्” इति न्यायात् । अतो वाक्यशेषाभाव उक्तः । विशेषमाहेत्यस्य राजसूयवाक्ये राजशब्दस्य क्षत्रियार्थग्रहणे प्रवृत्तिनिमित्तलाघवरूपं मुख्यवृत्तिलाभरूपं वा विशेषमाहेत्यर्थः । स तु विशेषः क्षत्रियत्वप्रसिद्धेः स्मृत्यनुग्रहोक्त्या राजशब्दस्य क्षत्रिये शक्तिसद्भावव्यवस्थापनद्वारा सूचितः ।
तद्व्यावर्तकत्वे वाक्यभेदप्रसङ्गादिति ।
विशिष्टोद्देशप्रयुक्तवाक्यभेदप्रसङ्गादित्यर्थः । ननु – राजपदस्य कर्तृसमर्पकत्वेऽपि वाक्यभेदस्तुल्यः , उत्पत्तिवाक्यविहितान् यागाननूद्यैकेन फलसंबन्धस्य कर्तृसंबन्धस्य च विधानायोगादिति – चेत् ; स्यादेवं वाक्यभेदः , यदि कर्तृवत्फलमपि विधेयं स्यात् , न त्वेवम् ; तस्य कालवदनुपादेयत्वात् । अतः फलमनूद्य यागा विधेया इति तदङ्गाख्यातोपात्तसंख्यावच्छेद्यकर्तृविशेषरूपतया राजैव विशिष्टविधिना विधेयो न फलमिति न वाक्यभेदप्रसङ्गः ।
न ह्यधिकारवाक्यान्तरगतमिति ।
तटस्थवाक्यविहितमङ्गम् अवेष्टिप्रयोगद्वयसाधारणं स्याद् , राजा तु स्वाराज्याधिकारवाक्यश्रुत इति स्वाराज्यफलार्थायामेवावेष्टावङ्गं स्याद् , न त्वन्नाद्यफलार्थायामपीत्यर्थः ।
तथाप्येतयेति प्रकृतपरामर्शं सर्वनामपदं यावद्विशिष्टावेष्टिः प्रकृता , तावद्विविष्टां तां परामृशेद् , अतोऽधिकारान्तरेऽपि स्वाराज्यकामकर्तृका स्यादिति मन्दशङ्कामुद्भाव्य निराकरोति –
यद्युच्येतेति ।
मध्ये निधानासंभवादिति ।
मध्यदेशनिधानं हविषां यौगपद्ये एव संभवतीति भावः । ननु यत्रान्तरवेष्टौ सिद्धान्तिना तन्त्रभेदः समर्थनीयः , न तत्र लिङ्गदर्शनमेकवचनं चास्ति , यत्रास्ति बहिरवेष्टौ न तत्र तन्त्रभेदः सिषाधयिषित इति कथं लिङ्गदर्शनैकवचनाभ्यां पूर्वपक्ष: ? इत्थम् ; उक्तहेतुभ्यां बहिरवेष्टौ तावदैकतन्त्र्यं निर्विवादम् । अतस्तत्र दक्षिणाशब्दो दक्षिणावयवपर इति मिलितैव दक्षिणा वाच्या ; अन्यथा तत्र तन्त्रभेदप्रसङ्गात् । तथा चान्तरवेष्टावपि स दक्षिणाशब्दो दक्षिणावयवपरः स्यादिति दक्षिणाभेदाभेदादैकतन्त्र्यमिति। कथं तर्हि सिद्धान्तः ? इत्थम् ; वर्णत्रयसंयुक्तो बहिरवेष्टिप्रयोगस्तावद्राजमात्रकर्तृकादन्तरवेष्टिप्रयोगाद् भिन्नः । तथा च तत्रागत्या दक्षिणाशब्दो दक्षिणावयवलक्षको जात इति प्रयोगान्तरे दक्षिणावाक्यान्वयेऽपि स लक्षको वक्तव्य इत्यत्र न मानमस्ति ; ऐन्द्रमन्त्रस्याग्न्युपस्थाने लक्षकस्यैन्द्रेऽपि कर्मणि विनियोगवशात् प्रयुज्यमानस्यैव मुख्यार्थतोपपत्तेः । अतो दक्षिणाभेदादन्तरवेष्टौ तन्त्रभेद इति इत्थं पूर्वपक्षसिद्धान्तप्रकारः सूत्रकृता क्रत्वर्थायामिति चेदिति सूत्रेणोद्धाटितः । तत्र क्रत्वर्थत्वं क्रत्वन्तर्भावमात्रं विवक्षितमिति न प्राधान्यविरोधः ।
न राजमात्रकर्तृकेति ।
राजमात्रकर्तृकत्वेन वर्णत्रयसंयोगाभावादन्तरिष्टौ न मध्यनिधानादिप्राप्तिरित्यर्थः । ततश्चैकतन्त्र्यहेत्वभावेन दक्षिणाशब्दस्य दक्षिणावयवे लक्षणाया अकल्पनीयतया दक्षिणाभेदात्तन्त्रभेद इति तात्पर्यम् ।
विरुद्धत्वमाशङ्क्येति ।
अत्र नित्यः शब्दः कृतकत्वादितिवत् पक्षे साध्यसाधकत्वेन निर्दिष्टस्य हेतोः साध्याभावसाधकत्वरूपं विरुद्धहेत्वाभासत्वं नोच्यते , अन्तरिष्टौ मध्यनिधानप्राप्त्यभावादिद्वारा तन्त्रभेदसाधकत्वेनाभिमतस्य वर्णत्रयसंयोगाभावस्यैकतन्त्र्यसाधकत्वाभावात् किंतु बहिरिष्ट्यां य एकतन्त्र्यसाधकत्वेनाभिमतो वर्णत्रयसंयोगः , तस्यान्तरिष्टौ सत्त्वेन तस्या साध्याभावरूपैकतन्त्र्यासिद्ध्यापत्तिरूपं विरुद्धत्वमुच्यते ॥४७॥४८॥४९॥५०॥५१॥५२॥ तेऽग्नयो मनसैवाधीयन्त । यद्यपि मनश्चिदादीनामग्न्याधानस्थण्डिलरूपेणोपास्यानामग्नीनामाधानं नास्ति , किंतु तेषु निधेयस्याहवनीयस्य ; तथाप्यभेदोपचारादाहवनीयस्याधानं तेषामाधारत्वेनोपचरितम् ।
एष्वग्निषु ग्रहा अगृह्यन्तेति ।
एष्वग्निषु सत्स्वित्यर्थः । एवं ग्रहग्रहणोक्ते यज्ञनिष्पत्त्यर्थं कृत्स्नस्य सन्निपत्योपकारकस्य मानसस्योक्तेश्च तन्निर्वर्त्यो मानसः क्रतुरपि विवक्षित इति द्रष्टव्यम् । न च – एवं सति मनश्चिदादीनां भाष्योक्तं स्वातन्त्र्यं विरुध्येतेति – शङ्कनीयम् ; क्रियानुप्रवेशाभावमात्रस्य स्वातन्त्र्योक्त्या विवक्षितत्वात् । अथाप्यग्रिमाधिकरणसंगतिभाष्ये मनश्चिदादीनां पुरुषार्थत्वमुक्तं कथमुपपादनीयमिति चेत् , इत्थम् इष्टकचितोऽग्निरुत्तरवेदिवत्केवलक्रत्वर्थो न भवति , किंतु पुरुषार्थोऽपि पशुकामश्चिन्वीतेत्यपि श्रवणात् , अभागिप्रतिषेधवार्तिके तस्य वाक्यस्योदाहृतत्वात् । तथा च तेषामेकैक एव तावान् यावानसौ पूर्व इति विद्यामयाग्निषु क्रियामयाग्निकार्यातिदेशस्याग्निधारणरूपतत्कार्यविषयत्वस्यासंभवात् पशुरूपफलविषयतैव सिद्ध्यति क्रियामयाग्निर्यावत् पशुसाधकस्तावत्पशुसाधक एकोऽग्निरिति यावत्तावच्छब्दाञ्जस्याच्च । ग्रहणादिभिः सन्निपत्योपकारकैः स्तोत्रशस्त्रादिभिरारादुपकारकैश्च निर्वर्त्यो मानसक्रमस्तु तदाश्रयत्वेनोपयुज्यते । क्रियामयाग्निवद्विद्यामयाग्नयोऽपि क्रत्वाश्रिता एव । पशुफलसाधनानीत्येतन्मानफलक्रत्वङ्गोपदेशसामर्थ्यात् ज्ञायते । न हि मानसानि ग्रहणादीनि विद्यामयाग्न्यङ्गानि ; तेषां तन्निर्वर्तकत्वाभावात् । नापि फलान्तरार्थानि ; तेषां फलान्तरोपदेशाभावात् । न च – सार्वत्रिकत्वं सर्वभूतकर्तृकत्वं विद्यामयाग्निचयनम् विदुषः स्वापकालेऽप्यनुवर्तमानं कथं तदीयविद्यामयक्रत्वाश्रितं स्याद् ? बहिःप्रयोगवर्तित्वादिति – शङ्कनीयम् ; सर्वाधिकसर्वभूतकर्तृकमपि विद्यामयाग्निचयनमिदानीं मदनुष्ठीयमानक्रत्वाश्रितमिति भावनया तदाश्रितत्वोपपत्तेः । न हि भावनामात्रसाध्यं किं नाम साधयितुमशक्यम् । तस्मात्पशुफलार्थतया पुरुषार्थत्वोक्तिरप्युपपद्यत इति न किंचिदवद्यम्॥
इत्येकोनत्रिंशं लिङ्गभूयस्त्वाधिकरणम्॥
एक आत्मनः शरीरे भावात् ॥५३॥
यज्ञायुधीति ।
पैतृमेधिके कर्मणि यजमानशरीरे यज्ञपात्राणां सादनं विधाय पठ्यते "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं याती"ति। स्फ्यादीनि यज्ञसाधनानि यज्ञायुधानि"स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं चे”त्याद्यनुक्रम्य "एतानि वै दश यज्ञायुधानी"ति श्रवणात्तत्सादनेन तद्वान् यजमानः स एष इति निर्दिष्टः प्रत्यक्षदृश्यो देह एव ; तस्य तदानीमेव दहनेन भस्मीभवतः स्वर्गगमनं प्रत्यक्षविरुद्धम् । न च देहातिरिक्त आत्मा देहाभेदोपचारात् "स एष" इति निर्दिष्ट इति वक्तुं शक्यम् ; देहातिरिक्तात्मनि प्रमाणाभावात् । अतस्तद्वाक्यं न प्रमाणमिति प्राप्तौ तत्परिहारायात्रत्य एवार्थो भाष्यकृता तत्रापकृष्य वर्णित इत्यर्थः । अयमर्थो भट्टपादैरप्युक्तः – इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदत्र युक्त्या । दृढत्वमेतद्विषयस्तु बोधः प्रयाति वेदान्तनिषेवणेन॥ इति ।
यद्यपीत्यादिग्रन्थस्य घटादिदृष्टान्तेन देहाचैतन्यानुमानप्रदर्शने तथापीत्यादिग्रन्थस्य तत्र बाधोन्नीतपक्षेतरोपाध्युद्भावने च तात्पर्यं दर्शयति –
देहो न चेतन इति ।
तथाविधेति ।
यदि घटदृष्टान्तोऽस्तीत्येतावता देहो न चेतन इत्यनुमानं प्रवर्तेत , तदा जलादिदृष्टान्तेन मदिराया मदकरत्वाभावानुमानमपि स्यादित्येवमाभाससमानयोगक्षेमत्वरूपं प्रतिकूलतर्कमप्याहेत्यर्थः ।
तस्माद्देह धर्मैरिति ।
अहंप्रत्ययविषयस्यात्मनो देहधर्मैस्तादात्म्यानुभवादिति योजना ।
यदा नित्यस्यात्मनश्चैतन्यमनित्यगुणविशेष इति ।
यद्यात्मा क्षणिकत्वादिरूपेणानित्यः स्याद् , यदि वा चैतन्यं शब्दवत्कादाचित्काभिव्यक्तिमत्त्वेन नित्यं स्यात्तदा नानैकान्त्यमित्याशङ्क्यात्मनि नित्यत्वं विशेषगुणे चानित्यत्वं विशेषणमुक्तम् ।
ज्ञानं न देहविशेषगुण इति ।
न च सामान्यगुणत्वसिद्ध्याऽर्थान्तरम् ; अष्टद्रव्यव्यावर्तकस्य तस्य विशेषगुणत्वनियमेन सामान्यगुणत्वासंभवस्योक्तत्वादिति भावः ।
किंतु निमित्तत्वेनेति ।
तथा च जीवमृतावस्थयोर्यदसद्भावसद्भावाभ्यां प्राणचेष्टादितदभावौ , स देहाधिष्ठाताऽऽत्मैव सिद्ध्येदिति भावः ।
नन्वदृष्टसद्भावासद्भावाभ्यां जीवमृतावस्थयोः प्राणचेष्टाभावौ स्याताम् , अतो निमित्तत्वेनात्मा न कल्पनीय इत्याशङ्कानिराकरणार्थं तस्यापीति टीकाग्रन्थमुपादाय व्याचष्टे –
अदृष्टमपि विशेषगुण इति ।
गुणत्वे सतीति ।
गुणत्वविशिष्टं यद्देवदत्तेतरप्रत्यक्षविषयत्वं तद्रहितत्वादित्यर्थः ।
देहगतगुरुत्वादाविति ।
तत्र विशेष्याभावेन विशिष्टाभावरूपहेतुसत्त्वादनैकान्त्यपरिहाराय तत्रापि साध्यं संपादयितुं विशेषग्रहणमित्यर्थः ।
इच्छाद्यतिरिक्तेति ।
देवदत्तस्य स्वकीयेच्छादिषु न परप्रत्यक्षं , परकीयेच्छादिषु न स्वप्रत्यक्षमित्येवमिच्छादिमात्र एव चार्वाकाणां स्वपरप्रत्यक्षाभावप्रसिद्धिः , नान्यत्रान्यस्य स्वमात्रप्रत्यक्षस्य परमात्रप्रत्यक्षस्य चाभावाद् उभयोरप्यप्रत्यक्षस्यातीन्द्रियस्य तन्मते अभावाच्चेति भावः ।
दृष्टान्ताभावादिति ।
ननु – अस्ति व्यतिरेकदृष्टान्तः ये देहधर्मास्ते स्वरूपप्रत्यक्षा इति हि देहरूपादिषु दृश्यते , टीकायामपि व्यतिरेकदृष्टान्तो दर्शितः ; हेतौ परग्रहणेनान्वयदृष्टान्तसद्भावोऽपि सूचितः । तेन हीच्छादिमात्रं न पक्षः , किंतु कस्यचिदेवेच्छादय इति दर्शितम् । अन्यथा सर्वस्यापीच्छाश्रयस्य सत्त्वेन परशब्दार्थत्वाभावात् । एवं च देवदत्तस्येच्छादयो न देवदत्तदेहविशेषगुणाः , देवदत्ततदितरप्रत्यक्षत्वाभावाद् , इतरेच्छादिवदिति टीकोक्तहेतुके अनुमाने न काचिदनुपपत्तिरिति – चेत् , सत्यम् ; एवमपि साध्यं विशेषणीयमासीदिति यथाश्रुतग्रन्थो न घटत इत्याचार्योक्तिर्युक्तैव । इयांस्तु विशेषः – आचार्योपन्यस्ते हेतौ टीकोक्तस्वविशेषणमपहाय गुणत्वविशेषणं कृतम् । उभयमपि तत्तदभिमतान्वयदृष्टान्ते साधनवैकल्यपरिहारार्थमित्यत्र न विशेषः ।
अयावद्भूतेति ।
यावन्ति भूतानि तावत्स्वसदपीत्यर्थः , न तु यावत्स्वाश्रयभूतकालवर्त्यपीत्यर्थः ; अनुक्तानुभाषणापातात् , यद्यपि समस्तव्यस्तेष्वित्यादिपूर्वपक्षटीकाग्रन्थे भूतव्यक्त्यन्तरेषु चैतन्यासत्त्वस्यैवोक्तत्वाद् , इहापि देहाकारपरिणतेषु स्यादित्याचार्योक्त्या मदशक्तेर्मदिरावयवेष्वसत्त्वमङ्गीकृत्य मदशक्तिदृष्टान्तवैषम्यप्रदर्शकेन अपि च मदशक्तिरित्याद्यग्रिमटीकाग्रन्थेन च भूतव्यक्त्यन्तरेष्वसदपीत्यर्थस्य स्फुटीकरणाच्च ।
यावद्देहभावित्वानुमानवदिति ।
यथा विशेषगुणत्वेन हेतुना चैतन्यस्य यावद्देहकालभावित्वानुमानं , तथा यावद्भूतवर्तित्वानुमानस्यापि प्रवृत्तेरित्यर्थः । ननु पूर्वं तथानुमानं नोपन्यस्तम् , इहापि यावद्भूतव्यक्तिभावित्वानुमानं यद्यपीत्यादिटीकाग्रन्थेन नोपन्यस्यते ; अनुमानयोर्बाधितविषयत्वात् , किंतु पूर्वं चैतन्यं यदि देहविशेषगुणः स्याद् यावद्देहकालवर्ती स्यादिति तर्क उपन्यस्तः । इहापि यदि देहविशेषगुणः स्याद् यावद्भूतव्यक्त्यनुवर्तेतेति तर्क उपन्यस्यते । यावद्भूतमनुवर्तेतेति हि टीकाग्रन्थः । तदनुसारेण यद्यपीत्यस्य यदीत्यर्थग्रहणमुचितम् । एवं च निराकृतं विशेषगुणत्वमभ्युपेत्य यद्यपीत्यादिटीकाग्रन्थप्रवृत्तिरिति तत्तात्पर्यकथनमप्ययुक्तम् । हेतुत्वे खलु सिद्ध्यपेक्षा , न तु यदि वह्निर्न स्यादितिवदापादकत्वे । सत्यम् ; यद्यपीत्यस्य स्वारस्यमनुरुध्याचार्यैः प्रौढ्या व्याख्यानान्तरमङ्गीकृतमित्यदोषः ।
मात्रयापि (?) मदजनकत्वाऽदर्शनादिति ।
यद्यपि चूर्णेऽपि योग्यतारूपं मदजनकत्वमस्त्येव , केवलं तु चूर्णं सहकारिवैकल्यान्मदं न जनयतीति वक्तुं शक्यम् ; तथापि चूर्णं मदं न जनयति , किंतु चर्वणादिसाध्यस्ताम्बूलाख्यः पूगादित्रयपरिणामविशेषः । न चैतावता स्वतो मदहानिकरे चूर्णेऽपि मदजनकत्वं कल्पनीयमिति तात्पर्यम् ।
वित्तेः क्रमवद्व्यापारायोगादिति ।
अधिकरणप्रतियोगिग्रहणपूर्वकं खलु भेदग्रहणम् । अतः प्रथमं तदुभयग्रहणं पश्चाद् भेदग्रहणमिति प्रत्यक्षस्य विरम्य व्यापारो न संभवतीत्यर्थः ।
प्रतियोगिभेदसिद्ध्यसिद्ध्योरिति ।
भेदग्रहणं , प्रतियोगिग्रहणापेक्षं, प्रतियोगित्वेन प्रतियोगिग्रहणं च भेदग्रहणापेक्षमिति परस्पराश्रयमित्यर्थः । एतेन – प्रतियोगिविशिष्टभेदप्रत्यक्षे विरम्यव्यापारदोषो न प्रसज्यते ; युगपदेव प्रतियोग्यधिकरणविशिष्टभेदविषयत्वस्वीकारात् , प्रतियोगिविषयस्याधिकरणविषयस्य च विशेषणज्ञानतया कारणस्य ज्ञानान्तरत्वस्वीकारादित्यपि शङ्का – निरस्ता ; तस्य ज्ञानस्य भेदनिरूप्यप्रतियोगित्वविषयताया अपि वक्तव्यत्वेन परस्पराश्रयानुद्धारात् ॥५४॥
इति त्रिंशमैकात्म्याधिकरणम् ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥ स्वरादीत्यादिशब्देन वर्णभेदश्चित्याग्न्यादिप्रकारभेदश्च गृह्यते । यद्यप्योङ्कारावयव उद्गीथ उपास्यः , तत्र स्वरवर्णभेदो नास्ति ; तथापि स्वरभदेः संभावितः उद्गीथस्यावयव उपास्य इति विधौ कस्योद्गीथस्यावयव इति विशेषाकाङ्क्षायामुद्गीथे सामोक्थादिविषयोपासनायां च स्वरवर्णोभयभेदः संभवति। पूर्वाधिकरणस्य प्रासङ्गिकत्वाद्व्यवहिताधिकरणेन सङ्गतिर्वक्तव्येत्यभिप्रेत्य तामपि दर्शयति –
अथ वेति ।
का श्रुतिरस्माभिः पीड्यत इति ।
सङ्कोचलक्षणं तु पीडनं सन्निधिवशात्सह्यमित्यत्रापि शक्लं पटमानयेत्ययमेव दृष्टान्तः ।
दृष्टान्तवैषम्यं विवृण्वन् सिद्धान्तग्रन्थमवतारयति –
दृष्टान्त इति ।
मा बाधीत्यत्र लुङन्तमाख्यातम् । माङ्योगादडागमाभावः ॥५५॥५६॥
एकत्र होतव्या इति ।
पञ्च प्रयाजानू प्राचो यजतीति देशभेदविधानेन विकल्पितमिदं देशैक्ये विधानम् ।
छागस्य वपाया इत्याद्यध्वर्युप्रैषस्यार्थमाह –
छागादेरिति ।
आदिशब्दो वैकृतपश्वन्तरप्रैषगतपशुजात्यन्तरसंग्रहार्थः ।
स जनास इन्द्र इति शेष इति ।
अनेन सजनपदवत्सूक्तं हि सजनीयम् । यो जात इति सूक्तं कथं सजनीयमित्याकाङ्क्षायां मन्त्रान्तररूपशेषदर्शनेनेदं सूक्तं सजनीयं भवतीत्युपपादितम् । अस्मिन् सूक्ते अन्त्यामृचं विना प्रत्यृचं सजनास इन्द्र इति मन्त्रान्ते विद्यते इति इदं सजनीयं भवतीति भावः॥
इत्येकत्रिंशमङ्गावबद्धाधिकरणम्॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥
"वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्तृवृतैवास्मिन् तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति यस्मिन् जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती"ति समाम्नायः ।
तमर्थतः सङ्क्षिप्य दर्शयति –
वैश्वानरमिति ।
अत्र कपालानां प्राप्ता अष्टसंख्यादिरूपा गुणा विधीयन्ते , उत प्राप्ताभिस्ताभिरेकदेशद्वारा विधेया द्वादशसंख्या स्तूयत इति संशये महासंख्यायामवान्तरसंख्यान्तर्भावस्य शतेन पञ्चाशदनुमानादिना सुप्रसिद्धत्वेन द्वादशसंख्याविधानतोऽष्टत्वादीनां प्राप्तेः स्तुत्यर्थतैव युक्तेति कथं पूर्वपक्ष इत्याशङ्क्य परिहरति –
यद्यपीति ।
तथापि न परिच्छेदकत्वमिति ।
वस्तुतः सन्त्यप्यष्टादिसंख्या द्वादशसंख्यासंख्येयानां कपालानां न परिच्छेदिका , न विशेषणानि ; संभवद्विरोधिव्यावर्तकं च नीलमुत्पलमित्यादौ विशेषणं भवति , न च द्वादशस्वष्टत्वादयः पर्याप्तवृत्तयः संभवन्ति। न वा विरोधिसंख्याव्यावर्तिका । अतः परिच्छेदकत्वेन तासां न प्राप्तिरित्यर्थः । ननु – मा भूत्परिच्छेदकत्वेन प्राप्तिः , अन्तर्भावमात्रेण प्राप्तिरस्ति , द्वादशसु निष्कृष्टानां केषांचित्परिच्छेदकत्वेनापि प्राप्तिरस्ति , यथा शतं ब्राह्मणाः सोमान् भक्षयन्तीत्यत्र शतमध्ये निष्कृष्टानां केषांचित्परिच्छेदकत्वेन दशसंख्यायाः प्राप्तिः , अत एव दशैकैकं चमसमनुसर्पन्तीति तदनुवाद इति – चेत् , उच्यते ; यथाकथंचित्प्राप्तिमात्रमिह न पर्याप्तं , किंतु कपालसाध्यपुरोडाशद्रव्यसंस्कारार्थतया तत्परिच्छेदकत्वेन प्राप्तिः । "तद्धितार्थोत्तरपदसमाहारे चे"ति सूत्रेण तद्धितार्थे संस्कृते विषयभूते अष्टादिशब्दानां कपालशब्दस्य च समासे पश्चादष्टकपालप्रातिपदिकादष्टसु कपालेषु संस्कृतमित्यर्थेऽण्प्रत्यये तस्य "द्विगोर्लुगनपत्ये" इति लुकि सत्यष्टाकपालादिशब्दनिष्पत्तेः । न च द्वादशसंख्यावदष्टत्वादिसंख्यानां पुरोडाशसंस्काराङ्गतया प्राप्तिर्यदष्टाकपालो भवतीत्यादिवाक्यप्रवृत्तेः प्रागस्ति। तस्मात्तेष्वष्टत्वादिसंख्यानां संस्काराङ्गतया विधिरिति गुणविधिपक्ष एवाश्रयणीयः । न च – उत्पत्तिशिष्टद्वादशसंख्याविरोधात् तद्विरुद्धाष्टत्वादिसंख्याविधिर्न घटत इति – शङ्कनीयम् ; एकं हीदं वाक्यं वैश्वानरं द्वादशकपालमित्यादि पशुमान् भवतीत्यन्तम् । नचैकस्मिन्वाक्ये विधेयेषु संख्याविशेषेषूत्पत्त्युत्पन्नशिष्टविवेकोऽस्ति। तस्मादेकेन वाक्येन विहितानां विरुद्धसंख्याविशेषाणां वैकल्पिकाङ्गत्वेन विधिषु न काचिदनुपपत्तिरिति भावः ।
उत्पत्तिशिष्टेति ।
उपक्रमोपसंहारैकरूप्येणैकवाक्यत्वेऽपि वैश्वानरमष्टाकपालं नवकपालं दशकपालमेकादशकपालं द्वादशकपालं निर्वपेदित्याम्नानाभावाद् द्वादशकपालं निर्वपेदित्येतावता विधिवाक्यसमाप्तेः द्वादशसंख्यैवोत्पत्तिशिष्टा , न तु प्रथमान्ताष्टाकपालादिशब्दोक्ता अष्टत्वादिसंख्या इति तेषां विध्यन्तरसमर्पितानामन्वयो वाच्यः । न त्वयं संभवति ; उत्पत्तिशिष्टगुणावरोधादित्यर्थः ।
विध्यन्तरसमाश्रयणे विध्यर्थवादभावेनान्वय इवोपक्रमोपसंहारैकरूप्यावगतम् एकवाक्यत्वं न संरक्षितं स्यादित्याह –
अपि चेति ।
वस्तुतः प्राप्तानीति ।
संज्ञामात्रेण प्राप्तानीत्यर्थः । एवं चाष्टाकपालादिशब्दानाम् अष्टत्वादिसंख्यापरिच्छिन्नकपालसंस्कृतवाचिना द्वादशकपालसंस्कृतपुरोडाशावयवेष्वष्टकपालादिस्थितेषु लक्षणाया वृत्तिरेष्टव्येति भावः ।
स्तुत्यर्थमिति ।
गजाश्वादिस्तुतिद्वारा सेनाया इव नेत्रादिस्तुतिद्वारा शरीरस्येवचाष्टत्वादिसंख्यास्तुत्या तत्संख्येयकपालनिष्ठपुरोडाशावयवस्तुत्याच द्वादशसंख्यायास्तत्संख्येयकपालनिष्ठपुरोडाशावयविनश्च स्तुत्यर्थमित्यर्थः ।
किं च यद्यष्टाकपालादिषु विधयः श्रूयेरन् , तदोपक्रमोपसंहारावगतमेकवाक्यत्वमङ्गप्रधानविधिरूपानेकावान्तरवाक्यघटितमहावाक्यैकरूपतया कथंचित्समर्थ्येत , न तु तदस्तीत्याह –
वर्तमानापदेशानामिति ।
उपक्रमोपसंहारयोरेकविद्याविषयत्वेनेति ।
ननु – भूमविद्याप्रकरणोपक्रमोपसंहारयोरात्मविद्याविषयत्वेऽपि मध्ये नामाद्युपासनतत्फलश्रवणात् तद्विधयोऽप्यङ्गीकृताः ? तथेह किं न स्याद् , वैषम्यात् । इह हि व्यस्तोपासनासु निन्दा श्रूयते ; न चारब्धसमस्तोपासनाः ? पुरुषविषयास्तन्निन्दाः अविज्ञातममस्तोपासनानामपि प्राचीनशालादीनां व्यस्तोपासनाभिर्निन्दितत्वात् । किंच मूर्धा त्वेष चात्मेति होवाचेत्यादिवाक्येषु द्युप्रभृतीनां स्वतन्त्रोपास्यत्वव्यवच्छेदः कृतः । "एते वै खलु पूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्येती"तीवकारेण व्यस्तोपासनानां भ्रममूलत्वमुद्धाटितम् । एवं वैषम्यान्नात्र भूमविद्यान्यायशङ्कावकाशः ॥५७॥
इति द्वात्रिंशं भूमज्यायस्त्वाधिकरणम् ॥
नाना शब्दादिभेदात् ॥५८॥
अपूर्वसाधनमिति ।
अपूर्वसाधनभूता या पुरुषप्रवृत्तिः सा भावनेत्यर्थः ।
तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वादिति ।
उपासनानां स्वतो यागदानहोमवद् भेदाभावाद् वेद्यस्य ब्रह्मण एकत्वेन विषयीकृतस्यापि भेदस्याभावाद् ब्रह्मगुणानां सिद्धतया सिद्धब्रह्मविशेषणतया च स्वतः परतो वा कार्यत्वाभावेन कार्यविशेषणवाजिनादिगुणवद्भेदकत्वाभावाच्च न विद्याभेद इत्यर्थः । एवं च यथा सत्यविद्यायां सत्यस्य ब्रह्मणो वेद्यस्यैकस्याक्ष्यादित्यस्थानयोरहरहर्नामभेदेन पृथगनुचिन्तनेऽप्येकविद्यात्वम् , यथा वा संवर्गविद्यायां वायुत्वस्य वेद्यस्यैकस्य बाह्याध्यात्मिकभेदेन वागाद्यग्न्यादिसंहर्तृत्वगुणभेदेन च पृथगनुचिन्तनेऽप्येकविद्यात्वं , तथोपकोसलविद्यान्तरादित्यविद्यादहरविद्यादीनां स्थानभेदेन शाण्डिल्यविद्यावैश्वानरविद्यादीनामणुत्वमहत्वादिगुणभेदेनान्यासामपि विद्यानां तत्तत्प्रकरणाम्नातगुणविशेषैश्च पृथगनुचिन्तनेऽप्येकविद्यात्वमिति पूर्वपक्षाशयः ।
किमुपासनावाक्येत्षूपासनाभावनारूपकार्यप्रतिपादनं नास्तीति गुणभेदेन तद्भेदो नास्तीत्युच्यते , अथवा –
गुणानां कार्यविशेषणत्वाभावेनाकार्यतया तद्भेदाद्भेदो नास्तीति , उत तेषां कार्यान्वयेऽपि गुणिन एकत्वेन गुणभेदान्न भेद इति ।
नाद्य इत्याह –
यदि वस्तुनिष्ठानीति ।
उपासनावाक्यानां भावनारूपकार्यपरत्वाभावे प्रवर्तकविध्यभावादेकविद्यात्वपक्षेऽपि तदनुष्ठानं न स्यादिति भावः ।
द्वितीयपक्षमाशङ्क्य परिहरतीत्यवतारयति –
उपासनाप्रवृत्तेरिति ।
ब्रह्मविशेषणानामपि गुणानामरुणैकहायनीन्यायादुपासनाभावनारूपकार्यान्वयोऽस्तीति भावः ।
तृतीयमाशङ्क्य निराकरोतीत्यवतारयति –
ननु सत्यकामत्वादिगुणानामिति ।
दशद्रव्याणामिति ।
दशसंख्यायुक्तद्रव्याणामिति मध्यमपदलोपी समासः । दशद्रव्याणि पयोदध्याज्यतण्डुलौदनयवागूमांससोमजलतैलानि ॥५८॥
इति त्रयस्त्रिंशं शब्दादिभेदाधिकरणम् ॥
विकल्पोऽविशिष्टफलत्वात् ॥५९॥
अहंग्रहोपास्यदेवो भूत्वेति ।
त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसीत्यभेदध्यानदार्ढ्येन तज्जन्यसाक्षात्कारोऽप्युपास्यदेवोऽहमस्मीति जायते । तं लब्ध्वैवोपास्यदेवतासायुज्यं प्राप्नोतीत्यर्थः ॥५९॥
इति चतुस्त्रिंशं विकल्पाधिकरणम् ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥
इति पञ्चत्रिंशं काम्याधिकरणम् ॥
अङ्गेषु यथाश्रयभावः ॥६१॥ कामनाया अविधेयत्वादित्यन्तेन ग्रन्थेन प्रयोगविध्याक्षेप्यतया कामनानियमस्यासंभव उक्तः , न तु सर्वथा तदसंभवः ; "तद्यथाऽऽम्रफलार्थे निमित्ते च्छाया गन्ध इत्यनूत्पद्यते , एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते" इत्यापस्तम्बोक्तन्यायात् स्वर्गाद्यर्थमनुष्ठीयमानेषु क्रतुषु तत्प्रयोगमध्ये समुच्चित्यानुष्ठेयैः कैश्चन पदार्थैरयत्नेन नान्तरीयकतया सिद्ध्यत्सु फलेषु कामबहुलानां कर्मणां स्वत एव कामनाऽसंभवात् , अन्यथा प्रस्तरप्रहरणप्रभृत्यङ्गफलेषु का गतिः ? अपापश्लोकश्रवणाद्यार्थवादिकमेवाङ्गफलं न विवक्षितम् ; "आयुराशास्त" इत्यादिमन्त्रकरणे प्रकाश्यमायुरादिरूपं प्रस्तरप्रहरणप्रभृत्यङ्गफलं तु विवक्षितमेव । करणमन्त्रस्य पदैः सर्वैरप्यनुष्ठेयस्यैव साक्षात्संबन्धिद्वयप्रकाश्यत्वनियमेन प्रस्तरयागकरणमन्त्रप्रकाश्यानामायुरादीनां तत्फलतयैव तत्संबन्धस्य निर्वहणीयत्वात् , एवमेव नवमाध्याये स्थापितत्वात् । ननु सिद्धान्तभाष्यव्याख्यानानन्तरं समाहारादिति पूर्वपक्षसूत्रभाष्यं व्याख्यायते , इदं व्यत्यस्तमित्याशङ्क्याह –
एवमधिकरणस्यार्थमुक्त्वेति ।
बुद्धिसौकर्यार्थमधिकरणशरीरं सङ्कल्पितम् , इदानीं पूर्वपक्षभाष्यव्याख्येयांशमुपादाय व्याख्यायत इत्यर्थः ।
तत्र यद्याश्रयतन्त्रत्वादुपासनानां पुरुषार्थानामपि समुच्चयः , तदा गोदोहनादीनामपि स्यात् अविशेषादित्याशङ्क्य ततो विशेषप्रदर्शनार्थं सूत्रं –
शिष्टेश्चेति ।
गोदोहनादयः चमसादिस्थानापन्नतयोपदिश्यन्ते , तेषां समुच्चये चमसादीनां निवृत्त्या चमसेनापः प्रणयेदित्यादिशास्त्राणामप्रामाण्यं स्यादिति गोदोहनादीनां न समुच्चयः । नैवमुपासनानां किंचित्स्थानापत्त्योपदेशोऽस्ति , किंतु तत्स्थानापत्तिराहित्येनोद्गीथाद्युपदेशविशिष्ट एव तेषामुपदेश इति। एवमस्य सूत्रस्यार्थो भाष्य एव स्पष्ट इत्यर्थः ।
समुच्चयलिङ्गदर्शनत्वघटकं भाष्यमिति ।
छान्दोग्ये "य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः" इत्युद्गातुः प्रणवोद्गीथैक्योपासनाविधेरर्थवादो होतृषदनादित्यादिः । उद्गातृवेदविहितप्रणवोद्गीथैकत्वविज्ञानस्य ऋग्वेदोदितप्रणवसंबन्धनियमो दृष्टः । अयं वेदान्तरोदितोपासनासंबन्धनियमोऽपि तस्यास्तीत्यत्र लिङ्गम् । वेदान्तरोदितप्रणवरूपपदार्थसंबन्धेन सह वेदान्तरोदिततया सादृश्यात् सादृश्यमवलम्ब्याप्यस्ति लिङ्गोपन्यासः । यथा “विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वमिति” जैमिनिसूत्रे । तत्र "ह्यौदुम्बरो यूपो भवतीत्यूर्ग्वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जं पशूनाप्नोत्यूर्जोऽवरुद्ध्यै" इत्यत्रोर्गवरोधशब्दोक्तान्नप्राप्तिरूपफलाय यूपाश्रय उदुम्बरतागुणो विधीयत इति प्रापय्य वैकृतसोमापौष्णपशुप्रकरणे चोदकप्राप्यस्य यूपस्याप्रकृतत्वेन प्रकरणादाश्रयसंबन्धालाभाद् वाक्येनैवाश्रयसंबन्धस्य फलसंबन्धस्य च बोधने वाक्यभेदप्रसङ्गाच्च गुणफलविधिर्न संभवतीत्येवंजातीयका अर्थवादा इति सिद्धान्तं कृत्वा "क्वचिदप्सुयोनिर्वा अश्व" इत्यादावप्सुयोनिरश्वः कर्तव्य इत्येवमादिविधिरशक्यत्वान्न संभवति। "वायुर्वै क्षेपिष्ठा देवते"त्यादौ वायुः क्षेपिष्ठः कार्य इत्यादिविधिः सिद्धत्वान्न संभवतीति तत्र स्तुत्यर्थत्वमेव वाच्यम् ; तत्सामान्याद्विध्यसंभवरूपतत्सादृश्यादितरेषूदुम्बरादिष्वपि तथात्वमिति सादृश्यमवलम्ब्य स्तुत्यर्थत्वमुपपादितम् । एवमिहापि योजनीयम् । "एवं समाहारा"दिति सूत्रे समाहारशब्दोक्तं दोषसमाधानं हेतुत्वेन न विवक्षितं , किंतु “आनन्दमयोऽभ्यासा”दित्यत्रानन्दमयशब्द इव समाहारशब्दः स्थलप्रदर्शनार्थ इति द्रष्टव्यम् ।
आश्रयसाधारण्येति ।
अत्रेदं वक्तव्यम् – यदोङ्कारस्याश्रयस्य वेदत्रये साधारण्येन तदाश्रितोपासनायास्तथात्वमुपासनानां समुच्चये लिङ्गमुक्तं भाष्ये , तदयुक्तम् ; "ओमित्येतदक्षरमुद्गीथमुपासीते"त्यत्र स वेदव्यापिन ओङ्कारमात्रस्योपासनाश्रयत्वं मा भूदित्येतदर्थमुद्गीथावयवत्वेन विशेषणमिति "व्याप्तेश्च समञ्जस"मित्यधिकरणे निरूपितत्वेनोपासनाश्रयत्वेन प्रकृतस्योङ्कारस्य सर्ववेदसाधारण्याभावात् "तेनेयं त्रयी विद्ये"ति प्रकृतपरामर्शितच्छब्देनोपासनाश्रयत्वेन प्रकृतस्योङ्कारस्य परामर्श इति तस्य वेदत्रयसाधारण्यसिद्धौ तद्द्वारा “तदनुज्ञाक्षरं यद्धि किंचिदनुजानात्योमित्येव तदाहे”ति प्राचीनवाक्यगततच्छब्दस्याप्युपासनाश्रयोङ्कारपरामर्शित्वेनोपासनानां लोकसाधारण्यस्यापि सिद्धिप्रसङ्गात् , कथंचिदाश्रयसाधारण्येनोपासनानां वेदत्रयसाधारण्यसिद्धावपि तेन सर्वेषु क्रतुप्रयोगेषु नियमेनानुष्ठेयत्वलक्षणस्य समुच्चयस्यासिद्धेश्च । यच्चान्वयस्य व्यतिरेकेण दृढीकरणमाचार्यैरुक्तम् , तदप्ययुक्तम् ; वेदत्रयसाधारण्यरूपस्यान्वयस्य तद्विलक्षणेन आश्रयस्य सर्वप्रयोगसाधारण्याभावे तदाश्रितस्योपासनस्य सर्वप्रयोगसाधारण्याभाव इति व्यतिरेकेण वह्न्यभावे धूमाभाव इति व्यतिरेकेणेव दृढीकरणाऽसिद्धेः , आश्रयतन्त्रत्वे सत्यप्याश्रयस्य सर्वप्रयोगसाधारण्याभावात् तदाश्रितोपासनानामयोगाच्च । तस्माद् गुणसाधारण्यसूत्रस्य वृत्तिकारकृतव्याख्यानमुपहासार्थमनूद्य भाष्यकारैरथ वेत्यादिना स्वयं व्याख्यानान्तरं कृतमिति तात्पर्यकथनं युक्तम् ।
चमसं चोन्नीयेति ।
यद्यपि ग्रहणस्तोत्रशस्त्राणामिव सहभावग्रहणस्याभावः समुच्चयाभावे न हेतुः , तदभावेऽपि प्रयाजादीनां तद्धर्माणां च समुच्चयदर्शनात् ; तथापि तद्वदिह पुरुषार्थानां प्रयोगवचनपरिहारासंभवात् । सहभावश्रुतिरस्तीति चेत् , तद्वशात्समुच्चयसिद्धिरन्वेषणीया , साऽपि नास्तीति न समुच्चय इति भावः । छान्दोग्ये "यदि ऋक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयाद् यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद् यदि सामतो रिष्येत् स्वः स्वाहेत्याहवनीये जुहुया"दित्युपदिश्याम्नायते एवं विद्ध वा इत्यादि । तत्र यज्ञस्य रक्षाङ्गवैकल्यप्रयुक्तदोषपरिहारः यजमानस्य रक्षाफलवत्कर्मणा कर्मफलाप्रतिबन्धः ऋत्विजां रक्षामन्त्रोच्चारणेषु स्वरादिभ्रंशप्रयुक्तदोषपरिहारः ; अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः । आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः॥ इति मन्त्रहीने ऋत्विजां दोषस्मरणात् । एवं च यद्युद्गीथाद्युपासना नित्याः स्युः , तदा तत्फलतया कर्मफलाप्रतिबन्धसिद्धेः प्रणवोद्गीथैकत्वोपासनाफलतयोद्गातुः स्वरभ्रंशादिदोषपरिहारादिसिद्धेश्च यजमानस्य सर्वेषामृत्विजां च ब्रह्मणा परिपाल्यत्वं नोच्येत , तदुच्यमानमुपासनानामनित्यत्वं ज्ञापयतीति लिङ्गदर्शनमुक्तम् । तत्रोदाहृतश्रुतावेवंविच्छब्दः प्रकृतप्रायश्चित्ताभिज्ञपर इत्यर्थः ॥६४॥६५॥६६॥
इति षट्त्रिशं यथाक्षयभावाधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्री – रङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ वेदान्तकल्पतरुपरिमले तृतीयाध्यायस्य तृतीयः पादः॥ ॥
अथ तृतीयाध्यायस्य चतुर्थः पादः॥ पुरुषार्थोऽतःशब्दादिति बादरायणः ॥१॥ पूर्वपादेनावसरसंगतिं दर्शयन् पादार्थमाह –
अपूर्वमिति ।
ब्रह्मविद्यानां स्वातन्त्र्येण फलसाधनत्वनिरूपणं तदितिकर्तव्यतानिरूपणं च न पादार्थः ; अर्थभेदेन पादभेदप्रसङ्गात् , किंतु तदितिकर्तव्यतानिरूपणमेव ; फलकरणस्य सत इतिकर्तव्यताकाङ्क्षेति तदाकाङ्क्षासिद्ध्यर्थमुपोद्घातत्वेन प्रथमाधिकरणे तासां स्वातन्त्र्येण फलकरणत्वस्य निरूपणमिति द्रष्टव्यम् ।
कर्मानपेक्षाणामिति ।
स्वयं कर्माङ्गभावेन कर्मापेक्षारहितानां स्वयमेव फलकरणानामित्यर्थः ।
का नामेतिकर्तव्यतेति ।
उपकोसलविद्यादिषु कासुचित्सगुणविद्याग्निविद्याद्यारादुपकारकाङ्गोपदेशे सत्यपि निर्गुणविद्याया अविद्यानिवृत्तिरूपदृष्टफलोत्पादने आरादुपकारकानपेक्षायामपि सर्वासां विद्यानां चित्तशुद्धिचित्तैकाग्र्यद्वारा सन्निपत्योपकारकेषु ज्ञेयोपास्यब्रह्मस्वरूपज्ञानार्थं प्रमाणाभावेन च सन्निपातिष्वाकाङ्क्षाऽस्तीति तात्पर्यार्थः ।
ननु फलभेदाभेदावन्तरेणेति ।
यद्यपि फलाभेदेऽपि गुणभेदेन ब्रह्मलोकप्राप्तिफलकविद्यानां भेदो भवति , विद्याभेदेऽपि हृदयायतनत्वादिना सगुणनिर्गुणविद्ययोः सत्यकामत्वादिगुणोपसंहारो भवति , विद्यैक्येऽपि सत्यविद्यायामक्ष्यादित्यस्थानभेदेनाहमहर्नामकत्वलक्षणगुणानुपसंहारो भवति ; तथापि प्रायोऽभिप्रायेणैतदुक्तम् ।
न प्रकरणादिति ।
प्रकरणादात्मज्ञानं कर्माङ्गं न भवति ; प्रकरणस्याभावादित्यर्थः ।
न वाक्यादिति ।
अनारभ्यवादः शब्दसमर्पितक्रत्वङ्गतां लिङ्गोपस्थापितक्रत्वङ्गतां वा वाक्यप्रमाणेन विधत्ते । तद्यथा – “अथातोऽग्निमग्निष्टोमेनानुयजन्ती”त्यनारभ्यवादोऽग्निष्टोमशब्दसमर्पितक्रत्वङ्गतां चित्याग्नेरग्निष्टोमादिपदसमभिव्याहाररूपेण वाक्यप्रमाणेन विधत्ते । "यस्य पर्णमयी जुहूर्भवती"त्यनारभ्यवादो जुहूलिङ्गोपस्थापितजुहूपदलक्षितक्रत्वङ्गतां पर्णतायाः पर्णमयीजुहूपदादिसमभिव्याहाररूपेण वाक्यप्रमाणेन विधत्ते , न वाऽऽत्मज्ञानवाक्येषु क्रतुसमर्पकः शब्दोऽस्ति , न च तदुपस्थापकं लिङ्गमस्ति ; आत्मनो व्यभिचारित्वे नातल्लिङ्गत्वादित्यर्थः ।
अनुस्मारयन् वर्तत इत्यर्थ इति ।
टीकायामनुस्मारयन्नित्येतदनन्तरं जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वर्थतामापाद्यत इति पाठं दृष्ट्वा अनुस्मारयन्नित्यस्यापाद्यत इत्यनेनानन्वयाद्वर्तत इत्यध्याहारः कृतः । क्रत्वर्थतामापादयतीति पाठे तु नाध्याहारापेक्षा ।
ननु देहातिरिक्तात्मनि सत्यप्यव्यभिचरितक्रतुसंबन्धे नास्ति तद्भाने सति क्रतुस्मृतिनियमः ; कारणे सति कार्यनियमाभावात् , न हि धूमस्य दर्शने सति वह्निस्मृतिर्नियता । तथा च यस्य "आत्मा द्रष्टव्य" इत्यादिवाक्यश्रवणकाले क्रतुस्मृतिः , तस्य लक्षणया वाक्येनात्मदर्शनस्य क्रत्वर्थताप्रतिपत्तिः , यस्य न तत्स्मृतिः , तस्य नेत्यव्यवस्थिता वाक्यार्थधीः स्यादित्याशङ्क्य परिहरति —
यद्यपीति ।
कापि प्रवृत्तिर्भवतीति ।
सर्वानुभवसिद्धमेतदिति भावः ।
व्याप्यव्यतिरेक विज्ञानमिति ।
देहातिरिक्तात्मज्ञानं पारलौकिकफलसाधनविषयेच्छादिजनकक्रतुस्मृतिनियतमित्यर्थः । एवमपीह क्रतुस्मृतिनियमोपपादनं संभवतीत्येतदुक्तं न सार्वत्रिकम् ; पर्णतादिविध्यव्यापनात्तत्फलकल्पनार्थवादिकफलविपरिणामादिदोषपरिहाराय स्वत एव पर्णतादीनां फलवदन्वयाकाङ्क्षया वाक्यात्प्रकरणाद्वा तदलाभाद् , लिङ्गात् फलवत्क्रतुस्मृतिनियम इति सार्वत्रिकं तदुपपादनम् ।
आचाराद्यन्यार्थदर्शनमिति ।
ननु एतदुपोद्बलनार्थमिति टीकाग्रन्थः स्वयमस्वतन्त्रस्याचारादेः पर्णमयीन्यायप्रापकमपेक्ष्योन्मेषपरत्वेन व्याख्यातुं न युक्तः , किंतु देहातिरिक्तस्य वेदान्तप्रतिपाद्यस्यात्मनः परार्थत्वाभावादव्यभिचारक्रतुसम्बन्धाभावाच्च इह पर्णमयीन्यायस्यानुन्मेषप्राप्तावाचारादिकमपेक्ष्य तदुन्मेषपरत्वेन व्याख्यातुं युक्तः , असकृदावेदितं ह्यधस्ताद् वेदान्तानामकर्त्रनन्यार्थात्मपरत्वम् । न च तस्येहोपमर्दोऽस्ति पूर्वपक्षे , न वा सिद्धान्ते तस्यात्मनः परार्थत्वाभावे न्यायान्तरोपन्यासोऽस्ति , प्राक्सिद्धन्यायजातमेव हि इहापि सिद्धान्ते स्मारितम् ; देहातिरिक्तस्य च कर्तुर्नाव्यभिचरितक्रतुसंबन्धोऽस्ति, दानादिभिरपि तस्य सबन्धात् , न च – अत्र क्रतुशब्दो विहितकर्ममात्रोपलक्षक इति वाच्यम् ; निषिद्धकर्मभिरपि संबन्धात् । तान्यपि हि स्वफलभोगार्थं देहातिरिक्तात्मसापेक्षाणि । यदि त्वत्र क्रतुशब्दः पारलौकिकफलसाधनविहितनिषिद्धसाधारणकर्ममात्रोपलक्षकः स्यात् , तदा यथात्मदर्शनसंस्कृतेनैव कर्त्राऽनुष्ठितं विहितं कर्म स्वर्गादिसाधनं यथा तेनैवानुष्ठितं निषिद्धं कर्म नरकसाधनमिति पामरानुष्ठितनिषिद्धकर्मणां नरकजनकत्वं न स्यात् , "तद्यथा पुष्करपलाश आपो न श्लिष्यन्त" इति येषामात्मदर्शनवतां पापाश्लेषः श्रुतः , तेषामेव तन्नरकजनकं स्यात् । ननु – निषेधवाक्येषु प्रत्यवायफलकं निषिद्धानुष्ठानं न शास्त्रार्थः, किंतु प्रत्यवायपरिहारफलकं निषिद्धाननुष्ठानं प्रत्यवायपरिहाराय भवतीति शास्त्रार्थाङ्गीकारे नोक्तदोषः ; निषिद्धानुष्ठानेन प्रत्यवायजनने देहातिरिक्तात्मज्ञानानपेक्षणादिति – चेत् , मैवम् ; एवं सति वेदान्तजन्यात्मज्ञानरहितानां निषिद्धाननुष्ठानेऽपि प्रत्यवायापरिहारादवश्यंभावी प्रत्यवायो निषिद्धानुष्ठानेनैवास्त्विति प्रतिसंधानेन तेषां तदनुष्ठानप्रसङ्गो दुर्वार । किंचात्र क्रत्वव्यभिचारशब्देनाग्निसाध्यकर्माव्यभिचार एव पूर्वपक्षिणा विवक्षित इति वक्तव्यम् । अन्यथा "ऊर्ध्वरेतस्सु च शब्दे ही"ति सूत्रोक्तस्य विद्यास्वातन्त्र्यहेतोरनन्वयापत्तेः , पारलौकिकफलकर्माव्यभिचारविवक्षायां नैष्ठिकादीनामपि स्वाश्रयधर्मरूपकर्मसत्त्वाद् विद्यायास्तदङ्गत्वोपपत्या स्वातन्त्र्यं न सिद्ध्येत् । तस्माद्वेदान्तप्रतिपाद्यस्यात्मनः पारार्थ्यक्रत्वव्यभिचारयोरभावादिह पर्णमयीन्यायाऽनुन्मेषेण तदुज्जीवनार्थमग्रिमश्रुतिलिङ्गादिवर्णनमित्येव व्याख्यातुं युक्तम् । न च – अन्यार्थदर्शनं स्वयंप्रापकसापेक्षम् इह तद्रहितं कथमन्योपोद्बलकं स्यादिति — शङ्कनीयम् ; आचारदर्शनमेव हि वैश्वानरविद्यादिप्रशंसार्थत्वाद् अन्यार्थदर्शनम् । यदेवेति श्रुतिरेव । तत्र यदेव करोतीति सर्वनामावधारणाभ्यां व्याप्तिगमकाभ्यां सर्वं कर्मानूद्य तत्साधनत्वेन विद्या तृतीयाश्रुत्या विधीयत इति स्पष्टमेव प्रतीयते । न च "तेनोभौ कुरुत" इति विद्याविहीनस्यापि कर्मोक्त्या कश्चिद्दोषः ; तावता हि षोडशिग्रहणवद् वैकल्पिकाङ्गत्वं सिद्ध्यति , न त्वनङ्गत्वम् । अत एव तदेव वीर्यवत्तरं भवतीति विद्यापक्षेऽङ्गभूयस्त्वप्रयुक्तं फलभूयस्त्वमनूद्यते , समन्वारम्भणं तु सिद्धान्तेऽप्यङ्गीक्रियते ; तद्वतो विधानमप्यविचलो हेतुरधीत्येति ह्यध्ययनकरणिकार्थज्ञानफलपर्यन्ता भावनोच्यते , फलापवर्गित्वाद् भावनायाः । अत एव "वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते"त्यत्र वाजपेये प्रधानयागानुष्ठानानन्तरमेव बृहस्पतिसवयागप्राप्तौ फलापवर्गिणी भावना फलाऽपूर्वपर्यन्तेति तन्निष्पत्त्यर्थोदीच्याङ्गसहितवाजपेयप्रयोगसमाप्त्यनन्तरमेव बृहस्पतिसव इति मीमांसकैरङ्गीक्रियते , अध्ययनं च स्वस्ववेदस्य कार्त्स्न्येन विहितम् । तथा चाधीतस्य कृत्स्नस्य वेदस्यार्थावबोधफलपर्यन्तस्याधीत्येति गृहस्थाश्रमकर्मसु विनियोगात् कर्मभागज्ञानस्येव कथमौपनिषदात्मज्ञानस्यापि कर्मानुष्ठानोपयोगितया तत्र विनियोगो न सिद्ध्येत् ? एवं नियमोऽप्यविकलः पूर्वपक्षहेतुः । “ईशावास्यमिदं सर्वमि”त्यात्मोपदेशपूर्वकं हि “कुर्वन्नेवे”ति श्रवणमात्मविदो जीवनस्य कर्मसु विनियोगं बोधयदात्मविद्याया एव विधिविभक्त्या कर्माङ्गत्वं बोधयेत् । एवं च आचारदर्शनमन्यार्थदर्शनमपि विद्याकर्मणोः समप्राधान्येन कर्मणो विद्याङ्गत्वेनोपपद्यमानमपि “यदेव विद्यये"त्याद्यनुगृहीतं विद्यायाः कर्माङ्गत्वे पर्यवस्यल्लिङ्गं भवेदेव । तस्मात्पर्णमयीन्यायोज्जीवनार्थं श्रुतिलिङ्गोपन्यास इत्येव युक्तम् । एवं हि सति देहातिरिक्तस्य कर्तुः क्रत्वव्यभिचारोऽस्तु वा , मा वा , "आत्मा द्रष्टव्य" इत्यादिना विधीयमानात्मविद्यायास्तव्यप्रत्ययेन तावदात्मसंस्कारार्थ त्वमवगतं , “यदेव विद्यये”ति श्रुत्या तस्याः क्रत्वर्थत्वमप्यवगतं , "य आचार्यकुलाद्वेदमधीत्ये"त्यध्ययनफलोपनिषदात्मावबोधस्य कर्मार्थत्वोक्त्याऽपि विद्यायाः कर्मार्थत्वमवगतं, विद्यायाः स्वातन्त्र्ये विद्यानुष्ठानोपयोगिनस्तस्य कर्मार्थत्वायोगात् । औपनिषदात्मसंस्काररूपविद्यायाः क्रत्वर्थत्वमौपनिषदात्मनः क्रत्वर्थत्वे सत्येवोपपद्यते ; यजमानस्य क्रत्वर्थत्वे सत्येव हि यजमानसंस्कारस्याञ्जनादेः क्रत्वर्थत्वमिति पर्णमयीन्यायोऽत्र लब्धप्रसरो भवतीति – चेद् , उच्यते ; विद्यायाः क्रत्वर्थत्वसाधनांशेन पर्णमयीन्यायानुग्राहकमपि यदेव विद्ययेत्यादिकं केवलक्रत्वर्थत्वसाधनाय पर्णमयीन्यायसापेक्षम् , अन्यथा दध्यादिवद्विद्यायाः पुरुषार्थत्वमप्यस्तु , फलस्यापि श्रवणादिति शङ्काया निवारणं न भवेत् । तस्मात्पर्णमयीन्यायानुग्राहकत्वं "यदेव विषये"त्यादेरेतदुपोद्बलनार्थमिति येन टीकाग्रन्थेनोक्तं तेनैव तस्य केवलपुरुषार्थत्वसाधनांशे न स्वातन्त्र्यमिति तदंशे पर्णमयीन्यायसापेक्षत्वमपि दर्शितमित्यभिप्रायेण तथाऽवतारितम् । तथा च वनसिंहन्यायेन प्रमाणतर्कन्यायेन वोभयोरप्यंशभेदेन परस्परापेक्षायामपि न परस्पराश्रयदोषः ।
तच्छ्रुतेरित्यादिसूत्राणीति ।
यद्यपि तच्छ्रुतेरिति सूत्रं यदेव विद्ययेति श्रुतिप्रदर्शकम् ; तथापि तृतीयाश्रुत्यवगतक्रत्वङ्गत्वलिङ्गेन आर्थवादिकफलविवक्षया केवलक्रत्वङ्गत्वमवगन्तव्यमिति तदंशाभिप्रायात्तच्छ्रुतेरितिसूत्रस्य लिङ्गपरत्वोक्तिः ।
एतल्लिङ्गदर्शनमिति ।
क्वाचित्कीयमन्यथासिद्ध्युक्तिर्न सार्वत्रिकी ; निर्गुणविद्याप्रकरणेऽपि तत्र तत्र गृहस्थकर्मानुबन्ध्युपाख्यानदर्शनादित्याशयेनैतदित्युक्तम् ।
सर्वविषयत्वशङ्कामिति ।
"यश्चैवं वेदेति" पूर्ववाक्यगतैवंशब्दसामर्थ्याद्विद्याशब्दस्य प्रकृतं विद्यामात्रविषयत्वमवश्यंभावीति भावः । विभागः शतवदिति सूत्रं विद्वदविद्वत्पुरुषभेदेन विद्याकर्मणोरनुव्रजनव्यवस्थापकमयुक्तम् ; निर्गुणविद्यावत उत्क्रमणगमनयोरभावेन विद्यायास्तदनुव्रजनाभावात् , सगुणविद्यायाः फलभूयस्त्वार्थं कर्मसापेक्षत्वेन विद्याकर्मणोरेकस्मिन् पुरुषे साहित्योपपत्त्या विभागानपेक्षणात् तस्माच्छतन्यायेन विभागो न सूत्रणीय इति न चेदं समन्वारम्भवचनमित्यादिभाष्येण दर्शितमित्येतदविभागेऽपि न दोष इत्यादिटीकाग्रन्थेनोक्तम् । अयं स्पष्टत्वान्न व्याख्यात इत्यस्तु । अध्ययनमात्रवत इति सूत्रस्य तु भाष्यटीकाग्रन्थौ विचारणीयौ । भाष्ये तावत् स्वातन्त्र्येण यत् प्रयोजनवद्यदात्मदर्शनं तत् मात्रग्रहणेन व्यावर्त्यते , न त्वध्ययनफलमर्थावबोधनं , न चैतावतोपनिषदर्थावबोधनस्यापि कर्माङ्गत्वप्रसङ्गः ; क्रत्वन्तरज्ञानस्य क्रत्वन्तर इव तस्य कर्ममात्रे अनङ्गत्वोपपत्तेरित्युक्तम् । अनेन भाष्येणार्थावबोधफलकाध्ययनेतिकर्तव्यतारूपेण स्नानात् प्राचीनेन विचारेण कृत्स्नवेदार्थावबोधमङ्गीकृत्य तत्रोपनिषदंशार्थावबोधस्य कर्मसूपयोगमात्रं व्यावर्तितमिति प्रतिभाति , तदयुक्तम् ; उपनिषद्विचारस्य साधनचतुष्टयसंपन्नाधिकारिकत्वेनाधीतवेदमात्राधिकारिकत्वाभावात् । टीकायां तु – मात्रग्रहणेनोपनिषदंशस्याध्ययनमेव व्यावर्त्यत इत्युक्तम् । इदमप्ययुक्तम् ; अध्ययनविधेः कृत्स्नस्वशाखाविषयत्वात् । तस्मादिदं भाष्यटीकाग्रन्थद्वयं स्फुटविरोधं विचारणीयं कथमाचार्यैस्त्यक्तमिति चेत् , उच्यते ; भाष्यकारैरात्मज्ञानस्य कर्मानङ्गत्वोक्त्या दारपरिग्रहप्रभृत्यवश्यानुष्ठेयनिरन्तरसंतन्यमानकर्मानुष्ठानोपयोगितया कर्मभागविचार एव स्नानात्पूर्वं, न तूपनिषद्विचारोऽपीत्येतत्सूचितमिति स्पष्टमेव । आचार्यकुलाद्वेदमधीत्येत्यत्र त्वधीत्येत्यध्ययननिवृत्तिमात्रमुक्तं , न तु फलभावनापर्यन्ताऽध्ययननिवृत्तिः ; "वाजपेयेनेष्ट्वे"त्यत्र तृतीयाश्रुत्यवगतफलभावनाकरणत्वनिर्वाहाय तत्पर्यन्तयागनिवृत्त्यर्थत्वाभ्युपगमेऽप्यत्र तादवस्थ्यस्यानङ्गीकर्तव्यत्वात् , “अधीत्य वेदं न विजानाति योऽर्थमि”ति श्रुत्यन्तरे अधीत्येत्यस्याध्ययननिवृत्तिमात्रार्थत्वदर्शनाच्च । न चैवंसत्यधीत्याभिसमावृत्त्येति श्रुतावध्ययनानन्तरमेव समावर्तनप्रसङ्गः ; अग्निहोत्राद्यनुष्ठानोपयोगितया समावर्तनात्पूर्वं कर्मविचारप्राप्तेः । अग्निहोत्रादिकर्मसंबन्धे सति कर्मविचारतदर्थगुरुकुलवासयोरवकाशाभावात् । तस्माद् भाष्ये न काचिदनुपपत्तिः । टीकायां मात्रग्रहणस्योपनिषदध्ययनव्यावर्तकत्वोक्तिर्विचारसाध्यत्वावबोधपर्यन्ताध्ययनव्यावर्तकत्वाभिप्राया । सा च विशेष्यव्यावर्तनाऽसंभवाद् विशेषणमात्रव्यावर्तनार्था पर्यवस्यति। सर्वमिदं प्रथमसूत्रप्रतिपादितार्थपर्यालोचनयाऽवगन्तुं शक्यमित्याचार्यैस्त्यक्तम् ।
बहुदक्षिणेन विश्वजिदादिनेति ।
विश्वजिति द्वादशशताधिकं यस्य यावद् भूमिपुरुषाश्वरजतवर्जं स्वमस्ति , तत्सर्वं दीयत इति तस्य बहुदक्षिणत्वमुक्तम् । आदिशब्देन बहुदक्षिणत्वेन प्रसिद्धस्याश्वमेधस्य सप्तदशोऽग्निष्टोमस्तस्य दीक्षणीयायामिष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आतिथ्यायामित्यादि अष्टाविंशतिशतमष्टाविंशतिशतमानानि वशाया वपायामित्यन्तेन बहुदक्षिणतयोक्तस्य च ग्रहणम् । तत्र हि दीक्षणीयाप्रायणीयातिथ्याषडुपसदगग्नीषोमीयपशुसवनीयपशुसवनत्रयोदयनीयानुबन्ध्यपशुषु द्वादशमानमारभ्योत्तरोत्तरद्विगुणा दक्षिणोक्ता । कुर्वन्नेव कर्माणि वर्तेथा इति कर्मसंक्रान्तिविधिकल्पनं । कर्माशुभमित्यशुभत्वाध्याहारः । यावज्जीवं संतन्यमानसत्कर्ममहिम्नाऽन्तरान्तरा जातं पापं कर्म नश्यतीत्यर्थः । इदं व्याख्यानं नाविशेषादिति सूत्रानुसारेण विद्वद्विषयत्वमाश्रित्य । स्तुतयेऽनुमितिर्वेति सूत्रानुसारेण विद्वद्विषयत्वे तु भाष्यकारैः श्रुत्यभिप्रायो दर्शित इति न व्याख्यातम् । तस्मिन् पक्षे आमन्त्रणशब्दोक्ते कामचारेण लिङ् यथाकामं कर्म करोतु नामेत्यर्थः । नान्यथेतोऽस्तीत्यस्य इतो विद्यासामर्थ्याद् अन्यथा संसारनिवृत्तिर्नास्तीत्यर्थः ।
अयं लोकः प्रत्यक्षं फलमिति ।
अनेन यथा “यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते" इत्यादिकर्मविशेषार्थवादनिर्दिष्टफलस्योभयत्रापि वर्तमाननिर्देशेन प्रतीयमानं तात्कालिकत्वं प्रत्यक्षविरुद्धमिति तत्परिहाराय व्यवधारणकल्पनापेक्षणात् ततः क्रतुफलेन फलवत्त्वकल्पना बलीयसीति तत्सिद्धये क्रत्वन्वयाकाङ्क्षा , नैवमिह तदाकाङ्क्षास्ति ; "ब्रह्म वेद ब्रह्मैव भवती”ति विद्यार्थवादनिर्दिष्टफलस्य विद्यासमानकालतायाः प्रत्यक्षविरुद्धत्वाभावात् , लोकेऽपि भ्रान्तिनिवर्तके तत्त्वसाक्षात्कारप्रयुक्ताधिष्ठानस्वरूपाविर्भावस्य तात्कालिकत्वदर्शनाच्चेति प्रकृते पर्णमयीन्यायवैषम्यं सूचितम् । इदं भाष्यालोचनया स्पष्टमिति नोक्तम् ॥९॥१०॥११॥१२॥१३॥१४॥१५॥१६॥१७॥
इति प्रथमं पुरुषार्थाधिकरणम् ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥
आक्षेपलक्षणामिति ।
ननु आक्षेपस्य समाधानं कथमनेनाधिकरणेन लभ्यते ? तत्र हि "त्रयो धर्मस्कन्धा" इति विषयवाक्याद् धर्मशब्देन ब्रह्मचारिवानप्रस्थयोर्दर्शितमभ्युदयसाधनकर्मास्तित्वं तथैवाङ्गीकृतं संन्यासिनोऽप्यधिकशौचाष्टग्रासनियमशमदमादिरूपं कर्माङ्गीकृतं तस्य तपःशब्दवाच्यत्वमात्रं परं प्रतिक्षिप्तम् , उच्यते ; संन्यासिनो विद्यां प्रति प्राधान्ययोग्यं किमपि कर्मानङ्गीकृतम् । समधिकशौचादेरानर्थक्यमिति चेन्न ; सर्वापेक्षाचेति सूत्रोक्तन्यायेन सर्वकर्मापेक्षितत्वादाचारान्तर्गतस्य तस्य विद्यार्थत्वश्रवणाच्च शुद्धित्वसंपादकतया शमदमादेः “शमदमाद्युपेतः स्यादि”ति सूत्रोक्तन्यायेन चित्तैकाग्र्यसंपादकतया च विद्योपयोगित्वात् , स्वातन्त्र्येणाभ्युदयसाधनस्य सर्वस्य कर्मणः संन्यासिना त्यक्तत्वात् । अतस्तथाभूतसंन्यासाश्रमास्तित्वप्रसाधनेन कृताक्षेपं समाधानं लभ्यते ।
प्रणवाख्य ब्रह्मणः प्रस्तुतत्वादिति ।
ननु – छान्दोग्ये त्रयो धर्मस्कन्धा इत्युपक्रान्तस्य खण्डस्योङ्कार एवेदं सर्वमिति समापनात् तस्मिन् प्रणवः प्रस्तुत इत्युपपद्यतां , मधुविद्यायां च "गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पमि"ति प्रणवे ब्रह्मशब्ददर्शनात् प्रणवाख्यं ब्रह्मेत्युपपद्यते , "ब्रह्मसंस्थ" इत्यत्र ब्रह्मशब्दस्य प्रणवपरत्वं तु नोपपद्यते ; तदुपासनेनामृतत्वानुपपत्तेः ; "नान्यः पन्था" इति श्रुतिविरोधात् , नचेहामृतत्वमापेक्षिकं वक्तुं शक्यम् ; तथा सति पुण्यलोकभाजामाश्रमान्तराणामपि तत्सत्त्वेन तदपेक्षया ब्रह्मसंस्थस्योत्कर्षालाभापत्तेरिति – चेत् , उच्यते ; प्रश्नोपनिषदि त्रिमात्रप्रणवप्रतीका या ब्रह्मोपासनोक्ता , सैवात्रापि विवक्षिता ; तस्याश्च ब्रह्मलोके तत्त्वसाक्षात्कारोत्पादनद्वाराऽऽत्यन्तिकामृतत्वफलत्वमुक्तमित्यत्रापि तदुक्तिरुपपद्यते इति तात्पर्यम् । प्रणवप्रकरणाननुरोधे तु ब्रह्मसंस्थपदं स्वातन्त्र्येण परब्रह्मनिष्ठापरं , न तु प्रणवप्रतीकब्रह्मोपासनापरमिति द्रष्टव्यम् ॥१८॥१९॥
अप्राप्तार्थद्वयप्रतिभानादिति ।
गृहस्थाश्रमस्य प्रत्यक्षश्रुतिप्राप्तत्वात् त्रिषु धर्मस्कन्धेषु नैष्ठिकवानप्रस्थरूपमेवाप्राप्तमिति भावः । महापितृयज्ञ इति शाखान्तरं दृष्ट्वोक्तम् । प्रेताग्निहोत्र एवाधस्तात् समिधमिति विधिः प्रसिद्धः ।
अनुवाद इत्यत्र हेतुः –
वर्तमानापदेशाद् विधिशब्दाश्रवणात् हिशब्दश्रुतेश्चेति ।
अप्राप्तस्यानुवादो न संभवतीति बाधकवारणार्थमुपरि समिधः प्राप्तेरित्युक्तम् । प्राप्त्युपपादकं हविषोऽभ्यर्हितद्रव्यत्वादित्यादि ।
वाक्यान्तरप्राप्ता समिन्नियम्यत इति ।
तेनैव वाक्यान्तरेणेति शेषः ।
हविषः प्राग्देश इति ।
स्रुग्दण्ड एव हविराधारबिलस्थानापरभागरूपः प्राग्देशशब्देन विवक्षितः ।
यदापि परामर्श एवायमिति भाष्येण स्तुतिसामर्थ्यात् ब्रह्मसंस्थत्वे विधिरभ्युपेय इति प्रसाधितं तत्प्रसाधनीयप्रकृतसंन्यासाश्रमसिद्धौ नोपयोगि ; गृहस्थादीनामेवामृतत्वफलकब्रह्मसंस्थाविधिसंभवादित्याशङ्क्य एतच्छङ्कानिराकरणफलं विचारान्तरं भाष्यकारैरारभ्यत इत्यवतारयतीत्याह –
ब्रह्मसंस्थताविधावपीति ।
यद्यपि नोपन्यस्तशङ्कानिराकरणार्थं विचारान्तरमारभ्यते , किंतु तपःशब्देन संन्यासाश्रमस्यापि ग्रहणं चतुर्णामप्याश्रमाणां ब्रह्मसंस्थताऽमृतत्वफलोच्यते इति वृत्तिकारमतनिराकरणार्थम् ; तथापि तन्निराकरणार्थेनैव गृहस्थाद्याश्रमेषु ब्रह्मसंस्थपदस्यावयवार्थासंभवप्रदर्शकेन वक्ष्यमाणन्यायेनोपन्यस्तशङ्कानिराकरणमप्यनुषङ्गतो लभ्यत इति तात्पर्यम् । किं च गृहस्थादिष्वमृतत्वफलकब्रह्मसंस्थाविध्यभ्युपगमेऽपि विद्यायाः स्वातन्त्र्यं सिद्ध्यत्येव ; कर्माङ्गत्वे फलार्थत्वासंभवादित्यपि द्रष्टव्यम् ।
प्रथममाग्नेयादयो मन्त्रा इति ।
प्रथमशब्दादग्रे पुनराग्नेय्याग्नीध्नमिति पुनःशब्दाच्च एकस्मिन्नेव वेदे मन्त्राम्नानस्तोत्रविनियोगोपस्थानविनियोगाः क्रमिका इति प्रतीयते । अन्ये तु मन्त्राम्नानस्तोत्रविनियोगौ सामवेदे उपस्थानविनियोगस्तु यजुर्वेद इत्याहुः ।
अप्रकृताग्नेयीग्रहण इति ।
अयमर्थः – अग्नीध्नोपस्थानस्य द्वे रूपे , आग्नीध्नोपस्थानत्वं ज्योतिष्टोमापूर्वसिद्ध्यौपयिकव्यापारत्वं चोभयमपि विधातव्यम् ; केवलाग्नीध्नोपस्थानत्वविधाने हि नैष्फल्यं स्यात् , फलं वा कल्प्येत , तद्यद्यप्रकृताग्नेयी गृह्येत , तदा रूपद्वयमप्यनेनैव वाक्येन विधातव्यमिति गौरवं भवेत् , प्रकृताग्नेयीग्रहणे तु तस्याः प्रकरणाम्नानात् ज्योतिष्टोमगतो व्यापारः कर्तव्यत्वेनावधारितस्य व्यापारस्याग्नीध्नोपस्थानात्मकविशेषरूपत्वमविधेयं य आग्नेय्या ज्योतिष्टोमे व्यापारः कर्तव्यः , स आग्नीध्नोपस्थानात्मक इति विधेयलाघवं लभ्यते ।
अतो लाघवार्थं प्रकृतैव ग्राह्येति ।
न तस्याः पारार्थ्यमिति ।
यदि पारार्थ्यमपि विनियोगान्तरेऽनुप्रविशेत् , तदा विनियुक्तविनियोगविरोधदोषः स्याद्यथा "पुरोडाशकपालेन तुषानुपवपती"त्यत्राधिष्ठानलक्षणानङ्गीकारे । तदा हि कपाले पुरोडाशशेषत्वविशेषणम् अन्यशेषत्वव्यवच्छेदकं स्याद् ; विशेषणानां स्वविरोधिव्यावर्तकस्वभावत्वात् । तथा चानुवाद्यपुरोडाशशेषत्वविधेयतुषोपवापशेषत्वयोः परस्परविरोधाद् वाक्यार्थप्रतीतिर्न निष्पद्येतेति तत्र विनियुक्तविनियोगविरोधो दोषः । तत्परिहाराय च पुरोडाशशेषत्वरूपविशेषणांशमपहाय वस्तुतस्तदधिष्ठानकपालस्वरूपमात्रे पुरोडाशकपालशब्दस्य लक्षणाऽङ्गीकृता । न चेहाग्नेय्याः स्तोत्रशेषत्वरूपविशेषणश्रवणमस्ति , येन विनियुक्तविनियोगविरोधशङ्का स्यादित्यर्थः ।
ननु यथा "व्रीहीन्प्रोक्षती"त्यत्र व्रीहिषु क्रतुशेषत्वविशेषणाश्रवणेऽपि प्राक्क्रतुशेषत्वेन विनियुक्तत्वात् क्रतुशेषाणामेव तेषां ग्रहणम् , एवमिहाप्याग्नेय्याः प्राक् स्तोत्रसाधनत्वेन विनियुक्तत्वात् तथाभूताया एव तस्या ग्रहणं भवेदिति स्तोत्रशेषत्वेनोपात्ताया उपस्थानशेषत्वबोधने विनियुक्तविनियोगदोषः स्यादित्याशङ्क्याह –
यदि पुनरिति ।
व्रीहयः क्वचित्कार्ये न विधीयन्ते , किंतु व्रीहीनुद्दिश्य प्रोक्षणसंस्कारो विधीयते , यथाप्रतीतमेवोद्देश्यं क्वचिदुपयुक्तमेव संस्कार्यमिति च क्रत्वपूर्वार्थत्वेनैव व्रीहीणां ग्रहणमिति युज्यते , न तथेहाग्नेयीमुद्दिश्य तत्संस्कारत्वेनोपस्थानं विधीयते , किं त्वाग्नेय्येव तृतीयाश्रुत्योपस्थाने साधनत्वेन विधीयते । न च यत्र वाक्ये यद्विधीयते तस्य तत्रोद्देशोऽप्यस्ति ; तथा सति हि तदुद्देशेनान्यदपि विधेयमिति वाक्यभेदः स्याद् । अतोऽत्र नाग्नेय्युद्देश्येति न व्रीहिन्यायेन तस्यां पारार्थ्यविवक्षा प्रसज्यत इत्यर्थः ।
ननु सन्निहितव्यक्तिपरत्वमेवेत्ययुक्तम् सन्निधिना स्थानप्रमाणेनाविशेषप्रवृत्तश्रुतिसंकोचायोगादित्याशङ्क्याह –
अग्निदेवतेति ।
न सामान्यमात्रे इति ।
यद्यप्याकृत्यधिकरणन्यायेन जातिरर्थः प्राप्नोति ।
तथाप्यग्निदेवताप्रकाशकत्वरूपावयवार्थस्य जातावनन्वयाद् आग्नेयीशब्दस्य व्यक्तिरेवार्थः , अतो न जातिद्वारेणासन्निहितव्यक्त्यनुप्रवेशो भवतीत्यर्थः । ननु – अग्निदेवत्यानामृचां नानाछन्दस्त्वाद् नानारूपत्वाच्च न तास्ववयवार्थातिरिक्तमनुगतं जातिरूपं सामान्यमस्ति , अतः सामान्ये योगो न घटत इत्युक्तिर्न युक्तेति - चेत् , सत्यम् ; अतिरिक्तसामान्याभ्युपगमेऽपि इह व्यक्तिवाचित्वमेव वक्तव्यमित्यभ्युपगमवादोऽयम् ।
अस्तु व्यक्तिवाचित्वम् , तथाप्यविशेषप्रवृत्तश्रुत्यनुग्रहायासन्निहितव्यक्तिपरत्वमप्यस्तीत्याशङ्क्याह –
तद्धितान्तर्वतीति ।
अग्निर्देवताऽस्या इति विग्रहवाक्यगतसर्वनामार्थान्तर्भावात् सर्वनाम्नः सन्निहितपरामर्शित्वस्वाभाव्यात् सर्वनामश्रुत्यपेक्षाकृतः सन्निधिना संकोचो न दोषायेति भावः ।
ननु व्यक्त्यपेक्षत्वेऽपीति ।
यद्यप्ययं व्यक्तिशब्दः ; तथापि सन्निहितव्यक्तिपरत्वमयुक्तम् ; तस्याः स्तोत्रविनियुक्तत्वेन गतरसत्वात् , किन्त्वसन्निहितव्यक्तिपरत्वमेव हि युक्तमित्यर्थः ।
व्यतिरेकमुखेन विवृणोतीति ।
न त्वसाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते इत्येतद्व्यतिरेकमुखेन विवरणम् ।
अधिकमप्याहेति ।
समधिकशौचं तव इति पूर्वं शङ्कितम् , इदानीं शमादिकमपि तप इति शङ्कनीयान्तरमपि निरसितुमाहेत्यर्थः । यद्वा – ग्रासशौचनियमयोस्तपस्त्वाभावे गृहस्थसाधारण्यादिति हेतुरुक्तः , स तु शमादेरपि तपस्त्वाभावे साधारणो हेतुः ; आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्येति गृहस्थस्यापि तदुचितबाह्यान्तरेन्द्रियनिग्रहविधानात् । इदानीं शौचनियमस्य शमादेश्च तपस्त्वाभावे हेत्वन्तरमाहेत्यर्थः । "शौचसंतोषेति" पातञ्जलसूत्रे शौचं तावत्पृथग् गृहीतमिति स्पष्टं संतोषशब्देन शमदमादिकमपि तपसः पृथग् गृहीतं , तद्रहितस्येन्द्रियवश्यस्य सर्वदैवासंतोषादिदं पृथग्ग्रहणं हेत्वन्तरम् ।
एवं च भाष्यमपीति ।
ब्रह्मसंस्थ इति श्रुतेर्गृहस्थादिविषये यदा तदेत्यध्याहारेण भिक्षुविषयेऽनध्याहारेण च योजने उक्तदोषं वाक्यवैरूप्यलक्षणं हृदि कृत्वा स्पष्टत्वान्मनस्येव निधाय यथाश्रुतार्थोपादाने यदातदेत्यध्याहारानध्याहारौ विहाय यथाश्रुतार्थग्रहणे फलभेदव्यपदेशं पूर्वपक्षनिरासहेतुं व्यपदेशभेदोऽत्र भवतीति भाष्यं वदतीत्येवं तद्भाष्यं टीकाकारैर्व्याख्यातं भवतीत्यर्थः ।
तपःशब्देन भिक्षोरग्रहणमङ्गीकृत्याविरोधोपपादने प्रागुक्तदोषं स्मारयति –
यदा तदेति ।
वाक्यवैरूप्यादेवेति ।
तेन तद्ग्रहणमङ्गीकृत्याविरोधोपपादने दोषमाह –
न च संन्यासस्येति ।
आग्नेयीन्यायेन दृढीकृतः पूर्वपक्षः कथमाभास इत्याशङ्क्य रूढिः सिद्धान्तिन इष्टेत्यारोपाभिप्रायेयमाभासत्वोक्तिरित्याह –
सिद्धान्तिन इति ।
कथं त्रयाणां ब्रह्मसंस्थत्वासंभव इति ।
आग्नेयीन्यायेन प्रकृतेषु त्रिषु वर्तमानः श्रौतब्रह्मसंस्थशब्द एव कर्मच्छिद्रेषु ब्रह्मनिष्ठा ब्रह्मसंस्थेति तेषां ब्रह्मसंस्थासंभवमुपपादयतीति भावः । ब्रह्मसंस्थशब्दस्य गृहस्थादिसाधारण्ये वैरूप्यापत्तेः , तत्साधारण्यासंभवाच्च प्रकृतविषयत्वानुपपत्तेरप्रकृतविषयत्वं युज्यते । प्रकृतार्थलाभे ह्यप्रकृतपरामर्शित्वं परिहरणीयं , न तदलाभेऽपि । अत एवा"ग्नेयसूक्तेन संवत्सरमुपदधानमासीत सूक्तेनाविच्छेदाये"ति यावन्ति दाशतयीष्वाग्नेयानि सूक्तानि तावतामिष्टकोपधाने विनियोगे तेषां सूक्तानां तत्राप्रकृतत्वेऽप्याग्नेयशब्देन परामर्श इष्यते । यदि तु ब्रह्मणि संस्थाऽस्येति सप्तमीसमासं विहाय “स्थः क चे”ति सूत्रेण स्थाधातोः कर्तरि विहितं कप्रत्ययमाश्रित्य ब्रह्मणि संस्थ इति सप्तमीतत्पुरुष आद्रियते , तदा सर्वनामान्तर्भावादाग्नेयीन्यायेन प्रकृतपरामर्शित्वशङ्काया एव नावकाश इत्यपि द्रष्टव्यम् ।
ब्रह्मसाक्षात्कारकामस्य तदधिकारिणः सत्त्वादिति ।
ब्रह्मसाक्षात्कारश्च चित्रायागादिफलवदामुष्मिकसाधारणं फलमिति जन्मान्तरसंपन्नसंन्यासापूर्वस्य गार्हस्थ्यदशायां कृतश्रवणादिकस्यापि भवति। अत एव वामदेवस्य गर्भस्थस्य प्रागकृतसंन्यासस्यैव साक्षात्कारोदयः श्रूयते । देवादीनामप्यकृतसंन्यासानामेव साक्षात्कारस्तेन मुक्तिश्च श्रूयते – "तद्यो देवानां प्रत्यबुध्यत स एव तदभवदि"त्यादौ । घण्टिकास्थानानि । पुण्यक्षेत्रविशेषा गोदावरीतटादिषु प्रसिद्धाः । आथर्वणीं श्रुतिम् “अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ती”त्युपक्रम्य ब्रह्मोपनिषदिति प्रसिद्धाम् ।
नचात्र सशिखमिति ।
"सोत्तरीयमन्नं भुञ्जीते"तिवत्कर्तृविशेषणसाहित्ये सशिखमिति शब्दः , न तु सघृतमन्नं भुञ्जीतेतिवत्कर्मसाहित्य इति भावः । एतदुपलक्षणम् – बहिःसूत्रमित्येतदप्यपपरिबहिरञ्चवः पञ्चम्या इति पञ्चम्यन्तेन कृताव्ययीभावसमासं सूत्राद्बहिर्भूतस्यापि सर्वस्यापि त्यागप्रतिपादनार्थं , न तु यज्ञोपवीतस्येति यत्तेषां मतं , तदप्यत्र विवक्षितं निरासकहेतुसाम्यात् ।
बाह्यशिखां व्यावर्त्येति ।
एतद्बाह्ययज्ञोपवीतव्यावर्तनस्याप्युपलक्षणम् । ज्ञानयज्ञोपवीतिन इत्यपि वाक्यशेषाम्नानविशेषणोदाहरणाद् लोकाक्षगृह्यवचनं च "अथातः परमहंसपरिव्राज्यविधिं व्याख्यास्याम" इत्युपक्रम्य प्रवृत्तं "सशिखान् केशान्निकृत्य विसृज्य यज्ञोपवीत"मित्यादिकमत्रोपबृंहणं द्रष्टव्यम् । एतेन – "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा" इति ज्ञानस्तुत्यर्थकर्मानुमतिरिति "स्तुतयेऽनुमतिर्वे" (ब्र. अ. ३ पा. ४ सू. १४) ति सूत्रोक्तन्यायेन ज्ञानस्तुत्यर्थमेव शिखायज्ञोपवीतत्यागानुमतिरित्यपि तेषां मतं – निरस्तम् ; शिखावपनादिविधायकोपबृंहणानुगृहीतसशिखवपनयज्ञोपवीतत्यागविधिस्तावकत्वस्यैव वाक्यशेषस्य वक्तव्यत्वेन ज्ञानस्तावकत्वोक्त्ययोगात् । न हि “परिधीन् परिदधाति रक्षसामपहत्यै न पुरस्तात्परिदधाती"ति प्राग्देशपरिधानपर्युदासशेषस्या”दित्यो ह्येवोद्यन् पुरस्ताद् रक्षांस्यपहन्ती"त्यर्थवादस्य तत्स्तावकत्वमपहायादित्यस्तावकत्वकल्पना युक्ता । ननु – “ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान् घोरान्महारौरवसंज्ञकान् ॥” इति परमहंसोपनिषदि यतीनां ज्ञानमेव दण्डो न काष्ठमिति श्रवणस्य ज्ञानस्तुत्यर्थत्वमेव वक्तव्यम् , न काष्ठदण्डव्यावर्तकत्वम् ; दण्डधारणस्य सिद्धान्तेऽप्यभ्युपगतत्वात् , दण्डधारणे रौरवादिप्राप्तेः केनाप्यनभ्युपगतत्वाच्च , तद्वदिहापि किं न स्यादिति – चेत् , उच्यते ; तत्र “सर्वान् कामान् परित्यज्याद्वैते परमे स्थिति"रिति ब्रह्मनिष्ठायाः प्रकृतत्वेन स्तुत्यर्थत्वमुपपद्यते , यः संन्यस्यापि ब्रह्मनिष्ठां विहाय केवलमन्नलाभाय यतिलिङ्गकाष्ठं धृत्वाऽभिशस्तपतितपर्यन्तानां सर्वेषामन्नमश्नन् पर्यटति तस्य रौरवादिप्राप्तिरित्यप्युपपद्यते , इह तु शिखायज्ञोपवीतत्यागविधिशेषस्य तत्स्तावकत्वमेव वक्तव्यं , न तु ज्ञानस्तावकत्वमिति वैषम्यम् ।
एतेन – यज्ञोपवीतत्यागविधिः पुराणयज्ञोपवीतविषयः गृहस्थधार्यद्वितीययज्ञोपवीतविषयो वेति यत्केषांचिन्मतं , तत् शिखावपनविधावपि पुराणशिखाविषयत्वेन सञ्चारयितुं शक्यं तदपि – प्रत्युक्तम् ; ज्ञानशिखिनो ज्ञानयज्ञोपवीतिन इति “अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखेति” च वाक्यविशेषे सर्वथैव बाह्यशिखोपवीतव्यावर्तनात् , परमहंसोपनिषदि “अद्वयानन्दविज्ञानघन एवास्मि तदेव मम परमं धाम तदेव शिखा तदेवोपवीतं चे”त्येवमेव बाह्यशिखोपवीतव्यावर्तनात् , आरुण्युपनिषदि “दण्डमाच्छादनं कौपीनं परिग्रहेत् शेषं विसृजेदि”ति सर्वं त्यक्त्वा दण्डकौपीनाच्छादनमात्रस्यैव परिग्राह्यतोक्तेश्च , प्रत्यक्षश्रुतिविरोधेन नूतनोपवीतादिग्रहणार्थकश्रुतिस्मृतिकल्पनानुपपत्तेश्च , तादृग्वचनसद्भावे कुटीचकादिविषयत्वोपपत्तेश्च शिखायज्ञोपवीतत्यागविधेरुत्तानबुद्धिभिरुन्नीतां विषयान्तरकल्पनां निरस्यति –
न चैतद् द्वित्रिदिनेति ।
सिद्धं प्रति तद्वैयर्थ्यादिति ।
उत्पन्नब्रह्मसाक्षात्कारं प्रति ध्यानविधिवैयर्थ्यादित्यर्थः । एतदुपलक्षणम् – उत्तीर्णसर्वविधिजातं प्रति वसनादिविधिवैयर्थ्याच्चेत्यपि द्रष्टव्यम् ।
सर्वत्यागादस्ति संभव इति ।
सर्वं व्यक्तवत एवावासस्त्वं संभवति ; "त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं मेखलां यज्ञोपवीतमित्येतद् भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेद् यथाजातरूपधर" इति जाबालोपनिषदि सर्वं त्यक्तवत एव यथाजातरूपधर इत्यवासस्त्वोक्तेः , परमहंसोपनिषदि सामान्यतः परमहंसस्य दण्डकौपीनाच्छादनमात्रग्रहणमुक्त्वा "तच्च न मुख्योऽस्ति कोऽयं मुख्य इति तदयं मुख्यो न दण्डं न शिखां न यज्ञोपवीतं नाच्छादनं चरति परमहंस" इति मुख्यपरमहंसस्यावासस्त्वोक्तेश्च , वैश्वानरसूत्रे "परमहंसानां वृक्षमूले शून्यागारे श्मशाने वासिनः साम्बरा दिगम्बरा वा न तेषां धर्माधर्मा”वित्यादिनोदाहृतोपनिषदुपबृंहणाच्च । तस्माद्यमस्मृताववासस्त्वोक्तिस्तत्सहनियततया श्रुतिसिद्धं शिखायज्ञोपवीतत्यागमपि स्मर्तुराशयस्थमाविष्करोतीति भावः ।
हृदि प्राणाः प्रतिष्ठिता इति प्राणप्रक्रमादिति ।
हृदि प्राणश्च ज्योतिश्चेति प्राणोपक्रमादित्युदाहरणीयम् ; बहुवचनान्तप्राणशब्दस्य चक्षुरादिपरत्वेन हिरण्यगर्भपरत्वाभावात् ।
सादृश्यरूपेति ।
यद्यपि "सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः" इत्येतस्योत्तरार्धे “यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेदि”त्यस्मिन् पठितस्य ब्रह्मपरस्य सूत्रशब्दस्य सूत्रसादृश्यमूला गौणी वृत्तिर्वाच्या , "येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्वदर्शिवान् ॥" इत्यनन्तरमन्त्रानुरोधात् ; तथापि बहिःसूत्रमित्यत्र सा न वाच्या ; विकारविकारिभावरूपसाक्षात्संबन्धमूलकसन्निकृष्टार्थलक्षणोपपत्तेः । "ज्ञानशिखिनो ज्ञानयज्ञोपवीतिनः । शिखा ज्ञानमयी यस्य उपवीतं च तन्मयमि"ति वाक्यशेषेण त्याज्यसूत्रस्योपवीतत्वावधारणाच्चेति तात्पर्यम् ।
हृच्छब्दोक्तमिति ।
"हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च तद्विदुः ॥” इति श्लोके हृच्छब्दोक्तं ब्रह्म तच्छब्देन परामृश्य तस्य त्रिवृच्छब्देन त्रिवृत्कृतप्रपञ्चात्मत्वपरेण त्रिसूत्रत्वसंपादनादित्यर्थः ।
यज्ञोपवीतसाध्येति ।
मूत्रपुरीषकर्मभोजनादिप्रयुक्तं प्रायत्यमुच्छिष्टत्वं स्वापादिनिमित्तं तदशुचित्वम् उभयमपि यज्ञोपवीतं विना कृतेऽप्याचमने नापैति। "विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवे"दित्यादिस्मरणात् । अत उच्छिष्टाशुचित्वनिवृत्तिर्यज्ञोपवीतसाध्येत्यर्थः ।
एतेनेति ।
यज्ञोपवीतकार्याशुचित्वनिवृत्तिकरत्वेनेत्यर्थः ।
एकार्थत्वादिति ।
तथा च बहिःसूत्रं त्यजेदित्यतोऽपि संन्यासस्य प्रकृतत्वं वक्तुं शक्यमित्यर्थः ।
अपरमहंस इति ।
औपनिषदस्य परमहंसविषययज्ञोपवीतादित्यागवचनस्य पर्युदासवृत्त्या नित्योदकी नित्ययज्ञोपवीतीत्यादिकर्मकाण्डगतयज्ञोपवीतादिविध्यन्वयेन तदेकवाक्यतेति भावः ।
नित्यविधिभिरिति ।
पुरुषार्थतया सर्वकर्मार्थतया च सदोपवीतादिधारणविषयो नित्यविधयः , ते तद्धारणनिवृत्तितः प्रत्यवायं कल्पयित्वा पुरुषं सदा तद्धारणे प्रवर्तयन्ति , तेषु सत्सु निषेधः कथं प्रत्यवायापादिकां निवृत्तिं कारयेद् , अतो निषेधोऽभ्युपगन्तुं न युक्त इत्यर्थः ।
ननु निषेधः प्रवृत्तौ प्रत्यवायं कल्पयित्वा निवर्तयतु , न च प्रवर्तकशास्त्रेण विरोधस्तस्य सामान्यशास्त्रस्य निषेधशास्त्रविषयपरमहंसातिरिक्तविषयत्वेन व्यवस्थोपपत्तेरित्याशङ्क्याह –
न च प्रवृत्ताविति ।
परमहंसविषयेऽप्युपवीतादिधारणविधयः प्रवर्तन्ते , न वा , प्रवर्तन्ते चेत्कथमुपवीतादि निषेद्धुं शक्यम् ? न हि शास्त्रप्राप्तस्य रागप्राप्तवत् सर्वथा निषेधोऽस्ति ; प्रापकशास्त्रस्याप्रामाण्यप्रसङ्गात् , विकल्पाभ्युपगतावष्टदोषदुष्टः स एव दोषः ।
न प्रवर्तन्ते चेत्तत्राह –
तथा सतीति ।
निषेध्यप्राप्त्यभावे निषेधः सर्वथैव नात्मानमासादयेदित्यर्थः । प्रवर्तन्त इति पक्षे निषेधस्य विकल्पेन वोन्मेषोऽस्ति , सोऽपि नास्त्यस्मिन् पक्ष इत्याशयेन सर्वनाशप्रसङ्गादित्युक्तम् ।
तस्मात्पर्युदास इति ।
न च पर्युदासपक्षे प्रकरणान्तरगतवाक्यशेषत्वमङ्गीकर्तव्यं , ततो वरं विकल्प एवास्त्विति – वाच्यम् ; अयमेको दोषः पर्युदासे , विकल्पेऽष्टौ दोषा इति तस्यैव परिहरणीयत्वात् । "दीक्षितो न जुहोति" "न तौ पशौ करोती”त्यनयोर्विकल्पपरिहारार्थं पर्युदासवृत्त्याऽग्निहोत्रादिवाक्यपाशुकप्रकृतिवत् शब्दशेषत्वयोर्भट्टाचार्यैर्गुरुभिरपि अङ्गीकृतत्वाच्च ।
व्यवह्रियमाणेति ।
पराशरस्मृतिर्हि श्लोकरूपा द्वादशाध्यायी सर्वेषु देशेषु व्यवह्रियते । तत्रैतद्वाक्यं न दृश्यत इत्यर्थः ।
कल्पने चेति ।
यदि सामान्यतः संन्यासिविषये कल्प्यते , तदा कुटीचकादिषु चारितार्थ्यं स्पष्टम् , विशेषतः परमहंसविषये तु कल्पनैव नोन्मज्जति ; प्रत्यक्षश्रुतिविरोधात् । सशिखमिति ब्रह्मोपनिषद्वचनं हि परमहंसविषयम् ; योगमुत्तममास्थित इति श्रवणात् , सम्यज्ज्ञानसाधनानां संन्यासानां मध्ये पारमहंस्यमेव ह्युत्तमं साधनं सर्वकर्मत्यागेनानन्यव्यापारतया दृढचित्तैकाग्र्यसंभवात् । "दण्डमाच्छादनं कौपीनं परिग्रहेत् शेषं विसृजेदि"त्यारुण्युपनिषद्वचनमपि परमहंसविषयम् ; "आरुणिः प्रजापतेर्लोकं जगाम तं गत्वोवाच केन भगवन् कर्माण्यशेषतो विसृजानीति सर्वकर्मत्यागोपक्रमात् , कुटीचकादिषु तदभावात् , अग्रे च तस्यामुपनिषदि अथातः परमहंसपरिव्राजकानामिति परमहंसमुपक्रम्य "त्यजेत् पितरं पुत्रम् अग्न्युपवीतं कर्म कलत्रं यच्चान्यदपीहे"त्याम्नानात् , "त्रिदण्डं कमण्डलु"मित्यादिजाबालोपनिषद्वचनमपि परमहंसविषयम् ; तत्र “परमहंसा नाम संवर्तकारुणिश्वेतकेत्वि"त्याद्युपक्रमात् "संन्यासेन देहत्यागं करोती"त्यन्तेन संन्यासवृत्तिकथनानन्तरं "स परमहंसो नामे"त्युपसंहाराच्च । "दण्डं न शिखा”मित्यादिपरमहंसोपनिषद्वचनमप्यथ योगिनां परमहंसानां कोऽयं मार्ग ? इति परमोपक्रमादेव परमहंसविषयमिति स्पष्टम् । “अथ परिव्राडेकशाटीपरिहितो मुण्डोदरपात्र्यरण्यनित्यो भिक्षार्थं ग्रामं प्रविशेदासायं प्रदक्षिणेनाविचिकित्सन् सार्ववर्णिकं भैक्षचर्यम् अभिशस्तपतितवर्जमयज्ञोपवीती शौचनिष्ठः काममेकं वैणवदण्डमाददीते”ति मैत्रायणोपनिषद्वचनमपि परमहंसविषयमेव ; मुण्डैकदण्डत्वलिङ्गात् । एवंभूताभिः प्रत्यक्षश्रुतिभिर्विरुद्धाः श्रूयमाणाः स्मृतयः सन्ति चेदप्रमाणमेव , यथा संन्यासविधायकप्रत्यक्षश्रुतिविरुद्धास्तन्निराकरणस्मृतयः । आपस्तम्बसूत्रे ऊर्ध्वरेतसामाश्रमाणां देवयानपथश्रवणादनुग्रहमात्रेण वृष्ट्यानयनापत्यदानादिशक्तिसद्भावाच्च प्राशस्त्यमस्तीति पूर्वपक्षं कृत्वा त्रयीविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा , तत्र यानि श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपत्नीयोक्त्राप्युच्चैर्नीचैः कार्यमिति त्रयीविरुद्ध आचारोऽप्रमाणमिति मन्यत इति तेषामप्रामाणिकत्वेन निराकरणं कृतम् । गृहस्थधर्मेषु वर्तमानानामेव ब्रह्मलोक आश्रमान्तरं प्रशंसन्नपि प्रत्यवैतीत्यस्मिन्नर्थे ब्रह्मवचनमप्युदाहृतम् । त्रयीविद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानं य एतानि कुर्वते तैरिहत्सह स्म सोरजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्नि”ति। तथा महाभारते कर्णादिवधनिर्विण्णं प्रव्रजनोद्युक्तं युधिष्ठिरं प्रति भ्रातॄणां द्रौपद्याः ऋषीणां भगवतश्च वचनानि संन्यासनिन्दापराणि बहूनि श्रूयन्ते । काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम् । लिङ्गान्यन्नार्थमेतानि न मोक्षायेति मे मतिः॥ इत्यादीनि । यदि प्रत्यक्षश्रुतिविरुद्धान्यपि स्मृतिवचनान्यपेक्ष्येरन् , तदा संन्यास एव प्रत्याख्यायेत , क्व तत्रोपवीतादिसदसद्भावचिन्ता ? यद्युच्येत कर्मठानापातविरक्त्या प्रव्रजनोद्युक्ताঁस्ततो निवर्त्य कर्मस्वेव नितरां कर्तुमापस्तम्बसूत्रे संन्यासनिराकरणम् , युधिष्ठिरं राज्यपरिपालने प्रवर्तयितुं तन्निराकरणमित्येवं प्रत्यक्षसंन्यासविध्यविरोधेन तादृग्वचनजातं नीयत इति , तदा पारमहंस्योपयुक्ततीव्रवैराग्यराहित्येऽपि तत्स्वीकरणप्रवृत्तान् कुटीचकादीन् यथापूर्वं स्वस्ववृत्ताववस्थापयितुं परमहंसानामपि शिखायज्ञोपवीतादिकमस्ति न कश्चिद्विशेष इति तत्तद्वृत्तिप्रशंसार्थत्वेन तान्यपि वचनानि नीयन्तां ; प्रत्यक्षश्रुतिविरोधस्य परिहरणीयत्वाविशेषात् । "कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । एभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि तैः स्मृतम् ॥” इति ब्रह्मोपनिषद्वचनोपबृंहणार्थं व्यासस्मरणं यज्ञोपवीतं कर्माङ्गमित्यादि , यद्यपि परमहंसस्यापि श्रवणमननध्यानप्रणवजपभोजनाचमनादिकर्मास्तीति सर्वकर्मार्थतया विहितमुपवीतं तस्मात्प्राप्नोति ; तथापि तस्यात्मज्ञानोपवीतसत्त्वात् तेनैव तन्निर्वाहः । तथैव कौषीतकिब्राह्मणे प्रश्नोत्तराभ्यामुपपादितम् । तत्र हि "किमस्य यज्ञोपवीतम् ? का वाऽस्य शिखा ? कथं वोपस्पर्शन"मिति प्रश्नः । "इदमेवास्य तद्यज्ञोपवीतं यदात्मज्ञानं विद्या शिखे"त्याद्युत्तरम् । अत्रोपस्पर्शनग्रहणं श्रवणादीनामप्युपलक्षणम्। "ज्ञानशिखिनो ज्ञानयज्ञोपवीतिन" इत्यादिप्रागुदाहृतवचनतोऽपि संन्यासिकर्म बाह्यशिखायज्ञोपवीतानपेक्षमित्यवधृतम् । अतस्तदितराश्रमकर्माङ्गत्वमेव बाह्ययज्ञोपवीतस्य परिशिष्यते । तदभावात् परमहंसस्य न तदपेक्षेति भावः ।
केचन प्राक्तनमुपवीतं त्यक्त्वा नूतनं ग्राह्यम् ; "नखानि निकृत्य पुराणवस्त्रं यज्ञोपवीतं कमण्डलुं त्यक्त्वा नवानि गृहीत्वा ग्रामं प्रविशेदि”ति स्मरणादिति मन्यन्ते , तन्मतनिरासार्थं वैयासिकं तत्रत्यदृष्टान्तवचनमप्युदाहरति –
अग्निहोत्रेति ।
अग्निहोत्रविनाशो यजमानपातित्यादिनाऽग्निविनाशः । इष्ट्यन्तः चरमेष्ट्यन्तः । एवं च नूतनग्रहणस्मृतिर्बहूदकादिविषयेति भावः ।
एकदण्डी त्रिदण्डीति ।
अत्र शिखी त्रिदण्डीति बहूदकादिविषयं , मुण्डित एकदण्डीति परमहंसविषयं , काषायमात्रधारिण इति यो मुख्यपरमहंसो दण्डमप्यनिच्छन् पामरजनसंकोचपरिहाराय कौपीनाच्छादनमात्रं धारयति तद्विषयम् । न च परमहंसस्यापि त्रिदण्डित्वं शङ्कनीयम् ; जाबालोपनिषदि पारमहंस्यप्रवेशे त्रिदण्डं कमण्डलुमित्यादिना त्रिदण्डपरित्यागस्योक्तत्वात् । आरुण्युपनिषदि "कुटीचको ब्रह्मचारी कुटुम्बं विसृजेत् पात्रं विसृजेद् दण्डान् विसृजे"दिति कुटीचकस्य पारमहंस्यप्रवेशे “दण्डानि”ति बहुवचनेन त्रिदण्डपरित्यागमुक्त्वा अनन्तरं "सखा मा गोपाये"त्यादिक"मेतं सोऽश्मानमृच्छत्वि"त्यन्तं मन्त्रमुपादायान्तेन मन्त्रेण "कृत्वोर्ध्वं वैणवं दण्डं कौपीनं च परिग्रहे"दिति तेन मन्त्रेण एकदण्डपरिग्रहस्योक्तत्वाच्च । स्कन्दपुराणे च – “कौपीनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् । अक्षमालां च गृह्णीयाद्वैणवं दण्डमव्रणम्॥ परमहंसस्त्रिदण्डं च रज्जुं गोवालनिर्मिताम् । शिखां यज्ञोपवीतं च नित्यकर्म च संत्यजेत् ॥” इति परमहंसस्य त्रिदण्डत्यागैकदण्डग्रहणयोरुक्तत्वाच्च । "अथ परमपरिव्राजकलिङ्गं सर्वतः परिमोक्षमेके सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् शिखायज्ञोपवीतत्रिदण्डकमण्डलुकपालानां त्यागीति" विश्वामित्रेण , "तदूर्ध्वं यज्ञोपवीतं मन्त्रमाच्छादनं यष्टिं शिक्यं जलपवित्रं कमण्डलुं पात्रमित्येतानि वर्जयित्वाऽथैकदण्डकमण्डलुकपालानादत्ते सखा मा गोपायेति" बोधायनेन च परमहंसस्य त्रिदण्डत्यागैकदण्डग्रहणयोरुक्तत्वात् । एतेन – परमहंसस्य त्रिदण्डालाभे एकदण्डग्रहणं कार्यमिति तयोर्मुख्यामुख्यतया विकल्पं कल्पयन्तो "नष्टे जलपवित्रे च त्रिदण्डे वा प्रमादतः । एकं तु वैणवं दण्डं पालाशं बैल्वमेव वा । गृहीत्वा विचरेत्तावद्यावल्लभ्यं त्रिदण्डकम् ॥” इति स्मृतिवचनमुदाहरन्तो – निरस्ताः ; जाबालोपनिषदि पारमहंस्यप्रवेशे त्रिदण्डत्यागस्योक्तत्वात् , अनन्तरं "यथाजातरूपधरो निष्परिग्रह" इत्युक्तत्वेन पुनस्त्रिदण्डान्तरपरिग्रहानुमतेरनाशङ्कनीयत्वाच्च , आरुण्युपनिषदि त्रिदण्डत्यागपूर्वकमेकदण्डग्रहणस्योक्तत्वाच्च , "त्रिदण्डस्य परित्याग एकदण्डस्य धारणम् । एकस्मिन् दृश्यते वाक्ये तस्मादस्य प्रधानता ॥” इति व्यासस्मृतावारुण्युपनिषद्वचनावलम्बनेनैव परमहंसानामेकदण्डस्यामुख्यत्वशङ्काया निराकृतत्वाच्च । तस्मादमुख्यत्वस्मरणं कुटीचकादिविषयं योज्यम् । तथा सति "पालाशं बैल्वमौदुम्बरं दण्डमजिनं मेखलां यज्ञोपवीतं च त्यक्त्वे"त्यारण्युपनिषदुपसंहारवचनमपि धृतामुख्यैकदण्डकुटीचकादिपारमहंस्यप्रवेशविषयतयोपपद्यते । ननु – अस्तु शिखायज्ञोपवीतरहितैकदण्डादिकं परमहंसस्य मुख्यं , तत्सन्निहितं त्रिदण्डादिकमपि तस्य विकल्पेन मुख्यं भवन्न निवारयितुं शक्यम् ; अन्यथा परमहंसविषयत्रिदण्डादिवचनानां निरालम्बनत्वापत्तेः । “इन्द्रस्य वज्रोसीति वैणवान् दण्डान् दक्षिणे पाणौ धारयेद् एकं वा यद्येकं तदा सशिखं वपनं कृत्वा यज्ञोपवीतं त्यजेदि”ति मैत्रायणीयश्रुतौ "एकदण्डी त्रिदण्डी वा मुण्डः शिखी वे"त्यादिस्मृतिषु च विकल्पस्मरणात् । "काममेकं त्ववैणवं दण्डमाददीते”ति मैत्रायणीयश्रुतावेकदण्डविधौ कामशब्दोक्त्या "यथाजातरूपधरः प्राचीमुदीचीं वा दिशं प्रव्रजोत्तिष्ठ भगवन् दण्डं गृहाणेत्यध्वर्युणा दत्तं मस्तकप्रमाणं सन्नमृजुं सौम्यमेकं वैणवं दण्डमिन्द्रस्य वज्रोऽसि सखा मा गोपायेति यदीच्छेद् दधीते"ति लोकाक्षगृह्ये यदीच्छेदिति शब्देन वैणवदण्डस्य पाक्षिकतास्फुटीकरणाच्च , त्रिदण्डपरित्यागादिवचनानामेकदण्डादिपक्षविषयतयोपपत्तेश्च । तस्मात्पारमहंस्ये पाक्षिकतयाऽपि प्रविशत् त्रिदण्डादिकं न प्रत्याख्यातुं शक्यमितीदं पारमहंस्ये यथा कथंचस्त्रिदण्डादिसद्भावं व्यवस्थापयितुं धृतव्यसनानां ब्रह्मास्त्रमिति – चेत् , उच्यते ; विकल्प एवाष्टदोषदुष्टः सति गत्यन्तरे न युक्त ; नतरां त्रिदण्डैकदण्डादिकयोर्गुरुलघुनोः समविकल्पः । नतमामेकदण्डाद्यसंभवे त्रिदण्डादिकमपीति मुख्यामुख्यविकल्पः ; तस्मात्केनापि प्रकारेण व्यवस्थितविकल्पासंभवाद् वाशब्दयुक्तान्युदाहृतश्रुतिस्मृतिवचनानि प्रागुदाहृतबहुश्रुतिस्मृत्यनुसारेण कुटीचकादिविषये परमहंसविषये च व्यवस्थितविकल्पानि योज्यानि । मैत्रायणीयश्रुतौ कामशब्दस्य लोकाक्षगृह्ये यदीच्छेदिति शब्दस्य चाग्रहणेन विकल्पार्थतैव स्वरसतः प्रतीयते । तत्र चाग्रहणपक्षो मुख्यविद्वत्परमहंसविषयं पक्षान्तरं अमुख्यविविदिषुपरमहंसविषयमिति वचनानुसारेण व्यवतिष्ठते । परमहंसविषये त्रिदण्डवचनं यदि क्वचित्क्वचित्स्यात् , तत्सर्वं वाग्दण्डादिविषयम् । तथाह मनुः – "वाग्दण्डोऽथ मनोदण्डः कर्मदण्डश्च ते त्रयः । यस्यैते नियता बुद्धौ त्रिदण्डीति स उच्यते ॥” इति। दक्षश्चेमं श्लोकं पठित्वा वाग्दण्डादिलक्षणमाह – "वाग्दण्डो मौनमातिष्ठेत्कर्मदण्डस्त्वनीहता । मानसस्य तु दण्डस्य प्राणायामो विधीयते ॥” इति। एवं च "चतुर्धा भिक्षवो विप्राः सर्वेचैव त्रिदण्डिन" इति त्रिदण्डस्य सर्वसंन्याससाधारण्यवचनान्यपि वाग्दण्डादिविषयत्वेन व्याख्यातानि ; युधिष्ठिरधनञ्जययोः परिव्राजकवेषग्रहणे यज्ञोपवीतादिसद्भावो राजगृहेषु चिरनिवासार्थितया कुटीचकाद्यनुकरणाद् यज्ञोपवीताद्यत्यागेन कुटीचकाद्यनुकरणे संभवति स्वाश्रमविरुद्धेन तत्त्यागेन परमहंसानुकरणाऽनौचित्यात् । एवं दशाननस्यापि कुटीचकाद्यनुकरणादेव यज्ञोपवीतादिसद्भावो राजधर्मप्रशंसार्थमिति राजधर्मप्रशंसया युधिष्ठिरं राज्ये प्रवर्तयितुं संन्यासाश्रमनिन्दायां "मुण्डा निस्तन्तव" इति शिखायज्ञोपवीतराहित्येन संन्यासाश्रमपरामर्शः कृतः । तेन ताद्धर्म्यं तस्याश्रमस्यावसीयते । यथा – "अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मकुण्डनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः॥ इति" बृहस्पतिमतं प्रशंसितुं वैदिकनिन्दायामग्निहोत्रादिपरामर्शेन वैदिकमार्गस्य ताद्धर्म्यमिति भावः ।
सतामप्यविरोधि यदिति ।
सन्तः ब्रह्मसाक्षात्कारवन्तः । “अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरि”ति श्रुतेस्तेषामद्वितीयब्रह्मसाक्षात्कारनिरस्तसमस्तकर्तृकर्मक्रियादिभेदप्रपञ्चानामप्यविरोधि , नैष्कर्म्यादिति भावः । असतामप्यविरोधीति क्वचित्पाठः । तत्रासन्तः पापिनः ये तेषामप्यविरोधि सकलपापक्षयहेतुत्वादिति भावः । यजुःशाखायाम् यजुःशाखाख्यवेदशाखाविशेषे परब्रह्मोदितं "न्यास" इति ब्रह्मेत्यादिश्रुतौ ।
तत्तदागमेति ।
आगमयन्त्यर्थानित्यागमाः प्रमाणानि , ते तु श्रुतिवाक्यादय आगमास्तेषां कर्माणि तानि तत्तदागमानि तान्याचरन्तीति तत्तदागमाचाराः , 'कर्मण्यणि'ति कर्मण्युपपदे धातोरण्प्रत्ययः । यज्ञदानतपःप्रभृतिबहुविधकर्मानुष्ठानशुद्धान्तःकरणास्तैश्चेष्टितमनुष्ठितमित्यर्थः । चेष्टितमित्यनेन बहवोऽत्र प्रवृत्ता इति सूच्यते । ब्रह्माराधनमुख्यानां परब्रह्मोपासनाप्रभृतीनां तीव्रतेजसां महाफलानां व्रतानां परमं तेभ्यः श्रेष्ठमित्यन्वयः । दण्डहस्तास्तु संज्ञाता हस्तगतदण्डेनैव लिङ्गेन परमहंसा इति ज्ञायमानाः पुरा देहान्तरे मया चीर्णं , न तु तस्मिन् देहे गृहीतम् ; पारमहंस्यत्यागेन पुनराश्रमान्तरपरिग्रहासंभवात् , शिखायज्ञोपवीतेन त्यक्तेन कथमसौ द्विज इति देवलोकेषु देवदानवैः पूजितोऽपि स निन्द्यत इत्यन्वयः । मूर्खैरित्यध्याहर्तव्यम् । ननु जाबालोपनिषदि परमहंसानां संवर्तारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवर्तकप्रभृतय इति दुर्वाससः परमहंसेषु परिगणनं कृतं , तस्य च हंसडिम्भकोपाख्याने ताभ्यां छिन्नाः शिक्यादयो वर्णिताः ।
अतः शिक्यतत्सहचरितत्रिदण्डपवित्रादिकं परमहंसस्याप्यस्तीत्यवसीयते इत्याशङ्क्याह –
पराक्रान्तं चेति ।
अयमाशयः – तस्मिन्नुपाख्याने "हंसाः परमहंसाश्चे"ति दुर्वाससमनुवर्तमाना हंसादयोऽपि यतयो वर्णिताः , तदीयशिक्यादिविषयं भविष्यति शिक्यच्छेदादिवचनम् । किंच श्वेतकेतुप्रभृतयोऽपि तत्र परमहंसेषु परिगणिताः । न च तेषामाश्रमेण पारमहंस्यमस्ति ; ब्रह्मचर्यादिश्रवणात् । अतस्तत्त्वसाक्षात्कारवत्त्वेन वृत्त्या पारमहंस्यमुपपादनीयम् । एवमेव दुर्वाससोऽपि भविष्यति। अत एव तस्य तत्र तत्र राजगृहादिषु चिरनिवासोऽपि पुराणेषु प्रतिपाद्यते इत्यादिपरिहार उन्नेय इति॥२०॥
इति द्वितीयं परामर्शाधिकरणम् ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥ ननु ब्रह्मविद्यासाधनविचारे उद्गीथविद्याविषयविचारस्य न पादसङ्गतिः , नापि शास्त्राध्यायसङ्गतिस्तदभावे पूर्वाधिकरणसंगतिमात्रमप्रयोजकमित्याशङ्क्य कैमुतिकन्यायेन पुरुषार्थाधिकरणार्थदृढीकरणोपयोगमाह –
यदा रसतमत्वादिति ।
विद्याङ्गकर्मवीर्यवत्तरत्वोपयुक्तत्वाद्विद्यापेक्षितचित्तैकाग्र्यशिखरारोहणसोपानत्वाद् उपनिषदाम्नातत्वेन प्रत्यासन्नत्वात् शास्त्रान्तरेष्वविचारितत्वाच्चात्र विचार इति प्राणविद्यादिसाधारणायां संगतौ स्थितायामियमस्याधिकरणस्य वैशेषिकी सङ्गतिरुक्ता ।
चित्पतिस्त्वेति ।
ज्योतिष्टोमे "चित्पतिस्त्वे"त्यादयस्त्रयो मन्त्रा यजमानपावनार्था आम्नाताः । तत्राच्छिद्रेणेत्यादिः शेषः किमव्यवहितेनैव तृतीयमन्त्रेण संबध्यते , उत सर्वैरिति संदेहे मन्त्राणां स्वतो निराकाङ्क्षत्वादच्छिद्रेणेत्यादेः क्रियारहितस्य साकाङ्क्षत्वेऽप्यव्यवहितान्वयेन निर्वृतेस्तेनैव संबध्यत इति प्रापय्य राद्धान्तितं भेदलक्षणे । ज्योतिष्टोमप्रकरणाम्नानात्तदपूर्वसाधनपवनक्रियान्वयद्वारा तदपूर्वान्वयो वाच्यः । पवनक्रियान्वयश्च तस्याच्छिद्रेणेत्यादितृतीयान्तपदोपात्ततत्करणप्रकाशनद्वारा निर्वाह्यः । पवनक्रिया त्वेकैव त्रिभिः पवयतीति श्रुतिबलात् परं विकल्पार्हाणामपि तत्प्रकाशकमन्त्राणां समुच्चयः । तथा च मन्त्रभेदेऽपि शेषिण्याः पवनक्रियाया एकत्वात् करणद्वारा तत्प्रकाशनार्थः शेषः सर्वत्रानुषज्यते ; प्रधानानुसारित्वाद् गुणस्येति।
अच्छिद्रेणेत्येषोऽर्थवाद इति ।
मन्त्रैकदेशत्वेऽप्यश्विनोर्बाहुभ्यामितिवदसमवेतयार्थवादतोक्ता ।
वैश्वदेव इति ।
वैश्वदेववरुणप्रघाससाकमेधसुनासीरीयाख्ये पर्वचतुष्टययुक्ते चातुर्मास्ये वैश्वदेविकानामाग्नेयादीनां पञ्चानां हविषां यद् ब्राह्मणं तस्य वारुणप्रघासिकेष्वाग्नेयादिपञ्चसु अतिदेशार्थं प्रवृत्तम् – एतद् ब्राह्मणान्येवेति वचनं , वार्त्रघ्नानि वा एतानि हवींषीत्यादि तदर्थवादानां नव प्रयाजा इत्यादितदङ्गविधीनां चातिदेशिकमिति सप्तमे निर्णीतम् ।
सन्निहितविध्यभावाङ्गीकारेणेति ।
एतेन रसतमत्वाद्युक्तिः सन्निहितोपासनविधिस्तुत्यर्थेति पूर्वपक्षे कर्तुं शक्ये किमिति व्यवहितोद्गीथादिस्तुत्यर्थेति सूत्रभाष्ययोः पूर्वपक्षः कृत इत्याशङ्कायाः सन्निहितविध्यभावेऽपि स्तुत्यर्थतयोपपादयितुं शक्यत इति न्यायव्युत्पादनार्थं कृत्वाचिन्तया तथा पूर्वपक्षः कृत इति परिहारो यद्यत्र सन्निहितोपासनाविधिर्नास्तीति टीकाग्रन्थेन कृत्वाचिन्तात्वप्रदर्शकेन सूचितः स्फुटीकृतः । भावशब्दाच्चेति सूत्रं च कृत्वाचिन्तोद्घाटनार्थमिति द्रष्टव्यम् ।
अस्ति तु तदित्यतिरेके परिहार इति गुरुग्रन्थस्यार्थं तद्व्याख्येयभाष्यतात्पर्यकथनपूर्वकं विशदयति –
विधिनैवेति ।
यथा लोक इति ।
ननु – लोके “पटो भवती”ति पदद्वयानवगतो रक्तिमगुणरूपः कश्चन विशेषो रक्तपदेन बोध्यते , तद्बोधश्च रक्तपटदिदृक्षोपादित्सावतां प्रवृत्तौ तज्जिहासावतां निवृत्तौ चोपयुज्यत इति युक्ता तत्राकाङ्क्षा , इह तु स्तुतिनिन्दापदैर्बोध्यं कंचिद्विशेषं न पश्यामः । प्राशस्त्याप्राशस्त्यमिति चेत् , तदेव किमिति विशिष्य न जानीमः । न च तद्बोधः प्रवृत्तिनिवृत्त्युपयोगी ; विधिनिषेधलभ्येष्टानिष्टसाधनताबोधादेव तदुभयोपपत्तेः , न च तदुभयानुपयोगि शास्त्रं भवतीति – चेत् , अत्राहुः ; बलवदनिष्टानुबन्धित्वमप्राशस्त्यं तदपि निवृत्त्युपयोगि ; सत्यपीष्टसाधनताज्ञाने बलवदनिष्टानुबन्धित्वेनावगते सविषान्नभोजनादावप्रवृत्तेः , बलवदनिष्टाननुबन्धित्वं प्राशस्त्यं , तदपि प्रवृत्त्युपयोगि ; सत्यप्यनिष्टसाधनताज्ञाने बलवदनिष्टाननुबन्धित्वेनावगते यागादौ प्रवृत्तेः । तदुभयं यद्यपि विधिनिषेधाभ्यामाक्षेप्तुं शक्यम् , अन्यथा तयोः प्रवर्तकत्वनिवर्तकत्वानुपपत्तेः ; तथापि विधिनिषेधौ सत्सु स्तुतिनिन्दापदेषु तत एव तल्लाभो भविष्यतीत्याक्षेपगौरवमसहमानौ तत्सन्निधानोत्थापिताकाङ्क्ष्या तदेकवाक्यतामनुभवतः । यत्र वसन्तादिवाक्ये तेषामभावः , तत्र स्वयमेव तदाक्षिपत इति। अन्ये तु –विधिनिषेधवाक्यैः कर्मणामिष्टानिष्टसाधनत्वबोधनं तद्योग्यताज्ञानमपेक्षते , तदर्थवादाश्च विधेयनिषेध्यकर्मसंबन्धिगुणदोषान् कीर्तयन्तस्तेषां कर्मणामिष्टानिष्टसाधनत्वयोग्यताबोधं जनयन्ति ।
इष्टसाधनत्वयोग्यत्वमेव प्राशस्त्यम् , अनिष्टसाधनत्वयोग्यत्वमेव च निन्दा । यद्यपि योग्यताज्ञानं ज्ञानकारणं , यद्यपि च वेदप्रामाण्यदृढावधारणाद् न्यायलभ्ये स्वस्वार्थे सर्वाणि वैदिकवाक्यानि योग्यान्येवेति सामान्यतो योग्यतानिश्चयः सम्भवति ; तथापि सत्स्वर्थवादेषु तज्जन्यो योग्यतानिश्वयो विधिनिषेधवाक्यार्थबोधकारणमिति कल्प्यत इति –वदन्ति।
अर्थवादस्य साकाङ्क्षत्वादिति ।
गुणस्य प्रधानानुवर्तनाकाङ्क्षासत्वादिति भावः ।
नत्विह रसतमत्वादेरिति ।
ननु रसतमत्वादेरुद्गीथविध्यनपेक्षायामप्युद्गीथादिविधेः स्तुतिप्रकर्षलाभाय रसतमत्वाद्यपेक्षया तदन्वयः स्याद् , अत एव सुकृतदुष्कृतयोर्हानोपायने यत्र श्रुते केवलोपायनं वा यत्र श्रुतं तत्रोपायनस्य तद्विद्यान्वयेन निरपेक्षत्वेऽपि , यत्र निर्गुणविद्यायां केवलहानं श्रुतम् “अश्व इव रोमाणि विधूय पापमि”ति तत्रापि स्तुतिप्रकर्षलाभाय विद्यापेक्षयोपायनशब्दस्यान्वयो भाष्यकारैरुक्तः ; सत्यकामत्वादीनां च दहरोपासनायामुपास्यगुणतयाऽन्वयेन निराकाङ्क्षाणां निर्गुणविद्यायामपि स्तुतिप्रकर्षलाभायान्वयोऽङ्गीकृत इति – चेत् , उच्यते ; हानोपायनाधिकरणे (ब्र. अ. ३ पा. ३ सू. २६) स्तुतिप्रकर्षो भाष्यकारैरानुषङ्गिकप्रयोजनतयोक्तः , न तूपायनशब्दान्वये प्रमाणतया प्रमाणं , तत्रावश्यकं कुतश्चिद्धीनं किंचिदुपैतीति हानस्योपायनापेक्षा कुतश्चिद्धीनमपि सुकृतदुष्कृतं फलजननाय कंचिदाश्रयमपेक्षत इति तदपेक्षा चेत्युभयमेव कामाद्यधिकरणे (ब्र. अ. ३ पा. ३ सू. ३९) हृदयायतनत्वादिसाम्येन विद्याद्वयाम्नातगुणसामर्थ्येन चोपस्थापितैर्विद्यान्तरगुणैः स्वत एव भवतः स्तुतिप्रकर्षस्य त्यागो न कार्य इति सोऽङ्गीकृतः , तथेहापि कर्मकाण्डगतोद्गीथादिविधिषु स्वत एव रसतमत्वाद्युपस्थितिर्वा रसतमत्वादिश्रवणेषूद्गीथादिविध्युपस्थितिर्वा भवति चेदस्तु रसतमत्वादिनोद्गीथादिस्तुतिरपि । न चैवं सिद्धान्तस्य पूर्वपक्षाभेदः ; रसतमत्वादीनां केवलस्तुत्यर्थत्वेन पूर्वपक्षः , उपास्यत्वसद्भावेन सिद्धान्त इति भेदात् । अत एव सूत्रे पूर्वपक्षप्रदर्शने स्तुतिमात्रमिति मात्रशब्देन केवलस्तुत्यर्थतया पूर्वपक्ष इति दर्शितम् । पूर्वपक्षनिराकरणार्थेन च नञा न स्तुतिमात्रमित्येतदर्थकेनापूर्वत्वादुपास्यस्य सतः स्तुत्यर्थत्वमपि भवति चेद् भवत्वित्यङ्गीकृतम् । अत एव च सन्निहितोपासनाविधिसद्भावेऽपि व्यवहितोद्गीथादिविधिस्तुत्यर्थतया पूर्वपक्षः सूत्रभाष्ययोर्दर्शितः । पूर्वपक्ष: कामाद्यधिकरणन्यायेनोद्गीथादिविधिस्तावकत्वसिद्धौ सन्निहितोपासनाविध्यन्वयस्यापि क्लृप्तेन स्तावकत्वेनैवोपपत्तेः सत्यकामादिष्वेताঁश्च सत्यान् कामानितिवदुपास्यगुणतयाऽप्यन्वये विशेषवचनाभावात् केवलस्तुत्यर्थत्वमेवेति पूर्वपक्ष: सुदृढो भवति। सन्निहितोपासनाविधिस्तुत्यर्थतयैव पूर्वपक्षकरणे तु न तथा पूर्वपक्षः सुदृढः स्यात् ; अन्यत्र स्तुत्यर्थत्वेन क्लृप्त्यभावे उपासनाविधिसन्निधानादुपास्यगुणतयैवान्वयौचित्यात् । वेदान्तेषु हि निर्गुणप्रकरणाभावे गुणाम्नानस्योपासनार्थत्वमेवौत्सर्गिकम् । अत एवानारभ्याधीतानां सम्भूत्यादिगुणानामुपासनाविधिसन्निधिरहितानामप्युपासनार्थत्वं सिद्धवत्कृत्य किं तेषां क्लृप्तशाण्डिल्यविद्याद्यन्वयः , उत तत्रैव कल्प्येन विद्यान्तरेणान्वय इति विशेषचिन्ता सम्भूत्यधिकरणे कृता । इह क्लृप्तोपासनाविधिश्रवणे तदुपास्यगुणतयाऽन्वयः कथं प्रत्याख्यायेत ? यद्येषामेव रसतमत्वादीनामन्यत्र स्तावकतयाऽन्वयक्लृप्तिरुत्सर्गबाधकतया नापेक्ष्येत । यद्येवं पूर्वपक्षः , कथं तर्हि सिद्धान्तः ? सतोरपि ह्यपूर्वत्वं भावशब्दयोः सत्यकामादिगुणानामन्यत्र स्तुत्यर्थादीनां सन्निहितविधावुपास्यगुणतयाऽन्वये प्रतिप्रसवापेक्षा दृष्टा , नैवमिह प्रतिप्रसवोक्तिः । तदभावे कथमेकस्य सन्निहितविधावुपास्त्यर्थत्वमन्यत्र स्तुत्यर्थत्वं च स्यात् ? नैष दोषः ; स एव प्रतिप्रसव एकस्य तथोभयार्थसंभवे लिङ्गदर्शनतया प्रकृतसिद्धान्तोपयोगी भविष्यति। अस्मिन् पक्षे न कृत्वाचिन्तेति न तदुद्घाटनार्थं सूत्रं , किंतु यद्यत्र सन्निहितोपासना विधिर्न श्रूयते तदाऽन्यत्र केवलस्तुत्यर्थत्वं शङ्क्येतापि , न तदश्रवणमस्तीति प्रदर्शनार्थमिति द्रष्टव्यम् ।
न हि धात्वर्थभेद इति ।
कृभ्वस्तिरूपधात्वर्थभेदे कुर्यात् क्रियेतेति लकारार्थकर्तृकर्मरूपकारकभेदे वा विधिलक्षणं न भिद्यते ; विधिनिमन्त्रणादिसूत्रेषु लिङाद्ययर्थतयोक्तस्य विधेस्तद्भेदेऽपि सर्वत्रैकरूप्यस्य वक्तव्यत्वादित्यर्थः । न्यायवित्स्मरणमयुक्तमितीदमुपलक्षणं भाष्यकारैरुपासीतेत्यादयो विधिशब्दा इत्युक्त्वा तत्र संमतित्वेन कुर्यात् क्रियेतेत्यादि विधित्वप्रतिपादकवचनोदाहरणमप्ययुक्तमिति शङ्कान्तरमपि द्रष्टव्यम् ।
विधिलक्षणं तावदाहेति ।
इष्टसाधनत्वं विधिः । तच्च लिङाद्याकारेणाख्यातवाच्यमाख्यातसामान्याकारेण तद्वाच्यायां पुरुषप्रयत्नरूपायां भावनायामन्वेतीति। यथा "पशुना यजेते"त्यत्र सुविभक्तिरूपेण तृतीयावाच्ये करणकारके एकवचनरूपेण तद्वाच्यमेकखमिति भावः । इष्टसाधनत्वं विधिरिति स्वमतमुक्तम् । केचित्तु – प्रवर्तकः खलु विधिः , स तु वैदिको लिङादिशब्द इति स एव विधिः – इत्याहुः । अन्ये तु –लिङादिशब्दमात्रस्य प्रवर्तकत्वे अनवगतार्थस्यापि प्रवर्तकत्वप्रसङ्गात् तदर्थो नियोगः प्रवर्तकः , स विधिरिति वदन्ति। अपरे तु –कल्प्यापूर्वरूपस्य नियोगस्य लिङादिवाच्यत्वाभावात्तद्वाच्या शब्दभावना प्रवर्तिका सा विधिरिति – भणन्ति। शब्दभावना हि शब्दव्यापाररूपाऽभिमता , सा न तावदभिधाव्यापाररूपा ; घटादिशब्दाभिधात्वदर्थबोधानुकूलशब्दव्यापाररूपायाः स्वयं तदर्थत्वाभावात् ।
नापि शब्दभावनापरपर्यायं लिङादिवाच्यं शब्दस्यैव व्यापारान्तरं कल्पनीयम् ; तत्कल्पनायां प्रमाणाभावात् , प्रवर्तकतया लोकानुभवसिद्धस्येष्टसाधनत्वस्यैव लिङाद्यर्थत्वोपपत्तेरित्यमुमर्थं शङ्कोद्घाटनपूर्वकं सूचयति –
ननु शब्द एवेति ।
कृञ् चेत्यनुक्रियमाणरूपापरिज्ञानपरिहारार्थम् ऋकारान्तादेव विभक्तिः कृता ।
उदाहृतवानिति ।
कुर्यात् क्रियेतेति श्लोककृदिति शेषः ।
ननु सन्तु कृभ्वस्तयो भावनासामान्यवचनाः , तथापि भावनागतेष्टसाधनत्वरूपपरिज्ञानार्थं सर्वधात्वर्थानुगतभावनायामुदाहर्तव्यायां किमिति कृभ्वस्तीनामेवोदाहरणमित्याशङ्कानिराकरणाय प्रवृत्तं सामान्योक्ताविति ग्रन्थं व्याचष्टे –
यद्यपि धातव इति ।
सर्वत्र व्याप्त्यर्थमिति ।
पचत्याद्यनन्ताख्यातपदोदाहरणासम्भवात् सामान्योदाहरणे तत एव सर्वविशेषानुगतिरवगन्तुं शक्यत इति लाघवार्थं सामान्योदाहरणमित्यर्थः । अतोऽस्मच्छ्लोकस्योदाहरणं भाष्यकारीयमपि न प्रकृतेऽसङ्गतमिति भावः ।
ननु कृभ्वस्तयो यदि भावनावाचिनः , तदा कुर्यादित्याख्यातैः किमभिधीयत ? इत्याकाङ्क्षायामाह –
एतद्धातुगतेति ।
तत्र लिङाद्यर्थाकारवाच्यमिष्टसाधनत्वमेव भावनान्वितमाख्याताभिधेयमित्यर्थः , आख्याताकारेण तु प्रकृत्यर्थभूतैव भावना प्रत्ययेनाप्यनूद्यते , द्वावित्यत्र द्वित्वसंख्येव ।
न तु प्रतिधात्विति ।
कृभ्वस्तिषु धातुभेदेन वा कर्तृकर्मलकारकृद्रूप्रत्ययभेदेन वा भावनाभेदो नास्तीत्यर्थः ।
कृदन्तत्वेन द्रव्याभिधायित्वादिति ।
आख्यातानि न द्रव्यपर्यन्तानि , किंतु भावनामात्रनिष्ठानि , तत्र कुर्यादित्यादौ कर्तरि प्रयोगे भावनाक्षिप्तस्य कर्तुरन्वयः स्वर्गकामः कुर्यादिति। क्रियेतेत्यादौ कर्मणि प्रयोगे तदाक्षिप्तस्य कर्मणोऽन्वयः पाकः क्रियेतेति , न तु कर्तृकर्मणी लकारवाच्ये ; तयोस्तिङाऽनभिहितत्वेऽपि तत्संख्यायास्तिङाऽभिहितत्वाद् यदनभिहिताधिकारविहिते द्वितीयातृतीये न भवत इति स्वर्गवास इति पाक इति च प्रातिपदिकार्थमात्रविहिता प्रथमा । कृत्प्रत्ययास्तु कर्तृकर्मादिषु विहिताः न केवलं भावनावाचिनः , किंतु भावनोपसर्जनकर्तृकर्मादिकारकपर्यन्ताः । न च – आख्यातानामपि तत्पर्यन्तत्वं स्यात् , पक्ता चैत्रः पक्तव्य ओदन इतिवत् पचति चैत्रः पच्यते ओदन इति कर्तृकर्मकारकाधिष्ठानवाचिनां सामानाधिकरण्याविशेषादिति – शङ्कनीयम् ; भावप्रधानमाख्यातमिति स्मृत्यनुसारेण आख्यातानां भावनाप्राधान्याङ्गीकारात्तथात्वेऽप्याख्यातार्थभावनायाः कर्तृकर्माक्षेपकतया तदाक्षिप्तकर्त्रादिसामानाधिकरण्येन पचति चैत्र इत्यादिप्रयोगः । वार्तिककारास्तु – यथाऽऽख्यातेषु भावनया कर्तृकर्माक्षेपः एवं कृदन्तेषु कर्त्रादिकारकैर्भावनाक्षेप इति – मन्यन्ते ।
यथाहु: –
यथैव भावनाप्रधानत्वादाख्यातेषु तत्संबन्धादेव गुणभूतकारकप्रतीतिसिद्धेर्न कर्तृकर्मणोरभिधानं भविष्यति , एवं कर्त्राद्यभिधानादेव तदन्यथानुपपत्त्या भावनासिद्धेरनभिधानम् ; गम्यमानापेक्षयैव च सामानाधिकरण्यमिति ।
ननु भवनभावने प्रयोज्यप्रयोजकव्यापारौ , घटो भवति तं कुलालो भावयतीति विवरणात् , अतः कृभ्वस्तयो भावनावाचिन इत्ययुक्तमित्याशङ्क्य निराकरोति –
यद्यपीति ।
अस्ति तावदस्तिभवत्योरपि भावना , सा क्वचिद्भवितृनिष्ठा क्वचिदन्यनिष्ठा , दण्डी भवेदित्यत्र भवितृनिष्ठा “तस्मात्प्रायणीयस्याह्ना ऋत्विजा भवितव्यमि”त्यत्र कर्मसंबन्धनिमित्तऋत्विग्भावनारूपवरणक्रियाकर्तृयजमाननिष्ठा । तथा च अस्तिभवत्योरपि भावनासद्भावमात्रेण करोतिवद्भावनावाचित्वमुक्तम् ।
तदाहेति ।
कर्तृकर्मकारकभेदेऽपि भावनैक्यमाहेत्यर्थः ।
भ्वादेशादिति ।
आर्धधातुकविषये अस्तेर्भूरित्ययमादेशो विहितः । अतो भवितव्यं भूयेतेत्युदाहरणद्वयमस्तिधातुसाधारणमित्यर्थः । सार्वधातुकविषये स्यादित्युदाहरणं श्लोकेऽस्तीति तन्नोदाहृतमिति भावः ।
आक्षिप्तकर्मिका भावनेति ।
यद्यपि भवतेरस्तेश्चाकर्मकत्वाद् भवितव्यमिति भावे तव्यप्रत्ययः भूयेतेति च भावे लकारः ; तथापि तदर्थभवनक्रियाक्षिप्ता भावना सकर्मिका , तस्याश्च दण्डिनेति तृतीयोपात्तो भवनक्रियाकर्तैव कर्म , तस्य स्वरूपेण सिद्धत्वेऽपि दण्डित्वाकारेण साध्यत्वात् ।
भवतिरस्तिश्चेति ।
तथा च पर्यायत्वाद् भवत्युदाहरणेनैव चारितार्थ्यमित्यस्त्युदाहरणं न कार्यमिति शङ्कार्थः । भूतानां पृथिव्याश्रितानां पृथिवी रसः उत्कृष्टा पृथिव्या अप्स्वोतप्रोता या आपो रसः अपां तत्कार्यभूता ओषधय ओषधीनां तत्परिणामः पुरुषः पुरुषस्य वाक्प्रधानस्य वाग्रसः वाच ऋग् रसः वाङ्मध्ये सारभूतत्वादृचः साम रसः तत्परिष्कारकत्वात् साम्न उद्गीथ उद्गीथावयवॐकार आदिभूतो रस इत्येवं पृथिव्याद्युत्कर्षतारतम्यपर्यवसानभूमित्वं रसतमत्वम् ।
परमात्मप्रतीकत्वादिति ।
प्रणवे प्रतीके परमात्मदृष्ट्योपासनं शैव्यप्रश्नप्रसिद्धम् ।
अर्धं स्थानमिति ।
"अथ ह गौतमो राज्ञोर्धमेयाये"त्यादिश्रुतिषु अर्धशब्दः स्थाने प्रसिद्धः ।
तदर्हतीति यत्प्रत्यये ब्रह्मस्थानार्ह इत्यस्य ब्रह्मतुल्य इत्यर्थपर्यवसाने सति केनाकारेण तौल्यमित्याकाङ्क्षायामाह –
ब्रह्मवदुपास्य इति ।
ब्रह्मनामत्वाच्च ब्रह्मवदुपास्यता । ननु – "परमः परार्थ्य" इत्येतत् तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्येवाक्षरस्यापचित्या इत्येतच्च स्तुत्यर्थमिति संप्रतिपन्नं तथा रसतमत्वमपि किं न स्यात् ? न ह्याप्तिसमृद्धिगुणयोर्वेदने यथा "आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते" इति फलवचनं , नैवं रसतमत्वस्य वेदने किंचित्फलवचनमस्तीति – चेत् , उच्यते ; परमत्वं परार्थत्वं त्रयीविद्यासाध्यसोमयागाङ्गस्तोत्रशस्त्राश्रवणप्रवर्तकत्वं चोङ्कारसामान्यस्य गुणः , तत्त्विहोपास्यस्योद्गीथावयवोङ्कारस्यैव गुणः , आश्रवणप्रवर्तकत्वादेस्तत्राभावात् । तस्मादतद्गुणत्वादुपास्यगुणतयाऽन्वयो न संभवति , स्तुतिद्वारतया त्वन्वयः संभवति ; अन्यदीयगुणकीर्तनस्यापि परंपरासंबन्धेन स्तावकत्वोपपतेः । दृष्टं हि "वेतसशाखया चावकाभिश्च विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचं शमयती"त्यत्र अपां शान्तत्वगुणकीर्तनस्य तत्प्रभववेतसशाखास्तुतौ पर्यवसानम् । रसतमत्वं चातिसमृद्धिवदुद्गीथावयवोङ्कारगुणत्वेन कीर्तितमिति तत्कीर्तनस्योपास्यसमर्पकत्वं संभवति न स्तुतिमात्रार्थकत्वं कल्पनीयमिति विशेषः ॥२१॥२२॥
इति तृतीयं स्तुतिमात्राधिकरणम् ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥
स्तुत्यर्थत्वात्सकाशादिति ।
स्तुत्यर्थत्वापेक्षयेत्यर्थः ।
आश्विनग्रहशंसने इति ।
आश्विनस्तोत्रशंसन इत्यर्थः । "ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यादि"ति ग्रहग्रहणस्तोत्रोपाकरणयोः पौर्वापर्यसम्बन्धश्रवणाद् ग्रहशब्देन स्तोत्रं लक्षितम् ।
ननु यस्य मन्त्रस्य श्रौतो विनियोगस्तद्विनियोगं सर्वश्रुतिः सहतां , यस्य लिङ्गादिभिर्विनियोगस्तं नियोगं कथं सहेतेत्याशङ्क्याह –
क्वचित्समानस्येति ।
क्वचिद्विनियोगे समानस्य तद्विनियोजकप्रमाणेन तुल्यबलस्यात एव विनियोगान्तरं सोढवतः सर्वशब्दस्य लिङ्गादिभिर्दुर्बलैरन्यत्रापि यो विनियोगस्तद्विघातकत्वं नास्ति , तत्र हेतु: –
सकृत्प्रवृत्तस्यावकुण्ठनाभावादिति ।
एकत्र त्यक्तनियमस्य सर्वशब्दस्यान्यत्रापि नित्यमत्यागविरोधिनियन्त्रणासंभवादित्यर्थः । ननु एवं सति ज्योतिष्टोमे स्तोत्रविनियुक्तानामृचां मध्ये कस्याश्चिदाग्नेय्या आग्नीध्नोपस्थाने श्रौतविनियोगेन स्तोत्रविनियोगनियमनभङ्गो जात इति स्तोत्रविनियुक्तानां सर्वासामपि ऋचां लिङ्गात् तत्र तत्र विनियोगः प्रसज्येत ? श्रौतविनियोगेन नैराकाङ्क्ष्यान्न तासां लैङ्गिको विनियोगः , आकाङ्क्षामूलत्वाल्लिङ्गेन विनियोगकल्पनाया इति चेत् , तर्हि दाशतयीनामपि श्रौतविनियोगनिराकाङ्क्षाणां नास्ति लैङ्गिको विनियोग इति लिङ्गादिभिर्मन्त्रविनियोगोक्तिरियं निरालम्बनेति – चेत् , उच्यते ; यासां श्रौतविनियोगेन निराकाङ्क्षाणामपि दाशतयीनामवश्यंभावी लैङ्गिको विनियोगस्तद्विषयमिदमाचार्यवचनं , यथा यत्रैकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्येत्यादौ सामिधेनीविवृद्धिः श्रुता , तत्र प्रवोवाजीयाद्यभ्यासेन संख्यापूरणं न भवति , किंतु ऋगन्तरागमेनेत्यभ्यासेन संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वा (जै. अ. १० पा. ५ सू. २७) दिति दाशमिकाधिकरणे स्थितम् । तत्र गम्यमानानामृचाम् अभिप्रकाशनलिङ्गदेवाऽऽगमात्तदागमाभावे सामिधेनीपरिच्छेदकैकविंशतिसंख्यानुपपत्तेः आगमे चाग्निप्रकाशनलिङ्गस्यैव शरणीकरणीयत्वात् । न च – जपपारायणादिविनियुक्तानामपि विधिवाक्यानां यथा विधायकत्वं तथा परिप्लवविनियुक्तनामप्युपाख्यानानां स्तावकत्वं स्यादिति – वाच्यम् ; अग्निहोत्रादिविधौ प्रवृत्तिविशेषोऽस्तीति जपपारायणादिविधिवद्विधायकत्वाभ्युपगमेऽपि स्तुतौ प्रवृत्तिविशेषालाभेन शंसनविनियोगनिराकाङ्क्षाणां सन्निधिमात्रेण स्तुत्यर्थत्वकल्पनायोगादिति भावः ।
उपलक्षणार्थत्वेन व्याख्यायतामिति ।
विशेषप्रवृत्तोपक्रमानुसारेणौपसंहारिकविशेषश्रवणस्य यथा कथंचिद् व्याख्यानमेकस्तोमे वा क्रतुसंयोगा (जै. अ. ५ पा. ३ सू. ४३) दिति पाञ्चमिकाधिकरणे स्थितम् ।
तत्र हि "एष वाव प्रथमो यज्ञो यज्ञानां यद् ज्योतिष्टोमो य एतेनानिष्ट्वाऽथान्येन यजते गर्तपात्यमेव तत् कुरुते" इत्यत्रान्यशब्दस्य “यो हि तृवृदन्यं यत्र क्रतुमापाद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तमि”ति वाक्यशेषगततृवृदादिस्तोमकक्रतुसंकीर्तनानुसारेण तावन्मात्रे संकुचितवृत्तित्वं पूर्वपक्षीकृत्य राद्धान्तितम् –
अविशेषप्रवृत्तोपक्रमगतचोदनानुसारेण वाक्यशेषे विशेषाम्नानं तृवृदादिस्तोमप्रशंसार्थत्वेन कथंचिन्नेतव्यमिति ।
तथेहापि स्यादिति शङ्कार्थः । अवच्छेदकविधिपुनःश्रुत्यवैयर्थ्यायोपक्रमगतस्यापि सर्वशब्दस्यात्र सङ्कोच इति परिहारो मूल एव स्पष्टः । किंच अनन्तशाखाम्नातासङ्कुचितसर्वाख्यानशंसनासंभवात् सर्वशब्दस्य स्वत एव किञ्चिदवच्छेदेन सङ्कोचाकाङ्क्षायां तत्सङ्कोचकवाक्यशेषानुसरणमुपपद्यत इत्यपि द्रष्टव्यम् । कथापरो ग्रन्थः पञ्चतन्त्रादिः ॥२३॥२४॥
इति चतुर्थं पारिप्लवाधिकरणम् ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥२५॥ भाष्यटीकयोरस्फुटमधिकरणशरीरं दर्शयति –
ब्रह्मविद्येति ।
ब्रह्मविद्या मोक्षे जननीये कर्माणीतिकर्तव्यतारूपेणापेक्षते न वेति संशयः । तदर्थं यज्ञादीनां किं विद्याफले मोक्षेऽन्वय उत विविदिषायामिति संशयः । पूर्वत्राख्यातानां विद्यासन्निधिना विद्याशेषत्वमुक्तम् , एवमेव प्रकरणेन यज्ञादीनां मोक्षफलकमब्रह्मविद्याशेषत्वमिति संगतिः ।
तत्र पूर्वपक्षे हेतुमाह –
यज्ञेनेति ।
यज्ञेन विविदिषन्तीत्याद्यन्वयाद् यज्ञादीनां तृतीयाश्रुत्या विविदिषायां साधनत्वेनान्वयः प्रतीयते , स च न संभवति ; विषयसौन्दर्यलभ्यायास्तस्या यज्ञादिभिरसाधनीयत्वात् , अतो विविदिषाप्रकृत्यर्थभूतायां विद्यायां तदन्वयः । तस्यामपि प्रमाणाधीनजननायां तेषां स्वरूपनिर्वर्तकत्वासंभवात्फलोपकार्यत्वेनान्वय इति फलतो मोक्षान्वय इत्यर्थः ।
तत्र सिद्धान्तमाह –
अस्मिन्पक्षे इति ।
तृतीयाश्रुत्या विविदिषायां यज्ञादीनां करणत्वं प्रतीयते । न च तदसंभवः ; अविशुद्धान्तःकरणानां ब्रह्मविद्यायां विषयसौन्दर्यप्रतिसंधानमूलेच्छा न संभवतीति तद्विशुद्धिसंपादनद्वारा तस्यां करणत्वोपपत्तेः । अतो विविदिषायामेव यज्ञाद्यन्वय इति न मोक्षे कर्मापेक्षास्ति ; अविद्यास्तमयरूपे मोक्षे विद्यातिरिक्तसाधनानुपयोगादित्यर्थः ॥२५॥
इति पञ्चममग्नीन्धनाधिकरणम् ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥
तर्हि सा स्वोत्पत्तावपीति ।
पूर्वाधिकरणे यज्ञादीनां यद्विविदिषासाधनत्वमुक्तं , तद्विद्यासाधनत्वपर्यवसायि ; विविदिषायाः स्वतः पुरुषार्थत्वाभावेनानन्दसाक्षात्काररूपब्रह्मविद्योपयोगेनैव पुरुषार्थता वक्तव्येति तदभावात्पूर्वाधिकरणेनाक्षेपिकी संगतिरुक्ता ।
अपि चानेन वाक्येनेति ।
ननु – विविदिषोद्देशेन यज्ञादिविधानं प्रागुक्तम् , अतो विविदिषाविधानादिविकल्पोऽस्थानविजृम्भित इति – चेत् , उच्यते ; विविदिषोद्देशेन विधानमेव न संभवति , तस्याः फलत्वायोगात् । फलत्वं हि विद्यारूपफलजनकत्वोपाधिकं वाच्यम् ; तस्याः स्वतः फलत्वाभावात् । तथा च विविदिषाफले विद्यायां प्रागेवेच्छासत्त्वे सैव विविदिषेति तस्याः सिद्धत्वात् तदसत्त्वे तस्यां फलजनकत्वोपाधिकपुरुषार्थत्वाप्रतीतेः । एवं विविदिषायाः फलत्वेनान्वयासंभवपूर्वपक्षो यथा सुन्दरेऽपि गुडादावित्यादितत्परिहारसिद्धान्तग्रन्थेन सूचितः । एवमुक्ते यदीच्छादिविधानं यज्ञादिवाक्यार्थं केचन मन्दमतयः शङ्केरन् , तन्निराकरणार्था इमे विकल्पा इति न दोषः । एवं च केनापि प्रकारेण यज्ञादिवाक्यस्य विधायकत्वायोगाद् विद्यास्तुत्यर्थमेव तद्वाक्यमिति पूर्वपक्षः स्थितः । यथा सुन्दरेऽपि गुडादावित्यादिसिद्धान्तग्रन्थस्यार्थः प्रथमसूत्रेऽस्माभिः स्फुटीकृतः तत्रैव द्रष्टव्यः ।
प्रत्यक्प्रावण्यं कर्मफलं दृष्ट्वेति ।
तदुक्तं सुरेश्वराचार्यैः – प्रत्यक्प्रवणतां बुद्धेः कर्माण्यापाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव॥ इति ।
भास्करोक्तमिति ।
विद्याविविदिषयोरिव मोक्षस्यापि प्रतिबन्धकानि कर्माणि सन्ति , तन्निरासार्थं शमादिवत्कर्मणामनुवृत्तिरिति शङ्का । "भिद्यते हृदयग्रन्थि”रित्यादिशास्त्राद् विद्ययैवावशिष्टसकलकर्मनिवृत्तिर्भवतीति परिहाराभिप्रायः ।
शास्त्रकृतत्वादश्रद्धाया इति ।
लौकिकप्रमाणमूलमिथ्यात्वबुद्धिप्रभवश्रद्धया स्वप्रारब्धसोमयागादिकस्य मध्ये प्रबुद्धस्य पुरुषस्य कर्मशेषत्यागेऽपि किल न प्रत्यवायः , शास्त्रमूलमिथ्यात्वबुद्धिप्रभवश्रद्धया स्वत एव कर्मणामस्तमये नास्ति प्रत्यवाय इति किमु वक्तव्यमिति भावः ॥२६॥२७॥
इति षष्ठं सर्वापेक्षाधिकरणम् ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥ यस्मिन्नुत्क्रान्ते इदं शरीरं पतेत् तच्च श्रेष्ठमिति यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स च श्रेष्ठ इति श्रुतौ प्रजापतिवाक्यम् । तदर्थोऽत्र भङ्ग्यन्तरेण दर्शितः ।
प्राणोत्क्रान्तौ त्वपतदिति ।
प्राण उच्चिक्रमिष्यन् स यथा सुहय: षड्विशशङ्कून् समखिददेवमितरान् प्राणान् समखिदत् तं हाभिसमेत्योचुः भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति श्रुतिवाक्यम् , तदर्थं इहापि भङ्ग्यन्तरेण दर्शितः ।
प्रवृत्तिविशेषकरणतालाभे प्रयोजन इति ।
अनेन लाभ इति निमित्तसप्तमी "चर्मणि द्वीपिनं हन्तीति"वत्प्रयोजनस्य निमित्तत्वपक्षे विवक्षितेति व्याख्यातं भवति। ग्राम्यव्यापारगतचेष्टादिषु हिङ्कारादिदृष्टिर्विहितेति हिङ्कारादिषु ग्राम्यव्यापारगतचेष्टादृष्टिर्विहितेत्येवं सप्तम्यर्थस्य हिङ्कारादिषु योजनेन व्यवधारणकल्पना कार्या । एवमेव हि "लोकेषु पञ्चविधं सामोपासीते"त्यादिश्रुतिवाक्येषु सप्तमीद्वितीययोर्व्यत्यस्य योजनया व्यवधारणकल्पना स्थास्यति। तां श्रुतिशैलीमनुसृत्याचार्यैरुक्तम् ।
अशक्तेरिति श्लोकप्रतीकमादाय श्लोकं व्याचष्टे –
सर्वान्नस्येति ।
करभ उष्ट्र इति ।
उष्ट्रशिशुरित्यर्थः ।
अडादेरश्रवणादिति ।
लेटोऽडाटाविति अडागम आडागमश्च लेटो विहितः , तदश्रवणादित्यर्थः ।
अपूर्वत्वाभावादित्येतद् विधियोग्यार्थरहितत्वादित्येतदर्थकम् अभिप्रेत्य तदर्थस्य विधियोग्यतां त्रेधा विभज्य दर्शयति –
सर्वमन्नं भवतीत्यस्येति ।
नन्वनुवादत्वमसिद्धम् ; स्वरूपतो भक्षणस्य प्राप्तत्वेऽपि प्राणविद्याङ्गत्वेन तत्प्राप्त्यभावात् , अनदनीयत्वं न दोषः ; कृष्णलवदनदनीयस्यापि किंचिद्भक्षणोपपत्तेः , कलञ्जादौ निषिद्धत्वमपि न दोषः ; विधिनिषेधयोः क्रत्वर्थपुरुषार्थतया व्यवस्थोपपत्तेरित्याशङ्कानिराकरणार्थं न च सत्यां गतावित्यादिग्रन्थमवतार्य व्याचष्टे –
शास्त्रान्तरेति ।
क्लृप्तत्वादिति ।
अनेन क्लृप्तशास्त्रविरोधिशास्त्रान्तरकल्पनैव न प्रवर्तते , येनाप्राप्त्याद्युपपादनेनानुवादत्वासिद्ध्यादिकमुच्येतेति भावः ।
सुरावर्जमिति ।
पैष्टीवर्जमित्यर्थः । गौडीमाध्व्योर्मरणान्तप्रायश्चित्ताभावात् । "सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुद्ध्येदि"ति गौतमस्मृतेर्मरणप्रसङ्गेऽपि सा न पेयेति। केचित्तु – अनन्यसाध्यव्याध्युपशमार्थं पेयैव ; तत्र मरणान्तिकप्रायश्चित्ताभावाद् , "एतान्येवातुरस्य भिषक्क्रियायां प्रतिषिद्धानि भवन्ति यानि चान्यान्येवंप्रकाराणि तेष्वप्यदोष इति सुमन्तोस्त्वदोषत्वस्मरणस्य प्रायश्चित्तलाघवसूचनार्थत्वात् , "गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥“ इति बार्हस्पत्यलघुप्रायश्चित्तविधानस्य तादृग्विषयताया वक्तव्यत्वाच्चेति – आहुः ।
वर्जयेदिति शेष इति ।
मद्यं नित्यं ब्राह्मण इति भाष्योदाहृता गौतमस्मृतिः । तत्र वर्जयेद् मधुमांसगन्धमाल्येत्यादिपूर्ववाक्याद् वर्जयेदित्यनुवर्तते स शेष इत्युक्तः ॥२८॥२९॥३०॥३१॥
इति सर्वान्नानुमत्यधिकरणम् ॥
विहितत्वाच्चाश्रमकर्मापि ॥३२॥
विविदिषन्तीत्यस्येति ।
यज्ञादिवाक्ये वर्तमानापदेशात् कर्मकाण्डइवेतिकर्तव्यताम्नानाभावाच्च तस्यैव स्तुत्यर्थत्वमध्यवसीयत इति भावः ।
वास्तवविरोधेनेति ।
षोडशिग्रहणाग्रहणन्यायसंचारणे तथैव विरोधपरिहाराय विकल्पोऽभ्युपगन्तव्य इति काम्यप्रयोगे नित्याननुष्ठानात् प्रत्यवायः स्यान्नित्यानित्यसंयोगे वास्तवविरोधानङ्गीकारे च पूर्वतन्त्रे नित्यानित्यसंयोगविरोधस्य दोषत्वकथैवास्तमियादिति भावः ।
आवश्यकत्वानावश्यकत्वप्रतीतेरिति ।
जीवननिमित्तकतयाऽऽवश्यकत्वं विद्यार्थितयाऽनावश्यकत्वमिति विषयभेदादिह न नित्यानित्यसंयोगविरोधः । यत्र तु नित्यस्यानित्यमेव द्वारं तत्र परं नित्यानित्यसंयोगो विरुध्यत इति स दोषः ।
यथा भिन्ने जुहोतीति ।
अत्र हि होमो भिन्नाधिकरणकः तत्संस्कार इति पूर्वपक्षे भिन्ने इत्यस्य संस्कार्यपरतया निमित्तपरत्वाभावेन होमो नित्यः स्याद् द्वारं तु भिन्नमनित्यम् ; दर्शपूर्णमासमध्ये पात्रादिभेदस्य कादाचित्कत्वात् । अतो होमो न नित्यं दर्शपूर्णमासयोरुपकुर्यात् अनित्यभिन्नद्वारेति वाक्यार्थबोधो न निष्पद्यते अनित्यद्वारकत्वमस्याप्यनित्यत्वप्रसङ्गादिति विरोधपरिहाराय भिन्ने इत्यस्य निमित्तपरत्वं सिद्धान्तेऽङ्गीकृतम् । अतस्तादृग्विषयो नित्यानित्यसंयोगविरोधो दोष इति प्रथेति भावः ।
न चेन्नित्यप्रयोगस्यैवेति ।
साध्यविषये प्रयोगैक्ये विरोधपरिहारो न संभवति ; विकल्पेन विरोधपरिहारे च कदाचिन्नित्याननुष्ठानेन प्रत्यवायः स्यात् । अतो नित्यप्रयोगोऽपि पृथक्कर्तव्य इति भावः । विकृत्येत्यस्य सोपपत्तिकं व्याख्यानं – प्रयोगस्येत्यादि ।
बाधित्वेत्यन्तेनापि तत्सिद्धेरिति ग्रन्थं व्याचष्टे –
काम्यनैमित्तिकाभ्यां नित्यकार्यसिद्धेरिति ।
उक्तमर्थमुपपादयति –
यादृशो हीति ।
कर्तव्यस्येत्यर्थ इति ।
सिद्धरूपस्यैवैकस्य साध्यस्य नित्यानित्यात्मविरोधो नास्तीत्यर्थः ।
कर्मसु सत्स्विति ।
ननु कर्मणां विद्यार्थत्वपक्षे विद्योत्पत्तिपर्यन्तं कर्मणां फलापवर्गाणामनुवृत्तिरित्यस्तु , विविदिषार्थानि कर्माणीत्याचार्यपक्षे न तेषां विद्योत्पत्तिपर्यन्तमनुवृत्तिरस्ति , सत्यम् ; विद्यार्थत्वपक्षमाश्रित्य सत्स्विति वर्तमानतोक्ता । विविदिषार्थत्वपक्षे तु कालविशेषानादरेण सद्भावमात्रं विवक्षितमित्यदोषः ।
एका हि प्रतिपत्तिरिति ।
अङ्गाध्ययनवतो वेदान्तवाक्यश्रवणमात्रजन्याद्वैतविषयापातदर्शनरूपा प्रतिपत्तिरेका श्रवणाख्या , अन्या शास्त्रनिरूपितन्यायचिन्तानुगृहीतवेदान्तवाक्यजन्यतद्विषयनिर्णयरूपा मननाख्येत्यर्थः ।
उक्तं हि सर्वापेक्षाधिकरणटीकायां – प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद् भवति यां किलाचक्षते श्रवणमिति , द्वितीया चिन्तासहितात् तस्मादेवोपनिषद्वाक्याद्यामाचक्षते -
मननमितीति ॥३३॥
यद्यपि “सर्वथाऽपि त एवोभयलिङ्गा”दिति सूत्रमधिकरणान्तरपरत्वेन योजयितुं शक्यम् ; प्रकरणान्तराधिकरणन्यायेन पूर्वपक्षान्तरोत्थानात् , तस्य च टीकायां प्रदर्शनात् ननु "यावज्जीवमग्निहोत्रं जुहुयादि"त्याचार्यग्रन्थस्य दृष्टान्तवैषम्येण पूर्वाधिकरणस्थितनित्यविद्यार्थयज्ञादिप्रयोगैक्याक्षेपरूपत्वेन तस्यैवाक्षेपस्य पूर्वाधिकरणसङ्गत्यर्थत्वोपपत्तेश्च ; तथापि खादिरादिषु नित्यानित्यविरोधपरिहारस्य पूर्वतन्त्रे क्षुण्णतया फल्गुस्तदवलम्बनः पूर्वपक्षः । अतः पूर्वसूत्रद्वयं प्रकरणान्तरन्यायालम्बनपूर्वपक्षोत्थापकतया तच्छेषत्वेन प्रवृत्तमित्यभिप्रेत्य न्यायनिर्णये विवरणाचार्यैः कृतमैकाधिकरण्यमाचार्यैरनुसृतम् । ननु –अत्र सिद्धान्ते प्रकरणान्तराधिकरणन्यायवैषम्यं किमुक्तं , किं मासाग्निहोत्रस्येवात्र यज्ञादेर्विधानमेव नास्तीति , किं वा धातुनोपादाय विधानं नास्तीति। नाद्यः ; विविदिषोद्देशेन यज्ञादिविधानाङ्गीकारात् । यद्युच्येत प्रसिद्धस्य यज्ञादेः प्राप्तत्वेन तस्याप्राप्तं विद्याफलसंबन्धमात्रं विधीयत इति , इदं तत्रापि वक्तुं शक्यम् ; प्रसिद्धस्यैवाग्निहोत्रस्य मासगुणसंबन्धमात्रं विधेयमिति। यदि तत्र काले कर्म विधीयत इति विहितस्य विधानायोगात् कर्मान्तरम् , तर्हीहापि फले कर्मविधानमिति तत एव न्यायात्कर्मान्तरत्वं वर्जनीयम् । नापि द्वितीयः ; इह यज्ञादेर्विधाने विहितस्य पुनर्विधानं न संभवतीति न्यायतौल्ये च जाग्रति धातुनोपादाय विधानं नास्तीति वैषम्यस्याप्रयोजकत्वात् । धातुनोपादाने साध्यतया प्रतीतेः कर्मान्तरता भवति , न तु नाम्नोपादाने ततः सिद्धतया प्रतीतेरिति चेत् । यदि सिद्धतया प्रतीतिः , कथं तर्हि विधेयत्वम् ? यदि नाम्नोपात्तस्याविधेयत्वं कथं न कर्मान्तरत्वम् ? विहितस्य विधानायोगात् , तस्मादिह प्रकरणान्तरन्यायवैषम्यं न स्फुटमिति – चेत् , उच्यते ; इह यज्ञादिशब्दोपात्तं कर्म यज्ञादेरन्यच्चेत्तत्किंरूपं कर्मेत्यवगन्तुं न शक्यते , इष्टिपशुसोमादिरूपाणां यज्ञादीनां मध्ये कैर्यज्ञादिभिः सादृश्यमवलम्ब्य प्रवृत्तया गौण्या वृत्त्या यज्ञादिशब्दप्रवृत्तिरित्यप्यवगन्तुं न शक्यते , यज्ञादिनाम्ना द्रव्ये देवताद्यतिदेशे सति देवतोद्देश्यकद्रव्यत्यागत्वादिरूपयज्ञादिशब्दप्रवृत्तिनिमित्तप्राप्तेरनिवार्यत्वेन यज्ञादिभिन्नत्वमपि विधेयस्य कर्मणः समर्थयितुं न शक्यते । तस्मादिह यज्ञादिसाधारणशब्दानां "यज्ञोऽध्ययनं दानमिति प्रथम" इत्यादिश्रुतिष्विव प्रसिद्धयज्ञादिपरत्वमेव युक्तं , न मासाग्निहोत्रनामवदप्रसिद्धपरत्वमिति प्रकरणान्तरन्यायवैषम्यमिह विवक्षितम् । तदिदं यज्ञादयस्त्वन्यत्रैवोत्पन्ना आख्यातापरतन्त्रैर्यज्ञादिशब्दैरनूद्यन्त इति ग्रन्थेन सूचितम् ।
तत्राप्यमावास्यादिकाल इति ।
एवंच यदाग्नेयवाक्यममावास्यायामेकस्याग्नेययागस्य पौर्णमास्यामन्यस्य च विधायकतया वाक्यद्वयतामापद्यत इति भावः ।
सायं जुहोतीत्यादाविति ।
यद्यप्यग्निहोत्रं जुहुयात्स्वर्गकाम इत्यत्र प्राप्तस्यैव होमस्य फले विधिरितिवदिह काले विधिरिति वक्तुं शक्यम् ; तथाप्यभ्युपेत्य परिहारं दर्शयितुमियं शङ्का ॥३४॥३५॥
इत्यष्टममाश्रमकर्माधिकरणम्॥
अन्तरा चापि तु तद्दृष्टेः ॥३६॥
यदि नित्यानामेव यज्ञादीनां विनियोगभेदेन विद्यार्थत्वं , तर्हि तद्रहितानां विधुरादीनां न विद्याधिकार इति संगतिः । ते विद्यायामधिक्रियन्ते न वेति तेषां जपयज्ञदानादिकर्मसद्भावादनाश्रमित्वनिन्दनाच्च संशयः । तेषामाश्रमकर्माभावादनाश्रमिकर्मभ्योऽपि ब्रह्मविद्यासंभवे बह्वायाससाध्यानामाश्रमकर्मणां ब्रह्मविद्यार्थत्वेन विधानस्य वैयर्थ्यप्रसङ्गाच्च ते नाधिक्रियन्त इति पूर्वः पक्षः ।
तदभावादनुष्ठितसाधनस्येति ।
यदि जन्मान्तरानुष्ठितसाधनः प्रारब्धवशादात्यन्तिकहीनजातौ जातस्तस्यापि प्रतिबन्धाभावे विद्योत्पद्यत इत्यर्थः ॥३६॥३७॥३८॥३९॥
इति नवमं विधुराधिकरणम् ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥४०॥
किमु वक्तव्यमिति ।
अनाश्रमवर्तित्वादाश्रमवर्तित्वं ज्याय इति पूर्वसूत्रेण कथितत्वादिति भावः ।
अरण्यमियादिति पदमिति श्रुतिं व्यवहितान्वयेन पदशब्दार्थकथनेन व्याचष्टे –
अरण्यमिति यत्पदमिति ॥४०॥
इति दशमं तद्भूताधिकरणम् ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥ अवकीर्णिपश्वधिकरणसूत्रे तद्वदित्यतिदेशं विपरीतमुपनयनहोमाधिकरणं दर्शयति –
उपनयनहोमा इति ।
आहवनीये कार्या इति ।
न च – "क्षौमे वसानावग्निमादधीयाता"मित्याधाने पत्नीसत्त्वश्रवणादुपनयनात्प्राग् दारपरिग्रहाभावाद् आधानासंभवेन आहवनीयो न संभवतीति – शङ्कनीयम् ; तादर्थ्येनोपनयनात्प्रागेव दारपरिग्रहसंभवात् , स्नात्वा भार्यामधिगच्छेदिति वचनस्यापत्यार्थदारपरिग्रहविषयत्वोपपत्तेरिति भावः ।
जातपुत्र आदधीतेति वचनादिति ।
जायामवाप्य दशमेऽहन्यग्नीनादधीतेत्याधानस्य कालान्तरविधानसत्त्वेऽपि सोऽपि कालः कृतदारस्यैव संभवति। न चोपनयनात्प्राग् दारपरिग्रहः संभवति ; "स्नात्वा भार्यामधिगच्छेदि”ति समावर्तनोत्तरकालतावचनस्य रत्यपत्यधर्मरूपसर्वप्रयोजनार्थदारपरिग्रहविषयत्वाद् , “धर्मे चार्थे च नातिचरितव्ये"ति वचनादिति भावः ।
एवमवकीर्णिपशुरपीति ।
अवकीर्णी स्नात्वा भार्यामधिगम्याग्नीनाधायाहवनीये अवकीर्णिप्रायश्चित्तपशुं करोत्वित्यधिकाशङ्का । कृतप्रायश्चित्तेनैव दारपरिग्रहः कार्यः ; “अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेदि”ति वचनात् । अतोऽवकीर्णिपशुरप्युपनयनहोमवल्लौकिकाग्नाविति सिद्धान्तः ।
केचित्तु –
सौत्रस्य तद्वदित्यस्य यथा स्थपतीष्टिलौकिकाग्नौ तथेत्यव्यवहितपूर्वाधिकरणन्यायातिदेशमर्थमिच्छन्ति ।
आचार्याणां तु व्यवहितोपनयनहोमाधिकरणन्यायातिदेशं तदर्थं वर्णितवतामयमभिप्रायः – आधानस्याप्राप्तकालत्वादिति न्यायसाम्यमुपनयनहोमाधिकरणेनैव , न तु स्थपतीष्ठ्यधिकरणेन । तत्र ह्यत्रैवर्णिकेन निषादेन कृतमप्याधानमाहवनीयसंस्काराधायकं न भवति ; तस्याधाने विशेषवचनाभावादिति न्यायः । तस्मादव्यवहितन्यायातिदेशाऽसंभवात् पानव्यापच्च तद्वदिति (जै. अ. ३ पा. ४ सू. ३८) सूत्रगतस्येवास्य तद्वच्छब्दस्य व्यवहितन्यायातिदेशकत्वं युक्तमिति ॥४१॥४२॥
इति एकादशमाधिकारिकाधिकरणम् ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥
बहुलमुपलम्भादिति ।
तथा च पापे निवृत्तेऽपि ततो जाताया अशुद्धेरनुवृत्तिरुपपद्यत इति भावः ।
तथैव चापस्तम्बस्मृतिः –
"नास्यास्मिँल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हन्यत" इति ।
संपिबेदिति ।
संवसेदिति पाठान्तरम् ।
व्याख्यायोदाहरतीति ।
व्याख्यानेनैवार्थत उदाहरति , न तु श्लोकरूपेणेत्यर्थः ।
कामतः कृतमपीति ।
अनेन श्लोकेन कामत इति पदं कृतमित्यनेनानुषक्तेनान्वितं सदपैतीति क्रियया संबध्यत इति दर्शितम् । अव्यवहार्य इत्यादिश्लोकशेषो बालहन्त्रादिविषयतया टीकायां योजितः ।
श्लोकस्य ब्रह्महत्यादिपातकविषयत्वात् तच्छेषस्य कथं बालहन्त्रादिविषयत्वं स्यादित्याशङ्क्याह –
बालवधाद्युपलक्षणार्थं मत्वेति ।
मत्वेत्यनेन श्लोकशेषस्य ब्रह्मवधादिविषयत्वमपि वक्तुं शक्यम् , महापातककृतामपि प्रायश्चित्तेनैहिकशुद्ध्यभावात् । बालहन्त्रादीनामैहिकशुद्ध्यभावे शरणागतबालस्त्रीघातकान् संवसेन्न तु । चीर्णव्रतानपि सतः कृतघ्नसहितानिमान्॥ इति याज्ञवल्कीयवचनान्तरसत्त्वादिति सूचितम् । केचित्तु – याज्ञवल्क्यश्लोके व्यवहार्य इति पदच्छेदं कृत्वा कामकृते महापातके “विहितं यदकामानां कामात्तद् द्विगुणं भवेदि”ति वचनबलादिह व्यवहार्यो जायते ; अन्यथा द्विगुणप्रायश्चित्तवैयर्थ्यापत्तेः , परत्र नरकजननशक्त्या सह दुरितमनुवर्तत एव । नास्यास्मिँल्लोके इत्यादिवचनं तु स्वाश्रमप्रच्युतोर्ध्वरेतोविषयम् । नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् । शुद्धानामपि लोकेस्मिन् प्रत्यापत्तिर्न विद्यते॥ इति कौशिकवचनैकार्थ्यात् – इत्याहुः ॥४३॥
इति द्वादशं बहिरधिकरणम् ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ॥४४॥
आश्रितोपास्तिकर्तृत्वमिति ।
अत्रोपास्तिपदं प्रकृताभिप्रायं विवक्षितं , न तूत्सर्गशरीरप्रविष्टम् ; एतदधिकरणसिद्धान्तस्थितेः प्राक् तथोत्सर्गसंप्रतिपत्त्यभावात् । यदि किंचिज्जायमानाङ्गाश्रितमुपासनं यजमानेन कर्तव्यमिति संप्रतिपत्तिः स्यात् , तदा तत्र सिद्धमुत्सर्गमवलम्ब्योद्गातृकर्तृकाङ्गाश्रितोपासनस्योद्गातृकर्तृकत्वे प्राप्ते तस्यापवादः क्रियेत , तथा नास्ति संप्रतिपत्तिः । तथाभूतोपासनसद्भावे तस्य ऋत्विजापि कर्तुं शक्यतया "तस्मै हि परिक्रीयत" इति सिद्धान्तहेतुबलेन तस्य ऋत्विक्कर्तृकत्वस्यैव प्राप्तेः । तस्मादङ्गाश्रितमङ्गकर्त्रा कर्तव्यमित्येवोत्सर्गशरीरं विवक्षितम् । दृष्टं हि "ममाग्ने वर्च" इति मन्त्रस्य प्रत्यगाशीष्ट्वेन याजमानतौचित्येऽपि सूक्तवाकमन्त्रप्रतिपाद्यायुरादिफलन्यायेन विवक्षितस्य तत्प्रतिपाद्यफलस्य यजमानगामित्वेऽप्यन्वाधानकर्त्रा अध्वर्युणैवान्वाधानकरणमन्त्रतया तदङ्गस्यापि वक्तव्यत्वम् । तस्मादिहोपास्तिग्रहणमविवक्षितम् । यदि तद्विवक्षितं समर्थनीयं , तदा लिङ्गभूयस्त्वाधिकरणविचारिते विद्यामयेऽग्नावयं वाव लोक एषोऽग्निश्चित इति भूलोकदृष्टिर्मनुष्या यजुष्मत्य इष्टका इत्यादिनेष्टकादिषु मनुष्यादिदृष्टिश्च विधीयत इति तत्रोत्सर्गसंप्रतिपत्तिर्द्रष्टव्या । तत्र ह्ये”वंविदे सर्वाणि भूतानि चिन्वन्ती"ति वचनात् सर्वभूतान्तर्गतस्य विदुषोऽपि स्ववृत्तिरूपेष्टकाचयनकर्तृत्वमस्ति। अग्नितदङ्गेष्टकाश्रितभूलोकतन्मध्यगतमनुष्यदृष्ट्याद्युपासनाकर्तृत्वमप्यस्ति । "बको दाल्भ्य" इत्यादिलिङ्गवत्सूपासनेषूत्सर्गसिद्धिरास्थेया । अस्मिन् पूर्वपक्षे "तं ह बको दाल्भ्य" इत्यादिलिङ्गस्य पूर्वपक्षन्यायेन प्रत्याख्यानं तदवलम्बनप्रवृत्तमुत्सर्गमभ्युपगम्य तदपवादोक्तेः , यासूपास्तिषु तदपवादोऽस्ति तावन्मात्रविषय एव च याजमानत्वविचारोपास्तिविषयः , आद्यपक्षे तु सर्वोपास्तिविषयः । तं ह बक इत्यादिलिङ्गस्य च पूर्वपक्षन्यायेन प्रत्याख्यानं , न तु द्वितीयपक्ष इव न्यायानादरः । अग्रे तमुद्गीथं बको नामेत्यादिशङ्कापरिहारग्रन्थे न्यायेन लिङ्गप्रत्याख्यानमप्याद्यपक्षाभिप्रायम् ।
वर्षति हास्मै य उपास्त इत्यादिवचनादिति ।
न केवलमिदं वचनं फलोपासनासामानाधिकरण्यप्रतिपादनादुत्सर्गस्यापवादकं , किंतु उपास्त इत्येकवचनबलादपि । अत्र ह्युपास्त इत्यनेन वृष्टौ पञ्चविधं सामोपासीतेति उपक्रान्तं हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनेषु पुरोवातमेघप्रादुर्भाववृष्टिविद्युद्गर्जितयुगलदृष्टिसमाप्तिदृष्ट्योपासनमुच्यते । न च हिङ्कारादीनां पञ्चानामुद्गातृत्रयकर्तृकाणामेककर्तृकत्वमस्ति , येनाङ्गानुष्ठातैक एव तदाश्रितोपास्तिकर्ता भवेद् । अत एककर्तृकतायामुद्गातृषु विनिगमनाविरहादप्युत्सर्गबाधेन फलभाजो यजमानस्यैवोपास्तिकर्तृत्वमास्थेयमिति भावः । वचनादित्येतदुपलक्षणम् । फलभाज एव प्रधानकर्तृत्वमिति वक्ष्यमाणन्यायादप्युत्सर्गबाधो द्रष्टव्यः ।
पतितैरिति ।
पतितैः संव्ययहारे हि कदाचित् ते ऋत्विजो भवेयुः , कुतः ? उपास्तीनामृत्विक्कर्मत्वाद् , यथा विद्यार्थं सोममनुतिष्ठन् तस्य वीर्यवत्तरत्वार्थमुपासनां कारयितुमिच्छति यजमानः , पतितव्यतिरेकेण चोपासनविदोऽन्ये न लब्धाः , तदा पतितेनाहं सोमपानमौद्गात्रं करिष्यामीति मैत्रीव्यवहारबलादुतस्तद्दाक्षिण्यात् तं न प्रत्याचक्षीत । अतस्तत्परिहाराय पतितैः संव्यवहारं त्यजेदित्यर्थः ।
प्रकृतोपयोग इति ।
न केवलं वचनात् पतितसंव्यवहारस्त्यक्तव्यः ; किंतु स्वकर्तव्यकर्मनाशप्रसङ्गादपीति पूर्वाधिकरणार्थं हेत्वन्तरलाभहेतुतया प्रकृतोपयोग इत्यर्थः । इह संभवात् प्रयोजनान्तरमुक्तं विद्यार्थकर्मवीर्यवत्तरत्वसंपादकोपासनविषयस्यास्य विचारस्य तद्विषयप्राच्योदीच्यविचारान्तरवदुपयोगान्तरं संप्रतिपन्नमस्त्येव ।
यदि कामयेतेति वाक्येनेति ।
मिनुयादित्युक्तसदोमानं तावदध्वर्युकर्तृकं यजुर्वेदस्याध्वर्यवसमाख्यया सन्निधापितस्याध्वर्योस्तत्र कर्तृत्वेनान्वयात् । अतो मिनुयात्कामयेतेति क्रियाद्वयसमभिव्याहाररूपेण वाक्येन सदोमानस्य कर्तुरध्वर्योरेव फलसंबन्धबोधनादित्यर्थः ।
तपसः प्रधानफलसिद्ध्यर्थत्वादिति ।
ननु प्रधानफलसिद्ध्यर्थमपीतरदङ्गजातं समाख्याबलादध्वर्युप्रभृतिभिरनुष्ठीयते , सत्यम् ; इह प्रधानफलसिद्ध्यर्थत्वादित्यनेन प्रधानफलोत्पत्तिप्रतिबन्धकयजमानगताधर्मनिवृत्तिद्वारा प्रधानफलसिद्ध्यर्थत्वं विवक्षितम् । तन्निवृत्तिश्च यजमानगतेनैवानशनरूपदुःखानुभवेन भवति। एवं तपसः प्रतिबन्धकनिवृत्तिरूपदृष्टफलार्थत्वे संभवति नाऽपूर्वरूपादृष्टसंस्कारार्थत्वं कल्पनीयमिति।
ननु उक्तहेतुना तयोर्याजमानत्वमस्तु , कर्माङ्गाश्रितनीचैस्त्वादिफलमपि याजमानमित्यत्र को हेतुरित्याकाङ्क्षायामर्थसंयोगादिति सूत्रोक्तं हेतुं विवृणोति –
यजेतेत्यादिना ।
साङ्गप्रधानफलस्येति ।
ननु – गुणफलमङ्गस्य प्रधानस्य वा न फलं , किंत्वङ्गाश्रितस्य गुणस्यैवेति – चेत् , न ; गुणस्याङ्गाश्रयणं विना स्वतः फलजननासमर्थतयाऽङ्गस्यापि फलजननकोट्यनुप्रवेशात् । तथा च प्रधानवाक्यगतात्मनेपदश्रुतिविरोधादङ्गवाक्यगतक्रियाद्वयैककर्तृकत्वसमर्पकाख्यातद्वयसमभिव्याहारात्मक वाक्यप्रमाणं बाधित्वा "यदि कामयेत यजमान" इत्यध्याहार्यमिति भावः । तथा मिनुयादिति परस्मैपदश्रुतिबलादपि वाक्यप्रमाणभङ्गो द्रष्टव्यः । डुमिञ् प्रक्षेपणे इति धातोर्ञित्वादकर्त्रभिप्राये क्रियाफले विहिता हि परस्मैपदश्रुतिः नीचैः सदोमानस्य तत्कर्त्रतिरिक्तगतफलार्थतां बोधयति।
ननु – काण्डाधिकरणे अङ्गाश्रितगुणफलानां यजमानगामित्वमुक्तम् , न तूपासनानामृत्विक्कर्तृकत्वं , कथं तेन पौनरुक्त्यशङ्केत्याशङ्क्याह –
अत्राङ्ग फलस्येति ।
अङ्गाश्रितगुणफलमात्रस्य विशिष्य याजमानत्वोक्त्याऽङ्गतदाश्रितगुणानामार्त्विज्यत्वमर्थादुक्तं भवतीत्येवं पौनरुक्त्यशङ्केत्यर्थः ।
कथं तर्हि तन्निरासस्तत्राह –
सा न कार्येति ।
ऋत्विक्कर्तृकत्वं न्यायान्तरसाध्यं सिद्धवत्कृत्य तत्र फलमात्रस्य याजमानत्वमुक्तं , न तु तदपि तत्र सिषाधयिषितम् ; तत्साधकन्यायानुपन्यासादिति भावः । ननु – इह त्वेवंजातीयकानीत्यादिटीकावाक्ये चकारयुक्तं पाठं गृहीत्वा तत्रोपासनानीत्यनेनान्वयमुक्त्वा सदोमानादिक्रत्वङ्गजातीयकान्युपासनानि च याजमानान्यार्त्विज्यानि वेति विचार्यत इत्येवं तद्वाक्यं व्याख्यातम् । तदिदं व्याख्यानमयुक्तम् ; सदोमानादीनामङ्गानामृत्विक्कर्तृकत्वस्यात्र विचाराभावात्सर्वेषामङ्गानामृत्विक्कर्तृकत्वस्य शास्त्रफलं प्रयोक्तरीत्यधिकरणसिद्धतायाः स्वयमेवाचार्यैरनुपदं वक्ष्यमाणत्वाच्च । न च सदःकरणादिक्रत्वङ्गजातीयकानीत्याचार्यवाक्यस्य सदःकरणादिक्रत्वङ्गाश्रितनीचैस्त्वादिफलार्थगुणजातीयानीत्यर्थो वाच्यः , सदोनीचैस्त्वस्य सदोमानकर्त्रध्वर्युव्यतिरिक्तनिर्वर्त्यत्वासंभवेन तत्रापि गोदोहनादिन्यायेन याजमानत्वविचारायोगादिति – चेत् , उच्यते ; इह सदःकरणादीनामृत्विक्कर्तृत्वस्याविचार्यस्यापि टीकायां विचार्यतोक्तिस्तथाकाम इत्यधिकरणे तस्य विचारितत्वद्योतनार्थेत्याचार्याणामभिप्रायः । सोऽयमभिप्रायस्तथाकाम इत्यधिकरणेहीत्याद्यनन्तरवाक्येनैव स्फुटीकृतः । यद्वा – सदःकरणादिक्रत्वङ्गजातीयानीत्यस्य क्रत्वङ्गाश्रितस्य नीचैस्त्वस्य निष्फलार्थगुणत्वेन सजातीयानीत्युपास्तिवत्क्रियारूपाणि यजमानेन पृथगनुष्ठातुं शक्यानि कर्मकाण्डाम्नातानी तानीत्यर्थः । एवं चाङ्गानामपि ऋत्विक्कर्तृकत्वं न चिन्तितमित्युपरितनवाक्ये अङ्गानामित्यस्याङ्गाश्रितकर्मकाण्डाम्नातक्रियारूपगुणानामित्यर्थः । ननु – टीकायां चकारसद्भावेऽप्येवंजातीयकानि नीचैस्त्ववत् फलार्थान्यङ्गावबद्धानि चेति उपासनागतविशेषणद्वयसमुच्चयार्थत्वेन चकारेण योज्यताम् इति – चेत् , अस्तु तदपि व्याख्यानम् तत्स्पष्टमित्याचार्यैर्न स्पृष्टम् ।
उपास्तीनामनङ्गत्वादिति ।
अङ्गानि हि ऋत्विक्कर्तृकाणि , प्रधानस्य तु यागस्य यजमानकर्तृकत्वं संप्रतिपन्नम् । उपास्तयोऽपि फलश्रुतेः प्रधानभूताः । अतो याजमानत्वशङ्का । एवं च यद्यपि परिक्रयाम्नानात् क्रतौ यद्यत्कर्तव्यं तत्सर्वमृत्विग्भिरेव कर्तव्यमित्युत्सर्गः ; तथापि प्रधानयाग इव फलश्रुत्यविशेषाद् यजमानकर्तृत्वम् ।
ननु यदि फलार्थगुणप्रधानत्वात् फलभाजा कर्तव्यः , तर्हि गोदोहनादिरपि याजमानः स्यादित्याशङ्क्यास्योत्सर्गस्य गोदोहनादिषु त्यागः , न तु शक्ये क्वचिदपीति । परिहरति –
न चैवमित्यादिना ।
फलार्थगुणे तदपवाद इति भावः । "वर्षति हास्मा" इत्यादिवचने यजमानपदाभावेऽपि फलस्वामिन उपासनाधिकारित्वावगमाद् यजमानस्य फलस्वामित्वात् ।
अत एवोपासनाकर्ता वाक्यप्रमाणेनावसीयत इति कृतशङ्कापरिहारार्थं टीकायास्तात्पर्यमाह –
कर्मणीश्वरोऽधिकारीत्यादिना ।
औत्सर्गिकस्येति ।
ननु – सर्वं कर्म ऋत्विजामितिवत्सर्वं फलं यजमानस्येत्ययमप्युत्सर्गश्चेत्कथं फलोत्सर्गन्यायमवलम्ब्य "वर्षति हास्मा" इत्यादि यजमानस्योपासनाकर्तृत्वे प्रमाणमाशङ्क्यते ? कर्त्रुत्सर्गन्यायेनोद्गातुः फलभाक्त्वात् , तत्प्रमाणं किं न स्यादिति – चेत् , मैवम् ; प्रधानवाक्यगतात्मनेपदश्रुतिमूलात्फलोत्सर्गात्परिक्रयरूपाङ्गवाक्यमूलस्य कर्तुरुत्सर्गस्य दुर्बलत्वात् ।
यजमानस्येत्यादिटीकावाक्यं योजयति –
यजमानस्योपासनमिति ।
तस्येत्यस्यार्थमाह –
उपासकस्य सत इति ।
तत्र दृष्टान्त इति ।
यजमानस्योपासनमित्यत्र फलं दृष्टान्तीकृतमित्यर्थः ।
उपासनं प्रधानत्वाद्यजमानेन कर्तव्यमिति पूर्वपक्षोपपादकन्यायस्यार्थवादिकलिङ्गदर्शनेन बाधमाशङ्कते –
नन्विति ।
न्यायं न बाधत इति ।
किंतु न्यायेन लिङ्गदर्शनमेव बाध्यत इति भावः ॥४४॥ यस्त्वत्र न्यायबाध उक्त इत्यग्रे न्यायेन लिङ्गदर्शनस्य बाध उक्त इत्यनूद्यते टीकायाम् ।
तस्मै हि परिक्रीयत इति सौत्रहेतुमपहाय लिङ्गदर्शनं किमित्युपन्यस्यत इत्याकाङ्क्षायां तस्य साक्षात्सिद्धान्तहेतुत्वानुपपत्तेरिति दर्शयितुं तामनुपपत्तिमुद्घाटयति –
ननु तस्मै हीति ।
"तस्मै हि परिकीयत" इत्यत्र तस्मा इत्यस्य किमङ्गाश्रितोपास्तिकरणायेत्यर्थ उताङ्गकरणायेति ।
आद्ये असिद्धिमुक्त्वा तामुपपादयति –
अङ्गाश्रितेति ।
ननु अस्तु द्वितीयः , न च – अङ्गकरणाय परिक्रयस्य तदाश्रितोपास्तिपर्यन्तत्वं न सिद्ध्येदिति शङ्कनीयम् ; आ सन्निधानात्तत्पर्यन्ततासिद्धेरित्याशङ्का सन्निधानमतिप्रसञ्जकतया दूषयति –
यत्र हीति ।
ननु प्रथममृत्विजां कर्तृत्वं प्रमाय पश्चात्तादर्थ्येन ते न परिक्रीयन्ते , "स्वर्गकामो यजेत" इति सामानाधिकरण्यात्मनेपदाभ्यां फलभाजो यजमानस्यैव करणेतिकर्तव्यतासहितभावनाकर्तृत्वे प्राप्ते दक्षिणया ऋत्विजां परिक्रयणाम्नानात् तद्दृष्टार्थत्वाय सामानाधिकरण्यात्मनेपदाभ्यां प्रमितं यजमानस्य कर्तृत्वं ऋत्विग्द्वारकं प्रयोजकम् , प्रयोजकत्वेऽपि प्रमितकर्तृत्वानपायादिति परिक्रयाम्नानबलादेव पश्चात् ऋत्विजां कर्तृत्वं प्रमीयते । पूर्वतन्त्रेऽपि "शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात्समं प्रयोगे स्याद्” ( जै. अ. ३ पा. ७ सु. २०) "अन्यो वा स्यात्परिक्रयाम्नानादिप्रतिषेधात्प्रत्यगात्मनी" (जै. अ. ७ पा. ४ सू. २) ति पूर्वपक्षसिद्धान्तसूत्राभ्यां तथैव व्यवस्थापितम् । तस्माद्यत्र हि तेषां कर्तृत्वं प्रमितं तदर्थं ते परिक्रेतव्या इत्युक्तिरयुक्तेति – चेद् , नायुक्तेति ब्रूमः । न हि प्रथमप्रमितकर्तृत्वनिर्वाहाय ऋत्विजां परिक्रयो विधीयते इत्यनेन वाक्येनोच्यते , किंतु यत्र तेषां परिक्रयाम्नानात् कर्तृत्वं प्रमाणवत्तावदर्थमेव ते परिक्रेतव्या नाधिककरणार्थमपि । यथा स्फ्यादीनामुद्धननादि यावत्कार्यं वचनान्तरैः प्रमितं तावदर्थमेव तानि संपादनीयानि , न तु यद्यत्कर्तुं शक्यते स्फ्यादिभिः तदर्थमपि तद् द्रव्यं चोत्पत्तिसंयोगात् तदर्थमेव चोद्यत इत्यधिकरणोक्तन्यायमवलम्ब्योच्यते न तत्र काचिदनुपपत्तिः ।
संपादयितुं युज्यत इति ।
फलाय घटत इत्यस्य फलाय चेष्टते फलसिद्ध्युपयोगिकार्येषु व्याप्रियत इत्यर्थः संभवति , स तु घट चेष्टायामिति धात्वर्थानुगमेन स्पष्ट इति नोक्तः । अनेन यजमानगामिफलार्थं यद्यावद्वक्तव्यं तस्य सर्वस्यार्थे परिक्रयः , न तु प्रकरण्यधिकारवाक्यनिर्दिष्टफलं यावता सिद्ध्यति तावत एवार्थे , तावदर्थत्वेऽपि न दोषः ; अङ्गावबद्धोपास्तीनां तस्मिन्नपि फले प्रतिबन्धनिवृत्तिद्वारोपयोगात् । अतो न स्फ्याधिकरणविरोध इति दर्शितं भवति।
कांस्यभोजिन्यायेनेति ।
ननु – अविरोधे कांस्यभोजिन्यायः , इह प्रधानम् फलभाजा साक्षादेव कर्तव्यमिति प्रागेव दर्शनाद्विरोधोऽस्तीति – चेत् , न ; यागस्य स्वामिकर्तृकत्वं न प्राधान्यप्रयुक्तं , किंतु स्वामिद्रव्ये स्वत्वत्यागोऽन्येन कर्तुमशक्य इति ऋत्विगशक्तिप्रयुक्तम् । अत एवाङ्गस्यापि यजमानद्रव्येण परिक्रयस्यान्येन कर्तुमशक्यत्वाद्याजमानत्वं प्रधानेऽप्यग्निहोत्रहोमे स्वत्वत्यागांशं विना प्रक्षेपांशस्यान्येन कर्तुं शक्यत्वाद् आध्वर्यवत्वम् । तस्माद्युक्तोऽत्र कांस्यभोजिन्यायः ।
तदर्थमपीति ।
लिङ्गवशादुपासनस्य ऋत्विक्कर्तृकत्वे सिद्धे ऋत्विक्परिक्रयस्य तादर्थ्यमपि सिद्ध्यतीति भाष्यकारैस्तत्साधारण्येन "तस्मै हि परिक्रीयत" इति सूत्रावयवो व्याख्यात इत्यर्थः ।
एतच्च सर्वमिति ।
ननु भाष्ये सूत्रावयवोक्तं हेतुं प्राधान्येनोपन्यस्य तथा चेत्यादिग्रन्थेन तदुपोद्बलकं लिङ्गमुपन्यस्तमिति प्रतिभाति , न तु लिङ्गं प्रधानहेतुतयोपन्यस्तमिति। नैष दोषः ; अर्थवशेन तस्य प्राधान्यात् भाष्यकाराणामपि तथैवाशय इति तात्पर्यम् । भाष्यस्वारस्यानुरोधात् सौत्रं हेतुं प्राधान्येनोपन्यस्य तदनुग्राहकतया लिङ्गमुपन्यस्तमिति भाष्याशयवर्णनेऽपि न दोषः ; लिङ्गमनपेक्ष्यैव परिक्रयस्योपास्तिसाधारणतायाः स्फ्याधिकरणविरोधपरिहारेणास्माभिः समर्थितत्वात् । तत्साधारण्यसिद्धेर्लिङ्गमुखनिरीक्षकत्वे लिङ्गं यदुपास्तिविषयं परिक्रयस्य तावन्मात्रविषयताया एव सिद्धिप्रसङ्गाच्च । तं ह बको दाल्भ्य इति लिङ्गं हि प्राणदृष्ट्योङ्कोरोपासनमात्रविषयं तस्य न्यायसिद्धार्थानुवादकत्वेनोपासनविशेषप्रस्तावमनपेक्ष्य सर्वविषयता सिद्ध्यति। अत एव सौर्याङ्गप्रभृतीनामनुपदिष्टधर्माणामन्यत इतिकर्तव्यताकाङ्क्षायां लौकिकस्थालीपाकादीतिकर्तव्यता न भवति , किंतु दर्शपूर्णमासादितो वैदिकीति निर्णयार्थं प्रवृत्ते "स लौकिकः स्यादृष्टप्रवृत्तित्वा" (जै. अ. ७ पा. ४ सू. १०) दिति साप्तमिकाधिकरणे "विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शन"(जै. अ. ७ पा. ४ सू. ११) मिति सिद्धान्तसूत्रेण सौर्यादिचोदनायां प्रकृतिषु दर्शपूर्णमासादिष्विव तदीय एव वैदिको विध्यन्तः प्रवर्तते । तथा हि लिङ्गं दृश्यते । यथा हि सौर्यचरौ दार्शपूर्णमासिकप्रयाजप्राप्तिं सिद्धवत्कृत्य "प्रयाजे प्रयाजे कृष्णलं जुहोती"ति कृष्णलविधानार्थस्तदनुवाद इति सिद्धान्तोपपादनानन्तरं “लिङ्गहेतुत्वादलिङ्गे लौकिकं स्या”दिति (जै. अ. ७ पा. ४ सू. १२) सूत्रेण यदि लिङ्गेन वैदिको विध्यन्तो नियम्यते , तर्हि यत्रै"न्द्राग्नमेकादशकपालं निर्वपे"दित्यादौ तन्नास्ति , तत्र लौकिकीतिकर्तव्यता स्यादिति शङ्कामुत्थाप्य "लिङ्गस्य पूर्ववत्त्वाच्चोदनाशब्दसामान्यादेकेनापि निरूप्येत यथा स्थालीपुलाकेने"ति सूत्रेण यदि लिङ्गं वैदिकविध्यन्तरप्रापकत्वेनोपन्यस्तं स्यात् , तदाऽयं दोषो भवेद् , न तथोपन्यस्तं , किंतु त्रेताग्निसाध्यत्वादिसाम्यादनुपदिष्टधर्मकेषु सौर्यादिषु सर्वेष्वपि वैदिक्येवेतिकर्तव्यतेति न्यायप्राप्तानुवादकतयोपन्यस्तं तत्तुल्यन्यायपूर्वकं लिङ्गमेकत्र दृश्यमानं तुल्यन्यायानां सर्वेषां धर्मवत्तां ज्ञापयति। यथा स्थाल्यां तुल्यपाकानां पुलाकानामेकमुद्धृत्य शृतं दृश्यमानमन्येषामपि शृतत्वं ज्ञापयतीत्युक्तम् । तस्मादिह लिङ्गस्य न्यायप्राप्तानुवादतयैव सर्वोपासनाविषयत्वमुपपादनीयम् । स न्यायः सूत्रे हेतुतया निर्दिष्ट इति तस्यैव सिद्धान्तहेतुत्वं भाष्यस्वारस्यानुरोधेन वर्णनीयम् । आचार्यैस्तु टीकायां तं हेतुं विहाय प्रथमं लिङ्गोपन्यासस्य तात्पर्यमेव भविष्यतीति तदुपपादनमात्रं कृतम् । आचार्याणां तु लिङ्गं न्यायप्राप्तानुवादकमित्येव स्वाभिप्रायः ।
तदवष्टम्भेन हि पूर्वपक्षग्रन्थे तैरुक्तम् –
तच्च लिङ्गं सर्वत्रार्त्विज्यमुपास्तीनां गमयतीति ।
ननु यत्तूक्तमित्यादिभाष्येण "वर्षति हास्मा" इति श्रुतौ फलोपासनयोः सामानाधिकरण्यश्रवणात् फलभाजो यजमानस्यैवोपासनाकर्तृत्वं वाच्यमिति पूर्वपक्षे कृता शङ्काऽनूदिता , तत्र ऋत्विजां फलभाक्त्वनिषेधकः पारार्थ्यादित्यादिपरिहारग्रन्थो न युक्तस्तेषां फलभाक्त्वस्यानाशङ्कितत्वादित्याशङ्क्य परिहारग्रन्थस्य तात्पर्यमाह –
परार्थत्वादिति भाष्येणेति ।
अनेन परार्थवादित्यादिफलसंबन्धानुपपत्तेरित्यन्तं पारार्थ्येन हेतुं ऋत्विजां फलसंबन्धनिषेधार्थमेकं वाक्यं न भवति , किंतु परार्थत्वादृत्विज इत्येतावदेकं वाक्यमनूदितशङ्कापरिहारार्थं तेन ऋत्विग्भिर्यत्क्रियते , न तत्र तद्वारकं यजमानस्यैव कर्तृत्वम् , तेषां पारार्थ्यात् । अतः फलोपासनासामानाधिकरण्यश्रुतेः “स्वर्गकामो यजेते”ति फलतदर्थसाङ्गप्रधानानुष्ठानसामानाधिकरण्यश्रुतेरिव नानुपपत्तिरिति परिहारो दर्शितः । यदि परार्थत्वादृत्विजां तत्कर्मणि यजमानस्यैव कर्तृत्वं तदा किमपि फलमृत्विजो न स्यादिति "आत्मने वा यजमानाय वेति" श्रुतिविरोधः । तस्मादृत्विक्कर्मणि क्वचित्क्वचिद् ऋत्विजामपि स्वातन्त्र्यं वक्तव्यं , तद्वदुपासनेऽपि तेषां स्वातन्त्र्यं स्यात् , ते यद्युपासनाकर्तारः स्युः । न हि तेषामुपासनाकर्तृत्वे यजमानकर्तृकं तदङ्गं तत्प्रधानं वा फलजननाय तदपेक्षितं किंचिदस्तीत्युपासनांशे पारार्थ्यहेतोरसिद्धिमाशङ्क्य तत्परिहारार्थमन्यत्रेत्यादि वाक्यान्तरमिति वाक्यभेदेन भाष्यं व्याख्यातम् । ननु – केवलं वचनादेव ऋत्विजां फलसंबन्धो न भवति , किं तु न्यायतोऽपि ; "ममाग्ने वर्चो विहवेष्वस्त्वि"त्यन्वाधानकरणमन्त्रस्याध्वर्युणा वक्तव्यतया तेन प्रकाश्यं वर्चःप्रभृति फलमध्वर्योरेव हि वक्तव्यम् , ममास्त्विति प्रत्यगाशीर्लिङ्गात् , एवमुपसदनस्योद्गातृकर्तृकत्वे फलार्थस्य कृत्स्नस्य तन्मात्रकर्तृकत्वलिङ्गाद् दहराद्युपासनाफलवद् उद्गीथाद्युपासनाफलमपि साक्षात्कर्तृगामि स्यादित्याशङ्कापरिहारार्थं श्रुतेश्चेत्यादिभाष्यं "ममाग्ने वर्च" इत्यादिमन्त्रप्रकाश्यफलमपि याजमानमेवेति निर्णयार्थं प्रवृत्तस्य करणेष्वर्थवत्त्वा (जै. अ. ३ पा. ८ सू. २५) दिति पूर्वतन्त्राधिकरणस्य स्मारणार्थम् । तत्र हि वर्चःप्रभृति फलमपि यजमानगाम्येव प्रधानवाक्यगतात्मनेपदश्रुत्या साङ्गप्रधानभावनाविषययाङ्गभावनानामपि यजमानगामिफलत्वस्योक्तत्वेन तद्विरुद्धस्य मन्त्रगतप्रत्यगाशीर्लिङ्गस्य बाध्यतया मन्त्रे ममपदस्य यजमान एव स्वकीयतयौपचारिकत्वकल्पनादिति सिद्धान्तव्यवस्थापनानन्तरं लिङ्गदर्शनाच्चेति (जै. अ. ३ पा. ८ सू. २७) गुणसूत्रस्योदाहरणत्वेन "यां वै कांचने”ति श्रुतिर्लिखिता । इह तदुदाहरणेन वचनं विना लिङ्गमात्रेण क्वचिदपि ऋत्विग्गतं फलं न भवति , ऋत्विक्कर्मफलस्य यजमानगामिताया औत्सर्गिकत्वे प्रबलश्रुतिन्यायसत्त्वादिति कृतशङ्कापरिहारः सूचितः । एवं सामान्यत आर्त्विज्यफलमात्रस्य यजमानगामित्वे श्रुतिं समुदाहृत्य विशिष्य ऋत्विक्कर्तृकोपासनफलस्य तद्गामित्वे श्रुतिरुदाहृता ।
भाष्ये "तस्मादु हैवंविदि"ति , तत्र तस्मादित्यस्यार्थमाह –
यस्मादिति ।
तस्मादिति शब्दो हि प्रागुक्तं हेतुं करोति , तच्च "सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोका एताঁश्चाप्नोति देवकामाঁश्च अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताঁश्चाप्नोति मनुष्यकामाঁश्चे"ति पूर्ववाक्यम् । तत्र "सोऽमुनैव सोऽनेनैवे"त्यनयोः फलितार्थस्तत्क्रतुन्यायलभ्यस्तदुभयात्मको भूत्वेत्यनेन दर्शितः । एकस्य युगपदुभयात्मकत्वं "स एकधा भवती"त्यादिश्रुतावुपासनासामर्थ्येन युगपदनेकशरीरपरिग्रहस्योक्तत्वादुपपन्नम् । ये चामुष्मात्पराञ्चो लोका ये वैतस्मादर्वाञ्चो लोका" इति वाक्यद्वयोक्तफलसमुच्चयेन फलितोऽर्थः सर्वाल्लोकानाप्नोतीत्यनेन दर्शितः । ननु यजमानगामि खलूपासनाफलं कथमिहोद्गातुः फलमुक्तं , नैष दोषः , वचनादृत्विजोऽपि फलमस्तीत्यनुपदमेवोक्तम् , इह च "य एवं विद्वान् साम गायत्युभौ स गायती"ति प्रकृत उद्गाता “सोऽमुनैवे”त्यनयोर्वाक्ययोस्तच्छब्दाभ्यां परामृश्यते । अतोऽत्रापि वचनबलादृत्विजोऽपि फलभाक्त्वमविरुद्धमित्याचार्याणामभिप्रायः । एवमपि व्याख्यातुं शक्यम् । "य एवं विद्वान् साम गायती"त्यत्र सामगाने प्रयोजककर्ता यजमानो गायतीत्यनेनोच्यते ; उद्गातुरेकस्य पञ्चभक्तिककृत्स्नसामगातृत्वाभावेन प्रयोजककर्तृपरतयैव कृत्स्नसामगाने एककर्तृकत्वस्य निर्वाह्यत्वात् , उद्गातृविषयत्वे सामशब्दस्योद्गातृगेयसामभागे लाक्षणिकत्वापत्तेः । अतः प्राग्यजमान एव प्रकृतः , तस्यैव च "सोऽमुनैव सोऽनेनैवे"ति तच्छब्दाभ्यां परामृष्टस्य फलभाक्त्वमुच्यते । यस्मादेवमुद्गातृकर्तृकस्याप्युपासनस्य यजमान एव फलभागी , तस्मादेवंविद् उक्तोपासनाप्रकारपरिज्ञातोद्गाता अक्ष्यादित्यपुरुषोपासनेन यजमानं संतोष्याऽधिकद्रव्यलिप्सुश्चेद् यजमानं पृच्छेदिति। एवं व्याख्याने तु नास्त्यत्रोद्गातुः फलभाक्त्वे वचनमिति विशेषः ।
किं कामं फलमागायानीति ।
अत्र किं फलमित्यस्य “येचाऽमुष्मा”दिति वाक्योक्तं वा “ये चैतस्मादि”ति वाक्योक्तं फलं वेति न प्रश्नार्थः । "य एवं विद्वान् साम गायत्युभौ स गायती"ति वचनानुसारेणाक्ष्यादित्यपुरुषोपासनयोरेकविद्यात्वेन द्विविधलोकावाप्त्योः समुच्चितयोर्विद्याफलत्वात् , किन्तु किमिदं तव विद्यानुष्ठानं कर्मार्थमिति कृतवीर्यवत्तरत्वमेव फलभागायानि उत फलार्थमिति सर्वलोकावाप्त्यादिकमपीति प्रश्नार्थः । “आगायानी"त्येतदनन्तर"मेष ह्येव कामागानस्येष्ट" इति वाक्यम् , तत्र किमर्थं फलप्रश्नः । उपासनां करवाणि न वेत्येव प्रष्टव्यम् । कृतायामुपासनायां यजमानेन यत्फलं सङ्कल्पितं तत्स्वयमेव भविष्यतीत्याशङ्कापरिहारार्थं "कामं ध्यायन्नप्रमत्तः स्तुवीते"त्यत्रोद्गातुरपि याजमानफलकामनाश्रवणाद् यजमानस्येष्टमिदं फलं भवत्विति स्वयमपि ध्यायन्नेव तत्फलं संपादयितुमीष्ट इति परिहाराभिप्रायः ।
तस्य वाक्यस्यार्थमाह –
समर्थो हीति ॥४५॥४६॥
इति त्रयोदशं स्वाम्यधिकरणम् ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥
बाल्येनेति ।
"नायमात्मा बलहीनेन लभ्य" इति श्रवणात् साङ्गाध्ययनजन्यापातब्रह्मज्ञानरूपस्य श्रवणस्य बलं तत्प्रतिष्ठापकं युक्तिभिरनुचिन्तनरूपं मननमेव बलं तेन योऽयमसंभावनानिरासः स बलस्य भाव इति बाल्यत्वेनोपचरितः , स एव मननेनेति मननकार्यत्वाद् मननत्वेनाप्युपचरितः । इदं व्याख्यानं बृहदारण्यकभाष्यानुसारेण ।
"अनाविष्कुर्वन्नन्वयादि"त्यधिकरणे वक्ष्यमाणेन प्रकारेण बालस्य कर्म बाल्यमिति व्युत्पत्तिमवलम्ब्य व्याख्यानान्तरं –
शुद्धहृदयत्वेन वेति ।
ब्रह्माहमित्यवगच्छतीति ब्राह्मण इति शेष इति सूत्रस्याधिकारार्थत्ववल्लक्षणार्थत्वमप्यङ्गीकृत्य तेन चक्षुषा गृह्यत इति चाक्षुषमित्यादिरूपसिद्धेः शब्दविद्भिरुक्तत्वात् तेनैव सूत्रेणोक्तार्थे शैषिकोऽण्प्रत्ययो द्रष्टव्यः । ब्रह्म अणति अवगच्छतीति ब्राह्मण इति पाठे तु कर्मण्यणित्यण्प्रत्ययः । धातूनामनेकार्थत्वात् शब्दकर्मकस्याणतेरिहावगत्यर्थता । साक्षात्कारवत इति भाष्ये हि विद्यावतः संन्यासिन इति व्याख्यानं , तद्व्याख्यानं “तं वैतमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ती"ति विद्वत्संन्यासः प्राक् प्रकृतः विदित्वेति विशेषणादित्येतदभिप्रायं वाच्यं , तत्र च विद्वत्संन्यासे साक्षात्कारवति विद्यातिशयः सिद्ध इति भावः । विद्याशब्देनेति भाष्ये प्रकृतो विद्वत्संन्यासो न विवक्षितः , किंत्वेतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति वाक्यान्तरसिद्धो विविदिषुसंन्यासः ; संन्याससामान्यग्रहणे प्रकरणमपेक्षते , न तु तद्विशेषग्रहणेऽपि ; विद्यातिशयविधेरनुरोध्यत्वादिति भावः ।
भेददर्शनवशात् पाक्षिकाप्राप्तौ विधिरिति भाष्यटीकोक्तमयुक्तम् , अन्वयव्यतिरेकावगतफलसाधनभावे फलार्थिनां व्यासङ्गमात्रेण कदाचिदत्राप्रवृत्तिनिरासाय विध्यनपेक्षणादित्याशङ्क्य तत्तात्पर्यमाह –
शाब्दज्ञानात्कृतकृत्यतां मन्वान इति ।
यथा दारान्तरपुत्रैः कृतकृत्यतां मन्वानस्य दारान्तरारागेण रोषेण वा अनुगमनाप्राप्तौ "ऋतावुपेयादेवे"ति नियमविधिः , तथेहापीति भावः । एवं चाविधेयत्वमुक्तमित्यस्यापूर्वविध्यविषयत्वमुक्तम् , इह तु नियमविधिविषयत्वमुच्यत इति पूर्वापरविरोधपरिहारो द्रष्टव्यः ।
एवमपि विधिच्छायानीति समन्वयसूत्रभाष्यस्य तत्रत्यटीकाग्रन्थस्य च नाञ्जस्यमित्यपरितुष्यन्नाह –
अथवेति ।
दारान्तरपुत्रैरिव अत्र शाब्दज्ञानेन कृतकृत्यतां मन्वानस्य मूलं नास्ति ; दारान्तरपुत्रैरेवानृण्यवत् शाब्दज्ञानमात्रेण ध्यानं विना साक्षात्कारस्य सिद्ध्यसंभवादतोऽत्र न नियमविध्यपेक्षा । अतः – पक्षेणेति सौत्रपदतद्भाष्ययोर्भेददर्शनव्यासङ्गाद् ध्यानेऽनुत्सहमानस्योत्साहजननार्थं विधिसरूपोऽयमर्थवाद इत्यत्रैव तात्पर्यमिति भावः ।
विध्यभावपक्षमेव सिद्धान्तमवलम्ब्य तमुपपादयति –
अपि चेति ।
श्रवणमननध्यानानां क्रमेण भवतां ब्रह्मसाक्षात्कारपर्यवसानेन फलवत्त्वमिष्यते । तत्र श्रवणमध्ययनविध्यायत्तसाङ्गाध्ययनजन्यापातज्ञानरूपं न कमपि विधिमपेक्षत इतीष्टमेव । तदेव फलवदर्थनिर्णयार्थविचारात्मके मनने प्रवर्तयेदिति तत्रापि न विधिरपेक्ष्यते । न च – अनपेक्षस्वतन्त्रविचारस्य द्वैतशास्त्रविचारस्य वा पक्षे प्राप्तौ नियमविधेरवकाशोऽस्तीति - शङ्कनीयम् ; “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदि”ति नियमविधानादाद्यनियमसिद्धेः , शास्त्रान्तरविचारस्याद्वितीयब्रह्मसाक्षात्कारानुपायत्वादेव तदप्राप्तेः । नच – द्वैतशास्त्रविचारस्य मोक्षार्थब्रह्मज्ञानोपायत्वभ्रान्त्या तत्प्राप्तिः संभवतीति - वाच्यम् ; भ्रान्तिप्रयुक्तप्राप्तेः नियमविधिनापि वारयितुमशक्यत्वात् , तस्यापि नियमविधेर्द्वैतिकृतयोजनया द्वैतशास्त्रविचारनियमविषयताभ्रान्तिसम्भवात् । न च – वेदान्तार्थग्रथनपरपुराणभाषाप्रबन्धादिविचारस्यापि पक्षे प्राप्तौ वेदान्ता एव विचारणीया इति नियमविध्यपेक्षाऽस्तीति – वाच्यम् ; वेदेनैव वेदार्थो ज्ञातव्य इत्यध्ययनविधित एव तस्य नियमस्य लाभात् , “इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि”ति वेदोपबृंहणत्वेनैव पुराणादिविनियोगात् , "न म्लेच्छभाषां शिक्षेते"त्यादिभिर्निषिद्धस्य भाषाप्रबन्धस्याप्राप्तेश्च । न च – न्यायविचारं विनाऽस्य वाक्यस्यायमर्थ इति न्यायसिद्धार्थविषयगुरूपदेशस्यापि पक्षे प्राप्तिरस्तीति – शङ्कनीयम् ; लक्षणमुखेन हि ब्रह्म निर्धार्य ध्यानेन तत्साक्षात्कारः संपादनीयः । ब्रह्मसद्भावमात्रं संप्रतिपद्य तत्किं ब्रह्मेतीदंतया निर्धारणार्थमुपसन्नाय भृगवे यतो वेत्यादिलक्षणमुखेन तदुपदिश्य तद्विजिज्ञासस्वेत्युक्तिसामर्थ्यात् लक्षणेनैव ब्रह्म निर्धार्य ध्यातव्यमिति नियमोन्नयनात् । न हि श्रृङ्गग्राहिकयोपदेशस्यापि ध्यानसाक्षात्कारोपयोगिब्रह्मनिर्धारणोपायत्वे गुरूपाये लक्षणमुखेन ब्रह्मनिर्धारणे गुरुः शिष्यं प्रवर्तयेत् । तन्मुखेन ब्रह्मनिर्धारणं च प्रधानाद्यतिव्याप्तिनिरासेनासंभवनिरासेन च लक्षणदृढीकरणार्थं सर्ववेदान्तनिर्णायकन्यायविचारमपेक्षते । सगुणनिर्गुणवाक्यविवेचनेन निर्गुणवाक्यप्रतिपन्नानन्दादिगुणास्थूलत्वादिनिषेधोपसंहारेणाखण्डवाक्यार्थनिर्धारणमपि तमपेक्षते ; न्यायानुसंधानाय चेदं वाक्यं सगुणविषयमिदं निर्गुणविषयमिति न्यायानुसंधानरहितस्यासंकरेण धारणासंभवात् , तदसंभवेऽप्येतद्वाक्यं सगुणविषयमेतन्निर्गुणविषयमिति न्यायानुसंधानरहितस्यासंकरेण धारणासम्भवात् , तदसंभवे च स्वयमनुपपत्तिप्रतिसंधानेनान्याक्षेपकृतानुपपत्तिप्रतिसंधानेन वा क्षोभितहृदयस्य प्राचीननिर्धारणान्यथाभावापत्तेः ; यस्य प्राग्भवकृतन्यायविचारवासनातिशयवशादुपदेशमात्रतोऽपि निश्चलं बृहस्पतिनाप्यक्षोभ्यं निर्धारणं सभवति , तस्य मननानपेक्षायामपि दोषाभावात् । अत एव "तत्कारणं सांख्ययोगाभिपन्नमि”ति श्रुत्या सांख्ययोगशब्दितं विचारोपदेशमात्रपूर्वकब्रह्मप्रतिपत्त्युपायद्वयमुक्तम् । न च – सोपाधिकात्मसाक्षात्कारक्लृप्तकरणभावमनोव्यापारस्य पक्षे प्राप्तिरस्तीति – शङ्कनीयम् ; ज्ञानमात्रे क्लृप्तकारणभावस्य “समाहितो भूत्वे”ति विशिष्यात्मदर्शने नितरामपेक्षितत्वेन श्रुतस्य च तस्य नियतप्राप्ततया व्यावर्तनायोगात् । तथापि मनसःकरणतया प्राप्तिः पाक्षिकीति चेद् , न ; "मनसैवानुद्रष्टव्यमि”ति श्रुतेः “श्रवणादिसंस्कृतं मन आत्मदर्शने करणमि”ति गीताभाष्यदर्शनाच्च मनस एव करणतयाऽपि नियमेन प्राप्तेः । एवं पाक्षिकस्याप्युपायान्तरस्य प्राप्त्यसंभवे समुच्चयेनोपायान्तरस्य व्यावर्तनयोग्यस्य प्राप्तिर्दुरापास्तेति नोपायपरिसंख्यापि शङ्कार्हा ।
अवघातो हीति ।
दर्शपूर्णमासयोरुत्पत्तिशिष्टपुरोडाशावरुद्धेष्वाग्नेयादियागेषु साक्षात्साधनत्वेन निवेशमलभमाना “व्रीहिभिर्यजेते”ति यागसाधनभावेन श्रुतव्रीहयः पुरोडाशद्वारा तदन्वयं लभन्ते । तेषां पुरोडाशसाधनत्वात्तण्डुलादिद्वारेति तण्डुलभावनापेक्षितोऽवघातः प्रत्यक्षविधिमनपेक्ष्य सामर्थ्यादेव प्राप्नोति , किंतु नखविदलनादिकमपि तद्वदेव पक्षे प्राप्नुयादिति सामर्थ्यादवघातस्य प्राप्तिः सार्वत्रिकी न भवेत् , अतस्तत्सार्वत्रिकत्वसिद्धये नियमविधिराश्रीयत इत्यर्थः ।
इमामगृभ्णन्निति ।
अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं चानुष्ठेयम् । अतस्तत्प्रकरणाम्नातस्य "इमामगृभ्णन्नि”ति मन्त्रस्य रशनाग्रहणप्रकाशनसामर्थ्यरूपाल्लिङ्गाद् उभयत्रापि विनियोगप्राप्ताविमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इति परिसंख्याविधिर्गर्दभरशनाग्रहणाद् मन्त्रव्यावर्तनफलं स्वीक्रियत इत्यर्थः । यद्यपि नियमविधावपि नखविदलनादिनिवृत्तिरस्ति ; तथाप्यवघाताप्राप्तांशपरिपूरणे कृते तन्निवृत्तिर्भवतीति प्राथमिकत्वाद् विधेयगतत्वेन प्रत्यासन्नत्वादप्राप्तांशपरिपूरणं तत्र फलम् । इतरनिवृत्तिरानुषङ्गिकी , परिसंख्यायां तु द्वयोरपि नित्यप्राप्तेरप्राप्तांशपरिपूरणासंभवादितरनिवृत्तिरेव फलमयोगान्ययोगव्यवच्छेदरूपफलाभ्यां नियमपरिसंख्ययोर्भेदः ।
न त्विति ।
ननु – यथा प्रसिद्धयोर्नियमपरिसंख्योदाहरणयोर्विकल्पसमुच्चयाभ्यां प्राप्नुवदुपायान्तरमस्ति , नैवमत्रोपायान्तरं संभवतीत्यनेन ग्रन्थेनोच्यते , नैतद्युक्तम् ; नियमविधौ यथाऽवघातप्रतिद्वन्द्विनखविदलनमुपायान्तरमस्ति , नैवमिमामगृभ्णन्निति मन्त्रस्य प्रतिद्वन्द्विरशनाप्रकाशनोपायान्तरमस्ति , किंतु मन्त्रप्रकाश्यमश्वरशनाग्रहणप्रतिद्वन्द्वि गर्दभरशनाग्रहणमुपायान्तरमेवास्ति , अतः प्रकृते उपायान्तरसंभवे उदाहृतपरिसंख्याविधेर्व्यतिरेकदृष्टान्तता न घटत इति – चेत् , सत्यम् ; उपायोपेयसाधारण्येन निवर्तनीयप्रतिद्वन्द्विसंभवमात्रे व्यतिरेकदृष्टान्तता विवक्षितेति न दोषः । उपायान्तरपरिसंख्यायां तु गृहमेधीयाज्यभागविधानमुदाहरणम् । तद्धि गृहमेधीयापेक्षिताखण्डोपकारोपायत्वेनाज्यभागद्वयतदितराङ्गकलापयोः प्राप्तावितराङ्गकलापव्यावर्तनं फलम् । ननु च – ब्रह्मसाक्षात्कारव्यक्तावुपायान्तरासंभवादित्यादिशङ्कापरिहारग्रन्थयोर्नियमविध्युपपादनार्थता प्रतीयते , तत्रोपायान्तरप्राप्तौ हि नियमविधिः । न च ब्रह्मसाक्षात्कारे वेदान्तश्रवणादिव्यतिरेकेणोपायान्तरमस्ति , अतस्तत्र विधिमभ्युपगच्छताऽपूर्वविधिरास्थेय इति शङ्का विशिष्य गृहीतकार्यकारणभावस्योपायान्तरस्याभावेऽपि साक्षात्कारयोग्यसूक्ष्मार्थविषयकशास्त्रश्र वणादिकं तत्साक्षात्कारकारणमिति तत्र शास्त्रश्रवणादिषु सामान्यतः कार्यकारणभावग्रहेण क्रोडीकृतं पुराणश्रवणादिकमप्युपायान्तरमस्तीति नियमविधिर्युक्तः । सामान्यकार्यकारणभावग्रहमूलप्राप्तिमात्रमेव नियमविधावुपयुज्यते , यथाऽवघातादाविति परिहारश्च वर्णित इति प्रतीयते । नैतद्युक्तम् ; न ह्यत्र नियमविध्युपपादनं प्रस्तुतम् ; पूर्वोत्तरग्रन्थयोस्तन्निराकरणार्थत्वात् , न चाचार्यैः प्रदर्शितो नियमविधिपक्षोऽपि पाक्षिकोपायान्तरप्राप्तियुक्तः , किंतु ऋतुगमनादिनियमविधिवत्पाक्षिकाप्राप्तियुक्तः । न चेमौ शङ्कापरिहारग्रन्थौ नियमविध्युपपादनमनपेक्ष्य केवलमपूर्वविध्यभावोपपादनपरतया योजयितुं शक्यौ । कथम् ? शङ्का तावदपूर्वविध्युपपादनविषयतया योजयितुं न शक्या ; न ह्युपायान्तरासंभवः साक्षादपूर्वविधित्वे हेतुः ; पश्वादिषूपायान्तरसंभवेऽपि "चित्रया यजेत पशुकाम" इत्यादीनामपूर्वविधित्वदर्शनात् , प्रयाजादिजन्योपकारेषूपायान्तरासंभवेऽपि "प्रयाजे प्रयाजे कृष्णलं जुहोती"त्यादीनां प्रयाजाद्यंशे अनुवादत्वदर्शनाच्च । तथा परिहारोऽप्यपूर्वविध्यभावोपपादनविषयतया योजयितुं न शक्यः ; न हि परिहारग्रन्थेन वेदान्तश्रवणादेरपूर्वविधिविरोधी मानान्तरसिद्धः कार्यकारणभावोऽभिधीयते , किंतु तत्प्रतिद्वन्द्विन उपायान्तरस्य ; इतरथेत्यादिग्रन्थे उपायान्तरापरिज्ञानात् , अतो हेतुना तथा तदाशयस्फुटीकरणादिति।
तस्मादिमौ शङ्कापरिहारग्रन्थावनुचिताविति –
चेत् , उच्यते ; ब्रह्मसाक्षात्कारे वेदान्तश्रवणादिकं कारणमिति विशिष्य तयोः कार्यकारणभावग्राहकमुपायान्तरं मानान्तरं नास्ति ।
अतो मानान्तराप्राप्तकार्यकारणभावविषयत्वादपूर्वविधिः श्रवणादिष्वङ्गीकर्तव्य इति शङ्कार्थः । विशिष्य कार्यकारणभावग्राहकाभावेऽपि सामान्यतः साक्षात्कारयोग्यस्य बहुशः श्रवणमननादिभिर्निर्धारितस्वरूपस्य चिरन्तनाभ्यस्तं ध्यानं मानसे तत्साक्षात्कारे कारणमिति कामिनीभावनातत्साक्षात्कारयोर्गृहीतः कार्यकारणभावोऽस्ति। अतो नापूर्वविधेरवकाशः । सामान्यतः कार्यकारणभावग्रहोऽप्यपूर्वविधिविरोधि ; अन्यथा नियम्यावघातव्यक्तिसाध्यापूर्वीयतण्डुलव्यक्तौ य उपायनियम्योऽवघातः तस्यान्तरमवकाशः कारणत्वेन प्रवेशः तस्यापरिज्ञानान्मानान्तरेण ज्ञानाभावादपूर्वविधिः स्यादिति परिहारार्थः ।
सर्वमानेति ।
द्रष्टव्य इति हि दर्शनरूपं फलमिहाश्रितम् । तच्च सर्वेषां प्रमाणानां साधारणं फलम् । अतः सर्वेषु प्रमाणेष्वात्मदर्शनफलार्थमनियमेन प्रसक्तेषु वेदान्त एव तत्र प्रमाणमिति नियमनाय श्रोतव्य इत्यनेन वेदान्तश्रवणमाहेत्यर्थः ।
सन्निधानादेवेति ।
योग्यतावशादित्यर्थः । वेदान्तैकवेद्ये ब्रह्मात्मैकत्वे तदतिरिक्तप्रमाणानां योग्यतया निवृत्तौ वेदान्तश्रवणनियमः स्वयमेव लभ्यते , तदर्थं श्रोतव्य इत्यनेनानुवदन्तीति वार्तिकार्थ इति तात्पर्यम् ॥४७॥
तच्चानुपपन्नमिति ।
यदि बाल्यप्रधानमाश्रमान्तरमपि भवेत् , तदा तदनुपपन्नं स्यात् , अतस्तथाभूतमाश्रमान्तरं नास्तीत्यर्थः ॥४८॥
वैखानसा इति ।
उक्तं महाभारते – ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । चत्वार आश्रमाः प्रोक्ता एकैकस्तु चतुर्विधः॥इति। तत्र गायत्रादयो ब्रह्मचारिभेदाः । वार्तावृत्तयः शालीनवृत्तयो यायावरा घोरसंन्यासिकाश्चेति गृहस्थभेदाः । वैखानसाद्या वनस्थभेदाः । कुटीचकबहूदकहंसपरमहंसा यतिभेदाः ॥४९॥
इति चतुर्दशं सहकार्यन्तरविध्यधिकरणम् ॥
अनाविष्कुर्वन्नन्वयात् ॥५०॥
शेषिविध्यनुग्रहणमिति ।
बाल्यं तावद्विद्याशेषत्वेन विधीयते , विद्या च कामचारादिभ्यो निवृत्तेनैव लभ्यते , "नाविरतो दुश्चरिता"दित्यादिश्रुतेः , अनन्यव्यापारत्वस्य विद्याभ्यासेनापेक्षितत्वाच्च । शेषिविरोधेन च शेषो ग्राह्यः । अत एव यदा यूपार्थं तनुरेव खदिरो लब्धः , तत्र तक्षणादौ कृते अतिकनीयस्त्वप्राप्त्या पश्वनपक्रमणप्रयोजनकं पशुनियोजनार्थं यूपद्रव्यं न संभवति चेत् , तक्षणादित्यागो "द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वा"दिति (जै. अ. ६ पा. ३ सू. ३८) पूर्वतन्त्राधिकरणे निर्णीतः । यदैवं शेषिविरोधे क्लृप्तस्यापि शेषस्य त्यागः , तदा किमु वक्तव्यम् ? इह तद्विरोधी बाल्यशब्दस्य संभवितार्थान्तरस्यार्थत्वेन न ग्राह्य इत्यत्रेति भावः । ननु – शास्त्रान्तराबाधनमपरं कारणमित्येतदयुक्तम् ; क्रत्वर्थपुरुषार्थतया विषयभेदापत्तेः , न च विषयभेदेनाविरोधोऽपि ; बाल्यवामदेव्योपासकादिषु क्लृप्तसंकोचस्य नियमविधायिन: सामान्यशास्त्रस्यैव संकोचानौचित्यात् , विशेषशास्त्रासंकोचाय सामान्यशास्त्रस्यैव संकोचनस्यान्यत्र क्लृप्तत्वाच्च । तथा हि – द्वादशाहे "संस्थिते षडहे मध्वाशयेद् घृतं वेति" ऋत्विजां वैकल्पिकं मध्वशनं विहितम् , द्वादशाहः सत्राहीनोभयात्मकः । सत्रे यजमाना एव ऋत्विजः । यजमानानां ब्रह्मचर्यविधानाद् ब्रह्मचर्यशब्दार्थस्य वेदाध्ययनस्याधीतवेदेषु दीक्षितेषु विधानायोगेन ब्रह्मचर्यशब्दस्य तद्धर्मलक्षकतया तद्धर्मान्तर्गतो मध्वशननिषेधोऽपि तेषां सामान्यतः प्राप्तः । तत्र यद्यपि सामान्यशास्त्राबाधाय मध्वशनस्याहीनद्वादशाहविषयतया संकोचः कल्पयितुं शक्यते ; तथापि विशेषशास्त्रस्य लक्षणप्रतिपदोक्तन्यायेन बलवत्त्वादेतदनुसारेण सामान्यशास्त्रस्यैव ज्योतिष्टोमादतिदेशप्राप्तस्य विशेषशास्त्रानुसारेण मध्वशनव्यतिरिक्तेषु संकोचः “यो मधुन दीक्षितो ब्रह्मचारित्वादिति" (जै. अ. १० पा. ६ सू. ३२) पूर्वतन्त्राधिकरणे निर्णीतः । तस्माद् सामान्यशास्त्राबाधनमपरं कारणं भवितुं नार्हतीति – चेद् , सत्यम् ; शेष्यनुग्रहेण कारणेन सिद्धस्यार्थस्यानुषङ्गिकं प्रयोजनं कारणान्तरत्वेन व्यपदिष्टमिति न दोषः । तदेतच्छास्त्रान्तरबाधनमेवं सति न भविष्यतीत्युक्तिभङ्ग्या सूचितम् ॥५०॥
इति पञ्चदशं अनाविष्काराधिकरणम् ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥
श्रवणादिघटकत्वादिति ।
विविदिषोत्पादनद्वारेति शेषः ।
विद्ययाऽवश्यं भाव्यमिति ।
यदि विद्या यज्ञादिफलं स्यात् , तदा चित्रादिफलवत्कदाचिदामुष्मिक्यपि भवेद् , न त्वेतदस्ति ; यज्ञादीनां विविदिषामात्रेण चारितार्थ्यात् । अतः श्रवणादिषु सत्सु विद्ययाऽवश्यं भाव्यं चक्षुरादिव्यापारेषु सत्सु घटादिप्रमित्येवेति भावः ।
न चैवमिति ।
प्रतिबन्धकनिरासार्थं खलु यज्ञादिकमनुष्ठीयते । यदि तस्यापि प्रतिबन्धकनिवृत्तिरूपस्वफलजनने प्रतिबन्धकान्तरं स्यात् , तदा तन्निवृत्त्यर्थमपि कर्मान्तरमनुष्ठेयं भवेत् । एवं तत्तत्प्रतिबन्धकनिवृत्त्यर्थमपीत्यनवस्थेत्यर्थः । इदमुपलक्षणं – सत्यामपि विविदिषायां विद्याद्युत्पत्तिप्रतिबन्धककर्मनिरासार्थं कर्मानुष्ठेयं स्यादिति ब्रह्मसंस्थायाः कदापि नावकाशः स्यादित्यपि दोषो द्रष्टव्यः ।
यज्ञादिप्रतिबन्धकस्येति ।
यज्ञादीनां विविदिषाश्रवणमनननिदिध्यासनसाक्षात्काराणां च प्रतिबन्धकानि दुरितानि संभाव्यन्ते , तत्र यज्ञादिप्रतिबन्धकानि भोगैकनाश्यानीति भोगेन तत्क्षये सत्येव यज्ञाद्यनुष्ठानम् , विविदिषादिप्रतिबन्धकानि तु प्रारब्धान्यप्रारब्धानि च द्विविधानि । यस्य सर्वाण्यपि प्रारब्धानि तस्य सत्यपि यज्ञाद्यनुष्ठाने भोगेन प्रारब्धक्षये सति जन्मान्तर एव विविदिषादिप्रवृत्तिः । यस्य सर्वाण्यप्यप्रारब्धानि , तस्य तेषां यज्ञादिभिः क्षयाद् यज्ञाद्यनुष्ठानजन्मन्येव । यस्य तु श्रवणादिषु पूर्वस्याप्रारब्धानि प्रतिबन्धकान्युत्तरस्य प्रारब्धानि तस्य प्रतिबन्धकरहितं पूर्वपूर्वविविदिषाजन्यमुत्पद्यते प्रारब्धप्रतिबन्धमुत्तरोत्तरं जन्मान्तर इति विवेकः । एवंच विविदिषन्तिवाक्यानुसारेण कर्मणां विविदिषासाधनत्वव"त्कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते" इत्यादिवचनानुसारेणाविद्यादिप्रतिबन्धककर्मक्षयसाधनत्वमप्याचार्याणामभिमतमिति द्रष्टव्यम् ।
प्राग्भवीयेति ।
अत एव हि केषांचिदेवेह जन्मनि गान्धर्वशास्त्रविचारे पूर्वजन्मवासनावशात् झटिति षड्जादिसाक्षात्कारो जायते नान्येषामिति भावः ।
देवताप्रणिधानाद्यपेक्षितायाश्चेति ।
वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं निगच्छति॥ गीतिज्ञो यदि योगेन नाप्नोति परमां गतिम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥२॥ इति याज्ञवल्क्यस्मृतौ संगीतज्ञानस्य महाफलत्वस्मरणाद् देवताप्रसादापेक्षितेति भावः ॥५१॥
इति षोडशमैहिकाधिकरणम् ॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥
तथा च सातिशयत्वादिति ।
निकृष्टापकृष्टसाधनसाध्यत्वेन सातिशयत्वसिद्धौ ततः कर्मसाध्यत्वमपि विद्याया अनुमीयत इत्यर्थः ।
तत्र तत्र साधकेष्विति ।
श्रुत्युपपत्तिरूपेषु बहुषु साधकेषु सत्स्वित्यर्थः ।
तर्हि स एवास्त्विति ।
निवर्त्यविशेषोपाधिक एव विशेषोऽस्त्वित्यर्थः । यद्द्वारेत्यादिपाठे निवर्त्यविशेषद्वारेत्यर्थः । तर्हि सावशेष एवास्त्वित्यपि पाठान्तरम् । पाठत्रयेऽपि फलत एकोऽर्थः । अविद्याकामकर्मादिक्षये सावशेषे अवशिष्टावरणतारतम्येन सूक्ष्मसूक्ष्मतरसूक्ष्मतमवस्त्रावृतरविमण्डलप्रकाशवद् ब्रह्मानन्दप्रकाशो मोक्षे तारतम्येन भवेदिति सातिशयो मोक्ष इति पाठत्रयेऽपि तात्पर्यम् । टीकायामप्ययमर्थो येन तद्विशेषान्मोक्षो विशेषवान् भवतीति वाक्येन स्फुटीकृतः ।
अविशेषसंभवादिति ।
तथा चाप्रयोजकमनुमानमित्यर्थः ।
ननु स्नेहवर्त्युत्कर्षापकर्षाभ्यां दीपज्वालाया इव श्रवणाद्युत्कर्षापकर्षाभ्यां विद्यायाः स्वरूपतोऽपि विशेषः स्यात् सोऽत्र हेतुरित्याशङ्क्याह –
स्वाभाविकस्त्विति ।
भेदाभेदविकल्पासहत्वमिति ।
अद्वैतश्रुतिविरोधाद् न भिन्ना विशेषाः । अभेदे च ते न परस्परविलक्षणाः । भेदाभेदपक्षश्च दूषित इति भावः ॥५२॥
इति सप्तदशं मुक्तिफलानियमाधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले तृतीयस्याध्यायस्य चतुर्थः पादः॥
॥समाप्तश्चायं साधनाख्यस्तृतीयोऽध्यायः॥
॥इति तृतीयाध्यायस्य निर्गुणविद्यायां अन्तरङ्गबहिरङ्गसाधनविचाराख्यश्चतुर्थः पादः॥
॥इति श्रीमद्ब्रह्मसूत्रशांकरभाष्ये साधनाख्यस्तृतीयोऽध्यायः ॥