कल्पतरुपरिमलः
आवृत्यधिकरणविषयाः
॥अथ चतुर्थोऽध्यायः ॥ आवृत्तिरसकृदुपदेशात् ॥१॥
अध्यायविषययोरिति।
मुख्यक्रमेण वाङ्गानां तदर्थत्वादिति न्यायात् (जै. अ. ५ पा. १ सू. १४) प्रधानक्रमेणाङ्गक्रमौचित्यादिति भावः।
अदृष्टार्थत्वं विधेयत्वं च मन्यत इति।
तथाऽभिमानस्य मूलमन्त्राहेत्यादिशङ्काभाष्यतद्व्याख्यानाभ्यां स्पष्टीभविष्यतीत्यत्र न विवृतम्।
अहंग्रहोपास्तिष्वप्याहेति।
तास्वप्युपासिधात्वर्थान्तं नीतावृत्तिमात्रं कर्तव्यम् न तु यावत्फलोदयमात्रवृत्तिः दृष्टफलत्वाभावादिति भावः। विद्योत्पादविरोधिपरतयेत्यनेनानिर्वाच्यत्वं विवक्षितमिति भावः। इवकार उपरि नेतव्य इत्युक्तम्। उपरिनीतस्य तस्यार्थो विवरण-वाक्ये तद्वदित्यनेन दर्शितः। लोकसिद्धत्वादित्यन्तः सोपपादनोपमानवाक्यार्थप्रदर्शनाय। तदनन्तरमुपमानोपमेयभावद्योतनं तद्वत्तथेत्यादिशब्दवदिवशब्देन व्युत्पत्तिसिद्धं न भवतीति तद्वदित्यनेनेवशब्दो विवृतः।
शब्दार्थसाक्षात्कारत्वादिति।
यस्य स्याद्वृद्धेति वचनोक्तैहिकसगुणेश्वरसाक्षात्कारवत् पर्य्यङ्कविद्यादिप्रतिपन्न-पारत्रिकतत्साक्षात्कारोऽपि परम्परया श्रवणाद्यभ्याससाध्यः यागादिजन्यस्वर्गसुखा-दिविषयपारत्रिकसाक्षात्कारः स्वर्गकामादिवाक्यार्थविषयकापातन्यायविचारजन्यत-न्निर्णययागादिसङ्कल्पकालकर्तव्यफलध्यानसाध्यः एवं तपः प्रभावसन्निधापितदेवता-साक्षात्कारोऽपीति न क्वापि व्यभिचारः।
श्रवणादीति।
श्रवणादेरनेकस्योपायस्य दृष्टार्थत्वेनार्थप्राप्तस्योपदेशोऽनुवादः। तस्माल्लिङ्गाद् दृष्टफलसिद्धये प्रत्येकमपि श्रवणादित्रयमभ्यसनीयं मनननिर्वर्तनीयबहुविधसंदेह-कन्दलदलनपर्य्यन्तं साङ्गाध्ययनवतः पदार्थवाक्यार्थव्युत्पत्तिलभ्यापातज्ञानरूप-श्रवणाभ्यासः। तदुपस्थितसकलसंदेहनिवृत्तये मननाभ्यासः। साक्षात्कारोदयाय निदिध्यासनाभ्यासः। प्रत्येकमाविद्यमभ्यसनीयमिति पाठे आविद्यमित्येकैकाभ्या-सस्य नावधिनिर्देशः किन्तु स्वस्वावान्तरफलपर्यन्तानां श्रवणादीनामभ्यासपरम्परायाः ॥१॥२॥
अनुषङ्ग एव स्यादिति।
अनुषङ्गमात्रं भवति न त्वध्याहारगौरवमित्यर्थः। यद्यपि प्रत्ययस्यात्मभूतं परं ब्रह्म समर्प्पयतीति भाष्ये कस्यात्मभूतमित्याकाङ्क्षायामन्तरङ्गत्वात्स्वस्यात्मभूतमिति लभ्यते न तु जीवस्येति बहिरङ्गत्वाद् यथा अन्तर्द्धौ येनादर्शनमिच्छतीति सूत्रे कस्यादर्शनमित्याकाङ्क्षायामात्मन इति लभ्यते न त्वन्यस्येतीत्येव वकुं शक्यम् तथापि शाब्द्याकाङ्क्षा शब्देनैव पूर्यत इति न्यायात् प्रत्ययस्येति शब्देनाकाङ्क्षापूरणं कार्यं स तु नाध्याहारः किन्तु प्रत्ययस्य विभक्तिविपरिणामेनानुषङ्ग इति भावः। शाब्दिकवद् विभक्तिवचनविपरिणामेनानुषङ्गमनिच्छतां संयजत्रैरङ्गानीत्यत्र गच्छतामित्यध्याहारं वदतां मीमांसकानां त्वत्राप्यध्याहार एव तथापि बुद्धिसन्निहित-प्रत्ययविषयशब्दाध्याहारादतथाभूतजीवविषयशब्दाध्याहारो गुरुरिति मीमांसकमते विशेषो द्रष्टव्यः।
अपरोक्षप्रमोत्पत्त्यर्थ इति।
श्रवणादेरावर्त्यमानस्यापरोक्षप्रमोत्पादकत्वं न संभवति अतस्तस्यादृष्टद्वारा मुक्त्यर्थत्वमेव वाच्यमिति योऽयं श्रवणादेरुपयोगमङ्गीकृत्य तस्य दृष्टार्थत्वाभवेना-वृत्याक्षेपः कृतः स तस्यापरोक्षरूपदृष्टार्थत्वाभावस्तदपरोक्षकरणप्रमाणाभावात् प्रमेयस्यायोग्यत्वाद् वा भवतीति द्विविधोऽपि दृष्टार्थत्वाभावहेतुः क्रमेण टीकायां निराक्रियत इति भावः।
पारमार्थिकप्रतियोगिक इति।
अत्र प्रतियोग्यभावयोः पारमार्थिकत्वं व्यावहारिकसमानसत्ताकत्वम्।
प्रतियोगिप्रमाणामेवेति।
अत्र रूपग्राहकं चक्षुरेवाचाक्षुषे वायावपि रूपाभावग्राहकम्। अत एव तत्र रूपाभावग्रहणे चक्षुर्व्यापारापेक्षेत्यादि तत्रोदाहरणम्। केचन मन्यन्ते वैशेषिकादयः। स्वमते रूपाद्यभावोऽनुपलब्धिप्रमाणगम्यः। नानुपलब्धिमात्रं प्रमाणं किन्तु योग्यानुपलब्धिः योग्यता च प्रतियोगिसत्त्वविरोधिता। अतो योग्यताघटकत्वेन चक्षुर्व्यापारापेक्षा। तदभावे ह्यधिकरणे प्रतियोगिसत्त्वेऽपि तद्विषयप्रमाणभावेन संभवन्त्यनुपलब्धिः प्रतियोगिसत्त्वविरोधिनी न स्यात्।
उपाधीनां मिथ्यात्वादिति।
ननु मिथ्यात्वमिह व्यावहारिकत्वं न तु प्रातिभासिकत्वं ब्रह्मण्युपास्यगुणानां श्रुत्युपदिष्टानां व्यावहारिकत्वात्। उक्तं हि व्यतिहाराधिकरण (ब्र. अ. ३ पा. ३ सू. ३७) भाष्ये यथा ध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यतीति। तस्मात्कुम्भाभाववदुपाधीनामभावस्यापि व्यावहारिकत्वात् तद्वदेवाधिकरणात्ते भिद्यन्त इति युक्तमिति चेदुच्यते। यत्र यत्प्रतीतं व्यावहारिकं ततोऽन्यत्र तदभावो भवतु व्यावहारिकः यत्र प्रतीतं तत्रैव तदभावो न व्यावहारिको भवितुमर्हति समानसत्ताकार्याभावयोर्विरोधात्। न च ब्रह्मण्यथात आदेशो नेति नेतीत्यादि-श्रुतिभिरुपदिष्टा उपाधीनामभावाः प्रातिभासिका भवितुमर्हन्ति। अतः पारमार्थिकाः सन्तः ते न ब्रह्मणो भिन्ना अद्वैतश्रुतिविरोधात्। न च भावाद्वैतेष्टिः। अद्वैतश्रुतिसङ्कोचकल्पनायोगात्। अन्यथा भेदवादिनां क्लिष्टाद्वैतश्रुतियोजनाया अपि प्रवेशापत्तेः। उक्तं हि वार्त्तिके
प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥ इति।
तस्मादुपाधीनां मिथ्यात्वात् तदभावोऽधिकरणातिरिक्तो नास्तीति युक्तमेव।
नास्ति वास्तव इति।
वास्तवविशेषणम् अधिकरणातिरेकाभ्युपगमे वास्तवत्वमप्युपाध्यभावानामुक्त-न्यायेनाभ्युपगन्तव्यं न च तदभ्युपगमो युक्तः अद्वैतश्रुतिविरोधादिति सूचनार्थम्।
न चैवमिति।
ब्रह्मण्यतिरिक्ताभावनिषेधोऽतिरिक्तः स्यात्तस्याप्यतिरेकनिषेधे तस्यापि तन्निषेधो वक्तव्य इत्येवमित्यनवस्थेत्यर्थः। अद्वैतश्रुत्यविरोधायाधिकरणं ब्रह्मैव सर्वाभाव-व्यवहारालम्बनमित्यभ्युपगमान्नानवस्थेति परिहाराभिप्रायः।
स्वप्रकाशानुभवस्य केनाभिभवो वेदान्तैर्व्युदसनीयः कथं च तेषां तद्व्युदसनसामर्थ्यमित्याकाङ्क्षायामाह-
एतदुक्तं भवतीति।
यथा देवदत्ते तदैक्ये चेति।
एवमेव ब्रह्मणि तदभेदे च भासमानेऽपि ब्रह्मान्यज् जीवोऽन्य इत्यारोपस्तत्त्वमसीति वेदान्तवाक्यश्रवणादिमूलकमभेदसाक्षात्कारं विना न निवर्तत इत्यर्थः। ननु दृष्टान्ते दार्ष्टान्तिके च पूर्वापरज्ञानयोर्विषयकृतविशेषाभावे केन विशेषेणोत्तरज्ञानस्य भेदभ्रमनिवर्तकत्वं न पूर्वज्ञानस्येति चेत् सोऽयमिति तत्त्वमिति च पदयोर्वाच्यार्थरूपं यद्धर्मद्वयं तत्परामर्शरूपकारणविशेषाधीनेन ज्ञानस्य ज्ञेयेन सह स्वरूपसंबन्धविशेषेण। एवं स्वरूपसंबन्धविशेषकृतमेवाभिज्ञाप्रत्यभिज्ञयोर्लोके वैलक्षण्यं न तु विषयविशेषकृतं यथा विशेषणविशेष्यतत्संबन्धगोचरात्समूहा-लम्बनाद्विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधीनस्वरूपसंबन्धविशेषकृतमेव वैलक्षण्यम् यथा वा परस्परविरुद्धस्थाणुत्वपुरुषत्ववानयमित्याहार्यनिश्चयात्संशयस्य दोषरूपकारणविशेषाधीनस्वरूपसंबन्धविशेषकृतमेव वैलक्षण्यम्।
तन्त्रीकण्ठोद्भवा इति।
वीणागाने तन्त्र्युद्भवाः शारीरगाने कण्ठोद्भवाश्च तत्तत्स्थानविशेषप्रभवमन्द्र-मध्यमतारध्वनीनामनुरणनरूपा नादाः स्वरास्तेषां षड्जादीनां स्वराणां षड्जादिप्रधानाः षड्जग्रामो मध्यमग्रामो गान्धारग्राम इति त्रिविधा ग्रामास्तेषां ग्रामाणामा-रोहावरोहरूपाः प्रत्येकं सप्तविधा एकविंशतिमूर्च्छनाः।
स्वेनैवेति।
टीकाकृता कृतैवेत्यर्थः। यद्यपि टीकायां वाक्यात् साक्षात्कारोत्पत्ति-प्रकारस्योपपादितत्वेऽपि भाष्ये तदुपपादनमिदानीं क्रियत इति वक्तुं शक्यम् तथाप्ययमभिसन्धिरित्यारभ्य पूर्वभाष्यतात्पर्यविषयत्वेनैव टीकायां तदुपपादनस्य कृतत्वाद् उत्तरभाष्यार्थत्वं तस्यायुक्तमिति टीकाकारहृदयमित्याशयः।
एतावानाक्षेप इति।
साक्षात्कारकरणस्यान्तः करणस्य भावनाप्रचयसाहित्यार्थं धात्वर्थोपसंगृहीता-वृत्तिगर्भस्य निदिध्यासनस्येव बहुविधशङ्कानिराकरणार्थं मननस्येव च साङ्गाध्ययन-जन्यवाक्यार्थज्ञानरूपस्य श्रवणस्यावृत्तेर्नास्त्युपयोगः। न च मनननिवर्तनीयबहुविध-शङ्कोत्थानाय श्रवण वृत्त्यपेक्षाऽस्तीति वाच्यम्। सकृच्छ्रवणेऽपि धीमतः सकलशङ्कोत्थितेः स्वतस्तूत्थानाभावेऽपि न्यायविचारशास्त्रनिबन्धतयैव विचारकाले तदुत्थितिसंभवात्। अन्यथोत्थापनीयशङ्केयत्तानवगमेन श्रवणापर्य्यवसानप्रसङ्गात्। कैमुतिकन्यायो न हि दृष्टेऽनुपपन्नं नामेति भाष्यान्न प्रतीयत इत्याशङ्क्य तद्भाष्यारूढं करोति
वाक्याभ्यासानभ्यासाभ्यामिति।
यद्वाक्यं तत्त्वमसीतिवदभ्यस्तं यद्वा नाभ्यस्तं तेन द्विविधेनापि वाक्येन यदेकजातीयं परोक्षज्ञानं जायते तस्मिन्नपीत्यर्थः। वाक्याभ्यासाभ्यासाभ्यामिति पाठे वाक्यमभ्यस्तमभ्यासो वाक्याभ्यासः ताभ्यामित्यर्थः।
परोक्षार्थस्येत्यर्थ इति।
न हि दृष्ट इति भाष्ये दृष्ट इत्यस्य विवरणार्थं दृश्यन्ते हीति भाष्यं कैमुतिकन्यायप्रदर्शनाय परोक्षार्थवाक्ये आवृत्यपेक्षासद्भावप्रदर्शनपरम् न तु वाक्यमात्रे अपरोक्षार्थवाक्य आवृत्यपेक्षाया इदानीं साध्यमानत्वात्। अतो दृश्यन्ते हीत्यादिभाष्यार्थानुवादके तदेवं वाक्यमात्रस्येति टीकाग्रन्थे वाक्यपदं परोक्षार्थकवाक्यपरं व्याख्येयमिति भावः। अत्रेदं वक्तव्यम् वाक्यादिहापरोक्ष-ज्ञानोत्पत्तिर्न साक्षाद्विवक्षिता येन वाक्यात्सार्वत्रिकस्वारसिकशाब्दज्ञानोत्पत्तावप्या-वृत्त्यपेक्षायां क्वाचित्कयत्नसाध्यापरोक्षज्ञानोत्पत्तौ तदपेक्षाऽस्तीति किमु वक्तव्यमित्युच्येतापि किन्तु वाक्ये शाब्दज्ञानमुत्पाद्योपरते निदिध्यासनरूपभावना-प्रकर्षादेव तदुत्पत्तिरभिमता तत्र वाक्यस्य परम्परयोपयोगमात्रम्। अतस्तत्र वाक्यश्रवणावृत्तेरपेक्षा कैमुतिकन्यायान्न सिध्यति आवृत्तादनावृत्ताद्वा शब्दादर्थबोधे दृढे जाते तत्प्रेक्षाप्रवृत्तभावनाप्रकर्षेणैव साक्षात्कारोत्पत्तिसंभवात् अप्सरायमाणा काचिदमुष्य कन्यकाऽस्ति तवैवार्हेत्याप्तवाक्यात् सकृच्छ्रुतवतोऽपि तां लिप्सोर्भावनाप्रकर्षात् तत्साक्षात्कारोदयात् न च टीकायां वाक्यादपरोक्षज्ञानोत्पत्तौ कैमुतिकन्यायस्य प्रदर्शनमस्ति शाब्दज्ञानेऽपि वाक्यश्रवणावृत्त्या व्यक्तितारतम्यं दृश्यते निदिध्यासनरूपप्रत्ययप्रवाहे साक्षात्कारोत्पत्त्यर्थं तद्वेद्यपरकाष्ठापेक्षितं व्यक्तितारतम्यं ध्यानावृत्त्या भवतीति किमु वक्तव्यमित्येव तत्र कैमुतिकन्यायोपन्यासात्। नन्वनूदितश्रवणावृत्तिवैयर्थ्यशङ्कापरिहारार्थं भाष्यतात्पर्य-कथनार्थं प्रवृत्तस्य टीकाग्रन्थस्य ध्यानावृत्तिसमर्थनार्थत्वं न युक्तमिति स्वरसतः प्रतीयमानस्तदर्थ आचार्यैस्त्यक्त इति चेत्तर्हि न हि दृष्ट इत्यादिभाष्यस्वारस्य-मवलम्ब्य लोकदृष्ट्यनुसारेण तत्त्वमसीत्यादिवाक्यजन्यशाब्दज्ञानार्थमेवावृत्यपेक्षा-समर्थ्यतां लोकेऽपि हि गहनवाक्येषु वाक्यार्थबोधार्थम् आवृत्यपेक्षा दृष्टा तथेहापि तदपेक्षेति। एवं च यस्य साङ्गाध्ययनवतो यावत्स्वव्युत्पत्तिबलमूलेन पुनःपुनरावृत्त्या वाक्यार्थावधारणे जाते प्राग्भवीयश्रवणमननवासनोद्बोधेनाशङ्कानुदयः तस्य न मननापेक्षा यस्य तदभावेन शङ्कोदयस्तस्य तन्निरासाय मनने प्रवृत्तिरिति दृढशाब्दज्ञानोत्पत्त्यर्थमेव श्रवणावृत्तिसमर्थनं भाष्यस्यार्थ इति ऋजुरेवायं पन्थाः। ननु पूर्वपक्षे आवृत्तावपि तदनुपपत्तेरिति भाष्येण वाक्यमावर्त्यमानमपि नापरोक्षज्ञानं जनयतीति या शङ्का कृता सैवेह सिद्धान्ते ननूक्तं सकृच्छ्रुतं चेदित्यादिभाष्येणा-नूदितातस्तत्परिहारग्रन्थस्यावृत्तेरपरोक्षज्ञानोपयोग एव तात्पर्यं वर्णनीयमिति चेद् न। पूर्वपक्षगतशङ्काग्रन्थस्याप्यावृत्तेः शाब्दज्ञानानुपयोगपरतायामेव स्वारस्यात्। अत्राहेति पूर्वपक्षारम्भग्रन्थे आत्मभूतमिति विशेषणं प्रत्ययस्यात्मभूतमित्यस्मिन्नर्थे स्वारसिकं प्रत्ययस्य सन्निहितत्वादिति तत्स्वारस्यमनुरुध्य खलु ततः प्रभृति टीकाकृता विवृतिः कृता। तत्राहेति वाक्ये तथैव तदर्थोऽस्तु। तथा च विरुद्धांशप्रहाण्या जीवैक्येन बोध्यं ब्रह्म निर्विशेषमिति तद्विषयायां वृत्तिसाध्यविशेषविषयत्वासंभवाद् आवृत्तिर्व्यर्थेति प्रथममाक्षेपः। आवृत्त्यभावे तद्विषयवृत्तिरेव नोदीयादिति ततः सिद्धान्तिनः शङ्का। सकृच्छ्रुतान्नोदेतीति चेद् आवृत्तावपि नोदीयादिति पुनराक्षेपः। ततः शाब्दज्ञानार्थमावृत्यनपेक्षायामपि साक्षात्कारार्थं तदपेक्षाऽस्तीति शङ्कातत्परिहारप्रपञ्चः। पूर्वपक्षावसानेऽपि चानेकांशोपेत इत्यादिग्रन्थेनात्मभूतमिति विशेषणसामर्थ्यलभ्ययुक्तिविवरणमिति पूर्वपक्षग्रन्थसामञ्जस्यात्। शाब्दज्ञानार्थमेवावृत्त्यपेक्षेति सिद्धान्तग्रन्थसामञ्जस्याच्च। अपि च तत्त्वमसीत्येतद्वाक्यमित्यादिसमनन्तरभाष्यग्रन्थस्य शाब्दज्ञानार्थतयैवावृत्त्य-पेक्षाप्रतिपादकत्वाच्च। एवमक्लिष्टे भाष्यार्थे व्यक्तेऽप्यर्थान्तरवर्णनम् एवमपि योजयितुं शक्यमिति प्रौढोक्तिमात्रं द्रष्टव्यम् ॥
संसृष्टत्वमिति।
संसृष्टशब्दो धर्मलक्षकः। ततः संसृष्टनानात्वशब्दयोर्द्वन्द्वसमासे सति न विद्येते संसृष्टनानात्वे ययोरिति द्वन्द्वगर्भो बहुव्रीहिः। पुनस्तथाभूतौ पदार्थौ यस्येति बहुव्रीहिरित्यर्थः। असंसृष्टनानापदार्थकमिति त्वप्रत्ययरहितपाठे त्वेक एव बहुव्रीहिः। तेन संसृष्टनानापदार्थरहितमित्यर्थलाभे सति विशेष्यनिषेधायोगाद् विशेषणयोः संसृष्टनानात्वयोर्निषेधः। स रैक्वो यद्वेदेति जानश्रुतौ राज्ञि रात्रौ शयाने तस्योपरि पतत्सु हंसेषु पुरोगामिनं हंसं प्रति पश्चाद्गामिना केनचिद्धंसेन जानश्रुतेर्ज्योतिः द्युव्यापि दीप्यते तन्मा प्रसाङ्क्षीदित्युक्ते पुरोगामिना च सयुग्वानं रैक्वमिव जानश्रुतिमात्थेति जानश्रुतौ तुच्छीकृते कथं सयुग्वा रैक्व इति पश्चाद्गामिना रैक्वस्य महिम्नि पृष्टे पुरोगामिनो वचनम्। यथा कृतायविजिताय अधरेयाः संपतन्त्येवमेनं सर्वं तदभिसमेति यत्किंचित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति। अस्यार्थः। कृतनामा द्यूते चतुरङ्कः अयः। तस्मै विजिताय तस्मिन्विजयार्थं न्यस्ते अधरे न्यूना अयाः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः संपतन्ति अन्तर्भवन्ति चतुःसंख्यायां त्रित्वादिसंख्यान्तर्भावात्। एवमेनं प्रस्तुतं रैक्वं सर्वं तद्वक्ष्यमाणमभिसमेति यत्किंचित्प्रजाः साधु कर्म कुर्वन्ति सर्वप्रजासंपाद्यधर्मफलं सर्वं रैक्वधर्मफलेऽन्तर्भवतीत्यर्थः। यः रैक्वादन्योऽपि तद्वस्तु वेद किं यत्स वेद स रैक्को यद्वेद तमपि सर्वं तद्वक्ष्यमाणमभिसमेतीत्यनुषङ्गः। रैक्कादन्यस्यापि रैक्वोपास्यमुपासीनस्य धर्मफले सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थादयमर्थः प्रदर्श्यते स रैक्वो यद्वदेत्यादिना।
यच्छब्दार्थमाह-
तत्प्राणतत्त्वमिति।
प्राणो वाव संवर्ग इति जानश्रुते रैक्वेणोपदेक्ष्यमाणं प्राणतत्त्वं यद्वेदेति यच्छब्देनोक्तमित्यर्थः। प्राणतत्त्वमिति प्रथमान्तपदम्।
सर्वधर्मफलमभिसंगच्छत इति।
एतमिति श्रुत्युपात्तम्। रैक्कमिवेति शेषरैक्कमिवेति सयुग्वानमिव रैक्वमात्थेति प्राचीनश्रुतिवाक्यार्थेन संबन्धप्रदर्शनं मानुशाधीति मे इति श्रुतौ षष्ठ्यन्तस्य मामिति द्वितीयार्थो दर्शितः। शिक्षय विद्यामुपादापय। शिक्ष विद्योपादाने इति धातुः।
हे पुत्रेति।
असौ वा आदित्य उद्गीथ इत्यादित्यदृष्ट्योद्गीथोपासनं प्रकृतं तन्निष्ठः कौषीतकिरादित्यरश्मिभेदमकृत्वा केवलमादित्यदृष्ट्या स्वकृतमुद्गीथोपासनमेतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीत्येकपुत्रतां दोषेणापोद्य रश्मींस्त्वं पर्यावर्त्तयतादिति रश्मीनादित्यं च त्वं भेदेनोपास्वेति पुत्रं प्रत्युपदिदेश। तत्रार्थसिद्धं संबोधनमध्याहृतं हे पुत्रेति।
तकार एको लुप्तो द्रष्टव्य इति।
लोपस्त आत्मनेपदेष्विति छन्दस्यात्मनेपदेषु विहितस्तकारलोपो बहुलग्रहणा-त्परस्मैपदेऽपि क्वचिद्भवतीति भावः। पर्यावर्त्तयतादिति हेस्तातङादेशे सति रूपम्। एवं रश्मिबहुत्वदृष्टेरावृत्तिमत्त्वोक्तिरन्येष्वपि वेदनेषु न्यायप्राप्तमावृत्तिमत्वं स्थालीपुलाकन्यायेन गमयतीति भावः ॥२॥
इति प्रथममावृत्यधिकरणम् ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥
कस्य साक्षात्कारायेति।
नित्यापरोक्षो जीवः नित्यपरोक्षस्ततो भिन्न ईश्वरः अतः कस्यापि साक्षात्कारः श्रवणाद्यावृत्तिसाध्यो नास्तीत्यर्थः ॥३॥
इति द्वितीयम् आत्मत्वोपासनाधिकरणम् ॥
न प्रतीकेन हि सः ॥४॥
प्रतीकेषु ब्रह्मात्मतामापादितेष्विति।
द्वावेतौ पक्षौ नामादीनां ब्रह्मदृष्टिविषयत्वात् तेषु ब्रह्माभिन्नजीवदृष्टिः कार्येत्येकः पक्षः। नामादीनां ब्रह्मणश्च विकारविकारिभावेन वास्तवाभेदसत्त्वात् तेषु ब्रह्मदृष्टौ क्रियमाणायां ब्रह्माभिन्नजीवदृष्टिः कार्येति द्वितीयः पक्षः। प्रथमपक्षे दृष्ट्या ब्रह्माभेदापादनं द्वितीयपक्षे विकारविकारिभावेन।
सत्यमत एवेति।
यतः स्वरूपेण लये नास्त्यहंग्रहालम्बनम् अत एव मनआदीनां जीववदवच्छिन्नरूपेणैव लय इति पूर्वपक्ष्यभिप्रायं मत्वा तमुद्भाव्यं निराकरिष्यतीत्यर्थः।
नन्वर्थाद्वेति द्वितीयविकल्पाशङ्कायाः प्रथमविकल्पशङ्काया इव कथं श्रवणेन निराकरणमित्याशङ्क्य तदभिप्रायमाह-
यदि श्रुतेरिति।
अर्थसिद्धमपि श्रुतेर्यदभिमतं क्वचित् तत्सा श्रावयतीति दृष्टं यथा स्वस्यागृहीतया रशनया नयनासंभवाद् अर्थप्राप्तमपि रशनाग्रहणमिमामगृभ्णन्रशना-मृतस्येत्यश्वाभिधानीमादत्त इति श्रावयति न चेह तथा नामादिषु जीवाभेददृष्टिं क्वचिदपि श्रावयतीत्यर्थः। नन्वर्थप्राप्तस्य क्वचन श्रवणेन भाव्यमिति नास्ति नियमः स्रुवादीनां द्रवद्रव्याद्यवदानेषु व्यवस्थितेरर्थप्राप्तायाः क्वचिदपि श्रवणाभावात्। उक्तं हि वार्तिके
यथैव पाठः प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम्।
तेनैव चैता न समामनन्ति सहस्रभागं तु समामनेयुः ॥ इति।
अतः केवलमर्थात्प्राप्तिरपि वक्तुं शक्येति शङ्कां निराकरोतीत्यवतारयति
यत्त्वर्थादिति।
ननु नायमतिप्रसङ्गः आकाशादेः स्वरूपतो विकल्पितत्वेन जीववद् ब्रह्माभेदाभावादिति शङ्कामनूद्य निराकरोति-
जीवस्येति।
ब्रह्मदृष्टिकरणादिति।
भेदपक्षे हि ब्रह्मदृष्टिर्न स्याद् न त्वभेदपक्षे इति भावः।
नन्वहं ब्रह्मास्मीत्यभिन्नेऽपि ब्रह्मणि विरुद्धांशप्रहाण्या जीवाभेददृष्टिः क्रियते न तु ब्रह्मैव जीव इति केवलब्रह्मदृष्टिः तथेह किं न स्यादित्याशङ्क्याह-
आर्थिकी हीति।
प्रतीतिरित्यकर्तरि च कारक इति कर्मणि क्तिन्प्रत्ययः। अर्थात्प्रतीत-मित्यर्थः। अर्थसिद्धमपि तदेव विधितोऽनुष्ठेयं यदनुष्ठानं विना श्रुतं न निर्वहति न चात्र श्रुतब्रह्माभेददृष्टेर्विना जीवाभेददृष्टिनिर्वाहोऽस्ति प्रत्युत स्वाभेददृष्टिवदर्थ-प्राप्तजीवान्तराभेददृष्टिरपि कर्तव्या स्यादित्यतिप्रसङ्ग इत्यर्थः।
उक्तन्यायातिदेशेन द्वितीयपक्षं स्वयं दूषयति-
ब्रह्मविकारत्वेनेति।
ननु ब्रह्माभेददृष्टिमूलाहंमतिक्षेपशङ्का न च घटादिषु तद्दृष्टिविधानमस्तीति नातिप्रसङ्ग इत्याशङ्क्याह-
तुल्यं चेति।
ब्रह्मदृष्टिवध्यनपेक्षित्वात् शङ्कायास्तन्मूलत्वमसिद्धमिति भावः।
सर्वस्य वाक्यजातस्य प्रपञ्चविलय: प्रयोजनं न भवतीत्युक्तिभङ्ग्या क्वचिद्भवतीत्यनुमतिः प्रतीयते तदनुमतिस्थलं दर्शयति-
सर्वं खल्वित्यादौ हीति।
अप्रधानस्य जीवस्येति।
तत्त्वमस्यादिष्वभेद एव वाक्यार्थः प्रधानभूत इति भावः।
तत्त्वमस्यादि-वाक्यैरेकवाक्यतायां ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिकल्पने यदपेक्षितं तदध्याहारेण पूरयति-
कर्तृत्वादिबाधेनेति।
यद्यपि मनो ब्रह्मेत्यादौ निर्विशेषब्रह्मप्रकरणाभावेऽपि मनःप्रभृतिषु ब्रह्मदृष्ट्य-ध्यासाय ब्रह्मशब्दार्थो ज्ञातव्य इत्यसंकुचिते तदर्थे त्रिविधपरिच्छेदराहित्यान्तर्भावाद् वस्त्वपरिच्छेदोपयोगिजीवाभेदावगत्यैव कर्तृत्वादिबाध आवश्यकः तथापि प्रधान-भूतोपासनाविध्यविरोध्येव ब्रह्मशब्दार्थस्तदुपयोगितया ग्राह्यः। अङ्गगुणविरोधा-धिकरणन्यायेनाङ्गभूतब्रह्मशब्दार्थैकदेशं जीवाभेदं त्यक्त्वा प्रधानविध्यपेक्षितस्य कर्तृकर्मभेदस्य ग्रहणौचित्यात् इह कर्तृत्वादिबाधे प्रधानस्योपासनस्यैव निवृत्तिप्रसङ्गाच्च ॥४॥
इति तृतीयं प्रतीकाधिकरणम् ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥५॥ अतिप्रसङ्गसाम्यमवलम्ब्य पूर्वाधिकरणेन दृष्टान्तसंगतिमाह–
पूर्वत्रेति।
अङ्गानुष्ठानाराधित इति।
व्रीहिप्रोक्षणाघारादितः परमेश्वर एव प्रसन्नः सन् व्रीह्यादिभिः पुरोडाशनिर्वर्त्तन-द्वारा यागसिद्धिहेतुरित्यर्थः।
न चातिप्रसङ्ग इति।
मैत्रोपासनया चैत्रात्फलसिद्धिप्रसङ्ग इत्यतिप्रसङ्गो न भवतीत्यर्थः॥
अतिथ्याद्युपासन इवेति।
अतिथिभोजनं तावदतिथिप्रधानमिति तत्प्रीणनं भोज्यादिप्रदानेन लोकसिद्धम्। देवता वा प्रयोजयेदतिथिवद् भोजनस्य तदर्थत्वा (जै. अ. ९ पा. १ सू. ६ ) दिति पूर्वतन्त्राधिकरणे चातिथिभोजनस्यातिथिप्राधान्यवद् देवतोद्देशेन द्रव्यत्यागरूपस्य यागस्य देवताप्राधान्यमिति पूर्वपक्षं कृत्वाऽतिथिभोजनवैषम्यकथनेन यागप्राधान्य-सिद्धान्तकरणादतिथिभोजनस्यातिथिप्राधान्यमभ्युपगतम्। तत्रातिथेः स्वर्गादिफल-दातृत्वासंभवादीश्वर एव फलदातेति फलमत उपपत्तेः (ब्र. अ. ३ पा. २ सू. ३८ ) इत्यधिकरणन्यायेन संप्रतिपत्तिः। नैतावता मैत्रोपासनया चैत्रस्य फलदातृत्वप्रसङ्ग इत्यतिप्रसङ्गोऽस्ति। एवमिहापि भविष्यतीति भावः। आदिशब्देन पान्थशुश्रूषादिकं गृहीतम्।
यद्यपि प्रतीतिविषयत्वापेक्षया हीति।
इतिशिरस्कस्य ब्रह्मपदस्य ब्रह्मशब्दपरत्वे ब्रह्मप्रतीतिपरत्वे च मुख्यसामानाधिकरण्यं न स्यादिति ब्रह्मप्रतीतिविषयत्वपरत्वमङ्गीकृतम् आदित्यं ब्रह्मप्रतीतिविषयं कृत्वोपासीतेति एवमपिमुख्यसामानाधिकरण्यं न लब्धम् ब्रह्मशब्दस्य ब्रह्मप्रतीतिविषयत्वसादृश्येना-ब्रह्मण्यादित्ये वृत्त्यङ्गीकाराद् गौणत्वमेव प्राप्तम् अतः को विशेष इति शङ्कार्थः।
शब्दसामानाधिकरण्यादिति
केवलप्रतीतिसामानाधिकरण्यस्याप्युपलक्षणम् ॥५॥
इति चतुर्थं ब्रह्मदृष्ट्यधिकरणम् ॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥६॥ भाष्ये क्रियात्मकत्वादित्यसाधकमिति। कर्मात्मकत्वादुद्गीथादीनामिति भाष्ये कर्मात्मकत्वं क्रियारूपत्वं न तु कर्मकारकत्वं तस्यादित्यादिष्वप्यविशेषादिति दर्शयितुं तद्विवरणतया क्रियात्मकत्वादिति पदमुपात्तम्। अनेन भाष्येणादित्यादीनामस्वाभाविकं क्रियात्मकत्वमवलम्ब्य फलहेतुत्वमुपपादितमिदं तु साधकं स्वाभाविकेन क्रियात्मकत्वेनोद्गीथादीनां फलहेतुत्वोपपत्तेरिति शङ्कार्थः। ऋक्सामशब्दाभ्यामिह पृथिव्यग्नी निर्दिश्येते प्रसिद्धऋक्सामयोराश्रयाश्रयिभावस्य तस्मादृच्यध्यूढं साम गीयत इति समनन्तरवाक्ये पृथगुपादानात् तदेतदेतस्यामृचीति वाक्ये ऋक्सामशब्दौ गौणौ वाच्याविति भावः। द्रव्यसंस्कारमर्हतीति वार्तिकश्लोके द्रव्यशब्दस्थाने वस्तुशब्दः पठितः क्रियारूपस्याप्युद्गीथस्योपयोगवत्त्वन्यायसाम्येन संस्कार्योपपादनोपयोगितया। ननु तन्निर्धारणानियम (ब्र. अ. ३ पा. ३ सू. ४२) इत्यधिकरणे आदित्यादिमतिभिरुद्गीथावयवस्योकारस्योपासनं न तत्संस्कारकर्म किन्तु उद्गीथसाधनं पृथक्फलं प्रधानकर्मेति प्रसाधितं तद्विरुद्धमिदमुद्गीथसंस्कारत्ववचनम्। उच्यते। क्रतुवीर्यवत्तरत्वफलस्योपासनस्य क्रत्वन्तर्भूतकर्मकत्वे संभवति न तद्बहिर्भूतकर्मकत्वमङ्गीकरणीयमित्येतावन्मात्रे तात्पर्यं न तु तत्संस्कारकर्मतया तदङ्गत्व इति न प्राक्प्रसाधितार्थविरोधः। अर्थवादत्वसंभवादिति प्रौढ्योक्तम्। लोकदृष्ट्यादीनां फलत्वेऽप्यार्थवादिकत्वेन तदविशेषात् क्रतुवीर्यवत्तरत्वस्यापि फलत्वं नापैतीत्यपि द्रष्टव्यम्।
यत्र गुणात्फलं लोकादि भवतीति।
लोकेषु पञ्चविधमित्यत्र कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चेति पाञ्चविध्यगुणस्य फलमुक्तं पृथिव्यन्तरिक्षं द्यौरित्यूर्ध्वलोकाः द्यौरन्तरिक्षं पृथिवीत्यावृत्ता लोकाः प्राणिनां गत्यागतिविशिष्टास्ते कल्पन्ते समर्था भवन्ति उपासकस्य गतागतयोर्भोगान् संपादयितुमित्यर्थः। आदिशब्देन वाचि सप्तविधमित्यादौ साप्तविध्यगुणफलं दुग्धेऽस्मै वाग्दोहमित्यादि गृह्यते गुणस्य क्रियात्वेन लोकादिभिः समत्वादिति। ननु पाञ्चविध्यादिगुणस्याक्रियारूपत्वेऽपि लोकादीनां नास्त्यक्रियारूपत्वनियमः वृष्टौ पञ्चविधं सामोपासीतेत्यादिषु वृष्ट्यादीनां क्रियारूपत्वाद्यदुपमन्त्रयते स हिंकार इत्यादिषु उपमन्त्रादिशब्दोक्तानां स्त्रिया सह संकेतकरणादीनां पुरुषानुष्ठेयक्रियात्वाच्चेति चेत्। सत्यम्। अक्रियात्वेनेत्यनेन क्रतुकालानुष्ठेयक्रियात्वाभावो विवक्षितः। अत एव क्रतुवीर्यवत्तरत्वफलत्वा-भावोक्तिः।
अतो लोकादिष्वपि सामाध्याससंभव इति।
यतोऽत्र क्रत्वङ्गभूतसामोपासनं न विधीयते किन्तु तदाश्रितगुणमात्रं लोकादिफलाय विधीयतेऽतः क्रतुवीर्यवत्तरत्वफलत्वाभावादित्यर्थः। ननु यदि समस्तस्य खलु साम्न इति वाक्यविहितं सामप्रधानमुपासनमाश्रित्य लोकेषु पञ्चविधमित्यादिवाक्येन फलाय गुणमात्रं विधीयते तदा कथं लोकादिषु सामाध्याससंभव: तथा सति हि सामप्रधानोपासनारूपाश्रयाभावाद् गुणविधिरेवात्मानं न लभेतेति चेत् सत्यम् लोकेषु पञ्चविधमित्यादिसप्तम्यनुसारेण सामोपासनाविधिः साम्न उपासनास्पर्शमात्रपरः न प्राधान्यपर इति शङ्कावाद्यभिप्रायः।
अस्ति गुणस्यापि कार्यत्वमिति।
तथा च करोतिव्यपदेशार्हत्वाद् वीर्यवत्तरत्वफलकत्वमप्युपपद्येतेत्यर्थः। यथाभाष्यस्वारस्यं लोकादिमात्रफलकत्वमभ्युपगम्य टीकायामुद्गीथोपासनावैषम्येण या शङ्का यश्च प्रयुक्तिलाघवेन तत्परिहारः तदुभयं स्पष्टत्वान्न व्याख्यातम्।
सत्यां लक्षणायामिति।
इयमेवर्गग्निः सामेति ऋक्सामपृथिव्यग्निसामानाधिकरण्यनिर्देशे ऋक्सामयोः सामाग्न्योश्चाश्रयाश्रयिभावसाम्यान्निमित्तमिति प्रतिपादनार्थं प्रवृत्ते तदेतदेतस्यामृचीति वाक्ये पृथिव्यग्निविषयऋक्सामशब्दप्रयोगो यदि गौणः स्यात् तदानीमारोप्यवाचक-मेवाधिष्ठाने गौणवृत्तिः प्रयुज्यत इति नियमात् स प्रयोगः पृथिव्यग्न्योरधिष्ठानत्वे ऋक्सामयोरारोप्यत्वे च लिङ्गं स्याद् न त्वेवं लक्षणाश्रयणादित्यर्थः।
ऋक्सामाध्यस्तत्वमपि संभवतीति।
ननु ऋक्सामाध्यस्तत्वसंबन्ध इदानीं न सिद्ध:। इयमेवर्गग्निः सामेति सामानाधिकरण्यनिर्देशे तदेतदेतस्यामिति वाक्यं हेतुसमर्पकमिति पूर्वमुक्तत्वाद् हेतुकथनात् प्राक् च सिद्ध्यसंभवादिति चेन्मैवम्। इयमेवेत्यादिसामानाधिकरण्य-निर्देशो यदि ऋक्सामयोः पृथिव्यग्न्यध्यासार्थः यदि वा विपरीताध्यासार्थः उभयथाऽप्याध्यासिकसंबन्धोऽस्तीति निश्चयसंभवात्। वस्तुतस्तु इयमेवेत्यपौरुषेय-वाक्यं स्वार्थसिद्धौ हेतुं नापेक्षते किन्तु सिद्ध एव तदर्थे तदेतदेतस्यामित्यादिहेतु-वन्निगदार्थवादमात्रं तस्मादृच्यध्यूढमिति तृतीयवाक्यवत्। न हि पृथिव्यग्न्योराश्रया-श्रयिभावः प्रसिद्धऋक्सामयोराश्रयाश्रयिभावे हेतु: येन तस्मादित्युच्येत। तस्मादियमेवेति प्रथमवाक्ये वक्ष्यमाणन्यायेन ऋक्सामाध्यस्तत्वसंबन्धस्य सिद्धत्वात् तदवलम्बनायां लक्षणायां न काचिदनुपपत्तिः। इदं च लक्षणा फलवतीति वस्तुगतिमनुरुध्योक्तम्। गौणतायामपि न दोषः। ऋक्सामदृष्टिविषय-त्वसाम्येन गौणताश्रयणे हि पूर्ववाक्ये पृथिव्यग्न्योः ऋक्सामदृष्टिविधिराश्रयणीयः। अन्यथा गौणवृत्तिनिमित्तगुणालाभादिति। पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगस्तथाविधाने लिङ्गं भवेद् न त्वेवमाश्रयणीयम्। पूर्ववाक्येन ऋक्सामयोः पृथिव्यग्निदृष्टिविषय-त्वसाम्येन गौणतोपपत्तेः। लक्षणापक्षेऽपि हि ऋक्सामाध्यस्तत्वसंबन्धाश्रयण एव सिद्धान्तानुगुण्यम्। ऋक्सामदृष्ट्यधिष्ठानत्वसंबन्धाश्रयणे तु लक्षणापि पूर्वपक्षलिङ्गं भवेदेव। किंच प्रथमवाक्ये ऋक्सामविषयपृथिव्यग्निशब्दप्रयोगवद् द्वितीयवाक्ये पृथिव्यग्निविषयऋक्सामशब्दप्रयोगस्याप्याश्रयाश्रयिभावसाम्येन गौणत्वमुपपद्यते। प्रयोगान्तरनिर्वाहकगुणप्रदर्शकवाक्यगतस्यापि प्रयोगस्य तेनैव गुणेन निर्वाहो नायुक्तः। सप्तम्यधिकरणे चेति लौकिकवैदिकप्रयोगगतसप्तम्यर्थप्रदर्शकसूत्रत एव तत्सूत्रगतसप्तम्यर्थस्यापि प्रदर्शनाङ्गीकारात्। भाष्यं तु गौणी लक्षणेति भेदमनादृत्य गुणान्तरनिमित्ता गौण्येव लक्षणेति व्यवहृतेति योजयितुं शक्यम्।
अक्षराञ्जस्यमपरमपीति।
अङ्गेष्वनङ्गदृष्टिक्षेप इति सिद्धान्ते लोकेषु पञ्चविधमित्यादिषु सप्तम्यास्तृतीयार्थ-त्वमात्रं कल्प्यम् न तु पूर्वपक्ष इव सप्तम्या द्वितीयार्थत्वं द्वितीयायास्तृतीयार्थत्वं चेत्यपरमक्षराञ्जस्यम्।
ॐकार इति।
ऋतुकाले उद्गातृभिर्गेयाः सामभागा भक्तयः अत्रोद्गीथावयव ॐकार आदिशब्देन भक्तिविशेषतयोक्त इत्यर्थः।
इति तु पञ्चविधस्य साम्न इति।
इति तु पञ्चविधस्येत्येतावदेव पञ्चविधोपासनानामुपासनादेः श्रुतिवाक्यं साम्न उपासनं साध्विति पदत्रयं तु समस्तस्य खलु साम्न उपासनं साध्वित्युपक्रमगत-वाक्यादनुषङ्गेण लब्धमाचार्य्यैः पठितम्। ननु प्रागाचार्यैः समस्तस्य खलु साम्न उपासनं साध्वित्युपक्रमगतवाक्येनैव पञ्चभक्तिकसप्तभक्तिकवक्ष्यमाणसकल-सामोपासनविधानमुक्तम्। इह कथं समस्तस्येति वाक्येन सप्तविधसामोपासन-विधानम् इति तु पञ्चविधस्येति वाक्येन पञ्चविधसामोपासनविधानमिति विभज्य व्याख्यायते। उच्यते। छान्दोग्यभाष्यानुसारेण पूर्वमुक्तं टीकानुसारेण इदानीं विभज्य व्याख्यायते। टीकाकृतामयमत्राशयः सकलभक्तियुक्तं सप्तविधं साम समस्तं भवति न तूपद्रवभक्तिरहितं पञ्चविधं साम। अतः पञ्चविधसामोपासन-विधानार्थमौपसंहारिकमेव वाक्यमुपासनीयमिति।
श्रुत्योक्तं साम्नः साधुत्वं व्याचष्ट इति।
यद्यप्युपासनं साध्वित्युपासनस्य साधुत्वमुक्तमिति प्रतिभाति तथापि य एवं विद्वान् साधु सामेत्युपास्त इत्युपसंहारात् साधुदृष्ट्या सामोपास्यं साधुगुणत्व-हिंकारादिपञ्चभक्तियुक्ते साम्नि पृथिव्यादिलोकदृष्टो क्रियमाणायां पृथिव्यादिषु कारणत्वेनानुगतः सुकृताख्यो धर्म इति व्याचष्टे इत्यर्थः ॥६॥
इति पञ्चममादित्यादिमत्यधिकरणम् ॥
आसीनः संभवात् ॥७॥
तत्पर्युदासं सिद्धमादायेति।
अस्मिन्नधिकरणे व्यवस्थापयिष्यमाणस्यासननियमस्याङ्गावबद्धोपासनेष्वनियत-शरीरस्थितिसाध्याङ्गपरतन्त्रेषु वर्ज्जनं सिद्धं कृत्वेत्यर्थः। अनेन प्रत्युदाहरण-सङ्गतिर्दर्शिता। तेषु यथा नास्त्यासननियमः नैवमितरोपासनेष्विति।
तिष्ठतोऽप्यैकाग्र्यसंभवादिति।
अङ्गावबद्धोपासनास्विति भावः।
तिष्ठतो हीति।
अङ्गावबद्धास्वगत्या देहधारणापन्ने सत्यपि कथंचिच्चित्तैकाग्र्यं सम्पाद्यते न तथेहागतिरस्ति। आसननियमस्य चोदितत्वात् तस्य च चित्तैकाग्र्यरूपदृष्टार्थ-त्वोपपत्तेः। येषां रोगवार्द्धकादिभिरासितुं न शक्तिः तेषामपि भीत्याद्युपाश्रयणे-नासननियमनिर्वाहोपपत्तेः। अत्यन्ताशक्तावारब्धकाम्यकर्मवद् आप्रायणमारब्धाया विद्यायाः यथा कथंचिन्निर्वाहणीयत्वेन तत्र तस्य त्यागेऽप्यन्यत्र त्यागायोगादिति भावः ॥७॥८॥९॥१०॥
इति पष्ठमासीनाधिकरणम् ॥
यत्रैकाग्रता तत्राऽविशेषात् ॥११॥
अङ्गोपास्तिव्यतिरिक्तोपास्तिरिति।
अङ्गोपास्तिष्वाश्रयाङ्गस्य यो दिगादिनियमस्तदपेक्षासत्त्वादङ्गतः सिद्धसाधनं मा भूदिति पक्षविशेषणम्। एवं चोपास्तित्वादङ्गोपास्तिवदित्यपि हेतुदृष्टान्तौ वक्तुं शक्यौ।
श्रुतदेशादिमत्त्वमिति।
उपासनासु विशिष्य दिगादिनियमश्रवणं नास्ति वैदिककर्ममात्रे प्राङ्मुखत्वादिनियमस्मरणमनन्तरं साधनचित्तैकाग्र्यविरोधाद् वैदिककर्मान्तरविषय-मित्युपाधेः पक्षाद्व्यावृत्तिः ॥११॥
इति सप्तममेकाग्रताधिकरणम् ॥
आ प्रायणात्तत्रापि हि दृष्टम् ॥१२॥
अहंग्रहोपास्तीनामदृष्टार्थत्वेनेति।
ननु यस्य स्यादद्धेति श्रवणान्निदिध्यासनवत्तासां साक्षात्काररूपदृष्टफलार्थ-त्वमप्युक्तमावृत्यधिकरणे सत्यम्। तावता यावत्साक्षात्कारोदयमावृत्तिः सिध्यति न त्वाप्रायणमिति भावः।
कृतशास्त्रार्थत्वात्पुंस इत्यर्थ इति।
अत्र पुंस इत्यध्याहारेण कृतशास्त्रार्थशब्दे बहुव्रीहिर्व्युत्पादितः। न चाहरहर्वा एवं विद्वान् स्वर्गं लोकमेतीति दहरविद्यायां वीप्सया विद्याया यावज्जीविकत्वमवगम्यते स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमिति सत्यकामप्रश्ने साक्षाच्च तदाम्नायते। सत्यम्। प्रकरणविशेषाम्नातं तदुभयं न्यायतः प्राप्तिं विना सर्वविद्यासाधारण्यं न भजेत्।
दृष्टद्वारेण चेति।
कर्मणामन्त्यप्रत्ययजनने दृष्टसामर्थ्याभावाददृष्टमाश्रितं प्रत्ययानां तत्र दृष्टद्वारा संभवाद् नादृष्टं द्वारमाश्रयणीयमिति।
अन्तकाले तदवश्यंभावादिति।
ननु उपास्तीनामाप्रायणमनुवृत्तावपि सायंप्रातः कालयोरग्निहोत्रवत् चितैकाग्र्यशालिषु समयेषु तासामनुष्ठानं भवति न तु सर्वकालं नैरन्तर्य्येण धारावाहिकतया तथा च कुतः प्रायणकालेऽपि प्रत्ययानुवृत्या ततः साक्षात्कारोदयावश्यंभावः। तस्मात्तदवश्यंभावोक्तिरयुक्ता। प्रतिबन्धकान्तरानु-द्भवोक्तिरप्ययुक्ता। प्रबलस्य कस्यचित्प्रतिबन्धककर्मणः तदानीमुद्भवसंभवेनोद्भूतस्य प्रारब्धस्य वा प्रतिबन्धकत्वसंभवेन तदा तीव्रमरणवेदनादिकमुद्भावयता तेन प्रत्ययानुवृत्तिसाक्षात्कारोदययोः प्रतिबन्धसंभवात्। यद्युपास्तिजन्यप्रबलादृष्टवशा-त्प्रत्ययानुवृत्तिकल्पनया साक्षात्कारोदयावश्यंभावः कल्प्यते तदा तद्वशात्साक्षा-त्कारोदयावश्यंभाव एव कल्प्यतां किमाप्रायणप्रत्ययावृत्तिकल्पनया। उच्यते। तीव्रमरणवेदनामूलस्य कर्मणोऽपि भोक्तव्यफलविषयान्तिमप्रत्ययस्तावदवश्यंभावी सविज्ञानो भवतीत्यादिश्रुतेः। अत उपासनाफले भोक्तव्ये तत्प्रत्ययोऽपि तदानीमवश्यं वाच्यः। स च साक्षात्काररूप एव प्रभवति प्रागुपास्ये साक्षात्कारस्य क्लृप्तत्वात् प्राचीनसाक्षात्कारित्वभावनैव कारणत्वेन क्लृप्तेति सा तदानीमप्यपेक्षणीया सा च दृढसंस्कारवत एव भवति न तु चिरात्प्रत्ययावृत्तिमुज्झितवतः प्रमुषितसंस्कारस्येति संस्कारदार्ढ्यार्थमाप्रायणं प्रत्ययावृत्तिरपेक्षणीया। अत एव प्रायणानुवर्तनीयप्रत्ययावृत्तिसहकारितया तत्फलेन ब्रह्मलोकप्राप्त्या फलवतां कर्मणामाप्रायणमनुवृत्तिं दर्शयति छान्दोग्यश्रुतिराचार्यकुलाद्वेदमधीत्येत्यादिका। इयं ह्युपासनासहकारिकर्मविषया आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्येति चित्तैकाग्र्योपाय-साहित्यश्रवणाद् ब्रह्मलोकप्राप्तिफलश्रवणात्। अत एव भगवत्पादैरियं श्रुतिर्विद्यासहकारिकर्मविषयाऽवतारिता। यथेह षष्ठाद्यध्यायत्रयप्रकाशितात्मविद्या सफलाऽवगम्यते तथा कर्मणां न कश्चनार्थ इति प्राप्तं तदानर्थक्यपरिहाराय विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलसंबन्धेनार्थवत्त्वमुच्यत इति। एवं च प्रतिबन्धकान्तरासंभवोऽप्युपपद्यते दृढसंस्काराधानेन प्रायणकालिकप्रत्ययानुवृत्ति-साक्षात्कारयोर्दृष्टकारणभूतायाः प्रत्ययावृत्तेस्तत्सहकार्यग्निहोत्रादिकर्मानुवृत्तेश्च प्रत्यग्रत्वेन प्रबलतया ताभ्यां प्रारब्धपर्यन्तस्य सर्वस्यापि प्रतिबन्धकस्यानुत्थिति-कारणोपपत्तेः कर्मविपाकप्रायश्चित्तवत्प्रारब्धादप्यनयोः प्राबल्योपपत्तेश्च। एवं न्यायसिद्धामेवाप्रायणानुवृति स यो हवैतद्भगवन्निति श्रुतिरहरहःश्रुतिश्चानुवदतीति तयोरपि सर्वविषयतोपपद्यते।
ननु तेजसोदानेनेति व्याख्यानमयुक्तम् छान्दोग्यश्रुतौ प्राणस्तेजसि तेजः परस्यां देवतायामिति मुमूर्षोः प्राणस्य तेजःशब्दोपलक्षितदेहबीजभूतप्राप्तिश्रवणात् तथैव तस्याः श्रुतेर्द्वितीयपादे व्याख्यास्यमानत्वादित्यत आह-
उदानस्य तेजोदेवतात्मकत्वादिति।
प्रश्नोपनिषदि यश्चित्त इति वाक्यात् प्राचीनवाक्ये तेजो ह वाव उदान इति श्रूयते ततः प्राक् च उदानः पुण्येन कर्मणा पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकमिति श्रूयते। अतस्तेजस्त्वेन यथासंकल्पितलोकनिन्दात्वेन चात्र श्रुत उदान एवेति भावः। आत्मना सह आत्मना सहितः सन् तमेवात्मानं यथासंकल्पितं लोकं नयतीति श्रुतिशेषस्यार्थः।
उत्तराधिकरणसंगतिमाह-
अन्तकाल इति।
यथोपासकस्यान्तकाले प्राप्यपारलौकिकफलविषयान्तिमप्रत्ययरूपसाक्षात्कारो-दयार्थं तदानीमपि प्रत्ययावृत्त्यनुवृत्यपेक्षा नैवं परब्रह्मविदस्तदपेक्षाऽस्ति। ततः सकलाघनाशेन कृतकृत्यताप्तेरित्युत्तराधिकरणेन प्रतिपादनादापवादिकी सङ्गतिः। सगुणविद्यानपेक्षिततद्विरोधिकर्मणामनिवृत्तिस्तु न्यायसाम्यात् सिध्यन्त्यानुषङ्गिकं प्रयोजनमिति भावः ॥१२॥
इत्यष्टममाप्रायणाधिकरणम् ॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥१३॥
अथैकेन शरीरेणेति।
उष्ट्रमतङ्गजादिभोग्यकण्टककाष्ठादिभोगप्रापककर्मफलोपभोगा एकेन शरीरेण नोपपद्यन्त इत्यर्थः।
अर्थवादलिङ्गस्येति।
उपासना यस्मिन् दिने प्रारब्धा ततः प्रभृत्युत्तराघाश्लेषः तस्मिन्नेव दिने प्राचीनसकलाघनाशश्च कथमित्यर्थवादमात्रे भारं संनिवेश्याभ्युपगन्तव्यम् इत्यप्यर्थवादग्रहणेन सूचितम्। किन्तु सति विरोधे न चेह स इति निर्गुण इव सगुणेऽपि साक्षात्कारोदये सत्यश्लेषविनाशाविति नातिप्रसङ्ग इति भावः। सगुणनिर्गुणविद्यासाधारण्येनाश्लेषविनाशौ विरोधाभावेन समर्थितौ। अभ्युपगम्यापि प्रमाणान्तरविरोधं विरुद्धं प्रमाणान्तरमेवाश्लेषविनाशप्रमाणेन बाध्यमित्येतन्निर्गुण-विद्यामात्रविषयं पापं ज्ञाननिवृत्यर्थमित्यादिना बलीयसीत्यन्तेन दर्शितम् ॥१३॥
इति नवमं तदधिगमाधिकरणम् ॥
इतरस्याप्येवमसंश्लेषः पाते तु ॥१४॥
प्रथमं निरस्येति।
न च शास्त्रीयत्वसाम्येनाविरोधोपपादनेऽपि ज्ञानाज्ञानरूपत्वकृतविरोधो न निरस्त इति वाच्यम्। तस्मिन् सत्यपि प्रारब्धवदनुवृत्तिसंभवादिति भावः।
पाप्मनश्च विशेषतो ब्रह्मज्ञानेनोच्छेद्यत्वश्रुतेरिति टीकायां विवक्षितां श्रुतिमुदाहरति-
सर्वे पाप्मानोऽतो निवर्तन्त इति।
न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त इति छान्दोग्यश्रुतिरिह नोदाहर्तुं योग्या तत्र पाप्मशब्दः सुकृतस्यापि ग्राहक इति स्फुटत्वेन तस्याः सिद्धान्तानुगुणत्वात्। किंत्वन्येयं श्रुतिराचार्यैरुदाहृता। आत्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति सर्वे पाप्मानः प्रहीयन्त इत्यादि चात्र पूर्वपक्षानुगुणं वाक्यं द्रष्टव्यम्।
पापविशेषे संकोच्यमिति।
पापरूपे कर्मविशेषे संकोच्यमित्यर्थः।
स्वभावविरोधपक्षमादायेति।
धर्मस्य ज्ञानमात्रान्निवृत्तिः स्वभावविरोधाद्वा शास्त्रान्निवर्त्यत्वावगमाद्वेति विकल्पितपक्षद्वयमध्ये प्रथमपक्षमादायेत्यर्थः। प्रारब्धवदनुवृत्तावारब्धफलत्वहेत्व-भावाद् अवधिश्रवणाभावाच्च अनन्तशरीरभोग्यानामनियतकालविपाकानां पुण्यकर्मणां युगपत्क्रमेण वा भोगासंभवादनिर्मोक्षः स्यादिति भावः। क्रममुक्तिफलकासु सगुण विद्यास्वप्ययं न्यायस्तुल्यः। देवलोकादिप्रापकपुण्यविशेषानुवृत्तौ तत्फलभोगाय पुनर्निवृत्त्यापत्त्या क्रममुक्तिर्न सिद्ध्येदिति। तथाभूतार्थानीति पाप्मश्रुत्या पुण्यस्यापि ग्रहणे न्यायसिद्धार्थानुसार्यर्थानि। यथाभूतार्थानीति पाठे उभे वैष एते तरति नैनं सुकृतदुष्कृते तरत इत्यादीनि यथाश्रुतार्थानि भवन्ति न तु क्लेशेन योज्यानीत्यर्थः ॥१४॥
इति दशममितरासंश्लेषाधिकरणम् ॥
अनारब्धकार्य एव तु पूर्वे तदवधेः ॥१५॥
यथा कुलालेति।
कुलालकराभिघाते निवृत्ते तन्निमित्तकमाद्यं भ्रमणं निवर्तते ततस्तज्जन्यवेगाख्यसंस्काराद् भ्रमणपरम्परानुवृत्तिदृष्टा तथा कर्मजन्यसंस्कारा-त्कर्मान्तरानुवृत्तिरित्याद्यपक्षो न युक्त इत्यर्थः।
न मायेति भ्रमनिषेध इति।
तज्जन्यसंस्कारो न तद्गोचर इत्यग्रिमवाक्ययोस्तत्पदेन मायाशब्दोक्तं परामृश्य तज्जन्यसंस्कारतद्विषययोर्वस्तुसत्तानिषेधाद् मायाशब्दोऽत्र भ्रमपर इति भावः। तजन्यसंस्कार इत्यनेन मायासंस्कारजन्यमायान्तरात् कर्मान्तरोत्पत्तिरिति पक्षं प्रतिक्षिपतीति। यद्यपि न तज्जन्यसंस्कार इत्यनेन भ्रमजन्यसंस्कारनिषेधः प्रतीयते तथाप्यर्थाद् भ्रमोपादानमायानिषेधस्य पूर्ववाक्ये वर्णितत्वाद् मायापि निषेध्यतया बुद्धिस्थेति तज्जन्यसंस्कारनिषेधपरतयाऽपि योजयितुं शक्यत्वात्स्वविकल्पित-द्वितीयपक्षनिरासार्थत्वेनेदं वाक्यं योजितम्। न तज्जन्यसंस्कार इत्यनेनेत्यादेः प्रतिक्षिपतीत्यन्तस्य ग्रन्थस्य स्थाने अनेन मायाजन्यमायान्तरात्कर्मान्तरोत्पत्तिरिति पक्षः परिस्फुरतीति क्वचित्पाठः। तत्रायमर्थः। यत्र तु न माया न तत्संस्कारो न तद्गोचर इति टीकाग्रन्थः प्रस्तुते भयकम्पादिवैषम्यप्रदर्शनपरो न भवति मायावादिनश्चेत्यादिपूर्वग्रन्थेनैव तद्वैषम्यसिद्धेः। अतोऽनेन टीकाग्रन्थेन द्वितीयपक्षो निषेधार्थमनूदितः परिस्फुरतीति।
ननु न तत्संस्कार इति तच्छब्दस्य मायापरत्वे तद्गोचर इत्यत्रापि तस्य तत्परत्वेन भाव्यम् न तु तद्युक्तम् मायाविषयस्यात्मनस्तत्त्वज्ञानादूर्ध्वमपि सत्त्वेन तन्निषेधायोगादित्याशङ्क्य व्याचष्टे-
मायात्मभ्रमगोचर इति।
भ्रममाययोः कार्यकारणयोरभेदोपचाराद् भ्रमविषयो मायाविषयत्वेनोपचरित इति भावः।
किमनुवर्तेतेत्युक्त्वा न किमपीत्याहेति।
किमनुवर्तेतेत्युक्तमेवार्थं न संस्कारावशेष इत्यादिना विवृणोतीति न पौनरुक्त्यमित्यर्थः।
न ततोऽधिकमित्यर्थ इति।
इहापि तावदेव चिरमित्येवकारेण न ततोऽधिकमित्यर्थ एव प्रतीयते न तु तावत्पर्यन्तमनुवर्तत एवेत्यर्थ इति भावः।
नास्ति ब्रह्म न प्रकाशते चेति
भ्रमान्यथानुपपत्त्येति।
इदमुपलक्षणम् परप्रेमास्पदतया जीवस्वरूपानन्दे प्रकाशमानेऽपि नास्ति न प्रकाशत इति व्यवहारात् तदावरकाविद्यासद्भावोऽवगम्यत इत्येतदप्युदाहरणम्।
न चैकदेशेनेति।
निवृत्ताया अविद्याया एकदेशेनानुवृत्यसंभवो नेति योजना।
शाब्दबोधेनेति।
सकलेतरमधुरिमव्यावृत्तोत्कर्षशालिसुधायां मधुरिमाऽस्तीत्याप्तवाक्येन तदर्थपरिच्छेदे सति तदज्ञाननिवृत्तावपि यावत्साक्षात्कारं कीदृक्षः स मधुरिमेत्यज्ञानं नापैतीत्यनुभवसिद्धम्। न च तत्र पुरुषाश्रिताज्ञाननिवृत्तावपि विषयाश्रिताज्ञानं नानुभूयत इति वाच्यम्। आश्रयभेदेनैकविषयाज्ञानभेदकल्पने प्रमाणाभावात्। तस्मादेकमेवाज्ञानमेकदेशे च निवृत्तम् एकदेशान्तरेणानुवर्तत इत्येव कल्पनीयमिति भावः।
कल्पमहाकल्पमन्वतरादिजीविता चेति पाठमाश्रित्य कल्पशब्दार्थमाह-
कल्पोऽवान्तरकल्प इति।
ब्रह्मणो दिनमवान्तरकल्पः। तस्यायुर्महाकल्पः।
ननु भाष्यकारैर्न तावदनाश्रित्य कर्माशयमित्यादिग्रन्थेन ज्ञानोत्पत्तेर्देहद्वारा तदारम्भककर्माश्रयत्वा-दारब्धकार्यस्य च कर्मणो मध्ये प्रतिबन्धासंभवात्तत्क्षपणार्थं देहपातप्रतीक्षणमिति युक्तिरुक्ता सा टीकाकारैस्तदेतदभिसंधायेत्यादिना स्वोक्तयुक्तिपर्यवसानं किमिति प्रापिता स्वतन्त्रयुक्त्यन्तरत्वसंभवादित्याशङ्क्याह-
उपजीव्याया अविद्याया इति।
अस्तु ज्ञानोत्पत्यर्थं देहतदारम्भककर्मापेक्षा तस्यां सत्यामेवोपादानाज्ञानबाधेन तयोर्निवृत्तिः स्यादेव निरुपादानकार्यस्थित्यसंभवादित्याशङ्कायाम् उत्पन्नज्ञानानामपि श्रुतिस्मृतिषु देहस्थित्युपलम्भाद्देहतदारम्भककर्मोपादानाज्ञानलेशानुवृत्तिः कल्पनीयेति टीकोक्तयुक्तिरपेक्षणीया तत इयं स्वतन्त्रयुक्तिर्न भवतीत्यर्थः।
अन्यत्रेति
आत्मातिरिक्तवस्तुनीत्यर्थः।
चन्द्रैकत्वसाक्षात्कारेण सहानुवृत्तिरिति।
अनभ्यासदशायां जलज्ञानेन सह जलमिदं न वेति संशयस्यानुवृत्ति-रप्यत्रोदाहरणम्।
नियोग इति।
प्रागेव प्रमाणतः सिद्धं वस्तु तथास्त्विति पुनर्यत्तेन न विधेयं नापि कथमेतदिति चोदनार्हमित्यर्थः।
तकारलोपश्छान्दस इति।
लोपस्त आत्मनेपदेष्विति छान्दसे तलोपे सत्यतो गुणे इति पररूपत्वम् ॥१५॥
इत्येकादशमनारब्धकार्याधिकरणम् ॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१६॥
सुकृतशब्दस्य च काम्यकर्म विषयत्वादिति।
ननु सुहृदः साधुकृत्यामित्यत्र सुकृतशब्दस्योपास्य साक्षात्कारात् प्राचीनं काम्यकर्म न विषयः तस्य तत एव विनाशात् ततः पाश्चात्यस्य क्रममुक्तिफलानपेक्षितस्य तद्विरोधिनश्च तस्य विदुषि बुद्धिपूर्वमनुष्ठानाप्रसक्तेः वासनावशात्प्रवृत्तस्याबुद्धिपूर्वस्यासङ्कल्पितफलतया क्वचिदपि फलसाधनत्वाभावात् कथंचित्फलसाधनकाम्यकर्मानुष्ठानसंभवेऽपि तस्याश्लेषवचनविषयताया अवक्तव्यत्वात् । न च अश्लेषवचनं सुहृद्गामित्वाभिप्रायं स्यादिति वाच्यम्। साक्षात्कारोदया-नन्तरमनुष्ठितस्य काम्यकर्मणो देहवियोगकाले सुहृदि संक्रमिष्यतस्तावत्पर्यन्तं निराधारस्थित्ययोगात्। एतेन द्विषन्तः पापकृत्यामित्यस्यापि विषयो निरस्तः साक्षात्कारनिवर्त्यादश्लेषवचनविषयाच्चान्यस्य द्विषद्गामिनः पापस्य वर्णयितुमशक्य-त्वात्। ननु ययोः पुण्यपापयोः साक्षात्कारोदये सत्यश्लेषविनाशाविष्येते तयोरेव देहवियोगकाले द्विषद्गामित्वमुच्यत इत्यस्तु पुण्यपापयोरश्लेषविनाशौ विद्वांसं प्रति फलजननार्हतानुत्पत्तिनिवृत्तिरूपौ देहवियोगकाले सुहृद्द्विषद्गामित्वं तयोः फलजननार्हतोत्पत्तिरूपमिति वक्तुं शक्यत्वादिति चेन्न। तस्य पुत्रा दायमुपयन्तीति दृष्टान्तानुसारेण यावद्देहधारणमुपासकं प्रति फलजननयोग्यतयाऽवस्थितयोः देहवियोगकाले सुहृद्द्विषतः प्रति योग्यताविर्भावप्रतीतेरिति चेत् । उच्यते। उपासकस्याभ्युदयफलानिच्छायामपि तामजानद्भिः पुत्रादिभिस्तदभ्युदयेच्छया-नुष्ठितानि तडागप्रतिष्ठादीनि संभवन्ति। द्वादशवार्षिकसत्रवाक्यानामयनादिषु तत्तत्फलेच्छया प्रवृत्तस्य मध्ये वीतफलेच्छस्य क्रममुक्तिफलेच्छया ब्रह्मोपासनायं प्रवृत्तस्य तन्मध्य एव लब्धोपास्यसाक्षात्कारस्य प्रक्रमात्तु नियम्येतेति (जै. अ. ६ पा. २ सू. १३) न्यायेनावश्यसमापनीयत्वेन प्राप्तानि द्वादशवार्षिकसत्रादीनि काम्यकर्माणि जन्मान्तरेष्वन्येषामवश्यभोक्तव्यफलानि संभवन्ति। किं बहुना। उपासनासहकारित्वेन नित्यत्वेन चोपासनाकालेऽप्यनुष्ठेयानां दर्शपूर्णमासादीनाम-ङ्गान्यग्न्यन्वाधानप्रस्तरयागादीनि ममाग्ने वर्चो विहवेष्वस्तु आयुराशास्ते सुप्रजास्त्वमाशास्ते इत्यादिकरणमन्त्रप्राकाश्यवर्चः प्रभृतिफलवन्ति भवन्ति। तानि फलानि सङ्कल्पाभावेऽपि तद्यथाऽऽम्रे फलार्थे निमित्ते छाया गन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्त इत्यापस्तम्बवचनादवश्यं भवन्त्येव। अवश्यानुष्ठेयकर्मविध्यन्यथानुपपत्त्याक्षेप्यप्रार्थनानि वा भवन्ति। अन्यथा विहवेष्वस्तु आयुराशास्त इत्यादिमन्त्रप्रकाश्ययजमानगामिफलतत्प्रार्थनानामनुष्ठेयार्थसंबन्धित्वा-भावेन तद्वारा एतेषां मन्त्रभागानामनुष्ठेयार्थप्रकाशकत्वाभावप्रसङ्गात्। तथाऽस्य पापकर्माण्यपि परैराचरितान्युपासकसंक्रमणायोग्यानि संभवन्ति यदन्यकृतमारि-मेत्यादिश्रोतलिङ्गाद् उपासकस्यैवाबुद्धिपूर्वाण्यपितानि संभवन्ति एवं भूतपुण्यपापकर्मविषया तदश्लेषोक्तिः। यान्युपासनाकाले तदर्थदेहधारणापेक्षित-वृष्ट्यारोग्यादिफलतयाऽवश्यकर्तव्यानि काम्यकर्माणि तेषु दत्तफलेभ्योऽवशिष्टान्यपि देहपातकालेऽनुवर्तमानानि संभवन्ति। पापकर्माण्यपि प्रारब्धकर्मफलतया-वश्यप्राप्याण्युपासकेन देहपातासन्नसमये कृतत्वेनाकृतप्रायश्चित्तानि संभवन्ति। तद्विषयं सुहृद्विषद्गामित्ववचनं भविष्यतीति न काचिदनुपपत्तिः। यद्वा तस्य पुत्रा दायमुपयन्तीत्येतत्सुहृद्द्विषत्संक्रमणकालोपलक्षणमात्रम् न तु दृष्टान्तपरम् तत्परत्वेऽपि वा सर्वात्मना साम्यं न विवक्षितं किं त्वन्यसंक्रमणमात्रेणेतीष्यते। यद्वा ययोः पुण्यपापयोः साक्षात्कारे सत्यश्लेषविनाशौ तयोरेव देहवियोगकाले सुहृद्द्विषत्संक्रमणमित्यभ्युपगमेऽपि न दोषः॥१६॥१७॥
इति द्वादशमग्निहोत्राधिकरणम् ॥
यदेव विद्ययेति हि ॥१८॥
विद्यायुक्तकर्मप्रशंसयेति।
इदमुपलक्षणम् प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति साक्षाद्विद्याविहीनकर्मनिन्दयाऽपि तन्निषेधकल्पना द्रष्टव्या। तथा च विद्याविहीनकर्मनिषेधेन विद्यायाः कर्माङ्गत्वसिद्धिरिति भावः। विद्ययेति तृतीयाश्रुत्या साक्षादपि तत्सिद्धिर्द्रष्टव्या।
अन्ये त्वाहुरिति।
भास्करेणैतत्सूत्रमनर्थकमित्युपेक्षितं तदीयास्तदभिप्रायमाहुरित्यर्थः। विद्यार्थत्वं यदा यायुरित्येषा षट्पदी गाथा। नाश्रमोक्तक्रियास्वस्तीति यज्ञाद्यनधिकारिणो जप्यादिना शूद्रस्य शुश्रूषामात्रेणैव सिद्धिरस्तीत्येतावता तदधिकारिणोऽङ्गविकलं यज्ञादि न फलाय कल्पत इति भावः।
ननु सर्वाङ्गानुष्ठानाशक्तस्या-शक्याङ्गप्रहाणेनानुष्ठानमपि यथाशक्त्यधिकरणसिद्धम् अतो विद्याविहीनमपि यज्ञादिकं कार्यकरं स्यादित्याशङ्क्याह-
विद्योपेतेष्विति।
कर्मभागमात्रविदामौपनिषदविद्याविवेकरहितानां विद्याविहीनमपि यथाशक्ति नित्यकर्मानुष्ठानमस्तु नाम औपनिषदविद्याविवेकवतां दहराद्युपासकानाम् अद्वैतब्रह्मविविदिषोत्पत्त्यर्थं यज्ञाद्यनुतिष्ठतां च विद्यानुष्ठानशक्तिरस्तीति तेषां विद्याविहीनं कर्म न कार्यकरम्। अत एव विद्याविवेकराहित्याद् विद्याविहीनमेव स्तोष्यत्सूद्गातृषु समागतेनोषस्तिना मदुपदेशेन विद्यां लब्ध्वा विद्यासहितकर्मानुष्ठाने संभवति तद्रहितं कर्म नानुष्ठेयमिति तन्निन्दा कृता। न च विद्याधिगमोपायाभावाद् विद्यारहितमेव स्तोष्याम इति संकल्प्याऽऽस्तावोपविष्टेषूद्गातृषु पुनर्विद्या नापेक्षणीयेति कथं तत्र विद्याविहीनकर्मनिन्देति वाच्यम्। यथाशक्ति शास्त्रं संपादयाम इत्येव हि संकल्पः न तु विद्याविहीनमेव स्तोष्याम इत्यपि। अतो यदि तदैव विद्याधिगमोपायो लभ्यते तदा तद्विहीनं कर्म न कर्तव्यमिति तन्निन्दा युक्तैव। अत एव मुख्याधिगमे मुख्यमागमो हि तदभावा (जै. अ. ६ पा. ३ सू. ३५) दित्यधिकरणे यदा यूपार्थं मुख्यं खदिरमलभ्यं मत्वा तत्प्रतिनिधिं कदरमुपादातुं प्रस्थितो मध्ये मुख्यं लभते चेद् मुख्य एवं ग्राह्यः कदरं गृहीत्वा तक्षणादिषु केषुचित्संस्कारेषु कृतेषु प्राक् पशुनियोजनाद् मुख्यं लभते चेदपि मुख्य एव ग्राह्य इति व्यवस्थापितम्। तस्माद् विद्यासहितकर्मानुष्ठानशक्ता उपासका अपि तद्रहितं कर्म यद्यनुतिष्ठेयुस्तदा ते -
प्रभुः प्रथमकल्पेऽपि योऽनुकल्पं निषेवते।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥
इति मानवधर्मशास्त्रोक्तं दोषं नातिवर्तेरन्निति भावः।
तरप्प्रयोगेणेति।
न तावदल्पाच्तरमित्यादाविव स्वार्थिकोऽयं तरप्प्रत्ययः अधिकार्थसंभवे स्वार्थिकत्वायोगात्। अतो वीर्यवत्तरमित्यस्य फलजननानुकूलसामर्थ्यातिशयव-त्त्वमर्थः। स च सामर्थ्यातिशयो यथाशक्त्यधिकरणन्यायसिद्धानुवादः समस्ताङ्ग-साधारणन्यायसिद्धानुवादे प्रयोजनाभावात्। अतो विद्यारहिताद्विद्यासहितस्य विलक्षण एव कश्चिदतिशयः सिद्धान्नौचित्यात् प्रबलैः कर्मभिरप्रतिबद्धरूप एव पर्यवस्यति। एवं च पृथक् फलत्वान्न विद्या कर्माङ्गम्। विद्ययेति तृतीयाश्रुतिस्तु उपकारकत्वमात्रपरा। तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदेति विद्यारहितकर्माभ्यनुज्ञानोपक्रमानुरोधात्। न चायं यथा शक्त्यधिकरणन्याय-सिद्धार्थानुवादः अङ्गत्वाभावरूपाऽपूर्वार्थबोधकत्वसंभवात् मूर्धा ते विपतिष्यतीति वचनं तु धनायया समागतस्योषस्तेः स्वागमनमनादृत्य स्तोतुमारभन्त इति क्रोधप्रयुक्तं शापवचनं न तु विद्याराहित्येनाङ्गवैकल्यप्रयुक्तम्। अत एव शापवचनमाकर्ण्य स्तोत्रारम्भादुपरतेषूद्गातृषु राज्ञाऽनुनीतेन यावत्तेभ्यो धनं दद्याः तावन्मम दद्या इति राजानं पृष्ट्वा तथेति राजानुमतिं लब्धवतोषस्तिनोद्गातृभ्यः प्रस्तावादिदेवतोपदेशानन्तरं तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेत्यादिवाक्यत्रयेऽपि स्वशापवचनं क्रोधप्रयुक्तम् नत्वङ्गवैकल्यप्रयुक्तमिति स्फुटीकृतम्। अधिकरणप्रयोजनं विविदिषूपासककर्तृकेष्वग्निहोत्रादिषु विद्यानियमा-भाव इति भाष्ये व्यक्तम्। शास्त्रदर्पणे त्वङ्गत्वे नित्यकर्मवद्विद्यार्थत्वमनङ्गत्वे काम्यकर्मवद्विद्याया निवृत्तिरिति प्रयोजनान्तरमुक्तम्। तच्चिन्त्यम्। अनङ्गत्वेऽप्य-प्रतिबन्धफलकत्वेन विद्याया अपेक्षिततया नित्यकर्मतौल्यात्। न हि काम्यमपि देहधारणार्थवृष्ट्यारोग्यादिफलकं कर्म विद्यानिवर्त्यम् ॥१८॥
इति त्रयोदशं विद्याज्ञानसाधनत्वाधिकरणम् ॥
भोगेन त्वितरे क्षपयित्वा संपद्यते ॥१९॥
प्रारब्धकर्मफलभोगानन्तरमिति।
येषां विद्यायोनिशरीरावसानं प्रारब्धं तेषां विद्याफलमस्तु नाम येषां त्वनेकशरीरानुयायि तेषां तत्फलं न संभवति जन्मान्तरस्य पूर्वसंस्कारप्रमोषकतया शरीरान्तरे विद्याविहीनैः क्रियमाणानां कर्मणां बन्धहेतुत्वेन ततो जन्मपरम्पराया एव प्राप्तेः। न च तेषां जन्मान्तरं न संस्कारप्रमोषकमिति कल्प्यम् दृष्टनियमसङ्कोचका-भावात्। न च यावन्न विमोक्ष्य इति प्रारब्धकर्मविमोक्षावधिश्रवणं सङ्कोचकम् धूत्वा शरीरमिति श्रुत्यन्तरानुसारेण तस्य शरीरविशेषावधिपरतया येषां विद्यायोनिशरीरा-वसानं प्रारब्धं तद्विषयत्वोपपत्तेः। न च धूत्वा शरीरमित्यत्र शरीरग्रहणं प्रारब्धकार्ययावच्छरीरपरम्। एकवचनश्रवणात्। अस्माच्छरीरात्समुत्थायेति श्रुत्यन्तरे अस्मादिति विशेषणेन विद्यायोनिशरीरस्यैव विवक्षितत्वाच्च एवं च प्रारब्धस्यानेकशरीरानुयायित्वशङ्कया विद्यानुष्ठाने प्रवृत्तिश्च न संभवेदिति पूर्वपक्षाभिप्रायः। देहान्तरे संस्कारप्रमोष आधिकारिकाणामपि कल्प्यते अस्मदादीनां वा। आधिकारिकाणां तत्कल्पना न संभवति आगमविरोधादित्युक्तत्वात्।
द्वितीयपक्षं निरस्यति-
अस्मदादीनामिति।
मुक्त्यर्थविद्यानुष्ठानप्रतिपादकबहुशास्त्रप्रामाण्यात् तस्य तावदेवेति विवक्षिता-वध्यवसाने मुक्त्यवश्यम्भावप्रतिपादकावधारणाप्रामाण्याच्च यावन्न विमोक्ष्य इत्यस्य प्रारब्धकर्मावधिपरत्वं धूत्वा शरीरमित्यत्र शरीरपदस्य प्रारब्धकार्ययावच्छरीर-परत्वमस्मादिति विशेषणस्यानुभवसिद्धहेयताप्रदर्शनार्थत्वं विदुषां जन्मान्तरस्य संस्कारे प्रमोषानापादकत्वं च कल्प्यम्। अतः प्रारब्धभोगानन्तरं मुक्तिर्नियतेति सिद्धान्त्यभिप्रायः ॥१९॥
इति चतुर्दशमितरक्षपणाधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजा-ध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ वेदान्तकल्पतरुपरिमले चतुर्थस्याध्यायस्य प्रथमः पादः ॥ ॥
इति चतुर्थस्याध्यायस्य जीवन्मुक्तिनिरूपणाख्यः प्रथमः पादः ॥
॥चतुर्थाध्याये द्वितीयः पादः ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥१॥ सता सौम्य तदा संपन्नो भवतीत्युक्तायाः संपत्तेः स्वमपीतो भवतीति लयार्थेनापीतिना विवरणाद् वाङ्मनसीत्यत्रापि संपत्तिर्ल्लयः स च यथाश्रुति वाच एव प्रकृतौ लय इति लौकिकन्यायस्य वचनेन बाधोपपत्तेः। अन्यथा वाक्प्रकृतिकाया वृत्तेरपि मनसि लयोपपादनाऽसंभवादिति पूर्वपक्षे प्राप्ते टीकाशयस्थं सिद्धान्त-माविष्करोति-
यथासिद्धेति।
प्राणमनुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति वागादीनामुत्क्रमणश्रुतेर्मनसि स्वरूपलयो न संभवतीति तत्प्रतिपादकत्वासंभवाद् लोकसिद्धार्थानुवादकमिदं वाक्यमिति वक्तव्यम्। लोके च मनसि व्यापारे स्थिते वाग्व्यापारोपरमो दृष्ट इति तस्यैवायमनुवाद इत्यर्थः।
वृत्तिसत्वकथनमिति।
यद्यपि तत्कथं न लोकसिद्धार्थानुवादोपयोगि वाग्वृत्तिलयहेतुत्वोपयोगकल्पने लोकसिद्धार्थानुवादोऽपि न सिद्ध्येद् मनसो वाग्वृत्तिलयहेतुताया लोकतः सिद्ध्यभावात् तथाप्युपपदविभक्तितः कारकविभकेर्बलीयस्त्वान्मनसीति सप्तम्या प्रतीयमानं वाग्वृत्तिलयं प्रत्यधिकरणकारकत्वं हातुं न युक्तम्। लोकसिद्धार्था-नुवादेनाधिकरणविशेषविधानसंभवाद् अग्निज्वाला जले शाम्यतीत्यत्राप्रकृतावपि लयव्यवहारदर्शनाच्चेति तात्पर्यम्॥१॥
येषां च सौत्रानुशब्दव्याख्येति।
यद्यपि सौत्रस्यानुशब्दस्य भाष्ये सर्वाणीन्द्रियाणि मनोऽनुवर्तते इत्यर्थ उक्तः तथापि सर्वाणीन्द्रियाण्यनुगच्छन्तीत्येवमप्यर्थः संभवतीति तात्पर्यम्।
प्राणमायतीति शेष इति।
यच्चित्तस्तेनैव प्राणमायातीत्यतः प्राचीनस्य संपद्यमानैरित्यस्य तेनान्वयो दर्शितः न त्वध्याहार उक्तः ॥२॥
इति प्रथमं वागधिकरणम् ॥
तन्मनः प्राण उत्तरात् ॥३ ॥
एवं घटस्यापि शरावे लयापत्तिरिति।
यदि शरावात्मकविकृत्यन्तरावष्टब्धा आपो घटरूपपृथिव्या न प्रकृतिरित्यति-प्रसङ्गः परिह्रियेत तदा प्राणरूपविकृत्यन्तरावष्टब्धा अप्यापो मनसो न प्रकृतिरिति तुल्यमिति भावः ॥३॥
इति द्वितीयं मनोऽधिकरणम्॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥४॥
प्राणजीवे वृत्तिलय उपचर्यत इति।
ननु प्राणस्तेजसीति श्रुत्यनुसारेणोपगमनादिश्रुतिषु किमित्युपचारः कल्प्यते उपगमनादिश्रुत्यनुसारेण प्राणस्तेजसीत्यत्रोपचारः कल्प्यतां प्राणवृत्तिलयाधारस्य जीवस्य तेजसि वृत्तिलयात् प्राणस्य तेजसि वृत्तिलय उपचर्यत इति प्राणवृत्तिलयाधारत्वं तेजसः सप्तम्येव जीवस्य केनचित्स्फुटं न प्रतीयते तदुपजमनादिमात्रं तु तेजोद्वाराऽप्युपपन्नमिति चेत्। एवं सप्तम्यां निहितश्रद्धस्तेजोऽनन्तरं जीवनिवेशेऽप्यवकाशं न लभते। तेजः परस्यां देवतायां इत्यत्रापि सप्तम्या तेजसः परमात्मनि लयप्रतीतेः। एवं यथोपचारकल्पनासंभवः सप्तम्यवरोधश्च पक्षद्वयेऽपि तुल्यः तथा लौकिकदृष्टान्तसद्भावोऽपि तुल्यः। यथा पान्थः प्रथमं नाविकेन संगत्य ततस्तेन सह तदीयां नावं गत्वा पारं प्राप्नोति तथा प्राणः प्रथमं जीवेन संगत्य ततस्तेन सह तेजःशब्दोक्तं त्रिवृत्कृतभूतान्तरसंसृष्टं तदीयं सूक्ष्मशरीरं गत्वा तेन सह परां देवतां प्राप्नोतीति जीवस्य प्राणतेजोमध्ये निवेशे दृष्टान्तः। यथा सारथिः प्रथमं राजकीयं रथं स्वयमारूढो राजसमीपं गत्वा पश्चाद्रथारूढेन तेन सहितस्तदभिमतदेशं प्राप्नोति एवं जैवं सूक्ष्मशरीरं प्राणः प्रथमं प्राप्य ततस्तत्प्राप्तेन जीवेन सहितः परदेवतां प्राप्नोतीति जीवस्य तेजोनन्तरनिवेशे दृष्टान्तः। तस्मात्पूर्वपक्षकोटौ नास्ति किंचिद्विनिगमकमिति चेत् । उच्यते। विनिगमकान्तराणां कोटिद्वयतौल्येऽपि लोकसिद्धानुवादप्रायपाठः पूर्वपक्षे विनिगमकः। तथा हि यथा वागादिबाह्येन्द्रियव्यापारोपरमानन्तरमपि मनोव्यापारदर्शनाद् वाङ्मनसि संपद्यते इन्द्रियैर्मनसि संपद्यमानैरिति श्रुतिः यथा च बाह्याभ्यन्तरज्ञानोपरमानन्तरमपि श्वासव्यापारदर्शनाद् मनः प्राण इति श्रुतिः तथा श्वासरूपप्राणव्यापारोपरमानन्तरमपि देहे क्वचिदौष्ण्यदर्शनात् प्राणस्तेजसीति श्रुतिरपि लोकसिद्धानुवादिनीति न प्राणतेजसोर्मध्ये जीवस्य निवेश:। तेजः परस्यां देवतायामित्यस्य लोकसिद्धानुवादकत्वासंभवादुपगमनादिश्रुत्यनुसारेणावश्यं क्वचिन्निवेशनीयस्य जीवस्य तेजः परदेवतयोर्मध्ये निवेशः। ननु प्राणस्तेजसीति त्रिवृत्कृततेजोरूपदेहारम्भकभूतसूक्ष्मप्राप्त्युक्त्या तदुपहितजीवसंबन्धोऽप्यवर्जनीयतया सिद्ध्येद् उपाध्युपहितयोरेकतरसंबन्धस्य तदितरसंबन्धनियतत्वात् अतो वाङ्मनसीत्यादिक्रमे पृथग्जीवः क्वचिदपि न निवेशनीय इति चेत् नायं नियमोऽस्ति देहारम्भकभूतसूक्ष्माणि जीवस्येव प्राणानामपि स्थितिगत्योरुपाधिभूतानीति प्राणगतेश्चेति (ब्र. अ. ३ पा. १ सू. ३) सूत्रे प्रतिपादितम्। न च वाङ्मनःप्राणानां पूर्वपूर्वस्योत्तरोत्तरप्राप्त्या तदुपाधिभूतसूक्ष्मप्राप्तिर्नान्तरीयकतया सिद्धा तथात्वे प्राणस्तेजसीति पृथक् तत्प्राप्तेरवक्तव्यत्वापत्तेः। तत्र यथोपहितप्राप्त्यनन्तरम् उपाधिप्राप्तिः पृथगुच्यते एवमिहोपाधिप्राप्त्यनन्तरमुपहितप्राप्तिः पृथग्वक्तुमुचितेति पूर्वपक्ष्यभिप्रायः। एवमेवेममात्मानमिति भाष्योदाहृतश्रुतिवाक्यात् प्राचीनं दृष्टान्त-वाक्यम्। तद्यथा राजानं प्रयियांसन्तम् उग्राः प्रत्येनसः सूतग्रामण्योऽ-भिसमायन्तीति। तत्रोग्राः वैश्याच्छूद्रायामुत्पन्नाः। प्रत्येनस्विनस्तस्करादीन् प्रति दण्डयितृत्वेन नियुक्ताः। सूताः क्षत्रियाद् ब्राह्मण्यामुत्पन्नाः प्रतिलोमविशेषाः। ग्रामण्यो राज्ञा ग्रामाधिकारे नियुक्ताः।
इदं दृष्टान्तवाक्यमर्थतो गृह्णात्येवंशब्दविवरणाय-
यथा यात्रायामुद्यतमिति।
ऊर्ध्वोच्छ्वासित्वमिति। ऊर्ध्वोच्छ्वासी भवतीत्यनेन ऊर्ध्वोच्छ्वासित्वमेतछब्दार्थ इति प्रदर्शितमित्यर्थः।
इत्युपगमनश्रुतेरर्थ इति।
यथा यात्रायामुद्यतमित्यादिप्रकारोऽयमुपगमनश्रुतेरर्थ इत्यर्थः। ननु उपगमनादिकं न प्राणस्य जीवे वृत्तिलयसाधकं यतः जीवोपगमनं जीवावस्थितिश्चेत्युभयमपि प्राणस्य न श्रुतं किंत्विन्द्रियाणाम्। यत्तु प्राणस्यापि श्रुतं जीवानुत्क्रमणं तद्विपरीतसाधकम्। तत्र विलीनतया तदाश्रयस्य हि सहोत्क्रमणं भवति न त्वनूत्क्रमणम्। उच्यते। वाङ्मनसि संपद्यते मनः प्राण इति वाक्याभ्यां साक्षान्मनोद्वारा च प्राणे विलीनतया सिद्धानां मनश्चक्षुरादीनां जीवाश्रयणाय जीवं प्रत्यागमनं जीवेऽवस्थितिश्च प्राणस्य जीवाश्रयाणां जीवं प्रत्यागमनं जीवेऽवस्थितिं विनाऽनुपपन्नमित्येवमिन्द्रियोपगमनावस्थित्योः प्राणोपगमनावस्थित्याक्षेपकतयोक्त-साध्यसाधकता। अनूत्क्रमणं यद्यपि न वृत्तिविलयसाधकम् तथापि तद्वचनं तत्र विलये सत्येव दृष्टं यथा प्राणमनुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति तत्सामान्यात् तमुत्क्रामन्तमिति वचनस्यापि तत्र विलयसाधकता।
तत्सहितेन्द्रियसमुदायवचन इति।
विज्ञानशब्दो भावकरणव्युत्पत्तिद्वयेन प्रारब्धकर्मफलप्रकाशस्येन्द्रियग्रामस्य च तन्त्रन्यायेन वाचक इति तत्साहित्यं जीवस्य सविज्ञान इत्येवोच्यत इति भावः।
तेजोऽध्यक्षजीवलक्षणासंभवादिति।
मार्गपर्वसु वायुवरुणादीनामिव जीवस्य पृथक् क्वचिन्निवेशो न कल्प्यते किं तूपगमनादिश्रुतिबलादवश्योपसंहार्यस्य जीवस्योपसंहारार्थं तेजःशब्दस्य तदुपहिते जीवे वृत्तिःकल्प्यते। उपाधिवाचकस्य तद्विशिष्टोपहिते गुणवाचकस्य गुणविशिष्टाश्रय इव लक्षणोपपत्तेः। तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतीत्यत्र श्रद्धाशब्दस्याप्सु लाक्षणिकस्य त्रिवृत्करणेनान्वितेषु भूतान्तरेष्वप्युपलक्षणतामुक्त्वा तदुपहितजीवपर्यन्तं लक्षणाऽङ्गीकृता इह तेजोवाचकस्यैव तत्पर्यन्तलक्षणाङ्गीकारे काऽनुपपत्तिरिति भावः।
ननु तस्य तेजोद्वारेणेति।
तेजःशब्दस्य जीवलक्षणा न युक्ता प्राणस्तेजसीत्यस्य लोकसिद्धानुवादकत्वा-भावापत्तेः। अतः प्राणस्य जीववृत्तिलय एवोपगमनादिश्रुतिसिद्धः प्राणावृत्तिलया-धारस्य तेजसो जीवे वृत्तिलयोऽस्तीत्येतदवलम्ब्यौपचारिकोऽस्त्विति भावः। यद्यपि प्राणस्य जीवे वृत्तिलयो न श्रुतः किंत्विन्द्रियोपगमादिप्रणालिकयाऽऽक्षेप्यः तथापि स एव तेजोद्वारकत्वेनामुख्योऽस्त्विति तात्पर्यम्।
व्यवधानादेवेति।
परमात्मनि खलु तेजसो लयः प्रसिद्धः स जीवात्मन्युपचर्यते चेत् साक्षाल्लय उपचर्यते व्यवहितो वा। नाद्यः। परमात्मन्यपि तेजसः साक्षाल्लयाप्रसिद्धेः। न द्वितीयः। घटादावपि परमात्मविकारे लयोपचारप्रसङ्गादित्यर्थः।
ननु तेजसो जीवे स्वरूपलयो नेष्यते किन्तु वृत्तिलयः स त्वनौपचारिक एव संभवतीत्याशङ्क्याह-
वृत्तिलयस्त्विति।
वाङ्मनसीत्यादिक्रमे तेजो जीव इति पर्वान्तरं प्रमाणान्तरसिद्धमिति कल्प्यते उतोपगमनादिश्रुतिप्रापितो जीवः क्वचिन्निवेशनीय इति कल्प्यते। नाद्यः वाङ्मनसीत्यादाविव प्रमाणान्तराभावात्। न हि प्राणव्यापारे श्वासे देहोष्मणि च निवृत्तेऽपि जीवसत्तायां तच्चिह्नानुवृत्तिरस्ति। न द्वितीयः। श्रुतस्यैव तेज:शब्दस्य तदुपहितजीवबोधकत्वोपपत्तौ क्रमिकपर्वान्तरतद्बोधकवाक्यान्तरकल्पनागौरवायोगात्। प्राणस्तेजसीत्यस्य लोकसिद्धानुवादकत्वं तु विशेषणांशसत्ताविषयतयाऽप्युपपन्नम्। विशेष्यभूतजीवांशे तु सप्तम्यर्थप्राणवृत्तिलयाधारत्वम्। इदं तु चिन्त्यते। वाङ्मनसीत्यादिश्रुतेरिन्द्रियैर्मनसि संपद्यमानैर्यच्चित्तस्तेनैव प्राणमायाति प्राणस्तेजसा युक्तः सहात्मनेति श्रुत्यन्तरानुसारेण व्याख्यानं सूत्रकारैः किमिति न कृतं तदनुसारेण हि वाङ्मनसीत्यनेन वागुपलक्षितानां बाह्येन्द्रियाणां (मनउपहिते जीवे लय उच्यत इति व्याख्येयम्। दृष्टो हि मनःशब्दस्य जीवे प्रयोगः प्राणबन्धनं हि सोम्य मन इति। (मनः प्राण इत्यनेन विलीनसकलबाह्येन्द्रियाणां) मनउपहितस्य जीवस्य प्राणप्राप्तिरुच्यत इति व्याख्येयम्। प्राणस्तेजसीत्यनेन तथाभूतस्य प्राणस्योदानयोग उच्यत इति व्याख्येयमिति। अत्रायमभिप्रायः। वाङ्मनसीत्यादिश्रुतिर्लोकसिद्धक्रमानुसारेण प्रयुक्ता तद्वैपरीत्येन प्रवृत्तिमत ऊष्मण उपशमः प्रथमं पठितः। अतः श्रुत्यन्तरमेवान्यथा व्याख्येयम्। (यच्चित्तस्तेनैव प्राणमायातीत्यनेन क्षीणसकलेन्द्रियवृत्तिर्भोक्तव्यफलस्फुरणमात्रयुक्तः प्राणव्यापार-मात्राविशेषस्तिष्ठतीत्युच्यते न तु प्राणाधिकरणकवृत्तिलयं) प्राप्नोतीत्युच्यत इति। श्रुत्यन्तरे तेजः शब्दस्तु पूर्वसंदर्भानुसारेणोदानपरः इह तु लोकसिद्धक्रमानुवादेन त्रिवृत्कृततेजः परतैव तस्योचितेति ॥४॥
ननु चेयं श्रुतिरित्यादिभाष्यस्य तेजःसहचरितानीत्यादिटीकाग्रन्थेन दर्शितेऽर्थे तस्य भाष्यटीकासूचितां योजनां दर्शयति-
प्राणेनाधारत्वेनेति।
अत्र प्राणस्याधारेण जीवेन संपर्कस्तेजःशब्दोपलक्षितभूतसंबन्धात् प्राचीनो न निषेध्यत्वेनानूद्यते अधिकावापस्यानभिमतत्वात् किन्तु भूतप्राप्तिसमयभावित्वेन सिद्धान्ताभिमतोऽनूद्यते। श्रुतिर्दर्शयतीति भाष्यस्यानेनान्वये सति न दर्शयतीति लभ्यते तेजस इति भूतमात्रस्य प्राप्यत्वं निर्दिश्यत इति जीवपर्यन्तलक्षणामन-पेक्ष्येदमुक्तम्। तदपेक्षायां तु जीवस्यापि प्राप्यत्वं निर्दिश्यत एव ॥५॥
हेतुप्रतिज्ञयोरिति।
सूक्ष्मविषये खलु तेजोमात्रं वा भूतपञ्चकं वेति विवादः। तत्र कार्यस्य स्थूलशरीरस्यानेकात्मकत्वोक्तिर्व्यधिकरणेति शङ्कार्थः ॥६॥
इति तृतीयमध्यक्षाधिकरणम् ॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥
अत्राधिकरण विषयभूतेति।
इहाऽमृतत्वफलश्रवणेन सगुणविदामुत्क्रान्त्यभावः शङ्क्यतेऽमृतत्वफलं च सगुणविद्यासु दहरविद्यायां श्रूयते। अतो दहरविद्याधिकरणविषय इति भावः। यदि विद्ययाऽमृतमश्नुत इति श्रुतिः सकलसगुणविद्यासाधारणी तदा तत्र दहरविद्याग्रहणं सगुणविद्यान्तराणामप्युपलक्षणं द्रष्टव्यम्।
ननु दहरविद्यायां तयोर्ध्वमायन् अमृतत्वमेतीत्यत्रामृतत्वफलं श्रूयते तत्रैवोत्क्रान्तावपि श्रूयमाणायां कथं तदभावेन पूर्वपक्ष इत्याशङ्क्य न वास्तवोऽयं पूर्वपक्ष इति टीकायामेव द्योतितमित्याह-
तयोर्ध्वमिति।
ननु न तु विदुषः सकाशादित्यादिना व्याघातो भवेदित्यन्तेन टीकाग्रन्थेन विदुषः सकाशादविदुषां विशेषवत्वोत्क्रान्तिर्न विधीयते तथा सति विद्याप्रकरणव्याघातः स्यादित्युच्यते अयं प्रसक्तप्रतिषेधः विद्याप्रकरणाद् विदुषः खलूत्क्रान्तिशङ्का प्रवृत्ता अत आह-
येन हेतुनेति।
विद्याप्रकरणे स्वापादिवदुत्क्रान्तेरप्यनुवाद एव न विधानमित्युक्त्यनन्तरं विधानं किं न स्यादित्याशङ्कायां किमविदुषो विधानं विदुषो वेति विकल्पं मनसि निधायाद्यविकल्पः प्रकरणविरोधेन टीकायां निरस्तः। अमृतत्वफलविरोधेन द्वितीयविकल्पनिरासः स्पष्ट इति तत्र कण्ठतो न कृत इति भावः। यद्यपि वाङ्मनसि संपद्यत इत्यादिश्रुतिर्न सगुणविद्याप्रकरणास्नाता तथापि सगुणनिर्गुणविद्या-विशेषाविवेचनेन तामवलम्ब्य सगुणविदामुत्क्रान्तिप्रतिपादनमाशङ्कितं स्वापादिव-त्साधारण्येन प्राप्ताया उत्क्रान्तेरनुकीर्तनमिति परिहारश्च कृतः। अस्य फलं प्रतिषेधादिति चे (ब्र. अ. ४ पा. २ सू. १२) दित्यधिकरणसिद्धान्ते द्रष्टव्यम्।
सगुणब्रह्मप्राप्तिमात्रस्येति।
गतिश्रुतिबलात् लोकविशेषे तत्प्राप्तिरेव फलपर्यन्तेति भावः ॥७॥
इति चतुर्थमासृत्युपक्रमाधिकरणम् ॥
तदाऽऽपीतेः संसारव्यपदेशात् ॥८॥
स एवाद्यापि न सिद्ध इति।
ननु सुषुप्तस्य सत्संपत्तिः सावशेषेति स एव तु कर्मानुस्मृतिशब्दविधिभ्यः (ब्र. अ. ३ पा. २ सू. ९) इत्यधिकरणे विद्याकर्मविध्यन्यथानुपपत्त्या समर्थितम् स न्याय इहापि तुल्यः कथमद्यापि न सिद्ध इत्युक्तम्। उच्यते। सुप्त एव प्रबुध्यत इत्यत्र कर्मानुस्मृतिशब्दाः सन्त्यनन्यथासिद्धा हेतवः इह तु विधिमात्रं तत्र कर्मविधीनाम् अविद्वद्विषयत्वेन चारितार्थ्यं स्पष्टम्। विद्याविधयस्तु द्विविधा अर्चिरादिप्राप्यब्राह्मलौकिकफलभोगश्रुतिमन्तस्तद्रहिताश्च। तत्राद्येषु निरवशेषतया-संभवेऽपि द्वितीयेषु संभवतीति तद्विषयत्वेन निरवशेषलयप्रतिपादकत्वसमर्थनसंभवे किमर्थं सावशेषलयप्रतिपादकत्वं कल्प्यम्। ननु परदेवतासंपत्तिवचनस्य ब्रह्मविद्विषयत्वे प्रकरणान्निर्गुणब्रह्मविद्याविषयता स्यात् तद्देहारम्भकभूतानां निरवशेष-संपत्तिरिष्टैव कलाप्रलयाधिकरणे तथा वक्ष्यमाणत्वात्। तथा च पूर्वपक्ष: सिद्धान्त्यनिष्टार्थविषयो न स्यादिति चेन्न। निर्गुणब्रह्मविदो मिथ्याज्ञानोपनीतवाङ्मनः प्रभृतिलयस्य स्वप्नप्रपञ्चविलयवद्यौगपद्येन वाङ्मनसीत्यादिकस्य निर्गुणप्रकरण-पठितस्यापि लक्षणादिवत्संभवात् सगुणविद्यान्वयकल्पनात्। एवं चानियमः सर्वेषा (ब्र. अ. ३ पा. ३ सू. ३१) मित्यत्रार्चिरादिगतेः सकलगुणविद्यासाधारण्यं यदुक्तं तस्यायमाक्षेपः ये चेमेऽरण्ये इत्यादि वचनं श्रुतब्राह्मलौकिकफलोपभोगविद्या-मात्रविषयमस्त्विति। यच्च पूर्वाधिकरणे सकलगुणविद्यासाधारण्येनोत्क्रान्तिसमर्थनं तस्याप्याक्षेप इति पूर्वाधिकरणसङ्गतिः।
अनेन प्राचामप्यधिकरणानामिति।
तेष्वधिकरणेषु वागादीनां मनःप्रभृतिषु यः स्वरूपलयपूर्वपक्षस्तस्य चेदं प्रयोजनं यत्सगुणविद्यासु काश्चित् मुक्तिफलाः काश्चिद् ब्रह्मलोकावाप्तिफला इति विभागः। न च सगुणविद्यायां मुक्त्यनुपपत्तिः। ब्रह्मलोकप्राप्तिपर्यन्तासु क्रममुक्ति-फलासु ब्रह्मलोके हिरण्यगर्भादिव प्रकृताधिकरणविषयभूतासु सगुणविद्यासु देहवियोगकाले साक्षात्कृतात् सगुणब्रह्मणो निर्गुणविद्योपदेशलाभेन तदुपपत्तेः।
सगुणविद्यायामनुचिन्तनार्थमिति।
यद्यपि वागादिवृत्तिलयेऽप्येतत्प्रयोजनं वक्तुं शक्यम् तथाप्येतदेव प्रयोजनं प्राणस्याध्यक्षे वृत्तिलयनिरूपणस्य। तेषां त्वन्यदपि प्रयोजनमस्तीति भावः। अत्रायं सिद्धान्तः। सत्यमुपासत इति सामान्यश्रुत्या सकलसगुणविद्यानाम् अर्च्चिरादिगतिसिद्धौ तेजः परस्यामित्यस्य सगुणविद्याविशेषेषु निरवशेषलयपरत्वं कल्पयितुं न युक्तम् तत्कल्पनाया विलम्बितत्वात्। तथापि सत्यमुपासत इति सामान्यश्रुतिः सर्वान् सगुणविद्याविशेषान् शीघ्रमाक्रामति तेजः परस्यामित्यस्य निरवशेषलयपरत्वमेव तावच्छब्दसामर्थ्येन न प्राप्तम् प्रत्युत वाङ्मनसीत्यादिप्रक्रमात् सावशेषलयपरत्वप्राप्तौ प्रकृतिलयत्वलिङ्गेन प्रायपाठमुपमृद्य कल्पनीयम्। ततश्च वाङ्मनसीत्यादेर्निर्गुणविद्यायामनन्वयान्निरवशेषभूतलयस्य मुमूर्षुसामान्यानन्वयाच्च सगुणविद्यासु काश्चित्परिहृत्य कासुचिदुत्कर्षःकल्पनीयः। अतः शीघ्रप्रवृत्तिकोदाहृत-सामान्यश्रुत्यसङ्कोचाय यथाकर्म यथाश्रुतमित्यादिसामान्यश्रुतिसङ्कोचाय च सौषुप्तिकलयश्रुतेरिव प्रकृतिलयत्वलिङ्गं बाधित्वा सावशेषलयपरत्वं कल्पयितुं युक्तम्। तथासति वाङ्मनसीत्यारभ्य प्रतीतं सकलोत्क्रममाणसाधारण्यमपि न त्यक्तं भवति। पूर्वाधिकरणोक्तप्रकारेण सुषुप्त्यादिकीर्तनवदुत्क्रान्तिक्रमकीर्तनस्यापि तत्त्वमसिप्रतिपादनशेषतया प्रकरणान्वयात् तत उत्कर्षोऽपि न कल्पितो भवतीति। एकस्य संपद्यत इत्यस्य वाक्यस्य चतुष्टयान्वयिनो वाक्यत्रये वृत्तिलयपरत्वं चतुर्थवाक्ये स्वरूपलयपरत्वमिति वैरूप्यं च परिहृतं भवति ॥८॥
रूपवदिति।
हेतुगर्भविशेषणमिति। अनेन रूपवत्त्वं हेत्वोः प्रविष्टमिति दर्शितम्। उपलब्धव्यमिति प्रतिहन्येतेति चोक्त्या तर्करूपमिदमनुमानद्वयमिति सूचितम्। यदि महत्त्वे सति रूपवद्बहुद्रव्यारब्धत्वे सति रूपवच्च सूक्ष्मशरीरं यदि देहान्निर्गच्छेत्तदा चक्षुः स्पर्शनाभ्यामुपलभ्येत मूर्तान्तरैश्च प्रतिहन्येतेति तर्कशरीरम्। प्रभा तेजसो रूपं तदनुमेयं तदाश्रयद्रव्यमिति मतावलम्बनादाद्यतर्कस्य न प्रभायां व्यभिचारः। प्रभाद्रव्यं चाक्षुषमिति पक्षे तु चक्षुषोपलभ्येतेत्येवापाद्यं प्रतिहननयोग्यत्वं द्वितीयमापाद्यन्तेन गतिप्रतिपत्तिकसूत्रान्तरसंबन्धरहितोत्पन्नविनष्टे न व्यभिचारः।
महत्त्वबहुद्रव्यारब्धत्वाभ्यामिति
प्रथमसाध्याभिप्रायेण द्वितीयं तु तयोरस्त्येव कुड्याद्यावृते तयोरप्यप्रवेशात्। तत्र मूर्त्तत्वमात्रमेव साधनं पर्याप्तम्।
एतत्सूत्राकाङ्क्षार्थमिति।
आपीतरवतिष्ठते चेति चकारस्य प्रथमसूत्रेणाप्यन्वये सति सूक्ष्मशरीरविषये अन्यदपि किंचिद्वक्तव्यमस्तीति तेन द्योतनात्किं वक्तव्यमित्याकाङ्क्षोदेतीति भावः। अनेन पूर्वसूत्रस्य स्वरसत एतत्सूत्राकाङ्क्षा नास्ति सूक्ष्मशरीरस्य देहान्निर्गमने तत्पार्श्वस्थैरुपलभ्यत इति प्रतिहतं नैतच्चेति शङ्कायास्तुच्छत्वात्। अविदुषामिव विदुषामपि पार्श्वस्थैरनुपलभ्यमानस्यैव तस्य नयनमरीचिवन्निर्गमनोपपत्तेः स्पष्टत्वात्। नयनमरीचेः काचाभ्रपटलत्वादिभिः कैश्चिदिव सूक्ष्मशरीरस्य सर्वैरप्यप्रतिघातस्या-विद्वद्विषयेऽवश्यवक्तव्यत्वाच्च। एवं च स्वारसिकाकाङ्क्षासंपादनार्थमेव स्वरूपतः प्रमाणतश्चेति स्वस्थान एव स्वरूपसमुच्चयार्थत्वेन प्रतिष्ठितस्य भिन्नक्रमतयाऽप्यन्वयो दर्शितः।
ननु चक्षुष्यनैकान्तिकत्वमाहेत्युक्तं टीकायां कथं चाक्षुषशब्द: न तु चक्षुरेव चक्षुः संबन्धीत्यतो व्याचष्टे-
यथा चाक्षुषस्येति।
चक्षुरुपादानं तेजः चक्षुःसंबन्धाच्चाक्षुषमित्युकं पृथिवीद्व्यणुकसमवायिकारणं परमाणुः पार्थिवपरमाणुरिति।
लिङ्गशरीस्येति शेष इति।
परिमाणतः सूक्ष्ममिति पाठे लिङ्गशरीरमिति शेषः ॥९॥
अस्वच्छत्वमुपाधिमिति।
यावन्मूर्त्तप्रतिहननीयत्वं साध्यं तेन काचाभ्रपटलाद्यप्रतिहननीये नयननिरा-करणादौ न साध्याव्याप्तिः। नोपमृद्यत इति शेष इति टीकावाक्यस्य भाष्यस्थशब्देन पूरणं कृतं सूत्रे उपपत्तिशब्दो न सूक्ष्मपरो व्याख्येयः भाष्यकारैरूष्मिमप्रत्यक्षस्य सूक्ष्मशरीरे प्रमाणतयोपन्यस्तत्वात्। न च तस्य स्थूलदेहातिरिक्तविषयत्वे युक्तिरपि तैरुपन्यस्तेति वाच्यम्। प्रत्यक्षस्य विषयपरि-शोधने खलु सा युक्तिः न तु प्रत्यक्षविषयेऽतो यथा व्यक्तीनां परस्परव्यावृत्तत्वेना-नुगतप्रत्ययविषयत्वं नोपपद्यत इति युक्त्या परिशोधितविषयं अनुगतपक्षमेव व्यावृत्तव्यक्त्यतिरिक्तानुवृत्तसामान्यसद्भावे प्रमाणं एवमिहाप्यनुवृत्तदेहविषयत्वा-नुपपत्तियुक्त्या परिशोधितविषयं व्यावृत्तोष्मिमप्रत्यक्षमेव तदाश्रयद्रव्यस्यापि ग्राहकं स्थूलदेहातिरिक्तसूक्ष्मदेहे प्रमाणं न युक्तिरित्यभिसंधिमता टीकाकृता उपपत्तिः प्राप्तिरिति व्याख्यातम्।
तत्रापि ग्रामप्राप्त्यादिवदिह कस्यचित्प्राप्तिर्न दृश्यत इत्यनुपपत्तिं दृष्ट्वा व्याचष्टे-
प्राप्तिर्लाभ इति।
लाभोऽत्र सद्भावावगमः अनेनायमर्थो लभ्यत इत्यादौ तत्र प्रयोगात्। तथा च स्थूलदेहातिरिक्तसूक्ष्मदेहस्यैवायमूष्मा स्थूलदेहव्यावृत्तोष्मिमप्रत्यक्षेण तत्सद्भावा-वगमादिति सूत्रार्थ इति तात्पर्य्यम्। उपपत्तिशब्देन प्रत्यक्षविषयपरिशोधक-युक्तिग्रहणेऽपि न दोषः तस्यापि सूक्ष्मशरीरसिद्धौ परंपरयोपयोगाद् भाष्यस्वारस्याच्च। श्रुतं कर्णेपि धारय श्रवणमिति। इदं भाष्यं स्पष्टमिति टीकोक्तमिति गृहीतम्। (इदं स्पार्शनप्रत्यक्षमिव मृतशरीरे देहोष्मापगमानन्तरं कर्णपिधाने तदीयस्य परकीयस्य वा शब्दभावप्रत्यक्षस्याभावात् किन्तु) जीवदवस्थायां तदीयेन केवलभावप्रत्यक्षेण कर्णपिधानापेक्षासामर्थ्यलब्धान्तरविषयेण स्थूलशरीरातिरिक्तसूक्ष्मदेहसिद्धिर्विवक्षिता। ज्योतिरधिकरणे (ब्र. अ. २ पा. ४ सू. १४) पिहितकर्णपुटेन श्रूयमाण आन्तरः शब्दो जाठराग्निरित्युक्तम् इह तु जाठराग्निरपि सूक्ष्मदेहानुप्रविष्ट इत्येवमुक्तं तदनन्तरप्रतिपत्त्यधिकरण (ब्र. अ. ३ पा. १ सू. १) दर्शितश्रुतिन्यायसिद्धेः सूक्ष्मशरीरे प्रसङ्गादिह प्रमाणान्तरमप्यस्तीति दर्शितम् ॥११॥
इति पञ्चमं संसारव्यपदेशाधिकरणम् ॥
प्रतिषेधादिति चेन्न शारीरात् ॥१२॥
प्राणोपलक्षितसूक्ष्मशरीरस्येति पदं बहुव्रीहिणा जीवात्मविशेषणमिति दर्शयति-
सूक्ष्मं शरीरं यस्येति।
प्राणोत्क्रान्त्यनुत्क्रान्तिविचारः प्राणोपलक्षितसूक्ष्मशरीरोपहितजीवविषयः पर्य्यवस्यतीति भावः।
सिद्धान्त इत्यर्थ इति।
यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः क्रामन्त्याहो नेति पृष्टयोः पक्षयोर्नेति होवाचेति यो वक्तव्यः सिद्धान्तस्तस्मिन्नित्यर्थः ॥१२॥
संसारिण एवेत्ययुक्तं प्रश्नप्रतिवचनयोर्विद्वद्विषयत्वस्य सिद्धान्यभिमतत्वादित्याशङ्क्य विदुषो हिरण्यगर्भलोकप्राप्त्यनन्तरं मुक्तिरिति पूर्वपक्षनिराकरणार्थं विदुष एव संसारमण्डलवर्तित्वावस्थाप्रदर्शनार्थं तद्विशेषणमिति व्याचष्टे –
यदुक्तमित्यादिना।
ननु एवमप्यस्त्वविदुष इति टीकाग्रन्थेनार्त्तभागप्रश्नोत्तरे वर्ण्यमानानुत्क्रान्तिर-विद्वद्विषयेत्याशङ्क्य इयमाशङ्का पूर्वपक्षिणो न युक्ता। स ह्यविदुष इव विदुषोऽप्युत्क्रान्तिरस्तीति मन्यते अतस्तटस्थशङ्केयमिति व्याचष्टे–
मध्ये कश्चिदिति।
ब्रह्मविदुत्क्रान्तिसिद्धेस्त्वत्पक्षासिद्धिरिति ब्रह्मविदोऽनुत्क्रान्तावार्त्तभागप्रश्नोत्तरं खलु प्रमाणमिति सिद्धान्तिनोपन्यस्तं तच्चेदन्यविषयं भवेत् तदा न सिद्धान्त्यभिमतसिद्धिरिति तावता सन्तुष्टस्य तटस्थस्येयमाशङ्केति भावः। यदि पूर्वपक्षिण एवेयमाशङ्का तदैवमभिप्रायो वर्णनीयः। यत्रायं पुरुषो म्रियते इत्याद्यार्त्तभागप्रश्नोऽयमविद्वद्विषय एव उत्तरसन्दर्भे यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशाः अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्यार्तभागप्रश्ने याज्ञवल्क्येनार्त्तभागेन च रहसि संमन्त्रणेन पुण्यपापरूपं कर्म तदाश्रयत्वेन निश्चितमिति प्रतिपादनात्। तत्र हि श्रूयते तौ होत्क्रम्य मन्त्रयांचक्राते तौ ह यदूचतुः कर्म हैव तदूचतुः। अथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः। पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति। तस्मादार्तभागप्रश्नेऽपि शरीरादुत्क्रान्तिर्न्न प्रतिषिध्यते। अविदुषस्तदवश्यंभावात् किन्तु शरीरादेवेति।
मृत्युमृत्योः परदेवतायाः प्रस्तुतत्वादिति।
ननु तत्राग्निर्वै मृत्युः सोऽपामन्नमिति तदनन्तरवाक्ये सर्वदाहकोऽग्निर्मृत्युः तदुपशान्तिकारणान्यापो मृत्युमृत्युरिति श्रुत्यैव विवरणं कृतं अतस्तत्र न परा देवता प्रकृतेति चेद् उच्यते। इन्द्रियतद्विषयेषु भूतग्रहवद् गृहीत्वा संसारिणां बन्धकत्वतदुत्कर्षाभ्यां ग्रहातिग्रहशब्दितेषु याज्ञवल्क्येन वर्णितेषु पुनरार्त्तभागस्य यः प्रश्नः यदिदं सर्वं मृत्योरन्नं कास्वित्सा देवता यस्या मृत्युरन्नमिति न तस्याग्निविनाशिका आपो विषयः पूर्वप्रश्नप्रस्तुतानुबन्धेनोत्तरोत्तरप्रश्नप्रवृत्तेः प्रकरणे दर्शनात् किन्तु सर्वमिदं जीवजातं ग्रहातिग्रहलक्षणस्य मृत्योरन्नं भवति तस्य मृत्युभूता देवता कतमेति संसारबन्धोच्छेदिका देवता प्रश्नस्य विषयः सा मृत्युर्यस्योपसेचनमिति श्रुत्यन्तरप्रसिद्धा परदेवतेत्युत्तरमभिप्रेत्य मृत्योरपि मृत्युसद्भावसंभावनार्थं अग्निर्वै मृत्युः सोऽपामन्नमिति दृष्टान्तः प्रदर्शितः। तस्माद्विद्वद्विषयमेव पूर्ववाक्यमिति तदनुसारेणोत्तरवाक्यमपि विदुष एवोत्क्रान्तिप्रतिषेधकम्। न च यत्रास्य पुरुषस्येति तदनन्तरवाक्यस्या-विद्वद्विषयत्वाद् अस्यापि तद्विषयत्वं शङ्कनीयम्। अविद्वद्विषयस्य प्रसञ्जकान्तरेण प्राप्तेः। तथा हि। विदुषः प्राणानामनुत्क्रमणे तेषामत्रैव विलये च वर्णिते विदुषः प्राण एव विलीयते उत तत्प्रयोजकमपीति भावेन यत्रायं पुरुषो म्रियते किमेनं न जहातीति पृष्टे नामेत्याहेतीति नाममात्रमवशिष्यते तत्प्रयोजकमपि विलीयते अन्यथा मोक्षानुपपत्तेरित्युत्तरमुक्तमिति श्रुत्या प्रदर्शितं तत्प्रसङ्गात्तत्प्रयोजकमेव किं तत्र हि कालस्वभावनियतियदृच्छादिविषयो महान्विवादोऽस्तीत्यभिप्रायेण यत्रास्य पुरुषस्येत्यादिः क्कायं तदा पुरुषो भवतीत्यन्तः प्रश्नः बहुविवादविषयस्य महाजनसमक्षं निर्णयो मा भूदिति रहसि तदुत्तरकथनं च अतो नोत्तरप्रश्नस्या-विद्वद्विषयतामात्रेणास्य प्रश्नस्योपक्रमावगतं विद्वद्विषयत्वमपैतीति विद्वद्विषयमेवो-त्कान्तिप्रतिषेधवाक्यम्। ननु अस्त्वेवं तथापि न तस्मात्प्राणा उत्क्रामन्तीति वाक्य इवोदस्मात्प्राणाः क्रामन्तीति वाक्येऽपि विद्वज्जीवापादानकस्यैवोत्क्रमणस्य प्रतिषेधः न तच्छरीरापादानकस्य यत्रायं पुरुषो म्रियत इत्यत्रायं पुरुष इत्यस्य अपपुनर्मृत्युं जयतीति पूर्ववाक्यान्तप्रस्तुतविद्वज्जीवविषयत्वात् तदनुसारेणास्मात्प्राणा इति वाक्येऽपि अस्मादित्यस्य तद्विषयत्वात्तच्छरीरविषयतायां तदभेदोपचारकल्पनापत्तेः। ननु उत्क्रान्त्यभावे मृतो न स्यादिति शङ्कानिवारणार्थं मृतचिह्नप्रदर्शनेन मृतत्वोपपादनाय प्रवृत्ते उच्छ्वयतीति समनन्तरवाक्ये दृतिवद्वायुना पूरणमुच्छ्वयनं च शरीरधर्मः कीर्त्यत इति चेद् भवतु तावता तत्र स इत्यस्य शरीर्यभेदोपचारः शरीरे न त्वग्रिमानुपपत्तिपरिहारार्थं प्रथममेव तथोपचारः कल्पनीयः। उच्यते। यद्युदस्मादित्यादिवाक्यस्य जीवान्नोत्क्रामन्ति प्राणा जीवं विहाय तेन सहैव गच्छन्तीत्यर्थः कल्प्यते तदा किमेनं (न जहतीत्यग्रिमप्रश्नोप्यनुपपन्नः स्यात् प्राणा विद्वांसं जहतीत्यर्थाङ्गीकारे किमेनं) न जहातीति प्रश्न उपपद्यते अतोग्रिमप्रश्नस्याप्युपपत्त्यर्थं अस्मादित्यस्य शरीरसंबन्धेन शरीरे लक्षणा कल्पयितुमुचिता न तु समुच्छ्वयतीत्यत्र स इत्यस्य। एवं च तदानीमसता शरीरसंबन्धेन सन्निकृष्टां लक्षणां परिगृह्य तदानीमसता तेन विप्रकृष्टा लक्षणा च परित्यक्ता भवति। किं च यत्र शरीरे स्थितोऽयं पुरुषो म्रियते अस्मादित्येवं यच्छब्दनिर्दिष्टशरीरप्रत्यवमर्शकत्वकल्पनायाम् अस्मादित्यस्य शरीरे मुख्यावृत्तिरपि लभ्यते तस्मादार्त्तभागप्रश्नो विदुषः प्राणोत्क्रान्तिप्रतिषेधार्थ इति तत्साम्याद् न तस्मादिति वाक्यान्तरस्यापि तादर्थ्यमङ्गीकर्तव्यमिति युक्तमेव।
तदेतत्सर्वमभिप्रेत्योक्तम्-
उत्क्रान्त्यवधेरुच्छ्वयनादिनिर्देशस्यान्यथानेतुमशक्यत्वादिति।
अपि च द्वयेनेति।
नन्वाद्येनापिचेति ग्रन्थेन पूर्वपक्षे प्रसक्तप्रतिषेधतोक्ता सा न युक्ता तस्य तावदेव चिरमिति देहान्त एव ब्रह्मप्राप्तिप्रतिपादिकया श्रुत्या प्रसक्तिसंभवादिति चेद् न। तया हि जीवं विहाय जीवादूर्ध्वगमनरूपोत्क्रान्तिर्न प्रसज्यते किन्तु प्रविलयेन जीवप्रहाणमेव। अतोऽप्रसक्तप्रतिषेधत्वापत्तिदूषणमपि युक्तमेव ॥१३॥१४॥
इति षष्ठं प्रतिषेधाधिकरणम् ॥
तानि परे तथाह्याह ॥१५॥ प्रतिष्ठाविलयनश्रुती इति स्थाने प्रतिष्ठयोरवान्तरप्रकृतिमाह प्रकृत्योर्लिङ्गशरीर-विलयनश्रुती इति क्वचित्पाठः। तत्राप्यर्थतो न भेदः। यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्तीति दृष्टान्तवाक्यार्थानुत्क्रमणपूर्वकम् एवं शब्दार्थमाह-
यथा नद्य इति।
शक्यात्मके अपि भिद्येते इति।
नामरूपविलयमात्रस्य नदीसमुद्रदृष्टान्तवाक्यार्थानुमतिपूर्वकास्तगमनोक्त्या नामरूपविलयसिद्धेर्भिद्येते इत्यादिवाक्यं तयोर्निरवशेषलयप्रतिपादनार्थमिति भावः। भिद्येते इत्यादिश्रुतिवाक्यमविभागो वचनादित्युत्तराधिकरणे भाष्यकारैर्लिखितम् इह तद्व्याख्यानग्रन्थः काकपदव्यत्यासाद् भ्रान्त्या प्रमादेन वा लेखकैर्लिखितः। यद्वा अस्तं गच्छन्तीत्यन्तश्रुतिवाक्यस्यात्र व्याख्येयत्वाद् भिद्येते इत्यादिवाक्यस्य श्रुतिपाठे तदनन्तरवाक्यत्वादग्रिमाधिकरणोदाहृतमपि तद्वाक्यं पूर्ववाक्येनैकवाक्यता-प्रदर्शनार्थमिहैव व्याख्यातम् ॥१५॥
इति सप्तमं वागादिलयाधिकरणम् ॥
अविभागो वचनात् ॥१६॥
श्रुतिविरोधेनेति।
सति श्रुतिविरोधे लयत्वे हेतुना सावशेषत्वानुमानं नोत्तिष्ठति। न च अस्तं गच्छन्तीति श्रुतिवाक्यमपि सावशेषलयपरं स्यादिति वाच्यम्। भिद्येते इत्यादिवाक्यशेषेणाशक्त्यवशेषशङ्कानिरासादिति भावः ॥१६॥
इत्यष्टममविभागाधिकरणम् ॥
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगतानुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥१७॥
कथं तया ब्रह्मलोकप्राप्तिरिति।
यद्यप्यर्चिर्लोकमारभ्याऽऽतिवाहिकाःसन्ति तथापि तावत्पर्यन्तमपि मूर्धन्यनाडी न व्याप्नोतीति भावः।
आसु नाडीषु सृप्ता इति श्रुतिसिद्धत्वादिति।
यद्यप्यासु नाडीषु सृप्ता इत्यादिश्रुतिर्महापथस्य ग्रामद्वयसंबन्धवदादित्यरश्मीनां हृदयनाडीभिर्मण्डलेन च संबन्धमात्रं वदति न तु ब्रह्मनाड्या मण्डलानुप्रवेशं तथापि ब्रह्मनाड्या स्वानुप्रविष्टरश्मिद्वारा मण्डलसंबन्ध एव टीकायां मण्डलानुप्रवेशो विवक्षित इति तात्पर्यम्।
विष्वङ् नानागतय इति।
अन्या हृदयस्य नाड्यस्तिर्यङ्मुखत्वाधोमुखत्वादिप्रकारेण नानागतयः सत्यः उत्क्रमणकार्यमात्रे प्रभवन्ति नामृतत्वफले उपयुज्यन्त इत्यर्थः। अनेन चक्षुष्टो वा मूर्ध्नो वेत्यादिश्रुत्या निष्क्रमणे हृदयनाडीनामनियमेन द्वारत्वप्राप्तावमृतत्व-फलभोगार्थनिष्क्रमणे ब्रह्मनाडी तदितरनिष्क्रमणे नाड्यन्तराणि च श्रुत्या नियम्यन्त इति दर्शितं भवति। नाड्यन्तराणि तत्तत्कर्मफलभोगार्थत्वे भारतादिषु नियमितानि द्रष्टव्यानि। नाडीनां दुर्विवेचत्वेऽपि जीवस्य तत्तन्नाडीविशेषाननुप्रविश्य निष्क्रमणं विद्याकर्मसामर्थ्याद्यधीनम् इह प्रकृतोपयोगाद् विद्यासामर्थ्यादिमात्रं सूत्रे दर्शितम्। तत्र हार्दानुगृहीत इति हृद्यभिव्यक्तेन स्वोपासितेन परमेश्वरेणानुगृहीत इत्येतत्परं टीकायां विशिष्य हार्दविद्याग्रहणं विद्यान्तराणामप्युपलक्षणम् ॥१७॥
इति नवमं तदोकोऽधिकरणम् ॥
रश्म्यनुसारी ॥१८॥
ग्रीष्मे दिवा सौरातपौष्ण्यप्रकर्षाद्रात्रावूष्मदर्शनेन सूर्यरश्मीनामेव स ऊष्मेत्यवसीयत इवि भावः।
अम्मयेति।
चन्द्रमण्डलस्य जलमयत्वं सलिलमये शशिनि रवेर्दीधितयो मूर्च्छिताः प्रतिफलन्तीत्यादिज्योति: शास्त्रवचनसिद्धम्। यदि विद्याफलं नियतमेतैरेव रश्मिभिरिति श्रुतिप्राप्तो रश्मिनियमस्त्यक्तव्यः। न च रश्मिनियम आद्रियते विद्याफलनियमस्त्यक्तव्यः रात्रिमरणे विद्याफलप्रापकरश्म्यभावात्। अथ नियमद्वयमप्याद्रियते तदा रात्रौ मृतस्याहरागमप्रतीक्षणात् स यावत् क्षिप्येदिति त्वरावचनपरित्यागः रात्रावेव देहनाड्याऽनुप्रविष्टरश्मिद्वारा विद्याफलप्राप्तिर्न संभवतीति रश्मिविद्याफलनियमयोरन्यतरपरित्याग इत्येषा सर्वापि शङ्का रात्रौ रश्मिसद्भावसमर्थनेन निरस्ता ॥१८॥१९॥
इति दशमं रश्म्यधिकरणम् ॥
अतश्चायनेऽपि दक्षिणे ॥२०॥
द्वितीयाबहुवचनमिति।
ग्राहयतेर्द्विकर्मकत्वादिति भावः।
ज्योतिरादित्यदेवतेति।
श्रुतावहरादिभ्यः पश्चादादित्यदेवता तदनुसारेण स्मृतौ पाठक्रमो नादर्तव्य इति भावः।
निर्गुणेति।
निर्गुणः सत्वरजस्तमोरहितः पुरुषः सांख्योक्तपुरुषः तस्य प्राकृताद् बुद्ध्यादेर्यो विवेकः सांख्योक्तः यश्च योगश्चित्तवृत्तिनिरोध इति योगशास्त्रोक्तो योगः तद्विषयत्वेनेत्यर्थः ॥२०॥२१॥
इत्येकादशं दक्षिणायनाधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग- राजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ वेदान्तकल्पतरुपरिमले चतुर्थस्याध्यायस्य द्वितीयः पादः ॥ ॥
इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः ॥
चतुर्थाऽध्याये तृतीयः पादः ॥ अर्चिरादिना तत्प्रथितेः ॥१॥ भिन्नप्रकरणस्थत्वादिति श्लोकप्रतीकमुपादाय व्याचष्टे-
मार्गा अर्चिरादय इति।
आद्यहेतुमेकविद्याविषयत्वेन योजयति-
कुतः यत्र विद्यैक्येऽपीति।
द्वितीयादिहेतून्विद्याभेदविषयत्वेन योजयति-
विद्याहेतुभेदे त्विति।
त्वरां विवृणोति-
स यावत् क्षिप्येदिति।
गुणानां प्रधानेन समुच्चयोपपत्तेरिति। गुणानुरोधेन प्रधानभेदकल्पना न युक्तेति भावः।
अपिशब्दो न सङ्गच्छेतेति।
अपिशब्दस्य युक्त्यन्तरत्वद्योतकत्वादिति भावः ॥१॥
इति प्रथममर्चिराद्यधिकरणम् ॥
वायुमब्दादविशेषविशेषाभ्याम् ॥२॥
पाठक्रमाक्रमाभ्यामिति।
ननु पाठक्रमश्रुतिक्रमाभ्यामिति वक्तव्यं तेनेति तृतीयाश्रुतेः पौर्वापर्य्यगर्भकरणत्ववाचिन्याः पौर्वापर्य्यरूपे क्रमेऽपि श्रुतत्वात् तथैव सिद्धान्ते वक्ष्यमाणत्वादिति चेत् सत्यम्। सिद्धान्तेऽर्थक्रमं वदतामन्येषां व्याख्यातृणामेवं भावः। तेन स ऊर्ध्वमाक्रमत इत्यत्र ऊर्ध्वादित्यलोकशब्दयोर्विशेषणविशेष्य-भावेनैकार्थत्वं न वक्तव्यम्। वाय्वादित्यलोकयोर्मध्ये गन्तव्यान्तरालदेशसत्त्वेन ऊर्ध्वशब्दस्य तद्विषयत्वसंभवात्। किं चातिवाहिकदेवतानामातिवाहिकदेवतान्तर-युक्तलोकान्तरपर्यन्तनेतृत्वस्य वक्तव्यत्वाद्वायुदत्तछिद्रस्योर्ध्वक्रमणत्वोक्त्या तदनन्तर-प्राप्त्याऽऽदित्यलोकगमनं प्रत्यपि करणत्वमर्थात्सिध्यति। अतः सिद्धान्ते आर्थ एव क्रमो न श्रौत इति अर्चिरात्मकाग्न्याद्यानन्तर्य्यप्रत्यभिज्ञानादिति शङ्कान्तरप्राप्तो वायुरर्चिरादिमार्गे क्वचिदवश्यनिवेशनीयः सन् शाखान्तरश्रुतस्वस्थानरूपाग्न्यनन्तर-देशप्रत्यभिज्ञानात् तत्रैव निवेशनीय इति भावः।
नन्वादित्यप्राप्तेरिति।
तेनेत्यस्यादित्यप्राप्त्याकाङ्क्षाभावेऽप्यादित्यप्राप्तेस्तेनेत्येतदाकाङ्क्षाऽस्ति वाय्वादि-क्रमार्थं वायुदत्तावकाशच्छिद्रं विनाऽऽदित्यप्राप्तेरनुपपत्तेः अतस्तदाकाङ्क्षयानुषङ्गः स्यादित्यर्थः।
ऊर्ध्वदेशप्राप्तेर्जातत्वादिति।
छिद्रेण वायुव्यवधानं प्रतिबन्धकमपनीयोर्ध्वदेशप्राप्तेः संपादितत्वादित्यादित्य-प्राप्तिरपि च्छिद्रकृतोर्ध्वदेशप्राप्त्या निराकाङ्क्षेत्यर्थः।
वरुणलोकादावित्यर्थ इति।
अनेन क्वचिदवश्यं निवेशनीयो वायुः कौषीतकिशाखानुसारेणार्चिरनन्तरं द्वितीयपर्वतया किमिति निवेश्यते यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छतीति बृहदारण्यकश्रुत्यनुसारेण प्रथमपर्वतयाऽर्चिषः पूर्वं वा किमिति न निवेश्यते इति शङ्का- निवारिता। कौषीतकिशाखा हि वरुणेन्द्रादिषु बहुषु क्लृप्तक्रमा न तूदाहृतबृहदारण्यकश्रुतिरिति भावः।
ऊर्ध्वादित्यलोकशब्दयोरिति।
संपिण्डितग्रामस्य स्वत ऊर्ध्वदेशोत्क्रमणासंभवादातिवाहिकाधीनं तद्विवक्षित-मिति वक्तव्यं तत्र चातिवाहिकत्वेनार्थप्राप्ता वायुलोकाभिमानिनी देवता लोकान्तर-प्राप्तिपर्य्यन्तमातिवाहिकी न तु किंचिन्मात्रपर्यन्तमित्यूर्ध्वदेशस्य लोकविशेषरूपतया विशेषेणापेक्षाऽस्तीति भावः।
तेनोर्ध्व आक्रमते स आदित्यमागच्छतीत्यानन्तर्यायेति।
यद्यपि देवलोकादादित्यमित्यादित्यस्य देवलोकानन्तर्यमपि श्रुतम् तथापि मासेभ्यो देवलोकमिति श्रुतमाससामीप्यानुग्रहाय संवत्सरानन्तरमेव निविष्टे देवलोके वायुलोकादित्ययोर्मध्ये निविशत इति वाय्वादित्ययोर्नैरन्तर्यं लभ्यत इति भावः।
एतस्योपरि देवलोकाद्वायुमिति पठितव्यमिति।
एतस्य संवत्सरादित्यस्योपरि देवलोकमिति पठित्वा देवलोकाद्वायुलोकमिति पठितव्यमित्यर्थः।
ननु वाचकमेवेति न युक्तं वायुशब्दस्य लक्षणीये देवलोके शक्त्यभावादित्याशङ्क्य व्याचष्टे-
बोधकमेवेत्यर्थ इति।
कथं तर्हि भाष्य इति।
यदि सूत्रे वायुशब्दो देवलोकोपलक्षक इति संवत्सरदेवलोकवाय्वादित्यानां क्रमः सूत्रकाराभिमतः तदा कथं भाष्ये सौत्रस्य वायुशब्दस्य वायुपरत्वमेवाङ्गी-कृत्य वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं सूत्रकारोक्ततयाऽनूदितमित्यर्थः।
छान्दोग्यपाठमात्रापेक्षयेति।
छान्दोग्यपाठमात्रमपेक्ष्य सूत्रं प्रवृत्तमित्यभिप्रेत्य भाष्ये तथोक्तम्। यदि वाजसनेयकप्राप्तो देवलोकोऽपि सूत्रार्थत्वेन नीयते वायुशब्दस्य तदा देवलोके वा देवलोकव्यवहितवायौ वा लक्षणाऽङ्गीकार्येति भावः।
प्रजापतिर्विराडिति।
समष्टिस्थूलाभिमानी विराट् समष्टिसूक्ष्मशरीराभिमानी हिरण्यगर्भ इति भेदः।
शुक्लपक्षात्सकाशादिति।
आपूर्यमाणपक्षादिति पञ्चम्या यथाश्रुतार्थमादायावधिपरतयेदं व्याख्यातम्। अर्चिष इत्याद्याः सर्वाः पञ्चम्यस्तृतीयार्थ इति आतिवाहिकाधिकरणे स्थास्यति। आदित्य इति श्रुत्यपेक्षिताध्याहारः ॥२॥
इति द्वितीयं वाय्वधिकरणम् ॥
तडितोऽधिवरुणः संबन्धात् ॥३॥
तेनादित्यमिति श्रुतिविरोधादिति।
तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छतीति श्रुतिविरोधादित्यर्थः।
अतो नामीषां मार्गे निवेश इति।
यथा तेन स ऊर्ध्वमित्यादिश्रुतिविरोधाद्वायोरनन्तरं न निवेशः एवमर्चिषोऽ-हरित्यादिश्रुतिविरोधादन्यत्रापि न निवेश: अमानवपुरुषावरोधात्। आतिवाहकान्तर-सद्भावे विद्युतोऽनन्तरमेवामानवपुरुषस्यातिवाहिकत्वोक्त्त्ययोगात्। तस्माद्वरुणादी-नामर्चिरहरादिमार्गे निवेशनासंभवात् कौषीतकिशाखोक्तं मार्गान्तरमिति प्रथमाधिकरणाक्षेपः। मार्गैक्यनियमेनाऽग्रे यदा वै पुरुषमित्यादिबृहदारण्यक-श्रुत्युक्तमपि मार्गान्तरं वक्तुं शक्यम्। अतस्तत्र श्रुतो वायुर्देवलोकादादित्यमिति श्रौतक्रमविरोधेन तयोर्मध्ये न निवेशनीय इति समनन्तराधिकरणस्याप्याक्षेपः।
प्रधानशब्दगृहीतादिति।
कल्प्यस्य प्रकृतिवच्छब्दस्य प्रधानविशेषणत्वेन तदन्तर्भूतत्वादिति भावः। अन्ते तु बादरायण इति न्यायवत् पाठक्रमोऽपि दृष्टान्तदार्ष्टान्तिकयोस्तुल्यः। दृष्टान्ते नारिष्टहोमग्राहकप्रधानवाक्यपाठानन्तरमुपहोमवाक्यपाठः दार्ष्टान्तिके वरुणानन्तरमिन्द्रप्रजापतिपाठ इति। यद्यपि वरुणमारभ्यान्ते तु बादरायण इति न्यायो वक्तुं शक्यः तथापि वरुणस्य तडित्संबन्धोऽप्यधिकोऽस्तीति तदुपन्यासः। विद्युदनन्तरं वरुणादीनां सत्त्वेऽप्यमानवपुरुषस्यातिवाहिकत्वोक्तेरभिप्रायं सूत्रकार एवानन्तराधिकरणे वक्ष्यति ॥३॥
इति तृतीयं तडिदधिकरणम् ॥
आतिवाहिकस्तल्लिङ्गात् ॥४॥
अवधिष्विति।
पूर्वपूर्वसीमावधिषु स्थित्वा स्वसीमामतिक्रम्य सीमान्तरं ये प्रापयन्ति ते आवधिका आतिवाहिकाश्च।
अमूर्तेति।
अमूर्ताः परिच्छिन्नपरिमाणरहिता आत्माकाशादयः तद्वृत्तयो बुद्धिशब्दादयः तद्वृत्तिरवान्तरजातिर्गुणत्वं तदाधारेषु रूपादिषु गुणशब्दः पारिभाषिक इत्यर्थः। अमूर्तवृत्तिविशेषणाभावे द्रव्यत्वकर्मत्वरूपावान्तरजातिमतोर्द्रव्यकर्मणोरतिव्याप्तिः। अवान्तरविशेषणाभावेऽमूर्तवृत्तिसत्ताजातिमतोस्तयोरेवातिव्याप्तिः। अत उभयमुपात्तम् ।
न च वैशेषिकेति।
नन्वयमनुक्तोपालम्भः। न हि शाब्दिका वैशेषिकपरिभाषितं गुणं विभाषा गुणेऽस्त्रियां वोतो गुणवचनादित्यादिसूत्रेषु गुणशब्दार्थं वदन्ति किन्तु जाड्यमौढ्य-पाटवमार्दवादिकं द्रव्योपसर्जनमित्याशङ्क्यार्चिरादेरपि तदविशिष्टमित्यागन्तॄन् प्रधानान् प्रतीति। ननु द्रव्योपसर्जनमात्रं शाब्दिकानां न गुणत्वं तस्य भोक्तृपसर्जनत्वेऽपि गुणग्रहणस्य धनेन कुलमित्यादीनां प्रत्युदाहृतत्वात् किन्तु द्रव्यधर्मविशेषरूपं द्रव्योपसर्जनम्। अतोऽर्चिरादिषु न हेतुपञ्चम्युपपद्यते। अर्चिरादीनां नेतव्यजीवधर्म-त्वाभावात् किन्तु पितृयाणे धूमादीनामप्युक्तन्यायेनातिवाहिकत्वं वाच्यम्। संपिण्डितकरणग्रामाणां स्वतो गमनासंभवात्। तत्र रात्रिशब्दे हेतुपञ्चमीति कथमपि वक्तुं न शक्यते। अस्त्रियामिति पर्युदासादिति चेद्यद्येवं व्यत्ययो बहुलमिति छान्दसेन विभक्तिव्यत्ययेन तृतीयार्थे पञ्चम्यस्तु ॥४॥५॥६॥
इति चतुर्थमातिवाहिकाधिकरणम् ॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥७॥
न चैत इत्यादिग्रन्थेनोद्भाव्य निराकरणीयाम् अवयवसंयोगेनान्यथा-सिद्धाववयविसंयोगप्रत्याख्यानशङ्कां विवृणोति-
शाखामृगोऽवयवीति।
ननु अस्त्ववयविनः संयोगः अवयवे वाऽवयवान्तरावच्छिन्नत्वेनाप्राप्तः शाखामृगेण प्राप्यते अवयवविशेषो वा पूर्वमप्राप्तः प्राप्यत इति चेत्। एवं तर्हि ब्रह्मापि प्रदेशविशेषावच्छिन्नं तत्प्रदेशविशेषो वा मुच्यमानेन प्राप्यते प्रागप्राप्तत्वादिति तुल्यम्।
ननु तर्हीति।
अवयविसंयोगोपलक्षित इति भ्रान्त्या शङ्का।
काल्पनिकविभागमपेक्ष्येति।
अवयवभेदेनापि वास्तवोऽवयविभेदो वक्तुं न शक्यते न चावयविनि भेदाभावे तस्यैव प्राप्तिश्च समर्थयितुं शक्यते। अतो भेदस्याविद्याकल्पितत्वं काल्पनिकशब्देनोक्तम्।
यथाऽश्वमेधादीनीति।
अश्वमेधपर्यन्तान्यदृष्टार्थानि कर्माणि क्रियातत्फलादिस्वरूपसद्भावश्रद्धाहीनस्य ब्रह्मविदो न फलन्तीत्यश्रद्धस्य कृतं दत्तमित्यादिस्मृतिमुदाहृत्योक्तं प्रथमसूत्रे तदर्चिरादिगतिचिन्तनेऽपि तुल्यं अदृष्टार्थत्वाविशेषात् पुनः केन विशेषेणादृष्टार्थ-कर्मान्तरव्यावृत्तेनार्चिरादिगतिचिन्तनस्य वासनामात्रेण प्रवृत्तिमवलम्ब्य फल-पर्यवसानमाशङ्क्यत इत्यर्थः। अतश्च वासनावशात् प्रवृत्तं लौकिकं किंचित्फलतु मा वा वैदिकं तु किमपि न फलत्येवेति भावः। टीकायां का कथेत्येतत्कैमुति-कन्यायप्रदर्शनार्थं न भवति प्रकृतार्थे तदनन्वयात् किंत्वितरापेक्षयाऽर्चिरादिगति-चिन्तनस्य को विशेषः येनेतरेषामफलत्वेऽप्येतत्फलवत्स्यादित्येतद्दर्शयितुं कानि तान्यफलानीतराणीत्याकाङ्क्षायामाचार्यैरश्वमेधादीनि तानीत्युदाहृतानि।
अनेनाहत्येति।
नान्यः पन्था इत्यत्र पन्था इत्ययं शब्दोऽणुः पन्था इत्यादिश्रुत्यन्तरेषु पन्था इति श्रवणाद् ब्रह्मप्राप्तिसाधनत्वेनार्चिरादिमार्गो विवक्षित इति भ्रममपनेतुमेवेति भावः। ननु अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव। तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमिति ऊर्ध्वं विमुक्ता इति पथ इव ऊर्ध्वदेशवर्ति-स्वर्गलोकप्राप्तिसाधनत्वं श्रूयत इति चेत् तर्हि इतस्तृतीयलोकरूपस्वर्गलोकप्राप्तिरेव ब्रह्मविद उक्ता स्याद् न तु ब्रह्मलोकप्राप्तिः। स्वर्गशब्दस्य ब्रह्मलोके लक्षणाऽऽश्रीयत इति चेत् किमर्थं लक्षणाऽऽश्रयितव्या यन्न दुःखेन संभिन्नमिति श्रुत्यनुशिष्टो निरतिशयानन्द इह स्वर्गशब्दार्थोऽस्तु ततश्च निरतिशयानन्दप्रकाशरूपं ब्रह्मैव स्वर्गलोकशब्देन प्राप्यमुक्तं भवति। स्वर्गकामो यजेतेत्यादावपि ब्रह्मानन्द एव स्वर्गशब्दार्थः स्यादिति चेद् अस्तु को दोषः। अन्तःकरणशुद्धिद्वारा कर्मणामपि ब्रह्मप्राप्तिसाधनत्वसंभवात्। यः कामयेत सर्वमिदं भवेयमित्यादिब्रह्मप्राप्तिरूप-कर्मफलश्रवणानामेवोपपादनीयत्वात् दर्शपूर्णमासादिष्वपि दिवि ज्योतिरजरमारभेता-मित्यादिमन्त्रलिङ्गैः ब्रह्मप्राप्तिफलावगमाच्च। उक्तं च वार्तिके।
स्वर्गोऽयमेव प्रागुक्तः स्वर्गकामवचस्यपि।
कर्मभिस्तदसिद्धेर्हि वेदान्तज्ञानमिष्यते ॥
यद्वा निरतिशयब्रह्मानन्दवाचकस्य स्वर्गशब्दस्य स्वर्गकामादिवाक्यैनैक-मन्त्रलिङ्गाद्यवगतनाकपृष्ठभोग्यसुखविशेषे लक्षणाऽस्तु तत्प्रशंसार्थं तत्र तस्य लक्षणोपपत्तेः चन्दनं स्वर्गः सूक्ष्माणि वासांसि स्वर्ग इति सुखसाधनेऽपि प्रशंसार्थं तत्प्रयोगदर्शनात्। ऐहिकसुखापेक्षया नाकलोकभोग्यसुखे नितान्तोत्कर्षसत्वेन निरतिशयसुखवाचिना तत्प्रशंसौचित्याच्च। इह तु संकोचे कारणाभावाद् मोक्षप्रकरणाच्च परमानन्द एव स्वर्गशब्दार्थो ग्राह्यः न तु कर्मवाक्येष्विव परिच्छिन्नो लक्षणीयः। तदप्युक्तं वार्तिके।
परमानन्द एवातः स्वर्गशब्देन गृह्यते।
मोक्षप्रकरणान्नित्यः क्रियार्थोऽतो न गृह्यते ॥ इति।
एवं च मन्त्रस्यायमर्थः। अणुः सूक्ष्मः दुर्विज्ञानः विततो विस्तीर्णः विस्पष्टतरणहेतुः पन्था ज्ञानरूपब्रह्मप्राप्त्युपायः पुराणश्चिरन्तनः श्रुतिसिद्धः मां स्पृष्टः मां स्पृष्टवान् मया स्पृष्ट इति वा मया लब्ध इति यावत्। मयानुवित्तः फलपर्य्यवसायिनीं परिपाकदशामानीतः मयेति शब्दो मन्त्रदृष्टऋषिपरामर्शी। तेन धीराः प्रज्ञावन्तः अन्येऽपि ब्रह्मविदः इतः शरीरपातादूर्ध्वं स्वर्गलोकमपियन्तीति।
ब्रह्म वेद ब्रह्मैव भवतीत्यादिश्रुतिसामर्थ्यैरिति।
यद्यप्युत्क्रान्तिप्रतिषेधश्रुतिरपि टीकायां ब्रह्मशब्दलक्षणाहेतुत्वेन विवक्षितेति वक्तुं शक्यं तथाप्युत्क्रान्तिप्रतिषेधतो गत्यभावसिद्धिः प्रतिषेधादिति चेदित्यधिकरणेन लब्धेति ब्रह्म वेदेत्यादिश्रुतिसामर्थ्यमात्रमेतदधिकरणप्रदर्शनीयमिति तदुपादानम् फलान्तरवत्त्वे काम्यत्वप्रसङ्गादिति। यदि प्राधान्येन नित्यनैमित्तिकानां फलान्तराभावेऽप्यन्वाधानप्रस्तरयागादीनाम् अङ्गानां करणमन्त्रप्रकाश्यं वर्चःपुष्ट्यायुः प्रजादिकमानुषङ्गिकं फलमस्तीति तदभिप्रायेण भाष्यकारैरापस्तम्बस्मृतिरुदाहृते-त्युच्येत तदा तेषां न काम्यत्वप्रसङ्गो नाप्यनुनिष्पादिफलानुत्पत्तिरिति द्रष्टव्यम्।
भावस्य विनाशप्रसङ्गादित्येतत्सोपपत्तिकं व्याचष्टे-
स्वरूपाभाव इति।
आत्मस्वरूपभूतयोः कर्तृत्वभोक्तृत्वयोर्नाशे आत्मस्वरूपमेव नश्येदित्यर्थः।
विकल्पमकृत्वेति।
स्वभावास्वभावविकल्पमकृत्वा यथाश्रुतशङ्कां परिगृह्य दूषणं वक्तीत्यर्थः।
कल्पकालस्थायित्वादिति।
नित्यस्य तु शक्तिमतः कदाचन शक्तिराविर्भवेदिति भावः। न च कार्ये प्रतिपत्त्यभिसंधि (ब्र. अ. ४ पा. ३ सू. १४) रिति सूत्रं गतेः कार्यविषयत्वशङ्का-निराकरणार्थम्। अतस्तत्सूत्रव्याख्यानारम्भभाष्ये पूर्वोक्तस्वतन्त्रयुक्तिभिः समुच्चया-र्थोऽपिशब्दो नोपपद्यत इति शङ्कायां तदुपपादनार्थो न च कार्य इति सूत्रमित्यादिः प्राचीनोपपत्तीनामाहेत्यन्तो ग्रन्थः। पूर्वं भाष्यगतशब्दव्याख्यानावसरालाभादिह तत्सूत्रभाष्योदाहृताया यशोऽहं भवामीत्यादिश्रुतेर्व्याख्यानावसरे तदुपपादनमनेन ग्रन्थेन कृतम्। तत्रोपपत्तीनामिति बहुवचनेन मुख्यत्वं तयोर्ध्वमायन्निति दर्शनं सोऽध्वनः पारमाप्नोतीति दर्शनं च संगृहीतम्। आहेत्यस्यापि न च शब्दनिर्देश इति कर्त्राऽन्वयः।
यशः प्रकाश आत्मेति।
यशोनामकपरब्रह्मप्रकाशरूपो ब्राह्मणादीनां य आत्मा स भवामीत्यर्थः ॥७॥८॥९॥१०॥११॥१२॥१३॥१४॥
इति पञ्चमं कार्याधिकरणम् ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥
ये चामी इत्यस्य सामान्यविषयत्वादिति।
यद्यप्यस्य सामान्यविषयत्वेऽपि ये चामी तेऽर्चिषमिति यत्तच्छन्दयोः प्रतीकोपासकविषयत्वं वक्तुं शक्यं पितृयाणतृतीयस्थानरहितानां तेषामर्चिरादि-गत्यवश्यंभावात् तेषामपि ब्रह्मस्पृगुपासनाकर्तृत्वेन सत्यमुपासत इति शब्दविषयत्वोपपत्तेश्च। अङ्गावबद्धोपासनानां कासांचिद्ब्रह्मस्पृक्त्वेऽप्युद्गातृकर्तृकासु सुत्यासु फलभाजो यजमानस्य स्वतन्त्रकर्तृत्वाभावेन सत्यमुपासत इत्येतत्तेषामपि परामर्शकं स्यादित्यतिप्रसङ्गाभावात्तस्यौत्सर्गिकस्वतन्त्रकर्तृमात्रविषयत्वे संभवति स्वतन्त्रप्रयोजकसाधारण्यकल्पनायोगात्। तथापि स एनानित्यत्र तच्छब्दस्य प्रतीकोपासकाविषयत्वं वक्तुं शक्यं तदभिप्राया सामान्यवचनस्य प्रतिकोपासकातिरिक्तविषयत्वोक्तिर्भविष्यति। ये चामी इत्यस्य सामान्यविषयत्वा-दिति ग्रन्थे येचामीग्रहणं प्रदेशोपलक्षकं सत् स एनानित्येतत्परं भविष्यति। एवं च प्रतीकोपासकानामर्चिरादिमार्गेण विद्युल्लोकपर्यन्ता गतिः समाना। अमानवपुरुषस्तु न तान्नयतीति शेषः। अत एवाप्रतीकालम्बनान्नयतीति सूत्रे नयनविशेष उक्तो नार्चिरादिगतौ। भाष्ये यद् अनियमन्यायस्य प्रतीकोपासनातिरिक्तविषयत्वमुक्तं तदपि ब्रह्मप्राप्त्यंशविषयमात्रविषयं नार्चिरादिगतिविषयमपि अनियमाधिकरण एव भाष्यकारैरर्चिरादिगतेः सर्वविद्यासाधारण्यसमर्थनार्थम्। अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकमिति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ति देवयानपितृयानयोरेव एतानुद्भावयन्ति तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्तिरिति प्रदर्शितस्य प्रतीकोपासनासाधारण्याद्। देवयानपितृयाणयोर्मध्ये विद्यारूपाद्विशेषाद्देवयानप्राप्तिरिति। प्रदर्शितो हि न्यायस्तास्वपि तुल्य एव। शास्त्रदर्पणे त्वाचार्य्यैः स एनानित्यस्य प्रतीकोपासकाविषयत्वे न्यायान्तरमुक्तम्। प्रतीकभाजां तु ये चामी अरण्ये इत्यनेन पञ्चाग्निविद्भिः सम्मार्गे समुच्चयेऽप्यप्राधान्यात् स एनानित्येतच्छब्देन परामर्शाद् न ब्रह्मप्राप्तिः एतच्छब्दस्य प्राधान्येन प्रकृतपरामर्शित्वात् पञ्चाग्निविदामेव प्रकरणवत्त्वेन तथाभावादिति। इदमपि युक्तमेव। तद्य इत्थं विदुः ये चामी इति यच्छन्दद्वयनिर्दिष्टानां पञ्चाग्निविदां ब्रह्मोपासकानां च तत्प्रतिनिर्देशकेन तच्छब्देन परामर्शेऽपि स एनानित्येतच्छब्देन प्रकरणानुरोधात् पञ्चाग्निविदामेव परामर्श इत्युपपत्तेः। न हि प्रकरणाम्नातस्य क्वचित्केनचिद्धेतुना प्रकृताप्रकृतसाधारण्यं जातमित्येतावताऽन्यस्यापि प्रकरणाम्नातस्य तदुभयसाधारण्यनियमोऽस्ति ज्योतिष्टोमप्रकरणाम्नातस्य उपांशु यजुषेति यजुर्वेद-विहितकर्माङ्गस्वरविशेषविधानस्य याजुर्वेदिकसकलकर्मसाधारण्येऽपि दीक्षणीया-प्रभृत्यङ्गविधानस्य ज्योतिष्टोममात्रसाधारण्यवदुपपत्तेः। अहंग्रहोपासकानां ब्रह्मप्राप्ते-स्तत्क्रतुन्यायत एव सिद्ध्या स एनानिति वचनानपेक्षणात्। तदपेक्षणेऽप्येष देवपथो ब्रह्मपथ इत्युपकोसलविद्यागतवाक्येन तत्सिद्धेश्च सर्वथाऽपि न प्रतीकोपासकानाम-र्चिरादिमार्गात् पर्युदासः किन्तु ब्रह्मप्राप्तेरेवेति सिद्धम् ॥१५॥१६॥
इति षष्ठमप्रतीकालम्बनाधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यविश्वजिद्याजिश्रीरङ्ग-राजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीवेदान्तकल्पतरुपरिमले चतुर्थस्याध्यायस्य तृतीयः पादः ॥
॥इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गाभिधानाख्यस्तृतीयः पादः ॥
॥चतुर्थाऽध्याये चतुर्थः पादः ॥ संपद्याविर्भावः स्वेन शब्दात् ॥१॥
आद्ये पाद इति।
निर्गुणविद्याफलैकदेशरूपा बन्धनिवृत्तिराद्ये पादे प्राधान्येन निरूपिता। भोगेन त्वितरे इति सूत्रेण तच्छेषतया तदधिगम इत्यादिसूत्रैः पुण्यपापक्षयश्चिन्तित इति भावः।
एवकारश्चावधारण इति।
मूलपाठं दृष्ट्वेदं व्याख्यातम्। एवकारश्चेवार्थे नावधारण इति पाठस्तु स्पष्टार्थः।
श्लोकगतं वाक्यादिति हेतुं व्याचष्टे इति।
एतद्व्याख्यानं सर्वमपि ज्योतिर्दर्शनादित्यधिकरण एव विवृतम् ॥१॥२॥३॥
इति प्रथमं संपद्याविर्भावाधिकरणम् ॥
अविभागेन दृष्टत्वात् ॥४॥
योगानामिवेति।
योगशास्त्रविदां हैरण्यगर्भाणामीश्वराद्भेदेनैव मुक्तस्य स्वरूपेणावस्थितिरिति तन्मतं दृष्टान्तीकृतम्।
तत्वमस्यादिवाक्यादिति।
तत्त्वमस्यादिवाक्यं मुक्तिसाधनज्ञानोत्पत्त्यर्थं तत्र पर्य्येतीत्यादि फलवाक्यम्। एवं च साधनवाक्यात् फलवाक्यस्य प्रधानविषयत्वेन प्राबल्यात् तदनुसारेण मुक्तो भेदेनैवावतिष्ठते तत्त्वमस्यादिवाक्यं त्वौपचारिकाभेदपरं वा। अभेददृष्टावपि भेदेनानवस्थानमहंग्रहोपासनेष्विवेति पूर्वः पक्षः।
तत्राभिनिष्पन्नेति।
तथैव तत्त्वमस्यादिवाक्यानुगुणफलश्रवणात् तदनुरोधेन स तत्र पर्य्येतीत्यादि-सगुणविद्यायामुत्कृष्टव्यं कर्तृकर्मभावनिर्देशश्च गौणो नेतव्य इति सिद्धान्तः ॥४॥
इति द्वितीयमविभागेन दृष्टत्वाधिकरणम् ॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥५॥
अनेकाकारतेति
श्लोके यदेकताहतेरिति विपक्षबाधकं तद्धर्मिणोऽनेकाकाररूपत्वमिति धर्मपरिशेषपक्षे अनेकाकाराणामेकधर्मिरूपत्वमिति धर्मिपरिशेषपक्षे त्वनेकताहतेरिति विपक्षबाधकं द्रष्टव्यमिति योजयति-
एकस्यानेकाकारत्वं वदन्प्रष्टव्य इत्यादिना।
श्लोकस्योत्तरार्धमवतारयति-
अथात्मन इति।
सत्यद्वैताविघातकत्वमिति।
भावाद्वैताविघातकत्वमित्यर्थः। अभावरूपा धर्मा वस्तुतः सन्ति चेत् ते भावा द्वैतं न निघ्नन्तीति वक्तुं शक्यं न तु ते वस्तुतः सन्ति प्रतियोगिनां काल्पनिकत्वेन तदधीननिरूपणानां तेषामपि काल्पनिकत्वावश्यम्भावादिति परिहारार्थः ॥५॥६॥
धर्माणां तुच्छत्वाभ्युपगमप्रयुक्तं न मृष्यत इति।
गताः कलाः पञ्चदश प्रतिष्ठाः षोडशकलाः पुरुषायणा इति श्रुत्योरिति सर्वेश्वरत्वादिगुणकत्वचिन्मात्ररूपत्वश्रुत्योरपि व्यावहारिकपारमार्थिकदृष्टिभ्यामविरोधे संभवति कस्याश्चन श्रुतेर्निरालम्बनत्वकल्पना न युक्ता। मुक्तस्यायुक्तरूपप्रतिबिम्ब-प्रतियोगिकबिम्बरूपपरमेश्वरभावापत्तिश्चावर्जनीया तद्भावापत्तौ च मुक्तौ तुदीयगुणा-विर्भावोऽप्यनिवार्यः। न चैतावता मुक्तस्य चिन्मात्ररूपत्वहानिः। परमेश्वरस्येव तद्भावापन्नस्य तस्यापि वस्तुतश्चिन्मात्ररूपत्वोपपत्तेरिति भावः ॥७॥
इति तृतीयं ब्राह्माधिकरणम् ॥
संकल्पादेव च तच्छ्रुतेः ॥८॥
प्रयत्नादिसापेक्षसंकल्पजन्या इति।
आदिशब्देन चेष्टाग्रहणम्। चेष्टाजन्यत्वमपि साध्यत्वमिति समीहितसाध्य-लाभार्थं प्रयत्नादिजन्या इत्येव साध्यं सङ्कल्पजन्यत्वं तु सिद्धान्तिनोऽपि समानं न साध्ये निवेशनीयं प्रयत्ने चादृष्टाद्वारकत्वं विशेषणं तेन नोपासनाकाल-कर्तव्यासनबन्धाद्युपयोगिप्रयत्नजन्यत्वेनार्थान्तरम्।
भोगसाधनत्वादिति।
ननु सकलभोक्तृभोगसाधनेषु परमेश्वरेण प्रयत्नं विना सृज्येषु महाभूतेषु व्यभिचारः। न च भोगेष्वसृष्टिसङ्कल्पयितृगतत्वं विशेषणं परमेश्वरस्यापि भूतभौतिकसाध्यभोगसद्भावस्य भोगमात्रसाम्यलिङ्गाच्चेति सूत्रे वक्ष्यमाणत्वादिति चेद् न तत्तेजोऽसृजतेत्याद्याख्यातोक्तेन तदात्मनः स्वयमकुरुतेत्यादिधातूक्तेन च परमेश्वरेण यत्नेन साध्यत्वस्य तेजःप्रभृतिष्वपि सत्त्वात्। न चैवं योगिसङ्कल्पजन्य-पित्रादिष्वपि परमेश्वरप्रयत्नजन्यत्वेनार्थान्तरं यस्य यद्भोग: साधनं तत्प्रयत्नजन्यत्वस्य साध्यत्वात्। न चैवं सति पश्वादिभोगसाधनेष्वाटविकतृणादिषु व्यभिचारः। साध्यादुत्कृष्टस्य संकल्पजत्वस्य हेतौ निवेशनात्। न च एवं सति तावन्मात्रमेव हेतुः स्यादिति वाच्यम्। मनोरथसृष्टस्त्रियां व्यभिचारवारणाय भोगसाधनत्वस्यापि वक्तव्यत्वात् ।
सत्ताप्रयुक्तेति।
यद्यपि कानि चित् पदपदार्थानवगममात्र इति। आवापोद्वापाभ्यामस्य पदस्यायमर्थ इति शक्तिग्रह एवानुमानापेक्षा न तु श्रुतिवाक्यार्थबोधे संकल्पजपित्रादिपक्षकानुमाने त्वनुमित्युत्पादनायास्ति पक्षसिद्ध्यर्थं श्रुत्यपेक्षा । अतः श्रुत्यैवानुमानं बाध्यमित्यर्थः।
अगस्त्यकृतसमुद्रपानवदिति।
यद्यपि समुद्रपानं तन्मुखसंयोजननिगरणप्रयत्नजन्यमिति वक्तुं शक्यं तथापि समुद्रस्य यः सकृदेव पयःपानयोग्यतापादकोऽल्पीभावः अनल्पस्य वा मुखे कुक्षौ च मानं तदेव योगसामर्थ्यसृष्टमिह दृष्टान्तः ॥८॥९॥
इति चतुर्थं संकल्पाधिकरणम् ॥
अभावं बादरिराह ह्येवम् ॥१०॥
न च मनः परैर्दृश्यत इति।
परे दृष्ट्वा खलु संवदेयुः मनोमात्रं परैर्द्रष्टुं शक्यमिति तत्संवादपर्यन्तः पुष्कलो भोगो न सिद्ध्येदित्यर्थः। न च स्थूलदेहरहितस्य स्वकर्तृकत्वाभिवदनमपि न स्यादिति वक्तुं शक्ये कथं तद्दर्शनसाध्यपरकर्तृकाभिवदनमात्रासंभव उक्त इति शङ्कनीयम्। पर्यङ्कविद्यायामर्च्चिरादिमार्गेण गच्छतः स्थूलदेहरहितस्यापि चन्द्रेण सह संवादस्य श्रुतस्य सूक्ष्मदेहमात्रेण कथंचिदुपपादनीयो यथा तद्वदस्याप्युपपादयितुं शक्यत्वात्। न च परकर्तृकाभिवदनमपि चन्द्राभिवदनवदुपपादयितुं शक्यमिति वाच्यम्। आतिवाहिकदेवतारूपस्य चन्द्रस्येव संकल्पसृष्टपित्रादीनां मनोमात्रावशिष्टविषयदर्शनानुपपत्तेः।
दृष्टान्तं विभजत इति।
द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभि-संयोगाद् (जै. अ. १० पा. ६ सू. ५९) यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वा (जै. अ. १० पा. ६ सू. ६०) दिति जैमिनिसूत्राभ्यां सत्राहीनलक्षणोक्तिपूर्वकं तदुभयलक्षणयोगाद् द्विविधो द्वादशाह इत्युक्तं तद्दृष्टान्तं विभजत इत्यर्थः।
आसनोपयिभ्यां चोदन इति।
उपपूर्वादिण्गताविति धातोर्धातुनिर्देशार्थे इक्प्रत्यये इणो यणिति धात्विकारस्य यकारादेशे च सति उपयीति रूपेण भाव्यम्। उपेयीति रूपं तु यकारादेशस्थाने इयङादेशे सति भवति न तु स युज्यते यक्प्रत्ययस्य कित्वाद्गुणनिषेधे सति प्राप्तस्य तस्यैवापवादार्थमिणो यणिति विधानात्। तस्मादुपयीत्येव पाठः। यदि त्वत्र क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति परिभाषा समाश्रीयते तदा उपेयीत्यपि पाठः साधुः। उपायीति पाठस्तु मीमांसकग्रन्थेषु प्रायिकः स तूक्तधातोर्धात्वर्थनिर्देशार्थे औणादिके उकारप्रत्यये सार्वधातुकार्धधातुकलक्षणे धात्विकारस्य गुणे अयादेशे पूर्वसवर्णदीर्घे च सति साधुः।
आसनोपायिचोदनयोरन्यतरत्वं सत्रलक्षणमिति।
आसनचोदनावत्त्वं षडहेनोपासीतेत्यहीनगतषडहे श्रवणात् तत्रातिव्याप्तमिति शङ्कायामासिचोदनायामनुपसृष्टत्वं विशेषणं देयम्।
टीकायामुपयिचोदन एवोदाहरणद्वयमुक्तम् । आसिचोदनं स्वयमुदाहरति-
सप्तदशावरा इति।
नियतकर्तृकत्वमहीनलक्षणमुक्तमिति।
मीमांसाभाष्ये त्वहीनद्वादशाहस्य एको द्वौ बहवो वा कर्तार इत्यनियत-संख्यकर्तृकत्वं सत्रद्वादशाहस्य बहव एव कर्तार इति नियतसंख्यकर्तृकत्वं चोक्तम्। अहीनानां हि यजतिचोदनेन विधानं द्विरात्रेण यजेतेत्येवमादिना सत्राणां तु नियतं परिमाणं बहव एवेति। एवं च मीमांसाभाष्यकारमते अस्थितपरिमाणत्वादिति सौत्रपदविभागः। अव्यवस्थितपरिमाणत्वादित्यर्थः। टीकाकारमते त्वास्थित-परिमाणत्वादिति नियतपरिमाणत्वादित्यर्थः। अहीनद्वादशाहस्यैक एव कर्तेति नियता कर्तृसंख्या सत्रस्य तु सप्तदशावराश्चतुर्विंशतिपरमा इत्यनियता कर्तृसंख्येति। मतद्वयमपि शाखाभेदाश्रयणेन समाधेयम्। तत्राहीनद्वादशाहस्यानियतसंख्य-यजमानत्वमुक्तमापस्तम्बसूत्रे। एको द्वादशाहेन यजेत षड् द्वादश त्रयोदश वेति। बोधायनसूत्रे त्वेक एव यजमान इति नियतसंख्ययजमानत्वमुक्तं द्वादशाहेन यक्ष्यमाणो भवत्येको वा बहवो वा यद्येको दक्षिणावता यजेतेति। दक्षिणावता अहीनेन। अत एव केशवस्वामी द्वादशाहो द्विविधः अहीनः सत्रं च यद्येको दीक्षते अहीनः यदि बहवो दीक्षन्ते सत्रमिति। मीमांसाभाष्यकारमते बहुत्वनियतकर्तृकत्वं सत्रस्य तन्नियमरहितकर्तृकत्वमहीनस्य च लक्षणान्तरं द्रष्टव्यम्।
शरीराभावकाल इति।
जागरव्यावहारिकशरीराभावकाल इत्यर्थः। स्वप्नदृष्टान्तबलेन दृश्यानां पित्रादीनामिव द्रष्टुरुपासकस्यापि वासनामयप्रातिभासिकशरीरसिद्धेः।
जागरवत्स्थूल इति।
अतिस्पष्ट इत्यर्थः। नातिस्पष्टो हि स्वाप्नप्रतिभासः ॥१०॥११॥१२॥१३ ॥१४॥
इति पञ्चममभावाधिकरणम् ॥
प्रदीपवदावेशस्तथा हि दर्शयति ॥१५॥
सगुणविदात्मनोऽपि विद्यासामर्थ्याद् व्याप्तिः संभवतीति।
ननु तस्य स्वरूपेण विद्योपहितरूपेणाविद्योपहितरूपेण वा व्याप्तिराजानसिद्धा न योगप्रभावमपेक्षते अन्तः करणोपहितरूपेण चेत् सा कथमन्तःकरणाद्बहिर्भवेत्। उपाधिविकासमन्तरेणोपहितविकासायोगादुपाधेरन्तः करणस्यापि विकासे जीवव्याप्ते-रन्तः करणाद्बहिष्ट्वोक्त्ययोगाद् अन्तः करणान्तरसृष्टिवैयर्थ्यप्रसङ्गाच्चेति चेदुच्यते। विद्यासामर्थ्यात्सेन्द्रियान्तः करणेषु शरीरान्तरेषु सृष्टेष्वविद्योपहितस्य सगुणाविद्या-त्मनस्तत्तदन्तः करणेषु याऽभिव्यक्तिस्तदभिप्रायोऽत्र व्याप्तिशब्दः। अयमर्थो नैजादन्तः करणादित्याद्यग्रिमग्रन्थेन स्पष्टीभविष्यति। तत्र निजं सहजमेव नैजं स्वार्थे तद्धितः। सहजं निजमाजानमिति नैघण्टुकाः। एवं च युक्तं च तद्विभाविति। श्लोकभागे विभुशब्दस्य नानादेशवर्तिष्वन्तःकरणेषु युगपदभिव्यक्तिसिद्ध्यर्थम् अविद्योपहितरूपेण व्याप्तिमत्त्वं युगपत्तावदन्तः करणाधिष्ठानसिद्ध्यर्थं तदुपयोगि-विद्यासामर्थ्यरूपं च वैभवमर्थ इत्युक्तं भवति।
न चैक्याभावे भेदादिति न हेतुः साध्याविशेषादित्याशङ्क्य व्याचष्टे-
भेदप्रतीतेरित्यर्थ इति।
न तत्तद्भिन्नतैलवर्तिवर्तिनीनामिति नञा सहितं पाठमाश्रित्य निषेध्यस्यैकस्या-नुषङ्गं कृत्वा भेदादित्यस्य भेदप्रतीतेरित्यर्थ इत्युक्तः। टीकायां नञा रहितोऽपि पाठो दृश्यते तत्र नानुषङ्गादिक्लेशः।
एकाभिप्रायेति ॥१६॥
परस्परविरोध्यभिप्रायवत्त्वमित्यर्थः।
संपन्नः केवलो मुक्त इत्यादिटीकाग्रन्थ-स्यार्थमाह-
यो मुक्तः स ब्रह्मसंपन्न इत्युच्यत इत्यादिना ॥१६॥
इति षष्ठं प्रदीपाधिकरणम् ॥
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥१७॥
टीकायां यथा सविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि तस्य निर्विकारं रूपं न प्राप्यते तत्कस्य हेतोः अतत्क्रतुत्वादुपासकस्येति ग्रन्थानन्तरं तत्वोपासनासु हि पुरुषक्रतुत्वमिति वाक्यमाचार्यैर्दृष्टमस्ति तदवतार्य व्याख्यायते-
यथा सगुणब्रह्मणि स्थितमपि इत्यादिना निर्गुणचिन्तकत्वमित्यन्तेन।
टीकायां पर्यायेण सृष्टिसंहारौ स्यातामित्येतदनन्तरपठितं न चेति वाक्यं तद्धेतुवाक्यं च मानुषङ्गं सोपपत्तिकं व्याचष्टे-
यदीति।
अत्र न वा सृष्टिसंहारौ द्वावपि स्यातामित्यनेन न चेत्यस्य पूर्ववाक्यान्निषेध्या-नुषङ्गेणार्थ उक्तः। तत्र न चेति वाक्यार्थे द्वावपि न स्यातामित्यस्मिन् टीकोक्तो हेतुरुभयोः स्रष्टृसंहर्त्रोरीश्वरत्वविघातादित्यनेनानूदितः। ईश्वरत्वविघाते उपपत्ति-रिच्छाप्रतिहतिर्यदि सिसृक्षासंजिहीर्षयोः सत्योरपि सृष्टिसमये संहारः स्यादित्यनेन दर्शिता। एतदुपलक्षणम् किंचिदिच्छाधीनसंहारसमयेऽन्येच्छाधीनसृष्टिर्न स्यादित्यस्यापि। एवं हि द्वयोरपीश्वरत्वविघाते हेतुरिच्छाप्रतिघातो दर्शितो भवति ॥१७॥१८॥१९॥
ननु सगुणोपास्तिषु तर्हीति ॥१७॥१८॥१९॥
यद्यपि सत्यकामत्वादीनां निरङ्कुशत्वांशस्योपासना-विषयत्वेऽपि न तत्क्रतुन्यायविरोधः तस्य न्यायस्योपासकलभ्यगुणमात्रविषयतया संकोचनीयत्वेन नित्यत्वादिति श्लोकोक्तन्यायैस्तदलभ्यस्य निरङ्कुशत्वांशस्य तन्न्यायाविषयत्वात् अन्यथा कारणं ध्येयः सर्वैश्वर्यसंपन्नः सर्वेश्वरश्च शंभुराकाशमध्य इत्यादिश्रुत्युक्तसर्वैश्वर्यादिविशिष्टोपासनायां का गतिः का च गतिः सर्वास्वप्यहंग्रहो-पासनास्वभेदोल्लेखे अहंग्रहोपासकाः खल्वभेदेनोपास्याप्यविद्योपाधिनिवृत्त्यभावाद् भेदेनैवावतिष्ठन्ते तथापि तत्क्रतुन्यायः क्वचित्संकोचनीयो जात इत्येतावता सत्यकामादिष्वश्रुतं निरङ्कुशत्वमुपास्यं परिकल्प्य तत्रापि तस्य संकोचकल्पनमयुक्तम्। क्लृप्तेन हि विशेषशास्त्रेण सामान्यशास्त्रस्य संकोचो न तु कल्प्येनापीति तात्पर्यम्। तदिदमुक्तं-
न हि निरवग्रहसत्यकामत्वादिगुणकमीश्वरमुपासीतेति श्रुतिरस्तीति।
आपो वै खलु मीयन्ते लोकोऽसावितीति श्रुतिवाक्यस्य टीकायाम् अप्शब्दोपलक्षितानि लोकशब्दोपलक्षितहिरण्यगर्भबुद्ध्योपास्यन्ते इत्यर्थो दर्शितः।
अयमर्थो भाष्यकाराणामिमां श्रुतिं भोगसाम्यार्थत्वेनोदाहृतवताम् आशयस्थो न भवतीति स्वयमन्यथा व्याचष्टे-
तं ब्रह्मलोकगतमित्यादिना ॥२२॥
इति सप्तमं जगद्व्यापाराधिकरणम् ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यविश्वजिद्याजिश्रीरङ्ग-राजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ वेदान्तकल्पतरुपरिमले चतुर्थस्याध्यायस्य चतुर्थः पादः ॥
समाप्तश्च फलाख्यश्चतुर्थोऽध्यायः।
समाप्तश्चायं ग्रन्थः ॥
॥ इति चतुर्थस्याध्यायस्य ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणाख्यश्चतुर्थः पादः ॥
॥ इति श्रीब्रह्मसूत्रशांकरभाष्ये फलाख्यश्चतुर्थोऽध्यायः ॥