अद्वैतशारदा

कल्पतरुपरिमलः

आवृत्यधिकरणविषयाः

॥अथ चतुर्थोऽध्यायः ॥ आवृ­त्ति­र­स­कृ­दु­प­दे­शात् ॥१॥
अध्या­य­वि­ष­य­यो­रिति।
मुख्यक्रमेण वाङ्गानां तदर्थत्वादिति न्यायात् (जै. अ. ५ पा. १ सू. १४) प्रधा­न­क्र­मे­णा­ङ्ग­क्र­मौ­चि­त्या­दिति भावः।
अदृष्टार्थत्वं विधेयत्वं च मन्यत इति।
तथाऽभिमानस्य मूल­म­न्त्रा­हे­त्या­दि­श­ङ्का­भा­ष्य­त­द्व्या­ख्या­नाभ्यां स्पष्टी­भ­वि­ष्य­ती­त्यत्र न विवृतम्।
अहं­ग्र­हो­पा­स्ति­ष्व­प्या­हेति।
तास्व­प्यु­पा­सि­धा­त्व­र्थान्तं नीता­वृ­त्ति­मात्रं कर्तव्यम् न तु याव­त्फ­लो­द­य­मा­त्र­वृत्तिः दृष्ट­फ­ल­त्वा­भा­वा­दिति भावः। विद्यो­त्पा­द­वि­रो­धि­प­र­त­ये­त्य­ने­ना­नि­र्वा­च्यत्वं विवक्षितमिति भावः। इवकार उपरि नेतव्य इत्युक्तम्। उपरिनीतस्य तस्यार्थो विवरण-वाक्ये तद्वदित्यनेन दर्शितः। लोक­सि­द्ध­त्वा­दि­त्यन्तः सोप­पा­द­नो­प­मा­न­वा­क्या­र्थ­प्र­द­र्श­नाय। तद­न­न्त­र­मु­प­मा­नो­प­मे­य­भा­व­द्यो­तनं तद्व­त्त­थे­त्या­दि­श­ब्द­व­दि­व­श­ब्देन व्युत्प­त्ति­सिद्धं न भवतीति तद्व­दि­त्य­ने­ने­व­शब्दो विवृतः।
शब्दा­र्थ­सा­क्षा­त्का­र­त्वा­दिति।
यस्य स्याद्वृद्धेति वच­नो­क्तै­हि­क­स­गु­णे­श्व­र­सा­क्षा­त्का­र­वत् पर्य्य­ङ्क­वि­द्या­दि­प्र­ति­प­न्न-पा­र­त्रि­क­त­त्सा­क्षा­त्का­रोऽपि परम्परया श्रव­णा­द्य­भ्या­स­साध्यः यागा­दि­ज­न्य­स्व­र्ग­सु­खा-दि­वि­ष­य­पा­र­त्रि­क­सा­क्षा­त्कारः स्वर्ग­का­मा­दि­वा­क्या­र्थ­वि­ष­य­का­पा­त­न्या­य­वि­चा­र­ज­न्य­त-न्नि­र्ण­य­या­गा­दि­स­ङ्क­ल्प­का­ल­क­र्त­व्य­फ­ल­ध्या­न­साध्यः एवं तपः प्रभा­व­स­न्नि­धा­पि­त­दे­व­ता-सा­क्षा­त्का­रोऽ­पीति न क्वापि व्यभिचारः।
श्रवणादीति।
श्रव­णा­दे­र­ने­क­स्यो­पा­यस्य दृष्टा­र्थ­त्वे­ना­र्थ­प्रा­प्त­स्यो­प­दे­शोऽ­नु­वादः। तस्माल्लिङ्गाद् दृष्टफलसिद्धये प्रत्येकमपि श्रव­णा­दि­त्र­य­म­भ्य­स­नीयं मन­न­नि­र्व­र्त­नी­य­ब­हु­वि­ध­सं­दे­ह-क­न्द­ल­द­ल­न­प­र्य्यन्तं साङ्गाध्ययनवतः पदा­र्थ­वा­क्या­र्थ­व्यु­त्प­त्ति­ल­भ्या­पा­त­ज्ञा­न­रू­प-श्र­व­णा­भ्यासः। तदु­प­स्थि­त­स­क­ल­सं­दे­ह­नि­वृ­त्तये मननाभ्यासः। साक्षा­त्का­रो­द­याय निदि­ध्या­स­ना­भ्यासः। प्रत्ये­क­मा­वि­द्य­म­भ्य­स­नी­य­मिति पाठे आवि­द्य­मि­त्ये­कै­का­भ्या-सस्य नावधिनिर्देशः किन्तु स्वस्वा­वा­न्त­र­फ­ल­प­र्य­न्तानां श्रव­णा­दी­ना­म­भ्या­स­प­र­म्प­रायाः ॥१॥२॥
अनुषङ्ग एव स्यादिति।
अनुषङ्गमात्रं भवति न त्वध्या­हा­र­गौ­र­व­मि­त्यर्थः। यद्यपि प्रत्य­य­स्या­त्म­भूतं परं ब्रह्म समर्प्पयतीति भाष्ये कस्या­त्म­भू­त­मि­त्या­का­ङ्क्षा­या­म­न्त­र­ङ्ग­त्वा­त्स्व­स्या­त्म­भू­त­मिति लभ्यते न तु जीवस्येति बहिरङ्गत्वाद् यथा अन्तर्द्धौ येना­द­र्श­न­मि­च्छ­तीति सूत्रे कस्या­द­र्श­न­मि­त्या­का­ङ्क्षा­या­मा­त्मन इति लभ्यते न त्वन्य­स्ये­ती­त्येव वकुं शक्यम् तथापि शाब्द्या­काङ्क्षा शब्देनैव पूर्यत इति न्यायात् प्रत्ययस्येति शब्दे­ना­का­ङ्क्षा­पू­रणं कार्यं स तु नाध्याहारः किन्तु प्रत्ययस्य विभ­क्ति­वि­प­रि­णा­मे­ना­नु­षङ्ग इति भावः। शाब्दिकवद् विभ­क्ति­व­च­न­वि­प­रि­णा­मे­ना­नु­ष­ङ्ग­म­नि­च्छतां संय­ज­त्रै­र­ङ्गा­नी­त्यत्र गच्छ­ता­मि­त्य­ध्या­हारं वदतां मीमांसकानां त्वत्रा­प्य­ध्या­हार एव तथापि बुद्धि­स­न्नि­हि­त-प्र­त्य­य­वि­ष­य­श­ब्दा­ध्या­हा­रा­द­त­था­भू­त­जी­व­वि­ष­य­श­ब्दा­ध्या­हारो गुरुरिति मीमांसकमते विशेषो द्रष्टव्यः।
अप­रो­क्ष­प्र­मो­त्प­त्त्यर्थ इति।
श्रव­णा­दे­रा­व­र्त्य­मा­न­स्या­प­रो­क्ष­प्र­मो­त्पा­द­कत्वं न संभवति अत­स्त­स्या­दृ­ष्ट­द्वारा मुक्त्य­र्थ­त्व­मेव वाच्यमिति योऽयं श्रव­णा­दे­रु­प­यो­ग­म­ङ्गी­कृत्य तस्य दृष्टा­र्थ­त्वा­भ­वे­ना-वृ­त्या­क्षेपः कृतः स तस्या­प­रो­क्ष­रू­प­दृ­ष्टा­र्थ­त्वा­भा­व­स्त­द­प­रो­क्ष­क­र­ण­प्र­मा­णा­भा­वात् प्रमे­य­स्या­यो­ग्य­त्वाद् वा भवतीति द्विविधोऽपि दृष्टा­र्थ­त्वा­भा­व­हेतुः क्रमेण टीकायां निराक्रियत इति भावः।
पार­मा­र्थि­क­प्र­ति­यो­गिक इति।
अत्र प्रति­यो­ग्य­भा­वयोः पारमार्थिकत्वं व्याव­हा­रि­क­स­मा­न­स­त्ता­क­त्वम्।
प्रति­यो­गि­प्र­मा­णा­मे­वेति।
अत्र रूपग्राहकं चक्षु­रे­वा­चा­क्षुषे वायावपि रूपा­भा­व­ग्रा­ह­कम्। अत एव तत्र रूपाभावग्रहणे चक्षु­र्व्या­पा­रा­पे­क्षे­त्यादि तत्रोदाहरणम्। केचन मन्यन्ते वैशेषिकादयः। स्वमते रूपा­द्य­भा­वोऽ­नु­प­ल­ब्धि­प्र­मा­ण­गम्यः। नानु­प­ल­ब्धि­मात्रं प्रमाणं किन्तु योग्यानुपलब्धिः योग्यता च प्रति­यो­गि­स­त्त्व­वि­रो­धिता। अतो योग्यताघटकत्वेन चक्षु­र्व्या­पा­रा­पेक्षा। तदभावे ह्यधिकरणे प्रति­यो­गि­स­त्त्वेऽपि तद्वि­ष­य­प्र­मा­ण­भा­वेन संभ­व­न्त्य­नु­प­लब्धिः प्रति­यो­गि­स­त्त्व­वि­रो­धिनी न स्यात्।
उपाधीनां मिथ्यात्वादिति।
ननु मिथ्यात्वमिह व्यावहारिकत्वं न तु प्रातिभासिकत्वं ब्रह्म­ण्यु­पा­स्य­गु­णानां श्रुत्यु­प­दि­ष्टानां व्याव­हा­रि­क­त्वात्। उक्तं हि व्यतिहाराधिकरण (ब्र. अ. ३ पा. ३ सू. ३७) भाष्ये यथा ध्यानार्थेऽपि सत्य­का­मा­दि­गु­णो­प­देशे तद्गुण ईश्वरः प्रसिध्यतीति। तस्मा­त्कु­म्भा­भा­व­व­दु­पा­धी­ना­म­भा­व­स्यापि व्याव­हा­रि­क­त्वात् तद्व­दे­वा­धि­क­र­णात्ते भिद्यन्त इति युक्तमिति चेदुच्यते। यत्र यत्प्रतीतं व्यावहारिकं ततोऽन्यत्र तदभावो भवतु व्यावहारिकः यत्र प्रतीतं तत्रैव तदभावो न व्यावहारिको भवितुमर्हति समा­न­स­त्ता­का­र्या­भा­व­यो­र्वि­रो­धात्। न च ब्रह्मण्यथात आदेशो नेति नेती­त्या­दि-श्रु­ति­भि­रु­प­दिष्टा उपाधीनामभावाः प्रातिभासिका भवितुमर्हन्ति। अतः पारमार्थिकाः सन्तः ते न ब्रह्मणो भिन्ना अद्वै­त­श्रु­ति­वि­रो­धात्। न च भावा­द्वै­तेष्टिः। अद्वै­त­श्रु­ति­स­ङ्को­च­क­ल्प­ना­यो­गात्। अन्यथा भेदवादिनां क्लिष्टा­द्वै­त­श्रु­ति­यो­ज­नाया अपि प्रवेशापत्तेः। उक्तं हि वार्त्तिके
प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥ इति।
तस्मादुपाधीनां मिथ्यात्वात् तद­भा­वोऽ­धि­क­र­णा­ति­रिक्तो नास्तीति युक्तमेव।
नास्ति वास्तव इति।
वास्तवविशेषणम् अधि­क­र­णा­ति­रे­का­भ्यु­प­गमे वास्त­व­त्व­म­प्यु­पा­ध्य­भा­वा­ना­मु­क्त-न्या­ये­ना­भ्यु­प­ग­न्तव्यं न च तदभ्युपगमो युक्तः अद्वै­त­श्रु­ति­वि­रो­धा­दिति सूचनार्थम्।
न चैवमिति।
ब्रह्म­ण्य­ति­रि­क्ता­भा­व­नि­षे­धोऽ­ति­रिक्तः स्यात्त­स्या­प्य­ति­रे­क­नि­षेधे तस्यापि तन्निषेधो वक्तव्य इत्ये­व­मि­त्य­न­व­स्थे­त्यर्थः। अद्वै­त­श्रु­त्य­वि­रो­धा­या­धि­क­रणं ब्रह्मैव सर्वा­भा­व-व्य­व­हा­रा­ल­म्ब­न­मि­त्य­भ्यु­प­ग­मा­न्ना­न­व­स्थेति परि­हा­रा­भि­प्रायः।
स्वप्र­का­शा­नु­भ­वस्य केनाभिभवो वेदा­न्तै­र्व्यु­द­स­नीयः कथं च तेषां तद्व्यु­द­स­न­सा­म­र्थ्य­मि­त्या­का­ङ्क्षा­या­माह-
एतदुक्तं भवतीति।
यथा देवदत्ते तदैक्ये चेति।
एवमेव ब्रह्मणि तदभेदे च भासमानेऽपि ब्रह्मान्यज् जीवोऽन्य इत्या­रो­प­स्त­त्त्व­म­सीति वेदा­न्त­वा­क्य­श्र­व­णा­दि­मू­ल­क­म­भे­द­सा­क्षा­त्कारं विना न निवर्तत इत्यर्थः। ननु दृष्टान्ते दार्ष्टान्तिके च पूर्वा­प­र­ज्ञा­न­यो­र्वि­ष­य­कृ­त­वि­शे­षा­भावे केन विशे­षे­णो­त्त­र­ज्ञा­नस्य भेद­भ्र­म­नि­व­र्त­कत्वं न पूर्व­ज्ञा­न­स्येति चेत् सोऽयमिति तत्त्वमिति च पद­यो­र्वा­च्या­र्थ­रूपं यद्धर्मद्वयं तत्प­रा­म­र्श­रू­प­का­र­ण­वि­शे­षा­धी­नेन ज्ञानस्य ज्ञेयेन सह स्वरू­प­सं­ब­न्ध­वि­शे­षेण। एवं स्वरू­प­सं­ब­न्ध­वि­शे­ष­कृ­त­मे­वा­भि­ज्ञा­प्र­त्य­भि­ज्ञ­यो­र्लोके वैलक्षण्यं न तु विषयविशेषकृतं यथा विशे­ष­ण­वि­शे­ष्य­त­त्सं­ब­न्ध­गो­च­रा­त्स­मू­हा-ल­म्ब­ना­द्वि­शि­ष्ट­ज्ञा­नस्य विशे­ष­ण­ज्ञा­ना­दि­का­र­ण­वि­शे­षा­धी­न­स्व­रू­प­सं­ब­न्ध­वि­शे­ष­कृ­त­मेव वैलक्षण्यम् यथा वा पर­स्प­र­वि­रु­द्ध­स्था­णु­त्व­पु­रु­ष­त्व­वा­न­य­मि­त्या­हा­र्य­नि­श्च­या­त्सं­श­यस्य दोष­रू­प­का­र­ण­वि­शे­षा­धी­न­स्व­रू­प­सं­ब­न्ध­वि­शे­ष­कृ­त­मेव वैलक्षण्यम्।
तन्त्री­क­ण्ठो­द्भवा इति।
वीणागाने तन्त्र्युद्भवाः शारीरगाने कण्ठोद्भवाश्च तत्त­त्स्था­न­वि­शे­ष­प्र­भ­व­म­न्द्र-म­ध्य­म­ता­र­ध्व­नी­ना­म­नु­र­ण­न­रूपा नादाः स्वरास्तेषां षड्जादीनां स्वराणां षड्जादिप्रधानाः षड्जग्रामो मध्यमग्रामो गान्धारग्राम इति त्रिविधा ग्रामास्तेषां ग्रामा­णा­मा-रो­हा­व­रो­ह­रूपाः प्रत्येकं सप्तविधा एक­विं­श­ति­मू­र्च्छनाः।
स्वेनैवेति।
टीकाकृता कृतैवेत्यर्थः। यद्यपि टीकायां वाक्यात् साक्षा­त्का­रो­त्प­त्ति-प्र­का­र­स्यो­प­पा­दि­त­त्वेऽपि भाष्ये तदुपपादनमिदानीं क्रियत इति वक्तुं शक्यम् तथा­प्य­य­म­भि­स­न्धि­रि­त्या­रभ्य पूर्व­भा­ष्य­ता­त्प­र्य­वि­ष­य­त्वे­नैव टीकायां तदुपपादनस्य कृतत्वाद् उत्त­र­भा­ष्या­र्थत्वं तस्यायुक्तमिति टीका­का­र­हृ­द­य­मि­त्या­शयः।
एतावानाक्षेप इति।
साक्षा­त्का­र­क­र­ण­स्यान्तः करणस्य भाव­ना­प्र­च­य­सा­हि­त्यार्थं धात्व­र्थो­प­सं­गृ­ही­ता-वृ­त्ति­ग­र्भस्य निदिध्यासनस्येव बहु­वि­ध­श­ङ्का­नि­रा­क­र­णार्थं मननस्येव च साङ्गा­ध्य­य­न-ज­न्य­वा­क्या­र्थ­ज्ञा­न­रू­पस्य श्रव­ण­स्या­वृ­त्ते­र्ना­स्त्यु­प­योगः। न च मन­न­नि­व­र्त­नी­य­ब­हु­वि­ध-श­ङ्को­त्था­नाय श्रवण वृत्त्य­पे­क्षाऽ­स्तीति वाच्यम्। सकृच्छ्रवणेऽपि धीमतः सकलशङ्कोत्थितेः स्वत­स्तू­त्था­ना­भा­वेऽपि न्याय­वि­चा­र­शा­स्त्र­नि­ब­न्ध­त­यैव विचारकाले तदु­त्थि­ति­सं­भ­वात्। अन्य­थो­त्था­प­नी­य­श­ङ्के­य­त्ता­न­व­ग­मेन श्रव­णा­प­र्य्य­व­सा­न­प्र­स­ङ्गात्। कैमुतिकन्यायो न हि दृष्टेऽनुपपन्नं नामेति भाष्यान्न प्रतीयत इत्याशङ्क्य तद्भाष्यारूढं करोति
वाक्या­भ्या­सा­न­भ्या­सा­भ्या­मिति।
यद्वाक्यं तत्त्व­म­सी­ति­व­द­भ्यस्तं यद्वा नाभ्यस्तं तेन द्विविधेनापि वाक्येन यदेकजातीयं परोक्षज्ञानं जायते तस्मि­न्न­पी­त्यर्थः। वाक्या­भ्या­सा­भ्या­सा­भ्या­मिति पाठे वाक्य­म­भ्य­स्त­म­भ्यासो वाक्याभ्यासः ताभ्या­मि­त्यर्थः।
परो­क्षा­र्थ­स्ये­त्यर्थ इति।
न हि दृष्ट इति भाष्ये दृष्ट इत्यस्य विवरणार्थं दृश्यन्ते हीति भाष्यं कैमु­ति­क­न्या­य­प्र­द­र्श­नाय परो­क्षा­र्थ­वाक्ये आवृ­त्य­पे­क्षा­स­द्भा­व­प्र­द­र्श­न­प­रम् न तु वाक्यमात्रे अप­रो­क्षा­र्थ­वाक्य आवृत्यपेक्षाया इदानीं साध्यमानत्वात्। अतो दृश्यन्ते हीत्या­दि­भा­ष्या­र्था­नु­वा­दके तदेवं वाक्य­मा­त्र­स्येति टीकाग्रन्थे वाक्यपदं परो­क्षा­र्थ­क­वा­क्य­परं व्याख्येयमिति भावः। अत्रेदं वक्तव्यम् वाक्या­दि­हा­प­रो­क्ष-ज्ञा­नो­त्प­त्तिर्न साक्षा­द्वि­व­क्षिता येन वाक्या­त्सा­र्व­त्रि­क­स्वा­र­सि­क­शा­ब्द­ज्ञा­नो­त्प­त्ता­व­प्या-वृ­त्त्य­पे­क्षायां क्वाचि­त्क­य­त्न­सा­ध्या­प­रो­क्ष­ज्ञा­नो­त्पत्तौ तदपेक्षाऽस्तीति किमु वक्त­व्य­मि­त्यु­च्ये­तापि किन्तु वाक्ये शाब्द­ज्ञा­न­मु­त्पा­द्यो­प­रते निदि­ध्या­स­न­रू­प­भा­व­ना-प्र­क­र्षा­देव तदु­त्प­त्ति­र­भि­मता तत्र वाक्यस्य पर­म्प­र­यो­प­यो­ग­मा­त्रम्। अतस्तत्र वाक्य­श्र­व­णा­वृ­त्ते­र­पेक्षा कैमु­ति­क­न्या­यान्न सिध्यति आवृ­त्ता­द­ना­वृ­त्ताद्वा शब्दादर्थबोधे दृढे जाते तत्प्रे­क्षा­प्र­वृ­त्त­भा­व­ना­प्र­क­र्षे­णैव साक्षा­त्का­रो­त्प­त्ति­सं­भ­वात् अप्सरायमाणा काचिदमुष्य कन्यकाऽस्ति तवै­वा­र्हे­त्या­प्त­वा­क्यात् सकृ­च्छ्रु­त­व­तोऽपि तां लिप्सो­र्भा­व­ना­प्र­क­र्षात् तत्सा­क्षा­त्का­रो­द­यात् न च टीकायां वाक्या­द­प­रो­क्ष­ज्ञा­नो­त्पत्तौ कैमुतिकन्यायस्य प्रदर्शनमस्ति शाब्दज्ञानेऽपि वाक्य­श्र­व­णा­वृत्त्या व्यक्तितारतम्यं दृश्यते निदि­ध्या­स­न­रू­प­प्र­त्य­य­प्र­वाहे साक्षा­त्का­रो­त्प­त्त्यर्थं तद्वे­द्य­प­र­का­ष्ठा­पे­क्षितं व्यक्तितारतम्यं ध्यानावृत्त्या भवतीति किमु वक्तव्यमित्येव तत्र कैमु­ति­क­न्या­यो­प­न्या­सात्। नन्व­नू­दि­त­श्र­व­णा­वृ­त्ति­वै­य­र्थ्य­श­ङ्का­प­रि­हा­रार्थं भाष्य­ता­त्प­र्य-क­थ­नार्थं प्रवृत्तस्य टीकाग्रन्थस्य ध्याना­वृ­त्ति­स­म­र्थ­ना­र्थत्वं न युक्तमिति स्वरसतः प्रती­य­मा­न­स्त­दर्थ आचार्यैस्त्यक्त इति चेत्तर्हि न हि दृष्ट इत्या­दि­भा­ष्य­स्वा­र­स्य-म­व­लम्ब्य लोक­दृ­ष्ट्य­नु­सा­रेण तत्त्व­म­सी­त्या­दि­वा­क्य­ज­न्य­शा­ब्द­ज्ञा­ना­र्थ­मे­वा­वृ­त्य­पे­क्षा-स­म­र्थ्यतां लोकेऽपि हि गहनवाक्येषु वाक्या­र्थ­बो­धा­र्थम् आवृत्यपेक्षा दृष्टा तथेहापि तदपेक्षेति। एवं च यस्य साङ्गाध्ययनवतो याव­त्स्व­व्यु­त्प­त्ति­ब­ल­मू­लेन पुनः­पु­न­रा­वृत्त्या वाक्या­र्था­व­धा­रणे जाते प्राग्भ­वी­य­श्र­व­ण­म­न­न­वा­स­नो­द्बो­धे­ना­श­ङ्का­नु­दयः तस्य न मननापेक्षा यस्य तदभावेन शङ्कोदयस्तस्य तन्निरासाय मनने प्रवृत्तिरिति दृढ­शा­ब्द­ज्ञा­नो­त्प­त्त्य­र्थ­मेव श्रव­णा­वृ­त्ति­स­म­र्थनं भाष्यस्यार्थ इति ऋजुरेवायं पन्थाः। ननु पूर्वपक्षे आवृत्तावपि तदनुपपत्तेरिति भाष्येण वाक्य­मा­व­र्त्य­मा­न­मपि नापरोक्षज्ञानं जनयतीति या शङ्का कृता सैवेह सिद्धान्ते ननूक्तं सकृच्छ्रुतं चेदि­त्या­दि­भा­ष्ये­णा-नू­दि­ता­त­स्त­त्प­रि­हा­र­ग्र­न्थ­स्या­वृ­त्ते­र­प­रो­क्ष­ज्ञा­नो­प­योग एव तात्पर्यं वर्णनीयमिति चेद् न। पूर्व­प­क्ष­ग­त­श­ङ्का­ग्र­न्थ­स्या­प्या­वृत्तेः शाब्द­ज्ञा­ना­नु­प­यो­ग­प­र­ता­या­मेव स्वारस्यात्। अत्राहेति पूर्व­प­क्षा­र­म्भ­ग्रन्थे आत्मभूतमिति विशेषणं प्रत्य­य­स्या­त्म­भू­त­मि­त्य­स्मि­न्नर्थे स्वारसिकं प्रत्ययस्य सन्नि­हि­त­त्वा­दिति तत्स्वा­र­स्य­म­नु­रुध्य खलु ततः प्रभृति टीकाकृता विवृतिः कृता। तत्राहेति वाक्ये तथैव तदर्थोऽस्तु। तथा च विरु­द्धां­श­प्र­हाण्या जीवैक्येन बोध्यं ब्रह्म निर्विशेषमिति तद्विषयायां वृत्ति­सा­ध्य­वि­शे­ष­वि­ष­य­त्वा­सं­भ­वाद् आवृ­त्ति­र्व्य­र्थेति प्रथममाक्षेपः। आवृत्त्यभावे तद्वि­ष­य­वृ­त्ति­रेव नोदीयादिति ततः सिद्धान्तिनः शङ्का। सकृ­च्छ्रु­ता­न्नो­दे­तीति चेद् आवृत्तावपि नोदीयादिति पुनराक्षेपः। ततः शाब्द­ज्ञा­ना­र्थ­मा­वृ­त्य­न­पे­क्षा­या­मपि साक्षा­त्का­रार्थं तदपेक्षाऽस्तीति शङ्का­त­त्प­रि­हा­र­प्र­पञ्चः। पूर्व­प­क्षा­व­सा­नेऽपि चानेकांशोपेत इत्या­दि­ग्र­न्थे­ना­त्म­भू­त­मिति विशे­ष­ण­सा­म­र्थ्य­ल­भ्य­यु­क्ति­वि­व­र­ण­मिति पूर्व­प­क्ष­ग्र­न्थ­सा­म­ञ्ज­स्यात्। शाब्द­ज्ञा­ना­र्थ­मे­वा­वृ­त्त्य­पे­क्षेति सिद्धा­न्त­ग्र­न्थ­सा­म­ञ्ज­स्याच्च। अपि च तत्त्व­म­सी­त्ये­त­द्वा­क्य­मि­त्या­दि­स­म­न­न्त­र­भा­ष्य­ग्र­न्थस्य शाब्द­ज्ञा­ना­र्थ­त­यै­वा­वृ­त्त्य-पे­क्षा­प्र­ति­पा­द­क­त्वाच्च। एवमक्लिष्टे भाष्यार्थे व्यक्तेऽ­प्य­र्था­न्त­र­व­र्ण­नम् एवमपि योजयितुं शक्यमिति प्रौढो­क्ति­मात्रं द्रष्टव्यम् ॥
संसृष्टत्वमिति।
संसृष्टशब्दो धर्मलक्षकः। ततः संसृ­ष्ट­ना­ना­त्व­श­ब्द­यो­र्द्व­न्द्व­स­मासे सति न विद्येते संसृष्टनानात्वे ययोरिति द्वन्द्वगर्भो बहुव्रीहिः। पुनस्तथाभूतौ पदार्थौ यस्येति बहु­व्री­हि­रि­त्यर्थः। असं­सृ­ष्ट­ना­ना­प­दा­र्थ­क­मिति त्वप्र­त्य­य­र­हि­त­पाठे त्वेक एव बहुव्रीहिः। तेन संसृ­ष्ट­ना­ना­प­दा­र्थ­र­हि­त­मि­त्य­र्थ­लाभे सति विशे­ष्य­नि­षे­धा­यो­गाद् विशेषणयोः संसृ­ष्ट­ना­ना­त्व­यो­र्नि­षेधः। स रैक्वो यद्वेदेति जानश्रुतौ राज्ञि रात्रौ शयाने तस्योपरि पतत्सु हंसेषु पुरोगामिनं हंसं प्रति पश्चाद्गामिना केनचिद्धंसेन जान­श्रु­ते­र्ज्योतिः द्युव्यापि दीप्यते तन्मा प्रसा­ङ्क्षी­दि­त्युक्ते पुरोगामिना च सयुग्वानं रैक्वमिव जान­श्रु­ति­मा­त्थेति जानश्रुतौ तुच्छीकृते कथं सयुग्वा रैक्व इति पश्चाद्गामिना रैक्वस्य महिम्नि पृष्टे पुरोगामिनो वचनम्। यथा कृतायविजिताय अधरेयाः संपतन्त्येवमेनं सर्वं तदभिसमेति यत्किं­चि­त्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति। अस्यार्थः। कृतनामा द्यूते चतुरङ्कः अयः। तस्मै विजिताय तस्मि­न्वि­ज­यार्थं न्यस्ते अधरे न्यूना अयाः त्रिद्व्ये­काङ्काः त्रेता­द्वा­प­र­क­लि­ना­मानः संपतन्ति अन्तर्भवन्ति चतुःसंख्यायां त्रित्वा­दि­सं­ख्या­न्त­र्भा­वात्। एवमेनं प्रस्तुतं रैक्वं सर्वं तद्व­क्ष्य­मा­ण­म­भि­स­मेति यत्किं­चि­त्प्रजाः साधु कर्म कुर्वन्ति सर्व­प्र­जा­सं­पा­द्य­ध­र्म­फलं सर्वं रैक्व­ध­र्म­फ­लेऽ­न्त­र्भ­व­ती­त्यर्थः। यः रैक्वादन्योऽपि तद्वस्तु वेद किं यत्स वेद स रैक्को यद्वेद तमपि सर्वं तद्व­क्ष्य­मा­ण­म­भि­स­मे­ती­त्य­नु­षङ्गः। रैक्का­द­न्य­स्यापि रैक्वो­पा­स्य­मु­पा­सी­नस्य धर्मफले सर्व­प्रा­णि­ध­र्म­फ­ल­म­न्त­र्भ­व­ती­त्य­र्था­द­य­मर्थः प्रदर्श्यते स रैक्वो यद्वदेत्यादिना।
यच्छब्दार्थमाह-
तत्प्रा­ण­त­त्त्व­मिति।
प्राणो वाव संवर्ग इति जानश्रुते रैक्वे­णो­प­दे­क्ष्य­माणं प्राणतत्त्वं यद्वेदेति यच्छ­ब्दे­नो­क्त­मि­त्यर्थः। प्राणतत्त्वमिति प्रथमान्तपदम्।
सर्व­ध­र्म­फ­ल­म­भि­सं­ग­च्छत इति।
एतमिति श्रुत्यु­पा­त्तम्। रैक्कमिवेति शेषरैक्कमिवेति सयुग्वानमिव रैक्वमात्थेति प्राची­न­श्रु­ति­वा­क्या­र्थेन संबन्धप्रदर्शनं मानुशाधीति मे इति श्रुतौ षष्ठ्यन्तस्य मामिति द्वितीयार्थो दर्शितः। शिक्षय विद्यामुपादापय। शिक्ष विद्योपादाने इति धातुः।
हे पुत्रेति।
असौ वा आदित्य उद्गीथ इत्या­दि­त्य­दृ­ष्ट्यो­द्गी­थो­पा­सनं प्रकृतं तन्निष्ठः कौषी­त­कि­रा­दि­त्य­र­श्मि­भे­द­म­कृत्वा केव­ल­मा­दि­त्य­दृष्ट्या स्वकृ­त­मु­द्गी­थो­पा­स­न­मे­तमु एवाहमभ्यगासिषं तस्मान्मम त्वमे­कोऽ­सी­त्ये­क­पु­त्रतां दोषेणापोद्य रश्मींस्त्वं पर्या­व­र्त्त­य­ता­दिति रश्मीनादित्यं च त्वं भेदेनोपास्वेति पुत्रं प्रत्युपदिदेश। तत्रार्थसिद्धं संबोधनमध्याहृतं हे पुत्रेति।
तकार एको लुप्तो द्रष्टव्य इति।
लोपस्त आत्मनेपदेष्विति छन्द­स्या­त्म­ने­प­देषु विहितस्तकारलोपो बहु­ल­ग्र­ह­णा-त्प­र­स्मै­प­देऽपि क्वचिद्भवतीति भावः। पर्या­व­र्त्त­य­ता­दिति हेस्तातङादेशे सति रूपम्। एवं रश्मि­ब­हु­त्व­दृ­ष्टे­रा­वृ­त्ति­म­त्त्वो­क्ति­र­न्ये­ष्वपि वेदनेषु न्याय­प्रा­प्त­मा­वृ­त्ति­मत्वं स्थाली­पु­ला­क­न्या­येन गमयतीति भावः ॥२॥
इति प्रथ­म­मा­वृ­त्य­धि­क­र­णम् ॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥
कस्य साक्षा­त्का­रा­येति।
नित्यापरोक्षो जीवः नित्य­प­रो­क्ष­स्ततो भिन्न ईश्वरः अतः कस्यापि साक्षात्कारः श्रव­णा­द्या­वृ­त्ति­साध्यो नास्तीत्यर्थः ॥३॥
इति द्वितीयम् आत्म­त्वो­पा­स­ना­धि­क­र­णम् ॥

न प्रतीकेन हि सः ॥४॥
प्रतीकेषु ब्रह्मा­त्म­ता­मा­पा­दि­ते­ष्विति।
द्वावेतौ पक्षौ नामादीनां ब्रह्म­दृ­ष्टि­वि­ष­य­त्वात् तेषु ब्रह्मा­भि­न्न­जी­व­दृष्टिः कार्येत्येकः पक्षः। नामादीनां ब्रह्मणश्च विका­र­वि­का­रि­भा­वेन वास्त­वा­भे­द­स­त्त्वात् तेषु ब्रह्मदृष्टौ क्रियमाणायां ब्रह्मा­भि­न्न­जी­व­दृष्टिः कार्येति द्वितीयः पक्षः। प्रथमपक्षे दृष्ट्या ब्रह्मा­भे­दा­पा­दनं द्वितीयपक्षे विका­र­वि­का­रि­भा­वेन।
सत्यमत एवेति।
यतः स्वरूपेण लये नास्त्य­हं­ग्र­हा­ल­म्ब­नम् अत एव मनआदीनां जीव­व­द­व­च्छि­न्न­रू­पे­णैव लय इति पूर्व­प­क्ष्य­भि­प्रायं मत्वा तमुद्भाव्यं निरा­क­रि­ष्य­ती­त्यर्थः।
नन्वर्थाद्वेति द्विती­य­वि­क­ल्पा­श­ङ्कायाः प्रथ­म­वि­क­ल्प­श­ङ्काया इव कथं श्रवणेन निरा­क­र­ण­मि­त्या­शङ्क्य तदभिप्रायमाह-
यदि श्रुतेरिति।
अर्थसिद्धमपि श्रुतेर्यदभिमतं क्वचित् तत्सा श्रावयतीति दृष्टं यथा स्वस्यागृहीतया रशनया नयनासंभवाद् अर्थप्राप्तमपि रश­ना­ग्र­ह­ण­मि­मा­म­गृ­भ्ण­न्र­श­ना-मृ­त­स्ये­त्य­श्वा­भि­धा­नी­मा­दत्त इति श्रावयति न चेह तथा नामादिषु जीवाभेददृष्टिं क्वचिदपि श्राव­य­ती­त्यर्थः। नन्व­र्थ­प्रा­प्तस्य क्वचन श्रवणेन भाव्यमिति नास्ति नियमः स्रुवादीनां द्रव­द्र­व्या­द्य­व­दा­नेषु व्यव­स्थि­ते­र­र्थ­प्रा­प्तायाः क्वचिदपि श्रवणाभावात्। उक्तं हि वार्तिके
यथैव पाठः प्रति­प­त्त्यु­पा­य­स्त­थैव सामर्थ्यमपि श्रुतीनाम्।
तेनैव चैता न समामनन्ति सहस्रभागं तु समामनेयुः ॥ इति।
अतः केव­ल­म­र्था­त्प्रा­प्ति­रपि वक्तुं शक्येति शङ्कां निरा­क­रो­ती­त्य­व­ता­र­यति
यत्त्वर्थादिति।
ननु नायमतिप्रसङ्गः आकाशादेः स्वरूपतो विकल्पितत्वेन जीववद् ब्रह्मा­भे­दा­भा­वा­दिति शङ्कामनूद्य निराकरोति-
जीवस्येति।
ब्रह्म­दृ­ष्टि­क­र­णा­दिति।
भेदपक्षे हि ब्रह्मदृष्टिर्न स्याद् न त्वभेदपक्षे इति भावः।
नन्वहं ब्रह्मा­स्मी­त्य­भि­न्नेऽपि ब्रह्मणि विरु­द्धां­श­प्र­हाण्या जीवाभेददृष्टिः क्रियते न तु ब्रह्मैव जीव इति केव­ल­ब्र­ह्म­दृष्टिः तथेह किं न स्यादि­त्या­श­ङ्क्याह-
आर्थिकी हीति।
प्रती­ति­रि­त्य­क­र्तरि च कारक इति कर्मणि क्तिन्प्रत्ययः। अर्था­त्प्र­ती­त-मि­त्यर्थः। अर्थसिद्धमपि तदेव विधितोऽनुष्ठेयं यदनुष्ठानं विना श्रुतं न निर्वहति न चात्र श्रुत­ब्र­ह्मा­भे­द­दृ­ष्टे­र्विना जीवा­भे­द­दृ­ष्टि­नि­र्वा­होऽस्ति प्रत्युत स्वाभे­द­दृ­ष्टि­व­द­र्थ-प्रा­प्त­जी­वा­न्त­रा­भे­द­दृ­ष्टि­रपि कर्तव्या स्यादि­त्य­ति­प्र­सङ्ग इत्यर्थः।
उक्त­न्या­या­ति­दे­शेन द्वितीयपक्षं स्वयं दूषयति-
ब्रह्म­वि­का­र­त्वे­नेति।
ननु ब्रह्मा­भे­द­दृ­ष्टि­मू­ला­हं­म­ति­क्षे­प­शङ्का न च घटादिषु तद्दृ­ष्टि­वि­धा­न­म­स्तीति नातिप्रसङ्ग इत्याशङ्क्याह-
तुल्यं चेति।
ब्रह्म­दृ­ष्टि­व­ध्य­न­पे­क्षि­त्वात् शङ्का­या­स्त­न्मू­ल­त्व­म­सि­द्ध­मिति भावः।
सर्वस्य वाक्यजातस्य प्रपञ्चविलय: प्रयोजनं न भव­ती­त्यु­क्ति­भङ्ग्या क्वचि­द्भ­व­ती­त्य­नु­मतिः प्रतीयते तदनुमतिस्थलं दर्शयति-
सर्वं खल्वित्यादौ हीति।
अप्रधानस्य जीवस्येति।
तत्त्व­म­स्या­दि­ष्व­भेद एव वाक्यार्थः प्रधानभूत इति भावः।
तत्त्व­म­स्या­दि-वा­क्यै­रे­क­वा­क्य­तायां ब्रह्म­दृ­ष्ट्यु­प­दे­शे­ष्वा­त्म­दृ­ष्टि­क­ल्पने यदपेक्षितं तदध्याहारेण पूरयति-
कर्तृ­त्वा­दि­बा­धे­नेति।
यद्यपि मनो ब्रह्मेत्यादौ निर्वि­शे­ष­ब्र­ह्म­प्र­क­र­णा­भा­वेऽपि मनःप्रभृतिषु ब्रह्म­दृ­ष्ट्य-ध्या­साय ब्रह्मशब्दार्थो ज्ञातव्य इत्यसंकुचिते तदर्थे त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्या­न्त­र्भा­वाद् वस्त्व­प­रि­च्छे­दो­प­यो­गि­जी­वा­भे­दा­व­ग­त्यैव कर्तृत्वादिबाध आवश्यकः तथापि प्रधा­न-भू­तो­पा­स­ना­वि­ध्य­वि­रो­ध्येव ब्रह्म­श­ब्दा­र्थ­स्त­दु­प­यो­गि­तया ग्राह्यः। अङ्ग­गु­ण­वि­रो­धा-धि­क­र­ण­न्या­ये­ना­ङ्ग­भू­त­ब्र­ह्म­श­ब्दा­र्थै­क­देशं जीवाभेदं त्यक्त्वा प्रधा­न­वि­ध्य­पे­क्षि­तस्य कर्तृकर्मभेदस्य ग्रहणौचित्यात् इह कर्तृत्वादिबाधे प्रधा­न­स्यो­पा­स­न­स्यैव निवृ­त्ति­प्र­स­ङ्गाच्च ॥४॥
इति तृतीयं प्रतीकाधिकरणम् ॥

ब्रह्म­दृ­ष्टि­रु­त्क­र्षात् ॥५॥ अति­प्र­स­ङ्ग­सा­म्य­म­व­लम्ब्य पूर्वाधिकरणेन दृष्टा­न्त­सं­ग­ति­माह–
पूर्वत्रेति।
अङ्गा­नु­ष्ठा­ना­रा­धित इति।
व्रीहि­प्रो­क्ष­णा­घा­रा­दितः परमेश्वर एव प्रसन्नः सन् व्रीह्यादिभिः पुरो­डा­श­नि­र्व­र्त्त­न-द्वारा याग­सि­द्धि­हे­तु­रि­त्यर्थः।
न चातिप्रसङ्ग इति।
मैत्रोपासनया चैत्रा­त्फ­ल­सि­द्धि­प्र­सङ्ग इत्यतिप्रसङ्गो न भवतीत्यर्थः॥
अतिथ्याद्युपासन इवेति।
अतिथिभोजनं ताव­द­ति­थि­प्र­धा­न­मिति तत्प्रीणनं भोज्या­दि­प्र­दा­नेन लोकसिद्धम्। देवता वा प्रयो­ज­ये­द­ति­थि­वद् भोजनस्य तदर्थत्वा (जै. अ. ९ पा. १ सू. ६ ) दिति पूर्व­त­न्त्रा­धि­क­रणे चाति­थि­भो­ज­न­स्या­ति­थि­प्रा­धा­न्य­वद् देवतोद्देशेन द्रव्य­त्या­ग­रू­पस्य यागस्य देव­ता­प्रा­धा­न्य­मिति पूर्वपक्षं कृत्वाऽ­ति­थि­भो­ज­न­वै­ष­म्य­क­थ­नेन याग­प्रा­धा­न्य-सि­द्धा­न्त­क­र­णा­द­ति­थि­भो­ज­न­स्या­ति­थि­प्रा­धा­न्य­म­भ्यु­प­ग­तम्। तत्रातिथेः स्वर्गा­दि­फ­ल-दा­तृ­त्वा­सं­भ­वा­दी­श्वर एव फलदातेति फलमत उपपत्तेः (ब्र. अ. ३ पा. २ सू. ३८ ) इत्य­धि­क­र­ण­न्या­येन संप्रतिपत्तिः। नैतावता मैत्रोपासनया चैत्रस्य फल­दा­तृ­त्व­प्र­सङ्ग इत्य­ति­प्र­स­ङ्गोऽस्ति। एवमिहापि भविष्यतीति भावः। आदिशब्देन पान्थ­शु­श्रू­षा­दिकं गृहीतम्।
यद्यपि प्रती­ति­वि­ष­य­त्वा­पे­क्षया हीति।
इतिशिरस्कस्य ब्रह्मपदस्य ब्रह्म­श­ब्द­प­रत्वे ब्रह्म­प्र­ती­ति­प­रत्वे च मुख्य­सा­मा­ना­धि­क­रण्यं न स्यादिति ब्रह्म­प्र­ती­ति­वि­ष­य­त्व­प­र­त्व­म­ङ्गी­कृ­तम् आदित्यं ब्रह्म­प्र­ती­ति­वि­षयं कृत्वोपासीतेति एव­म­पि­मु­ख्य­सा­मा­ना­धि­क­रण्यं न लब्धम् ब्रह्मशब्दस्य ब्रह्म­प्र­ती­ति­वि­ष­य­त्व­सा­दृ­श्ये­ना-ब्र­ह्म­ण्या­दित्ये वृत्त्य­ङ्गी­का­राद् गौणत्वमेव प्राप्तम् अतः को विशेष इति शङ्कार्थः।
शब्द­सा­मा­ना­धि­क­र­ण्या­दिति
केव­ल­प्र­ती­ति­सा­मा­ना­धि­क­र­ण्य­स्या­प्यु­प­ल­क्ष­णम् ॥५॥
इति चतुर्थं ब्रह्म­दृ­ष्ट्य­धि­क­र­णम् ॥

आदि­त्या­दि­म­त­य­श्चाङ्ग उपपत्तेः ॥६॥ भाष्ये क्रिया­त्म­क­त्वा­दि­त्य­सा­ध­क­मिति। कर्मा­त्म­क­त्वा­दु­द्गी­था­दी­ना­मिति भाष्ये कर्मात्मकत्वं क्रियारूपत्वं न तु कर्मकारकत्वं तस्या­दि­त्या­दि­ष्व­प्य­वि­शे­षा­दिति दर्शयितुं तद्विवरणतया क्रिया­त्म­क­त्वा­दिति पदमुपात्तम्। अनेन भाष्ये­णा­दि­त्या­दी­ना­म­स्वा­भा­विकं क्रिया­त्म­क­त्व­म­व­लम्ब्य फल­हे­तु­त्व­मु­प­पा­दि­त­मिदं तु साधकं स्वाभाविकेन क्रिया­त्म­क­त्वे­नो­द्गी­था­दीनां फल­हे­तु­त्वो­प­प­त्ते­रिति शङ्कार्थः। ऋक्सा­म­श­ब्दा­भ्या­मिह पृथिव्यग्नी निर्दिश्येते प्रसि­द्ध­ऋ­क्सा­म­यो­रा­श्र­या­श्र­यि­भा­वस्य तस्मा­दृ­च्य­ध्यूढं साम गीयत इति समनन्तरवाक्ये पृथगुपादानात् तदे­त­दे­त­स्या­मृ­चीति वाक्ये ऋक्सामशब्दौ गौणौ वाच्याविति भावः। द्रव्य­सं­स्का­र­म­र्ह­तीति वार्तिकश्लोके द्रव्य­श­ब्द­स्थाने वस्तुशब्दः पठितः क्रिया­रू­प­स्या­प्यु­द्गी­थ­स्यो­प­यो­ग­व­त्त्व­न्या­य­सा­म्येन संस्का­र्यो­प­पा­द­नो­प­यो­गि­तया। ननु तन्नि­र्धा­र­णा­नि­यम (ब्र. अ. ३ पा. ३ सू. ४२) इत्यधिकरणे आदि­त्या­दि­म­ति­भि­रु­द्गी­था­व­य­व­स्यो­का­र­स्यो­पा­सनं न तत्संस्कारकर्म किन्तु उद्गीथसाधनं पृथक्फलं प्रधानकर्मेति प्रसाधितं तद्वि­रु­द्ध­मि­द­मु­द्गी­थ­सं­स्का­र­त्व­व­च­नम्। उच्यते। क्रतु­वी­र्य­व­त्त­र­त्व­फ­ल­स्यो­पा­स­नस्य क्रत्व­न्त­र्भू­त­क­र्म­कत्वे संभवति न तद्ब­हि­र्भू­त­क­र्म­क­त्व­म­ङ्गी­क­र­णी­य­मि­त्ये­ता­व­न्मात्रे तात्पर्यं न तु तत्सं­स्का­र­क­र्म­तया तदङ्गत्व इति न प्राक्प्र­सा­धि­ता­र्थ­वि­रोधः। अर्थ­वा­द­त्व­सं­भ­वा­दिति प्रौढ्योक्तम्। लोक­दृ­ष्ट्या­दीनां फल­त्वेऽ­प्या­र्थ­वा­दि­क­त्वेन तदविशेषात् क्रतु­वी­र्य­व­त्त­र­त्व­स्यापि फलत्वं नापैतीत्यपि द्रष्टव्यम्।
यत्र गुणात्फलं लोकादि भवतीति।
लोकेषु पञ्चविधमित्यत्र कल्पन्ते हास्मै लोका ऊर्ध्वा­श्चा­वृ­त्ता­श्चेति पाञ्च­वि­ध्य­गु­णस्य फलमुक्तं पृथि­व्य­न्त­रिक्षं द्यौरि­त्यू­र्ध्व­लोकाः द्यौरन्तरिक्षं पृथि­वी­त्या­वृत्ता लोकाः प्राणिनां गत्या­ग­ति­वि­शि­ष्टास्ते कल्पन्ते समर्था भवन्ति उपासकस्य गतागतयोर्भोगान् संपा­द­यि­तु­मि­त्यर्थः। आदिशब्देन वाचि सप्तविधमित्यादौ साप्त­वि­ध्य­गु­ण­फलं दुग्धेऽस्मै वाग्दोहमित्यादि गृह्यते गुणस्य क्रियात्वेन लोकादिभिः समत्वादिति। ननु पाञ्च­वि­ध्या­दि­गु­ण­स्या­क्रि­या­रू­प­त्वेऽपि लोकादीनां नास्त्य­क्रि­या­रू­प­त्व­नि­यमः वृष्टौ पञ्चविधं सामो­पा­सी­ते­त्या­दिषु वृष्ट्यादीनां क्रिया­रू­प­त्वा­द्य­दु­प­म­न्त्र­यते स हिंकार इत्यादिषु उप­म­न्त्रा­दि­श­ब्दो­क्तानां स्त्रिया सह संकेतकरणादीनां पुरु­षा­नु­ष्ठे­य­क्रि­या­त्वा­च्चेति चेत्। सत्यम्। अक्रि­या­त्वे­ने­त्य­नेन क्रतु­का­ला­नु­ष्ठे­य­क्रि­या­त्वा­भावो विवक्षितः। अत एव क्रतु­वी­र्य­व­त्त­र­त्व­फ­ल­त्वा-भा­वोक्तिः।
अतो लोकादिष्वपि सामाध्याससंभव इति।
यतोऽत्र क्रत्व­ङ्ग­भू­त­सा­मो­पा­सनं न विधीयते किन्तु तदा­श्रि­त­गु­ण­मात्रं लोकादिफलाय विधीयतेऽतः क्रतु­वी­र्य­व­त्त­र­त्व­फ­ल­त्वा­भा­वा­दि­त्यर्थः। ननु यदि समस्तस्य खलु साम्न इति वाक्यविहितं साम­प्र­धा­न­मु­पा­स­न­मा­श्रित्य लोकेषु पञ्च­वि­ध­मि­त्या­दि­वा­क्येन फलाय गुणमात्रं विधीयते तदा कथं लोकादिषु सामाध्याससंभव: तथा सति हि साम­प्र­धा­नो­पा­स­ना­रू­पा­श्र­या­भा­वाद् गुण­वि­धि­रे­वा­त्मानं न लभेतेति चेत् सत्यम् लोकेषु पञ्च­वि­ध­मि­त्या­दि­स­प्त­म्य­नु­सा­रेण सामोपासनाविधिः साम्न उपा­स­ना­स्प­र्श­मा­त्र­परः न प्राधान्यपर इति शङ्का­वा­द्य­भि­प्रायः।
अस्ति गुणस्यापि कार्यत्वमिति।
तथा च करो­ति­व्य­प­दे­शा­र्ह­त्वाद् वीर्य­व­त्त­र­त्व­फ­ल­क­त्व­म­प्यु­प­प­द्ये­ते­त्यर्थः। यथा­भा­ष्य­स्वा­रस्यं लोका­दि­मा­त्र­फ­ल­क­त्व­म­भ्यु­प­गम्य टीका­या­मु­द्गी­थो­पा­स­ना­वै­ष­म्येण या शङ्का यश्च प्रयुक्तिलाघवेन तत्परिहारः तदुभयं स्पष्टत्वान्न व्याख्यातम्।
सत्यां लक्षणायामिति।
इयमेवर्गग्निः सामेति ऋक्सा­म­पृ­थि­व्य­ग्नि­सा­मा­ना­धि­क­र­ण्य­नि­र्देशे ऋक्सामयोः सामा­ग्न्यो­श्चा­श्र­या­श्र­यि­भा­व­सा­म्या­न्नि­मि­त्त­मिति प्रतिपादनार्थं प्रवृत्ते तदे­त­दे­त­स्या­मृ­चीति वाक्ये पृथि­व्य­ग्नि­वि­ष­य­ऋ­क्सा­म­श­ब्द­प्र­योगो यदि गौणः स्यात् तदा­नी­मा­रो­प्य­वा­च­क-मे­वा­धि­ष्ठाने गौणवृत्तिः प्रयुज्यत इति नियमात् स प्रयोगः पृथि­व्य­ग्न्यो­र­धि­ष्ठा­नत्वे ऋक्सा­म­यो­रा­रो­प्यत्वे च लिङ्गं स्याद् न त्वेवं लक्ष­णा­श्र­य­णा­दि­त्यर्थः।
ऋक्सा­मा­ध्य­स्त­त्व­मपि संभवतीति।
ननु ऋक्सा­मा­ध्य­स्त­त्व­सं­बन्ध इदानीं न सिद्ध:। इयमेवर्गग्निः सामेति सामा­ना­धि­क­र­ण्य­नि­र्देशे तदेतदेतस्यामिति वाक्यं हेतुसमर्पकमिति पूर्व­मु­क्त­त्वाद् हेतुकथनात् प्राक् च सिद्ध्य­सं­भ­वा­दिति चेन्मैवम्। इय­मे­वे­त्या­दि­सा­मा­ना­धि­क­र­ण्य-नि­र्देशो यदि ऋक्सामयोः पृथि­व्य­ग्न्य­ध्या­सार्थः यदि वा विप­री­ता­ध्या­सार्थः उभ­य­थाऽ­प्या­ध्या­सि­क­सं­ब­न्धोऽ­स्तीति निश्चयसंभवात्। वस्तुतस्तु इय­मे­वे­त्य­पौ­रु­षे­य-वाक्यं स्वार्थसिद्धौ हेतुं नापेक्षते किन्तु सिद्ध एव तदर्थे तदे­त­दे­त­स्या­मि­त्या­दि­हे­तु-व­न्नि­ग­दा­र्थ­वा­द­मात्रं तस्मा­दृ­च्य­ध्यू­ढ­मिति तृतीयवाक्यवत्। न हि पृथि­व्य­ग्न्यो­रा­श्र­या-श्र­यि­भावः प्रसि­द्ध­ऋ­क्सा­म­यो­रा­श्र­या­श्र­यि­भावे हेतु: येन तस्मा­दि­त्यु­च्येत। तस्मादियमेवेति प्रथमवाक्ये वक्ष्य­मा­ण­न्या­येन ऋक्सा­मा­ध्य­स्त­त्व­सं­ब­न्धस्य सिद्धत्वात् तदवलम्बनायां लक्षणायां न काचिदनुपपत्तिः। इदं च लक्षणा फलवतीति वस्तु­ग­ति­म­नु­रु­ध्यो­क्तम्। गौणतायामपि न दोषः। ऋक्सा­म­दृ­ष्टि­वि­ष­य-त्व­सा­म्येन गौणताश्रयणे हि पूर्ववाक्ये पृथिव्यग्न्योः ऋक्सा­म­दृ­ष्टि­वि­धि­रा­श्र­य­णीयः। अन्यथा गौण­वृ­त्ति­नि­मि­त्त­गु­णा­ला­भा­दिति। पृथि­व्य­ग्न्यो­र्ऋ­क्सा­म­श­ब्द­प्र­यो­ग­स्त­था­वि­धाने लिङ्गं भवेद् न त्वेव­मा­श्र­य­णी­यम्। पूर्ववाक्येन ऋक्सामयोः पृथि­व्य­ग्नि­दृ­ष्टि­वि­ष­य-त्व­सा­म्येन गौणतोपपत्तेः। लक्षणापक्षेऽपि हि ऋक्सा­मा­ध्य­स्त­त्व­सं­ब­न्धा­श्र­यण एव सिद्धा­न्ता­नु­गु­ण्यम्। ऋक्सा­म­दृ­ष्ट्य­धि­ष्ठा­न­त्व­सं­ब­न्धा­श्र­यणे तु लक्षणापि पूर्वपक्षलिङ्गं भवेदेव। किंच प्रथमवाक्ये ऋक्सा­म­वि­ष­य­पृ­थि­व्य­ग्नि­श­ब्द­प्र­यो­ग­वद् द्वितीयवाक्ये पृथि­व्य­ग्नि­वि­ष­य­ऋ­क्सा­म­श­ब्द­प्र­यो­ग­स्या­प्या­श्र­या­श्र­यि­भा­व­सा­म्येन गौण­त्व­मु­प­प­द्यते। प्रयो­गा­न्त­र­नि­र्वा­ह­क­गु­ण­प्र­द­र्श­क­वा­क्य­ग­त­स्यापि प्रयोगस्य तेनैव गुणेन निर्वाहो नायुक्तः। सप्तम्यधिकरणे चेति लौकि­क­वै­दि­क­प्र­यो­ग­ग­त­स­प्त­म्य­र्थ­प्र­द­र्श­क­सू­त्रत एव तत्सू­त्र­ग­त­स­प्त­म्य­र्थ­स्यापि प्रद­र्श­ना­ङ्गी­का­रात्। भाष्यं तु गौणी लक्षणेति भेदमनादृत्य गुणा­न्त­र­नि­मित्ता गौण्येव लक्षणेति व्यवहृतेति योजयितुं शक्यम्।
अक्ष­रा­ञ्ज­स्य­म­प­र­म­पीति।
अङ्गे­ष्व­न­ङ्ग­दृ­ष्टि­क्षेप इति सिद्धान्ते लोकेषु पञ्च­वि­ध­मि­त्या­दिषु सप्त­म्या­स्तृ­ती­या­र्थ-त्व­मात्रं कल्प्यम् न तु पूर्वपक्ष इव सप्तम्या द्वितीयार्थत्वं द्विती­या­या­स्तृ­ती­या­र्थत्वं चेत्य­प­र­म­क्ष­रा­ञ्ज­स्यम्।
ॐकार इति।
ऋतुकाले उद्गा­तृ­भि­र्गेयाः सामभागा भक्तयः अत्रोद्गीथावयव ॐकार आदिशब्देन भक्ति­वि­शे­ष­त­योक्त इत्यर्थः।
इति तु पञ्चविधस्य साम्न इति।
इति तु पञ्च­वि­ध­स्ये­त्ये­ता­व­देव पञ्च­वि­धो­पा­स­ना­ना­मु­पा­स­नादेः श्रुतिवाक्यं साम्न उपासनं साध्विति पदत्रयं तु समस्तस्य खलु साम्न उपासनं साध्वि­त्यु­प­क्र­म­ग­त-वा­क्या­द­नु­ष­ङ्गेण लब्धमाचार्य्यैः पठितम्। ननु प्रागाचार्यैः समस्तस्य खलु साम्न उपासनं साध्वि­त्यु­प­क्र­म­ग­त­वा­क्ये­नैव पञ्च­भ­क्ति­क­स­प्त­भ­क्ति­क­व­क्ष्य­मा­ण­स­क­ल-सा­मो­पा­स­न­वि­धा­न­मु­क्तम्। इह कथं समस्तस्येति वाक्येन सप्त­वि­ध­सा­मो­पा­स­न-वि­धा­नम् इति तु पञ्चविधस्येति वाक्येन पञ्च­वि­ध­सा­मो­पा­स­न­वि­धा­न­मिति विभज्य व्याख्यायते। उच्यते। छान्दो­ग्य­भा­ष्या­नु­सा­रेण पूर्वमुक्तं टीकानुसारेण इदानीं विभज्य व्याख्यायते। टीका­कृ­ता­म­य­म­त्रा­शयः सकलभक्तियुक्तं सप्तविधं साम समस्तं भवति न तूप­द्र­व­भ­क्ति­र­हितं पञ्चविधं साम। अतः पञ्च­वि­ध­सा­मो­पा­स­न-वि­धा­ना­र्थ­मौ­प­सं­हा­रि­क­मेव वाक्य­मु­पा­स­नी­य­मिति।
श्रुत्योक्तं साम्नः साधुत्वं व्याचष्ट इति।
यद्यप्युपासनं साध्वि­त्यु­पा­स­नस्य साधु­त्व­मु­क्त­मिति प्रतिभाति तथापि य एवं विद्वान् साधु सामेत्युपास्त इत्युपसंहारात् साधुदृष्ट्या सामोपास्यं साधु­गु­ण­त्व-हिं­का­रा­दि­प­ञ्च­भ­क्ति­युक्ते साम्नि पृथि­व्या­दि­लो­क­दृष्टो क्रियमाणायां पृथिव्यादिषु कारणत्वेनानुगतः सुकृताख्यो धर्म इति व्याचष्टे इत्यर्थः ॥६॥
इति पञ्च­म­मा­दि­त्या­दि­म­त्य­धि­क­र­णम् ॥

आसीनः संभवात् ॥७॥
तत्पर्युदासं सिद्धमादायेति।
अस्मिन्नधिकरणे व्यव­स्था­प­यि­ष्य­मा­ण­स्या­स­न­नि­य­म­स्या­ङ्गा­व­ब­द्धो­पा­स­ने­ष्व­नि­य­त-श­री­र­स्थि­ति­सा­ध्या­ङ्ग­प­र­त­न्त्रेषु वर्ज्जनं सिद्धं कृत्वेत्यर्थः। अनेन प्रत्यु­दा­ह­र­ण-स­ङ्ग­ति­र्द­र्शिता। तेषु यथा नास्त्यासननियमः नैव­मि­त­रो­पा­स­ने­ष्विति।
तिष्ठ­तोऽ­प्यै­का­ग्र्य­सं­भ­वा­दिति।
अङ्गा­व­ब­द्धो­पा­स­ना­स्विति भावः।
तिष्ठतो हीति।
अङ्गा­व­ब­द्धा­स्व­गत्या देहधारणापन्ने सत्यपि कथं­चि­च्चि­त्तै­काग्र्यं सम्पाद्यते न तथेहागतिरस्ति। आसननियमस्य चोदितत्वात् तस्य च चित्तै­का­ग्र्य­रू­प­दृ­ष्टा­र्थ-त्वो­प­पत्तेः। येषां रोग­वा­र्द्ध­का­दि­भि­रा­सितुं न शक्तिः तेषामपि भीत्या­द्यु­पा­श्र­य­णे-ना­स­न­नि­य­म­नि­र्वा­हो­प­पत्तेः। अत्य­न्ता­श­क्ता­वा­र­ब्ध­का­म्य­क­र्म­वद् आप्रा­य­ण­मा­र­ब्धाया विद्यायाः यथा कथं­चि­न्नि­र्वा­ह­णी­य­त्वेन तत्र तस्य त्यागेऽ­प्य­न्यत्र त्यागायोगादिति भावः ॥७॥८॥९॥१०॥
इति पष्ठ­मा­सी­ना­धि­क­र­णम् ॥

यत्रैकाग्रता तत्राऽविशेषात् ॥११॥
अङ्गो­पा­स्ति­व्य­ति­रि­क्तो­पा­स्ति­रिति।
अङ्गो­पा­स्ति­ष्वा­श्र­या­ङ्गस्य यो दिगा­दि­नि­य­म­स्त­द­पे­क्षा­स­त्त्वा­द­ङ्गतः सिद्धसाधनं मा भूदिति पक्षविशेषणम्। एवं चोपा­स्ति­त्वा­द­ङ्गो­पा­स्ति­व­दि­त्यपि हेतुदृष्टान्तौ वक्तुं शक्यौ।
श्रुत­दे­शा­दि­म­त्त्व­मिति।
उपासनासु विशिष्य दिगा­दि­नि­य­म­श्र­वणं नास्ति वैदिककर्ममात्रे प्राङ्मु­ख­त्वा­दि­नि­य­म­स्म­र­ण­म­न­न्तरं साध­न­चि­त्तै­का­ग्र्य­वि­रो­धाद् वैदि­क­क­र्मा­न्त­र­वि­ष­य-मि­त्यु­पाधेः पक्षा­द्व्या­वृत्तिः ॥११॥
इति सप्त­म­मे­का­ग्र­ता­धि­क­र­णम् ॥

आ प्राय­णा­त्त­त्रापि हि दृष्टम् ॥१२॥
अहं­ग्र­हो­पा­स्ती­ना­म­दृ­ष्टा­र्थ­त्वे­नेति।
ननु यस्य स्यादद्धेति श्रव­णा­न्नि­दि­ध्या­स­न­व­त्तासां साक्षा­त्का­र­रू­प­दृ­ष्ट­फ­ला­र्थ-त्व­म­प्यु­क्त­मा­वृ­त्य­धि­क­रणे सत्यम्। तावता याव­त्सा­क्षा­त्का­रो­द­य­मा­वृत्तिः सिध्यति न त्वाप्रायणमिति भावः।
कृत­शा­स्त्रा­र्थ­त्वा­त्पुंस इत्यर्थ इति।
अत्र पुंस इत्यध्याहारेण कृत­शा­स्त्रा­र्थ­शब्दे बहु­व्री­हि­र्व्यु­त्पा­दितः। न चाहरहर्वा एवं विद्वान् स्वर्गं लोकमेतीति दहरविद्यायां वीप्सया विद्याया याव­ज्जी­वि­क­त्व­म­व­ग­म्यते स यो ह वैत­द्भ­ग­व­न्म­नु­ष्येषु प्रायणान्तमिति सत्यकामप्रश्ने साक्षाच्च तदाम्नायते। सत्यम्। प्रक­र­ण­वि­शे­षा­म्नातं तदुभयं न्यायतः प्राप्तिं विना सर्व­वि­द्या­सा­धा­रण्यं न भजेत्।
दृष्टद्वारेण चेति।
कर्म­णा­म­न्त्य­प्र­त्य­य­ज­नने दृष्ट­सा­म­र्थ्या­भा­वा­द­दृ­ष्ट­मा­श्रितं प्रत्ययानां तत्र दृष्टद्वारा संभवाद् नादृष्टं द्वार­मा­श्र­य­णी­य­मिति।
अन्तकाले तद­व­श्यं­भा­वा­दिति।
ननु उपा­स्ती­ना­मा­प्रा­य­ण­म­नु­वृ­त्ता­वपि सायंप्रातः काल­यो­र­ग्नि­हो­त्र­वत् चितै­का­ग्र्य­शा­लिषु समयेषु तासामनुष्ठानं भवति न तु सर्वकालं नैरन्तर्य्येण धारावाहिकतया तथा च कुतः प्रायणकालेऽपि प्रत्य­या­नु­वृत्या ततः साक्षा­त्का­रो­द­या­व­श्यं­भावः। तस्मा­त्त­द­व­श्यं­भा­वो­क्ति­र­युक्ता। प्रति­ब­न्ध­का­न्त­रा­नु-द्भ­वो­क्ति­र­प्य­युक्ता। प्रबलस्य कस्य­चि­त्प्र­ति­ब­न्ध­क­क­र्मणः तदा­नी­मु­द्भ­व­सं­भ­वे­नो­द्भू­तस्य प्रारब्धस्य वा प्रति­ब­न्ध­क­त्व­सं­भ­वेन तदा तीव्र­म­र­ण­वे­द­ना­दि­क­मु­द्भा­व­यता तेन प्रत्य­या­नु­वृ­त्ति­सा­क्षा­त्का­रो­द­ययोः प्रति­ब­न्ध­सं­भ­वात्। यद्यु­पा­स्ति­ज­न्य­प्र­ब­ला­दृ­ष्ट­व­शा-त्प्र­त्य­या­नु­वृ­त्ति­क­ल्प­नया साक्षा­त्का­रो­द­या­व­श्यं­भावः कल्प्यते तदा तद्व­शा­त्सा­क्षा-त्का­रो­द­या­व­श्यं­भाव एव कल्प्यतां किमा­प्रा­य­ण­प्र­त्य­या­वृ­त्ति­क­ल्प­नया। उच्यते। तीव्र­म­र­ण­वे­द­ना­मू­लस्य कर्मणोऽपि भोक्त­व्य­फ­ल­वि­ष­या­न्ति­म­प्र­त्य­य­स्ता­व­द­व­श्यं­भावी सविज्ञानो भव­ती­त्या­दि­श्रुतेः। अत उपासनाफले भोक्तव्ये तत्प्रत्ययोऽपि तदानीमवश्यं वाच्यः। स च साक्षात्काररूप एव प्रभवति प्रागुपास्ये साक्षात्कारस्य क्लृप्तत्वात् प्राची­न­सा­क्षा­त्का­रि­त्व­भा­व­नैव कारणत्वेन क्लृप्तेति सा तदा­नी­म­प्य­पे­क्ष­णीया सा च दृढसंस्कारवत एव भवति न तु चिरा­त्प्र­त्य­या­वृ­त्ति­मु­ज्झि­त­वतः प्रमु­षि­त­सं­स्का­र­स्येति संस्का­र­दा­र्ढ्या­र्थ­मा­प्रा­यणं प्रत्य­या­वृ­त्ति­र­पे­क्ष­णीया। अत एव प्राय­णा­नु­व­र्त­नी­य­प्र­त्य­या­वृ­त्ति­स­ह­का­रि­तया तत्फलेन ब्रह्म­लो­क­प्राप्त्या फलवतां कर्म­णा­मा­प्रा­य­ण­म­नु­वृत्तिं दर्शयति छान्दो­ग्य­श्रु­ति­रा­चा­र्य­कु­ला­द्वे­द­म­धी­त्ये­त्या­दिका। इयं ह्युपा­स­ना­स­ह­का­रि­क­र्म­वि­षया आत्मनि सर्वेन्द्रियाणि संप्र­ति­ष्ठा­प्येति चित्तै­का­ग्र्यो­पा­य-सा­हि­त्य­श्र­व­णाद् ब्रह्म­लो­क­प्रा­प्ति­फ­ल­श्र­व­णात्। अत एव भगवत्पादैरियं श्रुति­र्वि­द्या­स­ह­का­रि­क­र्म­वि­ष­याऽ­व­ता­रिता। यथेह षष्ठा­द्य­ध्या­य­त्र­य­प्र­का­शि­ता­त्म­विद्या सफलाऽवगम्यते तथा कर्मणां न कश्चनार्थ इति प्राप्तं तदा­न­र्थ­क्य­प­रि­हा­राय विद्व­द्भि­र­नु­ष्ठी­य­मा­नस्य विशि­ष्ट­फ­ल­सं­ब­न्धे­ना­र्थ­व­त्त्व­मु­च्यत इति। एवं च प्रति­ब­न्ध­का­न्त­रा­सं­भ­वोऽ­प्यु­प­प­द्यते दृढ­सं­स्का­रा­धा­नेन प्राय­ण­का­लि­क­प्र­त्य­या­नु­वृ­त्ति-सा­क्षा­त्का­र­यो­र्दृ­ष्ट­का­र­ण­भू­तायाः प्रत्य­या­वृ­त्ते­स्त­त्स­ह­का­र्य­ग्नि­हो­त्रा­दि­क­र्मा­नु­वृ­त्तेश्च प्रत्यग्रत्वेन प्रबलतया ताभ्यां प्रार­ब्ध­प­र्य­न्तस्य सर्वस्यापि प्रति­ब­न्ध­क­स्या­नु­त्थि­ति-का­र­णो­प­पत्तेः कर्म­वि­पा­क­प्रा­य­श्चि­त्त­व­त्प्रा­र­ब्धा­द­प्य­नयोः प्राब­ल्यो­प­प­त्तेश्च। एवं न्याय­सि­द्धा­मे­वा­प्रा­य­णा­नु­वृति स यो हवैतद्भगवन्निति श्रुति­र­ह­र­हः­श्रु­ति­श्चा­नु­व­द­तीति तयोरपि सर्व­वि­ष­य­तो­प­प­द्यते।
ननु तेजसोदानेनेति व्याख्या­न­म­यु­क्तम् छान्दोग्यश्रुतौ प्राणस्तेजसि तेजः परस्यां देवतायामिति मुमूर्षोः प्राणस्य तेजः­श­ब्दो­प­ल­क्षि­त­दे­ह­बी­ज­भू­त­प्रा­प्ति­श्र­व­णात् तथैव तस्याः श्रुते­र्द्वि­ती­य­पादे व्याख्या­स्य­मा­न­त्वा­दि­त्यत आह-
उदानस्य तेजो­दे­व­ता­त्म­क­त्वा­दिति।
प्रश्नोपनिषदि यश्चित्त इति वाक्यात् प्राचीनवाक्ये तेजो ह वाव उदान इति श्रूयते ततः प्राक् च उदानः पुण्येन कर्मणा पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकमिति श्रूयते। अतस्तेजस्त्वेन यथा­सं­क­ल्पि­त­लो­क­नि­न्दा­त्वेन चात्र श्रुत उदान एवेति भावः। आत्मना सह आत्मना सहितः सन् तमेवात्मानं यथासंकल्पितं लोकं नयतीति श्रुति­शे­ष­स्यार्थः।
उत्त­रा­धि­क­र­ण­सं­ग­ति­माह-
अन्तकाल इति।
यथो­पा­स­क­स्या­न्त­काले प्राप्य­पा­र­लौ­कि­क­फ­ल­वि­ष­या­न्ति­म­प्र­त्य­य­रू­प­सा­क्षा­त्का­रो-द­यार्थं तदानीमपि प्रत्य­या­वृ­त्त्य­नु­वृ­त्य­पेक्षा नैवं पर­ब्र­ह्म­वि­द­स्त­द­पे­क्षाऽस्ति। ततः सकलाघनाशेन कृत­कृ­त्य­ता­प्ते­रि­त्यु­त्त­रा­धि­क­र­णेन प्रति­पा­द­ना­दा­प­वा­दिकी सङ्गतिः। सगु­ण­वि­द्या­न­पे­क्षि­त­त­द्वि­रो­धि­क­र्म­णा­म­नि­वृ­त्तिस्तु न्यायसाम्यात् सिध्य­न्त्या­नु­ष­ङ्गिकं प्रयोजनमिति भावः ॥१२॥
इत्य­ष्ट­म­मा­प्रा­य­णा­धि­क­र­णम् ॥

तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ तद्व्यपदेशात् ॥१३॥
अथैकेन शरीरेणेति।
उष्ट्र­म­त­ङ्ग­जा­दि­भो­ग्य­क­ण्ट­क­का­ष्ठा­दि­भो­ग­प्रा­प­क­क­र्म­फ­लो­प­भोगा एकेन शरीरेण नोपपद्यन्त इत्यर्थः।
अर्थ­वा­द­लि­ङ्ग­स्येति।
उपासना यस्मिन् दिने प्रारब्धा ततः प्रभृ­त्यु­त्त­रा­घा­श्लेषः तस्मिन्नेव दिने प्राची­न­स­क­ला­घ­ना­शश्च कथ­मि­त्य­र्थ­वा­द­मात्रे भारं संनि­वे­श्या­भ्यु­प­ग­न्त­व्यम् इत्य­प्य­र्थ­वा­द­ग्र­ह­णेन सूचितम्। किन्तु सति विरोधे न चेह स इति निर्गुण इव सगुणेऽपि साक्षात्कारोदये सत्य­श्ले­ष­वि­ना­शा­विति नातिप्रसङ्ग इति भावः। सगु­ण­नि­र्गु­ण­वि­द्या­सा­धा­र­ण्ये­ना­श्ले­ष­वि­नाशौ विरोधाभावेन समर्थितौ। अभ्युपगम्यापि प्रमा­णा­न्त­र­वि­रोधं विरुद्धं प्रमा­णा­न्त­र­मे­वा­श्ले­ष­वि­ना­श­प्र­मा­णेन बाध्य­मि­त्ये­त­न्नि­र्गु­ण-वि­द्या­मा­त्र­वि­षयं पापं ज्ञान­नि­वृ­त्य­र्थ­मि­त्या­दिना बलीयसीत्यन्तेन दर्शितम् ॥१३॥
इति नवमं तदधिगमाधिकरणम् ॥

इत­र­स्या­प्ये­व­म­सं­श्लेषः पाते तु ॥१४॥
प्रथमं निरस्येति।
न च शास्त्री­य­त्व­सा­म्ये­ना­वि­रो­धो­प­पा­द­नेऽपि ज्ञाना­ज्ञा­न­रू­प­त्व­कृ­त­वि­रोधो न निरस्त इति वाच्यम्। तस्मिन् सत्यपि प्रार­ब्ध­व­द­नु­वृ­त्ति­सं­भ­वा­दिति भावः।
पाप्मनश्च विशेषतो ब्रह्म­ज्ञा­ने­नो­च्छे­द्य­त्व­श्रु­ते­रिति टीकायां विवक्षितां श्रुतिमुदाहरति-
सर्वे पाप्मानोऽतो निवर्तन्त इति।
न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त इति छान्दो­ग्य­श्रु­ति­रिह नोदाहर्तुं योग्या तत्र पाप्मशब्दः सुकृतस्यापि ग्राहक इति स्फुटत्वेन तस्याः सिद्धा­न्ता­नु­गु­ण­त्वात्। किंत्वन्येयं श्रुति­रा­चा­र्यै­रु­दा­हृता। आत्म­न्ये­वा­त्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति सर्वे पाप्मानः प्रहीयन्त इत्यादि चात्र पूर्व­प­क्षा­नु­गुणं वाक्यं द्रष्टव्यम्।
पापविशेषे संकोच्यमिति।
पापरूपे कर्मविशेषे संको­च्य­मि­त्यर्थः।
स्वभा­व­वि­रो­ध­प­क्ष­मा­दा­येति।
धर्मस्य ज्ञान­मा­त्रा­न्नि­वृत्तिः स्वभा­व­वि­रो­धाद्वा शास्त्रा­न्नि­व­र्त्य­त्वा­व­ग­मा­द्वेति विक­ल्पि­त­प­क्ष­द्व­य­मध्ये प्रथ­म­प­क्ष­मा­दा­ये­त्यर्थः। प्रार­ब्ध­व­द­नु­वृ­त्ता­वा­र­ब्ध­फ­ल­त्व­हे­त्व-भा­वाद् अव­धि­श्र­व­णा­भा­वाच्च अन­न्त­श­री­र­भो­ग्या­ना­म­नि­य­त­का­ल­वि­पा­कानां पुण्यकर्मणां युगपत्क्रमेण वा भोगा­सं­भ­वा­द­नि­र्मोक्षः स्यादिति भावः। क्रम­मु­क्ति­फ­ल­कासु सगुण विद्यास्वप्ययं न्यायस्तुल्यः। देव­लो­का­दि­प्रा­प­क­पु­ण्य­वि­शे­षा­नु­वृत्तौ तत्फलभोगाय पुन­र्नि­वृ­त्त्या­पत्त्या क्रममुक्तिर्न सिद्ध्येदिति। तथाभूतार्थानीति पाप्मश्रुत्या पुण्यस्यापि ग्रहणे न्याय­सि­द्धा­र्था­नु­सा­र्य­र्थानि। यथाभूतार्थानीति पाठे उभे वैष एते तरति नैनं सुकृतदुष्कृते तरत इत्यादीनि यथाश्रुतार्थानि भवन्ति न तु क्लेशेन योज्यानीत्यर्थः ॥१४॥
इति दश­म­मि­त­रा­सं­श्ले­षा­धि­क­र­णम् ॥

अनारब्धकार्य एव तु पूर्वे तदवधेः ॥१५॥
यथा कुलालेति।
कुलालकराभिघाते निवृत्ते तन्नि­मि­त्त­क­माद्यं भ्रमणं निवर्तते तत­स्त­ज्ज­न्य­वे­गा­ख्य­सं­स्का­राद् भ्रम­ण­प­र­म्प­रा­नु­वृ­त्ति­दृष्टा तथा कर्म­ज­न्य­सं­स्का­रा-त्क­र्मा­न्त­रा­नु­वृ­त्ति­रि­त्या­द्य­पक्षो न युक्त इत्यर्थः।
न मायेति भ्रमनिषेध इति।
तज्जन्यसंस्कारो न तद्गोचर इत्य­ग्रि­म­वा­क्य­यो­स्त­त्प­देन मायाशब्दोक्तं परामृश्य तज्ज­न्य­सं­स्का­र­त­द्वि­ष­य­यो­र्व­स्तु­स­त्ता­नि­षे­धाद् मायाशब्दोऽत्र भ्रमपर इति भावः। तजन्यसंस्कार इत्यनेन माया­सं­स्का­र­ज­न्य­मा­या­न्त­रात् कर्मा­न्त­रो­त्प­त्ति­रिति पक्षं प्रतिक्षिपतीति। यद्यपि न तज्जन्यसंस्कार इत्यनेन भ्रम­ज­न्य­सं­स्का­र­नि­षेधः प्रतीयते तथाप्यर्थाद् भ्रमो­पा­दा­न­मा­या­नि­षे­धस्य पूर्ववाक्ये वर्णितत्वाद् मायापि निषेध्यतया बुद्धिस्थेति तज्ज­न्य­सं­स्का­र­नि­षे­ध­प­र­त­याऽपि योजयितुं शक्य­त्वा­त्स्व­वि­क­ल्पि­त-द्वि­ती­य­प­क्ष­नि­रा­सा­र्थ­त्वे­नेदं वाक्यं योजितम्। न तज्जन्यसंस्कार इत्यनेनेत्यादेः प्रति­क्षि­प­ती­त्य­न्तस्य ग्रन्थस्य स्थाने अनेन माया­ज­न्य­मा­या­न्त­रा­त्क­र्मा­न्त­रो­त्प­त्ति­रिति पक्षः परिस्फुरतीति क्वचित्पाठः। तत्रायमर्थः। यत्र तु न माया न तत्संस्कारो न तद्गोचर इति टीकाग्रन्थः प्रस्तुते भय­क­म्पा­दि­वै­ष­म्य­प्र­द­र्श­न­परो न भवति माया­वा­दि­न­श्चे­त्या­दि­पू­र्व­ग्र­न्थे­नैव तद्वै­ष­म्य­सिद्धेः। अतोऽनेन टीकाग्रन्थेन द्वितीयपक्षो निषे­धा­र्थ­म­नू­दितः परिस्फुरतीति।
ननु न तत्संस्कार इति तच्छब्दस्य मायापरत्वे तद्गोचर इत्यत्रापि तस्य तत्परत्वेन भाव्यम् न तु तद्युक्तम् माया­वि­ष­य­स्या­त्म­न­स्त­त्त्व­ज्ञा­ना­दू­र्ध्व­मपि सत्त्वेन तन्नि­षे­धा­यो­गा­दि­त्या­शङ्क्य व्याचष्टे-
मायात्मभ्रमगोचर इति।
भ्रममाययोः कार्य­का­र­ण­यो­र­भे­दो­प­चा­राद् भ्रमविषयो माया­वि­ष­य­त्वे­नो­प­च­रित इति भावः।
किम­नु­व­र्ते­ते­त्युक्त्वा न किमपीत्याहेति।
किम­नु­व­र्ते­ते­त्यु­क्त­मे­वार्थं न संस्कारावशेष इत्यादिना विवृणोतीति न पौन­रु­क्त्य­मि­त्यर्थः।
न ततोऽधिकमित्यर्थ इति।
इहापि तावदेव चिरमित्येवकारेण न ततोऽधिकमित्यर्थ एव प्रतीयते न तु ताव­त्प­र्य­न्त­म­नु­व­र्तत एवेत्यर्थ इति भावः।
नास्ति ब्रह्म न प्रकाशते चेति
भ्रमा­न्य­था­नु­प­प­त्त्येति।
इदमुपलक्षणम् परप्रेमास्पदतया जीवस्वरूपानन्दे प्रकाशमानेऽपि नास्ति न प्रकाशत इति व्यवहारात् तदा­व­र­का­वि­द्या­स­द्भा­वोऽ­व­ग­म्यत इत्ये­त­द­प्यु­दा­ह­र­णम्।
न चैकदेशेनेति।
निवृत्ताया अविद्याया एक­दे­शे­ना­नु­वृ­त्य­सं­भवो नेति योजना।
शाब्दबोधेनेति।
सक­ले­त­र­म­धु­रि­म­व्या­वृ­त्तो­त्क­र्ष­शा­लि­सु­धायां मधु­रि­माऽ­स्ती­त्या­प्त­वा­क्येन तदर्थपरिच्छेदे सति तद­ज्ञा­न­नि­वृ­त्ता­वपि याव­त्सा­क्षा­त्कारं कीदृक्षः स मधु­रि­मे­त्य­ज्ञानं नापै­ती­त्य­नु­भ­व­सि­द्धम्। न च तत्र पुरु­षा­श्रि­ता­ज्ञा­न­नि­वृ­त्ता­वपि विष­या­श्रि­ता­ज्ञानं नानुभूयत इति वाच्यम्। आश्र­य­भे­दे­नै­क­वि­ष­या­ज्ञा­न­भे­द­क­ल्पने प्रमाणाभावात्। तस्मा­दे­क­मे­वा­ज्ञा­न­मे­क­देशे च निवृत्तम् एक­दे­शा­न्त­रे­णा­नु­व­र्तत इत्येव कल्पनीयमिति भावः।
कल्प­म­हा­क­ल्प­म­न्व­त­रा­दि­जी­विता चेति पाठमाश्रित्य कल्प­श­ब्दा­र्थ­माह-
कल्पोऽ­वा­न्त­र­कल्प इति।
ब्रह्मणो दिन­म­वा­न्त­र­कल्पः। तस्या­यु­र्म­हा­कल्पः।
ननु भाष्यकारैर्न तावदनाश्रित्य कर्मा­श­य­मि­त्या­दि­ग्र­न्थेन ज्ञानो­त्प­त्ते­र्दे­ह­द्वारा तदा­र­म्भ­क­क­र्मा­श्र­य­त्वा-दा­र­ब्ध­का­र्यस्य च कर्मणो मध्ये प्रति­ब­न्धा­सं­भ­वा­त्त­त्क्ष­प­णार्थं देह­पा­त­प्र­ती­क्ष­ण­मिति युक्तिरुक्ता सा टीका­का­रै­स्त­दे­त­द­भि­सं­धा­ये­त्या­दिना स्वोक्त­यु­क्ति­प­र्य­व­सानं किमिति प्रापिता स्वत­न्त्र­यु­क्त्य­न्त­र­त्व­सं­भ­वा­दि­त्या­श­ङ्क्याह-
उपजीव्याया अविद्याया इति।
अस्तु ज्ञानो­त्प­त्यर्थं देह­त­दा­र­म्भ­क­क­र्मा­पेक्षा तस्यां सत्या­मे­वो­पा­दा­ना­ज्ञा­न­बा­धेन तयोर्निवृत्तिः स्यादेव निरु­पा­दा­न­का­र्य­स्थि­त्य­सं­भ­वा­दि­त्या­श­ङ्का­याम् उत्प­न्न­ज्ञा­ना­ना­मपि श्रुतिस्मृतिषु देह­स्थि­त्यु­प­ल­म्भा­द्दे­ह­त­दा­र­म्भ­क­क­र्मो­पा­दा­ना­ज्ञा­न­ले­शा­नु­वृत्तिः कल्पनीयेति टीको­क्त­यु­क्ति­र­पे­क्ष­णीया तत इयं स्वत­न्त्र­यु­क्तिर्न भवतीत्यर्थः।
अन्यत्रेति
आत्मा­ति­रि­क्त­व­स्तु­नी­त्यर्थः।
चन्द्रै­क­त्व­सा­क्षा­त्का­रेण सहा­नु­वृ­त्ति­रिति।
अनभ्यासदशायां जलज्ञानेन सह जलमिदं न वेति संश­य­स्या­नु­वृ­त्ति-र­प्य­त्रो­दा­ह­र­णम्।
नियोग इति।
प्रागेव प्रमाणतः सिद्धं वस्तु तथास्त्विति पुनर्यत्तेन न विधेयं नापि कथमेतदिति चोद­ना­र्ह­मि­त्यर्थः।
तकारलोपश्छान्दस इति।
लोपस्त आत्मनेपदेष्विति छान्दसे तलोपे सत्यतो गुणे इति पररूपत्वम् ॥१५॥
इत्ये­का­द­श­म­ना­र­ब्ध­का­र्या­धि­क­र­णम् ॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१६॥
सुकृतशब्दस्य च काम्यकर्म विषयत्वादिति।
ननु सुहृदः साधु­कृ­त्या­मि­त्यत्र सुकृ­त­श­ब्द­स्यो­पास्य साक्षात्कारात् प्राचीनं काम्यकर्म न विषयः तस्य तत एव विनाशात् ततः पाश्चात्यस्य क्रम­मु­क्ति­फ­ला­न­पे­क्षि­तस्य तद्विरोधिनश्च तस्य विदुषि बुद्धि­पू­र्व­म­नु­ष्ठा­ना­प्र­सक्तेः वास­ना­व­शा­त्प्र­वृ­त्त­स्या­बु­द्धि­पू­र्व­स्या­स­ङ्क­ल्पि­त­फ­ल­तया क्वचिदपि फल­सा­ध­न­त्वा­भा­वात् कथं­चि­त्फ­ल­सा­ध­न­का­म्य­क­र्मा­नु­ष्ठा­न­सं­भ­वेऽपि तस्या­श्ले­ष­व­च­न­वि­ष­य­ताया अवक्तव्यत्वात् । न च अश्लेषवचनं सुहृ­द्गा­मि­त्वा­भि­प्रायं स्यादिति वाच्यम्। साक्षा­त्का­रो­द­या-न­न्त­र­म­नु­ष्ठि­तस्य काम्यकर्मणो देहवियोगकाले सुहृदि संक्र­मि­ष्य­त­स्ता­व­त्प­र्यन्तं निरा­धा­र­स्थि­त्य­यो­गात्। एतेन द्विषन्तः पाप­कृ­त्या­मि­त्य­स्यापि विषयो निरस्तः साक्षा­त्का­र­नि­व­र्त्या­द­श्ले­ष­व­च­न­वि­ष­या­च्चा­न्यस्य द्विषद्गामिनः पापस्य वर्ण­यि­तु­म­श­क्य-त्वात्। ननु ययोः पुण्यपापयोः साक्षात्कारोदये सत्य­श्ले­ष­वि­ना­शा­वि­ष्येते तयोरेव देहवियोगकाले द्विष­द्गा­मि­त्व­मु­च्यत इत्यस्तु पुण्य­पा­प­यो­र­श्ले­ष­वि­नाशौ विद्वांसं प्रति फल­ज­न­ना­र्ह­ता­नु­त्प­त्ति­नि­वृ­त्ति­रूपौ देहवियोगकाले सुहृ­द्द्वि­ष­द्गा­मित्वं तयोः फल­ज­न­ना­र्ह­तो­त्प­त्ति­रू­प­मिति वक्तुं शक्यत्वादिति चेन्न। तस्य पुत्रा दायमुपयन्तीति दृष्टा­न्ता­नु­सा­रेण याव­द्दे­ह­धा­र­ण­मु­पा­सकं प्रति फल­ज­न­न­यो­ग्य­त­याऽ­व­स्थि­तयोः देहवियोगकाले सुहृद्द्विषतः प्रति योग्य­ता­वि­र्भा­व­प्र­ती­ते­रिति चेत् । उच्यते। उपा­स­क­स्या­भ्यु­द­य­फ­ला­नि­च्छा­या­मपि तामजानद्भिः पुत्रा­दि­भि­स्त­द­भ्यु­द­ये­च्छ­या-नु­ष्ठि­तानि तडा­ग­प्र­ति­ष्ठा­दीनि संभवन्ति। द्वाद­श­वा­र्षि­क­स­त्र­वा­क्या­ना­म­य­ना­दिषु तत्तत्फलेच्छया प्रवृत्तस्य मध्ये वीतफलेच्छस्य क्रम­मु­क्ति­फ­ले­च्छया ब्रह्मोपासनायं प्रवृत्तस्य तन्मध्य एव लब्धो­पा­स्य­सा­क्षा­त्का­रस्य प्रक्रमात्तु नियम्येतेति (जै. अ. ६ पा. २ सू. १३) न्याये­ना­व­श्य­स­मा­प­नी­य­त्वेन प्राप्तानि द्वाद­श­वा­र्षि­क­स­त्रा­दीनि काम्यकर्माणि जन्मा­न्त­रे­ष्व­न्ये­षा­म­व­श्य­भो­क्त­व्य­फ­लानि संभवन्ति। किं बहुना। उपा­स­ना­स­ह­का­रि­त्वेन नित्यत्वेन चोपा­स­ना­का­लेऽ­प्य­नु­ष्ठे­यानां दर्श­पू­र्ण­मा­सा­दी­ना­म-ङ्गा­न्य­ग्न्य­न्वा­धा­न­प्र­स्त­र­या­गा­दीनि ममाग्ने वर्चो विहवेष्वस्तु आयुराशास्ते सुप्र­जा­स्त्व­मा­शास्ते इत्या­दि­क­र­ण­म­न्त्र­प्रा­का­श्य­वर्चः प्रभृतिफलवन्ति भवन्ति। तानि फलानि सङ्कल्पाभावेऽपि तद्यथाऽऽम्रे फलार्थे निमित्ते छाया गन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्त इत्या­प­स्त­म्ब­व­च­ना­द­वश्यं भवन्त्येव। अव­श्या­नु­ष्ठे­य­क­र्म­वि­ध्य­न्य­था­नु­प­प­त्त्या­क्षे­प्य­प्रा­र्थ­नानि वा भवन्ति। अन्यथा विहवेष्वस्तु आयुराशास्त इत्या­दि­म­न्त्र­प्र­का­श्य­य­ज­मा­न­गा­मि­फ­ल­त­त्प्रा­र्थ­ना­ना­म­नु­ष्ठे­या­र्थ­सं­ब­न्धि­त्वा-भा­वेन तद्वारा एतेषां मन्त्र­भा­गा­ना­म­नु­ष्ठे­या­र्थ­प्र­का­श­क­त्वा­भा­व­प्र­स­ङ्गात्। तथाऽस्य पापकर्माण्यपि परै­रा­च­रि­ता­न्यु­पा­स­क­सं­क्र­म­णा­यो­ग्यानि संभवन्ति यद­न्य­कृ­त­मा­रि-मे­त्या­दि­श्रो­त­लि­ङ्गाद् उपा­स­क­स्यै­वा­बु­द्धि­पू­र्वा­ण्य­पि­तानि संभवन्ति एवं भूत­पु­ण्य­पा­प­क­र्म­वि­षया तदश्लेषोक्तिः। यान्युपासनाकाले तद­र्थ­दे­ह­धा­र­णा­पे­क्षि­त-वृ­ष्ट्या­रो­ग्या­दि­फ­ल­त­याऽ­व­श्य­क­र्त­व्यानि काम्यकर्माणि तेषु दत्त­फ­ले­भ्योऽ­व­शि­ष्टा­न्यपि देह­पा­त­का­लेऽ­नु­व­र्त­मा­नानि संभवन्ति। पापकर्माण्यपि प्रार­ब्ध­क­र्म­फ­ल­त­या-व­श्य­प्रा­प्या­ण्यु­पा­स­केन देहपातासन्नसमये कृत­त्वे­ना­कृ­त­प्रा­य­श्चि­त्तानि संभवन्ति। तद्विषयं सुहृ­द्वि­ष­द्गा­मि­त्व­व­चनं भविष्यतीति न काचिदनुपपत्तिः। यद्वा तस्य पुत्रा दाय­मु­प­य­न्ती­त्ये­त­त्सु­हृ­द्द्वि­ष­त्सं­क्र­म­ण­का­लो­प­ल­क्ष­ण­मा­त्रम् न तु दृष्टान्तपरम् तत्परत्वेऽपि वा सर्वात्मना साम्यं न विवक्षितं किं त्वन्य­सं­क्र­म­ण­मा­त्रे­णे­ती­ष्यते। यद्वा ययोः पुण्यपापयोः साक्षात्कारे सत्यश्लेषविनाशौ तयोरेव देहवियोगकाले सुहृ­द्द्वि­ष­त्सं­क्र­म­ण­मि­त्य­भ्यु­प­ग­मेऽपि न दोषः॥१६॥१७॥
इति द्वाद­श­म­ग्नि­हो­त्रा­धि­क­र­णम् ॥

यदेव विद्ययेति हि ॥१८॥
विद्या­यु­क्त­क­र्म­प्र­शं­स­येति।
इदमुपलक्षणम् प्रस्तोतर्या देवता प्रस्ता­व­म­न्वा­यत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति साक्षा­द्वि­द्या­वि­ही­न­क­र्म­नि­न्द­याऽपि तन्निषेधकल्पना द्रष्टव्या। तथा च विद्या­वि­ही­न­क­र्म­नि­षे­धेन विद्यायाः कर्मा­ङ्ग­त्व­सि­द्धि­रिति भावः। विद्ययेति तृतीयाश्रुत्या साक्षादपि तत्सि­द्धि­र्द्र­ष्टव्या।
अन्ये त्वाहुरिति।
भास्क­रे­णै­त­त्सू­त्र­म­न­र्थ­क­मि­त्यु­पे­क्षितं तदी­या­स्त­द­भि­प्रा­य­मा­हु­रि­त्यर्थः। विद्यार्थत्वं यदा यायुरित्येषा षट्पदी गाथा। नाश्र­मो­क्त­क्रि­या­स्व­स्तीति यज्ञा­द्य­न­धि­का­रिणो जप्यादिना शूद्रस्य शुश्रू­षा­मा­त्रे­णैव सिद्धि­र­स्ती­त्ये­ता­वता तद­धि­का­रि­णोऽ­ङ्ग­वि­कलं यज्ञादि न फलाय कल्पत इति भावः।
ननु सर्वा­ङ्गा­नु­ष्ठा­ना­श­क्त­स्या-श­क्या­ङ्ग­प्र­हा­णे­ना­नु­ष्ठा­न­मपि यथा­श­क्त्य­धि­क­र­ण­सि­द्धम् अतो विद्याविहीनमपि यज्ञादिकं कार्यकरं स्यादि­त्या­श­ङ्क्याह-
विद्यो­पे­ते­ष्विति।
कर्म­भा­ग­मा­त्र­वि­दा­मौ­प­नि­ष­द­वि­द्या­वि­वे­क­र­हि­तानां विद्याविहीनमपि यथाशक्ति नित्य­क­र्मा­नु­ष्ठा­न­मस्तु नाम औप­नि­ष­द­वि­द्या­वि­वे­क­वतां दह­रा­द्यु­पा­स­का­नाम् अद्वै­त­ब्र­ह्म­वि­वि­दि­षो­त्प­त्त्यर्थं यज्ञा­द्य­नु­ति­ष्ठतां च विद्या­नु­ष्ठा­न­श­क्ति­र­स्तीति तेषां विद्याविहीनं कर्म न कार्यकरम्। अत एव विद्या­वि­वे­क­रा­हि­त्याद् विद्याविहीनमेव स्तोष्य­त्सू­द्गा­तृषु समागतेनोषस्तिना मदुपदेशेन विद्यां लब्ध्वा विद्या­स­हि­त­क­र्मा­नु­ष्ठाने संभवति तद्रहितं कर्म नानुष्ठेयमिति तन्निन्दा कृता। न च विद्या­धि­ग­मो­पा­या­भा­वाद् विद्यारहितमेव स्तोष्याम इति संक­ल्प्याऽऽ­स्ता­वो­प­वि­ष्टे­षू­द्गा­तृषु पुनर्विद्या नापेक्षणीयेति कथं तत्र विद्या­वि­ही­न­क­र्म­नि­न्देति वाच्यम्। यथाशक्ति शास्त्रं संपादयाम इत्येव हि संकल्पः न तु विद्याविहीनमेव स्तोष्याम इत्यपि। अतो यदि तदैव विद्याधिगमोपायो लभ्यते तदा तद्विहीनं कर्म न कर्तव्यमिति तन्निन्दा युक्तैव। अत एव मुख्याधिगमे मुख्यमागमो हि तदभावा (जै. अ. ६ पा. ३ सू. ३५) दित्यधिकरणे यदा यूपार्थं मुख्यं खदिरमलभ्यं मत्वा तत्प्रतिनिधिं कदरमुपादातुं प्रस्थितो मध्ये मुख्यं लभते चेद् मुख्य एवं ग्राह्यः कदरं गृहीत्वा तक्षणादिषु केषु­चि­त्सं­स्का­रेषु कृतेषु प्राक् पशुनियोजनाद् मुख्यं लभते चेदपि मुख्य एव ग्राह्य इति व्यवस्थापितम्। तस्माद् विद्या­स­हि­त­क­र्मा­नु­ष्ठा­न­शक्ता उपासका अपि तद्रहितं कर्म यद्य­नु­ति­ष्ठे­यु­स्तदा ते -
प्रभुः प्रथमकल्पेऽपि योऽनुकल्पं निषेवते।
न सांपरायिकं तस्य दुर्म­ते­र्वि­द्यते फलम् ॥
इति मान­व­ध­र्म­शा­स्त्रोक्तं दोषं नाति­व­र्ते­र­न्निति भावः।
तर­प्प्र­यो­गे­णेति।
न ताव­द­ल्पा­च्त­र­मि­त्या­दा­विव स्वार्थिकोऽयं तरप्प्रत्ययः अधिकार्थसंभवे स्वार्थि­क­त्वा­यो­गात्। अतो वीर्य­व­त्त­र­मि­त्यस्य फल­ज­न­ना­नु­कू­ल­सा­म­र्थ्या­ति­श­य­व-त्त्व­मर्थः। स च सामर्थ्यातिशयो यथा­श­क्त्य­धि­क­र­ण­न्या­य­सि­द्धा­नु­वादः सम­स्ता­ङ्ग-सा­धा­र­ण­न्या­य­सि­द्धा­नु­वादे प्रयोजनाभावात्। अतो विद्या­र­हि­ता­द्वि­द्या­स­हि­तस्य विलक्षण एव कश्चिदतिशयः सिद्धा­न्नौ­चि­त्यात् प्रबलैः कर्म­भि­र­प्र­ति­ब­द्ध­रूप एव पर्यवस्यति। एवं च पृथक् फलत्वान्न विद्या कर्माङ्गम्। विद्ययेति तृती­या­श्रु­तिस्तु उप­का­र­क­त्व­मा­त्र­परा। तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदेति विद्या­र­हि­त­क­र्मा­भ्य­नु­ज्ञा­नो­प­क्र­मा­नु­रो­धात्। न चायं यथा शक्त्य­धि­क­र­ण­न्या­य-सि­द्धा­र्था­नु­वादः अङ्ग­त्वा­भा­व­रू­पाऽ­पू­र्वा­र्थ­बो­ध­क­त्व­सं­भ­वात् मूर्धा ते विपतिष्यतीति वचनं तु धनायया समागतस्योषस्तेः स्वागमनमनादृत्य स्तोतुमारभन्त इति क्रोधप्रयुक्तं शापवचनं न तु विद्या­रा­हि­त्ये­ना­ङ्ग­वै­क­ल्य­प्र­यु­क्तम्। अत एव शापवचनमाकर्ण्य स्तोत्रा­र­म्भा­दु­प­र­ते­षू­द्गा­तृषु राज्ञाऽनुनीतेन यावत्तेभ्यो धनं दद्याः तावन्मम दद्या इति राजानं पृष्ट्वा तथेति राजानुमतिं लब्ध­व­तो­ष­स्ति­नो­द्गा­तृभ्यः प्रस्ता­वा­दि­दे­व­तो­प­दे­शा­न­न्तरं तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मये­त्या­दि­वा­क्य­त्र­येऽपि स्वशापवचनं क्रोधप्रयुक्तम् नत्व­ङ्ग­वै­क­ल्य­प्र­यु­क्त­मिति स्फुटीकृतम्। अधिकरणप्रयोजनं विवि­दि­षू­पा­स­क­क­र्तृ­के­ष्व­ग्नि­हो­त्रा­दिषु विद्यानियमा-भाव इति भाष्ये व्यक्तम्। शास्त्रदर्पणे त्वङ्गत्वे नित्य­क­र्म­व­द्वि­द्या­र्थ­त्व­म­न­ङ्गत्वे काम्य­क­र्म­व­द्वि­द्याया निवृत्तिरिति प्रयो­ज­ना­न्त­र­मु­क्तम्। तच्चिन्त्यम्। अन­ङ्ग­त्वेऽ­प्य-प्र­ति­ब­न्ध­फ­ल­क­त्वेन विद्याया अपेक्षिततया नित्य­क­र्म­तौ­ल्यात्। न हि काम्यमपि देह­धा­र­णा­र्थ­वृ­ष्ट्या­रो­ग्या­दि­फ­लकं कर्म विद्या­नि­व­र्त्यम् ॥१८॥
इति त्रयोदशं विद्या­ज्ञा­न­सा­ध­न­त्वा­धि­क­र­णम् ॥

भोगेन त्वितरे क्षपयित्वा संपद्यते ॥१९॥
प्रार­ब्ध­क­र्म­फ­ल­भो­गा­न­न्त­र­मिति।
येषां विद्या­यो­नि­श­री­रा­व­सानं प्रारब्धं तेषां विद्याफलमस्तु नाम येषां त्वने­क­श­री­रा­नु­यायि तेषां तत्फलं न संभवति जन्मान्तरस्य पूर्व­सं­स्का­र­प्र­मो­ष­क­तया शरीरान्तरे विद्याविहीनैः क्रियमाणानां कर्मणां बन्धहेतुत्वेन ततो जन्मपरम्पराया एव प्राप्तेः। न च तेषां जन्मान्तरं न संस्का­र­प्र­मो­ष­क­मिति कल्प्यम् दृष्ट­नि­य­म­स­ङ्को­च­का-भा­वात्। न च यावन्न विमोक्ष्य इति प्रार­ब्ध­क­र्म­वि­मो­क्षा­व­धि­श्र­वणं सङ्कोचकम् धूत्वा शरीरमिति श्रुत्य­न्त­रा­नु­सा­रेण तस्य शरी­र­वि­शे­षा­व­धि­प­र­तया येषां विद्या­यो­नि­श­री­रा-व­सानं प्रारब्धं तद्वि­ष­य­त्वो­प­पत्तेः। न च धूत्वा शरीरमित्यत्र शरीरग्रहणं प्रार­ब्ध­का­र्य­या­व­च्छ­री­र­प­रम्। एकवचनश्रवणात्। अस्मा­च्छ­री­रा­त्स­मु­त्था­येति श्रुत्यन्तरे अस्मादिति विशेषणेन विद्या­यो­नि­श­री­र­स्यैव विवक्षितत्वाच्च एवं च प्रार­ब्ध­स्या­ने­क­श­री­रा­नु­या­यि­त्व­श­ङ्कया विद्यानुष्ठाने प्रवृत्तिश्च न संभवेदिति पूर्व­प­क्षा­भि­प्रायः। देहान्तरे संस्कारप्रमोष आधिकारिकाणामपि कल्प्यते अस्मदादीनां वा। आधिकारिकाणां तत्कल्पना न संभवति आग­म­वि­रो­धा­दि­त्यु­क्त­त्वात्।
द्वितीयपक्षं निरस्यति-
अस्मदादीनामिति।
मुक्त्य­र्थ­वि­द्या­नु­ष्ठा­न­प्र­ति­पा­द­क­ब­हु­शा­स्त्र­प्रा­मा­ण्यात् तस्य तावदेवेति विव­क्षि­ता-व­ध्य­व­साने मुक्त्य­व­श्य­म्भा­व­प्र­ति­पा­द­का­व­धा­र­णा­प्रा­मा­ण्याच्च यावन्न विमोक्ष्य इत्यस्य प्रार­ब्ध­क­र्मा­व­धि­प­रत्वं धूत्वा शरीरमित्यत्र शरीरपदस्य प्रार­ब्ध­का­र्य­या­व­च्छ­री­र-प­र­त्व­म­स्मा­दिति विशे­ष­ण­स्या­नु­भ­व­सि­द्ध­हे­य­ता­प्र­द­र्श­ना­र्थत्वं विदुषां जन्मान्तरस्य संस्कारे प्रमो­षा­ना­पा­द­कत्वं च कल्प्यम्। अतः प्रार­ब्ध­भो­गा­न­न्तरं मुक्तिर्नियतेति सिद्धा­न्त्य­भि­प्रायः ॥१९॥
इति चतु­र्द­श­मि­त­र­क्ष­प­णा­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग­रा­जा-ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ वेदा­न्त­क­ल्प­त­रु­प­रि­मले चतु­र्थ­स्या­ध्या­यस्य प्रथमः पादः ॥ ॥
इति चतु­र्थ­स्या­ध्या­यस्य जीव­न्मु­क्ति­नि­रू­प­णाख्यः प्रथमः पादः ॥

॥चतुर्थाध्याये द्वितीयः पादः ॥ वाङ्मनसि दर्श­ना­च्छ­ब्दाच्च ॥१॥ सता सौम्य तदा संपन्नो भवतीत्युक्तायाः संपत्तेः स्वमपीतो भवतीति लयार्थेनापीतिना विवरणाद् वाङ्म­न­सी­त्य­त्रापि संपत्तिर्ल्लयः स च यथाश्रुति वाच एव प्रकृतौ लय इति लौकिकन्यायस्य वचनेन बाधोपपत्तेः। अन्यथा वाक्प्रकृतिकाया वृत्तेरपि मनसि लयो­प­पा­द­नाऽ­सं­भ­वा­दिति पूर्वपक्षे प्राप्ते टीकाशयस्थं सिद्धा­न्त-मा­वि­ष्क­रोति-
यथासिद्धेति।
प्राण­म­नु­त्क्रा­मन्तं सर्वे प्राणा अनू­त्क्रा­म­न्तीति वागा­दी­ना­मु­त्क्र­म­ण­श्रु­ते­र्म­नसि स्वरूपलयो न संभवतीति तत्प्र­ति­पा­द­क­त्वा­सं­भ­वाद् लोक­सि­द्धा­र्था­नु­वा­द­क­मिदं वाक्यमिति वक्तव्यम्। लोके च मनसि व्यापारे स्थिते वाग्व्या­पा­रो­प­रमो दृष्ट इति तस्यैवायमनुवाद इत्यर्थः।
वृत्ति­स­त्व­क­थ­न­मिति।
यद्यपि तत्कथं न लोक­सि­द्धा­र्था­नु­वा­दो­प­योगि वाग्वृ­त्ति­ल­य­हे­तु­त्वो­प­यो­ग­क­ल्पने लोक­सि­द्धा­र्था­नु­वा­दोऽपि न सिद्ध्येद् मनसो वाग्वृ­त्ति­ल­य­हे­तु­ताया लोकतः सिद्ध्यभावात् तथा­प्यु­प­प­द­वि­भ­क्तितः कार­क­वि­भ­के­र्ब­ली­य­स्त्वा­न्म­न­सीति सप्तम्या प्रतीयमानं वाग्वृत्तिलयं प्रत्य­धि­क­र­ण­का­र­कत्वं हातुं न युक्तम्। लोक­सि­द्धा­र्था-नु­वा­दे­ना­धि­क­र­ण­वि­शे­ष­वि­धा­न­सं­भ­वाद् अग्निज्वाला जले शाम्य­ती­त्य­त्रा­प्र­कृ­ता­वपि लय­व्य­व­हा­र­द­र्श­ना­च्चेति तात्पर्यम्॥१॥
येषां च सौत्रा­नु­श­ब्द­व्या­ख्येति।
यद्यपि सौत्र­स्या­नु­श­ब्दस्य भाष्ये सर्वा­णी­न्द्रि­याणि मनोऽनुवर्तते इत्यर्थ उक्तः तथापि सर्वा­णी­न्द्रि­या­ण्य­नु­ग­च्छ­न्ती­त्ये­व­म­प्यर्थः संभवतीति तात्पर्यम्।
प्राणमायतीति शेष इति।
यच्चित्तस्तेनैव प्राण­मा­या­ती­त्यतः प्राचीनस्य संप­द्य­मा­नै­रि­त्यस्य तेनान्वयो दर्शितः न त्वध्याहार उक्तः ॥२॥
इति प्रथमं वागधिकरणम् ॥

तन्मनः प्राण उत्तरात् ॥३ ॥
एवं घटस्यापि शरावे लयापत्तिरिति।
यदि शरा­वा­त्म­क­वि­कृ­त्य­न्त­रा­व­ष्टब्धा आपो घटरूपपृथिव्या न प्रकृ­ति­रि­त्य­ति-प्र­सङ्गः परिह्रियेत तदा प्राण­रू­प­वि­कृ­त्य­न्त­रा­व­ष्टब्धा अप्यापो मनसो न प्रकृतिरिति तुल्यमिति भावः ॥३॥
इति द्वितीयं मनोऽधिकरणम्॥

सोऽध्यक्षे तदुपगमादिभ्यः ॥४॥
प्राणजीवे वृत्तिलय उपचर्यत इति।
ननु प्राणस्तेजसीति श्रुत्य­नु­सा­रे­णो­प­ग­म­ना­दि­श्रु­तिषु किमित्युपचारः कल्प्यते उप­ग­म­ना­दि­श्रु­त्य­नु­सा­रेण प्राण­स्ते­ज­सी­त्य­त्रो­प­चारः कल्प्यतां प्राण­वृ­त्ति­ल­या­धा­रस्य जीवस्य तेजसि वृत्तिलयात् प्राणस्य तेजसि वृत्तिलय उपचर्यत इति प्राण­वृ­त्ति­ल­या­धा­रत्वं तेजसः सप्तम्येव जीवस्य केनचित्स्फुटं न प्रतीयते तदु­प­ज­म­ना­दि­मात्रं तु तेजो­द्वा­राऽ­प्यु­प­प­न्न­मिति चेत्। एवं सप्तम्यां निहि­त­श्र­द्ध­स्ते­जोऽ­न­न्तरं जीव­नि­वे­शेऽ­प्य­व­काशं न लभते। तेजः परस्यां देवतायां इत्यत्रापि सप्तम्या तेजसः परमात्मनि लयप्रतीतेः। एवं यथो­प­चा­र­क­ल्प­ना­सं­भवः सप्तम्यवरोधश्च पक्षद्वयेऽपि तुल्यः तथा लौकि­क­दृ­ष्टा­न्त­स­द्भा­वोऽपि तुल्यः। यथा पान्थः प्रथमं नाविकेन संगत्य ततस्तेन सह तदीयां नावं गत्वा पारं प्राप्नोति तथा प्राणः प्रथमं जीवेन संगत्य ततस्तेन सह तेजःशब्दोक्तं त्रिवृ­त्कृ­त­भू­ता­न्त­र­सं­सृष्टं तदीयं सूक्ष्मशरीरं गत्वा तेन सह परां देवतां प्राप्नोतीति जीवस्य प्राणतेजोमध्ये निवेशे दृष्टान्तः। यथा सारथिः प्रथमं राजकीयं रथं स्वयमारूढो राजसमीपं गत्वा पश्चाद्रथारूढेन तेन सहि­त­स्त­द­भि­म­त­देशं प्राप्नोति एवं जैवं सूक्ष्मशरीरं प्राणः प्रथमं प्राप्य तत­स्त­त्प्रा­प्तेन जीवेन सहितः परदेवतां प्राप्नोतीति जीवस्य तेजोनन्तरनिवेशे दृष्टान्तः। तस्मा­त्पू­र्व­प­क्ष­कोटौ नास्ति किंचि­द्वि­नि­ग­म­क­मिति चेत् । उच्यते। विनि­ग­म­का­न्त­राणां कोटि­द्व­य­तौ­ल्येऽपि लोक­सि­द्धा­नु­वा­द­प्रा­य­पाठः पूर्वपक्षे विनिगमकः। तथा हि यथा वागा­दि­बा­ह्ये­न्द्रि­य­व्या­पा­रो­प­र­मा­न­न्त­र­मपि मनो­व्या­पा­र­द­र्श­नाद् वाङ्मनसि संपद्यते इन्द्रियैर्मनसि संपद्यमानैरिति श्रुतिः यथा च बाह्या­भ्य­न्त­र­ज्ञा­नो­प­र­मा­न­न्त­र­मपि श्वास­व्या­पा­र­द­र्श­नाद् मनः प्राण इति श्रुतिः तथा श्वास­रू­प­प्रा­ण­व्या­पा­रो­प­र­मा­न­न्त­र­मपि देहे क्वचि­दौ­ष्ण्य­द­र्श­नात् प्राणस्तेजसीति श्रुतिरपि लोक­सि­द्धा­नु­वा­दि­नीति न प्राण­ते­ज­सो­र्मध्ये जीवस्य निवेश:। तेजः परस्यां देवतायामित्यस्य लोक­सि­द्धा­नु­वा­द­क­त्वा­सं­भ­वा­दु­प­ग­म­ना­दि­श्रु­त्य­नु­सा­रे­णा­वश्यं क्वचि­न्नि­वे­श­नी­यस्य जीवस्य तेजः परदेवतयोर्मध्ये निवेशः। ननु प्राणस्तेजसीति त्रिवृ­त्कृ­त­ते­जो­रू­प­दे­हा­र­म्भ­क­भू­त­सू­क्ष्म­प्रा­प्त्युक्त्या तदु­प­हि­त­जी­व­सं­ब­न्धोऽ­प्य­व­र्ज­नी­य­तया सिद्ध्येद् उपा­ध्यु­प­हि­त­यो­रे­क­त­र­सं­ब­न्धस्य तदि­त­र­सं­ब­न्ध­नि­य­त­त्वात् अतो वाङ्म­न­सी­त्या­दि­क्रमे पृथग्जीवः क्वचिदपि न निवेशनीय इति चेत् नायं नियमोऽस्ति देहा­र­म्भ­क­भू­त­सू­क्ष्माणि जीवस्येव प्राणानामपि स्थिति­ग­त्यो­रु­पा­धि­भू­ता­नीति प्राणगतेश्चेति (ब्र. अ. ३ पा. १ सू. ३) सूत्रे प्रतिपादितम्। न च वाङ्म­नः­प्रा­णानां पूर्व­पू­र्व­स्यो­त्त­रो­त्त­र­प्राप्त्या तदु­पा­धि­भू­त­सू­क्ष्म­प्रा­प्ति­र्ना­न्त­री­य­क­तया सिद्धा तथात्वे प्राणस्तेजसीति पृथक् तत्प्रा­प्ते­र­व­क्त­व्य­त्वा­पत्तेः। तत्र यथो­प­हि­त­प्रा­प्त्य­न­न्त­रम् उपाधिप्राप्तिः पृथगुच्यते एव­मि­हो­पा­धि­प्रा­प्त्य­न­न्त­र­मु­प­हि­त­प्राप्तिः पृथ­ग्व­क्तु­मु­चि­तेति पूर्व­प­क्ष्य­भि­प्रायः। एव­मे­वे­म­मा­त्मा­न­मिति भाष्यो­दा­हृ­त­श्रु­ति­वा­क्यात् प्राचीनं दृष्टा­न्त-वा­क्यम्। तद्यथा राजानं प्रयियांसन्तम् उग्राः प्रत्येनसः सूत­ग्रा­म­ण्योऽ-भि­स­मा­य­न्तीति। तत्रोग्राः वैश्या­च्छू­द्रा­या­मु­त्पन्नाः। प्रत्ये­न­स्वि­न­स्त­स्क­रा­दीन् प्रति दण्डयितृत्वेन नियुक्ताः। सूताः क्षत्रियाद् ब्राह्म­ण्या­मु­त्पन्नाः प्रति­लो­म­वि­शेषाः। ग्रामण्यो राज्ञा ग्रामाधिकारे नियुक्ताः।
इदं दृष्टा­न्त­वा­क्य­म­र्थतो गृह्णा­त्ये­वं­श­ब्द­वि­व­र­णाय-
यथा यात्रा­या­मु­द्य­त­मिति।
ऊर्ध्वो­च्छ्वा­सि­त्व­मिति। ऊर्ध्वोच्छ्वासी भवतीत्यनेन ऊर्ध्वो­च्छ्वा­सि­त्व­मे­त­छ­ब्दार्थ इति प्रद­र्शि­त­मि­त्यर्थः।
इत्यु­प­ग­म­न­श्रु­ते­रर्थ इति।
यथा यात्रा­या­मु­द्य­त­मि­त्या­दि­प्र­का­रोऽ­य­मु­प­ग­म­न­श्रु­ते­रर्थ इत्यर्थः। ननु उपगमनादिकं न प्राणस्य जीवे वृत्तिलयसाधकं यतः जीवोपगमनं जीवा­व­स्थि­ति­श्चे­त्यु­भ­य­मपि प्राणस्य न श्रुतं किंत्वि­न्द्रि­या­णाम्। यत्तु प्राणस्यापि श्रुतं जीवानुत्क्रमणं तद्वि­प­री­त­सा­ध­कम्। तत्र विलीनतया तदाश्रयस्य हि सहोत्क्रमणं भवति न त्वनूत्क्रमणम्। उच्यते। वाङ्मनसि संपद्यते मनः प्राण इति वाक्याभ्यां साक्षा­न्म­नो­द्वारा च प्राणे विलीनतया सिद्धानां मन­श्च­क्षु­रा­दीनां जीवाश्रयणाय जीवं प्रत्यागमनं जीवेऽवस्थितिश्च प्राणस्य जीवाश्रयाणां जीवं प्रत्यागमनं जीवेऽवस्थितिं विनाऽ­नु­प­प­न्न­मि­त्ये­व­मि­न्द्रि­यो­प­ग­म­ना­व­स्थित्योः प्राणो­प­ग­म­ना­व­स्थि­त्या­क्षे­प­क­त­यो­क्त-सा­ध्य­सा­ध­कता। अनूत्क्रमणं यद्यपि न वृत्ति­वि­ल­य­सा­ध­कम् तथापि तद्वचनं तत्र विलये सत्येव दृष्टं यथा प्राण­म­नु­त्क्रा­मन्तं सर्वे प्राणा अनू­त्क्रा­म­न्तीति तत्सामान्यात् तमु­त्क्रा­म­न्त­मिति वचनस्यापि तत्र विलयसाधकता।
तत्स­हि­ते­न्द्रि­य­स­मु­दा­य­व­चन इति।
विज्ञानशब्दो भाव­क­र­ण­व्यु­त्प­त्ति­द्व­येन प्रार­ब्ध­क­र्म­फ­ल­प्र­का­श­स्ये­न्द्रि­य­ग्रा­मस्य च तन्त्रन्यायेन वाचक इति तत्साहित्यं जीवस्य सविज्ञान इत्येवोच्यत इति भावः।
तेजोऽ­ध्य­क्ष­जी­व­ल­क्ष­णा­सं­भ­वा­दिति।
मार्गपर्वसु वायु­व­रु­णा­दी­ना­मिव जीवस्य पृथक् क्वचिन्निवेशो न कल्प्यते किं तूप­ग­म­ना­दि­श्रु­ति­ब­ला­द­व­श्यो­प­सं­हा­र्यस्य जीव­स्यो­प­सं­हा­रार्थं तेजःशब्दस्य तदुपहिते जीवे वृत्तिः­क­ल्प्यते। उपाधिवाचकस्य तद्वि­शि­ष्टो­प­हिते गुणवाचकस्य गुणविशिष्टाश्रय इव लक्षणोपपत्तेः। तस्मि­न्ने­त­स्मि­न्नग्नौ देवाः श्रद्धां जुह्वतीत्यत्र श्रद्धा­श­ब्द­स्याप्सु लाक्षणिकस्य त्रिवृ­त्क­र­णे­ना­न्वि­तेषु भूता­न्त­रे­ष्व­प्यु­प­ल­क्ष­ण­ता­मुक्त्वा तदु­प­हि­त­जी­व­प­र्यन्तं लक्षणाऽङ्गीकृता इह तेजोवाचकस्यैव तत्प­र्य­न्त­ल­क्ष­णा­ङ्गी­कारे काऽनुपपत्तिरिति भावः।
ननु तस्य तेजोद्वारेणेति।
तेजःशब्दस्य जीवलक्षणा न युक्ता प्राण­स्ते­ज­सी­त्यस्य लोक­सि­द्धा­नु­वा­द­क­त्वा-भा­वा­पत्तेः। अतः प्राणस्य जीववृत्तिलय एवो­प­ग­म­ना­दि­श्रु­ति­सिद्धः प्राणा­वृ­त्ति­ल­या-धा­रस्य तेजसो जीवे वृत्ति­ल­योऽ­स्ती­त्ये­त­द­व­ल­म्ब्यौ­प­चा­रि­कोऽ­स्त्विति भावः। यद्यपि प्राणस्य जीवे वृत्तिलयो न श्रुतः किंत्वि­न्द्रि­यो­प­ग­मा­दि­प्र­णा­लि­क­याऽऽ­क्षेप्यः तथापि स एव तेजो­द्वा­र­क­त्वे­ना­मु­ख्योऽ­स्त्विति तात्पर्यम्।
व्यवधानादेवेति।
परमात्मनि खलु तेजसो लयः प्रसिद्धः स जीवा­त्म­न्यु­प­च­र्यते चेत् साक्षाल्लय उपचर्यते व्यवहितो वा। नाद्यः। परमात्मन्यपि तेजसः साक्षा­ल्ल­या­प्र­सिद्धेः। न द्वितीयः। घटादावपि परमात्मविकारे लयो­प­चा­र­प्र­स­ङ्गा­दि­त्यर्थः।
ननु तेजसो जीवे स्वरूपलयो नेष्यते किन्तु वृत्तिलयः स त्वनौपचारिक एव संभ­व­ती­त्या­श­ङ्क्याह-
वृत्ति­ल­य­स्त्विति।
वाङ्म­न­सी­त्या­दि­क्रमे तेजो जीव इति पर्वान्तरं प्रमा­णा­न्त­र­सि­द्ध­मिति कल्प्यते उतो­प­ग­म­ना­दि­श्रु­ति­प्रा­पितो जीवः क्वचिन्निवेशनीय इति कल्प्यते। नाद्यः वाङ्म­न­सी­त्या­दा­विव प्रमा­णा­न्त­रा­भा­वात्। न हि प्राणव्यापारे श्वासे देहोष्मणि च निवृत्तेऽपि जीवसत्तायां तच्चि­ह्ना­नु­वृ­त्ति­रस्ति। न द्वितीयः। श्रुतस्यैव तेज:शब्दस्य तदु­प­हि­त­जी­व­बो­ध­क­त्वो­प­पत्तौ क्रमि­क­प­र्वा­न्त­र­त­द्बो­ध­क­वा­क्या­न्त­र­क­ल्प­ना­गौ­र­वा­यो­गात्। प्राण­स्ते­ज­सी­त्यस्य लोक­सि­द्धा­नु­वा­द­कत्वं तु विशे­ष­णां­श­स­त्ता­वि­ष­य­त­याऽ­प्यु­प­प­न्नम्। विशे­ष्य­भू­त­जी­वांशे तु सप्त­म्य­र्थ­प्रा­ण­वृ­त्ति­ल­या­धा­र­त्वम्। इदं तु चिन्त्यते। वाङ्म­न­सी­त्या­दि­श्रु­ते­रि­न्द्रि­यै­र्म­नसि संप­द्य­मा­नै­र्य­च्चि­त्त­स्ते­नैव प्राणमायाति प्राणस्तेजसा युक्तः सहात्मनेति श्रुत्य­न्त­रा­नु­सा­रेण व्याख्यानं सूत्रकारैः किमिति न कृतं तदनुसारेण हि वाङ्मनसीत्यनेन वागुपलक्षितानां बाह्ये­न्द्रि­याणां (मनउपहिते जीवे लय उच्यत इति व्याख्येयम्। दृष्टो हि मनःशब्दस्य जीवे प्रयोगः प्राणबन्धनं हि सोम्य मन इति। (मनः प्राण इत्यनेन विली­न­स­क­ल­बा­ह्ये­न्द्रि­याणां) मनउपहितस्य जीवस्य प्राण­प्रा­प्ति­रु­च्यत इति व्याख्येयम्। प्राण­स्ते­ज­सी­त्य­नेन तथाभूतस्य प्राणस्योदानयोग उच्यत इति व्याख्येयमिति। अत्रा­य­म­भि­प्रायः। वाङ्म­न­सी­त्या­दि­श्रु­ति­र्लो­क­सि­द्ध­क्र­मा­नु­सा­रेण प्रयुक्ता तद्वैपरीत्येन प्रवृत्तिमत ऊष्मण उपशमः प्रथमं पठितः। अतः श्रुत्य­न्त­र­मे­वा­न्यथा व्याख्येयम्। (यच्चि­त्त­स्ते­नैव प्राण­मा­या­ती­त्य­नेन क्षीण­स­क­ले­न्द्रि­य­वृ­त्ति­र्भो­क्त­व्य­फ­ल­स्फु­र­ण­मा­त्र­युक्तः प्राण­व्या­पा­र-मा­त्रा­वि­शे­ष­स्ति­ष्ठ­ती­त्यु­च्यते न तु प्राणा­धि­क­र­ण­क­वृ­त्ति­लयं) प्राप्नो­ती­त्यु­च्यत इति। श्रुत्यन्तरे तेजः शब्दस्तु पूर्व­सं­द­र्भा­नु­सा­रे­णो­दा­न­परः इह तु लोक­सि­द्ध­क्र­मा­नु­वा­देन त्रिवृत्कृततेजः परतैव तस्योचितेति ॥४॥
ननु चेयं श्रुति­रि­त्या­दि­भा­ष्यस्य तेजः­स­ह­च­रि­ता­नी­त्या­दि­टी­का­ग्र­न्थेन दर्शितेऽर्थे तस्य भाष्य­टी­का­सू­चितां योजनां दर्शयति-
प्राणे­ना­धा­र­त्वे­नेति।
अत्र प्राणस्याधारेण जीवेन संप­र्क­स्ते­जः­श­ब्दो­प­ल­क्षि­त­भू­त­सं­ब­न्धात् प्राचीनो न निषे­ध्य­त्वे­ना­नू­द्यते अधि­का­वा­प­स्या­न­भि­म­त­त्वात् किन्तु भूत­प्रा­प्ति­स­म­य­भा­वि­त्वेन सिद्धा­न्ता­भि­म­तोऽ­नू­द्यते। श्रुति­र्द­र्श­य­तीति भाष्य­स्या­ने­ना­न्वये सति न दर्शयतीति लभ्यते तेजस इति भूतमात्रस्य प्राप्यत्वं निर्दिश्यत इति जीव­प­र्य­न्त­ल­क्ष­णा­म­न-पे­क्ष्ये­द­मु­क्तम्। तदपेक्षायां तु जीवस्यापि प्राप्यत्वं निर्दिश्यत एव ॥५॥
हेतु­प्र­ति­ज्ञ­यो­रिति।
सूक्ष्मविषये खलु तेजोमात्रं वा भूतपञ्चकं वेति विवादः। तत्र कार्यस्य स्थूल­श­री­र­स्या­ने­का­त्म­क­त्वो­क्ति­र्व्य­धि­क­र­णेति शङ्कार्थः ॥६॥
इति तृती­य­म­ध्य­क्षा­धि­क­र­णम् ॥

समाना चासृ­त्यु­प­क्र­मा­द­मृ­तत्वं चानुपोष्य ॥७॥
अत्राधिकरण विषयभूतेति।
इहाऽ­मृ­त­त्व­फ­ल­श्र­व­णेन सगु­ण­वि­दा­मु­त्क्रा­न्त्य­भावः शङ्क्य­तेऽ­मृ­त­त्व­फलं च सगुणविद्यासु दहरविद्यायां श्रूयते। अतो दह­र­वि­द्या­धि­क­र­ण­वि­षय इति भावः। यदि विद्य­याऽ­मृ­त­म­श्नुत इति श्रुतिः सक­ल­स­गु­ण­वि­द्या­सा­धा­रणी तदा तत्र दहरविद्याग्रहणं सगु­ण­वि­द्या­न्त­रा­णा­म­प्यु­प­ल­क्षणं द्रष्टव्यम्।
ननु दहरविद्यायां तयोर्ध्वमायन् अमृ­त­त्व­मे­ती­त्य­त्रा­मृ­त­त्व­फलं श्रूयते तत्रै­वो­त्क्रा­न्ता­वपि श्रूयमाणायां कथं तदभावेन पूर्वपक्ष इत्याशङ्क्य न वास्तवोऽयं पूर्वपक्ष इति टीकायामेव द्योतितमित्याह-
तयोर्ध्वमिति।
ननु न तु विदुषः सकाशादित्यादिना व्याघातो भवेदित्यन्तेन टीकाग्रन्थेन विदुषः सकाशादविदुषां विशे­ष­व­त्वो­त्क्रा­न्तिर्न विधीयते तथा सति विद्या­प्र­क­र­ण­व्या­घातः स्यादित्युच्यते अयं प्रस­क्त­प्र­ति­षेधः विद्याप्रकरणाद् विदुषः खलू­त्क्रा­न्ति­शङ्का प्रवृत्ता अत आह-
येन हेतुनेति।
विद्याप्रकरणे स्वापा­दि­व­दु­त्क्रा­न्ते­र­प्य­नु­वाद एव न विधा­न­मि­त्यु­क्त्य­न­न्तरं विधानं किं न स्यादि­त्या­श­ङ्कायां किमविदुषो विधानं विदुषो वेति विकल्पं मनसि निधा­या­द्य­वि­कल्पः प्रकरणविरोधेन टीकायां निरस्तः। अमृ­त­त्व­फ­ल­वि­रो­धेन द्विती­य­वि­क­ल्प­नि­रासः स्पष्ट इति तत्र कण्ठतो न कृत इति भावः। यद्यपि वाङ्मनसि संपद्यत इत्या­दि­श्रु­तिर्न सगु­ण­वि­द्या­प्र­क­र­णा­स्नाता तथापि सगु­ण­नि­र्गु­ण­वि­द्या-वि­शे­षा­वि­वे­च­नेन तामवलम्ब्य सगु­ण­वि­दा­मु­त्क्रा­न्ति­प्र­ति­पा­द­न­मा­श­ङ्कितं स्वापा­दि­व-त्सा­धा­र­ण्येन प्राप्ताया उत्क्रा­न्ते­र­नु­की­र्त­न­मिति परिहारश्च कृतः। अस्य फलं प्रतिषेधादिति चे (ब्र. अ. ४ पा. २ सू. १२) दित्य­धि­क­र­ण­सि­द्धान्ते द्रष्टव्यम्।
सगु­ण­ब्र­ह्म­प्रा­प्ति­मा­त्र­स्येति।
गतिश्रुतिबलात् लोकविशेषे तत्प्राप्तिरेव फलपर्यन्तेति भावः ॥७॥
इति चतु­र्थ­मा­सृ­त्यु­प­क्र­मा­धि­क­र­णम् ॥

तदाऽऽपीतेः संसारव्यपदेशात् ॥८॥
स एवाद्यापि न सिद्ध इति।
ननु सुषुप्तस्य सत्संपत्तिः सावशेषेति स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः (ब्र. अ. ३ पा. २ सू. ९) इत्यधिकरणे विद्या­क­र्म­वि­ध्य­न्य­था­नु­प­पत्त्या समर्थितम् स न्याय इहापि तुल्यः कथमद्यापि न सिद्ध इत्युक्तम्। उच्यते। सुप्त एव प्रबुध्यत इत्यत्र कर्मा­नु­स्मृ­ति­शब्दाः सन्त्य­न­न्य­था­सिद्धा हेतवः इह तु विधिमात्रं तत्र कर्मविधीनाम् अवि­द्व­द्वि­ष­य­त्वेन चारितार्थ्यं स्पष्टम्। विद्याविधयस्तु द्विविधा अर्चि­रा­दि­प्रा­प्य­ब्रा­ह्म­लौ­कि­क­फ­ल­भो­ग­श्रु­ति­म­न्त­स्त­द्र­हि­ताश्च। तत्राद्येषु निर­व­शे­ष­त­या-सं­भ­वेऽपि द्वितीयेषु संभवतीति तद्विषयत्वेन निर­व­शे­ष­ल­य­प्र­ति­पा­द­क­त्व­स­म­र्थ­न­सं­भवे किमर्थं साव­शे­ष­ल­य­प्र­ति­पा­द­कत्वं कल्प्यम्। ननु पर­दे­व­ता­सं­प­त्ति­व­च­नस्य ब्रह्म­वि­द्वि­ष­यत्वे प्रक­र­णा­न्नि­र्गु­ण­ब्र­ह्म­वि­द्या­वि­ष­यता स्यात् तद्दे­हा­र­म्भ­क­भू­तानां निर­व­शे­ष-सं­प­त्ति­रि­ष्टैव कलाप्रलयाधिकरणे तथा वक्ष्य­मा­ण­त्वात्। तथा च पूर्वपक्ष: सिद्धा­न्त्य­नि­ष्टा­र्थ­वि­षयो न स्यादिति चेन्न। निर्गु­ण­ब्र­ह्म­विदो मिथ्या­ज्ञा­नो­प­नी­त­वा­ङ्मनः प्रभृतिलयस्य स्वप्न­प्र­प­ञ्च­वि­ल­य­व­द्यौ­ग­प­द्येन वाङ्म­न­सी­त्या­दि­कस्य निर्गु­ण­प्र­क­र­ण-प­ठि­त­स्यापि लक्ष­णा­दि­व­त्सं­भ­वात् सगु­ण­वि­द्या­न्व­य­क­ल्प­नात्। एवं चानियमः सर्वेषा (ब्र. अ. ३ पा. ३ सू. ३१) मित्य­त्रा­र्चि­रा­दि­गतेः सक­ल­गु­ण­वि­द्या­सा­धा­रण्यं यदुक्तं तस्यायमाक्षेपः ये चेमेऽरण्ये इत्यादि वचनं श्रुत­ब्रा­ह्म­लौ­कि­क­फ­लो­प­भो­ग­वि­द्या-मा­त्र­वि­ष­य­म­स्त्विति। यच्च पूर्वाधिकरणे सक­ल­गु­ण­वि­द्या­सा­धा­र­ण्ये­नो­त्क्रा­न्ति­स­म­र्थनं तस्याप्याक्षेप इति पूर्वा­धि­क­र­ण­स­ङ्गतिः।
अनेन प्राचा­म­प्य­धि­क­र­णा­ना­मिति।
तेष्वधिकरणेषु वागादीनां मनःप्रभृतिषु यः स्वरू­प­ल­य­पू­र्व­प­क्ष­स्तस्य चेदं प्रयोजनं यत्सगुणविद्यासु काश्चित् मुक्तिफलाः काश्चिद् ब्रह्म­लो­का­वा­प्ति­फला इति विभागः। न च सगुणविद्यायां मुक्त्य­नु­प­पत्तिः। ब्रह्म­लो­क­प्रा­प्ति­प­र्य­न्तासु क्रम­मु­क्ति-फ­लासु ब्रह्मलोके हिरण्यगर्भादिव प्रकृ­ता­धि­क­र­ण­वि­ष­य­भू­तासु सगुणविद्यासु देहवियोगकाले साक्षात्कृतात् सगुणब्रह्मणो निर्गु­ण­वि­द्यो­प­दे­श­ला­भेन तदुपपत्तेः।
सगु­ण­वि­द्या­या­म­नु­चि­न्त­ना­र्थ­मिति।
यद्यपि वागा­दि­वृ­त्ति­ल­येऽ­प्ये­त­त्प्र­यो­जनं वक्तुं शक्यम् तथाप्येतदेव प्रयोजनं प्राण­स्या­ध्यक्षे वृत्ति­ल­य­नि­रू­प­णस्य। तेषां त्वन्यदपि प्रयोजनमस्तीति भावः। अत्रायं सिद्धान्तः। सत्यमुपासत इति सामान्यश्रुत्या सक­ल­स­गु­ण­वि­द्या­नाम् अर्च्चि­रा­दि­ग­ति­सिद्धौ तेजः परस्यामित्यस्य सगु­ण­वि­द्या­वि­शे­षेषु निरवशेषलयपरत्वं कल्पयितुं न युक्तम् तत्कल्पनाया विलम्बितत्वात्। तथापि सत्यमुपासत इति सामान्यश्रुतिः सर्वान् सगु­ण­वि­द्या­वि­शे­षान् शीघ्रमाक्रामति तेजः परस्यामित्यस्य निर­व­शे­ष­ल­य­प­र­त्व­मेव ताव­च्छ­ब्द­सा­म­र्थ्येन न प्राप्तम् प्रत्युत वाङ्म­न­सी­त्या­दि­प्र­क्र­मात् साव­शे­ष­ल­य­प­र­त्व­प्राप्तौ प्रकृ­ति­ल­य­त्व­लि­ङ्गेन प्राय­पा­ठ­मु­प­मृद्य कल्पनीयम्। ततश्च वाङ्म­न­सी­त्या­दे­र्नि­र्गु­ण­वि­द्या­या­म­न­न्व­या­न्नि­र­व­शे­ष­भू­त­ल­यस्य मुमू­र्षु­सा­मा­न्या­न­न्व­याच्च सगुणविद्यासु काश्चि­त्प­रि­हृत्य कासु­चि­दु­त्क­र्षः­क­ल्प­नीयः। अतः शीघ्र­प्र­वृ­त्ति­को­दा­हृ­त-सा­मा­न्य­श्रु­त्य­स­ङ्को­चाय यथाकर्म यथा­श्रु­त­मि­त्या­दि­सा­मा­न्य­श्रु­ति­स­ङ्को­चाय च सौषु­प्ति­क­ल­य­श्रु­ते­रिव प्रकृ­ति­ल­य­त्व­लिङ्गं बाधित्वा सावशेषलयपरत्वं कल्पयितुं युक्तम्। तथासति वाङ्म­न­सी­त्या­रभ्य प्रतीतं सक­लो­त्क्र­म­मा­ण­सा­धा­र­ण्य­मपि न त्यक्तं भवति। पूर्वा­धि­क­र­णो­क्त­प्र­का­रेण सुषु­प्त्या­दि­की­र्त­न­व­दु­त्क्रा­न्ति­क्र­म­की­र्त­न­स्यापि तत्त्व­म­सि­प्र­ति­पा­द­न­शे­ष­तया प्रकरणान्वयात् तत उत्कर्षोऽपि न कल्पितो भवतीति। एकस्य संपद्यत इत्यस्य वाक्यस्य चतुष्टयान्वयिनो वाक्यत्रये वृत्तिलयपरत्वं चतुर्थवाक्ये स्वरू­प­ल­य­प­र­त्व­मिति वैरूप्यं च परिहृतं भवति ॥८॥
रूपवदिति।
हेतु­ग­र्भ­वि­शे­ष­ण­मिति। अनेन रूपवत्त्वं हेत्वोः प्रविष्टमिति दर्शितम्। उपलब्धव्यमिति प्रतिहन्येतेति चोक्त्या तर्क­रू­प­मि­द­म­नु­मा­न­द्व­य­मिति सूचितम्। यदि महत्त्वे सति रूप­व­द्ब­हु­द्र­व्या­र­ब्धत्वे सति रूपवच्च सूक्ष्मशरीरं यदि देहा­न्नि­र्ग­च्छे­त्तदा चक्षुः स्पर्श­ना­भ्या­मु­प­ल­भ्येत मूर्तान्तरैश्च प्रतिहन्येतेति तर्कशरीरम्। प्रभा तेजसो रूपं तदनुमेयं तदा­श्र­य­द्र­व्य­मिति मता­व­ल­म्ब­ना­दा­द्य­त­र्कस्य न प्रभायां व्यभिचारः। प्रभाद्रव्यं चाक्षुषमिति पक्षे तु चक्षु­षो­प­ल­भ्ये­ते­त्ये­वा­पाद्यं प्रति­ह­न­न­यो­ग्यत्वं द्विती­य­मा­पा­द्य­न्तेन गति­प्र­ति­प­त्ति­क­सू­त्रा­न्त­र­सं­ब­न्ध­र­हि­तो­त्प­न्न­वि­नष्टे न व्यभिचारः।
मह­त्त्व­ब­हु­द्र­व्या­र­ब्ध­त्वा­भ्या­मिति
प्रथ­म­सा­ध्या­भि­प्रा­येण द्वितीयं तु तयोरस्त्येव कुड्याद्यावृते तयो­र­प्य­प्र­वे­शात्। तत्र मूर्त्त­त्व­मा­त्र­मेव साधनं पर्याप्तम्।
एत­त्सू­त्रा­का­ङ्क्षा­र्थ­मिति।
आपीतरवतिष्ठते चेति चकारस्य प्रथ­म­सू­त्रे­णा­प्य­न्वये सति सूक्ष्म­श­री­र­वि­षये अन्यदपि किंचि­द्व­क्त­व्य­म­स्तीति तेन द्योतनात्किं वक्त­व्य­मि­त्या­का­ङ्क्षो­दे­तीति भावः। अनेन पूर्वसूत्रस्य स्वरसत एत­त्सू­त्रा­काङ्क्षा नास्ति सूक्ष्मशरीरस्य देहान्निर्गमने तत्पा­र्श्व­स्थै­रु­प­ल­भ्यत इति प्रतिहतं नैतच्चेति शङ्का­या­स्तु­च्छ­त्वात्। अविदुषामिव विदुषामपि पार्श्व­स्थै­र­नु­प­ल­भ्य­मा­न­स्यैव तस्य नय­न­म­री­चि­व­न्नि­र्ग­म­नो­प­पत्तेः स्पष्टत्वात्। नयनमरीचेः काचा­भ्र­प­ट­ल­त्वा­दिभिः कैश्चिदिव सूक्ष्मशरीरस्य सर्वै­र­प्य­प्र­ति­घा­त­स्या-वि­द्व­द्वि­ष­येऽ­व­श्य­व­क्त­व्य­त्वाच्च। एवं च स्वार­सि­का­का­ङ्क्षा­सं­पा­द­ना­र्थ­मेव स्वरूपतः प्रमाणतश्चेति स्वस्थान एव स्वरू­प­स­मु­च्च­या­र्थ­त्वेन प्रतिष्ठितस्य भिन्न­क्र­म­त­याऽ­प्य­न्वयो दर्शितः।
ननु चक्षु­ष्य­नै­का­न्ति­क­त्व­मा­हे­त्युक्तं टीकायां कथं चाक्षुषशब्द: न तु चक्षुरेव चक्षुः संबन्धीत्यतो व्याचष्टे-
यथा चाक्षुषस्येति।
चक्षुरुपादानं तेजः चक्षुः­सं­ब­न्धा­च्चा­क्षु­ष­मि­त्युकं पृथि­वी­द्व्य­णु­क­स­म­वा­यि­का­रणं परमाणुः पार्थि­व­प­र­मा­णु­रिति।
लिङ्गशरीस्येति शेष इति।
परिमाणतः सूक्ष्ममिति पाठे लिङ्गशरीरमिति शेषः ॥९॥
अस्व­च्छ­त्व­मु­पा­धि­मिति।
याव­न्मू­र्त्त­प्र­ति­ह­न­नी­यत्वं साध्यं तेन काचा­भ्र­प­ट­ला­द्य­प्र­ति­ह­न­नीये नयननिरा-करणादौ न साध्या­व्याप्तिः। नोपमृद्यत इति शेष इति टीकावाक्यस्य भाष्यस्थशब्देन पूरणं कृतं सूत्रे उपपत्तिशब्दो न सूक्ष्मपरो व्याख्येयः भाष्य­का­रै­रू­ष्मि­म­प्र­त्य­क्षस्य सूक्ष्मशरीरे प्रमा­ण­त­यो­प­न्य­स्त­त्वात्। न च तस्य स्थूल­दे­हा­ति­रि­क्त­वि­ष­यत्वे युक्तिरपि तैरुपन्यस्तेति वाच्यम्। प्रत्यक्षस्य विषयपरि-शोधने खलु सा युक्तिः न तु प्रत्य­क्ष­वि­ष­येऽतो यथा व्यक्तीनां पर­स्प­र­व्या­वृ­त्त­त्वे­ना-नु­ग­त­प्र­त्य­य­वि­ष­यत्वं नोपपद्यत इति युक्त्या परिशोधितविषयं अनुगतपक्षमेव व्यावृ­त्त­व्य­क्त्य­ति­रि­क्ता­नु­वृ­त्त­सा­मा­न्य­स­द्भावे प्रमाणं एव­मि­हा­प्य­नु­वृ­त्त­दे­ह­वि­ष­य­त्वा-नु­प­प­त्ति­युक्त्या परिशोधितविषयं व्यावृ­त्तो­ष्मि­म­प्र­त्य­क्ष­मेव तदा­श्र­य­द्र­व्य­स्यापि ग्राहकं स्थूल­दे­हा­ति­रि­क्त­सू­क्ष्म­देहे प्रमाणं न युक्ति­रि­त्य­भि­सं­धि­मता टीकाकृता उपपत्तिः प्राप्तिरिति व्याख्यातम्।
तत्रापि ग्राम­प्रा­प्त्या­दि­व­दिह कस्य­चि­त्प्रा­प्तिर्न दृश्यत इत्यनुपपत्तिं दृष्ट्वा व्याचष्टे-
प्राप्तिर्लाभ इति।
लाभोऽत्र सद्भावावगमः अनेनायमर्थो लभ्यत इत्यादौ तत्र प्रयोगात्। तथा च स्थूल­दे­हा­ति­रि­क्त­सू­क्ष्म­दे­ह­स्यै­वा­य­मूष्मा स्थूल­दे­ह­व्या­वृ­त्तो­ष्मि­म­प्र­त्य­क्षेण तत्स­द्भा­वा-व­ग­मा­दिति सूत्रार्थ इति तात्पर्य्यम्। उपपत्तिशब्देन प्रत्य­क्ष­वि­ष­य­प­रि­शो­ध­क-यु­क्ति­ग्र­ह­णेऽपि न दोषः तस्यापि सूक्ष्म­श­री­र­सिद्धौ परंपरयोपयोगाद् भाष्य­स्वा­र­स्याच्च। श्रुतं कर्णेपि धारय श्रवणमिति। इदं भाष्यं स्पष्टमिति टीकोक्तमिति गृहीतम्। (इदं स्पार्श­न­प्र­त्य­क्ष­मिव मृतशरीरे देहो­ष्मा­प­ग­मा­न­न्तरं कर्णपिधाने तदीयस्य परकीयस्य वा शब्द­भा­व­प्र­त्य­क्ष­स्या­भा­वात् किन्तु) जीवदवस्थायां तदीयेन केव­ल­भा­व­प्र­त्य­क्षेण कर्ण­पि­धा­ना­पे­क्षा­सा­म­र्थ्य­ल­ब्धा­न्त­र­वि­ष­येण स्थूल­श­री­रा­ति­रि­क्त­सू­क्ष्म­दे­ह­सि­द्धि­र्वि­व­क्षिता। ज्योतिरधिकरणे (ब्र. अ. २ पा. ४ सू. १४) पिहितकर्णपुटेन श्रूयमाण आन्तरः शब्दो जाठ­रा­ग्नि­रि­त्यु­क्तम् इह तु जाठराग्निरपि सूक्ष्म­दे­हा­नु­प्र­विष्ट इत्येवमुक्तं तद­न­न्त­र­प्र­ति­प­त्त्य­धि­क­रण (ब्र. अ. ३ पा. १ सू. १) दर्शि­त­श्रु­ति­न्या­य­सिद्धेः सूक्ष्मशरीरे प्रसङ्गादिह प्रमा­णा­न्त­र­म­प्य­स्तीति दर्शितम् ॥११॥
इति पञ्चमं संसा­र­व्य­प­दे­शा­धि­क­र­णम् ॥

प्रतिषेधादिति चेन्न शारीरात् ॥१२॥
प्राणो­प­ल­क्षि­त­सू­क्ष्म­श­री­र­स्येति पदं बहुव्रीहिणा जीवा­त्म­वि­शे­ष­ण­मिति दर्शयति-
सूक्ष्मं शरीरं यस्येति।
प्राणो­त्क्रा­न्त्य­नु­त्क्रा­न्ति­वि­चारः प्राणो­प­ल­क्षि­त­सू­क्ष्म­श­री­रो­प­हि­त­जी­व­वि­षयः पर्य्यवस्यतीति भावः।
सिद्धान्त इत्यर्थ इति।
यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः क्रामन्त्याहो नेति पृष्टयोः पक्षयोर्नेति होवाचेति यो वक्तव्यः सिद्धा­न्त­स्त­स्मि­न्नि­त्यर्थः ॥१२॥
संसारिण एवेत्ययुक्तं प्रश्न­प्र­ति­व­च­न­यो­र्वि­द्व­द्वि­ष­य­त्वस्य सिद्धा­न्य­भि­म­त­त्वा­दि­त्या­शङ्क्य विदुषो हिर­ण्य­ग­र्भ­लो­क­प्रा­प्त्य­न­न्तरं मुक्तिरिति पूर्व­प­क्ष­नि­रा­क­र­णार्थं विदुष एव संसा­र­म­ण्ड­ल­व­र्ति­त्वा­व­स्था­प्र­द­र्श­नार्थं तद्विशेषणमिति व्याचष्टे –
यदु­क्त­मि­त्या­दिना।
ननु एव­म­प्य­स्त्व­वि­दुष इति टीका­ग्र­न्थे­ना­र्त्त­भा­ग­प्र­श्नो­त्तरे वर्ण्य­मा­ना­नु­त्क्रा­न्ति­र-वि­द्व­द्वि­ष­ये­त्या­शङ्क्य इयमाशङ्का पूर्वपक्षिणो न युक्ता। स ह्यविदुष इव विदु­षोऽ­प्यु­त्क्रा­न्ति­र­स्तीति मन्यते अत­स्त­ट­स्थ­श­ङ्के­य­मिति व्याचष्टे–
मध्ये कश्चिदिति।
ब्रह्म­वि­दु­त्क्रा­न्ति­सि­द्धे­स्त्व­त्प­क्षा­सि­द्धि­रिति ब्रह्म­वि­दोऽ­नु­त्क्रा­न्ता­वा­र्त्त­भा­ग­प्र­श्नो­त्तरं खलु प्रमाणमिति सिद्धा­न्ति­नो­प­न्यस्तं तच्चेदन्यविषयं भवेत् तदा न सिद्धा­न्त्य­भि­म­त­सि­द्धि­रिति तावता सन्तुष्टस्य तट­स्थ­स्ये­य­मा­श­ङ्केति भावः। यदि पूर्वपक्षिण एवेयमाशङ्का तदैवमभिप्रायो वर्णनीयः। यत्रायं पुरुषो म्रियते इत्या­द्या­र्त्त­भा­ग­प्र­श्नोऽ­य­म­वि­द्व­द्वि­षय एव उत्तरसन्दर्भे यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण­श्च­क्षु­रा­दित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरी­र­मा­का­श­मा­त्मौ­ष­धी­र्लो­मानि वनस्पतीन् केशाः अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भव­ती­त्या­र्त­भा­ग­प्रश्ने याज्ञ­व­ल्क्ये­ना­र्त्त­भा­गेन च रहसि संमन्त्रणेन पुण्यपापरूपं कर्म तदाश्रयत्वेन निश्चितमिति प्रतिपादनात्। तत्र हि श्रूयते तौ होत्क्रम्य मन्त्र­यां­च­क्राते तौ ह यदूचतुः कर्म हैव तदूचतुः। अथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः। पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति। तस्मा­दा­र्त­भा­ग­प्र­श्नेऽपि शरी­रा­दु­त्क्रा­न्तिर्न्न प्रतिषिध्यते। अवि­दु­ष­स्त­द­व­श्यं­भा­वात् किन्तु शरीरादेवेति।
मृत्युमृत्योः परदेवतायाः प्रस्तु­त­त्वा­दिति।
ननु तत्राग्निर्वै मृत्युः सोऽपामन्नमिति तदनन्तरवाक्ये सर्व­दा­ह­कोऽ­ग्नि­र्मृत्युः तदु­प­शा­न्ति­का­र­णा­न्यापो मृत्यु­मृ­त्यु­रिति श्रुत्यैव विवरणं कृतं अतस्तत्र न परा देवता प्रकृतेति चेद् उच्यते। इन्द्रि­य­त­द्वि­ष­येषु भूतग्रहवद् गृहीत्वा संसारिणां बन्ध­क­त्व­त­दु­त्क­र्षाभ्यां ग्रहा­ति­ग्र­ह­श­ब्दि­तेषु याज्ञवल्क्येन वर्णितेषु पुन­रा­र्त्त­भा­गस्य यः प्रश्नः यदिदं सर्वं मृत्योरन्नं कास्वित्सा देवता यस्या मृत्युरन्नमिति न तस्या­ग्नि­वि­ना­शिका आपो विषयः पूर्व­प्र­श्न­प्र­स्तु­ता­नु­ब­न्धे­नो­त्त­रो­त्त­र­प्र­श्न­प्र­वृत्तेः प्रकरणे दर्शनात् किन्तु सर्वमिदं जीवजातं ग्रहा­ति­ग्र­ह­ल­क्ष­णस्य मृत्योरन्नं भवति तस्य मृत्युभूता देवता कतमेति संसा­र­ब­न्धो­च्छे­दिका देवता प्रश्नस्य विषयः सा मृत्यु­र्य­स्यो­प­से­च­न­मिति श्रुत्य­न्त­र­प्र­सिद्धा पर­दे­व­ते­त्यु­त्त­र­म­भि­प्रेत्य मृत्योरपि मृत्यु­स­द्भा­व­सं­भा­व­नार्थं अग्निर्वै मृत्युः सोऽपामन्नमिति दृष्टान्तः प्रदर्शितः। तस्मा­द्वि­द्व­द्वि­ष­य­मेव पूर्ववाक्यमिति तद­नु­सा­रे­णो­त्त­र­वा­क्य­मपि विदुष एवो­त्क्रा­न्ति­प्र­ति­षे­ध­कम्। न च यत्रास्य पुरुषस्येति तद­न­न्त­र­वा­क्य­स्या-वि­द्व­द्वि­ष­य­त्वाद् अस्यापि तद्विषयत्वं शङ्कनीयम्। अविद्वद्विषयस्य प्रसञ्जकान्तरेण प्राप्तेः। तथा हि। विदुषः प्राणा­ना­म­नु­त्क्र­मणे तेषामत्रैव विलये च वर्णिते विदुषः प्राण एव विलीयते उत तत्प्रयोजकमपीति भावेन यत्रायं पुरुषो म्रियते किमेनं न जहातीति पृष्टे नामेत्याहेतीति नाम­मा­त्र­म­व­शि­ष्यते तत्प्रयोजकमपि विलीयते अन्यथा मोक्षा­नु­प­प­त्ते­रि­त्यु­त्त­र­मु­क्त­मिति श्रुत्या प्रदर्शितं तत्प्र­स­ङ्गा­त्त­त्प्र­यो­ज­क­मेव किं तत्र हि काल­स्व­भा­व­नि­य­ति­य­दृ­च्छा­दि­वि­षयो महा­न्वि­वा­दोऽ­स्ती­त्य­भि­प्रा­येण यत्रास्य पुरु­ष­स्ये­त्यादिः क्कायं तदा पुरुषो भवतीत्यन्तः प्रश्नः बहुविवादविषयस्य महाजनसमक्षं निर्णयो मा भूदिति रहसि तदुत्तरकथनं च अतो नोत्त­र­प्र­श्न­स्या-वि­द्व­द्वि­ष­य­ता­मा­त्रे­णास्य प्रश्न­स्यो­प­क्र­मा­व­गतं विद्व­द्वि­ष­य­त्व­म­पै­तीति विद्व­द्वि­ष­य­मे­वो-त्का­न्ति­प्र­ति­षे­ध­वा­क्यम्। ननु अस्त्वेवं तथापि न तस्मात्प्राणा उत्क्रामन्तीति वाक्य इवो­द­स्मा­त्प्राणाः क्रामन्तीति वाक्येऽपि विद्व­ज्जी­वा­पा­दा­न­क­स्यै­वो­त्क्र­म­णस्य प्रतिषेधः न तच्छ­री­रा­पा­दा­न­कस्य यत्रायं पुरुषो म्रियत इत्यत्रायं पुरुष इत्यस्य अपपुनर्मृत्युं जयतीति पूर्व­वा­क्या­न्त­प्र­स्तु­त­वि­द्व­ज्जी­व­वि­ष­य­त्वात् तद­नु­सा­रे­णा­स्मा­त्प्राणा इति वाक्येऽपि अस्मादित्यस्य तद्वि­ष­य­त्वा­त्त­च्छ­री­र­वि­ष­य­तायां तद­भे­दो­प­चा­र­क­ल्प­ना­पत्तेः। ननु उत्क्रा­न्त्य­भावे मृतो न स्यादिति शङ्का­नि­वा­र­णार्थं मृत­चि­ह्न­प्र­द­र्श­नेन मृतत्वोपपादनाय प्रवृत्ते उच्छ्वयतीति समनन्तरवाक्ये दृतिवद्वायुना पूरणमुच्छ्वयनं च शरीरधर्मः कीर्त्यत इति चेद् भवतु तावता तत्र स इत्यस्य शरीर्यभेदोपचारः शरीरे न त्वग्रि­मा­नु­प­प­त्ति­प­रि­हा­रार्थं प्रथममेव तथोपचारः कल्पनीयः। उच्यते। यद्यु­द­स्मा­दि­त्या­दि­वा­क्यस्य जीवा­न्नो­त्क्रा­मन्ति प्राणा जीवं विहाय तेन सहैव गच्छन्तीत्यर्थः कल्प्यते तदा किमेनं (न जह­ती­त्य­ग्रि­म­प्र­श्नो­प्य­नु­प­पन्नः स्यात् प्राणा विद्वांसं जह­ती­त्य­र्था­ङ्गी­कारे किमेनं) न जहातीति प्रश्न उपपद्यते अतो­ग्रि­म­प्र­श्न­स्या­प्यु­प­प­त्त्यर्थं अस्मादित्यस्य शरीरसंबन्धेन शरीरे लक्षणा कल्पयितुमुचिता न तु समु­च्छ्व­य­ती­त्यत्र स इत्यस्य। एवं च तदानीमसता शरीरसंबन्धेन सन्निकृष्टां लक्षणां परिगृह्य तदानीमसता तेन विप्रकृष्टा लक्षणा च परित्यक्ता भवति। किं च यत्र शरीरे स्थितोऽयं पुरुषो म्रियते अस्मादित्येवं यच्छ­ब्द­नि­र्दि­ष्ट­श­री­र­प्र­त्य­व­म­र्श­क­त्व­क­ल्प­ना­याम् अस्मादित्यस्य शरीरे मुख्यावृत्तिरपि लभ्यते तस्मा­दा­र्त्त­भा­ग­प्रश्नो विदुषः प्राणो­त्क्रा­न्ति­प्र­ति­षे­धार्थ इति तत्साम्याद् न तस्मादिति वाक्या­न्त­र­स्यापि ताद­र्थ्य­म­ङ्गी­क­र्त­व्य­मिति युक्तमेव।
तदे­त­त्स­र्व­म­भि­प्रे­त्यो­क्तम्-
उत्क्रा­न्त्य­व­धे­रु­च्छ्व­य­ना­दि­नि­र्दे­श­स्या­न्य­था­ने­तु­म­श­क्य­त्वा­दिति।
अपि च द्वयेनेति।
नन्वा­द्ये­ना­पि­चेति ग्रन्थेन पूर्वपक्षे प्रस­क्त­प्र­ति­षे­ध­तोक्ता सा न युक्ता तस्य तावदेव चिरमिति देहान्त एव ब्रह्म­प्रा­प्ति­प्र­ति­पा­दि­कया श्रुत्या प्रस­क्ति­सं­भ­वा­दिति चेद् न। तया हि जीवं विहाय जीवा­दू­र्ध्व­ग­म­न­रू­पो­त्क्रा­न्तिर्न प्रसज्यते किन्तु प्रविलयेन जीवप्रहाणमेव। अतोऽ­प्र­स­क्त­प्र­ति­षे­ध­त्वा­प­त्ति­दू­ष­ण­मपि युक्तमेव ॥१३॥१४॥
इति षष्ठं प्रति­षे­धा­धि­क­र­णम् ॥

तानि परे तथाह्याह ॥१५॥ प्रति­ष्ठा­वि­ल­य­न­श्रुती इति स्थाने प्रति­ष्ठ­यो­र­वा­न्त­र­प्र­कृ­ति­माह प्रकृ­त्यो­र्लि­ङ्ग­श­री­र-वि­ल­य­न­श्रुती इति क्वचित्पाठः। तत्राप्यर्थतो न भेदः। यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्तीति दृष्टा­न्त­वा­क्या­र्था­नु­त्क्र­म­ण­पू­र्व­कम् एवं शब्दार्थमाह-
यथा नद्य इति।
शक्यात्मके अपि भिद्येते इति।
नाम­रू­प­वि­ल­य­मा­त्रस्य नदी­स­मु­द्र­दृ­ष्टा­न्त­वा­क्या­र्था­नु­म­ति­पू­र्व­का­स्त­ग­म­नोक्त्या नाम­रू­प­वि­ल­य­सि­द्धे­र्भि­द्येते इत्यादिवाक्यं तयो­र्नि­र­व­शे­ष­ल­य­प्र­ति­पा­द­ना­र्थ­मिति भावः। भिद्येते इत्या­दि­श्रु­ति­वा­क्य­म­वि­भागो वच­ना­दि­त्यु­त्त­रा­धि­क­रणे भाष्य­का­रै­र्लि­खि­तम् इह तद्व्या­ख्या­न­ग्रन्थः काक­प­द­व्य­त्या­साद् भ्रान्त्या प्रमादेन वा लेखकैर्लिखितः। यद्वा अस्तं गच्छ­न्ती­त्य­न्त­श्रु­ति­वा­क्य­स्यात्र व्याख्येयत्वाद् भिद्येते इत्यादिवाक्यस्य श्रुतिपाठे तद­न­न्त­र­वा­क्य­त्वा­द­ग्रि­मा­धि­क­र­णो­दा­हृ­त­मपि तद्वाक्यं पूर्व­वा­क्ये­नै­क­वा­क्य­ता-प्र­द­र्श­ना­र्थ­मि­हैव व्याख्यातम् ॥१५॥
इति सप्तमं वागा­दि­ल­या­धि­क­र­णम् ॥

अविभागो वचनात् ॥१६॥
श्रुति­वि­रो­धे­नेति।
सति श्रुतिविरोधे लयत्वे हेतुना साव­शे­ष­त्वा­नु­मानं नोत्तिष्ठति। न च अस्तं गच्छन्तीति श्रुतिवाक्यमपि सावशेषलयपरं स्यादिति वाच्यम्। भिद्येते इत्या­दि­वा­क्य­शे­षे­णा­श­क्त्य­व­शे­ष­श­ङ्का­नि­रा­सा­दिति भावः ॥१६॥
इत्य­ष्ट­म­म­वि­भा­गा­धि­क­र­णम् ॥

तदोकोग्रज्वलनं तत्प्र­का­शि­त­द्वारो विद्या­सा­म­र्थ्यात् तच्छे­ष­ग­ता­नु­स्मृ­ति­यो­गाच्च हार्दानुगृहीतः शताधिकया ॥१७॥
कथं तया ब्रह्म­लो­क­प्रा­प्ति­रिति।
यद्य­प्य­र्चि­र्लो­क­मा­र­भ्याऽऽ­ति­वा­हि­काः­सन्ति तथापि तावत्पर्यन्तमपि मूर्धन्यनाडी न व्याप्नोतीति भावः।
आसु नाडीषु सृप्ता इति श्रुति­सि­द्ध­त्वा­दिति।
यद्यप्यासु नाडीषु सृप्ता इत्या­दि­श्रु­ति­र्म­हा­प­थस्य ग्राम­द्व­य­सं­ब­न्ध­व­दा­दि­त्य­र­श्मीनां हृद­य­ना­डी­भि­र्म­ण्ड­लेन च संबन्धमात्रं वदति न तु ब्रह्मनाड्या मण्डलानुप्रवेशं तथापि ब्रह्मनाड्या स्वानु­प्र­वि­ष्ट­र­श्मि­द्वारा मण्डलसंबन्ध एव टीकायां मण्डलानुप्रवेशो विवक्षित इति तात्पर्यम्।
विष्वङ् नानागतय इति।
अन्या हृदयस्य नाड्य­स्ति­र्य­ङ्मु­ख­त्वा­धो­मु­ख­त्वा­दि­प्र­का­रेण नानागतयः सत्यः उत्क्र­म­ण­का­र्य­मात्रे प्रभवन्ति नामृतत्वफले उपयुज्यन्त इत्यर्थः। अनेन चक्षुष्टो वा मूर्ध्नो वेत्या­दि­श्रुत्या निष्क्रमणे हृद­य­ना­डी­ना­म­नि­य­मेन द्वार­त्व­प्रा­प्ता­व­मृ­त­त्व-फ­ल­भो­गा­र्थ­नि­ष्क्र­मणे ब्रह्मनाडी तदितरनिष्क्रमणे नाड्यन्तराणि च श्रुत्या नियम्यन्त इति दर्शितं भवति। नाड्यन्तराणि तत्त­त्क­र्म­फ­ल­भो­गा­र्थत्वे भारतादिषु नियमितानि द्रष्टव्यानि। नाडीनां दुर्वि­वे­च­त्वेऽपि जीवस्य तत्त­न्ना­डी­वि­शे­षा­न­नु­प्र­विश्य निष्क्रमणं विद्या­क­र्म­सा­म­र्थ्या­द्य­धी­नम् इह प्रकृतोपयोगाद् विद्या­सा­म­र्थ्या­दि­मात्रं सूत्रे दर्शितम्। तत्र हार्दानुगृहीत इति हृद्यभिव्यक्तेन स्वोपासितेन पर­मे­श्व­रे­णा­नु­गृ­हीत इत्येतत्परं टीकायां विशिष्य हार्द­वि­द्या­ग्र­हणं विद्या­न्त­रा­णा­म­प्यु­प­ल­क्ष­णम् ॥१७॥
इति नवमं तदोकोऽधिकरणम् ॥

रश्म्यनुसारी ॥१८॥
ग्रीष्मे दिवा सौरा­त­पौ­ष्ण्य­प्र­क­र्षा­द्रा­त्रा­वू­ष्म­द­र्श­नेन सूर्यरश्मीनामेव स ऊष्मेत्यवसीयत इवि भावः।
अम्मयेति।
चन्द्रमण्डलस्य जलमयत्वं सलिलमये शशिनि रवेर्दीधितयो मूर्च्छिताः प्रति­फ­ल­न्ती­त्या­दि­ज्योति: शास्त्र­व­च­न­सि­द्धम्। यदि विद्याफलं नियतमेतैरेव रश्मिभिरिति श्रुतिप्राप्तो रश्मि­नि­य­म­स्त्य­क्तव्यः। न च रश्मिनियम आद्रियते विद्या­फ­ल­नि­य­म­स्त्य­क्तव्यः रात्रिमरणे विद्या­फ­ल­प्रा­प­क­र­श्म्य­भा­वात्। अथ निय­म­द्व­य­म­प्या­द्रि­यते तदा रात्रौ मृत­स्या­ह­रा­ग­म­प्र­ती­क्ष­णात् स यावत् क्षिप्येदिति त्वरा­व­च­न­प­रि­त्यागः रात्रावेव देह­ना­ड्याऽ­नु­प्र­वि­ष्ट­र­श्मि­द्वारा विद्या­फ­ल­प्रा­प्तिर्न संभवतीति रश्मि­वि­द्या­फ­ल­नि­य­म­यो­र­न्य­त­र­प­रि­त्याग इत्येषा सर्वापि शङ्का रात्रौ रश्मि­स­द्भा­व­स­म­र्थ­नेन निरस्ता ॥१८॥१९॥
इति दशमं रश्म्यधिकरणम् ॥

अतश्चायनेऽपि दक्षिणे ॥२०॥
द्विती­या­ब­हु­व­च­न­मिति।
ग्राह­य­ते­र्द्वि­क­र्म­क­त्वा­दिति भावः।
ज्योति­रा­दि­त्य­दे­व­तेति।
श्रुता­व­ह­रा­दिभ्यः पश्चा­दा­दि­त्य­दे­वता तदनुसारेण स्मृतौ पाठक्रमो नादर्तव्य इति भावः।
निर्गुणेति।
निर्गुणः सत्व­र­ज­स्त­मो­र­हितः पुरुषः सांख्यो­क्त­पु­रुषः तस्य प्राकृताद् बुद्ध्यादेर्यो विवेकः सांख्योक्तः यश्च योग­श्चि­त्त­वृ­त्ति­नि­रोध इति योगशास्त्रोक्तो योगः तद्वि­ष­य­त्वे­ने­त्यर्थः ॥२०॥२१॥
इत्येकादशं दक्षि­णा­य­ना­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­श्री­वि­श्व­जि­द्या­जि­श्री­रङ्ग- राजा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ वेदा­न्त­क­ल्प­त­रु­प­रि­मले चतु­र्थ­स्या­ध्या­यस्य द्वितीयः पादः ॥ ॥
इति चतु­र्थ­स्या­ध्या­य­स्यो­त्क्रा­न्ति­ग­ति­नि­रू­प­णाख्यो द्वितीयः पादः ॥

चतुर्थाऽध्याये तृतीयः पादः ॥ अर्चिरादिना तत्प्रथितेः ॥१॥ भिन्न­प्र­क­र­ण­स्थ­त्वा­दिति श्लोक­प्र­ती­क­मु­पा­दाय व्याचष्टे-
मार्गा अर्चिरादय इति।
आद्य­हे­तु­मे­क­वि­द्या­वि­ष­य­त्वेन योजयति-
कुतः यत्र विद्यै­क्येऽ­पीति।
द्विती­या­दि­हे­तू­न्वि­द्या­भे­द­वि­ष­य­त्वेन योजयति-
विद्याहेतुभेदे त्विति।
त्वरां विवृणोति-
स यावत् क्षिप्येदिति।
गुणानां प्रधानेन समु­च्च­यो­प­प­त्ते­रिति। गुणानुरोधेन प्रधानभेदकल्पना न युक्तेति भावः।
अपिशब्दो न सङ्गच्छेतेति।
अपिशब्दस्य युक्त्य­न्त­र­त्व­द्यो­त­क­त्वा­दिति भावः ॥१॥
इति प्रथ­म­म­र्चि­रा­द्य­धि­क­र­णम् ॥

वायु­म­ब्दा­द­वि­शे­ष­वि­शे­षा­भ्याम् ॥२॥
पाठ­क्र­मा­क्र­मा­भ्या­मिति।
ननु पाठ­क्र­म­श्रु­ति­क्र­मा­भ्या­मिति वक्तव्यं तेनेति तृतीयाश्रुतेः पौर्वा­प­र्य्य­ग­र्भ­क­र­ण­त्व­वा­चिन्याः पौर्वा­प­र्य्य­रूपे क्रमेऽपि श्रुतत्वात् तथैव सिद्धान्ते वक्ष्य­मा­ण­त्वा­दिति चेत् सत्यम्। सिद्धा­न्तेऽ­र्थ­क्रमं वदतामन्येषां व्याख्या­तृ­णा­मेवं भावः। तेन स ऊर्ध्वमाक्रमत इत्यत्र ऊर्ध्वा­दि­त्य­लो­क­श­ब्द­यो­र्वि­शे­ष­ण­वि­शे­ष्य-भा­वे­नै­का­र्थत्वं न वक्तव्यम्। वाय्वा­दि­त्य­लो­क­यो­र्मध्ये गन्त­व्या­न्त­रा­ल­दे­श­स­त्त्वेन ऊर्ध्वशब्दस्य तद्वि­ष­य­त्व­सं­भ­वात्। किं चाति­वा­हि­क­दे­व­ता­ना­मा­ति­वा­हि­क­दे­व­ता­न्त­र-यु­क्त­लो­का­न्त­र­प­र्य­न्त­ने­तृ­त्वस्य वक्त­व्य­त्वा­द्वा­यु­द­त्त­छि­द्र­स्यो­र्ध्व­क्र­म­ण­त्वोक्त्या तद­न­न्त­र-प्रा­प्त्याऽऽ­दि­त्य­लो­क­ग­मनं प्रत्यपि कर­ण­त्व­म­र्था­त्सि­ध्यति। अतः सिद्धान्ते आर्थ एव क्रमो न श्रौत इति अर्चि­रा­त्म­का­ग्न्या­द्या­न­न्त­र्य्य­प्र­त्य­भि­ज्ञा­ना­दिति शङ्का­न्त­र­प्राप्तो वायु­र­र्चि­रा­दि­मार्गे क्वचि­द­व­श्य­नि­वे­श­नीयः सन् शाखा­न्त­र­श्रु­त­स्व­स्था­न­रू­पा­ग्न्य­न­न्त­र-दे­श­प्र­त्य­भि­ज्ञा­नात् तत्रैव निवेशनीय इति भावः।
नन्वा­दि­त्य­प्रा­प्ते­रिति।
तेने­त्य­स्या­दि­त्य­प्रा­प्त्या­का­ङ्क्षा­भा­वेऽ­प्या­दि­त्य­प्रा­प्ते­स्ते­ने­त्ये­त­दा­का­ङ्क्षाऽस्ति वाय्वा­दि-क्र­मार्थं वायु­द­त्ता­व­का­श­च्छिद्रं विनाऽऽ­दि­त्य­प्रा­प्ते­र­नु­प­पत्तेः अत­स्त­दा­का­ङ्क्ष­या­नु­षङ्गः स्यादित्यर्थः।
ऊर्ध्व­दे­श­प्रा­प्ते­र्जा­त­त्वा­दिति।
छिद्रेण वायुव्यवधानं प्रति­ब­न्ध­क­म­प­नी­यो­र्ध्व­दे­श­प्राप्तेः संपा­दि­त­त्वा­दि­त्या­दि­त्य-प्रा­प्ति­रपि च्छिद्र­कृ­तो­र्ध्व­दे­श­प्राप्त्या निरा­का­ङ्क्षे­त्यर्थः।
वरु­ण­लो­का­दा­वि­त्यर्थ इति।
अनेन क्वचिदवश्यं निवेशनीयो वायुः कौषी­त­कि­शा­खा­नु­सा­रे­णा­र्चि­र­न­न्तरं द्वितीयपर्वतया किमिति निवेश्यते यदा वै पुरु­षोऽ­स्मा­ल्लो­का­त्प्रैति स वायुमागच्छतीति बृह­दा­र­ण्य­क­श्रु­त्य­नु­सा­रेण प्रथ­म­प­र्व­त­याऽ­र्चिषः पूर्वं वा किमिति न निवेश्यते इति शङ्का- निवारिता। कौषीतकिशाखा हि वरुणेन्द्रादिषु बहुषु क्लृप्तक्रमा न तूदा­हृ­त­बृ­ह­दा­र­ण्य­क­श्रु­ति­रिति भावः।
ऊर्ध्वा­दि­त्य­लो­क­श­ब्द­यो­रिति।
संपि­ण्डि­त­ग्रा­मस्य स्वत ऊर्ध्व­दे­शो­त्क्र­म­णा­सं­भ­वा­दा­ति­वा­हि­का­धीनं तद्वि­व­क्षि­त-मिति वक्तव्यं तत्र चाति­वा­हि­क­त्वे­ना­र्थ­प्राप्ता वायु­लो­का­भि­मा­निनी देवता लोका­न्त­र-प्रा­प्ति­प­र्य्य­न्त­मा­ति­वा­हिकी न तु किंचि­न्मा­त्र­प­र्य­न्त­मि­त्यू­र्ध्व­दे­शस्य लोकविशेषरूपतया विशे­षे­णा­पे­क्षाऽ­स्तीति भावः।
तेनोर्ध्व आक्रमते स आदि­त्य­मा­ग­च्छ­ती­त्या­न­न्त­र्या­येति।
यद्यपि देव­लो­का­दा­दि­त्य­मि­त्या­दि­त्यस्य देव­लो­का­न­न्त­र्य­मपि श्रुतम् तथापि मासेभ्यो देवलोकमिति श्रुत­मा­स­सा­मी­प्या­नु­ग्र­हाय संव­त्स­रा­न­न्त­र­मेव निविष्टे देवलोके वायु­लो­का­दि­त्य­यो­र्मध्ये निविशत इति वाय्वा­दि­त्य­यो­र्नै­र­न्तर्यं लभ्यत इति भावः।
एतस्योपरि देव­लो­का­द्वा­यु­मिति पठितव्यमिति।
एतस्य संव­त्स­रा­दि­त्य­स्यो­परि देवलोकमिति पठित्वा देव­लो­का­द्वा­यु­लो­क­मिति पठि­त­व्य­मि­त्यर्थः।
ननु वाचकमेवेति न युक्तं वायुशब्दस्य लक्षणीये देवलोके शक्त्य­भा­वा­दि­त्या­शङ्क्य व्याचष्टे-
बोधकमेवेत्यर्थ इति।
कथं तर्हि भाष्य इति।
यदि सूत्रे वायुशब्दो देवलोकोपलक्षक इति संव­त्स­र­दे­व­लो­क­वा­य्वा­दि­त्यानां क्रमः सूत्रकाराभिमतः तदा कथं भाष्ये सौत्रस्य वायुशब्दस्य वायु­प­र­त्व­मे­वा­ङ्गी-कृत्य वायोः संव­त्स­रा­त्प­र­त्व­मा­दि­त्या­द­र्वाक्त्वं सूत्र­का­रो­क्त­त­याऽ­नू­दि­त­मि­त्यर्थः।
छान्दो­ग्य­पा­ठ­मा­त्रा­पे­क्ष­येति।
छान्दो­ग्य­पा­ठ­मा­त्र­म­पेक्ष्य सूत्रं प्रवृ­त्त­मि­त्य­भि­प्रेत्य भाष्ये तथोक्तम्। यदि वाज­स­ने­य­क­प्राप्तो देवलोकोऽपि सूत्रार्थत्वेन नीयते वायुशब्दस्य तदा देवलोके वा देव­लो­क­व्य­व­हि­त­वायौ वा लक्ष­णाऽ­ङ्गी­का­र्येति भावः।
प्रजा­प­ति­र्वि­रा­डिति।
सम­ष्टि­स्थू­ला­भि­मानी विराट् सम­ष्टि­सू­क्ष्म­श­री­रा­भि­मानी हिरण्यगर्भ इति भेदः।
शुक्ल­प­क्षा­त्स­का­शा­दिति।
आपू­र्य­मा­ण­प­क्षा­दिति पञ्चम्या यथा­श्रु­ता­र्थ­मा­दा­या­व­धि­प­र­त­येदं व्याख्यातम्। अर्चिष इत्याद्याः सर्वाः पञ्च­म्य­स्तृ­ती­यार्थ इति आतिवाहिकाधिकरणे स्थास्यति। आदित्य इति श्रुत्य­पे­क्षि­ता­ध्या­हारः ॥२॥
इति द्वितीयं वाय्वधिकरणम् ॥

तडितोऽधिवरुणः संबन्धात् ॥३॥
तेनादित्यमिति श्रुति­वि­रो­धा­दिति।
तेन स ऊर्ध्वमाक्रमते स आदि­त्य­मा­ग­च्छ­तीति श्रुति­वि­रो­धा­दि­त्यर्थः।
अतो नामीषां मार्गे निवेश इति।
यथा तेन स ऊर्ध्व­मि­त्या­दि­श्रु­ति­वि­रो­धा­द्वा­यो­र­न­न्तरं न निवेशः एव­म­र्चि­षोऽ-ह­रि­त्या­दि­श्रु­ति­वि­रो­धा­द­न्य­त्रापि न निवेश: अमा­न­व­पु­रु­षा­व­रो­धात्। आति­वा­ह­का­न्त­र-स­द्भावे विद्यु­तोऽ­न­न्त­र­मे­वा­मा­न­व­पु­रु­ष­स्या­ति­वा­हि­क­त्वो­क्त्त्य­यो­गात्। तस्मा­द्व­रु­णा­दी-ना­म­र्चि­र­ह­रा­दि­मार्गे निवेशनासंभवात् कौषीतकिशाखोक्तं मार्गान्तरमिति प्रथ­मा­धि­क­र­णा­क्षेपः। मार्गै­क्य­नि­य­मे­नाऽग्रे यदा वै पुरु­ष­मि­त्या­दि­बृ­ह­दा­र­ण्य­क-श्रु­त्यु­क्त­मपि मार्गान्तरं वक्तुं शक्यम्। अतस्तत्र श्रुतो वायु­र्दे­व­लो­का­दा­दि­त्य­मिति श्रौत­क्र­म­वि­रो­धेन तयोर्मध्ये न निवेशनीय इति सम­न­न्त­रा­धि­क­र­ण­स्या­प्या­क्षेपः।
प्रधा­न­श­ब्द­गृ­ही­ता­दिति।
कल्प्यस्य प्रकृ­ति­व­च्छ­ब्दस्य प्रधा­न­वि­शे­ष­ण­त्वेन तद­न्त­र्भू­त­त्वा­दिति भावः। अन्ते तु बादरायण इति न्यायवत् पाठक्रमोऽपि दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­स्तुल्यः। दृष्टान्ते नारि­ष्ट­हो­म­ग्रा­ह­क­प्र­धा­न­वा­क्य­पा­ठा­न­न्त­र­मु­प­हो­म­वा­क्य­पाठः दार्ष्टान्तिके वरु­णा­न­न्त­र­मि­न्द्र­प्र­जा­प­ति­पाठ इति। यद्यपि वरुणमारभ्यान्ते तु बादरायण इति न्यायो वक्तुं शक्यः तथापि वरुणस्य तडि­त्सं­ब­न्धोऽ­प्य­धि­कोऽ­स्तीति तदुपन्यासः। विद्युदनन्तरं वरुणादीनां सत्त्वेऽ­प्य­मा­न­व­पु­रु­ष­स्या­ति­वा­हि­क­त्वो­क्ते­र­भि­प्रायं सूत्रकार एवानन्तराधिकरणे वक्ष्यति ॥३॥
इति तृतीयं तडिदधिकरणम् ॥

आति­वा­हि­क­स्त­ल्लि­ङ्गात् ॥४॥
अवधिष्विति।
पूर्व­पू­र्व­सी­मा­व­धिषु स्थित्वा स्वसी­मा­म­ति­क्रम्य सीमान्तरं ये प्रापयन्ति ते आवधिका आतिवाहिकाश्च।
अमूर्तेति।
अमूर्ताः परि­च्छि­न्न­प­रि­मा­ण­र­हिता आत्माकाशादयः तद्वृत्तयो बुद्धिशब्दादयः तद्वृ­त्ति­र­वा­न्त­र­जा­ति­र्गु­णत्वं तदाधारेषु रूपादिषु गुणशब्दः पारिभाषिक इत्यर्थः। अमू­र्त­वृ­त्ति­वि­शे­ष­णा­भावे द्रव्य­त्व­क­र्म­त्व­रू­पा­वा­न्त­र­जा­ति­म­तो­र्द्र­व्य­क­र्म­णो­र­ति­व्याप्तिः। अवा­न्त­र­वि­शे­ष­णा­भा­वेऽ­मू­र्त­वृ­त्ति­स­त्ता­जा­ति­म­तो­स्त­यो­रे­वा­ति­व्याप्तिः। अत उभयमुपात्तम् ।
न च वैशेषिकेति।
नन्व­य­म­नु­क्तो­पा­लम्भः। न हि शाब्दिका वैशे­षि­क­प­रि­भा­षितं गुणं विभाषा गुणेऽस्त्रियां वोतो गुण­व­च­ना­दि­त्या­दि­सू­त्रेषु गुणशब्दार्थं वदन्ति किन्तु जाड्य­मौ­ढ्य-पा­ट­व­मा­र्द­वा­दिकं द्रव्यो­प­स­र्ज­न­मि­त्या­श­ङ्क्या­र्चि­रा­दे­रपि तद­वि­शि­ष्ट­मि­त्या­ग­न्तॄन् प्रधानान् प्रतीति। ननु द्रव्यो­प­स­र्ज­न­मात्रं शाब्दिकानां न गुणत्वं तस्य भोक्तृ­प­स­र्ज­न­त्वेऽपि गुणग्रहणस्य धनेन कुलमित्यादीनां प्रत्यु­दा­हृ­त­त्वात् किन्तु द्रव्य­ध­र्म­वि­शे­ष­रूपं द्रव्यो­प­स­र्ज­नम्। अतोऽर्चिरादिषु न हेतु­प­ञ्च­म्यु­प­प­द्यते। अर्चिरादीनां नेत­व्य­जी­व­ध­र्म-त्वा­भा­वात् किन्तु पितृयाणे धूमा­दी­ना­म­प्यु­क्त­न्या­ये­ना­ति­वा­हि­कत्वं वाच्यम्। संपि­ण्डि­त­क­र­ण­ग्रा­माणां स्वतो गमनासंभवात्। तत्र रात्रिशब्दे हेतुपञ्चमीति कथमपि वक्तुं न शक्यते। अस्त्रियामिति पर्युदासादिति चेद्यद्येवं व्यत्ययो बहुलमिति छान्दसेन विभ­क्ति­व्य­त्य­येन तृतीयार्थे पञ्चम्यस्तु ॥४॥५॥६॥
इति चतु­र्थ­मा­ति­वा­हि­का­धि­क­र­णम् ॥

कार्यं बादरिरस्य गत्युपपत्तेः ॥७॥
न चैत इत्या­दि­ग्र­न्थे­नो­द्भाव्य निराकरणीयाम् अव­य­व­सं­यो­गे­ना­न्य­था-सि­द्धा­व­व­य­वि­सं­यो­ग­प्र­त्या­ख्या­न­शङ्कां विवृणोति-
शाखा­मृ­गोऽ­व­य­वीति।
ननु अस्त्ववयविनः संयोगः अवयवे वाऽव­य­वा­न्त­रा­व­च्छि­न्न­त्वे­ना­प्राप्तः शाखामृगेण प्राप्यते अवयवविशेषो वा पूर्वमप्राप्तः प्राप्यत इति चेत्। एवं तर्हि ब्रह्मापि प्रदे­श­वि­शे­षा­व­च्छिन्नं तत्प्रदेशविशेषो वा मुच्यमानेन प्राप्यते प्राग­प्रा­प्त­त्वा­दिति तुल्यम्।
ननु तर्हीति।
अव­य­वि­सं­यो­गो­प­ल­क्षित इति भ्रान्त्या शङ्का।
काल्प­नि­क­वि­भा­ग­म­पे­क्ष्येति।
अवयवभेदेनापि वास्त­वोऽ­व­य­वि­भेदो वक्तुं न शक्यते न चावयविनि भेदाभावे तस्यैव प्राप्तिश्च समर्थयितुं शक्यते। अतो भेद­स्या­वि­द्या­क­ल्पि­तत्वं काल्प­नि­क­श­ब्दे­नो­क्तम्।
यथाऽ­श्व­मे­धा­दी­नीति।
अश्व­मे­ध­प­र्य­न्ता­न्य­दृ­ष्टा­र्थानि कर्माणि क्रिया­त­त्फ­ला­दि­स्व­रू­प­स­द्भा­व­श्र­द्धा­ही­नस्य ब्रह्मविदो न फल­न्ती­त्य­श्र­द्धस्य कृतं दत्त­मि­त्या­दि­स्मृ­ति­मु­दा­हृ­त्योक्तं प्रथमसूत्रे तद­र्चि­रा­दि­ग­ति­चि­न्त­नेऽपि तुल्यं अदृ­ष्टा­र्थ­त्वा­वि­शे­षात् पुनः केन विशे­षे­णा­दृ­ष्टा­र्थ-क­र्मा­न्त­र­व्या­वृ­त्ते­ना­र्चि­रा­दि­ग­ति­चि­न्त­नस्य वासनामात्रेण प्रवृ­त्ति­म­व­लम्ब्य फल-प­र्य­व­सा­न­मा­श­ङ्क्यत इत्यर्थः। अतश्च वासनावशात् प्रवृत्तं लौकिकं किंचित्फलतु मा वा वैदिकं तु किमपि न फलत्येवेति भावः। टीकायां का कथे­त्ये­त­त्कै­मु­ति-क­न्या­य­प्र­द­र्श­नार्थं न भवति प्रकृतार्थे तदनन्वयात् किंत्वि­त­रा­पे­क्ष­याऽ­र्चि­रा­दि­ग­ति-चि­न्त­नस्य को विशेषः येने­त­रे­षा­म­फ­ल­त्वेऽ­प्ये­त­त्फ­ल­व­त्स्या­दि­त्ये­त­द्द­र्श­यितुं कानि तान्य­फ­ला­नी­त­रा­णी­त्या­का­ङ्क्षा­या­मा­चा­र्यै­र­श्व­मे­धा­दीनि तानी­त्यु­दा­हृ­तानि।
अनेनाहत्येति।
नान्यः पन्था इत्यत्र पन्था इत्ययं शब्दोऽणुः पन्था इत्या­दि­श्रु­त्य­न्त­रेषु पन्था इति श्रवणाद् ब्रह्म­प्रा­प्ति­सा­ध­न­त्वे­ना­र्चि­रा­दि­मार्गो विवक्षित इति भ्रम­म­प­ने­तु­मे­वेति भावः। ननु अणुः पन्था विततः पुराणो मां स्पृष्टोऽ­नु­वित्तो मयैव। तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमिति ऊर्ध्वं विमुक्ता इति पथ इव ऊर्ध्व­दे­श­व­र्ति-स्व­र्ग­लो­क­प्रा­प्ति­सा­ध­नत्वं श्रूयत इति चेत् तर्हि इत­स्तृ­ती­य­लो­क­रू­प­स्व­र्ग­लो­क­प्रा­प्ति­रेव ब्रह्मविद उक्ता स्याद् न तु ब्रह्म­लो­क­प्राप्तिः। स्वर्गशब्दस्य ब्रह्मलोके लक्षणाऽऽश्रीयत इति चेत् किमर्थं लक्ष­णाऽऽ­श्र­यि­तव्या यन्न दुःखेन संभिन्नमिति श्रुत्यनुशिष्टो निरतिशयानन्द इह स्वर्ग­श­ब्दा­र्थोऽस्तु ततश्च निर­ति­श­या­न­न्द­प्र­का­श­रूपं ब्रह्मैव स्वर्गलोकशब्देन प्राप्यमुक्तं भवति। स्वर्गकामो यजेतेत्यादावपि ब्रह्मानन्द एव स्वर्गशब्दार्थः स्यादिति चेद् अस्तु को दोषः। अन्तः­क­र­ण­शु­द्धि­द्वारा कर्मणामपि ब्रह्म­प्रा­प्ति­सा­ध­न­त्व­सं­भ­वात्। यः कामयेत सर्वमिदं भवे­य­मि­त्या­दि­ब्र­ह्म­प्रा­प्ति­रू­प-क­र्म­फ­ल­श्र­व­णा­ना­मे­वो­प­पा­द­नी­य­त्वात् दर्श­पू­र्ण­मा­सा­दि­ष्वपि दिवि ज्योति­र­ज­र­मा­र­भे­ता-मि­त्या­दि­म­न्त्र­लिङ्गैः ब्रह्म­प्रा­प्ति­फ­ला­व­ग­माच्च। उक्तं च वार्तिके।
स्वर्गोऽयमेव प्रागुक्तः स्वर्ग­का­म­व­च­स्यपि।
कर्म­भि­स्त­द­सि­द्धेर्हि वेदा­न्त­ज्ञा­न­मि­ष्यते ॥
यद्वा निर­ति­श­य­ब्र­ह्मा­न­न्द­वा­च­कस्य स्वर्गशब्दस्य स्वर्ग­का­मा­दि­वा­क्यै­नै­क-म­न्त्र­लि­ङ्गा­द्य­व­ग­त­ना­क­पृ­ष्ठ­भो­ग्य­सु­ख­वि­शेषे लक्षणाऽस्तु तत्प्रशंसार्थं तत्र तस्य लक्षणोपपत्तेः चन्दनं स्वर्गः सूक्ष्माणि वासांसि स्वर्ग इति सुखसाधनेऽपि प्रशंसार्थं तत्प्र­यो­ग­द­र्श­नात्। ऐहिकसुखापेक्षया नाकलोकभोग्यसुखे निता­न्तो­त्क­र्ष­स­त्वेन निर­ति­श­य­सु­ख­वा­चिना तत्प्र­शं­सौ­चि­त्याच्च। इह तु संकोचे कारणाभावाद् मोक्षप्रकरणाच्च परमानन्द एव स्वर्गशब्दार्थो ग्राह्यः न तु कर्मवाक्येष्विव परिच्छिन्नो लक्षणीयः। तदप्युक्तं वार्तिके।
परमानन्द एवातः स्वर्गशब्देन गृह्यते।
मोक्ष­प्र­क­र­णा­न्नित्यः क्रियार्थोऽतो न गृह्यते ॥ इति।
एवं च मन्त्र­स्या­य­मर्थः। अणुः सूक्ष्मः दुर्विज्ञानः विततो विस्तीर्णः विस्प­ष्ट­त­र­ण­हेतुः पन्था ज्ञान­रू­प­ब्र­ह्म­प्रा­प्त्यु­पायः पुराणश्चिरन्तनः श्रुतिसिद्धः मां स्पृष्टः मां स्पृष्टवान् मया स्पृष्ट इति वा मया लब्ध इति यावत्। मयानुवित्तः फल­प­र्य्य­व­सा­यिनीं परिपाकदशामानीतः मयेति शब्दो मन्त्र­दृ­ष्ट­ऋ­षि­प­रा­मर्शी। तेन धीराः प्रज्ञावन्तः अन्येऽपि ब्रह्मविदः इतः शरी­र­पा­ता­दूर्ध्वं स्वर्ग­लो­क­म­पि­य­न्तीति।
ब्रह्म वेद ब्रह्मैव भव­ती­त्या­दि­श्रु­ति­सा­म­र्थ्यै­रिति।
यद्य­प्यु­त्क्रा­न्ति­प्र­ति­षे­ध­श्रु­ति­रपि टीकायां ब्रह्म­श­ब्द­ल­क्ष­णा­हे­तु­त्वेन विवक्षितेति वक्तुं शक्यं तथा­प्यु­त्क्रा­न्ति­प्र­ति­षे­धतो गत्यभावसिद्धिः प्रतिषेधादिति चेदित्यधिकरणेन लब्धेति ब्रह्म वेदे­त्या­दि­श्रु­ति­सा­म­र्थ्य­मा­त्र­मे­त­द­धि­क­र­ण­प्र­द­र्श­नी­य­मिति तदुपादानम् फलान्तरवत्त्वे काम्य­त्व­प्र­स­ङ्गा­दिति। यदि प्राधान्येन नित्य­नै­मि­त्ति­कानां फला­न्त­रा­भा­वेऽ­प्य­न्वा­धा­न­प्र­स्त­र­या­गा­दी­नाम् अङ्गानां कर­ण­म­न्त्र­प्र­काश्यं वर्चः­पु­ष्ट्यायुः प्रजा­दि­क­मा­नु­ष­ङ्गिकं फलमस्तीति तदभिप्रायेण भाष्य­का­रै­रा­प­स्त­म्ब­स्मृ­ति­रु­दा­हृ­ते-त्यु­च्येत तदा तेषां न काम्य­त्व­प्र­सङ्गो नाप्य­नु­नि­ष्पा­दि­फ­ला­नु­त्प­त्ति­रिति द्रष्टव्यम्।
भावस्य विना­श­प्र­स­ङ्गा­दि­त्ये­त­त्सो­प­प­त्तिकं व्याचष्टे-
स्वरूपाभाव इति।
आत्म­स्व­रू­प­भू­तयोः कर्तृ­त्व­भो­क्तृ­त्व­यो­र्नाशे आत्मस्वरूपमेव नश्येदित्यर्थः।
विक­ल्प­म­कृ­त्वेति।
स्वभा­वा­स्व­भा­व­वि­क­ल्प­म­कृत्वा यथाश्रुतशङ्कां परिगृह्य दूषणं वक्तीत्यर्थः।
कल्प­का­ल­स्था­यि­त्वा­दिति।
नित्यस्य तु शक्तिमतः कदाचन शक्ति­रा­वि­र्भ­वे­दिति भावः। न च कार्ये प्रति­प­त्त्य­भि­संधि (ब्र. अ. ४ पा. ३ सू. १४) रिति सूत्रं गतेः कार्य­वि­ष­य­त्व­श­ङ्का-नि­रा­क­र­णा­र्थम्। अत­स्त­त्सू­त्र­व्या­ख्या­ना­र­म्भ­भाष्ये पूर्वो­क्त­स्व­त­न्त्र­यु­क्तिभिः समु­च्च­या-र्थोऽ­पि­शब्दो नोपपद्यत इति शङ्कायां तदुपपादनार्थो न च कार्य इति सूत्रमित्यादिः प्राची­नो­प­प­त्ती­ना­मा­हे­त्यन्तो ग्रन्थः। पूर्वं भाष्य­ग­त­श­ब्द­व्या­ख्या­ना­व­स­रा­ला­भा­दिह तत्सू­त्र­भा­ष्यो­दा­हृ­ताया यशोऽहं भवा­मी­त्या­दि­श्रु­ते­र्व्या­ख्या­ना­व­सरे तदुपपादनमनेन ग्रन्थेन कृतम्। तत्रो­प­प­त्ती­ना­मिति बहुवचनेन मुख्यत्वं तयो­र्ध्व­मा­य­न्निति दर्शनं सोऽध्वनः पारमाप्नोतीति दर्शनं च संगृहीतम्। आहेत्यस्यापि न च शब्दनिर्देश इति कर्त्राऽन्वयः।
यशः प्रकाश आत्मेति।
यशो­ना­म­क­प­र­ब्र­ह्म­प्र­का­श­रूपो ब्राह्मणादीनां य आत्मा स भवामीत्यर्थः ॥७॥८॥९॥१०॥११॥१२॥१३॥१४॥
इति पञ्चमं कार्याधिकरणम् ॥

अप्र­ती­का­ल­म्ब­ना­न्न­य­तीति बादरायण उभ­य­थाऽ­दो­षा­त्त­त्क्र­तुश्च ॥१५॥
ये चामी इत्यस्य सामा­न्य­वि­ष­य­त्वा­दिति।
यद्यप्यस्य सामा­न्य­वि­ष­य­त्वेऽपि ये चामी तेऽर्चिषमिति यत्तच्छन्दयोः प्रती­को­पा­स­क­वि­ष­यत्वं वक्तुं शक्यं पितृ­या­ण­तृ­ती­य­स्था­न­र­हि­तानां तेषा­म­र्चि­रा­दि-ग­त्य­व­श्यं­भा­वात् तेषामपि ब्रह्म­स्पृ­गु­पा­स­ना­क­र्तृ­त्वेन सत्यमुपासत इति शब्द­वि­ष­य­त्वो­प­प­त्तेश्च। अङ्गा­व­ब­द्धो­पा­स­नानां कासां­चि­द्ब्र­ह्म­स्पृ­क्त्वेऽ­प्यु­द्गा­तृ­क­र्तृ­कासु सुत्यासु फलभाजो यजमानस्य स्वत­न्त्र­क­र्तृ­त्वा­भा­वेन सत्यमुपासत इत्येतत्तेषामपि परामर्शकं स्यादि­त्य­ति­प्र­स­ङ्गा­भा­वा­त्त­स्यौ­त्स­र्गि­क­स्व­त­न्त्र­क­र्तृ­मा­त्र­वि­ष­यत्वे संभवति स्वत­न्त्र­प्र­यो­ज­क­सा­धा­र­ण्य­क­ल्प­ना­यो­गात्। तथापि स एनानित्यत्र तच्छब्दस्य प्रती­को­पा­स­का­वि­ष­यत्वं वक्तुं शक्यं तदभिप्राया सामान्यवचनस्य प्रति­को­पा­स­का­ति­रि­क्त­वि­ष­य­त्वो­क्ति­र्भ­वि­ष्यति। ये चामी इत्यस्य सामा­न्य­वि­ष­य­त्वा-दिति ग्रन्थे येचामीग्रहणं प्रदेशोपलक्षकं सत् स एनानित्येतत्परं भविष्यति। एवं च प्रती­को­पा­स­का­ना­म­र्चि­रा­दि­मा­र्गेण विद्यु­ल्लो­क­प­र्यन्ता गतिः समाना। अमानवपुरुषस्तु न तान्नयतीति शेषः। अत एवा­प्र­ती­का­ल­म्ब­ना­न्न­य­तीति सूत्रे नयनविशेष उक्तो नार्चिरादिगतौ। भाष्ये यद् अनियमन्यायस्य प्रती­को­पा­स­ना­ति­रि­क्त­वि­ष­य­त्व­मुक्तं तदपि ब्रह्म­प्रा­प्त्यं­श­वि­ष­य­मा­त्र­वि­षयं नार्चि­रा­दि­ग­ति­वि­ष­य­मपि अनियमाधिकरण एव भाष्य­का­रै­र­र्चि­रा­दि­गतेः सर्व­वि­द्या­सा­धा­र­ण्य­स­म­र्थ­ना­र्थम्। अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकमिति च मार्ग­द्व­य­भ्र­ष्टानां कष्टामधोगतिं गमयन्ति देव­या­न­पि­तृ­या­न­यो­रेव एतानुद्भावयन्ति तत्रापि विद्या­वि­शे­षा­देषां देव­या­न­प्र­ति­प­त्ति­रिति प्रदर्शितस्य प्रती­को­पा­स­ना­सा­धा­र­ण्याद्। देव­या­न­पि­तृ­या­ण­यो­र्मध्ये विद्या­रू­पा­द्वि­शे­षा­द्दे­व­या­न­प्रा­प्ति­रिति। प्रदर्शितो हि न्यायस्तास्वपि तुल्य एव। शास्त्रदर्पणे त्वाचार्य्यैः स एनानित्यस्य प्रती­को­पा­स­का­वि­ष­यत्वे न्याया­न्त­र­मु­क्तम्। प्रतीकभाजां तु ये चामी अरण्ये इत्यनेन पञ्चा­ग्नि­विद्भिः सम्मार्गे समु­च्च­येऽ­प्य­प्रा­धा­न्यात् स एना­नि­त्ये­त­च्छ­ब्देन परामर्शाद् न ब्रह्मप्राप्तिः एतच्छब्दस्य प्राधान्येन प्रकृ­त­प­रा­म­र्शि­त्वात् पञ्चा­ग्नि­वि­दा­मेव प्रकरणवत्त्वेन तथाभावादिति। इदमपि युक्तमेव। तद्य इत्थं विदुः ये चामी इति यच्छ­न्द­द्व­य­नि­र्दि­ष्टानां पञ्चाग्निविदां ब्रह्मोपासकानां च तत्प्र­ति­नि­र्दे­श­केन तच्छब्देन परामर्शेऽपि स एना­नि­त्ये­त­च्छ­ब्देन प्रकरणानुरोधात् पञ्चा­ग्नि­वि­दा­मेव परामर्श इत्युपपत्तेः। न हि प्रकरणाम्नातस्य क्वचि­त्के­न­चि­द्धे­तुना प्रकृ­ता­प्र­कृ­त­सा­धा­रण्यं जात­मि­त्ये­ता­व­ताऽ­न्य­स्यापि प्रकरणाम्नातस्य तदु­भ­य­सा­धा­र­ण्य­नि­य­मोऽस्ति ज्योति­ष्टो­म­प्र­क­र­णा­म्ना­तस्य उपांशु यजुषेति यजु­र्वे­द-वि­हि­त­क­र्मा­ङ्ग­स्व­र­वि­शे­ष­वि­धा­नस्य याजु­र्वे­दि­क­स­क­ल­क­र्म­सा­धा­र­ण्येऽपि दीक्ष­णी­या-प्र­भृ­त्य­ङ्ग­वि­धा­नस्य ज्योति­ष्टो­म­मा­त्र­सा­धा­र­ण्य­व­दु­प­पत्तेः। अहं­ग्र­हो­पा­स­कानां ब्रह्म­प्रा­प्ते-स्त­त्क्र­तु­न्या­यत एव सिद्ध्या स एनानिति वचनानपेक्षणात्। तदपेक्षणेऽप्येष देवपथो ब्रह्मपथ इत्यु­प­को­स­ल­वि­द्या­ग­त­वा­क्येन तत्सिद्धेश्च सर्वथाऽपि न प्रती­को­पा­स­का­ना­म-र्चि­रा­दि­मा­र्गात् पर्युदासः किन्तु ब्रह्म­प्रा­प्ते­रे­वेति सिद्धम् ॥१५॥१६॥
इति षष्ठ­म­प्र­ती­का­ल­म्ब­ना­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग-रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ श्रीवे­दा­न्त­क­ल्प­त­रु­प­रि­मले चतु­र्थ­स्या­ध्या­यस्य तृतीयः पादः ॥
॥इति चतु­र्थ­स्या­ध्या­यस्य सगुणविद्यावतो मृत­स्यो­त्त­र­मा­र्गा­भि­धा­ना­ख्य­स्तृ­तीयः पादः ॥

॥चतुर्थाऽध्याये चतुर्थः पादः ॥ संपद्याविर्भावः स्वेन शब्दात् ॥१॥
आद्ये पाद इति।
निर्गु­ण­वि­द्या­फ­लै­क­दे­श­रूपा बन्ध­नि­वृ­त्ति­राद्ये पादे प्राधान्येन निरूपिता। भोगेन त्वितरे इति सूत्रेण तच्छेषतया तदधिगम इत्यादिसूत्रैः पुण्य­पा­प­क्ष­य­श्चि­न्तित इति भावः।
एवकारश्चावधारण इति।
मूलपाठं दृष्ट्वेदं व्याख्यातम्। एवकारश्चेवार्थे नावधारण इति पाठस्तु स्पष्टार्थः।
श्लोकगतं वाक्यादिति हेतुं व्याचष्टे इति।
एतद्व्याख्यानं सर्वमपि ज्योति­र्द­र्श­ना­दि­त्य­धि­क­रण एव विवृतम् ॥१॥२॥३॥
इति प्रथमं संप­द्या­वि­र्भा­वा­धि­क­र­णम् ॥

अविभागेन दृष्टत्वात् ॥४॥
योगानामिवेति।
योगशास्त्रविदां हैर­ण्य­ग­र्भा­णा­मी­श्व­रा­द्भे­दे­नैव मुक्तस्य स्वरू­पे­णा­व­स्थि­ति­रिति तन्मतं दृष्टा­न्ती­कृ­तम्।
तत्व­म­स्या­दि­वा­क्या­दिति।
तत्त्व­म­स्या­दि­वाक्यं मुक्ति­सा­ध­न­ज्ञा­नो­त्प­त्त्यर्थं तत्र पर्य्येतीत्यादि फलवाक्यम्। एवं च साधनवाक्यात् फलवाक्यस्य प्रधानविषयत्वेन प्राबल्यात् तदनुसारेण मुक्तो भेदे­नै­वा­व­ति­ष्ठते तत्त्व­म­स्या­दि­वाक्यं त्वौप­चा­रि­का­भे­द­परं वा। अभेददृष्टावपि भेदे­ना­न­व­स्था­न­म­हं­ग्र­हो­पा­स­ने­ष्वि­वेति पूर्वः पक्षः।
तत्रा­भि­नि­ष्प­न्नेति।
तथैव तत्त्व­म­स्या­दि­वा­क्या­नु­गु­ण­फ­ल­श्र­व­णात् तदनुरोधेन स तत्र पर्य्ये­ती­त्या­दि-स­गु­ण­वि­द्या­या­मु­त्कृ­ष्टव्यं कर्तृ­क­र्म­भा­व­नि­र्दे­शश्च गौणो नेतव्य इति सिद्धान्तः ॥४॥
इति द्वितीयमविभागेन दृष्ट­त्वा­धि­क­र­णम् ॥

ब्राह्मेण जैमि­नि­रु­प­न्या­सा­दिभ्यः ॥५॥
अनेकाकारतेति
श्लोके यदेकताहतेरिति विपक्षबाधकं तद्ध­र्मि­णोऽ­ने­का­का­र­रू­प­त्व­मिति धर्मपरिशेषपक्षे अने­का­का­रा­णा­मे­क­ध­र्मि­रू­प­त्व­मिति धर्मि­प­रि­शे­ष­पक्षे त्वनेकताहतेरिति विपक्षबाधकं द्रष्टव्यमिति योजयति-
एक­स्या­ने­का­का­रत्वं वदन्प्रष्टव्य इत्यादिना।
श्लोक­स्यो­त्त­रा­र्ध­म­व­ता­र­यति-
अथात्मन इति।
सत्य­द्वै­ता­वि­घा­त­क­त्व­मिति।
भावा­द्वै­ता­वि­घा­त­क­त्व­मि­त्यर्थः। अभावरूपा धर्मा वस्तुतः सन्ति चेत् ते भावा द्वैतं न निघ्नन्तीति वक्तुं शक्यं न तु ते वस्तुतः सन्ति प्रतियोगिनां काल्पनिकत्वेन तदधीननिरूपणानां तेषामपि काल्प­नि­क­त्वा­व­श्य­म्भा­वा­दिति परिहारार्थः ॥५॥६॥
धर्माणां तुच्छ­त्वा­भ्यु­प­ग­म­प्र­युक्तं न मृष्यत इति।
गताः कलाः पञ्चदश प्रतिष्ठाः षोडशकलाः पुरुषायणा इति श्रुत्योरिति सर्वे­श्व­र­त्वा­दि­गु­ण­क­त्व­चि­न्मा­त्र­रू­प­त्व­श्रु­त्यो­रपि व्याव­हा­रि­क­पा­र­मा­र्थि­क­दृ­ष्टि­भ्या­म­वि­रोधे संभवति कस्याश्चन श्रुते­र्नि­रा­ल­म्ब­न­त्व­क­ल्पना न युक्ता। मुक्त­स्या­यु­क्त­रू­प­प्र­ति­बि­म्ब-प्र­ति­यो­गि­क­बि­म्ब­रू­प­प­र­मे­श्व­र­भा­वा­प­त्ति­श्चा­व­र्ज­नीया तद्भावापत्तौ च मुक्तौ तुदी­य­गु­णा-वि­र्भा­वोऽ­प्य­नि­वार्यः। न चैतावता मुक्तस्य चिन्मा­त्र­रू­प­त्व­हानिः। परमेश्वरस्येव तद्भावापन्नस्य तस्यापि वस्तु­त­श्चि­न्मा­त्र­रू­प­त्वो­प­प­त्ते­रिति भावः ॥७॥
इति तृतीयं ब्राह्माधिकरणम् ॥

संकल्पादेव च तच्छ्रुतेः ॥८॥
प्रय­त्ना­दि­सा­पे­क्ष­सं­क­ल्प­जन्या इति।
आदिशब्देन चेष्टाग्रहणम्। चेष्टा­ज­न्य­त्व­मपि साध्यत्वमिति समी­हि­त­सा­ध्य-ला­भार्थं प्रयत्नादिजन्या इत्येव साध्यं सङ्कल्पजन्यत्वं तु सिद्धान्तिनोऽपि समानं न साध्ये निवेशनीयं प्रयत्ने चादृ­ष्टा­द्वा­र­कत्वं विशेषणं तेन नोपा­स­ना­का­ल-क­र्त­व्या­स­न­ब­न्धा­द्यु­प­यो­गि­प्र­य­त्न­ज­न्य­त्वे­ना­र्था­न्त­रम्।
भोग­सा­ध­न­त्वा­दिति।
ननु सक­ल­भो­क्तृ­भो­ग­सा­ध­नेषु परमेश्वरेण प्रयत्नं विना सृज्येषु महाभूतेषु व्यभिचारः। न च भोगे­ष्व­सृ­ष्टि­स­ङ्क­ल्प­यि­तृ­ग­तत्वं विशेषणं परमेश्वरस्यापि भूत­भौ­ति­क­सा­ध्य­भो­ग­स­द्भा­वस्य भोग­मा­त्र­सा­म्य­लि­ङ्गा­च्चेति सूत्रे वक्ष्य­मा­ण­त्वा­दिति चेद् न तत्ते­जोऽ­सृ­ज­ते­त्या­द्या­ख्या­तो­क्तेन तदात्मनः स्वय­म­कु­रु­ते­त्या­दि­धा­तू­क्तेन च परमेश्वरेण यत्नेन साध्यत्वस्य तेजः­प्र­भृ­ति­ष्वपि सत्त्वात्। न चैवं योगि­स­ङ्क­ल्प­ज­न्य-पि­त्रा­दि­ष्वपि पर­मे­श्व­र­प्र­य­त्न­ज­न्य­त्वे­ना­र्था­न्तरं यस्य यद्भोग: साधनं तत्प्र­य­त्न­ज­न्य­त्वस्य साध्यत्वात्। न चैवं सति पश्वा­दि­भो­ग­सा­ध­ने­ष्वा­ट­वि­क­तृ­णा­दिषु व्यभिचारः। साध्या­दु­त्कृ­ष्टस्य संकल्पजत्वस्य हेतौ निवेशनात्। न च एवं सति तावन्मात्रमेव हेतुः स्यादिति वाच्यम्। मनो­र­थ­सृ­ष्ट­स्त्रियां व्यभिचारवारणाय भोग­सा­ध­न­त्व­स्यापि वक्तव्यत्वात् ।
सत्ता­प्र­यु­क्तेति।
यद्यपि कानि चित् पद­प­दा­र्था­न­व­ग­म­मात्र इति। आवा­पो­द्वा­पा­भ्या­मस्य पदस्यायमर्थ इति शक्तिग्रह एवानुमानापेक्षा न तु श्रुति­वा­क्या­र्थ­बोधे संक­ल्प­ज­पि­त्रा­दि­प­क्ष­का­नु­माने त्वनु­मि­त्यु­त्पा­द­ना­यास्ति पक्षसिद्ध्यर्थं श्रुत्यपेक्षा । अतः श्रुत्यै­वा­नु­मानं बाध्यमित्यर्थः।
अग­स्त्य­कृ­त­स­मु­द्र­पा­न­व­दिति।
यद्यपि समुद्रपानं तन्मु­ख­सं­यो­ज­न­नि­ग­र­ण­प्र­य­त्न­ज­न्य­मिति वक्तुं शक्यं तथापि समुद्रस्य यः सकृदेव पयः­पा­न­यो­ग्य­ता­पा­द­कोऽ­ल्पी­भावः अनल्पस्य वा मुखे कुक्षौ च मानं तदेव योग­सा­म­र्थ्य­सृ­ष्ट­मिह दृष्टान्तः ॥८॥९॥
इति चतुर्थं संकल्पाधिकरणम् ॥

अभावं बादरिराह ह्येवम् ॥१०॥
न च मनः परैर्दृश्यत इति।
परे दृष्ट्वा खलु संवदेयुः मनोमात्रं परैर्द्रष्टुं शक्यमिति तत्सं­वा­द­प­र्यन्तः पुष्कलो भोगो न सिद्ध्ये­दि­त्यर्थः। न च स्थूलदेहरहितस्य स्वक­र्तृ­क­त्वा­भि­व­द­न­मपि न स्यादिति वक्तुं शक्ये कथं तद्द­र्श­न­सा­ध्य­प­र­क­र्तृ­का­भि­व­द­न­मा­त्रा­सं­भव उक्त इति शङ्कनीयम्। पर्य­ङ्क­वि­द्या­या­म­र्च्चि­रा­दि­मा­र्गेण गच्छतः स्थूल­दे­ह­र­हि­त­स्यापि चन्द्रेण सह संवादस्य श्रुतस्य सूक्ष्म­दे­ह­मा­त्रेण कथंचिदुपपादनीयो यथा तद्व­द­स्या­प्यु­प­पा­द­यितुं शक्यत्वात्। न च पर­क­र्तृ­का­भि­व­द­न­मपि चन्द्रा­भि­व­द­न­व­दु­प­पा­द­यितुं शक्यमिति वाच्यम्। आति­वा­हि­क­दे­व­ता­रू­पस्य चन्द्रस्येव संक­ल्प­सृ­ष्ट­पि­त्रा­दीनां मनो­मा­त्रा­व­शि­ष्ट­वि­ष­य­द­र्श­ना­नु­प­पत्तेः।
दृष्टान्तं विभजत इति।
द्वादशाहस्य सत्र­त्व­मा­स­नो­पा­यि­चो­द­नेन यजमानबहुत्वेन च सत्र­श­ब्दा­भि-सं­यो­गाद् (जै. अ. १० पा. ६ सू. ५९) यज­ति­चो­द­ना­द­ही­नत्वं स्वामिनां चास्थि­त­प­रि­मा­णत्वा (जै. अ. १० पा. ६ सू. ६०) दिति जैमि­नि­सू­त्राभ्यां सत्रा­ही­न­ल­क्ष­णो­क्ति­पू­र्वकं तदु­भ­य­ल­क्ष­ण­यो­गाद् द्विविधो द्वादशाह इत्युक्तं तद्दृष्टान्तं विभजत इत्यर्थः।
आसनोपयिभ्यां चोदन इति।
उप­पू­र्वा­दि­ण्ग­ता­विति धातो­र्धा­तु­नि­र्दे­शार्थे इक्प्रत्यये इणो यणिति धात्विकारस्य यकारादेशे च सति उपयीति रूपेण भाव्यम्। उपेयीति रूपं तु यकारादेशस्थाने इयङादेशे सति भवति न तु स युज्यते यक्प्रत्ययस्य कित्वा­द्गु­ण­नि­षेधे सति प्राप्तस्य तस्यै­वा­प­वा­दा­र्थ­मिणो यणिति विधानात्। तस्मादुपयीत्येव पाठः। यदि त्वत्र क्वचि­द­प­वा­द­वि­ष­येऽ­प्यु­त्स­र्गोऽ­भि­नि­वि­शत इति परिभाषा समाश्रीयते तदा उपेयीत्यपि पाठः साधुः। उपायीति पाठस्तु मीमां­स­क­ग्र­न्थेषु प्रायिकः स तूक्त­धा­तो­र्धा­त्व­र्थ­नि­र्दे­शार्थे औणादिके उकारप्रत्यये सार्व­धा­तु­का­र्ध­धा­तु­क­ल­क्षणे धात्विकारस्य गुणे अयादेशे पूर्व­स­व­र्ण­दीर्घे च सति साधुः।
आस­नो­पा­यि­चो­द­न­यो­र­न्य­त­रत्वं सत्रलक्षणमिति।
आसनचोदनावत्त्वं षड­हे­नो­पा­सी­ते­त्य­ही­न­ग­त­ष­डहे श्रवणात् तत्रा­ति­व्या­प्त­मिति शङ्का­या­मा­सि­चो­द­ना­या­म­नु­प­सृ­ष्टत्वं विशेषणं देयम्।
टीकायामुपयिचोदन एवो­दा­ह­र­ण­द्व­य­मु­क्तम् । आसिचोदनं स्वयमुदाहरति-
सप्तदशावरा इति।
निय­त­क­र्तृ­क­त्व­म­ही­न­ल­क्ष­ण­मु­क्त­मिति।
मीमांसाभाष्ये त्वही­न­द्वा­द­शा­हस्य एको द्वौ बहवो वा कर्तार इत्य­नि­य­त-सं­ख्य­क­र्तृ­कत्वं सत्रद्वादशाहस्य बहव एव कर्तार इति निय­त­सं­ख्य­क­र्तृ­कत्वं चोक्तम्। अहीनानां हि यजतिचोदनेन विधानं द्विरात्रेण यजे­ते­त्ये­व­मा­दिना सत्राणां तु नियतं परिमाणं बहव एवेति। एवं च मीमां­सा­भा­ष्य­का­र­मते अस्थि­त­प­रि­मा­ण­त्वा­दिति सौत्रपदविभागः। अव्य­व­स्थि­त­प­रि­मा­ण­त्वा­दि­त्यर्थः। टीकाकारमते त्वास्थि­त-प­रि­मा­ण­त्वा­दिति निय­त­प­रि­मा­ण­त्वा­दि­त्यर्थः। अही­न­द्वा­द­शा­ह­स्यैक एव कर्तेति नियता कर्तृसंख्या सत्रस्य तु सप्त­द­शा­व­रा­श्च­तु­र्विं­श­ति­प­रमा इत्यनियता कर्तृसंख्येति। मतद्वयमपि शाखाभेदाश्रयणेन समाधेयम्। तत्रा­ही­न­द्वा­द­शा­ह­स्या­नि­य­त­सं­ख्य-य­ज­मा­न­त्व­मु­क्त­मा­प­स्त­म्ब­सूत्रे। एको द्वादशाहेन यजेत षड् द्वादश त्रयोदश वेति। बोधायनसूत्रे त्वेक एव यजमान इति निय­त­सं­ख्य­य­ज­मा­न­त्व­मुक्तं द्वादशाहेन यक्ष्यमाणो भवत्येको वा बहवो वा यद्येको दक्षिणावता यजेतेति। दक्षिणावता अहीनेन। अत एव केशवस्वामी द्वादशाहो द्विविधः अहीनः सत्रं च यद्येको दीक्षते अहीनः यदि बहवो दीक्षन्ते सत्रमिति। मीमां­सा­भा­ष्य­का­र­मते बहु­त्व­नि­य­त­क­र्तृ­कत्वं सत्रस्य तन्नि­य­म­र­हि­त­क­र्तृ­क­त्व­म­ही­नस्य च लक्षणान्तरं द्रष्टव्यम्।
शरीराभावकाल इति।
जाग­र­व्या­व­हा­रि­क­श­री­रा­भा­व­काल इत्यर्थः। स्वप्न­दृ­ष्टा­न्त­ब­लेन दृश्यानां पित्रादीनामिव द्रष्टु­रु­पा­स­क­स्यापि वास­ना­म­य­प्रा­ति­भा­सि­क­श­री­र­सिद्धेः।
जागरवत्स्थूल इति।
अतिस्पष्ट इत्यर्थः। नातिस्पष्टो हि स्वाप्न­प्र­ति­भासः ॥१०॥११॥१२॥१३ ॥१४॥
इति पञ्च­म­म­भा­वा­धि­क­र­णम् ॥

प्रदी­प­व­दा­वे­श­स्तथा हि दर्शयति ॥१५॥
सगु­ण­वि­दा­त्म­नोऽपि विद्या­सा­म­र्थ्याद् व्याप्तिः संभवतीति।
ननु तस्य स्वरूपेण विद्यो­प­हि­त­रू­पे­णा­वि­द्यो­प­हि­त­रू­पेण वा व्याप्ति­रा­जा­न­सिद्धा न योग­प्र­भा­व­म­पे­क्षते अन्तः करणोपहितरूपेण चेत् सा कथ­म­न्तः­क­र­णा­द्ब­हि­र्भ­वेत्। उपा­धि­वि­का­स­म­न्त­रे­णो­प­हि­त­वि­का­सा­यो­गा­दु­पा­धे­रन्तः करणस्यापि विकासे जीव­व्या­प्ते-रन्तः कर­णा­द्ब­हि­ष्ट्वो­क्त्य­यो­गाद् अन्तः कर­णा­न्त­र­सृ­ष्टि­वै­य­र्थ्य­प्र­स­ङ्गा­च्चेति चेदुच्यते। विद्या­सा­म­र्थ्या­त्से­न्द्रि­यान्तः करणेषु शरीरान्तरेषु सृष्टे­ष्व­वि­द्यो­प­हि­तस्य सगु­णा­वि­द्या-त्म­न­स्त­त्त­दन्तः करणेषु याऽभि­व्य­क्ति­स्त­द­भि­प्रा­योऽत्र व्याप्तिशब्दः। अयमर्थो नैजादन्तः कर­णा­दि­त्या­द्य­ग्रि­म­ग्र­न्थेन स्पष्टी­भ­वि­ष्यति। तत्र निजं सहजमेव नैजं स्वार्थे तद्धितः। सहजं निजमाजानमिति नैघण्टुकाः। एवं च युक्तं च तद्विभाविति। श्लोकभागे विभुशब्दस्य नाना­दे­श­व­र्ति­ष्व­न्तः­क­र­णेषु युग­प­द­भि­व्य­क्ति­सि­द्ध्य­र्थम् अवि­द्यो­प­हि­त­रू­पेण व्याप्तिमत्त्वं युगपत्तावदन्तः कर­णा­धि­ष्ठा­न­सि­द्ध्यर्थं तदु­प­यो­गि-वि­द्या­सा­म­र्थ्य­रूपं च वैभवमर्थ इत्युक्तं भवति।
न चैक्याभावे भेदादिति न हेतुः साध्या­वि­शे­षा­दि­त्या­शङ्क्य व्याचष्टे-
भेद­प्र­ती­ते­रि­त्यर्थ इति।
न तत्त­द्भि­न्न­तै­ल­व­र्ति­व­र्ति­नी­ना­मिति नञा सहितं पाठमाश्रित्य निषे­ध्य­स्यै­क­स्या-नु­षङ्गं कृत्वा भेदादित्यस्य भेद­प्र­ती­ते­रि­त्यर्थ इत्युक्तः। टीकायां नञा रहितोऽपि पाठो दृश्यते तत्र नानु­ष­ङ्गा­दि­क्लेशः।
एकाभिप्रायेति ॥१६॥
पर­स्प­र­वि­रो­ध्य­भि­प्रा­य­व­त्त्व­मि­त्यर्थः।
संपन्नः केवलो मुक्त इत्या­दि­टी­का­ग्र­न्थ-स्या­र्थ­माह-
यो मुक्तः स ब्रह्मसंपन्न इत्युच्यत इत्यादिना ॥१६॥
इति षष्ठं प्रदीपाधिकरणम् ॥

जग­द्व्या­पा­र­वर्जं प्रक­र­णा­द­स­न्नि­हि­त­त्वाच्च ॥१७॥
टीकायां यथा सविकारे ब्रह्म­ण्यु­पा­स्य­माने वस्तुतः स्थितमपि तस्य निर्विकारं रूपं न प्राप्यते तत्कस्य हेतोः अत­त्क्र­तु­त्वा­दु­पा­स­क­स्येति ग्रन्थानन्तरं तत्वोपासनासु हि पुरु­ष­क्र­तु­त्व­मिति वाक्य­मा­चा­र्यै­र्दृ­ष्ट­मस्ति तदवतार्य व्याख्यायते-
यथा सगुणब्रह्मणि स्थितमपि इत्यादिना निर्गु­ण­चि­न्त­क­त्व­मि­त्य­न्तेन।
टीकायां पर्यायेण सृष्टिसंहारौ स्याता­मि­त्ये­त­द­न­न्त­र­प­ठितं न चेति वाक्यं तद्धेतुवाक्यं च मानुषङ्गं सोपपत्तिकं व्याचष्टे-
यदीति।
अत्र न वा सृष्टिसंहारौ द्वावपि स्यातामित्यनेन न चेत्यस्य पूर्व­वा­क्या­न्नि­षे­ध्या-नु­ष­ङ्गे­णार्थ उक्तः। तत्र न चेति वाक्यार्थे द्वावपि न स्याता­मि­त्य­स्मिन् टीकोक्तो हेतुरुभयोः स्रष्टृ­सं­ह­र्त्रो­री­श्व­र­त्व­वि­घा­ता­दि­त्य­ने­ना­नू­दितः। ईश्वरत्वविघाते उप­प­त्ति-रि­च्छा­प्र­ति­ह­ति­र्यदि सिसृ­क्षा­सं­जि­ही­र्षयोः सत्योरपि सृष्टिसमये संहारः स्यादित्यनेन दर्शिता। एतदुपलक्षणम् किंचि­दि­च्छा­धी­न­सं­हा­र­स­म­येऽ­न्ये­च्छा­धी­न­सृ­ष्टिर्न स्यादि­त्य­स्यापि। एवं हि द्वयो­र­पी­श्व­र­त्व­वि­घाते हेतु­रि­च्छा­प्र­ति­घातो दर्शितो भवति ॥१७॥१८॥१९॥
ननु सगुणोपास्तिषु तर्हीति ॥१७॥१८॥१९॥
यद्यपि सत्य­का­म­त्वा­दीनां निर­ङ्कु­श­त्वां­श­स्यो­पा­स­ना-वि­ष­य­त्वेऽपि न तत्क्र­तु­न्या­य­वि­रोधः तस्य न्याय­स्यो­पा­स­क­ल­भ्य­गु­ण­मा­त्र­वि­ष­य­तया संकोचनीयत्वेन नित्यत्वादिति श्लोको­क्त­न्या­यै­स्त­द­ल­भ्यस्य निर­ङ्कु­श­त्वां­शस्य तन्न्या­या­वि­ष­य­त्वात् अन्यथा कारणं ध्येयः सर्वै­श्व­र्य­सं­पन्नः सर्वेश्वरश्च शंभुराकाशमध्य इत्या­दि­श्रु­त्यु­क्त­स­र्वै­श्व­र्या­दि­वि­शि­ष्टो­पा­स­नायां का गतिः का च गतिः सर्वा­स्व­प्य­हं­ग्र­हो-पा­स­ना­स्व­भे­दो­ल्लेखे अहंग्रहोपासकाः खल्व­भे­दे­नो­पा­स्या­प्य­वि­द्यो­पा­धि­नि­वृ­त्त्य­भा­वाद् भेदे­नै­वा­व­ति­ष्ठन्ते तथापि तत्क्रतुन्यायः क्वचि­त्सं­को­च­नीयो जात इत्येतावता सत्य­का­मा­दि­ष्व­श्रुतं निर­ङ्कु­श­त्व­मु­पास्यं परिकल्प्य तत्रापि तस्य संको­च­क­ल्प­न­म­यु­क्तम्। क्लृप्तेन हि विशेषशास्त्रेण सामा­न्य­शा­स्त्रस्य संकोचो न तु कल्प्येनापीति तात्पर्यम्। तदिदमुक्तं-
न हि निर­व­ग्र­ह­स­त्य­का­म­त्वा­दि­गु­ण­क­मी­श्व­र­मु­पा­सी­तेति श्रुतिरस्तीति।
आपो वै खलु मीयन्ते लोकोऽसावितीति श्रुतिवाक्यस्य टीकायाम् अप्श­ब्दो­प­ल­क्षि­तानि लोक­श­ब्दो­प­ल­क्षि­त­हि­र­ण्य­ग­र्भ­बु­द्ध्यो­पा­स्यन्ते इत्यर्थो दर्शितः।
अयमर्थो भाष्य­का­रा­णा­मिमां श्रुतिं भोग­सा­म्या­र्थ­त्वे­नो­दा­हृ­त­व­ताम् आशयस्थो न भवतीति स्वयमन्यथा व्याचष्टे-
तं ब्रह्म­लो­क­ग­त­मि­त्या­दिना ॥२२॥
इति सप्तमं जग­द्व्या­पा­रा­धि­क­र­णम् ॥
इति श्रीम­द्भ­र­द्वा­ज­कु­ल­ज­ल­धि­कौ­स्तु­भ­श्री­म­द­द्वै­त­वि­द्या­चा­र्य­वि­श्व­जि­द्या­जि­श्री­र­ङ्ग-रा­जा­ध्व­रि­व­र­सू­नो­र­प्प­य­दी­क्षि­तस्य कृतौ वेदा­न्त­क­ल्प­त­रु­प­रि­मले चतु­र्थ­स्या­ध्या­यस्य चतुर्थः पादः ॥
समाप्तश्च फला­ख्य­श्च­तु­र्थोऽ­ध्यायः।
समाप्तश्चायं ग्रन्थः ॥
॥ इति चतु­र्थ­स्या­ध्या­यस्य ब्रह्म­प्रा­प्ति-ब्र­ह्म­लो­क­स्थि­ति­नि­रू­प­णा­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीब्र­ह्म­सू­त्र­शां­क­र­भाष्ये फला­ख्य­श्च­तु­र्थोऽ­ध्यायः ॥