अद्वैतशारदा

प्रश्नोपनिषद्भाष्यम्

प्रथमः प्रश्नः

व्याख्याः

मन्त्रो­क्त­स्या­र्थस्य विस्तरानुवादीदं ब्राह्म­ण­मा­र­भ्यते । ऋषि­प्र­श्न­प्र­ति­वा­च­ना­ख्या­यिका तु विद्यास्तुतये । एवं संव­त्स­र­ब्र­ह्म­च­र्य­सं­वा­सा­दि­त­पो­यु­क्तै­र्ग्राह्या, पिप्प­ला­द­व­त्स­र्व­ज्ञ­क­ल्पै­रा­चार्यैः वक्तव्या च, न येन केनचिदिति विद्यां स्तौति । ब्रह्म­च­र्या­दि­सा­ध­न­सू­च­नाच्च तत्कर्तव्यता स्यात् —

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौस­ल्य­श्चा­श्व­ला­यनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मा­न्वे­ष­माणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्प­ला­द­मु­प­सन्नाः ॥ १ ॥

सुकेशा च नामतः, भर­द्वा­ज­स्या­पत्यं भारद्वाजः । शैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं सौर्यः, तस्यापत्यं सौर्यायणिः ; छान्दसं सौर्यायणीति ; गार्ग्यः गर्ग­गो­त्रो­त्पन्नः । कौसल्यश्च नामतः, अश्व­ल­स्या­प­त्य­मा­श्व­ला­यनः । भार्गवः भृगो­र्गो­त्रा­पत्यं भार्गवः, वैदर्भिः विदर्भेषु भवः । कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः ; विद्यमानः प्रपितामहो यस्य सः ; युवप्रत्ययः । ते ह एते ब्रह्मपराः अपरं ब्रह्म परत्वेन गताः, तद­नु­ष्ठा­न­नि­ष्ठाश्च ब्रह्मनिष्ठाः, परं ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्रा­प्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति आचार्यमुपजग्मुः । कथम् ? ते ह समित्पाणयः समि­द्भा­र­गृ­ही­त­हस्ताः सन्तः, भगवन्तं पूजावन्तं पिप्प­ला­द­मा­चा­र्यम् उपसन्नाः उपजग्मुः ॥

तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥

तान् एवमुपगतान् सः ह किल ऋषिः उवाच भूयः पुनरेव — यद्यपि यूयं पूर्वं तपस्विन एव, तथापीह तपसा इन्द्रियसंयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्ति­क्य­बुद्ध्या आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्य­ग्गु­रु­शु­श्रू­षा­पराः सन्तो वत्स्यथ । ततः यथाकामं यो यस्य काम­स्त­म­न­ति­क्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत । यदि तद्यु­ष्म­त्पृष्टं विज्ञास्यामः । अनु­द्ध­त­त्व­प्र­द­र्श­नार्थो यदि - शब्दो नाज्ञा­न­सं­श­यार्थः प्रश्न­नि­र्ण­या­द­व­सी­यते सर्वं ह वो वः पृष्टार्थं वक्ष्याम इति ॥

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥

अथ संव­त्स­रा­दूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य पप्रच्छ पृष्टवान् — हे भगवन् , कुतः कस्मात् ह वै इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति । अप­र­वि­द्या­क­र्मणोः समु­च्चि­त­यो­र्य­त्कार्यं या गति­स्त­द्व­क्त­व्य­मिति तदर्थोऽयं प्रश्नः ॥

तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥

तस्मै एवं पृष्टवते स ह उवाच तदपाकरणायाह — प्रजाकामः प्रजाः आत्मनः सिसृक्षुः वै, प्रजापतिः सर्वात्मा सन् जग­त्स्र­क्ष्या­मी­त्येवं विज्ञा­न­वा­न्य­थो­क्त­कारी तद्भावभावितः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन् , जन्मान्तरभावितं ज्ञानं श्रुति­प्र­का­शि­ता­र्थ­वि­षयं तपः, अन्वालोचयत् अतप्यत । अथ तु सः एवं तपः तप्त्वा श्रौतं ज्ञान­म­न्वा­लोच्य, सृष्टिसाधनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्व­मु­त्पा­दि­त­वान् रयिं च सोममन्नं प्राणं च अग्निमत्तारम् इत्येतौ अग्नीषोमौ अत्रन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं सञ्चिन्त्य अण्डो­त्प­त्ति­क्र­मेण सूर्या­च­न्द्र­म­सा­व­क­ल्प­यत् ॥

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मा­न्मू­र्ति­रेव रयिः ॥ ५ ॥

तत्र आदित्यः ह वै प्राणः अत्ता अग्निः । रयिरेव चन्द्रमाः । रयिरेवान्नं सोम एव । तदेतदेकमत्ता अग्निश्चान्नं च प्रजापतिरेकं तु मिथुनम् ; गुणप्रधानकृतो भेदः । कथम् ? रयिर्वै अन्नमेव एतत् सर्वम् । किं तत् ? यत् मूर्तं च स्थूलं च अमूर्तं च सूक्ष्मं च । मूर्तामूर्ते अत्त्रन्नरूपे अपि रयिरेव । तस्मात् प्रवि­भ­क्ता­द­मू­र्तात् यद­न्य­न्मू­र्त­रूपं मूर्तिः, सैव रयिः अन्नम् अमूर्तेन अत्त्रा अद्यमानत्वात् ॥

अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्या­न्प्रा­णा­न्र­श्मिषु संनिधत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं, प्रकाशयति तेन, सर्वा­न्प्रा­णा­न्र­श्मिषु संनिधत्ते ॥ ६ ॥

तथा अमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाद्यम् । कथम् ? अथ आदित्यः उदयन् उद्गच्छन् प्राणिनां चक्षु­र्गो­च­र­मा­ग­च्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति, तेन स्वात्म­व्याप्त्या सर्वान्तःस्थान् प्राणान् प्राच्या­न­न्न­भू­तान् रश्मिषु स्वात्मा­व­भा­स­रू­पेषु व्याप्तिमत्सु व्याप्त­त्वा­त्प्रा­णिनः संनिधत्ते संनिवेशयति आत्म­भू­ता­न्क­रो­ती­त्यर्थः । तथैव यत्प्रविशति दक्षिणां यत्प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत्प्रविशति यच्च अन्तरा दिशः कोण­दि­शोऽ­वा­न्त­र­दिशः यच्चान्यत् सर्वं प्रकाशयति, तेन स्वप्र­का­श­व्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु संनिधत्ते ॥

स एष वैश्वानरो विश्वरूपः प्राणोऽ­ग्नि­रु­द­यते । तदे­त­दृ­चा­भ्यु­क्तम् ॥ ७ ॥

स एषः अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वा­त्म­त्वाच्च प्राणः अग्निश्च स एवात्ता उदयते उद्गच्छति प्रत्यहं सर्वा दिशः आत्मसात्कुर्वन् । तदेतत् उक्तं वस्तु ऋचा मन्त्रेणापि अभ्युक्तम् ॥

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजा­ना­मु­द­य­त्येष सूर्यः ॥ ८ ॥

विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम् एकम् अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं विज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः ? सहस्ररश्मिः अनेकरश्मिः शतधा अनेकधा प्राणिभेदेन वर्तमानः प्राणः प्रजानाम् उदयति एषः सूर्यः ॥

संवत्सरो वै प्रजा­प­ति­स्त­स्या­यने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥

यश्चासौ चन्द्रमा मूर्ति­र­न्न­म­मू­र्तिश्च प्राणोऽ­त्ता­दि­त्य­स्त­दे­त­देकं मिथुनं सर्वं कथं प्रजाः करिष्यत इति, उच्यते — तदेव कालः संवत्सरो वै प्रजापतिः, तन्नि­र्व­र्त्य­त्वा­त्सं­व­त्स­रस्य । चन्द्रा­दि­त्य­नि­र्व­र्त्य­ति­थ्य­हो­रा­त्र­स­मु­दायो हि संवत्सरः तद­न­न्य­त्वा­द्र­यि­प्रा­णै­त­न्मि­थु­ना­त्मक एवेत्युच्यते । तत्कथम् ? तस्य संवत्सरस्य प्रजापतेः अयने मार्गौ द्वौ दक्षिणं चोत्तरं च । प्रसिद्धे ह्ययने षण्मासलक्षणे, याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञान­सं­यु­क्त­क­र्म­वतां च लोकान्विदधत् । कथम् ? तत् तत्र च ब्राह्मणादिषु ये ह वै ऋषयः तदुपासत इति । क्रियाविशेषणो द्विती­य­स्त­च्छब्दः । इष्टं च पूर्तं च इष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यम् , ते चान्द्रमसमेव चन्द्रमसि भवं प्रजा­प­ते­र्मि­थु­ना­त्म­क­स्यांशं रयिमन्नभूतं लोकम् अभिजयन्ते कृत­रू­प­त्वा­च्चा­न्द्र­म­सस्य । ते एव च कृतक्षयात् पुनरावर्तन्ते इमं लोकं हीनतरं वा विशन्तीति ह्युक्तम् । यस्मादेवं प्रजा­प­ति­म­न्ना­त्मकं फल­त्वे­ना­भि­नि­र्व­र्त­यन्ति चन्द्र­मि­ष्टा­पू­र्त­क­र्मणा प्रजाकामाः प्रजार्थिनः एते ऋषयः स्वर्गद्रष्टारः गृहस्थाः, तस्मा­त्स्व­कृ­त­मेव दक्षिणं दक्षि­णा­य­नो­प­ल­क्षितं चन्द्रं प्रतिपद्यन्ते । एष ह वै रयिः अन्नम् , यः पितृयाणः पितृ­या­णो­प­ल­क्षि­त­श्चन्द्रः ॥

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्य­या­त्मा­न­म­न्वि­ष्या­दि­त्य­म­भि­ज­यन्ते । एतद्वै प्राणा­ना­मा­य­त­न­मे­त­द­मृ­त­म­भ­य­मे­त­त्प­रा­य­ण­मे­त­स्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥ १० ॥

१०

अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणमत्तारम् आदित्यम् अभिजयन्ते । केन ? तपसा इन्द्रियजयेन । विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजा­प­त्या­त्म­वि­ष­यया आत्मानं प्राणं सूर्यं जगतः तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा आदित्यम् अभिजयन्ते अभि­प्रा­प्नु­वन्ति । एतद्वै आयतनं सर्वप्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अविनाशि अभयम् अत एव भयवर्जितम् न चन्द्र­व­त्क्ष­य­वृ­द्धि­भ­य­वत् ; एतत् परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञानवताम् एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अविद्वांसः । नैते संव­त्स­र­मा­दि­त्य­मा­त्मानं प्राण­म­भि­प्रा­प्नु­वन्ति । स हि संवत्सरः कालात्मा अविदुषां निरोधः । तत् तत्रा­स्मि­न्नर्थे एषः श्लोकः मन्त्रः ॥

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥

११

पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन आदित्यस्य, तैर्ह्यसौ पादैरिव ऋतुभिरावर्तते । हेम­न्त­शि­शि­रा­वे­की­कृ­त्येयं कल्पना । पितरं सर्वस्य जन­यि­तृ­त्वा­त्पि­तृत्वं तस्य ; द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकरणं वा अवयविकरणमस्य द्वादशमासैः तं द्वादशाकृतिम् , दिवः द्युलोकात् परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवीत्यर्थः ; पुरीषिणं पुरीषवन्तम् उदकवन्तम् आहुः कालविदः । अथ तमेवान्ये इमे उ परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे चक्रे सन्ततगतिमति कालात्मनि षडरे षडृतुमति आहुः सर्वमिदं जगत्कथयन्ति — अर्पितम् अरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वाद­शा­कृ­ति­र्यदि वा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजा­प­ति­श्च­न्द्रा­दि­त्य­ल­क्षणो जगतः कारणम् ॥

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥

१२

यस्मिन्निदं प्रोतं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते । मासो वै प्रजापतिः यथोक्तलक्षण एव मिथुनात्मकः । तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्ष एव रयिः अन्नं चन्द्रमाः अपरो भागः शुक्लः शुक्लपक्षः प्राणः आदि­त्योऽ­त्ता­ग्नि­र्य­स्मा­च्छु­क्ल­प­क्षा­त्मानं प्राणं सर्वमेव पश्यन्ति, तस्मा­त्प्रा­ण­द­र्शिन एते ऋषयः कृष्ण­प­क्षेऽ­पीष्टं यागं कुर्वन्तः शुक्लपक्ष एव कुर्वन्ति । प्राणव्यतिरेकेण कृष्ण­प­क्ष­स्तैर्न दृश्यते यस्मात् ; इतरे तु प्राणं न पश्य­न्ती­त्य­द­र्श­न­ल­क्षणं कृष्णात्मानमेव पश्यन्ति । इतरे इत­र­स्मि­न्कृ­ष्ण­पक्ष एव कुर्वन्ति शुक्ले कुर्वन्तोऽपि ॥

अहोरात्रो वै प्रजा­प­ति­स्त­स्या­ह­रेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥

१३

सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमाप्यते । अहोरात्रो वै प्रजापतिः पूर्ववत् । तस्यापि अहरेव प्राणः अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव । प्राणम् अहरात्मानं वै एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छि­द्या­प­न­यन्ति । के ? ये दिवा अहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः । यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यत् रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वात् रात्रौ भार्यागमनं कर्त­व्य­मि­त्य­य­मपि प्रासङ्गिको विधिः । प्रकृतं तूच्यते सोऽहो­रा­त्रा­त्मकः प्रजा­प­ति­र्व्री­हि­य­वा­द्य­न्ना­त्मना व्यवस्थितः ॥

अन्नं वै प्रजापतिस्ततो ह वै तद्रे­त­स्त­स्मा­दिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥

१४

एवं क्रमेण परिणम्य - तत् अन्नं वै प्रजापतिः । कथम् ? ततः तस्मात् ह वै रेतः नृबीजं तत्प्रजाकारणं तस्मात् योषिति सिक्तात् इमाः मनु­ष्या­दि­ल­क्षणाः प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रा­दि­त्य­मि­थु­ना­दि­क्र­मेण अहोरात्रान्तेन अन्नरेतोद्वारेण इमाः प्रजाः प्रजायन्त इति निर्णीतम् ॥

तद्ये ह वै तत्प्र­जा­प­ति­व्रतं चरन्ति ते मिथु­न­मु­त्पा­द­यन्ते । तेषामेवैष ब्रह्मलोको येषां
तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥

१५

तत् तत्रैवं सति ये गृहस्थाः । ह वै इति प्रसि­द्ध­स्म­र­णार्थौ निपातौ । तत् प्रजापतेर्व्रतं प्रजापतिव्रतम् ऋतौ भार्यागमनं चरन्ति कुर्वन्ति, तेषां दृष्टं फलमिदम् । किम् ? ते मिथुनं पुत्रं दुहितरं च उत्पादयन्ते । अदृष्टं च फल­मि­ष्टा­पू­र्त­द­त्त­का­रिणां तेषामेव एषः यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणः येषां तपः स्नातकव्रतादि ब्रह्मचर्यम् ऋतोरन्यत्र मैथुनासमाचरणं येषु च सत्यम् अनृतवर्जनं प्रतिष्ठितम् अव्यभिचारितया वर्तते नित्यमेव ॥

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥

१६

यस्तु पुन­रा­दि­त्यो­प­ल­क्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्र­ब्र­ह्म­लो­क­व­द्र­ज­स्वलो वृद्धि­क्ष­या­दि­युक्तः असौ तेषाम् , केषामिति, उच्यते — यथा गृह­स्था­ना­म­ने­क­वि­रु­द्ध­सं­व्य­व­हा­र­प्र­यो­ज­न­व­त्त्वात् जिह्मं कौटिल्यं वक्र­भा­वोऽ­व­श्य­म्भावि तथा न येषु जिह्मम् , यथा च गृहस्थानां क्रीडा­दि­नि­मि­त्त­म­नृ­त­म­व­र्ज­नीयं तथा न येषु तत् तथा माया गृहस्थानामिव न येषु विद्यते । माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव कार्यं करोति, सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येष्वेकाकिषु ब्रह्म­चा­रि­वा­न­प्र­स्थ­भि­क्षुषु निमित्ताभावान्न विद्यन्ते, तत्सा­ध­ना­नु­रू­प्ये­णैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञान­यु­क्त­क­र्म­वतां गतिः । पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति ॥

इति प्रथ­म­प्र­श्न­भा­ष्यम् ॥