अद्वैतशारदा

प्रश्नोपनिषद्भाष्यम्

तृतीयः प्रश्नः

व्याख्याः

अथ हैनं कौस­ल्य­श्चा­श्व­ला­यनः पप्रच्छ भगवन्कुत एष प्राणो जायते कथ­मा­या­त्य­स्मि­ञ्छ­रीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥

अथ हैनं कौस­ल्य­श्चा­श्व­ला­यनः प्रपच्छ । प्राणैर्ह्येवं निर्धा­रि­त­तत्त्वः उपलब्धमहिमापि संह­त­त्वा­त्स्या­दस्य कार्यत्वम् ; अतः पृच्छामि । हे भगवन् , कुतः कस्मात्कारणात् एषः यथावधृतः प्राणः जायते । जातश्च कथं केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे ; किंनिमित्तकमस्य शरी­र­ग्र­ह­ण­मि­त्यर्थः । प्रविष्टश्च शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्ति­वि­शे­षे­णा­स्मा­च्छ­री­रात् उत्क्रमते उत्क्रामति । कथं बाह्यम् अधिभूतमधिदैवतं च अभिधत्ते धारयति ; कथमध्यात्ममिति, धारयतीति शेषः ॥

तस्मै स होवा­चा­ति­प्र­श्ना­न्पृ­च्छसि ब्रह्मि­ष्ठोऽ­सीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥

एवं पृष्टः तस्मै स होवाचाचार्यः । प्राण एव ताव­द्दु­र्वि­ज्ञे­य­त्वा­द्वि­ष­म­प्र­श्नार्हः ; तस्यापि जन्मादि त्वं पृच्छसि ; अतः अति­प्र­श्ना­न्पृ­च्छसि । ब्रह्मि­ष्ठोऽ­सीति अतिशयेन त्वं ब्रह्मवित् , अतस्तुष्टोऽहम् , तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु ॥

आत्मन एष प्राणो जायते । यथैषा पुरुषे च्छायै­त­स्मि­न्ने­त­दा­ततं मनो­कृ­ते­ना­या­त्य­स्मि­ञ्छ­रीरे ॥ ३ ॥

आत्मनः पर­स्मा­त्पु­रु­षा­द­क्ष­रा­त्स­त्यात् एषः उक्तः प्राणः जायते । कथमित्यत्र दृष्टान्तः । यथा लोके एषा पुरुषे शिरः­पा­ण्या­दि­ल­क्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्म­ण्ये­त­त्प्रा­णाख्यं छाया­स्था­नी­य­म­नृ­त­रूपं तत्त्वं सत्ये पुरुषे आततं सम­र्पि­त­मि­त्ये­तत् । छायेव देहे मनोकृतेन मनःकृतेन मनः­स­ङ्क­ल्पे­च्छा­दि­नि­ष्प­न्न­क­र्म­नि­मि­त्ते­ने­त्ये­तत् । वक्ष्यति हि पुण्येन पुण्यमित्यादि । ‘तदेव सक्तः सह कर्मणैति’(बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तरात् । आयाति आग­च्छ­त्य­स्मि­ञ्श­रीरे ॥

यथा सम्रा­डे­वा­धि­कृ­ता­न्वि­नि­युङ्क्त एता­न्ग्रा­मा­ने­ता­न्ग्रा­मा­न­धि­ति­ष्ठ­स्वे­त्ये­व­मे­वैष प्राण इत­रा­न्प्रा­णा­न्पृ­थ­क्पृ­थ­गेव संनिधत्ते ॥ ४ ॥

यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामा­दि­ष्व­धि­कृ­ता­न्वि­नि­युङ्क्ते । कथम् ? एता­न्ग्रा­मा­ने­ता­न्ग्रा­मा­न­धि­ति­ष्ठ­स्वेति । एवमेव यथायं दृष्टान्तः । एषः मुख्यः प्राणः इतरान् प्राणान् चक्षु­रा­दी­ना­त्म­भे­दांश्च पृथक्पृथगेव यथास्थानं संनिधत्ते विनियुङ्क्ते ॥

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥

तत्र विभागः । पायूपस्थे पायुश्च उपस्थश्च पायूपस्थं तस्मिन् । अपानम् आत्मभेदं मूत्र­पु­री­षा­द्य­प­न­यनं कुर्वन् संनिधत्ते तिष्ठति । तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मि­श्च­क्षुः­श्रोत्रे । मुखनासिकाभ्यां मुखं च नासिका च मुखनासिके ताभ्यां मुखनासिकाभ्यां निर्गच्छन् प्राणः स्वयं सम्राट्स्थानीयः प्रातिष्ठते प्रतितिष्ठति । मध्ये तु प्राणापानयोः स्थानयोः नाभ्याम् , समानः अशितं पीतं च समं नयतीति समानः । एषः हि यस्मात् यदेतत् हुतं भुक्तं पीतं चात्माग्नौ प्रक्षिप्तम् अन्नं समं नयति, तस्मात् अशि­त­पी­ते­न्ध­ना­द­ग्ने­रौ­द­र्या­द्धृ­द­य­देशं प्राप्तात् एताः सप्तसङ्‍ख्याका अर्चिषः दीप्तयो निर्गच्छन्त्यो भवन्ति । शीर्ष­ण्य­प्रा­ण­द्वारा दर्श­न­श्र­व­णा­दि­ल­क्ष­ण­रू­पा­दि­वि­ष­य­प्र­काश इत्यभिप्रायः ॥

हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्या द्वास­प्त­ति­र्द्वा­स­प्ततिः प्रति­शा­खा­ना­डी­स­ह­स्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥

हृदि ह्येषः पुण्ड­री­का­का­र­मां­स­पि­ण्ड­प­रि­च्छिन्ने हृदयाकाशे एषः आत्मा आत्मसंयुक्तो लिङ्गात्मा, जीवात्मेत्यर्थः ; अत्र अस्मिन्हृदये एतत् एकशतम् एकोत्तरशतं सङ्ख्यया प्रधाननाडीनां भवति । तासां शतं शतम् एकैकस्याः प्रधाननाड्या भेदाः ; पुनरपि द्वास­प्त­ति­र्द्वा­स­प्ततिः द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि, सहस्राणां द्वासप्ततिः, प्रति­शा­खा­ना­डी­स­ह­स्राणि प्रति­प्र­ति­ना­डी­शतं सङ्ख्यया प्रधाननाडीनां सहस्राणि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृद­या­त्स­र्व­तो­गा­मि­नी­भि­र्ना­डीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । सन्धि­स्क­न्ध­म­र्म­दे­शेषु विशेषेण प्राणा­पा­न­वृ­त्त्योश्च मध्ये उद्भू­त­वृ­त्ति­र्वी­र्य­व­त्क­र्म­कर्ता भवति ॥

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्
॥ ७ ॥

अथ या तु तत्रैकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्नाख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपा­द­त­ल­म­स्त­क­वृत्तिः सञ्चरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवा­दि­स्था­न­ल­क्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्य­ग्यो­न्या­दि­ल­क्ष­णम् । उभाभ्यां समप्रधानाभ्यां पुण्य­पा­पा­भ्या­मेव मनुष्यलोकं नयतीत्यनुवर्तते ॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राण­म­नु­गृ­ह्णानः । पृथिव्यां या देवता सैषा पुरु­ष­स्या­पा­न­म­व­ष्ट­भ्या­न्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥

आदित्यः ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयति उद्गच्छति । एष हि एनम् आध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुष आलोकं कुर्व­न्नि­त्यर्थः । तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्य अपानम् अपानवृत्तिम् अवष्टभ्य आकृष्य वशीकृत्याध एवा­प­क­र्ष­णे­ना­नु­ग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा हि शरीरं गुरु­त्वा­त्प­ते­त्सा­व­काशे वोद्गच्छेत् । यदेतत् अन्तरा मध्ये द्यावापृथिव्योः यः आकाशः तत्स्थो वायुराकाश उच्यते, मञ्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः । समा­न­स्या­न्त­रा­का­श­स्थ­त्व­सा­मा­न्यात् । सामान्येन च यो बाह्यो वायुः स व्याप्ति­सा­मा­न्यात् व्यानः व्यान­म­नु­गृ­ह्णानो वर्तत इत्यभिप्रायः ॥

तेजो ह वाव उदा­न­स्त­स्मा­दु­प­शा­न्त­तेजाः पुन­र्भ­व­मि­न्द्रि­यै­र्म­नसि सम्पद्यमानैः ॥ ९ ॥

यद्बाह्यं ह वाव प्रसिद्धं सामान्यं तेजः तच्छरीरे उदानः उदानं वायुमनुगृह्णाति स्वेन प्रका­शे­ने­त्य­भि­प्रायः । यस्मा­त्ते­जः­स्व­भावो बाह्य­ते­जो­नु­गृ­हीत उत्क्रा­न्ति­कर्ता तस्मात् यदा लौकिकः पुरुषः उपशान्ततेजाः भवति, उपशान्तं स्वाभाविकं तेजो यस्य सः । तदा तं क्षीणायुषं मुमूर्षुं विद्यात् । सः पुनः भवं शरीरान्तरं प्रतिपद्यते । कथम् ? सह इन्द्रियैः मनसि सम्पद्यमानैः प्रवि­श­द्भि­र्वा­गा­दिभिः ॥

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः । सहात्मना यथासङ्कल्पितं लोकं नयति ॥ १० ॥

१०

मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्क­ल्पे­ने­न्द्रियैः सह प्राणं मुख्य­प्रा­ण­वृ­त्ति­मा­याति । मरणकाले क्षीणे­न्द्रि­य­वृत्तिः सन्मुख्यया प्राण­वृ­त्त्यै­वा­व­ति­ष्ठत इत्यर्थः । तदा हि वदन्ति ज्ञातय उच्छ्वसिति जीवतीति । स च प्राणः तेजसा उदानवृत्त्या युक्तः सन् सहात्मना स्वामिना भोक्ता स एवमुदान उदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्य­पा­प­क­र्म­व­शात् यथासङ्कल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥

य एवं­वि­द्वा­न्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥

११

यः कश्चित् एवं विद्वान् यथो­क्त­वि­शे­ष­णै­र्वि­शि­ष्ट­मु­त्प­त्त्या­दिभिः प्राणं वेद जानाति तस्येदं फल­मै­हि­क­मा­मु­ष्मिकं चोच्यते । न ह अस्य नैवास्य विदुषः प्रजा पुत्र­पौ­त्रा­दि­ल­क्षणा हीयते च्छिद्यते । पतिते च शरीरे प्राणसायुज्यतया अमृतः अमरणधर्मा भवति ; तत् एतस्मिन्नर्थे सङ्क्षेपाभिधायक एष श्लोकः मन्त्रो भवति ॥

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञा­या­मृ­त­म­श्नुते विज्ञा­या­मृ­त­म­श्नुत इति ॥ १२ ॥

१२

उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनो­कृ­ते­ना­स्मि­ञ्श­रीरे स्थानं स्थितिं च पायू­प­स्था­दि­स्था­नेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राण­वृ­त्ति­भे­दानां पञ्चधा स्थापनम् । बाह्य­मा­दि­त्या­दि­रू­पे­णा­ध्यात्मं चैव चक्षु­रा­द्या­का­रे­णा­व­स्थानं विज्ञाय एवं प्राणम् अमृतमश्नुते इति । विज्ञा­या­मृ­त­म­श्नुत इति द्विर्वचनं प्रश्ना­र्थ­प­रि­स­मा­प्त्य­र्थम् ॥

इति तृती­य­प्र­श्न­भा­ष्यम् ॥