अद्वैतशारदा

प्रश्नोपनिषद्भाष्यम्

चतुर्थः प्रश्नः

व्याख्याः

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भग­व­न्ने­त­स्मि­न्पु­रुषे कानि स्वपन्ति कान्य­स्मि­ञ्जा­ग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥

अथ ह एनं सौर्यायणी गार्ग्यः पप्रच्छ प्रश्न­त्र­ये­णा­प­र­वि­द्या­गो­चरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्य­सा­ध­न­ल­क्ष­ण­म­नि­त्यम् । अथेदानीं साध्य­सा­ध­न­वि­ल­क्ष­ण­म­प्रा­ण­म­म­नो­गो­च­र­म­ती­न्द्रि­य­म­वि­षयं शिवं शान्त­म­वि­कृ­त­म­क्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबा­ह्या­भ्य­न्त­र­मजं वक्त­व्य­मि­त्यु­त्तरं प्रश्न­त्र­य­मा­र­भ्यते । तत्र सुदी­प्ता­दि­वा­ग्ने­र्य­स्मा­त्प­र­स्मा­द­क्ष­रा­त्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवा­पि­य­न्ती­त्युक्तं द्वितीये मुण्डके ; के ते सर्वे भावा अक्ष­रा­द्वि­स्फु­लिङ्गा इव विभज्यन्ते । कथं वा विभक्ताः सन्त­स्त­त्रै­वा­पि­यन्ति । किंलक्षणं वा तदक्षरमिति । एतद्विवक्षया अधुना प्रश्ना­नु­द्भा­व­यति — भगवन् , एतस्मिन् पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्या­पा­रा­दु­प­र­मन्ते ; कानि च अस्मिन् जाग्रति जाग­र­ण­म­नि­द्रा­वस्थां स्वव्यापारं कुर्वन्ति । कतरः कार्य­क­र­ण­ल­क्ष­णयोः एष देवः स्वप्नान्पश्यति । स्वप्नो नाम जाग्र­द्द­र्श­ना­न्नि­वृ­त्तस्य जाग्र­द्व­द­न्तः­श­रीरे यद्दर्शनम् । तत्किं कार्यलक्षणेन देवेन निर्वर्त्यते, किं वा करणलक्षणेन केन­चि­दि­त्य­भि­प्रायः । उपरते च जाग्र­त्स्व­प्न­व्या­पारे यत्प्रसन्नं निरा­या­स­ल­क्ष­ण­म­ना­बाधं सुखं कस्य एतत् भवति । तस्मिन्काले जाग्र­त्स्व­प्न­व्या­पा­रा­दु­प­रताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः सम्प्रतिष्ठिताः । मधुनि रस­व­त्स­मु­द्र­प्र­वि­ष्ट­न­द्या­दि­वच्च विवेकानर्हाः प्रतिष्ठिता भवन्ति सङ्गताः सम्प्रतिष्ठिता भवन्तीत्यर्थः । ननु न्यस्त­दा­त्रा­दि­क­र­ण­व­त्स्व­व्या­पा­रा­दु­प­र­तानि पृथक्पृथगेव स्वात्म­न्य­व­ति­ष्ठन्त इत्येतद्युक्तम् ; कुतः प्राप्तिः सुषु­प्त­पु­रु­षाणां करणानां कस्मिं­श्चि­दे­की­भा­व­ग­म­ना­श­ङ्कायाः प्रष्टुः ? युक्तैव त्वाशङ्का ; यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्रद्विषये ; तस्मा­त्स्वा­पेऽपि संहतानां पारतन्त्र्येणैव कस्मिं­श्चि­त्स­ङ्ग­ति­र्न्या­य्येति ; तस्मा­दा­श­ङ्का­नु­रूप एव प्रश्नोऽयम् । अत्र तु कार्यकरणसङ्घातो यस्मिंश्च प्रलीनः सुषु­प्त­प्र­ल­य­का­लयोः, तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे सम्प्रतिष्ठिता भवन्तीति ॥

तस्मै स होवाच यथा गार्ग्य मरी­च­योऽ­र्क­स्यास्तं गच्छतः सर्वा एत­स्मिं­स्ते­जो­म­ण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपि­ती­त्या­च­क्षते ॥ २ ॥

तस्मै स ह उवाच आचार्यः । शृणु हे गार्ग्य, यत्त्वया पृष्टम् । यथा मरीचयः रश्मयः अर्कस्य आदित्यस्य अस्तम् अदर्शनं गच्छतः सर्वाः अशेषतः एतस्मिन् तेजोमण्डले तेजोराशिरूपे एकीभवन्ति विवे­का­न­र्ह­त्व­म­वि­शे­षतां गच्छन्ति, ताः मरी­च­य­स्त­स्यै­वा­र्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति विकीर्यन्ते यथायं दृष्टान्तः । एवं ह वै तत् सर्वं विष­ये­न्द्रि­या­दि­जातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षु­रा­दि­दे­वानां मन­स्त­न्त्र­त्वा­त्परो देवो मनः, तस्मि­न्स्व­प्न­काले एकीभवति मण्डले मरीचिवदविशेषतां गच्छति । जिजागरिषोश्च रश्मि­व­न्म­ण्ड­ला­न्म­नस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते यस्मा­त्स्व­प्न­काले श्रोत्रादीनि शब्दा­द्यु­प­ल­ब्धि­क­र­णानि मनस्येकीभूतानीव कर­ण­व्या­पा­रा­दु­प­र­तानि तेन तस्मात् तर्हि तस्मि­न्स्वा­प­काले एषः देव­द­त्ता­दि­ल­क्षणः पुरुषः न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न इयायते स्वपिति इति आचक्षते लौकिकाः ॥

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽ­न्वा­हा­र्य­प­चनो यद्गा­र्ह­प­त्या­त्प्र­णी­यते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥

सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवोऽग्नय इवाग्नयः जाग्रति । अग्निसामान्यं हि आह — गार्हपत्यो ह वा एषोऽपानः कथमिति, आह । यस्मात् गार्हपत्यात् अग्ने­र­ग्नि­हो­त्र­काले इत­रोऽ­ग्नि­रा­ह­व­नीयः प्रणीयते प्रणयनात् , प्रणीयते अस्मादिति प्रणयनो गार्ह­प­त्योऽग्निः, तथा सुप्त­स्या­पा­न­वृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां सञ्चरति अत आहवनीयस्थानीयः प्राणः । व्यानस्तु हृद­या­द्द­क्षि­ण­सु­षि­र­द्वा­रेण निर्ग­मा­द्द­क्षि­ण­दि­क्स­म्ब­न्धात् अन्वाहार्यपचनः दक्षिणाग्निः ॥

यदु­च्छ्वा­स­निः­श्वा­सा­वे­ता­वा­हुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यज­मा­न­म­ह­र­ह­र्ब्रह्म गमयति ॥ ४ ॥

अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्वा­स­निः­श्वासौ अग्निहोत्राहुती इव नित्यं द्वित्व­सा­मा­न्या­देव तु एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायु­र­ग्नि­स्था­नी­योऽपि होता चाहु­त्यो­र्ने­तृ­त्वात् । कोऽसौ ? स समानः । अतश्च विदुषः स्वापोऽ­प्य­ग्नि­हो­त्र­ह­व­न­मेव । तस्मा­द्वि­द्वा­न्ना­क­र्मी­त्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु प्राणा­ग्नि­षू­प­सं­हृत्य बाह्यकरणानि विष­यां­श्चा­ग्नि­हो­त्र­फ­ल­मिव स्वर्गं ब्रह्म जिगमिषुः मनो ह वाव यजमानः जागर्ति । यज­मा­न­व­त्का­र्य­क­र­णेषु प्राधान्येन संव्य­व­हा­रा­त्स्व­र्ग­मिव ब्रह्म प्रति प्रस्थि­त­त्वा­द्य­ज­मानो मनः कल्प्यते । इष्टफलं यागफलमेव उदानः वायुः । उदा­न­नि­मि­त्त­त्वा­दि­ष्ट­फ­ल­प्राप्तेः । कथम् ? सः उदानः एनं मनआख्यं यजमानं स्वप्न­वृ­त्ति­रू­पा­दपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म अक्षरं गमयति । अतो यागफलस्थानीयः उदानः ॥

अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुत­मे­वा­र्थ­म­नु­शृ­णोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ५ ॥

एवं विदुषः श्रोत्रा­द्यु­प­र­म­का­ला­दा­रभ्य याव­त्सु­प्तो­त्थितो भवति ताव­त्स­र्व­या­ग­फ­ला­नु­भव एव, नावि­दु­षा­मि­वा­न­र्था­येति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ति, प्राणाग्नयो वा जाग्रति । जाग्र­त्स्व­प्न­यो­र्मनः स्वात­न्त्र्य­म­नु­भ­व­द­ह­रहः सुषुप्तं वा प्रतिपद्यते । समानं हि सर्वप्राणिनां पर्यायेण जाग्र­त्स्व­प्न­सु­षु­प्त­ग­म­नम् ; अतो विद्व­त्ता­स्तु­ति­रे­वे­य­मु­प­प­द्यते । यत्पृष्टं कतर एष देवः स्वप्ना­न्प­श्य­तीति ; तदाह — अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सु­षु­प्ति­प्र­ति­पत्तेः एतस्मिन्नन्तराल एषः देवः अर्क­र­श्मि­व­त्स्वा­त्मनि संहृ­त­श्रो­त्रा­दि­क­रणः स्वप्ने महिमानं विभूतिं विष­य­वि­ष­यि­ल­क्ष­ण­म­ने­का­त्म­भा­व­ग­म­नम् अनुभवति प्रतिपद्यते । ननु महिमानुभवने करणं मनोऽनुभवितुः ; तत्कथं स्वात­न्त्र्ये­णा­नु­भ­व­ती­त्यु­च्यते ? स्वतन्त्र हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मन­उ­पा­धि­कृ­त­त्वात् । न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्च । उक्तं वाजसनेयके ‘सधीः स्वप्नो भूत्वा’(बृ. मा. ४ । ३ । ७) ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इत्यादि । तस्मान्मनसो विभूत्यनुभवे स्वात­न्त्र्य­व­चनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वय­ञ्ज्यो­तिष्ट्वं बाध्येत इति केचित् । तन्न । श्रुत्य­र्था­प­रि­ज्ञा­न­कृता भ्रान्ति­स्ते­षाम् । यस्मा­त्स्व­य­ञ्ज्यो­ति­ष्ट्वा­दि­व्य­व­हा­रोऽ­प्या­मो­क्षान्तः सर्वोऽ­प्य­वि­द्या­वि­षय एव मन­आ­द्यु­पा­धि­ज­नितः ; ‘यत्र वा अन्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्ये­न्मा­त्रा­सं­स­र्ग­स्त्वस्य भवति’(बृ. उ. ४ । ३ । ३१) , ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) इत्या­दि­श्रु­तिभ्यः । अतो मन्द­ब्र­ह्म­वि­दा­मे­वे­य­मा­शङ्का, न त्वेकात्मविदाम् । नन्वेवं सति ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’(बृ. उ. ४ । ३ । १४)‘अत्रायं पुरुषः स्वयञ्ज्योतिः’(बृ. उ. ४ । ३ । १४) इति विशेषणमनर्थकं भवति । अत्रोच्यते । अत्य­ल्प­मि­द­मु­च्यते ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्शेते’(बृ. उ. २ । १ । १७) इति अन्त­र्हृ­द­य­प­रि­च्छे­द­क­रणे सुतरां स्वय­ञ्ज्यो­तिष्ट्वं बाध्येत । सत्यमेवम् ; अयं दोषो यद्यपि स्यात्स्वप्ने केवलतया स्वय­ञ्ज्यो­ति­ष्ट्वे­नार्धं तावदपनीतं भारस्येति चेत् , न ; तत्रापि ‘पुरीतति नाडीषु शेते’ इति श्रुतेः पुरी­त­न्ना­डी­स­म्ब­न्धा­द­त्रापि पुरुषस्य स्वय­ञ्ज्यो­ति­ष्ट्वे­ना­र्ध­भा­रा­प­न­या­भि­प्रायो मृषैव । कथं तर्हि ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इति ? अन्य­शा­खा­त्वा­द­न­पेक्षा सा श्रुतिरिति चेत् , न ; अर्थै­क­त्व­स्ये­ष्ट­त्वात् । एको ह्यात्मा सर्व­वे­दा­न्ता­ना­मर्थो विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्वय­ञ्ज्यो­ति­ष्ट्वो­प­प­त्ति­र्व­क्तुम् , श्रुते­र्य­था­र्थ­त­त्त्व­प्र­का­श­क­त्वात् । एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानम् ; न ह्यभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । यथा हृदयाकाशे पुरीतति नाडीषु च स्वप­त­स्त­त्स­म्ब­न्धा­भा­वा­त्ततो विविच्य दर्शयितुं शक्यत इति आत्मनः स्वय­ञ्ज्यो­तिष्ट्वं न बाध्यते । एवं मन­स्य­वि­द्या­का­म­क­र्म­नि­मि­त्तो­द्भू­त­वा­स­ना­वति कर्मनिमित्ता वासना अविद्यया अन्य­द्व­स्त्व­न्त­र­मिव पश्यतः सर्व­का­र्य­क­र­णेभ्यः प्रविविक्तस्य द्रष्टु­र्वा­स­नाभ्यो दृश्य­रू­पा­भ्योऽ­न्य­त्वेन स्वय­ञ्ज्यो­तिष्ट्वं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते ? तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनोमयः स्वप्ना­न्प­श्य­तीति । कथं महिमानमनुभवतीति उच्यते । यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्र­मि­त्रा­दि­वा­स­ना­स­मु­द्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यतीत्येवं मन्यते । शृणोति तथा श्रुतमर्थं तद्वासनयानु शृणोतीव । देशदिगन्तरैश्च देशा­न्त­रै­र्दि­ग­न्त­रैश्च प्रत्यनुभूतं पुनः पुन­स्त­त्प्र­त्य­नु­भ­व­तीव अविद्यया । तथा दृष्टं चास्मि­ञ्ज­न्म­न्य­दृष्टं च जन्मा­न्त­र­दृ­ष्ट­मि­त्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मा­न्त­रेऽ­नु­भू­त­मि­त्यर्थः । सच्च परमार्थोदकादि । असच्च मरीच्युदकादि । किं बहुना, उक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्व­म­नो­वा­स­नो­पाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्नान्पश्यति ॥

स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्य­त्य­थै­त­द­स्मि­ञ्श­रीरे एतत्सुखं भवति ॥ ६ ॥

सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिर­स्कृ­त­वा­स­ना­द्वारो भवति, तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भवन्ति । यदा मनो दार्व­ग्नि­व­द­वि­शे­ष­वि­ज्ञा­न­रू­पेण कृत्स्नं शरीरं व्याप्या­व­ति­ष्ठते, तदा सुषुप्तो भवति । अत्र एतस्मिन्काले एषः मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरु­द्ध­त्वा­त्ते­जसा । अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥

स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्त एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ७ ॥

एतस्मिन्काले अवि­द्या­का­म­क­र्म­नि­ब­न्ध­नानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्ते­ष्वा­त्म­स्व­रू­प­मु­पा­धि­भि­र­न्यथा विभा­व्य­मा­न­म­द्व­य­मेकं शिवं शान्तं भव­ती­त्ये­ता­मे­वा­वस्थां पृथि­व्या­द्य­वि­द्या­कृ­त­मा­त्रा­नु­प्र­वे­शेन दर्शयितुं दृष्टान्तमाह — स दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति सम्प्रतिष्ठन्ते गच्छन्ति, एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वं परे आत्मनि अक्षरे सम्प्रतिष्ठते ॥

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाका­श­श्चा­का­श­मात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोप­स्थ­श्चा­न­न्द­यि­तव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाह­ङ्का­र­श्चा­ह­ङ्क­र्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ८ ॥

किं तत्सर्वम् ? पृथिवी च स्थूला पञ्चगुणा तत्कारणं च पृथिवीमात्रा गन्धतन्मात्रा, तथा आपश्च आपोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आका­श­श्चा­का­श­मात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः । तथा चक्षुश्च इन्द्रियं रूपं च द्रष्टव्यं च, श्रोत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितव्यं च, त्वक्च स्पर्शयितव्यं च, वाक्च वक्तव्यं च, हस्तौ च आदातव्यं च, उपस्थश्च आनन्दयितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च ; बुद्धी­न्द्रि­याणि कर्मेन्द्रियाणि तदर्थाश्चोक्ताः । मनश्च पूर्वोक्तम् । मन्तव्यं च तद्विषयः । बुद्धिश्च निश्चयात्मिका । बोद्धव्यं च तद्विषयः । अहङ्कारश्च अभि­मा­न­ल­क्ष­ण­म­न्तः­क­र­णम् । अहङ्कर्तव्यं च तद्विषयः । चित्तं च चेत­ना­व­द­न्तः­क­र­णम् । चेतयितव्यं च तद्विषयः । तेजश्च त्वगि­न्द्रि­य­व्य­ति­रे­केण प्रकाशविशिष्टा या त्वक् । तया निर्भास्यो विषयो विद्योतयितव्यम् । प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं सङ्ग्रथनीयम् । सर्वं हि कार्यकरणजातं पारार्थ्येन संहतं नाम­रू­पा­त्म­क­मे­ता­व­देव ॥

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥ ९ ॥

अतः परं यदात्मस्वरूपं जल­सू­र्य­का­दि­व­द्भो­क्तृ­त्व­क­र्तृ­त्वे­ने­हा­नु­प्र­वि­ष्टम् , एषः हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा, विज्ञानं विज्ञा­य­तेऽ­ने­नेति करणभूतं बुद्ध्यादि, इदं तु विजानातीति विज्ञानं कर्तृकारकरूपम् , तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः । पुरुषः कार्य­क­र­ण­स­ङ्घा­तो­क्तो­पा­धि­पू­र­णा­त्पु­रुषः । स च जल­सू­र्य­का­दि­प्र­ति­बि­म्बस्य सूर्या­दि­प्र­वे­श­व­ज्ज­ला­द्या­धा­र­शोषे परे अक्षरे आत्मनि सम्प्रतिष्ठते ॥

परमेवाक्षरं प्रतिपद्यते स यो ह वै तद­च्छा­य­म­श­री­र­म­लो­हितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥

१०

तदेकत्वविदः फलमाह — परमेव अक्षरं वक्ष्य­मा­ण­वि­शे­षणं प्रतिपद्यते इति । एतदुच्यते — स यो ह वै तत् सर्वै­ष­णा­वि­नि­र्मुक्तः अच्छायं तमोवर्जितम् , अशरीरं नाम­रू­प­स­र्वो­पा­धि­श­री­र­व­र्जि­तम् , अलोहितं लोहि­ता­दि­स­र्व­गु­ण­व­र्जि­तम् , यत एवमतः शुभ्रं शुद्धम् , सर्व­वि­शे­ष­ण­र­हि­त­त्वा­द­क्ष­रम् , सत्यं पुरु­षा­ख्य­म­प्रा­ण­म­म­नो­गो­चरं शिवं शान्तं सबा­ह्या­भ्य­न्त­र­मजं वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेनाविदितं किञ्चित्सम्भवति । पूर्वमविद्यया असर्वज्ञ आसीत् । पुनर्विद्यया अविद्यापनये सर्वः भवति । तत् अस्मिन्नर्थे एषः श्लोकः मन्त्रो भवति उक्ता­र्थ­स­ङ्ग्रा­हकः ॥

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्व­मे­वा­वि­वे­शेति ॥ ११ ॥

११

विज्ञानात्मा, सह देवैश्च अग्न्यादिभिः प्राणाः चक्षुरादयः भूतानि पृथिव्यादीनि सम्प्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे, तत् अक्षरं वेदयते यस्तु हे सोम्य प्रियदर्शन, स सर्वज्ञः सर्वमेव आविवेश आविशतीत्यर्थः ॥

इति चतु­र्थ­प्र­श्न­भा­ष्यम् ॥