अद्वैतशारदा

प्रश्नोपनिषद्भाष्यम्

पञ्चमः प्रश्नः

व्याख्याः

अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भ­ग­व­न्म­नु­ष्येषु प्राय­णा­न्त­मो­ङ्का­र­म­भि­ध्या­यीत कतमं वाव स तेन लोकं जयतीति ॥ १ ॥

अथ ह एनं शैब्यः सत्यकामः पप्रच्छ । अथेदानीं परा­प­र­ब्र­ह्म­प्रा­प्ति­सा­ध­न­त्वेन ओङ्का­र­स्यो­पा­स­न­वि­धि­त्सया प्रश्न आरभ्यते । सः यः कश्चित् ह वै भगवन् , मनुष्येषु मनुष्याणां मध्ये तत् अद्भुतमिव प्रायणान्तं मरणान्तं याव­ज्जी­व­मि­त्ये­तत् ; ओङ्कारम् अभिध्यायीत आभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्या­वे­शि­त­ब्र­ह्म­भावे ओङ्कारे आत्म­प्र­त्य­य­स­न्ता­ना­वि­च्छेदो भिन्न­जा­ती­य­प्र­त्य­या­न्त­रा­खि­ली­कृतो निवा­त­स्थ­दी­प­शि­खा­स­मोऽ­भि­ध्या­न­श­ब्दार्थः । सत्य­ब्र­ह्म­च­र्या­हिं­सा­प­रि­ग्र­ह­त्या­ग­सं­न्या­स­शौ­च­स­न्तो­षा­मा­या­वि­त्वा­द्य­ने­क­य­म­नि­य­मा­नु­गृ­हीतः सः एवं याव­ज्जी­व­व्र­त­धा­रणः, कतमं वाव, अनेके हि ज्ञान­क­र्म­भि­र्जे­तव्या लोकास्तिष्ठन्ति ; तेषु तेन ओङ्का­रा­भि­ध्या­नेन कतमं सः लोकं जयतीति ॥

तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्मा­द्वि­द्वा­ने­ते­नै­वा­य­त­ने­नै­क­त­र­म­न्वेति ॥ २ ॥

पृष्टवते तस्मै स ह उवाच पिप्पलादः — एतद्वै सत्यकाम । एतत् ब्रह्म वै परं च अपरं च ब्रह्म परं सत्यमक्षरं पुरुषाख्यम् अपरं च प्राणाख्यं प्रथमजं यत् तदोङ्कार एव ओङ्कारात्मकम् ओङ्का­र­प्र­ती­क­त्वात् । परं हि ब्रह्म शब्दा­द्यु­प­ल­क्ष­णा­नर्हं सर्व­ध­र्म­वि­शे­ष­व­र्जि­तम् , अतो न शक्य­म­ती­न्द्रि­य­गो­च­र­त्वा­त्के­व­लेन मनसावगाहितुम् । ओङ्कारे तु विष्ण्वा­दि­प्र­ति­मा­स्था­नीये भक्त्या­वे­शि­त­ब्र­ह्म­भावे ध्यायिनां तत्प्र­सी­द­ती­त्य­व­ग­म्यते शास्त्र­प्रा­मा­ण्यात् । तथा परं च ब्रह्म । तस्मात्परं चापरं च ब्रह्म यदोङ्कार इत्युपचर्यते । तस्मादेवं विद्वान् एतेनैव आत्म­प्रा­प्ति­सा­ध­ने­नैव ओङ्का­रा­भि­ध्या­नेन एकतरं परमपरं वा अन्वेति ब्रह्मानुगच्छति ; नेदिष्ठं ह्याल­म्ब­न­मो­ङ्कारो ब्रह्मणः ॥

स यद्ये­क­मा­त्र­म­भि­ध्या­यीत स तेनैव संवे­दि­त­स्तू­र्ण­मेव जग­त्या­म­भि­स­म्प­द्यते । तमृचो मनु­ष्य­लो­क­मु­प­न­यन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ३ ॥

स यद्य­प्यो­ङ्का­रस्य सक­ल­मा­त्रा­वि­भा­गज्ञो न भवति, तथा­प्यो­ङ्का­रा­भि­ध्या­न­प्र­भा­वा­द्वि­शि­ष्टा­मेव गतिं गच्छति ; एत­दे­क­दे­श­ज्ञा­न­वै­गु­ण्य­त­यो­ङ्का­र­श­रणः कर्म­ज्ञा­नो­भ­य­भ्रष्टो न दुर्गतिं गच्छति ; किं तर्हि, यदि एवमोङ्कारमेव एक­मा­त्रा­वि­भा­गज्ञ एव केवलः अभिध्यायीत एकमात्रं सदा ध्यायीत, स तेनैव एक­मा­त्रा­वि­शि­ष्टो­ङ्का­रा­भि­ध्या­ने­नैव संवेदितः सम्बोधितः तूर्णं क्षिप्रमेव जगत्यां पृथिव्याम् अभिसम्पद्यते । किम् ? मनुष्यलोकम् । अनेकानि हि जन्मानि जगत्यां सम्भवन्ति । तत्र तं साधकं जगत्यां मनुष्यलोकमेव उपनयन्ते उपनिगमयन्ति ऋचः । ऋग्वेदरूपा ह्योङ्कारस्य प्रथमा एकमात्रा । तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्मचर्येण श्रद्धया च सम्पन्नः महिमानं विभूतिम् अनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति ; योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति ॥

अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजु­र्भि­रु­न्नी­यते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥ ४ ॥

अथ पुनः यदि द्विमा­त्रा­वि­भा­गज्ञो द्विमात्रेण विशि­ष्ट­मो­ङ्का­र­म­भि­ध्या­यीत स्वप्नात्मके मनसि मननीये यजुर्मये सौमदैवत्ये सम्पद्यते एका­ग्र­त­या­त्म­भावं गच्छति, स एवं सम्पन्नो मृतः अन्तरिक्षम् अन्तरिक्षाधारं द्विती­य­मा­त्रा­रूपं द्विती­य­मा­त्रा­रू­पै­रेव यजुर्भिः उन्नीयते सोमलोकं सौम्यं जन्मप्रापयन्ति तं यजूंषित्यर्थः । स तत्र विभूतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते ॥

यः पुनरेतं त्रिमा­त्रे­णो­मि­त्ये­ते­नै­वा­क्ष­रेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एत­स्मा­ज्जी­व­घ­ना­त्प­रा­त्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५ ॥

यः पुनः एतम् ओङ्कारं त्रिमात्रेण त्रिमा­त्रा­वि­ष­य­वि­ज्ञा­न­वि­शि­ष्टेन ओमित्येतेनैव अक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकत्वेन अभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन ह्यालम्बनत्वं प्रकृ­त­मो­ङ्का­रस्य परं चापरं च ब्रह्मेति अभेदश्रुतेः, ओङ्कारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा । यद्यपि तृती­या­भि­धा­न­त्वेन कर­ण­त्व­मु­प­प­द्यते, तथापि प्रकृ­ता­नु­रो­धा­त्त्रि­मात्रं परं पुरुषमिति द्वितीयैव परिणेया ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायेन । सः तृतीयमात्रारूपे तेजसि सूर्ये सम्पन्नो भवति ध्यायमानः, मृतोऽपि सूर्या­त्सो­म­लो­का­दि­वन्न पुनरावर्तते ; किन्तु सूर्ये सम्पन्नमात्र एव । यथा पादोदरः सर्पः त्वचा विनिर्मुच्यते जीर्ण­त्व­ग्वि­नि­र्मुक्तः स पुनर्नवो भवति । एवं ह वै एष यथा दृष्टान्तः स पाप्मना सर्प­त्व­क्स्था­नी­ये­ना­शु­द्धि­रू­पेण विनिर्मुक्तः सः सामभिः तृती­य­मा­त्रा­रूपैः ऊर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । सः हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः । स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम् । तस्मिन् हि लिङ्गात्मनि संहताः सर्वे जीवाः । तस्मात्स जीवघनः स विद्वां­स्त्रि­मा­त्रो­ङ्का­रा­भिज्ञः एत­स्मा­ज्जी­व­घ­नात् हिर­ण्य­ग­र्भा­त्प­रा­त्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्व­श­री­रा­नु­प्र­विष्टं पश्यति ध्यायमानः । तत् एतौ अस्मि­न्य­थो­क्ता­र्थ­प्र­का­शकौ श्लोकौ मन्त्रौ भवतः ॥

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु बाह्या­भ्य­न्त­र­म­ध्य­मासु सम्य­क्प्र­यु­क्तासु न कम्पते ज्ञः ॥ ६ ॥

तिस्रः त्रिसङ्‍ख्याका अका­रो­का­र­म­का­राख्याः ओङ्कारस्य मात्राः । मृत्युमत्यः मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्यु­गो­च­रा­द­न­ति­क्रान्ताः मृत्युगोचरा एवेत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः । किञ्च, अन्योन्यसक्ताः इतरेतरसम्बद्धाः । अनविप्रयुक्ताः विशेषेणैकैकविषय एव प्रयुक्ता विप्रयुक्ताः, न तथा विप्रयुक्ता अविप्रयुक्ताः, न अविप्रयुक्ता अनविप्रयुक्ताः । किं तर्हि, विशे­षे­णै­क­स्मि­न्ध्या­न­काले तिसृषु क्रियासु बाह्या­भ्य­न्त­र­म­ध्य­मासु जाग्र­त्स्व­प्न­सु­षु­प्त­स्था­न­पु­रु­षा­भि­ध्या­न­ल­क्ष­णासु योगक्रियासु युक्तासु सम्य­क्प्र­यु­क्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्तविभागज्ञः ओङ्का­र­स्ये­त्यर्थः । न तस्यै­वं­वि­द­श्च­ल­न­मु­प­प­द्यते । यस्मा­ज्जा­ग्र­त्स्व­प्न­सु­षु­प्त­पु­रुषाः सह स्थानै­र्मा­त्रा­त्र­य­रू­पे­णो­ङ्का­रा­त्म­रू­पेण दृष्टाः ; स ह्येवं विद्वा­न्स­र्वा­त्म­भूत ओङ्कारमयः कुतो वा चलेत्कस्मिन्वा ॥

ऋग्भिरेतं यजु­र्भि­र­न्त­रिक्षं साम­भि­र्य­त्त­त्क­वयो वेदयन्ते ।
तमो­ङ्का­रे­णै­वा­य­त­ने­ना­न्वेति विद्वा­न्य­त्त­च्छा­न्त­म­ज­र­म­मृ­त­म­भयं परं चेति ॥ ७ ॥

सर्वा­र्थ­स­ङ्ग्र­हार्थो द्वितीयो मन्त्रः — ऋग्भिः एतं लोकं मनु­ष्यो­प­ल­क्षि­तम् । यजुर्भिः अन्तरिक्षं सोमाधिष्ठितम् । सामभिः यत् तद्ब्रह्मलोक इति तृतीयं कवयः मेधाविनो विद्यावन्त एव नाविद्वांसः वेदयन्ते । तं त्रिविधं लोकमोङ्कारेण साध­ने­ना­प­र­ब्र­ह्म­ल­क्ष­णम् अन्वेति अनुगच्छति विद्वान् । तेनैवोङ्कारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमु­क्त­जा­ग्र­त्स्व­प्न­सु­षु­प्ता­दि­वि­शेषं सर्व­प्र­प­ञ्च­वि­व­र्जि­तम् , अत एव अजरं जरावर्जितम् अमृतं मृत्युवर्जितमत एव । यस्मा­ज्ज­रा­दि­वि­क्रि­या­र­हि­त­मतः अभयम् । यस्मादेवाभयं तस्मात् परं निरतिशयम् । तद­प्यो­ङ्का­रे­णै­वा­य­त­नेन गम­न­सा­ध­ने­ना­न्वे­ती­त्यर्थः । इतिशब्दो वाक्य­प­रि­स­मा­प्त्यर्थः ॥

इति पञ्च­म­प्र­श्न­भा­ष्यम् ॥