अद्वैतशारदा

प्रश्नोपनिषद्भाष्यम्

षष्ठः प्रश्नः

व्याख्याः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति, समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मा­न्ना­र्हा­म्य­नृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥

अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जग­त्का­र्य­का­र­ण­ल­क्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम् । तत्सा­म­र्थ्या­त्प्र­ल­येऽपि तस्मि­न्ने­वा­क्षरे सम्प्रतिष्ठते जगत्तत एवोत्पद्यत इति च सिद्धं भवति । न ह्यकारणे कार्यस्य सम्प्र­ति­ष्ठा­न­मु­प­प­द्यते । उक्तं च ‘आत्मन एष प्राणो जायते’(प्र. उ. ३ । ३) इति । जगतश्च यन्मूलं तत्प­रि­ज्ञा­ना­त्परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तम् ‘स सर्वज्ञः सर्वो भवति’(प्र. उ. ४ । १०) इति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति ; तदर्थोऽयं प्रश्न आरभ्यते । वृत्ता­न्वा­ख्यानं च विज्ञानस्य दुर्ल­भ­त्व­ज्ञा­प­नेन तल्लब्ध्यर्थं मुमुक्षूणां यत्न­वि­शे­षो­पा­दा­ना­र्थम् । हे भगवन् , हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम् उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत । षोडशकलं षोडशसङ्‍ख्याकाः कला अवयवा इवा­त्म­न्य­वि­द्या­ध्या­रो­पि­त­रूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः ; तं षोडशकलं हे भारद्वाज, पुरुषं वेत्थ त्वं विजानासि । तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रवम् उक्तवानस्मि — नाहमिमं वेद यं त्वं पृच्छसीति । एवमुक्तवत्यपि मय्य­ज्ञा­न­म­स­म्भा­व­यन्तं तमज्ञाने कारणमवादिषम् — यदि कथञ्चित् अहम् इमं त्वया पृष्टं पुरुषम् अवेदिषं विदितवानस्मि, कथम् अत्य­न्त­शि­ष्य­गु­ण­व­तेऽ­र्थिने ते तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽ­प्य­प्र­त्य­य­मे­वा­लक्ष्य प्रत्या­य­यि­तु­म­ब्र­वम् — समूलः सह मूलेन वै एषः अन्यथा सन्त­मा­त्मा­न­म­न्यथा कुर्वन् यः अनृतम् अयथाभूतार्थम् अभिवदति, स परिशुष्यति शोषमुपैति इह­लो­क­प­र­लो­काभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मात् न अर्हामि अहम् अनृतं वक्तुं मूढवत् । स राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितः रथम् आरुह्य प्रवव्राज प्रगतवान् यथागतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैव ; अनृतं च न वक्तव्यं सर्वा­स्व­प्य­व­स्था­स्वि­त्ये­त­त्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितम् , क्व असौ वर्तते विज्ञेयः पुरुष इति ॥

तस्मै स होवा­चे­है­वा­न्तः­श­रीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २ ॥

तस्मै स होवाच । इहैव अन्तःशरीरे हृद­य­पु­ण्ड­री­का­का­श­मध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः । यस्मिन् एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशभिः कला­भि­रु­पा­धि­भू­ताभिः सकल इव निष्कलः पुरुषो लक्ष्य­तेऽ­वि­द्य­येति ; तदु­पा­धि­क­ला­ध्या­रो­पा­प­न­य­नेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्र­भ­व­त्व­मु­च्यते प्राणादीनाम् । अत्य­न्त­नि­र्वि­शेषे ह्यद्वये विशुद्धे तत्त्वे न शक्योऽ­ध्या­रो­प­म­न्त­रेण प्रति­पा­द्य­प्र­ति­पा­द­ना­दि­व्य­व­हारः कर्तुमिति कलानां प्रभ­व­स्थि­त्य­प्यया आरो­प्य­न्तेऽ­वि­द्या­वि­षयाः । चैत­न्या­व्य­ति­रे­के­णैव हि कला जाय­मा­ना­स्ति­ष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचित् — अग्नि­सं­यो­गा­द्धृ­त­मिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्निरोधे शून्यमेव सर्वमिति अपरे । घटादिविषयं चैतन्यं चेत­यि­दु­र्नि­त्य­स्या­त्म­नोऽ­नित्यं जायते विनश्यतीत्यपरे । चैतन्यं भूतधर्म इति लौकायतिकाः । अन­पा­यो­प­ज­न­ध­र्म­क­चै­त­न्य­मा­त्मैव नाम­रू­पा­द्यु­पा­धि­धर्मैः प्रत्यवभासते ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव’(बृ. उ. २ । ४ । १२) इत्या­दि­श्रु­तिभ्यः । स्वरू­प­व्य­भि­चा­रिषु पदार्थेषु चैत­न्य­स्या­व्य­भि­चा­रा­द्यथा यथा यो यः पदार्थो ज्ञायते, तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैत­न्य­स्या­व्य­भि­चा­रि­त्वम् । वस्तुतत्त्वं भवति किञ्चित् , न ज्ञायत इति चानुपपन्नम् ; रूपं च दृश्यते, न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयम् ; न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम् , ज्ञेयाभावेऽपि ज्ञेयान्तरे भावाज्ज्ञानस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित् ; सुषु­प्तेऽ­द­र्श­नात् — ज्ञानस्यापि सुषु­प्तेऽ­भा­वा­ज्ज्ञे­य­व­ज्ज्ञा­न­स्व­रू­पस्य व्यभिचार इति चेत् , न ; ज्ञेयावभासकस्य ज्ञान­स्या­लो­क­व­ज्ज्ञे­या­भि­व्य­क्त्य­र्थ­त्वा­त्स्व­व्य­ङ्ग्या­भावे आलो­का­भा­वा­नु­प­प­त्ति­वत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञा­ना­भा­वा­नु­प­पत्तेः । न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्प­यि­तु­म­वै­ना­शि­केन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत् , येन तदभावं कल्प­ये­त्त­स्या­भावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन ; तदभावस्यापि ज्ञेय­त्वा­ज्ज्ञा­ना­भावे तदनुपपत्तेः । ज्ञानस्य ज्ञेया­व्य­ति­रि­क्त­त्वा­ज्ज्ञे­या­भावे ज्ञानाभाव इति चेत् , न ; अभावस्यापि ज्ञेय­त्वा­भ्यु­प­ग­मात् — अभावोऽपि ज्ञेयोऽ­भ्यु­प­ग­म्यते वैना­शि­कै­र्नि­त्यश्च । तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात् । तदभावस्य च ज्ञाना­त्म­क­त्वा­द­भा­वत्वं च वाङ्मात्रमेव ; न पर­मा­र्थ­तोऽ­भा­व­त्व­म­नि­त्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञान­स्या­भा­व­ना­म­मा­त्रा­ध्या­रोपे किञ्चि­न्न­श्छि­न्नम् । अथाभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत् , न तर्हि ज्ञेयाभावो ज्ञानाभावः । ज्ञेयं ज्ञान­व्य­ति­रि­क्तम् ; न तु ज्ञानं ज्ञेय­व्य­ति­रि­क्त­मिति चेत् , न ; शब्द­मा­त्र­त्वा­द्वि­शे­षा­नु­प­पत्तेः । ज्ञेय­ज्ञा­न­यो­रे­कत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञान­व्या­ति­रि­क्तम् , न ज्ञेय­व्य­ति­रिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् — वह्नि­र­ग्नि­व्य­ति­रिक्तः, अग्निर्न वह्निव्यतिरिक्त इति यद्वत् — अभ्युपगम्यम् । ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञाना­भा­वा­नु­प­पत्तिः सिद्धा । ज्ञेया­भा­वेऽ­द­र्श­ना­द­भावो ज्ञानस्येति चेत् , न ; सुषुप्ते ज्ञप्त्य­भ्यु­प­ग­मात् — वैना­शि­कै­र­भ्यु­प­ग­म्यते हि सुषुप्तेऽपि विज्ञा­ना­स्ति­त्वम् । तत्रापि ज्ञेय­त्व­म­भ्यु­प­ग­म्यते ज्ञानस्य स्वेनैवेति चेत् , न ; भेदस्य सिद्धत्वात् — सिद्धं ह्यभा­व­वि­ज्ञे­य­वि­ष­यस्य ज्ञान­स्या­भा­व­ज्ञे­य­व्य­ति­रे­का­ज्ज्ञे­य­ज्ञा­न­यो­र­न्य­त्वम् । न हि तत्सिद्धं मृत­मि­वो­ज्जी­व­यितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि । ज्ञानस्य स्वाज्ञेयत्वे तदप्यन्येन तदप्यन्येनेति त्वत्प­क्षेऽ­ति­प्र­सङ्ग इति चेत् , न ; तद्वि­भा­गो­प­पत्तेः सर्वस्य — यदा हि सर्वं ज्ञेयं कस्यचित् , तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवा­भ्यु­प­ग­म्य­तेऽ­वै­ना­शिकैः । न तृतीयस्तद्विषय इत्य­न­व­स्था­नु­प­पत्तिः । ज्ञानस्य स्वेनै­वा­वि­ज्ञे­यत्वे सर्व­ज्ञ­त्व­हा­नि­रिति चेत् , सोऽपि दोष­स्त­स्यै­वास्तु ; किं तन्नि­ब­र्ह­णे­ना­स्मा­कम् ? अनवस्थादोषश्च ज्ञानस्य ज्ञेय­त्वा­भ्यु­प­ग­मात् — अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । स्वात्मना चावि­ज्ञे­य­त्वे­ना­न­वस्था अनिवार्या । समान एवायं दोष इति चेत् , न ; ज्ञान­स्यै­क­त्वो­प­पत्तेः — सर्व­दे­श­का­ल­पु­रु­षा­द्य­व­स्था­स्वे­क­मेव ज्ञानं नाम­रू­पा­द्य­ने­को­पा­धि­भे­दात् सवि­त्रा­दि­ज­ला­दि­प्र­ति­बि­म्ब­व­द­ने­क­धा­व­भा­सत इति । नासौ दोषः । तथा चेहेदमुच्यते । ननु श्रुते­रि­है­वा­न्तः­श­रीरे परिच्छिन्नः कुण्ड­ब­द­र­व­त्पु­रुष इति, न ; प्राणा­दि­क­ला­का­र­ण­त्वात् — न हि शरी­र­मा­त्र­प­रि­च्छिन्नः प्राण­श्र­द्धा­दीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाच्च शरीरस्य — न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्ड­ब­द­र­मि­वा­भ्य­न्त­री­कु­र्यात् । बीज­वृ­क्षा­दि­व­त्स्या­दिति चेत् — यथा बीजकार्यं वृक्ष­स्त­त्कार्यं च फलं स्वकारणकारणं बीज­म­भ्य­न्त­री­क­रो­त्या­म्रादि, तद्व­त्पु­रु­ष­म­भ्य­न्त­री­कु­र्या­च्छ­रीरं स्वका­र­ण­का­र­ण­म­पीति चेत् , न ; अन्य­त्वा­त्सा­व­य­व­त्वाच्च — दृष्टान्ते कार­णा­द्बी­जा­द्वृ­क्ष­फ­ल­सं­वृ­त्ता­न्य­न्या­न्येव बीजानि ; दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरी­रेऽ­भ्य­न्त­री­कृतः श्रूयते । बीजवृक्षादीनां सावयवत्वाच्च स्यादा­धा­रा­धे­य­त्वम् ; निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च । एतेनाकाशस्यापि शरी­रा­धा­र­त्व­म­नु­प­प­न्नम् ; किमु­ता­का­श­का­र­णस्य पुरुषस्य ? तस्मादसमानो दृष्टान्तः । किं दृष्टान्तेन ? वचनात्स्यादिति चेत् , न ; वच­न­स्या­का­र­क­त्वात् — न हि वचनं वस्तु­नोऽ­न्य­था­क­रणे व्याप्रियते ; किं तर्हि, यथा­भू­ता­र्था­व­द्यो­तने । तस्मादन्तःशरीर इत्येतद्वचनम् ‘अण्ड­स्या­न्त­र्व्योम’ इति­व­द्द्र­ष्ट­व्यम् । उप­ल­ब्धि­नि­मि­त्त­त्वाच्च — दर्श­न­श्र­व­ण­म­न­न­वि­ज्ञा­ना­दि­लि­ङ्गै­र­न्तः­श­रीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात्र । अत उच्यते — अन्तःशरीरे सोम्य स पुरुष इति । न पुन­रा­का­श­का­र­ण­भूतः सन्कु­ण्ड­ब­द­र­व­च्छ­री­र­प­रि­च्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि ; किमुत प्रमाणभूता श्रुतिः ॥

स ईक्षाञ्चक्रे कस्मि­न्न­ह­मु­त्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति ॥ ३ ॥

यस्मिन्नेताः षोडश कलाः प्रभ­व­न्ती­त्युक्तः पुरु­ष­वि­शे­ष­णार्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते । चेतनपूर्विका च सृष्टि­रि­त्ये­व­मर्थं च । स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे — कृतवानित्यर्थः — सृष्टि­फ­ल­क्र­मा­दि­वि­ष­यम् । कथमिति, उच्यते — कस्मिन् कर्तृविशेषे देहा­दु­त्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव ; कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः । नन्वात्मा अकर्ता प्रधानं कर्तृ ; अतः पुरुषार्थं प्रयो­ज­न­मु­र­री­कृत्य प्रधानं प्रवर्तते महदाद्याकारेण ; तत्रेदमनुपपन्नं पुरुषस्य स्वात­न्त्र्ये­णे­क्षा­पू­र्वकं कर्तृत्ववचनम् , सत्त्वा­दि­गु­ण­साम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्व­रे­च्छा­नु­व­र्तिषु वा परमाणुषु सत्सु आत्म­नोऽ­प्ये­क­त्वेन कर्तृत्वे साधनाभावादात्मन आत्म­न्य­न­र्थ­क­र्तृ­त्वा­नु­प­प­त्तेश्च । न हि चेत­ना­वा­न्बु­द्धि­पू­र्व­कारी आत्मनः अनर्थं कुर्यात् तस्मा­त्पु­रु­षा­र्थेन प्रयो­ज­ने­ने­क्षा­पू­र्व­क­मिव नियतक्रमेण प्रव­र्त­मा­नेऽ­चे­त­नेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षाञ्चक्रे इत्यादिः ; यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत् । न ; आत्मनो भोक्तृ­त्व­व­त्क­र्तृ­त्वो­प­पत्तेः — यथा साङ्‍ख्यस्य चिन्मा­त्र­स्या­प­रि­णा­मि­नोऽ­प्या­त्मनो भोक्तृत्वम् , तद्व­द्वे­द­वा­दि­ना­मी­क्षा­पू­र्वकं जग­त्क­र्तृ­त्व­मु­प­पन्नं श्रुति­प्रा­मा­ण्यात् । तत्त्वा­न्त­र­प­रि­णा­मा­दा­त्म­नोऽ­नि­त्य­त्वा­शु­द्ध­त्वा­ने­क­त्व­नि­मित्तं चिन्मा­त्र­स्व­रू­प­वि­क्रि­यातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मा­त्र­स्व­रू­प­वि­क्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वा­न्त­र­प­रि­णाम एवे­त्या­त्म­नोऽ­नि­त्य­त्वा­दि­स­र्व­दो­ष­प्र­सङ्ग इति चेत् , न ; एक­स्या­प्या­त्म­नोऽ­वि­द्या­वि­ष­य­ना­म­रू­पो­पा­ध्य­नु­पा­धि­कृ­त­वि­शे­षा­भ्यु­प­ग­मात् । अवि­द्या­कृ­त­ना­म­रू­पो­पा­धि­नि­मित्तो हि विशे­षोऽ­भ्यु­प­ग­म्यते आत्मनो बन्ध­मो­क्षा­दि­शा­स्त्र­कृ­त­सं­व्य­व­हा­राय । पर­मा­र्थ­तोऽ­नु­पा­धि­कृतं च तत्त्व­मे­क­मे­वा­द्वि­ती­य­मु­पा­देयं सर्व­ता­र्कि­क­बु­द्ध्य­न­व­गम्यं ह्यजमभयं शिवमिष्यते । न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वै­त­त्वा­त्स­र्व­भा­वा­नाम् । साङ्‍ख्या­स्त्व­वि­द्या­ध्या­रो­पि­त­मेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आग­म­बा­ह्य­त्वा­त्पु­न­स्त­त­स्त्र­स्यन्तः परमार्थत एव भोक्तृत्वं पुरु­ष­स्ये­च्छन्ति । तत्त्वान्तरं च प्रधानं पुरुषाद्बाह्यं पर­मा­र्थ­व­स्तु­भू­त­मेव कल्प­य­न्तोऽ­न्य­ता­र्कि­क­कृ­त­बु­द्धि­वि­षयाः सन्तो विहन्यन्ते । तथेतरेतार्किकाः साङ्ख्यैः ; इत्येवं पर­स्प­र­वि­रु­द्धा­र्थ­क­ल्प­नात आमिषार्थिन इव प्राणि­नोऽ­न्यो­न्य­वि­रु­ध्य­मा­ना­र्थ­द­र्शि­त्वा­त्प­र­मा­र्थ­त­त्त्वा­द्दू­र­मे­वा­प­कृ­ष्यन्ते । अत­स्त­न्म­त­म­ना­दृत्य वेदा­न्ता­र्थ­त­त्त्व­मे­क­त्व­द­र्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्कि­क­म­त­दो­ष­प्र­द­र्शनं किञ्चि­दु­च्य­तेऽ­स्माभिः ; न तु तार्कि­क­व­त्ता­त्प­र्येण । तथैतदत्रोक्तम् — विवदत्स्वेव निक्षिप्य विरो­धो­द्भ­व­का­र­णम् । तैः संर­क्षि­त­स­द्बुद्धिः सुखं निर्वाति वेदवित् ॥ किञ्च, भोक्तृ­त्व­क­र्तृ­त्व­यो­र्वि­क्रि­य­यो­र्वि­शे­षा­नु­प­पत्तिः । का नामासौ कर्तृ­त्वा­ज्जा­त्य­न्त­र­भूता भोक्तृ­त्व­वि­शिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्त्रेव न भोक्तृ इति । ननु उक्तं पुरु­ष­श्चि­न्मात्र एव ; स च स्वात्मस्थो विक्रियते भुञ्जानः, न तत्त्वा­न्त­र­प­रि­णा­मेन । प्रधानं तु तत्त्वा­न्त­र­प­रि­णा­मेन विक्रियते ; अतो नैकमशुद्धमचेतनं चेत्यादिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेषः, वाङ्मात्रत्वात् । प्राग्भो­गो­त्पत्तेः केव­ल­चि­न्मा­त्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुन­स्त­द्वि­शे­षा­द­पे­त­श्चि­न्मात्र एव भवतीति चेत् ; महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधा­न­पु­रु­ष­यो­र्वि­शि­ष्ट­वि­क्रिया कल्प्यते । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत् , न तर्हि परमार्थतो भोगः पुरुषस्य । अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेत् , न ; प्रधानस्यापि भोगकाले विक्रि­या­व­त्त्वा­द्भो­क्तृ­क­त्व­प्र­सङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत् , औष्ण्या­द्य­सा­धा­र­ण­ध­र्म­व­ता­म­ग्न्या­दी­ना­म­भो­क्तृत्वे हेत्वनुपपत्तिः । प्रधा­न­पु­रु­ष­यो­र्द्व­यो­र्यु­ग­प­द्भो­क्तृ­त्व­मिति चेत् , न ; प्रधानस्य पारा­र्थ्या­नु­प­पत्तेः — न हि भोक्त्रो­र्द्व­यो­रि­त­रे­त­र­गु­ण­प्र­धा­न­भाव उपपद्यते प्रका­श­यो­रि­वे­त­रे­त­र­प्र­का­शने । भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैत­न्य­प्र­ति­बि­म्बो­द­या­द­वि­क्रि­यस्य पुरुषस्य भोक्तृत्वमिति चेत् , न ; पुरुषस्य विशेषाभावे भोक्तृ­त्व­क­ल्प­ना­न­र्थ­क्यात् । भोग­रू­प­श्चे­द­नर्थः पुरुषस्य नास्मि सदा निर्वि­शे­ष­त्वा­त्पु­रु­षस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अवि­द्या­ध्या­रो­पि­ता­न­र्था­प­न­य­नाय शास्त्र­प्र­ण­य­न­मिति चेत् , परमार्थतः पुरुषो भोक्तैव, न कर्ता ; प्रधानं कर्त्रेव न भोक्तृ पर­मा­र्थ­स­द्व­स्त्व­न्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्था­नि­र्हे­तुका च इति नादर्तव्या मुमुक्षुभिः । एकत्वेऽपि शास्त्र­प्र­ण­य­ना­द्या­न­र्थ­क्य­मिति चेत् , न ; अभावात् — सत्सु हि शास्त्र­प्र­णे­त्रा­दिषु तत्फलार्थिषु च शास्त्रस्य प्रण­य­न­म­र्थ­व­द­न­र्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्र­प्र­णे­त्रा­द­य­स्ततो भिन्नाः सन्ति ; तदभावे एवं विक­ल्प­नै­वा­नु­प­पन्ना । अभ्युपगते आत्मैकत्वे प्रमा­णा­र्थ­श्चा­भ्यु­प­गतो भवता यदा­त्मै­क­त्व­म­भ्यु­प­ग­च्छता । तदभ्युपगमे च विक­ल्पा­नु­प­प­त्ति­माह शास्त्रम् ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १४) इत्यादि ; शास्त्र­प्र­ण­य­ना­द्यु­प­पत्तिं चाह अन्यत्र पर­मा­र्थ­व­स्तु­स्व­रू­पा­द­वि­द्या­वि­षये ‘यत्र हि द्वैतमिव भवति’(बृ. उ. ४ । ५ । १४) इत्यादि विस्तरतो वाजसनेयके । अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य । अतो न तार्कि­क­वा­द­भ­ट­प्र­वेशो वेदा­न्त­रा­ज­प्र­मा­ण­बा­हु­गुप्ते इहा­त्मै­क­त्व­वि­षये इति । एते­ना­वि­द्या­कृ­त­ना­म­रू­पा­द्यु­पा­धि­कृ­ता­ने­क­श­क्ति­सा­ध­न­कृ­त­भे­द­व­त्त्वा­द्ब्र­ह्मणः सृष्ट्या­दि­क­र्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मा­न­र्थ­क­र्तृ­त्वा­दि­दो­षश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये उपचारो राजा कर्तेति, सोऽत्रानुपपन्नः ; ‘स ईक्षाञ्चक्रे’ इति श्रुते­र्मु­ख्या­र्थ­बा­ध­ना­त्प्र­मा­ण­भू­तायाः । तत्र हि गौणी कल्पना शब्दस्य, यत्र मुख्यार्थो न सम्भवति । इह त्वचेतनस्य मुक्त­ब­द्ध­पु­रु­ष­वि­शे­षा­पे­क्षया कर्तृ­क­र्म­दे­श­का­ल­नि­मि­त्ता­पे­क्षया च बन्ध­मो­क्षा­दि­फ­लार्था नियता पुरुषं प्रति प्रवृ­त्ति­र्नो­प­प­द्यते ; यथो­क्त­स­र्व­ज्ञे­श्व­र­क­र्तृ­त्व­पक्षे तु उपपन्ना ॥

स प्राणमसृजत प्राणाच्छ्रद्धा खं वायु­र्ज्यो­ति­रापः पृथिवीन्द्रियं मनः । अन्न­म­न्ना­द्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥ ४ ॥

ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते - कथम् ? सः पुरुषः उक्त­प्र­का­रे­णे­क्षित्वा सर्वप्राणं हिरण्यगर्भाख्यं सर्व­प्रा­णि­क­र­णा­धा­र­म­न्त­रा­त्मा­नम् असृजत सृष्टवान् । ततः प्राणात् श्रद्धां सर्वप्राणिनां शुभ­क­र्म­प्र­वृ­त्ति­हे­तु­भू­ताम् ; ततः कर्म­फ­लो­प­भो­ग­सा­ध­ना­धि­ष्ठा­नानि कारणभूतानि महाभूतानि असृजत — खं शब्दगुणकम् , वायुः स्वेन स्पर्शगुणेन शब्दगुणेन च विशिष्टो द्विगुणः, तथा ज्योतिः स्वेन रूपेण पूर्वगुणाभ्यां च विशिष्टं शब्द­स्प­र्शाभ्यां त्रिगुणम् , तथा आपो रस­गु­णे­ना­सा­धा­र­णेन पूर्व­गु­णा­नु­प्र­वे­शेन च चतुर्गुणाः, तथा गन्धगुणेन पूर्व­गु­णा­नु­प्र­वे­शेन च पञ्चगुणा पृथिवी, तथा तैरेव भूतैरारब्धम् इन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसङ्‍ख्याकम् , तस्य चेश्वरमन्तःस्थं संश­य­वि­क­ल्पा­दि­ल­क्षणं मनः । एवं प्राणिनां कार्यं करणं च सृष्ट्वा तत्स्थित्यर्थं व्रीहि­य­वा­दि­ल­क्ष­णम् अन्नम् , ततश्च अन्नात् अद्यमानात् वीर्यं सामर्थ्यं बलं सर्व­क­र्म­प्र­वृ­त्ति­सा­ध­नम् , तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं सङ्की­र्य­मा­णा­नाम् , मन्त्राः तपो­वि­शु­द्धा­न्त­र्ब­हिः­क­र­णेभ्यः कर्मसाधनभूता ऋग्य­जुः­सा­मा­थ­र्वा­ङ्गि­रसः ; ततः कर्म अग्नि­हो­त्रा­दि­ल­क्ष­णम् , ततो लोकाः कर्मणां फलम् , तेषु च लोकेषु सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणि­ना­म­वि­द्या­दि­दो­ष­बी­जा­पे­क्षया सृष्टा­स्तै­मि­रि­क­दृ­ष्टि­सृष्टा इव द्विच­न्द्र­म­श­क­म­क्षि­काद्याः स्वप्न­दृ­क्सृष्टा इव च सर्वपदार्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नाम­रू­पा­दि­वि­भा­गम् ॥

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥

कथम् ? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरूपतिरस्कारं गच्छन्ति ; तासां चास्तं गतानां भिद्येते विनश्येते नामरूपे गङ्गा यमु­ने­त्या­दि­ल­क्षणे ; तदभेदेन समुद्र इत्येवं प्रोच्यते तद्व­स्तू­द­क­ल­क्ष­णम् ; एवं यथायं दृष्टान्तः उक्तलक्षणस्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि सम­न्ता­द्द्र­ष्टु­र्द­र्श­नस्य कर्तुः स्वरूपभूतस्य । यथा अर्कः स्वात्म­प्र­का­शस्य कर्ता सर्वतः, तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदीनामिव समुद्रः पुरु­षोऽ­य­न­मा­त्म­भा­व­ग­मनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरु­षा­त्म­भा­व­मु­प­गम्य तथैवास्तं गच्छन्ति । भिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् । भेदे च नाम­रू­प­यो­र्य­द­नष्टं तत्तत्त्वं पुरुषः इत्येवं प्रोच्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रद­र्शि­त­क­ला­प्र­ल­य­मार्गः, स एषः विद्यया प्रवि­ला­पि­ता­स्व­वि­द्या­का­म­क­र्म­ज­नि­तासु प्राणादिकलासु अकलः अवि­द्या­कृ­त­क­ला­नि­मित्तो हि मृत्युः ; तद­प­ग­मेऽ­क­ल­त्वा­देव अमृतः भवति । तदेतस्मिन्नर्थे एषः श्लोकः ॥

अरा इव रथनाभौ कला यस्मि­न्प्र­ति­ष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६ ॥

अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथेत्यर्थः । कलाः प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्प­त्ति­स्थि­ति­ल­य­का­लेषु, तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्ण­त्वा­त्पु­रुषं पुरि शयनाद्वा वेद जानाति ; यथा हे शिष्याः, मा वाः युष्मान् मृत्युः परिव्यथाः मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अत­स्त­न्मा­भू­द्यु­ष्मा­क­मि­त्य­भि­प्रायः ॥

तान्हो­वा­चै­ता­व­दे­वा­ह­मे­त­त्परं ब्रह्म वेद नातः परमस्तीति ॥ ७ ॥

तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलादः किल एतावदेव वेद्यं परं ब्रह्म वेद विजानाम्यहमेतत् । न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इत्येवमुक्तवान् शिष्या­णा­म­वि­दि­त­शे­षा­स्ति­त्वा­श­ङ्का­नि­वृ­त्तये कृता­र्थ­बु­द्धि­ज­न­नार्थं च ॥

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्मा­क­म­वि­द्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥

ततः ते शिष्या गुरुणानुशिष्टाः तं गुरुं कृतार्थाः सन्तो विद्या­नि­ष्क्र­य­म­न्य­द­प­श्यन्तः किं कृतवन्त इत्युच्यते — अर्चयन्तः पूजयन्तः पादयोः पुष्पा­ञ्ज­लि­प्र­कि­र­णेन प्रणिपातेन च शिरसा । किमूचुरित्याह — त्वं हि नः अस्माकं पिता ब्रह्मशरीरस्य विद्यया जन­यि­तृ­त्वा­न्नि­त्य­स्या­ज­रा­म­र­ण­स्या­भ­यस्य । यः त्वमेव अस्माकम् अविद्यायाः विप­री­त­ज्ञा­ना­ज्ज­न्म­ज­रा­म­र­ण­रो­ग­दुः­खा­दि­ग्रा­हा­द­पा­रा­द­वि­द्या­म­हो­द­धे­र्वि­द्या­प्ल­वेन परम् अपु­न­रा­वृ­त्ति­ल­क्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मानित्यतः पितृत्वं तवा­स्मा­न्प्र­त्यु­प­प­न्न­मि­त­र­स्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति, तथापि स पूज्यतमो लोके ; किमु वक्त­व्य­मा­त्य­न्ति­का­भ­य­दा­तु­रि­त्य­भि­प्रायः । नमः परमऋषिभ्यः ब्रह्म­वि­द्या­स­म्प्र­दा­य­क­र्तृभ्यः । नमः परमऋषिभ्य इति द्विर्व­च­न­मा­द­रा­र्थम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ प्रश्नो­प­नि­ष­द्भाष्यं सम्पूर्णम् ॥