पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
१ परिच्छेदः
पूर्णानन्दी
यद्ब्रह्मगोचरविचित्रतमःप्रभावात्संसारधीजनितदुःखमभूज्जनस्य । >
यद्ब्रह्मधीजनितसौख्यमभूच्च तस्य तं रुक्मिणीसहितकृष्णमहं नमामि ॥ १ ॥
यत्पादपद्मभजनेष्वनुरक्तचित्ताः मोक्षङ्गता ह्यतिदुरात्मजनाः किमन्ये ।
यल्लीलया जगदभूद्विविधस्वरूपं तं रुक्मिणीसहितकृष्णमहं नमामि ॥ २ ॥
काशिकाधीशविश्वेशं नमामि करुणानिधिम् ।
उमाङ्गसङ्गादनिशं पिशङ्गाङ्गप्रकाशकम् ॥ ३ ॥
यस्य स्मृतेरपि च शिष्यजना भवन्ति कामादिदोषरहिता ह्यतिशुद्धचित्ताः ।
यद्ध्यानतः परमकारणसुस्थिरास्ते तं श्रीगुरुं परमहंसयतिं नमामि ॥ ४ ॥
यो दृश्यते॓ऽयमिति सत्यचिदात्मकात्मा शिष्यादिपुण्यपरिपाकवशादिदानीम् ।
चिद्योगधारिणमजस्त्रमजं स्मितास्यं तं श्रीगुरुं परमहंसयतीं नमामि ॥ ५ ॥
षट्शास्त्रपारीणधुरीणशिष्यैर्युक्तं सदा ब्रह्मविचारशीलैः ।
अद्वैतवाणीचरणाब्जयुग्मं मुक्तिप्रदं तत्प्रणतोऽस्मि नित्यम् ॥ ६ ॥
सूत्रभाष्यकृतौ नत्वा ह्यतिश्रेष्ठान् गुरूनपि ।
अभिव्यक्ताभिधाव्याख्या क्रियते बुद्धिशुद्धये ॥ ७ ॥
रत्नप्रभां दुरूहां व्याखरोमि यथामति ।
धीकृतानमितान्दोषान् क्षमध्वं विबुधा ! मम ॥ ८ ॥
अत्र तावत्स्वरूपतटस्तलक्षणप्रमाणतत्साधनैस्तात्पर्यादद्वितीयब्रह्मबोधकं श्रीमच्छारीरकं भाष्यं व्याचिख्यासुः श्रीरामानन्दाचार्यः प्रारिप्सितग्रन्थपरिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपालनाय च “समाप्तिकामो मङ्गलमाचरेत्“ इत्यनुमितश्रुतिबोधितकर्तव्यताकं शास्त्रप्रतिपाद्यस्वविशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचरन् शिष्यशिक्षायै ग्रन्थथो निबध्नाति –
यमिहेति ।
इह व्यवहारभूमावित्यर्थः । अपिशब्दस्य व्युत्क्रमेणान्वयः । अरिसहोदरोऽपि बिभीषणः मोक्षलङ्कासाम्राज्यरूपं महत्पदमाप प्राप्तोऽभूदिति क्रियाकारकयोजना । अनन्तसुखकृतिमित्यनेन स्वरूपलक्षणम् , इतरेण तटस्थलक्षणं चोक्तमिति भावः ॥ १ ॥
श्रीगौर्येति ।
श्रीगौर्येत्यादितृतीयात्रयं कारणार्थकम् , करणं नामासाधारणं कारणम् , तथा च करणार्थे तृतीयेत्युक्त्याऽर्थप्रधानादिकं प्रति श्रीगौर्यादिः करणम् , ईश्वरस्तु साधारणकारणमिति ज्ञापितम् । नचेतरापेक्षायां सत्यमीश्वरस्य स्वातन्त्र्यहानिः स्यादिति वाच्यम् ? पाकादेः काष्टाद्यपेक्षासत्त्वेऽपि देवदत्तस्य तत्कर्तृत्वेन कारकाप्रेयत्वरूपस्वातन्त्र्यदर्शनात् , अतः स्वेष्टदेवताया न स्वातन्त्र्यहानिरिति भावः । दुण्डिः विघ्नेश्वरः इत्यर्थः । इदं पदं रूढमिति ज्ञेयम् । उपकरणैः साधनैरित्यर्थः । अन्तविधुरं नाशरहितं षड्भावविकाररहितमिति भावः ॥ २ ॥
मूकरहित इति ।
मूकोऽपि पण्डितः शास्त्रार्थज्ञानपूर्वकवाक्प्रौढिमशाली इत्यर्थः ॥ ३ ॥
गुरुपरमगुरुपरमेष्ठीगुरून् स्तौति –
कामाक्षीति ।
अद्वैतभासेति ।
अद्वैतब्रह्मविषयकशास्त्रजन्यप्रमित्येत्यर्थः । श्रीगुरोः स्मितास्यत्वं नाम जीवन्मुक्तिद्योतकमुखविकासवत्वम् । निवृत्तः मोक्षमुखं प्राप्तोऽस्मि । यथाऽलिः कमलगः सन् मकरन्दपानेन निवृत्तो भवति तथा श्रीगुरुपादपद्मानुसन्धानः सन् तत्प्रसादासादिताद्वैतज्ञानेनाहं ब्रह्मानन्दमनुभवामीति भावः ।
ग्रन्थद्रष्ट्रूणामनायासेनार्थबोधाय स्वकृतश्लोकानां स्वयमेव व्याख्यामारभते –
मोक्षपुर्यामिति ।
“प्रकृष्टं प्रचुरं प्राज्यमदब्रं बहुलं” इति कोशमाश्रित्य व्याख्याति –
सम्पूर्णमिति ।
अभित्पदस्याभेदार्थकत्वं कथयन् शिवराम इति स्वनाम्नैव शिवरामयोर्वेदान्तेतिहासपुराणप्रतिपाद्यमभेद्यं श्रीशिवरामयोगिनो ज्ञापयन्तीत्यतो देवताकटाक्षलब्धाद्द्वैतनिष्ठापराश्च परमेष्ठीगुरवः इत्येतमर्थं स्फुटीकरोति किञ्च शिवश्चासाविति । स्वनाम्नेत्यनेनाद्वैतसाधकयुक्त्यन्वेषणाय तेषां चित्तव्यग्रता नास्तीति द्योत्यते । गुरुभ्यः परमेष्ठिगुरुभ्य इत्यर्थः । श्रीमद्गोपालसरस्वतीभिरिति परमगुरुभिरित्यर्थः ॥ ४ ॥ तीर्थ इति शास्त्र इत्यर्थः । हंसपदस्य पक्षिपरत्वे तु जाल इत्यर्थः ॥ ५ ॥
व्याख्येति ।
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपश्च समाधानमेतद् व्याख्यानलक्षणम् ॥
इति व्याख्यानलक्षणं वेदितव्यम् ।
भाष्यरत्नप्रभेति ।
भाष्यमेव रत्नं तस्य प्रभेत्यर्थः । भाष्यार्थप्रकाशकत्वादस्य ग्रन्थस्य भाष्यरत्नप्रभेति नामधेयमिति भावः ॥ ६ ॥
भाष्यं प्राप्येति ।
भाष्येण सम्बध्येति यावत् । वाग्भाष्ययोर्व्याख्यानव्याख्येयभावः ॥ ७ ॥
ननु “सिद्धार्थं सिद्धसम्बन्दं श्रोतुं श्रोता प्रवर्तते” इत्यवश्यवक्तव्यस्य सम्बन्धप्रयोजनादेरप्रतिपादनात् प्रेक्षावतां प्रवृत्तिर्न स्यादित्याशङ्क्य शास्त्रस्य ये विषयप्रयोजनाधिकारि सम्बन्धास्त एव स्वकृतग्रन्थस्येति भाष्योक्तविषयादीन् ज्ञापयन् कृत्स्नशास्त्रस्य मुख्यं विषयं सङ्गृह्णाति –
यदज्ञानेति ।
तदहं ब्रह्मास्मीत्यनेन विषयो बोध्यते, तेनैव फलस्य प्राप्यतासम्बन्धः, आनन्दावाप्तिरूपप्रयोजनमपि द्योत्यते, निर्भयमित्यनेनानर्थनिवृत्तिरूपप्रयोजनमुच्यते । अधिकारी त्वर्थात्सिद्ध्यतीति भावः ॥ ८ ॥
ननु प्रथमसूत्रस्य विषयवाक्यत्वेनाभिमता श्रोतव्यादिश्रुतिः विधिप्रतिपादिका, प्रथमसूत्रं तु जिज्ञासाप्रतिपादकम् , युष्मदस्मदित्यादिभाष्यमध्यासप्रतिपादकं भवति, तथा च भिन्नार्थप्रतिपादकत्वात् श्रुतिसूत्राध्यासभाष्याणां कथमेकवाक्यतेत्याशङ्क्य व्याचिख्यासितस्य वेदान्तशास्त्रस्यानारम्भणीयत्वदोषनिरासे प्रवृत्तप्रथमसूत्राध्यासभाष्ययोः श्रोतव्य इत्यादिश्रुतिसूत्रयोश्च सूत्रोत्पत्तिसाधनपूर्वकमेकार्थत्वप्रतिपादनद्वारै एकवाक्यतां साधयितुं पातनिकां रचयति –
इह खल्वित्यादिना – प्रथमं वर्णयतीत्यन्तेन ।
तत्र इह खल्वित्यारभ्य ब्रह्मजिज्ञासा कर्तव्येतीत्यन्तग्रन्थः सूत्रसाधनद्वारा श्रुतिसूत्रयोः प्राधान्येनैकवाक्यताप्रतिपादनपरः । तत्र प्रकृतिप्रत्ययार्थयोरित्यारभ्य प्रथमं वर्णयतीत्यन्तग्रन्थस्तु सूत्राध्यासभाष्ययोः प्राधान्येनैकवाक्यताप्रतिपादनपर इति पातनिकाग्रन्थविभागः । इदानीं पातनिकायां कानिचित् पदानि सङ्गृह्य सुखबोधाय वाक्यार्थो विरच्यते । इह वेदान्तशास्त्रे श्रोतव्य इति विधिरुपलभ्यते, उपलभ्यमानस्य विधेः कश्चिदनुबन्धचतुष्टयं जिज्ञासते तज्जिज्ञासितमनुबन्धचतुष्टयं न्यायेन निर्णेतुं श्रीबादरायणः सूत्रं रचयाञ्चकार, तस्य सूत्रस्य प्रसक्तानुप्रसक्तिपूर्वकमेकार्थप्रतिपादकत्वरूपं श्रोतव्य इत्यादिश्रुतिसम्बन्धं कथयन्नध्यासभाष्यसम्बन्धं कथयतीति पीठिकाग्रन्थस्य निष्कृष्टोऽर्थः । इह वेदान्तशास्त्रे श्रवणविधिरुपलभ्यत इत्यन्वयः ।
ननु किं ज्ञानिनं प्रति विधिरुपलभ्यते उताज्ञानिनं प्रति, उभयथा विधिवैयर्थ्यं स्यात् , जिज्ञासाऽनुपपत्तेरित्यत आह –
स्वाध्याय इति ।
विधेर्नित्यत्वं नामाकरणे प्रत्यवायबोधकत्वम् । अधीतः साङ्गस्वाध्यायो येन स इति विग्रहः । अधीतसाङ्गस्वाध्याये पुरुषे - इत्यर्थः । तथा चाधीतसाङ्गस्वाध्यायेनापातनिर्विशेषब्रह्मज्ञानवन्तं पुरुषमुद्दिश्य विधिरुपलभ्यत इति भावः ।
विधिवाक्यान्युदाहरति –
तद्विजिज्ञासस्वेति ।
केचित्तु – श्रोतव्य इत्यत्र न विधिः, सर्वेषां वेदान्तानामद्वितीयब्रह्मतात्पर्यनिश्चयात्मके श्रवणे विध्ययोगात् , किन्तु श्रोतव्य इत्यादिः विधिच्छायापऽऽन्नः स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थं इति वदन्ति । केचिदपूर्वविधिरिति । केचित्परिसङ्क्याविधिरिति वदन्ति । तेषां मतं निराकर्तुं नियमविधिं साधयति –
तस्यार्थ इति ।
श्रवणपदस्य विचारार्थकत्वं कथयन् वेधेरर्थं कथयति –
अमृतत्वेति ।
विचारो नामो हापोहात्मकमानसक्रियारूपस्तर्कः । एवकारस्योभयत्रान्वयः । वेदान्तवाक्यैरेव विचार इत्यनेन स्त्रीशूद्रादीनां पुराणादिश्रवणेन परोक्षमेव ज्ञानं जायते, तेन जन्मान्तरे वेदान्तश्रवणेऽधिकारः, तेनापरोक्षज्ञानमित्यर्थोऽपि गम्यते । अद्वैतात्मविचार एवेत्यनेन द्वैतशास्त्रविचारो निरस्यते ।
वेदान्तवाक्यैरेवेत्यनेन वैदिकानां पुराणादिप्राधान्यं निरस्यत इति विभागमभिप्रेत्य नियमविध्यङ्गीकारे फलितमर्थमाह –
तेनेति ।
तेनेतितृतीया समानाधिकरणा । विधेः काम्यत्वं नाम कामनाविषयसाधनबोधकत्वम् । पक्षप्राप्तस्याप्राप्तांशपरिपूरणफलको विधिः नियमविधिरित्यर्थः ।
परिसङ्ख्याविधिभेदं ज्ञापयति –
अर्थादिति ।
विधिप्रतिपाद्यविचारस्य विधिसन्निहितवेदान्तवाक्याकाङ्क्षासत्त्वेन पुराणादिप्राधान्यादेर्निराकाङ्क्षत्वादित्यर्थः । वाशब्दश्चार्थे, वस्तुगतिः वास्तविकं ज्ञानम् , तथा चोक्तार्थे सर्वेषां वैदिकानां प्रमाऽऽत्मकनिश्चय एव न सन्देह इति भावः ।
तत्रेति ।
श्रवणविधावुपलभ्यमाने सतीत्यर्थः ।
उपलम्भे हेतुमाह –
भगवानिति ।
“उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति”
भगवच्छब्दार्थः । बदराः बदरीवृक्षाः यस्मिन् देशे सन्ति स देशविशेषो बादरः स एवायनं स्थानं यस्य स बादरायणः श्रीवेदव्यासः, अत्र संज्ञात्वाण्णत्वप्राप्त्या कीटादिवृत्तिर्बोध्या । तदिति जिज्ञासाविषयीभूतमित्यर्थः ।
श्रवणाद्यात्मकेति ।
श्रवणाद्यात्मकं यच्छास्त्रं तस्यारम्भः प्रवृत्तिः तस्मिन् प्रयोजकं कारणमित्यर्थः । श्रवणादिबोधकशब्दात्मकत्वाच्छास्त्रस्य श्रवणाद्यात्मकत्वमिति भावः । एवमुत्तरत्र विज्ञेयम् ।
न्यायेनेति ।
“विशयो विषयश्चैव पूर्वपक्षस्तथोत्तरम् ।
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् “
इति पञ्चावयवोपेताधिकरणात्मकन्यायेनेत्यर्थः ।
सूत्रमिति ।
“अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः”
इति सूत्रलक्षणं विज्ञेयम् । (साम्नि “हा वूहा वूहा” इत्याद्यर्थरहितवर्णः स्तोभसंज्ञकः, तद्रहितमस्तोभमित्यर्थः । )
अर्थवादवाक्यैरधिकारी ज्ञातुं शक्यते, कर्तव्यतारूपसम्बन्धस्तु विधिना ज्ञातुं शक्यते, विषयप्रयोजने तूभयथा ज्ञातुं शक्येते इत्यतः प्रथमसूत्रं व्यर्थमिति शङ्कते –
नन्विति ।
विधिवत्सन्निहितार्थवादवाक्यैरित्यर्थः । विधिसन्निहितत्वं विध्येकवाक्यतापन्नत्वम् । अर्थवादवाक्यत्वं नाम विध्यघटितत्वे सति वैदिकवाक्यत्वम् । तेन स्वार्थतात्पर्यकाणां “तत्त्वमसि, अहं ब्रह्मास्मि” इत्यादीनामर्थवादवाक्यत्वं युज्यत इति भावः ।
प्रथमतोऽधिकारिणां निरूपयति –
तथा हीत्यादिना ।
श्रोतव्य इति विधिसन्निहितार्थवादवाक्यैः साधनचतुष्टयमुपपादयति –
तद्यथेति ।
कृतकं कार्यम् । लोक्यतेऽनुभूयत इति लोकः सस्यादिरित्यर्थः । निर्वेदं वैराग्यमित्यर्थः । श्रद्धैव वित्तं यस्य सः श्रद्धावित्तः । समाहितः = एकाग्रचित्तः ।
ननु श्रुतिभिर्विवेकादिविशेषणान्येव प्रतिपाद्यन्ते नाधिकारी प्रतिपाद्यते, उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गादित्याशङ्क्य विशेषणानां धर्मत्वेन धर्मिणं विना सत्त्वासम्भवाद्धर्भिरूपाधिकारी चार्थाज्ज्ञातुं शक्यत एवेत्याह –
तथा चेति ।
यथेति प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीति वाक्यम् । अस्यार्थः – प्रतितिष्ठन्ति प्रतितिष्ठासन्तीत्यर्थः । प्रतिष्ठां प्राप्तुमिच्छन्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तुमिच्छन्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तुमिच्छन्ति ते रात्रिसत्राख्यानि कर्माणि कुर्युरिति । प्रतिष्ठाकामो यथाऽधिकारी तद्वदित्यन्वयः ।
अहं ब्रह्मास्मीत्यादिना विधिसन्निहितवाक्येन सिद्धं ब्रह्मात्मैक्यरूपं विषयं विधितत्त्वमसीत्यादिश्रुत्योरेकवाक्यत्वाय दार्ढ्याय च परम्परया विधितोऽपि साधयति –
तथा श्रोतव्य इत्यादिना ।
तथाऽधिकारिवदित्यर्थः ।
नियोगोऽपूर्वमिति प्राभाकरमतम् , तन्मतमवलम्ब्य विधेरर्थं कथयति –
श्रोतव्य इति ।
प्रत्ययस्तव्यप्रत्ययः, श्रु श्रवण इति श्रुधातुः प्रकृतिरिति विवेकः । विचारस्य नियोगविषयत्वं नाम नियोगहेतुककृतिविषयत्वम् ।
भवतु विचारो विषयस्तथाऽपि प्रकृते किमायातमित्यत आह –
विचारस्येति ।
विषया उद्देश्या इत्यर्थः ।
उक्तार्थे हेतुमाह –
आत्मेति ।
उक्तं हेतुं विवृणोति -
न हीति ।
अथवा –
ननु विचारस्य दर्शनहेतुत्वेऽपि कथं वेदान्तानां विचारविषयत्वमित्याशङ्क्य किं तद्देतुत्वं साक्षात्परम्परया वा, नाद्य इत्याह –
नहीति ।
प्रमाणमेव साक्षाद्दर्शनहेतुः, प्रमाणन्तु वेदान्ता एव, अतः प्रमाणभिन्नत्वात्तर्करूपविचारो न साक्षाद्दर्शनहेतुरिति भावः ।
द्वितीये वेदान्तानां तद्विषयत्वं दुर्वारमित्याह –
अपि त्विति ।
प्रमाणं विषयः उद्देश्यं यस्य विचारस्य स तथा, वेदान्तवाक्यान्युद्दिश्य विचारः क्रियतेऽतो वेदान्तानामुद्देश्यत्वरूपविषयत्वं सम्भवति निश्चितवेदान्तानामेव शाब्दबुद्धौ हेतुत्वान्निश्चयविशिष्टवेदान्तप्रमाणद्वारा विचारस्य हेतुत्वं च सम्भवतीति भावः । ननु प्रमाणस्य विचारजन्यत्वाभावात् कथं विचारस्य प्रमाणद्वारा हेतुत्वमिति चेद् ? न – सर्वं वेदान्तवाक्यं ब्रह्मतात्पर्यकमिति तात्पर्यनिश्चयस्य विचारजन्यत्वेन विशिष्टप्रमाणस्यापि विचारजन्यत्वोपचारादिति भावः ।
अतीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमित्याह –
प्रमाणञ्चेति ।
एवकारेणानुमानादेः प्रामाण्यं निरस्यते, श्रौतार्थसम्भावनाऽर्थत्वेन गुणतया प्रामाण्याङ्गीकारेऽपि न मुख्यप्रामाण्यमिति भावः । औपनिषदमुपनिषदेकगम्यमित्यर्थः ।
परमप्रकृतमाह –
वेदान्तानामिति ।
विषयः प्रतिपाद्यः ।
ननु विधिना ब्रह्मात्मैक्यं स्फुटं न प्रतिभासते तस्मात्कथं विषयसिद्धिरित्याशङ्कायां तत्र स्फुटप्रतिपादकं प्रमाणमाह –
तत्त्वमिति ।
विधिसन्निहितस्य स्वार्थतात्पर्यकार्थवादस्य तरति शोकमात्मविदित्यादिवाक्यद्वयस्य विधिना सहैकवाक्यत्वाय दार्ढ्याय च विधिफलं निरूपयन् प्रयोजनं निरूपयति –
एवमिति ।
येन तरति शोकमित्यादिवाक्येन प्रयोजनं विदितं तेनैव प्राप्यतारूपसम्बन्धोऽपि वेदितव्य इत्याह –
तथेति ।
कर्तव्यतारूपसम्बन्धः इति विधिनैव वेदितव्य इति भावः । ननु अधिकारिणा विचारस्य कर्तव्यतारूपः कथं सम्बन्धः, उभयनिष्ठत्वाभावादिति चेद् ? न – कर्तृनिरूपितकर्तव्यतारूपसम्बन्धस्याश्रयतासम्बन्धेन विचारनिष्ठत्वान्निरूपकतासम्बन्धेन कर्तृनिष्ठत्वाच्चोभयनिष्ठत्वमुपपद्यत इति भावः । एवमन्यत्र योजनीयम् । इतिपदस्य पूर्वेण व्यवहितेनाप्यन्वयः । तथा च यथा साधनचतुष्टयसम्पन्नोऽधिकारीति ज्ञातुं शक्यं तथा ब्रह्मात्मैक्यं विषय इति, मुक्तिश्च फलमिति, कर्तव्यतारूपः सम्बन्ध इति, ज्ञातुं शक्यमिति भावः ।
ननूक्तसम्बन्धः ज्ञानमोक्षयोर्न सम्भवतीत्यतः प्रथमसूत्रमावश्यकमित्यत आह –
यथायोगमिति ।
ज्ञानमोक्षयोः जन्यजनकभावः सम्बन्धः । सोऽपि तरति शोकमात्मविदित्यादिश्रुत्यैव ज्ञातुं शक्यतेऽतो न सूत्रमावश्यकमिति भावः । सुबोधः अनायासेन बोद्धुं योग्य इत्यर्थः ।
तस्मादिति ।
सौत्राथादिशब्दबोधितस्याधिकार्याद्यर्थस्याधिकार्यादिप्रतिपादकश्रुतिभिरेव ज्ञातुं शक्यत्वात्सूत्रं व्यर्थमिति शङ्कितुरभिप्रायः ।
न्यायसूत्रेति ।
न्यायात्मकसूत्रेत्यर्थः ।
अनुबन्धचतुष्टये संशयमुपपादयति –
किं विवेकेति ।
विषये संशयमाह –
किं वेदान्ता इति ।
विचारविषया वेदान्ता इत्यर्थः ।
अथवा श्रोतव्य इति विधिप्रतिपादिते कर्तव्यतारूपसम्बन्धे संशयमाह –
किं वेदान्ता इति ।
संशयेति ।
श्रुत्या प्रतीतेऽप्यन्यथान्यथार्थस्य स्वस्यैव भासमानत्वाद्वादिभिर्वा प्रतिपादितत्वात्संशयानिवृत्तिरिति भावः । आपाततः स्वबुध्या वादिभिर्वा प्रयुक्ताप्रामाण्यशङ्काकलङ्कितत्वेन जायमाना या प्रतिपत्तिः संशयादिस्तद्विषयीभूतः प्रतिपन्नः स चासावधिकार्यादिश्च तस्येत्यर्थः ।
आगामिकत्वेऽपीति ।
आगमेन प्रतिपाद्यत्वेऽपीत्यर्थः ।
वाचस्पतितन्मतानुसारिणां मतं दूषयति –
येषामिति ।
वादिनां मते श्रवणं नाम आगमाचार्योपदेशजन्यं ज्ञानम् , तथा च कृत्यसाध्ये ज्ञाने विधिर्न सम्भवतीति भावः ।
नन्वविहितश्रवणे माऽस्त्वधिकार्यादिनिर्णयापेक्षा, तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति ज्ञानार्थतया विधीयमाने गुरूपसदनेऽधिकार्यादिनिर्णयापेक्षायाः सत्त्वात्कथं सूत्रं व्यर्थम् ? इत्यत आह –
इत्यलमिति ।
इतिशब्दः शङ्कार्थकः, एतस्याः शङ्कायाः परिहारः उक्तश्चेद्ग्रन्थविस्तरो भवति तस्मादलमिति भावः । अयमाशयः – गुरूपसदनस्य श्रवणाङ्गतयाऽङ्गिश्रवणविध्यभावे गुरूपसदनविधेरभावेनाधिकार्यादिनिर्णयानपेक्षणात् सूत्रं व्यर्थमेवेति दिक् ।
ननु भगवतो वेदव्यासस्य श्रुत्यर्थे सन्देहाभावात् सूत्रकरणं व्यर्थमिति चेद् ? न – शिष्यसन्देहं निमित्तीकृत्य तेषां निश्चयार्थं सूत्राणामवश्यकरणीयत्वादित्यभिप्रेत्य श्रुतिसूत्रयोः सम्बन्धमाह –
तथा चेति ।
श्रवणविधिनाऽपेक्षितो योऽधिकार्यादिः तत्प्रतिपादिकाभिः श्रुतिभिरधिकार्याद्यर्थनिर्णयायोत्पादितत्वात्प्रयोज्यप्रयोजकभावः प्रथमसूत्रस्य श्रुत्या सह सङ्गतिरित्यर्थः । नन्वधिकार्यादिश्रुतीनां स्वार्थबोधकत्वं चेत्सर्वासां श्रुतीनां ब्रह्मबोधकत्वमिति सिद्धान्तविरोध इति चेद् ? न – शक्त्या स्वार्थबोधनद्वारा तात्पर्येण ब्रह्मबोधकत्वान्न विरोध इति भावः ।
ननु तथापि कथमस्य सूत्रस्य शास्त्राध्यायपादेषु प्रवृत्तिः सम्बन्धाभावादित्याशङ्क्य तैः सम्बन्धमाह –
शास्त्रेत्यादिना ।
तथा च एतत्सूत्रविशिष्टत्वं शास्त्राध्यायपादानां युक्तमिति भावः ।
“चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते” इत्युपोद्घातलक्षणमुपपादयन् सूत्रस्य शास्त्रादिस्वरूपेण जन्माद्यस्य यत इति सुत्रेण सङ्गतिमाह –
शास्त्रारम्भेति ।
सूत्रार्थविचारं विना निर्णयानुदयाद् निर्णायकपदं निर्णयानुकूलविचारजनकपरम् । तथा च शास्त्रारम्भः प्रकृतः तद्धेत्वनुबन्धचतुष्टयनिश्चयानुकूलविचार एव तत्सिध्यर्थचिन्तारूपोपोद्घातः तद्धेतुत्वेन सूत्रस्योपोद्घातत्वमुपचर्यत इति भावः ।
शास्त्रादाविति ।
शास्त्रं सूत्रसन्दर्भः तस्यादिर्जन्मादिसूत्रं तस्मिन्नित्यर्थः । वर्तत इति शेषः । शास्त्रादिसङ्गतिप्रदर्शनेन शास्त्रसङ्गतिरप्युक्तैवेति भावः ।
अधिकार्यादिश्रुतिनिष्ठं यत्स्वार्थबोधकत्वं तद्रूपैकार्थप्रतिपादकत्वं सूत्रसमन्वयाध्याययोः सम्बन्धः इत्याह –
अधिकारीति ।
सूत्रस्येत्यस्यात्राप्यनुषङ्गः । तस्य सङ्गतिरित्यनेनान्वयः । अधिकार्यादिश्रुतीनां यः स्वार्थोऽधिकार्यादिः तस्मिन्नधिकार्यादिश्रुतीनां यः समन्वयोऽवान्तरतात्पर्येण बोधकत्वं तस्योक्तेः सूत्रसमन्वयाध्यायाभ्यां प्रतिपादनादित्यर्थः । अधिकार्यादिश्रुतिनिष्ठः यः स्वार्थसमन्वयः तत्प्रतिपादकत्वात्सूत्राध्याययोरिति यावत् । तथा च विवेकादिविशेषणविशिष्टोऽधिकारी, अन्यो वेत्याद्युक्तरीत्या श्रुतिप्रतिपादिताधिकार्याद्यनुबन्धचतुष्टये सन्देहं प्राप्तेऽधिकारिश्रुतेः विवेकादविशेषणविशिष्टाधिकारिबोधकत्वमेव । विषयश्रुतेः ब्रह्मात्मैक्यरूपविषयसमन्वय एवेत्येवं समन्वयप्रतिपादनार्थं प्रवृत्तयोः प्रथमसूत्राध्याययोरधिकार्यादिश्रुतिनिष्ठाधिकार्यादिसमन्वयप्रतिपादकत्वस्य सत्त्वात् प्रथमाध्यायेन प्रथमसूत्रस्य सङ्गतिरिति भावः । ननु समन्वयाध्यायेनाधिकार्यादिश्रुतिनिष्ठसमन्वयो न कुत्रापि प्रतिपाद्यतेऽतः कथमधिकार्यादिश्रुतिसमन्वयप्रतिपादकत्वमस्येति चेद् ! न – अध्यायस्थितसमन्वयसूत्रेण सर्वश्रुतीनां स्वार्थबोधकत्वप्रतिपादनद्वारा तात्पर्येण ब्रह्मसमन्वयस्य प्रतिपादनादधिकार्यादिश्रुतीनां समन्वयोऽपि तात्पर्येण प्रतिपाद्यत एव । अथवाऽध्यायसम्बन्धिजिज्ञासासूत्रेण तत्प्रतिपादनमेवाध्यायेन तत्प्रतिपादनमित्यङ्गीकारान्न पूर्वोक्तदोषः । तथा चाधिकार्यादिश्रुतिनिष्ठमवान्तरतात्पर्येण स्वार्थबोधकत्वद्वारा महातात्पर्येण यद्ब्रह्मबोधकत्वं तद्रूपैकार्थप्रतिपादकत्वं सूत्राध्याययोः सम्बन्ध इति प्रथमाध्याये जिज्ञासासूत्रस्य प्रवेश इति निष्कृष्टोऽर्थः । एवमेव पादसङ्गतावप्यूहनीयम् ।
स्पष्टब्रह्मलिङ्गकश्रुतिनिष्ठस्वार्थबोधकत्वरूपैकार्थप्रतिपादकत्वं सूत्रप्रथमपादयोः सङ्गतिरित्याह –
ऐतदात्म्यमिति ।
अध्यायसम्बन्धवैलक्षण्याय द्वितीयादिपादवैलक्षण्याय च श्रुतीनां स्पष्टब्रह्मलिङ्गत्वविशेषणम् । विषयादावित्यत्रादिशब्देन प्रयोजनादिकं बोध्यते । प्रथमसूत्रप्रथमपादयोः स्पष्टब्रह्मलिङ्गकश्रुतिनिष्ठविषयादिसमन्वयप्रतिपादकत्वात्सूत्रस्य पादेन सह सङ्गतिरिति भावः ।
ननु प्रथमसूत्रस्य श्रुत्या सहोक्तसम्बन्धोऽस्तु को वेतरेषां सूत्राणां सम्बन्ध इत्यत आह –
एवमिति ।
तथेत्यर्थः । यथा प्रथमसूत्रस्याधिकार्यादिश्रुतिभिः प्रयोज्यप्रयोजकभावः सम्बन्धः तथेतरेषां तत्तत्सूत्राणां प्रयोज्यप्रयोजकभावः सम्बन्ध इति भावः ।
नन्वध्यायादौ प्रथमसूत्रस्य कथमितरसूत्राणामध्याये प्रवेशः, सम्बन्धाभावादित्यत आह –
तत्तदिति ।
सूत्राणामित्यस्यात्रानुषङ्गः कर्तव्यस्तेषां सङ्गतिरूहनीयेत्यनेनान्वयः शास्त्रपदस्याप्यनुषङ्गः, तथा च तत्तत्सूत्रस्य शास्त्रेण तत्तदध्यायेन तत्तत्पादेन च सहैकविषयत्वात्सङ्गतिरूहनीयेति भावः ।
शास्त्राध्यायपादानां किं तत्प्रमेयमित्याकाङ्क्षायां क्रमेण तन्निरूपयति –
प्रमेयमिति ।
सम्पूर्णशास्त्रेण प्रतिपाद्यं ब्रह्मैवेति भावः ।
शास्त्रस्याध्यायचतुष्टयात्मकत्वेनाध्यायभेदकं तदवान्तरप्रमेयमाह –
अध्यायानामिति ।
फलानीत्यस्य पूर्वेण प्रमेयमित्यनेनान्वयः, प्रथमाध्यायस्य समन्वयः प्रमेयम् , द्वितीयाध्यायस्याविरोधः प्रमेयमित्येवं वाक्ययोजना । तथा चाध्यायैः समन्वयादिकं प्रतिपाद्यत इति भावः ।
अध्यायस्य पादचतुष्टयात्मकत्वेन पादभेदकं प्रमेयमाह -
तत्रेति ।
प्रथमाध्याय इत्यर्थः । प्रमेयं विषय इत्यर्थः ।
द्वितीयतृतीयपादयोः प्रायेण सविशेषनिर्विशेषब्रह्मप्रतिपादकत्वात्परस्परं भेद इत्यभिप्रेत्य प्रमेयं निरूपयति –
द्वितीयेति ।
अस्पष्टब्रह्मलिङ्गानां समन्वयः प्रमेयमित्यर्थः ।
वेदान्तेति ।
वेदान्तविषयकपूजितविचारात्मकशास्त्रमित्यर्थः । विषय उद्देश्यमित्यर्थः ।
विषयप्रयोजनेति ।
नन्वधिकारिसम्बन्धसम्भवासम्भवाभ्यामप्यधिकरणं रच्यताम् ; किं विषयप्रयोजनसम्भवासम्भवाभ्यामेव, चतुर्णां प्रसक्तेस्तुल्यत्वादिति चेद् ? न – तृतीयचतुर्थवर्णकयोरधिकारिसम्बन्धसम्भवासम्भवाभ्यामधिकरणस्य निरूपणीयत्वान्नात्र प्रथमवर्णके ताभ्यामधिकरणं रच्यते । न च विनिगमनाविरह इति वाच्यम् ? प्रयोजनस्य प्रथममाकाङ्क्षितत्वेन मुख्यत्वात्तत्सिद्धेः विषयसिद्धिमन्तरा निरूपयितुमशक्यत्वाद्विषयप्रयोजने पुरस्कृत्याधिकरणं रच्यत इति भावः ।
ब्रह्मात्मना ऐक्यशून्यौ विरुद्धधर्मवत्वाद्दहनतुहिनवदित्यनुमानमभिप्रेत्य पूर्वपक्षयति -
अत्रेति ।
नाहं ब्रह्मेति प्रत्यक्षस्याहमंशे विशिष्टविषयकत्वेन विशिष्टत्वेन रूपेणात्मनः ब्रह्मैक्यानङ्गीकारेण प्रत्यक्षविरोधाभावादुक्तानुमानस्य सत्प्रतिपक्षत्वादिदोषग्रस्तत्वाद्बन्धस्याध्यस्तत्वाच्च विषयप्रयोजनसिद्धिरिति सिद्धान्तसूत्रं पठति –
सिद्धान्त इति ।
सत्प्रतिपक्षानुमानमनुपदं वक्ष्यते ।
नन्वस्य सूत्रस्य कथं श्रोतव्य इति श्रुतिमूलकत्वं भिन्नार्थकत्वादित्यत आह –
अत्रेति ।
इदमुपलक्षणं पुरुषप्रवृत्तिसिद्ध्यनुवादपरिहारयोः । तथा च विधिसमानार्थत्वायानुवादपरिहाराय च शास्त्रे पुरुषप्रवृत्तिसिद्धये च सूत्रे कर्तव्येति पदमध्याहर्तव्यमिति भावः ।
कर्तव्यपदाध्याहारे श्रीभाष्यकारसम्मतिमाह –
अध्याहर्तव्यमिति ।
मिश्रमतानुसारिणस्तु - श्रुतिसूत्रयोरैक्यरूपनियमाभावं, विषयप्रयोजनज्ञानादेव पुरुषप्रवृत्तिसिद्धिं, श्रवणे विध्यसम्भवं च मन्वानाः कर्तव्यपदं नाध्याहर्तव्यमिति वदन्ति । तन्मते साधनचतुष्टयसम्पत्त्यनन्तरं ब्रह्मजिज्ञासेच्छा भवति, कर्मफलस्यानित्यत्वाद् ब्रह्मज्ञानात्परमपुरुषार्थश्रवणाच्चेति श्रौतोऽर्थः । ज्ञानस्य विचारसाध्यत्वात् विचारकर्तव्यताऽर्थिकैवेति । अत्र विचारानारम्भवादिनः उपायान्तरसाध्या मुक्तिरिति फलमिति ज्ञेयम् ।
ननु कर्तव्यत्वं कृतिसाध्यत्वं, तथा च ज्ञानेच्छयोः कृत्यसाध्यत्वेन कर्तव्यत्वस्यानन्वयात्कर्तव्यपदं कथमध्याहर्तव्यमतः श्रुतिरूपमूलप्रमाणरहितत्वेनेदं सूत्रप्रमाणमित्याशङ्कां सङ्ग्रहेणोद्घाट्य परिहरति -
तत्रेति ।
सूत्रेऽध्याहारेऽवश्यकर्तव्ये सतीत्यर्थः । ज्ञाऽवबोधन इति धातुः प्रकृतिः, प्रत्ययः सन्प्रत्यय इति विवेकः ।
फलीभूतमिति ।
अज्ञाननिवृत्तिरूपफलसाधनत्वेन फलीभूतमित्यर्थः ।
अजहदिति ।
वाच्यार्थस्य ज्ञानस्यात्यागादजहल्लक्षणेति भावः ।
ननु तथाऽप्युक्तदोषतादवस्थ्यमित्यत आह –
प्रत्ययेनेति ।
शक्यसम्बन्धिनी लक्षणेति ज्ञानार्थं इच्छासाध्यपदम् । वाच्यार्थेच्छायाः परित्यागाज्जहल्लक्षणेति भावः । श्रौतोऽर्थः व्यङ्ग्यार्थाद्भिन्नोऽर्थः लाक्षणिकार्थ इति यावत् । सौत्राथशब्देन विशिष्टाधिकारी बोध्यते । तथा च साधनचतुष्टयसम्पन्नेनाधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः । मोक्षेच्छाया अधिकारिविशेषणत्वेन तद्द्वाराऽधिकारिविशेषणीभूतो यो मोक्षस्तत्साधनं ब्रह्मज्ञानमित्यर्थात्सिद्ध्यति । अस्ति तावद्वेदान्तवाक्यसान्निध्यं श्रवणविधेः विधिसमानार्थकत्वेन सूत्रस्यापि तत्सान्निध्यमस्तीत्यतः वेदान्तवाक्यैरद्वैतात्मविचारः सिद्ध्यति । तथा च साधनचतुष्टयसम्पन्नेनाधिकारिणा मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यैरद्वैतात्मविचारः कर्तव्य इति सूत्रस्य तात्पर्येण प्रतिपाद्योऽर्थः । ननु विचारलक्षणायैव कर्तव्यपदस्यान्वयासम्भवादप्रमाणिकी ज्ञानलक्षणेति चेद् ? न – ज्ञानलक्षणानङ्गीकारे ज्ञानस्य सुखप्राप्तिदुःखनिवृत्त्यन्तररूपत्वाभावेन स्वतः पुरुषार्थत्वायोगाद् ज्ञानाय विचारः किमर्थ इति विचारलक्षणाया अप्यप्रयोजकत्वेनानावश्यकत्वादन्वयानुपपत्तेस्तादवस्थ्यमित्याशङ्कां वारयितुं ज्ञानेऽपि लक्षणायाः स्वीकार्यत्वात् ।
ननु तथापि ज्ञानस्य स्वतः फलत्वायोगो दुर्वार इत्याक्षेपे तदयोगं सूचयन् ज्ञानस्य फलत्वं सूत्रतात्पर्यार्थकथनव्याजेन विवृणोति –
तत्रेति ।
सूत्रज्ञानपदस्य लक्षणाङ्गीकार इत्यर्थः । ब्रह्मज्ञानस्य इच्छाविषयत्वात्पुरुषार्थरूपफलत्वं प्रतीयते प्रतीयमानस्य फलत्वस्य स्वरूपेणायोगात्फलसाधनत्वेनैव तत् वक्तव्यं तत्साध्यफलं किमित्याकाङ्क्षायाम् अथशब्दोपात्ताधिकारिविशेषणीभूतोऽनर्थनिवृत्तिरूपो मोक्षः फलत्वेन सम्बध्यते । यथा – स्वर्गकामो यजेतेत्यत्र अधिकारिविशेषणीभूतः स्वर्गः फलत्वेन सम्बध्यते तद्वत् । अतः फलीभूतमोक्षसाधनत्वेन ब्रह्मज्ञानस्य फलत्वं युज्यत इति ज्ञानाय विचारो युक्त इति भावः ।
हेतूक्तिद्वारा अनर्थनिवर्तकत्वमुपपादयति –
तत्रानर्थस्येति ।
अध्यस्तत्वं मिथ्यात्वम् । ननु बन्धस्य सत्यत्वमेवास्तु मास्तु ज्ञानमात्रनिवृत्तिरिति चेन्न । श्रुतिसूत्रविद्वदनुभवानां विरोधात् । तस्मात् तदज्ञाननिष्ठानर्थनिवर्तकत्वेन बन्धस्याध्यस्तत्वं सिद्धमिति भावः ।
नन्वेदं सर्वमितिचित्रतुल्यत्वेनानुपपन्नं शक्त्या लक्षणया वाऽध्यस्तत्वस्य सूत्रेणाप्रतिपादनादित्यत आह –
इति बन्धस्येति ।
इति शब्दो हेत्वर्थकः । सौत्रज्ञाननिष्ठनिवर्तकान्यथानुपपत्तिप्रमाणबलादित्यर्थः । अर्थात् सूत्रव्यङ्ग्यार्थतया सूत्रेणैव प्रतिपादितमित्यर्थः ।
अस्तु वा फलीभूतज्ञानविचारयोर्लक्षणा तथापि विषयप्रयोजनसिद्ध्यभावादनारम्भणीयत्वदोषो दुर्वार इत्यत आह –
तच्चेति ।
ननु कथं प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह –
तथाहीति ।
भोजनस्यान्नादिर्विषयः क्षुन्निवृत्तिः प्रयोजनमिति विवेकः ।
शास्त्रमिति ।
ननु पक्षे हेत्वसिद्धिशङ्कायास्तुल्यत्वात् हेतौ प्रथमोपस्थितत्वाच्च विषय एव साधनीयः कथं प्रयोजनं प्रथमतः साध्यते । न च प्रयोजनान्यथानुपपत्त्या सिद्धस्य विषयस्य प्रयोजनसाधनमन्तरा साधयितुमशक्यत्वात् प्रथमं प्रयोजनं साधयतीति वाच्यम् । विषयस्य प्रयोजनापेक्षा यथा तद्वदस्त्येव प्रयोजनस्याऽपि विषयापेक्षा स्वाज्ञानद्वारा विषयस्यापि प्रयोजनं प्रति हेतुत्वात् तथा प्रथमोपस्थितत्वेन प्रथमं विषयस्यैव निरूपयितुमुचितत्वात्कथं प्रयोजनं निरूप्यत इति चेत् , अत्रोच्यते – प्रयोजनं विषयापेक्षया अभ्यर्हितत्वात्प्रथमं निरूप्यत इति । तथा च जीवगतानर्थनिवृत्त्यात्मकप्रयोजनरूपकार्यान्यथानुपपत्त्या कारणीभूतविषयसिद्धिरिति समुदायग्रन्थार्थः ।
रज्जुविषयकाज्ञानरूपकारणसहितः सर्पज्ञानजनितभयकम्पादिरूपोऽनर्थः बन्धः तस्य निवर्तकं नायं सर्पः किन्तु रज्जुरेवेति विशेषदर्शनात्मकं यज्ज्ञानं तद्धेतुत्वं वर्तत इति दृष्टान्ते हेतुसमन्वयः । ज्ञाने बन्धनिवर्तकत्वरूपविशेषणं कथमित्याशङ्कायां पूर्वोक्तानुमानेन साधयति –
बन्ध इति ।
बन्धस्य ज्ञाननिवर्त्यत्वे साधिते हि ज्ञानमर्थाद्बन्धनिवर्तकं भवति तथा च बन्धनिवर्तकत्वाध्यस्तत्वयोः ज्ञप्तौ कार्यकारणभावः न स्वरूप इति भावः ।
न केवलमध्यस्तत्वमेवार्थात् तत्सूत्रितं किन्तु विषयप्रयोजनद्वयमपीहीत्याह –
एवमिति ।
उक्तेन प्रकरणेत्यर्थः ।
अर्थादिति ।
यदध्यस्तं तज्ज्ञानमात्रनिवर्त्यमिति व्याप्तिविषयकानुमानप्रमाणबलादित्यर्थः ।
ईश्वर ह्यज्ञाने सत्यपि जीवगत एवानर्थ इत्याह –
जीवेति ।
जीवगतः अनर्थरूपो यो भ्रमः कारणसहितकर्तृत्वादिबन्धः तन्निवृत्तिरूपं फलमित्यर्थः ।
ननु यद्विषकमज्ञानं तद्विषयकज्ञानेनैव निवर्त्यमिति ज्ञानाज्ञानयोः समानविषयकत्वनियमेनान्यज्ञानादन्यविषयकाज्ञाननिवृत्तेरयोगात् कथं ब्रह्मज्ञानाद्ब्रह्मभिन्नजीवगताध्यासात्मकतूलाज्ञाननिवृत्तिरित्याशङ्क्याभेदोऽपि सूत्रित इत्याह –
जीवब्रह्मणोरिति ।
अर्थादिति ।
ब्रह्माभेदसाध्यकाध्यासाश्रयत्वहेतुकानुमानबलादित्यर्थः । यद्यपि जीवो नाम विशिष्टः तद्गतमध्यासात्मकतूलाज्ञानं तद्धेतुको बन्धश्च तद्गत एव तथापि स एव जीवः शोधितश्चेत् प्रत्यक्स्वरूपत्वेन ब्रह्माभिन्न इति तदभेदस्तस्माद्विशेष्यांशमादाय समानविषयकत्वं सम्भवतीति भावः ।
पूर्ववाद्यनुमानस्य सत्प्रतिपक्षानुमानं रचयति –
जीव इति ।
विशिष्टे ब्रह्माभेदस्यासम्भवादन्तःकरणातिरिक्तो जीवः पक्ष इत्यर्थः । प्रबलश्रुतिमूलकत्वादिदमनुमानं प्रबलमिति भावः । अध्यासाश्रयत्वादध्यासाधिष्ठानत्वादित्यर्थः । शुद्धस्यात्मनः अध्यासाश्रयत्वाभावेऽपि तदधिष्ठानत्वमप्रतिहतमिति भावः ।
सत्यज्ञानसुखात्मा केनायं शोकसागरे मग्नः ॥
इत्यालोच्य यतीन्द्रः प्रागध्यासं प्रदर्शयामास ॥ १ ॥
यत् यत् ज्ञाननिवर्त्याध्यासाश्रयः तत्तदभिन्नमिति सामान्यव्याप्तिं प्रदर्शयति –
यदिति ।
इत्थं यदज्ञाननिवर्त्याध्यासाश्रय इत्यर्थः । तथा तदभिन्नमित्यर्थः ।
इदमंशः श्रुतिज्ञाननिवर्त्याध्यासाश्रयत्वाच्छुक्त्यभिन्न इति विशेषे सामान्यव्याप्तेः पर्यवसानमाह –
यथेति ।
हेतुः हेतुप्रविष्टत्वेन हेतुरित्यर्थः ।
उपायेति ।
केवलकर्मणो वा ज्ञानकर्मसमुच्चयाद्वा षोडशपदार्थज्ञानाद्वा साध्या मुक्तिरिति भावः ।
पूर्वोक्तमुपसंहरन् भाष्यमवतारयति -
एतदिति ।
जीवस्य ब्रह्मत्वबोधकानि सूत्राणि ब्रह्मसूत्राणि भगवान् भाष्यकारोऽध्यासं वर्णयतीति क्रियाकारकयोजना ।
ननु सूत्रेण प्रथमप्रतिपन्नं प्रतिपाद्यं श्रौतार्थमुल्लङ्घ्य चरमप्रतिपन्नमार्थिकार्थमेव श्रीभाष्यकारः प्रथमं किमिति वर्णयतीत्यत आह –
सूत्रेणेति ।
सूत्रेण लक्षिता या विचारकर्तव्यता तद्रूपश्रौताऽर्थस्यान्यथानुपपत्तिर्नाम विना विषयप्रयोजने कर्तव्यता न सम्भवतीत्याकारिका तयेत्यर्थः ।
श्रौतार्थो नामार्थिकार्थाद्भिन्नोऽर्थः –
अर्थादिति ।
अर्थात्सूत्रितत्वं नामार्थिकार्थतया सूत्रेण प्रतिपादितत्वम् । विषयश्च प्रयोजनं च ते अस्य स्त इति विषयप्रयोजनवच्छास्त्रं तद्वतो भावं तद्वत्त्वं विषयप्रयोजनद्वयवदिति यावत् । सूत्रितं च तद्विषयप्रयोजनवत्त्वं च तस्येति विग्रहः । उपोद्घातत्वादुपोद्घातविषयत्वेनोपोद्घातत्वादित्यर्थः । अत्र विवरणाचार्याः प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातसङ्गतिरिति उपोद्घातलक्षणं वदन्ति । वर्णनं चिन्तेत्यर्थः । तथा च विषयप्रयोजनद्वयस्य प्रतिपाद्यविचारकर्तव्यतासिद्ध्यर्थचिन्ताविषयत्वादुपोद्घातत्वमुपचर्यत इति भावः । तस्योपोद्घातसङ्गत्या अवश्यं निरूपणीयस्य विषयप्रयोजनद्वयस्य सिद्धिः तत्सिद्धिः ।
आर्थिकार्थेति ।
व्यङ्ग्यार्थभूतविषयप्रयोजनद्वयसिद्धिहेत्वध्यासप्रतिपादकत्वादित्यर्थः ।
भाष्यमिति ।
सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ।
स्वपदानि च वर्णन्ते भाष्यं ’भाष्यविदो विदुः’ ॥
इति भाष्यलक्षणम् । यत्रार्थो वर्ण्यते तद्भाष्यमित्युक्ते सागरगिरिवर्णनस्यापि भाष्यत्वप्रसङ्गस्तद्व्यावृत्त्यर्थं सूत्रपदम् । “अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखमि”त्यादिविशेषणविशिष्टं सङ्ग्रहवाक्यं सूत्रशब्दार्थः, तथा च श्रुतिस्मृत्योः सूत्रत्वसम्भवाच्छ्रुतिस्मृतिसूत्राणां यद्भाष्यं तत्साधारणमिदं लक्षणं भवति । गिरिनदीप्रतिपादककाव्ये सङ्ग्रहवाक्यत्वाभावान्न सूत्रत्वमिति न भाष्यलक्षणस्यातिव्याप्तिरिति भावः । वार्तिकव्यावृत्त्यर्थं सूत्रानुकारिभिरिति, वार्तिके सूत्रप्रतिकूलवर्णनस्यापि सम्भवात्तद्व्यावृत्तिर्बोध्या । वृत्तिव्यावृत्त्यर्थं स्वपदानीत्युक्तम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥
इति स्मृतेः ।
विशिष्टाचारपरिपालनाय विघ्नोपशमनाय च विशिष्टेष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलं ग्रन्थकरणरूपकार्यारम्भसमये कृतं श्रीभाष्यकारेणेत्यभिप्रेत्य दूषयति –
तन्नेति ॥
सर्वोपप्लवरहितस्य निरस्तसमस्तदुरितस्येत्यर्थः । विज्ञानघनत्वं चैतन्यैकतानत्वं प्रत्यक्पदस्यार्थस्याध्यासप्रमाणग्रन्थे वक्ष्यते ।
स्मृतत्वादिति ।
वाक्यरचनायामर्थबोधस्य हेतुत्वेन वाक्यार्थस्य स्मृतत्वादित्यर्थः । युष्मदस्मदित्यादिसुतरामितरेतरभावानुपपत्तिरित्यन्तभाष्यमेव मङ्गलाचरणे प्रमाणम् । तथा च निरस्तसमस्तोपप्लवं चैतन्यैकतानमभेदेन प्रतिपाद्यमानस्य श्रीभाष्यकृतः कुतः शिष्टाचारोल्लङ्घनदोषः तस्मादग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः इति भावः । ननु विशिष्टेष्टदेवतातत्त्वमनुस्मर्यते चेत्तर्हि तदेव भाष्ये प्रतिपादनीयं तत्तु न प्रतिपाद्यते किन्त्वध्यासाभावस्तस्मान्न तत्त्वस्मृतिरिति चेन्न । अध्यासाभावप्रतिपादनायैव प्रत्यक्तत्वस्य स्मृतत्वात् । न चान्यार्थं तत्त्वानुस्मरणं कार्यकारीति वाच्यम् । अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपप्लवं दहति धूमार्थो वह्निस्तृणादिकमिवेति प्रसिद्धत्वात् । न च प्राथमिकेनास्मत्पदेनैव प्रत्यगात्मनः स्मृतत्वात् किमनुपपत्तिपर्यन्तग्रहणमिति वाच्यम् । प्रत्यक्त्वप्रत्ययत्वविषयित्वधर्मभेदेन अनेकधा प्रत्यगर्थोऽनुस्मर्यत इति द्योतनार्थत्वात्तथा च दार्ढ्याय तदन्तं ग्रहणमावश्यकमिति भावः ॥
नन्वात्मानात्मनोरध्यासस्य काराणाभावेन निरूपयितुमशक्यत्वात्कथमार्थिकत्वम् , अतो येन विषयप्रयोजनसिद्धिरित्यध्यासपूर्वपक्षभाष्यमवतारयन् प्रथमतः कारणाभावं निरूपयति –
लोक इति ।
हट्टपट्टणादिस्थितं रजतं सत्यरजतं तस्मिन्नित्यर्थः । इदम्पदार्थः अधिष्ठानसामान्यम् आरोप्यविशेषो रजतं इदम्पदार्थस्य रजतस्य च भ्रमविषयत्वज्ञापनायाधिष्ठानसामान्यत्वेनारोप्यविशेषत्वेन च ग्रहणमिति भावः । आहितः जनित इत्यर्थः ।
नन्वात्मानात्मनोरध्यासेप्युक्तसंस्कारः कारणं स्यादित्यत आह –
इत्यत्रेति ।
भाष्यगर्भितमनुमानं स्फोरयति –
तथाहीति ।
भाष्ये शेषपूर्त्या पक्षांशः इतरेतरभावानुपपत्तावित्यनेन साध्यांशो बोध्यत इत्यभिप्रेत्याह -
आत्मेति ।
विरुद्धस्वभावत्वं नाम विरुद्धत्वमेव विरुद्धत्वं च विरोधः विरोधो नाम परस्परैक्यायोग्यत्वमित्यभिप्रेत्य विरुद्धस्वभावयोरिति भाष्यफलितार्थमाह –
परस्परेति ।
अनुमानान्तरस्येदमनुमानमुपलक्षणं तथा चात्मानात्मानौ तादात्म्यशून्यौ परस्परतादात्म्यायोग्यत्वात्तमःप्रकाशवदिति भावः ।
आत्मानात्मनोः कथं विरोधः इत्याशङ्कां वारयितुं युष्मदस्मदित्यादिविशेषणं प्रवृत्तमित्याशयं स्फुटीकरोति –
हेत्विति ।
ऐक्यायोग्यत्वं न विरोधहेतुः किन्तु तदेव विरोध इति ज्ञापयितु हेतुभूतमित्युक्तम् । वस्तुतः स्वभावत इत्यर्थः प्रत्यक्पराग्भावत इति यावत् । प्रतीतितः प्रकाश्यप्रकाशत्वत इत्यर्थः । व्यवहारतः ज्ञानरूपव्यवहारत इत्यर्थः । अहं कर्त्ताहं ब्रह्मेति परस्परभिन्नं यत् ज्ञानं तद्विषयत्वत इति यावत् । वृद्धमतोक्तप्रथमविग्रहानुसारेणायं त्रिधा विरोधो योजनीयः, इतरविग्रहेषु त्रिधा विरोधस्यासम्भवादिति भावः ।
बुद्धिस्थस्योपेक्षानर्हत्वं प्रसङ्गसङ्गतिस्तया प्रयोगासाधुत्वमाशङ्क्य निषेधति –
न चेत्यादिना ।
सूत्रेण व्याकरणसूत्रेणेत्यर्थः परतः परे सतीत्यर्थः । युष्मच्छब्दस्य यन्मपर्यन्तं तस्य त्वेत्यादेशः अस्मच्छब्दस्य यन्मपर्यन्तस्य मेत्यादेशः प्राप्नोतीति भावः ।
सौत्रसप्तमीद्विवचनान्तपदं पृथगन्वयत्वेन व्याख्याय क्रमेण पृथगुदाहरणं दर्शयति –
त्वदीयमिति ।
तव इदं त्वदीयं धनमिति शेषः त्वदीयमित्युदाहरणे प्रत्ययपरत्वमस्ति प्रत्ययस्तु छप्रत्ययः छस्येयादेशः प्राप्नोति तथा च युष्मत् – इयेति स्थिते मपर्यन्तस्य त्वेत्यादेशे प्राप्ते शत्रुवदादेश इत्यभियुक्तव्यवहारेण वर्णादर्शनप्राप्तेः त्वत् इयेति स्थिते सुप्रत्ययविधानानन्तरं सहोच्चारणेन त्वदीयमिति रूपनिष्पत्तिः । एवं मदीयमित्यत्र अस्मत्पुत्र इति स्थिते पुत्रपदस्य उत्तरपदत्वं परत्वं च विज्ञेयम् । तथा च युष्मदस्मदित्यादिभाष्ये उत्तरपदस्य परत्वसत्त्वात् त्वन्मत्प्रत्ययगोचरयोरिति स्यादिति भावः ।
त्वमाविति ।
यदा युष्मदस्मत्पदयोः प्रत्येकमकार्थवाचित्वं तदा प्रत्यये चोत्तरपदे च परे सति मपर्यन्तस्य त्वमावित्यादेशौ स्त इति व्याकरणसूत्रस्यार्थः ।
ननु युष्मदर्थस्य बहुत्वेऽपि प्रत्यगात्मनः एकत्वेनास्मदर्थैकत्वादस्मत्पदस्य मपर्यन्तस्य मेत्यादेशः स्यादित्यत आह –
अस्मदर्थेति ।
नन्वस्मच्छब्दः पूर्वं प्रयोक्तव्यः एकशेषश्च स्यादिति प्राप्तं दूषणद्वयं किमिति नोद्घाट्य परिहृतमिति चेन्न । आश्रमश्रीचरणमतनिरूपणे अस्य दूषणद्वयस्य परिहरिष्यमाणत्वादत्रोद्घाट्य न परिहृतमिति भावः ।
एवं स्वमतानुसारेण प्रयोगं साधयित्वा स्वमतानुसारिव्याख्यानं स्फुटीकर्तुं शङ्कामवतारयति –
नन्वेवं सतीति ।
विरोधं साधयतीति प्रतिज्ञाय बहुत्वाङ्गीकरे सतीत्यर्थः । समासादिरूपवृत्त्यर्थप्रतिपादकं वाक्यं विग्रहः ।
यूयमितीति ।
युष्मच्छब्दोल्लिख्यमानप्रत्ययः युष्मत्प्रत्यय इत्यर्थः । यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्यय इति वृद्धव्यवहारानुसार्यलौकिकोऽयं विग्रहः लौकिकस्त्वसाधुः । यदि युष्मच्चास्मच्च युष्मदस्मदी तयोः प्रत्ययः युष्मत्प्रत्ययोऽस्मत्प्रत्ययश्चेति लौकिकविग्रह एव स्यदित्युच्येत, तदा युष्मदस्मत्पदयोर्बह्वर्थवाचित्वपक्षे युष्मच्चास्मच्चेति विग्रह एवानुपपन्नस्स्यात्तयोरेकार्थवाचित्वाभावात्तस्मादलौकिकोयं विग्रहः । ननु विग्रहो द्विविधः लौकिकोऽलौकिकश्चेति अलौकिकत्वमरूपपरिनिष्ठितत्वं रूपादिनिष्पत्त्यर्थं प्रयुक्तत्वमिति यावत् । तथाहि राजपुरुष इत्यत्र राज्ञः पुरुष इति लौकिकोयं विग्रहः राजन् ङस् पुरुष सु इत्यलौकिकोयं विग्रहः, तथा च यूयं प्रत्यय इति कथमलौकिकविग्रहः तस्य यूयमिति सिद्धरूपबोधकत्वेन रूपनिष्पत्त्यर्थं प्रयुक्तवाक्यत्वाभावादिति चेन्न । लौकिकविग्रहभिन्नं वाक्यान्तरमेवात्रालौकिकविग्रह इति विवक्षितत्वात् अलौकिकस्त्वेवं साधनीयः, तथाहि युष्मच्छब्दस्य युष्मच्छब्दोल्लेखिनी लक्षणा अस्मच्छब्दस्यास्मच्छब्दोल्लेखिनी लक्षणा तथाच युष्मच्छब्दोल्लेखी चास्मच्छब्दोल्लेखी च युष्मच्छब्दोल्लेख्यस्मच्छब्दोल्लेखिनौ प्रत्ययश्च प्रत्ययश्च प्रत्ययौ उल्लेखिनौ च तौ प्रत्ययौ च तयोर्गोचरौ च तयोरिति विग्रहो द्रष्टव्यः । यद्यपि लक्षणाङ्गीकरपक्षे युष्मच्चास्मच्च युष्मदस्मदी युष्मदस्मदी च तौ प्रत्ययौ चेति विग्रहः साधुरेव तथापि उल्लेखिपदविशिष्टत्वेन विग्रहप्रतिपादनं वाक्यान्तराभिप्रायेणेति विवेकः । केचित्तु देव इति बुद्धिः देवबुद्धिरितिवत् युष्मदस्मदी इति प्रत्ययौ युष्मदस्मत्प्रत्ययौ तयोर्गोचराविति भाष्ये विग्रहः । तत्र युष्मदस्मदी इति प्रत्ययावित्यनेन युष्मत्प्रत्ययोस्मत्प्रत्यय इति प्राप्ते युष्मत्प्रत्यय इत्यस्य यूयमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरम् , अस्मत्प्रत्यय इत्यस्य वयमिति प्रत्यय इति अर्थबोधकं वाक्यान्तरमित्यभिप्रायेण यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्यय इत्याख्यातमित्याहुः । शब्दो विग्रह इत्यर्थः । विग्रहप्रतिपादितार्थः विषयत्वमित्यर्थः ।
विशिष्टचेतन एव युष्मच्छब्दप्रयोगो दृश्यते त्वं गच्छागच्छेति गेमनादेः सम्भवान्नाचेतनाहङ्कारादौ केवले तदसम्भवादित्यर्थासाधुत्वं विवृणोति -
नहीति ।
इदमुपलक्षणम् , वयमिति प्रत्ययविषयत्वमात्मन्यपि नास्तीति द्रष्टव्यम् । तथा च उभयत्र विषयत्वं नास्तीति शङ्कितुरभिप्रायः ।
अहङ्करविशिष्टचेतने भासमानत्वरूपं प्रत्ययविषयत्वं मुख्यं केवलाहङ्कारादौ गौणं तथा चाऽहङ्कारादौ भासमानत्वरूपमुख्यविषयत्वाभावेपि भासमानत्वरूपगौणविषयत्वमादाय साधुत्वमस्तीति परिहरति –
न गोचरेति ।
योग्यता गौणविषयतेत्यर्थः । अहङ्काराद्यनात्मा युष्मत्प्रत्यययोग्यः युष्मत्प्रत्ययप्रयुक्तसंशयादिनिवृत्तफलभाक्त्वात् चैतन्यांशवद्व्यतिरेकेण घटवद्वेति प्रयोगः ।
नन्वहङ्कारादिवच्चिदात्मापि युष्मत्प्रत्यययोग्यः युष्मच्छब्दस्याहङ्कारादिविशिष्टचेतनवाचित्वेन विशिष्टनिष्ठविषयत्वस्य विशेषणांश इव विशेष्यांशेपिसत्त्वादयो व्यावर्तकधर्माभावात्कथमात्मानात्मनोर्विरोध इति चेन्न । अनात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं चिदात्मनस्तावदस्मत्प्रत्यययोग्यत्वमेव विवक्षते न युष्मत्प्रत्यययोग्यत्वमित्येतद्ग्रन्थकर्तुराशयादित्येतत्सर्वं हृदि निधायाऽनया रित्या चिदात्मनः गौणविषयत्वरूपमस्मत्प्रत्यययोग्यत्वं पूर्वपक्षेप्यनात्मनिष्ठविषयत्वशङ्कोत्थानज्ञापनाय कण्ठोक्त्या साधयति –
चिदात्मेति ।
योग्यं गौणविषय इत्यर्थः ।
गुणमाह –
तत्प्रयुक्तेति ।
अस्मत्प्रत्ययप्रयुक्तं संशयादिनिवृत्तिरूपं यत्फलं तदाश्रयत्वादित्यर्थः, आदिशब्देनाहं नास्मीति विपर्ययो गृह्यते तदा चात्मनः अहमिति सर्वदा भासमानत्वादहमस्मि न वेति संशयाभावः सति निश्चये संशयाद्ययोगादतो निवृत्तिफलभाक्त्वमात्मनोऽस्तीति भावः । केवलाहङ्कारो वा व्यतिरेकेण घटो वात्र दृष्टान्तः ।
आत्मनः गौणविषयत्वे भाष्योक्तिमपि प्रमाणयति –
न तावदिति ।
एकान्तपदं नियमार्थकं विषयत्वाद्भासमानत्वादित्यर्थः । इदंविषयत्वमहङ्कारादविशिष्टचेतने मुख्यं आत्मादौ तु गौणमिति विवेकः ।
ननु विशेष्यस्यास्मत्प्रत्यययोग्यत्वे विशेषणाहङ्कारादेरप्यस्मत्प्रत्यययोग्यत्वेन, आत्मनोर्व्यावर्तकधर्माभावात्कथमत्यन्तभेदसिद्धिरित्याशङ्कामनूद्य परिहरति –
यद्यपीति ।
अत्यन्तभेदासाध्यर्थमहङ्काराद्यनात्मनः युष्मत्प्रत्यययोग्यत्वमेवाङ्गीक्रियते नास्मत्प्रत्यययोग्यत्वं भेदासिद्धेरिति भावः । ननु तथाप्यत्र योग्यता वर्तते अत्र नास्तीत्येतान्नियामकमात्मव्यावृत्तमनात्मनिष्ठं युष्मत्प्रत्यययोग्यतावच्छेदकं किञ्चिद्वक्तव्यम् , तथा अनात्मव्यावृत्तमात्मनिष्ठमस्मत्प्रत्यययोग्यतावच्छेदकम् किञ्चिद्वक्तव्यमिति चेत् । उच्यते । युष्मदर्थाहङ्कारादिभिन्नार्थत्वमेवास्मत्प्रत्यययोग्यतावच्छेदकमस्मदर्थचिदात्मभिन्नार्थत्वमेव युष्मत्प्रत्यययोग्यतायामवच्छेदकमित्येवमत्यन्तभेदसिद्ध्यर्थं वेदितव्यमिति दिक् ।
अहङ्कारादिदेहान्तस्यानात्मनः युष्मच्छब्दोल्लिख्यमानप्रत्यययोग्यत्वमात्मनस्त्वस्मच्छब्दोल्लिख्यमानप्रत्यययोग्यत्वमित्यर्थपर्यवसानेन व्याख्यानेन व्यवहारतः विरोधो दर्शितः युष्मदस्मच्छब्दतश्च विरोधो दर्शित इति गम्यते एवं स्वाभिमतं प्रयोगसाधुत्वं व्याख्यानं चोपपाद्य पराभिमतं प्रयोगसाधुत्वं व्याख्यानं च प्रतिपादयितुमारभते -
आश्रमेति ।
सम्बोध्यः सम्बोधनार्हः इत्यर्थः । अचेतने सम्बोध्यत्वाभवान्न युष्मत्पदशक्यार्थत्वमिति भावः ।
प्रत्ययोत्तरपदयोरिति सूत्रस्यार्थमाह -
तथाचेति ।
स्वार्थे शक्यार्थे विशिष्टचेतन इत्यर्थः । यदा शक्यार्थबोधकत्वं युष्मदस्मत्पदयोस्तदैव त्वमादेशः न लक्षणयेति भावः ।
विपक्षे बाधकमाह –
युष्मदिति ।
वां च नौश्च वांनावौ तथाचेति शब्दसमभिव्याहारे वांनावाविति सन्धिर्भवति सूत्रस्य व्याकरणसूत्रस्य पदसाङ्गत्यं त्वन्मदोः षष्ठीत्येव स्यात् न युष्मदस्मदोः षष्ठीत्येवं रूपं तस्य प्रसक्तेरित्यर्थः । तथाच षष्ट्यादिविभक्तिस्थयोः युष्मदस्मच्छब्दयोरेव वां नावावित्यादेशः नार्थयोरिति युष्मदस्मदोः षष्ठीत्यत्र युष्मदस्मच्छब्दयोर्लक्षणया शब्द एवार्थः न चेतनस्ततो नत्वं मादेश इति भावः ।
भाष्यप्रयोगं साधयति –
अत्रेति ।
शङ्कते –
यदीति ।
अत्रापिशब्दलक्षकत्वमस्त्येवेति परिहरति -
तथेति ।
अहङ्कारादिदेहान्तानात्मा परागर्थः लक्ष्यतावच्छेदकतया लक्ष्यतावच्छेदकप्रविष्टतयेत्यर्थः लक्ष्यांशतयेति यावत् । युष्मच्छब्दयोग्यत्वावच्छिन्ने परागर्थे युष्मच्छब्दस्य लक्षणा स्वीक्रियते अतो युष्मच्छब्दयोग्यत्वं लक्ष्यतावच्छेदकं भवति तथा च लक्ष्यतावच्छेदकनिविष्टः सन् युष्मच्छब्दश्च लक्षणया तस्यार्थः यथा परागर्थस्तद्वदतो न त्वेत्यादेश इति भावः ।
ननु पराक्त्वावच्छिन्न एव लक्षणा स्वीक्रियते लाघवादतस्त्वमादेशः स्यादित्याशङ्क्य निषेधति –
न चेत्यादिना ।
यद्यपि पराक्त्वादिना विरोधोऽस्त्येव तथापि श्रीभाष्यकृत्तात्पर्यानुरोधात्तद्योगत्वेनापि स वक्तव्य इत्याह –
विरुद्धेति ।
तात्पर्ये ज्ञापकमाह –
अत एवेति ।
लौकिकप्रयोगमुक्त्वा वेदप्रयोगमाह –
इमे विदेहा इति ।
याज्ञवल्क्यं प्रति जनकस्योत्तरमिदं तथा च विदेहाख्यदेशविशेषपरम् , इमे विदेहाः यथेष्टं भुज्यन्तामयमहं चास्मि दासभावे स्थितः दासान्तर्गत इति यावत् । राज्यं मां च यथेष्टं प्रतिपद्यस्वेत्यर्थः, राज्यं भवदधीनम् इति भावः । इमे विदेहा इत्यंशस्य नात्रोपयोगः किन्तु तदंशग्रहणं श्रुतिज्ञापनार्थमिति वेदितव्यम् ।
एतेनेति ।
वक्ष्यमाणहेतुनेत्यर्थः चेतनवाचित्वाल्लक्षणया प्रत्यग्बोधकत्वादित्यर्थः । सर्वैः पदैः सहोक्तौ सत्यां त्यदादीनि शिष्यन्त इति व्याकरणसूत्रार्थः । त्यदादिगणपठितानां परस्परसहोक्तौ गणमध्ये यत्परं तच्छिष्यत इति वेदितव्यम् , तथा च युष्मदस्मत्पदयोस्त्यदादिगणपठितत्वेनैकशेषे प्राप्ते सत्यस्मत्प्रत्ययगोचरयोरित्येवात्र स्यादिति भावः ।
एतेनेत्यनेन सूचितं हेतुं प्रदर्शयति –
युष्मदिति ।
यथा सूत्रे पूर्वनिपातैकशेषयोरप्राप्तिस्तद्वदत्रापि तयोरप्राप्तिरिति भावः ।
न केवलं महर्षिप्रयोगेनैवैकशेषाप्राप्तिरपि तु युक्त्या चेत्याह –
एकशेष इति ।
नन्वेकशेषानङ्गीकारे तत्प्रतिपादकशास्त्रविरोध इति चेदुच्यते वृद्धप्रयोगानुसारादेतद्व्यतिरिक्तस्थले एवैकशेषप्राप्तिरिति तच्छास्त्रस्य सङ्कोचः कल्पनीय इति भावः । पूर्वव्याख्याने युष्मदस्मच्छब्दयोः बह्वर्थकत्वाद्यूयमिति प्रत्यय इति विग्रहः अस्मिन् व्याख्याने चिज्जडमात्रलक्षकत्वेन त्वमिति प्रत्यय इति विग्रहभेदो द्रष्टव्यः । अयं विग्रहः अस्मत्प्रत्ययगोचर इत्यादिभाष्यव्याख्यानावसरे स्फुटीक्रियते । प्रयोगसाधुत्वसाधनप्रकारभेदस्तु स्फुट एव । यष्मच्छब्दोल्लिख्यमानप्रत्ययविषयत्वमित्यर्थपर्यवसानेन व्यवहारतो विरोधो युष्मदस्मच्छब्दतश्च विरोधो दर्शित इत्यनवद्यम् । नन्वस्मिन् व्याख्याने भाष्ये कथं विग्रह इति । उच्यते । युष्मदस्मत्पदयोरेकार्थवाचित्वाद्युष्मच्चास्मच्चेति विग्रहः साधुर्भवति लक्षकत्वादेव त्वमादेशाप्राप्तिश्च, तथा च युष्मच्चास्मच्च युष्मदस्मदीय इति प्रत्ययौ युष्मदस्मत्प्रत्ययौ तयोर्गोचराविति विग्रहः । तथा चात्र युष्मत्प्रत्यय इत्यस्यार्थबोधकत्वं त्वमिति प्रत्यय इति वाक्यान्तरम् अस्मत्प्रत्ययस्याहमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरमिति वेदितव्यम् । अथवा युष्मदस्मच्छब्दयोरुल्लेखिनि लक्षणामङ्गीकृत्य स्वव्याख्यानविग्रहानुसारेणैव विग्रहो योजनीय इति रहस्यम् ।
मतद्वयेति युष्मत्पदस्य पूर्वप्रयोग एव हेतुरिति प्रतिपाद्य हेत्वन्तरं प्रतिपादयितुं मतान्तरमुत्थापयति –
वृद्धास्त्विति ।
पूर्वप्रयोगे अध्यारोपापवादन्याय एव मूलमिति भावः ।
पूर्वसङ्ग्रहेण प्रतिज्ञातं त्रिधा विरोधं विवृणोति –
तत्रेति ।
वृद्धमत इत्यर्थः । युष्मदस्मत्पदाभ्यामुक्तो विरोधो वस्तुतो विरोध इत्यन्वयः । पराक्प्रत्यग्भावतः उक्तो विरोधः यः सः वस्तुतो विरोध इत्यर्थः । पदाभ्यामिति प्रयोगस्वारस्याद्युष्मदस्मच्छब्दतोपि विरोधोऽस्तीति वेदितव्यम् । प्रत्ययपदन प्रकाश्यप्रकाशत्वतः उक्तो विरोधः प्रतीतितो विरोध इत्यर्थः । गोचरपदेन परस्परभिन्नज्ञानविषयत्वतः उक्तो विरोधः व्यवहारतो विरोध इत्यर्थः ।
पूर्ववद्युष्मच्छब्दोल्लेखिनी लक्षणा न स्वीकर्तव्या शब्दलक्षकत्वं तु स्वीकर्तव्यमित्यभिप्रेत्य वृद्धाभिमतविग्रहमुपपादयति –
युष्मच्चेति ।
ननु त्वं चाहं चेति विग्रहे वक्तव्ये युष्मच्चास्मच्चेति विग्रहः कथमिति चेन्न । शब्दलक्षकत्वादेव युष्मदस्मत्पदयोस्त्वमादेशस्याप्राप्तत्वात् यथा ’युष्मदस्मदोः षष्ठी चतुर्थी’ति सूत्रे शब्दलक्षकत्वेन त्वमादेशाप्राप्त्या युष्मच्चास्मच्चेति विग्रहस्तद्वत् , तथा च प्रत्ययश्च प्रत्ययश्च प्रत्ययौ गोचरश्च गोचरश्च गोचराविति विग्रहं सिद्धवत्कृत्य कर्मधारयसमासं ज्ञापयतीति भावः ।
ननु युष्मदस्मदी च तौ प्रत्ययौ चेति कथं कर्मधारयः उभयोर्लिङ्गव्यत्ययवत्त्वादिति चेन्न । युष्मच्चास्मच्चेति नित्यनपुंसकमितरन्नित्यपुल्लिङ्गमित्यदोषादिति ज्ञेयम् । मतत्रयपरिष्कृतार्थेन साधितार्थैकदेशशङ्कानिरासप्रतिपादकत्वेन विषयविषयिणोरिति भाष्यं व्याख्यातुकामः शङ्कावताराय प्रथममर्थकथनद्वारा भाष्यान्वयमाविष्करोति –
त्रिधेति ।
आत्मानात्मनोरिति शेषः । असम्भवोनुपपत्तिशब्दार्थः धर्मितादात्म्याद्यभावे सिद्धे सतीति भावः ।
शुक्ल इति ।
सिद्धान्ते शुक्लगुणतादात्म्यापन्नो घट इति शुक्लगुणघटयोः विरुद्धयोस्तादात्म्याङ्गीकारवदित्यर्थः ।
यत्र विरुद्धयोस्तादात्म्यं तत्र प्रकाशमप्रकाशकत्वाभाव इति व्याप्तिरनुभवसिद्धा यथा शुक्लो घटः तथा च प्रकृते व्यापकाभावाद्व्याप्याभाव इत्याह –
चिदिति ।
वृद्धमत एव तत्प्रकृतविग्रहान्तरमुपपादयति –
यष्मदिति ।
प्रत्यगात्मा प्रत्ययस्वरूपः गोचरस्वरूपः परागिति व्युत्क्रमेण विवेकः प्रत्ययश्च गोचरश्च प्रत्ययगोचरौ युष्मदस्मदी च तौ प्रत्ययगोचरौ च युष्मदस्मत्प्रत्ययगोचरौ तयोरिति विग्रहो द्रष्टव्यः ।
एतद्विग्रहप्रतिपादितेऽर्थे पुनर्विषयविषयिणोरिति भाष्यं योजयति –
अत्र प्रत्ययेति ।
अव्यवहितविग्रहः सप्तम्या परामृश्यते -
अचित्व इति ।
स्वस्येति पदस्याप्रत्यक्षत्वापत्तेरित्यनेनाप्यन्वयः । एकस्य स्वस्य ज्ञानविषयत्वरूपं कर्मत्वं तज्ज्ञानाश्रयत्वरूपं कर्तृत्वं च विरुद्धमिति भावः ।
विषयित्वचिदचित्वप्रत्यक्त्वानां समव्याप्तत्वात्परस्परहेतुहेतुमद्भाव इत्यभिप्रेत्याह –
यथेष्टमिति ।
अतः मतत्रयेण विग्रहचतुष्टयं प्रयोगसाधुत्वं च दर्शितम् विग्रहत्रयनिरूपणानन्तरमुक्तविरोधानुवादपूर्वकं भाष्यान्वयो दर्शितः इदानीमव्यवहितविग्रहोक्तविरोधप्रतिपादनद्वारा वृत्तं कथयन् शङ्कापूर्वकमुत्तरभाष्यमवतारयति –
नन्विति ।
विषयविषयिणोरित्यनेन द्वितीयविशेषणेन प्रतिपादितमर्थं ज्ञापयति –
ग्राह्येति ।
ऐक्यं नामात्यन्ताभेदः भेदसहिष्णुरभेदस्तादात्म्यमिति विवेकः ।
तदिति ।
ऐक्यप्रमाया अभावेन तज्जन्यसंस्काररूपकारणाभावादध्यासाभावेपीत्यर्थः । तयोरात्मानात्मनोर्धर्माणामित्यर्थः । चैतन्यं सुखं च आत्मनो धर्मः जाड्यं दुःखं च अनात्मनो धर्म इति विवेकः । सुखादेरात्मनः स्वरूपत्वेपि धर्मत्वेन व्यपदेशस्त्वौपचारिक इति भावः । विनिमयेन व्यत्यासेनेत्यर्थः । इत्यत आहेति इतिशब्दः शङ्कार्थकः ; अतःशब्दो हेत्वर्थकः, आहेत्यनेन परिहारमाहत्युच्यते यथा चैवंरूपा शङ्का यतः कारणात्प्राप्ता अतः कारणात् परिहारमाहेति पदत्रयपरिष्कृतार्थः । एवं सर्वत्र ।
संसर्ग इति ।
प्रकृते ह्याधाराधेयभावरूपस्तादात्म्यैकदेशः संसर्ग इत्यर्थः । अनुपपत्तिरसम्भव इत्यर्थः । धर्म्यन्तरे हीतरधर्मसंसर्गो नास्तीति भावः ।
उत्तरभाष्यार्थे पूर्वभाष्यार्थो हेतुरिति ज्ञापयन् आत्मन्यनात्मधर्मसंसर्गानुपपत्तौ अनात्मन्यात्मधर्मसंसर्गानुपपत्तौ च धर्मसंसर्गाभावो हेतुस्तमुपपादयति –
नहीति ।
संसर्गं विना तादात्म्यरूपसम्बन्धं विनेत्यर्थः । विनिमयः व्यत्यासेनाधाराधेयभावरूपसंसर्ग इत्यर्थः ।
ननु धर्मसंसर्गं प्रति धर्मिसंसर्गो हेतुश्चेत्तर्हि धर्मिणोः स्फटिकजपाकुसुमयोः संसर्गाभावेनौपाधिकलौहित्यधर्मसंसर्गाभावात् स्फटिके लौहित्यमस्तीत्यध्यासात्मकग्रहो न स्यादित्यत आह –
स्फटिक इति ।
लोहितं वस्तु जपाकुसुमादि तस्य सान्निध्यं परम्परासम्बन्धः तस्मादित्यर्थः, तथा च क्वचित्साक्षात् क्वचित्परम्परया धर्मिसंसर्गो हेतुः प्रकृते परम्परया धर्मिसम्बन्धसम्भवाद्भ्रमात्मकग्रहोपपत्तिरिति भावः ।
ननु तर्ह्यात्मनात्मनोर्विरोधात्साक्षात् सम्बन्धाभावेपि स्फटिकजपाकुसुमवत् परम्परासम्बन्धोऽस्तु तेन धर्मसंसर्गः स्यादित्यत आह –
असङ्गेति ।
केनापि वस्तुना सह सम्बन्धाभावादित्यर्थः ।
असङ्गत्वादेव परम्पराधर्मिसंसर्गहेतुकधर्मसङ्गोपि नास्तीति यदुक्तं तद्भाष्यारूढं करोति –
इत्यभिप्रेत्येति ।
लोके शुक्ताविदमित्यादि नहि तदस्तीत्यन्तेन स्वप्रतिपादितेन ग्रन्थेनोक्तं हेतुं भाष्यारूढं कर्त्तुमिच्छन्नाक्षेपसमाधानाभ्यामुत्तरभाष्यमवतारयते –
नन्विति ।
वास्तवतादात्म्याद्यभावेप्याध्यासिकतादात्म्यादिकमादायाध्यासस्सम्भवत्येवेति सिद्धान्तिनः शङ्कितुरभिप्रायः ।
भाष्योक्तस्य इत्यतः पदद्वयस्य प्रतीकमादायार्थप्रतिपादनपूर्वकं व्यवहितेनान्वयं वक्तुमारभते –
इत्युक्तेति ।
उक्तरीतिमेव विवृणोति –
तादात्म्येति ।
वास्तवतादात्म्याभावेनेत्यर्थः ।
मिथ्येति ।
नास्तीत्यर्थः । तथा च कारणाभावादध्यसो नास्तीति वक्तुं युक्तमिति भावः ।
अनिर्वचनीयतेति ।
तत्त्वान्यत्त्वाभ्यां निर्वक्तुमशक्यतेत्यर्थः ।
अपह्नवार्थक इति ।
अभावार्थक इत्यर्थः । अपह्नूयते निरस्यत इत्यर्थः ।
आश्रमश्रीचरणव्याख्यानमनुसृत्य पदानामर्थं कथयन् प्रयोजनमाह –
अहमित्यादिना ।
स्वव्याख्यानानुरोधेन भाष्यपदयोजनां परित्यज्य एतद्व्याख्यानानुरोधेन योजनापि युक्तैव स्वव्याख्यानेनैतद्व्याख्यानयोरीषद्भेदस्याकिञ्चित्करत्वात् , तथाच स्वव्याख्यानानुरोधेन योजनाप्युक्तप्रायैवेति विभावनीयम् । अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्ति तथा च बुद्ध्यादौ बुद्ध्यादेरध्यासो निरस्यत इत्यर्थो लभ्यते नात्मनीति मत्वेत्यर्थः ।
ननु चिदात्मकत्वमहमिति भासमानस्य विशिष्टस्याप्यस्तीत्याशङ्क्य निषेधति –
अहमितीति ।
जडांशमविवक्षित्वा चिदंशमात्रं विवक्षितमिति भावः ।
त्वङ्कारेति ।
त्वमिति प्रत्यययोग्यस्य बुध्यादेरित्यर्थः ।
नन्वहमिति ।
यत्रेदमर्थत्वं तत्र वृत्तिरूपप्रत्यक्षविषयत्वमिति व्याप्तिर्घटादौ प्रसिद्धा, तथा च बुध्यादावहमिति भासमाने व्यापकाभवाद्व्याप्याभाव इति शङ्कितुरभिप्रायः ।
ननु शङ्कायाः कः परिहार इत्याशङ्क्य यत्र साक्षिभास्यत्वं तत्रेदमर्थत्वमिति व्याप्तिः घटदावेव अनुभवसिद्धेति साक्षिभास्यत्वरूपहेतुना बुद्ध्यादेरिदमर्थत्वमस्तीत्याह –
साक्षिभास्यत्वेति ।
लक्षणयोगाद्गुणयोगादित्यर्थः । हेतोः सत्त्वादिति यावत् । घटादेरिव साक्षिभास्यत्वरूपहेतुना बुद्ध्यादेरपीदमर्थत्वमस्ति, तथाचात्रैव बुद्धौ व्यभिचाराद्भवदुक्तव्याप्तिरप्रयोजकेति भावः ।
यद्यपि यत्र प्रत्यक्षविषयत्वं तत्रेदमर्थत्वमिति व्याप्तिरपि घटादावनुभवसिद्धा तथापि प्रकृते न सम्भवतीत्याह -
न प्रतिभासत इति ।
प्रतिभासतः प्रत्यक्षेणेत्यर्थः । बुद्ध्यादेर्घटादिवदिदमर्थत्वमित्यात्रानुषङ्गः, तथाचाहमिति भासत्वात् बुद्ध्यादेरिव वृत्तिरूपप्रत्यक्षेणेदमर्थत्वं नास्तीति भावः ।
वृद्धमतोक्तं प्रथमविग्रहप्रतिपादितार्थशङ्कानिरासकत्वेन तदेव भाष्यं योजयितुं पुनस्तदवतारयति –
अथवेति ।
नास्वरसद्योतकं किन्तु मतान्तरमवलम्ब्य योजनाद्योतकमिति भावः ।
नन्विदं भाष्यं वृद्धमतोक्तं द्वितीयविग्रहप्रतिपादितार्थशङ्कानिरासप्रतिपादकत्वेन कुतो न व्याख्यायत इति चेन्न । प्रथमविग्रहप्रतिपादितार्थशङ्कानिरासकव्याख्यानेन एतस्य गतार्थत्वमित्यभिप्रायादिति मन्तव्यम् । आत्मा मुख्यप्रत्यक्त्वाद्यभाववान् अहमिति भासमानत्वादहङ्कारवदित्यनुमानप्रयोगः । अस्मच्चासौ प्रत्ययश्चास्मत्प्रत्ययः स चासौ गोचरश्चास्मत्प्रत्ययगोचर इति कर्मधारयं ज्ञापयति –
अस्मदिति ।
ननु प्रत्यक्त्वादिकं पुनः प्रतिज्ञातं किमेतावतानुमानस्य दूषणमित्याशङ्क्य भाष्यतात्पर्येणाहमिति भासमानत्वादिति हेतुं विकल्प्य स्वयं खण्डयति –
अहमिति ।
अहङ्कारवृत्त्या व्यङ्ग्यमभिव्यक्तं यत्स्फुरणतत्त्वमित्यर्थः । वृत्तेरावरणरूपप्रतिबन्धकनिवर्तकत्वमस्तीत्येतावता स्वप्रकाशचैतन्यस्यात्मनः वृत्तिकृताभिव्यक्तिश्चौपचारिकीति भावः ।
विषयत्वमिति ।
विषयविषयिणोरिति भाष्येणोक्तं विषयत्वमित्यर्थः । शब्दवत्त्वाच्छब्देन व्यवह्रियमाणत्वादित्यर्थः ।
शब्देन व्यवह्रियमाणत्वं नाम शब्दवाच्यत्वं शब्दलक्ष्यत्वं वेति विकल्प्य हेतुं स्वयं दूषयति वाच्यत्वमिति कल्पितत्वात् । यद्यपि विषयित्वं विशिष्टप्रमातृचैतन्यस्यैव न तु केवलाहङ्कारस्य तथापि विशिष्टे पर्याप्तं विषयित्वं अहङ्कारे विशेषेणेपि विद्यत इत्यभिप्रेत्याह –
देहमिति ।
अथवाऽहङ्कारे सत्येव चैतन्येऽपि विशिष्टे देहं जानामीति विषयिता तदभावे तदभावादित्यन्वयव्यतिरेकाभ्यां विशिष्टे प्राप्तं विषयित्वं पर्यवसानाद्विशेषणस्याहङ्कारस्यैवेत्यभिप्रेत्याह –
देहमिति ।
मनुष्यपदं देहविशेषणपरं, मनुष्यत्वं जातिविशेषः देहनिष्ठसंस्थानविशेषात्मकधर्मो वा, तद्विशिष्टस्य देहस्य चित्तादात्म्यापन्नाहङ्कारस्य च मनुष्योऽहमित्यभेदाध्यासवदित्यर्थः । यत्र विषयविषयित्वं तत्राभेदाध्यासाभावः यथा दीपघटवदित्युक्तनियमः अहङ्कारव्यतिरिक्त स्थल एवेति नियमस्य प्रथमापिशब्देन सङ्कोचः सूच्यत इति भावः ।
अल्पत्वं परिच्छिन्नत्वम् अध्यासे सादृश्यं हेतुः प्रकृते त्वात्मानात्मनोः पृथग्विशेषणद्वयेन सादृश्याभावमुपपादयन् फलितमाह –
चिदिति ।
अनवच्छिन्नत्वमपरिच्छिन्नत्वं व्यापकत्वमिति यावत् । अहङ्कारः मुख्यप्रत्यक्त्वादिमान् अहमिति भास्यत्वादात्मवदिति प्रयोगे अहमिति भास्यत्वं किं केवलाहमाकाराकारितवृत्तिभास्यत्वम् अहमाकाराकारितसाक्षिभास्यत्वं वेति विकल्प्य हेतुदूषणे भाष्याशयं स्फुटीकरोति अहंवृत्तीति भावप्रधानो निर्देशः परिणामरूपवृत्त्याश्रयत्ववृत्तिविषयत्वस्वरूपयोः कर्त्तृत्वकर्मत्वयोरेकस्याहङ्कारस्य विरोधादित्यर्थः । अथवा कर्तृकर्मणोः परस्परैक्यायोग्यत्वरूपविरोधस्य सत्त्वादित्यर्थः । अहङ्कारस्य साक्षिभास्यत्वं न चिद्व्यतिरिक्तवृत्तिभास्यत्वं अन्यथा कर्मकर्तृत्वविरोधः स्यादिति भावः । स्वप्रकाशात्मनि कर्मकर्तृत्वविरोधादेव न चिद्भास्यत्वमित्याह चिद्भास्यत्वमिति, प्रतिभासतः भ्रान्तिरूपप्रत्यक्षेणेत्यर्थः ।
अहङ्कारस्य मुख्यप्रत्यक्त्वादिकं निरस्य पराक्त्वादिकं साधयन् कर्मधारयं ज्ञापयति –
युष्मदिति ।
अहङ्कारः मुख्यपराक्त्ववान्प्रतीयमानत्वाद्गोचरत्वाद्वेति साधनीयम् ।
विषयो नाम बन्धहेतुरित्याह –
षिञ्बन्धन इति ।
स्फुरामीत्यनेनात्माध्यासः सुखीत्यनेनात्मधर्माध्यस इति विवेकः ।
इत्थम्भाव इति ।
वैशिष्ट्यं इत्यर्थः । प्रकृते वैशिष्ट्यं नामाभेदः । चैतन्यात्मनेति । चैतन्यात्मना स्थितस्येत्यर्थः । अध्यासस्य इति अतद्रूपे तद्रूपावभासोऽध्यासः स नास्तीति वक्तुं युक्तमिति भावः ।
सामग्रीकारणसमुदायः स नास्तीत्युपपादयति –
निरवयवेति ।
सादृश्यं द्विविधं अवयवसादृश्यं गुणसादृश्यं चेति, तथा च निरवयवत्वादवयवसादृश्यरूपनिर्गुणत्वाद्गुणसादृश्यरूपं च कारणमात्मनि नास्ति स्वप्रकाशत्वादज्ञानरूपकारणं चात्मनि नास्ति इति भावः । संस्कारो नास्तीत्यत्र पूर्वक्तहेतुरेव वेदितव्यः ।
निर्गुणत्वं धर्मराहित्यमिति मत्वा शङ्कते –
नन्विति ।
ज्ञानमित्यनेन प्रत्यक्षानुमित्यादिकमुच्यते स्फुरणमित्यनेन प्रत्यक्षं शुभकर्मेत्यनेन शुभकर्महेतुकमाधुर्यादिरसवस्तुभक्षणादिकमुच्यते विषयानुभव इत्यनेन प्रत्यक्षानुमित्यादिकं नित्यत्वमुत्पत्त्यादिराहित्यं शुद्धत्वादेरिदमुपलक्षणम् । अवभासन्त इत्यस्य तदुक्तमित्यनेनान्वयः । अन्तःकरणवृत्तिरूपोपाधिवशान्नानेवावभासन्त इत्यर्थः ।
अद्वैतमते अध्याससामग्र्यभावादहं स्फुरामीत्यादिस्थले ज्ञानाध्यासोऽर्थाध्यासश्च न सम्भवतीति तार्किकादिपूर्वपक्षितात्पर्यमध्यासाक्षेपोपसंहारव्याजेनाविष्करोति –
अत इति ।
प्रतीतेः प्रमात्वं यथार्थानुभवत्वमर्थस्य प्रमात्वं त्वबाधितत्वमिति भेदः प्रमात्वमित्यस्योत्तरेणेतिशब्देनान्वयः ।
नन्वध्यासाङ्गीकारे एकविभक्त्यवरुद्धत्वे सत्येकार्थबोधकत्वरूपस्याहं नर इति पदयोः सामानाधिकरण्यस्य प्रयोगः कथमित्याशङ्क्य नीलो घट इत्यत्र नीलगुणाश्रयो घट इतिवन्नरत्वविशिष्टदेहसम्बन्ध्यहमित्यात्मीयत्वरूपगुणयोगात् गौणोऽयं सामानाधिकरण्यप्रयोग इति पूर्वपक्षितात्पर्यमाह –
अहं नर इति ।
नरपदं नरत्वविशिष्टदेहपरं नरत्वमवयवसंस्थानरूपधर्मविशेषः ब्रह्मात्मत्वमते प्रमात्वं गौणत्वं चावश्यं वक्तव्यमिति मतमास्थेयं स्थितमिति भावः ।
व्यवहितवृत्तावनुवादपूर्वकं परमतमुपसंहरति –
तथा चेति ।
नारम्भणीयमिति न विचारणीयमित्यर्थः । पूजितोपि वेदान्तविचारो न कर्तव्य इति भावः । वस्तुतः प्रतीतितो व्यवहारतः शब्दतश्चेति चतुर्विधप्रयुक्ताद्ग्राह्यग्राहकत्वप्रयुक्तत्वाच्च परस्परैक्याद्ययोगत्वरूपविरोधात्तमःप्रकाशवदात्मानात्मनोर्धर्मिणोर्वास्तवतादात्म्याद्यभावे न धर्मसंसर्गाभाव इति तत्प्रमायासम्भवेन तज्जन्यसंस्कारस्याध्यासहेतोरसम्भवादतद्रूपे तद्रूपावभासरूपोऽध्यासो नास्ति, तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद्बद्धमुक्तयोः जीवब्रह्मणोरैक्यायोगेन विषयाभावाच्छास्त्रं नारम्भणीयमित्यध्यासपूर्वपक्षभाष्यतात्पर्यमिति सुधीभिर्विभावनीयम् ।
आत्मानात्मनोर्वास्तवैक्यादौ युक्त्यभावादेवानुभवसिद्धाध्यासापलापे अनुभवसिद्धघटादिपदार्थानामपलापप्रसङ्गस्तथा च शून्यमतप्रवेशः स्यादित्यतोऽनुभवसिद्धत्वाद्वास्तवैक्याभावेपि सामग्रीसत्त्वाच्च अध्यासोऽस्तीति विषयादिसम्भवेन शास्त्रारम्भो युक्त इति सिद्धान्तयितुं पूर्वपक्षस्य दौर्बल्यं विवृणोति –
तथाहीति ।
अङ्गीकारार्थकेन तथापि इत्यनेनैवाद्यपक्षे परिहारो वेदितव्यः ।
आदाविति ।
युष्मदस्मदित्यादिभाष्यस्यादावित्यर्थः ।
अर्थक्रमस्य पाठ्यक्रमापेक्षया प्रबलत्वादर्थक्रममनुसृत्य क्रमेण पदान्यवतारयति –
नेत्यादना ।
अयमिति ।
प्रत्यक्षात्मकानुभवसिद्ध इत्यर्थः । अयमित्यनेनैव द्वितीयकल्पपरिहारो द्रष्टव्यः । प्रत्यक्षानुभवादिति । साक्षिरूपप्रत्यक्षानुभवविषयत्वादित्यर्थः । अहमज्ञ इत्यादिवृत्तिरूपस्यानुभवस्य भ्रमस्वरूपत्वादध्यासः सिद्धः । सिद्धे वृत्तिस्वरूपे अध्यासे साक्ष्यात्मकभानसत्त्वादभानमयुक्तं वृत्तीनां साक्षिभास्यत्वनियमादिति भावः ।
जीवात्मनि कर्तृत्वादिकं वास्तवमेवेत्याशङ्क्य निषेधति –
न चेत्यादिना ।
अहं कर्त्तेत्यादिप्रत्यक्षं कर्तृत्वादिमदात्मविशेष्यककर्तृत्वादिप्रकारकत्वात् प्रमात्मकमेव नाध्यासात्मकमतोऽध्यासो नानुभवसिद्ध इत्यर्थः । विशेषणद्वयेन तत्त्वमस्यादिवाक्यस्याप्रामाण्यान्यपरत्वयोर्निरासः क्रियते । “उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये “ इति श्लोकोक्तोपक्रमादिपदेन ग्राह्यम् उपक्रमोपसंहारावेव लिङ्गम् । बोधनेन ज्ञानेनेत्यर्थः । व्यधिकरणीयं तृतीया तथा च जीवस्याकर्तृब्रह्मबोधकागमवाक्यजन्यज्ञानेनाहं कर्तेत्यादिप्रत्यक्षस्य भ्रमत्वनिश्चयादध्याससिद्धिरिति भावः ।
प्रसङ्गमेवोपपादयति –
मनुष्य इति ।
तस्मादिति ।
देहात्मवादप्रसङ्गादित्यर्थः । देहात्मवादप्रसङ्गादुभयवादिसिद्धस्य मनुष्योहमिति सामानाधिकरण्यप्रत्यक्षस्य यथा भ्रमत्वं तथा अहं कर्तेत्यादिप्रत्यक्षस्यापि भ्रमत्वमास्थेयमिति भ्रमस्वरूपत्वेन सिद्धस्याध्यासस्य साक्षिप्रत्यक्षात्मकभानसम्भवादभानमयक्तमिति भावः ।
ज्ञानप्रत्यक्षनिष्ठं ज्येष्ठत्वमविवक्षित्वा प्रत्यक्षस्य प्राबल्याभावः साधितः सम्प्रति ज्येष्ठत्वं विवक्षित्वा प्राबल्याभावं साधयति –
किञ्चेति ।
पूर्वभावित्वं पूर्वकालवृत्तित्वम् उपजीव्यत्वं हेतुत्वं प्रत्यक्षस्य व्यावहारिकप्रामात्वेनैवोपजीव्यता न तात्विकप्रमात्वेनेति तात्विकप्रमात्वांशस्य ’नेह नानास्ति किञ्चने’त्याद्यागमेन बाधसम्भवान्न तस्य प्राबल्यमिति दूषयति –
न द्वितीय इति ।
आगमज्ञानोत्पत्तौ आगमरूपशब्दविषकज्ञानजन्याकर्तृब्रह्मविषयकशाब्दबोधोत्पत्तावित्यर्थः । प्रत्यक्षादिमूलः वाक्यप्रयोगादिरूपेण वृद्धव्यवहारेण जन्यः यः सङ्गतिग्रहः शक्तिज्ञानं तद्द्वारा या शब्दोपलब्धिस्तद्द्वारा चेत्यर्थः । तथा च उत्तमवृद्धः गामानयेति वाक्यं प्रयुङ्क्ते तद्वाक्यश्रोता मध्यमवृद्धः गवानयने प्रवर्तते तां प्रवृत्तिं पश्यतः व्युत्पित्सोर्बालस्य तदा अस्य पदस्यास्मिन्नर्थे शक्तिरित्यादिशक्तिग्रहो जायते तेनानन्तरं पदार्थज्ञानादिद्वारा तस्य बालस्य शाब्दबोधो भवति तस्मिन् शाब्दबोधे शक्तिज्ञानादिद्वारा श्रवणप्रत्यक्षादेरुपजीव्यत्वमस्तीति भावः । व्यावहारिकं यावद्ब्रह्मज्ञानं न जायते तावदबाधितं प्रामाण्यं प्रमात्वं यस्य प्रत्यक्षस्य तत्तस्येत्यर्थः । तात्विकं पारमार्थिकं प्रामाण्यं प्रमात्वं यस्य तत्तस्येत्यर्थः । अनपेक्षितत्वादनुपजीव्यत्वादित्यर्थः ।
ननु धर्मिरूपप्रत्यक्षस्य उपजीव्यस्य धर्मभेदेनानुपजीव्यत्वेप्यागमबाधितत्वेनोपजीव्यविरोधो दुर्वार इत्याशङ्कायां धर्मिनिषेधे तावदागमस्य तात्पर्याभावाद्धर्मस्यैव बाध इत्याह –
अनपेक्षितांशस्येति ।
अनवच्छेदकतात्विकप्रमात्वरूपधर्मस्येत्यर्थः । आगमेन – नेह नानास्ति किञ्चनेत्यागमेनेत्यर्थः । व्यावहारिकप्रमात्वस्यातिरिक्तवृत्तित्वेप्युपजीव्यतावच्छेदकत्वमितरनिवर्तकत्वरूपमौपचारिकमिति भावः ।
अथवा प्रत्यक्षकारणं व्यावहारिकप्रमात्वं तु सहकारिकारणम् , तथा च तयोरागमेन बाधो नास्ति किन्तु तात्विकप्रमात्वबाधस्ततो नोपजीव्यविरोधो न प्राबल्यं चेति दूषयति –
न द्वितीय इति ।
षष्ठीद्वयं प्रत्यक्षादेर्न विशेषणं बहुव्रीहिरपि पूर्ववन्नाश्रयणीयः । उपजीव्यत्वेपीति प्रत्यक्षादिनिष्ठव्यावहारिकप्रमात्वस्य सहकारिकारणत्वसत्त्वेपीति भावः । अनपेक्षितत्वादसहकारित्वादित्यर्थः ।
तर्हि कस्य बाध इत्यत आह –
अनपेक्षितेति ।
असहकारिधर्मस्येत्यर्थः । एतदुक्तं भवति । उपजीव्ये वर्णपदवाक्यानां श्रवणप्रत्यक्षे वेदान्त्यभिमतव्यावहारिकप्रमात्वांश एकः पूर्ववाद्यभिमततात्विकप्रमात्वांशश्चेत्यंशद्वयं वर्तते तत्र शाब्दबोधस्योत्पत्त्यर्थं व्यावहारिकप्रमात्वांशमेवापेक्षते यावद्ब्रह्मज्ञानं न जायते तावद्व्यावहारिकसत्यत्वेन प्रत्यक्षादिपदार्थानां सद्भावाभावे स्वोत्पत्त्यसम्भवादतो नापेक्षितांश एव आगमेन बाध्यते तत्रैव श्रुतेस्तात्पर्यादिति । तथा च प्रत्यक्षस्य पारमार्थिकस्वरूपबाधापेक्षया भ्रमत्वं अहं कर्ता भोक्ताहमिति आत्मविशेष्यकानात्मनिष्ठकर्तृत्वादिधर्माध्यासरूपं ज्ञानं धर्म्यध्यासमन्तरा न सम्भवतीति धर्मिणोरात्मानात्मनोरध्यासोऽनुभवसिद्ध इत्यनवद्यम् ।
नामरूपादिति ।
बन्धादित्यर्थः ।
सत्यस्येति ।
सत्यस्य कर्तृत्वादिबन्धस्येत्यर्थः ।
यज्ज्ञानमात्रनिवर्त्यं तदसत्यमिति शुक्तिरजतादिस्थले क्लृप्तनियमभङ्गः स्यादिति दूषयति –
तन्नेति ।
यत्सत्यं तत्कस्मादपि निवृत्तिरहितं यथात्मवदिति व्याप्तिविरोधोपि तव मते स्यादिति दूषणान्तरमाह –
सत्यस्य चेति ।
श्रुतेर्बोधकत्वमङ्गीकृत्य व्याप्तिद्वयविरोधो दर्शितः व्याप्तिद्वयविरोधादेव संप्रत्यङ्गीकारं त्यजति –
अयोग्यतेति ।
योग्यता ह्यर्थाबाधः तद्भिन्ना तु अयोग्यतेत्यर्थः । सत्यबन्धस्य या ज्ञानान्निवृत्तिस्तस्याः यद्बोधकत्वं श्रुतिनिष्ठं तदयोगादित्यर्थः । आदौ विषयत्वं षष्ठ्यर्थः श्रुतिनिष्ठस्य निवृत्तिविषयकबोधजनकत्वस्यायोगादिति फलितार्थः । निवृत्तिश्रुतेरिति पाठान्तरम् । तत्र निवृत्तिप्रतिपादकश्रुतेः बोधकत्वायोगादित्यर्थः । यदि कर्तृत्वादिबन्धः सत्यः स्यात्तर्हि ब्रह्मण इव सत्यबन्धस्यापि ज्ञानमात्रान्निवृत्तिरयोग्येति ज्ञानमात्रजन्यसत्यबन्धनिवृत्तिरूपश्रुत्यर्थे तावदयोग्यताविषयकनिश्चये सति निवृत्तिबोधकत्वं तथा विद्वानित्यादिश्रुतेरयुक्तं दृष्टान्ते ज्योतिष्टोमश्रुतेस्तु अपूर्वद्वारवर्णनेन योग्यतानिश्चयसत्त्वाद्बोधकत्वं युज्यत इति भावः ।
ननु पापकर्म किमसत्यं सत्यं वा ? नाद्यः, तन्नाशार्थं सेतुर्दर्शनादौ प्रयत्नो न स्यात् , द्वितीये यत्सत्यं तज्ज्ञानान्निवृत्तिं प्राप्तुं योग्यं तथा पापकर्मेऽति व्याप्त्या श्रुत्यर्थेऽपि योग्यतानिश्चयोस्तीत्याशङ्क्य दृष्टान्तवैषम्येण परिहरति –
न चेत्यादिना ।
तस्य पापस्येति ।
यद्यपि पापकर्म सत्यं तथापि श्रद्धानियमादिसापेक्षज्ञाननिवर्त्त्यमेव न तु ज्ञानमात्रनिवर्त्यं, बन्धस्तु ज्ञानमात्रनिवर्त्यत्वेन शुक्तिरजतादिवदसत्य एवेत्ययोग्यतानिश्चयो दुर्वार इति भावः । एतेन नियमाप्रविष्टमात्रपदव्यावर्त्यं दर्शितम् । पापकर्मणः उभयवाद्यभिमतं सत्यत्वं नाम व्यवहारकाले बाधशून्यत्वं व्यवहारयोग्यत्वेन विद्यमानत्वं वा ।
बन्धस्य ज्ञानमात्रनिवर्त्यत्वे श्रुतिं प्रमाणयति –
बन्धस्य चेति ।
श्रौतं तथा विद्वानित्यादिश्रुत्या प्रतिपादितं यज्ज्ञाननिवर्त्यत्वं ज्ञानजन्यबन्धनिवृत्तिरूपं तन्निर्वाहार्थं तस्मिन् श्रुत्यर्थे योग्यतानिश्चयार्थमित्यर्थः ।
ज्ञानैकनिवर्त्यस्य बन्धस्य सामान्यतः सत्यत्वं दूषितमिदानीं विकल्प्य दूषयति –
किञ्चेति ।
किं सत्यत्वमज्ञानाजन्यत्वं स्वाधिष्ठाने स्वाभावशून्यत्वं वा ब्रह्मवद्बाधायोग्यत्वं व्यवहारकाले बाधशून्यत्वं वा ? नाद्य इत्याह –
नेति ।
सत्ये ब्रह्मण्यज्ञानाजन्यत्वं प्रसिद्धमिति लक्षणसमन्बयः । एवं सर्वत्र । प्रकृतिमिति । जगदुपादानमित्यर्थः ।
श्रुत्या बन्धस्य मायाजन्यत्वमुच्यते नाज्ञानजन्यत्वमतो नाज्ञानजन्यत्वे श्रुतिविरोध इत्याशङ्क्याज्ञानमविद्या माया चेति पर्याय इत्यज्ञानजन्यत्वप्रतिपादकश्रुतिविरोधो दुर्वार इति परिहरति –
मायेति ।
न द्वितीय इत्याह –
नापीति ।
स्वशब्देन बन्धो ग्राह्यः बन्धाधिष्ठाने ब्रह्मणि बन्धाभावेन शून्यत्वं अवृत्तित्वमित्यर्थः । बन्धः स्वभावेन सह ब्रह्मणि वृत्तिमान् भवतीति भावः । अनेन स्वाधिष्ठानवृत्त्यभावाप्रतियोगित्वं सत्यत्वमिति लक्षणमुक्तं भवति । तस्यार्थः बन्धाधिष्ठानवृत्तिर्य अभावः न तु बन्धाभावः किं त्वन्याभावः तत्प्रतियोगित्वं बन्धेऽस्तीति । यदि ब्रह्मणि जगद्रूपो बन्धस्तदा तेन स्थूलत्वं धर्मत्वं च स्यात्तथा च निर्धर्मिकत्वास्थूलत्वादिप्रतिपादिकास्थूलमित्यादिश्रुतिविरोधः ।
किं च यदि ब्रह्मणि बन्धाभावो नास्ति तदा अस्थूलमित्यादिश्रुतेः बन्धाभावप्रतिपादनेपि तात्पर्यात्तद्विरोध इत्याह –
अस्थूलमित्यादीति ।
यद्यपि सिद्धान्ते ब्रह्मण्येव बन्धस्तथापि तस्याध्यस्तत्वेन श्रुतिविरोध इति भावः ।
तृतीये विरोधमाह –
नापि ब्रह्मवदिति ।
चरमे पक्षे तु मन्मतप्रविष्टोसीत्याह –
अथेति ।
’आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथेति’ न्यायेन व्यावहारिकसत्यत्वाध्यस्तत्वयोर्न विरोध इति भावः ।
ननु विरोधाभावेन आगतेप्यध्यस्तत्वे प्रयोजनाभावात्किं तद्वर्णनेनेत्यत आह –
तच्चेति ।
यदि बन्धस्याध्यस्तत्वमङ्गीक्रियते तथैव ज्ञानमात्रजन्यबन्धनिवृत्तिरूपश्रुत्यर्थे यदि बन्धः सत्यः स्यात् ज्ञानमात्रान्निवर्तितुमयोग्यः स्यादित्येतादृशतर्कादिना बाधो नास्तीत्यर्थाबाधात्मकयोग्यतानिश्चयः सम्पद्यतेऽतः तन्निश्चयार्थमध्यासो वर्णनीय इति न तद्वर्णनं व्यर्थमिति भावः ।
अध्यस्तत्वस्य व्यापारत्वरूपद्वारत्वासम्भवात् द्वारत्वं विहायाङ्गीकारांश एवात्र दृष्टान्तमाह –
अपूर्वेति ।
अपूर्वं द्वारं यस्य सोऽपूर्वद्वारो यागस्तस्य भावस्तस्त्वमपूर्वरूपद्वारं तद्वदित्यर्थः । यथा ज्योतिष्टोमादिश्रुत्यर्थः यो यागस्य स्वर्गहेतुत्वरूपः तद्योग्यताज्ञानायापूर्वमङ्गीकृतं तथाध्यस्यत्वमङ्गीकरणीयमिति भावः । नचेत्यादिग्रन्थस्त्वतिरोहितार्थः ।
ननु विषयादिसिद्ध्यर्थमादावेवाध्यासस्यावश्यकत्वेन आर्थिकार्थतया युक्त्या च वर्णितत्वात्पुनस्तदनन्यत्वाधिकरणे तद्वर्णनं पुनरुक्तमेवाधिकरणस्य गतार्थत्वादित्यत आह –
दिगिति ।
अयमाशयः । अधिकशङ्कानिरासार्थकत्वेन प्रवृत्तस्य तदधिकरणस्य न गतार्थता यतः सङ्ग्रहस्य विवरणमतो न पुनरुक्ततेत्यलमतिप्रसङ्गेन ।
लोकसहितो व्यवहारः लोकव्यवहारः इति मध्यमपदलोपसमासादेकवचनेऽपि द्वैविध्यं युक्तमेवेत्यभिप्रेत्य भाष्यमवतारयति –
अध्यासमिति ।
लोक्यते यः सः लोक इति कर्मव्युत्पत्त्या अर्थाध्यासपरत्वेन लोकपदं व्याचष्टे –
लोक्यत इति ।
मनुष्यपदं पूर्वं व्याख्यातम् ।
मनुष्योहमिति ।
देहाहङ्काराद्यर्थरूपः ज्ञानोपसर्जनोर्थाध्यास इत्यर्थः ।
ननु लोकपदस्य कर्मव्युत्पत्त्यङ्गीकारेण तत्साहचर्याद् व्यवहारपदस्यापि कर्मव्युत्पत्तिः स्यादित्याशङ्क्योभयोः कर्मपरत्वे पौनरुक्त्यान्न सम्भवतीत्याह –
तद्विषय इति ।
स एवार्थरूपाध्यासो विषयो यस्य ज्ञानरूपाध्यासस्य स तथेत्यर्थः ।
ननु व्यवहारशब्दस्याभिज्ञाभिवदनमर्थक्रिया चेति बह्वर्थसम्भवात्किमत्र विवक्षितमित्याशङ्क्याभिज्ञार्थकत्वमित्याह –
अभिमान इति ।
अर्थोपसर्जनः ज्ञानरूपोध्यासो ज्ञानाध्यास इत्यर्थः । इदं रजतमित्यत्र ज्ञानप्राधान्यविवक्षया ज्ञानाध्यासः अर्थप्राधान्यविवक्षया अर्थाध्यासश्च वेदितव्यः । एवं सर्वत्र ।
स्वरूपेति ।
स्वरूपं च तल्लक्षणं चेति कर्मधारयः । लक्षणादिभाष्यसिद्धमात्मानात्मनोरितरेतरविषयमविद्याख्यं द्विविधाध्यासस्वरूपमाहेत्यर्थः । लक्षणं द्विविधं स्वरूपलक्षणं व्यावर्तकलक्षणं चेति तत्र भाष्ये कण्ठोक्तिः स्वरूपलक्षणम् अस्त्येवेति ज्ञापयितुं स्वरूपलक्षणमित्युक्तम् । स्वरूपलक्षणेप्युक्ते तन्निष्ठमसाधारणधर्मस्वरूपं व्यावर्तकलक्षणमर्थात्सिध्यतीति भावः ।
धर्मधर्मिणोरिति भाष्ये धर्मश्च धर्मी चेति न द्वन्द्वसमासः किन्तु धर्माणां धर्मिणाविति षष्ठीतत्पुरुषसमास इति व्याचष्टे –
जाड्येति ।
चैतन्यं चेतनमित्यर्थः ।
धर्माणां यौ धर्मिणौ तयोरित्यनेन धर्मपदमनेकधर्मबोधकं धर्मिपदं धर्मिद्वयबोधकमिति ज्ञाप्यते अत्यन्तविविक्तयोर्धर्मधर्मिणोरितरेतराविवेकेनान्योन्यस्मिन् अन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य सत्यानृते मिथुनीकृत्य मिथ्याज्ञाननिमित्तोऽहमिदं ममेदमित्ययं लोकव्यवहारो नैसर्गिक इति पदयोजनामभिप्रेत्यावान्तरयोजनामर्थपूर्वकमाविष्करोति –
तयोरिति ।
अलक्ष्यत्वज्ञापनार्थं प्रमाया इत्युक्तम् ।
अतःशब्दार्थमाह –
तदिदमिति ।
अत्यन्तभेदाभावात् – धर्मिरूपव्यक्तिभेदाभावादित्यर्थः, तथा च सोऽयं देवदत्त इति प्रत्यभिज्ञारूपप्रमायामत्यन्तभिन्नयोर्धर्मिणोरन्योन्यस्मिन् अन्योन्यात्मकत्वावभासत्वरूपाध्यासव्यावर्तकलक्षणस्य नातिव्याप्तिस्तदिदमर्थयोरत्यन्तभिन्नत्वाभावादिति भावः । अन्योन्यस्मिन्नन्योन्यात्मकत्वाभासोऽध्यासस्वरूपलक्षणमिति समुदायग्रन्थार्थः ।
सिद्धेरिति ।
धर्माध्यासविशिष्टसामग्रीसत्त्वे कार्यावश्यम्भावाद्धर्माध्यासरूपकार्यसिद्धिरिति शङ्कितुरभिप्रायः । अन्धत्वं दोषविशेषविशिष्टत्वं वस्तुग्रहणायोग्यत्वं वा । धर्म्यध्यासास्फुटत्वेपीति । अहं चक्षुरिति प्रत्येकं धर्म्यध्यासस्यानुभवसिद्धत्वाभावेपीत्यर्थः । धर्माध्यासस्यानुभवसिद्धत्वाद्धर्म्यध्यासोऽनुमीयत इति भावः । अन्धोहमिति धर्माध्यासः धर्म्यध्यासपूर्वकः धर्माध्यासत्वात् स्थूलोहमिति धर्माध्यासवदिति प्रयोगः ।
नन्विति ।
आत्मानात्मनोरन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येत्यनेन परस्पराध्यस्तत्वमुक्तं भवति तच्च न सम्भवतीत्युभयोरसत्यत्वेन शून्यवादप्रसङ्गादिति भावः ।
सत्यानृतपदयोर्वचनपरतां व्यावर्तयति –
सत्यमित्यादिना ।
सत्यं कालत्रयबाधाभावोपलक्षितं वस्त्वित्यर्थः ।
तस्य ज्ञानकर्मत्वं व्यावर्तयति –
अनिदमिति ।
प्रत्यक्षाद्यविषय इति भावः ।
तत्र हेतुमाह –
चैतन्यमिति ।
संसर्गेति ।
तादात्म्येत्यर्थः, तथाचानात्मन्यात्मतादात्म्यमात्रमध्यस्यते नात्मस्वरूपमिति भावः । अपिशब्देनानात्मस्वरूपं तत्तादात्म्यं चाध्यस्यत इत्युच्यते । तयोः सत्यानृतयोः मिथुनीकरणं तादात्म्यादिकमेकबुद्धिविषयत्वं वा । अध्यासः अर्थाध्यास इत्यर्थः । आत्मनः संसृष्टत्वेनैवाध्यासः न स्वरूपेण अनात्मनस्तूभयथा तस्मान्न शून्यवादप्रसङ्गः इति भावः । ननु सत्यानृतयोर्मिथुनीकरणं कथं वादिनामसम्मतत्वात् ? अत्रोच्यते श्रुतिप्रामाण्यादिदं सिद्धान्तानुसारेण विभावनीयमिति ।
पूर्वकालत्वेनेति ।
पूर्वः कालो यस्य तथा तस्य भावः तथा च पूर्वकालवृत्तित्वेनेत्यर्थः ।
प्रत्यगिति ।
प्रत्यगात्मन्यध्यासप्रवाह इत्यन्वयः । आत्मनि कर्तृत्वभोक्तृत्वदोषसम्बन्ध एवाध्यासः अत्र वर्तमानभोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते ह्यकर्तुर्भोगाभावात् कर्तृत्वं च रागद्वेषसमन्धाध्यासमपेक्षते रागादिरहितस्य कर्तृत्वाभावात् रागद्वेषसम्बन्धश्च पूर्वभोक्तृत्वं अपेक्षते अनुपभुङ्क्ते रागाद्यनुपपत्तेः । एवं हेतुहेतुमद्भावेन प्रत्यगात्मन्यध्यासप्रवाहोऽनादिरिति भावः । सम्बन्धरूपस्य प्रवाहस्य सम्बन्धिव्यतिरेकेणाभावात् सम्बन्धिस्वरूपाणामध्यासव्यक्तीनां तु सादित्वाच्च नानादित्वमिति ।
नन्विति ।
अनादिकालत्वनिष्ठव्याप्यतानिरूपितव्यापकतावच्छेदकावच्छिन्नसम्बन्धप्रतियोगित्वम् अनादिकालत्वव्यापकसम्बन्धप्रतियोगित्वं कार्यानादित्वमिति सिद्धान्तयति उच्यत इति ।
कार्याध्यासस्य प्रवाहरूपेणानादित्वं व्यतिरेकमुखेनाविष्करोति –
अध्यासत्वेति ।
यत्रानादिकालत्वं तत्राध्यासत्वावच्छिन्नाध्यासव्यक्तिसम्बन्ध इति व्याप्यव्यापकभावोऽनुभवसिद्धः, व्यक्तिसम्बन्धो नाम व्यक्तिप्रतियोगिकसम्बन्धः, तथा च सम्बन्धप्रतियोगित्वं व्यक्तौ वर्तत इति लक्ष्ये लक्षणसमन्वयः । सुषुप्त्यादौ कर्त्तृत्वाद्यध्यासाभावेपि तत्संस्कारसत्वान्न व्याप्तेर्व्यभिचार इति भावः । विकल्पस्तृतीयपक्ष इत्यर्थः ।
एतच्छब्दार्थं हेतुं विवृणोति –
संस्कारस्येति ।
संस्काररूपनिमित्तकारणस्येत्यर्थः । संस्कारहेतुपूर्वाध्यासस्येदमुपलक्षणम् । तथा च संस्कारतद्धेत्वध्यासयोर्नैसर्गिकपदेनोक्तत्वाद्विकल्पो निरस्त इति भावः ।
लाघवेनेति ।
कारणतावच्छेदककोटौ यथार्थपदविशष्टप्रमापदं न निवेश्यते किन्तु भ्रमप्रमासाधारणानुभवपदं निवेश्यते ततोऽधिष्ठानसमान्यारोप्यविशेषयोरैक्यानुभवजनितसंस्कारत्वं कारणत्वं कारणतावच्छेदकमिति कारणतावच्छेदकलाघवेनेत्यर्थः । अथवा कारणशरीरलाघवेनेत्यर्थः ।
तत्राज्ञानमित्युक्ते ज्ञानाभावामात्रमित्युक्तं स्यान्मिथ्येत्युक्ते भ्रान्तिज्ञानमिति स्यात्तदुभयव्यावृत्त्या स्वाभिमतार्थसिद्धये कर्मधारयसमासं व्युत्पादयति –
मिथ्या च तदिति ।
मिथ्याज्ञानमनिर्वचनीया मिथ्येत्यर्थः ।
अजहल्लक्षणया निमित्तपदस्योपादानमप्यर्थ इत्याह –
तदुपादान इति ।
मिथ्याज्ञानोपादान इति वक्तव्ये सति मिथ्याज्ञाननिमित्त इत्युक्तिः किमर्थेत्यत आह –
अज्ञानस्येति ।
अहङ्काराध्यासकर्तुरस्मदाद्यहङ्काराध्यासकर्तुरित्यर्थः । इदमुपलक्षणमीश्वरस्य सर्वजगत्कर्तृत्वमुपाधिं विना न सम्भवतीति ईश्वरनिष्ठकर्तृत्वाद्युपाधित्वेनेत्यर्थः । संस्कारकालकर्मादीनि यानि निमित्तानि तत्परिणामित्वेनेति विग्रहः । अज्ञानस्य मायात्वेनोपादानत्वं दोषत्वेनेत्यादितृतीयात्रयेण निमित्तत्वमप्यस्तीति ज्ञापयितुं निमित्तपदमिति भावः ।
स्वप्रकाशे तमोरूपाऽविद्या कथम् असङ्गे ह्यविद्यायाः सङ्गश्च कथमित्यन्वयमभिप्रेत्याह –
स्वप्रकाशेति ।
शङ्कानिरासार्थं शङ्काद्वयनिरासार्थमित्यर्थः ।
प्रथमशङ्कां परिहरति –
प्रचण्डेति ।
स्वप्रकाशे दृष्टान्तसहितानुभवबलादस्त्येवाविद्या न स्वप्राकाशत्वहानिरपि, अनुभवस्य भ्रमत्वादिति भावः । पेचका उलूका इत्यर्थः ।
द्वितीयशङ्कां परिहरति –
कल्पितस्येति ।
कल्पितस्याधिष्ठानेन सह वास्तविकसम्बन्धरहितत्वादित्यर्थः । सम्बन्धस्याध्यासिकत्वादस्त्येवाविद्यासङ्गः तस्या वास्तविकत्वाभावेन नासङ्गत्वहानिरिति भावः ।
प्रथमशङ्कानिरासे युक्त्यन्तरमाह –
नित्येति ।
वृत्त्यारूढज्ञानमेवाज्ञानविरोधीति भावः ।
अथवा ज्ञानाज्ञानयोर्विरोधात्कथं ज्ञानरूपात्मन्यज्ञानमित्यत आह –
नित्येति च ।
च शब्दः शङ्कानिरासार्थः ।
तार्किकमतनिरासार्थं मिथ्यापदमित्याह –
यद्वेति ।
लक्ष्यांशशेषपूर्त्या लक्षणद्वयं योजयति –
मिथ्यात्वे सतीत्यादिना ।
अनिर्वचनीयत्वे सतीत्यर्थः । अथवा भावत्वे सतीत्यर्थः ।
अज्ञानपदेन विवक्षितमर्थमाह –
साक्षाज्ज्ञानेति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्प्रतिपादकं समासवक्यरूपं यत्पदं तेनेत्यर्थः । एतेन पदद्वयस्य सत्त्वात्पदेनेत्येकवचनानुपपत्तिरिति निरस्तं – पदस्य समासवाक्यरूपत्वेनाङ्गीकारात् ।
ज्ञानघटिता हि इच्छोत्पत्तिसामग्र्येव इच्छाप्राग्भावनाशहेतुः नत्विच्छेत्येकदेशिसिद्धान्तमनुवदन् पदकृत्यमाह –
ज्ञानेनेति ।
जानातीच्छति यतत इति न्यायेन ज्ञानानन्तरमिच्छा जायते ज्ञानेनैवेच्छा प्रागभावश्च नश्यतीति वदन्तं तार्किकैकदेशिनं प्रतीत्यर्थः । तथा चेच्छाप्रागभावे लक्षणस्यातिव्याप्तिस्तन्निरासार्थं मिथ्यापदमिति भावः । प्रथमव्याख्यानेन मिथ्यात्वमनिर्वचनीयत्वमज्ञानं नामाविद्या समासस्तु कर्मधारयः लक्ष्यांशस्य न शेषपूर्तिः तथा च मिथ्याज्ञानमित्यनेन भाष्येणाविद्यारूपाज्ञानस्यानिर्वचनीयत्वमक्षरारूढलक्षणमित्युक्तं भवतीति ज्ञापितम् ।
यद्वेति ।
द्वितीयव्याख्याने न मिथ्यात्वं भावत्वमज्ञानं नाम साक्षाज्ज्ञाननिवर्त्यं समासस्तु कर्मधारयः लक्ष्यांशशेषपूर्तिः तथा च भावत्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानलक्षणं तात्पर्येण मिथ्याज्ञानपदेन बोधितमिति दर्शितम् ।
इदानीं मिथ्यात्वं नाम ज्ञाननिवर्त्यत्वं अज्ञानं नामानाद्युपादानिति विवक्षया व्याख्यानान्तरमभिप्रेत्याज्ञानस्य लक्षणान्तरमाह –
अनादीति ।
यस्यादिरुत्पत्तिर्न विद्यते तदनादि, तथाचानादित्वे सत्युपादानत्वे सतीत्यर्थः । लक्षणं मिथ्याज्ञानपदेनोक्तमिति पूर्वेणान्वयः । अस्मिन्लक्षणे साक्षात्पदादिकं न निवेशनीयं बन्धेच्छाप्रागभावयोरतिव्याप्त्याभावादिति भावः ।
ब्रह्मनिरासार्थमिति ।
ब्रह्मण्यज्ञानलक्षणस्यातव्याप्तिनिरासार्थमित्यर्थः । एवमुत्तरत्र विज्ञेयम् ।
सर्वानुभवरूपप्रमाणेन अध्याससिद्धिमुक्त्वा शब्दप्रयोगरूपाभिलापेन चाध्याससिद्धिरिति भाष्याशयमुद्घाटयति –
सम्प्रतीति ।
ननु वियदाद्यध्यासः प्राथमिकत्वाद्भाष्ये प्रतिपादयितव्यः कथमहमिदमित्याद्यध्यासप्रतिपादनमित्यत आह –
आध्यात्मिकेति ।
आध्यात्मिककार्याध्यासाभिप्रायेण भाष्ये अहमिदमित्यादिद्वितीयाध्यासप्रतिपादनं, तथा च द्वितीयस्य प्रथमाकाङ्क्षित्वात् प्राथमिकाध्यासं भाष्यस्यार्थिकार्थस्वरूपं स्वयम् पूरयतीति भावः ।
नायमध्यास इति ।
इदं रजतमित्यत्र रजतस्याध्यस्तत्ववदहङ्कारस्याध्यस्तत्वे अधिष्ठानारोप्यांशद्वयं वक्तव्यं तच्च न सम्भवति अहमित्यत्र निरंशस्यैकस्य द्वैरूप्याननुभवादिति शङ्काग्रन्थार्थः । अयःशब्दार्थो लोहपिण्डः, अयो दहतीत्यत्राग्निरयःसम्पृक्ततयावभासते अयःपिण्डस्त्वग्निसंवलिततया, तेनाग्निनिष्ठदग्धृत्वमयःपिण्डे अवभासते अयःपिण्डनिष्ठचतुष्कोणाकारत्वमग्नौ तस्मादयःपिण्डाग्निरूपांशद्वयमनुभूयते यथा, तथा अहमुपलभ इत्यत्रापि चिदात्माद्यहङ्कारसम्पृक्ततया अवभासते अहङ्कारोऽपि चिदात्मनि सम्वलिततया, तेन जाड्यचेतनत्वादिकमपि व्यत्यासेनावभासते तस्मादहमित्यनेनात्माहङ्काररूपांशद्वयमनुभूयत इति परिहारग्रन्थार्थः । ननु तत्रोपलभ इत्याकारकपदसाहचर्यादस्त्यंशद्वयोपलब्धिः केवलाहमित्यत्र कथमिति चेन्न । अहं पश्याम्यहमुपलभ इत्येवं पदान्तरसाहचर्येणैव धर्माध्यासविशिष्टत्वेन प्राथमिकधर्म्यध्यासस्यानुभूतत्वात् । ननु दृष्टान्तदर्ष्टान्तिकयोः कथं शाब्दबोध इति चेत् । उच्यते । अयो दहतीत्यत्र दहतीत्यनेन दग्धृत्वमुच्यते अयोधर्मत्वेन भासमानस्य दग्धृत्वस्यायोधर्मत्वाभावादग्नितादात्म्यापन्नायःपिण्डो अयःशब्देनोच्यते तथा च दग्धृत्वविशिष्टः अग्नितादात्म्यापन्नः अयःपिण्ड इति शाब्दबोधो जायते यथा, तथा अहमुपलभ इत्यत्रापि उपलभ इत्यनेन वृत्तिरूपोपलब्धिरुच्यते स्फुरणात्मिकायाः अहङ्काररूपजडधर्मत्वेन भासमानायाः वृत्तिरूपोपलब्धेर्जडधर्मत्वाभावादहमित्यनेन चित्तादात्म्यापन्नाहङ्कार उच्यते तथा चोपलब्धिविशिष्टश्चित्तादात्म्यापन्नः अहङ्कार इति शब्दबोधस्तस्मादहमित्यनेन दृग्दृश्यांशद्वयमनुभूयते तथा सति साक्षिणि कूटस्थले दृगंशस्वरूपे आत्मनि दृश्यांशस्य केवलस्याहङ्कारस्य धर्मिणः अध्यासः प्राथमिकः सम्भवति । एवमहङ्कारेपि धर्मिस्वरूपात्मनः संसृष्टत्वेनाध्यासः प्राथमिकः सम्भवति धर्म्यध्यासमन्तरा वृत्तिरूपोपलब्ध्यात्मकधर्माध्यासस्यासम्भवादिति भावः । भोग्यसङ्घातः शरीरादिसङ्घात इत्यर्थः ।
अत्र भाष्ये प्राथमिकाध्यासो न प्रतिपाद्यते किन्तु अनन्तराध्यास एवेति ज्ञापयितुं भागद्वयेनार्थपूर्वकम् अध्यासं विवृणोति –
अत्राहमिति ।
मनुष्यत्वमिति संस्थानरूपाकृतिविशेषः जातिविशेषो वा । तादात्म्याध्यास इति । तादात्म्यांशचित्सत्तैक्याध्यास इत्यर्थः । देहात्मनोरेकसत्ताध्यास इति यावत् । शरीरत्वं मनुष्यत्वविलक्षणं पश्वादिशरीरसाधारणं भोगायतनत्वं संसर्गाध्यासतादात्म्यांशभूतसंसर्गाध्यास इत्यर्थः । भेदसहिष्णुरभेद इति तादात्म्यस्यांशद्वयं तथा च मनुष्योहमित्यत्र मनुष्यत्वावच्छिन्ने देहे तावदभेदांशरूपचित्सत्तैक्याध्यासोऽनुभवसिद्धः मम शरीरमित्यत्र भेदांशरूपसंसर्गाध्यासोऽनुभवसिद्धः ततः तादात्म्यस्याभेदांशः सत्तैक्यमित्युच्यते भेदांशः संसर्ग इति व्यवह्रियते इति भावः ।
इममेवार्थं शङ्कोत्तराभ्यां स्फुटीकरोति –
नन्वित्यादिना ।
अर्धाङ्गीकारेण परिहरति –
सत्यमिति ।
तादात्म्यमेव संसर्ग इत्यंश अङ्गीकारः भेदो नास्ति इत्यर्थके को भेद इत्यंशे अनङ्गीकारः । तथाहि विशिष्टस्वरूपतादाम्यं तदेकदेशः संसर्गः, तथा च संसर्गस्य विशिष्टान्तर्गतत्वात्तादात्म्येनाभेदः सम्भवति तदेकदेशत्वाद्भेदश्च तथा हस्तपादादिविशिष्टस्वरूपं शरीरं तदेकदेशो हस्तस्तस्य शरीरापेक्षया अभेदः तदेकदेशत्वाद्भेदश्च सम्भवति तद्वदिति भावः ।
अध्याससिद्धान्तभाष्यतात्पर्यकथनद्वारा परमप्रकृतमुपसंहरति –
एवमिति ।
युष्मदस्मदित्यादिलोकव्यवहार इत्यन्तं भाष्यं सकलशास्त्रोपोद्घातप्रयोजनं सत् सूत्रार्थविचारकर्तव्यतान्यथानुपपत्त्या अहंममाभिमानात्मकस्य लोकव्यवहारशब्दितस्य बन्धस्याविद्यात्मकत्वप्रतिपादनद्वारा सूत्रेणार्थात्सूचितविषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यसिद्धमध्यासन्त्वनुवदति –
आह कोयमध्यासो नामेत्यादि सर्वलोकप्रत्यक्ष इत्यन्तम् ।
लक्षणादिभाष्ये विस्तरेण साक्षादध्याससाधकं तत् अर्थाद्विषयप्रयोजनप्रतिपादकं भवति ।
अस्यानर्थहेतोरित्यादिकं आरभ्यते इत्यन्तं भाष्यं तु वेदान्तविचारकर्तव्यत्वान्यथानुपपत्त्या बन्धस्याविद्यकप्रतिपादनद्वारा विचारितवेदान्तानां विषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यं सिद्धमध्यासमनुवदति एतदुत्तरभाष्यं सान्तं सम्बन्धादिप्रतिपादकं सत् पूर्वभाष्यसिद्धाध्यासविषयप्रयोजनानुवादकं भवतीति विभागः, तस्मान्न पुनरुक्तिरित्यभिप्रेत्याध्यासस्वरूपसिद्धिं विना सम्भावनाप्रमाणयोरप्रसक्तत्वात् वृत्तानुवादपूर्वकं लक्षणविषयं प्रश्नमुत्थापयति –
एवं सूत्रेणेति ।
लक्षणेन वस्तुस्वरूपसिद्धिः प्रमाणेन तु वस्तुनिर्णयसिद्धिरिति भेदः । अनेनैवाभिप्रायेण लक्षणप्रमाणाभ्यां वस्तुसिद्धिरिति व्यवह्रियत इति मन्तव्यम् । अर्थादिति पदं सम्बन्धग्रन्थे व्याख्यातम् । तद्धेतुमिति । पूर्वभाष्ये सिद्धवत्कृत्योपन्यस्तमिति शेषः । उत्कटकोटिसंशयः सम्भावना ।
ननु सम्भावनाभाष्ये सम्भावनामाक्षिपतीति व्याख्यायते तद्वदत्रापि लक्षणमाक्षिपतीति कुतो न व्याख्यायते किंशब्दस्य प्रश्नाक्षेपयोः प्रयुक्तस्य स्थलद्वये सत्त्वादिति चेन्न । भाष्ये प्रत्यगात्मनीति विशेषज्ञानेनाध्यासस्यासम्भवस्फूर्तेः सम्भावनांशे त्वाक्षेपो युक्तः अत्र तु आह कोयमध्यासो नामेति अध्याससामान्यज्ञानलक्षणांशे प्रश्न एव युक्त इत्यभिप्रायादिति भावः अभिप्रायवान् किंशब्दं लक्षणप्रश्नपदत्वेन व्याख्याति –
किंलक्षणक इति ।
किं लक्षणं यस्याध्यासस्य तथेति बहुव्रीहिः पूर्ववादिस्थाने स्थितः सन् श्रीभाष्यकार एव पूर्ववादी भूत्वा लक्षणं साधयितुं पृच्छति इति भावः ।
नन्वाहेति परोक्तेर्वादजल्पवितण्डासु तिसृषु कथासु प्रत्येकं सम्भवात्कुत्रेयं परोक्तिरित्यत आह –
अस्येति ।
तत्त्वनिर्णयः प्रधानमुद्देश्यं यस्य शास्त्रस्य तत्तथा तस्य भावस्तत्त्वं तेनेत्यर्थः । वादिप्रतिवादिभ्यां गुरुशिष्याभ्यां पक्षप्रतिपक्षपरिग्रहेण क्रियमाणार्थनिर्णयावसाना वादकथा तस्याः भावस्तत्त्वं तज्ज्ञापनार्थमित्यर्थः ।
विषयादिसिद्धिहेत्वध्याससिद्धिहेतुभूतानि यानि लक्षणसम्भावनाप्रमाणानि तत्प्रतिपादकभाष्यविभागमाह –
आहेत्यादीति ।
तदारभ्येति ।
कथं पुनः प्रत्यगात्मनीत्यारभ्य तमेतमविद्याख्यमित्यतः प्राक्सम्भवनापरमित्यर्थः । लक्षणमिति । स्वरूपलक्षणं व्यावर्तकलक्षणं चाहेत्यर्थः ।
ननु लक्षणवाक्ये लक्ष्याभिधायिनः पदस्याभावात् साकाङ्क्षवचनमनर्थमित्याशङ्क्य वाक्यं पूरयति –
अध्यास इतीति ।
प्रश्नवाक्यस्थितस्याध्यासपदस्यानुषङ्गः कर्तव्य इत्यर्थः । निरधिष्ठानभ्रान्तिनिरासार्थं परत्रेत्युक्ते अर्थात्परस्यावभासता सिद्धेत्यभिप्रेत्यावभास इत्युक्तम् । तदुपपादनार्थं – लक्षणोपपादनार्थमित्यर्थः । परत्र पदतात्पर्येण लक्षणप्रविष्ठं यत्स्वसंसृज्यमानत्वविशेषणं तदुपपादनार्थं पदद्वयं भवति न लक्षणप्रविष्टमिति भावः ।
अर्थरूपाध्यासपरत्वेन प्रथमतो लक्षणं योजयति –
तथाहीति ।
आरोप्येत्यभावस्याधिकरणस्वरूपत्वमिति मतमवलम्ब्येदमुक्तमिति भावः ।
अनङ्गीकारमतमवलम्ब्यारोप्यन्ताभाववत्त्वमयोग्यत्वमिति निर्वक्ति -
तद्वत्वं वेति ।
परत्रावभास इति पदद्वयेन परिष्कृतं व्यावर्तकलक्षणमाह –
तथाचेति ।
अध्यस्तत्वमर्थरूपाध्यासत्वमित्यर्थः । आत्मत्वावच्छेदेनात्मन्यहङ्कारस्य संसर्गकाले तस्य कल्पितत्वेन तदत्यन्ताभावोस्ति तस्मादहमित्याकारके प्राथमिके अहङ्काररूपार्थाध्यासे लक्षणसमन्वयः । एवं स्वयमहमित्यत्र स्वयन्त्वावच्छेदेन प्रत्यगात्मनि कूटस्थे अहङ्कारादेः संसर्गकाले तदत्यन्ताभावस्य सत्त्वात्कूटस्थकल्पिताहङ्काराद्यर्थरूपाध्यासे लक्ष्ये लक्षणसमन्वयः । सादित्वं जन्यत्वमनादित्वमजन्यत्वम् । अहङ्काराद्यध्यासः सादिः अविद्याचित्सम्बन्धाध्यासोऽनादिरिति भावः । तदुक्तम् –
जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥ इति ।
अतिव्याप्तिनिरासायेति ।
अर्थान्तरप्राप्तिसिद्धसाधनतानिरासायेत्यर्थः । तथा हि रजतादेरभास्यत्वरूपमिथ्यात्वे साधिते सति यथा रजतादिः स्वाभाववत्यभास्यः तथा संयोगोपि स्वाभाववत्यभास्य इत्यर्थान्तरेण प्राप्ता या सिद्धसाधनता तन्निराकरणार्थं परमतानुसारेणैकावच्छेदेनेत्युक्तम् , स्वमते तु सर्वप्रपञ्चस्य मिथ्यात्वाङ्गीकारादेकावच्छेदेनेति देयमिति भावः । एवं सर्वत्र योजनीयम् ।
यद्यप्यग्रावच्छेदेन वृक्षे श्रीकृष्णसंयोगः मूलावच्छेदेन तदभावश्चास्ति तथाप्येकावच्छेदेन संयोगतदभावयोरसत्त्वान्न कृष्णसंयोगे अतिव्याप्तिरित्याह –
संयोगस्येति ।
स्वशब्दचतुष्टयं संयोगार्थकम् ।
पूर्वं स्वेति ।
अत्र स्वशब्देन घटो ग्राह्यः ।
ननु घटसम्बन्धित्वरूपं स्वसंसृज्यमानत्वं भूतलेप्यस्त्येवेत्यतिव्याप्तिर्दुर्वारेत्याशङ्क्य स्वसंसृज्यमानेत्यत्र विद्यमानशानच्प्रत्ययेन बोधितवर्तमानत्वं संसर्गरूपप्रकृत्यर्थविवक्षया स्फुटीकरोति –
तेनेति ।
तथा चैकप्रदेशावच्छेदेनैककालावच्छेदेन च स्वस्वाभावयोर्यदधिकरणं तस्मिन्नवभास्यत्वमेवार्थरूपाध्यासत्वमित्येवंलक्षणस्य पर्यवसानात्पश्चादानीतघटसंसर्गकाले घटाभावस्याभावान्नातिव्याप्तिरिति भावः ।
अतिव्याप्तिर्नामालक्ष्ये लक्षणसत्त्वं यत्र पृथिवीत्वं तत्र गन्ध इति दैशिकव्याप्तिः अनुभवसिद्धा तथा च पृथिवीत्वावच्छेदेन पृथिव्यां गन्धकाले गन्धाभावस्याभावान्नातिव्याप्तिरित्यभिप्रेत्याह –
स्वात्यन्ताभावेति ।
नन्वात्मनि स्वयमहमिति स्वयन्त्वावच्छेदेनाहङ्कारादिसंसर्गकाले तदभावापादकप्रमाणाभावात्तस्मिन् शुक्तिशकले रजताभावस्यासत्त्वेन रजतरूपार्थाध्यासे लक्षणस्याव्याप्तिः स्यादित्याह –
शुक्ताविति ।
अव्याप्तिर्नाम लक्षैकदेशे लक्षणस्यासत्त्वं नेदं रजतमिति विशेषदर्शनात्मकबाधरूपप्रत्यक्षप्रमाणबलात् ’आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’ इति न्यायाच्च रजताभावस्य शुक्तौ सत्त्वेन नाव्याप्तिः । ननु भावाभावयोरेकत्र सत्त्वाङ्गीकारे अनुभवविरोध इति चेत् । उच्यते – मिथ्यात्ववादिनामेतादृशविरोधस्त्वलङ्कार एवेति भावः ।
उद्धृते सत्यव्याप्तिदोषे साद्यध्यासे असम्भवं शङ्कते –
नन्विति ।
लक्ष्ये क्वाप्यप्रवर्तमानमसम्भव इत्यसम्भवलक्षणम् , साद्यध्यासरूपे अहङ्कारादौ लक्ष्ये सर्वत्र लक्षणस्यासत्त्वादसम्भव इत्यर्थः ।
शुक्तिरजतमध्यस्तत्वेन सर्वसम्मतं तस्मादुभयवादिसिद्धम् ।
तदिति ।
तत्र लक्षणासत्त्वमुपपादयति –
शुक्ताविति ।
अतिव्याप्तिवारकत्वेन लक्षणे प्रविष्टं यत्स्वसंसृज्यमानत्वं तदुपपादयितुमशक्यमिति भावः ।
ननु पुरोवर्तिनि हट्टपट्टणस्थरजतसंसर्गस्याभावेन स्वसंसृज्यमानत्वमुपपादयितुमशक्यत्वान्न लक्षणे निवेशनीयम् । न च तन्निवेशाभावे पश्चादानीतघटेऽतिव्याप्तिः स्यादिति वाच्यम् । अभास्यत्वं नाम प्रमाणाजन्यज्ञानविषयत्वमित्यङ्गीकारात्पश्चादानीतघटे तु प्रमाणजन्यज्ञानविषयत्वस्यैव सत्त्वेन लक्षणाभावान्नातिव्याप्तिस्तथा च स्मर्यमाणरजतमादाय लक्षणोपपत्तिरिति तटस्थस्य शङ्कां पूर्वपक्षी परिहरति –
न चेत्यादिना ।
स्मर्यमाणरजतस्य सत्यरजतस्येत्यर्थः । उक्तेरित्यनन्तरं न लक्षणस्यासम्भव इति शेषः ।
अन्यथेति ।
तथा चातिव्याप्तिवारणायान्यथाख्यातिमतभेदाय च लक्षणे स्वसंसृज्यमानत्वविशेषणे तावदावश्यके सति शुक्तौ प्रातिभासिकरजतस्यात्मनि व्यावहारिकाहङ्कारादेश्चोत्पत्तिवादिनां वेदान्तिनां मते ह्युत्पत्त्यनन्तरमेव संसर्गो वाच्यः । उत्पत्तिस्तु सामग्य्रभावान्न सम्भवति तस्माल्लक्षणस्यासम्भवो दुर्वार इति पूर्वपक्ष्यभिप्रायः ।
सिद्धान्ती परिहरति –
आहेति ।
अतिव्याप्तिवारकस्वसंसृज्यमानत्वविशेषणेनान्यथाख्यातिमतभेदः प्रतिपादितो भवति ।
सम्प्रति सामग्रीसम्पादनार्थत्वेन प्रवृत्तिस्मृतिरूपपदेनाप्यन्यथाख्यातिमतभेदो वक्तव्य इत्यवयवव्युत्पत्त्या प्रतिपादयति –
स्मर्यत इति ।
आरोप्यस्येति ।
शुक्तौ तदवच्छिन्नचैतन्ये वा उत्पन्नस्यारोप्यरजतस्येत्यर्थः ।
दर्शनादिति ।
अनुभवादित्यर्थः ।
हट्टपट्टणस्थरजतानुभवजन्यसंस्काराद्भ्रमः स्मृतिश्च जायत इति फलितमाह –
तेनेति ।
अनुभवजन्यज्ञानविषयत्वेनेत्यर्थः ।
संस्कारजन्यज्ञानविषयत्वं कथमित्याशङ्क्य तेनेत्युक्तहेत्वंशं विवृणोति –
स्मृतीति ।
संस्कारमात्रजन्यज्ञानत्वं स्मृतित्वं तस्मान्नारोपेऽतिव्याप्तिरिति परिहरति –
दोषेति ।
सम्प्रयोगो नेन्द्रियसंयोग इत्याह –
अत्रेति ।
उपसंहरति एवं चेति । दोषश्च सम्प्रयोगश्च संस्कारश्चेति विग्रहः । सत्यरजतसामग्रीभिन्नसामग्रीबलादिति यावत् ।
आदिशब्देन शुक्त्यवच्छिन्नचैतन्यमुच्यते परत्रावभासपदाभ्यां साद्यनाद्यध्याससाधारणं लक्षणमुक्तं भवति स्मृतिरूपपूर्वदृष्टपदाभ्यां साद्यध्यासलक्षणमुक्तमिति यन्मतद्वयं तदुपपादयति –
अन्ये त्वित्यादिना ।
अस्मिन्मतेपि स्मृतिरूपः स्मर्यमाणसदृशः सादृश्यप्रतिपादकं पूर्वदृष्टपदमित्यभिप्रेत्य फलितं लक्षणमाह –
ताभ्यामिति ।
आदिशब्देन सम्प्रयोगसंस्कारौ गृह्येते व्यावहारिकप्रातिभासिकसाद्यध्याससाधारणलक्षणमुक्तमित्यर्थः । दोषादित्रयजन्याध्यासविषयत्वमर्थरूपाध्यासस्य लक्षणमिति भावः ।
स्वमते संस्कारजन्यज्ञानविषयत्वं यत्सादृश्यमुक्तं तदेवास्मिन्मतेपीति मन्तव्यम् । प्रकारान्तरेण सादृश्यमुपपादयितुं पूर्ववत्कर्मव्युत्पत्त्यादिकमाश्रित्य लब्धमर्थमाह –
स्मृतिरूप इति ।
तज्जातीयेति ।
पूर्वदृष्टनिष्ठजातिविशिष्टेत्यर्थः । अभिनवरजतादेः शुक्याा दावुत्पन्नरजतादेरित्यर्थः ।
अस्मिन्मते तु पूर्वदृष्टपदं न सादृश्यप्रतिपादकमित्यभिप्रेत्य फलितं लक्षणमाह –
तथा चेति ।
पूर्वमतापेक्षया अस्मिन्मते लक्षणभेदज्ञापनया प्रातीतिकेत्युक्तम् । शुक्तिरजतस्वाप्नपदार्थाद्यध्यासः प्रातीतिकाध्यास इत्यर्थः । अस्मिन् मते तु पूर्वदृष्टावभास इति भाष्ये पूर्वदृष्टश्चासाववभावश्चेति कर्मधारयः समास इति विज्ञेयम् ।
अध्याससामान्यलक्षणं स्वमतापेक्षया मतद्वयेपि किम्भेदेनोपपादनीयमिति जिज्ञासायां नेत्याह –
परत्रेति ।
मात्रपदं कार्त्स्न्यार्थकं सामान्यमिति यावत् । ताभ्यामुक्तं मतद्वयाभिमतं सामान्यलक्षणं स्वमतरीत्यैवोपपादनीयमिति भावः । प्रमाणाजन्यज्ञानविषयत्वमात्रं लक्षणमित्युक्ते स्मर्यमाणगङ्गादावतिव्याप्तिरतः पूर्वदृष्टजातीयत्वम् । अनेन पूर्वदृष्टात्तज्जातिविशिष्टो भिन्न इति व्यक्तिद्वयं प्रतीयते तथा च या पूर्वदृष्टा सैव सा गङ्गेति स्मृतिविषयः तस्माद्व्यक्तेरेकत्वान्न तत्र विशेष्यांश इति नातिव्याप्तिः । ननु व्यक्तिद्वयाङ्गीकारेपि पर्वदृष्टे तज्जातिविशिष्टत्वस्य सत्त्वादतिव्याप्तिः स्यादिति चेन्न । तज्जातिमत्त्वं नाम तत्सदृशत्वमित्यङ्गीकारात्तथा च पूर्वदृष्टसादृश्यस्य भेदविशिष्टत्वेन पूर्वदृष्टे तस्मिन् असत्त्वान्नातिव्याप्तिः । पूर्वदृष्टजातीयत्वमित्युक्ते अभिनवघटे अतिव्याप्तिः तत्र पूर्वदृष्टत्वाभावेन तज्जातीयत्वस्य सम्भवात्तद्वारणाय विशेषणदलम् ।
अभिनवघटस्य चाक्षुषत्वेन प्रमाणजन्यज्ञानविषयत्वान्न तत्र अतिव्याप्तिरित्यभिप्रेत्याह –
तत्रेति ।
स्मर्यमाणत्वम् – स्मृतिविषत्वम् ।
आहुरिति ।
मतद्वयेप्यध्याससामान्यलक्षणसम्भवरूपास्वरसः आहुरित्यनेन सूचितः । शुक्तौ रजतसामग्र्यभावेन तत्संसर्गासत्त्वादिति भावः । अवभासत इत्यनेन भाष्यस्थावभासपदं कर्मव्युत्पत्त्या रजताद्यर्थपरमिति ज्ञाप्यते तथा च शुक्ताववभास्यरजतादिः स्मर्यमाणसदृशः पूर्वानुभवजनितसंस्कारजन्यज्ञानविषय इति वाक्यस्य फलितार्थः । अर्थाध्यासलक्षणं पूर्वमेव परिष्कृतम् ।
एतावता ग्रन्थेन वाक्यमर्थाध्यासपरत्वेन व्याख्यातुकामः पूर्वस्माद्वैषम्यमाह –
ज्ञानाध्यास इति ।
स्मृतिपदस्य स्मरणमेवार्थः न स्मर्यमाणम् । अवभासत इत्यनेन भावव्युत्पत्त्या भाष्यस्थावभासपदं ज्ञानार्थकमिति ज्ञाप्यते । तथा च स्मृतिसदृशः पूर्वानुभवजनितसंस्कारजन्यः शुक्तावध्यस्तरजतादिविषयकावभास इति वाक्यस्य फलितार्थः । एतेन स्मृतिसदृशोऽवभावसोऽवभासत इत्यन्वयदोषो निरस्तः । अवभासत इति पदस्य भावव्युत्पत्तिज्ञापकत्वेन व्याख्यातत्वात् । पूर्वदर्शनादवभास इति पाठान्तरम् । अस्मिन् पाठे तु नान्वयदोष इति मन्तव्यम् । अत्र परत्रावभस इति पदद्वयपरिष्कारेणातस्मिंस्तद्बुद्धिरध्यास इति ज्ञानाध्यासस्य लक्षणं वक्तव्यम् । किं च स्मृत्यारोपयोः संस्कारजन्यज्ञानत्वं प्रमाणाजन्यज्ञानत्वं वा सादृश्यं प्रतिपादनीयम् ।
अपि चाध्यासे संस्कारपदेन विवक्षितदोषसम्प्रयोगजन्यत्वमप्युपपादनीयमित्यभिप्रेत्याह –
इति सङ्क्षेप इति ।
ननु लक्षणकथनानन्तरमव्याप्त्यादिदोषाभावात् क्रमप्राप्तसम्भावनोपन्यास एवोचितः न मतान्तरोपन्यासः तथा च कथमुत्तरभाष्यसङ्गतिरित्याशङ्क्य लक्षणपरिशोधनायैव मतान्तरोपन्यास इति शङ्कोत्तराभ्यां सङ्गतिं प्रदर्शयन् उत्तरभाष्यमवतारयति –
नन्विति ।
प्रकृते विप्रतिपत्तिर्नाम विवादः अधिष्ठानारोप्ययोर्यत्स्वरूपं तस्य विवादेपीति विग्रहः । अधिष्ठानं सत्यमिति सत्यवादिनो वदन्ति । असत्यमित्यसत्यवादिनः । एवमधिष्ठानस्वरूपविवादः । अपि चाधिष्ठानस्य सत्यत्वेपि जडत्वमजडत्वमित्येवं तत्त्वस्वरूपविवादः । अन्यथाख्यातिवादिनस्तार्किकाः अख्यातिवादिनः प्राभाकराश्च देशान्तरनिष्ठं रजतमिति वदन्ति । आत्मख्यातिवादिनो बुद्धिनिष्ठमिति । वेदान्तिनस्त्वनिर्वचनीयवादिनोऽधिष्ठाननिष्ठमिति । बौद्धैकदेशी शून्यवादी त्वसद्रूपमित्येवमारोप्यस्वरूपविवाद इति भावः । लक्षणसंवादात् लक्षणस्य सर्वसम्मतत्वादित्यर्थः । तन्त्रपदं मतपरं शास्त्रपरं वा । तथा च सिद्धान्तत्वेनेदं लक्षणं सर्वैरभ्युपगतमिति भावः ।
अन्यथात्मेति ।
ख्यातिपदमवभासपरम् । एकमेव लक्षणं मतद्वये योजनीयमित्याशयेनेदमुक्तमिति भावः ।
स्वावयवधर्मस्येति ।
स्वपदं रजतपरम् । आत्मख्यातिमतसाङ्कर्यवारणायेदं विशेषणमिति भावः । अन्यधर्मस्येत्यस्य व्याख्यानान्तरं देशान्तरस्थस्येति । अनिर्वचनीयमतासत्ख्यातिमतसाङ्कर्यवारणायेदं विशेषणमिति भावः । एवमुत्तरत्र तत्तद्विशेषणेन तत्तन्मतसाङ्कर्यवारणमूहनीयम् ।
अन्यथाख्यातिमते अन्यधर्मावभास इति भाष्ये अन्यस्य धर्म अन्येषां धर्म इति विग्रहोऽभिप्रेतः अस्मिन्मते तु अन्यस्य धर्म इति विग्रहमभिप्रेत्य व्याख्याति –
बुद्धीति ।
आन्तरस्य बुद्धिपरिणामरूपस्य रजतस्येदं रजतमिति शब्दप्रयोगाद्बहिः पदार्थवदवभास इति वदन्तीति भावः ।
तद्विवेकाग्रह इत्यादि भाष्यं व्याख्याति –
तयोश्चेति ।
देशान्तरस्थरजतश्रुतिरूपार्थयोरित्यरित्यर्थः ।
रजतांशे स्मृतिरिदमंशे त्वनुभव इति प्राभाकरमतन्तज्ज्ञापयति –
तद्धियोश्चेति ।
अर्थविषयकस्मृत्यनुभवयोश्चेत्यर्थः ।
भेदाग्रहकाल एव तद्धेतुको भ्रमस्तिष्ठति नेतरस्मिन् काल इति भ्रमस्य भेदाग्रहसमानकालीनत्वं द्योतयितुं भाष्यमनुषङ्गं कृत्वा योजयति –
भेदेति ।
सः भेदाग्रहे मूलं निमित्तकारणं यस्य स तथा निमित्तकारणनाशानन्तरं लोके कार्यस्य सत्त्वं दृष्टं प्रकृते तु न तथेति भावः ।
भ्रमशब्दस्यार्थमाह –
विशिष्टेति ।
तयोर्भेदस्याग्रहणेदं रजतमिति विशिष्टत्वेनोल्लिख्यमानशब्दप्रयोगात्मको भ्रम उत्पद्यत इति भावः ।
शुक्तिस्तु पुरोवर्तिनी रजतं तु देशान्तरमेव न शुक्तौ भासत इत्यख्यातिवादिनो वदन्ति । तन्मतेऽपि देशान्तरस्थान्यत्र भानाभावे कथं विशिष्टव्यवहार इति गले पादुकान्यायेन लक्षणमस्तीत्याह –
तैरिति ।
विशिष्टशब्दप्रयोगात्मकस्य विशिष्टव्यवहारस्यानुपपत्तिर्नामान्यत्र विद्यमानस्यान्यत्र भानरूपभ्रमं विना व्यवहारो न सम्भवतीत्याकारिका तया विशिष्टभ्रान्तेः तैरपि स्वीकार्यादित्यर्थः ।
रजतादिः विपरीतधर्मत्वशब्दार्थ इत्यभिप्रेत्य व्याचष्टे –
तस्यैवेति ।
विरुद्धः अत्यन्तासत्त्वरूपः धर्मः रजतादिः यस्य शुक्त्यादेः सः विरुद्धधर्मः तस्य विरुद्धधर्मस्य शुक्त्यादेर्भवो रजतादिः तस्य रजतादेरित्यर्थः । अत्रालोकतादात्म्यसम्बन्धेन शुक्तिशकलस्यासद्रजतधर्मवत्त्वं वेदितव्यम् ।
सम्वादमिति ।
सम्मतिमित्यर्थः । आदिशब्देन आत्मख्यातित्वादिकमुच्यते ।
उक्तमतेष्वनुपपत्तिं दर्शयन् स्वाभिमतमाह –
शुक्ताविति ।
देशान्तरे सत्त्वायोगादित्यनेन अन्यथाख्यत्यख्यातिमतद्वयनिरासः । आत्मख्यातिवादिनोप्यन्यत्रान्यधर्मावभासस्यागत्याङ्गीकारादिति भावः ।
केचित् शुक्तावेव रजतस्योत्पत्तिः तत्र तस्योत्पन्नस्य रजतस्य सत्यत्वमङ्गीकार्यमिति वदन्ति । तन्मतं निराकरोति –
शुक्तौ सत्त्व इति ।
अत्रेदं त्वनुसन्धेयम् । यत्र लौकिकप्रत्यक्षविषयत्वं तत्र साक्षात्करोमीत्यनुव्यवसायविषयत्वमिति व्याप्तिरनुभवसिद्धा एवं च शुक्तावपरोक्षत्वेनानुभूयमानस्य रजतस्य भानं परवादिना ज्ञानलक्षणारूपसन्निकर्षेणैव वक्तव्यं तथा च रजतं साक्षात्करोमीत्यनुव्यवसायोपपत्तिर्न वादिमते शक्यते वक्तुम् अलौकिकप्रत्यक्षविषयस्य साक्षात्करोमीत्यनुव्यवसायविषत्वासम्भवात् स्वमते तु शुक्त्यादावनिर्वचनीयं रजतमुत्पद्यते तस्योत्पन्नस्य लौकिकप्रत्यक्षविषयत्वेनानुव्यवसायत्वात्तदुपपत्तिरस्तीति ।
बाधानन्तरेति ।
नेदं रजतमिति बाधानन्तरकालीनः शुक्तिका हि रजतवदवभासत इत्यनुभव इत्यर्थः ।
तत्र हेतुमाह –
तत्पूर्वमिति ।
बाधात्पूर्वमित्यर्थः । नेदं रजतमिति बाधप्रत्यक्षेण सिद्धमित्यर्थः ।
’यावत्कार्यमवस्थायिभेदहेतोरुपाधीते’त्यभियुक्तवचनेन यो भेदहेतुः स उपाधिरिति नियमो ह्यनुभवसिद्धः यथा चन्द्रे ह्यनेकचन्द्रत्वे अङ्गुल्यादिस्तथा चाहङ्कारात्मनोरैक्याध्यासे अविद्यादेः भेदकत्वाभावान्नपाधित्वं किन्तु हेतुत्वमात्रं तस्यैवाविद्यादेः ब्रह्मजीवान्तरभेदकत्वात्तदध्यासे तूपाधित्वं तस्मान्निरुपाधिकः सोपाधिकश्चेति द्विविधोऽध्यास इत्यभिप्रेत्यावतारयति –
आत्मनीति ।
जीवादन्यो जीवान्तरं ब्रह्मजीवभिन्नमिति ब्रह्मणि जीवभेदस्य सोपाधिकस्याध्यासे चैत्रो मैत्राद्भिन्न इति परस्परजीवभेदस्य सोपाधिकस्याध्यासे च दृष्टान्तमाहेत्यर्थः ।
सद्वितीयवदिति भाष्यार्थं कथयन् दृष्टान्तोपाधिं स्फोरयति –
द्वितीयेति ।
लोके लक्षणप्रमाणाभ्यां वस्तुनिर्णयसिद्धिः अत्र मिथ्यात्वस्पष्टीकरणायोक्तेन लक्षणेनाध्यासस्वरूपे सिद्धे लक्षणप्रश्नावसरकाले किंशब्देन बुद्धिस्थस्य सम्भावनाक्षेपस्योत्थानात् वस्तुनिश्चयार्थं प्रमाणनिरूपणात् पूर्वं सम्भावनानिरूपणं युक्तमिति अभिप्रेत्य सम्भावनाक्षेपमुत्थापयति –
भवत्विति ।
ननु वस्तुनिर्णयार्थमवश्यं वक्तव्येन प्रमाणेनैव कथं सम्भवेदित्याकारकायाः सम्भावनायाः निराकरणात्सम्भावना न पृथग्वक्तव्या तथा च तदाक्षेपस्यानवसर इति चेन्न । प्रामाणिके वस्तुन्यसम्भावनाया अनुभवसिद्धत्वात्तथा च न प्रमाणेन तन्निराकरणम् । न चासम्भावितत्वे कथं प्रामाणिकत्वमिति वाच्यम् । असम्भाविते वस्तुनि प्रामाणिकत्वस्याप्यनुभवसिद्धत्वात्तस्मादसम्भावनानिराकरणाय सम्भावना पृथक् निरूपणीयेति तदाक्षेपो युक्त इति भावः ।
अपरोक्षाध्यासं प्रत्यधिष्ठानसामान्यज्ञानमधिष्ठानेन्द्रियसंयोगश्च हेतुस्तथा च शुक्त्यादौ कारणद्वयसत्त्वादध्यासो भवतु आत्मनि तु तदभावान्न सम्भवत्यध्यास इत्येवं शङ्कितुरभिप्रायमाविष्कुर्वन् भाष्यमवतारयति –
यत्रेति ।
इन्द्रियसंयोगाधिष्ठानसामान्यज्ञानयोरध्यासं प्रति हेतुत्वादेव यत्राध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिरनुभवसिद्धा भवति, तथाचात्र सामग्र्यभावेनेन्द्रियसंयुक्तत्वविषयत्वरूपव्यापकाभावादधिष्ठानत्वरूपव्याप्याभावस्तस्मादध्यासो न सम्भवतीत्यभिप्रेत्याहेत्यर्थः ।
प्रत्यगात्मन्यविषय इति पदद्वयेन सामग्र्यभावं स्फुटीकुर्वन्नन्वमाविष्करोति –
प्रतीचीति ।
प्रतीचीत्यनेनेन्द्रियसंयुक्तत्वे चेति भावः ।
यद्यप्यात्मनस्त्वज्ञानविषयत्वं अहङ्कारपरिणामरूपवृत्तिविषयत्वं चास्ति तथापीन्द्रियजन्यज्ञानविषयत्वं नास्तीति पदद्वयफलितार्थमाह –
इन्द्रियाग्राह्येति ।
युष्मत्प्रत्ययोपेतस्येत्यस्य व्याख्यानार्थमिदंप्रत्ययानर्हस्येति ।
त्वमविषयत्वमिति ।
पराग्भावेनेदन्तासमुल्लेख्यत्वं ज्ञानविषयत्वं तद्विपरीतप्रत्यग्रूपत्वादात्मनस्त्वविषयत्वमिति भावः । इदमुपलक्षणम् , इन्द्रियादिसंयुक्तत्वं च ब्रवीषीत्यर्थः ॥
अध्यासलोभेनेति ।
अध्याससिद्ध्यभिप्राणेत्यर्थः ।
यथा घटवति भूतले नीलघटो नास्तीत्युक्त्या नैकान्तेन घटाभावो विवक्ष्यते तथा स्वरूपज्ञानविषयत्वाभावोक्त्याहंप्रत्ययविषयत्वेनाभ्युपगते ह्यात्मनि नैकान्तेन विषयत्वाभावो विवक्षित इत्यभिप्रेत्य सिद्धान्तभाष्यमवतारयति –
आत्मनीति ।
उत्कटकोटीसंशयः सम्भावना, अध्यासोस्ति न वेत्याकारकसंशयस्यास्तित्वकोट्यंशे ह्यौत्कट्यं नाम प्रायेण कारणस्य सत्त्वादध्यासो भवेदित्यभिप्रायस्तद्विशिष्टकोटिरुत्कटकोटिस्तद्वान्संशयः उत्कटकोटिकसंशय इत्युच्यते, अध्यासोस्तीत्यंशस्याभिप्रायविषयत्वाद्विषयतासम्बन्धेनाभिप्रायवैशिष्ट्यं विभावनीयम् ।
अध्यासं प्रत्यधिष्ठानसामान्यज्ञानमेव हेतुः नेन्द्रियसंयोग इत्यभिप्रेत्य अध्यासाधिष्ठानत्वव्यापकं विवृणोति –
अधिष्ठानेति ।
ज्ञान इति ।
अध्यासरूपाधिष्ठानसामान्यज्ञान इत्यर्थः । भासमानत्वं विषयत्वमिति पर्यायः । मात्रपदेनेन्द्रियसंयुक्तत्वमिन्द्रियत्वविशिष्टत्वेन गौरवान्न व्यापकमित्युच्यते । अध्यासव्यापकमध्यासाधिष्ठानत्वव्यापकमित्यर्थः ।
किं नाम भासमानत्वमिति जिज्ञासायां फलभाक्त्वरूपं विषयत्वरूपं चेति द्विविधं भासमानत्वमित्याह –
तच्चेति ।
भासमानत्वं चेत्यर्थः । भानं ज्ञानं तत्प्रयुक्तं यत्संशयादिनिवृत्तिरूपं फलं तद्भाक्त्वं तदाश्रयत्वमित्यर्थः । अधिष्ठानारोप्ययोरात्माहङ्कारयोर्यज्ज्ञानमहकित्याकारकाध्यासात्मकं तेनात्माङ्कारविषकसंशयस्य तद्विषयकविपर्ययस्य चाभावात्संशयादिनिवृत्तिफलभाक्त्वमात्माहङ्कारयोरस्तीति भासमानत्वोपपत्तिरिति भावः । तदेव भासमानत्वमेवेत्यर्थः ।
विषयत्वमिति ।
इति केचिद्वदन्तीति शेषः ।
तन्न व्यापकमिति ।
उक्त विषयत्वरूपभासमानत्वं भानभिन्नत्वविशिष्टत्वेन गौरवान्न व्यापकमित्यर्थः । केचित्तु भासमानत्वं नाम ज्ञानभिन्नत्वघटितं स्वरूपसम्बन्धविशेषरूपमुक्तफलभाक्त्वनियामकं विषयत्वमिति वदन्ति । तच्चोक्तविषत्वरूपं भासमानत्वं न व्यापकं ज्ञानभिन्नत्वविशिष्टत्वेन गौरवात्किन्तूक्तफलभाक्त्वरूपभासमानत्वमेव व्यापकं ज्ञानविशिष्टत्वेन लाघवात् अतो व्यापकस्य सत्त्वादात्मन्यध्यासोपपत्तिरिति भावः । ननु ज्ञानघटितफलभाक्त्वमिति न व्यपकं संशयादिनिवृत्तिविशिष्टत्वेन गौरवादिति चेत् । अत्रोच्यते । ज्ञानप्रयुक्तफलभाक्त्वमेव व्यापकं संशयादिनिवृत्तेर्व्यापकशरीरप्रवेशस्तु फलस्फुटार्थस्तस्माल्लाघवमिति विज्ञेयम् । भासमानत्वादित्यर्थ इति । आत्मनः स्वप्रकाशत्वेन वृत्तौ प्रतिबिम्बितत्वेन च भासमानत्वमहङ्कारस्य तु साक्षिवेद्यत्वेन भासमानत्वमिति भेदः । तथा हि - अहङ्काराभावविशिष्टसुषुप्त्यादिकाले अहमित्यध्यासपूर्वकाले च स्वप्रकाशत्वेन आत्मा स्फुटं प्रतीयते, अत एवात्मनिष्ठं प्रकाशत्वप्रयक्तफलभाक्त्वरूपभासमानत्वमहङ्कारादिनिष्ठासाक्षिवेद्यत्वप्रयुक्तात्फलभाक्त्वरूपभासमानत्वाद्भिन्नमित्यवश्यमङ्गीकरणीयमिति भावः । आत्मनः वृत्तिप्रतिबिम्बितचैतन्यविषयत्वाभावेऽपि वृत्तिविषयत्वमस्तीति परिहारग्रन्थार्थः ।
यत्रेति ।
यत्राहङ्कारे प्रतीयते आत्मा सोऽहङ्कारोऽस्मत्प्रत्यय इत्यन्वयः । तत्राहङ्कारे तदधिष्ठानत्वेन प्रतिबिम्बितत्वेन चात्मनः भासमानत्वादित्यर्थः ।
ननु प्रथमव्याख्याने अध्यासः स्फुटः द्वितीयव्याख्यानेपि यत्र प्रतीयते स इत्यनेनाध्यासो भासत एव प्रतीयत इति प्रयोगात्तथा च परस्पराश्रयदोषः स्यादित्याह –
न चेत्यादिना ।
पूर्वाध्यास इति ।
अहमित्याकारके अन्यस्यान्यात्मकत्वावभासरूपे पूर्वाध्यास इत्यर्थः । तथा चोत्तराध्यासं प्रत्यधिष्ठानसामान्यज्ञानात्मकः पूर्वाध्यासो हेतुर्भवति तस्माद्धेतोः सत्त्वाद्व्यापकस्य सत्त्वेनात्मन्यध्यासोपपत्तौ न काचिदनुपपत्तिरिति भावः ।
भानभिन्नत्वघटितविषयत्वरूपभासमानत्ववादी शङ्कते –
नन्विति ।
एकस्मिन् विषयविषयित्वस्य विरुद्धत्वादिति भावः ।
भानरूपस्यात्मनः भानविषयत्वरूपभासमानत्वाभावेप्युक्तफलभाक्त्वरूपभासमानत्वं स्यादित्यत आह –
तद्विषयत्वं विनेति ।
भानविषयत्वं विनेत्यर्थः ।
तत्फलेति ।
भानविषयत्वप्रयुक्तसंशयविपर्ययनिवृत्त्यात्मकफलेत्यर्थः ।
चशब्दो युक्त्यन्तरप्रतिपादक इति भ्रमं वारयति –
चशब्द इति ।
भानविषयत्वमेव फलभाक्त्वनियामकमिति नियमः किन्तु स्वप्रकाशत्वमपि तन्नियामाकं तथा च स्वप्राकाशत्वादात्मनस्तत्प्रयुक्तफलभाक्त्वरूपभासमानत्वं युज्यत इति भावः ।
उपसंहरति –
अत इति ।
व्यापकस्य स्वप्रकाशत्वप्रयुक्तफलभाक्त्वरूपभासमानत्वस्य सत्त्वाद्व्याप्याधिष्ठानत्वमात्मनि सम्भवतीति भावः । यद्यपि युष्मदस्मत्प्रत्ययगोचरयोरिति भाष्यव्याख्याने चिदात्मा तावदस्मत्प्रत्यययोग्य इत्यादिग्रन्थे फलभाक्त्वरूपगुणयोगादात्मनि गौणविषयत्वं भासमानत्वरूपं ग्रन्थकारेण प्रसाधितं तथापि अत्र फलभाक्त्वमेव भासमानत्वमित्युक्तं लाघवादिति मन्तव्यम् । अन्ये तु आत्मनि स्वप्रकाशत्वरूपं भासमानत्वमङ्गीकृत्य तदेव व्यापकमित्यध्यासोपपत्तिरति वदन्ति ।
फलभाक्त्वरूपभासमानत्वमेवाध्यासव्यापकं न भानभिन्नत्वविशिष्टविषयत्वरूपभासमानत्वमिति भाष्यभावः स्फुटीकृतः स प्रतीन्द्रियग्राह्यत्वं नाध्यासव्यापकमिति प्रतिपादकमुत्तरभाष्यमवतारयति –
यदुक्तमिति ।
तत्रेति ।
यत्राध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयोगजन्यज्ञानविषयत्वमिति या व्याप्तिस्तस्या अभावे हेतुमाहेत्यर्थः ।
इन्द्रियाग्राह्येपीति ।
द्रव्यात्मकोप्यकाशः स्पर्शरहितत्वाद्रूपरहितत्वाच्च न बाह्यप्रवृत्तिरहितत्वात्तस्मादिन्द्रियाग्राह्य इति भावः ।
अविवेकिन इति ।
अयथार्थदर्शिन इत्यर्थः ।
इन्द्रियसंयुक्तत्वं विषयत्वं चेत्युक्तं व्यापकद्वयमेकीकृत्य लाघवादिन्द्रियग्राह्यत्वमेव व्यापकमित्याह –
इन्द्रियग्राह्यत्वमिति ।
इन्द्रियसंयोगजन्यज्ञानविषत्वमित्यर्थः ।
एतेनेत्यनेन बोधितं हेतुमाह –
नीलनभसोरिति ।
नन्वाकाशस्य कथं तलमलिनताद्यध्यासाधिष्ठानत्वमिन्द्रयग्राह्यत्वाभावेन भासमानत्वरूपव्यापकाभावादित्याशङ्क्य साक्षिवेद्यत्वादाकाशस्यास्त्येव भासमानत्वरूपं व्यापकत्वमित्याह –
सिद्धान्त इति ।
आलोकाकारा या चाक्षषवृत्तिस्तस्यामभिव्यक्तो यः साक्षी तद्वेद्यत्वमित्यर्थः ।
सूत्रितामिति ।
प्रथमसूत्रेणार्थिकार्थतया प्रतिपादितामित्यर्थः । अविद्यामुपदर्श्य तस्याः ज्ञाननिरस्यत्वप्रदर्शनेनाविद्यानिवृत्तिसिद्धेः किमध्यासोपवर्णनेन गौरवादिति शङ्कितुरभिप्रायः ।
तच्छब्दार्थमाह –
आक्षिप्तमिति ।
एतच्छब्दार्थमाह समाहितमिति ।
एवंलक्षणमिति भाष्ये बहुव्रीहिसमासमभिप्रेत्य परिष्कृतार्थमाह –
उक्तलक्षणलक्षितमिति ।
मन्यन्त इति ।
प्रमाणकुशला इति शेषः । तद्विवेकेनेत्यस्य व्याख्यानमध्यस्तनिषेधेनेति । अध्यस्तस्याहङ्कारादेः निषेधेन विलयनेन अधिष्ठानस्वरूपस्य निर्धारणमवधारणात्मकविज्ञानं ब्रह्मविदो विद्यामाहुरित्यर्थः । नेदं रजतं किन्तु शुक्तिरेवेत्यध्यस्तातद्रूपरजतविलयनेन अधिष्ठानशुक्तिस्वरूपस्य प्रत्यगभिन्नब्रह्मणो निर्विचिकित्समवधारणात्मकं विज्ञानं विद्येति ब्रह्मविदो वदन्तीति भावः ।
उक्तन्यायेनेति ।
अविद्याकार्ये त्वविद्यानिवर्त्यत्वरूपोक्तहेतुद्वयेनेत्यर्थः ।
ननु कथमुक्तशङ्कायाः परिहारः तस्य परिहारस्य भाष्ये अप्रतीयमानत्वादित्यत आह –
मूलेति ।
तद्वर्णनमध्यासवर्णनमित्यर्थः ।
बन्धस्यानर्थरूपस्यावास्तवत्वद्योतयितुमक्षरार्थमाह –
अध्यस्तकृतेति ।
अध्यस्तः अहङ्कारादिः तत्कृतो योगप्रभावादिजनितसर्वज्ञत्वादिरूपो गुणः तत्कृतः अविवेकजनितब्रह्महत्यादिरूपो दोष इति विवेकः । अक्षरार्थः शक्त्या शब्दताडितार्थ इत्यर्थः ।
वृत्तानुवादपुरःसरमुत्तरभाष्यतात्पर्यमाह –
एवमिति ।
उक्तरीत्येर्थः । युष्मदस्मदित्यादिना नैसर्गिकोऽयं लोकव्यवहार इत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरन्योऽन्यविषयमविद्याशब्दितमध्यासं सिषाधयिषुस्तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तद्भावनिश्चयमुपपादयितुमिच्छन् प्रमाणमाहेति भावः । श्लोकः –
व्याख्यायते यदा भाष्यं सङ्केतो लिख्यते तदा ।
आदौ तु भाष्य इत्येवमन्ते व्याख्यान इत्यपि ॥
भाष्ये –
प्रमाणप्रमेयव्यवहारा इति ।
प्रमाणानां चक्षुरादीनां व्यवहारः उन्मीलननिमीलनादिरूपः क्रियाविशेषः प्रमेयघटादीनां व्यवहारः आनयनादिरूपः क्रियाविशेषः ।
सर्वाणि च शास्त्राणीति ।
कर्मशस्त्राणि मोक्षशास्त्राणि चेत्यर्थः । विधिप्रतिषेधमोक्षपराणीत्यत्र विधिप्रतिषेधपराणि मोक्षपराणीत्यनुभयत्र परशब्दस्यान्वयः । अध्यासं पुरस्कृत्य प्रमाणादिव्यवहाराः प्रवृत्ता इत्यनेनाध्यासाश्रयः प्रमातापि गम्यते, तथा चाविद्यावद्विषयाणि प्रत्यक्षादिप्रमाणानीत्युक्तं भवति तथा सति कथं पुनरविद्यावद्विषयाणीत्याद्यनुवादपूर्वकाक्षेपो युक्तः पुरोवादसम्भवादिति भावः । पुनःशब्दः प्रमाणान्तरद्योतकः ।
व्याख्याने
लौकिक इति ।
प्रमाता प्रमाणं प्रमेयमित्यादि व्यवहारो लोकिक इत्यर्थः । कर्ता करणं कर्मेत्यादिव्यवहारः कर्मशास्त्रीय इत्यर्थः । ध्याता ध्यानं ध्येयमित्यादिव्यवहारः मोक्षशास्त्रीय इत्यर्थः । ननु मोक्षशास्त्रेपि प्रमाणादिव्यवहारस्य सत्त्वादयं नियमः कथमिति चेत् । उच्यते । प्रधानोपसर्जनभावेनायं नियम उपपद्यत इति । तथा च त्रिविधव्यवहारस्य देहेन्द्रियादिष्वहंममाध्यासमूलकत्वं प्रत्यक्षसिद्धं व्यवहारहेतुत्वेनाध्यासोऽपि प्रत्यक्षसिद्धः प्रमाणानामविद्यावद्विषयत्वमपि प्रत्यक्षसिद्धमिति प्रमाणमुपन्यस्तं भवतीति भावः ।
ननु कर्मशास्त्रीयत्वं नाम कर्मशास्त्राणां सम्बन्धित्वमिति वाच्यम् , तत्र कानि मोक्षशास्त्राणीत्याशङ्क्य विधिनिषेधपराणि कर्मशास्त्राणि मोक्षपराणि मोक्षशास्त्राणीति विभागमाह –
तत्रेति ।
ननु मोक्षशस्त्रस्यापि विधिनिषेधपरत्वमेव वक्तव्यं तन्निष्ठत्वात्सकलशास्त्रस्य किं ततोऽन्यन्मोक्षपरत्वमित्याशङ्क्य मोक्षशास्त्राणां मोक्षपरत्वं नाम विधिनिषेधशून्यप्रत्यग्ब्रह्मपरत्वमित्याह –
विधिनिषेधशून्येति ।
एवमिति ।
उक्तप्राकरेणेत्यर्थः ।
उक्तप्रकारमेवाह –
व्यवहारहेतुत्वेनेति ।
वैशिष्ट्यं तृतीयार्थः व्यवहारहेतुत्वविशिष्टाध्यासे साक्षिसिद्धेऽपीत्यर्थः । परमते मानसप्रत्यक्षसिद्धोऽध्यास इति द्योतनार्थं सामान्यतः प्रत्यक्षपदनिवेशः । एवमुत्तरत्र विभावनीयम् । प्रमाणादीनामचेतनत्वेन तेषां व्यवहारः प्रमातारमन्तरा न सम्भवति प्रमातृत्वं प्रमाश्रयत्वं तच्चासङ्गस्यात्मनः विनाध्यासं न शक्यमुपपादयितुं तस्माद्व्यवहारहेतुत्वेनाध्यासे साक्षिप्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छतीति भावः ।
अध्यासो व्यवहारहेतुः सन् प्रत्यक्षप्रमाणसिद्ध इति साधयितुं प्रवृत्तेन ’तमेतमविद्याख्यमित्यादि मोक्षपराणी’त्येतदन्तेन भाष्यणैवाध्यासस्य व्यवहारहेतुत्वार्थं प्रमाणनिष्ठाविद्यावद्विषयत्वमपि प्रत्यक्षप्रमाणसिद्धमिति साधितं भवति तदनुवदन् भाष्यान्वयमाविष्करोति –
तत्तत्प्रमेयव्यवहारेति ।
अध्यासात्मकेति ।
अध्यासविशिष्टेत्यर्थः । अथवा अध्यासात्मकोऽर्थाध्यासस्वरूपः यः प्रमाता तदाश्रितत्वादिति यथाश्रुत एवार्थः । प्रमातृत्वविशिष्टस्य प्रमातुः साभासाहङ्कारस्यार्थाध्यासत्वज्ञापनार्थमिदं विशेषणमिति भावः ।
अविद्यावद्विषयत्वमिति ।
अध्यासवत्पुरुषाश्रयत्वमित्यर्थः । प्रत्यक्षं साक्षिप्रत्यक्षमित्यर्थः । ननु प्रमाणानामध्यासवत्प्रमात्राश्रयत्वं वक्तव्यं कुतः प्रमायास्तदाश्रयप्रतिपादनमिति चेन्न । प्रमेयव्यवहारहेतुभूतप्रमाणस्य यथा अध्यासवत्पुरुषाश्रयत्वं तथा प्रमेयव्यवहारहेतुभूतप्रमाया अपि तदाश्रयत्वज्ञापनार्थत्वात् । न चेदमप्रसक्तमिति वाच्यम् । प्रमाणानां प्रमाद्वारा प्रमेयव्यवहारं प्रति हेतुत्वात्तेषां प्रमाणानां प्रमात्राश्रितत्वेन तत्कार्यप्रमाया अपि तदाश्रितत्वप्रतिपादनं प्रसक्तमेवेति भावः । अथवा प्रमापदं प्रमाणपरम् , तथा च व्यवहारहेतुभूतस्य प्रमाणस्याध्यासवत्प्रमात्राश्रितत्वादिति भावः । प्रमाणानामिति निष्ठत्वं षष्ठ्यर्थः ।
विषयत्वमिति ।
अध्यासश्चेति शेषः । यद्यप्यन्यस्यान्यात्मकत्वावभासोऽध्यासः प्रत्यक्षसिद्धः अविद्यावद्विषयत्वं च प्रत्यक्षसिद्धं तथापि तयोः सद्भावे प्रमाणान्तरं पृच्छतीति भावः ।
अविद्यावद्विषयाणीति ।
यदा पुरुषोध्यासात्मकदोषयुक्तस्तदा चक्षुरादिकमप्यध्यासात्मकदोषयुक्तम् , तथा च यद्दुष्टकरणजन्यं ज्ञानं तद्भ्रम इति नियमः यथा पीतः शङ्ख इति ज्ञानम् , एवं च तानि चक्षुरादीनि सर्वदा भ्रमजनकान्येव स्युः न प्रमाजनकानीति अविद्यावद्विषयाणि तानि कथं प्रमाणानीति प्रामाण्याक्षेप इति भावः । अर्थापत्तिपदं प्रमाणपरं न प्रमापरं देवदत्तोऽध्यासवानित्याकारकार्थापत्तिरूपप्रमाकरणमर्थापत्तिः, तथा च अध्यासं विना व्यवहारो न सम्भवतीति व्यवहाररूपकार्यार्थापत्तिरध्यासे प्रमाणमिति भावः । तत्पदं व्यवहारपरं चैत्रोऽध्यासवान् व्यवहारवत्त्वात् मैत्रवद् व्यतिरेकेण घटवद्वेत्यनुमानं चाध्यासे प्रमाणमिति भावः ।
नन्विदं भाष्यमध्यासप्रमाणप्रतिपादनपरतयैव व्याख्यायते किमविद्यावद्विषयत्वे प्रमाणप्रतिपादनपरतयापि न व्याख्यायते प्रश्नविषयत्वेनोभयोः प्रसक्तेस्तुल्यत्वादिति चेन्न । अध्यासप्रमाणप्रतिपादनेनाविद्यावद्विषयत्वे प्रमाणप्रतिपादनस्य सुलभत्वात् , तथाहि प्रत्यक्षादिप्रमाणमध्यासवत्प्रमात्राधिष्ठितं सत्प्रवृत्तिकारण अचेतनत्वाद्रथादिवदिति प्रयोगः अचेतनस्य व्यवहारः चेतनाधिष्ठितत्वमन्तरा न सम्भवतीत्यन्यथानुपपत्तिरित्येतद्वयमविद्यावद्विषयत्वे प्रमाणमिति विभावनीयम् । न केवलमध्यासे व्यवहारलिङ्गकानुमानमेव प्रमाणं किन्तु व्यवहारपक्षकमपीत्याह –
देवदत्तेति ।
देहशब्देन मनुष्यत्वादिजातिविशिष्टः अवयवी अभिमतः, आदिशब्देन इन्द्रियग्राह्याद्यवयवग्रहणम् । देहे अहमित्यध्यासः इन्द्रियादौ ममेत्यध्यासः तन्मूलक इत्यर्थः । तस्याध्यासस्यान्वयश्च व्यतिरेकश्चान्वयव्यतिरेकौ तावनुसरतीत्यन्वयव्यतिरेकानुसारी तस्य भावस्तस्मादित्यर्थः । अन्वयः सत्त्वं व्यतिरेकोऽभाव इति विवेकः । व्यवहारः स्वव्यतिरेकद्वारा अध्यासव्यतिरेकानुसारी भवतीति भावः ।
यत् यदन्वयव्यतिरेकानुसारि तत्तन्मूलकमिति सामान्यव्याप्तिमाह –
यदित्थमिति ।
इत्थं पदान्वयव्यतिरेकानुसारी भवतीत्यर्थः । तथा तन्मूलकमित्यर्थः ।
सामान्यव्याप्तिं स्फुटीकर्तुं तदुचितं स्थलं प्रदर्शयति –
यथेति ।
मूलपदं कारणपरं यथा मृदन्वयव्यतिरेकानुसारित्वान्मृन्मूलो घटः तथा अध्यासान्वयव्यतिरेकानुसारित्वादध्यासमूलको व्यवहार इति भावः ।
कारणतयेति ।
कारणत्वेन साध्यप्रविष्टत्वादध्याससिद्धिरिति भावः । वाशब्दश्चार्थे ।
’उच्यते देहेन्द्रियादिष्वहमि’त्यादि भाष्यं श्रीभाष्यकारस्य वस्तुसङ्ग्राहकवाक्यं तस्यैव प्रपञ्चनं ’नहीन्द्रियाण्यनुपाधाये’त्यादि भाष्यमिति विभागमभिप्रेत्य उत्तरभाष्यं शङ्कोत्तराभ्यामवतारयति –
नन्विति ।
लिङ्गादेरिति ।
अनुमानप्रमणादेरित्यर्थः । प्रत्यक्षादीत्यादिपदेनानुमित्यादेः सङ्गृहीतत्वादित्यर्थः । व्यवहारः पुरुषकर्तृकव्यवहार इत्यर्थः ।
प्रमास्वरूपाणां प्रत्यक्षानुमितिशाब्दज्ञानानां व्यवहारमभिनयति –
द्रष्टेत्यादिना ।
अनुमाता अनुमितिकर्ता शाब्दप्रमारूपश्रवणकर्ता श्रोता । अनुमन्तेति पाठः प्रामादिकः अस्मिंश्च पाठे अनुमन्ता अनुमतिकर्ता अनुमतिः सम्मतिरित्यर्थः ।
यद्वेति ।
पुरुषः तानि ममत्वेनानुपादाय पुरुषस्य यो व्यवहारः स न सम्भवतीत्यन्वयः ।
प्रथमव्याख्याने पुरुषस्य व्यवारकर्तृत्वमात्रं, व्यवहारस्य तु अगृहीत्वेत्यनेन अनुपादानक्रियाकर्तृत्वं – न सम्भवतीत्यनेन चासम्भवक्रियाकर्तृत्वं चेत्युभयकर्तृत्वं प्रतिपाद्यते तस्मादनुपादायेत्येककर्तत्ववाचिक्त्वाप्रत्ययः साधुरिति परिष्करोति –
पूर्वत्रेति ।
द्वितीयव्याख्याने व्यवहारस्यासम्भवक्रियाकर्तृत्वमात्रं पुरुषस्य तु पुरुषोनुपादायेत्यनेनानुपादानक्रियाकर्तृत्वं पुरुषस्य व्यवहार इत्यनेन व्यवहारकर्तृत्वं चेत्युभयकर्तृत्वं प्रतिपाद्यते ततः प्रत्ययः साधुरिति स्फूटीकरोति –
उत्तरत्रेति ।
देहरूपधर्म्यध्यासामन्तरा हीन्द्रियादिरूपधर्माध्यासो न सम्भवतीति धर्म्यध्यासोङ्गीकरणीय इति परिहारमभिप्रेत्य धर्मिणं स्फोरयति –
इन्द्रियाणामिति ।
नन्विति ।
अचेतनेन्द्रियादेर्व्यवहारः चेतनसम्बन्धमन्तरा न सम्भवति रथादेर्व्यवहार इवातः चेतनसम्बन्धो वाच्यः इन्द्रियादेस्तु स्वाश्रयशरीरद्वारा परम्परासम्बन्धेन चेतनात्मसम्बन्धसत्त्वाद्व्यवहारोपपत्तेः किं धर्म्यध्यासेनेति शङ्कितुरभिप्रायः ।
आत्मशरीरयोः संयोगः सम्भवति चेत्तदा आत्मसंयुक्तशरीरसम्बन्धित्वेनेन्द्रियादेरात्मसम्बन्धो वक्तुं युज्यते स एव न सम्भवतीत्याशयं स्फुटीकरोति –
असङ्गो हीति ।
निरवयवस्यावयवसंश्लेषरूपसंयोगो नास्ति । सिद्धान्ते समवायस्तु नाभ्युपगत एव स्वरूपादिसम्बन्धस्तु संयोगादिमूलसम्बन्धपूर्वकः तथा चाध्यासेनैव व्यवहारनिर्वाह इति भावः ।
वृत्तिमात्रमिति ।
अन्तःकरणपरिणामविशेषमात्रमित्यर्थः ।
जगदान्ध्येति ।
जगतः व्यवहारविषयत्वप्रसङ्ग इत्यर्थः ।
प्रमा नाम वृत्तिसम्बन्धरहितचिद्रूपा वा चित्सम्बन्धरहितवृत्तिर्वा आहोस्विद्विशिष्टा वेति विकल्प्य प्रथमद्वितीयौ निरस्य तृतीयमङ्गीकरोति -
अतो वृत्तीद्ध इति ।
वृत्त्यभिव्यक्तो वृत्तीद्ध इत्यर्थः । वृत्तिमतो मनसः यत्तादात्म्यं सत्तैक्यरूपं तस्याध्यासं विनेत्यर्थः । वृत्तिरूपविशेषणांशे चाध्यासः धर्म्यध्यासं विना न सम्भवति, तथा च धर्म्यध्यासाभावेनोभयत्र धर्माध्यासाभावे वृत्तिविशिष्टबोधरूपप्रमाश्रयत्वं नेति फलितार्थः ।
’एतस्मिन् सर्वस्मिन्नसतीति’ भाष्यस्य मनस्तादात्म्याद्यध्यासाभावरूपतात्पर्यार्थो उक्तः सम्प्रति शब्दोक्तार्थमाह –
देहादीति ।
तद्धर्माध्यासे च देहधर्मस्येन्द्रियादेरध्यासे चेत्यर्थः ।
प्रत्याहेति ।
तिरस्करोतीत्यर्थः । प्रमातारमन्तरा ह्यचेतनेन्द्रियादिव्यवहारो नोपपद्यत इति सिद्धान्त्यभिप्रायः ।
अर्थापत्तिशब्दो व्याख्यातः तच्छब्दार्थं कथयन् भाष्यं योजयति –
अहमितीति ।
अध्यासं विना प्रमातृत्वायोगात्तदन्तर्गतत्वमध्यासस्येति भावः ।
पूर्वस्थितमेवकारमुत्तरपदेनान्वेति –
प्रमाणान्येवेतीति ।
ननु चैतन्याद्वितीयावभासं प्रति प्रमात्रन्तर्गतस्याविद्याध्यासस्य दोषत्वेन प्रसिद्धत्वात्कथमदोषत्वमित्यत आह –
सति प्रमातरीति ।
यथा चक्षुर्निष्ठकाचकामलदिः पश्चाद्भवन् दोषः तथा अविद्या तु प्रमात्रन्तर्गतत्वान्न दोष इत्यन्वयः । पूर्वस्माद्वैषम्यद्योतकस्तुशब्दः । प्रमाकारणीभूते प्रमातरि सति पश्चाद्भवन् तदकरणीभूतो यः स दोष इत्युच्यते यथा काचादिः पीतप्रमां प्रत्यकारणत्वात् अविद्यात्मकाध्यासस्तु प्रमात्रन्तर्गततया प्रमां प्रति कारणत्वान्न दोष इत्यर्थः । एतदुक्तं भवति । अकारणत्वेन योऽवतिष्ठते स दोषः स एव कारणत्वेनावतिष्ठते चेन्न दोषो भवति तथा चाविद्याध्यासस्तु चैतन्याद्वितीयावभासं प्रत्यकारणत्वाद्दोषः न द्वैतावभासं प्रति तत्र कारणत्वात्तद्यथा काचादिरकारणत्वाच्चक्षुरादिदोषोपि सन् तथाविधपापादृष्टमनुमापयन् तत्र कारणत्वान्न दोषस्तद्वदिति ।
साक्षात्कार इति ।
अपरोक्षानुभव इत्यर्थः ।
यौक्तिकमिति ।
युक्तिजन्यमित्यर्थः । अनुमानादिजन्यमिति यावत् ।
आत्मेति ।
आत्मा ह्यनात्मभिन्न इति परोक्षाज्ञानमित्यर्थः ।
बाधितेति ।
अपरोक्षज्ञानेन बाधितः अभासीकृतः अध्यासः बाधिताध्यासः तस्यानुवृत्त्येत्यर्थः ।
अपरोक्षज्ञानवतां व्यवहारकारणीभूताध्यासस्य बाधितत्वं कुत्र प्रतिपाद्यत इति जिज्ञासायामाह –
समन्वय इति ।
द्वितीयवर्णक इति शेषः । तथा चावरणे निवृत्तेपि पीतः शङ्खः इति यत् वासनात्मकविक्षेपशक्त्यंशानुवृत्तेर्जीवन्मुक्तानां वसिष्ठादीनां व्यवहारोप्यध्यासजन्य एव परन्तु तदीयाध्यासस्य बाधितत्वान्न तत्कारणव्यवहारस्य बन्धहेतुत्वमिति भावः ।
परोक्षेति ।
परोक्षज्ञानस्याहमित्यपरोक्षाध्यासानिवर्तकत्वाद्व्यवहारवतां तेषामध्यासाभावो वक्तुं न शक्यत इति भावः ।
पश्वादिभिश्चाविशेषादिति वाक्यस्यान्वयपूर्वकमर्थं परिष्करोति –
विवेकिनामपीति ।
परोक्षज्ञानिनामपरोक्षज्ञानिनामित्यर्थः ।
अध्यासवत्त्वेनेति ।
बाधितत्वाबाधितत्वविशेषेऽप्यध्यासवत्त्वेन तुल्यत्वादित्यर्थः ।
उक्तमिति ।
’उच्यते देहेन्द्रियादिष्वि’त्यादिभाष्यव्याख्यानावसरे उक्तमित्यर्थः ।
अनुभूततृणेति ।
अनुभूततृणनिष्ठतृणत्ववत्त्वादित्यर्थः ।
विवेकिनोपीति ।
अयं पुरुषो मदनिष्ठसाधनं बलवत्त्वे सति क्रूरदृष्टिमत्त्वात्तस्मिन्सत्याक्रोशवत्त्वाद्वा तस्मिन्सति खड्गोद्यतकरत्वाद्वा अनुभूतपुरुषवदित्यनुमाय विवेकिनोपि निवर्तन्ते । एवं क्रूरदृष्ट्यादिराहित्यविशिष्टसद्गुणत्वादिहेतुना चेष्टासाधत्वमनुमाय तद्विपरीतान् प्रति प्रवर्तन्त इति भावः ।
एतत्प्रत्यक्षमिति ।
अध्यासवत्त्वमेतच्छब्दार्थः, पश्वादिनिष्ठाध्यासः परप्रत्यक्षविषयो न भवतीति भावः । साध्यविकलः साध्यरहित इत्यर्थः ।
तेषामात्मेति ।
अहमिति सामान्यात्मकं ज्ञानमस्तीदं चेतनमिदमचेतनमिदं मदीयमित्यादिज्ञानं चास्ति पश्वादीनामिति भावः ।
मात्रपदव्यावर्त्यमाह –
न विवेक इति ।
शास्त्राचार्योपदेशाभावादहं देहेन्द्रियादिविलक्षण इति विवेकरूपवैलक्षण्यज्ञानं तु नास्तीति भावः ।
ननु शङ्कायाः कः परिहार इत्यत आह –
अत इति ।
पूर्वोक्तदोषसम्प्रयोगसंस्कारस्वरूपसामग्रीरूपलिङ्गात् पश्वादीनामध्यासोऽस्तीत्यनुमीयत इति न सध्यवैकल्यमिति भावः ।
निगमयतीति ।
पश्वादिभिश्चाविशेषादिति सङ्ग्रहवाक्ये तात्पर्येणोक्तं विवेकिनां व्यवहारस्याध्यासकार्यत्वमुपसंहरतीत्यर्थः ।
तैरिति –
सहार्थे तृतीया । व्यवहारवत्त्वं व्यवहारवत्त्वसमानधर्म इत्यर्थः । तस्य व्यवहारवत्त्वस्येत्यर्थः । दर्शनात् प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः ।
विवेकिनामिति ।
परोक्षज्ञानिनामपरोक्षज्ञानिनां चेत्यर्थः । यादृशः पश्वादीनां व्यवहारः प्रत्यक्षप्रमाणेन दृश्यते विवेकिनामपि तादृशो व्यवहारः प्रत्यक्षेण दृश्यते तथा च पश्वादिभिस्सह व्यवहारवत्त्वरूपसमानधर्मवत्त्वेन तत्तुल्यानां विवेकिनां पुंसां व्यवहारोप्यध्यासकार्यत्वरूपसमानधर्मेण पश्वादिव्यवहारतुल्य इति निश्चीयत इति समुदायग्रन्थार्थः । अत्रायं प्रयोगः विवेकिनां व्यवहारः तदीयाध्यासकार्यः तदध्यासान्वयव्यतिरेकानुसारित्वात्पश्वादिव्यवहारवदिति ।
उक्तं पुरस्तादिति ।
’अतः समानः पश्वादिभिः पुरुषाणामि’त्यादिभाष्यव्याख्यानावसरे पूर्वमुक्तमित्यर्थः ।
तत्रेति ।
उक्तसाम्य इत्यर्थः ।
उक्तेति ।
’उच्यते देहेन्द्रियादिष्वि’त्यादिभाष्यव्याख्यानावसर इति शेषः ।
परमप्रकृतमनुमानेनोक्तमध्यासवत्त्वमुपसंहरति –
अत इति ।
तथा च कृत्स्नलौकिकव्यवहारस्याध्यासकार्यत्वं साधितमिति स्थितम् ।
तस्य देहेति ।
कर्मकर्तुः देहातिरिक्तात्मज्ञानाभावे कर्मणि प्रवृत्तिरेव न स्यादतः फलभोक्ता देहातिरिक्तात्मास्तीति ज्ञानं कर्महेतुरिति शङ्कितुरभिप्रायः ।
भाष्ये
यद्यपि बुद्धिपूर्वकारीति ।
बुद्धिपूर्वकारी आत्मनः परलोकस्य सम्बन्धमविदित्वा नाधिक्रयत इत्यन्वयः । अपेतब्रह्मक्षत्रादिभेदं प्रपञ्चशून्यमेकरसमित्यर्थः ।
प्राक् च तथात्मभूतविज्ञानादिति ।
तत्त्वमसीति वाक्यार्थज्ञानात्प्रागित्यर्थः । प्रवर्तमानमिति । अविद्याकृतमहमुल्लेखमन्तरं संसारमाश्रित्य प्रवर्तमानमित्यर्थः ।
अतस्मिंस्तद्बुद्धिरिति ।
अतस्मिन् अयुष्मदर्थे अनिदञ्चिति तद्बुद्धिः युष्मदर्थावभास इत्यर्थः ।
व्याख्याने वैदिककर्मणः देहोहमित्यध्यासजन्यत्वाभावेऽपि क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीत्यध्यासजन्यत्वमस्तीति सिद्धान्तयितुं पूर्वोक्तं हेतुं विकल्प्य खण्डयति –
किं तत्रेत्यादिना ।
तत्र वैदिककर्मणीत्यर्थः ।
अध्यासाबाधकत्वादिति ।
क्षुत्पिपासादिग्रस्त इत्याद्यध्यासाबाधकत्वादित्यर्थः ।
तथापीत्यक्षरत्रयेणैव प्रथमपक्षोक्तपरिहारो ज्ञाप्यत इति भाष्यभावं स्फुटीकर्तुं द्वितीयपक्षनिरासपरत्वेनोत्तरभाष्यमवतारयति –
न द्वितीय इति ।
वर्णाश्रमवयोवस्थाध्यासानां चतुर्णां क्रमेणोदाहरणं प्रतिपादयति -
ब्राह्मणो यजेतेति ।
यद्यपि ’अष्टवर्षं ब्राह्मणमुपनयीते’त्यनेन वयोध्यासो वर्णाध्यासश्च प्रतिपाद्यते तथापि ब्राह्मणो यजेतेति वर्णाध्यासस्य पृथगुदाहरणं स्पष्टार्थम् ।
अध्यासमिति ।
चेतनाचेतनयोरैक्यावभासरूपमध्यासमित्यर्थः । एवमध्यासे प्रमाणसिद्धेऽपि लक्षणं स्मारयत्यनुवदतीति योजना ।
ननु पुनः किमर्थमुक्तलक्षणानुवाद इत्यत आह –
कस्येति ।
जिज्ञासायामिति ।
विशेषजिज्ञासायामित्यर्थः ।
तमुदाहर्तुमिति ।
अध्यासस्वरूपमुदाहृत्य विवेकतो दर्शयितुमित्यर्थः । ’स्मृतिरूपः परत्रे’त्यादिना ’अन्यस्यान्यधर्मावभासतां न व्यभिचरती’त्यन्तेन भाष्येणाधिष्ठानारोप्यविवादेपि परत्र परस्यावभासरूपाध्यासलक्षणं सर्वसंमतमिति परिष्कृतम् , तेन लक्षणेन लक्षितस्याध्यासस्य कुत्र कस्याध्यास इति विशेषोदाहरणजिज्ञासायामस्मदर्थे आत्मनि युष्मदर्थस्यानात्मनः तद्विपर्ययेण चाध्यास इति विविच्य दर्शनाय परत्र परावभासलक्षणमनुवदतीति भावः । ’युष्मदस्मदित्यादिलोकव्यवहार’ इत्यन्तभाष्येणाक्षेपसमाधानाभ्यामात्मानात्मनोरध्यासस्य विवेकतः प्रदर्शनमप्युक्तमेवातः पुनरुक्तमिति यदि प्रतीयेत तदा विस्तरेणात्र प्रतिपाद्याध्यास एव सिद्धवत्कृत्वा तत्र सङ्ग्रहेण विषयादिसिद्ध्यर्थमनूद्यत इति यदुक्तं तन्न विस्मर्तव्यम् ।
प्रतीकमादाय तच्छब्दस्यार्थमाह –
तल्लक्षणमिति ।
’तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्ये’त्यादिभाष्येण प्रत्यक्षत्वेन दर्शिताध्यासस्वरूपमित्यर्थः ।
यथा स्पष्टं भवतीति ।
देहेन्द्रियमनोभेदेन भिन्नानामनात्मनां तद्धर्माणां चात्मतद्धर्माणां चाध्यासस्य विभज्य दर्शनेन यथानुभवानुरूढं भवतीत्यर्थः ।
साकल्यादीनिति ।
साकल्यं नाम पूजादिसकलधर्मविशिष्टत्वम् , वैकल्यं तु तद्राहित्यं भाष्यस्थादिशब्दार्थः । देहविशिष्टत्वं देहतादात्म्यापन्नत्वम् ।
ननु तद्धर्माणामेवाध्यासोऽस्तु किं तत्तुल्यधर्माणामध्यास इत्यत आह –
भेदेति ।
पुत्रो मद्भिन्न इति भेदापरोक्षज्ञान इत्यर्थः ।
तत्रैव हेत्वन्तरमाह –
अन्यथेति ।
भाष्येणाप्रतिपादितं धर्मिणोर्देहेन्द्रिययोरध्यासं ज्ञापयन् तद्धर्माध्यासस्य वैलक्षण्यमाह –
कृशत्वेति ।
अज्ञात इति ।
अहमज्ञ इत्यज्ञानविषयत्वमज्ञातत्वम् ।
प्रत्ययाः कामाद्याः वृत्तयः अस्येति प्रत्ययी तथा चाहं चासौ प्रत्ययी चाहंप्रत्ययी स चाहङ्कारग्रन्थिरित्यभिप्रेत्याहंप्रत्ययिनमिति भाष्यार्थमाह –
अन्तःकरणमिति ।
प्रतीत्युपसर्गार्थकथनपूर्वकमञ्चतीत्यस्यार्थमाह –
प्रातिलोम्येनेति ।
आत्मनः स्वरूपेणाध्यासायोगात्संसृष्टत्वेनेत्युक्तम् । संसृष्टत्वं नाम तादात्म्यरूपसम्बन्धविशिष्टत्वं तथा चात्मसम्बन्धस्याध्यासमाहेत्यर्थः ।
ननु ’तं च प्रत्यगात्मानमि’ति भाष्येणात्मनोऽन्तःकरणादिषु अध्यासो दर्शितस्तत्कथमितरेतराध्यासे द्वयोरध्यस्यमानत्वेन मिथ्यात्वापातात् किञ्चिद्द्वयोरधिष्ठानत्वद्वयोर्विशेषावभासो न स्यादित्याशङ्क्याह –
अहमित्यध्यास इति ।
आन्ध्यपदं व्यवहाराविषयपरम् ।
न चेति ।
अध्यासविषयत्वेनाधिष्ठाने स्थितिरहितस्य नाध्यासे भानं तदङ्गीकारे अन्यथाख्यातिप्रसङ्गः स्यादिति भावः । रजतादाविदम्पदार्थस्य तादात्म्यरूपसंसर्गाध्यासो यथा तद्वदनात्मन्यात्मनः तादात्म्यरूपसंसर्गाध्यासोऽङ्गीकरणीय इति विभावनीयम् । जडस्येति निरूपितत्वं षष्ठ्यर्थः, जडनिरूपितमात्मनिष्ठाधिष्ठानत्वं चेतनत्वं च विपर्ययशब्दार्थः । विपर्ययोधिष्ठानं चैतन्यं चेति पाठान्तरम् । चैतन्यं जडविरुद्धस्वरूपमित्यर्थः ।
इत्थं भावे तृतीयेत्यभिप्रेत्य शेषपूर्त्यां वाक्यं योजयति -
तदात्मनेति ।
किं केवलस्यैवात्मनः सर्वत्र संसर्गाध्यास इत्याशङ्कायां विशेषमाह –
तत्राज्ञान इति ।
संसर्ग एष्टव्य इति पूर्वेणान्वयः । अनादिर्वृत्त्यविषयस्तादाम्यरूपाध्यासिकसम्बन्धः केवलात्मनः संसर्ग इत्यर्थः । अज्ञानोपहितस्याज्ञानोपाधिकस्येत्यर्थः । वृत्तिविषयः सादिराध्यासिकतादात्म्यसम्बन्धः अज्ञानोपहितस्यात्मनः संसर्ग इत्यर्थः । देहादौ मन उपाधिकस्यात्मानः सादिर्वृत्तिविषयः तादात्म्यरूपसंसर्ग एष्टव्य इत्यर्थः ।
भाष्याप्रतिपाद्यमात्मधर्माध्यासं स्फोरयन् फलितमाह –
एवमात्मनि वर्णिताध्यासमित्यादिग्रन्थः स्पष्टार्थः ।
अध्यासधर्मिग्राहकमिति ।
अध्यासस्वरूपग्राहकमित्यर्थः । एवं अध्यासं वर्णयित्वेत्यादिग्रन्थः स्पष्टार्थः ।
कुत्सितं शरीरं शरीरकमिति विग्रहमभिप्रेत्य कन्प्रत्ययस्यार्थमाह –
कुत्सितत्वादिति ।
शरीरकस्यायं शारीरकमिति विग्रहमभिप्रेत्य कन्प्रत्ययस्यार्थमाह –
तन्निवासीति ।
शरीरान्तर्वर्तिहृदयपुण्डरीकमध्यदहराकाशस्थितत्वात्तन्निवासीत्यर्थः ।
प्रथमवर्णकमिति ।
प्रथमसूत्रस्य प्रथमव्याख्यानमित्यर्थः ।