अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

१ परिच्छेदः

पूर्णानन्दी
यद्ब्र­ह्म­गो­च­र­वि­चि­त्र­त­मः­प्र­भा­वा­त्सं­सा­र­धी­ज­नि­त­दुः­ख­म­भू­ज्ज­नस्य । >
यद्ब्र­ह्म­धी­ज­नि­त­सौ­ख्य­म­भूच्च तस्य तं रुक्मि­णी­स­हि­त­कृ­ष्ण­महं नमामि ॥ १ ॥
यत्पा­द­प­द्म­भ­ज­ने­ष्व­नु­र­क्त­चित्ताः मोक्षङ्गता ह्यति­दु­रा­त्म­जनाः किमन्ये ।
यल्लीलया जग­द­भू­द्वि­वि­ध­स्व­रूपं तं रुक्मि­णी­स­हि­त­कृ­ष्ण­महं नमामि ॥ २ ॥
काशि­का­धी­श­वि­श्वेशं नमामि करुणानिधिम् ।
उमा­ङ्ग­स­ङ्गा­द­निशं पिश­ङ्गा­ङ्ग­प्र­का­श­कम् ॥ ३ ॥
यस्य स्मृतेरपि च शिष्यजना भवन्ति कामादिदोषरहिता ह्यति­शु­द्ध­चित्ताः ।
यद्ध्यानतः पर­म­का­र­ण­सु­स्थि­रास्ते तं श्रीगुरुं परमहंसयतिं नमामि ॥ ४ ॥
यो दृश्यते॓ऽयमिति सत्य­चि­दा­त्म­कात्मा शिष्या­दि­पु­ण्य­प­रि­पा­क­व­शा­दि­दा­नीम् ।
चिद्यो­ग­धा­रि­ण­म­ज­स्त्र­मजं स्मितास्यं तं श्रीगुरुं परमहंसयतीं नमामि ॥ ५ ॥
षट्शा­स्त्र­पा­री­ण­धु­री­ण­शि­ष्यै­र्युक्तं सदा ब्रह्म­वि­चा­र­शीलैः ।
अद्वै­त­वा­णी­च­र­णा­ब्ज­युग्मं मुक्तिप्रदं तत्प्रणतोऽस्मि नित्यम् ॥ ६ ॥
सूत्रभाष्यकृतौ नत्वा ह्यतिश्रेष्ठान् गुरूनपि ।
अभि­व्य­क्ता­भि­धा­व्याख्या क्रियते बुद्धिशुद्धये ॥ ७ ॥
रत्नप्रभां दुरूहां व्याखरोमि यथामति ।
धीकृ­ता­न­मि­ता­न्दो­षान् क्षमध्वं विबुधा ! मम ॥ ८ ॥

अत्र ताव­त्स्व­रू­प­त­ट­स्त­ल­क्ष­ण­प्र­मा­ण­त­त्सा­ध­नै­स्ता­त्प­र्या­द­द्वि­ती­य­ब्र­ह्म­बो­धकं श्रीमच्छारीरकं भाष्यं व्याचिख्यासुः श्रीरा­मा­न­न्दा­चार्यः प्रारि­प्सि­त­ग्र­न्थ­प­रि­स­मा­प्तये प्रचयगमनाय शिष्टा­चा­र­प­रि­पा­ल­नाय च “समाप्तिकामो मङ्गलमाचरेत्“ इत्य­नु­मि­त­श्रु­ति­बो­धि­त­क­र्त­व्य­ताकं शास्त्र­प्र­ति­पा­द्य­स्व­वि­शि­ष्टे­ष्ट­दे­व­ता­न­म­स्का­र­ल­क्षणं मङ्गलमाचरन् शिष्यशिक्षायै ग्रन्थथो निबध्नाति –
यमिहेति ।
इह व्यव­हा­र­भू­मा­वि­त्यर्थः । अपिशब्दस्य व्युत्क्र­मे­णा­न्वयः । अरिसहोदरोऽपि बिभीषणः मोक्ष­ल­ङ्का­सा­म्रा­ज्य­रूपं महत्पदमाप प्राप्तोऽभूदिति क्रियाकारकयोजना । अन­न्त­सु­ख­कृ­ति­मि­त्य­नेन स्वरूपलक्षणम् , इतरेण तटस्थलक्षणं चोक्तमिति भावः ॥ १ ॥

श्रीगौर्येति ।
श्रीगौ­र्ये­त्या­दि­तृ­ती­या­त्रयं कारणार्थकम् , करणं नामासाधारणं कारणम् , तथा च करणार्थे तृती­ये­त्यु­क्त्याऽ­र्थ­प्र­धा­ना­दिकं प्रति श्रीगौर्यादिः करणम् , ईश्वरस्तु साधारणकारणमिति ज्ञापितम् । नचेतरापेक्षायां सत्यमीश्वरस्य स्वात­न्त्र्य­हानिः स्यादिति वाच्यम् ? पाकादेः काष्टा­द्य­पे­क्षा­स­त्त्वेऽपि देवदत्तस्य तत्कर्तृत्वेन कार­का­प्रे­य­त्व­रू­प­स्वा­त­न्त्र्य­द­र्श­नात् , अतः स्वेष्टदेवताया न स्वात­न्त्र्य­हा­नि­रिति भावः । दुण्डिः विघ्नेश्वरः इत्यर्थः । इदं पदं रूढमिति ज्ञेयम् । उपकरणैः साधनैरित्यर्थः । अन्तविधुरं नाशरहितं षड्भा­व­वि­का­र­र­हि­त­मिति भावः ॥ २ ॥

मूकरहित इति ।
मूकोऽपि पण्डितः शास्त्रा­र्थ­ज्ञा­न­पू­र्व­क­वा­क्प्रौ­ढि­म­शाली इत्यर्थः ॥ ३ ॥

गुरु­प­र­म­गु­रु­प­र­मे­ष्ठी­गु­रून् स्तौति –
कामाक्षीति ।

अद्वैतभासेति ।
अद्वै­त­ब्र­ह्म­वि­ष­य­क­शा­स्त्र­ज­न्य­प्र­मि­त्ये­त्यर्थः । श्रीगुरोः स्मितास्यत्वं नाम जीव­न्मु­क्ति­द्यो­त­क­मु­ख­वि­का­स­व­त्वम् । निवृत्तः मोक्षमुखं प्राप्तोऽस्मि । यथाऽलिः कमलगः सन् मकरन्दपानेन निवृत्तो भवति तथा श्रीगु­रु­पा­द­प­द्मा­नु­स­न्धानः सन् तत्प्र­सा­दा­सा­दि­ता­द्वै­त­ज्ञा­ने­नाहं ब्रह्मा­न­न्द­म­नु­भ­वा­मीति भावः ।

ग्रन्थ­द्र­ष्ट्रू­णा­म­ना­या­से­ना­र्थ­बो­धाय स्वकृतश्लोकानां स्वयमेव व्याख्यामारभते –
मोक्षपुर्यामिति ।

“प्रकृष्टं प्रचुरं प्राज्यमदब्रं बहुलं” इति कोशमाश्रित्य व्याख्याति –
सम्पूर्णमिति ।
अभि­त्प­द­स्या­भे­दा­र्थ­कत्वं कथयन् शिवराम इति स्वनाम्नैव शिव­रा­म­यो­र्वे­दा­न्ते­ति­हा­स­पु­रा­ण­प्र­ति­पा­द्य­म­भेद्यं श्रीशि­व­रा­म­यो­गिनो ज्ञापयन्तीत्यतो देव­ता­क­टा­क्ष­ल­ब्धा­द्द्वै­त­नि­ष्ठा­प­राश्च परमेष्ठीगुरवः इत्येतमर्थं स्फुटीकरोति किञ्च शिवश्चासाविति । स्वना­म्ने­त्य­ने­ना­द्वै­त­सा­ध­क­यु­क्त्य­न्वे­ष­णाय तेषां चित्तव्यग्रता नास्तीति द्योत्यते । गुरुभ्यः परमेष्ठिगुरुभ्य इत्यर्थः । श्रीम­द्गो­पा­ल­स­र­स्व­ती­भि­रिति पर­म­गु­रु­भि­रि­त्यर्थः ॥ ४ ॥ तीर्थ इति शास्त्र इत्यर्थः । हंसपदस्य पक्षिपरत्वे तु जाल इत्यर्थः ॥ ५ ॥

व्याख्येति ।
पदच्छेदः पदा­र्थो­क्ति­र्वि­ग्रहो वाक्ययोजना ।
आक्षेपश्च समाधानमेतद् व्याख्या­न­ल­क्ष­णम् ॥
इति व्याख्यानलक्षणं वेदितव्यम् ।

भाष्य­र­त्न­प्र­भेति ।
भाष्यमेव रत्नं तस्य प्रभेत्यर्थः । भाष्या­र्थ­प्र­का­श­क­त्वा­दस्य ग्रन्थस्य भाष्य­र­त्न­प्र­भेति नामधेयमिति भावः ॥ ६ ॥

भाष्यं प्राप्येति ।
भाष्येण सम्बध्येति यावत् । वाग्भा­ष्य­यो­र्व्या­ख्या­न­व्या­ख्ये­य­भावः ॥ ७ ॥

ननु “सिद्धार्थं सिद्धसम्बन्दं श्रोतुं श्रोता प्रवर्तते” इत्य­व­श्य­व­क्त­व्यस्य सम्ब­न्ध­प्र­यो­ज­ना­दे­र­प्र­ति­पा­द­नात् प्रेक्षावतां प्रवृत्तिर्न स्यादि­त्या­शङ्क्य शास्त्रस्य ये विष­य­प्र­यो­ज­ना­धि­कारि सम्बन्धास्त एव स्वकृ­त­ग्र­न्थ­स्येति भाष्यो­क्त­वि­ष­या­दीन् ज्ञापयन् कृत्स्न­शा­स्त्रस्य मुख्यं विषयं सङ्गृह्णाति –
यदज्ञानेति ।
तदहं ब्रह्मा­स्मी­त्य­नेन विषयो बोध्यते, तेनैव फलस्य प्राप्य­ता­स­म्बन्धः, आन­न्दा­वा­प्ति­रू­प­प्र­यो­ज­न­मपि द्योत्यते, निर्भ­य­मि­त्य­ने­ना­न­र्थ­नि­वृ­त्ति­रू­प­प्र­यो­ज­न­मु­च्यते । अधिकारी त्वर्था­त्सि­द्ध्य­तीति भावः ॥ ८ ॥

ननु प्रथमसूत्रस्य विष­य­वा­क्य­त्वे­ना­भि­मता श्रोत­व्या­दि­श्रुतिः विधि­प्र­ति­पा­दिका, प्रथमसूत्रं तु जिज्ञा­सा­प्र­ति­पा­द­कम् , युष्म­द­स्म­दि­त्या­दि­भा­ष्य­म­ध्या­स­प्र­ति­पा­दकं भवति, तथा च भिन्ना­र्थ­प्र­ति­पा­द­क­त्वात् श्रुति­सू­त्रा­ध्या­स­भा­ष्याणां कथ­मे­क­वा­क्य­ते­त्या­शङ्क्य व्याचि­ख्या­सि­तस्य वेदा­न्त­शा­स्त्र­स्या­ना­र­म्भ­णी­य­त्व­दो­ष­नि­रासे प्रवृ­त्त­प्र­थ­म­सू­त्रा­ध्या­स­भा­ष्ययोः श्रोतव्य इत्या­दि­श्रु­ति­सू­त्र­योश्च सूत्रो­त्प­त्ति­सा­ध­न­पू­र्व­क­मे­का­र्थ­त्व­प्र­ति­पा­द­न­द्वारै एकवाक्यतां साधयितुं पातनिकां रचयति –
इह खल्वित्यादिना – प्रथमं वर्णयतीत्यन्तेन ।
तत्र इह खल्वित्यारभ्य ब्रह्मजिज्ञासा कर्त­व्ये­ती­त्य­न्त­ग्रन्थः सूत्रसाधनद्वारा श्रुतिसूत्रयोः प्राधा­न्ये­नै­क­वा­क्य­ता­प्र­ति­पा­द­न­परः । तत्र प्रकृ­ति­प्र­त्य­या­र्थ­यो­रि­त्या­रभ्य प्रथमं वर्ण­य­ती­त्य­न्त­ग्र­न्थस्तु सूत्रा­ध्या­स­भा­ष्ययोः प्राधा­न्ये­नै­क­वा­क्य­ता­प्र­ति­पा­द­न­पर इति पात­नि­का­ग्र­न्थ­वि­भागः । इदानीं पातनिकायां कानिचित् पदानि सङ्गृह्य सुखबोधाय वाक्यार्थो विरच्यते । इह वेदान्तशास्त्रे श्रोतव्य इति विधिरुपलभ्यते, उपलभ्यमानस्य विधेः कश्चि­द­नु­ब­न्ध­च­तु­ष्टयं जिज्ञासते तज्जि­ज्ञा­सि­त­म­नु­ब­न्ध­च­तु­ष्टयं न्यायेन निर्णेतुं श्रीबादरायणः सूत्रं रचयाञ्चकार, तस्य सूत्रस्य प्रस­क्ता­नु­प्र­स­क्ति­पू­र्व­क­मे­का­र्थ­प्र­ति­पा­द­क­त्व­रूपं श्रोतव्य इत्या­दि­श्रु­ति­स­म्बन्धं कथ­य­न्न­ध्या­स­भा­ष्य­स­म्बन्धं कथयतीति पीठिकाग्रन्थस्य निष्कृष्टोऽर्थः । इह वेदान्तशास्त्रे श्रव­ण­वि­धि­रु­प­ल­भ्यत इत्यन्वयः ।

ननु किं ज्ञानिनं प्रति विधिरुपलभ्यते उताज्ञानिनं प्रति, उभयथा विधिवैयर्थ्यं स्यात् , जिज्ञा­साऽ­नु­प­प­त्ते­रि­त्यत आह –
स्वाध्याय इति ।
विधेर्नित्यत्वं नामाकरणे प्रत्य­वा­य­बो­ध­क­त्वम् । अधीतः साङ्गस्वाध्यायो येन स इति विग्रहः । अधी­त­सा­ङ्ग­स्वा­ध्याये पुरुषे - इत्यर्थः । तथा चाधी­त­सा­ङ्ग­स्वा­ध्या­ये­ना­पा­त­नि­र्वि­शे­ष­ब्र­ह्म­ज्ञा­न­वन्तं पुरुषमुद्दिश्य विधिरुपलभ्यत इति भावः ।

विधि­वा­क्या­न्यु­दा­ह­रति –
तद्वि­जि­ज्ञा­स­स्वेति ।

केचित्तु – श्रोतव्य इत्यत्र न विधिः, सर्वेषां वेदा­न्ता­ना­म­द्वि­ती­य­ब्र­ह्म­ता­त्प­र्य­नि­श्च­या­त्मके श्रवणे विध्ययोगात् , किन्तु श्रोतव्य इत्यादिः विधि­च्छा­या­पऽऽन्नः स्वाभा­वि­क­प्र­वृ­त्ति­वि­ष­य­वि­मु­खी­क­र­णार्थं इति वदन्ति । केचि­द­पू­र्व­वि­धि­रिति । केचि­त्प­रि­स­ङ्क्या­वि­धि­रिति वदन्ति । तेषां मतं निराकर्तुं नियमविधिं साधयति –
तस्यार्थ इति ।

श्रवणपदस्य विचारार्थकत्वं कथयन् वेधेरर्थं कथयति –
अमृतत्वेति ।
विचारो नामो हापो­हा­त्म­क­मा­न­स­क्रि­या­रू­प­स्तर्कः । एव­का­र­स्यो­भ­य­त्रा­न्वयः । वेदा­न्त­वा­क्यै­रेव विचार इत्यनेन स्त्रीशू­द्रा­दीनां पुराणादिश्रवणेन परोक्षमेव ज्ञानं जायते, तेन जन्मान्तरे वेदा­न्त­श्र­व­णेऽ­धि­कारः, तेना­प­रो­क्ष­ज्ञा­न­मि­त्य­र्थोऽपि गम्यते । अद्वैतात्मविचार एवेत्यनेन द्वैत­शा­स्त्र­वि­चारो निरस्यते ।

वेदा­न्त­वा­क्यै­रे­वे­त्य­नेन वैदिकानां पुरा­णा­दि­प्रा­धान्यं निरस्यत इति विभागमभिप्रेत्य निय­म­वि­ध्य­ङ्गी­कारे फलितमर्थमाह –
तेनेति ।
तेनेतितृतीया समानाधिकरणा । विधेः काम्यत्वं नाम काम­ना­वि­ष­य­सा­ध­न­बो­ध­क­त्वम् । पक्ष­प्रा­प्त­स्या­प्रा­प्तां­श­प­रि­पू­र­ण­फ­लको विधिः निय­म­वि­धि­रि­त्यर्थः ।

परि­स­ङ्ख्या­वि­धि­भेदं ज्ञापयति –
अर्थादिति ।
विधि­प्र­ति­पा­द्य­वि­चा­रस्य विधि­स­न्नि­हि­त­वे­दा­न्त­वा­क्या­का­ङ्क्षा­स­त्त्वेन पुरा­णा­दि­प्रा­धा­न्या­दे­र्नि­रा­का­ङ्क्ष­त्वा­दि­त्यर्थः । वाशब्दश्चार्थे, वस्तुगतिः वास्तविकं ज्ञानम् , तथा चोक्तार्थे सर्वेषां वैदिकानां प्रमाऽऽ­त्म­क­नि­श्चय एव न सन्देह इति भावः ।

तत्रेति ।
श्रव­ण­वि­धा­वु­प­ल­भ्य­माने सतीत्यर्थः ।

उपलम्भे हेतुमाह –
भगवानिति ।
“उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति”
भगवच्छब्दार्थः । बदराः बदरीवृक्षाः यस्मिन् देशे सन्ति स देशविशेषो बादरः स एवायनं स्थानं यस्य स बादरायणः श्रीवेदव्यासः, अत्र संज्ञा­त्वा­ण्ण­त्व­प्राप्त्या कीटा­दि­वृ­त्ति­र्बोध्या । तदिति जिज्ञा­सा­वि­ष­यी­भू­त­मि­त्यर्थः ।

श्रव­णा­द्या­त्म­केति ।
श्रवणाद्यात्मकं यच्छास्त्रं तस्यारम्भः प्रवृत्तिः तस्मिन् प्रयोजकं कारणमित्यर्थः । श्रव­णा­दि­बो­ध­क­श­ब्दा­त्म­क­त्वा­च्छा­स्त्रस्य श्रव­णा­द्या­त्म­क­त्व­मिति भावः । एवमुत्तरत्र विज्ञेयम् ।

न्यायेनेति ।
“विशयो विषयश्चैव पूर्व­प­क्ष­स्त­थो­त्त­रम् ।
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् “
इति पञ्चा­व­य­वो­पे­ता­धि­क­र­णा­त्म­क­न्या­ये­ने­त्यर्थः ।

सूत्रमिति ।
“अल्पा­क्ष­र­म­स­न्दिग्धं सारवद्विश्वतो मुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः”
इति सूत्रलक्षणं विज्ञेयम् । (साम्नि “हा वूहा वूहा” इत्या­द्य­र्थ­र­हि­त­वर्णः स्तोभसंज्ञकः, तद्र­हि­त­म­स्तो­भ­मि­त्यर्थः । )

अर्थ­वा­द­वा­क्यै­र­धि­कारी ज्ञातुं शक्यते, कर्त­व्य­ता­रू­प­स­म्ब­न्धस्तु विधिना ज्ञातुं शक्यते, विषयप्रयोजने तूभयथा ज्ञातुं शक्येते इत्यतः प्रथमसूत्रं व्यर्थमिति शङ्कते –
नन्विति ।
विधि­व­त्स­न्नि­हि­ता­र्थ­वा­द­वा­क्यै­रि­त्यर्थः । विधि­स­न्नि­हि­तत्वं विध्ये­क­वा­क्य­ता­प­न्न­त्वम् । अर्थ­वा­द­वा­क्यत्वं नाम विध्यघटितत्वे सति वैदिकवाक्यत्वम् । तेन स्वार्थ­ता­त्प­र्य­काणां “तत्त्वमसि, अहं ब्रह्मास्मि” इत्या­दी­ना­म­र्थ­वा­द­वा­क्यत्वं युज्यत इति भावः ।

प्रथ­म­तोऽ­धि­का­रिणां निरूपयति –
तथा हीत्यादिना ।

श्रोतव्य इति विधि­स­न्नि­हि­ता­र्थ­वा­द­वाक्यैः साध­न­च­तु­ष्ट­य­मु­प­पा­द­यति –
तद्यथेति ।
कृतकं कार्यम् । लोक्यतेऽनुभूयत इति लोकः सस्या­दि­रि­त्यर्थः । निर्वेदं वैरा­ग्य­मि­त्यर्थः । श्रद्धैव वित्तं यस्य सः श्रद्धावित्तः । समाहितः = एकाग्रचित्तः ।

ननु श्रुति­भि­र्वि­वे­का­दि­वि­शे­ष­णा­न्येव प्रतिपाद्यन्ते नाधिकारी प्रतिपाद्यते, उभयत्र तात्पर्ये वाक्य­भे­द­प्र­स­ङ्गा­दि­त्या­शङ्क्य विशेषणानां धर्मत्वेन धर्मिणं विना सत्त्वा­स­म्भ­वा­द्ध­र्भि­रू­पा­धि­कारी चार्थाज्ज्ञातुं शक्यत एवेत्याह –
तथा चेति ।
यथेति प्रतितिष्ठन्ति ह वा य एता रात्री­रु­प­य­न्तीति वाक्यम् । अस्यार्थः – प्रतितिष्ठन्ति प्रति­ति­ष्ठा­स­न्ती­त्यर्थः । प्रतिष्ठां प्राप्तु­मि­च्छ­न्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तु­मि­च्छ­न्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तु­मि­च्छन्ति ते रात्रि­स­त्रा­ख्यानि कर्माणि कुर्युरिति । प्रतिष्ठाकामो यथाऽधिकारी तद्वदित्यन्वयः ।

अहं ब्रह्मा­स्मी­त्या­दिना विधि­स­न्नि­हि­त­वा­क्येन सिद्धं ब्रह्मा­त्मै­क्य­रूपं विषयं विधि­त­त्त्व­म­सी­त्या­दि­श्रु­त्यो­रे­क­वा­क्य­त्वाय दार्ढ्याय च परम्परया विधितोऽपि साधयति –
तथा श्रोतव्य इत्यादिना ।
तथाऽ­धि­का­रि­व­दि­त्यर्थः ।

नियो­गोऽ­पू­र्व­मिति प्राभाकरमतम् , तन्मतमवलम्ब्य विधेरर्थं कथयति –
श्रोतव्य इति ।
प्रत्य­य­स्त­व्य­प्र­त्ययः, श्रु श्रवण इति श्रुधातुः प्रकृतिरिति विवेकः । विचारस्य नियोगविषयत्वं नाम नियो­ग­हे­तु­क­कृ­ति­वि­ष­य­त्वम् ।

भवतु विचारो विषयस्तथाऽपि प्रकृते किमायातमित्यत आह –
विचारस्येति ।
विषया उद्देश्या इत्यर्थः ।

उक्तार्थे हेतुमाह –
आत्मेति ।

उक्तं हेतुं विवृणोति -
न हीति ।
अथवा –

ननु विचारस्य दर्श­न­हे­तु­त्वेऽपि कथं वेदान्तानां विचा­र­वि­ष­य­त्व­मि­त्या­शङ्क्य किं तद्देतुत्वं साक्षा­त्प­र­म्प­रया वा, नाद्य इत्याह –
नहीति ।
प्रमाणमेव साक्षा­द्द­र्श­न­हेतुः, प्रमाणन्तु वेदान्ता एव, अतः प्रमा­ण­भि­न्न­त्वा­त्त­र्क­रू­प­वि­चारो न साक्षा­द्द­र्श­न­हे­तु­रिति भावः ।

द्वितीये वेदान्तानां तद्विषयत्वं दुर्वारमित्याह –
अपि त्विति ।
प्रमाणं विषयः उद्देश्यं यस्य विचारस्य स तथा, वेदा­न्त­वा­क्या­न्यु­द्दिश्य विचारः क्रियतेऽतो वेदा­न्ता­ना­मु­द्दे­श्य­त्व­रू­प­वि­ष­यत्वं सम्भवति निश्चि­त­वे­दा­न्ता­ना­मेव शाब्दबुद्धौ हेतु­त्वा­न्नि­श्च­य­वि­शि­ष्ट­वे­दा­न्त­प्र­मा­ण­द्वारा विचारस्य हेतुत्वं च सम्भवतीति भावः । ननु प्रमाणस्य विचा­र­ज­न्य­त्वा­भा­वात् कथं विचारस्य प्रमाणद्वारा हेतुत्वमिति चेद् ? न – सर्वं वेदान्तवाक्यं ब्रह्म­ता­त्प­र्य­क­मिति तात्प­र्य­नि­श्च­यस्य विचारजन्यत्वेन विशि­ष्ट­प्र­मा­ण­स्यापि विचा­र­ज­न्य­त्वो­प­चा­रा­दिति भावः ।

अतीन्द्रियार्थे श्रुतिरेव स्वत­न्त्र­प्र­मा­ण­मि­त्याह –
प्रमाणञ्चेति ।
एव­का­रे­णा­नु­मा­नादेः प्रामाण्यं निरस्यते, श्रौता­र्थ­स­म्भा­व­नाऽ­र्थ­त्वेन गुणतया प्रामा­ण्या­ङ्गी­का­रेऽपि न मुख्य­प्रा­मा­ण्य­मिति भावः । औप­नि­ष­द­मु­प­नि­ष­दे­क­ग­म्य­मि­त्यर्थः ।

परमप्रकृतमाह –
वेदान्तानामिति ।
विषयः प्रतिपाद्यः ।

ननु विधिना ब्रह्मात्मैक्यं स्फुटं न प्रतिभासते तस्मात्कथं विष­य­सि­द्धि­रि­त्या­श­ङ्कायां तत्र स्फुटप्रतिपादकं प्रमाणमाह –
तत्त्वमिति ।

विधिसन्निहितस्य स्वार्थ­ता­त्प­र्य­का­र्थ­वा­दस्य तरति शोक­मा­त्म­वि­दि­त्या­दि­वा­क्य­द्व­यस्य विधिना सहैकवाक्यत्वाय दार्ढ्याय च विधिफलं निरूपयन् प्रयोजनं निरूपयति –
एवमिति ।

येन तरति शोक­मि­त्या­दि­वा­क्येन प्रयोजनं विदितं तेनैव प्राप्य­ता­रू­प­स­म्ब­न्धोऽपि वेदितव्य इत्याह –
तथेति ।
कर्त­व्य­ता­रू­प­स­म्बन्धः इति विधिनैव वेदितव्य इति भावः । ननु अधिकारिणा विचारस्य कर्तव्यतारूपः कथं सम्बन्धः, उभ­य­नि­ष्ठ­त्वा­भा­वा­दिति चेद् ? न – कर्तृ­नि­रू­पि­त­क­र्त­व्य­ता­रू­प­स­म्ब­न्ध­स्या­श्र­य­ता­स­म्ब­न्धेन विचा­र­नि­ष्ठ­त्वा­न्नि­रू­प­क­ता­स­म्ब­न्धेन कर्तृ­नि­ष्ठ­त्वा­च्चो­भ­य­नि­ष्ठ­त्व­मु­प­प­द्यत इति भावः । एवमन्यत्र योजनीयम् । इतिपदस्य पूर्वेण व्यव­हि­ते­ना­प्य­न्वयः । तथा च यथा साध­न­च­तु­ष्ट­य­स­म्प­न्नोऽ­धि­का­रीति ज्ञातुं शक्यं तथा ब्रह्मात्मैक्यं विषय इति, मुक्तिश्च फलमिति, कर्तव्यतारूपः सम्बन्ध इति, ज्ञातुं शक्यमिति भावः ।

ननूक्तसम्बन्धः ज्ञानमोक्षयोर्न सम्भवतीत्यतः प्रथ­म­सू­त्र­मा­व­श्य­क­मि­त्यत आह –
यथायोगमिति ।
ज्ञानमोक्षयोः जन्यजनकभावः सम्बन्धः । सोऽपि तरति शोक­मा­त्म­वि­दि­त्या­दि­श्रु­त्यैव ज्ञातुं शक्यतेऽतो न सूत्र­मा­व­श्य­क­मिति भावः । सुबोधः अनायासेन बोद्धुं योग्य इत्यर्थः ।

तस्मादिति ।
सौत्रा­था­दि­श­ब्द­बो­धि­त­स्या­धि­का­र्या­द्य­र्थ­स्या­धि­का­र्या­दि­प्र­ति­पा­द­क­श्रु­ति­भि­रेव ज्ञातुं शक्य­त्वा­त्सूत्रं व्यर्थमिति शङ्कि­तु­र­भि­प्रायः ।

न्यायसूत्रेति ।
न्याया­त्म­क­सू­त्रे­त्यर्थः ।

अनुबन्धचतुष्टये संशयमुपपादयति –
किं विवेकेति ।

विषये संशयमाह –
किं वेदान्ता इति ।
विचारविषया वेदान्ता इत्यर्थः ।

अथवा श्रोतव्य इति विधिप्रतिपादिते कर्त­व्य­ता­रू­प­स­म्बन्धे संशयमाह –
किं वेदान्ता इति ।

संशयेति ।
श्रुत्या प्रती­तेऽ­प्य­न्य­था­न्य­था­र्थस्य स्वस्यैव भास­मा­न­त्वा­द्वा­दि­भिर्वा प्रति­पा­दि­त­त्वा­त्सं­श­या­नि­वृ­त्ति­रिति भावः । आपाततः स्वबुध्या वादिभिर्वा प्रयु­क्ता­प्रा­मा­ण्य­श­ङ्का­क­ल­ङ्कि­त­त्वेन जायमाना या प्रतिपत्तिः संश­या­दि­स्त­द्वि­ष­यी­भूतः प्रतिपन्नः स चासा­व­धि­का­र्या­दिश्च तस्येत्यर्थः ।

आगामिकत्वेऽपीति ।
आगमेन प्रति­पा­द्य­त्वेऽ­पी­त्यर्थः ।

वाच­स्प­ति­त­न्म­ता­नु­सा­रिणां मतं दूषयति –
येषामिति ।
वादिनां मते श्रवणं नाम आग­मा­चा­र्यो­प­दे­श­जन्यं ज्ञानम् , तथा च कृत्यसाध्ये ज्ञाने विधिर्न सम्भवतीति भावः ।

नन्वविहितश्रवणे माऽस्त्व­धि­का­र्या­दि­नि­र्ण­या­पेक्षा, तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­दिति ज्ञानार्थतया विधीयमाने गुरू­प­स­द­नेऽ­धि­का­र्या­दि­नि­र्ण­या­पे­क्षायाः सत्त्वात्कथं सूत्रं व्यर्थम् ? इत्यत आह –
इत्यलमिति ।
इतिशब्दः शङ्कार्थकः, एतस्याः शङ्कायाः परिहारः उक्त­श्चे­द्ग्र­न्थ­वि­स्तरो भवति तस्मादलमिति भावः । अयमाशयः – गुरूपसदनस्य श्रव­णा­ङ्ग­त­याऽ­ङ्गि­श्र­व­ण­वि­ध्य­भावे गुरू­प­स­द­न­वि­धे­र­भा­वे­ना­धि­का­र्या­दि­नि­र्ण­या­न­पे­क्ष­णात् सूत्रं व्यर्थमेवेति दिक् ।

ननु भगवतो वेदव्यासस्य श्रुत्यर्थे सन्देहाभावात् सूत्रकरणं व्यर्थमिति चेद् ? न – शिष्यसन्देहं निमित्तीकृत्य तेषां निश्चयार्थं सूत्रा­णा­म­व­श्य­क­र­णी­य­त्वा­दि­त्य­भि­प्रेत्य श्रुतिसूत्रयोः सम्बन्धमाह –
तथा चेति ।
श्रव­ण­वि­धि­नाऽ­पे­क्षितो योऽधिकार्यादिः तत्प्र­ति­पा­दि­काभिः श्रुति­भि­र­धि­का­र्या­द्य­र्थ­नि­र्ण­या­यो­त्पा­दि­त­त्वा­त्प्र­यो­ज्य­प्र­यो­ज­क­भावः प्रथमसूत्रस्य श्रुत्या सह सङ्गतिरित्यर्थः । नन्व­धि­का­र्या­दि­श्रु­तीनां स्वार्थबोधकत्वं चेत्सर्वासां श्रुतीनां ब्रह्म­बो­ध­क­त्व­मिति सिद्धान्तविरोध इति चेद् ? न – शक्त्या स्वार्थ­बो­ध­न­द्वारा तात्पर्येण ब्रह्म­बो­ध­क­त्वान्न विरोध इति भावः ।

ननु तथापि कथमस्य सूत्रस्य शास्त्रा­ध्या­य­पा­देषु प्रवृत्तिः सम्ब­न्धा­भा­वा­दि­त्या­शङ्क्य तैः सम्बन्धमाह –
शास्त्रे­त्या­दिना ।
तथा च एत­त्सू­त्र­वि­शि­ष्टत्वं शास्त्रा­ध्या­य­पा­दानां युक्तमिति भावः ।

“चिन्तां प्रकृ­त­सि­द्ध्य­र्था­मु­पो­द्घातं प्रचक्षते” इत्यु­पो­द्घा­त­ल­क्ष­ण­मु­प­पा­द­यन् सूत्रस्य शास्त्रा­दि­स्व­रू­पेण जन्माद्यस्य यत इति सुत्रेण सङ्गतिमाह –
शास्त्रारम्भेति ।
सूत्रार्थविचारं विना निर्णयानुदयाद् निर्णायकपदं निर्ण­या­नु­कू­ल­वि­चा­र­ज­न­क­प­रम् । तथा च शास्त्रारम्भः प्रकृतः तद्धे­त्व­नु­ब­न्ध­च­तु­ष्ट­य­नि­श्च­या­नु­कू­ल­वि­चार एव तत्सि­ध्य­र्थ­चि­न्ता­रू­पो­पो­द्घातः तद्धेतुत्वेन सूत्र­स्यो­पो­द्घा­त­त्व­मु­प­च­र्यत इति भावः ।

शास्त्रादाविति ।
शास्त्रं सूत्रसन्दर्भः तस्या­दि­र्ज­न्मा­दि­सूत्रं तस्मि­न्नि­त्यर्थः । वर्तत इति शेषः । शास्त्रा­दि­स­ङ्ग­ति­प्र­द­र्श­नेन शास्त्र­स­ङ्ग­ति­र­प्यु­क्तै­वेति भावः ।

अधि­का­र्या­दि­श्रु­ति­निष्ठं यत्स्वा­र्थ­बो­ध­कत्वं तद्रू­पै­का­र्थ­प्र­ति­पा­द­कत्वं सूत्र­स­म­न्व­या­ध्या­ययोः सम्बन्धः इत्याह –
अधिकारीति ।
सूत्र­स्ये­त्य­स्या­त्रा­प्य­नु­षङ्गः । तस्य सङ्ग­ति­रि­त्य­ने­ना­न्वयः । अधि­का­र्या­दि­श्रु­तीनां यः स्वार्थोऽ­धि­का­र्यादिः तस्मि­न्न­धि­का­र्या­दि­श्रु­तीनां यः सम­न्व­योऽ­वा­न्त­र­ता­त्प­र्येण बोधकत्वं तस्योक्तेः सूत्र­स­म­न्व­या­ध्या­याभ्यां प्रति­पा­द­ना­दि­त्यर्थः । अधि­का­र्या­दि­श्रु­ति­निष्ठः यः स्वार्थसमन्वयः तत्प्र­ति­पा­द­क­त्वा­त्सू­त्रा­ध्या­य­यो­रिति यावत् । तथा च विवे­का­दि­वि­शे­ष­ण­वि­शि­ष्टोऽ­धि­कारी, अन्यो वेत्या­द्यु­क्त­रीत्या श्रुति­प्र­ति­पा­दि­ता­धि­का­र्या­द्य­नु­ब­न्ध­च­तु­ष्टये सन्देहं प्राप्तेऽ­धि­का­रि­श्रुतेः विवे­का­द­वि­शे­ष­ण­वि­शि­ष्टा­धि­का­रि­बो­ध­क­त्व­मेव । विषयश्रुतेः ब्रह्मा­त्मै­क्य­रू­प­वि­ष­य­स­म­न्वय एवेत्येवं सम­न्व­य­प्र­ति­पा­द­नार्थं प्रवृत्तयोः प्रथ­म­सू­त्रा­ध्या­य­यो­र­धि­का­र्या­दि­श्रु­ति­नि­ष्ठा­धि­का­र्या­दि­स­म­न्व­य­प्र­ति­पा­द­क­त्वस्य सत्त्वात् प्रथमाध्यायेन प्रथमसूत्रस्य सङ्गतिरिति भावः । ननु सम­न्व­या­ध्या­ये­ना­धि­का­र्या­दि­श्रु­ति­नि­ष्ठ­स­म­न्वयो न कुत्रापि प्रतिपाद्यतेऽतः कथ­म­धि­का­र्या­दि­श्रु­ति­स­म­न्व­य­प्र­ति­पा­द­क­त्व­म­स्येति चेद् ! न – अध्या­य­स्थि­त­स­म­न्व­य­सू­त्रेण सर्वश्रुतीनां स्वार्थ­बो­ध­क­त्व­प्र­ति­पा­द­न­द्वारा तात्पर्येण ब्रह्मसमन्वयस्य प्रति­पा­द­ना­द­धि­का­र्या­दि­श्रु­तीनां समन्वयोऽपि तात्पर्येण प्रतिपाद्यत एव । अथ­वाऽ­ध्या­य­स­म्ब­न्धि­जि­ज्ञा­सा­सू­त्रेण तत्प्र­ति­पा­द­न­मे­वा­ध्या­येन तत्प्र­ति­पा­द­न­मि­त्य­ङ्गी­का­रान्न पूर्वोक्तदोषः । तथा चाधि­का­र्या­दि­श्रु­ति­नि­ष्ठ­म­वा­न्त­र­ता­त्प­र्येण स्वार्थ­बो­ध­क­त्व­द्वारा महातात्पर्येण यद्ब्र­ह्म­बो­ध­कत्वं तद्रू­पै­का­र्थ­प्र­ति­पा­द­कत्वं सूत्राध्याययोः सम्बन्ध इति प्रथमाध्याये जिज्ञा­सा­सू­त्रस्य प्रवेश इति निष्कृष्टोऽर्थः । एवमेव पाद­स­ङ्ग­ता­व­प्यू­ह­नी­यम् ।

स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­श्रु­ति­नि­ष्ठ­स्वा­र्थ­बो­ध­क­त्व­रू­पै­का­र्थ­प्र­ति­पा­द­कत्वं सूत्र­प्र­थ­म­पा­दयोः सङ्गतिरित्याह –
ऐतदात्म्यमिति ।
अध्या­य­स­म्ब­न्ध­वै­ल­क्ष­ण्याय द्विती­या­दि­पा­द­वै­ल­क्ष­ण्याय च श्रुतीनां स्पष्ट­ब्र­ह्म­लि­ङ्ग­त्व­वि­शे­ष­णम् । विष­या­दा­वि­त्य­त्रा­दि­श­ब्देन प्रयोजनादिकं बोध्यते । प्रथ­म­सू­त्र­प्र­थ­म­पा­दयोः स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­श्रु­ति­नि­ष्ठ­वि­ष­या­दि­स­म­न्व­य­प्र­ति­पा­द­क­त्वा­त्सू­त्रस्य पादेन सह सङ्गतिरिति भावः ।

ननु प्रथमसूत्रस्य श्रुत्या सहो­क्त­स­म्ब­न्धोऽस्तु को वेतरेषां सूत्राणां सम्बन्ध इत्यत आह –
एवमिति ।
तथेत्यर्थः । यथा प्रथ­म­सू­त्र­स्या­धि­का­र्या­दि­श्रु­तिभिः प्रयो­ज्य­प्र­यो­ज­क­भावः सम्बन्धः तथेतरेषां तत्तत्सूत्राणां प्रयो­ज्य­प्र­यो­ज­क­भावः सम्बन्ध इति भावः ।

नन्वध्यायादौ प्रथमसूत्रस्य कथ­मि­त­र­सू­त्रा­णा­म­ध्याये प्रवेशः, सम्ब­न्धा­भा­वा­दि­त्यत आह –
तत्तदिति ।
सूत्रा­णा­मि­त्य­स्या­त्रा­नु­षङ्गः कर्तव्यस्तेषां सङ्ग­ति­रू­ह­नी­ये­त्य­ने­ना­न्वयः शास्त्र­प­द­स्या­प्य­नु­षङ्गः, तथा च तत्तत्सूत्रस्य शास्त्रेण तत्तदध्यायेन तत्तत्पादेन च सहै­क­वि­ष­य­त्वा­त्स­ङ्ग­ति­रू­ह­नी­येति भावः ।

शास्त्रा­ध्या­य­पा­दानां किं तत्प्र­मे­य­मि­त्या­का­ङ्क्षायां क्रमेण तन्निरूपयति –
प्रमेयमिति ।
सम्पू­र्ण­शा­स्त्रेण प्रतिपाद्यं ब्रह्मैवेति भावः ।

शास्त्र­स्या­ध्या­य­च­तु­ष्ट­या­त्म­क­त्वे­ना­ध्या­य­भे­दकं तद­वा­न्त­र­प्र­मे­य­माह –
अध्यायानामिति ।
फलानीत्यस्य पूर्वेण प्रमे­य­मि­त्य­ने­ना­न्वयः, प्रथमाध्यायस्य समन्वयः प्रमेयम् , द्विती­या­ध्या­य­स्या­वि­रोधः प्रमेयमित्येवं वाक्ययोजना । तथा चाध्यायैः समन्वयादिकं प्रतिपाद्यत इति भावः ।

अध्यायस्य पाद­च­तु­ष्ट­या­त्म­क­त्वेन पादभेदकं प्रमेयमाह -
तत्रेति ।
प्रथमाध्याय इत्यर्थः । प्रमेयं विषय इत्यर्थः ।

द्विती­य­तृ­ती­य­पा­दयोः प्रायेण सवि­शे­ष­नि­र्वि­शे­ष­ब्र­ह्म­प्र­ति­पा­द­क­त्वा­त्प­र­स्परं भेद इत्यभिप्रेत्य प्रमेयं निरूपयति –
द्वितीयेति ।
अस्प­ष्ट­ब्र­ह्म­लि­ङ्गानां समन्वयः प्रमेयमित्यर्थः ।

वेदान्तेति ।
वेदा­न्त­वि­ष­य­क­पू­जि­त­वि­चा­रा­त्म­क­शा­स्त्र­मि­त्यर्थः । विषय उद्दे­श्य­मि­त्यर्थः ।

विषयप्रयोजनेति ।
नन्व­धि­का­रि­स­म्ब­न्ध­स­म्भ­वा­स­म्भ­वा­भ्या­म­प्य­धि­क­रणं रच्यताम् ; किं विष­य­प्र­यो­ज­न­स­म्भ­वा­स­म्भ­वा­भ्या­मेव, चतुर्णां प्रस­क्ते­स्तु­ल्य­त्वा­दिति चेद् ? न – तृती­य­च­तु­र्थ­व­र्ण­क­यो­र­धि­का­रि­स­म्ब­न्ध­स­म्भ­वा­स­म्भ­वा­भ्या­म­धि­क­र­णस्य निरू­प­णी­य­त्वा­न्नात्र प्रथमवर्णके ताभ्यामधिकरणं रच्यते । न च विनिगमनाविरह इति वाच्यम् ? प्रयोजनस्य प्रथ­म­मा­का­ङ्क्षि­त­त्वेन मुख्य­त्वा­त्त­त्सिद्धेः विष­य­सि­द्धि­म­न्तरा निरू­प­यि­तु­म­श­क्य­त्वा­द्वि­ष­य­प्र­यो­जने पुर­स्कृ­त्या­धि­क­रणं रच्यत इति भावः ।

ब्रह्मात्मना ऐक्यशून्यौ विरु­द्ध­ध­र्म­व­त्वा­द्द­ह­न­तु­हि­न­व­दि­त्य­नु­मा­न­म­भि­प्रेत्य पूर्वपक्षयति -
अत्रेति ।

नाहं ब्रह्मेति प्रत्य­क्ष­स्या­ह­मंशे विशि­ष्ट­वि­ष­य­क­त्वेन विशिष्टत्वेन रूपेणात्मनः ब्रह्मै­क्या­न­ङ्गी­का­रेण प्रत्य­क्ष­वि­रो­धा­भा­वा­दु­क्ता­नु­मा­नस्य सत्प्र­ति­प­क्ष­त्वा­दि­दो­ष­ग्र­स्त­त्वा­द्ब­न्ध­स्या­ध्य­स्त­त्वाच्च विष­य­प्र­यो­ज­न­सि­द्धि­रिति सिद्धान्तसूत्रं पठति –
सिद्धान्त इति ।
सत्प्र­ति­प­क्षा­नु­मा­न­म­नु­पदं वक्ष्यते ।

नन्वस्य सूत्रस्य कथं श्रोतव्य इति श्रुतिमूलकत्वं भिन्ना­र्थ­क­त्वा­दि­त्यत आह –
अत्रेति ।
इदमुपलक्षणं पुरु­ष­प्र­वृ­त्ति­सि­द्ध्य­नु­वा­द­प­रि­हा­रयोः । तथा च विधि­स­मा­ना­र्थ­त्वा­या­नु­वा­द­प­रि­हा­राय च शास्त्रे पुरु­ष­प्र­वृ­त्ति­सि­द्धये च सूत्रे कर्तव्येति पद­म­ध्या­ह­र्त­व्य­मिति भावः ।

कर्त­व्य­प­दा­ध्या­हारे श्रीभा­ष्य­का­र­स­म्म­ति­माह –
अध्या­ह­र्त­व्य­मिति ।
मिश्र­म­ता­नु­सा­रि­णस्तु - श्रुति­सू­त्र­यो­रै­क्य­रू­प­नि­य­मा­भावं, विष­य­प्र­यो­ज­न­ज्ञा­ना­देव पुरु­ष­प्र­वृ­त्ति­सिद्धिं, श्रवणे विध्यसम्भवं च मन्वानाः कर्तव्यपदं नाध्या­ह­र्त­व्य­मिति वदन्ति । तन्मते साध­न­च­तु­ष्ट­य­स­म्प­त्त्य­न­न्तरं ब्रह्म­जि­ज्ञा­सेच्छा भवति, कर्म­फ­ल­स्या­नि­त्य­त्वाद् ब्रह्म­ज्ञा­ना­त्प­र­म­पु­रु­षा­र्थ­श्र­व­णा­च्चेति श्रौतोऽर्थः । ज्ञानस्य विचा­र­सा­ध्य­त्वात् विचा­र­क­र्त­व्य­ताऽ­र्थि­कै­वेति । अत्र विचा­रा­ना­र­म्भ­वा­दिनः उपायान्तरसाध्या मुक्तिरिति फलमिति ज्ञेयम् ।

ननु कर्तव्यत्वं कृतिसाध्यत्वं, तथा च ज्ञानेच्छयोः कृत्यसाध्यत्वेन कर्त­व्य­त्व­स्या­न­न्व­या­त्क­र्त­व्य­पदं कथ­म­ध्या­ह­र्त­व्य­मतः श्रुति­रू­प­मू­ल­प्र­मा­ण­र­हि­त­त्वे­नेदं सूत्र­प्र­मा­ण­मि­त्या­शङ्कां सङ्ग्र­हे­णो­द्घाट्य परिहरति -
तत्रेति ।
सूत्रेऽ­ध्या­हा­रेऽ­व­श्य­क­र्तव्ये सतीत्यर्थः । ज्ञाऽवबोधन इति धातुः प्रकृतिः, प्रत्ययः सन्प्रत्यय इति विवेकः ।

फलीभूतमिति ।
अज्ञा­न­नि­वृ­त्ति­रू­प­फ­ल­सा­ध­न­त्वेन फलीभूतमित्यर्थः ।

अजहदिति ।
वाच्यार्थस्य ज्ञान­स्या­त्या­गा­द­ज­ह­ल्ल­क्ष­णेति भावः ।

ननु तथाऽ­प्यु­क्त­दो­ष­ता­द­व­स्थ्य­मि­त्यत आह –
प्रत्ययेनेति ।
शक्यसम्बन्धिनी लक्षणेति ज्ञानार्थं इच्छासाध्यपदम् । वाच्या­र्थे­च्छायाः परि­त्या­गा­ज्ज­ह­ल्ल­क्ष­णेति भावः । श्रौतोऽर्थः व्यङ्ग्या­र्था­द्भि­न्नोऽर्थः लाक्षणिकार्थ इति यावत् । सौत्राथशब्देन विशिष्टाधिकारी बोध्यते । तथा च साध­न­च­तु­ष्ट­य­स­म्प­न्ने­ना­धि­का­रिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः । मोक्षेच्छाया अधि­का­रि­वि­शे­ष­ण­त्वेन तद्द्वा­राऽ­धि­का­रि­वि­शे­ष­णी­भूतो यो मोक्षस्तत्साधनं ब्रह्म­ज्ञा­न­मि­त्य­र्था­त्सि­द्ध्यति । अस्ति ताव­द्वे­दा­न्त­वा­क्य­सा­न्निध्यं श्रवणविधेः विधि­स­मा­ना­र्थ­क­त्वेन सूत्रस्यापि तत्सा­न्नि­ध्य­म­स्ती­त्यतः वेदा­न्त­वा­क्यै­र­द्वै­ता­त्म­वि­चारः सिद्ध्यति । तथा च साध­न­च­तु­ष्ट­य­स­म्प­न्ने­ना­धि­का­रिणा मोक्ष­सा­ध­न­ब्र­ह्म­ज्ञा­नाय वेदा­न्त­वा­क्यै­र­द्वै­ता­त्म­वि­चारः कर्तव्य इति सूत्रस्य तात्पर्येण प्रति­पा­द्योऽर्थः । ननु विचारलक्षणायैव कर्त­व्य­प­द­स्या­न्व­या­स­म्भ­वा­द­प्र­मा­णिकी ज्ञानलक्षणेति चेद् ? न – ज्ञान­ल­क्ष­णा­न­ङ्गी­कारे ज्ञानस्य सुख­प्रा­प्ति­दुः­ख­नि­वृ­त्त्य­न्त­र­रू­प­त्वा­भा­वेन स्वतः पुरु­षा­र्थ­त्वा­यो­गाद् ज्ञानाय विचारः किमर्थ इति विचारलक्षणाया अप्य­प्र­यो­ज­क­त्वे­ना­ना­व­श्य­क­त्वा­द­न्व­या­नु­प­प­त्ते­स्ता­द­व­स्थ्य­मि­त्या­शङ्कां वारयितुं ज्ञानेऽपि लक्षणायाः स्वीकार्यत्वात् ।

ननु तथापि ज्ञानस्य स्वतः फलत्वायोगो दुर्वार इत्याक्षेपे तदयोगं सूचयन् ज्ञानस्य फलत्वं सूत्र­ता­त्प­र्या­र्थ­क­थ­न­व्या­जेन विवृणोति –
तत्रेति ।
सूत्रज्ञानपदस्य लक्षणाङ्गीकार इत्यर्थः । ब्रह्मज्ञानस्य इच्छा­वि­ष­य­त्वा­त्पु­रु­षा­र्थ­रू­प­फ­लत्वं प्रतीयते प्रतीयमानस्य फलत्वस्य स्वरू­पे­णा­यो­गा­त्फ­ल­सा­ध­न­त्वे­नैव तत् वक्तव्यं तत्साध्यफलं किमि­त्या­का­ङ्क्षा­याम् अथ­श­ब्दो­पा­त्ता­धि­का­रि­वि­शे­ष­णी­भू­तोऽ­न­र्थ­नि­वृ­त्ति­रूपो मोक्षः फलत्वेन सम्बध्यते । यथा – स्वर्गकामो यजेतेत्यत्र अधि­का­रि­वि­शे­ष­णी­भूतः स्वर्गः फलत्वेन सम्बध्यते तद्वत् । अतः फली­भू­त­मो­क्ष­सा­ध­न­त्वेन ब्रह्मज्ञानस्य फलत्वं युज्यत इति ज्ञानाय विचारो युक्त इति भावः ।

हेतूक्तिद्वारा अन­र्थ­नि­व­र्त­क­त्व­मु­प­पा­द­यति –
तत्रानर्थस्येति ।
अध्यस्तत्वं मिथ्यात्वम् । ननु बन्धस्य सत्यत्वमेवास्तु मास्तु ज्ञान­मा­त्र­नि­वृ­त्ति­रिति चेन्न । श्रुति­सू­त्र­वि­द्व­द­नु­भ­वानां विरोधात् । तस्मात् तद­ज्ञा­न­नि­ष्ठा­न­र्थ­नि­व­र्त­क­त्वेन बन्ध­स्या­ध्य­स्तत्वं सिद्धमिति भावः ।

नन्वेदं सर्व­मि­ति­चि­त्र­तु­ल्य­त्वे­ना­नु­प­पन्नं शक्त्या लक्षणया वाऽध्यस्तत्वस्य सूत्रे­णा­प्र­ति­पा­द­ना­दि­त्यत आह –
इति बन्धस्येति ।
इति शब्दो हेत्वर्थकः । सौत्र­ज्ञा­न­नि­ष्ठ­नि­व­र्त­का­न्य­था­नु­प­प­त्ति­प्र­मा­ण­ब­ला­दि­त्यर्थः । अर्थात् सूत्र­व्य­ङ्ग्या­र्थ­तया सूत्रेणैव प्रति­पा­दि­त­मि­त्यर्थः ।

अस्तु वा फली­भू­त­ज्ञा­न­वि­चा­र­यो­र्ल­क्षणा तथापि विष­य­प्र­यो­ज­न­सि­द्ध्य­भा­वा­द­ना­र­म्भ­णी­य­त्व­दोषो दुर्वार इत्यत आह –
तच्चेति ।

ननु कथं प्रति­ज्ञा­मा­त्रे­णा­र्थ­सि­द्धि­रि­त्यत आह –
तथाहीति ।
भोज­न­स्या­न्ना­दि­र्वि­षयः क्षुन्निवृत्तिः प्रयोजनमिति विवेकः ।

शास्त्रमिति ।
ननु पक्षे हेत्व­सि­द्धि­श­ङ्का­या­स्तु­ल्य­त्वात् हेतौ प्रथ­मो­प­स्थि­त­त्वाच्च विषय एव साधनीयः कथं प्रयोजनं प्रथमतः साध्यते । न च प्रयो­ज­ना­न्य­था­नु­प­पत्त्या सिद्धस्य विषयस्य प्रयो­ज­न­सा­ध­न­म­न्तरा साध­यि­तु­म­श­क्य­त्वात् प्रथमं प्रयोजनं साधयतीति वाच्यम् । विषयस्य प्रयोजनापेक्षा यथा तद्वदस्त्येव प्रयोजनस्याऽपि विषयापेक्षा स्वाज्ञानद्वारा विषयस्यापि प्रयोजनं प्रति हेतुत्वात् तथा प्रथ­मो­प­स्थि­त­त्वेन प्रथमं विषयस्यैव निरू­प­यि­तु­मु­चि­त­त्वा­त्कथं प्रयोजनं निरूप्यत इति चेत् , अत्रोच्यते – प्रयोजनं विषयापेक्षया अभ्य­र्हि­त­त्वा­त्प्र­थमं निरूप्यत इति । तथा च जीव­ग­ता­न­र्थ­नि­वृ­त्त्या­त्म­क­प्र­यो­ज­न­रू­प­का­र्या­न्य­था­नु­प­पत्त्या कार­णी­भू­त­वि­ष­य­सि­द्धि­रिति समु­दा­य­ग्र­न्थार्थः ।

रज्जु­वि­ष­य­का­ज्ञा­न­रू­प­का­र­ण­स­हितः सर्प­ज्ञा­न­ज­नि­त­भ­य­क­म्पा­दि­रू­पोऽ­नर्थः बन्धः तस्य निवर्तकं नायं सर्पः किन्तु रज्जुरेवेति विशे­ष­द­र्श­ना­त्मकं यज्ज्ञानं तद्धेतुत्वं वर्तत इति दृष्टान्ते हेतुसमन्वयः । ज्ञाने बन्ध­नि­व­र्त­क­त्व­रू­प­वि­शे­षणं कथ­मि­त्या­श­ङ्कायां पूर्वो­क्ता­नु­मा­नेन साधयति –
बन्ध इति ।
बन्धस्य ज्ञान­नि­व­र्त्यत्वे साधिते हि ज्ञान­म­र्था­द्ब­न्ध­नि­व­र्तकं भवति तथा च बन्ध­नि­व­र्त­क­त्वा­ध्य­स्त­त्वयोः ज्ञप्तौ कार्यकारणभावः न स्वरूप इति भावः ।

न केव­ल­म­ध्य­स्त­त्व­मे­वा­र्थात् तत्सूत्रितं किन्तु विष­य­प्र­यो­ज­न­द्व­य­म­पी­ही­त्याह –
एवमिति ।
उक्तेन प्रकरणेत्यर्थः ।

अर्थादिति ।
यदध्यस्तं तज्ज्ञा­न­मा­त्र­नि­व­र्त्य­मिति व्याप्ति­वि­ष­य­का­नु­मा­न­प्र­मा­ण­ब­ला­दि­त्यर्थः ।

ईश्वर ह्यज्ञाने सत्यपि जीवगत एवानर्थ इत्याह –
जीवेति ।
जीवगतः अनर्थरूपो यो भ्रमः कार­ण­स­हि­त­क­र्तृ­त्वा­दि­बन्धः तन्निवृत्तिरूपं फलमित्यर्थः ।

ननु यद्विषकमज्ञानं तद्वि­ष­य­क­ज्ञा­ने­नैव निवर्त्यमिति ज्ञानाज्ञानयोः समा­न­वि­ष­य­क­त्व­नि­य­मे­ना­न्य­ज्ञा­ना­द­न्य­वि­ष­य­का­ज्ञा­न­नि­वृ­त्ते­र­यो­गात् कथं ब्रह्म­ज्ञा­ना­द्ब्र­ह्म­भि­न्न­जी­व­ग­ता­ध्या­सा­त्म­क­तू­ला­ज्ञा­न­नि­वृ­त्ति­रि­त्या­श­ङ्क्या­भे­दोऽपि सूत्रित इत्याह –
जीवब्रह्मणोरिति ।

अर्थादिति ।
ब्रह्मा­भे­द­सा­ध्य­का­ध्या­सा­श्र­य­त्व­हे­तु­का­नु­मा­न­ब­ला­दि­त्यर्थः । यद्यपि जीवो नाम विशिष्टः तद्ग­त­म­ध्या­सा­त्म­क­तू­ला­ज्ञानं तद्धेतुको बन्धश्च तद्गत एव तथापि स एव जीवः शोधितश्चेत् प्रत्य­क्स्व­रू­प­त्वेन ब्रह्माभिन्न इति तद­भे­द­स्त­स्मा­द्वि­शे­ष्यां­श­मा­दाय समानविषयकत्वं सम्भवतीति भावः ।

पूर्व­वा­द्य­नु­मा­नस्य सत्प्र­ति­प­क्षा­नु­मानं रचयति –
जीव इति ।
विशिष्टे ब्रह्मा­भे­द­स्या­स­म्भ­वा­द­न्तः­क­र­णा­ति­रिक्तो जीवः पक्ष इत्यर्थः । प्रब­ल­श्रु­ति­मू­ल­क­त्वा­दि­द­म­नु­मानं प्रबलमिति भावः । अध्या­सा­श्र­य­त्वा­द­ध्या­सा­धि­ष्ठा­न­त्वा­दि­त्यर्थः । शुद्धस्यात्मनः अध्या­सा­श्र­य­त्वा­भा­वेऽपि तद­धि­ष्ठा­न­त्व­म­प्र­ति­ह­त­मिति भावः ।
सत्य­ज्ञा­न­सु­खात्मा केनायं शोकसागरे मग्नः ॥
इत्यालोच्य यतीन्द्रः प्रागध्यासं प्रदर्शयामास ॥ १ ॥

यत् यत् ज्ञान­नि­व­र्त्या­ध्या­सा­श्रयः तत्तदभिन्नमिति सामा­न्य­व्याप्तिं प्रदर्शयति –
यदिति ।
इत्थं यद­ज्ञा­न­नि­व­र्त्या­ध्या­सा­श्रय इत्यर्थः । तथा तद­भि­न्न­मि­त्यर्थः ।

इदमंशः श्रुति­ज्ञा­न­नि­व­र्त्या­ध्या­सा­श्र­य­त्वा­च्छु­क्त्य­भिन्न इति विशेषे सामा­न्य­व्याप्तेः पर्यवसानमाह –
यथेति ।
हेतुः हेतु­प्र­वि­ष्ट­त्वेन हेतुरित्यर्थः ।

उपायेति ।
केवलकर्मणो वा ज्ञान­क­र्म­स­मु­च्च­याद्वा षोड­श­प­दा­र्थ­ज्ञा­नाद्वा साध्या मुक्तिरिति भावः ।

पूर्वो­क्त­मु­प­सं­ह­रन् भाष्यमवतारयति -
एतदिति ।
जीवस्य ब्रह्म­त्व­बो­ध­कानि सूत्राणि ब्रह्मसूत्राणि भगवान् भाष्य­का­रोऽ­ध्यासं वर्णयतीति क्रियाकारकयोजना ।

ननु सूत्रेण प्रथमप्रतिपन्नं प्रतिपाद्यं श्रौता­र्थ­मु­ल्लङ्घ्य चर­म­प्र­ति­प­न्न­मा­र्थि­का­र्थ­मेव श्रीभाष्यकारः प्रथमं किमिति वर्णयतीत्यत आह –
सूत्रेणेति ।
सूत्रेण लक्षिता या विचारकर्तव्यता तद्रू­प­श्रौ­ताऽ­र्थ­स्या­न्य­था­नु­प­प­त्ति­र्नाम विना विषयप्रयोजने कर्तव्यता न सम्भ­व­ती­त्या­का­रिका तयेत्यर्थः ।

श्रौतार्थो नामा­र्थि­का­र्था­द्भि­न्नोऽर्थः –
अर्थादिति ।
अर्था­त्सू­त्रि­तत्वं नामा­र्थि­का­र्थ­तया सूत्रेण प्रतिपादितत्वम् । विषयश्च प्रयोजनं च ते अस्य स्त इति विष­य­प्र­यो­ज­न­व­च्छास्त्रं तद्वतो भावं तद्वत्त्वं विष­य­प्र­यो­ज­न­द्व­य­व­दिति यावत् । सूत्रितं च तद्वि­ष­य­प्र­यो­ज­न­वत्त्वं च तस्येति विग्रहः । उपो­द्घा­त­त्वा­दु­पो­द्घा­त­वि­ष­य­त्वे­नो­पो­द्घा­त­त्वा­दि­त्यर्थः । अत्र विवरणाचार्याः प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य प्रागेव तद­र्थ­म­र्था­न्त­र­व­र्ण­न­मु­पो­द्घा­त­स­ङ्ग­ति­रिति उपोद्घातलक्षणं वदन्ति । वर्णनं चिन्तेत्यर्थः । तथा च विष­य­प्र­यो­ज­न­द्व­यस्य प्रति­पा­द्य­वि­चा­र­क­र्त­व्य­ता­सि­द्ध्य­र्थ­चि­न्ता­वि­ष­य­त्वा­दु­पो­द्घा­त­त्व­मु­प­च­र्यत इति भावः । तस्यो­पो­द्घा­त­स­ङ्गत्या अवश्यं निरूपणीयस्य विष­य­प्र­यो­ज­न­द्व­यस्य सिद्धिः तत्सिद्धिः ।

आर्थिकार्थेति ।
व्यङ्ग्या­र्थ­भू­त­वि­ष­य­प्र­यो­ज­न­द्व­य­सि­द्धि­हे­त्व­ध्या­स­प्र­ति­पा­द­क­त्वा­दि­त्यर्थः ।

भाष्यमिति ।
सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ।
स्वपदानि च वर्णन्ते भाष्यं ’भाष्यविदो विदुः’ ॥
इति भाष्यलक्षणम् । यत्रार्थो वर्ण्यते तद्भा­ष्य­मि­त्युक्ते साग­र­गि­रि­व­र्ण­न­स्यापि भाष्य­त्व­प्र­स­ङ्ग­स्त­द्व्या­वृ­त्त्यर्थं सूत्रपदम् । “अल्पा­क्ष­र­म­स­न्दिग्धं सार­व­द्वि­श्व­तो­मु­ख­मि”त्या­दि­वि­शे­ष­ण­वि­शिष्टं सङ्ग्रहवाक्यं सूत्रशब्दार्थः, तथा च श्रुतिस्मृत्योः सूत्र­त्व­स­म्भ­वा­च्छ्रु­ति­स्मृ­ति­सू­त्राणां यद्भाष्यं तत्साधारणमिदं लक्षणं भवति । गिरि­न­दी­प्र­ति­पा­द­क­काव्ये सङ्ग्र­ह­वा­क्य­त्वा­भा­वान्न सूत्रत्वमिति न भाष्य­ल­क्ष­ण­स्या­ति­व्या­प्ति­रिति भावः । वार्ति­क­व्या­वृ­त्त्यर्थं सूत्रा­नु­का­रि­भि­रिति, वार्तिके सूत्र­प्र­ति­कू­ल­व­र्ण­न­स्यापि सम्भ­वा­त्त­द्व्या­वृ­त्ति­र्बोध्या । वृत्ति­व्या­वृ­त्त्यर्थं स्वप­दा­नी­त्यु­क्तम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भग­वा­न्म­ङ्ग­ला­य­तनं हरिः ॥
इति स्मृतेः ।

विशि­ष्टा­चा­र­प­रि­पा­ल­नाय विघ्नोपशमनाय च विशि­ष्टे­ष्ट­दे­व­ता­त­त्त्वा­नु­स्म­र­ण­ल­क्षणं मङ्गलं ग्रन्थ­क­र­ण­रू­प­का­र्या­र­म्भ­स­मये कृतं श्रीभा­ष्य­का­रे­णे­त्य­भि­प्रेत्य दूषयति –
तन्नेति ॥
सर्वो­प­प्ल­व­र­हि­तस्य निर­स्त­स­म­स्त­दु­रि­त­स्ये­त्यर्थः । विज्ञानघनत्वं चैतन्यैकतानत्वं प्रत्य­क्प­द­स्या­र्थ­स्या­ध्या­स­प्र­मा­ण­ग्रन्थे वक्ष्यते ।

स्मृतत्वादिति ।
वाक्य­र­च­ना­या­म­र्थ­बो­धस्य हेतुत्वेन वाक्यार्थस्य स्मृत­त्वा­दि­त्यर्थः । युष्म­द­स्म­दि­त्या­दि­सु­त­रा­मि­त­रे­त­र­भा­वा­नु­प­प­त्ति­रि­त्य­न्त­भा­ष्य­मेव मङ्गलाचरणे प्रमाणम् । तथा च निर­स्त­स­म­स्तो­प­प्लवं चैत­न्यै­क­ता­न­म­भे­देन प्रति­पा­द्य­मा­नस्य श्रीभाष्यकृतः कुतः शिष्टा­चा­रो­ल्ल­ङ्घ­न­दोषः तस्मादग्रणीः शिष्टा­चा­र­प­रि­पा­लने भगवान् भाष्यकारः इति भावः । ननु विशि­ष्टे­ष्ट­दे­व­ता­त­त्त्व­म­नु­स्म­र्यते चेत्तर्हि तदेव भाष्ये प्रतिपादनीयं तत्तु न प्रतिपाद्यते किन्त्व­ध्या­सा­भा­व­स्त­स्मान्न तत्त्व­स्मृ­ति­रिति चेन्न । अध्या­सा­भा­व­प्र­ति­पा­द­ना­यैव प्रत्यक्तत्वस्य स्मृतत्वात् । न चान्यार्थं तत्त्वानुस्मरणं कार्यकारीति वाच्यम् । अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपप्लवं दहति धूमार्थो वह्नि­स्तृ­णा­दि­क­मि­वेति प्रसिद्धत्वात् । न च प्राथ­मि­के­ना­स्म­त्प­दे­नैव प्रत्यगात्मनः स्मृतत्वात् किम­नु­प­प­त्ति­प­र्य­न्त­ग्र­ह­ण­मिति वाच्यम् । प्रत्य­क्त्व­प्र­त्य­य­त्व­वि­ष­यि­त्व­ध­र्म­भे­देन अनेकधा प्रत्य­ग­र्थोऽ­नु­स्म­र्यत इति द्योत­ना­र्थ­त्वा­त्तथा च दार्ढ्याय तदन्तं ग्रह­ण­मा­व­श्य­क­मिति भावः ॥

नन्वा­त्मा­ना­त्म­नो­र­ध्या­सस्य काराणाभावेन निरू­प­यि­तु­म­श­क्य­त्वा­त्क­थ­मा­र्थि­क­त्वम् , अतो येन विष­य­प्र­यो­ज­न­सि­द्धि­रि­त्य­ध्या­स­पू­र्व­प­क्ष­भा­ष्य­म­व­ता­र­यन् प्रथमतः कारणाभावं निरूपयति –
लोक इति ।
हट्ट­प­ट्ट­णा­दि­स्थितं रजतं सत्यरजतं तस्मि­न्नि­त्यर्थः । इदम्पदार्थः अधि­ष्ठा­न­सा­मा­न्यम् आरोप्यविशेषो रजतं इदम्पदार्थस्य रजतस्य च भ्रम­वि­ष­य­त्व­ज्ञा­प­ना­या­धि­ष्ठा­न­सा­मा­न्य­त्वे­ना­रो­प्य­वि­शे­ष­त्वेन च ग्रहणमिति भावः । आहितः जनित इत्यर्थः ।

नन्वा­त्मा­ना­त्म­नो­र­ध्या­से­प्यु­क्त­सं­स्कारः कारणं स्यादित्यत आह –
इत्यत्रेति ।

भाष्य­ग­र्भि­त­म­नु­मानं स्फोरयति –
तथाहीति ।

भाष्ये शेषपूर्त्या पक्षांशः इत­रे­त­र­भा­वा­नु­प­प­त्ता­वि­त्य­नेन साध्यांशो बोध्यत इत्यभिप्रेत्याह -
आत्मेति ।

विरु­द्ध­स्व­भा­वत्वं नाम विरुद्धत्वमेव विरुद्धत्वं च विरोधः विरोधो नाम पर­स्प­रै­क्या­यो­ग्य­त्व­मि­त्य­भि­प्रेत्य विरु­द्ध­स्व­भा­व­यो­रिति भाष्य­फ­लि­ता­र्थ­माह –
परस्परेति ।
अनु­मा­ना­न्त­र­स्ये­द­म­नु­मा­न­मु­प­ल­क्षणं तथा चात्मानात्मानौ तादात्म्यशून्यौ पर­स्प­र­ता­दा­त्म्या­यो­ग्य­त्वा­त्त­मः­प्र­का­श­व­दिति भावः ।

आत्मानात्मनोः कथं विरोधः इत्याशङ्कां वारयितुं युष्म­द­स्म­दि­त्या­दि­वि­शे­षणं प्रवृ­त्त­मि­त्या­शयं स्फुटीकरोति –
हेत्विति ।
ऐक्यायोग्यत्वं न विरोधहेतुः किन्तु तदेव विरोध इति ज्ञापयितु हेतु­भू­त­मि­त्यु­क्तम् । वस्तुतः स्वभावत इत्यर्थः प्रत्य­क्प­रा­ग्भा­वत इति यावत् । प्रतीतितः प्रका­श्य­प्र­का­श­त्वत इत्यर्थः । व्यवहारतः ज्ञान­रू­प­व्य­व­हा­रत इत्यर्थः । अहं कर्त्ताहं ब्रह्मेति परस्परभिन्नं यत् ज्ञानं तद्विषयत्वत इति यावत् । वृद्ध­म­तो­क्त­प्र­थ­म­वि­ग्र­हा­नु­सा­रे­णायं त्रिधा विरोधो योजनीयः, इतरविग्रहेषु त्रिधा विरो­ध­स्या­स­म्भ­वा­दिति भावः ।

बुद्धि­स्थ­स्यो­पे­क्षा­न­र्हत्वं प्रस­ङ्ग­स­ङ्ग­ति­स्तया प्रयो­गा­सा­धु­त्व­मा­शङ्क्य निषेधति –
न चेत्यादिना ।
सूत्रेण व्याक­र­ण­सू­त्रे­णे­त्यर्थः परतः परे सतीत्यर्थः । युष्मच्छब्दस्य यन्मपर्यन्तं तस्य त्वेत्यादेशः अस्मच्छब्दस्य यन्मपर्यन्तस्य मेत्यादेशः प्राप्नोतीति भावः ।

सौत्र­स­प्त­मी­द्वि­व­च­ना­न्त­पदं पृथगन्वयत्वेन व्याख्याय क्रमेण पृथगुदाहरणं दर्शयति –
त्वदीयमिति ।
तव इदं त्वदीयं धनमिति शेषः त्वदी­य­मि­त्यु­दा­ह­रणे प्रत्य­य­प­र­त्व­मस्ति प्रत्ययस्तु छप्रत्ययः छस्येयादेशः प्राप्नोति तथा च युष्मत् – इयेति स्थिते मपर्यन्तस्य त्वेत्यादेशे प्राप्ते शत्रुवदादेश इत्य­भि­यु­क्त­व्य­व­हा­रेण वर्णा­द­र्श­न­प्राप्तेः त्वत् इयेति स्थिते सुप्र­त्य­य­वि­धा­ना­न­न्तरं सहोच्चारणेन त्वदीयमिति रूपनिष्पत्तिः । एवं मदीयमित्यत्र अस्मत्पुत्र इति स्थिते पुत्रपदस्य उत्तरपदत्वं परत्वं च विज्ञेयम् । तथा च युष्म­द­स्म­दि­त्या­दि­भाष्ये उत्तरपदस्य परत्वसत्त्वात् त्वन्म­त्प्र­त्य­य­गो­च­र­यो­रिति स्यादिति भावः ।

त्वमाविति ।
यदा युष्म­द­स्म­त्प­दयोः प्रत्ये­क­म­का­र्थ­वा­चित्वं तदा प्रत्यये चोत्तरपदे च परे सति मपर्यन्तस्य त्वमावित्यादेशौ स्त इति व्याक­र­ण­सू­त्र­स्यार्थः ।

ननु युष्मदर्थस्य बहुत्वेऽपि प्रत्यगात्मनः एक­त्वे­ना­स्म­द­र्थै­क­त्वा­द­स्म­त्प­दस्य मपर्यन्तस्य मेत्यादेशः स्यादित्यत आह –
अस्मदर्थेति ।
नन्वस्मच्छब्दः पूर्वं प्रयोक्तव्यः एकशेषश्च स्यादिति प्राप्तं दूषणद्वयं किमिति नोद्घाट्य परिहृतमिति चेन्न । आश्र­म­श्री­च­र­ण­म­त­नि­रू­पणे अस्य दूषणद्वयस्य परि­ह­रि­ष्य­मा­ण­त्वा­द­त्रो­द्घाट्य न परिहृतमिति भावः ।

एवं स्वमतानुसारेण प्रयोगं साधयित्वा स्वम­ता­नु­सा­रि­व्या­ख्यानं स्फुटीकर्तुं शङ्कामवतारयति –
नन्वेवं सतीति ।
विरोधं साधयतीति प्रतिज्ञाय बहुत्वाङ्गीकरे सतीत्यर्थः । समा­सा­दि­रू­प­वृ­त्त्य­र्थ­प्र­ति­पा­दकं वाक्यं विग्रहः ।

यूयमितीति ।
युष्म­च्छ­ब्दो­ल्लि­ख्य­मा­न­प्र­त्ययः युष्मत्प्रत्यय इत्यर्थः । यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्य­योऽ­स्म­त्प्र­त्यय इति वृद्ध­व्य­व­हा­रा­नु­सा­र्य­लौ­कि­कोऽयं विग्रहः लौकिकस्त्वसाधुः । यदि युष्मच्चास्मच्च युष्मदस्मदी तयोः प्रत्ययः युष्म­त्प्र­त्य­योऽ­स्म­त्प्र­त्य­य­श्चेति लौकिकविग्रह एव स्यदित्युच्येत, तदा युष्म­द­स्म­त्प­द­यो­र्ब­ह्व­र्थ­वा­चि­त्व­पक्षे युष्म­च्चा­स्म­च्चेति विग्रह एवा­नु­प­प­न्न­स्स्या­त्त­यो­रे­का­र्थ­वा­चि­त्वा­भा­वा­त्त­स्मा­द­लौ­कि­कोयं विग्रहः । ननु विग्रहो द्विविधः लौकि­कोऽ­लौ­कि­क­श्चेति अलौ­कि­क­त्व­म­रू­प­प­रि­नि­ष्ठि­तत्वं रूपा­दि­नि­ष्प­त्त्यर्थं प्रयुक्तत्वमिति यावत् । तथाहि राजपुरुष इत्यत्र राज्ञः पुरुष इति लौकिकोयं विग्रहः राजन् ङस् पुरुष सु इत्यलौकिकोयं विग्रहः, तथा च यूयं प्रत्यय इति कथमलौकिकविग्रहः तस्य यूयमिति सिद्ध­रू­प­बो­ध­क­त्वेन रूप­नि­ष्प­त्त्यर्थं प्रयु­क्त­वा­क्य­त्वा­भा­वा­दिति चेन्न । लौकि­क­वि­ग्र­ह­भिन्नं वाक्या­न्त­र­मे­वा­त्रा­लौ­कि­क­वि­ग्रह इति विवक्षितत्वात् अलौकिकस्त्वेवं साधनीयः, तथाहि युष्मच्छब्दस्य युष्म­च्छ­ब्दो­ल्ले­खिनी लक्षणा अस्म­च्छ­ब्द­स्या­स्म­च्छ­ब्दो­ल्ले­खिनी लक्षणा तथाच युष्म­च्छ­ब्दो­ल्लेखी चास्म­च्छ­ब्दो­ल्लेखी च युष्म­च्छ­ब्दो­ल्ले­ख्य­स्म­च्छ­ब्दो­ल्ले­खिनौ प्रत्ययश्च प्रत्ययश्च प्रत्ययौ उल्लेखिनौ च तौ प्रत्ययौ च तयोर्गोचरौ च तयोरिति विग्रहो द्रष्टव्यः । यद्यपि लक्ष­णा­ङ्गी­क­र­पक्षे युष्मच्चास्मच्च युष्मदस्मदी युष्मदस्मदी च तौ प्रत्ययौ चेति विग्रहः साधुरेव तथापि उल्ले­खि­प­द­वि­शि­ष्ट­त्वेन विग्र­ह­प्र­ति­पा­दनं वाक्या­न्त­रा­भि­प्रा­ये­णेति विवेकः । केचित्तु देव इति बुद्धिः देव­बु­द्धि­रि­ति­वत् युष्मदस्मदी इति प्रत्ययौ युष्म­द­स्म­त्प्र­त्ययौ तयोर्गोचराविति भाष्ये विग्रहः । तत्र युष्मदस्मदी इति प्रत्य­या­वि­त्य­नेन युष्म­त्प्र­त्य­यो­स्म­त्प्र­त्यय इति प्राप्ते युष्मत्प्रत्यय इत्यस्य यूयमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरम् , अस्मत्प्रत्यय इत्यस्य वयमिति प्रत्यय इति अर्थबोधकं वाक्या­न्त­र­मि­त्य­भि­प्रा­येण यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्य­योऽ­स्म­त्प्र­त्यय इत्या­ख्या­त­मि­त्याहुः । शब्दो विग्रह इत्यर्थः । विग्र­ह­प्र­ति­पा­दि­तार्थः विष­य­त्व­मि­त्यर्थः ।

विशिष्टचेतन एव युष्म­च्छ­ब्द­प्र­योगो दृश्यते त्वं गच्छागच्छेति गेमनादेः सम्भ­वा­न्ना­चे­त­ना­ह­ङ्का­रादौ केवले तद­स­म्भ­वा­दि­त्य­र्था­सा­धुत्वं विवृणोति -
नहीति ।
इदमुपलक्षणम् , वयमिति प्रत्य­य­वि­ष­य­त्व­मा­त्म­न्यपि नास्तीति द्रष्टव्यम् । तथा च उभयत्र विषयत्वं नास्तीति शङ्कि­तु­र­भि­प्रायः ।

अह­ङ्क­र­वि­शि­ष्ट­चे­तने भासमानत्वरूपं प्रत्ययविषयत्वं मुख्यं केवलाहङ्कारादौ गौणं तथा चाऽहङ्कारादौ भास­मा­न­त्व­रू­प­मु­ख्य­वि­ष­य­त्वा­भा­वेपि भास­मा­न­त्व­रू­प­गौ­ण­वि­ष­य­त्व­मा­दाय साधुत्वमस्तीति परिहरति –
न गोचरेति ।
योग्यता गौण­वि­ष­य­ते­त्यर्थः । अह­ङ्का­रा­द्य­नात्मा युष्म­त्प्र­त्य­य­योग्यः युष्म­त्प्र­त्य­य­प्र­यु­क्त­सं­श­या­दि­नि­वृ­त्त­फ­ल­भा­क्त्वात् चैत­न्यां­श­व­द्व्य­ति­रे­केण घटवद्वेति प्रयोगः ।

नन्व­ह­ङ्का­रा­दि­व­च्चि­दा­त्मापि युष्म­त्प्र­त्य­य­योग्यः युष्म­च्छ­ब्द­स्या­ह­ङ्का­रा­दि­वि­शि­ष्ट­चे­त­न­वा­चि­त्वेन विशि­ष्ट­नि­ष्ठ­वि­ष­य­त्वस्य विशेषणांश इव विशे­ष्यां­शे­पि­स­त्त्वा­दयो व्याव­र्त­क­ध­र्मा­भा­वा­त्क­थ­मा­त्मा­ना­त्म­नो­र्वि­रोध इति चेन्न । अनात्मनः सका­शा­द­त्य­न्त­भे­द­सि­द्ध्यर्थं चिदा­त्म­न­स्ता­व­द­स्म­त्प्र­त्य­य­यो­ग्य­त्व­मेव विवक्षते न युष्म­त्प्र­त्य­य­यो­ग्य­त्व­मि­त्ये­त­द्ग्र­न्थ­क­र्तु­रा­श­या­दि­त्ये­त­त्सर्वं हृदि निधायाऽनया रित्या चिदात्मनः गौण­वि­ष­य­त्व­रू­प­म­स्म­त्प्र­त्य­य­यो­ग्यत्वं पूर्व­प­क्षे­प्य­ना­त्म­नि­ष्ठ­वि­ष­य­त्व­श­ङ्को­त्था­न­ज्ञा­प­नाय कण्ठोक्त्या साधयति –
चिदात्मेति ।
योग्यं गौणविषय इत्यर्थः ।

गुणमाह –
तत्प्रयुक्तेति ।
अस्म­त्प्र­त्य­य­प्र­युक्तं संश­या­दि­नि­वृ­त्ति­रूपं यत्फलं तदा­श्र­य­त्वा­दि­त्यर्थः, आदिशब्देनाहं नास्मीति विपर्ययो गृह्यते तदा चात्मनः अहमिति सर्वदा भास­मा­न­त्वा­द­ह­मस्मि न वेति संशयाभावः सति निश्चये संशयाद्ययोगादतो निवृ­त्ति­फ­ल­भा­क्त्व­मा­त्म­नोऽ­स्तीति भावः । केवलाहङ्कारो वा व्यतिरेकेण घटो वात्र दृष्टान्तः ।

आत्मनः गौणविषयत्वे भाष्योक्तिमपि प्रमाणयति –
न तावदिति ।
एकान्तपदं नियमार्थकं विष­य­त्वा­द्भा­स­मा­न­त्वा­दि­त्यर्थः । इदं­वि­ष­य­त्व­म­ह­ङ्का­रा­द­वि­शि­ष्ट­चे­तने मुख्यं आत्मादौ तु गौणमिति विवेकः ।

ननु विशे­ष्य­स्या­स्म­त्प्र­त्य­य­यो­ग्यत्वे विशे­ष­णा­ह­ङ्का­रा­दे­र­प्य­स्म­त्प्र­त्य­य­यो­ग्य­त्वेन, आत्म­नो­र्व्या­व­र्त­क­ध­र्मा­भा­वा­त्क­थ­म­त्य­न्त­भे­द­सि­द्धि­रि­त्या­श­ङ्का­म­नूद्य परिहरति –
यद्यपीति ।
अत्य­न्त­भे­दा­सा­ध्य­र्थ­म­ह­ङ्का­रा­द्य­ना­त्मनः युष्म­त्प्र­त्य­य­यो­ग्य­त्व­मे­वा­ङ्गी­क्रि­यते नास्म­त्प्र­त्य­य­यो­ग्यत्वं भेदासिद्धेरिति भावः । ननु तथाप्यत्र योग्यता वर्तते अत्र नास्ती­त्ये­ता­न्नि­या­म­क­मा­त्म­व्या­वृ­त्त­म­ना­त्म­निष्ठं युष्म­त्प्र­त्य­य­यो­ग्य­ता­व­च्छे­दकं किञ्चि­द्व­क्त­व्यम् , तथा अना­त्म­व्या­वृ­त्त­मा­त्म­नि­ष्ठ­म­स्म­त्प्र­त्य­य­यो­ग्य­ता­व­च्छे­द­कम् किञ्चि­द्व­क्त­व्य­मिति चेत् । उच्यते । युष्म­द­र्था­ह­ङ्का­रा­दि­भि­न्ना­र्थ­त्व­मे­वा­स्म­त्प्र­त्य­य­यो­ग्य­ता­व­च्छे­द­क­म­स्म­द­र्थ­चि­दा­त्म­भि­न्ना­र्थ­त्व­मेव युष्म­त्प्र­त्य­य­यो­ग्य­ता­या­म­व­च्छे­द­क­मि­त्ये­व­म­त्य­न्त­भे­द­सि­द्ध्यर्थं वेदितव्यमिति दिक् ।

अह­ङ्का­रा­दि­दे­हा­न्त­स्या­ना­त्मनः युष्म­च्छ­ब्दो­ल्लि­ख्य­मा­न­प्र­त्य­य­यो­ग्य­त्व­मा­त्म­न­स्त्व­स्म­च्छ­ब्दो­ल्लि­ख्य­मा­न­प्र­त्य­य­यो­ग्य­त्व­मि­त्य­र्थ­प­र्य­व­सा­नेन व्याख्यानेन व्यवहारतः विरोधो दर्शितः युष्म­द­स्म­च्छ­ब्द­तश्च विरोधो दर्शित इति गम्यते एवं स्वाभिमतं प्रयोगसाधुत्वं व्याख्यानं चोपपाद्य पराभिमतं प्रयोगसाधुत्वं व्याख्यानं च प्रति­पा­द­यि­तु­मा­र­भते -
आश्रमेति ।
सम्बोध्यः सम्बोधनार्हः इत्यर्थः । अचेतने सम्बो­ध्य­त्वा­भ­वान्न युष्म­त्प­द­श­क्या­र्थ­त्व­मिति भावः ।

प्रत्य­यो­त्त­र­प­द­यो­रिति सूत्रस्यार्थमाह -
तथाचेति ।
स्वार्थे शक्यार्थे विशिष्टचेतन इत्यर्थः । यदा शक्या­र्थ­बो­ध­कत्वं युष्म­द­स्म­त्प­द­यो­स्त­दैव त्वमादेशः न लक्षणयेति भावः ।

विपक्षे बाधकमाह –
युष्मदिति ।
वां च नौश्च वांनावौ तथाचेति शब्द­स­म­भि­व्या­हारे वांनावाविति सन्धिर्भवति सूत्रस्य व्याकरणसूत्रस्य पदसाङ्गत्यं त्वन्मदोः षष्ठीत्येव स्यात् न युष्मदस्मदोः षष्ठीत्येवं रूपं तस्य प्रस­क्ते­रि­त्यर्थः । तथाच षष्ट्या­दि­वि­भ­क्ति­स्थयोः युष्म­द­स्म­च्छ­ब्द­यो­रेव वां नावावित्यादेशः नार्थयोरिति युष्मदस्मदोः षष्ठीत्यत्र युष्म­द­स्म­च्छ­ब्द­यो­र्ल­क्ष­णया शब्द एवार्थः न चेतनस्ततो नत्वं मादेश इति भावः ।

भाष्यप्रयोगं साधयति –
अत्रेति ।

शङ्कते –
यदीति ।

अत्रा­पि­श­ब्द­ल­क्ष­क­त्व­म­स्त्ये­वेति परिहरति -
तथेति ।
अह­ङ्का­रा­दि­दे­हा­न्ता­नात्मा परागर्थः लक्ष्य­ता­व­च्छे­द­क­तया लक्ष्य­ता­व­च्छे­द­क­प्र­वि­ष्ट­त­ये­त्यर्थः लक्ष्यांशतयेति यावत् । युष्म­च्छ­ब्द­यो­ग्य­त्वा­व­च्छिन्ने परागर्थे युष्मच्छब्दस्य लक्षणा स्वीक्रियते अतो युष्म­च्छ­ब्द­यो­ग्यत्वं लक्ष्य­ता­व­च्छे­दकं भवति तथा च लक्ष्य­ता­व­च्छे­द­क­नि­विष्टः सन् युष्मच्छब्दश्च लक्षणया तस्यार्थः यथा परा­ग­र्थ­स्त­द्व­दतो न त्वेत्यादेश इति भावः ।

ननु परा­क्त्वा­व­च्छिन्न एव लक्षणा स्वीक्रियते लाघ­वा­द­त­स्त्व­मा­देशः स्यादि­त्या­शङ्क्य निषेधति –
न चेत्यादिना ।

यद्यपि पराक्त्वादिना विरोधोऽस्त्येव तथापि श्रीभा­ष्य­कृ­त्ता­त्प­र्या­नु­रो­धा­त्त­द्यो­ग­त्वे­नापि स वक्तव्य इत्याह –
विरुद्धेति ।

तात्पर्ये ज्ञापकमाह –
अत एवेति ।

लौकि­क­प्र­यो­ग­मुक्त्वा वेदप्रयोगमाह –
इमे विदेहा इति ।
याज्ञवल्क्यं प्रति जनकस्योत्तरमिदं तथा च विदे­हा­ख्य­दे­श­वि­शे­ष­प­रम् , इमे विदेहाः यथेष्टं भुज्यन्तामयमहं चास्मि दासभावे स्थितः दासान्तर्गत इति यावत् । राज्यं मां च यथेष्टं प्रति­प­द्य­स्वे­त्यर्थः, राज्यं भवदधीनम् इति भावः । इमे विदेहा इत्यंशस्य नात्रोपयोगः किन्तु तदंशग्रहणं श्रुति­ज्ञा­प­ना­र्थ­मिति वेदितव्यम् ।

एतेनेति ।
वक्ष्य­मा­ण­हे­तु­ने­त्यर्थः चेत­न­वा­चि­त्वा­ल्ल­क्ष­णया प्रत्य­ग्बो­ध­क­त्वा­दि­त्यर्थः । सर्वैः पदैः सहोक्तौ सत्यां त्यदादीनि शिष्यन्त इति व्याक­र­ण­सू­त्रार्थः । त्यदा­दि­ग­ण­प­ठि­तानां परस्परसहोक्तौ गणमध्ये यत्परं तच्छिष्यत इति वेदितव्यम् , तथा च युष्म­द­स्म­त्प­द­यो­स्त्य­दा­दि­ग­ण­प­ठि­त­त्वे­नै­क­शेषे प्राप्ते सत्य­स्म­त्प्र­त्य­य­गो­च­र­यो­रि­त्ये­वात्र स्यादिति भावः ।

एतेनेत्यनेन सूचितं हेतुं प्रदर्शयति –
युष्मदिति ।
यथा सूत्रे पूर्व­नि­पा­तै­क­शे­ष­यो­र­प्रा­प्ति­स्त­द्व­द­त्रापि तयो­र­प्रा­प्ति­रिति भावः ।

न केवलं मह­र्षि­प्र­यो­गे­नै­वै­क­शे­षा­प्रा­प्ति­रपि तु युक्त्या चेत्याह –
एकशेष इति ।
नन्वे­क­शे­षा­न­ङ्गी­कारे तत्प्र­ति­पा­द­क­शा­स्त्र­वि­रोध इति चेदुच्यते वृद्ध­प्र­यो­गा­नु­सा­रा­दे­त­द्व्य­ति­रि­क्त­स्थले एवै­क­शे­ष­प्रा­प्ति­रिति तच्छास्त्रस्य सङ्कोचः कल्पनीय इति भावः । पूर्वव्याख्याने युष्म­द­स्म­च्छ­ब्दयोः बह्व­र्थ­क­त्वा­द्यू­य­मिति प्रत्यय इति विग्रहः अस्मिन् व्याख्याने चिज्ज­ड­मा­त्र­ल­क्ष­क­त्वेन त्वमिति प्रत्यय इति विग्रहभेदो द्रष्टव्यः । अयं विग्रहः अस्म­त्प्र­त्य­य­गो­चर इत्या­दि­भा­ष्य­व्या­ख्या­ना­व­सरे स्फुटीक्रियते । प्रयो­ग­सा­धु­त्व­सा­ध­न­प्र­का­र­भे­दस्तु स्फुट एव । यष्म­च्छ­ब्दो­ल्लि­ख्य­मा­न­प्र­त्य­य­वि­ष­य­त्व­मि­त्य­र्थ­प­र्य­व­सा­नेन व्यवहारतो विरोधो युष्म­द­स्म­च्छ­ब्द­तश्च विरोधो दर्शित इत्यनवद्यम् । नन्वस्मिन् व्याख्याने भाष्ये कथं विग्रह इति । उच्यते । युष्म­द­स्म­त्प­द­यो­रे­का­र्थ­वा­चि­त्वा­द्यु­ष्म­च्चा­स्म­च्चेति विग्रहः साधुर्भवति लक्षकत्वादेव त्वमा­दे­शा­प्रा­प्तिश्च, तथा च युष्मच्चास्मच्च युष्मदस्मदीय इति प्रत्ययौ युष्म­द­स्म­त्प्र­त्ययौ तयोर्गोचराविति विग्रहः । तथा चात्र युष्मत्प्रत्यय इत्य­स्या­र्थ­बो­ध­कत्वं त्वमिति प्रत्यय इति वाक्यान्तरम् अस्म­त्प्र­त्य­य­स्या­ह­मिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरमिति वेदितव्यम् । अथवा युष्म­द­स्म­च्छ­ब्द­यो­रु­ल्ले­खिनि लक्ष­णा­म­ङ्गी­कृत्य स्वव्या­ख्या­न­वि­ग्र­हा­नु­सा­रे­णैव विग्रहो योजनीय इति रहस्यम् ।

मतद्वयेति युष्मत्पदस्य पूर्वप्रयोग एव हेतुरिति प्रतिपाद्य हेत्वन्तरं प्रतिपादयितुं मता­न्त­र­मु­त्था­प­यति –
वृद्धास्त्विति ।
पूर्वप्रयोगे अध्या­रो­पा­प­वा­द­न्याय एव मूलमिति भावः ।

पूर्वसङ्ग्रहेण प्रतिज्ञातं त्रिधा विरोधं विवृणोति –
तत्रेति ।
वृद्धमत इत्यर्थः । युष्म­द­स्म­त्प­दा­भ्या­मुक्तो विरोधो वस्तुतो विरोध इत्यन्वयः । परा­क्प्र­त्य­ग्भा­वतः उक्तो विरोधः यः सः वस्तुतो विरोध इत्यर्थः । पदाभ्यामिति प्रयो­ग­स्वा­र­स्या­द्यु­ष्म­द­स्म­च्छ­ब्द­तोपि विरोधोऽस्तीति वेदितव्यम् । प्रत्ययपदन प्रका­श्य­प्र­का­श­त्वतः उक्तो विरोधः प्रतीतितो विरोध इत्यर्थः । गोचरपदेन पर­स्प­र­भि­न्न­ज्ञा­न­वि­ष­य­त्वतः उक्तो विरोधः व्यवहारतो विरोध इत्यर्थः ।

पूर्व­व­द्यु­ष्म­च्छ­ब्दो­ल्ले­खिनी लक्षणा न स्वीकर्तव्या शब्दलक्षकत्वं तु स्वीक­र्त­व्य­मि­त्य­भि­प्रेत्य वृद्धा­भि­म­त­वि­ग्र­ह­मु­प­पा­द­यति –
युष्मच्चेति ।
ननु त्वं चाहं चेति विग्रहे वक्तव्ये युष्म­च्चा­स्म­च्चेति विग्रहः कथमिति चेन्न । शब्द­ल­क्ष­क­त्वा­देव युष्म­द­स्म­त्प­द­यो­स्त्व­मा­दे­श­स्या­प्रा­प्त­त्वात् यथा ’युष्मदस्मदोः षष्ठी चतुर्थी’ति सूत्रे शब्दलक्षकत्वेन त्वमा­दे­शा­प्राप्त्या युष्म­च्चा­स्म­च्चेति विग्रहस्तद्वत् , तथा च प्रत्ययश्च प्रत्ययश्च प्रत्ययौ गोचरश्च गोचरश्च गोचराविति विग्रहं सिद्धवत्कृत्य कर्मधारयसमासं ज्ञापयतीति भावः ।

ननु युष्मदस्मदी च तौ प्रत्ययौ चेति कथं कर्मधारयः उभ­यो­र्लि­ङ्ग­व्य­त्य­य­व­त्त्वा­दिति चेन्न । युष्म­च्चा­स्म­च्चेति नित्य­न­पुं­स­क­मि­त­र­न्नि­त्य­पु­ल्लि­ङ्ग­मि­त्य­दो­षा­दिति ज्ञेयम् । मत­त्र­य­प­रि­ष्कृ­ता­र्थेन साधि­ता­र्थै­क­दे­श­श­ङ्का­नि­रा­स­प्र­ति­पा­द­क­त्वेन विषयविषयिणोरिति भाष्यं व्याख्यातुकामः शङ्कावताराय प्रथ­म­म­र्थ­क­थ­न­द्वारा भाष्या­न्व­य­मा­वि­ष्क­रोति –
त्रिधेति ।
आत्मा­ना­त्म­नो­रिति शेषः । अस­म्भ­वो­नु­प­प­त्ति­श­ब्दार्थः धर्मि­ता­दा­त्म्या­द्य­भावे सिद्धे सतीति भावः ।

शुक्ल इति ।
सिद्धान्ते शुक्ल­गु­ण­ता­दा­त्म्या­पन्नो घट इति शुक्लगुणघटयोः विरु­द्ध­यो­स्ता­दा­त्म्या­ङ्गी­का­र­व­दि­त्यर्थः ।

यत्र विरु­द्ध­यो­स्ता­दात्म्यं तत्र प्रका­श­म­प्र­का­श­क­त्वा­भाव इति व्याप्ति­र­नु­भ­व­सिद्धा यथा शुक्लो घटः तथा च प्रकृते व्याप­का­भा­वा­द्व्या­प्या­भाव इत्याह –
चिदिति ।

वृद्धमत एव तत्प्र­कृ­त­वि­ग्र­हा­न्त­र­मु­प­पा­द­यति –
यष्मदिति ।
प्रत्यगात्मा प्रत्ययस्वरूपः गोचरस्वरूपः परागिति व्युत्क्रमेण विवेकः प्रत्ययश्च गोचरश्च प्रत्ययगोचरौ युष्मदस्मदी च तौ प्रत्ययगोचरौ च युष्म­द­स्म­त्प्र­त्य­य­गो­चरौ तयोरिति विग्रहो द्रष्टव्यः ।

एत­द्वि­ग्र­ह­प्र­ति­पा­दि­तेऽर्थे पुन­र्वि­ष­य­वि­ष­यि­णो­रिति भाष्यं योजयति –
अत्र प्रत्ययेति ।

अव्यवहितविग्रहः सप्तम्या परामृश्यते -
अचित्व इति ।
स्वस्येति पद­स्या­प्र­त्य­क्ष­त्वा­प­त्ते­रि­त्य­ने­ना­प्य­न्वयः । एकस्य स्वस्य ज्ञान­वि­ष­य­त्व­रूपं कर्मत्वं तज्ज्ञा­ना­श्र­य­त्व­रूपं कर्तृत्वं च विरुद्धमिति भावः ।

विष­यि­त्व­चि­द­चि­त्व­प्र­त्य­क्त्वानां सम­व्या­प्त­त्वा­त्प­र­स्प­र­हे­तु­हे­तु­म­द्भाव इत्यभिप्रेत्याह –
यथेष्टमिति ।

अतः मतत्रयेण विग्रहचतुष्टयं प्रयोगसाधुत्वं च दर्शितम् विग्र­ह­त्र­य­नि­रू­प­णा­न­न्त­र­मु­क्त­वि­रो­धा­नु­वा­द­पू­र्वकं भाष्यान्वयो दर्शितः इदा­नी­म­व्य­व­हि­त­वि­ग्र­हो­क्त­वि­रो­ध­प्र­ति­पा­द­न­द्वारा वृत्तं कथयन् शङ्का­पू­र्व­क­मु­त्त­र­भा­ष्य­म­व­ता­र­यति –
नन्विति ।

विष­य­वि­ष­यि­णो­रि­त्य­नेन द्वितीयविशेषणेन प्रतिपादितमर्थं ज्ञापयति –
ग्राह्येति ।
ऐक्यं नामात्यन्ताभेदः भेद­स­हि­ष्णु­र­भे­द­स्ता­दा­त्म्य­मिति विवेकः ।

तदिति ।
ऐक्यप्रमाया अभावेन तज्ज­न्य­सं­स्का­र­रू­प­का­र­णा­भा­वा­द­ध्या­सा­भा­वे­पी­त्यर्थः । तयो­रा­त्मा­ना­त्म­नो­र्ध­र्मा­णा­मि­त्यर्थः । चैतन्यं सुखं च आत्मनो धर्मः जाड्यं दुःखं च अनात्मनो धर्म इति विवेकः । सुखादेरात्मनः स्वरूपत्वेपि धर्मत्वेन व्यप­दे­श­स्त्वौ­प­चा­रिक इति भावः । विनिमयेन व्यत्या­से­ने­त्यर्थः । इत्यत आहेति इतिशब्दः शङ्कार्थकः ; अतःशब्दो हेत्वर्थकः, आहेत्यनेन परि­हा­र­मा­ह­त्यु­च्यते यथा चैवंरूपा शङ्का यतः कारणात्प्राप्ता अतः कारणात् परिहारमाहेति पद­त्र­य­प­रि­ष्कृ­तार्थः । एवं सर्वत्र ।

संसर्ग इति ।
प्रकृते ह्याधा­रा­धे­य­भा­व­रू­प­स्ता­दा­त्म्यै­क­देशः संसर्ग इत्यर्थः । अनुपपत्तिरसम्भव इत्यर्थः । धर्म्यन्तरे हीतरधर्मसंसर्गो नास्तीति भावः ।

उत्तरभाष्यार्थे पूर्वभाष्यार्थो हेतुरिति ज्ञापयन् आत्म­न्य­ना­त्म­ध­र्म­सं­स­र्गा­नु­प­पत्तौ अना­त्म­न्या­त्म­ध­र्म­सं­स­र्गा­नु­प­पत्तौ च धर्मसंसर्गाभावो हेतु­स्त­मु­प­पा­द­यति –
नहीति ।
संसर्गं विना तादा­त्म्य­रू­प­स­म्बन्धं विनेत्यर्थः । विनिमयः व्यत्या­से­ना­धा­रा­धे­य­भा­व­रू­प­सं­सर्ग इत्यर्थः ।

ननु धर्मसंसर्गं प्रति धर्मिसंसर्गो हेतुश्चेत्तर्हि धर्मिणोः स्फटि­क­ज­पा­कु­सु­मयोः संस­र्गा­भा­वे­नौ­पा­धि­क­लौ­हि­त्य­ध­र्म­सं­स­र्गा­भा­वात् स्फटिके लौहि­त्य­म­स्ती­त्य­ध्या­सा­त्म­क­ग्रहो न स्यादित्यत आह –
स्फटिक इति ।
लोहितं वस्तु जपाकुसुमादि तस्य सान्निध्यं परम्परासम्बन्धः तस्मादित्यर्थः, तथा च क्वचित्साक्षात् क्वचित्परम्परया धर्मिसंसर्गो हेतुः प्रकृते परम्परया धर्मि­स­म्ब­न्ध­स­म्भ­वा­द्भ्र­मा­त्म­क­ग्र­हो­प­प­त्ति­रिति भावः ।

ननु तर्ह्या­त्म­ना­त्म­नो­र्वि­रो­धा­त्सा­क्षात् सम्बन्धाभावेपि स्फटि­क­ज­पा­कु­सु­म­वत् पर­म्प­रा­स­म्ब­न्धोऽस्तु तेन धर्मसंसर्गः स्यादित्यत आह –
असङ्गेति ।
केनापि वस्तुना सह सम्ब­न्धा­भा­वा­दि­त्यर्थः ।

असङ्गत्वादेव पर­म्प­रा­ध­र्मि­सं­स­र्ग­हे­तु­क­ध­र्म­स­ङ्गोपि नास्तीति यदुक्तं तद्भाष्यारूढं करोति –
इत्य­भि­प्रे­त्येति ।

लोके शुक्ता­वि­द­मि­त्यादि नहि तदस्तीत्यन्तेन स्वप्रतिपादितेन ग्रन्थेनोक्तं हेतुं भाष्यारूढं कर्त्तु­मि­च्छ­न्ना­क्षे­प­स­मा­धा­ना­भ्या­मु­त्त­र­भा­ष्य­म­व­ता­र­यते –
नन्विति ।
वास्त­व­ता­दा­त्म्या­द्य­भा­वे­प्या­ध्या­सि­क­ता­दा­त्म्या­दि­क­मा­दा­या­ध्या­स­स्स­म्भ­व­त्ये­वेति सिद्धान्तिनः शङ्कि­तु­र­भि­प्रायः ।

भाष्योक्तस्य इत्यतः पदद्वयस्य प्रती­क­मा­दा­या­र्थ­प्र­ति­पा­द­न­पू­र्वकं व्यवहितेनान्वयं वक्तुमारभते –
इत्युक्तेति ।

उक्तरीतिमेव विवृणोति –
तादात्म्येति ।
वास्त­व­ता­दा­त्म्या­भा­वे­ने­त्यर्थः ।

मिथ्येति ।
नास्तीत्यर्थः । तथा च कारणाभावादध्यसो नास्तीति वक्तुं युक्तमिति भावः ।

अनिर्वचनीयतेति ।
तत्त्वा­न्य­त्त्वाभ्यां निर्व­क्तु­म­श­क्य­ते­त्यर्थः ।

अपह्नवार्थक इति ।
अभावार्थक इत्यर्थः । अपह्नूयते निरस्यत इत्यर्थः ।

आश्र­म­श्री­च­र­ण­व्या­ख्या­न­म­नु­सृत्य पदानामर्थं कथयन् प्रयोजनमाह –
अहमित्यादिना ।
स्वव्या­ख्या­ना­नु­रो­धेन भाष्यपदयोजनां परित्यज्य एत­द्व्या­ख्या­ना­नु­रो­धेन योजनापि युक्तैव स्वव्या­ख्या­ने­नै­त­द्व्या­ख्या­न­यो­री­ष­द्भे­द­स्या­कि­ञ्चि­त्क­र­त्वात् , तथाच स्वव्या­ख्या­ना­नु­रो­धेन योज­ना­प्यु­क्त­प्रा­यै­वेति विभावनीयम् । अह­मि­ति­प्र­त्य­य­यो­ग्यत्वं बुद्ध्या­दे­र­प्यस्ति तथा च बुद्ध्यादौ बुद्ध्या­दे­र­ध्यासो निरस्यत इत्यर्थो लभ्यते नात्मनीति मत्वेत्यर्थः ।

ननु चिदा­त्म­क­त्व­म­ह­मिति भासमानस्य विशि­ष्ट­स्या­प्य­स्ती­त्या­शङ्क्य निषेधति –
अहमितीति ।
जडां­श­म­वि­व­क्षित्वा चिदंशमात्रं विवक्षितमिति भावः ।

त्वङ्कारेति ।
त्वमिति प्रत्यययोग्यस्य बुध्या­दे­रि­त्यर्थः ।

नन्वहमिति ।
यत्रेदमर्थत्वं तत्र वृत्ति­रू­प­प्र­त्य­क्ष­वि­ष­य­त्व­मिति व्याप्तिर्घटादौ प्रसिद्धा, तथा च बुध्यादावहमिति भासमाने व्याप­का­भ­वा­द्व्या­प्या­भाव इति शङ्कि­तु­र­भि­प्रायः ।

ननु शङ्कायाः कः परिहार इत्याशङ्क्य यत्र साक्षिभास्यत्वं तत्रे­द­म­र्थ­त्व­मिति व्याप्तिः घटदावेव अनुभवसिद्धेति साक्षि­भा­स्य­त्व­रू­प­हे­तुना बुद्ध्या­दे­रि­द­म­र्थ­त्व­म­स्ती­त्याह –
साक्षि­भा­स्य­त्वेति ।
लक्ष­ण­यो­गा­द्गु­ण­यो­गा­दि­त्यर्थः । हेतोः सत्त्वादिति यावत् । घटादेरिव साक्षि­भा­स्य­त्व­रू­प­हे­तुना बुद्ध्या­दे­र­पी­द­म­र्थ­त्व­मस्ति, तथाचात्रैव बुद्धौ व्यभि­चा­रा­द्भ­व­दु­क्त­व्या­प्ति­र­प्र­यो­ज­केति भावः ।

यद्यपि यत्र प्रत्य­क्ष­वि­ष­यत्वं तत्रे­द­म­र्थ­त्व­मिति व्याप्तिरपि घटा­दा­व­नु­भ­व­सिद्धा तथापि प्रकृते न सम्भवतीत्याह -
न प्रतिभासत इति ।
प्रतिभासतः प्रत्य­क्षे­णे­त्यर्थः । बुद्ध्या­दे­र्घ­टा­दि­व­दि­द­म­र्थ­त्व­मि­त्या­त्रा­नु­षङ्गः, तथाचाहमिति भासत्वात् बुद्ध्यादेरिव वृत्ति­रू­प­प्र­त्य­क्षे­णे­द­म­र्थत्वं नास्तीति भावः ।

वृद्धमतोक्तं प्रथ­म­वि­ग्र­ह­प्र­ति­पा­दि­ता­र्थ­श­ङ्का­नि­रा­स­क­त्वेन तदेव भाष्यं योजयितुं पुनस्तदवतारयति –
अथवेति ।
नास्वरसद्योतकं किन्तु मतान्तरमवलम्ब्य योजनाद्योतकमिति भावः ।

नन्विदं भाष्यं वृद्धमतोक्तं द्विती­य­वि­ग्र­ह­प्र­ति­पा­दि­ता­र्थ­श­ङ्का­नि­रा­स­प्र­ति­पा­द­क­त्वेन कुतो न व्याख्यायत इति चेन्न । प्रथ­म­वि­ग्र­ह­प्र­ति­पा­दि­ता­र्थ­श­ङ्का­नि­रा­स­क­व्या­ख्या­नेन एतस्य गता­र्थ­त्व­मि­त्य­भि­प्रा­या­दिति मन्तव्यम् । आत्मा मुख्य­प्र­त्य­क्त्वा­द्य­भा­व­वान् अहमिति भास­मा­न­त्वा­द­ह­ङ्का­र­व­दि­त्य­नु­मा­न­प्र­योगः । अस्मच्चासौ प्रत्य­य­श्चा­स्म­त्प्र­त्ययः स चासौ गोच­र­श्चा­स्म­त्प्र­त्य­य­गो­चर इति कर्मधारयं ज्ञापयति –
अस्मदिति ।

ननु प्रत्य­क्त्वा­दिकं पुनः प्रतिज्ञातं किमे­ता­व­ता­नु­मा­नस्य दूष­ण­मि­त्या­शङ्क्य भाष्य­ता­त्प­र्ये­णा­ह­मिति भासमानत्वादिति हेतुं विकल्प्य स्वयं खण्डयति –
अहमिति ।
अहङ्कारवृत्त्या व्यङ्ग्य­म­भि­व्यक्तं यत्स्फु­र­ण­त­त्त्व­मि­त्यर्थः । वृत्ते­रा­व­र­ण­रू­प­प्र­ति­ब­न्ध­क­नि­व­र्त­क­त्व­म­स्ती­त्ये­ता­वता स्वप्र­का­श­चै­त­न्य­स्या­त्मनः वृत्ति­कृ­ता­भि­व्य­क्ति­श्चौ­प­चा­रि­कीति भावः ।

विषयत्वमिति ।
विषयविषयिणोरिति भाष्येणोक्तं विष­य­त्व­मि­त्यर्थः । शब्द­व­त्त्वा­च्छ­ब्देन व्यव­ह्रि­य­मा­ण­त्वा­दि­त्यर्थः ।

शब्देन व्यव­ह्रि­य­मा­णत्वं नाम शब्दवाच्यत्वं शब्दलक्ष्यत्वं वेति विकल्प्य हेतुं स्वयं दूषयति वाच्यत्वमिति कल्पितत्वात् । यद्यपि विषयित्वं विशि­ष्ट­प्र­मा­तृ­चै­त­न्य­स्यैव न तु केवलाहङ्कारस्य तथापि विशिष्टे पर्याप्तं विषयित्वं अहङ्कारे विशेषेणेपि विद्यत इत्यभिप्रेत्याह –
देहमिति ।

अथवाऽहङ्कारे सत्येव चैतन्येऽपि विशिष्टे देहं जानामीति विषयिता तदभावे तद­भा­वा­दि­त्य­न्व­य­व्य­ति­रे­काभ्यां विशिष्टे प्राप्तं विषयित्वं पर्य­व­सा­ना­द्वि­शे­ष­ण­स्या­ह­ङ्का­र­स्यै­वे­त्य­भि­प्रे­त्याह –
देहमिति ।
मनुष्यपदं देहविशेषणपरं, मनुष्यत्वं जातिविशेषः देह­नि­ष्ठ­सं­स्था­न­वि­शे­षा­त्म­क­धर्मो वा, तद्विशिष्टस्य देहस्य चित्ता­दा­त्म्या­प­न्ना­ह­ङ्का­रस्य च मनु­ष्योऽ­ह­मि­त्य­भे­दा­ध्या­स­व­दि­त्यर्थः । यत्र विषयविषयित्वं तत्रा­भे­दा­ध्या­सा­भावः यथा दीप­घ­ट­व­दि­त्यु­क्त­नि­यमः अह­ङ्का­र­व्य­ति­रिक्त स्थल एवेति नियमस्य प्रथमापिशब्देन सङ्कोचः सूच्यत इति भावः ।

अल्पत्वं परिच्छिन्नत्वम् अध्यासे सादृश्यं हेतुः प्रकृते त्वात्मा­ना­त्मनोः पृथ­ग्वि­शे­ष­ण­द्व­येन सादृ­श्या­भा­व­मु­प­पा­द­यन् फलितमाह –
चिदिति ।
अन­व­च्छि­न्न­त्व­म­प­रि­च्छि­न्नत्वं व्यापकत्वमिति यावत् । अहङ्कारः मुख्य­प्र­त्य­क्त्वा­दि­मान् अहमिति भास्य­त्वा­दा­त्म­व­दिति प्रयोगे अहमिति भास्यत्वं किं केव­ला­ह­मा­का­रा­का­रि­त­वृ­त्ति­भा­स्य­त्वम् अह­मा­का­रा­का­रि­त­सा­क्षि­भा­स्यत्वं वेति विकल्प्य हेतुदूषणे भाष्याशयं स्फुटीकरोति अहंवृत्तीति भावप्रधानो निर्देशः परि­णा­म­रू­प­वृ­त्त्या­श्र­य­त्व­वृ­त्ति­वि­ष­य­त्व­स्व­रू­पयोः कर्त्तृ­त्व­क­र्म­त्व­यो­रे­क­स्या­ह­ङ्का­रस्य विरोधादित्यर्थः । अथवा कर्तृकर्मणोः पर­स्प­रै­क्या­यो­ग्य­त्व­रू­प­वि­रो­धस्य सत्त्वा­दि­त्यर्थः । अहङ्कारस्य साक्षिभास्यत्वं न चिद्व्य­ति­रि­क्त­वृ­त्ति­भा­स्यत्वं अन्यथा कर्म­क­र्तृ­त्व­वि­रोधः स्यादिति भावः । स्वप्रकाशात्मनि कर्म­क­र्तृ­त्व­वि­रो­धा­देव न चिद्भा­स्य­त्व­मि­त्याह चिद्भा­स्य­त्व­मिति, प्रतिभासतः भ्रान्ति­रू­प­प्र­त्य­क्षे­णे­त्यर्थः ।

अहङ्कारस्य मुख्य­प्र­त्य­क्त्वा­दिकं निरस्य पराक्त्वादिकं साधयन् कर्मधारयं ज्ञापयति –
युष्मदिति ।
अहङ्कारः मुख्य­प­रा­क्त्व­वा­न्प्र­ती­य­मा­न­त्वा­द्गो­च­र­त्वा­द्वेति साधनीयम् ।

विषयो नाम बन्धहेतुरित्याह –
षिञ्बन्धन इति ।
स्फुरा­मी­त्य­ने­ना­त्मा­ध्यासः सुखी­त्य­ने­ना­त्म­ध­र्मा­ध्यस इति विवेकः ।

इत्थम्भाव इति ।
वैशिष्ट्यं इत्यर्थः । प्रकृते वैशिष्ट्यं नामाभेदः । चैतन्यात्मनेति । चैतन्यात्मना स्थित­स्ये­त्यर्थः । अध्यासस्य इति अतद्रूपे तद्रू­पा­व­भा­सोऽ­ध्यासः स नास्तीति वक्तुं युक्तमिति भावः ।

साम­ग्री­का­र­ण­स­मु­दायः स नास्ती­त्यु­प­पा­द­यति –
निरवयवेति ।
सादृश्यं द्विविधं अवयवसादृश्यं गुणसादृश्यं चेति, तथा च निर­व­य­व­त्वा­द­व­य­व­सा­दृ­श्य­रू­प­नि­र्गु­ण­त्वा­द्गु­ण­सा­दृ­श्य­रूपं च कारणमात्मनि नास्ति स्वप्र­का­श­त्वा­द­ज्ञा­न­रू­प­का­रणं चात्मनि नास्ति इति भावः । संस्कारो नास्तीत्यत्र पूर्वक्तहेतुरेव वेदितव्यः ।

निर्गुणत्वं धर्मराहित्यमिति मत्वा शङ्कते –
नन्विति ।
ज्ञानमित्यनेन प्रत्य­क्षा­नु­मि­त्या­दि­क­मु­च्यते स्फुरणमित्यनेन प्रत्यक्षं शुभकर्मेत्यनेन शुभ­क­र्म­हे­तु­क­मा­धु­र्या­दि­र­स­व­स्तु­भ­क्ष­णा­दि­क­मु­च्यते विषयानुभव इत्यनेन प्रत्य­क्षा­नु­मि­त्या­दिकं नित्य­त्व­मु­त्प­त्त्या­दि­रा­हित्यं शुद्ध­त्वा­दे­रि­द­मु­प­ल­क्ष­णम् । अवभासन्त इत्यस्य तदु­क्त­मि­त्य­ने­ना­न्वयः । अन्तः­क­र­ण­वृ­त्ति­रू­पो­पा­धि­व­शा­न्ना­ने­वा­व­भा­सन्त इत्यर्थः ।

अद्वैतमते अध्या­स­सा­म­ग्र्य­भा­वा­दहं स्फुरा­मी­त्या­दि­स्थले ज्ञाना­ध्या­सोऽ­र्था­ध्या­सश्च न सम्भवतीति तार्कि­का­दि­पू­र्व­प­क्षि­ता­त्प­र्य­म­ध्या­सा­क्षे­पो­प­सं­हा­र­व्या­जे­ना­वि­ष्क­रोति –
अत इति ।
प्रतीतेः प्रमात्वं यथा­र्था­नु­भ­व­त्व­म­र्थस्य प्रमात्वं त्वबाधितत्वमिति भेदः प्रमा­त्व­मि­त्य­स्यो­त्त­रे­णे­ति­श­ब्दे­ना­न्वयः ।

नन्व­ध्या­सा­ङ्गी­कारे एक­वि­भ­क्त्य­व­रु­द्धत्वे सत्ये­का­र्थ­बो­ध­क­त्व­रू­प­स्याहं नर इति पदयोः सामा­ना­धि­क­र­ण्यस्य प्रयोगः कथमित्याशङ्क्य नीलो घट इत्यत्र नीलगुणाश्रयो घट इति­व­न्न­र­त्व­वि­शि­ष्ट­दे­ह­स­म्ब­न्ध्य­ह­मि­त्या­त्मी­य­त्व­रू­प­गु­ण­यो­गात् गौणोऽयं सामा­ना­धि­क­र­ण्य­प्र­योग इति पूर्व­प­क्षि­ता­त्प­र्य­माह –
अहं नर इति ।
नरपदं नर­त्व­वि­शि­ष्ट­दे­ह­परं नर­त्व­म­व­य­व­सं­स्था­न­रू­प­ध­र्म­वि­शेषः ब्रह्मा­त्म­त्व­मते प्रमात्वं गौणत्वं चावश्यं वक्तव्यमिति मतमास्थेयं स्थितमिति भावः ।

व्यव­हि­त­वृ­त्ता­व­नु­वा­द­पू­र्वकं परमतमुपसंहरति –
तथा चेति ।
नारम्भणीयमिति न विचा­र­णी­य­मि­त्यर्थः । पूजितोपि वेदान्तविचारो न कर्तव्य इति भावः । वस्तुतः प्रतीतितो व्यवहारतः शब्दतश्चेति चतु­र्वि­ध­प्र­यु­क्ता­द्ग्रा­ह्य­ग्रा­ह­क­त्व­प्र­यु­क्त­त्वाच्च पर­स्प­रै­क्या­द्य­यो­ग­त्व­रू­प­वि­रो­धा­त्त­मः­प्र­का­श­व­दा­त्मा­ना­त्म­नो­र्ध­र्मि­णो­र्वा­स्त­व­ता­दा­त्म्या­द्य­भावे न धर्मसंसर्गाभाव इति तत्प्र­मा­या­स­म्भ­वेन तज्ज­न्य­सं­स्का­र­स्या­ध्या­स­हे­तो­र­स­म्भ­वा­द­त­द्रूपे तद्रू­पा­व­भा­स­रू­पोऽ­ध्यासो नास्ति, तथा च बन्धस्य सत्यतया ज्ञाना­न्नि­वृ­त्ति­रू­प­फ­ला­स­म्भ­वा­द्ब­द्ध­मु­क्तयोः जीव­ब्र­ह्म­णो­रै­क्या­यो­गेन विष­या­भा­वा­च्छास्त्रं नार­म्भ­णी­य­मि­त्य­ध्या­स­पू­र्व­प­क्ष­भा­ष्य­ता­त्प­र्य­मिति सुधी­भि­र्वि­भा­व­नी­यम् ।

आत्मा­ना­त्म­नो­र्वा­स्त­वै­क्यादौ युक्त्य­भा­वा­दे­वा­नु­भ­व­सि­द्धा­ध्या­सा­प­लापे अनु­भ­व­सि­द्ध­घ­टा­दि­प­दा­र्था­ना­म­प­ला­प­प्र­स­ङ्ग­स्तथा च शून्यमतप्रवेशः स्यादि­त्य­तोऽ­नु­भ­व­सि­द्ध­त्वा­द्वा­स्त­वै­क्या­भा­वेपि साम­ग्री­स­त्त्वाच्च अध्यासोऽस्तीति विषयादिसम्भवेन शास्त्रारम्भो युक्त इति सिद्धान्तयितुं पूर्वपक्षस्य दौर्बल्यं विवृणोति –
तथाहीति ।
अङ्गीकारार्थकेन तथापि इत्य­ने­नै­वा­द्य­पक्षे परिहारो वेदितव्यः ।

आदाविति ।
युष्म­द­स्म­दि­त्या­दि­भा­ष्य­स्या­दा­वि­त्यर्थः ।

अर्थक्रमस्य पाठ्य­क्र­मा­पे­क्षया प्रब­ल­त्वा­द­र्थ­क्र­म­म­नु­सृत्य क्रमेण पदान्यवतारयति –
नेत्यादना ।

अयमिति ।
प्रत्य­क्षा­त्म­का­नु­भ­व­सिद्ध इत्यर्थः । अयमित्यनेनैव द्विती­य­क­ल्प­प­रि­हारो द्रष्टव्यः । प्रत्य­क्षा­नु­भ­वा­दिति । साक्षि­रू­प­प्र­त्य­क्षा­नु­भ­व­वि­ष­य­त्वा­दि­त्यर्थः । अहमज्ञ इत्या­दि­वृ­त्ति­रू­प­स्या­नु­भ­वस्य भ्रम­स्व­रू­प­त्वा­द­ध्यासः सिद्धः । सिद्धे वृत्तिस्वरूपे अध्यासे साक्ष्या­त्म­क­भा­न­स­त्त्वा­द­भा­न­म­युक्तं वृत्तीनां साक्षि­भा­स्य­त्व­नि­य­मा­दिति भावः ।

जीवात्मनि कर्तृत्वादिकं वास्त­व­मे­वे­त्या­शङ्क्य निषेधति –
न चेत्यादिना ।
अहं कर्त्ते­त्या­दि­प्र­त्यक्षं कर्तृ­त्वा­दि­म­दा­त्म­वि­शे­ष्य­क­क­र्तृ­त्वा­दि­प्र­का­र­क­त्वात् प्रमात्मकमेव नाध्या­सा­त्म­क­म­तोऽ­ध्यासो नानुभवसिद्ध इत्यर्थः । विशेषणद्वयेन तत्त्व­म­स्या­दि­वा­क्य­स्या­प्रा­मा­ण्या­न्य­प­र­त्व­यो­र्नि­रासः क्रियते । “उप­क्र­मो­प­सं­हा­रा­व­भ्या­सोऽ­पू­र्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये “ इति श्लोको­क्तो­प­क्र­मा­दि­प­देन ग्राह्यम् उप­क्र­मो­प­सं­हा­रा­वेव लिङ्गम् । बोधनेन ज्ञानेनेत्यर्थः । व्यधिकरणीयं तृतीया तथा च जीव­स्या­क­र्तृ­ब्र­ह्म­बो­ध­का­ग­म­वा­क्य­ज­न्य­ज्ञा­ने­नाहं कर्ते­त्या­दि­प्र­त्य­क्षस्य भ्रम­त्व­नि­श्च­या­द­ध्या­स­सि­द्धि­रिति भावः ।

प्रस­ङ्ग­मे­वो­प­पा­द­यति –
मनुष्य इति ।

तस्मादिति ।
देहा­त्म­वा­द­प्र­स­ङ्गा­दि­त्यर्थः । देहा­त्म­वा­द­प्र­स­ङ्गा­दु­भ­य­वा­दि­सि­द्धस्य मनुष्योहमिति सामा­ना­धि­क­र­ण्य­प्र­त्य­क्षस्य यथा भ्रमत्वं तथा अहं कर्ते­त्या­दि­प्र­त्य­क्ष­स्यापि भ्रम­त्व­मा­स्थे­य­मिति भ्रमस्वरूपत्वेन सिद्ध­स्या­ध्या­सस्य साक्षि­प्र­त्य­क्षा­त्म­क­भा­न­स­म्भ­वा­द­भा­न­म­य­क्त­मिति भावः ।

ज्ञान­प्र­त्य­क्ष­निष्ठं ज्येष्ठ­त्व­म­वि­व­क्षित्वा प्रत्यक्षस्य प्राबल्याभावः साधितः सम्प्रति ज्येष्ठत्वं विवक्षित्वा प्राबल्याभावं साधयति –
किञ्चेति ।

पूर्वभावित्वं पूर्व­का­ल­वृ­त्ति­त्वम् उपजीव्यत्वं हेतुत्वं प्रत्यक्षस्य व्याव­हा­रि­क­प्रा­मा­त्वे­नै­वो­प­जी­व्यता न तात्वि­क­प्र­मा­त्वे­नेति तात्वि­क­प्र­मा­त्वां­शस्य ’नेह नानास्ति किञ्च­ने’त्या­द्या­ग­मेन बाधसम्भवान्न तस्य प्राबल्यमिति दूषयति –
न द्वितीय इति ।
आग­म­ज्ञा­नो­त्पत्तौ आग­म­रू­प­श­ब्द­वि­ष­क­ज्ञा­न­ज­न्या­क­र्तृ­ब्र­ह्म­वि­ष­य­क­शा­ब्द­बो­धो­त्प­त्ता­वि­त्यर्थः । प्रत्य­क्षा­दि­मूलः वाक्य­प्र­यो­गा­दि­रू­पेण वृद्धव्यवहारेण जन्यः यः सङ्गतिग्रहः शक्तिज्ञानं तद्द्वारा या शब्दो­प­ल­ब्धि­स्त­द्द्वारा चेत्यर्थः । तथा च उत्तमवृद्धः गामानयेति वाक्यं प्रयुङ्क्ते तद्वाक्यश्रोता मध्यमवृद्धः गवानयने प्रवर्तते तां प्रवृत्तिं पश्यतः व्युत्पि­त्सो­र्बा­लस्य तदा अस्य पद­स्या­स्मि­न्नर्थे शक्ति­रि­त्या­दि­श­क्ति­ग्रहो जायते तेनानन्तरं पदा­र्थ­ज्ञा­ना­दि­द्वारा तस्य बालस्य शाब्दबोधो भवति तस्मिन् शाब्दबोधे शक्ति­ज्ञा­ना­दि­द्वारा श्रव­ण­प्र­त्य­क्षा­दे­रु­प­जी­व्य­त्व­म­स्तीति भावः । व्यावहारिकं याव­द्ब्र­ह्म­ज्ञानं न जायते तावदबाधितं प्रामाण्यं प्रमात्वं यस्य प्रत्यक्षस्य तत्तस्येत्यर्थः । तात्विकं पारमार्थिकं प्रामाण्यं प्रमात्वं यस्य तत्तस्येत्यर्थः । अन­पे­क्षि­त­त्वा­द­नु­प­जी­व्य­त्वा­दि­त्यर्थः ।

ननु धर्मि­रू­प­प्र­त्य­क्षस्य उपजीव्यस्य धर्म­भे­दे­ना­नु­प­जी­व्य­त्वे­प्या­ग­म­बा­धि­त­त्वे­नो­प­जी­व्य­वि­रोधो दुर्वार इत्याशङ्कायां धर्मिनिषेधे तावदागमस्य तात्प­र्या­भा­वा­द्ध­र्म­स्यैव बाध इत्याह –
अन­पे­क्षि­तां­श­स्येति ।
अन­व­च्छे­द­क­ता­त्वि­क­प्र­मा­त्व­रू­प­ध­र्म­स्ये­त्यर्थः । आगमेन – नेह नानास्ति किञ्च­ने­त्या­ग­मे­ने­त्यर्थः । व्याव­हा­रि­क­प्र­मा­त्व­स्या­ति­रि­क्त­वृ­त्ति­त्वे­प्यु­प­जी­व्य­ता­व­च्छे­द­क­त्व­मि­त­र­नि­व­र्त­क­त्व­रू­प­मौ­प­चा­रि­क­मिति भावः ।

अथवा प्रत्यक्षकारणं व्याव­हा­रि­क­प्र­मात्वं तु सहकारिकारणम् , तथा च तयोरागमेन बाधो नास्ति किन्तु तात्वि­क­प्र­मा­त्व­बा­ध­स्ततो नोपजीव्यविरोधो न प्राबल्यं चेति दूषयति –
न द्वितीय इति ।
षष्ठीद्वयं प्रत्यक्षादेर्न विशेषणं बहुव्रीहिरपि पूर्व­व­न्ना­श्र­य­णीयः । उपजीव्यत्वेपीति प्रत्य­क्षा­दि­नि­ष्ठ­व्या­व­हा­रि­क­प्र­मा­त्वस्य सह­का­रि­का­र­ण­त्व­स­त्त्वे­पीति भावः । अन­पे­क्षि­त­त्वा­द­स­ह­का­रि­त्वा­दि­त्यर्थः ।

तर्हि कस्य बाध इत्यत आह –
अनपेक्षितेति ।
अस­ह­का­रि­ध­र्म­स्ये­त्यर्थः । एतदुक्तं भवति । उपजीव्ये वर्णपदवाक्यानां श्रवणप्रत्यक्षे वेदा­न्त्य­भि­म­त­व्या­व­हा­रि­क­प्र­मा­त्वांश एकः पूर्व­वा­द्य­भि­म­त­ता­त्वि­क­प्र­मा­त्वां­श­श्चे­त्यं­श­द्वयं वर्तते तत्र शाब्द­बो­ध­स्यो­त्प­त्त्यर्थं व्याव­हा­रि­क­प्र­मा­त्वां­श­मे­वा­पे­क्षते याव­द्ब्र­ह्म­ज्ञानं न जायते ताव­द्व्या­व­हा­रि­क­स­त्य­त्वेन प्रत्य­क्षा­दि­प­दा­र्थानां सद्भावाभावे स्वोत्प­त्त्य­स­म्भ­वा­दतो नापेक्षितांश एव आगमेन बाध्यते तत्रैव श्रुते­स्ता­त्प­र्या­दिति । तथा च प्रत्यक्षस्य पार­मा­र्थि­क­स्व­रू­प­बा­धा­पे­क्षया भ्रमत्वं अहं कर्ता भोक्ताहमिति आत्म­वि­शे­ष्य­का­ना­त्म­नि­ष्ठ­क­र्तृ­त्वा­दि­ध­र्मा­ध्या­स­रूपं ज्ञानं धर्म्य­ध्या­स­म­न्तरा न सम्भवतीति धर्मि­णो­रा­त्मा­ना­त्म­नो­र­ध्या­सोऽ­नु­भ­व­सिद्ध इत्यनवद्यम् ।

नामरूपादिति ।
बन्धादित्यर्थः ।

सत्यस्येति ।
सत्यस्य कर्तृ­त्वा­दि­ब­न्ध­स्ये­त्यर्थः ।

यज्ज्ञा­न­मा­त्र­नि­वर्त्यं तदसत्यमिति शुक्ति­र­ज­ता­दि­स्थले क्लृप्त­नि­य­म­भङ्गः स्यादिति दूषयति –
तन्नेति ।

यत्सत्यं तत्कस्मादपि निवृत्तिरहितं यथात्मवदिति व्याप्ति­वि­रो­धोपि तव मते स्यादिति दूषणान्तरमाह –
सत्यस्य चेति ।

श्रुते­र्बो­ध­क­त्व­म­ङ्गी­कृत्य व्याप्ति­द्व­य­वि­रोधो दर्शितः व्याप्ति­द्व­य­वि­रो­धा­देव संप्र­त्य­ङ्गी­कारं त्यजति –
अयोग्यतेति ।
योग्यता ह्यर्थाबाधः तद्भिन्ना तु अयोग्यतेत्यर्थः । सत्यबन्धस्य या ज्ञाना­न्नि­वृ­त्ति­स्तस्याः यद्बोधकत्वं श्रुतिनिष्ठं तदयोगादित्यर्थः । आदौ विषयत्वं षष्ठ्यर्थः श्रुतिनिष्ठस्य निवृ­त्ति­वि­ष­य­क­बो­ध­ज­न­क­त्व­स्या­यो­गा­दिति फलितार्थः । निवृ­त्ति­श्रु­ते­रिति पाठान्तरम् । तत्र निवृ­त्ति­प्र­ति­पा­द­क­श्रुतेः बोध­क­त्वा­यो­गा­दि­त्यर्थः । यदि कर्तृ­त्वा­दि­बन्धः सत्यः स्यात्तर्हि ब्रह्मण इव सत्यबन्धस्यापि ज्ञान­मा­त्रा­न्नि­वृ­त्ति­र­यो­ग्येति ज्ञान­मा­त्र­ज­न्य­स­त्य­ब­न्ध­नि­वृ­त्ति­रू­प­श्रु­त्यर्थे ताव­द­यो­ग्य­ता­वि­ष­य­क­नि­श्चये सति निवृ­त्ति­बो­ध­कत्वं तथा विद्वा­नि­त्या­दि­श्रु­ते­र­युक्तं दृष्टान्ते ज्योति­ष्टो­म­श्रु­तेस्तु अपू­र्व­द्वा­र­व­र्ण­नेन योग्य­ता­नि­श्च­य­स­त्त्वा­द्बो­ध­कत्वं युज्यत इति भावः ।

ननु पापकर्म किमसत्यं सत्यं वा ? नाद्यः, तन्नाशार्थं सेतुर्दर्शनादौ प्रयत्नो न स्यात् , द्वितीये यत्सत्यं तज्ज्ञा­ना­न्नि­वृत्तिं प्राप्तुं योग्यं तथा पापकर्मेऽति व्याप्त्या श्रुत्यर्थेऽपि योग्य­ता­नि­श्च­यो­स्ती­त्या­शङ्क्य दृष्टा­न्त­वै­ष­म्येण परिहरति –
न चेत्यादिना ।

तस्य पापस्येति ।
यद्यपि पापकर्म सत्यं तथापि श्रद्धा­नि­य­मा­दि­सा­पे­क्ष­ज्ञा­न­नि­व­र्त्त्य­मेव न तु ज्ञान­मा­त्र­नि­वर्त्यं, बन्धस्तु ज्ञान­मा­त्र­नि­व­र्त्य­त्वेन शुक्ति­र­ज­ता­दि­व­द­सत्य एवे­त्य­यो­ग्य­ता­नि­श्चयो दुर्वार इति भावः । एतेन निय­मा­प्र­वि­ष्ट­मा­त्र­प­द­व्या­वर्त्यं दर्शितम् । पापकर्मणः उभयवाद्यभिमतं सत्यत्वं नाम व्यवहारकाले बाधशून्यत्वं व्यव­हा­र­यो­ग्य­त्वेन विद्यमानत्वं वा ।

बन्धस्य ज्ञान­मा­त्र­नि­व­र्त्यत्वे श्रुतिं प्रमाणयति –
बन्धस्य चेति ।
श्रौतं तथा विद्वा­नि­त्या­दि­श्रुत्या प्रतिपादितं यज्ज्ञा­न­नि­व­र्त्यत्वं ज्ञान­ज­न्य­ब­न्ध­नि­वृ­त्ति­रूपं तन्निर्वाहार्थं तस्मिन् श्रुत्यर्थे योग्य­ता­नि­श्च­या­र्थ­मि­त्यर्थः ।

ज्ञानै­क­नि­व­र्त्यस्य बन्धस्य सामान्यतः सत्यत्वं दूषितमिदानीं विकल्प्य दूषयति –
किञ्चेति ।

किं सत्य­त्व­म­ज्ञा­ना­ज­न्यत्वं स्वाधिष्ठाने स्वाभा­व­शू­न्यत्वं वा ब्रह्म­व­द्बा­धा­यो­ग्यत्वं व्यवहारकाले बाधशून्यत्वं वा ? नाद्य इत्याह –
नेति ।
सत्ये ब्रह्म­ण्य­ज्ञा­ना­ज­न्यत्वं प्रसिद्धमिति लक्षणसमन्बयः । एवं सर्वत्र । प्रकृतिमिति । जग­दु­पा­दा­न­मि­त्यर्थः ।

श्रुत्या बन्धस्य माया­ज­न्य­त्व­मु­च्यते नाज्ञा­न­ज­न्य­त्व­मतो नाज्ञानजन्यत्वे श्रुतिविरोध इत्या­श­ङ्क्या­ज्ञा­न­म­विद्या माया चेति पर्याय इत्य­ज्ञा­न­ज­न्य­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रोधो दुर्वार इति परिहरति –
मायेति ।

न द्वितीय इत्याह –
नापीति ।
स्वशब्देन बन्धो ग्राह्यः बन्धाधिष्ठाने ब्रह्मणि बन्धाभावेन शून्यत्वं अवृ­त्ति­त्व­मि­त्यर्थः । बन्धः स्वभावेन सह ब्रह्मणि वृत्तिमान् भवतीति भावः । अनेन स्वाधि­ष्ठा­न­वृ­त्त्य­भा­वा­प्र­ति­यो­गित्वं सत्यत्वमिति लक्षणमुक्तं भवति । तस्यार्थः बन्धा­धि­ष्ठा­न­वृ­त्तिर्य अभावः न तु बन्धाभावः किं त्वन्याभावः तत्प्र­ति­यो­गित्वं बन्धेऽस्तीति । यदि ब्रह्मणि जगद्रूपो बन्धस्तदा तेन स्थूलत्वं धर्मत्वं च स्यात्तथा च निर्ध­र्मि­क­त्वा­स्थू­ल­त्वा­दि­प्र­ति­पा­दि­का­स्थू­ल­मि­त्या­दि­श्रु­ति­वि­रोधः ।

किं च यदि ब्रह्मणि बन्धाभावो नास्ति तदा अस्थू­ल­मि­त्या­दि­श्रुतेः बन्धा­भा­व­प्र­ति­पा­द­नेपि तात्प­र्या­त्त­द्वि­रोध इत्याह –
अस्थू­ल­मि­त्या­दीति ।
यद्यपि सिद्धान्ते ब्रह्मण्येव बन्धस्तथापि तस्या­ध्य­स्त­त्वेन श्रुतिविरोध इति भावः ।

तृतीये विरोधमाह –
नापि ब्रह्मवदिति ।

चरमे पक्षे तु मन्म­त­प्र­वि­ष्टो­सी­त्याह –
अथेति ।
’आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथेति’ न्यायेन व्याव­हा­रि­क­स­त्य­त्वा­ध्य­स्त­त्व­योर्न विरोध इति भावः ।

ननु विरोधाभावेन आग­ते­प्य­ध्य­स्तत्वे प्रयो­ज­ना­भा­वात्किं तद्वर्णनेनेत्यत आह –
तच्चेति ।
यदि बन्ध­स्या­ध्य­स्त­त्व­म­ङ्गी­क्रि­यते तथैव ज्ञान­मा­त्र­ज­न्य­ब­न्ध­नि­वृ­त्ति­रू­प­श्रु­त्यर्थे यदि बन्धः सत्यः स्यात् ज्ञान­मा­त्रा­न्नि­व­र्ति­तु­म­योग्यः स्यादि­त्ये­ता­दृ­श­त­र्का­दिना बाधो नास्ती­त्य­र्था­बा­धा­त्म­क­यो­ग्य­ता­नि­श्चयः सम्पद्यतेऽतः तन्नि­श्च­या­र्थ­म­ध्यासो वर्णनीय इति न तद्वर्णनं व्यर्थमिति भावः ।

अध्यस्तत्वस्य व्यापा­र­त्व­रू­प­द्वा­र­त्वा­स­म्भ­वात् द्वारत्वं विहा­या­ङ्गी­का­रांश एवात्र दृष्टान्तमाह –
अपूर्वेति ।
अपूर्वं द्वारं यस्य सोऽपूर्वद्वारो यागस्तस्य भाव­स्त­स्त्व­म­पू­र्व­रू­प­द्वारं तद्वदित्यर्थः । यथा ज्योति­ष्टो­मा­दि­श्रु­त्यर्थः यो यागस्य स्वर्ग­हे­तु­त्व­रूपः तद्यो­ग्य­ता­ज्ञा­ना­या­पू­र्व­म­ङ्गी­कृतं तथा­ध्य­स्य­त्व­म­ङ्गी­क­र­णी­य­मिति भावः । नचे­त्या­दि­ग्र­न्थ­स्त्व­ति­रो­हि­तार्थः ।

ननु विष­या­दि­सि­द्ध्य­र्थ­मा­दा­वे­वा­ध्या­स­स्या­व­श्य­क­त्वेन आर्थिकार्थतया युक्त्या च वर्णि­त­त्वा­त्पु­न­स्त­द­न­न्य­त्वा­धि­क­रणे तद्वर्णनं पुन­रु­क्त­मे­वा­धि­क­र­णस्य गता­र्थ­त्वा­दि­त्यत आह –
दिगिति ।
अयमाशयः । अधि­क­श­ङ्का­नि­रा­सा­र्थ­क­त्वेन प्रवृत्तस्य तदधिकरणस्य न गतार्थता यतः सङ्ग्रहस्य विवरणमतो न पुन­रु­क्त­ते­त्य­ल­म­ति­प्र­स­ङ्गेन ।

लोकसहितो व्यवहारः लोकव्यवहारः इति मध्य­म­प­द­लो­प­स­मा­सा­दे­क­व­च­नेऽपि द्वैविध्यं युक्त­मे­वे­त्य­भि­प्रेत्य भाष्यमवतारयति –
अध्यासमिति ।

लोक्यते यः सः लोक इति कर्म­व्यु­त्पत्त्या अर्था­ध्या­स­प­र­त्वेन लोकपदं व्याचष्टे –
लोक्यत इति ।
मनुष्यपदं पूर्वं व्याख्यातम् ।

मनुष्योहमिति ।
देहा­ह­ङ्का­रा­द्य­र्थ­रूपः ज्ञानो­प­स­र्ज­नो­र्था­ध्यास इत्यर्थः ।

ननु लोकपदस्य कर्म­व्यु­त्प­त्त्य­ङ्गी­का­रेण तत्साहचर्याद् व्यवहारपदस्यापि कर्म­व्यु­त्पत्तिः स्यादि­त्या­श­ङ्क्यो­भयोः कर्मपरत्वे पौनरुक्त्यान्न सम्भवतीत्याह –
तद्विषय इति ।
स एवा­र्थ­रू­पा­ध्यासो विषयो यस्य ज्ञान­रू­पा­ध्या­सस्य स तथेत्यर्थः ।

ननु व्यव­हा­र­श­ब्द­स्या­भि­ज्ञा­भि­व­द­न­म­र्थ­क्रिया चेति बह्व­र्थ­स­म्भ­वा­त्कि­मत्र विव­क्षि­त­मि­त्या­श­ङ्क्या­भि­ज्ञा­र्थ­क­त्व­मि­त्याह –
अभिमान इति ।
अर्थोपसर्जनः ज्ञानरूपोध्यासो ज्ञानाध्यास इत्यर्थः । इदं रजतमित्यत्र ज्ञान­प्रा­धा­न्य­वि­व­क्षया ज्ञानाध्यासः अर्थ­प्रा­धा­न्य­वि­व­क्षया अर्थाध्यासश्च वेदितव्यः । एवं सर्वत्र ।

स्वरूपेति ।
स्वरूपं च तल्लक्षणं चेति कर्मधारयः । लक्ष­णा­दि­भा­ष्य­सि­द्ध­मा­त्मा­ना­त्म­नो­रि­त­रे­त­र­वि­ष­य­म­वि­द्याख्यं द्विवि­धा­ध्या­स­स्व­रू­प­मा­हे­त्यर्थः । लक्षणं द्विविधं स्वरूपलक्षणं व्यावर्तकलक्षणं चेति तत्र भाष्ये कण्ठोक्तिः स्वरूपलक्षणम् अस्त्येवेति ज्ञापयितुं स्वरू­प­ल­क्ष­ण­मि­त्यु­क्तम् । स्वरू­प­ल­क्ष­णे­प्युक्ते तन्नि­ष्ठ­म­सा­धा­र­ण­ध­र्म­स्व­रूपं व्याव­र्त­क­ल­क्ष­ण­म­र्था­त्सि­ध्य­तीति भावः ।

धर्मधर्मिणोरिति भाष्ये धर्मश्च धर्मी चेति न द्वन्द्वसमासः किन्तु धर्माणां धर्मिणाविति षष्ठी­त­त्पु­रु­ष­स­मास इति व्याचष्टे –
जाड्येति ।
चैतन्यं चेतनमित्यर्थः ।

धर्माणां यौ धर्मिणौ तयोरित्यनेन धर्म­प­द­म­ने­क­ध­र्म­बो­धकं धर्मिपदं धर्मि­द्व­य­बो­ध­क­मिति ज्ञाप्यते अत्य­न्त­वि­वि­क्त­यो­र्ध­र्म­ध­र्मि­णो­रि­त­रे­त­रा­वि­वे­के­ना­न्यो­न्य­स्मिन् अन्यो­न्या­त्म­क­ता­म­न्यो­न्य­ध­र्मां­श्चा­ध्यस्य सत्यानृते मिथुनीकृत्य मिथ्या­ज्ञा­न­नि­मि­त्तोऽ­ह­मिदं ममेदमित्ययं लोकव्यवहारो नैसर्गिक इति पद­यो­ज­ना­म­भि­प्रे­त्या­वा­न्त­र­यो­ज­ना­म­र्थ­पू­र्व­क­मा­वि­ष्क­रोति –
तयोरिति ।
अल­क्ष्य­त्व­ज्ञा­प­नार्थं प्रमाया इत्युक्तम् ।

अतःशब्दार्थमाह –
तदिदमिति ।
अत्य­न्त­भे­दा­भा­वात् – धर्मि­रू­प­व्य­क्ति­भे­दा­भा­वा­दि­त्यर्थः, तथा च सोऽयं देवदत्त इति प्रत्य­भि­ज्ञा­रू­प­प्र­मा­या­म­त्य­न्त­भि­न्न­यो­र्ध­र्मि­णो­र­न्यो­न्य­स्मिन् अन्यो­न्या­त्म­क­त्वा­व­भा­स­त्व­रू­पा­ध्या­स­व्या­व­र्त­क­ल­क्ष­णस्य नाति­व्या­प्ति­स्त­दि­द­म­र्थ­यो­र­त्य­न्त­भि­न्न­त्वा­भा­वा­दिति भावः । अन्यो­न्य­स्मि­न्न­न्यो­न्या­त्म­क­त्वा­भा­सोऽ­ध्या­स­स्व­रू­प­ल­क्ष­ण­मिति समु­दा­य­ग्र­न्थार्थः ।

सिद्धेरिति ।
धर्मा­ध्या­स­वि­शि­ष्ट­सा­म­ग्री­सत्त्वे कार्या­व­श्य­म्भा­वा­द्ध­र्मा­ध्या­स­रू­प­का­र्य­सि­द्धि­रिति शङ्कि­तु­र­भि­प्रायः । अन्धत्वं दोष­वि­शे­ष­वि­शि­ष्टत्वं वस्तु­ग्र­ह­णा­यो­ग्यत्वं वा । धर्म्य­ध्या­सा­स्फु­ट­त्वे­पीति । अहं चक्षुरिति प्रत्येकं धर्म्य­ध्या­स­स्या­नु­भ­व­सि­द्ध­त्वा­भा­वे­पी­त्यर्थः । धर्मा­ध्या­स­स्या­नु­भ­व­सि­द्ध­त्वा­द्ध­र्म्य­ध्या­सोऽ­नु­मी­यत इति भावः । अन्धोहमिति धर्माध्यासः धर्म्य­ध्या­स­पू­र्वकः धर्मा­ध्या­स­त्वात् स्थूलोहमिति धर्माध्यासवदिति प्रयोगः ।

नन्विति ।
आत्मा­ना­त्म­नो­र­न्यो­न्य­स्मि­न्न­न्यो­न्या­त्म­क­ता­म­ध्य­स्ये­त्य­नेन पर­स्प­रा­ध्य­स्त­त्व­मुक्तं भवति तच्च न सम्भ­व­ती­त्यु­भ­यो­र­स­त्य­त्वेन शून्य­वा­द­प्र­स­ङ्गा­दिति भावः ।

सत्या­नृ­त­प­द­यो­र्व­च­न­प­रतां व्यावर्तयति –
सत्यमित्यादिना ।
सत्यं काल­त्र­य­बा­धा­भा­वो­प­ल­क्षितं वस्त्वित्यर्थः ।

तस्य ज्ञानकर्मत्वं व्यावर्तयति –
अनिदमिति ।
प्रत्य­क्षा­द्य­वि­षय इति भावः ।

तत्र हेतुमाह –
चैतन्यमिति ।

संसर्गेति ।
तादा­त्म्ये­त्यर्थः, तथा­चा­ना­त्म­न्या­त्म­ता­दा­त्म्य­मा­त्र­म­ध्य­स्यते नात्मस्वरूपमिति भावः । अपि­श­ब्दे­ना­ना­त्म­स्व­रूपं तत्तादात्म्यं चाध्यस्यत इत्युच्यते । तयोः सत्यानृतयोः मिथुनीकरणं तादा­त्म्या­दि­क­मे­क­बु­द्धि­वि­ष­यत्वं वा । अध्यासः अर्थाध्यास इत्यर्थः । आत्मनः संसृ­ष्ट­त्वे­नै­वा­ध्यासः न स्वरूपेण अनात्मनस्तूभयथा तस्मान्न शून्य­वा­द­प्र­सङ्गः इति भावः । ननु सत्या­नृ­त­यो­र्मि­थु­नी­क­रणं कथं वादि­ना­म­स­म्म­त­त्वात् ? अत्रोच्यते श्रुति­प्रा­मा­ण्या­दिदं सिद्धा­न्ता­नु­सा­रेण विभावनीयमिति ।

पूर्व­का­ल­त्वे­नेति ।
पूर्वः कालो यस्य तथा तस्य भावः तथा च पूर्व­का­ल­वृ­त्ति­त्वे­ने­त्यर्थः ।

प्रत्यगिति ।
प्रत्य­गा­त्म­न्य­ध्या­स­प्र­वाह इत्यन्वयः । आत्मनि कर्तृ­त्व­भो­क्तृ­त्व­दो­ष­स­म्बन्ध एवाध्यासः अत्र वर्त­मा­न­भो­क्तृ­त्वा­ध्यासः कर्तृ­त्वा­ध्या­स­म­पे­क्षते ह्यक­र्तु­र्भो­गा­भा­वात् कर्तृत्वं च राग­द्वे­ष­स­म­न्धा­ध्या­स­म­पे­क्षते रागादिरहितस्य कर्तृत्वाभावात् राग­द्वे­ष­स­म्ब­न्धश्च पूर्वभोक्तृत्वं अपेक्षते अनुपभुङ्क्ते रागा­द्य­नु­प­पत्तेः । एवं हेतु­हे­तु­म­द्भा­वेन प्रत्य­गा­त्म­न्य­ध्या­स­प्र­वा­होऽ­ना­दि­रिति भावः । सम्बन्धरूपस्य प्रवाहस्य सम्ब­न्धि­व्य­ति­रे­के­णा­भा­वात् सम्ब­न्धि­स्व­रू­पा­णा­म­ध्या­स­व्य­क्तीनां तु सादित्वाच्च नानादित्वमिति ।

नन्विति ।
अना­दि­का­ल­त्व­नि­ष्ठ­व्या­प्य­ता­नि­रू­पि­त­व्या­प­क­ता­व­च्छे­द­का­व­च्छि­न्न­स­म्ब­न्ध­प्र­ति­यो­गि­त्वम् अना­दि­का­ल­त्व­व्या­प­क­स­म्ब­न्ध­प्र­ति­यो­गित्वं कार्या­ना­दि­त्व­मिति सिद्धान्तयति उच्यत इति ।

कार्याध्यासस्य प्रवा­ह­रू­पे­णा­ना­दित्वं व्यति­रे­क­मु­खे­ना­वि­ष्क­रोति –
अध्यासत्वेति ।
यत्रा­ना­दि­का­लत्वं तत्रा­ध्या­स­त्वा­व­च्छि­न्ना­ध्या­स­व्य­क्ति­स­म्बन्ध इति व्याप्य­व्या­प­क­भा­वोऽ­नु­भ­व­सिद्धः, व्यक्तिसम्बन्धो नाम व्यक्ति­प्र­ति­यो­गि­क­स­म्बन्धः, तथा च सम्ब­न्ध­प्र­ति­यो­गित्वं व्यक्तौ वर्तत इति लक्ष्ये लक्षणसमन्वयः । सुषुप्त्यादौ कर्त्तृ­त्वा­द्य­ध्या­सा­भा­वेपि तत्सं­स्का­र­स­त्वान्न व्याप्ते­र्व्य­भि­चार इति भावः । विक­ल्प­स्तृ­ती­य­पक्ष इत्यर्थः ।

एतच्छब्दार्थं हेतुं विवृणोति –
संस्कारस्येति ।
संस्का­र­रू­प­नि­मि­त्त­का­र­ण­स्ये­त्यर्थः । संस्का­र­हे­तु­पू­र्वा­ध्या­स­स्ये­द­मु­प­ल­क्ष­णम् । तथा च संस्का­र­त­द्धे­त्व­ध्या­स­यो­र्नै­स­र्गि­क­प­दे­नो­क्त­त्वा­द्वि­कल्पो निरस्त इति भावः ।

लाघवेनेति ।
कार­ण­ता­व­च्छे­द­क­कोटौ यथा­र्थ­प­द­वि­श­ष्ट­प्र­मा­पदं न निवेश्यते किन्तु भ्रम­प्र­मा­सा­धा­र­णा­नु­भ­व­पदं निवेश्यते ततोऽ­धि­ष्ठा­न­स­मा­न्या­रो­प्य­वि­शे­ष­यो­रै­क्या­नु­भ­व­ज­नि­त­सं­स्का­रत्वं कारणत्वं कार­ण­ता­व­च्छे­द­क­मिति कार­ण­ता­व­च्छे­द­क­ला­घ­वे­ने­त्यर्थः । अथवा कार­ण­श­री­र­ला­घ­वे­ने­त्यर्थः ।

तत्रा­ज्ञा­न­मि­त्युक्ते ज्ञाना­भा­वा­मा­त्र­मि­त्युक्तं स्यान्मि­थ्ये­त्युक्ते भ्रान्ति­ज्ञा­न­मिति स्यात्त­दु­भ­य­व्या­वृत्त्या स्वाभि­म­ता­र्थ­सि­द्धये कर्मधारयसमासं व्युत्पादयति –
मिथ्या च तदिति ।
मिथ्या­ज्ञा­न­म­नि­र्व­च­नीया मिथ्येत्यर्थः ।

अजहल्लक्षणया निमि­त्त­प­द­स्यो­पा­दा­न­म­प्यर्थ इत्याह –
तदुपादान इति ।

मिथ्या­ज्ञा­नो­पा­दान इति वक्तव्ये सति मिथ्या­ज्ञा­न­नि­मित्त इत्युक्तिः किमर्थेत्यत आह –
अज्ञानस्येति ।
अह­ङ्का­रा­ध्या­स­क­र्तु­र­स्म­दा­द्य­ह­ङ्का­रा­ध्या­स­क­र्तु­रि­त्यर्थः । इद­मु­प­ल­क्ष­ण­मी­श्व­रस्य सर्व­ज­ग­त्क­र्तृ­त्व­मु­पाधिं विना न सम्भवतीति ईश्व­र­नि­ष्ठ­क­र्तृ­त्वा­द्यु­पा­धि­त्वे­ने­त्यर्थः । संस्का­र­का­ल­क­र्मा­दीनि यानि निमित्तानि तत्प­रि­णा­मि­त्वे­नेति विग्रहः । अज्ञानस्य माया­त्वे­नो­पा­दा­नत्वं दोष­त्वे­ने­त्या­दि­तृ­ती­या­त्र­येण निमि­त्त­त्व­म­प्य­स्तीति ज्ञापयितुं निमित्तपदमिति भावः ।

स्वप्रकाशे तमोरूपाऽविद्या कथम् असङ्गे ह्यविद्यायाः सङ्गश्च कथ­मि­त्य­न्व­य­म­भि­प्रे­त्याह –
स्वप्रकाशेति ।
शङ्कानिरासार्थं शङ्का­द्व­य­नि­रा­सा­र्थ­मि­त्यर्थः ।

प्रथमशङ्कां परिहरति –
प्रचण्डेति ।
स्वप्रकाशे दृष्टा­न्त­स­हि­ता­नु­भ­व­ब­ला­द­स्त्ये­वा­विद्या न स्वप्रा­का­श­त्व­हा­नि­रपि, अनुभवस्य भ्रमत्वादिति भावः । पेचका उलूका इत्यर्थः ।

द्वितीयशङ्कां परिहरति –
कल्पितस्येति ।
कल्पि­त­स्या­धि­ष्ठा­नेन सह वास्त­वि­क­स­म्ब­न्ध­र­हि­त­त्वा­दि­त्यर्थः । सम्ब­न्ध­स्या­ध्या­सि­क­त्वा­द­स्त्ये­वा­वि­द्या­सङ्गः तस्या वास्त­वि­क­त्वा­भा­वेन नास­ङ्ग­त्व­हा­नि­रिति भावः ।

प्रथ­म­श­ङ्का­नि­रासे युक्त्यन्तरमाह –
नित्येति ।
वृत्त्या­रू­ढ­ज्ञा­न­मे­वा­ज्ञा­न­वि­रो­धीति भावः ।

अथवा ज्ञाना­ज्ञा­न­यो­र्वि­रो­धा­त्कथं ज्ञान­रू­पा­त्म­न्य­ज्ञा­न­मि­त्यत आह –
नित्येति च ।
च शब्दः शङ्कानिरासार्थः ।

तार्कि­क­म­त­नि­रा­सार्थं मिथ्यापदमित्याह –
यद्वेति ।

लक्ष्यां­श­शे­ष­पूर्त्या लक्षणद्वयं योजयति –
मिथ्यात्वे सतीत्यादिना ।
अनिर्वचनीयत्वे सतीत्यर्थः । अथवा भावत्वे सतीत्यर्थः ।

अज्ञानपदेन विवक्षितमर्थमाह –
साक्षा­ज्ज्ञा­नेति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्प्रतिपादकं समासवक्यरूपं यत्पदं तेनेत्यर्थः । एतेन पदद्वयस्य सत्त्वा­त्प­दे­ने­त्ये­क­व­च­ना­नु­प­प­त्ति­रिति निरस्तं – पदस्य समा­स­वा­क्य­रू­प­त्वे­ना­ङ्गी­का­रात् ।

ज्ञानघटिता हि इच्छो­त्प­त्ति­सा­म­ग्र्येव इच्छा­प्रा­ग्भा­व­ना­श­हेतुः नत्वि­च्छे­त्ये­क­दे­शि­सि­द्धा­न्त­म­नु­व­दन् पदकृत्यमाह –
ज्ञानेनेति ।
जानातीच्छति यतत इति न्यायेन ज्ञाना­न­न्त­र­मिच्छा जायते ज्ञानेनैवेच्छा प्रागभावश्च नश्यतीति वदन्तं तार्किकैकदेशिनं प्रतीत्यर्थः । तथा चेच्छाप्रागभावे लक्ष­ण­स्या­ति­व्या­प्ति­स्त­न्नि­रा­सार्थं मिथ्यापदमिति भावः । प्रथ­म­व्या­ख्या­नेन मिथ्या­त्व­म­नि­र्व­च­नी­य­त्व­म­ज्ञानं नामाविद्या समासस्तु कर्मधारयः लक्ष्यांशस्य न शेषपूर्तिः तथा च मिथ्या­ज्ञा­न­मि­त्य­नेन भाष्ये­णा­वि­द्या­रू­पा­ज्ञा­न­स्या­नि­र्व­च­नी­य­त्व­म­क्ष­रा­रू­ढ­ल­क्ष­ण­मि­त्युक्तं भवतीति ज्ञापितम् ।

यद्वेति ।
द्विती­य­व्या­ख्याने न मिथ्यात्वं भावत्वमज्ञानं नाम साक्षा­ज्ज्ञा­न­नि­वर्त्यं समासस्तु कर्मधारयः लक्ष्यां­श­शे­ष­पूर्तिः तथा च भावत्वे सति साक्षा­ज्ज्ञा­न­नि­व­र्त्य­त्व­म­ज्ञा­न­ल­क्षणं तात्पर्येण मिथ्याज्ञानपदेन बोधितमिति दर्शितम् ।

इदानीं मिथ्यात्वं नाम ज्ञान­नि­व­र्त्यत्वं अज्ञानं नामा­ना­द्यु­पा­दा­निति विवक्षया व्याख्या­ना­न्त­र­म­भि­प्रे­त्या­ज्ञा­नस्य लक्षणान्तरमाह –
अनादीति ।
यस्या­दि­रु­त्प­त्तिर्न विद्यते तदनादि, तथाचानादित्वे सत्युपादानत्वे सतीत्यर्थः । लक्षणं मिथ्या­ज्ञा­न­प­दे­नो­क्त­मिति पूर्वेणान्वयः । अस्मिन्लक्षणे साक्षात्पदादिकं न निवेशनीयं बन्धे­च्छा­प्रा­ग­भा­व­यो­र­ति­व्या­प्त्या­भा­वा­दिति भावः ।

ब्रह्म­नि­रा­सा­र्थ­मिति ।
ब्रह्म­ण्य­ज्ञा­न­ल­क्ष­ण­स्या­त­व्या­प्ति­नि­रा­सा­र्थ­मि­त्यर्थः । एवमुत्तरत्र विज्ञेयम् ।

सर्वा­नु­भ­व­रू­प­प्र­मा­णेन अध्या­स­सि­द्धि­मुक्त्वा शब्द­प्र­यो­ग­रू­पा­भि­ला­पेन चाध्या­स­सि­द्धि­रिति भाष्या­श­य­मु­द्घा­ट­यति –
सम्प्रतीति ।

ननु वियदाद्यध्यासः प्राथ­मि­क­त्वा­द्भाष्ये प्रतिपादयितव्यः कथ­म­ह­मि­द­मि­त्या­द्य­ध्या­स­प्र­ति­पा­द­न­मि­त्यत आह –
आध्यात्मिकेति ।
आध्या­त्मि­क­का­र्या­ध्या­सा­भि­प्रा­येण भाष्ये अह­मि­द­मि­त्या­दि­द्वि­ती­या­ध्या­स­प्र­ति­पा­दनं, तथा च द्वितीयस्य प्रथ­मा­का­ङ्क्षि­त्वात् प्राथमिकाध्यासं भाष्य­स्या­र्थि­का­र्थ­स्व­रूपं स्वयम् पूरयतीति भावः ।

नायमध्यास इति ।
इदं रजतमित्यत्र रज­त­स्या­ध्य­स्त­त्व­व­द­ह­ङ्का­र­स्या­ध्य­स्तत्वे अधि­ष्ठा­ना­रो­प्यां­श­द्वयं वक्तव्यं तच्च न सम्भवति अहमित्यत्र निरंशस्यैकस्य द्वैरू­प्या­न­नु­भ­वा­दिति शङ्का­ग्र­न्थार्थः । अयःशब्दार्थो लोहपिण्डः, अयो दह­ती­त्य­त्रा­ग्नि­र­यः­स­म्पृ­क्त­त­या­व­भा­सते अयः­पि­ण्ड­स्त्व­ग्नि­सं­व­लि­त­तया, तेना­ग्नि­नि­ष्ठ­द­ग्धृ­त्व­म­यः­पिण्डे अवभासते अयः­पि­ण्ड­नि­ष्ठ­च­तु­ष्को­णा­का­र­त्व­मग्नौ तस्मा­द­यः­पि­ण्डा­ग्नि­रू­पां­श­द्व­य­म­नु­भू­यते यथा, तथा अहमुपलभ इत्यत्रापि चिदा­त्मा­द्य­ह­ङ्का­र­स­म्पृ­क्त­तया अवभासते अहङ्कारोऽपि चिदात्मनि सम्वलिततया, तेन जाड्य­चे­त­न­त्वा­दि­क­मपि व्यत्या­से­ना­व­भा­सते तस्मा­द­ह­मि­त्य­ने­ना­त्मा­ह­ङ्का­र­रू­पां­श­द्व­य­म­नु­भू­यत इति परि­हा­र­ग्र­न्थार्थः । ननु तत्रोपलभ इत्या­का­र­क­प­द­सा­ह­च­र्या­द­स्त्यं­श­द्व­यो­प­लब्धिः केवलाहमित्यत्र कथमिति चेन्न । अहं पश्याम्यहमुपलभ इत्येवं पदा­न्त­र­सा­ह­च­र्ये­णैव धर्मा­ध्या­स­वि­शि­ष्ट­त्वेन प्राथ­मि­क­ध­र्म्य­ध्या­स­स्या­नु­भू­त­त्वात् । ननु दृष्टा­न्त­द­र्ष्टा­न्ति­कयोः कथं शाब्दबोध इति चेत् । उच्यते । अयो दहतीत्यत्र दहतीत्यनेन दग्धृत्वमुच्यते अयोधर्मत्वेन भासमानस्य दग्धृ­त्व­स्या­यो­ध­र्म­त्वा­भा­वा­द­ग्नि­ता­दा­त्म्या­प­न्ना­यः­पिण्डो अयःशब्देनोच्यते तथा च दग्धृ­त्व­वि­शिष्टः अग्नि­ता­दा­त्म्या­पन्नः अयःपिण्ड इति शाब्दबोधो जायते यथा, तथा अहमुपलभ इत्यत्रापि उपलभ इत्यनेन वृत्ति­रू­पो­प­ल­ब्धि­रु­च्यते स्फुर­णा­त्मि­कायाः अह­ङ्का­र­रू­प­ज­ड­ध­र्म­त्वेन भासमानायाः वृत्ति­रू­पो­प­ल­ब्धे­र्ज­ड­ध­र्म­त्वा­भा­वा­द­ह­मि­त्य­नेन चित्ता­दा­त्म्या­प­न्ना­ह­ङ्कार उच्यते तथा चोप­ल­ब्धि­वि­शि­ष्ट­श्चि­त्ता­दा­त्म्या­पन्नः अहङ्कार इति शब्द­बो­ध­स्त­स्मा­द­ह­मि­त्य­नेन दृग्दृ­श्यां­श­द्व­य­म­नु­भू­यते तथा सति साक्षिणि कूटस्थले दृगंशस्वरूपे आत्मनि दृश्यांशस्य केव­ल­स्या­ह­ङ्का­रस्य धर्मिणः अध्यासः प्राथमिकः सम्भवति । एवमहङ्कारेपि धर्मि­स्व­रू­पा­त्मनः संसृ­ष्ट­त्वे­ना­ध्यासः प्राथमिकः सम्भवति धर्म्य­ध्या­स­म­न्तरा वृत्ति­रू­पो­प­ल­ब्ध्या­त्म­क­ध­र्मा­ध्या­स­स्या­स­म्भ­वा­दिति भावः । भोग्यसङ्घातः शरीरादिसङ्घात इत्यर्थः ।

अत्र भाष्ये प्राथमिकाध्यासो न प्रतिपाद्यते किन्तु अनन्तराध्यास एवेति ज्ञापयितुं भाग­द्व­ये­ना­र्थ­पू­र्व­कम् अध्यासं विवृणोति –
अत्राहमिति ।
मनुष्यत्वमिति संस्था­न­रू­पा­कृ­ति­वि­शेषः जातिविशेषो वा । तादात्म्याध्यास इति । तादा­त्म्यां­श­चि­त्स­त्तै­क्या­ध्यास इत्यर्थः । देहा­त्म­नो­रे­क­स­त्ता­ध्यास इति यावत् । शरीरत्वं मनु­ष्य­त्व­वि­ल­क्षणं पश्वा­दि­श­री­र­सा­धा­रणं भोगायतनत्वं संस­र्गा­ध्या­स­ता­दा­त्म्यां­श­भू­त­सं­स­र्गा­ध्यास इत्यर्थः । भेदसहिष्णुरभेद इति तादा­त्म्य­स्यां­श­द्वयं तथा च मनु­ष्यो­ह­मि­त्यत्र मनु­ष्य­त्वा­व­च्छिन्ने देहे ताव­द­भे­दां­श­रू­प­चि­त्स­त्तै­क्या­ध्या­सोऽ­नु­भ­व­सिद्धः मम शरीरमित्यत्र भेदां­श­रू­प­सं­स­र्गा­ध्या­सोऽ­नु­भ­व­सिद्धः ततः तादा­त्म्य­स्या­भे­दांशः सत्तै­क्य­मि­त्यु­च्यते भेदांशः संसर्ग इति व्यवह्रियते इति भावः ।

इममेवार्थं शङ्कोत्तराभ्यां स्फुटीकरोति –
नन्वित्यादिना ।

अर्धाङ्गीकारेण परिहरति –
सत्यमिति ।
तादात्म्यमेव संसर्ग इत्यंश अङ्गीकारः भेदो नास्ति इत्यर्थके को भेद इत्यंशे अनङ्गीकारः । तथाहि विशि­ष्ट­स्व­रू­प­ता­दाम्यं तदेकदेशः संसर्गः, तथा च संसर्गस्य विशि­ष्टा­न्त­र्ग­त­त्वा­त्ता­दा­त्म्ये­ना­भेदः सम्भवति तदे­क­दे­श­त्वा­द्भे­दश्च तथा हस्त­पा­दा­दि­वि­शि­ष्ट­स्व­रूपं शरीरं तदेकदेशो हस्तस्तस्य शरीरापेक्षया अभेदः तदे­क­दे­श­त्वा­द्भे­दश्च सम्भवति तद्वदिति भावः ।

अध्या­स­सि­द्धा­न्त­भा­ष्य­ता­त्प­र्य­क­थ­न­द्वारा पर­म­प्र­कृ­त­मु­प­सं­ह­रति –
एवमिति ।

युष्म­द­स्म­दि­त्या­दि­लो­क­व्य­व­हार इत्यन्तं भाष्यं सक­ल­शा­स्त्रो­पो­द्घा­त­प्र­यो­जनं सत् सूत्रा­र्थ­वि­चा­र­क­र्त­व्य­ता­न्य­था­नु­प­पत्त्या अहं­म­मा­भि­मा­ना­त्म­कस्य लोक­व्य­व­हा­र­श­ब्दि­तस्य बन्ध­स्या­वि­द्या­त्म­क­त्व­प्र­ति­पा­द­न­द्वारा सूत्रे­णा­र्था­त्सू­चि­त­वि­ष­य­प्र­यो­जने प्रतिपादयति लक्ष­णा­दि­भा­ष्य­सि­द्ध­म­ध्या­स­न्त्व­नु­व­दति –
आह कोयमध्यासो नामेत्यादि सर्व­लो­क­प्र­त्यक्ष इत्यन्तम् ।
लक्षणादिभाष्ये विस्तरेण साक्षा­द­ध्या­स­सा­धकं तत् अर्था­द्वि­ष­य­प्र­यो­ज­न­प्र­ति­पा­दकं भवति ।

अस्या­न­र्थ­हे­तो­रि­त्या­दिकं आरभ्यते इत्यन्तं भाष्यं तु वेदा­न्त­वि­चा­र­क­र्त­व्य­त्वा­न्य­था­नु­प­पत्त्या बन्ध­स्या­वि­द्य­क­प्र­ति­पा­द­न­द्वारा विचा­रि­त­वे­दा­न्तानां विषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यं सिद्ध­म­ध्या­स­म­नु­व­दति एतदुत्तरभाष्यं सान्तं सम्ब­न्धा­दि­प्र­ति­पा­दकं सत् पूर्व­भा­ष्य­सि­द्धा­ध्या­स­वि­ष­य­प्र­यो­ज­ना­नु­वा­दकं भवतीति विभागः, तस्मान्न पुन­रु­क्ति­रि­त्य­भि­प्रे­त्या­ध्या­स­स्व­रू­प­सिद्धिं विना सम्भा­व­ना­प्र­मा­ण­यो­र­प्र­स­क्त­त्वात् वृत्ता­नु­वा­द­पू­र्वकं लक्षणविषयं प्रश्न­मु­त्था­प­यति –
एवं सूत्रेणेति ।
लक्षणेन वस्तु­स्व­रू­प­सिद्धिः प्रमाणेन तु वस्तु­नि­र्ण­य­सि­द्धि­रिति भेदः । अने­नै­वा­भि­प्रा­येण लक्ष­ण­प्र­मा­णाभ्यां वस्तुसिद्धिरिति व्यवह्रियत इति मन्तव्यम् । अर्थादिति पदं सम्बन्धग्रन्थे व्याख्यातम् । तद्धेतुमिति । पूर्वभाष्ये सिद्ध­व­त्कृ­त्यो­प­न्य­स्त­मिति शेषः । उत्कटकोटिसंशयः सम्भावना ।

ननु सम्भावनाभाष्ये सम्भा­व­ना­मा­क्षि­प­तीति व्याख्यायते तद्वदत्रापि लक्ष­ण­मा­क्षि­प­तीति कुतो न व्याख्यायते किंशब्दस्य प्रश्नाक्षेपयोः प्रयुक्तस्य स्थलद्वये सत्त्वादिति चेन्न । भाष्ये प्रत्यगात्मनीति विशे­ष­ज्ञा­ने­ना­ध्या­स­स्या­स­म्भ­व­स्फूर्तेः सम्भावनांशे त्वाक्षेपो युक्तः अत्र तु आह कोयमध्यासो नामेति अध्या­स­सा­मा­न्य­ज्ञा­न­ल­क्ष­णांशे प्रश्न एव युक्त इत्य­भि­प्रा­या­दिति भावः अभिप्रायवान् किंशब्दं लक्ष­ण­प्र­श्न­प­द­त्वेन व्याख्याति –
किंलक्षणक इति ।
किं लक्षणं यस्याध्यासस्य तथेति बहुव्रीहिः पूर्ववादिस्थाने स्थितः सन् श्रीभाष्यकार एव पूर्ववादी भूत्वा लक्षणं साधयितुं पृच्छति इति भावः ।

नन्वाहेति परो­क्ते­र्वा­द­ज­ल्प­वि­त­ण्डासु तिसृषु कथासु प्रत्येकं सम्भ­वा­त्कु­त्रेयं परोक्तिरित्यत आह –
अस्येति ।
तत्त्वनिर्णयः प्रधा­न­मु­द्देश्यं यस्य शास्त्रस्य तत्तथा तस्य भावस्तत्त्वं तेनेत्यर्थः । वादि­प्र­ति­वा­दिभ्यां गुरुशिष्याभ्यां पक्ष­प्र­ति­प­क्ष­प­रि­ग्र­हेण क्रिय­मा­णा­र्थ­नि­र्ण­या­व­साना वादकथा तस्याः भावस्तत्त्वं तज्ज्ञा­प­ना­र्थ­मि­त्यर्थः ।

विष­या­दि­सि­द्धि­हे­त्व­ध्या­स­सि­द्धि­हे­तु­भू­तानि यानि लक्ष­ण­स­म्भा­व­ना­प्र­मा­णानि तत्प्र­ति­पा­द­क­भा­ष्य­वि­भा­ग­माह –
आहेत्यादीति ।

तदारभ्येति ।
कथं पुनः प्रत्य­गा­त्म­नी­त्या­रभ्य तमे­त­म­वि­द्या­ख्य­मि­त्यतः प्राक्स­म्भ­व­ना­प­र­मि­त्यर्थः । लक्षणमिति । स्वरूपलक्षणं व्यावर्तकलक्षणं चाहेत्यर्थः ।

ननु लक्षणवाक्ये लक्ष्याभिधायिनः पदस्याभावात् साका­ङ्क्ष­व­च­न­म­न­र्थ­मि­त्या­शङ्क्य वाक्यं पूरयति –
अध्यास इतीति ।
प्रश्न­वा­क्य­स्थि­त­स्या­ध्या­स­प­द­स्या­नु­षङ्गः कर्तव्य इत्यर्थः । निर­धि­ष्ठा­न­भ्रा­न्ति­नि­रा­सार्थं परत्रेत्युक्ते अर्था­त्प­र­स्या­व­भा­सता सिद्धे­त्य­भि­प्रे­त्या­व­भास इत्युक्तम् । तदुपपादनार्थं – लक्ष­णो­प­पा­द­ना­र्थ­मि­त्यर्थः । परत्र पदतात्पर्येण लक्षणप्रविष्ठं यत्स्व­सं­सृ­ज्य­मा­न­त्व­वि­शे­षणं तदुपपादनार्थं पदद्वयं भवति न लक्ष­ण­प्र­वि­ष्ट­मिति भावः ।

अर्थ­रू­पा­ध्या­स­प­र­त्वेन प्रथमतो लक्षणं योजयति –
तथाहीति ।
आरो­प्ये­त्य­भा­व­स्या­धि­क­र­ण­स्व­रू­प­त्व­मिति मत­म­व­ल­म्ब्ये­द­मु­क्त­मिति भावः ।

अन­ङ्गी­का­र­म­त­म­व­ल­म्ब्या­रो­प्य­न्ता­भा­व­व­त्त्व­म­यो­ग्य­त्व­मिति निर्वक्ति -
तद्वत्वं वेति ।

परत्रावभास इति पदद्वयेन परिष्कृतं व्याव­र्त­क­ल­क्ष­ण­माह –
तथाचेति ।
अध्य­स्त­त्व­म­र्थ­रू­पा­ध्या­स­त्व­मि­त्यर्थः । आत्म­त्वा­व­च्छे­दे­ना­त्म­न्य­ह­ङ्का­रस्य संसर्गकाले तस्य कल्पितत्वेन तद­त्य­न्ता­भा­वोस्ति तस्मा­द­ह­मि­त्या­का­रके प्राथमिके अह­ङ्का­र­रू­पा­र्था­ध्यासे लक्षणसमन्वयः । एवं स्वयमहमित्यत्र स्वय­न्त्वा­व­च्छे­देन प्रत्यगात्मनि कूटस्थे अहङ्कारादेः संसर्गकाले तदत्यन्ताभावस्य सत्त्वा­त्कू­ट­स्थ­क­ल्पि­ता­ह­ङ्का­रा­द्य­र्थ­रू­पा­ध्यासे लक्ष्ये लक्षणसमन्वयः । सादित्वं जन्य­त्व­म­ना­दि­त्व­म­ज­न्य­त्वम् । अह­ङ्का­रा­द्य­ध्यासः सादिः अवि­द्या­चि­त्स­म्ब­न्धा­ध्या­सोऽ­ना­दि­रिति भावः । तदुक्तम् –
जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥ इति ।

अति­व्या­प्ति­नि­रा­सा­येति ।
अर्था­न्त­र­प्रा­प्ति­सि­द्ध­सा­ध­न­ता­नि­रा­सा­ये­त्यर्थः । तथा हि रज­ता­दे­र­भा­स्य­त्व­रू­प­मि­थ्यात्वे साधिते सति यथा रजतादिः स्वाभा­व­व­त्य­भास्यः तथा संयोगोपि स्वाभा­व­व­त्य­भास्य इत्यर्थान्तरेण प्राप्ता या सिद्धसाधनता तन्निराकरणार्थं पर­म­ता­नु­सा­रे­णै­का­व­च्छे­दे­ने­त्यु­क्तम् , स्वमते तु सर्वप्रपञ्चस्य मिथ्या­त्वा­ङ्गी­का­रा­दे­का­व­च्छे­दे­नेति देयमिति भावः । एवं सर्वत्र योजनीयम् ।

यद्य­प्य­ग्रा­व­च्छे­देन वृक्षे श्रीकृष्णसंयोगः मूलावच्छेदेन तदभावश्चास्ति तथा­प्ये­का­व­च्छे­देन संयो­ग­त­द­भा­व­यो­र­स­त्त्वान्न कृष्णसंयोगे अति­व्या­प्ति­रि­त्याह –
संयोगस्येति ।
स्वशब्दचतुष्टयं संयोगार्थकम् ।

पूर्वं स्वेति ।
अत्र स्वशब्देन घटो ग्राह्यः ।

ननु घट­स­म्ब­न्धि­त्व­रूपं स्वसं­सृ­ज्य­मा­नत्वं भूत­ले­प्य­स्त्ये­वे­त्य­ति­व्या­प्ति­र्दु­र्वा­रे­त्या­शङ्क्य स्वसं­सृ­ज्य­मा­ने­त्यत्र विद्य­मा­न­शा­न­च्प्र­त्य­येन बोधि­त­व­र्त­मा­नत्वं संस­र्ग­रू­प­प्र­कृ­त्य­र्थ­वि­व­क्षया स्फुटीकरोति –
तेनेति ।
तथा चैक­प्र­दे­शा­व­च्छे­दे­नै­क­का­ला­व­च्छे­देन च स्वस्वा­भा­व­यो­र्य­द­धि­क­रणं तस्मि­न्न­व­भा­स्य­त्व­मे­वा­र्थ­रू­पा­ध्या­स­त्व­मि­त्ये­वं­ल­क्ष­णस्य पर्य­व­सा­ना­त्प­श्चा­दा­नी­त­घ­ट­सं­स­र्ग­काले घटा­भा­व­स्या­भा­वा­न्ना­ति­व्या­प्ति­रिति भावः ।

अति­व्या­प्ति­र्ना­मा­लक्ष्ये लक्षणसत्त्वं यत्र पृथिवीत्वं तत्र गन्ध इति दैशिकव्याप्तिः अनुभवसिद्धा तथा च पृथि­वी­त्वा­व­च्छे­देन पृथिव्यां गन्धकाले गन्धा­भा­व­स्या­भा­वा­न्ना­ति­व्या­प्ति­रि­त्य­भि­प्रे­त्याह –
स्वात्य­न्ता­भा­वेति ।

नन्वात्मनि स्वयमहमिति स्वय­न्त्वा­व­च्छे­दे­ना­ह­ङ्का­रा­दि­सं­स­र्ग­काले तद­भा­वा­पा­द­क­प्र­मा­णा­भा­वा­त्त­स्मिन् शुक्तिशकले रज­ता­भा­व­स्या­स­त्त्वेन रज­त­रू­पा­र्था­ध्यासे लक्ष­ण­स्या­व्याप्तिः स्यादित्याह –
शुक्ताविति ।
अव्याप्तिर्नाम लक्षैकदेशे लक्ष­ण­स्या­सत्त्वं नेदं रजतमिति विशे­ष­द­र्श­ना­त्म­क­बा­ध­रू­प­प्र­त्य­क्ष­प्र­मा­ण­ब­लात् ’आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’ इति न्यायाच्च रजताभावस्य शुक्तौ सत्त्वेन नाव्याप्तिः । ननु भावाभावयोरेकत्र सत्त्वाङ्गीकारे अनुभवविरोध इति चेत् । उच्यते – मिथ्या­त्व­वा­दि­ना­मे­ता­दृ­श­वि­रो­ध­स्त्व­ल­ङ्कार एवेति भावः ।

उद्धृते सत्य­व्या­प्ति­दोषे साद्यध्यासे असम्भवं शङ्कते –
नन्विति ।
लक्ष्ये क्वाप्य­प्र­व­र्त­मा­न­म­स­म्भव इत्य­स­म्भ­व­ल­क्ष­णम् , साद्यध्यासरूपे अहङ्कारादौ लक्ष्ये सर्वत्र लक्ष­ण­स्या­स­त्त्वा­द­स­म्भव इत्यर्थः ।

शुक्ति­र­ज­त­म­ध्य­स्त­त्वेन सर्वसम्मतं तस्मा­दु­भ­य­वा­दि­सि­द्धम् ।
तदिति ।

तत्र लक्ष­णा­स­त्त्व­मु­प­पा­द­यति –
शुक्ताविति ।
अति­व्या­प्ति­वा­र­क­त्वेन लक्षणे प्रविष्टं यत्स्व­सं­सृ­ज्य­मा­नत्वं तदु­प­पा­द­यि­तु­म­श­क्य­मिति भावः ।

ननु पुरोवर्तिनि हट्ट­प­ट्ट­ण­स्थ­र­ज­त­सं­स­र्ग­स्या­भा­वेन स्वसं­सृ­ज्य­मा­न­त्व­मु­प­पा­द­यि­तु­म­श­क्य­त्वान्न लक्षणे निवेशनीयम् । न च तन्निवेशाभावे पश्चा­दा­नी­त­घ­टेऽ­ति­व्याप्तिः स्यादिति वाच्यम् । अभास्यत्वं नाम प्रमा­णा­ज­न्य­ज्ञा­न­वि­ष­य­त्व­मि­त्य­ङ्गी­का­रा­त्प­श्चा­दा­नी­त­घटे तु प्रमा­ण­ज­न्य­ज्ञा­न­वि­ष­य­त्व­स्यैव सत्त्वेन लक्ष­णा­भा­वा­न्ना­ति­व्या­प्ति­स्तथा च स्मर्य­मा­ण­र­ज­त­मा­दाय लक्ष­णो­प­प­त्ति­रिति तटस्थस्य शङ्कां पूर्वपक्षी परिहरति –
न चेत्यादिना ।
स्मर्यमाणरजतस्य सत्य­र­ज­त­स्ये­त्यर्थः । उक्ते­रि­त्य­न­न्तरं न लक्षणस्यासम्भव इति शेषः ।

अन्यथेति ।
तथा चाति­व्या­प्ति­वा­र­णा­या­न्य­था­ख्या­ति­म­त­भे­दाय च लक्षणे स्वसं­सृ­ज्य­मा­न­त्व­वि­शे­षणे तावदावश्यके सति शुक्तौ प्राति­भा­सि­क­र­ज­त­स्या­त्मनि व्याव­हा­रि­का­ह­ङ्का­रा­दे­श्चो­त्प­त्ति­वा­दिनां वेदान्तिनां मते ह्युत्प­त्त्य­न­न्त­र­मेव संसर्गो वाच्यः । उत्पत्तिस्तु सामग्य्रभावान्न सम्भवति तस्मा­ल्ल­क्ष­ण­स्या­स­म्भवो दुर्वार इति पूर्व­प­क्ष्य­भि­प्रायः ।

सिद्धान्ती परिहरति –
आहेति ।
अति­व्या­प्ति­वा­र­क­स्व­सं­सृ­ज्य­मा­न­त्व­वि­शे­ष­णे­ना­न्य­था­ख्या­ति­म­त­भेदः प्रतिपादितो भवति ।

सम्प्रति साम­ग्री­स­म्पा­द­ना­र्थ­त्वेन प्रवृ­त्ति­स्मृ­ति­रू­प­प­दे­ना­प्य­न्य­था­ख्या­ति­म­त­भेदो वक्तव्य इत्य­व­य­व­व्यु­त्पत्त्या प्रतिपादयति –
स्मर्यत इति ।

आरोप्यस्येति ।
शुक्तौ तद­व­च्छि­न्न­चै­तन्ये वा उत्प­न्न­स्या­रो­प्य­र­ज­त­स्ये­त्यर्थः ।

दर्शनादिति ।
अनुभवादित्यर्थः ।

हट्ट­प­ट्ट­ण­स्थ­र­ज­ता­नु­भ­व­ज­न्य­सं­स्का­रा­द्भ्रमः स्मृतिश्च जायत इति फलितमाह –
तेनेति ।
अनु­भ­व­ज­न्य­ज्ञा­न­वि­ष­य­त्वे­ने­त्यर्थः ।

संस्का­र­ज­न्य­ज्ञा­न­वि­ष­यत्वं कथमित्याशङ्क्य तेने­त्यु­क्त­हे­त्वंशं विवृणोति –
स्मृतीति ।

संस्का­र­मा­त्र­ज­न्य­ज्ञा­नत्वं स्मृतित्वं तस्मा­न्ना­रो­पेऽ­ति­व्या­प्ति­रिति परिहरति –
दोषेति ।

सम्प्रयोगो नेन्द्रियसंयोग इत्याह –
अत्रेति ।
उपसंहरति एवं चेति । दोषश्च सम्प्रयोगश्च संस्कारश्चेति विग्रहः । सत्य­र­ज­त­सा­म­ग्री­भि­न्न­सा­म­ग्री­ब­ला­दिति यावत् ।

आदिशब्देन शुक्त्य­व­च्छि­न्न­चै­त­न्य­मु­च्यते पर­त्रा­व­भा­स­प­दाभ्यां साद्य­ना­द्य­ध्या­स­सा­धा­रणं लक्षणमुक्तं भवति स्मृति­रू­प­पू­र्व­दृ­ष्ट­प­दाभ्यां साद्य­ध्या­स­ल­क्ष­ण­मु­क्त­मिति यन्मतद्वयं तदुपपादयति –
अन्ये त्वित्यादिना ।

अस्मिन्मतेपि स्मृतिरूपः स्मर्यमाणसदृशः सादृ­श्य­प्र­ति­पा­दकं पूर्व­दृ­ष्ट­प­द­मि­त्य­भि­प्रेत्य फलितं लक्षणमाह –
ताभ्यामिति ।
आदिशब्देन सम्प्र­यो­ग­सं­स्कारौ गृह्येते व्याव­हा­रि­क­प्रा­ति­भा­सि­क­सा­द्य­ध्या­स­सा­धा­र­ण­ल­क्ष­ण­मु­क्त­मि­त्यर्थः । दोषा­दि­त्र­य­ज­न्या­ध्या­स­वि­ष­य­त्व­म­र्थ­रू­पा­ध्या­सस्य लक्षणमिति भावः ।

स्वमते संस्का­र­ज­न्य­ज्ञा­न­वि­ष­यत्वं यत्सा­दृ­श्य­मुक्तं तदे­वा­स्मि­न्म­ते­पीति मन्तव्यम् । प्रकारान्तरेण सादृ­श्य­मु­प­पा­द­यितुं पूर्व­व­त्क­र्म­व्यु­त्प­त्त्या­दि­क­मा­श्रित्य लब्धमर्थमाह –
स्मृतिरूप इति ।

तज्जातीयेति ।
पूर्व­दृ­ष्ट­नि­ष्ठ­जा­ति­वि­शि­ष्टे­त्यर्थः । अभिनवरजतादेः शुक्याा दावु­त्प­न्न­र­ज­ता­दे­रि­त्यर्थः ।

अस्मिन्मते तु पूर्वदृष्टपदं न सादृ­श्य­प्र­ति­पा­द­क­मि­त्य­भि­प्रेत्य फलितं लक्षणमाह –
तथा चेति ।
पूर्वमतापेक्षया अस्मिन्मते लक्ष­ण­भे­द­ज्ञा­प­नया प्राती­ति­के­त्यु­क्तम् । शुक्ति­र­ज­त­स्वा­प्न­प­दा­र्था­द्य­ध्यासः प्रातीतिकाध्यास इत्यर्थः । अस्मिन् मते तु पूर्वदृष्टावभास इति भाष्ये पूर्व­दृ­ष्ट­श्चा­सा­व­व­भा­व­श्चेति कर्मधारयः समास इति विज्ञेयम् ।

अध्या­स­सा­मा­न्य­ल­क्षणं स्वमतापेक्षया मतद्वयेपि किम्भे­दे­नो­प­पा­द­नी­य­मिति जिज्ञासायां नेत्याह –
परत्रेति ।
मात्रपदं कार्त्स्न्या­र्थकं सामान्यमिति यावत् । ताभ्यामुक्तं मतद्वयाभिमतं सामान्यलक्षणं स्वम­त­री­त्यै­वो­प­पा­द­नी­य­मिति भावः । प्रमा­णा­ज­न्य­ज्ञा­न­वि­ष­य­त्व­मात्रं लक्षणमित्युक्ते स्मर्य­मा­ण­ग­ङ्गा­दा­व­ति­व्या­प्ति­रतः पूर्व­दृ­ष्ट­जा­ती­य­त्वम् । अनेन पूर्व­दृ­ष्टा­त्त­ज्जा­ति­वि­शिष्टो भिन्न इति व्यक्तिद्वयं प्रतीयते तथा च या पूर्वदृष्टा सैव सा गङ्गेति स्मृतिविषयः तस्मा­द्व्य­क्ते­रे­क­त्वान्न तत्र विशेष्यांश इति नातिव्याप्तिः । ननु व्यक्ति­द्व­या­ङ्गी­का­रेपि पर्वदृष्टे तज्जा­ति­वि­शि­ष्ट­त्वस्य सत्त्वा­द­ति­व्याप्तिः स्यादिति चेन्न । तज्जातिमत्त्वं नाम तत्स­दृ­श­त्व­मि­त्य­ङ्गी­का­रा­त्तथा च पूर्व­दृ­ष्ट­सा­दृ­श्यस्य भेदविशिष्टत्वेन पूर्वदृष्टे तस्मिन् अस­त्त्वा­न्ना­ति­व्याप्तिः । पूर्व­दृ­ष्ट­जा­ती­य­त्व­मि­त्युक्ते अभिनवघटे अतिव्याप्तिः तत्र पूर्व­दृ­ष्ट­त्वा­भा­वेन तज्जातीयत्वस्य सम्भ­वा­त्त­द्वा­र­णाय विशेषणदलम् ।

अभिनवघटस्य चाक्षुषत्वेन प्रमा­ण­ज­न्य­ज्ञा­न­वि­ष­य­त्वान्न तत्र अति­व्या­प्ति­रि­त्य­भि­प्रे­त्याह –
तत्रेति ।
स्मर्यमाणत्वम् – स्मृतिविषत्वम् ।

आहुरिति ।
मत­द्व­ये­प्य­ध्या­स­सा­मा­न्य­ल­क्ष­ण­स­म्भ­व­रू­पा­स्व­रसः आहुरित्यनेन सूचितः । शुक्तौ रज­त­सा­म­ग्र्य­भा­वेन तत्सं­स­र्गा­स­त्त्वा­दिति भावः । अवभासत इत्यनेन भाष्य­स्था­व­भा­स­पदं कर्म­व्यु­त्पत्त्या रज­ता­द्य­र्थ­प­र­मिति ज्ञाप्यते तथा च शुक्ता­व­व­भा­स्य­र­ज­तादिः स्मर्यमाणसदृशः पूर्वा­नु­भ­व­ज­नि­त­सं­स्का­र­ज­न्य­ज्ञा­न­वि­षय इति वाक्यस्य फलितार्थः । अर्था­ध्या­स­ल­क्षणं पूर्वमेव परिष्कृतम् ।

एतावता ग्रन्थेन वाक्य­म­र्था­ध्या­स­प­र­त्वेन व्याख्यातुकामः पूर्व­स्मा­द्वै­ष­म्य­माह –
ज्ञानाध्यास इति ।
स्मृतिपदस्य स्मरणमेवार्थः न स्मर्यमाणम् । अवभासत इत्यनेन भाव­व्यु­त्पत्त्या भाष्य­स्था­व­भा­स­पदं ज्ञानार्थकमिति ज्ञाप्यते । तथा च स्मृतिसदृशः पूर्वा­नु­भ­व­ज­नि­त­सं­स्का­र­जन्यः शुक्ता­व­ध्य­स्त­र­ज­ता­दि­वि­ष­य­का­व­भास इति वाक्यस्य फलितार्थः । एतेन स्मृति­स­दृ­शोऽ­व­भा­व­सोऽ­व­भा­सत इत्यन्वयदोषो निरस्तः । अवभासत इति पदस्य भाव­व्यु­त्प­त्ति­ज्ञा­प­क­त्वेन व्याख्यातत्वात् । पूर्व­द­र्श­ना­द­व­भास इति पाठान्तरम् । अस्मिन् पाठे तु नान्वयदोष इति मन्तव्यम् । अत्र परत्रावभस इति पद­द्व­य­प­रि­ष्का­रे­णा­त­स्मिं­स्त­द्बु­द्धि­र­ध्यास इति ज्ञानाध्यासस्य लक्षणं वक्तव्यम् । किं च स्मृत्यारोपयोः संस्का­र­ज­न्य­ज्ञा­नत्वं प्रमा­णा­ज­न्य­ज्ञा­नत्वं वा सादृश्यं प्रतिपादनीयम् ।

अपि चाध्यासे संस्कारपदेन विव­क्षि­त­दो­ष­स­म्प्र­यो­ग­ज­न्य­त्व­म­प्यु­प­पा­द­नी­य­मि­त्य­भि­प्रे­त्याह –
इति सङ्क्षेप इति ।

ननु लक्ष­ण­क­थ­ना­न­न्त­र­म­व्या­प्त्या­दि­दो­षा­भा­वात् क्रम­प्रा­प्त­स­म्भा­व­नो­प­न्यास एवोचितः न मतान्तरोपन्यासः तथा च कथ­मु­त्त­र­भा­ष्य­स­ङ्ग­ति­रि­त्या­शङ्क्य लक्ष­ण­प­रि­शो­ध­ना­यैव मतान्तरोपन्यास इति शङ्कोत्तराभ्यां सङ्गतिं प्रदर्शयन् उत्त­र­भा­ष्य­म­व­ता­र­यति –
नन्विति ।
प्रकृते विप्र­ति­प­त्ति­र्नाम विवादः अधि­ष्ठा­ना­रो­प्य­यो­र्य­त्स्व­रूपं तस्य विवादेपीति विग्रहः । अधिष्ठानं सत्यमिति सत्यवादिनो वदन्ति । अस­त्य­मि­त्य­स­त्य­वा­दिनः । एव­म­धि­ष्ठा­न­स्व­रू­प­वि­वादः । अपि चाधिष्ठानस्य सत्यत्वेपि जड­त्व­म­ज­ड­त्व­मि­त्येवं तत्त्व­स्व­रू­प­वि­वादः । अन्य­था­ख्या­ति­वा­दि­न­स्ता­र्किकाः अख्यातिवादिनः प्राभाकराश्च देशान्तरनिष्ठं रजतमिति वदन्ति । आत्म­ख्या­ति­वा­दिनो बुद्धिनिष्ठमिति । वेदा­न्ति­न­स्त्व­नि­र्व­च­नी­य­वा­दि­नोऽ­धि­ष्ठा­न­नि­ष्ठ­मिति । बौद्धैकदेशी शून्यवादी त्वस­द्रू­प­मि­त्ये­व­मा­रो­प्य­स्व­रू­प­वि­वाद इति भावः । लक्षणसंवादात् लक्षणस्य सर्व­स­म्म­त­त्वा­दि­त्यर्थः । तन्त्रपदं मतपरं शास्त्रपरं वा । तथा च सिद्धा­न्त­त्वे­नेदं लक्षणं सर्वै­र­भ्यु­प­ग­त­मिति भावः ।

अन्यथात्मेति ।
ख्याति­प­द­म­व­भा­स­प­रम् । एकमेव लक्षणं मतद्वये योज­नी­य­मि­त्या­श­ये­ने­द­मु­क्त­मिति भावः ।

स्वाव­य­व­ध­र्म­स्येति ।
स्वपदं रजतपरम् । आत्म­ख्या­ति­म­त­सा­ङ्क­र्य­वा­र­णा­येदं विशेषणमिति भावः । अन्य­ध­र्म­स्ये­त्यस्य व्याख्यानान्तरं देशा­न्त­र­स्थ­स्येति । अनि­र्व­च­नी­य­म­ता­स­त्ख्या­ति­म­त­सा­ङ्क­र्य­वा­र­णा­येदं विशेषणमिति भावः । एवमुत्तरत्र तत्तद्विशेषणेन तत्त­न्म­त­सा­ङ्क­र्य­वा­र­ण­मू­ह­नी­यम् ।

अन्यथाख्यातिमते अन्यधर्मावभास इति भाष्ये अन्यस्य धर्म अन्येषां धर्म इति विग्र­होऽ­भि­प्रेतः अस्मिन्मते तु अन्यस्य धर्म इति विग्र­ह­म­भि­प्रेत्य व्याख्याति –
बुद्धीति ।
आन्तरस्य बुद्धि­प­रि­णा­म­रू­पस्य रजतस्येदं रजतमिति शब्द­प्र­यो­गा­द्बहिः पदार्थवदवभास इति वदन्तीति भावः ।

तद्विवेकाग्रह इत्यादि भाष्यं व्याख्याति –
तयोश्चेति ।
देशा­न्त­र­स्थ­र­ज­त­श्रु­ति­रू­पा­र्थ­यो­रि­त्य­रि­त्यर्थः ।

रजतांशे स्मृतिरिदमंशे त्वनुभव इति प्राभा­क­र­म­त­न्त­ज्ज्ञा­प­यति –
तद्धियोश्चेति ।
अर्थ­वि­ष­य­क­स्मृ­त्य­नु­भ­व­यो­श्चे­त्यर्थः ।

भेदाग्रहकाल एव तद्धेतुको भ्रमस्तिष्ठति नेतरस्मिन् काल इति भ्रमस्य भेदा­ग्र­ह­स­मा­न­का­ली­नत्वं द्योतयितुं भाष्यमनुषङ्गं कृत्वा योजयति –
भेदेति ।
सः भेदाग्रहे मूलं निमित्तकारणं यस्य स तथा निमि­त्त­का­र­ण­ना­शा­न­न्तरं लोके कार्यस्य सत्त्वं दृष्टं प्रकृते तु न तथेति भावः ।

भ्रम­श­ब्द­स्या­र्थ­माह –
विशिष्टेति ।
तयो­र्भे­द­स्या­ग्र­ह­णेदं रजतमिति विशि­ष्ट­त्वे­नो­ल्लि­ख्य­मा­न­श­ब्द­प्र­यो­गा­त्मको भ्रम उत्पद्यत इति भावः ।

शुक्तिस्तु पुरोवर्तिनी रजतं तु देशान्तरमेव न शुक्तौ भासत इत्य­ख्या­ति­वा­दिनो वदन्ति । तन्मतेऽपि देशा­न्त­र­स्था­न्यत्र भानाभावे कथं विशिष्टव्यवहार इति गले पादुकान्यायेन लक्षणमस्तीत्याह –
तैरिति ।
विशि­ष्ट­श­ब्द­प्र­यो­गा­त्म­कस्य विशि­ष्ट­व्य­व­हा­र­स्या­नु­प­प­त्ति­र्ना­मा­न्यत्र विद्य­मा­न­स्या­न्यत्र भानरूपभ्रमं विना व्यवहारो न सम्भ­व­ती­त्या­का­रिका तया विशि­ष्ट­भ्रान्तेः तैरपि स्वीका­र्या­दि­त्यर्थः ।

रजतादिः विप­री­त­ध­र्म­त्व­श­ब्दार्थ इत्यभिप्रेत्य व्याचष्टे –
तस्यैवेति ।
विरुद्धः अत्य­न्ता­स­त्त्व­रूपः धर्मः रजतादिः यस्य शुक्त्यादेः सः विरुद्धधर्मः तस्य विरुद्धधर्मस्य शुक्त्यादेर्भवो रजतादिः तस्य रजतादेरित्यर्थः । अत्रा­लो­क­ता­दा­त्म्य­स­म्ब­न्धेन शुक्ति­श­क­ल­स्या­स­द्र­ज­त­ध­र्म­वत्त्वं वेदितव्यम् ।

सम्वादमिति ।
सम्मतिमित्यर्थः । आदिशब्देन आत्म­ख्या­ति­त्वा­दि­क­मु­च्यते ।

उक्त­म­ते­ष्व­नु­प­पत्तिं दर्शयन् स्वाभिमतमाह –
शुक्ताविति ।
देशान्तरे सत्त्वा­यो­गा­दि­त्य­नेन अन्य­था­ख्य­त्य­ख्या­ति­म­त­द्व­य­नि­रासः । आत्म­ख्या­ति­वा­दि­नो­प्य­न्य­त्रा­न्य­ध­र्मा­व­भा­स­स्या­ग­त्या­ङ्गी­का­रा­दिति भावः ।

केचित् शुक्तावेव रजतस्योत्पत्तिः तत्र तस्योत्पन्नस्य रजतस्य सत्य­त्व­म­ङ्गी­का­र्य­मिति वदन्ति । तन्मतं निराकरोति –
शुक्तौ सत्त्व इति ।
अत्रेदं त्वनुसन्धेयम् । यत्र लौकि­क­प्र­त्य­क्ष­वि­ष­यत्वं तत्र साक्षा­त्क­रो­मी­त्य­नु­व्य­व­सा­य­वि­ष­य­त्व­मिति व्याप्ति­र­नु­भ­व­सिद्धा एवं च शुक्ता­व­प­रो­क्ष­त्वे­ना­नु­भू­य­मा­नस्य रजतस्य भानं परवादिना ज्ञान­ल­क्ष­णा­रू­प­स­न्नि­क­र्षे­णैव वक्तव्यं तथा च रजतं साक्षा­त्क­रो­मी­त्य­नु­व्य­व­सा­यो­प­प­त्तिर्न वादिमते शक्यते वक्तुम् अलौ­कि­क­प्र­त्य­क्ष­वि­ष­यस्य साक्षा­त्क­रो­मी­त्य­नु­व्य­व­सा­य­वि­ष­त्वा­स­म्भ­वात् स्वमते तु शुक्त्या­दा­व­नि­र्व­च­नीयं रजतमुत्पद्यते तस्योत्पन्नस्य लौकि­क­प्र­त्य­क्ष­वि­ष­य­त्वे­ना­नु­व्य­व­सा­य­त्वा­त्त­दु­प­प­त्ति­र­स्तीति ।

बाधानन्तरेति ।
नेदं रजतमिति बाधानन्तरकालीनः शुक्तिका हि रजतवदवभासत इत्यनुभव इत्यर्थः ।

तत्र हेतुमाह –
तत्पूर्वमिति ।
बाधा­त्पू­र्व­मि­त्यर्थः । नेदं रजतमिति बाधप्रत्यक्षेण सिद्धमित्यर्थः ।

’याव­त्का­र्य­म­व­स्था­यि­भे­द­हे­तो­रु­पा­धी­ते’त्य­भि­यु­क्त­व­च­नेन यो भेदहेतुः स उपाधिरिति नियमो ह्यनुभवसिद्धः यथा चन्द्रे ह्यने­क­च­न्द्रत्वे अङ्गु­ल्या­दि­स्तथा चाह­ङ्का­रा­त्म­नो­रै­क्या­ध्यासे अविद्यादेः भेद­क­त्वा­भा­वा­न्न­पा­धित्वं किन्तु हेतुत्वमात्रं तस्यै­वा­वि­द्यादेः ब्रह्म­जी­वा­न्त­र­भे­द­क­त्वा­त्त­द­ध्यासे तूपाधित्वं तस्मा­न्नि­रु­पा­धिकः सोपाधिकश्चेति द्विविधोऽध्यास इत्य­भि­प्रे­त्या­व­ता­र­यति –
आत्मनीति ।
जीवादन्यो जीवान्तरं ब्रह्म­जी­व­भि­न्न­मिति ब्रह्मणि जीवभेदस्य सोपा­धि­क­स्या­ध्यासे चैत्रो मैत्राद्भिन्न इति परस्परजीवभेदस्य सोपा­धि­क­स्या­ध्यासे च दृष्टा­न्त­मा­हे­त्यर्थः ।

सद्वितीयवदिति भाष्यार्थं कथयन् दृष्टान्तोपाधिं स्फोरयति –
द्वितीयेति ।

लोके लक्ष­ण­प्र­मा­णाभ्यां वस्तु­नि­र्ण­य­सिद्धिः अत्र मिथ्या­त्व­स्प­ष्टी­क­र­णा­यो­क्तेन लक्ष­णे­ना­ध्या­स­स्व­रूपे सिद्धे लक्ष­ण­प्र­श्ना­व­स­र­काले किंशब्देन बुद्धिस्थस्य सम्भा­व­ना­क्षे­प­स्यो­त्था­नात् वस्तु­नि­श्च­यार्थं प्रमाणनिरूपणात् पूर्वं सम्भावनानिरूपणं युक्तमिति अभिप्रेत्य सम्भा­व­ना­क्षे­प­मु­त्था­प­यति –
भवत्विति ।
ननु वस्तु­नि­र्ण­या­र्थ­म­वश्यं वक्तव्येन प्रमाणेनैव कथं सम्भ­वे­दि­त्या­का­र­कायाः सम्भावनायाः निरा­क­र­णा­त्स­म्भा­वना न पृथग्वक्तव्या तथा च तदा­क्षे­प­स्या­न­व­सर इति चेन्न । प्रामाणिके वस्तु­न्य­स­म्भा­व­नाया अनु­भ­व­सि­द्ध­त्वा­त्तथा च न प्रमाणेन तन्निराकरणम् । न चासम्भावितत्वे कथं प्रामा­णि­क­त्व­मिति वाच्यम् । असम्भाविते वस्तुनि प्रामा­णि­क­त्व­स्या­प्य­नु­भ­व­सि­द्ध­त्वा­त्त­स्मा­द­स­म्भा­व­ना­नि­रा­क­र­णाय सम्भावना पृथक् निरूपणीयेति तदाक्षेपो युक्त इति भावः ।

अपरोक्षाध्यासं प्रत्य­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­म­धि­ष्ठा­ने­न्द्रि­य­सं­यो­गश्च हेतुस्तथा च शुक्त्यादौ कार­ण­द्व­य­स­त्त्वा­द­ध्यासो भवतु आत्मनि तु तदभावान्न सम्भवत्यध्यास इत्येवं शङ्कि­तु­र­भि­प्रा­य­मा­वि­ष्कु­र्वन् भाष्यमवतारयति –
यत्रेति ।
इन्द्रि­य­सं­यो­गा­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­यो­र­ध्यासं प्रति हेतुत्वादेव यत्रा­ध्या­सा­धि­ष्ठा­नत्वं तत्रे­न्द्रि­य­सं­यु­क्तत्वं विषयत्वं चेति व्याप्ति­र­नु­भ­व­सिद्धा भवति, तथाचात्र साम­ग्र्य­भा­वे­ने­न्द्रि­य­सं­यु­क्त­त्व­वि­ष­य­त्व­रू­प­व्या­प­का­भा­वा­द­धि­ष्ठा­न­त्व­रू­प­व्या­प्या­भा­व­स्त­स्मा­द­ध्यासो न सम्भ­व­ती­त्य­भि­प्रे­त्या­हे­त्यर्थः ।

प्रत्य­गा­त्म­न्य­वि­षय इति पदद्वयेन सामग्र्यभावं स्फुटी­कु­र्व­न्न­न्व­मा­वि­ष्क­रोति –
प्रतीचीति ।
प्रती­ची­त्य­ने­ने­न्द्रि­य­सं­यु­क्तत्वे चेति भावः ।

यद्य­प्या­त्म­न­स्त्व­ज्ञा­न­वि­ष­यत्वं अह­ङ्का­र­प­रि­णा­म­रू­प­वृ­त्ति­वि­ष­यत्वं चास्ति तथा­पी­न्द्रि­य­ज­न्य­ज्ञा­न­वि­ष­यत्वं नास्तीति पद­द्व­य­फ­लि­ता­र्थ­माह –
इन्द्रि­या­ग्रा­ह्येति ।
युष्म­त्प्र­त्य­यो­पे­त­स्ये­त्यस्य व्याख्या­ना­र्थ­मि­दं­प्र­त्य­या­न­र्ह­स्येति ।

त्वमविषयत्वमिति ।
परा­ग्भा­वे­ने­द­न्ता­स­मु­ल्ले­ख्यत्वं ज्ञानविषयत्वं तद्वि­प­री­त­प्र­त्य­ग्रू­प­त्वा­दा­त्म­न­स्त्व­वि­ष­य­त्व­मिति भावः । इदमुपलक्षणम् , इन्द्रि­या­दि­सं­यु­क्तत्वं च ब्रवीषीत्यर्थः ॥

अध्यासलोभेनेति ।
अध्या­स­सि­द्ध्य­भि­प्रा­णे­त्यर्थः ।

यथा घटवति भूतले नीलघटो नास्ती­त्युक्त्या नैकान्तेन घटाभावो विवक्ष्यते तथा स्वरू­प­ज्ञा­न­वि­ष­य­त्वा­भा­वो­क्त्या­हं­प्र­त्य­य­वि­ष­य­त्वे­ना­भ्यु­प­गते ह्यात्मनि नैकान्तेन विषयत्वाभावो विवक्षित इत्यभिप्रेत्य सिद्धा­न्त­भा­ष्य­म­व­ता­र­यति –
आत्मनीति ।
उत्कटकोटीसंशयः सम्भावना, अध्यासोस्ति न वेत्या­का­र­क­सं­श­य­स्या­स्ति­त्व­को­ट्यंशे ह्यौत्कट्यं नाम प्रायेण कारणस्य सत्त्वादध्यासो भवे­दि­त्य­भि­प्रा­य­स्त­द्वि­शि­ष्ट­को­टि­रु­त्क­ट­को­टि­स्त­द्वा­न्सं­शयः उत्कटकोटिकसंशय इत्युच्यते, अध्या­सो­स्ती­त्यं­श­स्या­भि­प्रा­य­वि­ष­य­त्वा­द्वि­ष­य­ता­स­म्ब­न्धे­ना­भि­प्रा­य­वै­शिष्ट्यं विभावनीयम् ।

अध्यासं प्रत्य­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­मेव हेतुः नेन्द्रियसंयोग इत्यभिप्रेत्य अध्या­सा­धि­ष्ठा­न­त्व­व्या­पकं विवृणोति –
अधिष्ठानेति ।

ज्ञान इति ।
अध्या­स­रू­पा­धि­ष्ठा­न­सा­मा­न्य­ज्ञान इत्यर्थः । भासमानत्वं विषयत्वमिति पर्यायः । मात्र­प­दे­ने­न्द्रि­य­सं­यु­क्त­त्व­मि­न्द्रि­य­त्व­वि­शि­ष्ट­त्वेन गौरवान्न व्याप­क­मि­त्यु­च्यते । अध्या­स­व्या­प­क­म­ध्या­सा­धि­ष्ठा­न­त्व­व्या­प­क­मि­त्यर्थः ।

किं नाम भासमानत्वमिति जिज्ञासायां फलभाक्त्वरूपं विषयत्वरूपं चेति द्विविधं भास­मा­न­त्व­मि­त्याह –
तच्चेति ।
भासमानत्वं चेत्यर्थः । भानं ज्ञानं तत्प्रयुक्तं यत्सं­श­या­दि­नि­वृ­त्ति­रूपं फलं तद्भाक्त्वं तदा­श्र­य­त्व­मि­त्यर्थः । अधि­ष्ठा­ना­रो­प्य­यो­रा­त्मा­ह­ङ्का­र­यो­र्य­ज्ज्ञा­न­म­ह­कि­त्या­का­र­का­ध्या­सा­त्मकं तेना­त्मा­ङ्का­र­वि­ष­क­सं­श­यस्य तद्वि­ष­य­क­वि­प­र्य­यस्य चाभा­वा­त्सं­श­या­दि­नि­वृ­त्ति­फ­ल­भा­क्त्व­मा­त्मा­ह­ङ्का­र­यो­र­स्तीति भास­मा­न­त्वो­प­प­त्ति­रिति भावः । तदेव भास­मा­न­त्व­मे­वे­त्यर्थः ।

विषयत्वमिति ।
इति केचिद्वदन्तीति शेषः ।

तन्न व्यापकमिति ।
उक्त विष­य­त्व­रू­प­भा­स­मा­नत्वं भान­भि­न्न­त्व­वि­शि­ष्ट­त्वेन गौरवान्न व्यापकमित्यर्थः । केचित्तु भासमानत्वं नाम ज्ञान­भि­न्न­त्व­घ­टितं स्वरू­प­स­म्ब­न्ध­वि­शे­ष­रू­प­मु­क्त­फ­ल­भा­क्त्व­नि­या­मकं विषयत्वमिति वदन्ति । तच्चो­क्त­वि­ष­त्व­रूपं भासमानत्वं न व्यापकं ज्ञान­भि­न्न­त्व­वि­शि­ष्ट­त्वेन गौर­वा­त्कि­न्तू­क्त­फ­ल­भा­क्त्व­रू­प­भा­स­मा­न­त्व­मेव व्यापकं ज्ञान­वि­शि­ष्ट­त्वेन लाघवात् अतो व्यापकस्य सत्त्वा­दा­त्म­न्य­ध्या­सो­प­प­त्ति­रिति भावः । ननु ज्ञान­घ­टि­त­फ­ल­भा­क्त्व­मिति न व्यपकं संश­या­दि­नि­वृ­त्ति­वि­शि­ष्ट­त्वेन गौरवादिति चेत् । अत्रोच्यते । ज्ञान­प्र­यु­क्त­फ­ल­भा­क्त्व­मेव व्यापकं संश­या­दि­नि­वृ­त्ते­र्व्या­प­क­श­री­र­प्र­वे­शस्तु फल­स्फु­टा­र्थ­स्त­स्मा­ल्ला­घ­व­मिति विज्ञेयम् । भास­मा­न­त्वा­दि­त्यर्थ इति । आत्मनः स्वप्रकाशत्वेन वृत्तौ प्रति­बि­म्बि­त­त्वेन च भास­मा­न­त्व­म­ह­ङ्का­रस्य तु साक्षि­वे­द्य­त्वेन भासमानत्वमिति भेदः । तथा हि - अह­ङ्का­रा­भा­व­वि­शि­ष्ट­सु­षु­प्त्या­दि­काले अह­मि­त्य­ध्या­स­पू­र्व­काले च स्वप्रकाशत्वेन आत्मा स्फुटं प्रतीयते, अत एवात्मनिष्ठं प्रका­श­त्व­प्र­य­क्त­फ­ल­भा­क्त्व­रू­प­भा­स­मा­न­त्व­म­ह­ङ्का­रा­दि­नि­ष्ठा­सा­क्षि­वे­द्य­त्व­प्र­यु­क्ता­त्फ­ल­भा­क्त्व­रू­प­भा­स­मा­न­त्वा­द्भि­न्न­मि­त्य­व­श्य­म­ङ्गी­क­र­णी­य­मिति भावः । आत्मनः वृत्ति­प्र­ति­बि­म्बि­त­चै­त­न्य­वि­ष­य­त्वा­भा­वेऽपि वृत्ति­वि­ष­य­त्व­म­स्तीति परि­हा­र­ग्र­न्थार्थः ।

यत्रेति ।
यत्राहङ्कारे प्रतीयते आत्मा सोऽह­ङ्का­रोऽ­स्म­त्प्र­त्यय इत्यन्वयः । तत्राहङ्कारे तदधिष्ठानत्वेन प्रति­बि­म्बि­त­त्वेन चात्मनः भास­मा­न­त्वा­दि­त्यर्थः ।

ननु प्रथमव्याख्याने अध्यासः स्फुटः द्विती­य­व्या­ख्या­नेपि यत्र प्रतीयते स इत्यनेनाध्यासो भासत एव प्रतीयत इति प्रयोगात्तथा च परस्पराश्रयदोषः स्यादित्याह –
न चेत्यादिना ।

पूर्वाध्यास इति ।
अहमित्याकारके अन्य­स्या­न्या­त्म­क­त्वा­व­भा­स­रूपे पूर्वाध्यास इत्यर्थः । तथा चोत्तराध्यासं प्रत्य­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­ना­त्मकः पूर्वाध्यासो हेतुर्भवति तस्माद्धेतोः सत्त्वा­द्व्या­प­कस्य सत्त्वे­ना­त्म­न्य­ध्या­सो­प­पत्तौ न काचि­द­नु­प­प­त्ति­रिति भावः ।

भान­भि­न्न­त्व­घ­टि­त­वि­ष­य­त्व­रू­प­भा­स­मा­न­त्व­वादी शङ्कते –
नन्विति ।
एकस्मिन् विषयविषयित्वस्य विरुद्धत्वादिति भावः ।

भानरूपस्यात्मनः भान­वि­ष­य­त्व­रू­प­भा­स­मा­न­त्वा­भा­वे­प्यु­क्त­फ­ल­भा­क्त्व­रू­प­भा­स­मा­नत्वं स्यादित्यत आह –
तद्विषयत्वं विनेति ।
भानविषयत्वं विनेत्यर्थः ।

तत्फलेति ।
भान­वि­ष­य­त्व­प्र­यु­क्त­सं­श­य­वि­प­र्य­य­नि­वृ­त्त्या­त्म­क­फ­ले­त्यर्थः ।

चशब्दो युक्त्य­न्त­र­प्र­ति­पा­दक इति भ्रमं वारयति –
चशब्द इति ।
भानविषयत्वमेव फल­भा­क्त्व­नि­या­म­क­मिति नियमः किन्तु स्वप्रकाशत्वमपि तन्नियामाकं तथा च स्वप्रा­का­श­त्वा­दा­त्म­न­स्त­त्प्र­यु­क्त­फ­ल­भा­क्त्व­रू­प­भा­स­मा­नत्वं युज्यत इति भावः ।

उपसंहरति –
अत इति ।
व्यापकस्य स्वप्र­का­श­त्व­प्र­यु­क्त­फ­ल­भा­क्त्व­रू­प­भा­स­मा­न­त्वस्य सत्त्वा­द्व्या­प्या­धि­ष्ठा­न­त्व­मा­त्मनि सम्भवतीति भावः । यद्यपि युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति भाष्यव्याख्याने चिदात्मा ताव­द­स्म­त्प्र­त्य­य­योग्य इत्यादिग्रन्थे फल­भा­क्त्व­रू­प­गु­ण­यो­गा­दा­त्मनि गौणविषयत्वं भासमानत्वरूपं ग्रन्थकारेण प्रसाधितं तथापि अत्र फलभाक्त्वमेव भास­मा­न­त्व­मि­त्युक्तं लाघवादिति मन्तव्यम् । अन्ये तु आत्मनि स्वप्र­का­श­त्व­रूपं भास­मा­न­त्व­म­ङ्गी­कृत्य तदेव व्याप­क­मि­त्य­ध्या­सो­प­प­त्ति­रति वदन्ति ।

फल­भा­क्त्व­रू­प­भा­स­मा­न­त्व­मे­वा­ध्या­स­व्या­पकं न भान­भि­न्न­त्व­वि­शि­ष्ट­वि­ष­य­त्व­रू­प­भा­स­मा­न­त्व­मिति भाष्यभावः स्फुटीकृतः स प्रती­न्द्रि­य­ग्रा­ह्यत्वं नाध्या­स­व्या­प­क­मिति प्रति­पा­द­क­मु­त्त­र­भा­ष्य­म­व­ता­र­यति –
यदुक्तमिति ।

तत्रेति ।
यत्रा­ध्या­सा­धि­ष्ठा­नत्वं तत्रे­न्द्रि­य­सं­यो­ग­ज­न्य­ज्ञा­न­वि­ष­य­त्व­मिति या व्याप्तिस्तस्या अभावे हेतुमाहेत्यर्थः ।

इन्द्रि­या­ग्रा­ह्ये­पीति ।
द्रव्या­त्म­को­प्य­काशः स्पर्श­र­हि­त­त्वा­द्रू­प­र­हि­त­त्वाच्च न बाह्य­प्र­वृ­त्ति­र­हि­त­त्वा­त्त­स्मा­दि­न्द्रि­या­ग्राह्य इति भावः ।

अविवेकिन इति ।
अयथार्थदर्शिन इत्यर्थः ।

इन्द्रि­य­सं­यु­क्तत्वं विषयत्वं चेत्युक्तं व्याप­क­द्व­य­मे­की­कृत्य लाघ­वा­दि­न्द्रि­य­ग्रा­ह्य­त्व­मेव व्यापकमित्याह –
इन्द्रि­य­ग्रा­ह्य­त्व­मिति ।
इन्द्रि­य­सं­यो­ग­ज­न्य­ज्ञा­न­वि­ष­त्व­मि­त्यर्थः ।

एतेनेत्यनेन बोधितं हेतुमाह –
नीलनभसोरिति ।

नन्वाकाशस्य कथं तल­म­लि­न­ता­द्य­ध्या­सा­धि­ष्ठा­न­त्व­मि­न्द्र­य­ग्रा­ह्य­त्वा­भा­वेन भास­मा­न­त्व­रू­प­व्या­प­का­भा­वा­दि­त्या­शङ्क्य साक्षि­वे­द्य­त्वा­दा­का­श­स्या­स्त्येव भासमानत्वरूपं व्याप­क­त्व­मि­त्याह –
सिद्धान्त इति ।
आलोकाकारा या चाक्ष­ष­वृ­त्ति­स्त­स्या­म­भि­व्यक्तो यः साक्षी तद्वे­द्य­त्व­मि­त्यर्थः ।

सूत्रितामिति ।
प्रथ­म­सू­त्रे­णा­र्थि­का­र्थ­तया प्रति­पा­दि­ता­मि­त्यर्थः । अवि­द्या­मु­प­दर्श्य तस्याः ज्ञान­नि­र­स्य­त्व­प्र­द­र्श­ने­ना­वि­द्या­नि­वृ­त्ति­सिद्धेः किम­ध्या­सो­प­व­र्ण­नेन गौरवादिति शङ्कि­तु­र­भि­प्रायः ।

तच्छब्दार्थमाह –
आक्षिप्तमिति ।
एतच्छब्दार्थमाह समाहितमिति ।

एवंलक्षणमिति भाष्ये बहु­व्री­हि­स­मा­स­म­भि­प्रेत्य परिष्कृतार्थमाह –
उक्त­ल­क्ष­ण­ल­क्षि­त­मिति ।

मन्यन्त इति ।
प्रमाणकुशला इति शेषः । तद्वि­वे­के­ने­त्यस्य व्याख्या­न­म­ध्य­स्त­नि­षे­धे­नेति । अध्य­स्त­स्या­ह­ङ्का­रादेः निषेधेन विलयनेन अधि­ष्ठा­न­स्व­रू­पस्य निर्धा­र­ण­म­व­धा­र­णा­त्म­क­वि­ज्ञानं ब्रह्मविदो विद्या­मा­हु­रि­त्यर्थः । नेदं रजतं किन्तु शुक्ति­रे­वे­त्य­ध्य­स्ता­त­द्रू­प­र­ज­त­वि­ल­य­नेन अधि­ष्ठा­न­शु­क्ति­स्व­रू­पस्य प्रत्य­ग­भि­न्न­ब्र­ह्मणो निर्वि­चि­कि­त्स­म­व­धा­र­णा­त्मकं विज्ञानं विद्येति ब्रह्मविदो वदन्तीति भावः ।

उक्तन्यायेनेति ।
अविद्याकार्ये त्ववि­द्या­नि­व­र्त्य­त्व­रू­पो­क्त­हे­तु­द्व­ये­ने­त्यर्थः ।

ननु कथमुक्तशङ्कायाः परिहारः तस्य परिहारस्य भाष्ये अप्र­ती­य­मा­न­त्वा­दि­त्यत आह –
मूलेति ।
तद्व­र्ण­न­म­ध्या­स­व­र्ण­न­मि­त्यर्थः ।

बन्ध­स्या­न­र्थ­रू­प­स्या­वा­स्त­व­त्व­द्यो­त­यि­तु­म­क्ष­रा­र्थ­माह –
अध्यस्तकृतेति ।
अध्यस्तः अहङ्कारादिः तत्कृतो योग­प्र­भा­वा­दि­ज­नि­त­स­र्व­ज्ञ­त्वा­दि­रूपो गुणः तत्कृतः अवि­वे­क­ज­नि­त­ब्र­ह्म­ह­त्या­दि­रूपो दोष इति विवेकः । अक्षरार्थः शक्त्या शब्दताडितार्थ इत्यर्थः ।

वृत्ता­नु­वा­द­पु­रः­स­र­मु­त्त­र­भा­ष्य­ता­त्प­र्य­माह –
एवमिति ।
उक्तरीत्येर्थः । युष्म­द­स्म­दि­त्या­दिना नैसर्गिकोऽयं लोकव्यवहार इत्यन्तेन भाष्येण सिद्ध­व­दु­प­न्य­स्त­मा­त्मा­ना­त्म­नो­र­न्योऽ­न्य­वि­ष­य­म­वि­द्या­श­ब्दि­त­म­ध्यासं सिषाधयिषुस्तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुन­स्त­द्भा­व­नि­श्च­य­मु­प­पा­द­यि­तु­मि­च्छन् प्रमाणमाहेति भावः । श्लोकः –
व्याख्यायते यदा भाष्यं सङ्केतो लिख्यते तदा ।
आदौ तु भाष्य इत्येवमन्ते व्याख्यान इत्यपि ॥

भाष्ये –
प्रमा­ण­प्र­मे­य­व्य­व­हारा इति ।
प्रमाणानां चक्षुरादीनां व्यवहारः उन्मी­ल­न­नि­मी­ल­ना­दि­रूपः क्रियाविशेषः प्रमेयघटादीनां व्यवहारः आनयनादिरूपः क्रियाविशेषः ।

सर्वाणि च शास्त्राणीति ।
कर्मशस्त्राणि मोक्षशास्त्राणि चेत्यर्थः । विधि­प्र­ति­षे­ध­मो­क्ष­प­रा­णी­त्यत्र विधि­प्र­ति­षे­ध­प­राणि मोक्ष­प­रा­णी­त्य­नु­भ­यत्र परशब्दस्यान्वयः । अध्यासं पुरस्कृत्य प्रमा­णा­दि­व्य­व­हाराः प्रवृत्ता इत्य­ने­ना­ध्या­सा­श्रयः प्रमातापि गम्यते, तथा चावि­द्या­व­द्वि­ष­याणि प्रत्य­क्षा­दि­प्र­मा­णा­नी­त्युक्तं भवति तथा सति कथं पुन­र­वि­द्या­व­द्वि­ष­या­णी­त्या­द्य­नु­वा­द­पू­र्व­का­क्षेपो युक्तः पुरो­वा­द­स­म्भ­वा­दिति भावः । पुनःशब्दः प्रमा­णा­न्त­र­द्यो­तकः ।

व्याख्याने
लौकिक इति ।
प्रमाता प्रमाणं प्रमेयमित्यादि व्यवहारो लोकिक इत्यर्थः । कर्ता करणं कर्मे­त्या­दि­व्य­व­हारः कर्मशास्त्रीय इत्यर्थः । ध्याता ध्यानं ध्येय­मि­त्या­दि­व्य­व­हारः मोक्षशास्त्रीय इत्यर्थः । ननु मोक्षशास्त्रेपि प्रमा­णा­दि­व्य­व­हा­रस्य सत्त्वादयं नियमः कथमिति चेत् । उच्यते । प्रधा­नो­प­स­र्ज­न­भा­वे­नायं नियम उपपद्यत इति । तथा च त्रिवि­ध­व्य­व­हा­रस्य देहे­न्द्रि­या­दि­ष्व­हं­म­मा­ध्या­स­मू­ल­कत्वं प्रत्यक्षसिद्धं व्यव­हा­र­हे­तु­त्वे­ना­ध्या­सोऽपि प्रत्यक्षसिद्धः प्रमा­णा­ना­म­वि­द्या­व­द्वि­ष­य­त्व­मपि प्रत्य­क्ष­सि­द्ध­मिति प्रमा­ण­मु­प­न्यस्तं भवतीति भावः ।

ननु कर्म­शा­स्त्री­यत्वं नाम कर्मशास्त्राणां सम्बन्धित्वमिति वाच्यम् , तत्र कानि मोक्ष­शा­स्त्रा­णी­त्या­शङ्क्य विधिनिषेधपराणि कर्मशास्त्राणि मोक्षपराणि मोक्ष­शा­स्त्रा­णीति विभागमाह –
तत्रेति ।

ननु मोक्ष­श­स्त्र­स्यापि विधि­नि­षे­ध­प­र­त्व­मेव वक्तव्यं तन्नि­ष्ठ­त्वा­त्स­क­ल­शा­स्त्रस्य किं ततोऽ­न्य­न्मो­क्ष­प­र­त्व­मि­त्या­शङ्क्य मोक्ष­शा­स्त्राणां मोक्षपरत्वं नाम विधि­नि­षे­ध­शू­न्य­प्र­त्य­ग्ब्र­ह्म­प­र­त्व­मि­त्याह –
विधि­नि­षे­ध­शू­न्येति ।

एवमिति ।
उक्त­प्रा­क­रे­णे­त्यर्थः ।

उक्तप्रकारमेवाह –
व्यव­हा­र­हे­तु­त्वे­नेति ।
वैशिष्ट्यं तृतीयार्थः व्यव­हा­र­हे­तु­त्व­वि­शि­ष्टा­ध्यासे साक्षि­सि­द्धेऽ­पी­त्यर्थः । परमते मान­स­प्र­त्य­क्ष­सि­द्धोऽ­ध्यास इति द्योतनार्थं सामान्यतः प्रत्य­क्ष­प­द­नि­वेशः । एवमुत्तरत्र विभावनीयम् । प्रमा­णा­दी­ना­म­चे­त­न­त्वेन तेषां व्यवहारः प्रमातारमन्तरा न सम्भवति प्रमातृत्वं प्रमाश्रयत्वं तच्चा­स­ङ्ग­स्या­त्मनः विनाध्यासं न शक्यमुपपादयितुं तस्मा­द्व्य­व­हा­र­हे­तु­त्वे­ना­ध्यासे साक्षि­प्र­त्य­क्ष­सि­द्धेऽपि प्रमाणान्तरं पृच्छतीति भावः ।

अध्यासो व्यवहारहेतुः सन् प्रत्य­क्ष­प्र­मा­ण­सिद्ध इति साधयितुं प्रवृत्तेन ’तमे­त­म­वि­द्या­ख्य­मि­त्यादि मोक्ष­प­रा­णी’त्ये­त­द­न्तेन भाष्य­णै­वा­ध्या­सस्य व्यव­हा­र­हे­तु­त्वार्थं प्रमा­ण­नि­ष्ठा­वि­द्या­व­द्वि­ष­य­त्व­मपि प्रत्य­क्ष­प्र­मा­ण­सि­द्ध­मिति साधितं भवति तदनुवदन् भाष्या­न्व­य­मा­वि­ष्क­रोति –
तत्त­त्प्र­मे­य­व्य­व­हा­रेति ।

अध्यासात्मकेति ।
अध्या­स­वि­शि­ष्टे­त्यर्थः । अथवा अध्या­सा­त्म­कोऽ­र्था­ध्या­स­स्व­रूपः यः प्रमाता तदा­श्रि­त­त्वा­दिति यथाश्रुत एवार्थः । प्रमा­तृ­त्व­वि­शि­ष्टस्य प्रमातुः साभा­सा­ह­ङ्का­र­स्या­र्था­ध्या­स­त्व­ज्ञा­प­ना­र्थ­मिदं विशेषणमिति भावः ।

अवि­द्या­व­द्वि­ष­य­त्व­मिति ।
अध्या­स­व­त्पु­रु­षा­श्र­य­त्व­मि­त्यर्थः । प्रत्यक्षं साक्षि­प्र­त्य­क्ष­मि­त्यर्थः । ननु प्रमा­णा­ना­म­ध्या­स­व­त्प्र­मा­त्रा­श्र­यत्वं वक्तव्यं कुतः प्रमा­या­स्त­दा­श्र­य­प्र­ति­पा­द­न­मिति चेन्न । प्रमे­य­व्य­व­हा­र­हे­तु­भू­त­प्र­मा­णस्य यथा अध्या­स­व­त्पु­रु­षा­श्र­यत्वं तथा प्रमे­य­व्य­व­हा­र­हे­तु­भू­त­प्र­माया अपि तदा­श्र­य­त्व­ज्ञा­प­ना­र्थ­त्वात् । न चेदमप्रसक्तमिति वाच्यम् । प्रमाणानां प्रमाद्वारा प्रमेयव्यवहारं प्रति हेतुत्वात्तेषां प्रमाणानां प्रमा­त्रा­श्रि­त­त्वेन तत्कार्यप्रमाया अपि तदा­श्रि­त­त्व­प्र­ति­पा­दनं प्रसक्तमेवेति भावः । अथवा प्रमापदं प्रमाणपरम् , तथा च व्यव­हा­र­हे­तु­भू­तस्य प्रमा­ण­स्या­ध्या­स­व­त्प्र­मा­त्रा­श्रि­त­त्वा­दिति भावः । प्रमाणानामिति निष्ठत्वं षष्ठ्यर्थः ।

विषयत्वमिति ।
अध्यासश्चेति शेषः । यद्य­प्य­न्य­स्या­न्या­त्म­क­त्वा­व­भा­सोऽ­ध्यासः प्रत्यक्षसिद्धः अवि­द्या­व­द्वि­ष­यत्वं च प्रत्यक्षसिद्धं तथापि तयोः सद्भावे प्रमाणान्तरं पृच्छतीति भावः ।

अवि­द्या­व­द्वि­ष­या­णीति ।
यदा पुरु­षो­ध्या­सा­त्म­क­दो­ष­यु­क्त­स्तदा चक्षु­रा­दि­क­म­प्य­ध्या­सा­त्म­क­दो­ष­यु­क्तम् , तथा च यद्दु­ष्ट­क­र­ण­जन्यं ज्ञानं तद्भ्रम इति नियमः यथा पीतः शङ्ख इति ज्ञानम् , एवं च तानि चक्षुरादीनि सर्वदा भ्रमजनकान्येव स्युः न प्रमाजनकानीति अवि­द्या­व­द्वि­ष­याणि तानि कथं प्रमाणानीति प्रामाण्याक्षेप इति भावः । अर्थापत्तिपदं प्रमाणपरं न प्रमापरं देव­द­त्तोऽ­ध्या­स­वा­नि­त्या­का­र­का­र्था­प­त्ति­रू­प­प्र­मा­क­र­ण­म­र्था­पत्तिः, तथा च अध्यासं विना व्यवहारो न सम्भवतीति व्यव­हा­र­रू­प­का­र्या­र्था­प­त्ति­र­ध्यासे प्रमाणमिति भावः । तत्पदं व्यवहारपरं चैत्रोऽ­ध्या­स­वान् व्यव­हा­र­व­त्त्वात् मैत्रवद् व्यतिरेकेण घट­व­द्वे­त्य­नु­मानं चाध्यासे प्रमाणमिति भावः ।

नन्विदं भाष्य­म­ध्या­स­प्र­मा­ण­प्र­ति­पा­द­न­प­र­त­यैव व्याख्यायते किम­वि­द्या­व­द्वि­ष­यत्वे प्रमा­ण­प्र­ति­पा­द­न­प­र­त­यापि न व्याख्यायते प्रश्न­वि­ष­य­त्वे­नो­भयोः प्रस­क्ते­स्तु­ल्य­त्वा­दिति चेन्न । अध्या­स­प्र­मा­ण­प्र­ति­पा­द­ने­ना­वि­द्या­व­द्वि­ष­यत्वे प्रमा­ण­प्र­ति­पा­द­नस्य सुलभत्वात् , तथाहि प्रत्य­क्षा­दि­प्र­मा­ण­म­ध्या­स­व­त्प्र­मा­त्रा­धि­ष्ठितं सत्प्र­वृ­त्ति­का­रण अचे­त­न­त्वा­द्र­था­दि­व­दिति प्रयोगः अचेतनस्य व्यवहारः चेत­ना­धि­ष्ठि­त­त्व­म­न्तरा न सम्भ­व­ती­त्य­न्य­था­नु­प­प­त्ति­रि­त्ये­त­द्व­य­म­वि­द्या­व­द्वि­ष­यत्वे प्रमाणमिति विभावनीयम् । न केवलमध्यासे व्यव­हा­र­लि­ङ्ग­का­नु­मा­न­मेव प्रमाणं किन्तु व्यव­हा­र­प­क्ष­क­म­पी­त्याह –

देवदत्तेति ।
देहशब्देन मनु­ष्य­त्वा­दि­जा­ति­वि­शिष्टः अवयवी अभिमतः, आदिशब्देन इन्द्रि­य­ग्रा­ह्या­द्य­व­य­व­ग्र­ह­णम् । देहे अहमित्यध्यासः इन्द्रियादौ ममेत्यध्यासः तन्मूलक इत्यर्थः । तस्या­ध्या­स­स्या­न्व­यश्च व्यति­रे­क­श्चा­न्व­य­व्य­ति­रेकौ ताव­नु­स­र­ती­त्य­न्व­य­व्य­ति­रे­का­नु­सारी तस्य भाव­स्त­स्मा­दि­त्यर्थः । अन्वयः सत्त्वं व्यतिरेकोऽभाव इति विवेकः । व्यवहारः स्वव्य­ति­रे­क­द्वारा अध्या­स­व्य­ति­रे­का­नु­सारी भवतीति भावः ।

यत् यद­न्व­य­व्य­ति­रे­का­नु­सारि तत्तन्मूलकमिति सामा­न्य­व्या­प्ति­माह –
यदित्थमिति ।
इत्थं पदा­न्व­य­व्य­ति­रे­का­नु­सारी भवतीत्यर्थः । तथा तन्मू­ल­क­मि­त्यर्थः ।

सामा­न्य­व्याप्तिं स्फुटीकर्तुं तदुचितं स्थलं प्रदर्शयति –
यथेति ।
मूलपदं कारणपरं यथा मृद­न्व­य­व्य­ति­रे­का­नु­सा­रि­त्वा­न्मृ­न्मूलो घटः तथा अध्या­सा­न्व­य­व्य­ति­रे­का­नु­सा­रि­त्वा­द­ध्या­स­मू­लको व्यवहार इति भावः ।

कारणतयेति ।
कारणत्वेन साध्य­प्र­वि­ष्ट­त्वा­द­ध्या­स­सि­द्धि­रिति भावः । वाशब्दश्चार्थे ।

’उच्यते देहे­न्द्रि­या­दि­ष्व­ह­मि’त्यादि भाष्यं श्रीभाष्यकारस्य वस्तु­स­ङ्ग्रा­ह­क­वाक्यं तस्यैव प्रपञ्चनं ’नही­न्द्रि­या­ण्य­नु­पा­धा­ये’त्यादि भाष्यमिति विभागमभिप्रेत्य उत्तरभाष्यं शङ्को­त्त­रा­भ्या­म­व­ता­र­यति –
नन्विति ।

लिङ्गादेरिति ।
अनु­मा­न­प्र­म­णा­दे­रि­त्यर्थः । प्रत्य­क्षा­दी­त्या­दि­प­दे­ना­नु­मि­त्यादेः सङ्गृ­ही­त­त्वा­दि­त्यर्थः । व्यवहारः पुरु­ष­क­र्तृ­क­व्य­व­हार इत्यर्थः ।

प्रमास्वरूपाणां प्रत्य­क्षा­नु­मि­ति­शा­ब्द­ज्ञा­नानां व्यवहारमभिनयति –
द्रष्टेत्यादिना ।
अनुमाता अनुमितिकर्ता शाब्द­प्र­मा­रू­प­श्र­व­ण­कर्ता श्रोता । अनुमन्तेति पाठः प्रामादिकः अस्मिंश्च पाठे अनुमन्ता अनुमतिकर्ता अनुमतिः सम्मतिरित्यर्थः ।

यद्वेति ।
पुरुषः तानि ममत्वेनानुपादाय पुरुषस्य यो व्यवहारः स न सम्भवतीत्यन्वयः ।

प्रथमव्याख्याने पुरुषस्य व्यवा­र­क­र्तृ­त्व­मात्रं, व्यवहारस्य तु अगृहीत्वेत्यनेन अनु­पा­दा­न­क्रि­या­क­र्तृत्वं – न सम्भवतीत्यनेन चास­म्भ­व­क्रि­या­क­र्तृत्वं चेत्यु­भ­य­क­र्तृत्वं प्रतिपाद्यते तस्मा­द­नु­पा­दा­ये­त्ये­क­क­र्त­त्व­वा­चि­क्त्वा­प्र­त्ययः साधुरिति परिष्करोति –
पूर्वत्रेति ।

द्विती­य­व्या­ख्याने व्यव­हा­र­स्या­स­म्भ­व­क्रि­या­क­र्तृ­त्व­मात्रं पुरुषस्य तु पुरु­षो­नु­पा­दा­ये­त्य­ने­ना­नु­पा­दा­न­क्रि­या­क­र्तृत्वं पुरुषस्य व्यवहार इत्यनेन व्यव­हा­र­क­र्तृत्वं चेत्यु­भ­य­क­र्तृत्वं प्रतिपाद्यते ततः प्रत्ययः साधुरिति स्फूटीकरोति –
उत्तरत्रेति ।

देह­रू­प­ध­र्म्य­ध्या­सा­म­न्तरा हीन्द्रि­या­दि­रू­प­ध­र्मा­ध्यासो न सम्भवतीति धर्म्य­ध्या­सो­ङ्गी­क­र­णीय इति परि­हा­र­म­भि­प्रेत्य धर्मिणं स्फोरयति –
इन्द्रियाणामिति ।

नन्विति ।
अचे­त­ने­न्द्रि­या­दे­र्व्य­व­हारः चेत­न­स­म्ब­न्ध­म­न्तरा न सम्भवति रथादेर्व्यवहार इवातः चेतनसम्बन्धो वाच्यः इन्द्रियादेस्तु स्वाश्र­य­श­री­र­द्वारा पर­म्प­रा­स­म्ब­न्धेन चेत­ना­त्म­स­म्ब­न्ध­स­त्त्वा­द्व्य­व­हा­रो­प­पत्तेः किं धर्म्य­ध्या­से­नेति शङ्कि­तु­र­भि­प्रायः ।

आत्मशरीरयोः संयोगः सम्भवति चेत्तदा आत्म­सं­यु­क्त­श­री­र­स­म्ब­न्धि­त्वे­ने­न्द्रि­या­दे­रा­त्म­स­म्बन्धो वक्तुं युज्यते स एव न सम्भवतीत्याशयं स्फुटीकरोति –
असङ्गो हीति ।
निर­व­य­व­स्या­व­य­व­सं­श्ले­ष­रू­प­सं­योगो नास्ति । सिद्धान्ते समवायस्तु नाभ्युपगत एव स्वरू­पा­दि­स­म्ब­न्धस्तु संयो­गा­दि­मू­ल­स­म्ब­न्ध­पू­र्वकः तथा चाध्यासेनैव व्यवहारनिर्वाह इति भावः ।

वृत्तिमात्रमिति ।
अन्तः­क­र­ण­प­रि­णा­म­वि­शे­ष­मा­त्र­मि­त्यर्थः ।

जगदान्ध्येति ।
जगतः व्यव­हा­र­वि­ष­य­त्व­प्र­सङ्ग इत्यर्थः ।

प्रमा नाम वृत्ति­स­म्ब­न्ध­र­हि­त­चि­द्रूपा वा चित्स­म्ब­न्ध­र­हि­त­वृ­त्तिर्वा आहो­स्वि­द्वि­शिष्टा वेति विकल्प्य प्रथमद्वितीयौ निरस्य तृतीयमङ्गीकरोति -
अतो वृत्तीद्ध इति ।
वृत्त्य­भि­व्यक्तो वृत्तीद्ध इत्यर्थः । वृत्तिमतो मनसः यत्तादात्म्यं सत्तैक्यरूपं तस्याध्यासं विनेत्यर्थः । वृत्ति­रू­प­वि­शे­ष­णांशे चाध्यासः धर्म्यध्यासं विना न सम्भवति, तथा च धर्म्य­ध्या­सा­भा­वे­नो­भ­यत्र धर्माध्यासाभावे वृत्ति­वि­शि­ष्ट­बो­ध­रू­प­प्र­मा­श्र­यत्वं नेति फलितार्थः ।

’एतस्मिन् सर्व­स्मि­न्न­स­तीति’ भाष्यस्य मन­स्ता­दा­त्म्या­द्य­ध्या­सा­भा­व­रू­प­ता­त्प­र्यार्थो उक्तः सम्प्रति शब्दोक्तार्थमाह –
देहादीति ।
तद्धर्माध्यासे च देह­ध­र्म­स्ये­न्द्रि­या­दे­र­ध्यासे चेत्यर्थः ।

प्रत्याहेति ।
तिर­स्क­रो­ती­त्यर्थः । प्रमातारमन्तरा ह्यचे­त­ने­न्द्रि­या­दि­व्य­व­हारो नोपपद्यत इति सिद्धा­न्त्य­भि­प्रायः ।

अर्थापत्तिशब्दो व्याख्यातः तच्छब्दार्थं कथयन् भाष्यं योजयति –
अहमितीति ।
अध्यासं विना प्रमा­तृ­त्वा­यो­गा­त्त­द­न्त­र्ग­त­त्व­म­ध्या­स­स्येति भावः ।

पूर्व­स्थि­त­मे­व­का­र­मु­त्त­र­प­दे­ना­न्वेति –
प्रमा­णा­न्ये­वे­तीति ।

ननु चैत­न्या­द्वि­ती­या­व­भासं प्रति प्रमा­त्र­न्त­र्ग­त­स्या­वि­द्या­ध्या­सस्य दोषत्वेन प्रसि­द्ध­त्वा­त्क­थ­म­दो­ष­त्व­मि­त्यत आह –
सति प्रमातरीति ।
यथा चक्षु­र्नि­ष्ठ­का­च­का­म­लदिः पश्चाद्भवन् दोषः तथा अविद्या तु प्रमा­त्र­न्त­र्ग­त­त्वान्न दोष इत्यन्वयः । पूर्व­स्मा­द्वै­ष­म्य­द्यो­त­क­स्तु­शब्दः । प्रमाकारणीभूते प्रमातरि सति पश्चाद्भवन् तदकरणीभूतो यः स दोष इत्युच्यते यथा काचादिः पीतप्रमां प्रत्य­का­र­ण­त्वात् अवि­द्या­त्म­का­ध्या­सस्तु प्रमा­त्र­न्त­र्ग­त­तया प्रमां प्रति कारणत्वान्न दोष इत्यर्थः । एतदुक्तं भवति । अकारणत्वेन योऽवतिष्ठते स दोषः स एव कार­ण­त्वे­ना­व­ति­ष्ठते चेन्न दोषो भवति तथा चावि­द्या­ध्या­सस्तु चैत­न्या­द्वि­ती­या­व­भासं प्रत्य­का­र­ण­त्वा­द्दोषः न द्वैतावभासं प्रति तत्र कार­ण­त्वा­त्त­द्यथा काचा­दि­र­का­र­ण­त्वा­च्च­क्षु­रा­दि­दो­षोपि सन् तथा­वि­ध­पा­पा­दृ­ष्ट­म­नु­मा­प­यन् तत्र कारणत्वान्न दोषस्तद्वदिति ।

साक्षात्कार इति ।
अपरोक्षानुभव इत्यर्थः ।

यौक्तिकमिति ।
युक्ति­ज­न्य­मि­त्यर्थः । अनु­मा­ना­दि­ज­न्य­मिति यावत् ।

आत्मेति ।
आत्मा ह्यनात्मभिन्न इति परो­क्षा­ज्ञा­न­मि­त्यर्थः ।

बाधितेति ।
अपरोक्षज्ञानेन बाधितः अभासीकृतः अध्यासः बाधिताध्यासः तस्या­नु­वृ­त्त्ये­त्यर्थः ।

अप­रो­क्ष­ज्ञा­न­वतां व्यव­हा­र­का­र­णी­भू­ता­ध्या­सस्य बाधितत्वं कुत्र प्रतिपाद्यत इति जिज्ञासायामाह –
समन्वय इति ।
द्वितीयवर्णक इति शेषः । तथा चावरणे निवृत्तेपि पीतः शङ्खः इति यत् वास­ना­त्म­क­वि­क्षे­प­श­क्त्यं­शा­नु­वृ­त्ते­र्जी­व­न्मु­क्तानां वसिष्ठादीनां व्यव­हा­रो­प्य­ध्या­स­जन्य एव परन्तु तदीयाध्यासस्य बाधितत्वान्न तत्का­र­ण­व्य­व­हा­रस्य बन्धहेतुत्वमिति भावः ।

परोक्षेति ।
परो­क्ष­ज्ञा­न­स्या­ह­मि­त्य­प­रो­क्षा­ध्या­सा­नि­व­र्त­क­त्वा­द्व्य­व­हा­र­वतां तेषामध्यासाभावो वक्तुं न शक्यत इति भावः ।

पश्वा­दि­भि­श्चा­वि­शे­षा­दिति वाक्य­स्या­न्व­य­पू­र्व­क­मर्थं परिष्करोति –
विवेकिनामपीति ।
परो­क्ष­ज्ञा­नि­ना­म­प­रो­क्ष­ज्ञा­नि­ना­मि­त्यर्थः ।

अध्या­स­व­त्त्वे­नेति ।
बाधि­त­त्वा­बा­धि­त­त्व­वि­शे­षेऽ­प्य­ध्या­स­व­त्त्वेन तुल्य­त्वा­दि­त्यर्थः ।

उक्तमिति ।
’उच्यते देहे­न्द्रि­या­दि­ष्वि’त्या­दि­भा­ष्य­व्या­ख्या­ना­व­सरे उक्तमित्यर्थः ।

अनुभूततृणेति ।
अनु­भू­त­तृ­ण­नि­ष्ठ­तृ­ण­त्व­व­त्त्वा­दि­त्यर्थः ।

विवेकिनोपीति ।
अयं पुरुषो मदनिष्ठसाधनं बलवत्त्वे सति क्रूर­दृ­ष्टि­म­त्त्वा­त्त­स्मि­न्स­त्या­क्रो­श­व­त्त्वाद्वा तस्मिन्सति खड्गो­द्य­त­क­र­त्वाद्वा अनु­भू­त­पु­रु­ष­व­दि­त्य­नु­माय विवेकिनोपि निवर्तन्ते । एवं क्रूर­दृ­ष्ट्या­दि­रा­हि­त्य­वि­शि­ष्ट­स­द्गु­ण­त्वा­दि­हे­तुना चेष्टा­सा­ध­त्व­म­नु­माय तद्विपरीतान् प्रति प्रवर्तन्त इति भावः ।

एत­त्प्र­त्य­क्ष­मिति ।
अध्या­स­व­त्त्व­मे­त­च्छ­ब्दार्थः, पश्वा­दि­नि­ष्ठा­ध्यासः पर­प्र­त्य­क्ष­वि­षयो न भवतीति भावः । साध्यविकलः साध्यरहित इत्यर्थः ।

तेषामात्मेति ।
अहमिति सामान्यात्मकं ज्ञानमस्तीदं चेत­न­मि­द­म­चे­त­न­मिदं मदी­य­मि­त्या­दि­ज्ञानं चास्ति पश्वादीनामिति भावः ।

मात्र­प­द­व्या­व­र्त्य­माह –
न विवेक इति ।
शास्त्रा­चा­र्यो­प­दे­शा­भा­वा­दहं देहे­न्द्रि­या­दि­वि­ल­क्षण इति विवे­क­रू­प­वै­ल­क्ष­ण्य­ज्ञानं तु नास्तीति भावः ।

ननु शङ्कायाः कः परिहार इत्यत आह –
अत इति ।
पूर्वो­क्त­दो­ष­स­म्प्र­यो­ग­सं­स्का­र­स्व­रू­प­सा­म­ग्री­रू­प­लि­ङ्गात् पश्वा­दी­ना­म­ध्या­सोऽ­स्ती­त्य­नु­मी­यत इति न सध्यवैकल्यमिति भावः ।

निगमयतीति ।
पश्वा­दि­भि­श्चा­वि­शे­षा­दिति सङ्ग्रहवाक्ये तात्पर्येणोक्तं विवेकिनां व्यव­हा­र­स्या­ध्या­स­का­र्य­त्व­मु­प­सं­ह­र­ती­त्यर्थः ।

तैरिति –
सहार्थे तृतीया । व्यवहारवत्त्वं व्यव­हा­र­व­त्त्व­स­मा­न­धर्म इत्यर्थः । तस्य व्यव­हा­र­व­त्त्व­स्ये­त्यर्थः । दर्शनात् प्रत्य­क्ष­प्र­मा­ण­सि­द्ध­त्वा­दि­त्यर्थः ।

विवेकिनामिति ।
परो­क्ष­ज्ञा­नि­ना­म­प­रो­क्ष­ज्ञा­निनां चेत्यर्थः । यादृशः पश्वादीनां व्यवहारः प्रत्य­क्ष­प्र­मा­णेन दृश्यते विवेकिनामपि तादृशो व्यवहारः प्रत्यक्षेण दृश्यते तथा च पश्वादिभिस्सह व्यव­हा­र­व­त्त्व­रू­प­स­मा­न­ध­र्म­व­त्त्वेन तत्तुल्यानां विवेकिनां पुंसां व्यव­हा­रो­प्य­ध्या­स­का­र्य­त्व­रू­प­स­मा­न­ध­र्मेण पश्वा­दि­व्य­व­हा­र­तुल्य इति निश्चीयत इति समु­दा­य­ग्र­न्थार्थः । अत्रायं प्रयोगः विवेकिनां व्यवहारः तदी­या­ध्या­स­कार्यः तद­ध्या­सा­न्व­य­व्य­ति­रे­का­नु­सा­रि­त्वा­त्प­श्वा­दि­व्य­व­हा­र­व­दिति ।

उक्तं पुरस्तादिति ।
’अतः समानः पश्वादिभिः पुरु­षा­णा­मि’त्या­दि­भा­ष्य­व्या­ख्या­ना­व­सरे पूर्व­मु­क्त­मि­त्यर्थः ।

तत्रेति ।
उक्तसाम्य इत्यर्थः ।

उक्तेति ।
’उच्यते देहे­न्द्रि­या­दि­ष्वि’त्या­दि­भा­ष्य­व्या­ख्या­ना­व­सर इति शेषः ।

पर­म­प्र­कृ­त­म­नु­मा­ने­नो­क्त­म­ध्या­स­व­त्त्व­मु­प­सं­ह­रति –
अत इति ।
तथा च कृत्स्न­लौ­कि­क­व्य­व­हा­र­स्या­ध्या­स­का­र्यत्वं साधितमिति स्थितम् ।

तस्य देहेति ।
कर्मकर्तुः देहा­ति­रि­क्ता­त्म­ज्ञा­ना­भावे कर्मणि प्रवृत्तिरेव न स्यादतः फलभोक्ता देहा­ति­रि­क्ता­त्मा­स्तीति ज्ञानं कर्महेतुरिति शङ्कि­तु­र­भि­प्रायः ।

भाष्ये
यद्यपि बुद्धि­पू­र्व­का­रीति ।
बुद्धिपूर्वकारी आत्मनः परलोकस्य सम्ब­न्ध­म­वि­दित्वा नाधिक्रयत इत्यन्वयः । अपे­त­ब्र­ह्म­क्ष­त्रा­दि­भेदं प्रप­ञ्च­शू­न्य­मे­क­र­स­मि­त्यर्थः ।

प्राक् च तथा­त्म­भू­त­वि­ज्ञा­ना­दिति ।
तत्त्वमसीति वाक्या­र्थ­ज्ञा­ना­त्प्रा­गि­त्यर्थः । प्रवर्तमानमिति । अवि­द्या­कृ­त­म­ह­मु­ल्ले­ख­म­न्तरं संसारमाश्रित्य प्रव­र्त­मा­न­मि­त्यर्थः ।

अत­स्मिं­स्त­द्बु­द्धि­रिति ।
अतस्मिन् अयुष्मदर्थे अनिदञ्चिति तद्बुद्धिः युष्मदर्थावभास इत्यर्थः ।

व्याख्याने वैदिककर्मणः देहो­ह­मि­त्य­ध्या­स­ज­न्य­त्वा­भा­वेऽपि क्षुत्पि­पा­सा­दि­ग्रस्तो जातिविशेषवानहं संसा­री­त्य­ध्या­स­ज­न्य­त्व­म­स्तीति सिद्धान्तयितुं पूर्वोक्तं हेतुं विकल्प्य खण्डयति –
किं तत्रेत्यादिना ।
तत्र वैदि­क­क­र्म­णी­त्यर्थः ।

अध्या­सा­बा­ध­क­त्वा­दिति ।
क्षुत्पि­पा­सा­दि­ग्रस्त इत्या­द्य­ध्या­सा­बा­ध­क­त्वा­दि­त्यर्थः ।

तथा­पी­त्य­क्ष­र­त्र­ये­णैव प्रथ­म­प­क्षो­क्त­प­रि­हारो ज्ञाप्यत इति भाष्यभावं स्फुटीकर्तुं द्विती­य­प­क्ष­नि­रा­स­प­र­त्वे­नो­त्त­र­भा­ष्य­म­व­ता­र­यति –
न द्वितीय इति ।

वर्णा­श्र­म­व­यो­व­स्था­ध्या­सानां चतुर्णां क्रमेणोदाहरणं प्रतिपादयति -
ब्राह्मणो यजेतेति ।
यद्यपि ’अष्टवर्षं ब्राह्म­ण­मु­प­न­यी­ते’त्य­नेन वयोध्यासो वर्णाध्यासश्च प्रतिपाद्यते तथापि ब्राह्मणो यजेतेति वर्णाध्यासस्य पृथगुदाहरणं स्पष्टार्थम् ।

अध्यासमिति ।
चेत­ना­चे­त­न­यो­रै­क्या­व­भा­स­रू­प­म­ध्या­स­मि­त्यर्थः । एवमध्यासे प्रमाणसिद्धेऽपि लक्षणं स्मार­य­त्य­नु­व­द­तीति योजना ।

ननु पुनः किम­र्थ­मु­क्त­ल­क्ष­णा­नु­वाद इत्यत आह –
कस्येति ।

जिज्ञासायामिति ।
विशे­ष­जि­ज्ञा­सा­या­मि­त्यर्थः ।

तमुदाहर्तुमिति ।
अध्या­स­स्व­रू­प­मु­दा­हृत्य विवेकतो दर्श­यि­तु­मि­त्यर्थः । ’स्मृतिरूपः परत्रे’त्यादिना ’अन्य­स्या­न्य­ध­र्मा­व­भा­सतां न व्यभि­च­र­ती’त्य­न्तेन भाष्ये­णा­धि­ष्ठा­ना­रो­प्य­वि­वा­देपि परत्र पर­स्या­व­भा­स­रू­पा­ध्या­स­ल­क्षणं सर्वसंमतमिति परिष्कृतम् , तेन लक्षणेन लक्षि­त­स्या­ध्या­सस्य कुत्र कस्याध्यास इति विशे­षो­दा­ह­र­ण­जि­ज्ञा­सा­या­म­स्म­दर्थे आत्मनि युष्म­द­र्थ­स्या­ना­त्मनः तद्विपर्ययेण चाध्यास इति विविच्य दर्शनाय परत्र परा­व­भा­स­ल­क्ष­ण­म­नु­व­द­तीति भावः । ’युष्म­द­स्म­दि­त्या­दि­लो­क­व्य­व­हार’ इत्य­न्त­भा­ष्ये­णा­क्षे­प­स­मा­धा­ना­भ्या­मा­त्मा­ना­त्म­नो­र­ध्या­सस्य विवेकतः प्रद­र्श­न­म­प्यु­क्त­मे­वातः पुनरुक्तमिति यदि प्रतीयेत तदा विस्तरेणात्र प्रति­पा­द्या­ध्यास एव सिद्धवत्कृत्वा तत्र सङ्ग्रहेण विष­या­दि­सि­द्ध्य­र्थ­म­नू­द्यत इति यदुक्तं तन्न विस्मर्तव्यम् ।

प्रतीकमादाय तच्छ­ब्द­स्या­र्थ­माह –
तल्लक्षणमिति ।
’तमे­त­म­वि­द्या­ख्य­मा­त्मा­ना­त्म­नो­रि­त­रे­त­रा­ध्यासं पुर­स्कृ­त्ये’त्या­दि­भा­ष्येण प्रत्यक्षत्वेन दर्शि­ता­ध्या­स­स्व­रू­प­मि­त्यर्थः ।

यथा स्पष्टं भवतीति ।
देहे­न्द्रि­य­म­नो­भे­देन भिन्ना­ना­म­ना­त्मनां तद्धर्माणां चात्म­त­द्ध­र्माणां चाध्यासस्य विभज्य दर्शनेन यथानुभवानुरूढं भवतीत्यर्थः ।

साकल्यादीनिति ।
साकल्यं नाम पूजा­दि­स­क­ल­ध­र्म­वि­शि­ष्ट­त्वम् , वैकल्यं तु तद्राहित्यं भाष्य­स्था­दि­श­ब्दार्थः । देहविशिष्टत्वं देह­ता­दा­त्म्या­प­न्न­त्वम् ।

ननु तद्ध­र्मा­णा­मे­वा­ध्या­सोऽस्तु किं तत्तु­ल्य­ध­र्मा­णा­म­ध्यास इत्यत आह –
भेदेति ।
पुत्रो मद्भिन्न इति भेदापरोक्षज्ञान इत्यर्थः ।

तत्रैव हेत्वन्तरमाह –
अन्यथेति ।

भाष्ये­णा­प्र­ति­पा­दितं धर्मि­णो­र्दे­हे­न्द्रि­य­यो­र­ध्यासं ज्ञापयन् तद्ध­र्मा­ध्या­सस्य वैलक्षण्यमाह –
कृशत्वेति ।

अज्ञात इति ।
अहमज्ञ इत्य­ज्ञा­न­वि­ष­य­त्व­म­ज्ञा­त­त्वम् ।

प्रत्ययाः कामाद्याः वृत्तयः अस्येति प्रत्ययी तथा चाहं चासौ प्रत्ययी चाहंप्रत्ययी स चाह­ङ्का­र­ग्र­न्थि­रि­त्य­भि­प्रे­त्या­हं­प्र­त्य­यि­न­मिति भाष्यार्थमाह –
अन्तःकरणमिति ।

प्रती­त्यु­प­स­र्गा­र्थ­क­थ­न­पू­र्व­क­म­ञ्च­ती­त्य­स्या­र्थ­माह –
प्राति­लो­म्ये­नेति ।
आत्मनः स्वरू­पे­णा­ध्या­सा­यो­गा­त्सं­सृ­ष्ट­त्वे­ने­त्यु­क्तम् । संसृष्टत्वं नाम तादा­त्म्य­रू­प­स­म्ब­न्ध­वि­शि­ष्टत्वं तथा चात्म­स­म्ब­न्ध­स्या­ध्या­स­मा­हे­त्यर्थः ।

ननु ’तं च प्रत्य­गा­त्मा­नमि’ति भाष्ये­णा­त्म­नोऽ­न्तः­क­र­णा­दिषु अध्यासो दर्शि­त­स्त­त्क­थ­मि­त­रे­त­रा­ध्यासे द्वयो­र­ध्य­स्य­मा­न­त्वेन मिथ्या­त्वा­पा­तात् किञ्चि­द्द्व­यो­र­धि­ष्ठा­न­त्व­द्व­यो­र्वि­शे­षा­व­भासो न स्यादि­त्या­श­ङ्क्याह –
अहमित्यध्यास इति ।
आन्ध्यपदं व्यव­हा­रा­वि­ष­य­प­रम् ।

न चेति ।
अध्या­स­वि­ष­य­त्वे­ना­धि­ष्ठाने स्थितिरहितस्य नाध्यासे भानं तदङ्गीकारे अन्य­था­ख्या­ति­प्र­सङ्गः स्यादिति भावः । रज­ता­दा­वि­द­म्प­दा­र्थस्य तादा­त्म्य­रू­प­सं­स­र्गा­ध्यासो यथा तद्व­द­ना­त्म­न्या­त्मनः तादा­त्म्य­रू­प­सं­स­र्गा­ध्या­सोऽ­ङ्गी­क­र­णीय इति विभावनीयम् । जडस्येति निरूपितत्वं षष्ठ्यर्थः, जड­नि­रू­पि­त­मा­त्म­नि­ष्ठा­धि­ष्ठा­नत्वं चेतनत्वं च विप­र्य­य­श­ब्दार्थः । विप­र्य­यो­धि­ष्ठानं चैतन्यं चेति पाठान्तरम् । चैतन्यं जड­वि­रु­द्ध­स्व­रू­प­मि­त्यर्थः ।

इत्थं भावे तृती­ये­त्य­भि­प्रेत्य शेषपूर्त्यां वाक्यं योजयति -
तदात्मनेति ।

किं केवलस्यैवात्मनः सर्वत्र संसर्गाध्यास इत्याशङ्कायां विशेषमाह –
तत्राज्ञान इति ।
संसर्ग एष्टव्य इति पूर्वेणान्वयः । अना­दि­र्वृ­त्त्य­वि­ष­य­स्ता­दा­म्य­रू­पा­ध्या­सि­क­स­म्बन्धः केवलात्मनः संसर्ग इत्यर्थः । अज्ञा­नो­प­हि­त­स्या­ज्ञा­नो­पा­धि­क­स्ये­त्यर्थः । वृत्तिविषयः सादि­रा­ध्या­सि­क­ता­दा­त्म्य­स­म्बन्धः अज्ञा­नो­प­हि­त­स्या­त्मनः संसर्ग इत्यर्थः । देहादौ मन उपा­धि­क­स्या­त्मानः सादि­र्वृ­त्ति­वि­षयः तादा­त्म्य­रू­प­सं­सर्ग एष्टव्य इत्यर्थः ।

भाष्या­प्र­ति­पा­द्य­मा­त्म­ध­र्मा­ध्यासं स्फोरयन् फलितमाह –
एवमात्मनि वर्णि­ता­ध्या­स­मि­त्या­दि­ग्रन्थः स्पष्टार्थः ।

अध्या­स­ध­र्मि­ग्रा­ह­क­मिति ।
अध्या­स­स्व­रू­प­ग्रा­ह­क­मि­त्यर्थः । एवं अध्यासं वर्ण­यि­त्वे­त्या­दि­ग्रन्थः स्पष्टार्थः ।

कुत्सितं शरीरं शरीरकमिति विग्र­ह­म­भि­प्रेत्य कन्प्र­त्य­य­स्या­र्थ­माह –
कुत्सितत्वादिति ।

शरीरकस्यायं शारीरकमिति विग्र­ह­म­भि­प्रेत्य कन्प्र­त्य­य­स्या­र्थ­माह –
तन्निवासीति ।
शरी­रा­न्त­र्व­र्ति­हृ­द­य­पु­ण्ड­री­क­म­ध्य­द­ह­रा­का­श­स्थि­त­त्वा­त्त­न्नि­वा­सी­त्यर्थः ।

प्रथमवर्णकमिति ।
प्रथमसूत्रस्य प्रथ­म­व्या­ख्या­न­मि­त्यर्थः ।