अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

२ परिच्छेदः

विष­य­स­म्भ­वा­स­म्भ­वाभ्यां अधिकरणमारचयितुं पूर्वोक्तं स्मारयति –
विचारस्येति ।

गतार्थत्वेति ।
श्रीभगवता जैमिनिना विचा­रि­ता­र्थ­कत्वं गता­र्थ­त्व­मि­त्यर्थः ।

विधेश्चेति ।
सच्चि­दा­न­न्दा­त्मको जीवस्तत्कृतं कर्मेति कर्ममाहात्म्यं किं वक्तव्यम् इति कर्मस्तावकत्वेन सर्वेषां वेदा­न्ता­ना­म­र्थ­वा­दत्वं जीवस्य तु सच्चि­दा­न­न्दा­त्म­क­त्व­म­वा­स्तवं किन्तु स्तोत्रा­र्थ­मि­त्येवं पूर्व­त­न्त्र­वि­चार एव विचा­रि­त­त्वा­द­व­ग­तार्था एव वेदान्ता इति भावः ।

फलितमाह –
इत्यव्यवहितेति ।
इति पदं हेत्वर्थकम् अव्यवहितस्य पूर्व­त­न्त्रा­वि­चा­रि­त­त्वेन बुद्धिस्थस्य प्रति­पा­द्य­स्या­भा­वा­दि­त्यर्थः । पूर्वतन्त्रे विचा­रि­त­त्वा­द्वे­दा­न्तानां केनापि तन्त्रे­णा­वि­चा­रितं सद्बुद्धिविषयः किञ्चि­त्प्र­ति­पाद्यं वस्तु नास्तीति भावः । विचारस्य पूजितत्वं सर्व­वि­चा­रा­पे­क्ष­यो­त्कृ­ष्ट­त्वम् ।

शास्त्रमेव विशिनष्टि –
सूत्र­स­न्द­र्भ­स्येति ।

सूत्रकर्तुः श्रीवेदव्यासस्य भ्रान्तिं वारयति –
सर्वज्ञ इति ।
बादरायणशब्दो व्याख्यातः । यदि विधिरेव वेदार्थः स्यात्तदा विधिविचारेण कृत्स्न­वे­द­वि­चारो जात एवेति वेदा­न्ता­ना­म­र्थ­वा­द­त्वेन ब्रह्म­प्र­ति­पा­द­क­त्वा­भा­वा­द्ब्र­ह्मणि प्रमाणाभावेन प्रथमसूत्रे ब्रह्मणः जिज्ञा­स्य­त्वो­क्ते­र्वै­यर्थ्यं स्यादिति भावः ।

अतःशब्दार्थं कथयन्फलितमाह –
अत इति ।
अनवगतम् अवि­चा­रि­त­त्वे­ना­ज्ञातं यद्ब्रह्म तदेव परं प्रधानं यस्य वेदान्तस्य स ब्रह्मपरः स चासौ वेदान्तश्च तस्य विचार इति विग्रहः ।

स्वोक्तेऽर्थे श्रीभा­ष्य­का­र­स­म्म­ति­माह -
तच्चेति ।
आर­म्भ­णी­य­त्व­मि­त्यर्थः ।