पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
२ परिच्छेदः
विषयसम्भवासम्भवाभ्यां अधिकरणमारचयितुं पूर्वोक्तं स्मारयति –
विचारस्येति ।
गतार्थत्वेति ।
श्रीभगवता जैमिनिना विचारितार्थकत्वं गतार्थत्वमित्यर्थः ।
विधेश्चेति ।
सच्चिदानन्दात्मको जीवस्तत्कृतं कर्मेति कर्ममाहात्म्यं किं वक्तव्यम् इति कर्मस्तावकत्वेन सर्वेषां वेदान्तानामर्थवादत्वं जीवस्य तु सच्चिदानन्दात्मकत्वमवास्तवं किन्तु स्तोत्रार्थमित्येवं पूर्वतन्त्रविचार एव विचारितत्वादवगतार्था एव वेदान्ता इति भावः ।
फलितमाह –
इत्यव्यवहितेति ।
इति पदं हेत्वर्थकम् अव्यवहितस्य पूर्वतन्त्राविचारितत्वेन बुद्धिस्थस्य प्रतिपाद्यस्याभावादित्यर्थः । पूर्वतन्त्रे विचारितत्वाद्वेदान्तानां केनापि तन्त्रेणाविचारितं सद्बुद्धिविषयः किञ्चित्प्रतिपाद्यं वस्तु नास्तीति भावः । विचारस्य पूजितत्वं सर्वविचारापेक्षयोत्कृष्टत्वम् ।
शास्त्रमेव विशिनष्टि –
सूत्रसन्दर्भस्येति ।
सूत्रकर्तुः श्रीवेदव्यासस्य भ्रान्तिं वारयति –
सर्वज्ञ इति ।
बादरायणशब्दो व्याख्यातः । यदि विधिरेव वेदार्थः स्यात्तदा विधिविचारेण कृत्स्नवेदविचारो जात एवेति वेदान्तानामर्थवादत्वेन ब्रह्मप्रतिपादकत्वाभावाद्ब्रह्मणि प्रमाणाभावेन प्रथमसूत्रे ब्रह्मणः जिज्ञास्यत्वोक्तेर्वैयर्थ्यं स्यादिति भावः ।
अतःशब्दार्थं कथयन्फलितमाह –
अत इति ।
अनवगतम् अविचारितत्वेनाज्ञातं यद्ब्रह्म तदेव परं प्रधानं यस्य वेदान्तस्य स ब्रह्मपरः स चासौ वेदान्तश्च तस्य विचार इति विग्रहः ।
स्वोक्तेऽर्थे श्रीभाष्यकारसम्मतिमाह -
तच्चेति ।
आरम्भणीयत्वमित्यर्थः ।