पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
३ परिच्छेदः
वृत्तानुवादपूर्वकमधिकरणमारचयन् वर्णकान्तरपरत्वेनोत्तरभाष्यमवतारयति –
एवमिति ।
ननु वर्णकद्वयमसङ्गतं तत्प्रतिपाद्यहेतुद्वयस्य सूत्राक्षरानारूढत्वादित्यत आह –
विषयेति ।
पुनरप्यधिकारीति ।
अधिकारिविशेषणसाधनचतुष्टयभावाभ्यामधिकारिभावाभावौ ताभ्यामित्यर्थः । पूर्वोक्तविषयवाक्य एवारम्भसन्देह इत्यधिकरणप्रथमाङ्गं पुनःशब्देन द्योत्यते अपिशब्देन सन्देहस्य तृतीयत्वं ज्ञाप्यते ।
अधिकारिणमिति ।
साधनचतुष्टयसाधनपूर्वकमधिकारिणं साधयतीत्यर्थः ।
अनुशासनपदस्यार्थकथनद्वारान्वयमभिनयति –
योगशास्त्रमिति ।
नाधिकारार्थ इतीति ।
नारम्भार्थ इत्यर्थः ।
अनधिकार्यत्वादिति भाष्यस्यार्थं सङ्गत्या स्फोरयति –
तस्या अनारभ्यत्वादिति ।
लोके यदारभ्यं तत्कृतिसाध्यमिति नियमः यथा घटादि, तथा चानेकजन्मकृतपुण्यपुञ्जपरिपाकसाध्यायाः ज्ञानेच्छायाः कृतिसाध्यत्वरूपव्यापकस्याभावादारभ्यत्वस्याभाव इति भावः । इच्छा अनारभ्या कृतिसाध्यत्वाभाववत्त्वान्नित्यपदार्थवदिति प्रयोगः ।
विपक्षे बाधकमुत्तराधिकरणविरोधरूपमाह -
न हीति ।
कर्तव्येति ।
’श्रोतव्य’ इत्यादिश्रुतिसमानार्थत्वाय कर्तव्यपदमध्याहर्तव्यं पश्चादन्वयाद्विचारे लक्षणा स्वीकर्तव्या तथा च कर्तव्यपदेनैवारम्भोक्तेरथशब्दवैयर्थ्यमिति भावः । ननु अस्तु अथशब्दोक्तारम्भार्थान्वयानुपपत्त्यैव जिज्ञासापदस्य विचरे लक्षणा मास्तु कर्तव्यपदाध्याहारः अध्याहारस्य दोषत्वात् समानार्थत्वमथशब्दबोधितारभ्यत इत्यनेन स्यात् , तथा च ब्रह्मविचार आरभ्यत इत्यथशब्दः सार्थक इति चेन्न । आरभ्यत इत्येतस्य विध्यर्थकत्वाभावेन श्रुतिसूत्रयोरेकार्थकत्वालाभात्सम्बन्धग्रन्थे साधितं समानार्थत्वं न विस्मर्तव्यमिति भावः ।
अधुना सम्भावितमिति ।
शास्त्रारम्भे विघ्नोपशान्तये मङ्गलं कर्तव्यमिति मङ्गलार्थकोऽथशब्दः स्यादित्येव सम्भावितमर्थान्तरमधुना दूषयतीत्यर्थः । श्रीभाष्यकारेणाथशब्दस्य प्रश्नाद्यर्थकत्वमाशङ्क्य किमिति न परिह्रीयत इत्याशङ्कां वारयितुं सम्भावितपदम् ।
न हि तत्रेति ।
आदिशब्देन करणत्वमुच्यत्ते । अधिकारिणा विचारः कर्तव्यः इति यथा अधिकारिणः कर्तृत्वेनान्वयो न सम्भवति, तथा मङ्गलेन विचारः कर्तव्य इति मङ्गलस्य कर्तृत्वेनान्वयो न सम्भवति प्रमाणाभावादेवं मङ्गलस्य विचारं प्रति कर्तृत्वरूपकारणाभावेन कारणत्वेनाप्यन्वयो न सम्भवतीति भावः ।
अथ शब्द इति ।
मङ्गलार्थक इति शेषः । आदौ मङ्गलं कर्तव्यमिति न्यानेन मङ्गलस्याथशब्दार्थत्वेनावश्यकत्वात्कर्तृत्वादिनान्वयासम्भवेऽपि यथा दधिदूर्वादिदर्शनं मङ्गलं तथा ब्रह्मजिज्ञासापि मङ्गलमिति सामानाधिकरण्येनान्वयः सम्भवतीति शङ्कितुरभिप्रायः ।
मङ्गलस्याथशब्दार्थत्वमेव नास्तीति परिहरति –
सत्यमिति ।
आदौ मङ्गलं कार्यमित्यथशब्दः प्रयुक्तः इत्यंशेऽङ्गीकारः मङ्गलार्थकोथशब्द इत्यंशे अनङ्गीकारः तमनङ्गीकरं व्यनक्ति –
न तस्येति ।
अथशब्दस्य वाच्यार्थो लक्ष्यार्थो वा मङ्गलं न भवति प्रयोजनाभावादित्यर्थः । ननु तर्हि ’मङ्गलानन्तरारम्भे’त्यादिकोशः कथमिति चेन्न । कोशस्य मङ्गलमथशब्दगम्यार्थ इति ज्ञाप्यार्थप्रतिपादकत्वात् , न हि ज्ञाप्यार्थस्य वाक्यार्थेऽन्वयो दृष्टः अतिप्रसक्तत्वात्तस्मान्मङ्गलं नाथशब्दवाच्योऽर्थः । अस्तु वा कोशबलाद्वाच्यार्थः तथाप्यथशब्दस्य तदुच्चारणादिनैव मङ्गलफलत्वसम्भवेन मङ्गलस्य वाच्यार्थत्वेन ग्रहणे प्रयोजनाभान्न प्रकृते मङ्गलार्थकोऽथश्ब्दः किन्तु आनन्तर्यार्थक एव, अत एवास्मिन् ग्रन्थे अत्रानन्तर्यमेवेति वाक्येन ग्रन्थकृताप्येषोऽर्थः सूचितः । न चानन्तर्यार्थकत्वेपि प्रयोजनाभाव इति वाच्याम् । अथशब्दस्यानन्तर्योक्तिद्वारा अधिकारिप्रतिपत्त्यर्थत्वात् । किञ्च यथा दधिदूर्वादिदर्शनं मङ्गलं तथा ब्रह्मजिज्ञासापि मङ्गलमिति समानाधिकरणान्वयः पूर्वपक्षिणा उक्तः, स चायुक्तः, प्रशंसापरतया अर्थवादत्वप्रसङ्गात्सूत्रस्य स्तुतिहेतुत्वेन न्यायोपपादकसूत्रत्वाभावप्रसङ्गाच्चेति भावः ।
मङ्गलकृत्यमिति ।
मङ्गलफलं विघ्ननिवृत्यादिकमित्यर्थः ।
श्रुत्येति भाष्यपदस्यार्थमाह –
श्रवणेनेति ।
श्रवणपदमुपलक्षणम् उच्चारणमपि मङ्गलफलकमित्यर्थः । माङ्गलिकाविति । मङ्गलफलकावित्यर्थः । अथ मतं प्रपञ्चः सत्य इति वाच्यस्यापेक्षितमर्थं पूरयति – प्रपञ्चो मिथ्येति – मते प्रकृते सतीति, अन्योर्थः अर्थान्तरं तस्य भावोऽर्थान्तरता, तथा च मिथ्यात्वरूपात्पूर्वप्रकृतार्थादुत्तरार्थस्य सत्यत्वरूपस्य याऽर्थान्तरता सैवार्थो यस्याथशब्दस्य स तथेत्यर्थः ।
तथात्र किं न स्यादिति ।
धर्मजिज्ञासारूपपूर्वार्थाद्भिन्नार्थस्वरूपा ब्रह्मजिज्ञासेति किं न स्यादित्यर्थः ।
जिज्ञासायाः पूर्वकाले प्रकृतादर्थविशेषात् किं भिन्नार्थत्वमुच्यते अर्थसामान्याद्वा हेतुत्वेन पूर्वप्रकृतार्थाद्वा ? नाद्य इत्याह –
ब्रह्मजिज्ञासाया इति ।
प्रकृतः सङ्गत्या प्राप्तः इत्यर्थः । तस्याः ब्रह्मजिज्ञासायाः यस्मादर्थविशेषादर्थान्तरत्वमथशब्देनोच्यते सः प्रकृतोऽर्थविशेषो नास्तीति पूर्वेणान्वयः ।
द्वितीयं दूषयति –
यतः कुतश्चिदिति ।
यस्मात्कस्माच्चिदित्यर्थः ।
फलाभावादिति ।
प्रयोजनाभावादित्यर्थः ।
तृतीयमिष्टापत्त्या परिहरति –
यदि फलस्येति ।
आक्षिप्येति ।
अन्यथानुपपत्त्या अध्याहृत्येत्यर्थः ।
नन्वविशेषादर्थान्तरत्वमेवास्तु किमानन्तर्येणेत्यत आह –
हेतुफलेति ।
पूर्वार्थो हेतुरुत्तरार्थः कार्यमिति ज्ञानायेत्यर्थः ।
नन्वर्थान्तरेणापि हेतुफलभावज्ञानं स्यादित्यत आह –
तस्मादिदमर्थन्तरमिति ।
आनन्तर्यस्य हेतुत्वज्ञानजनकत्वे अनुभवं प्रमाणयति –
तस्मादिदमनन्तरमिति ।
अर्थान्तरेण यथा हेतुफलभावज्ञानं नोत्पद्यते तथा आनन्तर्येणापि तन्नोपत्पद्यत इत्यभिप्रायेणातिप्रसक्तिमाशङ्क्य परिहरति –
न चेति ।
गौणानन्तर्येण हेतुफलभावज्ञानाभावेऽपि मुख्यानन्तर्येण तदस्तीति परिहारं विवृणोति –
तयोरिति ।
अहेतुफलयोर्गवाश्वयोरित्यर्थः । अमुख्यत्वाद्गौणत्वादित्यर्थः । सामग्री कारणसमुदाय इत्यर्थः । यस्मिन्देशे काले वा गोः सत्त्वं तस्मिन्नियमेनावश्वस्य सत्त्वं नास्ति अतस्तयोर्व्यवधानं, यस्मिन्देशे काले वा सामग्र्याः सत्त्वं तस्मिन्नियमेन कार्योत्पत्तेः सत्त्वं तस्मात्तयोरव्यवधानम् तथा च सामग्रीफलयोः कालिकी दैशिकी च व्याप्तिरनुभवसिद्धेति प्रतिपादकमिति भावः ।
तस्मिन्निति ।
मुख्यानन्तर्यं इत्यर्थः ।
ज्ञातत्वादिति ।
भेदघटितकार्यकारणभावज्ञानेनार्थान्तरत्वस्य ज्ञातत्वादित्यर्थः । आनन्तर्यज्ञाने सति अर्थान्तरत्वज्ञानं भवतीति भावः ।
वैफल्याच्चेति ।
हेतुफलभावज्ञानासम्पादकत्वेन व्यर्थत्वाच्चेत्यर्थः । यस्मिन् सत्यग्रिमक्षणे यस्य नियमेन सत्त्वं तयोरेव मुख्यमानन्तर्यं सामग्रीसत्त्वे फलावश्यम्भावनियमात्सामग्रीफलयोरेव मुख्यमितरयोस्तु गौणम् तथा च मुख्यानन्तर्याभिधाने अर्थान्तरत्वमभिहितं भवति नार्थान्तरत्वाभिधाने मुख्यानन्तर्यम् , तस्माद्धेतुत्वेन पूर्वप्रकृतसाधनचतुष्टयावद्योतनायानन्तर्यार्थोऽथशब्द इति सुष्ठूक्तम् ।
अर्थान्तरत्वपदमात्रमध्याहृत्य पूर्वप्रकृतेत्यादि भाष्यार्थं परिष्करोति –
फलस्येति ।
अध्याहारं विनैव भाष्यं योजयति –
यद्वेति ।
अर्थान्तरत्वं नामान्यार्थत्वं तच्च कस्मादन्यार्थः स्वाश्रय इति पूर्वप्रकृतमर्थमपेक्षते अतोर्थान्तरत्वं पूर्वप्रकृतापेक्षावदित्येनमर्थं बहुव्रीहिणा स्फुटीकरोति –
पूर्वप्रकृत इति ।
फलत इति भाष्यस्यार्थमाह –
फलं ज्ञानं तद्द्वारेति ।
आनन्तर्याव्यतिरेकादिति भाष्यस्यार्थमाह –
तज्ज्ञान इति ।
आनन्तर्यज्ञान इत्यर्थः । तस्यार्थानन्तरत्वस्येत्यर्थः । आनन्तर्यज्ञाने सत्यर्थान्तरत्वज्ञानं भवति तथा च समानकालीनज्ञानविषयत्वेन तयोरभेदो न स्वरूपत इति भावः । यद्यपि पूर्वोत्तरव्याख्यानयोरानन्तर्यज्ञाने सत्यर्थान्तरत्वज्ञानं भवतीत्ययमर्थः समानः तथापि यद्वेत्युत्तरव्याख्याने उपपादनभेदोस्ति अध्याहारोपि नास्तीति विज्ञेयम् ।
उक्तं हेत्वानन्तर्यं भाष्यारूढत्वेन स्फुटीकर्तुं शङ्कासमाधानाभ्यां भाष्यमवतारयति –
नन्वानन्तर्येत्यादिना ।
पूर्ववृत्तपदस्यार्थमाह –
पूर्वभावीति ।
नियमेन पूर्ववृत्तमिति पदद्वयस्यार्थमाह –
पुष्कलकारणमिति ।
यस्मिन् सत्यग्रिमक्षणे ब्रह्मविचाररूपकार्योत्पत्तिस्तदेवासाधारणकारणं पुष्कलकारणमित्युच्यते । तद्वक्तव्यमिति – पदद्वयं पदान्तराध्याहारेण योजयति –
तदेवेति ।
आनन्तर्यस्यावधिः क इति प्रश्नस्य पुष्कलकारणमवधिरिति प्रत्युत्तरे स्थिते तच्च पुष्कलकारणं किं वेदाध्ययनमाहोस्वित् कर्म तज्ज्ञानं वा तन्न्यायविचारो वेति विकल्प्य दूषयतीत्याशयं स्फुटीकर्तुं भाष्यमवतारयति –
नन्वस्त्वित्यादिना ।
धर्मविचारं प्रति कारणत्वाद्ब्रह्मविचारे स्वाध्यायशब्दितं वेदाध्ययनं नासाधारणकारणमित्याह –
समानमिति ।
ननु साधारणकारणानन्तर्यमेवाथशब्दार्थोस्तु किमसाधरणकारणानन्तर्येणेति चेन्न । साधारणकारणानन्तरं नियमेन कार्योत्पत्तेरभावादथशब्दवैयर्थ्यं स्यादिति भावः ।
संयोगपृथक्त्वन्यायो नाम पृथग्वचनं तदेव प्रतिपादयति –
यज्ञेनेति ।
ज्योतिष्टोमेनेत्यादिश्रुत्या कर्माणि स्वर्गोद्देशेन विधीयन्ते यज्ञेनेत्यादिवचनान्तरेण ज्ञानाय च विधीयन्ते इति भावः ।
तं न्यायं श्रीभगवान् जैमिनिराह –
एकस्य तूभयत्वे संयोगपृथक्त्वमिति ।
एकस्य कर्मणः उभयत्वे अनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स एव हेतुरिति जैमिनिसूत्रस्यार्थः । तथा च ज्योतिष्टोमादिश्रुत्या ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकत्वं यज्ञेन दानेनेत्यादिपृथक्त्ववचनात् ज्ञानफलकत्वं चास्तीति प्रतिपादकं वचनं संयोहपृथक्त्वन्याय इत्युच्यत इति फलितार्थः ।
शङ्कत इति ।
कर्मज्ञानहेतुककर्मानुष्ठानद्वारा ब्रह्मविचारः कर्तव्य इति ज्ञानकर्मसमुच्चयवादी शङ्कत इति भावः ।
असाधारणकारणमिति ।
पुष्कलकारणमियर्थः ।
परिहरतीति ।
कर्मावबोधस्य कारणत्वमेव नास्त्यसाधारणत्वं सुतरां दुरापास्तमिति मत्वा परिहरतीत्यर्थः ।
ननु ब्रह्मजिज्ञासायाः कर्मावबोधानन्तर्यं स्यादिति पूर्वपक्षं कृत्वा धर्मजिज्ञासानन्तर्यं न सम्भवतीति परिहारः कथमित्याशङ्क्य धर्मजिज्ञासाया इति भाष्यस्य कर्मतज्ज्ञानं तन्न्यायविचारश्चार्थ इत्यभिप्रायं स्फोरयन् अधिकं तु न तद्धानिरिति न्यानेन तेषां कर्मादीनामानन्तर्यं ब्रह्मविचारस्य न सम्भवतीत्याह –
अयमाशय इति ।
न्यायसहस्रमिति ।
न्यायसहस्रं विचार इत्यर्थः ।
ननु लिङ्गज्ञानविधया धर्मज्ञानं ब्रह्मज्ञाने हेतुरस्त्वित्यत आह –
न हि धूमेति ।
अधिकारिविशेषणं त्विति ।
अस्मिन् शास्त्रे को वाऽधिकारीति विचार्य साधनचतुष्टयसम्पन्न इति निश्चित्याहमधिकारी साधनचतुष्टयवानिति ज्ञानानन्तरं पुरुषः प्रवर्तते, तस्माज्ज्ञायमानमेवाधिकारिविशेषणं प्रवृत्तिहेतुर्न स्वरूपं सदिति भावः ।
उपसंहरति –
अत इति ।
पुष्कलकारणत्वाभावादित्यर्थः ।
धर्मजिज्ञासायाः प्रागपीत्यादिभाष्यस्य फलितार्थमाह –
इति नेतीति ।
इतिशब्दो धर्मजिज्ञासाया अवधित्वाभावादिति हेत्वर्थकः ।
यद्यपि न पुष्कलकारणं धर्मजिज्ञासा तथाप्यकारणीभूतैवावधिः सा स्यात् तथा सति नानन्तर्याभिधानमुखेनाधिकारिविशेषणप्रतिपत्त्यर्थोथशब्दः किन्तु तदभिधानमुखेन क्रमप्रतिपत्त्यर्थ इत्यभिप्रायेण भाष्यमवतारयति –
ननु धर्मेति ।
ज्ञायमानक्रमार्थो वा क्रमज्ञानार्थो वा अथशब्द इत्यभिप्रेत्य दृष्टान्तं प्रतिपादयति –
हृदयस्याग्र इति ।
अवद्यति अवदानं कुर्यादित्यर्थः । प्रथमतः पशुहृदयस्य खण्डनमनन्तरं पशोर्जिह्वाखण्डनं कुर्यादित्यानन्तर्योक्तद्वारा क्रमज्ञानार्थाथशब्दवदित्यर्थः ।
नियमः क्रम इति ।
नियमरूपक्रम इत्यर्थः ।
तत्र हेतुमाह –
तस्येति ।
ज्ञायमानस्य क्रमस्येत्यर्थः ।
दृष्टान्तवैपरीत्येन दार्ष्टान्तिके प्रतिपादयति –
न तथेति ।
क्रमो न विवक्षित इत्यत्र स्वयं हेतुं पूरयति –
अत इति ।
क्रमस्याविवक्षितत्वादित्यर्थः । स्वोक्तहेतौ हेतुप्रतिपादकत्वेनोत्तरभाष्यं योजयति ।
ननु तयोरिति ।
एककर्तृकत्वमेकपुरुषकर्तृकत्वमित्यर्थः ।
आहेति ।
यत्रैककर्तृकत्वं तत्र शेषशेषित्वाद्यन्यतममिति व्याप्तिः सिद्धा प्रकृते व्यावकाभावाद्व्याप्याभाव इति परिहर्तुरभिप्रायः ।
भाष्ये –
आनन्तर्यनियम इति ।
आनन्तर्योक्तिद्वारा नियमरूपक्रम इत्यर्थः । अथशब्दार्थ इति शेषः । क्रमो विवक्षित इत्यनन्तरं श्रुतो न क्रमार्थोऽथशब्द इति शेषः । तथा चावदानानां क्रमस्य विवक्षितत्वात् क्रमो यथाऽथशब्दार्थस्तथा धर्मजिज्ञासयोः क्रमस्याविवक्षितत्वान्न तत्क्रमोथशब्दार्थ इति भावः ।
शेषशेषित्व इति ।
एकप्रधानशेषत्वस्येदमुपलक्षणम् धर्मब्रह्मजिज्ञासयोः एकप्रधानशेषत्वे शेषशेषित्वे अधिकृताधिकरे वा प्रमाणाभावादित्यन्वयः । धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चेत्यन्वयः ।
व्याख्याने –
येषामेकप्रधानशेषतेति ।
यच्छब्दत्रयस्योत्तरेण तेषामित्यनेनान्वयः । प्रधानत्वं शेषित्वमङ्गित्वं चेति पर्यायः, शेषत्वमङ्गत्वमित्यर्थः । अवदानानां समिधो यजतीत्यादिवाक्यविहितप्रयाजादीनां चैकप्रधानाग्निष्टोमीये पशुयागे शेषत्वमित्यर्थः ।
अधिकृताधिकारित्वमिति ।
अधिकृतस्य पुरुषस्याधिकारो यस्मिन् गोदोहनादौ सोऽधिकृताधिकारी तत्त्वमित्यर्थः ।
अधिकृताधिकारित्वमुपपादयति –
यथेति ।
चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्येति वाक्यम् । अप इति द्वितीयाबहुवचनम् । चमसेन चमसाख्यदारुपात्रविशेषेण अपः प्रणयेदपां प्रणयनं कुर्यादित्यर्थः । चमसे अप्प्रणयनं कुर्यादिति यावत् । गौः दुह्यते यस्मिन्पात्रे तद्गोदोहनं तेन पशुकामस्यापां प्रणयनं कुर्यादित्यर्थः । पशुकामश्चेद्यजमानः चमसं विहाय गोदोहने अप्प्रणयनं कुर्यादिति भावः । तथा चाप्प्रणयनाश्रितेन गोदोहनेन पशुलक्षणं फलं भावयेदिति वाक्यार्थः ।
इममेवार्थं सङ्ग्रहेणोपपादयति –
अपां प्रणयनमिति ।
जलपूरणमित्यर्थः ।
गोदोहनस्येति ।
एतस्य दर्शाद्यधिकृताधिकारित्वमित्युत्तरेणान्वयः । दर्शादौ यः अधिकारी स गोदोहने अधिकारी तस्माद्दर्शाद्यधिकृताधिकारित्वं गोदोहनस्येति भावः ।
अधिकृताधिकारित्व एवोदाहरणान्तरमाह –
यथा वेति ।
दर्शपूर्णमासाभ्यां दर्शत्रिकपौर्णमासत्रिकाभ्यामित्यर्थः । दर्शाद्युत्तरकालविहितेन सोमयागेनेष्टं भावयेदिति वाक्यार्थः ।
एकप्रयोगवचनेति ।
प्रयोगानुष्ठानं तस्य वचनं विधिः स एक इत्यर्थः ।
श्रुत्यादिभिरिति ।
श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यानि क्रमबोधकानि षट् प्रमाणानि तैरित्यर्थः । तथा च हृदयाग्रे अवद्यतीत्यत्र अवदानं कुर्यादिति पाठक्रमानुसारेणानुष्ठानप्रतिपादकैकविधिपरिगृहीतानामवदानानामग्रपदरूपश्रुत्या पाठक्रमानुसारेण च क्रमो बोध्यते । इष्ट्वा सोमेन यजेतेत्यत्र दर्शसोमयागमुक्त्वा श्रुत्या क्रमो बोध्यते प्रयाजादीनां तु पाठक्रमानुसारेण च क्रमो बोध्यते यथायोग्यमेवं सर्वत्र क्रम ऊहनीय इति भावः ।
श्रुतिलिङ्गादिकमिति ।
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाण्यङ्गत्वबोधकानि षट् प्रमाणानि जन्मादिसूत्रे निरूप्यन्ते ।
धर्मब्रह्मजिज्ञासयोरधिकृताधिकारित्वे प्रमाणमस्तीति शङ्कते –
नन्विति ।
अधिकृताधिकारित्वमिति ।
धर्मविचारोत्तरकाले विहितस्य ब्रह्मविचारस्य कर्माधिकृतपुरुषाधिकारवत्त्वं भातीत्येककर्तृकत्वलाभात्क्रमार्थोथशब्द इति भावः ।
ननु कथमशुद्धचित्तविषयत्वं शब्दतस्त्वप्रतीयमानत्वादित्यत आह –
एतदुक्तं भवतीति ।
रागेण ज्ञायत इति ।
रागेण लिङ्गेनानुमीयत इत्यर्थः । तत्राप्यशुद्धौ वनी भवेदिति । गृहस्थाश्रमेपि चित्तशुद्ध्यभावे सति वानप्रस्थाश्रमं कुर्यादित्यर्थः । तथैव कालमाकलयेदिति एवप्रकारेण चतुर्थ आश्रमे निषिध्यते मरणपर्यन्तं तस्मिन् वानप्रस्थाश्रमे एव स्थातव्यमिति भावः ।
तस्मादिति ।
त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वादित्यर्थः ।
अनयोरिति ।
धर्मब्रह्मजिज्ञासयोरित्यर्थः ।
धर्मब्रह्मजिज्ञासयोरिति भाष्यस्यार्थमाह –
मीमांसयोरिति ।
ननु स्वर्गफलकस्य पूर्वतन्त्रस्य कथं मोक्षफलकत्वमित्याशङ्क्याह –
वदन्ति हीति ।
एकवेदार्थेति ।
वेदार्थयोः धर्मब्रह्मणोर्वेदार्थत्वेनैकीकरणं कृत्वा जिज्ञास्यैकत्वं बोद्धव्यम् ।
एकफलकत्वादेककर्तृत्वमुदाहरति –
तथा चाग्नेयादीति ।
आग्नेयाग्नीषोमीयोपांशुयाजाः पौर्णमासत्रिकं आग्नेययाग एकः ऐन्द्रोपांशुयागौ द्वौ मिलित्वा दर्शत्रिकं तथा च षड्यागा भवन्तीति भावः ।
एकजिज्ञास्यकत्वादेककर्तृकत्वमुदाहरति –
द्वादशाध्यायानामिति ।
क्रमवदिति ।
यथा आग्नेयादीनां पाठक्रमानुसारेणानुष्ठानक्रमः यथा च द्वादशाध्यानां सङ्गत्या प्रथमाध्याये द्वितीयाध्यायाध्ययनक्रमस्तद्वदित्यर्थः ।
सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः, अर्यम्णो चरुं निर्वपेत्स्वर्गकामः, प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्काम इति श्रुत्यवष्टम्भेन फलभेदं क्रमेणोपपादयन् एककर्तृकत्वाभावेन क्रमविवक्षाभावं दृढयति –
यथा सौर्येति ।
कृष्णलो नाम माषतुल्यः सुवर्णखण्डः ।
कामचिकित्सेति ।
कामशास्त्रे स्त्रीरूपः क्रमजिज्ञास्यः काम्यत इति कामो विषय इत्यर्थः । चिकित्साशास्त्रे शरीरं जिज्ञास्यमिति फलभेदान्नैककर्तृकत्वमतो न क्रमापेक्षेति भावः ।
तत्रेति ।
फलभेदजिज्ञास्यभेदयोर्मध्य इत्यर्थः ।
तद्विरुद्धमिति ।
कर्मफलविरुद्धमित्यर्थः ।
ब्रह्मज्ञानञ्चेति ।
यथा शुक्तिज्ञानं स्वकार्यभूतायां शुक्त्यधिष्ठानचैतन्यविषयकाज्ञाननिवृत्तौ स्वव्यतिरिक्तं साधनान्तरं नापेक्षते तथा ब्रह्मज्ञानमपि स्वव्यतिरिक्तं साधनान्तरं स्वकार्यभूतायां ब्रह्मचैतन्यविषयकाज्ञाननिवृत्तौ नापेक्षत इति भावः ।
न समुच्चय इति ।
समुच्चयासम्भवेनैककर्तृत्वं नास्तीति भावः ।
कृतिसाध्यत्वादिति ।
धर्मस्य कृतिसाध्यत्वात्कृतिजनकधर्मज्ञानकाले धर्मस्यासत्त्वमित्यर्थः । नन्वनुष्ठानं विना धर्मोत्पत्त्यभावे धर्मज्ञानं कथमिति चेन्न । अतीतानागतघटविज्ञानवत्तद्धर्मश्रवणेन तज्ज्ञानस्यानुभवसिद्धत्वादिति भावः ।
जिज्ञास्यभेदे हेत्वन्तरपरत्वेनोत्तरभाष्यमवतारयति –
मानतोपीति ।
प्रमेययोर्धर्मब्रह्मणोः प्रमाणभेदादपि भेदमाहेत्यर्थः ।
अत्र धर्मे ब्रह्मणि च अज्ञातत्वं समानमित्यभेप्रेत्याह –
अज्ञातज्ञापकमिति ।
बोधकत्वमिति ।
चोदनानिष्ठं शाब्दबोधजनकत्वमित्यर्थः । तथा च चोदनाजन्यशाब्दबोधवैलक्षण्यात् बोधकत्ववैलक्षण्यं ततो प्रमाणवैलक्षण्यमिति भावः ।
स्वविषय इति – भाष्यप्रतीकमादाय मतभेदेन विषयभेदमाह –
स्वविषये धर्म इति ।
स्वशब्देन वाक्यमुच्यते । यागादौ वाक्येन पुरुषः प्रवर्त्यते तस्माद्वाक्यजन्यप्रवृत्तिविषयत्वमेव वाक्यविषयत्वमित्यर्थः ।
पुरुषमिति ।
पुरुषं प्रवर्तयदेव पुरुषमवबोधयतीत्यन्वयः ।
बोधयत्येवेत्येवकारव्यावर्त्यमाह –
न प्रवर्तयतीति ।
पुरुषमित्यनुषङ्गः ।
ननु ब्रह्मबाक्यं कुतः पुरुषं न प्रवर्तयतीत्याशङ्क्याह –
विषयाभावादिति ।
पुरुषप्रवृत्तिविषयाभावादित्यर्थः । यथा धर्मचोदनास्थले पुरुषप्रवृत्तेः साध्ययागादिरूपो विषयो विद्यते तद्वदत्र न कश्चिद्विषयोऽस्ति ब्रह्मणस्तु सिद्धस्य पुरुषप्रवृत्त्यसाध्यत्वेनाविषयत्वादिति भावः । ज्योतिष्टोमवाक्यस्य त्वया कर्म कर्तव्यम् इति कर्मप्रवृत्तिजनकत्वेनैव पुरुषं प्रति कर्मबोधकत्वं ब्रह्मवाक्यस्य तु त्वं ब्रह्माभिन्न इति जीवस्य ब्रह्मत्वबोधकत्वमेव, तथा चाखण्डार्थब्रह्मविषयकात्प्रवृत्त्यजनकाच्छाब्दबोधात्कर्मविशेष्यकपुरुषकर्तव्यत्वप्रकारकशाब्दबोधस्य प्रवृत्तिजनकस्य विलक्षणत्वेन चोदनारूपप्रमाणे बोधकत्ववैलक्षण्यमस्तीति समुदायार्थः ।
नन्वेतावता प्रवर्तकत्वेन बोधकत्वं धर्मवाक्यस्योक्तं तच्च ब्रह्मवाक्यस्याप्यस्त्येव ब्रह्मवाक्येन ज्ञाने पुरुषः प्रवर्त्यत इति प्रसिद्ध्या ज्ञानरूपे विषये पुरुषप्रवर्तकत्वेनैव तस्य ब्रह्मबोधकत्वादिति शङ्कते –
नन्विति ।
अर्थानुसारात् व्युत्क्रमेण भाष्यमवतारयति –
ब्रह्मचोदनयेति ।
स्वजन्यज्ञान इति ।
अवबोधस्य ब्रह्मवाक्यजन्यत्वाद्ब्रह्मवाक्यं स्वजन्यज्ञाने स्वयं प्रमाणमेव न प्रवर्तकमित्यत्र दृष्टान्तमाहेत्यर्थः ।
मानादेवेति ।
आदिशब्देन प्रमेयादिकं ग्राह्यम् ।
वाक्यार्थज्ञान इति ।
ब्रह्मात्मैक्यज्ञान इत्यर्थः । प्रमाणप्रमेययोः सत्त्वे ज्ञानं स्वयमेवोत्पद्यते तत्र न प्रवृत्तिर्हेतुरन्यथा दुर्गन्धादिज्ञानं न स्यादिति भावः ।
प्रवृत्तिजनकत्वाजनकत्ववैलक्षण्याच्छाब्दबोधवैलक्षण्यं वक्तव्यं शाब्दबोधवैलक्षण्याद्बोधकत्ववैलक्षण्येन शब्दप्रमाणवैलक्षण्यस्य सत्त्वात्प्रमेयजिज्ञास्यवैलक्षण्यं च वक्तव्यम् , तस्मात् जिज्ञास्यभेदान्नैककर्तृकत्वं तन्त्रद्वयस्य ततः क्रमापेक्षाभावेन क्रमविवक्षाया अभावान्नानन्तर्योक्तिद्वारा क्रमार्थोऽथशब्द इत्येतमर्थं हृदि निधाय सङ्ग्रहेण भाष्यार्थं परिष्करोति –
तथा चेति ।
उदासीनत्वं प्रवर्तकभिन्नत्वम् ।
स्वयमवान्तरप्रकृतमुपसंहृत्य परमप्रकृतोपसंहारार्थकभाष्यमवतारयति –
एवमिति ।
उक्तरीत्येत्यर्थः ।
तच्छब्दार्थकथनद्वारा उक्तरीतिमेवाह –
अथशब्दस्येति ।
किमपीत्यंशस्यार्थमाह –
पुष्कलकारणमिति ।
एवं समुच्चयवादिना यदुक्तं तत्सर्वं यस्मात् खण्डितं तस्मादथशब्दस्यार्थान्तरत्वासम्भवात्सूत्रे यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणमानन्तर्यावधिभूतं वक्तव्यमित्याहेत्यर्थः ।
भाष्ये –
अवबोधस्य चोदनाऽजन्यत्वादिति ।
अजन्यत्वादिति च्छेदः । तस्मात्किमपि वक्तव्यमिति । यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणं वक्तव्यमिति तच्छब्दाध्याहारेण भाष्यं योजनीयम् ।
अमुत्रेति ।
परलोकेपीत्यर्थः ।
ज्ञातुं चेति ।
अपरोक्षीकर्तुं चेत्यर्थः ।
तस्मादथशब्देनेति |
तस्मादन्वयव्यतिरेकाभ्यां साधनचतुष्टयस्य हेतुत्वादित्यर्थः ।
व्याख्याने –
पुरस्तादेवोक्तमिति ।
पूर्वस्मिन्सम्बन्धग्रन्थ एवोपपादितमिति भावः ।
ननु विवेकादिसत्त्वे विचारः तद्द्वारा साक्षात्कारश्चेत्यन्वयसत्त्वेपि विवेकाद्यभावे ब्रह्मविचाराद्यभाव इति न व्यतिरेकः कथञ्चित्कुतूहलतया बहुश्रुतत्वबुद्ध्या वा दैववशाद्वा विवेकादिरहितस्य ब्रह्मविचारप्रवृत्तिदर्शनादित्याशङ्क्याह –
कथञ्चित्कुतूहलतयेति ।
विवेकाद्यभावे फलपर्यन्तज्ञानप्रतिबन्धकसाहित्यविचारसत्त्वेपि तद्रहितविचाराभावो विद्यत इति व्यतिरेकसिद्धिरिति भावः ।
सुकृतमिति ।
पुण्यकर्मफलमित्यर्थः । प्रलयपर्यन्तमवस्थानाच्चिरकालावस्थायित्वमेव अक्षय्यत्वमिति सिद्धान्त्यभिप्रायः पूर्वपक्ष्यभिप्रायस्तु नित्यत्वमिति भेदः ।
भेदादिति ।
जीवस्य ब्रह्मणः सकाशाद्भेदसत्त्वादित्यर्थः । नाहमीश्वर इति प्रत्यक्षादिसिद्धभेदेनाभेदस्य बाधितत्वाज्जीवस्य ब्रह्मत्वमयुक्तमिति भावः ।
तस्येति ।
यथा लोष्ठस्याकिञ्चित्करत्वेन सुखप्राप्तिदुःखनिवृत्त्यन्यतररूपत्वायोगस्तथा स्वरूपावस्थानरूपमोक्षस्य अकिञ्चित्करत्वेन सुखदुःखाभावान्यतररूपपुरुषार्थत्वायोगाच्चेत्यर्थः ।
अनुवादे बीजमाह –
अथशब्देनेति ।
अथशब्देन यदुक्तमित्यन्वयः ।
अर्थादिति ।
अन्वयव्यतिरेकबलादार्थिकार्थतयेत्यर्थः ।
आर्थिकहेतुत्वस्येति ।
साधनचतुष्टयनिष्ठस्यार्थसिद्धहेतुत्वस्येत्यर्थः ।
अनुवादस्य प्रयोजनमाह –
आक्षेपेति ।
ननु भवत्वतःशब्द आक्षेपनिरासायानुवादकस्तथापि कथं निरास इत्याशङ्क्य निरासप्रतिपादकत्वेनोत्तरभाष्यमवतारयति –
उक्तमिति ।
विवेकादिकमित्यर्थः ।
श्रुत्यर्थस्य कर्मफलानित्यत्वस्य दृढीकरणाय व्याप्तिद्वयसहकारित्वं श्रुतेर्दर्शयति –
यदल्पमिति ।
अल्पं मध्यमपरिमाणवदित्यर्थः । मर्त्यं ध्वंसप्रतियोगीत्यर्थः । कृतकं कार्यमित्यर्थः ।
न्यायवतीति ।
स्वोक्तार्थप्रतिपादकव्याप्तिमदित्यर्थः । ’तद्यथेह कर्मचितो लोकः क्षीयत’ इत्यादिश्रुतेः पापसहकृतत्वात्प्राबल्यमक्षय्यत्वश्रुतेस्तु कर्मफलनित्यत्वबोधकत्वे तदभावाद्दौर्बल्यं तस्मात्तद्यथेहेत्यादिश्रुतिरक्षय्यत्वश्रुतेर्बाधिकेति भावः ।
भाष्यस्थादिशब्दार्थं श्रुत्यन्तरं प्रमाणयति –
अतोऽन्यदिति ।
ब्रह्मणः व्यतिरिक्तं सर्वं मिथ्याभूतमित्यर्थः ।
मोक्षस्य पुरुषार्थत्वं स्फोरयति –
यथेति ।
ननु मोक्षस्य सुखदुःखाभावान्यतररूपत्वेप्यपुरुषार्थत्वमेव स्यात् वृत्तिवेद्यत्वाभावेनाज्ञातत्वाज्ज्ञातो हि पुरुषार्थ इत्युच्यत इत्याशङ्क्याह –
अपारं स्वयञ्ज्योतिरिति ।
वृत्तिवेद्यत्वाभावेपि ब्रह्मणः स्वप्रकाशत्वेनानन्दानुभवान्मोक्षः पुरुषार्थ एव स्वप्रकाशत्वेन तस्य ज्ञातत्वात्तस्मान्मुमुक्षा सम्भवतीति भावः ।
भेदाद्ब्रह्मत्वं जीवस्यायुक्तमिति यदुक्तं तद्दूषयति –
जीवत्वादेरिति ।
उक्त एवेति ।
उपोद्घातग्रन्थ इति शेषः । नाहमीश्वर इति प्रतीतेरहमंशे विशिष्टविषयकत्वेन तया विशिष्टस्यैव जीवस्य ब्रह्मत्वं निषिध्यते न शोधितस्य जीवस्य तथा च जीवत्वं कल्पितं तस्माद्ब्रह्मत्वमेव वास्तवं तस्येति भावः ।
महाप्रकरणोपसंहारार्थकमुत्तरभाष्यमित्यभिप्रेत्य तच्छब्दार्थकथनद्वारा तद्भाष्यमवतारयति –
एवमिति ।
अथातःशब्दाभ्यां साधनचतुष्टयस्य हेतुत्वसमर्थनद्वारा तद्वतोऽधिकारिणः समर्थित्वाच्छास्त्रमारम्भणीयमित्याहेत्यर्थः ।
सूत्रवाक्यपूरणार्थमिति ।
सूत्रवाक्यपूरणार्थं यदध्याहृतं कर्तव्यपदं तस्यान्वयार्थमित्यन्वयः ।
कर्मज्ञानार्थमिति ।
कर्मकारकज्ञानार्थमित्यर्थः । एवमुत्तरत्र विज्ञेयम् ।
कर्मण एवेति ।
कर्मत्वं नाम विषयत्वम् , इच्छायाः विषयस्यैव प्रयोजनत्वादित्यर्थः । यथा स्वर्गस्येच्छेत्युक्ते स्वर्गविषयिणी इच्छेति बोधात्स्वर्गस्येच्छाकर्मत्वं तत्फलत्वं च सम्भवति, तथा ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मविषयिणी जिज्ञासेति बोधाद्ब्रह्मणः ज्ञानद्वारेणेच्छाकर्मत्वं तत्फलत्वं च सम्भवतीति भावः ।
सा हि तस्येति ।
सा हि तस्य ज्ञातुमिच्छेति शाबरभाष्यवाक्यम् । तस्यार्थः । सा धर्मजिज्ञासा । तस्य धर्मस्य ज्ञातुमिच्छेति । इच्छाप्राधान्ये तावदिच्छायाः कर्मफलयोरैक्यात्कर्मणश्च प्रथमापेक्षितत्वेन प्राधान्यात्कर्मणि षष्ठीसमासः स्याद्विचारप्राधान्ये तु कर्मफलयोर्भेदात्प्रयोजनविवक्षया चतुर्थीसमासः स्यादित्येवं मुख्यार्थेच्छाभिप्रायेण विचारलक्षणाभिप्रायेण च समासद्वयमुपपद्यत इति समुदायग्रन्थार्थः ।
अधुनेति ।
ब्रह्मपदस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देश्यतीतिब्रह्मपदार्थमाहेत्यर्थः । ब्रह्मक्षत्रमित्यत्र ब्रह्मशब्देन ब्राह्मणजातिरुच्यते ।
भाष्यस्थादिशब्दार्थं दर्शयति –
इदं ब्रह्मेति ।
अत्र ब्रह्मशब्देन जीव उच्यते एवं क्रमेण उत्तरत्र योजनीयम् ।
जगत्कारणत्वेति ।
जात्यादौ जगत्कारणत्वासम्भवेन पूर्वोत्तरविरोधाद्ब्रह्मशब्दस्य न जात्याद्यर्थकत्वमिति परिहारार्थः ।
वृत्त्यन्तर इति ।
प्राचीनव्याख्यान इत्यर्थः ।
सम्बन्धसामान्यमिति ।
सम्बन्धत्वविशष्टः सम्बन्ध इत्यर्थः । सम्बन्धमात्रमिति यावत् ।
जिज्ञास्यापेक्षत्वादित्यादिहेतुभाष्यं विवृणोति –
जिज्ञासेत्यत्रेति ।
सन्वाच्यायाः सन्प्रत्ययस्य वाच्यार्थभूताया इत्यर्थः ।
कर्मेति ।
कर्मत्वं विषयत्वम् ।
सकर्मकक्रियाया इति ।
सकर्मकेच्छाया इत्यर्थः ।
विषयज्ञानेति ।
विषयस्य ज्ञानमिति विग्रहः । ब्रह्मजिज्ञासा नाम ब्रह्मविषकं यज्ज्ञानं तद्विषयकेच्छा तथा च सकर्मकक्रियारूपायाः परम्परया ब्रह्मविषयकजिज्ञासायाः प्रथमं जिज्ञास्यब्रह्मरूपकर्मापेक्षत्वात्कर्मणि षष्ठ्येव परिग्राह्या न शेषषष्ठीति भावः ।
प्रथमं ब्रह्मस्वरूपजिज्ञासा किमर्था ब्रह्मप्रमाणजिज्ञासा तल्लक्षणजिज्ञासा वा स्यात्तथा सति लक्षणप्रमाणादेरेव कर्मत्वं स्याद्ब्रह्मणस्तु सम्बन्धित्वमात्रं तथा च ब्रह्मसम्बन्धिनी प्रमाणादिकर्मिका जिज्ञासेति ब्रह्मांशे शेषषष्ठीं साधयितुं शङ्कते –
ननु प्रमाणादिकमिति ।
अन्यदेव ब्रह्मणोन्यदेवेत्यर्थः । तत्कर्मास्तु जिज्ञासाकर्मास्त्वित्यर्थः । शेषितया प्रधानतयेत्यर्थः ।
श्रुतं कर्मेति ।
ब्रह्मणो जिज्ञासेति शब्दादविलम्बेन प्रतीयमानं ब्रह्मणः कर्मत्वं त्यक्त्वा शब्दादप्रतीयमानं तात्पर्याद्विलम्बेन प्रतीयमानं प्रमाणादीनां कर्मत्वं ब्रह्मणः सम्बन्धित्वमात्रं च कल्पयन् शेषवादी करस्थं पिण्डमुत्सृज्य करं लेढीति न्यायमनुसरति, तथा च शेषषष्ठीपरिग्रहे ब्रह्मणः प्रतीतकर्मत्वालाभ एव दोष इति भावः ।
गूढाभिसन्धिरिति ।
ब्रह्माश्रिताशेषविचारप्रतिज्ञारूपफले गूढाभिसन्धिरित्यर्थः । सम्बन्धिसामान्ये प्रोक्ते तत्सामर्थ्यात्कारकसम्बन्धविशेषश्चार्थतोवगम्यत इत्येतावता षष्ठी शेष इत्युक्तं नार्थादपि कारकसम्बन्धाप्रतिभास इत्युक्तमिति शेषवादिनो मतम् , तथा च ब्रह्मसम्बन्धिजिज्ञासेति बोधेन ब्रह्मकर्मकजिज्ञासाप्यर्थादवगम्यते तस्माद्ब्रह्मणः कर्मत्वलाभ इति शेषवादी शङ्कत इति भावः । ’शेषषष्ठीपरिग्रहेपीति’ भाष्येण अशेषविचारप्रतिज्ञारूपफललाभायैव शेषषष्ठीं परिगृह्यार्थिककर्मत्वस्वीकारात्तस्य शेषवादिनः प्रयासः सार्थकः एव तथा च ’व्यर्थः प्रयासः स्यादि’त्याद्युत्तरभाष्यविरोधस्तत्परिहारायेदं भाष्यं गूढाभिसन्धिना शङ्कत इति व्याख्यातमिति मन्तव्यम् ।
षष्ठीति ।
षष्ठी शेष इति व्याकरणसूत्रेण सम्बन्धमात्रे षष्ठीविधानादित्यर्थः ।
कर्मत्वे पर्यवस्यतीति ।
विषयत्वे पर्यवस्यतीत्यर्थः । विषयविषयिभावसम्बन्धे पर्यवस्यतीति भावः । यद्यपि ’षष्ठी शेष’ इति सम्बन्धमात्रे षष्ठी विहिता तथापि व्यवहारो विशेषमालम्बते बहवश्च विशेषसम्बन्धाः तत्रान्यतमो विशेषसम्बन्धः प्रतिपत्तव्यः अन्यथा व्यवहारानुपपत्तेः, तस्मात्स च सम्बन्धः क इति विशेषजिज्ञासायां सकर्मकेच्छासन्निधानात्कर्मत्वमेव विशेषसम्बन्धो भवति ब्रह्मणो जिज्ञासाकर्मत्वं शेषषष्ठीपक्षे तु न विरुध्यत इति समुदायार्थः ।
अजानन्निवेति ।
तात्पर्यं ज्ञात्वापि वादिना तात्पर्यस्फुटीकरणानन्तरमेव तद्वक्तव्यमित्यधुना अनुरूपोत्तरमाहेत्यर्थः ।
यद्यपि ब्रह्मणः कर्मत्वालाभ इति दूषणमार्थिककर्मत्वोक्त्या परिहृतं तथापीच्छायाः प्रथमापेक्षितकर्मकत्वेन ब्रह्मणः प्रथमं प्रतीतकर्मत्वालाभदोषो दुर्वार इति भाष्याभिप्रायं स्फुटीकुर्वन् एवमपीत्यस्यार्थमाह –
कर्मलाभेपीति ।
ब्रह्मणः कर्मत्वलाभेऽपीत्यर्थः ।
प्रतीकमादाय प्रत्यक्षपदस्यार्थमाह –
प्रत्यक्षमित्यादिना विहितमित्यन्तेन ।
कृति कृदन्तस्य योगे सति कर्तृकर्मणोः कर्त्रर्थे कर्मार्थे च षष्ठी स्यादिति व्याकरणसूत्रस्यार्थः । आबन्तत्वेनेति च्छेदः । आकारप्रत्ययान्तत्वेनेत्यर्थः ।
कृदन्तस्येति ।
कृत्प्रत्ययान्तस्येत्यर्थः । जिज्ञासेत्यत्र सन्प्रत्ययः अ इति संज्ञिकः प्रत्ययः अकारप्रत्यय इति यावत् । उप्रत्ययश्चेति प्रत्ययाः सन्ति तथा च त्रयाणां प्रत्ययाणां मध्ये यः अप्रत्ययस्तदन्तत्वेन कृदन्तत्वं जिज्ञासापदस्येति भावः ।
विहितमिति ।
सत्रेण विहितमिति पूर्वेणान्वयः । तथा च शब्दादविलम्बेन प्रतीयमानं प्रत्यक्षमिति निष्कृष्टोऽर्थः ।
अशाब्दमिति ।
विलम्बेन तात्पर्यात्प्रतीयमानमित्यर्थः ।
ब्रह्मणः कर्मत्वे तात्पर्येण साधितेपि एवं कल्पयतस्तव प्रयासो व्यर्थ एवेति भावः ।
भाष्ये -
कर्मत्वं न विरुध्यत इति ।
कर्मत्वालाभदोषो नास्तीति भावः ।
सम्बन्धसामान्यस्येति ।
विशेषनिष्ठत्वं विशेषसम्बन्धबोधकत्वं सामान्यसम्बन्धस्य विशेषसम्बन्धे पर्यवसन्नत्वादित्यर्थः ।
सामान्यद्वारेणेति ।
सामान्यसम्बन्धद्वारेणेत्यर्थः ।
व्याख्याने –
लक्षणप्रमाणेति ।
लक्षणं च प्रमाणं च युक्तयश्च ज्ञानसाधनानि च फलं चेति विग्रहः ।
ब्रह्मकर्मक एवेति ।
एवकारेण प्रमाणादिकर्मकविचारो व्यावर्त्यते ।
विचारप्रतिज्ञानमिति ।
विचारस्य प्रतिज्ञानं प्रतिज्ञेत्यर्थः ।
यस्येति ।
मत्प्रयासस्येत्यर्थः ।
अप्रधानप्रमाणादिविचारान् शब्देनोपादाय प्रधानस्य ब्रह्मविचारस्याक्षेपकल्पनाद्वारं मुखतः प्रधानविचारमेवोपादायाऽप्रधानविचाराणामाक्षेपकल्पनमिति शेषषष्ठीपरिग्रहो न युक्त इत्याशयं स्फुटीकुर्वन्नुत्तरभाष्यमवतारयति –
त्वत्प्रयासस्येति ।
स दृष्टान्तमाहेति ।
सदृष्टान्तं विवृणोतीत्यर्थः ।
तद्विजिज्ञासस्वेतीति ।
’यतो वा इमानि भूतानी’त्यादिश्रुतिगततद्विजिज्ञासस्वेति अर्थः । मूलं विषयवाक्यत्वेनाभिमतमित्यर्थः । तदिति द्वितीयया ब्रह्मणः कर्मत्वप्रतिपादनद्वारा प्रधानस्य ब्रह्मणो विचारः श्रुत्या प्रतिज्ञातो भवति तथा एकार्थत्वलाभाय सूत्रेणापि कर्मत्वप्रतिपादनद्वारैव प्रधानब्रह्मणो विचारः प्रतिज्ञातव्य इत्यवश्यं वक्तव्यमिति भावः ।
भाष्ये -
तद्विजिज्ञासस्व तद्ब्रह्मेतीति ।
स्वप्रविष्ट’तद्विजिज्ञासस्वतद्ब्रह्मे’त्यनेन वाक्येनेत्यर्थः ।
प्रत्यक्षमेवेति ।
शाब्दमेवेत्यर्थः । यतः ब्रह्मणः सकाशादुत्पत्त्यादिकं भवति तद्ब्रह्म विजिज्ञासस्वेति श्रुतयः शब्दतः ब्रह्मणः कर्मत्वं दर्शयन्तीति भावः । इच्छायाः कर्मेति पूर्वेणान्वयः ।
व्याख्याने –
ब्रह्मज्ञानं त्विति ।
हेतुभूतस्य मूलस्य सिद्धस्वरूपत्वात् साध्यस्वरूपं ब्रह्मज्ञानं कथं मूलमिति भावः ।
आवरणेति ।
आवरणनिवृत्तिरूपं नवशरावं जलेनाभिव्यक्तगन्धवदन्तःकरणे तद्वृत्त्या अभिव्यक्तस्फुरणरूपं च ब्रह्मस्वरूपभूतं यच्चैतन्यं तदेवावगतिरित्यर्थः । आवरणनिवृत्तिरूपत्वमभिव्यक्तेर्वा विशेषणं अभावस्याधिकरणस्वरूपत्वान्निवृत्तिरूपत्वमधिष्ठानस्य अथवा आवरणवत्तन्निवृत्तेः कल्पितत्वेनाधिष्ठानमेव स्वरूपमिति भावः । अभिव्यक्तिमच्चैतन्यमिति मतुपः प्रयोगान्नित्याभिव्यक्तिविलक्षणा अपरोक्षज्ञानगम्या हि कल्पिताभिव्यक्तिरस्तीति सिद्धम् ।
गमनस्य ग्रामः कर्मेति ।
ग्रामं गच्छतीत्यत्र ग्रामस्य कर्मत्वं नाम क्रियाजन्यफलशालित्वं तथा हि गमनरूपा या क्रिया तज्जन्यं फलं ग्रामपुरुषसंयोगस्तदाश्रयत्वं ग्रामोऽस्तीति लक्षणसमन्वय इति दिक् ।
तत्प्राप्तिरिति ।
ग्रामसंयोग इत्यर्थः ।
अवगतेरिति ।
अभिव्यक्तिमच्चैतन्यरूपावगतेरित्यर्थः । वृत्तिज्ञानरूपा ब्रह्मावगतिः अज्ञाननिवर्तकतया पुरुषाभिलाषित्वात् पुरुषार्थ इति भाष्यार्थः ।
बीजमविद्येति ।
संसारबीजभूता या अविद्या अनाद्यविद्या सैवादिर्यस्यानर्थस्येति विग्रहः वृत्तिज्ञानेनाज्ञानसहितानर्थनिवृत्तिद्वारा चैतन्यमभिव्यक्तं भवति, तस्मादभिव्यक्तिमच्चैतन्यं ब्रह्मज्ञानस्य फलमित्युच्यत इति भावः ।
तृतीयवर्णकमिति ।
प्रथमसूत्रस्य तृतीयव्याख्यानमित्यर्थः ।