अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

३ परिच्छेदः

वृत्ता­नु­वा­द­पू­र्व­क­म­धि­क­र­ण­मा­र­च­यन् वर्ण­का­न्त­र­प­र­त्वे­नो­त्त­र­भा­ष्य­म­व­ता­र­यति –
एवमिति ।

ननु वर्ण­क­द्व­य­म­स­ङ्गतं तत्प्र­ति­पा­द्य­हे­तु­द्व­यस्य सूत्रा­क्ष­रा­ना­रू­ढ­त्वा­दि­त्यत आह –
विषयेति ।

पुनरप्यधिकारीति ।
अधि­का­रि­वि­शे­ष­ण­सा­ध­न­च­तु­ष्ट­य­भा­वा­भ्या­म­धि­का­रि­भा­वा­भावौ ताभ्यामित्यर्थः । पूर्वो­क्त­वि­ष­य­वाक्य एवारम्भसन्देह इत्य­धि­क­र­ण­प्र­थ­माङ्गं पुनःशब्देन द्योत्यते अपिशब्देन सन्देहस्य तृतीयत्वं ज्ञाप्यते ।

अधिकारिणमिति ।
साध­न­च­तु­ष्ट­य­सा­ध­न­पू­र्व­क­म­धि­का­रिणं साधयतीत्यर्थः ।

अनु­शा­स­न­प­द­स्या­र्थ­क­थ­न­द्वा­रा­न्व­य­म­भि­न­यति –
योगशास्त्रमिति ।

नाधिकारार्थ इतीति ।
नारम्भार्थ इत्यर्थः ।

अन­धि­का­र्य­त्वा­दिति भाष्यस्यार्थं सङ्गत्या स्फोरयति –
तस्या अनारभ्यत्वादिति ।
लोके यदारभ्यं तत्कृ­ति­सा­ध्य­मिति नियमः यथा घटादि, तथा चाने­क­ज­न्म­कृ­त­पु­ण्य­पु­ञ्ज­प­रि­पा­क­सा­ध्यायाः ज्ञानेच्छायाः कृति­सा­ध्य­त्व­रू­प­व्या­प­क­स्या­भा­वा­दा­र­भ्य­त्व­स्या­भाव इति भावः । इच्छा अनारभ्या कृति­सा­ध्य­त्वा­भा­व­व­त्त्वा­न्नि­त्य­प­दा­र्थ­व­दिति प्रयोगः ।

विपक्षे बाध­क­मु­त्त­रा­धि­क­र­ण­वि­रो­ध­रू­प­माह -
न हीति ।

कर्तव्येति ।
’श्रोतव्य’ इत्या­दि­श्रु­ति­स­मा­ना­र्थ­त्वाय कर्त­व्य­प­द­म­ध्या­ह­र्तव्यं पश्चा­द­न्व­या­द्वि­चारे लक्षणा स्वीकर्तव्या तथा च कर्त­व्य­प­दे­नै­वा­र­म्भो­क्ते­र­थ­श­ब्द­वै­य­र्थ्य­मिति भावः । ननु अस्तु अथ­श­ब्दो­क्ता­र­म्भा­र्था­न्व­या­नु­प­प­त्त्यैव जिज्ञासापदस्य विचरे लक्षणा मास्तु कर्त­व्य­प­दा­ध्या­हारः अध्याहारस्य दोषत्वात् समा­ना­र्थ­त्व­म­थ­श­ब्द­बो­धि­ता­र­भ्यत इत्यनेन स्यात् , तथा च ब्रह्मविचार आरभ्यत इत्यथशब्दः सार्थक इति चेन्न । आरभ्यत इत्येतस्य विध्य­र्थ­क­त्वा­भा­वेन श्रुति­सू­त्र­यो­रे­का­र्थ­क­त्वा­ला­भा­त्स­म्ब­न्ध­ग्रन्थे साधितं समानार्थत्वं न विस्मर्तव्यमिति भावः ।

अधुना सम्भावितमिति ।
शास्त्रारम्भे विघ्नोपशान्तये मङ्गलं कर्तव्यमिति मङ्ग­ला­र्थ­कोऽ­थ­शब्दः स्यादित्येव सम्भा­वि­त­म­र्था­न्त­र­म­धुना दूषयतीत्यर्थः । श्रीभा­ष्य­का­रे­णा­थ­श­ब्दस्य प्रश्ना­द्य­र्थ­क­त्व­मा­शङ्क्य किमिति न परिह्रीयत इत्याशङ्कां वारयितुं सम्भावितपदम् ।

न हि तत्रेति ।
आदिशब्देन करणत्वमुच्यत्ते । अधिकारिणा विचारः कर्तव्यः इति यथा अधिकारिणः कर्तृ­त्वे­ना­न्वयो न सम्भवति, तथा मङ्गलेन विचारः कर्तव्य इति मङ्गलस्य कर्तृ­त्वे­ना­न्वयो न सम्भवति प्रमाणाभावादेवं मङ्गलस्य विचारं प्रति कर्तृ­त्व­रू­प­का­र­णा­भा­वेन कार­ण­त्वे­ना­प्य­न्वयो न सम्भवतीति भावः ।

अथ शब्द इति ।
मङ्गलार्थक इति शेषः । आदौ मङ्गलं कर्तव्यमिति न्यानेन मङ्ग­ल­स्या­थ­श­ब्दा­र्थ­त्वे­ना­व­श्य­क­त्वा­त्क­र्तृ­त्वा­दि­ना­न्व­या­स­म्भ­वेऽपि यथा दधि­दू­र्वा­दि­द­र्शनं मङ्गलं तथा ब्रह्म­जि­ज्ञा­सापि मङ्गलमिति सामा­ना­धि­क­र­ण्ये­ना­न्वयः सम्भवतीति शङ्कि­तु­र­भि­प्रायः ।

मङ्ग­ल­स्या­थ­श­ब्दा­र्थ­त्व­मेव नास्तीति परिहरति –
सत्यमिति ।

आदौ मङ्गलं कार्य­मि­त्य­थ­शब्दः प्रयुक्तः इत्यं­शेऽ­ङ्गी­कारः मङ्ग­ला­र्थ­को­थ­शब्द इत्यंशे अनङ्गीकारः तमनङ्गीकरं व्यनक्ति –
न तस्येति ।
अथशब्दस्य वाच्यार्थो लक्ष्यार्थो वा मङ्गलं न भवति प्रयो­ज­ना­भा­वा­दि­त्यर्थः । ननु तर्हि ’मङ्ग­ला­न­न्त­रा­र­म्भे’त्या­दि­कोशः कथमिति चेन्न । कोशस्य मङ्ग­ल­म­थ­श­ब्द­ग­म्यार्थ इति ज्ञाप्या­र्थ­प्र­ति­पा­द­क­त्वात् , न हि ज्ञाप्यार्थस्य वाक्या­र्थेऽ­न्वयो दृष्टः अति­प्र­स­क्त­त्वा­त्त­स्मा­न्म­ङ्गलं नाथ­श­ब्द­वा­च्योऽर्थः । अस्तु वा कोश­ब­ला­द्वा­च्यार्थः तथाप्यथशब्दस्य तदुच्चारणादिनैव मङ्ग­ल­फ­ल­त्व­स­म्भ­वेन मङ्गलस्य वाच्यार्थत्वेन ग्रहणे प्रयोजनाभान्न प्रकृते मङ्ग­ला­र्थ­कोऽ­थश्ब्दः किन्तु आनन्तर्यार्थक एव, अत एवास्मिन् ग्रन्थे अत्रा­न­न्त­र्य­मे­वेति वाक्येन ग्रन्थ­कृ­ता­प्ये­षोऽर्थः सूचितः । न चान­न्त­र्या­र्थ­क­त्वेपि प्रयोजनाभाव इति वाच्याम् । अथ­श­ब्द­स्या­न­न्त­र्यो­क्ति­द्वारा अधि­का­रि­प्र­ति­प­त्त्य­र्थ­त्वात् । किञ्च यथा दधि­दू­र्वा­दि­द­र्शनं मङ्गलं तथा ब्रह्म­जि­ज्ञा­सापि मङ्गलमिति समा­ना­धि­क­र­णा­न्वयः पूर्वपक्षिणा उक्तः, स चायुक्तः, प्रशंसापरतया अर्थ­वा­द­त्व­प्र­स­ङ्गा­त्सू­त्रस्य स्तुतिहेतुत्वेन न्यायो­प­पा­द­क­सू­त्र­त्वा­भा­व­प्र­स­ङ्गा­च्चेति भावः ।

मङ्गलकृत्यमिति ।
मङ्गलफलं विघ्न­नि­वृ­त्या­दि­क­मि­त्यर्थः ।

श्रुत्येति भाष्य­प­द­स्या­र्थ­माह –
श्रवणेनेति ।
श्रव­ण­प­द­मु­प­ल­क्ष­णम् उच्चारणमपि मङ्ग­ल­फ­ल­क­मि­त्यर्थः । माङ्गलिकाविति । मङ्ग­ल­फ­ल­का­वि­त्यर्थः । अथ मतं प्रपञ्चः सत्य इति वाच्य­स्या­पे­क्षि­त­मर्थं पूरयति – प्रपञ्चो मिथ्येति – मते प्रकृते सतीति, अन्योर्थः अर्थान्तरं तस्य भावोऽ­र्था­न्त­रता, तथा च मिथ्या­त्व­रू­पा­त्पू­र्व­प्र­कृ­ता­र्था­दु­त्त­रा­र्थस्य सत्यत्वरूपस्य याऽर्थान्तरता सैवार्थो यस्याथशब्दस्य स तथेत्यर्थः ।

तथात्र किं न स्यादिति ।
धर्म­जि­ज्ञा­सा­रू­प­पू­र्वा­र्था­द्भि­न्ना­र्थ­स्व­रूपा ब्रह्म­जि­ज्ञा­सेति किं न स्यादित्यर्थः ।

जिज्ञासायाः पूर्वकाले प्रकृ­ता­द­र्थ­वि­शे­षात् किं भिन्ना­र्थ­त्व­मु­च्यते अर्थ­सा­मा­न्याद्वा हेतुत्वेन पूर्व­प्र­कृ­ता­र्थाद्वा ? नाद्य इत्याह –
ब्रह्म­जि­ज्ञा­साया इति ।
प्रकृतः सङ्गत्या प्राप्तः इत्यर्थः । तस्याः ब्रह्म­जि­ज्ञा­सायाः यस्मा­द­र्थ­वि­शे­षा­द­र्था­न्त­र­त्व­म­थ­श­ब्दे­नो­च्यते सः प्रकृ­तोऽ­र्थ­वि­शेषो नास्तीति पूर्वेणान्वयः ।

द्वितीयं दूषयति –
यतः कुतश्चिदिति ।
यस्मा­त्क­स्मा­च्चि­दि­त्यर्थः ।

फलाभावादिति ।
प्रयो­ज­ना­भा­वा­दि­त्यर्थः ।

तृती­य­मि­ष्टा­पत्त्या परिहरति –
यदि फलस्येति ।

आक्षिप्येति ।
अन्य­था­नु­प­पत्त्या अध्या­हृ­त्ये­त्यर्थः ।

नन्व­वि­शे­षा­द­र्था­न्त­र­त्व­मे­वास्तु किमा­न­न्त­र्ये­णे­त्यत आह –
हेतुफलेति ।
पूर्वार्थो हेतुरुत्तरार्थः कार्यमिति ज्ञानायेत्यर्थः ।

नन्व­र्था­न्त­रे­णापि हेतुफलभावज्ञानं स्यादित्यत आह –
तस्मा­दि­द­म­र्थ­न्त­र­मिति ।

आनन्तर्यस्य हेतु­त्व­ज्ञा­न­ज­न­कत्वे अनुभवं प्रमाणयति –
तस्मा­दि­द­म­न­न्त­र­मिति ।

अर्थान्तरेण यथा हेतुफलभावज्ञानं नोत्पद्यते तथा आनन्तर्येणापि तन्नोपत्पद्यत इत्य­भि­प्रा­ये­णा­ति­प्र­स­क्ति­मा­शङ्क्य परिहरति –
न चेति ।

गौणानन्तर्येण हेतु­फ­ल­भा­व­ज्ञा­ना­भा­वेऽपि मुख्यानन्तर्येण तदस्तीति परिहारं विवृणोति –
तयोरिति ।
अहे­तु­फ­ल­यो­र्ग­वा­श्व­यो­रि­त्यर्थः । अमु­ख्य­त्वा­द्गौ­ण­त्वा­दि­त्यर्थः । सामग्री कारणसमुदाय इत्यर्थः । यस्मिन्देशे काले वा गोः सत्त्वं तस्मि­न्नि­य­मे­ना­व­श्वस्य सत्त्वं नास्ति अत­स्त­यो­र्व्य­व­धानं, यस्मिन्देशे काले वा सामग्र्याः सत्त्वं तस्मिन्नियमेन कार्योत्पत्तेः सत्त्वं तस्मा­त्त­यो­र­व्य­व­धा­नम् तथा च सामग्रीफलयोः कालिकी दैशिकी च व्याप्ति­र­नु­भ­व­सि­द्धेति प्रतिपादकमिति भावः ।

तस्मिन्निति ।
मुख्यानन्तर्यं इत्यर्थः ।

ज्ञातत्वादिति ।
भेद­घ­टि­त­का­र्य­का­र­ण­भा­व­ज्ञा­ने­ना­र्था­न्त­र­त्वस्य ज्ञात­त्वा­दि­त्यर्थः । आनन्तर्यज्ञाने सति अर्था­न्त­र­त्व­ज्ञानं भवतीति भावः ।

वैफल्याच्चेति ।
हेतु­फ­ल­भा­व­ज्ञा­ना­स­म्पा­द­क­त्वेन व्यर्थ­त्वा­च्चे­त्यर्थः । यस्मिन् सत्यग्रिमक्षणे यस्य नियमेन सत्त्वं तयोरेव मुख्यमानन्तर्यं सामग्रीसत्त्वे फला­व­श्य­म्भा­व­नि­य­मा­त्सा­म­ग्री­फ­ल­यो­रेव मुख्यमितरयोस्तु गौणम् तथा च मुख्या­न­न्त­र्या­भि­धाने अर्था­न्त­र­त्व­म­भि­हितं भवति नार्था­न्त­र­त्वा­भि­धाने मुख्यानन्तर्यम् , तस्मा­द्धे­तु­त्वेन पूर्व­प्र­कृ­त­सा­ध­न­च­तु­ष्ट­या­व­द्यो­त­ना­या­न­न्त­र्या­र्थोऽ­थ­शब्द इति सुष्ठूक्तम् ।

अर्था­न्त­र­त्व­प­द­मा­त्र­म­ध्या­हृत्य पूर्व­प्र­कृ­ते­त्यादि भाष्यार्थं परिष्करोति –
फलस्येति ।

अध्याहारं विनैव भाष्यं योजयति –
यद्वेति ।

अर्थान्तरत्वं नामान्यार्थत्वं तच्च कस्मादन्यार्थः स्वाश्रय इति पूर्व­प्र­कृ­त­म­र्थ­म­पे­क्षते अतोर्थान्तरत्वं पूर्व­प्र­कृ­ता­पे­क्षा­व­दि­त्ये­न­मर्थं बहुव्रीहिणा स्फुटीकरोति –
पूर्वप्रकृत इति ।

फलत इति भाष्यस्यार्थमाह –
फलं ज्ञानं तद्द्वारेति ।

आन­न्त­र्या­व्य­ति­रे­का­दिति भाष्यस्यार्थमाह –
तज्ज्ञान इति ।
आनन्तर्यज्ञान इत्यर्थः । तस्या­र्था­न­न्त­र­त्व­स्ये­त्यर्थः । आनन्तर्यज्ञाने सत्य­र्था­न्त­र­त्व­ज्ञानं भवति तथा च समा­न­का­ली­न­ज्ञा­न­वि­ष­य­त्वेन तयोरभेदो न स्वरूपत इति भावः । यद्यपि पूर्वो­त्त­र­व्या­ख्या­न­यो­रा­न­न्त­र्य­ज्ञाने सत्य­र्था­न्त­र­त्व­ज्ञानं भवतीत्ययमर्थः समानः तथापि यद्वे­त्यु­त्त­र­व्या­ख्याने उपपादनभेदोस्ति अध्याहारोपि नास्तीति विज्ञेयम् ।

उक्तं हेत्वानन्तर्यं भाष्यारूढत्वेन स्फुटीकर्तुं शङ्का­स­मा­धा­नाभ्यां भाष्यमवतारयति –
नन्वा­न­न्त­र्ये­त्या­दिना ।

पूर्व­वृ­त्त­प­द­स्या­र्थ­माह –
पूर्वभावीति ।

नियमेन पूर्ववृत्तमिति पद­द्व­य­स्या­र्थ­माह –
पुष्कलकारणमिति ।

यस्मिन् सत्यग्रिमक्षणे ब्रह्म­वि­चा­र­रू­प­का­र्यो­त्प­त्ति­स्त­दे­वा­सा­धा­र­ण­का­रणं पुष्क­ल­का­र­ण­मि­त्यु­च्यते । तद्वक्तव्यमिति – पदद्वयं पदा­न्त­रा­ध्या­हा­रेण योजयति –
तदेवेति ।

आन­न्त­र्य­स्या­वधिः क इति प्रश्नस्य पुष्क­ल­का­र­ण­म­व­धि­रिति प्रत्युत्तरे स्थिते तच्च पुष्कलकारणं किं वेदा­ध्य­य­न­मा­हो­स्वित् कर्म तज्ज्ञानं वा तन्न्यायविचारो वेति विकल्प्य दूषयतीत्याशयं स्फुटीकर्तुं भाष्यमवतारयति –
नन्व­स्त्वि­त्या­दिना ।

धर्मविचारं प्रति कार­ण­त्वा­द्ब्र­ह्म­वि­चारे स्वाध्या­य­श­ब्दितं वेदाध्ययनं नासा­धा­र­ण­का­र­ण­मि­त्याह –
समानमिति ।
ननु साधा­र­ण­का­र­णा­न­न्त­र्य­मे­वा­थ­श­ब्दा­र्थोस्तु किम­सा­ध­र­ण­का­र­णा­न­न्त­र्ये­णेति चेन्न । साधा­र­ण­का­र­णा­न­न्तरं नियमेन कार्यो­त्प­त्ते­र­भा­वा­द­थ­श­ब्द­वै­यर्थ्यं स्यादिति भावः ।

संयो­ग­पृ­थ­क्त्व­न्यायो नाम पृथग्वचनं तदेव प्रतिपादयति –
यज्ञेनेति ।
ज्योति­ष्टो­मे­ने­त्या­दि­श्रुत्या कर्माणि स्वर्गोद्देशेन विधीयन्ते यज्ञे­ने­त्या­दि­व­च­ना­न्त­रेण ज्ञानाय च विधीयन्ते इति भावः ।

तं न्यायं श्रीभगवान् जैमिनिराह –
एकस्य तूभयत्वे संयो­ग­पृ­थ­क्त्व­मिति ।
एकस्य कर्मणः उभयत्वे अनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स एव हेतुरिति जैमि­नि­सू­त्र­स्यार्थः । तथा च ज्योति­ष्टो­मा­दि­श्रुत्या ज्योति­ष्टो­मा­दि­क­र्मणां स्वर्गा­दि­फ­ल­कत्वं यज्ञेन दाने­ने­त्या­दि­पृ­थ­क्त्व­व­च­नात् ज्ञानफलकत्वं चास्तीति प्रतिपादकं वचनं संयो­ह­पृ­थ­क्त्व­न्याय इत्युच्यत इति फलितार्थः ।

शङ्कत इति ।
कर्म­ज्ञा­न­हे­तु­क­क­र्मा­नु­ष्ठा­न­द्वारा ब्रह्मविचारः कर्तव्य इति ज्ञान­क­र्म­स­मु­च्च­य­वादी शङ्कत इति भावः ।

असाधारणकारणमिति ।
पुष्क­ल­का­र­ण­मि­यर्थः ।

परिहरतीति ।
कर्मावबोधस्य कारणत्वमेव नास्त्य­सा­धा­र­णत्वं सुतरां दुरापास्तमिति मत्वा परिहरतीत्यर्थः ।

ननु ब्रह्म­जि­ज्ञा­सायाः कर्मा­व­बो­धा­न­न्तर्यं स्यादिति पूर्वपक्षं कृत्वा धर्म­जि­ज्ञा­सा­न­न्तर्यं न सम्भवतीति परिहारः कथमित्याशङ्क्य धर्मजिज्ञासाया इति भाष्यस्य कर्मतज्ज्ञानं तन्न्या­य­वि­चा­र­श्चार्थ इत्यभिप्रायं स्फोरयन् अधिकं तु न तद्धानिरिति न्यानेन तेषां कर्मा­दी­ना­मा­न­न्तर्यं ब्रह्मविचारस्य न सम्भवतीत्याह –
अयमाशय इति ।

न्यायसहस्रमिति ।
न्यायसहस्रं विचार इत्यर्थः ।

ननु लिङ्गज्ञानविधया धर्मज्ञानं ब्रह्मज्ञाने हेतुरस्त्वित्यत आह –
न हि धूमेति ।

अधिकारिविशेषणं त्विति ।
अस्मिन् शास्त्रे को वाऽधिकारीति विचार्य साध­न­च­तु­ष्ट­य­स­म्पन्न इति निश्चि­त्या­ह­म­धि­कारी साध­न­च­तु­ष्ट­य­वा­निति ज्ञानानन्तरं पुरुषः प्रवर्तते, तस्मा­ज्ज्ञा­य­मा­न­मे­वा­धि­का­रि­वि­शे­षणं प्रवृ­त्ति­हे­तुर्न स्वरूपं सदिति भावः ।

उपसंहरति –
अत इति ।
पुष्क­ल­का­र­ण­त्वा­भा­वा­दि­त्यर्थः ।

धर्मजिज्ञासायाः प्राग­पी­त्या­दि­भा­ष्यस्य फलितार्थमाह –
इति नेतीति ।
इतिशब्दो धर्मजिज्ञासाया अव­धि­त्वा­भा­वा­दिति हेत्वर्थकः ।

यद्यपि न पुष्कलकारणं धर्मजिज्ञासा तथा­प्य­का­र­णी­भू­तै­वा­वधिः सा स्यात् तथा सति नान­न्त­र्या­भि­धा­न­मु­खे­ना­धि­का­रि­वि­शे­ष­ण­प्र­ति­प­त्त्य­र्थो­थ­शब्दः किन्तु तदभिधानमुखेन क्रम­प्र­ति­प­त्त्यर्थ इत्यभिप्रायेण भाष्यमवतारयति –
ननु धर्मेति ।

ज्ञाय­मा­न­क्र­मार्थो वा क्रमज्ञानार्थो वा अथशब्द इत्यभिप्रेत्य दृष्टान्तं प्रतिपादयति –
हृदयस्याग्र इति ।
अवद्यति अवदानं कुर्यादित्यर्थः । प्रथमतः पशुहृदयस्य खण्डनमनन्तरं पशो­र्जि­ह्वा­ख­ण्डनं कुर्या­दि­त्या­न­न्त­र्यो­क्त­द्वारा क्रम­ज्ञा­ना­र्था­थ­श­ब्द­व­दि­त्यर्थः ।

नियमः क्रम इति ।
नियमरूपक्रम इत्यर्थः ।

तत्र हेतुमाह –
तस्येति ।
ज्ञायमानस्य क्रमस्येत्यर्थः ।

दृष्टा­न्त­वै­प­री­त्येन दार्ष्टान्तिके प्रतिपादयति –
न तथेति ।

क्रमो न विवक्षित इत्यत्र स्वयं हेतुं पूरयति –
अत इति ।
क्रम­स्या­वि­व­क्षि­त­त्वा­दि­त्यर्थः । स्वोक्तहेतौ हेतु­प्र­ति­पा­द­क­त्वे­नो­त्त­र­भाष्यं योजयति ।

ननु तयोरिति ।
एक­क­र्तृ­क­त्व­मे­क­पु­रु­ष­क­र्तृ­क­त्व­मि­त्यर्थः ।

आहेति ।
यत्रै­क­क­र्तृ­कत्वं तत्र शेष­शे­षि­त्वा­द्य­न्य­त­म­मिति व्याप्तिः सिद्धा प्रकृते व्याव­का­भा­वा­द्व्या­प्या­भाव इति परि­ह­र्तु­र­भि­प्रायः ।

भाष्ये –
आनन्तर्यनियम इति ।
आन­न्त­र्यो­क्ति­द्वारा नियमरूपक्रम इत्यर्थः । अथशब्दार्थ इति शेषः । क्रमो विवक्षित इत्यनन्तरं श्रुतो न क्रमार्थोऽथशब्द इति शेषः । तथा चावदानानां क्रमस्य विवक्षितत्वात् क्रमो यथाऽ­थ­श­ब्दा­र्थ­स्तथा धर्मजिज्ञासयोः क्रम­स्या­वि­व­क्षि­त­त्वान्न तत्क्र­मो­थ­श­ब्दार्थ इति भावः ।

शेषशेषित्व इति ।
एक­प्र­धा­न­शे­ष­त्व­स्ये­द­मु­प­ल­क्ष­णम् धर्म­ब्र­ह्म­जि­ज्ञा­सयोः एकप्रधानशेषत्वे शेषशेषित्वे अधिकृताधिकरे वा प्रमा­णा­भा­वा­दि­त्य­न्वयः । धर्म­ब्र­ह्म­जि­ज्ञा­सयोः फल­जि­ज्ञा­स्य­भे­दा­च्चे­त्य­न्वयः ।

व्याख्याने –
येषा­मे­क­प्र­धा­न­शे­ष­तेति ।
यच्छ­ब्द­त्र­य­स्यो­त्त­रेण तेषा­मि­त्य­ने­ना­न्वयः । प्रधानत्वं शेषि­त्व­म­ङ्गित्वं चेति पर्यायः, शेष­त्व­म­ङ्ग­त्व­मि­त्यर्थः । अवदानानां समिधो यज­ती­त्या­दि­वा­क्य­वि­हि­त­प्र­या­जा­दीनां चैक­प्र­धा­ना­ग्नि­ष्टो­मीये पशुयागे शेषत्वमित्यर्थः ।

अधि­कृ­ता­धि­का­रि­त्व­मिति ।
अधिकृतस्य पुरुषस्याधिकारो यस्मिन् गोदोहनादौ सोऽधिकृताधिकारी तत्त्वमित्यर्थः ।

अधि­कृ­ता­धि­का­रि­त्व­मु­प­पा­द­यति –
यथेति ।
चमसेनापः प्रण­ये­द्गो­दो­ह­नेन पशुकामस्येति वाक्यम् । अप इति द्विती­या­ब­हु­व­च­नम् । चमसेन चम­सा­ख्य­दा­रु­पा­त्र­वि­शे­षेण अपः प्रणयेदपां प्रणयनं कुर्यादित्यर्थः । चमसे अप्प्रणयनं कुर्यादिति यावत् । गौः दुह्यते यस्मिन्पात्रे तद्गोदोहनं तेन पशुकामस्यापां प्रणयनं कुर्यादित्यर्थः । पशु­का­म­श्चे­द्य­ज­मानः चमसं विहाय गोदोहने अप्प्रणयनं कुर्यादिति भावः । तथा चाप्प्र­ण­य­ना­श्रि­तेन गोदोहनेन पशुलक्षणं फलं भावयेदिति वाक्यार्थः ।

इममेवार्थं सङ्ग्र­हे­णो­प­पा­द­यति –
अपां प्रणयनमिति ।
जलपूरणमित्यर्थः ।

गोदोहनस्येति ।
एतस्य दर्शा­द्य­धि­कृ­ता­धि­का­रि­त्व­मि­त्यु­त्त­रे­णा­न्वयः । दर्शादौ यः अधिकारी स गोदोहने अधिकारी तस्मा­द्द­र्शा­द्य­धि­कृ­ता­धि­का­रित्वं गोदोहनस्येति भावः ।

अधि­कृ­ता­धि­का­रित्व एवो­दा­ह­र­णा­न्त­र­माह –
यथा वेति ।
दर्श­पू­र्ण­मा­साभ्यां दर्श­त्रि­क­पौ­र्ण­मा­स­त्रि­का­भ्या­मि­त्यर्थः । दर्शा­द्यु­त्त­र­का­ल­वि­हि­तेन सोमयागेनेष्टं भावयेदिति वाक्यार्थः ।

एकप्रयोगवचनेति ।
प्रयोगानुष्ठानं तस्य वचनं विधिः स एक इत्यर्थः ।

श्रुत्या­दि­भि­रिति ।
श्रुत्य­र्थ­पा­ठ­स्था­न­मु­ख्य­प्र­वृ­त्त्या­ख्यानि क्रमबोधकानि षट् प्रमाणानि तैरित्यर्थः । तथा च हृदयाग्रे अवद्यतीत्यत्र अवदानं कुर्यादिति पाठ­क्र­मा­नु­सा­रे­णा­नु­ष्ठा­न­प्र­ति­पा­द­कै­क­वि­धि­प­रि­गृ­ही­ता­ना­म­व­दा­ना­ना­म­ग्र­प­द­रू­प­श्रुत्या पाठक्रमानुसारेण च क्रमो बोध्यते । इष्ट्वा सोमेन यजेतेत्यत्र दर्श­सो­म­या­ग­मुक्त्वा श्रुत्या क्रमो बोध्यते प्रयाजादीनां तु पाठक्रमानुसारेण च क्रमो बोध्यते यथायोग्यमेवं सर्वत्र क्रम ऊहनीय इति भावः ।

श्रुति­लि­ङ्गा­दि­क­मिति ।
श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­ण­स्था­न­स­मा­ख्या­रू­पा­ण्य­ङ्ग­त्व­बो­ध­कानि षट् प्रमाणानि जन्मादिसूत्रे निरूप्यन्ते ।

धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­र­धि­कृ­ता­धि­का­रित्वे प्रमाणमस्तीति शङ्कते –
नन्विति ।

अधि­कृ­ता­धि­का­रि­त्व­मिति ।
धर्म­वि­चा­रो­त्त­र­काले विहितस्य ब्रह्मविचारस्य कर्मा­धि­कृ­त­पु­रु­षा­धि­का­र­वत्त्वं भाती­त्ये­क­क­र्तृ­क­त्व­ला­भा­त्क्र­मा­र्थो­थ­शब्द इति भावः ।

ननु कथ­म­शु­द्ध­चि­त्त­वि­ष­यत्वं शब्द­त­स्त्व­प्र­ती­य­मा­न­त्वा­दि­त्यत आह –
एतदुक्तं भवतीति ।

रागेण ज्ञायत इति ।
रागेण लिङ्गेनानुमीयत इत्यर्थः । तत्राप्यशुद्धौ वनी भवेदिति । गृहस्थाश्रमेपि चित्त­शु­द्ध्य­भावे सति वानप्रस्थाश्रमं कुर्यादित्यर्थः । तथैव कालमाकलयेदिति एवप्रकारेण चतुर्थ आश्रमे निषिध्यते मरणपर्यन्तं तस्मिन् वानप्रस्थाश्रमे एव स्थातव्यमिति भावः ।

तस्मादिति ।
त्वयो­दा­हृ­त­श्रु­ति­स्मृ­त्यो­र­शु­द्ध­चि­त्त­वि­ष­य­त्वा­दि­त्यर्थः ।

अनयोरिति ।
धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­रि­त्यर्थः ।

धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­रिति भाष्यस्यार्थमाह –
मीमांसयोरिति ।

ननु स्वर्गफलकस्य पूर्वतन्त्रस्य कथं मोक्ष­फ­ल­क­त्व­मि­त्या­श­ङ्क्याह –
वदन्ति हीति ।

एकवेदार्थेति ।
वेदार्थयोः धर्म­ब्र­ह्म­णो­र्वे­दा­र्थ­त्वे­नै­की­क­रणं कृत्वा जिज्ञास्यैकत्वं बोद्धव्यम् ।

एक­फ­ल­क­त्वा­दे­क­क­र्तृ­त्व­मु­दा­ह­रति –
तथा चाग्नेयादीति ।
आग्ने­या­ग्नी­षो­मी­यो­पां­शु­याजाः पौर्णमासत्रिकं आग्नेययाग एकः ऐन्द्रो­पां­शु­यागौ द्वौ मिलित्वा दर्शत्रिकं तथा च षड्यागा भवन्तीति भावः ।

एक­जि­ज्ञा­स्य­क­त्वा­दे­क­क­र्तृ­क­त्व­मु­दा­ह­रति –
द्वाद­शा­ध्या­या­ना­मिति ।

क्रमवदिति ।
यथा आग्नेयादीनां पाठ­क्र­मा­नु­सा­रे­णा­नु­ष्ठा­न­क्रमः यथा च द्वादशाध्यानां सङ्गत्या प्रथमाध्याये द्विती­या­ध्या­या­ध्य­य­न­क्र­म­स्त­द्व­दि­त्यर्थः ।

सौर्यं चरुं निर्व­पे­द्ब्र­ह्म­व­र्च­स­कामः, अर्यम्णो चरुं निर्व­पे­त्स्व­र्ग­कामः, प्राजापत्यं चरुं निर्व­पे­च्छ­त­कृ­ष्ण­ल­मा­यु­ष्काम इति श्रुत्य­व­ष्ट­म्भेन फलभेदं क्रमेणोपपादयन् एक­क­र्तृ­क­त्वा­भा­वेन क्रमविवक्षाभावं दृढयति –
यथा सौर्येति ।
कृष्णलो नाम माषतुल्यः सुवर्णखण्डः ।

कामचिकित्सेति ।
कामशास्त्रे स्त्रीरूपः क्रमजिज्ञास्यः काम्यत इति कामो विषय इत्यर्थः । चिकि­त्सा­शास्त्रे शरीरं जिज्ञास्यमिति फल­भे­दा­न्नै­क­क­र्तृ­क­त्व­मतो न क्रमापेक्षेति भावः ।

तत्रेति ।
फल­भे­द­जि­ज्ञा­स्य­भे­द­यो­र्मध्य इत्यर्थः ।

तद्विरुद्धमिति ।
कर्म­फ­ल­वि­रु­द्ध­मि­त्यर्थः ।

ब्रह्म­ज्ञा­न­ञ्चेति ।
यथा शुक्तिज्ञानं स्वकार्यभूतायां शुक्त्य­धि­ष्ठा­न­चै­त­न्य­वि­ष­य­का­ज्ञा­न­नि­वृत्तौ स्वव्यतिरिक्तं साधनान्तरं नापेक्षते तथा ब्रह्मज्ञानमपि स्वव्यतिरिक्तं साधनान्तरं स्वकार्यभूतायां ब्रह्म­चै­त­न्य­वि­ष­य­का­ज्ञा­न­नि­वृत्तौ नापेक्षत इति भावः ।

न समुच्चय इति ।
समु­च्च­या­स­म्भ­वे­नै­क­क­र्तृत्वं नास्तीति भावः ।

कृति­सा­ध्य­त्वा­दिति ।
धर्मस्य कृति­सा­ध्य­त्वा­त्कृ­ति­ज­न­क­ध­र्म­ज्ञा­न­काले धर्म­स्या­स­त्त्व­मि­त्यर्थः । नन्वनुष्ठानं विना धर्मो­त्प­त्त्य­भावे धर्मज्ञानं कथमिति चेन्न । अती­ता­ना­ग­त­घ­ट­वि­ज्ञा­न­व­त्त­द्ध­र्म­श्र­व­णेन तज्ज्ञा­न­स्या­नु­भ­व­सि­द्ध­त्वा­दिति भावः ।

जिज्ञास्यभेदे हेत्व­न्त­र­प­र­त्वे­नो­त्त­र­भा­ष्य­म­व­ता­र­यति –
मानतोपीति ।
प्रमे­य­यो­र्ध­र्म­ब्र­ह्मणोः प्रमाणभेदादपि भेदमाहेत्यर्थः ।

अत्र धर्मे ब्रह्मणि च अज्ञातत्वं समा­न­मि­त्य­भे­प्रे­त्याह –
अज्ञा­त­ज्ञा­प­क­मिति ।

बोधकत्वमिति ।
चोदनानिष्ठं शाब्द­बो­ध­ज­न­क­त्व­मि­त्यर्थः । तथा च चोद­ना­ज­न्य­शा­ब्द­बो­ध­वै­ल­क्ष­ण्यात् बोध­क­त्व­वै­ल­क्षण्यं ततो प्रमा­ण­वै­ल­क्ष­ण्य­मिति भावः ।

स्वविषय इति – भाष्य­प्र­ती­क­मा­दाय मतभेदेन विषयभेदमाह –
स्वविषये धर्म इति ।
स्वशब्देन वाक्यमुच्यते । यागादौ वाक्येन पुरुषः प्रवर्त्यते तस्मा­द्वा­क्य­ज­न्य­प्र­वृ­त्ति­वि­ष­य­त्व­मेव वाक्य­वि­ष­य­त्व­मि­त्यर्थः ।

पुरुषमिति ।
पुरुषं प्रवर्तयदेव पुरु­ष­म­व­बो­ध­य­ती­त्य­न्वयः ।

बोध­य­त्ये­वे­त्ये­व­का­र­व्या­व­र्त्य­माह –
न प्रवर्तयतीति ।
पुरु­ष­मि­त्य­नु­षङ्गः ।

ननु ब्रह्मबाक्यं कुतः पुरुषं न प्रव­र्त­य­ती­त्या­श­ङ्क्याह –
विषयाभावादिति ।
पुरु­ष­प्र­वृ­त्ति­वि­ष­या­भा­वा­दि­त्यर्थः । यथा धर्मचोदनास्थले पुरुषप्रवृत्तेः साध्ययागादिरूपो विषयो विद्यते तद्वदत्र न कश्चि­द्वि­ष­योऽस्ति ब्रह्मणस्तु सिद्धस्य पुरु­ष­प्र­वृ­त्त्य­सा­ध्य­त्वे­ना­वि­ष­य­त्वा­दिति भावः । ज्योति­ष्टो­म­वा­क्यस्य त्वया कर्म कर्तव्यम् इति कर्म­प्र­वृ­त्ति­ज­न­क­त्वे­नैव पुरुषं प्रति कर्मबोधकत्वं ब्रह्मवाक्यस्य तु त्वं ब्रह्माभिन्न इति जीवस्य ब्रह्म­त्व­बो­ध­क­त्व­मेव, तथा चाख­ण्डा­र्थ­ब्र­ह्म­वि­ष­य­का­त्प्र­वृ­त्त्य­ज­न­का­च्छा­ब्द­बो­धा­त्क­र्म­वि­शे­ष्य­क­पु­रु­ष­क­र्त­व्य­त्व­प्र­का­र­क­शा­ब्द­बो­धस्य प्रवृत्तिजनकस्य विलक्षणत्वेन चोदनारूपप्रमाणे बोध­क­त्व­वै­ल­क्ष­ण्य­म­स्तीति समुदायार्थः ।

नन्वेतावता प्रवर्तकत्वेन बोधकत्वं धर्म­वा­क्य­स्योक्तं तच्च ब्रह्म­वा­क्य­स्या­प्य­स्त्येव ब्रह्मवाक्येन ज्ञाने पुरुषः प्रवर्त्यत इति प्रसिद्ध्या ज्ञानरूपे विषये पुरु­ष­प्र­व­र्त­क­त्वे­नैव तस्य ब्रह्म­बो­ध­क­त्वा­दिति शङ्कते –
नन्विति ।

अर्थानुसारात् व्युत्क्रमेण भाष्यमवतारयति –
ब्रह्मचोदनयेति ।

स्वजन्यज्ञान इति ।
अवबोधस्य ब्रह्म­वा­क्य­ज­न्य­त्वा­द्ब्र­ह्म­वाक्यं स्वजन्यज्ञाने स्वयं प्रमाणमेव न प्रव­र्त­क­मि­त्यत्र दृष्टा­न्त­मा­हे­त्यर्थः ।

मानादेवेति ।
आदिशब्देन प्रमेयादिकं ग्राह्यम् ।

वाक्यार्थज्ञान इति ।
ब्रह्मा­त्मै­क्य­ज्ञान इत्यर्थः । प्रमाणप्रमेययोः सत्त्वे ज्ञानं स्वय­मे­वो­त्प­द्यते तत्र न प्रवृ­त्ति­र्हे­तु­र­न्यथा दुर्ग­न्धा­दि­ज्ञानं न स्यादिति भावः ।

प्रवृ­त्ति­ज­न­क­त्वा­ज­न­क­त्व­वै­ल­क्ष­ण्या­च्छा­ब्द­बो­ध­वै­ल­क्षण्यं वक्तव्यं शाब्द­बो­ध­वै­ल­क्ष­ण्या­द्बो­ध­क­त्व­वै­ल­क्ष­ण्येन शब्द­प्र­मा­ण­वै­ल­क्ष­ण्यस्य सत्त्वा­त्प्र­मे­य­जि­ज्ञा­स्य­वै­ल­क्षण्यं च वक्तव्यम् , तस्मात् जिज्ञा­स्य­भे­दा­न्नै­क­क­र्तृ­कत्वं तन्त्रद्वयस्य ततः क्रमा­पे­क्षा­भा­वेन क्रमविवक्षाया अभा­वा­न्ना­न­न्त­र्यो­क्ति­द्वारा क्रमार्थोऽथशब्द इत्येतमर्थं हृदि निधाय सङ्ग्रहेण भाष्यार्थं परिष्करोति –
तथा चेति ।
उदासीनत्वं प्रव­र्त­क­भि­न्न­त्वम् ।

स्वय­म­वा­न्त­र­प्र­कृ­त­मु­प­सं­हृत्य पर­म­प्र­कृ­तो­प­सं­हा­रा­र्थ­क­भा­ष्य­म­व­ता­र­यति –
एवमिति ।
उक्त­री­त्ये­त्यर्थः ।

तच्छ­ब्दा­र्थ­क­थ­न­द्वारा उक्तरीतिमेवाह –
अथशब्दस्येति ।

किम­पी­त्यं­श­स्या­र्थ­माह –
पुष्कलकारणमिति ।
एवं समुच्चयवादिना यदुक्तं तत्सर्वं यस्मात् खण्डितं तस्मा­द­थ­श­ब्द­स्या­र्था­न्त­र­त्वा­स­म्भ­वा­त्सूत्रे यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पु­ष्क­ल­का­र­ण­मा­न­न्त­र्या­व­धि­भूतं वक्त­व्य­मि­त्या­हे­त्यर्थः ।

भाष्ये –
अवबोधस्य चोद­नाऽ­ज­न्य­त्वा­दिति ।
अजन्यत्वादिति च्छेदः । तस्मात्किमपि वक्तव्यमिति । यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणं वक्तव्यमिति तच्छ­ब्दा­ध्या­हा­रेण भाष्यं योजनीयम् ।

अमुत्रेति ।
परलोकेपीत्यर्थः ।

ज्ञातुं चेति ।
अपरोक्षीकर्तुं चेत्यर्थः ।

तस्मा­द­थ­श­ब्दे­नेति |
तस्मा­द­न्व­य­व्य­ति­रे­काभ्यां साधनचतुष्टयस्य हेतु­त्वा­दि­त्यर्थः ।

व्याख्याने –
पुर­स्ता­दे­वो­क्त­मिति ।
पूर्व­स्मि­न्स­म्ब­न्ध­ग्रन्थ एवोपपादितमिति भावः ।

ननु विवेकादिसत्त्वे विचारः तद्द्वारा साक्षा­त्का­र­श्चे­त्य­न्व­य­स­त्त्वेपि विवेकाद्यभावे ब्रह्म­वि­चा­रा­द्य­भाव इति न व्यतिरेकः कथ­ञ्चि­त्कु­तू­ह­ल­तया बहु­श्रु­त­त्व­बुद्ध्या वा दैववशाद्वा विवेकादिरहितस्य ब्रह्म­वि­चा­र­प्र­वृ­त्ति­द­र्श­ना­दि­त्या­श­ङ्क्याह –
कथ­ञ्चि­त्कु­तू­ह­ल­त­येति ।
विवेकाद्यभावे फल­प­र्य­न्त­ज्ञा­न­प्र­ति­ब­न्ध­क­सा­हि­त्य­वि­चा­र­स­त्त्वेपि तद्र­हि­त­वि­चा­रा­भावो विद्यत इति व्यति­रे­क­सि­द्धि­रिति भावः ।

सुकृतमिति ।
पुण्य­क­र्म­फ­ल­मि­त्यर्थः । प्रल­य­प­र्य­न्त­म­व­स्था­ना­च्चि­र­का­ला­व­स्था­यि­त्व­मेव अक्षय्यत्वमिति सिद्धा­न्त्य­भि­प्रायः पूर्व­प­क्ष्य­भि­प्रा­यस्तु नित्यत्वमिति भेदः ।

भेदादिति ।
जीवस्य ब्रह्मणः सका­शा­द्भे­द­स­त्त्वा­दि­त्यर्थः । नाहमीश्वर इति प्रत्य­क्षा­दि­सि­द्ध­भे­दे­ना­भे­दस्य बाधि­त­त्वा­ज्जी­वस्य ब्रह्म­त्व­म­यु­क्त­मिति भावः ।

तस्येति ।
यथा लोष्ठ­स्या­कि­ञ्चि­त्क­र­त्वेन सुख­प्रा­प्ति­दुः­ख­नि­वृ­त्त्य­न्य­त­र­रू­प­त्वा­यो­ग­स्तथा स्वरू­पा­व­स्था­न­रू­प­मो­क्षस्य अकि­ञ्चि­त्क­र­त्वेन सुख­दुः­खा­भा­वा­न्य­त­र­रू­प­पु­रु­षा­र्थ­त्वा­यो­गा­च्चे­त्यर्थः ।

अनुवादे बीजमाह –
अथशब्देनेति ।
अथशब्देन यदु­क्त­मि­त्य­न्वयः ।

अर्थादिति ।
अन्व­य­व्य­ति­रे­क­ब­ला­दा­र्थि­का­र्थ­त­ये­त्यर्थः ।

आर्थि­क­हे­तु­त्व­स्येति ।
साध­न­च­तु­ष्ट­य­नि­ष्ठ­स्या­र्थ­सि­द्ध­हे­तु­त्व­स्ये­त्यर्थः ।

अनुवादस्य प्रयोजनमाह –
आक्षेपेति ।

ननु भवत्वतःशब्द आक्षे­प­नि­रा­सा­या­नु­वा­द­क­स्त­थापि कथं निरास इत्याशङ्क्य निरा­स­प्र­ति­पा­द­क­त्वे­नो­त्त­र­भा­ष्य­म­व­ता­र­यति –
उक्तमिति ।
विवे­का­दि­क­मि­त्यर्थः ।

श्रुत्यर्थस्य कर्म­फ­ला­नि­त्य­त्वस्य दृढीकरणाय व्याप्ति­द्व­य­स­ह­का­रित्वं श्रुतेर्दर्शयति –
यदल्पमिति ।
अल्पं मध्य­म­प­रि­मा­ण­व­दि­त्यर्थः । मर्त्यं ध्वंस­प्र­ति­यो­गी­त्यर्थः । कृतकं कार्यमित्यर्थः ।

न्यायवतीति ।
स्वोक्ता­र्थ­प्र­ति­पा­द­क­व्या­प्ति­म­दि­त्यर्थः । ’तद्यथेह कर्मचितो लोकः क्षीयत’ इत्यादिश्रुतेः पाप­स­ह­कृ­त­त्वा­त्प्रा­ब­ल्य­म­क्ष­य्य­त्व­श्रु­तेस्तु कर्म­फ­ल­नि­त्य­त्व­बो­ध­कत्वे तद­भा­वा­द्दौ­र्बल्यं तस्मा­त्त­द्य­थे­हे­त्या­दि­श्रु­ति­र­क्ष­य्य­त्व­श्रु­ते­र्बा­धि­केति भावः ।

भाष्य­स्था­दि­श­ब्दार्थं श्रुत्यन्तरं प्रमाणयति –
अतोऽन्यदिति ।
ब्रह्मणः व्यतिरिक्तं सर्वं मिथ्या­भू­त­मि­त्यर्थः ।

मोक्षस्य पुरुषार्थत्वं स्फोरयति –
यथेति ।

ननु मोक्षस्य सुख­दुः­खा­भा­वा­न्य­त­र­रू­प­त्वे­प्य­पु­रु­षा­र्थ­त्व­मेव स्यात् वृत्ति­वे­द्य­त्वा­भा­वे­ना­ज्ञा­त­त्वा­ज्ज्ञातो हि पुरुषार्थ इत्युच्यत इत्याशङ्क्याह –
अपारं स्वय­ञ्ज्यो­ति­रिति ।
वृत्ति­वे­द्य­त्वा­भा­वेपि ब्रह्मणः स्वप्र­का­श­त्वे­ना­न­न्दा­नु­भ­वा­न्मोक्षः पुरुषार्थ एव स्वप्रकाशत्वेन तस्य ज्ञात­त्वा­त्त­स्मा­न्मु­मुक्षा सम्भवतीति भावः ।

भेदा­द्ब्र­ह्मत्वं जीव­स्या­यु­क्त­मिति यदुक्तं तद्दूषयति –
जीवत्वादेरिति ।

उक्त एवेति ।
उपोद्घातग्रन्थ इति शेषः । नाहमीश्वर इति प्रतीतेरहमंशे विशि­ष्ट­वि­ष­य­क­त्वेन तया विशिष्टस्यैव जीवस्य ब्रह्मत्वं निषिध्यते न शोधितस्य जीवस्य तथा च जीवत्वं कल्पितं तस्मा­द्ब्र­ह्म­त्व­मेव वास्तवं तस्येति भावः ।

महा­प्र­क­र­णो­प­सं­हा­रा­र्थ­क­मु­त्त­र­भा­ष्य­मि­त्य­भि­प्रेत्य तच्छ­ब्दा­र्थ­क­थ­न­द्वारा तद्भा­ष्य­म­व­ता­र­यति –
एवमिति ।
अथातःशब्दाभ्यां साधनचतुष्टयस्य हेतु­त्व­स­म­र्थ­न­द्वारा तद्वतोऽधिकारिणः सम­र्थि­त्वा­च्छा­स्त्र­मा­र­म्भ­णी­य­मि­त्या­हे­त्यर्थः ।

सूत्र­वा­क्य­पू­र­णा­र्थ­मिति ।
सूत्र­वा­क्य­पू­र­णार्थं यदध्याहृतं कर्तव्यपदं तस्या­न्व­या­र्थ­मि­त्य­न्वयः ।

कर्म­ज्ञा­ना­र्थ­मिति ।
कर्म­का­र­क­ज्ञा­ना­र्थ­मि­त्यर्थः । एवमुत्तरत्र विज्ञेयम् ।

कर्मण एवेति ।
कर्मत्वं नाम विषयत्वम् , इच्छायाः विषयस्यैव प्रयो­ज­न­त्वा­दि­त्यर्थः । यथा स्वर्ग­स्ये­च्छे­त्युक्ते स्वर्गविषयिणी इच्छेति बोधा­त्स्व­र्ग­स्ये­च्छा­क­र्मत्वं तत्फलत्वं च सम्भवति, तथा ब्रह्मणो जिज्ञा­से­त्युक्ते ब्रह्मविषयिणी जिज्ञासेति बोधाद्ब्रह्मणः ज्ञान­द्वा­रे­णे­च्छा­क­र्मत्वं तत्फलत्वं च सम्भवतीति भावः ।

सा हि तस्येति ।
सा हि तस्य ज्ञातुमिच्छेति शाब­र­भा­ष्य­वा­क्यम् । तस्यार्थः । सा धर्मजिज्ञासा । तस्य धर्मस्य ज्ञातुमिच्छेति । इच्छाप्राधान्ये तावदिच्छायाः कर्म­फ­ल­यो­रै­क्या­त्क­र्म­णश्च प्रथ­मा­पे­क्षि­त­त्वेन प्राधा­न्या­त्क­र्मणि षष्ठीसमासः स्याद्वि­चा­र­प्रा­धान्ये तु कर्म­फ­ल­यो­र्भे­दा­त्प्र­यो­ज­न­वि­व­क्षया चतुर्थीसमासः स्यादित्येवं मुख्या­र्थे­च्छा­भि­प्रा­येण विचा­र­ल­क्ष­णा­भि­प्रा­येण च समा­स­द्व­य­मु­प­प­द्यत इति समु­दा­य­ग्र­न्थार्थः ।

अधुनेति ।
ब्रह्म­प­द­स्या­र्थ­नि­र्दे­शा­व­सरे प्राप्ते सूत्रकार एव निर्दे­श्य­ती­ति­ब्र­ह्म­प­दा­र्थ­मा­हे­त्यर्थः । ब्रह्म­क्ष­त्र­मि­त्यत्र ब्रह्मशब्देन ब्राह्म­ण­जा­ति­रु­च्यते ।

भाष्य­स्था­दि­श­ब्दार्थं दर्शयति –
इदं ब्रह्मेति ।
अत्र ब्रह्मशब्देन जीव उच्यते एवं क्रमेण उत्तरत्र योजनीयम् ।

जगत्कारणत्वेति ।
जात्यादौ जग­त्का­र­ण­त्वा­स­म्भ­वेन पूर्वो­त्त­र­वि­रो­धा­द्ब्र­ह्म­श­ब्दस्य न जात्या­द्य­र्थ­क­त्व­मिति परिहारार्थः ।

वृत्त्यन्तर इति ।
प्राची­न­व्या­ख्यान इत्यर्थः ।

सम्ब­न्ध­सा­मा­न्य­मिति ।
सम्ब­न्ध­त्व­वि­शष्टः सम्बन्ध इत्यर्थः । सम्ब­न्ध­मा­त्र­मिति यावत् ।

जिज्ञा­स्या­पे­क्ष­त्वा­दि­त्या­दि­हे­तु­भाष्यं विवृणोति –
जिज्ञा­से­त्य­त्रेति ।
सन्वाच्यायाः सन्प्रत्ययस्य वाच्यार्थभूताया इत्यर्थः ।

कर्मेति ।
कर्मत्वं विषयत्वम् ।

सकर्मकक्रियाया इति ।
सकर्मकेच्छाया इत्यर्थः ।

विषयज्ञानेति ।
विषयस्य ज्ञानमिति विग्रहः । ब्रह्मजिज्ञासा नाम ब्रह्मविषकं यज्ज्ञानं तद्विषयकेच्छा तथा च सक­र्म­क­क्रि­या­रू­पायाः परम्परया ब्रह्म­वि­ष­य­क­जि­ज्ञा­सायाः प्रथमं जिज्ञा­स्य­ब्र­ह्म­रू­प­क­र्मा­पे­क्ष­त्वा­त्क­र्मणि षष्ठ्येव परिग्राह्या न शेषषष्ठीति भावः ।

प्रथमं ब्रह्म­स्व­रू­प­जि­ज्ञासा किमर्था ब्रह्म­प्र­मा­ण­जि­ज्ञासा तल्ल­क्ष­ण­जि­ज्ञासा वा स्यात्तथा सति लक्ष­ण­प्र­मा­णा­दे­रेव कर्मत्वं स्याद्ब्र­ह्म­णस्तु सम्ब­न्धि­त्व­मात्रं तथा च ब्रह्म­स­म्ब­न्धिनी प्रमा­णा­दि­क­र्मिका जिज्ञासेति ब्रह्मांशे शेषषष्ठीं साधयितुं शङ्कते –
ननु प्रमाणादिकमिति ।
अन्यदेव ब्रह्म­णो­न्य­दे­वे­त्यर्थः । तत्कर्मास्तु जिज्ञा­सा­क­र्मा­स्त्वि­त्यर्थः । शेषितया प्रधा­न­त­ये­त्यर्थः ।

श्रुतं कर्मेति ।
ब्रह्मणो जिज्ञासेति शब्दादविलम्बेन प्रतीयमानं ब्रह्मणः कर्मत्वं त्यक्त्वा शब्दा­द­प्र­ती­य­मानं तात्प­र्या­द्वि­ल­म्बेन प्रतीयमानं प्रमाणादीनां कर्मत्वं ब्रह्मणः सम्ब­न्धि­त्व­मात्रं च कल्पयन् शेषवादी करस्थं पिण्डमुत्सृज्य करं लेढीति न्यायमनुसरति, तथा च शेष­ष­ष्ठी­प­रि­ग्रहे ब्रह्मणः प्रती­त­क­र्म­त्वा­लाभ एव दोष इति भावः ।

गूढाभिसन्धिरिति ।
ब्रह्मा­श्रि­ता­शे­ष­वि­चा­र­प्र­ति­ज्ञा­रू­प­फले गूढा­भि­स­न्धि­रि­त्यर्थः । सम्ब­न्धि­सा­मान्ये प्रोक्ते तत्सा­म­र्थ्या­त्का­र­क­स­म्ब­न्ध­वि­शे­ष­श्चा­र्थ­तो­व­ग­म्यत इत्येतावता षष्ठी शेष इत्युक्तं नार्थादपि कार­क­स­म्ब­न्धा­प्र­ति­भास इत्युक्तमिति शेषवादिनो मतम् , तथा च ब्रह्म­स­म्ब­न्धि­जि­ज्ञा­सेति बोधेन ब्रह्म­क­र्म­क­जि­ज्ञा­सा­प्य­र्था­द­व­ग­म्यते तस्माद्ब्रह्मणः कर्मत्वलाभ इति शेषवादी शङ्कत इति भावः । ’शेष­ष­ष्ठी­प­रि­ग्र­हे­पीति’ भाष्येण अशे­ष­वि­चा­र­प्र­ति­ज्ञा­रू­प­फ­ल­ला­भा­यैव शेषषष्ठीं परि­गृ­ह्या­र्थि­क­क­र्म­त्व­स्वी­का­रा­त्तस्य शेषवादिनः प्रयासः सार्थकः एव तथा च ’व्यर्थः प्रयासः स्यादि’त्या­द्यु­त्त­र­भा­ष्य­वि­रो­ध­स्त­त्प­रि­हा­रा­येदं भाष्यं गूढाभिसन्धिना शङ्कत इति व्याख्यातमिति मन्तव्यम् ।

षष्ठीति ।
षष्ठी शेष इति व्याकरणसूत्रेण सम्बन्धमात्रे षष्ठी­वि­धा­ना­दि­त्यर्थः ।

कर्मत्वे पर्यवस्यतीति ।
विषयत्वे पर्य­व­स्य­ती­त्यर्थः । विष­य­वि­ष­यि­भा­व­स­म्बन्धे पर्यवस्यतीति भावः । यद्यपि ’षष्ठी शेष’ इति सम्बन्धमात्रे षष्ठी विहिता तथापि व्यवहारो विशेषमालम्बते बहवश्च विशेषसम्बन्धाः तत्रान्यतमो विशेषसम्बन्धः प्रतिपत्तव्यः अन्यथा व्यव­हा­रा­नु­प­पत्तेः, तस्मात्स च सम्बन्धः क इति विशे­ष­जि­ज्ञा­सायां सक­र्म­के­च्छा­स­न्नि­धा­ना­त्क­र्म­त्व­मेव विशेषसम्बन्धो भवति ब्रह्मणो जिज्ञा­सा­क­र्मत्वं शेषषष्ठीपक्षे तु न विरुध्यत इति समुदायार्थः ।

अजानन्निवेति ।
तात्पर्यं ज्ञात्वापि वादिना तात्प­र्य­स्फु­टी­क­र­णा­न­न्त­र­मेव तद्व­क्त­व्य­मि­त्य­धुना अनु­रू­पो­त्त­र­मा­हे­त्यर्थः ।

यद्यपि ब्रह्मणः कर्मत्वालाभ इति दूष­ण­मा­र्थि­क­क­र्म­त्वोक्त्या परिहृतं तथापीच्छायाः प्रथ­मा­पे­क्षि­त­क­र्म­क­त्वेन ब्रह्मणः प्रथमं प्रती­त­क­र्म­त्वा­ला­भ­दोषो दुर्वार इति भाष्याभिप्रायं स्फुटीकुर्वन् एव­म­पी­त्य­स्या­र्थ­माह –
कर्मलाभेपीति ।
ब्रह्मणः कर्म­त्व­ला­भेऽ­पी­त्यर्थः ।

प्रतीकमादाय प्रत्य­क्ष­प­द­स्या­र्थ­माह –
प्रत्य­क्ष­मि­त्या­दिना विहितमित्यन्तेन ।
कृति कृदन्तस्य योगे सति कर्तृकर्मणोः कर्त्रर्थे कर्मार्थे च षष्ठी स्यादिति व्याक­र­ण­सू­त्र­स्यार्थः । आबन्तत्वेनेति च्छेदः । आका­र­प्र­त्य­या­न्त­त्वे­ने­त्यर्थः ।

कृदन्तस्येति ।
कृत्प्र­त्य­या­न्त­स्ये­त्यर्थः । जिज्ञासेत्यत्र सन्प्रत्ययः अ इति संज्ञिकः प्रत्ययः अकारप्रत्यय इति यावत् । उप्रत्ययश्चेति प्रत्ययाः सन्ति तथा च त्रयाणां प्रत्ययाणां मध्ये यः अप्र­त्य­य­स्त­द­न्त­त्वेन कृदन्तत्वं जिज्ञा­सा­प­द­स्येति भावः ।

विहितमिति ।
सत्रेण विहितमिति पूर्वेणान्वयः । तथा च शब्दादविलम्बेन प्रतीयमानं प्रत्यक्षमिति निष्कृष्टोऽर्थः ।

अशाब्दमिति ।
विलम्बेन तात्प­र्या­त्प्र­ती­य­मा­न­मि­त्यर्थः ।
ब्रह्मणः कर्मत्वे तात्पर्येण साधितेपि एवं कल्पयतस्तव प्रयासो व्यर्थ एवेति भावः ।

भाष्ये -
कर्मत्वं न विरुध्यत इति ।
कर्मत्वालाभदोषो नास्तीति भावः ।

सम्ब­न्ध­सा­मा­न्य­स्येति ।
विशेषनिष्ठत्वं विशे­ष­स­म्ब­न्ध­बो­ध­कत्वं सामा­न्य­स­म्ब­न्धस्य विशेषसम्बन्धे पर्य­व­स­न्न­त्वा­दि­त्यर्थः ।

सामा­न्य­द्वा­रे­णेति ।
सामा­न्य­स­म्ब­न्ध­द्वा­रे­णे­त्यर्थः ।

व्याख्याने –
लक्षणप्रमाणेति ।
लक्षणं च प्रमाणं च युक्तयश्च ज्ञानसाधनानि च फलं चेति विग्रहः ।

ब्रह्मकर्मक एवेति ।
एवकारेण प्रमा­णा­दि­क­र्म­क­वि­चारो व्यावर्त्यते ।

विचा­र­प्र­ति­ज्ञा­न­मिति ।
विचारस्य प्रतिज्ञानं प्रति­ज्ञे­त्यर्थः ।

यस्येति ।
मत्प्र­या­स­स्ये­त्यर्थः ।

अप्र­धा­न­प्र­मा­णा­दि­वि­चा­रान् शब्देनोपादाय प्रधानस्य ब्रह्म­वि­चा­र­स्या­क्षे­प­क­ल्प­ना­द्वारं मुखतः प्रधा­न­वि­चा­र­मे­वो­पा­दा­याऽ­प्र­धा­न­वि­चा­रा­णा­मा­क्षे­प­क­ल्प­न­मिति शेष­ष­ष्ठी­प­रि­ग्रहो न युक्त इत्याशयं स्फुटी­कु­र्व­न्नु­त्त­र­भा­ष्य­म­व­ता­र­यति –
त्वत्प्र­या­स­स्येति ।

स दृष्टान्तमाहेति ।
सदृष्टान्तं विवृणोतीत्यर्थः ।

तद्वि­जि­ज्ञा­स­स्वे­तीति ।
’यतो वा इमानि भूता­नी’त्या­दि­श्रु­ति­ग­त­त­द्वि­जि­ज्ञा­स­स्वेति अर्थः । मूलं विष­य­वा­क्य­त्वे­ना­भि­म­त­मि­त्यर्थः । तदिति द्वितीयया ब्रह्मणः कर्म­त्व­प्र­ति­पा­द­न­द्वारा प्रधानस्य ब्रह्मणो विचारः श्रुत्या प्रतिज्ञातो भवति तथा एकार्थत्वलाभाय सूत्रेणापि कर्म­त्व­प्र­ति­पा­द­न­द्वा­रैव प्रधानब्रह्मणो विचारः प्रतिज्ञातव्य इत्यवश्यं वक्तव्यमिति भावः ।

भाष्ये -
तद्विजिज्ञासस्व तद्ब्रह्मेतीति ।
स्वप्र­वि­ष्ट’त­द्वि­जि­ज्ञा­स­स्व­त­द्ब्र­ह्मे’त्य­नेन वाक्येनेत्यर्थः ।

प्रत्यक्षमेवेति ।
शाब्द­मे­वे­त्यर्थः । यतः ब्रह्मणः सका­शा­दु­त्प­त्त्या­दिकं भवति तद्ब्रह्म विजिज्ञासस्वेति श्रुतयः शब्दतः ब्रह्मणः कर्मत्वं दर्शयन्तीति भावः । इच्छायाः कर्मेति पूर्वेणान्वयः ।

व्याख्याने –
ब्रह्मज्ञानं त्विति ।
हेतुभूतस्य मूलस्य सिद्ध­स्व­रू­प­त्वात् साध्यस्वरूपं ब्रह्मज्ञानं कथं मूलमिति भावः ।

आवरणेति ।
आव­र­ण­नि­वृ­त्ति­रूपं नवशरावं जले­ना­भि­व्य­क्त­ग­न्ध­व­द­न्तः­क­रणे तद्वृत्त्या अभि­व्य­क्त­स्फु­र­ण­रूपं च ब्रह्म­स्व­रू­प­भूतं यच्चैतन्यं तदे­वा­व­ग­ति­रि­त्यर्थः । आव­र­ण­नि­वृ­त्ति­रू­प­त्व­म­भि­व्य­क्तेर्वा विशेषणं अभा­व­स्या­धि­क­र­ण­स्व­रू­प­त्वा­न्नि­वृ­त्ति­रू­प­त्व­म­धि­ष्ठा­नस्य अथवा आव­र­ण­व­त्त­न्नि­वृत्तेः कल्पि­त­त्वे­ना­धि­ष्ठा­न­मेव स्वरूपमिति भावः । अभि­व्य­क्ति­म­च्चै­त­न्य­मिति मतुपः प्रयो­गा­न्नि­त्या­भि­व्य­क्ति­वि­ल­क्षणा अप­रो­क्ष­ज्ञा­न­गम्या हि कल्पि­ता­भि­व्य­क्ति­र­स्तीति सिद्धम् ।

गमनस्य ग्रामः कर्मेति ।
ग्रामं गच्छतीत्यत्र ग्रामस्य कर्मत्वं नाम क्रिया­ज­न्य­फ­ल­शा­लित्वं तथा हि गमनरूपा या क्रिया तज्जन्यं फलं ग्राम­पु­रु­ष­सं­यो­ग­स्त­दा­श्र­यत्वं ग्रामोऽस्तीति लक्षणसमन्वय इति दिक् ।

तत्प्राप्तिरिति ।
ग्रामसंयोग इत्यर्थः ।

अवगतेरिति ।
अभि­व्य­क्ति­म­च्चै­त­न्य­रू­पा­व­ग­ते­रि­त्यर्थः । वृत्तिज्ञानरूपा ब्रह्मावगतिः अज्ञा­न­नि­व­र्त­क­तया पुरु­षा­भि­ला­षि­त्वात् पुरुषार्थ इति भाष्यार्थः ।

बीजमविद्येति ।
संसारबीजभूता या अविद्या अनाद्यविद्या सैवा­दि­र्य­स्या­न­र्थ­स्येति विग्रहः वृत्ति­ज्ञा­ने­ना­ज्ञा­न­स­हि­ता­न­र्थ­नि­वृ­त्ति­द्वारा चैत­न्य­म­भि­व्यक्तं भवति, तस्मा­द­भि­व्य­क्ति­म­च्चै­तन्यं ब्रह्मज्ञानस्य फलमित्युच्यत इति भावः ।

तृतीयवर्णकमिति ।
प्रथमसूत्रस्य तृती­य­व्या­ख्या­न­मि­त्यर्थः ।