अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

४ परिच्छेदः

प्रथमवर्णके विषयप्रयोजने आक्षिप्य तत्सद्भावसाधनेन विचारकर्तव्यता समर्थिता सम्प्रति पुनस्ते सम्बन्धं चाक्षिप्य तत्साधनद्वारा तत्कर्तव्यतां साधयितुं व्यवहितं वृत्तमनुवदन् वर्ण­का­न्त­र­प­र­त्वेन भाष्यमवतारयति –
प्रथमवर्णक इति ।

अधिकरणमारचयति –
ब्रह्म­प्र­सि­द्धीति ।

तर्ह्य­ज्ञा­त­त्वेति ।
प्रत्यक्षादिना यदज्ञातं वस्तु तत्प्रतिपाद्यं सद्विषयो भवति ज्ञातेऽर्थे हि शास्त्र­म­कि­ञ्चि­त्करं भवति तस्मात् ज्ञातस्य ब्रह्मणः शास्त्रे­णा­प्र­ति­पा­द्य­त्वा­द्वि­ष­यत्वं नास्तीति भावः ।

’यदि प्रसि­द्ध’मि­त्या­दि­भा­ष्यस्य विष­य­प्र­यो­ज­ना­क्षेपे मुख्य­ता­त्प­र्य­मुक्त्वा ’अथा­प्र­सि­द्ध’मि­त्या­दि­भा­ष्यस्य सम्ब­न्ध­प्र­यो­ज­ना­क्षेपे मुख्य­ता­त्प­र्य­माह –
अथाज्ञातमिति ।

इति ज्ञाना­नु­त्प­त्ते­रिति ।
ब्रह्मणः अप्र­ति­पा­द्य­त्वेन सम्ब­न्ध­स्या­प्र­सि­द्ध­त्वा­द­ख­ण्ड­ब्र­ह्म­सा­क्षा­त्का­र­स्या­नु­त्प­त्ते­रि­त्यर्थः । ज्ञानं प्रति वेदान्तविचारस्य हेतुत्वेन विचा­रा­त्प्रा­गा­पा­त­ज्ञा­न­मपि नास्तीति पूर्व­प­क्ष­ग्र­न्थार्थः ।

अन­धी­त­सा­ङ्ग­स्वा­ध्या­यस्य पुरुषस्य विचा­रा­त्प्रा­गा­पा­त­ज्ञा­ना­स­म्भ­वे­प्य­धी­त­स्वा­ङ्ग­स्वा­ध्या­यस्य पुरुषस्य विचा­रा­त्प्रा­गा­पा­त­ज्ञानं सम्भवत्येव तथा च निश्चयं प्रति विचारस्य हेतुत्वं न ज्ञानं प्रतीति सिद्धा­न्त­ता­त्प­र्य­माह –
आपातप्रसिध्येति ।
वेदा­न्ता­ना­म­प­रो­क्ष­नि­श्चा­य­क­त्वेपि वादि­भि­र­न्य­था­न्य­था­र्थस्य प्रति­पा­दि­त­त्वा­द्वे­दा­न्तेभ्यो जायमानं ज्ञान­म­प्रा­मा­ण्य­श­ङ्का­क­ल­ङ्कि­त­स्व­रू­पा­पातं भवति । तथा चापा­त­ज्ञा­न­वि­ष­य­त्वेन ब्रह्मणः प्रसि­द्धि­रा­पा­त­प्र­सि­द्धि­स्त­ये­त्यर्थः ।

व्याक­र­णा­द्बृ­ह­त्वा­द्ब्र­ह्मेति व्युत्पत्त्या सर्वो­त्कृ­ष्ट­त्व­स्व­रूपं निर­व­धि­क­म­ह­त्त्वा­भिन्नं व्यापकं निश्चीयते तच्च सर्वो­त्क­ष्ट­त्व­रू­प­व्या­प­कत्वं नित्य­शु­द्ध­बु­द्ध­मु­क्त­त्वा­दि­क­म­न्तरा सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्वा­दि­क­म­न्तरा च न सम्भवति तस्मा­द्बृ­ह­त्वा­द्ब्र­ह्मेति व्युत्पत्त्यैव सर्वो­त्कृ­ष्ट­ला­भार्थं नित्य­शु­द्ध­त्वा­दिकं सर्वज्ञत्वादिकं च प्रतीयते तथा च व्युत्पा­द्य­मा­न­ब्र­ह्म­श­ब्देन सगुणं निर्गुणं च ब्रह्म प्रसि­द्ध­मि­त्ये­त­मर्थं स्फुटीकर्तुं शङ्का­स­मा­धा­ना­भ्या­मु­त्त­र­भा­ष्य­म­व­ता­र­यति –
ननु केन मानेन ब्रह्मण इत्यादिना शक्ति­म­त्त्व­ला­भा­दि­त्य­न्तेन ।

सङ्गतिग्रहेति ।
शक्ति­ग्र­हे­त्यर्थः ।

ब्रह्म­प­द­व्यु­त्प­त्त्येति ।
व्याप­क­त्व­रू­पा­द्बृ­ह­त्वा­द्ब्र­ह्मेति ब्रह्म­प­द­व्यु­त्प­त्त्य­नु­स­र­णे­ने­त्यर्थः ।

ननु जाति­जी­व­क­म­ला­स­न­वे­देभ्यो विलक्षणे निर­ति­श­य­पु­रु­षार्थे मुमु­क्षो­र्जि­ज्ञा­सा­योग्ये वस्तुनि ब्रह्म­प­द­व्यु­त्प­त्त्यापि ब्रह्मशब्दस्य कथं वृत्ति­रि­त्या­श­ङ्क्याह –
अस्यार्थ इति ।

नन्वेवमपि यत्कि­ञ्चि­दा­पे­क्षि­क­म­ह­त्त्व­वि­शिष्टं वस्त्व­व­ग­म्य­ता­मि­त्यत आह –
सा च वृद्धिरिति ।
निरवधिकमहत्त्वं सर्वतो निर­व­ग्र­ह­म­ह­त्त्व­मि­त्यर्थः । सर्वो­त्कृ­ष्ट­त्व­मिति यावत् ।

सङ्को­च­का­भा­वा­दिति ।
उपपदं प्रकरणादिकं वा सङ्कोचकं, तदभावादित्यर्थः । यथा बृहद्घट इत्यत्र घट­प­द­स­म­भि­व्या­हा­रा­दा­पे­क्षिकं बृहत्वं प्रतीयते, तद्वदत्र किमपि सङ्कोचकं न प्रतीयते प्रत्यु­ता­स­ङ्को­चक एव, अन­न्त­प­द­स­ह­प्र­यो­ग­रू­प­ज्ञा­पकं चास्ति तथा च निर­ति­श­य­म­ह­त्त्व­स­म्पन्नं वस्तु ब्रह्मशब्दार्थ इति भावः ।

ननु नित्यत्वादयो गुणाः न ब्रह्म­श­ब्दा­र्थो­प­यो­गिनः अतस्ते कथं ब्रह्म­श­ब्दे­ना­व­ग­म्यन्ते तथा च नित्य­शु­द्ध­त्वा­द­योऽर्थाः प्रतीयन्त इति भाष्यं कथमित्याशङ्क्य गुणतोऽपकृष्टस्य वस्तुनः अल्प­त्व­बु­द्धि­द­र्श­ना­न्नि­त्य­त्वा­दि­गुणाः ब्रह्म­प­दा­र्थो­प­यो­गि­त्वेन प्रतीयन्त एवेत्याह –
निरवधिकमहत्त्वं चेति ।
अन्त­व­त्त्व­म­नि­त्य­त्वम् । आदि­श­ब्दे­ना­शु­द्ध­त्वा­दिकं गृह्यते ।

अल्पत्वेति ।
वस्तुनोल्पत्वं नाम देश­का­ल­व­स्तु­प­रि­च्छेद इत्यर्थः ।

लोके गुणहीनं दोषभूयिष्ठं वस्तु अल्पमिति मन्यते गुणभूयिष्ठं दोषहीनं वस्तु महदिति मन्यते तस्मा­द्ब्र­ह्म­व­स्तुनः अल्प­त्व­नि­रा­क­र­णेन गुणतो मह­त्त्व­स­म्पा­द­नाय बृह­त्त्वा­द्ब्र­ह्मेति व्युत्पत्यैव नित्यत्वादयः प्रतीयन्त इत्याह –
अत इति ।

बृह­त्व­बृं­ह्म­ण­त्व­यो­रे­का­र्थ­त्व­म­भि­प्रे­त्याह –
बृंहणत्वादिति ।
कल्पतरुकारैस्तु बृहत्वं व्यापकत्वं बृंहणत्वं शरी­रा­दि­प­रि­णा­म­रू­प­वृ­द्धि­हे­तु­त्व­मिति तयोर्भेदः उक्तः । अस्मिन् ग्रन्थे सा च वृद्धि­रि­त्या­द्यु­प­क्र­मा­नु­सा­रेण तयोरभेद एव ग्रन्थ­का­रा­भि­प्रेत इति तदभिप्रायेणेदं व्याख्यातमिति भावः । शुद्धत्वं व्युत्पत्त्या प्रतीयत इति पूर्वेणान्वयः ।

ननु जाति­जी­व­क­म­ला­स­नादौ ब्रह्म­श­ब्द­प्र­योगे सत्यपि नैतावानर्थः प्रतीयते कथमत्र बृह­ते­र्धा­तो­र­र्था­नु­ग­मा­द­प्ये­ता­दृ­श­स्या­र्थस्य प्रति­प­त्ति­रि­त्या­श­ङ्क्याह –
एवं सकलदोषशून्यमिति ।
नित्य­त्व­स­र्व­ज्ञ­त्वा­दि­वि­शिष्टः सगु­ण­नि­र्गु­ण­स्व­रूपः परिपूर्णोर्थः ब्रह्म­प­द­व्यु­त्पत्त्या प्रसिद्धः सन् निर्बाधं प्रतीयते जात्यादौ तु सङ्कोचकस्य सत्त्वा­न्नै­ता­दृ­शोर्थः प्रतीयत इति भावः ।

तथेति ।
यथा व्युत्प­त्य­नु­स­र­णात् निर्गुणं प्रसिद्धं तथा सगुणमपि तस्मादेव प्रसिद्धमिति भावः ।

तत्पदवाच्यस्य चेतनस्यापि सर्व­वि­ष­य­ज्ञा­ना­भावे सर्व­का­र्य­नि­य­म­न­श­क्त्य­भावे च प्रोच्यमाने सति कस्यचिदर्थस्य ज्ञाना­भा­वा­त्क­स्य­चि­त्का­र्यस्य उत्पा­द­न­श­क्त्य­भा­वा­च्चा­प­क­र्ष­प्राप्त्या अल्पत्वं स्यात्त­द्व्या­वृ­त्त्यर्थं सर्वज्ञत्वादिकं वक्तव्यमित्याह –
ज्ञेयस्य कार्यस्य चापरिशेष इति ।
कस्य­चि­ज्ज्ञे­यस्य वस्तुनः ईश्व­र­ज्ञा­ना­वि­ष­यत्वं कस्य­चि­त्का­र्यस्य वा ईश्व­र­श­क्त्य­वि­ष­य­त्व­मि­त्यर्थः । ज्ञेयस्य परिशेषः ज्ञानाविषयत्वं कार्यस्य परिशेषः शक्त्य­वि­ष­य­त्व­मिति भेदः ।

अल्प­त्व­प्र­स­ङ्गे­नेति ।
ईश्व­र­स्या­ल्प­त्व­प्र­स­ङ्गे­ने­त्यर्थः ।

भाष्ये -
बृहतेर्धातोरिति ।
बृह­ते­र्धा­तो­र्योर्थः परिपूर्णरूपः तेना­नु­ग­मा­त्स­म्ब­न्धा­न्नि­त्य­त्वा­दी­ना­मि­त्यर्थः । नित्यत्वादयः धात्वर्थेन परपूर्णवस्तुना सह सम्ब­न्ध­स­त्त्वा­द्ब्र­ह्म­श­ब्देन प्रतीयन्त इति भावः ।

सर्व­स्या­त्म­त्वा­च्चेति ।
ब्रह्मण इति शेष इति केचित् ।

व्याख्याने -
एवमिति ।
उक्त­री­त्ये­त्यर्थः । तत्प­दा­त्प्र­सि­द्धे­रि­त्या­दि­ग्रन्थः स्पष्टार्थः ।

न प्रत्येतीति नेति ।
न जानातीति यत्तन्नेत्यर्थः । अविचार्यत्वं प्राप्तमित्यर्थ इत्यतः प्राक्त­न­ग्र­न्थ­स्त्व­ति­रो­हि­तार्थः ।

आपातप्रसिद्ध्या विषयादिसिद्धिः साधिता सम्प्रति विशे­षा­प्र­सि­द्ध्यापि तां साध­य­ती­त्य­व­ता­र­यति –
यथेदं रजतमिति ।
यथा इदं रजतमितीदन्त्वेन सामान्यरूपेण शुक्तेः प्रसिद्धिः तथा अह­म­स्मी­त्या­त्म­त्व­सा­मा­न्य­ध­र्म­पु­र­स्का­रेण ब्रह्मणः प्रसिद्धिरस्ति न त्वश­ना­या­द्य­ती­त­त्वा­दि­वि­शे­ष­रू­पेण धर्मेण इति भावः ।

वाच्यभेदादिति ।
सत्यपदं मुख्या­मु­ख्य­स­त्स्व­रू­प­ब्र­ह्मा­का­श­श­ब­ल­रूपे सत्ये व्युत्पन्नम् , ज्ञानपदं चैत­न्या­न्तः­क­र­ण­वृ­त्ति­रू­प­मु­ख्या­मु­ख्य­ज्ञा­न­द्व­य­श­ब­ल­रूपे ज्ञाने व्युत्पन्नम् , आनन्दपदं च प्रत्य­ग्ब्र­ह्म­बु­द्धि­वृ­त्ति­रू­प­मु­ख्या­मु­ख्या­न­न्द­द्व­य­श­ब­ल­रूपे आनन्दे व्युत्पन्नम् , एवं नित्य­शु­द्ध­बु­द्ध­मु­क्ता­दी­न्यपि पदानि मुख्या­मु­ख्य­त­त्त­द­द्व­य­श­ब­ल­रूपे तस्मिन् व्युत्पन्नानीति द्रष्टव्यम् । अत्र सत्यता त्रिविधा मुख्य­नि­ष्ठाऽ­मु­ख्य­निष्ठा शबलनिष्ठा चेति । एतत्सर्वं सङ्क्षेपशारीरके सर्व­ज्ञा­त्म­मु­निभिः विस्त­रे­णो­प­पा­दि­तम् , तथा च शबलरूपं सत्यं सत्य­प­द­वा­च्यार्थः । अत्र सत्यत्वं सामान्यधर्मः मुख्या­मु­ख्य­श­ब­ल­नि­ष्ठ­स­त्य­त्वादि विशेषधर्मः । एवं जीवे­श्व­रो­भ­य­रू­पात्मा आत्म­प­द­वा­च्यार्थः । अत्रात्मत्वं सामान्यधर्मः जीवात्मत्वं पर­मा­त्म­त्व­मु­भ­य­नि­ष्ठा­त्मत्वं चेति त्रयो विशेषधर्माः । तथा मुख्यब्रह्म – कम­ला­स­ना­द्य­मु­ख्य­ब्रह्म उभयरूपब्रह्मेति ब्रह्मत्रयं तथा चोभयरूपं ब्रह्म ब्रह्म­प­द­वा­च्यार्थः । अत्र ब्रह्मत्वं सामान्यधर्मः मुख्या­मु­ख्यो­भ­य­नि­ष्ठ­ब्र­ह्म­त्वादि विशेषधर्माः । सर्वत्र मुख्यब्रह्मरूपं शुद्धचैतन्यं लक्ष्यार्थः अत एव सत्यादिपदानां न पर्यायता लक्ष्या­र्था­भे­देऽपि वाच्यार्थानां भिन्नत्वात् तथा च वाच्या­र्थ­भे­दा­देव ब्रह्मात्मनि सामान्यधर्मः विशेषधर्मश्च सिद्ध्यति । एवं सति अहमस्मीति सत्य­चै­त­न्य­रू­पा­त्म­त्वेन सामा­न्य­ध­र्मे­णा­त्म­त्व­प्र­सि­द्धि­रस्ति न तु ब्रह्माहमस्मीति लक्ष्या­र्थ­शु­द्ध­चै­त­न्य­रू­पा­ख­ण्ड­ब्र­ह्म­नि­ष्ठ­मु­ख्य­ब्र­ह्म­त्वेन विशेषधर्मेण अन्यथा वादिनां विप्रतिपत्तिर्न स्यादिति भावः ।

भाष्ये -
विप्र­ति­प­त्ते­रिति ।
विरुद्धा हि प्रतिपत्तिः तस्या इत्यर्थः । देहमात्रमिति मात्रशब्देन देहातिरिक्तं स्वत­न्त्र­चै­तन्यं नास्तीत्युच्यते ।

आत्मेति ।
अहं­प्र­त्य­या­ल­म्ब­न­मि­त्यर्थः । लोका­य­ति­का­श्चा­र्वाका इत्यर्थः ।

इन्द्रि­या­ण्ये­वेति ।
इन्द्रियाणां चक्षु­रा­दि­म­नः­प­र्य­न्तानां चेत­न­त्व­म­हं­प्र­त्य­य­वि­ष­य­त्व­रू­पा­त्मत्वं च मन्यन्त इत्यर्थः ।

मन इत्यन्य इति ।
मनसः चेत­न­त्व­मा­त्मत्वं च मन्यन्त इत्यर्थः ।

विज्ञा­न­मा­त्र­मिति ।
प्रत्य­भि­ज्ञा­नि­र्वा­हाय क्षणि­क­वि­ज्ञा­न­स­न्त­ति­रे­वा­हं­प्र­त्य­या­ल­म्ब­न­रू­पा­त्मेति मन्यन्त इत्यर्थः ।

शून्यमिति ।
असत्स्वरूप एवात्मेति मन्यन्त इत्यर्थः ।

अस्ति तद्व्यतिरिक्त इति ।
जीव­व्य­ति­रि­क्तो­स्ती­त्यर्थः ।

आत्मा स इति ।
सः ईश्वरः भोक्तुर्जीवस्य आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।

विप्रतिपन्ना इति ।
विरु­द्ध­प्र­ति­प­त्ति­मा­पन्ना इत्यर्थः ।

तदाभासेति ।
अत्र तच्छब्देन युक्तिवाक्ये गृह्येते ।

यत्कि­ञ्चि­त्प्र­ति­प­द्य­माना इति ।
अन्त्या­त्प­क्षा­द­र्वा­चीनं कञ्चित्पक्षं प्राप्यमाणा इत्यर्थः ।

व्याख्याने –
विप्र­ति­प­त्ती­रु­प­न्य­स्य­तीति ।
अत्र विरु­द्धा­र्थ­प्र­ति­पा­दकं वाक्यं विप्र­ति­प­त्ति­श­ब्दार्थः ।

तार्किकादीति ।
आदिशब्देन प्राभाकरादयो गृह्यन्ते । विप्र­ति­प­त्ति­को­टि­त्वेन देहेन्द्रियेति । संश­य­रू­प­वि­प्र­ति­प­त्ति­प्र­थ­म­को­टि­त्वेन देहे­न्द्रि­ये­त्यर्थः ।

अकर्तापीति ।
अकर्तापि जीव इत्यर्थः ।

निर­ति­श­य­स­त्त्व­मिति ।
निर­ति­श­य­स­त्त्वो­पा­धिकः जीवातिरिक्तः ईश्वर इति वदन्तीति भावः । निर­ति­श­य­स­त्त्व­रूपो गुणः योगिमते पारमार्थिकसत्यः सिद्धान्ते तु मायारूपत्वेन असत्य इति मतयोर्भेदः ।

स ईश्वर इति ।
योगिमतप्रसिद्ध ईश्वर इत्यर्थः ।

प्रती­क­मा­दा­या­त्म­प­द­स्या­र्थ­माह –
आत्मास्वरूपमिति ।
सोपाधिकतया जीवस्य भोक्तृत्वं कर्तृत्वं च वर्तते स्वत­स्त्व­भो­क्तृ­त्व­म­क­र्तृत्वं साक्षित्वं च तथा च जीवातिरिक्तो नेश्वर इति जीव­ब्र­ह्म­णो­रैक्यं वेदान्तिनो वदन्तीति भावः ।

विप्र­ति­प­त्ती­ना­मिति ।
पक्षा­न्त­रा­णा­मि­त्यर्थः ।
तासां विप्रतिपत्तीनां सुखबोधार्थमेव हि ।
प्रपञ्चोपि निरासश्च सङ्ग्रहेणोच्यते मया ॥
तथाहि केचित्तु वक्ष्य­मा­ण­श्रु­ति­यु­क्तिभ्यां स्थूलोऽहं कृशो­ह­मि­त्या­द्य­नु­भ­वाच्च स्थूल­श­री­र­मा­त्मेति वदन्ति । केचि­त्तू­क्त­श्रु­ति­यु­क्त्य­नु­भ­वा­ना­मा­भा­स­त्वा­न्मम शरीरमिति भेद­प्र­ती­ते­रि­न्द्रि­या­णा­म­भावे शरीरचलनाभावान्न शरीरस्यात्मत्वं किन्तु वक्ष्य­मा­ण­श्रु­ति­यु­क्तिभ्यां काणोऽहं बधि­रोऽ­ह­मि­त्या­द्य­नु­भ­वा­च्चे­न्द्रि­या­णा­मा­त्म­त्व­त्व­मिति वदन्ति । अन्ये तूक्त­श्रु­ति­यु­क्त्य­नु­भ­वा­ना­मा­भा­स­त्वा­न्म­मे­न्द्रि­या­णीति भेदप्रतिपत्तेः स्वप्ने चक्षु­रा­दी­न्द्रि­य­व्य­व­हा­रा­भा­वे­प्य­ह­मि­त्या­त्मनि परि­पू­र्ण­प्र­त्य­या­न्म­नः­स­म्ब­न्धा­भावे इन्द्रियाणां चल­ना­भा­वा­न्ने­न्द्रि­या­णा­त्मत्वं किन्तु वक्ष्य­मा­ण­श्रु­ति­यु­क्तिभ्यां सङ्कल्पवानहं विक­ल्प­वा­न­ह­मि­त्या­द्य­नु­भ­वाच्च मन आत्मेति वदन्ति । अपरे तूक्त­श्रु­ति­यु­क्त्य­नु­मा­ना­ना­मा­भा­स­त्वा­न्मम मन इति भेदप्रतीतेरहं मन इत्यप्रतीतेः कर्तृभावे कर­ण­श­क्त्य­भा­वाच्च मनसो नात्मत्वं किन्तु वक्ष्य­मा­ण­श्रु­ति­यु­क्ति­भ्या­महं कर्ता भोक्ते­त्या­द्य­नु­भ­वाच्च बुद्धिरात्मेति वदन्ति । इतरे तूक्त­श्रु­ति­यु­क्त्य­नु­भ­वा­ना­मा­भा­स­त्वा­न्मम बुद्धिरिति प्रतीतेरहं बुद्धि­रि­त्य­प्र­ती­तेर्न बुद्धेरात्मत्वं किन्तु वक्ष्य­मा­ण­श्रु­ति­यु­क्तिभ्यां सुषुप्तौ नान्यदस्त्येव नाहमप्यासमिति व्युत्थितजनस्य सर्वा­भा­व­प­रा­म­र्शा­नु­भ­वाच्च शून्यमात्मेति वदन्ति । अन्ये तूक्त­श्रु­ति­यु­क्त्य­नु­भ­वा­ना­मा­भा­स­त्वा­त्सु­ख­म­ह­म­स्वाप्सं न किञ्चि­द­वे­दि­ष­मिति व्युत्थितस्य परा­म­र्शा­न्य­था­नु­प­पत्त्या सुषु­प्ता­व­ज्ञा­ना­दि­सा­क्षि­त्वेन परि­पू­र्णा­त्म­प्र­त्य­या­ङ्गी­का­रा­द­ह­मु­ल्ले­खि­प्र­त्य­भि­ज्ञा­नाच्च न शून्य­स्या­त्मत्वं किन्तु वक्ष्य­मा­ण­श्रुतेः मम­प्र­त्य­या­ल­म्ब­न­स्या­ह­मु­ल्ले­ख­मा­नस्य शरीरादेः भोक्तृ­त्वा­द्य­नु­प­प­त्ति­रू­प­युक्तेः कर्ता भोक्ते­त्या­द्य­नु­भ­वाच्च देहादिभ्यो व्यतिरिक्तः कर्ता भोक्ता प्रत्य­भि­ज्ञा­नात् स्थिरः आत्मेति वदन्ति । अपरे तु कर्तृत्वं हि क्रियावेशः न हि सर्वगतस्य निरवयवस्यात्मनः परि­णा­म­ल­क्ष­ण­क्रि­या­न्वयः सम्भवति । न च बुद्धेः कर्तृत्वमात्मनो भवतीति वाच्यम् । तन्मते तादा­त्म्या­ध्या­सा­भा­वात् , तस्मा­त्क­र्तृ­त्वांशे उक्त­श्रु­ति­यु­क्त्य­नु­भ­वा­ना­मा­भा­स­त्वा­च्चा­त्मनो न कर्तृत्वं किन्तु वक्ष्य­मा­ण­श्रुतेः दृश्या­व­भा­स­त्व­मा­त्रा­त्म­क­भो­क्तृ­त्वो­प­प­त्ति­रू­प­युक्तेः भोक्ते­त्य­नु­भ­वाच्च केवलं भोक्तैवात्मेति वदन्ति । अन्ये तु वक्ष्य­मा­ण­श्रुतेः सर्व­ज्ञ­त्वा­द्य­नु­प­प­त्ति­रू­प­युक्तेः नाहमीश्वरः किन्तु संसा­री­त्य­नु­भ­वाच्च भोक्तुर्जीवस्य नेश्वरत्वं किन्तु वक्ष्य­मा­ण­श्रुतेः सर्व­ज्ञ­त्वा­द्यु­प­प­त्ति­रू­प­युक्तेः ईश्व­रोऽ­स्ती­त्य­नु­भ­वाच्च देहा­दि­व्य­ति­रि­क्ता­द­हं­प्र­त्य­य­वि­ष­या­द्भो­क्तु­र्जी­वा­दन्यः सर्वस्येशिता निर­ति­श­य­त्वो­पा­धिक ईश्वर इति वदन्ति । वेदान्तिनस्तु पूर्वो­क्त­श्रु­ति­यु­क्त्य­नु­भ­वा­ना­मा­भा­स­त्वा­द्व­क्ष्य­मा­णा­बा­धि­त­श्रु­ति­यु­क्ति­भ्या­महं ब्रह्मास्मीति विद्वदनुभवाच्च प्रत्य­ग­स्थू­लोऽ­च­क्षु­र­प्रा­णोऽ­म­नोऽ­कर्ता चैतन्यं चिन्मात्रं स सदि­त्या­दि­प्र­ब­ल­श्रु­तेश्च भोक्तृ­त्वा­द्य­व­भा­सस्य मिथ्यात्वात् स्वतः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः स्वयं प्रकाशमानो जीव इति जीव­ब्र­ह्म­णो­रैक्यं वदन्ति । तस्मा­त्पु­रु­षा­र्थो­स्तीति सिद्धम् ।

’युक्ति­वा­क्य­त­दा­भा­स­स­मा­श्रया’ इति भाष्यं विभागपूर्वकं स्वम­त­प­र­म­ता­नु­सा­रेण योजयति –
तत्र युक्तीति ।
निर्दो­ष­यु­क्ति­म­बा­धि­त­श्रु­ति­वाक्यं च समाश्रया इत्यर्थः ।

’तदाभासेति’ भाष्यांशं व्याचष्टे -
अन्ये त्वित्यादिना ।

परपक्षेषु युक्तिं दर्शयति –
देहादिरिति ।

व्यतिरेकेणेति ।
यत्रा­त्म­त्वा­भा­व­स्त­त्रा­हं­प्र­त्य­य­गो­च­र­त्वा­भावः यथा घट इत्यर्थः ।

ननु परपक्षाः युक्ति­मू­ल­क­त्वा­द्ग्राह्याः स्युरित्यत आह –
इत्यादि युक्त्याभासमिति ।
आश्रिता इत्यु­त्त­रे­णा­न्वयः । युक्तिरिवाभासत इति युक्त्याभासः अनुमानाद्याभास इत्यर्थः । वस्तुतो न युक्तिरिति भावः ।

देहात्मवादे प्रमा­ण­त्वे­नोक्तां श्रुतिं पठति –
स वा एष इति ।

इन्द्रियात्ममते श्रुतिमाह –
इन्द्रियसंवाद इति ।

’ते ह वाचमूचु’रिति वाक्य­स्थ­त­च्छ­ब्दार्थं स्फोरयति –
चक्षुरादय इति ।

मनस आत्मत्वे श्रुतिमुदाहरति –
मन उवाचेति ।

विज्ञा­ना­त्म­वा­दि­मते प्रमा­ण­त्वे­नोक्तं ’कतम आत्मेति योयं विज्ञानमय’ इत्या­दि­श्रु­ति­वाक्यं दर्शयति –
योऽयमिति ।

असदात्ममते श्रुतिवाक्यं कथयति –
असदेवेति ।

कर्त्रात्ममते मन्ता बोद्धा कर्ता विज्ञानात्मेति श्रुतिं ज्ञापयति –
कर्तेति ।

कर्त्रात्ममत एवात्मनः भोक्तृत्वे प्रमा­ण­त्वे­नो­क्ता­मा­त्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­रि­त्या­दि­श्रुतिं प्रतिपादयति –
भोक्तेति ।

भोक्त्रात्ममते श्रुतिमाह –
अनश्नन्नन्य इति ।
साङ्ख्यमते ’तयोरन्यः पिप्पलं स्वाद्वत्तीति ’ कर्म­फ­ला­नु­भ­व­रू­प­भो­क्तृत्वं बुद्धेरेव नात्मनः किं’त्वन­श्न­न्नन्यो अभिचाकशीतीति’ दृश्या­व­भा­स­त्व­रू­प­भो­क्तृ­त्व­मा­त्मन इति मन्तव्यम् ।

योगिमते श्रुति­मु­प­न्य­स्यति –
आत्मानमन्तर इति ।

ननु पक्षान्तरणि श्रुति­मू­ल­क­त्वात् ग्राह्याणि स्युरित्यत आह –
वाक्याभासं चेति ।
वाक्यमिवाभासत इति वाक्याभासः पर­मा­र्थ­तोऽ­वा­क्य­म­त­त्प­र­त्वा­दि­त्यर्थः ।

ननु उक्तानां युक्तीनां श्रुतिवाक्यानां च कथ­मा­भा­स­त्व­मि­त्या­शङ्क्य देहा­दा­वा­त्म­त्व­सा­ध­का­नु­मा­नस्य सत्प्र­ति­प­क्ष­त्वे­ना­भा­सत्वं स्फोरयन् श्रुति­वा­क्या­ना­मा­भा­स­त्व­प्र­ति­पा­द­क­स्थलं स्फोरयति -
देहादिरनात्मेति ।
न्यायै­र्यु­क्त्या­भा­सत्वं सूत्रै­र्वा­क्या­भा­स­त्व­मिति विवेकः ।

विप्रतिपत्तय इति ।
विवादा इत्यर्थः ।

वस्तुगतिरिति ।
मुक्तिं प्रति ज्ञानस्यैव हेतुता ह्यन्व­य­व्य­ति­रे­क­सिद्धा न कर्मण इति विदुषां निश्चय इत्यर्थः ।

मतान्तराश्रयणे हि न केवलं मोक्षासिद्धिः किन्त्वा­त्म­ह­त्या­दि­दो­षश्च स्यादित्यनर्थं चेयादिति भाष्यं व्याख्याति –
किञ्चात्मानमिति ।

अत्र ईशवाक्यं प्रमाणयति –
ये केचेति ।
आत्मानं घ्नन्ती­त्या­त्म­हनः के ते जना ये अविद्वांसः ; लोके आत्मशब्दः प्राणत्यागे प्रसिद्धः प्रकृते प्राण­त्या­ग­स्या­नु­प­यु­क्त­त्वात् अना­त्म­द­र्श­ने­ना­त्मनो ह्यस­त्त्वा­पा­द­न­मा­त्म­ह­न­न­मु­च्यते तथा च ये ह्यविद्वांसः ते आत्महन इति भावः ।

तस्मादिति भाष्य­स्थ­हे­तो­रर्थं वक्तु­मु­प­सं­हा­र­व्या­जेन वर्णकचतुष्टये उक्तं हेतुचतुष्टयं क्रमेणानुवदति –
बन्ध­स्या­ध्य­स्त­त्वे­नेति ।

पूजितेति ।
उत्कृ­ष्टे­त्यर्थः ।

उपकरणानीति ।
सह­का­रि­का­र­णा­नी­त्यर्थः ।

आरम्भः कथं सूत्रार्थ इति शङ्का­व­ता­रा­यो­त्त­र­भाष्यं व्याख्याय ब्रह्म­जि­ज्ञा­से­त्या­दि­पू­र्व­भा­ष्य­म­व­ता­र­यति –
ननु सूत्र इति ।

भूषणमिति ।
’अल्पा­क्ष­र­म­स­न्दिग्धं सार­व­द्वि­श्व­तो­मु­ख’मि­त्या­दि­श्र­व­णा­द्भू­ष­ण­मिति भावः ।

न पश्याम इति ।
यदुक्तं तदसङ्गतं सूत्र­मू­ल­स्या­र­म्भ­का­न्त­रस्य श्रवणविधेः सत्त्वादिति ।

द्विती­य­प­क्ष­म­व­लम्ब्य परिहरति –
उच्यत इति ।
इदं सूत्रमित्यर्थः । इदं शास्त्रमिति पाठे­प्य­य­मे­वार्थः । नास्त्य­ध्य­य­न­वि­धा­वा­र­म्भ­का­न्त­रा­पेक्षा वेद­स्या­पौ­रु­षे­य­त्वा­दिति भावः ॥ १ ॥