पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
४ परिच्छेदः
प्रथमवर्णके विषयप्रयोजने आक्षिप्य तत्सद्भावसाधनेन विचारकर्तव्यता समर्थिता सम्प्रति पुनस्ते सम्बन्धं चाक्षिप्य तत्साधनद्वारा तत्कर्तव्यतां साधयितुं व्यवहितं वृत्तमनुवदन् वर्णकान्तरपरत्वेन भाष्यमवतारयति –
प्रथमवर्णक इति ।
अधिकरणमारचयति –
ब्रह्मप्रसिद्धीति ।
तर्ह्यज्ञातत्वेति ।
प्रत्यक्षादिना यदज्ञातं वस्तु तत्प्रतिपाद्यं सद्विषयो भवति ज्ञातेऽर्थे हि शास्त्रमकिञ्चित्करं भवति तस्मात् ज्ञातस्य ब्रह्मणः शास्त्रेणाप्रतिपाद्यत्वाद्विषयत्वं नास्तीति भावः ।
’यदि प्रसिद्ध’मित्यादिभाष्यस्य विषयप्रयोजनाक्षेपे मुख्यतात्पर्यमुक्त्वा ’अथाप्रसिद्ध’मित्यादिभाष्यस्य सम्बन्धप्रयोजनाक्षेपे मुख्यतात्पर्यमाह –
अथाज्ञातमिति ।
इति ज्ञानानुत्पत्तेरिति ।
ब्रह्मणः अप्रतिपाद्यत्वेन सम्बन्धस्याप्रसिद्धत्वादखण्डब्रह्मसाक्षात्कारस्यानुत्पत्तेरित्यर्थः । ज्ञानं प्रति वेदान्तविचारस्य हेतुत्वेन विचारात्प्रागापातज्ञानमपि नास्तीति पूर्वपक्षग्रन्थार्थः ।
अनधीतसाङ्गस्वाध्यायस्य पुरुषस्य विचारात्प्रागापातज्ञानासम्भवेप्यधीतस्वाङ्गस्वाध्यायस्य पुरुषस्य विचारात्प्रागापातज्ञानं सम्भवत्येव तथा च निश्चयं प्रति विचारस्य हेतुत्वं न ज्ञानं प्रतीति सिद्धान्ततात्पर्यमाह –
आपातप्रसिध्येति ।
वेदान्तानामपरोक्षनिश्चायकत्वेपि वादिभिरन्यथान्यथार्थस्य प्रतिपादितत्वाद्वेदान्तेभ्यो जायमानं ज्ञानमप्रामाण्यशङ्काकलङ्कितस्वरूपापातं भवति । तथा चापातज्ञानविषयत्वेन ब्रह्मणः प्रसिद्धिरापातप्रसिद्धिस्तयेत्यर्थः ।
व्याकरणाद्बृहत्वाद्ब्रह्मेति व्युत्पत्त्या सर्वोत्कृष्टत्वस्वरूपं निरवधिकमहत्त्वाभिन्नं व्यापकं निश्चीयते तच्च सर्वोत्कष्टत्वरूपव्यापकत्वं नित्यशुद्धबुद्धमुक्तत्वादिकमन्तरा सर्वज्ञत्वसर्वशक्तित्वादिकमन्तरा च न सम्भवति तस्माद्बृहत्वाद्ब्रह्मेति व्युत्पत्त्यैव सर्वोत्कृष्टलाभार्थं नित्यशुद्धत्वादिकं सर्वज्ञत्वादिकं च प्रतीयते तथा च व्युत्पाद्यमानब्रह्मशब्देन सगुणं निर्गुणं च ब्रह्म प्रसिद्धमित्येतमर्थं स्फुटीकर्तुं शङ्कासमाधानाभ्यामुत्तरभाष्यमवतारयति –
ननु केन मानेन ब्रह्मण इत्यादिना शक्तिमत्त्वलाभादित्यन्तेन ।
सङ्गतिग्रहेति ।
शक्तिग्रहेत्यर्थः ।
ब्रह्मपदव्युत्पत्त्येति ।
व्यापकत्वरूपाद्बृहत्वाद्ब्रह्मेति ब्रह्मपदव्युत्पत्त्यनुसरणेनेत्यर्थः ।
ननु जातिजीवकमलासनवेदेभ्यो विलक्षणे निरतिशयपुरुषार्थे मुमुक्षोर्जिज्ञासायोग्ये वस्तुनि ब्रह्मपदव्युत्पत्त्यापि ब्रह्मशब्दस्य कथं वृत्तिरित्याशङ्क्याह –
अस्यार्थ इति ।
नन्वेवमपि यत्किञ्चिदापेक्षिकमहत्त्वविशिष्टं वस्त्ववगम्यतामित्यत आह –
सा च वृद्धिरिति ।
निरवधिकमहत्त्वं सर्वतो निरवग्रहमहत्त्वमित्यर्थः । सर्वोत्कृष्टत्वमिति यावत् ।
सङ्कोचकाभावादिति ।
उपपदं प्रकरणादिकं वा सङ्कोचकं, तदभावादित्यर्थः । यथा बृहद्घट इत्यत्र घटपदसमभिव्याहारादापेक्षिकं बृहत्वं प्रतीयते, तद्वदत्र किमपि सङ्कोचकं न प्रतीयते प्रत्युतासङ्कोचक एव, अनन्तपदसहप्रयोगरूपज्ञापकं चास्ति तथा च निरतिशयमहत्त्वसम्पन्नं वस्तु ब्रह्मशब्दार्थ इति भावः ।
ननु नित्यत्वादयो गुणाः न ब्रह्मशब्दार्थोपयोगिनः अतस्ते कथं ब्रह्मशब्देनावगम्यन्ते तथा च नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्त इति भाष्यं कथमित्याशङ्क्य गुणतोऽपकृष्टस्य वस्तुनः अल्पत्वबुद्धिदर्शनान्नित्यत्वादिगुणाः ब्रह्मपदार्थोपयोगित्वेन प्रतीयन्त एवेत्याह –
निरवधिकमहत्त्वं चेति ।
अन्तवत्त्वमनित्यत्वम् । आदिशब्देनाशुद्धत्वादिकं गृह्यते ।
अल्पत्वेति ।
वस्तुनोल्पत्वं नाम देशकालवस्तुपरिच्छेद इत्यर्थः ।
लोके गुणहीनं दोषभूयिष्ठं वस्तु अल्पमिति मन्यते गुणभूयिष्ठं दोषहीनं वस्तु महदिति मन्यते तस्माद्ब्रह्मवस्तुनः अल्पत्वनिराकरणेन गुणतो महत्त्वसम्पादनाय बृहत्त्वाद्ब्रह्मेति व्युत्पत्यैव नित्यत्वादयः प्रतीयन्त इत्याह –
अत इति ।
बृहत्वबृंह्मणत्वयोरेकार्थत्वमभिप्रेत्याह –
बृंहणत्वादिति ।
कल्पतरुकारैस्तु बृहत्वं व्यापकत्वं बृंहणत्वं शरीरादिपरिणामरूपवृद्धिहेतुत्वमिति तयोर्भेदः उक्तः । अस्मिन् ग्रन्थे सा च वृद्धिरित्याद्युपक्रमानुसारेण तयोरभेद एव ग्रन्थकाराभिप्रेत इति तदभिप्रायेणेदं व्याख्यातमिति भावः । शुद्धत्वं व्युत्पत्त्या प्रतीयत इति पूर्वेणान्वयः ।
ननु जातिजीवकमलासनादौ ब्रह्मशब्दप्रयोगे सत्यपि नैतावानर्थः प्रतीयते कथमत्र बृहतेर्धातोरर्थानुगमादप्येतादृशस्यार्थस्य प्रतिपत्तिरित्याशङ्क्याह –
एवं सकलदोषशून्यमिति ।
नित्यत्वसर्वज्ञत्वादिविशिष्टः सगुणनिर्गुणस्वरूपः परिपूर्णोर्थः ब्रह्मपदव्युत्पत्त्या प्रसिद्धः सन् निर्बाधं प्रतीयते जात्यादौ तु सङ्कोचकस्य सत्त्वान्नैतादृशोर्थः प्रतीयत इति भावः ।
तथेति ।
यथा व्युत्पत्यनुसरणात् निर्गुणं प्रसिद्धं तथा सगुणमपि तस्मादेव प्रसिद्धमिति भावः ।
तत्पदवाच्यस्य चेतनस्यापि सर्वविषयज्ञानाभावे सर्वकार्यनियमनशक्त्यभावे च प्रोच्यमाने सति कस्यचिदर्थस्य ज्ञानाभावात्कस्यचित्कार्यस्य उत्पादनशक्त्यभावाच्चापकर्षप्राप्त्या अल्पत्वं स्यात्तद्व्यावृत्त्यर्थं सर्वज्ञत्वादिकं वक्तव्यमित्याह –
ज्ञेयस्य कार्यस्य चापरिशेष इति ।
कस्यचिज्ज्ञेयस्य वस्तुनः ईश्वरज्ञानाविषयत्वं कस्यचित्कार्यस्य वा ईश्वरशक्त्यविषयत्वमित्यर्थः । ज्ञेयस्य परिशेषः ज्ञानाविषयत्वं कार्यस्य परिशेषः शक्त्यविषयत्वमिति भेदः ।
अल्पत्वप्रसङ्गेनेति ।
ईश्वरस्याल्पत्वप्रसङ्गेनेत्यर्थः ।
भाष्ये -
बृहतेर्धातोरिति ।
बृहतेर्धातोर्योर्थः परिपूर्णरूपः तेनानुगमात्सम्बन्धान्नित्यत्वादीनामित्यर्थः । नित्यत्वादयः धात्वर्थेन परपूर्णवस्तुना सह सम्बन्धसत्त्वाद्ब्रह्मशब्देन प्रतीयन्त इति भावः ।
सर्वस्यात्मत्वाच्चेति ।
ब्रह्मण इति शेष इति केचित् ।
व्याख्याने -
एवमिति ।
उक्तरीत्येत्यर्थः । तत्पदात्प्रसिद्धेरित्यादिग्रन्थः स्पष्टार्थः ।
न प्रत्येतीति नेति ।
न जानातीति यत्तन्नेत्यर्थः । अविचार्यत्वं प्राप्तमित्यर्थ इत्यतः प्राक्तनग्रन्थस्त्वतिरोहितार्थः ।
आपातप्रसिद्ध्या विषयादिसिद्धिः साधिता सम्प्रति विशेषाप्रसिद्ध्यापि तां साधयतीत्यवतारयति –
यथेदं रजतमिति ।
यथा इदं रजतमितीदन्त्वेन सामान्यरूपेण शुक्तेः प्रसिद्धिः तथा अहमस्मीत्यात्मत्वसामान्यधर्मपुरस्कारेण ब्रह्मणः प्रसिद्धिरस्ति न त्वशनायाद्यतीतत्वादिविशेषरूपेण धर्मेण इति भावः ।
वाच्यभेदादिति ।
सत्यपदं मुख्यामुख्यसत्स्वरूपब्रह्माकाशशबलरूपे सत्ये व्युत्पन्नम् , ज्ञानपदं चैतन्यान्तःकरणवृत्तिरूपमुख्यामुख्यज्ञानद्वयशबलरूपे ज्ञाने व्युत्पन्नम् , आनन्दपदं च प्रत्यग्ब्रह्मबुद्धिवृत्तिरूपमुख्यामुख्यानन्दद्वयशबलरूपे आनन्दे व्युत्पन्नम् , एवं नित्यशुद्धबुद्धमुक्तादीन्यपि पदानि मुख्यामुख्यतत्तदद्वयशबलरूपे तस्मिन् व्युत्पन्नानीति द्रष्टव्यम् । अत्र सत्यता त्रिविधा मुख्यनिष्ठाऽमुख्यनिष्ठा शबलनिष्ठा चेति । एतत्सर्वं सङ्क्षेपशारीरके सर्वज्ञात्ममुनिभिः विस्तरेणोपपादितम् , तथा च शबलरूपं सत्यं सत्यपदवाच्यार्थः । अत्र सत्यत्वं सामान्यधर्मः मुख्यामुख्यशबलनिष्ठसत्यत्वादि विशेषधर्मः । एवं जीवेश्वरोभयरूपात्मा आत्मपदवाच्यार्थः । अत्रात्मत्वं सामान्यधर्मः जीवात्मत्वं परमात्मत्वमुभयनिष्ठात्मत्वं चेति त्रयो विशेषधर्माः । तथा मुख्यब्रह्म – कमलासनाद्यमुख्यब्रह्म उभयरूपब्रह्मेति ब्रह्मत्रयं तथा चोभयरूपं ब्रह्म ब्रह्मपदवाच्यार्थः । अत्र ब्रह्मत्वं सामान्यधर्मः मुख्यामुख्योभयनिष्ठब्रह्मत्वादि विशेषधर्माः । सर्वत्र मुख्यब्रह्मरूपं शुद्धचैतन्यं लक्ष्यार्थः अत एव सत्यादिपदानां न पर्यायता लक्ष्यार्थाभेदेऽपि वाच्यार्थानां भिन्नत्वात् तथा च वाच्यार्थभेदादेव ब्रह्मात्मनि सामान्यधर्मः विशेषधर्मश्च सिद्ध्यति । एवं सति अहमस्मीति सत्यचैतन्यरूपात्मत्वेन सामान्यधर्मेणात्मत्वप्रसिद्धिरस्ति न तु ब्रह्माहमस्मीति लक्ष्यार्थशुद्धचैतन्यरूपाखण्डब्रह्मनिष्ठमुख्यब्रह्मत्वेन विशेषधर्मेण अन्यथा वादिनां विप्रतिपत्तिर्न स्यादिति भावः ।
भाष्ये -
विप्रतिपत्तेरिति ।
विरुद्धा हि प्रतिपत्तिः तस्या इत्यर्थः । देहमात्रमिति मात्रशब्देन देहातिरिक्तं स्वतन्त्रचैतन्यं नास्तीत्युच्यते ।
आत्मेति ।
अहंप्रत्ययालम्बनमित्यर्थः । लोकायतिकाश्चार्वाका इत्यर्थः ।
इन्द्रियाण्येवेति ।
इन्द्रियाणां चक्षुरादिमनःपर्यन्तानां चेतनत्वमहंप्रत्ययविषयत्वरूपात्मत्वं च मन्यन्त इत्यर्थः ।
मन इत्यन्य इति ।
मनसः चेतनत्वमात्मत्वं च मन्यन्त इत्यर्थः ।
विज्ञानमात्रमिति ।
प्रत्यभिज्ञानिर्वाहाय क्षणिकविज्ञानसन्ततिरेवाहंप्रत्ययालम्बनरूपात्मेति मन्यन्त इत्यर्थः ।
शून्यमिति ।
असत्स्वरूप एवात्मेति मन्यन्त इत्यर्थः ।
अस्ति तद्व्यतिरिक्त इति ।
जीवव्यतिरिक्तोस्तीत्यर्थः ।
आत्मा स इति ।
सः ईश्वरः भोक्तुर्जीवस्य आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।
विप्रतिपन्ना इति ।
विरुद्धप्रतिपत्तिमापन्ना इत्यर्थः ।
तदाभासेति ।
अत्र तच्छब्देन युक्तिवाक्ये गृह्येते ।
यत्किञ्चित्प्रतिपद्यमाना इति ।
अन्त्यात्पक्षादर्वाचीनं कञ्चित्पक्षं प्राप्यमाणा इत्यर्थः ।
व्याख्याने –
विप्रतिपत्तीरुपन्यस्यतीति ।
अत्र विरुद्धार्थप्रतिपादकं वाक्यं विप्रतिपत्तिशब्दार्थः ।
तार्किकादीति ।
आदिशब्देन प्राभाकरादयो गृह्यन्ते । विप्रतिपत्तिकोटित्वेन देहेन्द्रियेति । संशयरूपविप्रतिपत्तिप्रथमकोटित्वेन देहेन्द्रियेत्यर्थः ।
अकर्तापीति ।
अकर्तापि जीव इत्यर्थः ।
निरतिशयसत्त्वमिति ।
निरतिशयसत्त्वोपाधिकः जीवातिरिक्तः ईश्वर इति वदन्तीति भावः । निरतिशयसत्त्वरूपो गुणः योगिमते पारमार्थिकसत्यः सिद्धान्ते तु मायारूपत्वेन असत्य इति मतयोर्भेदः ।
स ईश्वर इति ।
योगिमतप्रसिद्ध ईश्वर इत्यर्थः ।
प्रतीकमादायात्मपदस्यार्थमाह –
आत्मास्वरूपमिति ।
सोपाधिकतया जीवस्य भोक्तृत्वं कर्तृत्वं च वर्तते स्वतस्त्वभोक्तृत्वमकर्तृत्वं साक्षित्वं च तथा च जीवातिरिक्तो नेश्वर इति जीवब्रह्मणोरैक्यं वेदान्तिनो वदन्तीति भावः ।
विप्रतिपत्तीनामिति ।
पक्षान्तराणामित्यर्थः ।
तासां विप्रतिपत्तीनां सुखबोधार्थमेव हि ।
प्रपञ्चोपि निरासश्च सङ्ग्रहेणोच्यते मया ॥
तथाहि केचित्तु वक्ष्यमाणश्रुतियुक्तिभ्यां स्थूलोऽहं कृशोहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदन्ति । केचित्तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्मम शरीरमिति भेदप्रतीतेरिन्द्रियाणामभावे शरीरचलनाभावान्न शरीरस्यात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां काणोऽहं बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाणामात्मत्वत्वमिति वदन्ति । अन्ये तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्ममेन्द्रियाणीति भेदप्रतिपत्तेः स्वप्ने चक्षुरादीन्द्रियव्यवहाराभावेप्यहमित्यात्मनि परिपूर्णप्रत्ययान्मनःसम्बन्धाभावे इन्द्रियाणां चलनाभावान्नेन्द्रियाणात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां सङ्कल्पवानहं विकल्पवानहमित्याद्यनुभवाच्च मन आत्मेति वदन्ति । अपरे तूक्तश्रुतियुक्त्यनुमानानामाभासत्वान्मम मन इति भेदप्रतीतेरहं मन इत्यप्रतीतेः कर्तृभावे करणशक्त्यभावाच्च मनसो नात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यामहं कर्ता भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदन्ति । इतरे तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्मम बुद्धिरिति प्रतीतेरहं बुद्धिरित्यप्रतीतेर्न बुद्धेरात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां सुषुप्तौ नान्यदस्त्येव नाहमप्यासमिति व्युत्थितजनस्य सर्वाभावपरामर्शानुभवाच्च शून्यमात्मेति वदन्ति । अन्ये तूक्तश्रुतियुक्त्यनुभवानामाभासत्वात्सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति व्युत्थितस्य परामर्शान्यथानुपपत्त्या सुषुप्तावज्ञानादिसाक्षित्वेन परिपूर्णात्मप्रत्ययाङ्गीकारादहमुल्लेखिप्रत्यभिज्ञानाच्च न शून्यस्यात्मत्वं किन्तु वक्ष्यमाणश्रुतेः ममप्रत्ययालम्बनस्याहमुल्लेखमानस्य शरीरादेः भोक्तृत्वाद्यनुपपत्तिरूपयुक्तेः कर्ता भोक्तेत्याद्यनुभवाच्च देहादिभ्यो व्यतिरिक्तः कर्ता भोक्ता प्रत्यभिज्ञानात् स्थिरः आत्मेति वदन्ति । अपरे तु कर्तृत्वं हि क्रियावेशः न हि सर्वगतस्य निरवयवस्यात्मनः परिणामलक्षणक्रियान्वयः सम्भवति । न च बुद्धेः कर्तृत्वमात्मनो भवतीति वाच्यम् । तन्मते तादात्म्याध्यासाभावात् , तस्मात्कर्तृत्वांशे उक्तश्रुतियुक्त्यनुभवानामाभासत्वाच्चात्मनो न कर्तृत्वं किन्तु वक्ष्यमाणश्रुतेः दृश्यावभासत्वमात्रात्मकभोक्तृत्वोपपत्तिरूपयुक्तेः भोक्तेत्यनुभवाच्च केवलं भोक्तैवात्मेति वदन्ति । अन्ये तु वक्ष्यमाणश्रुतेः सर्वज्ञत्वाद्यनुपपत्तिरूपयुक्तेः नाहमीश्वरः किन्तु संसारीत्यनुभवाच्च भोक्तुर्जीवस्य नेश्वरत्वं किन्तु वक्ष्यमाणश्रुतेः सर्वज्ञत्वाद्युपपत्तिरूपयुक्तेः ईश्वरोऽस्तीत्यनुभवाच्च देहादिव्यतिरिक्तादहंप्रत्ययविषयाद्भोक्तुर्जीवादन्यः सर्वस्येशिता निरतिशयत्वोपाधिक ईश्वर इति वदन्ति । वेदान्तिनस्तु पूर्वोक्तश्रुतियुक्त्यनुभवानामाभासत्वाद्वक्ष्यमाणाबाधितश्रुतियुक्तिभ्यामहं ब्रह्मास्मीति विद्वदनुभवाच्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमनोऽकर्ता चैतन्यं चिन्मात्रं स सदित्यादिप्रबलश्रुतेश्च भोक्तृत्वाद्यवभासस्य मिथ्यात्वात् स्वतः नित्यशुद्धबुद्धमुक्तस्वभावः स्वयं प्रकाशमानो जीव इति जीवब्रह्मणोरैक्यं वदन्ति । तस्मात्पुरुषार्थोस्तीति सिद्धम् ।
’युक्तिवाक्यतदाभाससमाश्रया’ इति भाष्यं विभागपूर्वकं स्वमतपरमतानुसारेण योजयति –
तत्र युक्तीति ।
निर्दोषयुक्तिमबाधितश्रुतिवाक्यं च समाश्रया इत्यर्थः ।
’तदाभासेति’ भाष्यांशं व्याचष्टे -
अन्ये त्वित्यादिना ।
परपक्षेषु युक्तिं दर्शयति –
देहादिरिति ।
व्यतिरेकेणेति ।
यत्रात्मत्वाभावस्तत्राहंप्रत्ययगोचरत्वाभावः यथा घट इत्यर्थः ।
ननु परपक्षाः युक्तिमूलकत्वाद्ग्राह्याः स्युरित्यत आह –
इत्यादि युक्त्याभासमिति ।
आश्रिता इत्युत्तरेणान्वयः । युक्तिरिवाभासत इति युक्त्याभासः अनुमानाद्याभास इत्यर्थः । वस्तुतो न युक्तिरिति भावः ।
देहात्मवादे प्रमाणत्वेनोक्तां श्रुतिं पठति –
स वा एष इति ।
इन्द्रियात्ममते श्रुतिमाह –
इन्द्रियसंवाद इति ।
’ते ह वाचमूचु’रिति वाक्यस्थतच्छब्दार्थं स्फोरयति –
चक्षुरादय इति ।
मनस आत्मत्वे श्रुतिमुदाहरति –
मन उवाचेति ।
विज्ञानात्मवादिमते प्रमाणत्वेनोक्तं ’कतम आत्मेति योयं विज्ञानमय’ इत्यादिश्रुतिवाक्यं दर्शयति –
योऽयमिति ।
असदात्ममते श्रुतिवाक्यं कथयति –
असदेवेति ।
कर्त्रात्ममते मन्ता बोद्धा कर्ता विज्ञानात्मेति श्रुतिं ज्ञापयति –
कर्तेति ।
कर्त्रात्ममत एवात्मनः भोक्तृत्वे प्रमाणत्वेनोक्तामात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुरित्यादिश्रुतिं प्रतिपादयति –
भोक्तेति ।
भोक्त्रात्ममते श्रुतिमाह –
अनश्नन्नन्य इति ।
साङ्ख्यमते ’तयोरन्यः पिप्पलं स्वाद्वत्तीति ’ कर्मफलानुभवरूपभोक्तृत्वं बुद्धेरेव नात्मनः किं’त्वनश्नन्नन्यो अभिचाकशीतीति’ दृश्यावभासत्वरूपभोक्तृत्वमात्मन इति मन्तव्यम् ।
योगिमते श्रुतिमुपन्यस्यति –
आत्मानमन्तर इति ।
ननु पक्षान्तरणि श्रुतिमूलकत्वात् ग्राह्याणि स्युरित्यत आह –
वाक्याभासं चेति ।
वाक्यमिवाभासत इति वाक्याभासः परमार्थतोऽवाक्यमतत्परत्वादित्यर्थः ।
ननु उक्तानां युक्तीनां श्रुतिवाक्यानां च कथमाभासत्वमित्याशङ्क्य देहादावात्मत्वसाधकानुमानस्य सत्प्रतिपक्षत्वेनाभासत्वं स्फोरयन् श्रुतिवाक्यानामाभासत्वप्रतिपादकस्थलं स्फोरयति -
देहादिरनात्मेति ।
न्यायैर्युक्त्याभासत्वं सूत्रैर्वाक्याभासत्वमिति विवेकः ।
विप्रतिपत्तय इति ।
विवादा इत्यर्थः ।
वस्तुगतिरिति ।
मुक्तिं प्रति ज्ञानस्यैव हेतुता ह्यन्वयव्यतिरेकसिद्धा न कर्मण इति विदुषां निश्चय इत्यर्थः ।
मतान्तराश्रयणे हि न केवलं मोक्षासिद्धिः किन्त्वात्महत्यादिदोषश्च स्यादित्यनर्थं चेयादिति भाष्यं व्याख्याति –
किञ्चात्मानमिति ।
अत्र ईशवाक्यं प्रमाणयति –
ये केचेति ।
आत्मानं घ्नन्तीत्यात्महनः के ते जना ये अविद्वांसः ; लोके आत्मशब्दः प्राणत्यागे प्रसिद्धः प्रकृते प्राणत्यागस्यानुपयुक्तत्वात् अनात्मदर्शनेनात्मनो ह्यसत्त्वापादनमात्महननमुच्यते तथा च ये ह्यविद्वांसः ते आत्महन इति भावः ।
तस्मादिति भाष्यस्थहेतोरर्थं वक्तुमुपसंहारव्याजेन वर्णकचतुष्टये उक्तं हेतुचतुष्टयं क्रमेणानुवदति –
बन्धस्याध्यस्तत्वेनेति ।
पूजितेति ।
उत्कृष्टेत्यर्थः ।
उपकरणानीति ।
सहकारिकारणानीत्यर्थः ।
आरम्भः कथं सूत्रार्थ इति शङ्कावतारायोत्तरभाष्यं व्याख्याय ब्रह्मजिज्ञासेत्यादिपूर्वभाष्यमवतारयति –
ननु सूत्र इति ।
भूषणमिति ।
’अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुख’मित्यादिश्रवणाद्भूषणमिति भावः ।
न पश्याम इति ।
यदुक्तं तदसङ्गतं सूत्रमूलस्यारम्भकान्तरस्य श्रवणविधेः सत्त्वादिति ।
द्वितीयपक्षमवलम्ब्य परिहरति –
उच्यत इति ।
इदं सूत्रमित्यर्थः । इदं शास्त्रमिति पाठेप्ययमेवार्थः । नास्त्यध्ययनविधावारम्भकान्तरापेक्षा वेदस्यापौरुषेयत्वादिति भावः ॥ १ ॥